The Mahabharata in Sanskrit. Parallel Devanagari and Romanization.
The Mahabharata in Sanskrit
Book 1
Chapter 1
|
0
नारायणं नमस्कृत्य नरं चैव नरॊत्तमम देवीं सरस्वतीं चैव ततॊ जयम उदीरयेत 1 लॊमहर्षणपुत्र उग्रश्रवाः सूतः पौराणिकॊ नैमिषारण्ये शौनकस्य कुलपतेर दवादशवार्षिके सत्रे 2 समासीनान अभ्यगच्छद बरह्मर्षीन संशितव्रतान विनयावनतॊ भूत्वा कदा चित सूतनन्दनः 3 तम आश्रमम अनुप्राप्तं नैमिषारण्यवासिनः चित्राः शरॊतुं कथास तत्र परिवव्रुस तपस्विनः 4 अभिवाद्य मुनींस तांस तु सर्वान एव कृताञ्जलिः अपृच्छत स तपॊवृद्धिं सद्भिश चैवाभिनन्दितः 5 अथ तेषूपविष्टेषु सर्वेष्व एव तपस्विषु निर्दिष्टम आसनं भेजे विनयाल लॊमहर्षणिः 6 सुखासीनं ततस तं तु विश्रान्तम उपलक्ष्य च अथापृच्छद ऋषिस तत्र कश चित परस्तावयन कथाः 7 कृत आगम्यते सौते कव चायं विहृतस तवया कालः कमलपत्राक्ष शंसैतत पृच्छतॊ मम 8 [सूत] जनमेजयस्य राजर्षेः सर्पसत्रे महात्मनः समीपे पार्थिवेन्द्रस्य सम्यक पारिक्षितस्य च 9 कृष्णद्वैपायन परॊक्ताः सुपुण्या विविधाः कथाः कथिताश चापि विधिवद या वैशम्पायनेन वै 10 शरुत्वाहं ता विचित्रार्था महाभारत संश्रिताः बहूनि संपरिक्रम्य तीर्थान्य आयतनानि च 11 समन्तपञ्चकं नाम पुण्यं दविजनिषेवितम गतवान अस्मि तं देशं युद्धं यत्राभवत पुरा पाण्डवानां कुरूणां च सर्वेषां च महीक्षिताम 12 दिदृक्षुर आगतस तस्मात समीपं भवताम इह आयुष्मन्तः सर्व एव बरह्मभूता हि मे मताः 13 अस्मिन यज्ञे महाभागाः सूर्यपावक वर्चसः कृताभिषेकाः शुचयः कृतजप्या हुताग्नयः भवन्त आसते सवस्था बरवीमि किम अहं दविजाः 14 पुराणसंश्रिताः पुण्याः कथा वा धर्मसंश्रिताः इतिवृत्तं नरेन्द्राणाम ऋषीणां च महात्मनाम 15 [रसयह] दवैपायनेन यत परॊक्तं पुराणं परमर्षिणा सुरैर बरह्मर्षिभिश चैव शरुत्वा यद अभिपूजितम 16 तस्याख्यान वरिष्ठस्य विचित्रपदपर्वणः सूक्ष्मार्थ नयाययुक्तस्य वेदार्थैर भूषितस्य च 17 भारतस्येतिहासस्य पुण्यां गरन्थार्थ संयुताम संस्कारॊपगतां बराह्मीं नानाशास्त्रॊपबृंहिताम 18 जनमेजयस्य यां राज्ञॊ वैशम्पायन उक्तवान यथावत स ऋषिस तुष्ट्या सत्रे दवैपायनाज्ञया 19 वेदैश चतुर्भिः समितां वयासस्याद्भुत कर्मणः संहितां शरॊतुम इच्छामॊ धर्म्यां पापभयापहाम 20 [सूत] आद्यं पुरुषम ईशानं पुरुहूतं पुरु षटुतम ऋतम एकाक्षरं बरह्म वयक्ताव्यक्तं सनातनम 21 असच च सच चैव च यद विश्वं सद असतः परम परावराणां सरष्टारं पुराणं परम अव्ययम 22 मङ्गल्यं मङ्गलं विष्णुं वरेण्यम अनघं शुचिम नमस्कृत्य हृषीकेशं चराचरगुरुं हरिम 23 महर्षेः पूजितस्येह सर्वलॊके महात्मनः परवक्ष्यामि मतं कृत्स्नं वयासस्यामित तेजसः 24 आचख्युः कवयः के चित संप्रत्याचक्षते परे आख्यास्यन्ति तथैवान्ये इतिहासम इमं भुवि 25 इदं तु तरिषु लॊकेषु महज जञानं परतिष्ठितम विस्तरैश च समासैश च धार्यते यद दविजातिभिः 26 अलंकृतं शुभैः शब्दैः समयैर दिव्यमानुषैः छन्दॊ वृत्तैश च विविधैर अन्वितं विदुषां परियम 27 निष्प्रभे ऽसमिन निरालॊके सर्वतस तमसावृते बृहद अण्डम अभूद एकं परजानां बीजम अक्षयम 28 युगस्यादौ निमित्तं तन महद दिव्यं परचक्षते यस्मिंस तच छरूयते सत्यं जयॊतिर बरह्म सनातनम 29 अद्भुतं चाप्य अचिन्त्यं च सर्वत्र समतां गतम अव्यक्तं कारणं सूक्ष्मं यत तत सदसद आत्मकम 30 यस्मात पितामहॊ जज्ञे परभुर एकः परजापतिः बरह्मा सुरगुरुः सथाणुर मनुः कः परमेष्ठ्य अथ 31 पराचेतसस तथा दक्षॊ दष्क पुत्राश च सप्त ये ततः परजानां पतयः पराभवन्न एकविंशतिः 32 पुरुषश चाप्रमेयात्मा यं सर्वम ऋषयॊ विदुः विश्वे देवास तथादित्या वसवॊ ऽथाश्विनाव अपि 33 यक्षाः साध्याः पिशाचाश च गुह्यकाः पितरस तथा ततः परसूता विद्वांसः शिष्टा बरह्मर्षयॊ ऽमलाः 34 राजर्षयश च बहवः सर्वैः समुदिता गुणैः आपॊ दयौः पृथिवी वायुर अन्तरिक्षं दिशस तथा 35 संवत्सरर्तवॊ मासाः पक्षाहॊ रात्रयः करमात यच चान्यद अपि तत सर्वं संभूतं लॊकसाक्षिकम 36 यद इदं दृश्यते किं चिद भूतं सथावरजङ्गमम पुनः संक्षिप्यते सर्वं जगत पराप्ते युगक्षये 37 यथर्ताव ऋतुलिङ्गानि नानारूपाणि पर्यये दृश्यन्ते तानि तान्य एव तथा भावा युगादिषु 38 एवम एतद अनाद्य अन्तं भूतसंहार कारकम अनादि निधनं लॊके चक्रं संपरिवर्तते 39 तरयस तरिंशत सहस्राणि तरयस तरिंशच छतानि च तरयस तरिंशच च देवानां सृष्टिः संक्षेप लक्षणा 40 दिवः पुत्रॊ बृहद भानुश चक्षुर आत्मा विभावसुः सविता च ऋचीकॊ ऽरकॊ भानुर आशा वहॊ रविः 41 पुत्रा विवस्वतः सर्वे मह्यस तेषां तथावरः देव भराट तनयस तस्य तस्मात सुभ्राड इति समृतः 42 सुभ्राजस तु तरयः पुत्राः परजावन्तॊ बहुश्रुताः दश जयॊतिः शतज्यॊतिः सहस्रज्यॊतिर आत्मवान 43 दश पुत्रसहस्राणि दश जयॊतेर महात्मनः ततॊ दशगुणाश चान्ये शतज्यॊतेर इहात्मजाः 44 भूयस ततॊ दशगुणाः सहस्रज्यॊतिषः सुताः तेभ्यॊ ऽयं कुरुवंशश च यदूनां भरतस्य च 45 ययातीक्ष्वाकु वंशश च राजर्षीणां च सर्वशः संभूता बहवॊ वंशा भूतसर्गाः सविस्तराः 46 भूतस्थानानि सर्वाणि रहस्यं विविधं च यत वेद यॊगं सविज्ञानं धर्मॊ ऽरथः काम एव च 47 धर्मकामार्थ शास्त्राणि शास्त्राणि विविधानि च लॊकयात्रा विधानं च संभूतं दृष्टवान ऋषिः 48 इतिहासाः सवैयाख्या विविधाः शरुतयॊ ऽपि च इह सर्वम अनुक्रान्तम उक्तं गरन्थस्य लक्षणम 49 विस्तीर्यैतन महज जञानम ऋषिः संक्षेपम अब्रवीत इष्टं हि विदुषां लॊके समास वयास धारणम 50 मन्वादि भारतं के चिद आस्तीकादि तथापरे तथॊपरिचराद्य अन्ये विप्राः सम्यग अधीयते 51 विविधं संहिता जञानं दीपयन्ति मनीषिणः वयाख्यातुं कुशलाः के चिद गरन्थं धारयितुं परे 52 तपसा बरह्मचर्येण वयस्य वेदं सनातनम इतिहासम इमं चक्रे पुण्यं सत्यवती सुतः 53 पराशरात्मजॊ विद्वान बरह्मर्षिः संशितव्रतः मातुर नियॊगाद धर्मात्मा गाङ्गेयस्य च धीमतः 54 कषेत्रे विचित्रवीर्यस्य कृष्णद्वैपायनः पुरा तरीन अग्नीन इव कौरव्याञ जनयाम आस वीर्यवान 55 उत्पाद्य धृतराष्ट्रं च पाण्डुं विदुरम एव च जगाम तपसे धीमान पुनर एवाश्रमं परति 56 तेषु जातेषु वृद्धेषु गतेषु परमां गतिम अब्रवीद भारतं लॊके मानुषे ऽसमिन महान ऋषिः 57 जनमेजयेन पृष्टः सन बराह्मणैश च सहस्रशः शशास शिष्यम आसीनं वैशम्पायनम अन्तिके 58 स सदस्यैः सहासीनः शरावयाम आस भारतम कर्मान्तरेषु यज्ञस्य चॊद्यमानः पुनः पुनः 59 विस्तरं कुरुवंशस्य गान्धार्या धर्मशीलताम कषत्तुः परज्ञां धृतिं कुन्त्याः सम्यग दवैपायनॊ ऽबरवीत 60 वासुदेवस्य माहात्म्यं पाण्डवानां च सत्यताम दुर्वृत्तं धार्तराष्ट्राणाम उक्तवान भगवान ऋषिः 61 चतुर्विंशतिसाहस्रीं चक्रे भारत संहिताम उपाख्यानैर विना तावद भारतं परॊच्यते बुधैः 62 ततॊ ऽधयर्धशतं भूयः संक्षेपं कृतवान ऋषिः अनुक्रमणिम अध्यायं वृत्तान्तानां सपर्वणाम 63 इदं दवैपायनः पूर्वं पुत्रम अध्यापयच छुकम ततॊ ऽनयेभ्यॊ ऽनुरूपेभ्यः शिष्येभ्यः परददौ परभुः 64 नारदॊ ऽशरावयद देवान असितॊ देवलः पितॄन गन्धर्वयक्षरक्षांसि शरावयाम आस वै शुकः 65 दुर्यॊधनॊ मन्युमयॊ महाद्रुमः; सकन्धः कर्णः शकुनिस तस्य शाखाः दुःशासनः पुष्पफले समृद्धे; मूलं राजा धृतराष्ट्रॊ ऽमनीषी 66 युधिष्ठिरॊ धर्ममयॊ महाद्रुमः; सकन्धॊ ऽरजुनॊ भीमसेनॊ ऽसय शाखाः माद्री सुतौ पुष्पफले समृद्धे; मूलं कृष्णॊ बरह्म च बराह्मणाश च 67 पाण्डुर जित्वा बहून देशान युधा विक्रमणेन च अरण्ये मृगया शीलॊ नयवसत सजनस तदा 68 मृगव्यवाय निधने कृच्छ्रां पराप स आपदम जन्मप्रभृति पार्थानां तत्राचार विधिक्रमः 69 मात्रॊर अभ्युपपत्तिश च धर्मॊपनिषदं परति धर्मस्य वायॊः शक्रस्य देवयॊश च तथाश्विनॊः 70 तापसैः सह संवृद्धा मातृभ्यां परिरक्षिताः मेध्यारण्येषु पुण्येषु महताम आश्रमेषु च 71 ऋषिभिश च तदानीता धार्तराष्ट्रान परति सवयम शिशवश चाभिरूपाश च जटिला बरह्मचारिणः 72 पुत्राश च भरातरश चेमे शिष्याश च सुहृदश च वः पाण्डवा एत इत्य उक्त्वा मुनयॊ ऽनतर्हितास ततः 73 तांस तैर निवेदितान दृष्ट्वा पाण्डवान कौरवास तदा शिष्टाश च वर्णाः पौरा ये ते हर्षाच चुक्रुशुर भृशम 74 आहुः के चिन न तस्यैते तस्यैत इति चापरे यदा चिरमृतः पाण्डुः कथं तस्येति चापरे 75 सवागतं सर्वथा दिष्ट्या पाण्डॊः पश्याम संततिम उच्यतां सवागतम इति वाचॊ ऽशरूयन्त सर्वशः 76 तस्मिन्न उपरते शब्दे दिशः सर्वा विनादयन अन्तर्हितानां भूतानां निस्वनस तुमुलॊ ऽभवत 77 पुष्पवृष्टिं शुभा गन्धाः शङ्खदुन्दुभिनिस्वनाः आसन परवेशे पार्थानां तद अद्भुतम इवाभवत 78 तत परीत्या चैव सर्वेषां पौराणां हर्षसंभवः शब्द आसीन महांस तत्र दिवस्पृक कीर्तिवर्धनः 79 ते ऽपय अधीत्याखिलान वेदाञ शास्त्राणि विविधानि च नयवसन पाण्डवास तत्र पूजिता अकुतॊभयाः 80 युधिष्ठिरस्य शौचेन परीताः परकृतयॊ ऽभवन धृत्या च भीमसेनस्य विक्रमेणार्जुनस्य च 81 गुरुशुश्रूषया कुन्त्या यमयॊर विनयेन च तुतॊष लॊकः सकलस तेषां शौर्यगुणेन च 82 समवाये ततॊ राज्ञां कन्यां भर्तृस्वयंवराम पराप्तवान अर्जुनः कृष्णां कृत्वा कर्म सुदुष्करम 83 ततः परभृति लॊके ऽसमिन पूज्यः सर्वधनुष्मताम आदित्य इव दुष्प्रेक्ष्यः समरेष्व अपि चाभवत 84 स सर्वान पार्थिवाञ जित्वा सर्वांश च महतॊ गणान आजहारार्जुनॊ राज्ञे राजसूयं महाक्रतुम 85 अन्नवान दक्षिणावांश च सर्वैः समुदितॊ गुणैः युधिष्ठिरेण संप्राप्तॊ राजसूयॊ महाक्रतुः 86 सुनयाद वासुदेवस्य भीमार्जुनबलेन च घातयित्वा जरासंधं चैद्यं च बलगर्वितम 87 दुर्यॊधनम उपागच्छन्न अर्हणानि ततस ततः मणिकाञ्चनरत्नानि गॊहस्त्यश्वधनानि च 88 समृद्धां तां तथा दृष्ट्वा पाण्डवानां तदा शरियम ईर्ष्या समुत्थः सुमहांस तस्य मन्युर अजायत 89 विमानप्रतिमां चापि मयेन सुकृतां सभाम पाण्डवानाम उपहृतां स दृष्ट्वा पर्यतप्यत 90 यत्रावहसितश चासीत परस्कन्दन्न इव संभ्रमात परत्यक्षं वासुदेवस्य भीमेनानभिजातवत 91 स भॊगान विविधान भुञ्जन रत्नानि विविधानि च कथितॊ धृतराष्ट्रस्य विवर्णॊ हरिणः कृशः 92 अन्वजानाद अतॊ दयूतं धृतराष्ट्रः सुतप्रियः तच छरुत्वा वासुदेवस्य कॊपः समभवन महान 93 नातिप्रीति मनाश चासीद विवादांश चान्वमॊदत दयूतादीन अनयान घॊरान परवृद्धांश चाप्य उपैक्षत 94 निरस्य विदुरं दरॊणं भीष्मं शारद्वतं कृपम विग्रहे तुमुले तस्मिन्न अहन कषत्रं परस्परम 95 जयत्सु पाण्डुपुत्रेषु शरुत्वा सुमहद अप्रियम दुर्यॊधन मतं जञात्वा कर्णस्य शकुनेस तथा धृतराष्ट्रश चिरं धयात्वा संजयं वाक्यम अब्रवीत 96 शृणु संजय मे सर्वं न मे ऽसूयितुम अर्हसि शरुतवान असि मेधावी बुद्धिमान पराज्ञसंमतः 97 न विग्रहे मम मतिर न च परीये कुरु कषये न मे विशेषः पुत्रेषु सवेषु पाण्डुसुतेषु च 98 वृद्धं माम अभ्यसूयन्ति पुत्रा मन्युपरायणाः अहं तव अचक्षुः कार्पण्यात पुत्र परीत्या सहामि तत मुह्यन्तं चानुमुह्यामि दुर्यॊधनम अचेतनम 99 राजसूये शरियं दृष्ट्वा पाण्डवस्य महौजसः तच चावहसनं पराप्य सभारॊहण दर्शने 100 अमर्षितः सवयं जेतुम अशक्तः पाण्डवान रणे निरुत्साहश च संप्राप्तुं शरियम अक्षत्रियॊ यथा गान्धारराजसहितश छद्म दयूतम अमन्त्रयत 101 तत्र यद यद यथा जञातं मया संजय तच छृणु शरुत्वा हि मम वाक्यानि बुद्ध्या युक्तानि तत्त्वतः ततॊ जञास्यसि मां सौते परज्ञा चक्षुषम इत्य उत 102 यदाश्रौषं धनुर आयम्य चित्रं; विद्धं लक्ष्यं पातितं वै पृथिव्याम कृष्णां हृतां पश्यतां सर्वराज्ञां; तदा नाशंसे विजयाय संजय 103 यदाश्रौषं दवारकायां सुभद्रां; परसह्यॊढां माधवीम अर्जुनेन इन्द्रप्रस्थं वृष्णिवीरौ च यातौ; तदा नाशंसे विजयाय संजय 104 यदाश्रौषं देवराजं परवृष्टं; शरैर दिव्यैर वारितं चार्जुनेन अग्निं तथा तर्पितं खाण्डवे च; तदा नाशंसे विजयाय संजय 105 यदाश्रौषं हृतराज्यं युधिष्ठिरं; पराजितं सौबलेनाक्षवत्याम अन्वागतं भरातृभिर अप्रमेयैस; तदा नाशंसे विजयाय संजय 106 यदाश्रौषं दरौपदीम अश्रुकण्ठीं; सभां नीतां दुःखिताम एकवस्त्राम रजस्वलां नाथवतीम अनाथवत; तदा नाशंसे विजयाय संजय 107 यदाश्रौषं विविधास तात चेष्टा; धर्मात्मनां परस्थितानां वनाय जयेष्ठप्रीत्या कलिश्यतां पाण्डवानां; तदा नाशंसे विजयाय संजय 108 यदाश्रौषं सनातकानां सहस्रैर; अन्वागतं धर्मराजं वनस्थम भिक्षाभुजां बराह्मणानां महात्मनां; तदा नाशंसे विजयाय संजय 109 यदाश्रौषम अर्जुनॊ देवदेवं; किरात रूपं तर्यम्बकं तॊष्य युद्धे अवाप तत पाशुपतं महास्त्रं; तदा नाशंसे विजयाय संजय 110 यदाश्रौषं तरिदिवस्थं धनंजयं; शक्रात साक्षाद दिव्यम अस्त्रं यथावत अधीयानं शंसितं सत्यसंधं; तदा नाशंसे विजयाय संजय 111 यदाश्रौषं वैश्रवणेन सार्धं; समागतं भीमम अन्यांश च पार्थान तस्मिन देशे मानुषाणाम अगम्ये; तदा नाशंसे विजयाय संजय 112 यदाश्रौषं घॊषयात्रा गतानां; बन्धं गन्धर्वैर मॊक्षणं चार्जुनेन सवेषां सुतानां कर्ण बुद्धौ रतानां; तदा नाशंसे विजयाय संजय 113 यदाश्रौषं यक्षरूपेण धर्मं; समागतं धर्मराजेन सूत परश्नान उक्तान विब्रुवन्तं च सम्यक; तदा नाशंसे विजयाय संजय 114 यदाश्रौषं मामकानां वरिष्ठान; धनंजयेनैक रथेन भग्नान विराट राष्ट्रे वसता महात्मना; तदा नाशंसे विजयाय संजय 115 यदाश्रौषं सत्कृतां मत्स्यराज्ञा; सुतां दत्ताम उत्तराम अर्जुनाय तां चार्जुनः परत्यगृह्णात सुतार्थे; तदा नाशंसे विजयाय संजय 116 यदाश्रौषं निर्जितस्याधनस्य; परव्राजितस्य सवजनात परच्युतस्य अक्षौहिणीः सप्त युधिष्ठिरस्य; तदा नाशंसे विजयाय संजय 117 यदाश्रौषं नरनारायणौ तौ; कृष्णार्जुनौ वदतॊ नारदस्य अहं दरष्टा बरह्मलॊके सदेति; तदा नाशंसे विजयाय संजय 118 यदाश्रौषं माधवं वासुदेवं; सर्वात्मना पाण्डवार्थे निविष्टम यस्येमां गां विक्रमम एकम आहुस; तदा नाशंसे विजयाय संजय 119 यदाश्रौषं कर्णदुर्यॊधनाभ्यां; बुद्धिं कृतां निग्रहे केशवस्य तं चात्मानं बहुधा दर्शयानं; तदा नाशंसे विजयाय संजय 120 यदाश्रौषं वासुदेवे परयाते; रथस्यैकाम अग्रतस तिष्ठमानाम आर्तां पृथां सान्त्वितां केशवेन; तदा नाशंसे विजयाय संजय 121 यदाश्रौषं मन्त्रिणं वासुदेवं; तथा भीष्मं शांतनवं च तेषाम भारद्वाजं चाशिषॊ ऽनुब्रुवाणं; तदा नाशंसे विजयाय संजय 122 यदाश्रौषं कर्ण उवाच भीष्मं; नाहं यॊत्स्ये युध्यमाने तवयीति हित्वा सेनाम अपचक्राम चैव; तदा नाशंसे विजयाय संजय 123 यदाश्रौषं वासुदेवार्जुनौ तौ; तथा धनुर गाण्डिवम अप्रमेयम तरीण्य उग्रवीर्याणि समागतानि; तदा नाशंसे विजयाय संजय 124 यदाश्रौषं कश्मलेनाभिपन्ने; रथॊपस्थे सीदमाने ऽरजुने वै कृष्णं लॊकान दर्शयानं शरीरे; तदा नाशंसे विजयाय संजय 125 यदाश्रौषं भीष्मम अमित्रकर्शनं; निघ्नन्तम आजाव अयुतं रथानाम नैषां कश चिद वध्यते दृश्यरूपस; तदा नाशंसे विजयाय संजय 126 यदाश्रौषं भीष्मम अत्यन्तशूरं; हतं पार्थेनाहवेष्व अप्रधृष्यम शिखण्डिनं पुरतः सथापयित्वा; तदा नाशंसे विजयाय संजय 127 यदाश्रौषं शरतल्पे शयानं; वृद्धं वीरं सादितं चित्रपुङ्खैः भीष्मं कृत्वा सॊमकान अल्पशेषांस; तदा नाशंसे विजयाय संजय 128 यदाश्रौषं शांतनवे शयाने; पानीयार्थे चॊदितेनार्जुनेन भूमिं भित्त्वा तर्पितं तत्र भीष्मं; तदा नाशंसे विजयाय संजय 129 यदाश्रौषं शुक्रसूर्यौ च युक्तौ; कौन्तेयानाम अनुलॊमौ जयाय नित्यं चास्माञ शवापदा वयाभषन्तस; तदा नाशंसे विजयाय संजय 130 यदा दरॊणॊ विविधान अस्त्रमार्गान; विदर्शयन समरे चित्रयॊधी न पाण्डवाञ शरेष्ठतमान निहन्ति; तदा नाशंसे विजयाय संजय 131 यदाश्रौषं चास्मदीयान महारथान; वयवस्थितान अर्जुनस्यान्तकाय संसप्तकान निहतान अर्जुनेन; तदा नाशंसे विजयाय संजय 132 यदाश्रौषं वयूहम अभेद्यम अन्यैर; भारद्वाजेनात्त शस्त्रेण गुप्तम भित्त्वा सौभद्रं वीरम एकं परविष्टं; तदा नाशंसे विजयाय संजय 133 यदाभिमन्युं परिवार्य बालं; सर्वे हत्वा हृष्टरूपा बभूवुः महारथाः पार्थम अशक्नुवन्तस; तदा नाशंसे विजयाय संजय 134 यदाश्रौषम अभिमन्युं निहत्य; हर्षान मूढान करॊशतॊ धार्तराष्ट्रान करॊधं मुक्तं सैन्धवे चार्जुनेन; तदा नाशंसे विजयाय संजय 135 यदाश्रौषं सैन्धवार्थे परतिज्ञां; परतिज्ञातां तद वधायार्जुनेन सत्यां निस्तीर्णां शत्रुमध्ये च; तेन तदा नाशंसे विजयाय संजय 136 यदाश्रौषं शरान्तहये धनंजये; मुक्त्वा हयान पाययित्वॊपवृत्तान पुनर युक्त्वा वासुदेवं परयातं; तदा नाशंसे विजयाय संजय 137 यदाश्रौषं वाहनेष्व आश्वसत्सु; रथॊपस्थे तिष्ठता गाण्डिवेन सर्वान यॊधान वारितान अर्जुनेन; तदा नाशंसे विजयाय संजय 138 यदाश्रौषं नागबलैर दुरुत्सहं; दरॊणानीकं युयुधानं परमथ्य यातं वार्ष्णेयं यत्र तौ कृष्ण पार्थौ; तदा नाशंसे विजयाय संजय 139 यदाश्रौषं कर्णम आसाद्य मुक्तं; वधाद भीमं कुत्सयित्वा वचॊभिः धनुष्कॊट्या तुद्य कर्णेन वीरं; तदा नाशंसे विजयाय संजय 140 यदा दरॊणः कृतवर्मा कृपश च; कर्णॊ दरौणिर मद्रराजश च शूरः अमर्षयन सैन्धवं वध्यमानं; तदा नाशंसे विजयाय संजय 141 यदाश्रौषं देवराजेन दत्तां; दिव्यां शक्तिं वयंसितां माधवेन घटॊत्कचे राक्षसे घॊररूपे; तदा नाशंसे विजयाय संजय 142 यदाश्रौषं कर्ण घटॊत्कचाभ्यां; युद्धे मुक्तां सूतपुत्रेण शक्तिम यया वध्यः समरे सव्यसाची; तदा नाशंसे विजयाय संजय 143 यदाश्रौषं दरॊणम आचार्यम एकं; धृष्टद्युम्नेनाभ्यतिक्रम्य धर्मम रथॊपस्थे परायगतं विशस्तं; तदा नाशंसे विजयाय संजय 144 यदाश्रौषं दरौणिना दवैरथस्थं; माद्रीपुत्रं नकुलं लॊकमध्ये समं युद्धे पाण्डवं युध्यमानं; तदा नाशंसे विजयाय संजय 145 यदा दरॊणे निहते दरॊणपुत्रॊ; नारायणं दिव्यम अस्त्रं विकुर्वन नैषाम अन्तं गतवान पाण्डवानां; तदा नाशंसे विजयाय संजय 146 यदाश्रौषं कर्णम अत्यन्तशूरं; हतं पार्थेनाहवेष्व अप्रधृष्यम तस्मिन भरातॄणां विग्रहे देव गुह्ये; तदा नाशंसे विजयाय संजय 147 यदाश्रौषं दरॊणपुत्रं कृपं च; दुःशासनं कृतवर्माणम उग्रम युधिष्ठिरं शून्यम अधर्षयन्तं; तदा नाशंसे विजयाय संजय 148 यदाश्रौषं निहतं मद्रराजं; रणे शूरं धर्मराजेन सूत सदा संग्रामे सपर्धते यः स कृष्णं; तदा नाशंसे विजयाय संजय 149 यदाश्रौषं कलहद्यूतमूलं; मायाबलं सौबलं पाण्डवेन हतं संग्रामे सहदेवेन पापं; तदा नाशंसे विजयाय संजय 150 यदाश्रौषं शरान्तम एकं शयानं; हरदं गत्वा सतम्भयित्वा तद अम्भः दुर्यॊधनं विरथं भग्नदर्पं; तदा नाशंसे विजयाय संजय 151 यदाश्रौषं पाण्डवांस तिष्ठमानान; गङ्गा हरदे वासुदेवेन सार्धम अमर्षणं धर्षयतः सुतं मे; तदा नाशंसे विजयाय संजय 152 यदाश्रौषं विविधांस तात मार्गान; गदायुद्धे मण्डलं संचरन्तम मिथ्या हतं वासुदेवस्य बुद्ध्या; तदा नाशंसे विजयाय संजय 153 यदाश्रौषं दरॊणपुत्रादिभिस तैर; हतान पाञ्चालान दरौपदेयांश च सुप्तान कृतं बीभत्समय शस्यं च कर्म; तदा नाशंसे विजयाय संजय 154 यदाश्रौषं भीमसेनानुयातेन; अश्वत्थाम्ना परमास्त्रं परयुक्तम करुद्धेनैषीकम अवधीद येन गर्भं; तदा नाशंसे विजयाय संजय 155 यदाश्रौषं बरह्मशिरॊ ऽरजुनेन मुक्तं; सवस्तीत्य अस्त्रम अस्त्रेण शान्तम अश्वत्थाम्ना मणिरत्नं च दत्तं; तदा नाशंसे विजयाय संजय 156 यदाश्रौषं दरॊणपुत्रेण गर्भे; वैराट्या वै पात्यमाने महास्त्रे दवैपायनः केशवॊ दरॊणपुत्रं; परस्परेणाभिशापैः शशाप 157 शॊच्या गान्धारी पुत्रपौत्रैर विहीना; तथा वध्वः पितृभिर भरातृभिश च कृतं कार्यं दुष्करं पाण्डवेयैः; पराप्तं राज्यम असपत्नं पुनस तैः 158 कष्टं युद्धे दश शेषाः शरुता मे; तरयॊ ऽसमाकं पाण्डवानां च सप्त दव्यूना विंशतिर आहताक्षौहिणीनां; तस्मिन संग्रामे विग्रहे कषत्रियाणाम 159 तमसा तव अभ्यवस्तीर्णॊ मॊह आविशतीव माम संज्ञां नॊपलभे सूत मनॊ विह्वलतीव मे 160 इत्य उक्त्वा धृतराष्ट्रॊ ऽथ विलप्य बहुदुःखितः मूर्च्छितः पुनर आश्वस्तः संजयं वाक्यम अब्रवीत 161 संजयैवं गते पराणांस तयक्तुम इच्छामि माचिरम सतॊकं हय अपि न पश्यामि फलं जीवितधारणे 162 तं तथा वादिनं दीनं विलपन्तं महीपतिम गावल्गणिर इदं धीमान महार्थं वाक्यम अब्रवीत 163 शरुतवान असि वै राज्ञॊ महॊत्साहान महाबलान दवैपायनस्य वदतॊ नारदस्य च धीमतः 164 महत्सु राजवंशेषु गुणैः समुदितेषु च जातान दिव्यास्त्रविदुषः शक्र परतिमतेजसः 165 धर्मेण पृथिवीं जित्वा यज्ञैर इष्ट्वाप्त दक्षिणैः अस्मिँल लॊके यशः पराप्य ततः कालवशं गताः 166 वैन्यं महारथं वीरं सृञ्जयं जयतां वरम सुहॊत्रं रन्ति देवं च कक्षीवन्तं तथौशिजम 167 बाह्लीकं दमनं शैब्यं शर्यातिम अजितं जितम विश्वामित्रम अमित्रघ्नम अम्बरीषं महाबलम 168 मरुत्तं मनुम इक्ष्वाकुं गयं भरतम एव च रामं दाशरथिं चैव शशबिन्दुं भगीरथम 169 ययातिं शुभकर्माणं देवैर यॊ याजितः सवयम चैत्ययूपाङ्किता भूमिर यस्येयं सवनाकरा 170 इति राज्ञां चतुर्विंशन नारदेन सुरर्षिणा पुत्रशॊकाभितप्ताय पुरा शैब्याय कीर्तिताः 171 तेभ्यश चान्ये गताः पूर्वं राजानॊ बलवत्तराः महारथा महात्मानः सर्वैः समुदिता गुणैः 172 पूरुः कुरुर यदुः शूरॊ विष्वग अश्वॊ महाधृतिः अनेना युवनाश्वश च ककुत्स्थॊ विक्रमी रघुः 173 विजिती वीति हॊत्रश च भवः शवेतॊ बृहद गुरुः उशीनरः शतरथः कङ्कॊ दुलिदुहॊ दरुमः 174 दम्भॊद्भवः परॊ वेनः सगरः संकृतिर निमिः अजेयः परशुः पुण्ड्रः शम्भुर देवावृधॊ ऽनघः 175 देवाह्वयः सुप्रतिमः सुप्रतीकॊ बृहद्रथः महॊत्साहॊ विनीतात्मा सुक्रतुर नैषधॊ नलः 176 सत्यव्रतः शान्तभयः सुमित्रः सुबलः परभुः जानु जङ्घॊ ऽनरण्यॊ ऽरकः परिय भृत्यः शुभव्रतः 177 बलबन्धुर निरामर्दः केतुशृङ्गॊ बृहद्बलः धृष्टकेतुर बृहत केतुर दीप्तकेतुर निरामयः 178 अविक्षित परबलॊ धूर्तः कृतबन्धुर दृढेषुधिः महापुराणः संभाव्यः परत्यङ्गः परहा शरुतिः 179 एते चान्ये च बहवः शतशॊ ऽथ सहस्रशः शरूयन्ते ऽयुतशश चान्ये संख्याताश चापि पद्मशः 180 हित्वा सुविपुलान भॊगान बुद्धिमन्तॊ महाबलाः राजानॊ निधनं पराप्तास तव पुत्रैर महत्तमाः 181 येषां दिव्यानि कर्माणि विक्रमस तयाग एव च माहात्म्यम अपि चास्तिक्यं सत्यता शौचम आर्जवम 182 विद्वद्भिः कथ्यते लॊके पुराणैः कवि सत्तमैः सर्वर्द्धि गुणसंपन्नास ते चापि निधनं गताः 183 तव पुत्रा दुरात्मानः परतप्ताश चैव मन्युना लुब्धा दुर्वृत्त भूयिष्ठा न ताञ शॊचितुम अर्हसि 184 शरुतवान असि मेधावी बुद्धिमान पराज्ञसंमतः येषां शास्त्रानुगा बुद्धिर न ते मुह्यन्ति भारत 185 निग्रहानुग्रहौ चापि विदितौ ते नराधिप नात्यन्तम एवानुवृत्तिः शरूयते पुत्र रक्षणे 186 भवितव्यं तथा तच च नातः शॊचितुम अर्हसि दैवं परज्ञा विशेषेण कॊ निवर्तितुम अर्हति 187 विधातृविहितं मार्गं न कश चिद अतिवर्तते कालमूलम इदं सर्वं भावाभावौ सुखासुखे 188 कालः पचति भूतानि कालः संहरति परजाः निर्दहन्तं परजाः कालं कालः शमयते पुनः 189 कालॊ विकुरुते भावान सर्वाँल लॊके शुभाशुभान कालः संक्षिपते सर्वाः परजा विसृजते पुनः कालः सर्वेषु भूतेषु चरत्य अविधृतः समः 190 अतीतानागता भावा ये च वर्तन्ति सांप्रतम तान कालनिर्मितान बुद्ध्वा न संज्ञां हातुम अर्हसि 191 [स] अत्रॊपनिषदं पुण्यां कृष्णद्वैपायनॊ ऽबरवीत भारताध्ययनात पुण्याद अपि पादम अधीयतः शरद्दधानस्य पूयन्ते सर्वपापान्य अशेषतः 192 देवर्षयॊ हय अत्र पुण्या बरह्म राजर्षयस तथा कीर्त्यन्ते शुभकर्माणस तथा यक्षमहॊरगाः 193 भगवान वासुदेवश च कीर्त्यते ऽतर सनातनः स हि सत्यम ऋतं चैव पवित्रं पुण्यम एव च 194 शाश्वतं बरह्म परमं धरुवं जयॊतिः सनातनम यस्य दिव्यानि कर्माणि कथयन्ति मनीषिणः 195 असत सत सद असच चैव यस्माद देवात परवर्तते संततिश च परवृत्तिश च जन्ममृत्युः पुनर्भवः 196 अध्यात्मं शरूयते यच च पञ्च भूतगुणात्मकम अव्यक्तादि परं यच च स एव परिगीयते 197 यत तद यति वरा युक्ता धयानयॊगबलान्विताः परतिबिम्बम इवादर्शे पश्यन्त्य आत्मन्य अवस्थितम 198 शरद्दधानः सदॊद्युक्तः सत्यधर्मपरायणः आसेवन्न इमम अध्यायं नरः पापात परमुच्यते 199 अनुक्रमणिम अध्यायं भारतस्येमम आदितः आस्तिकः सततं शृण्वन न कृच्छ्रेष्व अवसीदति 200 उभे संध्ये जपन किं चित सद्यॊ मुच्येत किल्बिषात अनुक्रमण्या यावत सयाद अह्ना रात्र्या च संचितम 201 भारतस्य वपुर हय एतत सत्यं चामृतम एव च नव नीतं यथा दध्नॊ दविपदां बराह्मणॊ यथा 202 हरदानाम उदधिः शरेष्ठॊ गौर वरिष्ठा चतुष्पदाम यथैतानि वरिष्ठानि तथा भरतम उच्यते 203 यश चैनं शरावयेच छराद्धे बराह्मणान पादम अन्ततः अक्षय्यम अन्नपानं तत पितॄंस तस्यॊपतिष्ठति 204 इतिहास पुराणाभ्यां वेदं समुपबृंहयेत बिभेत्य अल्पश्रुताद वेदॊ माम अयं परतरिष्यति 205 कार्ष्णं वेदम इमं विद्वाञ शरावयित्वार्थम अश्नुते भरूण हत्या कृतं चापि पापं जह्यान न संशयः 206 य इमं शुचिर अध्यायं पठेत पर्वणि पर्वणि अधीतं भारतं तेन कृत्स्नं सयाद इति मे मतिः 207 यश चेमं शृणुयान नित्यम आर्षं शरद्धासमन्वितः स दीर्घम आयुः कीर्तिं च सवर्गतिं चाप्नुयान नरः 208 चत्वार एकतॊ वेदा भारतं चैकम एकतः समागतैः सुरर्षिभिस तुलाम आरॊपितं पुरा महत्त्वे च गुरुत्वे च धरियमाणं ततॊ ऽधिकम 209 महत्त्वाद भारवत्त्वाच च महाभारतम उच्यते निरुक्तम अस्य यॊ वेद सर्वपापैः परमुच्यते 210 तपॊ न कल्कॊ ऽधययनं न कल्कः; सवाभाविकॊ वेद विधिर न कल्कः परसह्य वित्ताहरणं न कल्कस; तान्य एव भावॊपहतानि कल्कः |
0
nārāyaṇaṃ namaskṛtya naraṃ caiva narottamam devīṃ sarasvatīṃ caiva tato jayam udīrayet 1 lomaharṣaṇaputra ugraśravāḥ sūtaḥ paurāṇiko naimiṣāraṇye śaunakasya kulapater dvādaśavārṣike satre 2 samāsīnān abhyagacchad brahmarṣīn saṃśitavratān vinayāvanato bhūtvā kadā cit sūtanandanaḥ 3 tam āśramam anuprāptaṃ naimiṣāraṇyavāsinaḥ citrāḥ śrotuṃ kathās tatra parivavrus tapasvinaḥ 4 abhivādya munīṃs tāṃs tu sarvān eva kṛtāñjaliḥ apṛcchat sa tapovṛddhiṃ sadbhiś caivābhinanditaḥ 5 atha teṣūpaviṣṭeṣu sarveṣv eva tapasviṣu nirdiṣṭam āsanaṃ bheje vinayāl lomaharṣaṇiḥ 6 sukhāsīnaṃ tatas taṃ tu viśrāntam upalakṣya ca athāpṛcchad ṛṣis tatra kaś cit prastāvayan kathāḥ 7 kṛta āgamyate saute kva cāyaṃ vihṛtas tvayā kālaḥ kamalapatrākṣa śaṃsaitat pṛcchato mama 8 [sūta] janamejayasya rājarṣeḥ sarpasatre mahātmanaḥ samīpe pārthivendrasya samyak pārikṣitasya ca 9 kṛṣṇadvaipāyana proktāḥ supuṇyā vividhāḥ kathāḥ kathitāś cāpi vidhivad yā vaiśampāyanena vai 10 śrutvāhaṃ tā vicitrārthā mahābhārata saṃśritāḥ bahūni saṃparikramya tīrthāny āyatanāni ca 11 samantapañcakaṃ nāma puṇyaṃ dvijaniṣevitam gatavān asmi taṃ deśaṃ yuddhaṃ yatrābhavat purā pāṇḍavānāṃ kurūṇāṃ ca sarveṣāṃ ca mahīkṣitām 12 didṛkṣur āgatas tasmāt samīpaṃ bhavatām iha āyuṣmantaḥ sarva eva brahmabhūtā hi me matāḥ 13 asmin yajñe mahābhāgāḥ sūryapāvaka varcasaḥ kṛtābhiṣekāḥ śucayaḥ kṛtajapyā hutāgnayaḥ bhavanta āsate svasthā bravīmi kim ahaṃ dvijāḥ 14 purāṇasaṃśritāḥ puṇyāḥ kathā vā dharmasaṃśritāḥ itivṛttaṃ narendrāṇām ṛṣīṇāṃ ca mahātmanām 15 [rsayah] dvaipāyanena yat proktaṃ purāṇaṃ paramarṣiṇā surair brahmarṣibhiś caiva śrutvā yad abhipūjitam 16 tasyākhyāna variṣṭhasya vicitrapadaparvaṇaḥ sūkṣmārtha nyāyayuktasya vedārthair bhūṣitasya ca 17 bhāratasyetihāsasya puṇyāṃ granthārtha saṃyutām saṃskāropagatāṃ brāhmīṃ nānāśāstropabṛṃhitām 18 janamejayasya yāṃ rājño vaiśampāyana uktavān yathāvat sa ṛṣis tuṣṭyā satre dvaipāyanājñayā 19 vedaiś caturbhiḥ samitāṃ vyāsasyādbhuta karmaṇaḥ saṃhitāṃ śrotum icchāmo dharmyāṃ pāpabhayāpahām 20 [sūta] ādyaṃ puruṣam īśānaṃ puruhūtaṃ puru ṣṭutam ṛtam ekākṣaraṃ brahma vyaktāvyaktaṃ sanātanam 21 asac ca sac caiva ca yad viśvaṃ sad asataḥ param parāvarāṇāṃ sraṣṭāraṃ purāṇaṃ param avyayam 22 maṅgalyaṃ maṅgalaṃ viṣṇuṃ vareṇyam anaghaṃ śucim namaskṛtya hṛṣīkeśaṃ carācaraguruṃ harim 23 maharṣeḥ pūjitasyeha sarvaloke mahātmanaḥ pravakṣyāmi mataṃ kṛtsnaṃ vyāsasyāmita tejasaḥ 24 ācakhyuḥ kavayaḥ ke cit saṃpratyācakṣate pare ākhyāsyanti tathaivānye itihāsam imaṃ bhuvi 25 idaṃ tu triṣu lokeṣu mahaj jñānaṃ pratiṣṭhitam vistaraiś ca samāsaiś ca dhāryate yad dvijātibhiḥ 26 alaṃkṛtaṃ śubhaiḥ śabdaiḥ samayair divyamānuṣaiḥ chando vṛttaiś ca vividhair anvitaṃ viduṣāṃ priyam 27 niṣprabhe 'smin nirāloke sarvatas tamasāvṛte bṛhad aṇḍam abhūd ekaṃ prajānāṃ bījam akṣayam 28 yugasyādau nimittaṃ tan mahad divyaṃ pracakṣate yasmiṃs tac chrūyate satyaṃ jyotir brahma sanātanam 29 adbhutaṃ cāpy acintyaṃ ca sarvatra samatāṃ gatam avyaktaṃ kāraṇaṃ sūkṣmaṃ yat tat sadasad ātmakam 30 yasmāt pitāmaho jajñe prabhur ekaḥ prajāpatiḥ brahmā suraguruḥ sthāṇur manuḥ kaḥ parameṣṭhy atha 31 prācetasas tathā dakṣo daṣka putrāś ca sapta ye tataḥ prajānāṃ patayaḥ prābhavann ekaviṃśatiḥ 32 puruṣaś cāprameyātmā yaṃ sarvam ṛṣayo viduḥ viśve devās tathādityā vasavo 'thāśvināv api 33 yakṣāḥ sādhyāḥ piśācāś ca guhyakāḥ pitaras tathā tataḥ prasūtā vidvāṃsaḥ śiṣṭā brahmarṣayo 'malāḥ 34 rājarṣayaś ca bahavaḥ sarvaiḥ samuditā guṇaiḥ āpo dyauḥ pṛthivī vāyur antarikṣaṃ diśas tathā 35 saṃvatsarartavo māsāḥ pakṣāho rātrayaḥ kramāt yac cānyad api tat sarvaṃ saṃbhūtaṃ lokasākṣikam 36 yad idaṃ dṛśyate kiṃ cid bhūtaṃ sthāvarajaṅgamam punaḥ saṃkṣipyate sarvaṃ jagat prāpte yugakṣaye 37 yathartāv ṛtuliṅgāni nānārūpāṇi paryaye dṛśyante tāni tāny eva tathā bhāvā yugādiṣu 38 evam etad anādy antaṃ bhūtasaṃhāra kārakam anādi nidhanaṃ loke cakraṃ saṃparivartate 39 trayas triṃśat sahasrāṇi trayas triṃśac chatāni ca trayas triṃśac ca devānāṃ sṛṣṭiḥ saṃkṣepa lakṣaṇā 40 divaḥ putro bṛhad bhānuś cakṣur ātmā vibhāvasuḥ savitā ca ṛcīko 'rko bhānur āśā vaho raviḥ 41 putrā vivasvataḥ sarve mahyas teṣāṃ tathāvaraḥ deva bhrāṭ tanayas tasya tasmāt subhrāḍ iti smṛtaḥ 42 subhrājas tu trayaḥ putrāḥ prajāvanto bahuśrutāḥ daśa jyotiḥ śatajyotiḥ sahasrajyotir ātmavān 43 daśa putrasahasrāṇi daśa jyoter mahātmanaḥ tato daśaguṇāś cānye śatajyoter ihātmajāḥ 44 bhūyas tato daśaguṇāḥ sahasrajyotiṣaḥ sutāḥ tebhyo 'yaṃ kuruvaṃśaś ca yadūnāṃ bharatasya ca 45 yayātīkṣvāku vaṃśaś ca rājarṣīṇāṃ ca sarvaśaḥ saṃbhūtā bahavo vaṃśā bhūtasargāḥ savistarāḥ 46 bhūtasthānāni sarvāṇi rahasyaṃ vividhaṃ ca yat veda yogaṃ savijñānaṃ dharmo 'rthaḥ kāma eva ca 47 dharmakāmārtha śāstrāṇi śāstrāṇi vividhāni ca lokayātrā vidhānaṃ ca saṃbhūtaṃ dṛṣṭavān ṛṣiḥ 48 itihāsāḥ savaiyākhyā vividhāḥ śrutayo 'pi ca iha sarvam anukrāntam uktaṃ granthasya lakṣaṇam 49 vistīryaitan mahaj jñānam ṛṣiḥ saṃkṣepam abravīt iṣṭaṃ hi viduṣāṃ loke samāsa vyāsa dhāraṇam 50 manvādi bhārataṃ ke cid āstīkādi tathāpare tathoparicarādy anye viprāḥ samyag adhīyate 51 vividhaṃ saṃhitā jñānaṃ dīpayanti manīṣiṇaḥ vyākhyātuṃ kuśalāḥ ke cid granthaṃ dhārayituṃ pare 52 tapasā brahmacaryeṇa vyasya vedaṃ sanātanam itihāsam imaṃ cakre puṇyaṃ satyavatī sutaḥ 53 parāśarātmajo vidvān brahmarṣiḥ saṃśitavrataḥ mātur niyogād dharmātmā gāṅgeyasya ca dhīmataḥ 54 kṣetre vicitravīryasya kṛṣṇadvaipāyanaḥ purā trīn agnīn iva kauravyāñ janayām āsa vīryavān 55 utpādya dhṛtarāṣṭraṃ ca pāṇḍuṃ viduram eva ca jagāma tapase dhīmān punar evāśramaṃ prati 56 teṣu jāteṣu vṛddheṣu gateṣu paramāṃ gatim abravīd bhārataṃ loke mānuṣe 'smin mahān ṛṣiḥ 57 janamejayena pṛṣṭaḥ san brāhmaṇaiś ca sahasraśaḥ śaśāsa śiṣyam āsīnaṃ vaiśampāyanam antike 58 sa sadasyaiḥ sahāsīnaḥ śrāvayām āsa bhāratam karmāntareṣu yajñasya codyamānaḥ punaḥ punaḥ 59 vistaraṃ kuruvaṃśasya gāndhāryā dharmaśīlatām kṣattuḥ prajñāṃ dhṛtiṃ kuntyāḥ samyag dvaipāyano 'bravīt 60 vāsudevasya māhātmyaṃ pāṇḍavānāṃ ca satyatām durvṛttaṃ dhārtarāṣṭrāṇām uktavān bhagavān ṛṣiḥ 61 caturviṃśatisāhasrīṃ cakre bhārata saṃhitām upākhyānair vinā tāvad bhārataṃ procyate budhaiḥ 62 tato 'dhyardhaśataṃ bhūyaḥ saṃkṣepaṃ kṛtavān ṛṣiḥ anukramaṇim adhyāyaṃ vṛttāntānāṃ saparvaṇām 63 idaṃ dvaipāyanaḥ pūrvaṃ putram adhyāpayac chukam tato 'nyebhyo 'nurūpebhyaḥ śiṣyebhyaḥ pradadau prabhuḥ 64 nārado 'śrāvayad devān asito devalaḥ pitṝn gandharvayakṣarakṣāṃsi śrāvayām āsa vai śukaḥ 65 duryodhano manyumayo mahādrumaḥ; skandhaḥ karṇaḥ śakunis tasya śākhāḥ duḥśāsanaḥ puṣpaphale samṛddhe; mūlaṃ rājā dhṛtarāṣṭro 'manīṣī 66 yudhiṣṭhiro dharmamayo mahādrumaḥ; skandho 'rjuno bhīmaseno 'sya śākhāḥ mādrī sutau puṣpaphale samṛddhe; mūlaṃ kṛṣṇo brahma ca brāhmaṇāś ca 67 pāṇḍur jitvā bahūn deśān yudhā vikramaṇena ca araṇye mṛgayā śīlo nyavasat sajanas tadā 68 mṛgavyavāya nidhane kṛcchrāṃ prāpa sa āpadam janmaprabhṛti pārthānāṃ tatrācāra vidhikramaḥ 69 mātror abhyupapattiś ca dharmopaniṣadaṃ prati dharmasya vāyoḥ śakrasya devayoś ca tathāśvinoḥ 70 tāpasaiḥ saha saṃvṛddhā mātṛbhyāṃ parirakṣitāḥ medhyāraṇyeṣu puṇyeṣu mahatām āśrameṣu ca 71 ṛṣibhiś ca tadānītā dhārtarāṣṭrān prati svayam śiśavaś cābhirūpāś ca jaṭilā brahmacāriṇaḥ 72 putrāś ca bhrātaraś ceme śiṣyāś ca suhṛdaś ca vaḥ pāṇḍavā eta ity uktvā munayo 'ntarhitās tataḥ 73 tāṃs tair niveditān dṛṣṭvā pāṇḍavān kauravās tadā śiṣṭāś ca varṇāḥ paurā ye te harṣāc cukruśur bhṛśam 74 āhuḥ ke cin na tasyaite tasyaita iti cāpare yadā ciramṛtaḥ pāṇḍuḥ kathaṃ tasyeti cāpare 75 svāgataṃ sarvathā diṣṭyā pāṇḍoḥ paśyāma saṃtatim ucyatāṃ svāgatam iti vāco 'śrūyanta sarvaśaḥ 76 tasminn uparate śabde diśaḥ sarvā vinādayan antarhitānāṃ bhūtānāṃ nisvanas tumulo 'bhavat 77 puṣpavṛṣṭiṃ śubhā gandhāḥ śaṅkhadundubhinisvanāḥ āsan praveśe pārthānāṃ tad adbhutam ivābhavat 78 tat prītyā caiva sarveṣāṃ paurāṇāṃ harṣasaṃbhavaḥ śabda āsīn mahāṃs tatra divaspṛk kīrtivardhanaḥ 79 te 'py adhītyākhilān vedāñ śāstrāṇi vividhāni ca nyavasan pāṇḍavās tatra pūjitā akutobhayāḥ 80 yudhiṣṭhirasya śaucena prītāḥ prakṛtayo 'bhavan dhṛtyā ca bhīmasenasya vikrameṇārjunasya ca 81 guruśuśrūṣayā kuntyā yamayor vinayena ca tutoṣa lokaḥ sakalas teṣāṃ śauryaguṇena ca 82 samavāye tato rājñāṃ kanyāṃ bhartṛsvayaṃvarām prāptavān arjunaḥ kṛṣṇāṃ kṛtvā karma suduṣkaram 83 tataḥ prabhṛti loke 'smin pūjyaḥ sarvadhanuṣmatām āditya iva duṣprekṣyaḥ samareṣv api cābhavat 84 sa sarvān pārthivāñ jitvā sarvāṃś ca mahato gaṇān ājahārārjuno rājñe rājasūyaṃ mahākratum 85 annavān dakṣiṇāvāṃś ca sarvaiḥ samudito guṇaiḥ yudhiṣṭhireṇa saṃprāpto rājasūyo mahākratuḥ 86 sunayād vāsudevasya bhīmārjunabalena ca ghātayitvā jarāsaṃdhaṃ caidyaṃ ca balagarvitam 87 duryodhanam upāgacchann arhaṇāni tatas tataḥ maṇikāñcanaratnāni gohastyaśvadhanāni ca 88 samṛddhāṃ tāṃ tathā dṛṣṭvā pāṇḍavānāṃ tadā śriyam īrṣyā samutthaḥ sumahāṃs tasya manyur ajāyata 89 vimānapratimāṃ cāpi mayena sukṛtāṃ sabhām pāṇḍavānām upahṛtāṃ sa dṛṣṭvā paryatapyata 90 yatrāvahasitaś cāsīt praskandann iva saṃbhramāt pratyakṣaṃ vāsudevasya bhīmenānabhijātavat 91 sa bhogān vividhān bhuñjan ratnāni vividhāni ca kathito dhṛtarāṣṭrasya vivarṇo hariṇaḥ kṛśaḥ 92 anvajānād ato dyūtaṃ dhṛtarāṣṭraḥ sutapriyaḥ tac chrutvā vāsudevasya kopaḥ samabhavan mahān 93 nātiprīti manāś cāsīd vivādāṃś cānvamodata dyūtādīn anayān ghorān pravṛddhāṃś cāpy upaikṣata 94 nirasya viduraṃ droṇaṃ bhīṣmaṃ śāradvataṃ kṛpam vigrahe tumule tasminn ahan kṣatraṃ parasparam 95 jayatsu pāṇḍuputreṣu śrutvā sumahad apriyam duryodhana mataṃ jñātvā karṇasya śakunes tathā dhṛtarāṣṭraś ciraṃ dhyātvā saṃjayaṃ vākyam abravīt 96 śṛṇu saṃjaya me sarvaṃ na me 'sūyitum arhasi śrutavān asi medhāvī buddhimān prājñasaṃmataḥ 97 na vigrahe mama matir na ca prīye kuru kṣaye na me viśeṣaḥ putreṣu sveṣu pāṇḍusuteṣu ca 98 vṛddhaṃ mām abhyasūyanti putrā manyuparāyaṇāḥ ahaṃ tv acakṣuḥ kārpaṇyāt putra prītyā sahāmi tat muhyantaṃ cānumuhyāmi duryodhanam acetanam 99 rājasūye śriyaṃ dṛṣṭvā pāṇḍavasya mahaujasaḥ tac cāvahasanaṃ prāpya sabhārohaṇa darśane 100 amarṣitaḥ svayaṃ jetum aśaktaḥ pāṇḍavān raṇe nirutsāhaś ca saṃprāptuṃ śriyam akṣatriyo yathā gāndhārarājasahitaś chadma dyūtam amantrayat 101 tatra yad yad yathā jñātaṃ mayā saṃjaya tac chṛṇu śrutvā hi mama vākyāni buddhyā yuktāni tattvataḥ tato jñāsyasi māṃ saute prajñā cakṣuṣam ity uta 102 yadāśrauṣaṃ dhanur āyamya citraṃ; viddhaṃ lakṣyaṃ pātitaṃ vai pṛthivyām kṛṣṇāṃ hṛtāṃ paśyatāṃ sarvarājñāṃ; tadā nāśaṃse vijayāya saṃjaya 103 yadāśrauṣaṃ dvārakāyāṃ subhadrāṃ; prasahyoḍhāṃ mādhavīm arjunena indraprasthaṃ vṛṣṇivīrau ca yātau; tadā nāśaṃse vijayāya saṃjaya 104 yadāśrauṣaṃ devarājaṃ pravṛṣṭaṃ; śarair divyair vāritaṃ cārjunena agniṃ tathā tarpitaṃ khāṇḍave ca; tadā nāśaṃse vijayāya saṃjaya 105 yadāśrauṣaṃ hṛtarājyaṃ yudhiṣṭhiraṃ; parājitaṃ saubalenākṣavatyām anvāgataṃ bhrātṛbhir aprameyais; tadā nāśaṃse vijayāya saṃjaya 106 yadāśrauṣaṃ draupadīm aśrukaṇṭhīṃ; sabhāṃ nītāṃ duḥkhitām ekavastrām rajasvalāṃ nāthavatīm anāthavat; tadā nāśaṃse vijayāya saṃjaya 107 yadāśrauṣaṃ vividhās tāta ceṣṭā; dharmātmanāṃ prasthitānāṃ vanāya jyeṣṭhaprītyā kliśyatāṃ pāṇḍavānāṃ; tadā nāśaṃse vijayāya saṃjaya 108 yadāśrauṣaṃ snātakānāṃ sahasrair; anvāgataṃ dharmarājaṃ vanastham bhikṣābhujāṃ brāhmaṇānāṃ mahātmanāṃ; tadā nāśaṃse vijayāya saṃjaya 109 yadāśrauṣam arjuno devadevaṃ; kirāta rūpaṃ tryambakaṃ toṣya yuddhe avāpa tat pāśupataṃ mahāstraṃ; tadā nāśaṃse vijayāya saṃjaya 110 yadāśrauṣaṃ tridivasthaṃ dhanaṃjayaṃ; śakrāt sākṣād divyam astraṃ yathāvat adhīyānaṃ śaṃsitaṃ satyasaṃdhaṃ; tadā nāśaṃse vijayāya saṃjaya 111 yadāśrauṣaṃ vaiśravaṇena sārdhaṃ; samāgataṃ bhīmam anyāṃś ca pārthān tasmin deśe mānuṣāṇām agamye; tadā nāśaṃse vijayāya saṃjaya 112 yadāśrauṣaṃ ghoṣayātrā gatānāṃ; bandhaṃ gandharvair mokṣaṇaṃ cārjunena sveṣāṃ sutānāṃ karṇa buddhau ratānāṃ; tadā nāśaṃse vijayāya saṃjaya 113 yadāśrauṣaṃ yakṣarūpeṇa dharmaṃ; samāgataṃ dharmarājena sūta praśnān uktān vibruvantaṃ ca samyak; tadā nāśaṃse vijayāya saṃjaya 114 yadāśrauṣaṃ māmakānāṃ variṣṭhān; dhanaṃjayenaika rathena bhagnān virāṭa rāṣṭre vasatā mahātmanā; tadā nāśaṃse vijayāya saṃjaya 115 yadāśrauṣaṃ satkṛtāṃ matsyarājñā; sutāṃ dattām uttarām arjunāya tāṃ cārjunaḥ pratyagṛhṇāt sutārthe; tadā nāśaṃse vijayāya saṃjaya 116 yadāśrauṣaṃ nirjitasyādhanasya; pravrājitasya svajanāt pracyutasya akṣauhiṇīḥ sapta yudhiṣṭhirasya; tadā nāśaṃse vijayāya saṃjaya 117 yadāśrauṣaṃ naranārāyaṇau tau; kṛṣṇārjunau vadato nāradasya ahaṃ draṣṭā brahmaloke sadeti; tadā nāśaṃse vijayāya saṃjaya 118 yadāśrauṣaṃ mādhavaṃ vāsudevaṃ; sarvātmanā pāṇḍavārthe niviṣṭam yasyemāṃ gāṃ vikramam ekam āhus; tadā nāśaṃse vijayāya saṃjaya 119 yadāśrauṣaṃ karṇaduryodhanābhyāṃ; buddhiṃ kṛtāṃ nigrahe keśavasya taṃ cātmānaṃ bahudhā darśayānaṃ; tadā nāśaṃse vijayāya saṃjaya 120 yadāśrauṣaṃ vāsudeve prayāte; rathasyaikām agratas tiṣṭhamānām ārtāṃ pṛthāṃ sāntvitāṃ keśavena; tadā nāśaṃse vijayāya saṃjaya 121 yadāśrauṣaṃ mantriṇaṃ vāsudevaṃ; tathā bhīṣmaṃ śāṃtanavaṃ ca teṣām bhāradvājaṃ cāśiṣo 'nubruvāṇaṃ; tadā nāśaṃse vijayāya saṃjaya 122 yadāśrauṣaṃ karṇa uvāca bhīṣmaṃ; nāhaṃ yotsye yudhyamāne tvayīti hitvā senām apacakrāma caiva; tadā nāśaṃse vijayāya saṃjaya 123 yadāśrauṣaṃ vāsudevārjunau tau; tathā dhanur gāṇḍivam aprameyam trīṇy ugravīryāṇi samāgatāni; tadā nāśaṃse vijayāya saṃjaya 124 yadāśrauṣaṃ kaśmalenābhipanne; rathopasthe sīdamāne 'rjune vai kṛṣṇaṃ lokān darśayānaṃ śarīre; tadā nāśaṃse vijayāya saṃjaya 125 yadāśrauṣaṃ bhīṣmam amitrakarśanaṃ; nighnantam ājāv ayutaṃ rathānām naiṣāṃ kaś cid vadhyate dṛśyarūpas; tadā nāśaṃse vijayāya saṃjaya 126 yadāśrauṣaṃ bhīṣmam atyantaśūraṃ; hataṃ pārthenāhaveṣv apradhṛṣyam śikhaṇḍinaṃ purataḥ sthāpayitvā; tadā nāśaṃse vijayāya saṃjaya 127 yadāśrauṣaṃ śaratalpe śayānaṃ; vṛddhaṃ vīraṃ sāditaṃ citrapuṅkhaiḥ bhīṣmaṃ kṛtvā somakān alpaśeṣāṃs; tadā nāśaṃse vijayāya saṃjaya 128 yadāśrauṣaṃ śāṃtanave śayāne; pānīyārthe coditenārjunena bhūmiṃ bhittvā tarpitaṃ tatra bhīṣmaṃ; tadā nāśaṃse vijayāya saṃjaya 129 yadāśrauṣaṃ śukrasūryau ca yuktau; kaunteyānām anulomau jayāya nityaṃ cāsmāñ śvāpadā vyābhaṣantas; tadā nāśaṃse vijayāya saṃjaya 130 yadā droṇo vividhān astramārgān; vidarśayan samare citrayodhī na pāṇḍavāñ śreṣṭhatamān nihanti; tadā nāśaṃse vijayāya saṃjaya 131 yadāśrauṣaṃ cāsmadīyān mahārathān; vyavasthitān arjunasyāntakāya saṃsaptakān nihatān arjunena; tadā nāśaṃse vijayāya saṃjaya 132 yadāśrauṣaṃ vyūham abhedyam anyair; bhāradvājenātta śastreṇa guptam bhittvā saubhadraṃ vīram ekaṃ praviṣṭaṃ; tadā nāśaṃse vijayāya saṃjaya 133 yadābhimanyuṃ parivārya bālaṃ; sarve hatvā hṛṣṭarūpā babhūvuḥ mahārathāḥ pārtham aśaknuvantas; tadā nāśaṃse vijayāya saṃjaya 134 yadāśrauṣam abhimanyuṃ nihatya; harṣān mūḍhān krośato dhārtarāṣṭrān krodhaṃ muktaṃ saindhave cārjunena; tadā nāśaṃse vijayāya saṃjaya 135 yadāśrauṣaṃ saindhavārthe pratijñāṃ; pratijñātāṃ tad vadhāyārjunena satyāṃ nistīrṇāṃ śatrumadhye ca; tena tadā nāśaṃse vijayāya saṃjaya 136 yadāśrauṣaṃ śrāntahaye dhanaṃjaye; muktvā hayān pāyayitvopavṛttān punar yuktvā vāsudevaṃ prayātaṃ; tadā nāśaṃse vijayāya saṃjaya 137 yadāśrauṣaṃ vāhaneṣv āśvasatsu; rathopasthe tiṣṭhatā gāṇḍivena sarvān yodhān vāritān arjunena; tadā nāśaṃse vijayāya saṃjaya 138 yadāśrauṣaṃ nāgabalair durutsahaṃ; droṇānīkaṃ yuyudhānaṃ pramathya yātaṃ vārṣṇeyaṃ yatra tau kṛṣṇa pārthau; tadā nāśaṃse vijayāya saṃjaya 139 yadāśrauṣaṃ karṇam āsādya muktaṃ; vadhād bhīmaṃ kutsayitvā vacobhiḥ dhanuṣkoṭyā tudya karṇena vīraṃ; tadā nāśaṃse vijayāya saṃjaya 140 yadā droṇaḥ kṛtavarmā kṛpaś ca; karṇo drauṇir madrarājaś ca śūraḥ amarṣayan saindhavaṃ vadhyamānaṃ; tadā nāśaṃse vijayāya saṃjaya 141 yadāśrauṣaṃ devarājena dattāṃ; divyāṃ śaktiṃ vyaṃsitāṃ mādhavena ghaṭotkace rākṣase ghorarūpe; tadā nāśaṃse vijayāya saṃjaya 142 yadāśrauṣaṃ karṇa ghaṭotkacābhyāṃ; yuddhe muktāṃ sūtaputreṇa śaktim yayā vadhyaḥ samare savyasācī; tadā nāśaṃse vijayāya saṃjaya 143 yadāśrauṣaṃ droṇam ācāryam ekaṃ; dhṛṣṭadyumnenābhyatikramya dharmam rathopasthe prāyagataṃ viśastaṃ; tadā nāśaṃse vijayāya saṃjaya 144 yadāśrauṣaṃ drauṇinā dvairathasthaṃ; mādrīputraṃ nakulaṃ lokamadhye samaṃ yuddhe pāṇḍavaṃ yudhyamānaṃ; tadā nāśaṃse vijayāya saṃjaya 145 yadā droṇe nihate droṇaputro; nārāyaṇaṃ divyam astraṃ vikurvan naiṣām antaṃ gatavān pāṇḍavānāṃ; tadā nāśaṃse vijayāya saṃjaya 146 yadāśrauṣaṃ karṇam atyantaśūraṃ; hataṃ pārthenāhaveṣv apradhṛṣyam tasmin bhrātṝṇāṃ vigrahe deva guhye; tadā nāśaṃse vijayāya saṃjaya 147 yadāśrauṣaṃ droṇaputraṃ kṛpaṃ ca; duḥśāsanaṃ kṛtavarmāṇam ugram yudhiṣṭhiraṃ śūnyam adharṣayantaṃ; tadā nāśaṃse vijayāya saṃjaya 148 yadāśrauṣaṃ nihataṃ madrarājaṃ; raṇe śūraṃ dharmarājena sūta sadā saṃgrāme spardhate yaḥ sa kṛṣṇaṃ; tadā nāśaṃse vijayāya saṃjaya 149 yadāśrauṣaṃ kalahadyūtamūlaṃ; māyābalaṃ saubalaṃ pāṇḍavena hataṃ saṃgrāme sahadevena pāpaṃ; tadā nāśaṃse vijayāya saṃjaya 150 yadāśrauṣaṃ śrāntam ekaṃ śayānaṃ; hradaṃ gatvā stambhayitvā tad ambhaḥ duryodhanaṃ virathaṃ bhagnadarpaṃ; tadā nāśaṃse vijayāya saṃjaya 151 yadāśrauṣaṃ pāṇḍavāṃs tiṣṭhamānān; gaṅgā hrade vāsudevena sārdham amarṣaṇaṃ dharṣayataḥ sutaṃ me; tadā nāśaṃse vijayāya saṃjaya 152 yadāśrauṣaṃ vividhāṃs tāta mārgān; gadāyuddhe maṇḍalaṃ saṃcarantam mithyā hataṃ vāsudevasya buddhyā; tadā nāśaṃse vijayāya saṃjaya 153 yadāśrauṣaṃ droṇaputrādibhis tair; hatān pāñcālān draupadeyāṃś ca suptān kṛtaṃ bībhatsamaya śasyaṃ ca karma; tadā nāśaṃse vijayāya saṃjaya 154 yadāśrauṣaṃ bhīmasenānuyātena; aśvatthāmnā paramāstraṃ prayuktam kruddhenaiṣīkam avadhīd yena garbhaṃ; tadā nāśaṃse vijayāya saṃjaya 155 yadāśrauṣaṃ brahmaśiro 'rjunena muktaṃ; svastīty astram astreṇa śāntam aśvatthāmnā maṇiratnaṃ ca dattaṃ; tadā nāśaṃse vijayāya saṃjaya 156 yadāśrauṣaṃ droṇaputreṇa garbhe; vairāṭyā vai pātyamāne mahāstre dvaipāyanaḥ keśavo droṇaputraṃ; paraspareṇābhiśāpaiḥ śaśāpa 157 śocyā gāndhārī putrapautrair vihīnā; tathā vadhvaḥ pitṛbhir bhrātṛbhiś ca kṛtaṃ kāryaṃ duṣkaraṃ pāṇḍaveyaiḥ; prāptaṃ rājyam asapatnaṃ punas taiḥ 158 kaṣṭaṃ yuddhe daśa śeṣāḥ śrutā me; trayo 'smākaṃ pāṇḍavānāṃ ca sapta dvyūnā viṃśatir āhatākṣauhiṇīnāṃ; tasmin saṃgrāme vigrahe kṣatriyāṇām 159 tamasā tv abhyavastīrṇo moha āviśatīva mām saṃjñāṃ nopalabhe sūta mano vihvalatīva me 160 ity uktvā dhṛtarāṣṭro 'tha vilapya bahuduḥkhitaḥ mūrcchitaḥ punar āśvastaḥ saṃjayaṃ vākyam abravīt 161 saṃjayaivaṃ gate prāṇāṃs tyaktum icchāmi māciram stokaṃ hy api na paśyāmi phalaṃ jīvitadhāraṇe 162 taṃ tathā vādinaṃ dīnaṃ vilapantaṃ mahīpatim gāvalgaṇir idaṃ dhīmān mahārthaṃ vākyam abravīt 163 śrutavān asi vai rājño mahotsāhān mahābalān dvaipāyanasya vadato nāradasya ca dhīmataḥ 164 mahatsu rājavaṃśeṣu guṇaiḥ samuditeṣu ca jātān divyāstraviduṣaḥ śakra pratimatejasaḥ 165 dharmeṇa pṛthivīṃ jitvā yajñair iṣṭvāpta dakṣiṇaiḥ asmiṁl loke yaśaḥ prāpya tataḥ kālavaśaṃ gatāḥ 166 vainyaṃ mahārathaṃ vīraṃ sṛñjayaṃ jayatāṃ varam suhotraṃ ranti devaṃ ca kakṣīvantaṃ tathauśijam 167 bāhlīkaṃ damanaṃ śaibyaṃ śaryātim ajitaṃ jitam viśvāmitram amitraghnam ambarīṣaṃ mahābalam 168 maruttaṃ manum ikṣvākuṃ gayaṃ bharatam eva ca rāmaṃ dāśarathiṃ caiva śaśabinduṃ bhagīratham 169 yayātiṃ śubhakarmāṇaṃ devair yo yājitaḥ svayam caityayūpāṅkitā bhūmir yasyeyaṃ savanākarā 170 iti rājñāṃ caturviṃśan nāradena surarṣiṇā putraśokābhitaptāya purā śaibyāya kīrtitāḥ 171 tebhyaś cānye gatāḥ pūrvaṃ rājāno balavattarāḥ mahārathā mahātmānaḥ sarvaiḥ samuditā guṇaiḥ 172 pūruḥ kurur yaduḥ śūro viṣvag aśvo mahādhṛtiḥ anenā yuvanāśvaś ca kakutstho vikramī raghuḥ 173 vijitī vīti hotraś ca bhavaḥ śveto bṛhad guruḥ uśīnaraḥ śatarathaḥ kaṅko duliduho drumaḥ 174 dambhodbhavaḥ paro venaḥ sagaraḥ saṃkṛtir nimiḥ ajeyaḥ paraśuḥ puṇḍraḥ śambhur devāvṛdho 'naghaḥ 175 devāhvayaḥ supratimaḥ supratīko bṛhadrathaḥ mahotsāho vinītātmā sukratur naiṣadho nalaḥ 176 satyavrataḥ śāntabhayaḥ sumitraḥ subalaḥ prabhuḥ jānu jaṅgho 'naraṇyo 'rkaḥ priya bhṛtyaḥ śubhavrataḥ 177 balabandhur nirāmardaḥ ketuśṛṅgo bṛhadbalaḥ dhṛṣṭaketur bṛhat ketur dīptaketur nirāmayaḥ 178 avikṣit prabalo dhūrtaḥ kṛtabandhur dṛḍheṣudhiḥ mahāpurāṇaḥ saṃbhāvyaḥ pratyaṅgaḥ parahā śrutiḥ 179 ete cānye ca bahavaḥ śataśo 'tha sahasraśaḥ śrūyante 'yutaśaś cānye saṃkhyātāś cāpi padmaśaḥ 180 hitvā suvipulān bhogān buddhimanto mahābalāḥ rājāno nidhanaṃ prāptās tava putrair mahattamāḥ 181 yeṣāṃ divyāni karmāṇi vikramas tyāga eva ca māhātmyam api cāstikyaṃ satyatā śaucam ārjavam 182 vidvadbhiḥ kathyate loke purāṇaiḥ kavi sattamaiḥ sarvarddhi guṇasaṃpannās te cāpi nidhanaṃ gatāḥ 183 tava putrā durātmānaḥ prataptāś caiva manyunā lubdhā durvṛtta bhūyiṣṭhā na tāñ śocitum arhasi 184 śrutavān asi medhāvī buddhimān prājñasaṃmataḥ yeṣāṃ śāstrānugā buddhir na te muhyanti bhārata 185 nigrahānugrahau cāpi viditau te narādhipa nātyantam evānuvṛttiḥ śrūyate putra rakṣaṇe 186 bhavitavyaṃ tathā tac ca nātaḥ śocitum arhasi daivaṃ prajñā viśeṣeṇa ko nivartitum arhati 187 vidhātṛvihitaṃ mārgaṃ na kaś cid ativartate kālamūlam idaṃ sarvaṃ bhāvābhāvau sukhāsukhe 188 kālaḥ pacati bhūtāni kālaḥ saṃharati prajāḥ nirdahantaṃ prajāḥ kālaṃ kālaḥ śamayate punaḥ 189 kālo vikurute bhāvān sarvāṁl loke śubhāśubhān kālaḥ saṃkṣipate sarvāḥ prajā visṛjate punaḥ kālaḥ sarveṣu bhūteṣu caraty avidhṛtaḥ samaḥ 190 atītānāgatā bhāvā ye ca vartanti sāṃpratam tān kālanirmitān buddhvā na saṃjñāṃ hātum arhasi 191 [s] atropaniṣadaṃ puṇyāṃ kṛṣṇadvaipāyano 'bravīt bhāratādhyayanāt puṇyād api pādam adhīyataḥ śraddadhānasya pūyante sarvapāpāny aśeṣataḥ 192 devarṣayo hy atra puṇyā brahma rājarṣayas tathā kīrtyante śubhakarmāṇas tathā yakṣamahoragāḥ 193 bhagavān vāsudevaś ca kīrtyate 'tra sanātanaḥ sa hi satyam ṛtaṃ caiva pavitraṃ puṇyam eva ca 194 śāśvataṃ brahma paramaṃ dhruvaṃ jyotiḥ sanātanam yasya divyāni karmāṇi kathayanti manīṣiṇaḥ 195 asat sat sad asac caiva yasmād devāt pravartate saṃtatiś ca pravṛttiś ca janmamṛtyuḥ punarbhavaḥ 196 adhyātmaṃ śrūyate yac ca pañca bhūtaguṇātmakam avyaktādi paraṃ yac ca sa eva parigīyate 197 yat tad yati varā yuktā dhyānayogabalānvitāḥ pratibimbam ivādarśe paśyanty ātmany avasthitam 198 śraddadhānaḥ sadodyuktaḥ satyadharmaparāyaṇaḥ āsevann imam adhyāyaṃ naraḥ pāpāt pramucyate 199 anukramaṇim adhyāyaṃ bhāratasyemam āditaḥ āstikaḥ satataṃ śṛṇvan na kṛcchreṣv avasīdati 200 ubhe saṃdhye japan kiṃ cit sadyo mucyeta kilbiṣāt anukramaṇyā yāvat syād ahnā rātryā ca saṃcitam 201 bhāratasya vapur hy etat satyaṃ cāmṛtam eva ca nava nītaṃ yathā dadhno dvipadāṃ brāhmaṇo yathā 202 hradānām udadhiḥ śreṣṭho gaur variṣṭhā catuṣpadām yathaitāni variṣṭhāni tathā bharatam ucyate 203 yaś cainaṃ śrāvayec chrāddhe brāhmaṇān pādam antataḥ akṣayyam annapānaṃ tat pitṝṃs tasyopatiṣṭhati 204 itihāsa purāṇābhyāṃ vedaṃ samupabṛṃhayet bibhety alpaśrutād vedo mām ayaṃ pratariṣyati 205 kārṣṇaṃ vedam imaṃ vidvāñ śrāvayitvārtham aśnute bhrūṇa hatyā kṛtaṃ cāpi pāpaṃ jahyān na saṃśayaḥ 206 ya imaṃ śucir adhyāyaṃ paṭhet parvaṇi parvaṇi adhītaṃ bhārataṃ tena kṛtsnaṃ syād iti me matiḥ 207 yaś cemaṃ śṛṇuyān nityam ārṣaṃ śraddhāsamanvitaḥ sa dīrgham āyuḥ kīrtiṃ ca svargatiṃ cāpnuyān naraḥ 208 catvāra ekato vedā bhārataṃ caikam ekataḥ samāgataiḥ surarṣibhis tulām āropitaṃ purā mahattve ca gurutve ca dhriyamāṇaṃ tato 'dhikam 209 mahattvād bhāravattvāc ca mahābhāratam ucyate niruktam asya yo veda sarvapāpaiḥ pramucyate 210 tapo na kalko 'dhyayanaṃ na kalkaḥ; svābhāviko veda vidhir na kalkaḥ prasahya vittāharaṇaṃ na kalkas; tāny eva bhāvopahatāni kalkaḥ |
The Mahabharata in Sanskrit
Book 2
Chapter 1
|
1
[व] ततॊ ऽबरवीन मयः पार्थं वासुदेवस्य संनिधौ पराञ्जलिः शलक्ष्णया वाचा पूजयित्वा पुनः पुनः 2 अस्माच च कृष्णात संक्रुद्धात पावकाच च दिधक्षतः तवया तरातॊ ऽसमि कौन्तेय बरूहि किं करवाणि ते 3 [आर्ज] कृतम एव तवया सर्वं सवस्ति गच्छ महासुर परीतिमान भव मे नित्यं परीतिमन्तॊ वयं च ते 4 [मय] युक्तम एतत तवयि विभॊ यथात्थ पुरुषर्षभ परीतिपूर्वम अहं किं चित कर्तुम इच्छामि भारत 5 अहं हि विश्वकर्मा वै दानवानां महाकविः सॊ ऽहं वै तवत्कृते किं चित कर्तुम इच्छामि पाण्डव 6 [अर] पराणकृच्छ्राद विमुक्तं तवम आत्मानं मन्यसे मया एवंगते न शक्ष्यामि किं चित कारयितुं तवया 7 न चापि तव संकल्पं मॊघम इच्छामि दानव कृष्णस्य करियतां किं चित तथा परतिकृतं मयि 8 [व] चॊदितॊ वासुदेवस तु मयेन भरतर्षभ मुहूर्तम इव संदध्यौ किम अयं चॊद्यताम इति 9 चॊदयाम आस तं कृष्णः सभा वै करियताम इति धर्मराजस्य दैतेय यादृशीम इह मन्यसे 10 यां कृतां नानुकुर्युस ते मानवाः परेक्ष्य विस्मिताः मनुष्यलॊके कृत्स्ने ऽसमिंस तादृशीं कुरु वै सभाम 11 यत्र दिव्यान अभिप्रायान पश्येम विहितांस तवया आसुरान मानुषांश चैव तां सभां कुरु वै मय 12 परतिगृह्य तु तद वाक्यं संप्रहृष्टॊ मयस तदा विमानप्रतिमां चक्रे पाण्डवस्य सभां मुदा 13 ततः कृष्णश च पार्थश च धर्मराजे युधिष्ठिरे सर्वम एतद यथावेद्य दर्शयाम आसतुर मयम 14 तस्मै युधिष्ठिरः पूजां यथार्हम अकरॊत तदा स तु तां परतिजग्राह मयः सत्कृत्य सत्कृतः 15 स पूर्वदेव चरितं तत्र तत्र विशां पते कथयाम आस दैतेयः पाण्डुपुत्रेषु भारत 16 स कालं कं चिद आश्वस्य विश्वकर्मा परचिन्त्य च सभां परचक्रमे कर्तुं पाण्डवानां महात्मनाम 17 अभिप्रायेण पार्थानां कृष्णस्य च महात्मनः पुण्ये ऽहनि महातेजाः कृतकौतुक मङ्गलः 18 तर्पयित्वा दविजश्रेष्ठान पायसेन सहस्रशः धनं बहुविधं दत्त्वा तेभ्य एव च वीर्यवान 19 सर्वर्तुगुणसंपन्नां दिव्यरूपां मनॊरमाम दश किष्कु सहस्रां तां मापयाम आस सर्वतः |
1
[v] tato 'bravīn mayaḥ pārthaṃ vāsudevasya saṃnidhau prāñjaliḥ ślakṣṇayā vācā pūjayitvā punaḥ punaḥ 2 asmāc ca kṛṣṇāt saṃkruddhāt pāvakāc ca didhakṣataḥ tvayā trāto 'smi kaunteya brūhi kiṃ karavāṇi te 3 [ārj] kṛtam eva tvayā sarvaṃ svasti gaccha mahāsura prītimān bhava me nityaṃ prītimanto vayaṃ ca te 4 [maya] yuktam etat tvayi vibho yathāttha puruṣarṣabha prītipūrvam ahaṃ kiṃ cit kartum icchāmi bhārata 5 ahaṃ hi viśvakarmā vai dānavānāṃ mahākaviḥ so 'haṃ vai tvatkṛte kiṃ cit kartum icchāmi pāṇḍava 6 [ar] prāṇakṛcchrād vimuktaṃ tvam ātmānaṃ manyase mayā evaṃgate na śakṣyāmi kiṃ cit kārayituṃ tvayā 7 na cāpi tava saṃkalpaṃ mogham icchāmi dānava kṛṣṇasya kriyatāṃ kiṃ cit tathā pratikṛtaṃ mayi 8 [v] codito vāsudevas tu mayena bharatarṣabha muhūrtam iva saṃdadhyau kim ayaṃ codyatām iti 9 codayām āsa taṃ kṛṣṇaḥ sabhā vai kriyatām iti dharmarājasya daiteya yādṛśīm iha manyase 10 yāṃ kṛtāṃ nānukuryus te mānavāḥ prekṣya vismitāḥ manuṣyaloke kṛtsne 'smiṃs tādṛśīṃ kuru vai sabhām 11 yatra divyān abhiprāyān paśyema vihitāṃs tvayā āsurān mānuṣāṃś caiva tāṃ sabhāṃ kuru vai maya 12 pratigṛhya tu tad vākyaṃ saṃprahṛṣṭo mayas tadā vimānapratimāṃ cakre pāṇḍavasya sabhāṃ mudā 13 tataḥ kṛṣṇaś ca pārthaś ca dharmarāje yudhiṣṭhire sarvam etad yathāvedya darśayām āsatur mayam 14 tasmai yudhiṣṭhiraḥ pūjāṃ yathārham akarot tadā sa tu tāṃ pratijagrāha mayaḥ satkṛtya satkṛtaḥ 15 sa pūrvadeva caritaṃ tatra tatra viśāṃ pate kathayām āsa daiteyaḥ pāṇḍuputreṣu bhārata 16 sa kālaṃ kaṃ cid āśvasya viśvakarmā pracintya ca sabhāṃ pracakrame kartuṃ pāṇḍavānāṃ mahātmanām 17 abhiprāyeṇa pārthānāṃ kṛṣṇasya ca mahātmanaḥ puṇye 'hani mahātejāḥ kṛtakautuka maṅgalaḥ 18 tarpayitvā dvijaśreṣṭhān pāyasena sahasraśaḥ dhanaṃ bahuvidhaṃ dattvā tebhya eva ca vīryavān 19 sarvartuguṇasaṃpannāṃ divyarūpāṃ manoramām daśa kiṣku sahasrāṃ tāṃ māpayām āsa sarvataḥ |
The Mahabharata in Sanskrit
Book 2
Chapter 2
|
1
[व] उषित्वा खाण्डव परस्थे सुखवासं जनार्दनः पार्थैः परीतिसमायुक्तैः पूजनार्हॊ ऽभिपूजितः 2 गमनाय मतिं चक्रे पितुर दर्शनलालसः धर्मराजम अथामन्त्र्य पृथां च पृथुलॊचनः 3 ववन्दे चरणौ मूर्ध्ना जगद वन्द्यः पितृस्वसुः स तया मूर्ध्न्य उपाघ्रातः परिष्वक्तश च केशवः 4 ददर्शानन्तरं कृष्णॊ भगिनीं सवां महायशाः ताम उपेत्य हृषीकेशः परीत्या बाष्पसमन्वितः 5 अर्थ्यं तथ्यं हितं वाक्यं लघु युक्तम अनुत्तमम उवाच भगवान भद्रां सुभद्रां भद्र भाषिणीम 6 तया सवजनगामीनि शरावितॊ वचनानि सः संपूजितश चाप्य असकृच छिरसा चाभिवादितः 7 ताम अनुज्ञाप्य वार्ष्णेयः परतिनन्द्य च भामिनीम ददर्शानन्तरं कृष्णां दौम्यं चापि जनार्दनः 8 ववन्दे च यथान्यायं धौम्यं पुरुषसत्तमः दरौपदीं सान्त्वयित्वा च आमन्त्र्य च जनार्दनः 9 भरातॄन अभ्यगमद धीमान पार्थेन सहितॊ बली भरातृभिः पञ्चभिः कृष्णॊ वृतः शक्र इवामरैः 10 अर्चयाम आस देवांश च दविजांश च यदुपुंगवः माल्यजप्य नमः कारैर गन्धैर उच्चावचैर अपि स कृत्वा सर्वकार्याणि परतस्थे तस्थुषां वरः 11 सवस्ति वाच्यार्हतॊ विप्रान दधि पात्रफलाक्षतैः वसु परदाय च ततः परदक्षिणम अवर्तत 12 काञ्चनं रथम आस्थाय तार्क्ष्य केतनम आशुगम गदा चक्रासिशार्ङ्गाद्यैर आयुधैश च समन्वितम 13 तिथाव अथ च नक्षत्रे मुहूर्ते च गुणान्विते परययौ पुण्डरीकाक्षः सैन्यसुग्रीव वाहनः 14 अन्वारुरॊह चाप्य एनं परेम्णा राजा युधिष्ठिरः अपास्य चास्य यन्तारं दारुकं यन्तृसत्तमम अभीषून संप्रजग्राह सवयं कुरुपतिस तदा 15 उपारुह्यार्जुनश चापि चामरव्यजनं सितम रुक्मदण्डं बृहन मूर्ध्नि दुधावाभिप्रदक्षिणम 16 तथैव भीमसेनॊ ऽपि यमाभ्यां सहितॊ वशी पृष्ठतॊ ऽनुययौ कृष्णम ऋत्विक पौरजनैर वृतः 17 स तथा भरातृभिः सार्धं केशवः परवीरहा अनुगम्यमानः शुशुभे शिष्यैर इव गुरुः परियैः 18 पार्थम आमन्त्र्य गॊविन्दः परिष्वज्य च पीडितम युधिष्ठिरं पूजयित्वा भीमसेनं यमौ तथा 19 परिष्वक्तॊ भृशं ताभ्यां यमाभ्याम अभिवादितः ततस तैः संविदं कृत्वा यथावन मधुसूदनः 20 निवर्तयित्वा च तदा पाण्डवान सपदानुगान सवां पुरीं परययौ कृष्णः पुरंदर इवापरः 21 लॊचनैर अनुजग्मुस ते तम आदृष्टि पथात तदा मनॊभिर अनुजग्मुस ते कृष्णं परीतिसमन्वयात 22 अतृप्त मनसाम एव तेषां केशव दर्शने कषिप्रम अन्तर्दधे शौरिश चक्षुषां परियदर्शनः 23 अकामा इव पार्थास ते गॊविन्द गतमानसाः निवृत्यॊपययुः सर्वे सवपुरं पुरुषर्षभाः सयन्दनेनाथ कृष्णॊ ऽपि समये दवारकाम अगात |
1
[v] uṣitvā khāṇḍava prasthe sukhavāsaṃ janārdanaḥ pārthaiḥ prītisamāyuktaiḥ pūjanārho 'bhipūjitaḥ 2 gamanāya matiṃ cakre pitur darśanalālasaḥ dharmarājam athāmantrya pṛthāṃ ca pṛthulocanaḥ 3 vavande caraṇau mūrdhnā jagad vandyaḥ pitṛsvasuḥ sa tayā mūrdhny upāghrātaḥ pariṣvaktaś ca keśavaḥ 4 dadarśānantaraṃ kṛṣṇo bhaginīṃ svāṃ mahāyaśāḥ tām upetya hṛṣīkeśaḥ prītyā bāṣpasamanvitaḥ 5 arthyaṃ tathyaṃ hitaṃ vākyaṃ laghu yuktam anuttamam uvāca bhagavān bhadrāṃ subhadrāṃ bhadra bhāṣiṇīm 6 tayā svajanagāmīni śrāvito vacanāni saḥ saṃpūjitaś cāpy asakṛc chirasā cābhivāditaḥ 7 tām anujñāpya vārṣṇeyaḥ pratinandya ca bhāminīm dadarśānantaraṃ kṛṣṇāṃ daumyaṃ cāpi janārdanaḥ 8 vavande ca yathānyāyaṃ dhaumyaṃ puruṣasattamaḥ draupadīṃ sāntvayitvā ca āmantrya ca janārdanaḥ 9 bhrātṝn abhyagamad dhīmān pārthena sahito balī bhrātṛbhiḥ pañcabhiḥ kṛṣṇo vṛtaḥ śakra ivāmaraiḥ 10 arcayām āsa devāṃś ca dvijāṃś ca yadupuṃgavaḥ mālyajapya namaḥ kārair gandhair uccāvacair api sa kṛtvā sarvakāryāṇi pratasthe tasthuṣāṃ varaḥ 11 svasti vācyārhato viprān dadhi pātraphalākṣataiḥ vasu pradāya ca tataḥ pradakṣiṇam avartata 12 kāñcanaṃ ratham āsthāya tārkṣya ketanam āśugam gadā cakrāsiśārṅgādyair āyudhaiś ca samanvitam 13 tithāv atha ca nakṣatre muhūrte ca guṇānvite prayayau puṇḍarīkākṣaḥ sainyasugrīva vāhanaḥ 14 anvāruroha cāpy enaṃ premṇā rājā yudhiṣṭhiraḥ apāsya cāsya yantāraṃ dārukaṃ yantṛsattamam abhīṣūn saṃprajagrāha svayaṃ kurupatis tadā 15 upāruhyārjunaś cāpi cāmaravyajanaṃ sitam rukmadaṇḍaṃ bṛhan mūrdhni dudhāvābhipradakṣiṇam 16 tathaiva bhīmaseno 'pi yamābhyāṃ sahito vaśī pṛṣṭhato 'nuyayau kṛṣṇam ṛtvik paurajanair vṛtaḥ 17 sa tathā bhrātṛbhiḥ sārdhaṃ keśavaḥ paravīrahā anugamyamānaḥ śuśubhe śiṣyair iva guruḥ priyaiḥ 18 pārtham āmantrya govindaḥ pariṣvajya ca pīḍitam yudhiṣṭhiraṃ pūjayitvā bhīmasenaṃ yamau tathā 19 pariṣvakto bhṛśaṃ tābhyāṃ yamābhyām abhivāditaḥ tatas taiḥ saṃvidaṃ kṛtvā yathāvan madhusūdanaḥ 20 nivartayitvā ca tadā pāṇḍavān sapadānugān svāṃ purīṃ prayayau kṛṣṇaḥ puraṃdara ivāparaḥ 21 locanair anujagmus te tam ādṛṣṭi pathāt tadā manobhir anujagmus te kṛṣṇaṃ prītisamanvayāt 22 atṛpta manasām eva teṣāṃ keśava darśane kṣipram antardadhe śauriś cakṣuṣāṃ priyadarśanaḥ 23 akāmā iva pārthās te govinda gatamānasāḥ nivṛtyopayayuḥ sarve svapuraṃ puruṣarṣabhāḥ syandanenātha kṛṣṇo 'pi samaye dvārakām agāt |
The Mahabharata in Sanskrit
Book 2
Chapter 3
|
1
[व] अथाब्रवीन मयः पार्थम अर्जुनं जयतां वरम आपृच्छे तवां गमिष्यामि कषिप्रम एष्यामि चाप्य अहम 2 उत्तरेण तु कैलासं मैनाकं पर्वतं परति यक्ष्यमाणेषु सर्वेषु दानवेषु तदा मया कृतं मणिमयं भाण्डं रम्यं बिन्दुसरः परति 3 सभायां सत्यसंधस्य यद आसीद वृषपर्वणः आगमिष्यामि तद्गृह्य यदि तिष्ठति भारत 4 ततः सभां करिष्यामि पाण्डवाय यशॊ विने मनः परह्लादिनीं चित्रां सर्वरत्र विभूषिताम 5 अस्ति बिन्दुसरस्य एव गदा शरेष्ठा कुरूद्वह निहिता यौवनाश्वेन राज्ञा हत्वा रणे रिपून सुवर्णबिन्दुभिश चित्रा गुर्वी भारसहा दृढा 6 सा वै शतसहस्रस्य संमिता सर्वघातिनी अनुरूपा च भीमस्य गाण्डीवं भवतॊ यथा 7 वारुणश च महाशङ्खॊ देवदत्तः सुघॊषवान सर्वम एतत परदास्यामि भवते नात्र संशयः इत्य उक्त्वा सॊ ऽसुरः पार्थं पराग उदीचीम अगाद दिशम 8 उत्तरेण तु कैलासं मैनाकं पर्वतं परति हिरण्यशृङ्गॊ भगवान महामणिमयॊ गिरिः 9 रम्यं बिन्दुसरॊ नाम यत्र राजा भगीरथः दृष्ट्वा भागीरथीं गङ्गाम उवास बहुलाः समाः 10 यत्रेष्ट्वा सर्वभूतानाम ईश्वरेण महात्मना आहृताः करतवॊ मुख्याः शतं भरतसत्तम 11 यत्र यूपा मणिमयाश चित्याश चापि हिरन मयाः शॊभार्थं विहितास तत्र न तु दृष्टान्ततः कृताः 12 यत्रेष्ट्वा स गतः सिद्धिं सहस्राक्षः शचीपतिः यत्र भूतपतिः सृष्ट्वा सर्वलॊकान सनातनः उपास्यते तिग्मतेजा वृतॊ भूतैः सहस्रशः 13 नरनारायणौ बरह्मा यमः सथाणुश च पञ्चमः उपासते यत्र सत्रं सहस्रयुगपर्यये 14 यत्रेष्टं वासुदेवेन सर्वैर वर्षसहस्रकैः शरद्दधानेन सततं शिष्टसंप्रतिपत्तये 15 सुवर्णमालिनॊ यूपाश चित्याश चाप्य अति भास्वराः ददौ यत्र सहस्राणि परयुतानि च केशवः 16 तत्र गत्वा स जग्राह गदां शङ्खं च भारत सफाटिकं च सभा दरव्यं यद आसीद वृषपर्वणः किंकरैः सह रक्षॊभिर अगृह्णात सर्वम एव तत 17 तद आहृत्य तु तां चक्रे सॊ ऽसुरॊ ऽपरतिमां सभाम विश्रुतां तरिषु लॊकेषु दिव्यां मणिमयीं शुभाम 18 गदां च भीमसेनाय परवरां परददौ तदा देवदत्तं च पार्थाय ददौ शङ्खम अनुत्तमम 19 सभा तु सा महाराज शातकुम्भमय दरुमा दश किष्कु सहस्राणि समन्ताद आयताभवत 20 यथा वह्नेर यथार्कस्य सॊमस्य च यथैव सा भराजमाना तथा दिव्या बभार परमं वपुः 21 परतिघ्नतीव परभया परभाम अर्कस्य भास्वराम परबभौ जवलमानेव दिव्या दिव्येन वर्चसा 22 नगमेघप्रतीकाशा दिवम आवृत्य विष्ठिता आयता विपुला शलक्ष्णा विपाप्मा विगतक्लमा 23 उत्तमद्रव्यसंपन्ना मणिप्राकारमालिनी बहुरत्ना बहुधना सुकृता विश्वकर्मणा 24 न दाशार्ही सुधर्मा वा बरह्मणॊ वापि तादृशी आसीद रूपेण संपन्ना यां चक्रे ऽपरतिमां मयः 25 तां सम तत्र मयेनॊक्ता रक्षन्ति च वहन्ति च सभाम अष्टौ सहस्राणि किंकरा नाम राक्षसाः 26 अन्तरिक्षचरा घॊरा महाकाया महाबलाः रक्ताक्षाः पिङ्गलाक्षाश च शुक्तिकर्णाः परहारिणः 27 तस्यां सभायां नलिनीं चकाराप्रतिमां मयः वैडूर्य पत्रविततां मणिनाल मयाम्बुजाम 28 पद्मसौगन्धिक वतीं नानाद्विज गणायुताम पुष्पितैः पङ्कजैश चित्रां कूर्ममत्स्यैश च शॊभिताम 29 सूपतीर्थाम अकलुषां सर्वर्तुसलिलां शुभाम मारुतेनैव चॊद्धूतैर मुक्ता बिन्दुभिर आचिताम 30 मणिरत्नचितां तां तु के चिद अभ्येत्य पार्थिवाः दृष्ट्वापि नाभ्यजानन्त ते ऽजञानात परपतन्त्य उत 31 तां सभाम अभितॊ नित्यं पुष्पवन्तॊ महाद्रुमाः आसन नानाविधा नीलाः शीतच छाया मनॊरमाः 32 काननानि सुगन्धीनि पुष्करिण्यश च सर्वशः हंसकारण्डव युताश चक्रवाकॊपशॊभिताः 33 जलजानां च माल्यानां सथलजानां च सर्वशः मारुतॊ गन्धम आदाय पाण्डवान सम निषेवते 34 ईदृशीं तां सभां कृत्वा मासैः परि चतुर्दशैः निष्ठितां धर्मराजाय मयॊ राज्ञे नयवेदयत |
1
[v] athābravīn mayaḥ pārtham arjunaṃ jayatāṃ varam āpṛcche tvāṃ gamiṣyāmi kṣipram eṣyāmi cāpy aham 2 uttareṇa tu kailāsaṃ mainākaṃ parvataṃ prati yakṣyamāṇeṣu sarveṣu dānaveṣu tadā mayā kṛtaṃ maṇimayaṃ bhāṇḍaṃ ramyaṃ bindusaraḥ prati 3 sabhāyāṃ satyasaṃdhasya yad āsīd vṛṣaparvaṇaḥ āgamiṣyāmi tadgṛhya yadi tiṣṭhati bhārata 4 tataḥ sabhāṃ kariṣyāmi pāṇḍavāya yaśo vine manaḥ prahlādinīṃ citrāṃ sarvaratra vibhūṣitām 5 asti bindusarasy eva gadā śreṣṭhā kurūdvaha nihitā yauvanāśvena rājñā hatvā raṇe ripūn suvarṇabindubhiś citrā gurvī bhārasahā dṛḍhā 6 sā vai śatasahasrasya saṃmitā sarvaghātinī anurūpā ca bhīmasya gāṇḍīvaṃ bhavato yathā 7 vāruṇaś ca mahāśaṅkho devadattaḥ sughoṣavān sarvam etat pradāsyāmi bhavate nātra saṃśayaḥ ity uktvā so 'suraḥ pārthaṃ prāg udīcīm agād diśam 8 uttareṇa tu kailāsaṃ mainākaṃ parvataṃ prati hiraṇyaśṛṅgo bhagavān mahāmaṇimayo giriḥ 9 ramyaṃ bindusaro nāma yatra rājā bhagīrathaḥ dṛṣṭvā bhāgīrathīṃ gaṅgām uvāsa bahulāḥ samāḥ 10 yatreṣṭvā sarvabhūtānām īśvareṇa mahātmanā āhṛtāḥ kratavo mukhyāḥ śataṃ bharatasattama 11 yatra yūpā maṇimayāś cityāś cāpi hiran mayāḥ śobhārthaṃ vihitās tatra na tu dṛṣṭāntataḥ kṛtāḥ 12 yatreṣṭvā sa gataḥ siddhiṃ sahasrākṣaḥ śacīpatiḥ yatra bhūtapatiḥ sṛṣṭvā sarvalokān sanātanaḥ upāsyate tigmatejā vṛto bhūtaiḥ sahasraśaḥ 13 naranārāyaṇau brahmā yamaḥ sthāṇuś ca pañcamaḥ upāsate yatra satraṃ sahasrayugaparyaye 14 yatreṣṭaṃ vāsudevena sarvair varṣasahasrakaiḥ śraddadhānena satataṃ śiṣṭasaṃpratipattaye 15 suvarṇamālino yūpāś cityāś cāpy ati bhāsvarāḥ dadau yatra sahasrāṇi prayutāni ca keśavaḥ 16 tatra gatvā sa jagrāha gadāṃ śaṅkhaṃ ca bhārata sphāṭikaṃ ca sabhā dravyaṃ yad āsīd vṛṣaparvaṇaḥ kiṃkaraiḥ saha rakṣobhir agṛhṇāt sarvam eva tat 17 tad āhṛtya tu tāṃ cakre so 'suro 'pratimāṃ sabhām viśrutāṃ triṣu lokeṣu divyāṃ maṇimayīṃ śubhām 18 gadāṃ ca bhīmasenāya pravarāṃ pradadau tadā devadattaṃ ca pārthāya dadau śaṅkham anuttamam 19 sabhā tu sā mahārāja śātakumbhamaya drumā daśa kiṣku sahasrāṇi samantād āyatābhavat 20 yathā vahner yathārkasya somasya ca yathaiva sā bhrājamānā tathā divyā babhāra paramaṃ vapuḥ 21 pratighnatīva prabhayā prabhām arkasya bhāsvarām prababhau jvalamāneva divyā divyena varcasā 22 nagameghapratīkāśā divam āvṛtya viṣṭhitā āyatā vipulā ślakṣṇā vipāpmā vigataklamā 23 uttamadravyasaṃpannā maṇiprākāramālinī bahuratnā bahudhanā sukṛtā viśvakarmaṇā 24 na dāśārhī sudharmā vā brahmaṇo vāpi tādṛśī āsīd rūpeṇa saṃpannā yāṃ cakre 'pratimāṃ mayaḥ 25 tāṃ sma tatra mayenoktā rakṣanti ca vahanti ca sabhām aṣṭau sahasrāṇi kiṃkarā nāma rākṣasāḥ 26 antarikṣacarā ghorā mahākāyā mahābalāḥ raktākṣāḥ piṅgalākṣāś ca śuktikarṇāḥ prahāriṇaḥ 27 tasyāṃ sabhāyāṃ nalinīṃ cakārāpratimāṃ mayaḥ vaiḍūrya patravitatāṃ maṇināla mayāmbujām 28 padmasaugandhika vatīṃ nānādvija gaṇāyutām puṣpitaiḥ paṅkajaiś citrāṃ kūrmamatsyaiś ca śobhitām 29 sūpatīrthām akaluṣāṃ sarvartusalilāṃ śubhām mārutenaiva coddhūtair muktā bindubhir ācitām 30 maṇiratnacitāṃ tāṃ tu ke cid abhyetya pārthivāḥ dṛṣṭvāpi nābhyajānanta te 'jñānāt prapatanty uta 31 tāṃ sabhām abhito nityaṃ puṣpavanto mahādrumāḥ āsan nānāvidhā nīlāḥ śītac chāyā manoramāḥ 32 kānanāni sugandhīni puṣkariṇyaś ca sarvaśaḥ haṃsakāraṇḍava yutāś cakravākopaśobhitāḥ 33 jalajānāṃ ca mālyānāṃ sthalajānāṃ ca sarvaśaḥ māruto gandham ādāya pāṇḍavān sma niṣevate 34 īdṛśīṃ tāṃ sabhāṃ kṛtvā māsaiḥ pari caturdaśaiḥ niṣṭhitāṃ dharmarājāya mayo rājñe nyavedayat |
The Mahabharata in Sanskrit
Book 2
Chapter 4
|
1
[व] ततः परवेशनं चक्रे तस्यां राजा युधिष्ठिरः अयुतं भॊजयाम आस बराह्मणानां नराधिपः 2 घृतपायसेन मधुना भक्ष्यैर मूलफलैस तथा अहतैश चैव वासॊभिर माल्यैर उच्चावचैर अपि 3 ददौ तेभ्यः सहस्राणि गवां परत्येकशः परभुः पुण्याहघॊषस तत्रासीद दिवस्पृग इव भारत 4 वादित्रैर विविधैर गीतैर गन्धैर उच्चावचैर अपि पूजयित्वा कुरुश्रेष्ठॊ दैवतानि निवेश्य च 5 तत्र मल्ला नटा झल्लाः सूता वैतालिकास तथा उपतस्थुर महात्मानं सप्तरात्रं युधिष्ठिरम 6 तथा स कृत्वा पूजां तां भरातृभिः सह पाण्डवः तस्यां सभायां रम्यायां रेमे शक्रॊ यथा दिवि 7 सभायाम ऋषयस तस्यां पाण्डवैः सह आसते आसां चक्रुर नरेन्द्राश च नानादेशसमागताः 8 असितॊ देवलः सत्यः सर्पमाली महाशिराः अर्वावसुः सुमित्रश च मैत्रेयः शुनकॊ बलिः 9 बकॊ दाल्भ्यः सथूलशिराः कृष्णद्वैपायनः शुकः सुमन्तुर जैमिनिः पैलॊ वयास शिष्यास तथा वयम 10 तित्तिरिर याज्ञवल्क्यश च ससुतॊ लॊमहर्षणः अप्सु हॊम्यश च धौम्यश च आणी माण्डव्य कौशिकौ 11 दामॊष्णीषस तरैवणिश च पर्णादॊ घटजानुकः मौञ्जायनॊ वायुभक्षः पाराशर्यश च सारिकौ 12 बलवाकः शिनी वाकः सत्यपालः कृतश्रमः जातू कर्णः शिखावांश च सुबलः पारिजातकः 13 पर्वतश च महाभागॊ मार्कण्डेयस तथा मुनिः पवित्रपाणिः सावर्णिर भालुकिर गालवस तथा 14 जङ्घा बन्धुश च रैभ्यश च कॊपवेगश्रवा भृगुः हरि बभ्रुश च कौण्डिन्यॊ बभ्रु माली सनातनः 15 कक्षीवान औशिजश चैव नाचिकेतॊ ऽथ गौतमः पैङ्गॊ वराहः शुनकः शाण्डिल्यश च महातपाः कर्करॊ वेणुजङ्घश च कलापः कठ एव च 16 मुनयॊ धर्मसहिता धृतात्मानॊ जितेन्द्रियाः एते चान्ये च बहवॊ वेदवेदाङ्गपारगाः 17 उपासते महात्मानं सभायाम ऋषिसत्तमाः कथयन्तः कथाः पुण्या धर्मज्ञाः शुचयॊ ऽमलाः 18 तथैव कषत्रिय शरेष्ठा धर्मराजम उपासते शरीमान महात्मा धर्मात्मा मुञ्ज केतुर विवर्धनः 19 संग्रामजिद दुर्मुखश च उग्रसेनश च वीर्यवान कक्षसेनः कषितिपतिः कषेमकश चापराजितः काम्बॊजराजः कमलः कम्पनश च महाबलः 20 सततं कम्पयाम आस यवनान एक एव यः यथासुरान कालकेयान देवॊ वज्रधरस तथा 21 जटासुरॊ मद्रकान्तश च राजा; कुन्तिः कुणिन्दश च किरात राजः तथाङ्गवङ्गौ सह पुण्ड्रकेण; पाण्ड्यॊड्र राजौ सह चान्ध्रकेण 22 किरात राजः सुमना यवनाधिपतिस तथा चाणूरॊ देवरातश च भॊजॊ भीम रथश च यः 23 शरुतायुधश च कालिङ्गॊ जयत्सेनश च मागधः सुशर्मा चेकितानश च सुरथॊ ऽमित्रकर्षणः 24 केतुमान वसु दानश च वैदेहॊ ऽथ कृतक्षणः सुधर्मा चानिरुद्धश च शरुतायुश च महाबलः 25 अनूप राजॊ दुर्धर्षः कषेमजिच च सुदक्षिणः शिशुपालः सहसुतः करूषाधिपतिस तथा 26 वृष्णीनां चैव दुर्धर्षाः कुमारा देवरूपिणः आहुकॊ वि पृथुश चैव गदः सारण एव च 27 अक्रूरः कृतवर्मा च सात्यकिश च शिनेः सुतः भीष्मकॊ ऽथाहृतिश चैव दयुमत सेनश च वीर्यवान केकयाश च महेष्वासा यज्ञसेनश च सौमकिः 28 अर्जुनं चापि संश्रित्य राजपुत्रा महाबलाः अशिक्षन्त धनुर्वेदं रौरवाजिनवाससः 29 तत्रैव शिक्षिता राजन कुमारा वृष्णिनन्दनाः रौक्मिणेयश च साम्बश च युयुधानश च सात्यकिः 30 एते चान्ये च बहवॊ राजानः पृथिवीपते धनंजय सखा चात्र नित्यम आस्ते सम तुम्बुरुः 31 चित्रसेनः सहामात्यॊ गन्धर्वाप्सरसस तथा गीतवादित्रकुशलाः शम्या तालविशारदाः 32 परमाणे ऽथ लयस्थाने किंनराः कृतनिश्रमाः संचॊदितास तुम्बुरुणा गन्धर्वाः सहिता जगुः 33 गायन्ति दिव्यतानैस ते यथान्यायं मनस्विनः पाण्डुपुत्रान ऋषींश चैव रमयन्त उपासते 34 तस्यां सभायाम आसीनाः सुव्रताः सत्यसंगराः दिवीव देवा बरह्माणं युधिष्ठिरम उपासते |
1
[v] tataḥ praveśanaṃ cakre tasyāṃ rājā yudhiṣṭhiraḥ ayutaṃ bhojayām āsa brāhmaṇānāṃ narādhipaḥ 2 ghṛtapāyasena madhunā bhakṣyair mūlaphalais tathā ahataiś caiva vāsobhir mālyair uccāvacair api 3 dadau tebhyaḥ sahasrāṇi gavāṃ pratyekaśaḥ prabhuḥ puṇyāhaghoṣas tatrāsīd divaspṛg iva bhārata 4 vāditrair vividhair gītair gandhair uccāvacair api pūjayitvā kuruśreṣṭho daivatāni niveśya ca 5 tatra mallā naṭā jhallāḥ sūtā vaitālikās tathā upatasthur mahātmānaṃ saptarātraṃ yudhiṣṭhiram 6 tathā sa kṛtvā pūjāṃ tāṃ bhrātṛbhiḥ saha pāṇḍavaḥ tasyāṃ sabhāyāṃ ramyāyāṃ reme śakro yathā divi 7 sabhāyām ṛṣayas tasyāṃ pāṇḍavaiḥ saha āsate āsāṃ cakrur narendrāś ca nānādeśasamāgatāḥ 8 asito devalaḥ satyaḥ sarpamālī mahāśirāḥ arvāvasuḥ sumitraś ca maitreyaḥ śunako baliḥ 9 bako dālbhyaḥ sthūlaśirāḥ kṛṣṇadvaipāyanaḥ śukaḥ sumantur jaiminiḥ pailo vyāsa śiṣyās tathā vayam 10 tittirir yājñavalkyaś ca sasuto lomaharṣaṇaḥ apsu homyaś ca dhaumyaś ca āṇī māṇḍavya kauśikau 11 dāmoṣṇīṣas traivaṇiś ca parṇādo ghaṭajānukaḥ mauñjāyano vāyubhakṣaḥ pārāśaryaś ca sārikau 12 balavākaḥ śinī vākaḥ satyapālaḥ kṛtaśramaḥ jātū karṇaḥ śikhāvāṃś ca subalaḥ pārijātakaḥ 13 parvataś ca mahābhāgo mārkaṇḍeyas tathā muniḥ pavitrapāṇiḥ sāvarṇir bhālukir gālavas tathā 14 jaṅghā bandhuś ca raibhyaś ca kopavegaśravā bhṛguḥ hari babhruś ca kauṇḍinyo babhru mālī sanātanaḥ 15 kakṣīvān auśijaś caiva nāciketo 'tha gautamaḥ paiṅgo varāhaḥ śunakaḥ śāṇḍilyaś ca mahātapāḥ karkaro veṇujaṅghaś ca kalāpaḥ kaṭha eva ca 16 munayo dharmasahitā dhṛtātmāno jitendriyāḥ ete cānye ca bahavo vedavedāṅgapāragāḥ 17 upāsate mahātmānaṃ sabhāyām ṛṣisattamāḥ kathayantaḥ kathāḥ puṇyā dharmajñāḥ śucayo 'malāḥ 18 tathaiva kṣatriya śreṣṭhā dharmarājam upāsate śrīmān mahātmā dharmātmā muñja ketur vivardhanaḥ 19 saṃgrāmajid durmukhaś ca ugrasenaś ca vīryavān kakṣasenaḥ kṣitipatiḥ kṣemakaś cāparājitaḥ kāmbojarājaḥ kamalaḥ kampanaś ca mahābalaḥ 20 satataṃ kampayām āsa yavanān eka eva yaḥ yathāsurān kālakeyān devo vajradharas tathā 21 jaṭāsuro madrakāntaś ca rājā; kuntiḥ kuṇindaś ca kirāta rājaḥ tathāṅgavaṅgau saha puṇḍrakeṇa; pāṇḍyoḍra rājau saha cāndhrakeṇa 22 kirāta rājaḥ sumanā yavanādhipatis tathā cāṇūro devarātaś ca bhojo bhīma rathaś ca yaḥ 23 śrutāyudhaś ca kāliṅgo jayatsenaś ca māgadhaḥ suśarmā cekitānaś ca suratho 'mitrakarṣaṇaḥ 24 ketumān vasu dānaś ca vaideho 'tha kṛtakṣaṇaḥ sudharmā cāniruddhaś ca śrutāyuś ca mahābalaḥ 25 anūpa rājo durdharṣaḥ kṣemajic ca sudakṣiṇaḥ śiśupālaḥ sahasutaḥ karūṣādhipatis tathā 26 vṛṣṇīnāṃ caiva durdharṣāḥ kumārā devarūpiṇaḥ āhuko vi pṛthuś caiva gadaḥ sāraṇa eva ca 27 akrūraḥ kṛtavarmā ca sātyakiś ca śineḥ sutaḥ bhīṣmako 'thāhṛtiś caiva dyumat senaś ca vīryavān kekayāś ca maheṣvāsā yajñasenaś ca saumakiḥ 28 arjunaṃ cāpi saṃśritya rājaputrā mahābalāḥ aśikṣanta dhanurvedaṃ rauravājinavāsasaḥ 29 tatraiva śikṣitā rājan kumārā vṛṣṇinandanāḥ raukmiṇeyaś ca sāmbaś ca yuyudhānaś ca sātyakiḥ 30 ete cānye ca bahavo rājānaḥ pṛthivīpate dhanaṃjaya sakhā cātra nityam āste sma tumburuḥ 31 citrasenaḥ sahāmātyo gandharvāpsarasas tathā gītavāditrakuśalāḥ śamyā tālaviśāradāḥ 32 pramāṇe 'tha layasthāne kiṃnarāḥ kṛtaniśramāḥ saṃcoditās tumburuṇā gandharvāḥ sahitā jaguḥ 33 gāyanti divyatānais te yathānyāyaṃ manasvinaḥ pāṇḍuputrān ṛṣīṃś caiva ramayanta upāsate 34 tasyāṃ sabhāyām āsīnāḥ suvratāḥ satyasaṃgarāḥ divīva devā brahmāṇaṃ yudhiṣṭhiram upāsate |
The Mahabharata in Sanskrit
Book 2
Chapter 5
|
1
[व] तत्र तत्रॊपविष्टेषु पाण्डवेषु महात्मसु महत्सु चॊपविष्टेषु गन्धर्वेषु च भारत 2 लॊकान अनुचरन सर्वान आगमत तां सभाम ऋषिः नारदः सुमहातेजा ऋषिभिः सहितस तदा 3 पारिजातेन राजेन्द्र रैवतेन च धीमता सुमुखेन च सौम्येन देवर्षिर अमितद्युतिः सभास्थान पाण्डवान दरष्टुं परीयमाणॊ मनॊजवः 4 तम आगतम ऋषिं दृष्ट्वा नारदं सर्वधर्मवित सहसा पाण्डवश्रेष्ठः परत्युत्थायानुजैः सह अभ्यवादयत परीत्या विनयावनतस तदा 5 तद अर्हम आसनं तस्मै संप्रदाय यथाविधि अर्चयाम आस रत्नैश च सर्वकामैश च धर्मवित 6 सॊ ऽरचितः पाण्डवैः सर्वैर महर्षिर वेदपारगः धर्मकामार्थ संयुक्तं पप्रच्छेदं युधिष्ठिरम 7 [न] कच चिद अर्थाश च कल्पन्ते धर्मे च रमते मनः सुखानि चानुभूयन्ते मनश च न विहन्यते 8 कच चिद आचरितां पूर्वैर नरदेव पिता महैः वर्तसे वृत्तिम अक्षीणां धर्मार्थसहितां नृषु 9 कच चिद अर्थेन वा धर्मं धर्मेणार्थम अथापि वा उभौ वा परीतिसारेण न कामेन परबाधसे 10 कच चिद अर्थं च धर्मं च कामं च जयतां वर विभज्य काले कालज्ञ सदा वरद सेवसे 11 कच चिद राजगुणैः षड्भिः सप्तॊपायांस तथानघ बलाबलं तथा सम्यक चतुर्दश परीक्षसे 12 कच चिद आत्मानम अन्वीक्ष्य परांश च जयतां वर तथा संधाय कर्माणि अष्टौ भारत सेवसे 13 कच चित परकृतयः षट ते न लुप्ता भरतर्षभ आढ्यास तथाव्यसनिनः सवनुरक्ताश च सर्वशः 14 कच चिन न तर्कैर दूतैर वा ये चाप्य अपरिशङ्किताः तवत्तॊ वा तव वामात्यैर भिद्यते जातु मन्त्रितम 15 कच चित संधिं यथाकालं विग्रहं चॊपसेवसे कच चिद वृत्तिम उदासीने मध्यमे चानुवर्तसे 16 कच चिद आत्मसमा बुद्ध्या शुचयॊ जीवितक्षमाः कुलीनाश चानुरक्ताश च कृतास ते वीर मन्त्रिणः 17 विजयॊ मन्त्रमूलॊ हि राज्ञां भवति भारत सुसंवृतॊ मन्त्रधनैर अमात्यैः शास्त्रकॊविदैः 18 कच चिन निद्रावशं नैषि कच चित काले विबुध्यसे कच चिच चापररात्रेषु चिन्तयस्य अर्थम अर्थवित 19 कच चिन मन्त्रयसे नैकः कच चिन न बहुभिः सह कच चित ते मन्त्रितॊ मन्त्रॊ न राष्ट्रम अनुधावति 20 कच चिद अर्थान विनिश्चित्य लघुमूलान महॊदयान कषिप्रम आरभसे कर्तुं न विघ्नयसि तादृशान 21 कच चिन न सर्वे कर्मान्ताः परॊक्षास ते विशङ्किताः सर्वे वा पुनर उत्सृष्टाः संसृष्टं हय अत्र कारणम 22 कच चिद राजन कृतान्य एव कृतप्रायानि वा पुनः विदुस ते वीरकर्माणि नानवाप्तानि कानि चित 23 कच चित कारणिकाः सर्वे सर्वशास्त्रेषु कॊविदाः कारयन्ति कुमारांश च यॊधमुख्यांश च सर्वशः 24 कच चित सहस्रैर मूर्खाणाम एकं करीणासि पण्डितम पण्डितॊ हय अर्थकृच्छ्रेषु कुर्यान निःश्रेयसं परम 25 कच चिद दुर्गाणि सर्वाणि धनधान्यायुधॊदकैः यन्त्रैश च परिपूर्णानि तथा शिल्पिधनुर्धरैः 26 एकॊ ऽपय अमात्यॊ मेधावी शूरॊ दान्तॊ विचक्षणः राजानं राजपुत्रं वा परापयेन महतीं शरियम 27 कच चिद अष्टा दशान्येषु सवपक्षे दश पञ्च च तरिभिस तरिभिर अविज्ञातैर वेत्सि तीर्थानि चारकैः 28 कच चिद दविषाम अविदितः परतियत्तश च सर्वदा नित्ययुक्तॊ रिपून सर्वान वीक्षसे रिपुसूदन 29 कच चिद विनयसंपन्नः कुलपुत्रॊ बहुश्रुतः अनसूयुर अनुप्रष्टा सत्कृतस ते पुरॊहितः 30 कच चिद अग्निषु ते युक्तॊ विधिज्ञॊ मतिमान ऋजुः हुतं च हॊष्यमानं च काले वेदयते सदा 31 कच चिद अङ्गेषु निष्णातॊ जयॊतिषां परतिपादकः उत्पातेषु च सर्वेषु दैवज्ञः कुशलस तव 32 कच चिन मुख्या महत्स्व एव मध्यमेषु च मध्यमाः जघन्याश च जघन्येषु भृत्याः कर्मसु यॊजिताः 33 अमात्यान उपधातीतान पितृपैतामहाञ शुचीन शरेष्ठाञ शरेष्ठेषु कच चित तवं नियॊजयसि कर्मसु 34 कच चिन नॊग्रेण दण्डेन भृशम उद्वेजित परजाः राष्ट्रं तवानुशासन्ति मन्त्रिणॊ भरतर्षभ 35 कच चित तवां नावजानन्ति याजकाः पतितं यथा उग्रप्रतिग्रहीतारं कामयानम इव सत्रियः 36 कच चिद धृष्टश च शूरश च मतिमान धृतिमाञ शुचिः कुलीनश चानुरक्तश च दक्षः सेनापतिस तव 37 कच चिद बलस्य ते मुख्याः सर्वे युद्धविशारदाः दृष्टापदाना विक्रान्तास तवया सत्कृत्य मानिताः 38 कच चिद बलस्य भक्तं च वेतनं च यथॊचितम संप्राप्तकालं दातव्यं ददासि न विकर्षसि 39 कालातिक्रमणाद धयेते भक्त वेतनयॊर भृताः भर्तुः कुप्यन्ति दौर्गत्यात सॊ ऽनर्थः सुमहान समृतः 40 कच चित सर्वे ऽनुरक्तास तवां कुलपुत्राः परधानतः कच चित पराणांस तवार्थेषु संत्यजन्ति सदा युधि 41 कच चिन नैकॊ बहून अर्थान सर्वशः साम्परायिकान अनुशास्सि यथाकामं कामात्मा शासनातिगः 42 कच चित पुरुषकारेण पुरुषः कर्मशॊभयन लभते मानम अधिकं भूयॊ वा भक्त वेतनम 43 कच चिद विद्याविनीतांश च नराञ जञानविशारदान यथार्हं गुणतश चैव दानेनाभ्यवपद्यसे 44 कच चिद दारान मनुष्याणां तवार्थे मृत्युम एयुषाम वयसनं चाभ्युपेतानां बिभर्षि भरतर्षभ 45 कच चिद भयाद उपनतं कलीबं वा रिपुम आगतम युद्धे वा विजितं पार्थ पुत्रवत परिरक्षसि 46 कच चित तवम एव सर्वस्याः पृथिव्याः पृथिवीपते समश च नाभिशङ्क्यश च यथा माता यथा पिता 47 कच चिद वयसनिनं शत्रुं निशम्य भरतर्षभ अभियासि जवेनैव समीक्ष्य तरिविधं बलम 48 पार्ष्णिमूलं च विज्ञाय वयवसायं पराजयम बलस्य च महाराज दत्त्वा वेतनम अग्रतः 49 कच चिच च बलमुख्येभ्यः परराष्ट्रे परंतप उपच्छन्नानि रत्नानि परयच्छसि यथार्हतः 50 कच चिद आत्मानम एवाग्रे विजित्य विजितेन्द्रियः पराञ जिगीषसे पार्थ परमत्तान अजितेन्द्रियान 51 कच चित ते यास्यतः शत्रून पूर्वं यान्ति सवनुष्ठिताः सामं दानं च भेदश च दण्डश च विधिवद गुणाः 52 कच चिन मूलं दृढं कृत्वा यात्रां यासि विशां पते तांश च विक्रमसे जेतुं जित्वा च परिरक्षसि 53 कच चिद अष्टाङ्गसंयुक्ता चतुर्विध बला चमूः बलमुख्यैः सुनीता ते दविषतां परतिबाधनी 54 कच चिल लवं च मुष्टिं च परराष्ट्रे परंतप अविहाय महाराज विहंसि समरे रिपून 55 कच चित सवपरराष्ट्रेषु बहवॊ ऽधिकृतास तव अर्थान समनुतिष्ठन्ति रक्षन्ति च परस्परम 56 कच चिद अभ्यवहार्याणि गात्रसंस्पर्शकानि च घरेयाणि च महाराज रक्षन्त्य अनुमतास तव 57 कच चित कॊशं च कॊष्ट्थं च वाहनं दवारम आयुधम आयश च कृतकल्याणैस तव भक्तैर अनुष्ठितः 58 कच चिद आभ्यन्तरेभ्यश च बाह्येभ्यश च विशां पते रक्षस्य आत्मानम एवाग्रे तांश च सवेभ्यॊ मिथश च तान 59 कच चिन न पाने दयूते वा करीडासु परमदासु च परतिजानन्ति पूर्वाह्णे वययं वयसनजं तव 60 कच चिद आयस्य चार्धेन चतुर्भागेन वा पुनः पादभागैस तरिभिर वापि वययः संशॊध्यते तव 61 कच चिज जञातीन गुरून वृद्धान वणिजः शिल्पिनः शरितान अभीक्ष्णम अनुगृह्णासि धनधान्येन दुर्गतान 62 कच चिद आयव्यये युक्ताः सर्वे गणक लेखकाः अनुतिष्ठन्ति पूर्वाह्णे नित्यम आयव्ययं तव 63 कच चिद अर्थेषु संप्रौढान हितकामान अनुप्रियान नापकर्षसि कर्मभ्यः पूर्वम अप्राप्य किल्बिषम 64 कच चिद विदित्वा पुरुषान उत्तमाधममध्यमान तवं कर्मस्व अनुरूपेषु नियॊजयसि भारत 65 कच चिन न लुब्धाश चौरा वा वैरिणॊ वा विशां पते अप्राप्तव्यवहारा वा तव कर्मस्व अनुष्ठिताः 66 कच चिन न लुब्धैश चौरैर वा कुमारैः सत्री बलेन वा तवया वा पीड्यते राष्ट्रं कच चित पुष्टाः कृषी वलाः 67 कच चिद राष्ट्रे तडागानि पूर्णानि च महान्ति च भागशॊ विनिविष्टानि न कृषिर देव मातृका 68 कच चिद बीजं च भक्तं च कर्षकायावसीदते परतिकं च शतं वृद्ध्या ददास्य ऋणम अनुग्रहम 69 कच चित सवनुष्ठिता तात वार्त्ता ते साधुभिर जनैः वार्त्तायां संश्रितस तात लॊकॊ ऽयं सुखम एधते 70 कच चिच छुचिकृतः पराज्ञाः पञ्च पञ्च सवनुष्ठिताः कषेमं कुर्वन्ति संहत्य राजञ जनपदे तव 71 कच चिन नगरगुप्त्य अर्थं गरामा नगरवत कृताः गरामवच च कृता रक्षा ते च सर्वे तद अर्पणाः 72 कच चिद बलेनानुगताः समानि विषमाणि च पुराणचौराः साध्यक्षाश चरन्ति विषये तव 73 कच चित सत्रियः सान्त्वयसि कच चित ताश च सुरक्षिताः कच चिन न शरद्दधास्य आसां कच चिद गुह्यं न भाषसे 74 कच चिच चारान निशि शरुत्वा तत कार्यम अनुचिन्त्य च परियाण्य अनुभवञ शेषे विदित्वाभ्यन्तरं जनम 75 कच चिद दवौ परथमौ यामौ रात्र्यां सुप्त्वा विशां पते संचिन्तयसि धर्मार्थौ याम उत्थाय पश्चिमे 76 कच चिद दर्शयसे नित्यं मनुष्यान समलंकृतान उत्थाय काले कालज्ञः सह पाण्डव मन्त्रिभिः 77 कच चिद रक्ताम्बरधराः खड्गहस्ताः सवलं कृताः अभितस तवाम उपासन्ते रक्षणार्थम अरिंदम 78 कच चिद दण्ड्येषु यमवत पूज्येषु च विशां पते परीक्ष्य वर्तसे सम्यग अप्रियेषु परियेषु च 79 कच चिच छारीरम आबाधम औषधैर नियमेन वा मानसं वृद्धसेवाभिः सदा पार्थापकर्षसि 80 कच चिद वैद्याश चिकित्सायाम अष्टाङ्गायां विशारदाः सुहृदश चानुरक्ताश च शरीरे ते हिताः सदा 81 कच चिन न मानान मॊहाद वा कामाद वापि विशां पते अर्थि परत्यर्थिनः पराप्तान अपास्यसि कथं चन 82 कच चिन न लॊभान मॊहाद वा विश्रम्भात परणयेन वा आश्रितानां मनुष्याणां वृत्तिं तवं संरुणत्सि च 83 कच चित पौरा न सहिता ये च ते राष्ट्रवासिनः तवया सह विरुध्यन्ते परैः करीताः कथं चन 84 कच चित ते दुर्बलः शत्रुर बलेनॊपनिपीडितः मन्त्रेण बलवान कश चिद उभाभ्यां वा युधिष्ठिर 85 कच चित सर्वे ऽनुरक्तास तवां भूमिपालाः परधानतः कच चित पराणांस तवदर्थेषु संत्यजन्ति तवया हृताः 86 कच चित ते सर्वविद्यासु गुणतॊ ऽरचा परवर्तते बराह्मणानां च साधूनां तव निःश्रेयसे शुभा 87 कच चिद धर्मे तरयी मूले पूर्वैर आचरिते जनैः वर्तमानस तथा कर्तुं तस्मिन कर्मणि वर्तसे 88 कच चित तव गृहे ऽननानि सवादून्य अश्नन्ति वै दविजाः गुणवन्ति गुणॊपेतास तवाध्यक्षं सदक्षिणम 89 कच चित करतून एकचित्तॊ वाजपेयांश च सर्वशः पुण्डरीकांश च कार्त्स्न्येन यतसे कर्तुम आत्मवान 90 कच चिज जञातीन गुरून वृद्धान दैवतांस तापसान अपि चैत्यांश च वृक्षान कल्याणान बराह्मणांश च नमस्यसि 91 कच चिद एषा च ते बुद्धिर वृत्तिर एषा च ते ऽनघ आयुष्या च यशस्या च धर्मकामार्थ दर्शिनी 92 एतया वर्तमानस्य बुद्ध्या राष्ट्रं न सीदति विजित्य च महीं राजा सॊ ऽतयन्तं सुखम एधते 93 कच चिद आर्यॊ विशुद्धात्मा कषारितश चौर कर्मणि अदृष्टशास्त्रकुशलैर न लॊभाद वध्यते शुचिः 94 पृष्टॊ गृहीतस तत्कारी तज्ज्ञैर दृष्टः स कारणः कच चिन न मुच्यते सतेनॊ दरव्यलॊभान नरर्षभ 95 वयुत्पन्ने कच चिद आढ्यस्य दरिद्रस्य च भारत अर्थान न मिथ्या पश्यन्ति तवामात्या हृता धनैः 96 नास्तिक्यम अनृतं करॊधं परमादं दीर्घसूत्रताम अदर्शनं जञानवताम आलस्यं कषिप्तचित्तताम 97 एकचिन्तनम अर्थानाम अनर्थज्ञैश च चिन्तनम निश्चितानाम अनारम्भं मन्त्रस्यापरिरक्षणम 98 मङ्गल्यस्याप्रयॊगं च परसङ्गं विषयेषु च कच चित तवं वर्जयस्य एतान राजदॊषांश चतुर्दश 99 कच चित ते सफला वेदाः कच चित ते सफलं धनम कच चित ते सफला दाराः कच चित ते सफलं शरुतम 100 [य] कथं वै सफला वेदाः कथं वै सफलं धनम कथं वै सफला दाराः कथं वै सफलं शरुतम 101 [न] अग्निहॊत्रफला वेदा दत्तभुक्त फलं धनम रतिपुत्र फला दाराः शीलवृत्तफलं शरुतम 102 [व] एतद आख्याय स मुनिर नारदः सुमहातपाः पप्रच्छानन्तरम इदं धर्मात्मानं युधिष्ठिरम 103 [न] कच चिद अभ्यागता दूराद वणिजॊ लाभकारणात यथॊक्तम अवहार्यन्ते शुल्कं शुल्कॊपजीविभिः 104 कच चित ते पुरुषा राजन पुरे राष्ट्रे च मानिताः उपानयन्ति पण्यानि उपधाभिर अवञ्चिताः 105 कच चिच छृणॊषि वृद्धानां धर्मार्थसहिता गिरः नित्यम अर्थविदां तात तथा धर्मानुदर्शिनाम 106 कच चित ते कृषितन्त्रेषु गॊषु पुष्पफलेषु च धर्मार्थं च दविजातिभ्यॊ दीयते मधुसर्पिषी 107 दरव्यॊपकरणं कच चित सर्वदा सर्वशिल्पिनाम चातुर्मास्यावरं सम्यङ नियतं संप्रयच्छसि 108 कच चित कृतं विजानीषे कर्तारं च परशंससि सतां मध्ये महाराज सत करॊषि च पूजयन 109 कच चित सूत्राणि सर्वाणि गृह्णासि भरतर्षभ हस्तिसूत्राश्वसूत्राणि रथसूत्राणि चाभिभॊ 110 कच चिद अभ्यस्यते शश्वद गृहे ते भरतर्षभ धनुर्वेदस्य सूत्रं च यन्त्रसूत्रं च नागरम 111 कच चिद अस्त्राणि सर्वाणि बरह्मदण्डश च ते ऽनघ विषयॊगाश च ते सर्वे विदिताः शत्रुनाशनाः 112 कच चिद अग्निभयाच चैव सर्पव्याल भयात तथा रॊगरक्षॊभयाच चैव राष्ट्रं सवं परिरक्षसि 113 कच चिद अन्धांश च मूकांश च पङ्गून वयङ्गान अबान्धवान पितेव पासि धर्मज्ञ तथा परव्रजितान अपि 114 [व] एताः कुरूणाम ऋषभॊ महात्मा; शरुत्वा गिरॊ बराह्मणसत्तमस्य परणम्य पादाव अभिवाद्य हृष्टॊ; राजाब्रवीन नारदं देवरूपम 115 एवं करिष्यामि यथा तवयॊक्तं; परज्ञा हि मे भूय एवाभिवृद्धा उक्त्वा तथा चैव चकार राजा; लेभे महीं सागरमेखलां च 116 [न] एवं यॊ वर्तते राजा चातुर्वर्ण्यस्य रक्षणे स विहृत्येह सुसुखी शक्रस्यैति सलॊकताम |
1
[v] tatra tatropaviṣṭeṣu pāṇḍaveṣu mahātmasu mahatsu copaviṣṭeṣu gandharveṣu ca bhārata 2 lokān anucaran sarvān āgamat tāṃ sabhām ṛṣiḥ nāradaḥ sumahātejā ṛṣibhiḥ sahitas tadā 3 pārijātena rājendra raivatena ca dhīmatā sumukhena ca saumyena devarṣir amitadyutiḥ sabhāsthān pāṇḍavān draṣṭuṃ prīyamāṇo manojavaḥ 4 tam āgatam ṛṣiṃ dṛṣṭvā nāradaṃ sarvadharmavit sahasā pāṇḍavaśreṣṭhaḥ pratyutthāyānujaiḥ saha abhyavādayata prītyā vinayāvanatas tadā 5 tad arham āsanaṃ tasmai saṃpradāya yathāvidhi arcayām āsa ratnaiś ca sarvakāmaiś ca dharmavit 6 so 'rcitaḥ pāṇḍavaiḥ sarvair maharṣir vedapāragaḥ dharmakāmārtha saṃyuktaṃ papracchedaṃ yudhiṣṭhiram 7 [n] kac cid arthāś ca kalpante dharme ca ramate manaḥ sukhāni cānubhūyante manaś ca na vihanyate 8 kac cid ācaritāṃ pūrvair naradeva pitā mahaiḥ vartase vṛttim akṣīṇāṃ dharmārthasahitāṃ nṛṣu 9 kac cid arthena vā dharmaṃ dharmeṇārtham athāpi vā ubhau vā prītisāreṇa na kāmena prabādhase 10 kac cid arthaṃ ca dharmaṃ ca kāmaṃ ca jayatāṃ vara vibhajya kāle kālajña sadā varada sevase 11 kac cid rājaguṇaiḥ ṣaḍbhiḥ saptopāyāṃs tathānagha balābalaṃ tathā samyak caturdaśa parīkṣase 12 kac cid ātmānam anvīkṣya parāṃś ca jayatāṃ vara tathā saṃdhāya karmāṇi aṣṭau bhārata sevase 13 kac cit prakṛtayaḥ ṣaṭ te na luptā bharatarṣabha āḍhyās tathāvyasaninaḥ svanuraktāś ca sarvaśaḥ 14 kac cin na tarkair dūtair vā ye cāpy apariśaṅkitāḥ tvatto vā tava vāmātyair bhidyate jātu mantritam 15 kac cit saṃdhiṃ yathākālaṃ vigrahaṃ copasevase kac cid vṛttim udāsīne madhyame cānuvartase 16 kac cid ātmasamā buddhyā śucayo jīvitakṣamāḥ kulīnāś cānuraktāś ca kṛtās te vīra mantriṇaḥ 17 vijayo mantramūlo hi rājñāṃ bhavati bhārata susaṃvṛto mantradhanair amātyaiḥ śāstrakovidaiḥ 18 kac cin nidrāvaśaṃ naiṣi kac cit kāle vibudhyase kac cic cāpararātreṣu cintayasy artham arthavit 19 kac cin mantrayase naikaḥ kac cin na bahubhiḥ saha kac cit te mantrito mantro na rāṣṭram anudhāvati 20 kac cid arthān viniścitya laghumūlān mahodayān kṣipram ārabhase kartuṃ na vighnayasi tādṛśān 21 kac cin na sarve karmāntāḥ parokṣās te viśaṅkitāḥ sarve vā punar utsṛṣṭāḥ saṃsṛṣṭaṃ hy atra kāraṇam 22 kac cid rājan kṛtāny eva kṛtaprāyāni vā punaḥ vidus te vīrakarmāṇi nānavāptāni kāni cit 23 kac cit kāraṇikāḥ sarve sarvaśāstreṣu kovidāḥ kārayanti kumārāṃś ca yodhamukhyāṃś ca sarvaśaḥ 24 kac cit sahasrair mūrkhāṇām ekaṃ krīṇāsi paṇḍitam paṇḍito hy arthakṛcchreṣu kuryān niḥśreyasaṃ param 25 kac cid durgāṇi sarvāṇi dhanadhānyāyudhodakaiḥ yantraiś ca paripūrṇāni tathā śilpidhanurdharaiḥ 26 eko 'py amātyo medhāvī śūro dānto vicakṣaṇaḥ rājānaṃ rājaputraṃ vā prāpayen mahatīṃ śriyam 27 kac cid aṣṭā daśānyeṣu svapakṣe daśa pañca ca tribhis tribhir avijñātair vetsi tīrthāni cārakaiḥ 28 kac cid dviṣām aviditaḥ pratiyattaś ca sarvadā nityayukto ripūn sarvān vīkṣase ripusūdana 29 kac cid vinayasaṃpannaḥ kulaputro bahuśrutaḥ anasūyur anupraṣṭā satkṛtas te purohitaḥ 30 kac cid agniṣu te yukto vidhijño matimān ṛjuḥ hutaṃ ca hoṣyamānaṃ ca kāle vedayate sadā 31 kac cid aṅgeṣu niṣṇāto jyotiṣāṃ pratipādakaḥ utpāteṣu ca sarveṣu daivajñaḥ kuśalas tava 32 kac cin mukhyā mahatsv eva madhyameṣu ca madhyamāḥ jaghanyāś ca jaghanyeṣu bhṛtyāḥ karmasu yojitāḥ 33 amātyān upadhātītān pitṛpaitāmahāñ śucīn śreṣṭhāñ śreṣṭheṣu kac cit tvaṃ niyojayasi karmasu 34 kac cin nogreṇa daṇḍena bhṛśam udvejita prajāḥ rāṣṭraṃ tavānuśāsanti mantriṇo bharatarṣabha 35 kac cit tvāṃ nāvajānanti yājakāḥ patitaṃ yathā ugrapratigrahītāraṃ kāmayānam iva striyaḥ 36 kac cid dhṛṣṭaś ca śūraś ca matimān dhṛtimāñ śuciḥ kulīnaś cānuraktaś ca dakṣaḥ senāpatis tava 37 kac cid balasya te mukhyāḥ sarve yuddhaviśāradāḥ dṛṣṭāpadānā vikrāntās tvayā satkṛtya mānitāḥ 38 kac cid balasya bhaktaṃ ca vetanaṃ ca yathocitam saṃprāptakālaṃ dātavyaṃ dadāsi na vikarṣasi 39 kālātikramaṇād dhyete bhakta vetanayor bhṛtāḥ bhartuḥ kupyanti daurgatyāt so 'narthaḥ sumahān smṛtaḥ 40 kac cit sarve 'nuraktās tvāṃ kulaputrāḥ pradhānataḥ kac cit prāṇāṃs tavārtheṣu saṃtyajanti sadā yudhi 41 kac cin naiko bahūn arthān sarvaśaḥ sāmparāyikān anuśāssi yathākāmaṃ kāmātmā śāsanātigaḥ 42 kac cit puruṣakāreṇa puruṣaḥ karmaśobhayan labhate mānam adhikaṃ bhūyo vā bhakta vetanam 43 kac cid vidyāvinītāṃś ca narāñ jñānaviśāradān yathārhaṃ guṇataś caiva dānenābhyavapadyase 44 kac cid dārān manuṣyāṇāṃ tavārthe mṛtyum eyuṣām vyasanaṃ cābhyupetānāṃ bibharṣi bharatarṣabha 45 kac cid bhayād upanataṃ klībaṃ vā ripum āgatam yuddhe vā vijitaṃ pārtha putravat parirakṣasi 46 kac cit tvam eva sarvasyāḥ pṛthivyāḥ pṛthivīpate samaś ca nābhiśaṅkyaś ca yathā mātā yathā pitā 47 kac cid vyasaninaṃ śatruṃ niśamya bharatarṣabha abhiyāsi javenaiva samīkṣya trividhaṃ balam 48 pārṣṇimūlaṃ ca vijñāya vyavasāyaṃ parājayam balasya ca mahārāja dattvā vetanam agrataḥ 49 kac cic ca balamukhyebhyaḥ pararāṣṭre paraṃtapa upacchannāni ratnāni prayacchasi yathārhataḥ 50 kac cid ātmānam evāgre vijitya vijitendriyaḥ parāñ jigīṣase pārtha pramattān ajitendriyān 51 kac cit te yāsyataḥ śatrūn pūrvaṃ yānti svanuṣṭhitāḥ sāmaṃ dānaṃ ca bhedaś ca daṇḍaś ca vidhivad guṇāḥ 52 kac cin mūlaṃ dṛḍhaṃ kṛtvā yātrāṃ yāsi viśāṃ pate tāṃś ca vikramase jetuṃ jitvā ca parirakṣasi 53 kac cid aṣṭāṅgasaṃyuktā caturvidha balā camūḥ balamukhyaiḥ sunītā te dviṣatāṃ pratibādhanī 54 kac cil lavaṃ ca muṣṭiṃ ca pararāṣṭre paraṃtapa avihāya mahārāja vihaṃsi samare ripūn 55 kac cit svapararāṣṭreṣu bahavo 'dhikṛtās tava arthān samanutiṣṭhanti rakṣanti ca parasparam 56 kac cid abhyavahāryāṇi gātrasaṃsparśakāni ca ghreyāṇi ca mahārāja rakṣanty anumatās tava 57 kac cit kośaṃ ca koṣṭthaṃ ca vāhanaṃ dvāram āyudham āyaś ca kṛtakalyāṇais tava bhaktair anuṣṭhitaḥ 58 kac cid ābhyantarebhyaś ca bāhyebhyaś ca viśāṃ pate rakṣasy ātmānam evāgre tāṃś ca svebhyo mithaś ca tān 59 kac cin na pāne dyūte vā krīḍāsu pramadāsu ca pratijānanti pūrvāhṇe vyayaṃ vyasanajaṃ tava 60 kac cid āyasya cārdhena caturbhāgena vā punaḥ pādabhāgais tribhir vāpi vyayaḥ saṃśodhyate tava 61 kac cij jñātīn gurūn vṛddhān vaṇijaḥ śilpinaḥ śritān abhīkṣṇam anugṛhṇāsi dhanadhānyena durgatān 62 kac cid āyavyaye yuktāḥ sarve gaṇaka lekhakāḥ anutiṣṭhanti pūrvāhṇe nityam āyavyayaṃ tava 63 kac cid artheṣu saṃprauḍhān hitakāmān anupriyān nāpakarṣasi karmabhyaḥ pūrvam aprāpya kilbiṣam 64 kac cid viditvā puruṣān uttamādhamamadhyamān tvaṃ karmasv anurūpeṣu niyojayasi bhārata 65 kac cin na lubdhāś caurā vā vairiṇo vā viśāṃ pate aprāptavyavahārā vā tava karmasv anuṣṭhitāḥ 66 kac cin na lubdhaiś caurair vā kumāraiḥ strī balena vā tvayā vā pīḍyate rāṣṭraṃ kac cit puṣṭāḥ kṛṣī valāḥ 67 kac cid rāṣṭre taḍāgāni pūrṇāni ca mahānti ca bhāgaśo viniviṣṭāni na kṛṣir deva mātṛkā 68 kac cid bījaṃ ca bhaktaṃ ca karṣakāyāvasīdate pratikaṃ ca śataṃ vṛddhyā dadāsy ṛṇam anugraham 69 kac cit svanuṣṭhitā tāta vārttā te sādhubhir janaiḥ vārttāyāṃ saṃśritas tāta loko 'yaṃ sukham edhate 70 kac cic chucikṛtaḥ prājñāḥ pañca pañca svanuṣṭhitāḥ kṣemaṃ kurvanti saṃhatya rājañ janapade tava 71 kac cin nagaragupty arthaṃ grāmā nagaravat kṛtāḥ grāmavac ca kṛtā rakṣā te ca sarve tad arpaṇāḥ 72 kac cid balenānugatāḥ samāni viṣamāṇi ca purāṇacaurāḥ sādhyakṣāś caranti viṣaye tava 73 kac cit striyaḥ sāntvayasi kac cit tāś ca surakṣitāḥ kac cin na śraddadhāsy āsāṃ kac cid guhyaṃ na bhāṣase 74 kac cic cārān niśi śrutvā tat kāryam anucintya ca priyāṇy anubhavañ śeṣe viditvābhyantaraṃ janam 75 kac cid dvau prathamau yāmau rātryāṃ suptvā viśāṃ pate saṃcintayasi dharmārthau yāma utthāya paścime 76 kac cid darśayase nityaṃ manuṣyān samalaṃkṛtān utthāya kāle kālajñaḥ saha pāṇḍava mantribhiḥ 77 kac cid raktāmbaradharāḥ khaḍgahastāḥ svalaṃ kṛtāḥ abhitas tvām upāsante rakṣaṇārtham ariṃdama 78 kac cid daṇḍyeṣu yamavat pūjyeṣu ca viśāṃ pate parīkṣya vartase samyag apriyeṣu priyeṣu ca 79 kac cic chārīram ābādham auṣadhair niyamena vā mānasaṃ vṛddhasevābhiḥ sadā pārthāpakarṣasi 80 kac cid vaidyāś cikitsāyām aṣṭāṅgāyāṃ viśāradāḥ suhṛdaś cānuraktāś ca śarīre te hitāḥ sadā 81 kac cin na mānān mohād vā kāmād vāpi viśāṃ pate arthi pratyarthinaḥ prāptān apāsyasi kathaṃ cana 82 kac cin na lobhān mohād vā viśrambhāt praṇayena vā āśritānāṃ manuṣyāṇāṃ vṛttiṃ tvaṃ saṃruṇatsi ca 83 kac cit paurā na sahitā ye ca te rāṣṭravāsinaḥ tvayā saha virudhyante paraiḥ krītāḥ kathaṃ cana 84 kac cit te durbalaḥ śatrur balenopanipīḍitaḥ mantreṇa balavān kaś cid ubhābhyāṃ vā yudhiṣṭhira 85 kac cit sarve 'nuraktās tvāṃ bhūmipālāḥ pradhānataḥ kac cit prāṇāṃs tvadartheṣu saṃtyajanti tvayā hṛtāḥ 86 kac cit te sarvavidyāsu guṇato 'rcā pravartate brāhmaṇānāṃ ca sādhūnāṃ tava niḥśreyase śubhā 87 kac cid dharme trayī mūle pūrvair ācarite janaiḥ vartamānas tathā kartuṃ tasmin karmaṇi vartase 88 kac cit tava gṛhe 'nnāni svādūny aśnanti vai dvijāḥ guṇavanti guṇopetās tavādhyakṣaṃ sadakṣiṇam 89 kac cit kratūn ekacitto vājapeyāṃś ca sarvaśaḥ puṇḍarīkāṃś ca kārtsnyena yatase kartum ātmavān 90 kac cij jñātīn gurūn vṛddhān daivatāṃs tāpasān api caityāṃś ca vṛkṣān kalyāṇān brāhmaṇāṃś ca namasyasi 91 kac cid eṣā ca te buddhir vṛttir eṣā ca te 'nagha āyuṣyā ca yaśasyā ca dharmakāmārtha darśinī 92 etayā vartamānasya buddhyā rāṣṭraṃ na sīdati vijitya ca mahīṃ rājā so 'tyantaṃ sukham edhate 93 kac cid āryo viśuddhātmā kṣāritaś caura karmaṇi adṛṣṭaśāstrakuśalair na lobhād vadhyate śuciḥ 94 pṛṣṭo gṛhītas tatkārī tajjñair dṛṣṭaḥ sa kāraṇaḥ kac cin na mucyate steno dravyalobhān nararṣabha 95 vyutpanne kac cid āḍhyasya daridrasya ca bhārata arthān na mithyā paśyanti tavāmātyā hṛtā dhanaiḥ 96 nāstikyam anṛtaṃ krodhaṃ pramādaṃ dīrghasūtratām adarśanaṃ jñānavatām ālasyaṃ kṣiptacittatām 97 ekacintanam arthānām anarthajñaiś ca cintanam niścitānām anārambhaṃ mantrasyāparirakṣaṇam 98 maṅgalyasyāprayogaṃ ca prasaṅgaṃ viṣayeṣu ca kac cit tvaṃ varjayasy etān rājadoṣāṃś caturdaśa 99 kac cit te saphalā vedāḥ kac cit te saphalaṃ dhanam kac cit te saphalā dārāḥ kac cit te saphalaṃ śrutam 100 [y] kathaṃ vai saphalā vedāḥ kathaṃ vai saphalaṃ dhanam kathaṃ vai saphalā dārāḥ kathaṃ vai saphalaṃ śrutam 101 [n] agnihotraphalā vedā dattabhukta phalaṃ dhanam ratiputra phalā dārāḥ śīlavṛttaphalaṃ śrutam 102 [v] etad ākhyāya sa munir nāradaḥ sumahātapāḥ papracchānantaram idaṃ dharmātmānaṃ yudhiṣṭhiram 103 [n] kac cid abhyāgatā dūrād vaṇijo lābhakāraṇāt yathoktam avahāryante śulkaṃ śulkopajīvibhiḥ 104 kac cit te puruṣā rājan pure rāṣṭre ca mānitāḥ upānayanti paṇyāni upadhābhir avañcitāḥ 105 kac cic chṛṇoṣi vṛddhānāṃ dharmārthasahitā giraḥ nityam arthavidāṃ tāta tathā dharmānudarśinām 106 kac cit te kṛṣitantreṣu goṣu puṣpaphaleṣu ca dharmārthaṃ ca dvijātibhyo dīyate madhusarpiṣī 107 dravyopakaraṇaṃ kac cit sarvadā sarvaśilpinām cāturmāsyāvaraṃ samyaṅ niyataṃ saṃprayacchasi 108 kac cit kṛtaṃ vijānīṣe kartāraṃ ca praśaṃsasi satāṃ madhye mahārāja sat karoṣi ca pūjayan 109 kac cit sūtrāṇi sarvāṇi gṛhṇāsi bharatarṣabha hastisūtrāśvasūtrāṇi rathasūtrāṇi cābhibho 110 kac cid abhyasyate śaśvad gṛhe te bharatarṣabha dhanurvedasya sūtraṃ ca yantrasūtraṃ ca nāgaram 111 kac cid astrāṇi sarvāṇi brahmadaṇḍaś ca te 'nagha viṣayogāś ca te sarve viditāḥ śatrunāśanāḥ 112 kac cid agnibhayāc caiva sarpavyāla bhayāt tathā rogarakṣobhayāc caiva rāṣṭraṃ svaṃ parirakṣasi 113 kac cid andhāṃś ca mūkāṃś ca paṅgūn vyaṅgān abāndhavān piteva pāsi dharmajña tathā pravrajitān api 114 [v] etāḥ kurūṇām ṛṣabho mahātmā; śrutvā giro brāhmaṇasattamasya praṇamya pādāv abhivādya hṛṣṭo; rājābravīn nāradaṃ devarūpam 115 evaṃ kariṣyāmi yathā tvayoktaṃ; prajñā hi me bhūya evābhivṛddhā uktvā tathā caiva cakāra rājā; lebhe mahīṃ sāgaramekhalāṃ ca 116 [n] evaṃ yo vartate rājā cāturvarṇyasya rakṣaṇe sa vihṛtyeha susukhī śakrasyaiti salokatām |
The Mahabharata in Sanskrit
Book 2
Chapter 6
|
1
[व] संपूज्याथाभ्यनुज्ञातॊ महर्षेर वचनात परम परत्युवाचानुपूर्व्येण धर्मराजॊ युधिष्ठिरः 2 भगवन नयाय्यम आहैतं यथावद धर्मनिश्चयम यथाशक्ति यथान्यायं करियते ऽयं विधिर मया 3 राजभिर यद यथा कार्यं पुरा तत तन न संशयः यथान्यायॊपनीतार्थं कृतं हेतुमद अर्थवत 4 वयं तु सत्पथं तेषां यातुम इच्छामहे परभॊ न तु शक्यं तथा गन्तुं यथा तैर नियतात्मभिः 5 एवम उक्त्वा स धर्मात्मा वाक्यं तद अभिपूज्य च मुहूर्तात पराप्तकालं च दृष्ट्वा लॊकचरं मुनिम 6 नारदं सवस्थम आसीनम उपासीनॊ युधिष्ठिरः अपृच्छत पाण्डवस तत्र राजमध्ये महामतिः 7 भवान संचरते लॊकान सदा नानाविधान बहून बरह्मणा निर्मितान पूर्वं परेक्षमाणॊ मनॊजवः 8 ईदृशी भवता का चिद दृष्टपूर्वा सभा कव चित इतॊ वा शरेयसी बरह्मंस तन ममाचक्ष्व पृच्छतः 9 तच छरुत्वा नारदस तस्य धर्मराजस्य भाषितम पाण्डवं परत्युवाचेदं समयन मधुरया गिरा 10 मानुषेषु न मे तात दृष्टपूर्वा न च शरुता सभा मणिमयी राजन यथेयं तव भारत 11 सभां तु पितृराजस्य वरुणस्य च धीमतः कथयिष्ये तथेन्द्रस्य कैलासनिलयस्य च 12 बरह्मणश च सभां दिव्यां कथयिष्ये गतक्लमाम यदि ते शरवणे बुद्धिर वर्तते भरतर्षभ 13 नारदेनैवम उक्तस तु धर्मराजॊ युधिष्ठिरः पराञ्जलिर भरातृभिः सार्धं तैश च सर्वैर नृपैर वृतः 14 नारदं परत्युवाचेदं धर्मराजॊ महामनाः सभाः कथय ताः सर्वाः शरॊतुम इच्छामहे वयम 15 किं दरव्यास ताः सभा बरह्मन किं विस्ताराः किम आयताः पितामहं च के तस्यां सभायां पर्युपासते 16 वासवं देवराजं च यमं वैवस्वतं च के वरुणं च कुबेरं च सभायां पर्युपासते 17 एतत सर्वं यथातत्त्वं देवर्षे वदतस तव शरॊतुम इच्छाम सहिताः परं कौतूहलं हि नः 18 एवम उक्तः पाण्डवेन नारदः परत्युवाच तम करमेण राजन दिव्यास ताः शरूयन्ताम इह नः सभाः |
1
[v] saṃpūjyāthābhyanujñāto maharṣer vacanāt param pratyuvācānupūrvyeṇa dharmarājo yudhiṣṭhiraḥ 2 bhagavan nyāyyam āhaitaṃ yathāvad dharmaniścayam yathāśakti yathānyāyaṃ kriyate 'yaṃ vidhir mayā 3 rājabhir yad yathā kāryaṃ purā tat tan na saṃśayaḥ yathānyāyopanītārthaṃ kṛtaṃ hetumad arthavat 4 vayaṃ tu satpathaṃ teṣāṃ yātum icchāmahe prabho na tu śakyaṃ tathā gantuṃ yathā tair niyatātmabhiḥ 5 evam uktvā sa dharmātmā vākyaṃ tad abhipūjya ca muhūrtāt prāptakālaṃ ca dṛṣṭvā lokacaraṃ munim 6 nāradaṃ svastham āsīnam upāsīno yudhiṣṭhiraḥ apṛcchat pāṇḍavas tatra rājamadhye mahāmatiḥ 7 bhavān saṃcarate lokān sadā nānāvidhān bahūn brahmaṇā nirmitān pūrvaṃ prekṣamāṇo manojavaḥ 8 īdṛśī bhavatā kā cid dṛṣṭapūrvā sabhā kva cit ito vā śreyasī brahmaṃs tan mamācakṣva pṛcchataḥ 9 tac chrutvā nāradas tasya dharmarājasya bhāṣitam pāṇḍavaṃ pratyuvācedaṃ smayan madhurayā girā 10 mānuṣeṣu na me tāta dṛṣṭapūrvā na ca śrutā sabhā maṇimayī rājan yatheyaṃ tava bhārata 11 sabhāṃ tu pitṛrājasya varuṇasya ca dhīmataḥ kathayiṣye tathendrasya kailāsanilayasya ca 12 brahmaṇaś ca sabhāṃ divyāṃ kathayiṣye gataklamām yadi te śravaṇe buddhir vartate bharatarṣabha 13 nāradenaivam uktas tu dharmarājo yudhiṣṭhiraḥ prāñjalir bhrātṛbhiḥ sārdhaṃ taiś ca sarvair nṛpair vṛtaḥ 14 nāradaṃ pratyuvācedaṃ dharmarājo mahāmanāḥ sabhāḥ kathaya tāḥ sarvāḥ śrotum icchāmahe vayam 15 kiṃ dravyās tāḥ sabhā brahman kiṃ vistārāḥ kim āyatāḥ pitāmahaṃ ca ke tasyāṃ sabhāyāṃ paryupāsate 16 vāsavaṃ devarājaṃ ca yamaṃ vaivasvataṃ ca ke varuṇaṃ ca kuberaṃ ca sabhāyāṃ paryupāsate 17 etat sarvaṃ yathātattvaṃ devarṣe vadatas tava śrotum icchāma sahitāḥ paraṃ kautūhalaṃ hi naḥ 18 evam uktaḥ pāṇḍavena nāradaḥ pratyuvāca tam krameṇa rājan divyās tāḥ śrūyantām iha naḥ sabhāḥ |
The Mahabharata in Sanskrit
Book 2
Chapter 7
|
1
[न] शक्रस्य तु सभा दिव्या भास्वरा कर्मभिर जिता सवयं शक्रेण कौरव्य निर्मितार्क समप्रभा 2 विस्तीर्णा यॊजनशतं शतम अध्यर्धम आयता वैहायसी कामगमा पञ्चयॊजनम उच्छ्रिता 3 जरा शॊकक्लमापेता निरातङ्का शिवा शुभा वेश्मासनवती रम्या दिव्यपादप शॊभिता 4 तस्यां देवेश्वरः पार्थ सभायां परमासने आस्ते शच्या महेन्द्राण्या शरिया लक्ष्म्या च भारत 5 बिभ्रद वपुर अनिर्देश्यं किरीटी लॊहिताङ्गदः विरजॊऽमबरश चित्रमाल्यॊ हरीकीर्तिद्युतिभिः सह 6 तस्याम उपासते नित्यं महात्मानं शतक्रतुम मरुतः सर्वतॊ राजन सर्वे च गृहमेधिनः सिद्धा देवर्षयश चैव साध्या देवगणास तथा 7 एते सानुचराः सर्वे दिव्यरूपाः सवलंकृताः उपासते महात्मानं देवराजम अरिंदमम 8 तथा देवर्षयः सर्वे पार्थ शक्रम उपासते अमला धूतपाप्मानॊ दीप्यमाना इवाग्नयः तेजस्विनः सॊमयुजॊ विपापा विगतक्लमाः 9 पराशरः पर्वतश च तथा सावर्णि गालवौ शङ्खश च लिखितश चैव तथा गौर शिरा मुनिः 10 दुर्वासाश च दीर्घतपा याज्ञवल्क्यॊ ऽथ भालुकिः उद्दालकः शवेतकेतुस तथा शाट्यायनः परभुः 11 हविष्मांश च गविष्ठश च हरिश चन्द्रश च पार्थिवः हृद्यश चॊदर शाण्डिल्यः पाराशर्यः कृषी हवलः 12 वातस्कन्धॊ विशाखश च विधाता काल एव च अनन्त दन्तस तवष्टा च विश्वकर्मा च तुम्बुरुः 13 अयॊनिजा यॊनिजाश च वायुभक्षा हुताशिनः ईशानं सर्वलॊकस्य वज्रिणं समुपासते 14 सहदेवः सुनीथश च वाल्मीकिश च महातपाः समीकः सत्यवांश चैव परचेताः सत्यसंगरः 15 मेधातिथिर वामदेवः पुलस्त्यः पुलहः करतुः मरुत्तश च मरीचिश च सथाणुश चात्रिर महातपाः 16 कक्षीवान गौतमस तार्क्ष्यस तथा वैश्वानरॊ मुनिः मुनिः कालक वृक्षीय आश्राव्यॊ ऽथ हिरण्यदः संवर्तॊ देव हव्यश च विष्वक्सेनश च वीर्यवान 17 दिव्या आपस तथौषध्यः शरद्धा मेधा सरस्वती अर्थॊ धर्मश च कामश च विद्युतश चापि पाण्डव 18 जलवाहास तथा मेघा वायवः सतनयित्नवः पराची दिग यज्ञवाहाश च पावकाः सप्त विंशतिः 19 अग्नी षॊमौ तथेन्द्राग्नी मित्रॊ ऽथ सवितार्यमा भगॊ विश्वे च साध्याश च शुक्रॊ मन्थी च भारत 20 यज्ञाश च दक्षिणाश चैव गरहाः सतॊभाश च सर्वशः यज्ञवाहाश च ये मन्त्राः सर्वे तत्र समासते 21 तथैवाप्सरसॊ राजन गन्धर्वाश च मनॊरमाः नृत्यवादित्रगीतैश च हास्यैश च विविधैर अपि रमयन्ति सम नृपते देवराजं शतक्रतुम 22 सतुतिभिर मङ्गलैश चैव सतुवन्तः कर्मभिस तथा विक्रमैश च महात्मानं बलवृत्रनिषूदनम 23 बरह्म राजर्षयः सर्वे सर्वे देवर्षयस तथा विमानैर विविधैर दिव्यैर भराजमानैर इवाग्निभिः 24 सरग्विणॊ भूषिताश चान्ये यान्ति चायान्ति चापरे बृहस्पतिश च शुक्रश च तस्याम आययतुः सह 25 एते चान्ये च बहवॊ यतात्मानॊ यतव्रताः विमानैश चन्द्रसंकाशैः सॊमवत परियदर्शनाः बरह्मणॊ वचनाद राजन भृगुः सप्तर्षयस तथा 26 एषा सभा मया राजन दृष्टा पुष्कर मालिनी शतक्रतॊर महाराज याम्यां शृणु ममानघ |
1
[n] śakrasya tu sabhā divyā bhāsvarā karmabhir jitā svayaṃ śakreṇa kauravya nirmitārka samaprabhā 2 vistīrṇā yojanaśataṃ śatam adhyardham āyatā vaihāyasī kāmagamā pañcayojanam ucchritā 3 jarā śokaklamāpetā nirātaṅkā śivā śubhā veśmāsanavatī ramyā divyapādapa śobhitā 4 tasyāṃ deveśvaraḥ pārtha sabhāyāṃ paramāsane āste śacyā mahendrāṇyā śriyā lakṣmyā ca bhārata 5 bibhrad vapur anirdeśyaṃ kirīṭī lohitāṅgadaḥ virajo'mbaraś citramālyo hrīkīrtidyutibhiḥ saha 6 tasyām upāsate nityaṃ mahātmānaṃ śatakratum marutaḥ sarvato rājan sarve ca gṛhamedhinaḥ siddhā devarṣayaś caiva sādhyā devagaṇās tathā 7 ete sānucarāḥ sarve divyarūpāḥ svalaṃkṛtāḥ upāsate mahātmānaṃ devarājam ariṃdamam 8 tathā devarṣayaḥ sarve pārtha śakram upāsate amalā dhūtapāpmāno dīpyamānā ivāgnayaḥ tejasvinaḥ somayujo vipāpā vigataklamāḥ 9 parāśaraḥ parvataś ca tathā sāvarṇi gālavau śaṅkhaś ca likhitaś caiva tathā gaura śirā muniḥ 10 durvāsāś ca dīrghatapā yājñavalkyo 'tha bhālukiḥ uddālakaḥ śvetaketus tathā śāṭyāyanaḥ prabhuḥ 11 haviṣmāṃś ca gaviṣṭhaś ca hariś candraś ca pārthivaḥ hṛdyaś codara śāṇḍilyaḥ pārāśaryaḥ kṛṣī hvalaḥ 12 vātaskandho viśākhaś ca vidhātā kāla eva ca ananta dantas tvaṣṭā ca viśvakarmā ca tumburuḥ 13 ayonijā yonijāś ca vāyubhakṣā hutāśinaḥ īśānaṃ sarvalokasya vajriṇaṃ samupāsate 14 sahadevaḥ sunīthaś ca vālmīkiś ca mahātapāḥ samīkaḥ satyavāṃś caiva pracetāḥ satyasaṃgaraḥ 15 medhātithir vāmadevaḥ pulastyaḥ pulahaḥ kratuḥ maruttaś ca marīciś ca sthāṇuś cātrir mahātapāḥ 16 kakṣīvān gautamas tārkṣyas tathā vaiśvānaro muniḥ muniḥ kālaka vṛkṣīya āśrāvyo 'tha hiraṇyadaḥ saṃvarto deva havyaś ca viṣvaksenaś ca vīryavān 17 divyā āpas tathauṣadhyaḥ śraddhā medhā sarasvatī artho dharmaś ca kāmaś ca vidyutaś cāpi pāṇḍava 18 jalavāhās tathā meghā vāyavaḥ stanayitnavaḥ prācī dig yajñavāhāś ca pāvakāḥ sapta viṃśatiḥ 19 agnī ṣomau tathendrāgnī mitro 'tha savitāryamā bhago viśve ca sādhyāś ca śukro manthī ca bhārata 20 yajñāś ca dakṣiṇāś caiva grahāḥ stobhāś ca sarvaśaḥ yajñavāhāś ca ye mantrāḥ sarve tatra samāsate 21 tathaivāpsaraso rājan gandharvāś ca manoramāḥ nṛtyavāditragītaiś ca hāsyaiś ca vividhair api ramayanti sma nṛpate devarājaṃ śatakratum 22 stutibhir maṅgalaiś caiva stuvantaḥ karmabhis tathā vikramaiś ca mahātmānaṃ balavṛtraniṣūdanam 23 brahma rājarṣayaḥ sarve sarve devarṣayas tathā vimānair vividhair divyair bhrājamānair ivāgnibhiḥ 24 sragviṇo bhūṣitāś cānye yānti cāyānti cāpare bṛhaspatiś ca śukraś ca tasyām āyayatuḥ saha 25 ete cānye ca bahavo yatātmāno yatavratāḥ vimānaiś candrasaṃkāśaiḥ somavat priyadarśanāḥ brahmaṇo vacanād rājan bhṛguḥ saptarṣayas tathā 26 eṣā sabhā mayā rājan dṛṣṭā puṣkara mālinī śatakrator mahārāja yāmyāṃ śṛṇu mamānagha |
The Mahabharata in Sanskrit
Book 2
Chapter 8
|
1
[न] कथयिष्ये सभां दिव्यां युधिष्ठिर निबॊध ताम वैवस्वतस्य याम अर्थे विश्वकर्मा चकार ह 2 तैजसी सा सभा राजन बभूव शतयॊजना विस्तारायाम संपन्ना भूयसी चापि पाण्डव 3 अर्कप्रकाशा भराजिष्णुः सर्वतः कामचारिणी नैवातिशीता नात्युष्णा मनसश च परहर्षिणी 4 न शॊकॊ न जरा तस्यां कषुत्पिपासे न चाप्रियम न च दैन्यं कलमॊ वापि परतिकूलं न चाप्य उत 5 सर्वे कामाः सथितास तस्यां ये दिव्या ये च मानुषाः रसवच च परभूतं च भक्ष्यभॊज्यम अरिंदम 6 पुण्यगन्धाः सरजस तत्र नित्यपुष्पफलद्रुमाः रसवन्ति च तॊयानि शीतान्य उष्णानि चैव ह 7 तस्यां राजर्षयः पुण्यास तथा बरह्मर्षयॊ ऽमलाः यमं वैवस्वतं तात परहृष्टाः पर्युपासते 8 ययातिर नहुषः पूरुर मान्धाता सॊमकॊ नृगः तरसदस्युश च तुरयः कृतवीर्यः शरुतश्रवाः 9 अरिप्रणुत सुसिंहश च कृतवेगः कृतिर निमिः परतर्दनः शिबिर मत्स्यः पृथ्व अक्षॊ ऽथ बृहद्रथः 10 ऐडॊ मरुत्तः कुशिकः सांकाश्यः सांकृतिर भवः चतुरश्वः सदश्वॊर्मिः कार्तवीर्यश च पार्थिवः 11 भरतस तथा सुरथः सुनीथॊ नैषधॊ नलः दिवॊदासॊ ऽथ सुमना अम्बरीषॊ भगीरथः 12 वयश्वः सदश्वॊ वध्र्य अश्वः पञ्च हस्तः पृथुश्रवाः रुषद्गुर वृषसेनश च कषुपश च सुमहाबलः 13 रुषद अश्वॊ वसु मनाः पुरु कुत्सॊ धवजी रथी आर्ष्टिषेणॊ दिलीपश च महात्मा चाप्य उशीनरः 14 औशीनरः पुण्डरीकः शर्यातिः शरभः शुचिः अङ्गॊ ऽरिष्टश च वेनश च दुःषन्तः संजयॊ जयः 15 भाङ्गास्वरिः सुनीथश च निषधॊ ऽथ तविषी रथः करंधमॊ बाह्लिकश च सुद्युम्नॊ बलवान मधुः 16 कपॊत रॊमा तृणकः सहदेवार्जुनौ तथा रामॊ दाशरथिश चैव लक्ष्मणॊ ऽथ परतर्दनः 17 अलर्कः कक्षसेनश च गयॊ गौराश्व एव च जामदग्न्यॊ ऽथ रामॊ ऽतर नाभाग सगरौ तथा 18 भूरि दयुम्नॊ महाश्वश च पृथ्व अश्वॊ जनकस तथा वैन्यॊ राजा वारि षेणः पुरुजॊ जनमेजयः 19 बरह्मदत्तस तरिगर्तश च राजॊपरि चरस तथा इन्द्र दयुम्नॊ भीम जानुर गयः पृष्ठॊ नयॊ ऽनघ 20 पद्मॊ ऽथ मुचुकुन्दश च भूरि दयुम्नः परसेनजित अरिष्टनेमिः परद्युम्नः पृथग अश्वॊ ऽजकस तथा 21 शतं मत्स्या नृपतयः शतं नीपाः शतं हयाः धृतराष्ट्राश चैकशतम अशीतिर जनमेजयाः 22 शतं च बरह्मदत्तानाम ईरिणां वैरिणां शतम शंतनुश चैव राजर्षिः पाण्डुश चैव पिता तव 23 उशद गवः शतरथॊ देवराजॊ जयद्रथः वृषा दर्भिश च राजर्षिर धाम्ना सह समन्त्रिणा 24 अथापरे सहस्राणि ये गताः शशबिन्दवः इष्ट्वाश्वमेधैर बहुभिर महद्भिर भूरिदक्षिणैः 25 एते राजर्षयः पुण्याः कीर्तिमन्तॊ बहुश्रुताः तस्यां सभायां राजर्षे वैवस्वतम उपासते 26 अगस्त्यॊ ऽथ मतङ्गश च कालॊ मृत्युस तथैव च यज्वानश चैव सिद्धाश च ये च यॊगशरीरिणः 27 अग्निष्व आत्ताश च पितरः फेनपाश चॊष्मपाश च ये सवधावन्तॊ बर्हि षदॊ मूर्तिमन्तस तथापरे 28 कालचक्रं च साक्षाच च भगवान हव्यवाहनः नरा दुष्कृतकर्माणॊ दक्षिणायन मृत्यवः 29 कालस्य नयने युक्ता यमस्य पुरुषाश च ये तस्यां शिंशप पालाशास तथा काशकुशादयः उपासते धर्मराजं मूर्तिमन्तॊ निरामयाः 30 एते चान्ये च बहवः पितृराज सभा सदः अशक्याः परिसंख्यातुं नामभिः कर्मभिस तथा 31 असंबाधा हि सा पार्थ रम्या कामगमा सभा दीर्घकालं तपस तप्त्वा निर्मिता विश्वकर्मणा 32 परभासन्ती जवलन्तीव तेजसा सवेन भारत ताम उग्रतपसॊ यान्ति सुव्रताः सत्यवादिनः 33 शान्ताः संन्यासिनः सिद्धा पूताः पुण्येन कर्मणा सर्वे भास्वरदेहाश च सर्वे च विरजॊऽमबराः 34 चित्राङ्गदाश चित्रमाल्याः सर्वे जवलितकुण्डलाः सुकृतैः कर्मभिः पुण्यैः परिबर्हैर विभूषिताः 35 गन्धर्वाश च महात्मानः शतशश चाप्सरॊगणाः वादित्रं नृत्तगीतं च हास्यं लास्यं च सर्वशः 36 पुण्याश च गन्धाः शब्दाश च तस्यां पार्थ समन्ततः दिव्यानि माल्यानि च ताम उपतिष्ठन्ति सर्वशः 37 शतं शतसहस्राणि धर्मिणां तं परजेश्वरम उपासते महात्मानं रूपयुक्ता मनस्विनः 38 ईदृशी सा सभा राजन पितृराज्ञॊ महात्मनः वरुणस्यापि वक्ष्यामि सभां पुष्कर मालिनीम |
1
[n] kathayiṣye sabhāṃ divyāṃ yudhiṣṭhira nibodha tām vaivasvatasya yām arthe viśvakarmā cakāra ha 2 taijasī sā sabhā rājan babhūva śatayojanā vistārāyāma saṃpannā bhūyasī cāpi pāṇḍava 3 arkaprakāśā bhrājiṣṇuḥ sarvataḥ kāmacāriṇī naivātiśītā nātyuṣṇā manasaś ca praharṣiṇī 4 na śoko na jarā tasyāṃ kṣutpipāse na cāpriyam na ca dainyaṃ klamo vāpi pratikūlaṃ na cāpy uta 5 sarve kāmāḥ sthitās tasyāṃ ye divyā ye ca mānuṣāḥ rasavac ca prabhūtaṃ ca bhakṣyabhojyam ariṃdama 6 puṇyagandhāḥ srajas tatra nityapuṣpaphaladrumāḥ rasavanti ca toyāni śītāny uṣṇāni caiva ha 7 tasyāṃ rājarṣayaḥ puṇyās tathā brahmarṣayo 'malāḥ yamaṃ vaivasvataṃ tāta prahṛṣṭāḥ paryupāsate 8 yayātir nahuṣaḥ pūrur māndhātā somako nṛgaḥ trasadasyuś ca turayaḥ kṛtavīryaḥ śrutaśravāḥ 9 aripraṇut susiṃhaś ca kṛtavegaḥ kṛtir nimiḥ pratardanaḥ śibir matsyaḥ pṛthv akṣo 'tha bṛhadrathaḥ 10 aiḍo maruttaḥ kuśikaḥ sāṃkāśyaḥ sāṃkṛtir bhavaḥ caturaśvaḥ sadaśvormiḥ kārtavīryaś ca pārthivaḥ 11 bharatas tathā surathaḥ sunītho naiṣadho nalaḥ divodāso 'tha sumanā ambarīṣo bhagīrathaḥ 12 vyaśvaḥ sadaśvo vadhry aśvaḥ pañca hastaḥ pṛthuśravāḥ ruṣadgur vṛṣasenaś ca kṣupaś ca sumahābalaḥ 13 ruṣad aśvo vasu manāḥ puru kutso dhvajī rathī ārṣṭiṣeṇo dilīpaś ca mahātmā cāpy uśīnaraḥ 14 auśīnaraḥ puṇḍarīkaḥ śaryātiḥ śarabhaḥ śuciḥ aṅgo 'riṣṭaś ca venaś ca duḥṣantaḥ saṃjayo jayaḥ 15 bhāṅgāsvariḥ sunīthaś ca niṣadho 'tha tviṣī rathaḥ karaṃdhamo bāhlikaś ca sudyumno balavān madhuḥ 16 kapota romā tṛṇakaḥ sahadevārjunau tathā rāmo dāśarathiś caiva lakṣmaṇo 'tha pratardanaḥ 17 alarkaḥ kakṣasenaś ca gayo gaurāśva eva ca jāmadagnyo 'tha rāmo 'tra nābhāga sagarau tathā 18 bhūri dyumno mahāśvaś ca pṛthv aśvo janakas tathā vainyo rājā vāri ṣeṇaḥ purujo janamejayaḥ 19 brahmadattas trigartaś ca rājopari caras tathā indra dyumno bhīma jānur gayaḥ pṛṣṭho nayo 'nagha 20 padmo 'tha mucukundaś ca bhūri dyumnaḥ prasenajit ariṣṭanemiḥ pradyumnaḥ pṛthag aśvo 'jakas tathā 21 śataṃ matsyā nṛpatayaḥ śataṃ nīpāḥ śataṃ hayāḥ dhṛtarāṣṭrāś caikaśatam aśītir janamejayāḥ 22 śataṃ ca brahmadattānām īriṇāṃ vairiṇāṃ śatam śaṃtanuś caiva rājarṣiḥ pāṇḍuś caiva pitā tava 23 uśad gavaḥ śataratho devarājo jayadrathaḥ vṛṣā darbhiś ca rājarṣir dhāmnā saha samantriṇā 24 athāpare sahasrāṇi ye gatāḥ śaśabindavaḥ iṣṭvāśvamedhair bahubhir mahadbhir bhūridakṣiṇaiḥ 25 ete rājarṣayaḥ puṇyāḥ kīrtimanto bahuśrutāḥ tasyāṃ sabhāyāṃ rājarṣe vaivasvatam upāsate 26 agastyo 'tha mataṅgaś ca kālo mṛtyus tathaiva ca yajvānaś caiva siddhāś ca ye ca yogaśarīriṇaḥ 27 agniṣv āttāś ca pitaraḥ phenapāś coṣmapāś ca ye svadhāvanto barhi ṣado mūrtimantas tathāpare 28 kālacakraṃ ca sākṣāc ca bhagavān havyavāhanaḥ narā duṣkṛtakarmāṇo dakṣiṇāyana mṛtyavaḥ 29 kālasya nayane yuktā yamasya puruṣāś ca ye tasyāṃ śiṃśapa pālāśās tathā kāśakuśādayaḥ upāsate dharmarājaṃ mūrtimanto nirāmayāḥ 30 ete cānye ca bahavaḥ pitṛrāja sabhā sadaḥ aśakyāḥ parisaṃkhyātuṃ nāmabhiḥ karmabhis tathā 31 asaṃbādhā hi sā pārtha ramyā kāmagamā sabhā dīrghakālaṃ tapas taptvā nirmitā viśvakarmaṇā 32 prabhāsantī jvalantīva tejasā svena bhārata tām ugratapaso yānti suvratāḥ satyavādinaḥ 33 śāntāḥ saṃnyāsinaḥ siddhā pūtāḥ puṇyena karmaṇā sarve bhāsvaradehāś ca sarve ca virajo'mbarāḥ 34 citrāṅgadāś citramālyāḥ sarve jvalitakuṇḍalāḥ sukṛtaiḥ karmabhiḥ puṇyaiḥ paribarhair vibhūṣitāḥ 35 gandharvāś ca mahātmānaḥ śataśaś cāpsarogaṇāḥ vāditraṃ nṛttagītaṃ ca hāsyaṃ lāsyaṃ ca sarvaśaḥ 36 puṇyāś ca gandhāḥ śabdāś ca tasyāṃ pārtha samantataḥ divyāni mālyāni ca tām upatiṣṭhanti sarvaśaḥ 37 śataṃ śatasahasrāṇi dharmiṇāṃ taṃ prajeśvaram upāsate mahātmānaṃ rūpayuktā manasvinaḥ 38 īdṛśī sā sabhā rājan pitṛrājño mahātmanaḥ varuṇasyāpi vakṣyāmi sabhāṃ puṣkara mālinīm |
The Mahabharata in Sanskrit
Book 2
Chapter 9
|
1
[न] युधिष्ठिर सभा दिव्या वरुणस्य सितप्रभा परमाणेन यथा याम्या शुभप्राकारतॊरणा 2 अन्तः सलिलम आस्थाय विहिता विश्वकर्मणा दिव्यरत्नमयैर वृक्षैः फलपुष्पप्रदैर युता 3 नीलपीतासित शयामैः सितैर लॊहितकैर अपि अवतानैस तथा गुल्मैः पुष्पमञ्जरि धारिभिः 4 तथा शकुनयस तस्यां नानारूपा मृदु सवराः अनिर्देश्या वपुष्मन्तः शतशॊ ऽथ सहस्रशः 5 सा सभा सुखसंस्पर्शा न शीता न च घर्मदा वेश्मासनवती रम्या सिता वरुणपालिता 6 यस्याम आस्ते स वरुणॊ वारुण्या सह भारत दिव्यरत्नाम्बर धरॊ भूषणैर उपशॊभितः 7 सरग्विणॊ भूषिताश चापि दिव्यमाल्यानुकर्षिणः आदित्यास तत्र वरुणं जलेश्वरम उपासते 8 वासुकिस तक्षकश चैव नागश चैरावतस तथा कृष्णश च लॊहितश चैव पद्मश चित्रश च वीर्यवान 9 कम्बलाश्वतरौ नागौ धृतराष्ट्र बलाहकौ मणिमान कुण्डलधरः कर्कॊटक धनंजयौ 10 परह्लादॊ मूषिकादश च तथैव जनमेजयः पताकिनॊ मण्डलिनः फणवन्तश च सर्वशः 11 एते चान्ये च बहवः सर्पास तस्यां युधिष्ठिर उपासते महात्मानं वरुणं विगतक्लमाः 12 बलिर वैरॊचनॊ राजा नरकः पृथिवीं जयः परह्लादॊ विप्र चित्तिश च कालखञ्जाश च सर्वशः 13 सुहनुर दुर्मुखः शङ्खः सुमनाः सुमतिः सवनः घटॊदरॊ महापार्श्वः करथनः पिठरस तथा 14 विश्वरूपः सुरूपश च विरूपॊ ऽथ महाशिराः दशग्रीवश च बाली च मेघवासा दशावरः 15 कैटभॊ विटटूतश च संह्रादश चेन्द्र तापनः दैत्यदानव संघाश च सर्वे रुचिरकुण्डलाः 16 सरग्विणॊ मौलिनः सर्वे तथा दिव्यपरिच्छदाः सर्वे लब्धवराः शूराः सर्वे विगतमृत्यवः 17 ते तस्यां वरुणं देवं धर्मपाशस्थिताः सदा उपासते महात्मानं सर्वे सुचरितव्रताः 18 तथा समुद्राश चत्वारॊ नदी भागीरथी च या कालिन्दी विदिशा वेण्णा नर्मदा वेगवाहिनी 19 विपाशा च शतद्रुश च चन्द्र भागा सरस्वती इरावती वितस्ता च सिन्धुर देव नदस तथा 20 गॊदावरी कृष्ण वेण्णा कावेरी च सरिद वरा एताश चान्याश च सरितस तीर्थानि च सरांसि च 21 कूपाश च सप्रस्रवणा देहवन्तॊ युधिष्ठिर पल्वलानि तडागानि देहवन्त्य अथ भारत 22 दिशस तथा मही चैव तथा सर्वे महीधराः उपासते महात्मानं सर्वे जलचरास तथा 23 गीतवादित्रवन्तश च गन्धर्वाप्सरसां गणाः सतुवन्तॊ वरुणं तस्यां सर्व एव समासते 24 महीधरा रत्नवन्तॊ रसा येषु परतिष्ठिताः सर्वे विग्रहवन्तस ते तम ईश्वरम उपासते 25 एषा मया संपतता वारुणी भरतर्षभ दृष्टपूर्वा सभा रम्या कुबेरस्य सभां शृणु |
1
[n] yudhiṣṭhira sabhā divyā varuṇasya sitaprabhā pramāṇena yathā yāmyā śubhaprākāratoraṇā 2 antaḥ salilam āsthāya vihitā viśvakarmaṇā divyaratnamayair vṛkṣaiḥ phalapuṣpapradair yutā 3 nīlapītāsita śyāmaiḥ sitair lohitakair api avatānais tathā gulmaiḥ puṣpamañjari dhāribhiḥ 4 tathā śakunayas tasyāṃ nānārūpā mṛdu svarāḥ anirdeśyā vapuṣmantaḥ śataśo 'tha sahasraśaḥ 5 sā sabhā sukhasaṃsparśā na śītā na ca gharmadā veśmāsanavatī ramyā sitā varuṇapālitā 6 yasyām āste sa varuṇo vāruṇyā saha bhārata divyaratnāmbara dharo bhūṣaṇair upaśobhitaḥ 7 sragviṇo bhūṣitāś cāpi divyamālyānukarṣiṇaḥ ādityās tatra varuṇaṃ jaleśvaram upāsate 8 vāsukis takṣakaś caiva nāgaś cairāvatas tathā kṛṣṇaś ca lohitaś caiva padmaś citraś ca vīryavān 9 kambalāśvatarau nāgau dhṛtarāṣṭra balāhakau maṇimān kuṇḍaladharaḥ karkoṭaka dhanaṃjayau 10 prahlādo mūṣikādaś ca tathaiva janamejayaḥ patākino maṇḍalinaḥ phaṇavantaś ca sarvaśaḥ 11 ete cānye ca bahavaḥ sarpās tasyāṃ yudhiṣṭhira upāsate mahātmānaṃ varuṇaṃ vigataklamāḥ 12 balir vairocano rājā narakaḥ pṛthivīṃ jayaḥ prahlādo vipra cittiś ca kālakhañjāś ca sarvaśaḥ 13 suhanur durmukhaḥ śaṅkhaḥ sumanāḥ sumatiḥ svanaḥ ghaṭodaro mahāpārśvaḥ krathanaḥ piṭharas tathā 14 viśvarūpaḥ surūpaś ca virūpo 'tha mahāśirāḥ daśagrīvaś ca bālī ca meghavāsā daśāvaraḥ 15 kaiṭabho viṭaṭūtaś ca saṃhrādaś cendra tāpanaḥ daityadānava saṃghāś ca sarve rucirakuṇḍalāḥ 16 sragviṇo maulinaḥ sarve tathā divyaparicchadāḥ sarve labdhavarāḥ śūrāḥ sarve vigatamṛtyavaḥ 17 te tasyāṃ varuṇaṃ devaṃ dharmapāśasthitāḥ sadā upāsate mahātmānaṃ sarve sucaritavratāḥ 18 tathā samudrāś catvāro nadī bhāgīrathī ca yā kālindī vidiśā veṇṇā narmadā vegavāhinī 19 vipāśā ca śatadruś ca candra bhāgā sarasvatī irāvatī vitastā ca sindhur deva nadas tathā 20 godāvarī kṛṣṇa veṇṇā kāverī ca sarid varā etāś cānyāś ca saritas tīrthāni ca sarāṃsi ca 21 kūpāś ca saprasravaṇā dehavanto yudhiṣṭhira palvalāni taḍāgāni dehavanty atha bhārata 22 diśas tathā mahī caiva tathā sarve mahīdharāḥ upāsate mahātmānaṃ sarve jalacarās tathā 23 gītavāditravantaś ca gandharvāpsarasāṃ gaṇāḥ stuvanto varuṇaṃ tasyāṃ sarva eva samāsate 24 mahīdharā ratnavanto rasā yeṣu pratiṣṭhitāḥ sarve vigrahavantas te tam īśvaram upāsate 25 eṣā mayā saṃpatatā vāruṇī bharatarṣabha dṛṣṭapūrvā sabhā ramyā kuberasya sabhāṃ śṛṇu |
The Mahabharata in Sanskrit
Book 2
Chapter 10
|
1
[न] सभा वैश्रवणी राजञ शतयॊजनम आयता विस्तीर्णा सप्ततिश चैव यॊजनानि सितप्रभा 2 तपसा निर्मिता राजन सवयं वैश्रवणेन सा शशिप्रभा खेचरीणां कैलासशिखरॊपमा 3 गुह्यकैर उह्यमाना सा खे विषक्तेव दृश्यते दिव्या हेममयैर उच्चैः पादपैर उपशॊभिता 4 रश्मिवती भास्वरा च दिव्यगन्धा मनॊरमा सिताभ्रशिखराकारा पलवमानेव दृश्यते 5 तस्यां वैश्रवणॊ राजा विचित्राभरणाम्बरः सत्रीसहस्रावृतः शरीमान आस्ते जवलितकुण्डलः 6 दिवाकरनिभे पुण्ये दिव्यास्तरण संवृते दिव्यपादॊपधाने च निषण्णः परमासने 7 मन्दाराणाम उदाराणां वनानि सुरभीणि च सौगन्धिकानां चादाय गन्धान गन्धवहः शुचिः 8 नलिन्याश चालकाख्यायाश चन्दनानां वनस्य च मनॊ हृदयसंह्लादी वायुस तम उपसेवते 9 तत्र देवाः सगन्धर्वा गणैर अप्सरसां वृताः दिव्यतानेन गीतानि गान्ति दिव्यानि भारत 10 मिश्रकेशी च रम्भा च चित्रसेना शुचिस्मिता चारुनेत्रा घृताची च मेनका पुञ्जिकस्थला 11 विश्वाची सह जन्या च परम्लॊचा उर्वशी इरा वर्गा च सौरभेयी च समीची बुद्बुदा लता 12 एताः सहस्रशश चान्या नृत्तगीतविशारदाः उपतिष्ठन्ति धनदं पाण्डवाप्सरसां गणाः 13 अनिशं दिव्यवादित्रैर नृत्तैर गीतैश च सा सभा अशून्या रुचिरा भाति गन्धर्वाप्सरसां गणैः 14 किंनरा नाम गन्धर्वा नरा नाम तथापरे मणिभद्रॊ ऽथ धनदः शवेतभद्रश च गुह्यकः 15 कशेरकॊ गण्डकण्डुः परद्यॊतश च महाबलः कुस्तुम्बुरुः पिशाचश च गजकर्णॊ विशालकः 16 वराहकर्णः सान्द्रौष्ठः फलभक्षः फलॊदकः अङ्गचूडः शिखावर्तॊ हेमनेत्रॊ विभीषणः 17 पुष्पाननः पिङ्गलकः शॊणितॊदः परवालकः वृक्षवास्य निकेतश च चीरवासाश च भारत 18 एते चान्ये च बहवॊ यक्षाः शतसहस्रशः सदा भगवती च शरीस तथैव नलकूबरः 19 अहं च बहुशस तस्यां भवन्त्य अन्ये च मद्विधाः आचार्याश चाभवंस तत्र तथा देवर्षयॊ ऽपरे 20 भगवान भूतसंघैश च वृतः शतसहस्रशः उमापतिः पशुपतिः शूलधृग भग नेत्रहा 21 तर्यम्बकॊ राजशार्दूल देवी च विगतक्लमा वामनैर विकटैः कुब्जैः कषतजाक्षैर मनॊजवैः 22 मांसमेदॊ वसाहारैर उग्रश्रवण दर्शनैः नानाप्रहरणैर घॊरैर वातैर इव महाजवैः वृतः सखायम अन्वास्ते सदैव धनदं नृप 23 सा सभा तादृशी राजन मया दृष्टान्तरिक्षगा पितामह सभां राजन कथयिष्ये गतक्लमाम |
1
[n] sabhā vaiśravaṇī rājañ śatayojanam āyatā vistīrṇā saptatiś caiva yojanāni sitaprabhā 2 tapasā nirmitā rājan svayaṃ vaiśravaṇena sā śaśiprabhā khecarīṇāṃ kailāsaśikharopamā 3 guhyakair uhyamānā sā khe viṣakteva dṛśyate divyā hemamayair uccaiḥ pādapair upaśobhitā 4 raśmivatī bhāsvarā ca divyagandhā manoramā sitābhraśikharākārā plavamāneva dṛśyate 5 tasyāṃ vaiśravaṇo rājā vicitrābharaṇāmbaraḥ strīsahasrāvṛtaḥ śrīmān āste jvalitakuṇḍalaḥ 6 divākaranibhe puṇye divyāstaraṇa saṃvṛte divyapādopadhāne ca niṣaṇṇaḥ paramāsane 7 mandārāṇām udārāṇāṃ vanāni surabhīṇi ca saugandhikānāṃ cādāya gandhān gandhavahaḥ śuciḥ 8 nalinyāś cālakākhyāyāś candanānāṃ vanasya ca mano hṛdayasaṃhlādī vāyus tam upasevate 9 tatra devāḥ sagandharvā gaṇair apsarasāṃ vṛtāḥ divyatānena gītāni gānti divyāni bhārata 10 miśrakeśī ca rambhā ca citrasenā śucismitā cārunetrā ghṛtācī ca menakā puñjikasthalā 11 viśvācī saha janyā ca pramlocā urvaśī irā vargā ca saurabheyī ca samīcī budbudā latā 12 etāḥ sahasraśaś cānyā nṛttagītaviśāradāḥ upatiṣṭhanti dhanadaṃ pāṇḍavāpsarasāṃ gaṇāḥ 13 aniśaṃ divyavāditrair nṛttair gītaiś ca sā sabhā aśūnyā rucirā bhāti gandharvāpsarasāṃ gaṇaiḥ 14 kiṃnarā nāma gandharvā narā nāma tathāpare maṇibhadro 'tha dhanadaḥ śvetabhadraś ca guhyakaḥ 15 kaśerako gaṇḍakaṇḍuḥ pradyotaś ca mahābalaḥ kustumburuḥ piśācaś ca gajakarṇo viśālakaḥ 16 varāhakarṇaḥ sāndrauṣṭhaḥ phalabhakṣaḥ phalodakaḥ aṅgacūḍaḥ śikhāvarto hemanetro vibhīṣaṇaḥ 17 puṣpānanaḥ piṅgalakaḥ śoṇitodaḥ pravālakaḥ vṛkṣavāsya niketaś ca cīravāsāś ca bhārata 18 ete cānye ca bahavo yakṣāḥ śatasahasraśaḥ sadā bhagavatī ca śrīs tathaiva nalakūbaraḥ 19 ahaṃ ca bahuśas tasyāṃ bhavanty anye ca madvidhāḥ ācāryāś cābhavaṃs tatra tathā devarṣayo 'pare 20 bhagavān bhūtasaṃghaiś ca vṛtaḥ śatasahasraśaḥ umāpatiḥ paśupatiḥ śūladhṛg bhaga netrahā 21 tryambako rājaśārdūla devī ca vigataklamā vāmanair vikaṭaiḥ kubjaiḥ kṣatajākṣair manojavaiḥ 22 māṃsamedo vasāhārair ugraśravaṇa darśanaiḥ nānāpraharaṇair ghorair vātair iva mahājavaiḥ vṛtaḥ sakhāyam anvāste sadaiva dhanadaṃ nṛpa 23 sā sabhā tādṛśī rājan mayā dṛṣṭāntarikṣagā pitāmaha sabhāṃ rājan kathayiṣye gataklamām |
The Mahabharata in Sanskrit
Book 2
Chapter 11
|
1
[न] पुरा देवयुगे राजन्न आदित्यॊ भगवान दिवः आगच्छन मानुषं लॊकं दिदृक्षुर विगतक्लमः 2 चरन मानुषरूपेण सभां दृष्ट्वा सवयं भुवः सभाम अकथयन मह्यं बराह्मीं तत्त्वेन पाण्डव 3 अप्रमेयप्रभां दिव्यां मानसीं भरतर्षभ अनिर्देश्यां परभावेन सर्वभूतमनॊरमाम 4 शरुत्वा गुणान अहं तस्याः सभायाः पाण्डुनन्दन दर्शनेप्सुस तथा राजन्न आदित्यम अहम अब्रुवम 5 भगवन दरष्टुम इच्छामि पितामह सभाम अहम येन सा तपसा शक्या कर्मणा वापि गॊपते 6 औषधैर वा तथायुक्तैर उत वा मायया यया तन ममाचक्ष्व भगवन पश्येयं तां सभां कथम 7 ततः स भगवान सूर्यॊ माम उपादाय वीर्यवान अगच्छत तां सभां बराह्मीं विपापां विगतक्लमाम 8 एवंरूपेति सा शक्या न निर्देष्टुं जनाधिप कषणेन हि बिभर्त्य अन्यद अनिर्देश्यं वपुस तथा 9 न वेद परिमानं वा संस्थानं वापि भारत न च रूपं मया तादृग दृष्टपूर्वं कदा चन 10 सुसुखा सा सभा राजन न शीता न च घर्मदा न कषुत्पिपासे न गलानिं पराप्य तां पराप्नुवन्त्य उत 11 नानारूपैर इव कृता सुविचित्रैः सुभास्वरैः सतम्भैर न च धृता सा तु शाश्वती न च सा कषरा 12 अति चन्द्रं च सूर्यं च शिखिनं च सवयंप्रभा दीप्यते नाकपृष्ठस्था भासयन्तीव भास्करम 13 तस्यां स भगवान आस्ते विदधद देव मायया सवयम एकॊ ऽनिशं राजँल लॊकाँल लॊकपिता महः 14 उपतिष्ठन्ति चाप्य एनं परजानां पतयः परभुम दक्षः परचेताः पुलहॊ मरीचिः कश्यपस तथा 15 भृगुर अत्रिर वसिष्ठश च गौतमश च तथाङ्गिराः मनॊ ऽनतरिक्षं विद्याश च वायुस तेजॊ जलं मही 16 शब्दः सपर्शस तथारूपं रसॊ गन्धश च भारत परकृतिश च विकारश च यच चान्यत कारणं भुवः 17 चन्द्रमाः सह नक्षत्रैर आदित्यश च गभस्तिमान वायवः करतवश चैव संकल्पः पराण एव च 18 एते चान्ये च बहवः सवयम्भुवम उपस्थिताः अर्थॊ धर्मश च कामश च हर्षॊ दवेषस तपॊ दमः 19 आयान्ति तस्यां सहिता गन्धर्वाप्सरसस तथा विंशतिः सप्त चैवान्ये लॊकपालाश च सर्वशः 20 शुक्रॊ बृहस्पतिश चैव बुधॊ ऽङगारक एव च शनैश्चरश च राहुश च गरहाः सर्वे तथैव च 21 मन्त्रॊ रथंतरश चैव हरिमान वसुमान अपि आदित्याः साधिराजानॊ नाना दवंद्वैर उदाहृताः 22 मरुतॊ विश्वकर्मा च वसवश चैव भारत तथा पितृगणाः सर्वे सर्वाणि च हवींस्य अथ 23 ऋग वेदः सामवेदश च यजुर्वेदश च पाण्डव अथर्ववेदश च तथा पर्वाणि च विशां पते 24 इतिहासॊपवेदाश च वेदाङ्गानि च सर्वशः गरहा यज्ञाश च सॊमश च दैवतानि च सर्वशः 25 सावित्री दुर्ग तरणी वाणी सप्त विधा तथा मेधा धृतिः शरुतिश चैव परज्ञा बुद्धिर यशॊ कषमा 26 सामानि सतुतिशस्त्राणि गाथाश च विविधास तथा भाष्याणि तर्क युक्तानि देहवन्ति विशां पते 27 कषणा लवा मुहूर्ताश च दिवारात्रिस तथैव च अर्धमासाश च मासाश च ऋतवः षट च भारत 28 संवत्सराः पञ्च युगम अहॊरात्राश चतुर्विधा कालचक्रं च यद दिव्यं नित्यम अक्षयम अव्ययम 29 अदितिर दितिर दनुश चैव सुरसा विनता इरा कालका सुरभिर देवी सरमा चाथ गौतमी 30 आदित्या वसवॊ रुद्रा मरुतश चाश्विनाव अपि विश्वे देवाश च साध्याश च पितरश च मनॊजवाः 31 राक्षसाश च पिशाचाश च दानवा गुह्यकास तथा सुपर्णनागपशवः पितामहम उपासते 32 देवॊ नारायणस तस्यां तथा देवर्षयश च ये ऋषयॊ वालखिल्याश च यॊनिजायॊनिजास तथा 33 यच च किं चित तरिलॊके ऽसमिन दृश्यते सथाणुजङ्गमम सर्वं तस्यां मया दृष्टं तद विद्धि मनुजाधिप 34 अष्टाशीति सहस्राणि यतीनाम ऊर्ध्वरेतसाम परजावतां च पञ्चाशद ऋषीणाम अपि पाण्डव 35 ते सम तत्र यथाकामं दृष्ट्वा सर्वे दिवौकसः परणम्य शिरसा तस्मै परतियान्ति यथागतम 36 अतिथीन आगतान देवान दैत्यान नागान मुनींस तथा यक्षान सुपर्णान कालेयान गन्धर्वाप्सरसस तथा 37 महाभागान अमितधीर बरह्मा लॊकपिता महः दयावान सर्वभूतेषु यथार्हं परतिपद्यते 38 परतिगृह्य च विश्वात्मा सवयम्भूर अमितप्रभः सान्त्वमानार्थ संभॊगैर युनक्ति मनुजाधिप 39 तथा तैर उपयातैश च परतियातैश च भारत आकुला सा सभा तात भवति सम सुखप्रदा 40 सर्वतेजॊमयी दिव्या बरह्मर्षिगणसेविता बराह्म्या शरिया दीप्यमाना शुशुभे विगतक्लमा 41 सा सभा तादृषी दृष्टा सर्वलॊकेषु दुर्लभा सभेयं राजशार्दूल मनुष्येषु यथा तव 42 एता मया दृष्टपूर्वाः सभा देवेषु पाण्डव तवेयं मानुषे लॊके सर्वश्रेष्ठतमा सभा 43 [य] परायशॊ राजलॊकस ते कथितॊ वदतां वर वैवस्वतसभायां तु यथा वदसि वै परभॊ 44 वरुणस्य सभायां तु नागास ते कथिता विभॊ दैत्येन्द्राश चैव भूयिष्ठाः सरितः सागरास तथा 45 तथा धनपतेर यक्षा गुह्यका राक्षसास तथा गन्धर्वाप्सरसश चैव भगवांश च वृषध्वजः 46 पितामह सभायां तु कथितास ते महर्षयः सर्वदेव निकायाश च सर्वशास्त्राणि चैव हि 47 शतक्रतुसभायां तु देवाः संकीर्तिता मुने उद्देशतश च गन्धर्वा विविधाश च महर्षयः 48 एक एव तु राजर्षिर हरिश चन्द्रॊ महामुने कथितस ते सभा नित्यॊ देवेन्द्रस्य महात्मनः 49 किं कर्म तेनाचरितं तपॊ वा नियतव्रतम येनासौ सह शक्रेण सपर्धते सम महायशाः 50 पितृलॊकगतश चापि तवया विप्र पिता मम दृष्टः पाण्डुर महाभागः कथं चासि समागतः 51 किम उक्तवांश च भगवन्न एतद इच्छामि वेदितुम तवत्तः शरॊतुम अहं सर्वं परं कौतूहलं हि मे 52 [न] यन मां पृच्छसि राजेन्द्र हरिश चन्द्रं परति परभॊ तत ते ऽहं संप्रवक्ष्यामि माहात्म्यं तस्य धीमतः 53 स राजा बलवान आसीत सम्राट सर्वमहीक्षिताम तस्य सर्वे महीपालाः शासनावनताः सथिताः 54 तेनैकं रथम आस्थाय जैत्रं हेमविभूषितम शस्त्रप्रतापेन जिता दवीपाः सप्त नरेश्वर 55 स विजित्य महीं सर्वां स शैलवनकाननाम आजहार महाराज राजसूयं महाक्रतुम 56 तस्य सर्वे महीपाला धनान्य आजह्रुर आज्ञया दविजानां परिवेष्टारस तस्मिन यज्ञे च ते ऽभवन 57 परादाच च दरविणं परीत्या याजकानां नरेश्वरः यथॊक्तं तत्र तैस तस्मिंस ततः पञ्च गुणाधिकम 58 अतर्पयच च विविधैर वसुभिर बराह्मणांस तथा परासर्प काले संप्राप्ते नानादिग्भ्यः समागतान 59 भक्ष्यैर भॊज्यैश च विविधैर यथा कामपुरस्कृतैः रत्नौघतर्पितैस तुष्टैर दविजैश च समुदाहृतम तेजस्वी च यशस्वी च नृपेभ्यॊ ऽभयधिकॊ ऽभवत 60 एतस्मात कारणात पार्थ हरिश चन्द्रॊ विराजते तेभ्यॊ राजसहस्रेभ्यस तद विद्धि भरतर्षभ 61 समाप्य च हरिश चन्द्रॊ महायज्ञं परतापवान अभिषिक्तः स शुशुभे साम्राज्येन नराधिप 62 ये चान्ये ऽपि महीपाला राजसूयं महाक्रतुम यजन्ते ते महेन्द्रेण मॊदन्ते सह भारत 63 ये चापि निधनं पराप्ताः संग्रामेष्व अपलायिनः ते तत सदॊ समासाद्य मॊदन्ते भरतर्षभ 64 तपसा ये च तीव्रेण तयजन्तीह कलेवरम ते ऽपि तत सथानम आसाद्य शरीमन्तॊ भान्ति नित्यशः 65 पिता च तव आह कौन्तेय पाण्डुः कौरवनन्दनः हरिश चन्द्रे शरियं दृष्ट्वा नृपतौ जातविस्मयः 66 समर्थॊ ऽसि महीं जेतुं भरातरस ते वशे सथिताः राजसूयं करतुश्रेष्ठम आहरस्वेति भारत 67 तस्य तवं पुरुषव्याघ्र संकल्पं कुरु पाण्डव गन्तारस ते महेन्द्रस्य पूर्वैः सह सलॊकताम 68 बहुविघ्नश च नृपते करतुर एष समृतॊ महान छिद्राण्य अत्र हि वाञ्छन्ति यज्ञघ्ना बरह्मराक्षसाः 69 युद्धं च पृष्ठगमनं पृथिवी कषयकारकम किं चिद एव निमित्तं च भवत्य अत्र कषयावहम 70 एतत संचिन्त्य राजेन्द्र यत कषमं तत समाचर अप्रमत्तॊत्थितॊ नित्यं चातुर्वर्ण्यस्य रक्षणे भव एधस्व मॊदस्व दानैस तर्पय च दविजान 71 एतत ते विस्तरेणॊक्तं यन मां तवं परिपृच्छसि आपृच्छे तवां गमिष्यामि दाशार्ह नगरीं परति 72 [व] एवम आख्याय पार्थेभ्यॊ नारदॊ जनमेजय जगाम तैर वृतॊ राजन्न ऋषिभिर यैः समागतः 73 गते तु नारदे पार्थॊ भरातृभिः सह कौरव राजसूयं करतुश्रेष्ठं चिन्तयाम आस भारत |
1
[n] purā devayuge rājann ādityo bhagavān divaḥ āgacchan mānuṣaṃ lokaṃ didṛkṣur vigataklamaḥ 2 caran mānuṣarūpeṇa sabhāṃ dṛṣṭvā svayaṃ bhuvaḥ sabhām akathayan mahyaṃ brāhmīṃ tattvena pāṇḍava 3 aprameyaprabhāṃ divyāṃ mānasīṃ bharatarṣabha anirdeśyāṃ prabhāvena sarvabhūtamanoramām 4 śrutvā guṇān ahaṃ tasyāḥ sabhāyāḥ pāṇḍunandana darśanepsus tathā rājann ādityam aham abruvam 5 bhagavan draṣṭum icchāmi pitāmaha sabhām aham yena sā tapasā śakyā karmaṇā vāpi gopate 6 auṣadhair vā tathāyuktair uta vā māyayā yayā tan mamācakṣva bhagavan paśyeyaṃ tāṃ sabhāṃ katham 7 tataḥ sa bhagavān sūryo mām upādāya vīryavān agacchat tāṃ sabhāṃ brāhmīṃ vipāpāṃ vigataklamām 8 evaṃrūpeti sā śakyā na nirdeṣṭuṃ janādhipa kṣaṇena hi bibharty anyad anirdeśyaṃ vapus tathā 9 na veda parimānaṃ vā saṃsthānaṃ vāpi bhārata na ca rūpaṃ mayā tādṛg dṛṣṭapūrvaṃ kadā cana 10 susukhā sā sabhā rājan na śītā na ca gharmadā na kṣutpipāse na glāniṃ prāpya tāṃ prāpnuvanty uta 11 nānārūpair iva kṛtā suvicitraiḥ subhāsvaraiḥ stambhair na ca dhṛtā sā tu śāśvatī na ca sā kṣarā 12 ati candraṃ ca sūryaṃ ca śikhinaṃ ca svayaṃprabhā dīpyate nākapṛṣṭhasthā bhāsayantīva bhāskaram 13 tasyāṃ sa bhagavān āste vidadhad deva māyayā svayam eko 'niśaṃ rājaṁl lokāṁl lokapitā mahaḥ 14 upatiṣṭhanti cāpy enaṃ prajānāṃ patayaḥ prabhum dakṣaḥ pracetāḥ pulaho marīciḥ kaśyapas tathā 15 bhṛgur atrir vasiṣṭhaś ca gautamaś ca tathāṅgirāḥ mano 'ntarikṣaṃ vidyāś ca vāyus tejo jalaṃ mahī 16 śabdaḥ sparśas tathārūpaṃ raso gandhaś ca bhārata prakṛtiś ca vikāraś ca yac cānyat kāraṇaṃ bhuvaḥ 17 candramāḥ saha nakṣatrair ādityaś ca gabhastimān vāyavaḥ kratavaś caiva saṃkalpaḥ prāṇa eva ca 18 ete cānye ca bahavaḥ svayambhuvam upasthitāḥ artho dharmaś ca kāmaś ca harṣo dveṣas tapo damaḥ 19 āyānti tasyāṃ sahitā gandharvāpsarasas tathā viṃśatiḥ sapta caivānye lokapālāś ca sarvaśaḥ 20 śukro bṛhaspatiś caiva budho 'ṅgāraka eva ca śanaiścaraś ca rāhuś ca grahāḥ sarve tathaiva ca 21 mantro rathaṃtaraś caiva harimān vasumān api ādityāḥ sādhirājāno nānā dvaṃdvair udāhṛtāḥ 22 maruto viśvakarmā ca vasavaś caiva bhārata tathā pitṛgaṇāḥ sarve sarvāṇi ca havīṃsy atha 23 ṛg vedaḥ sāmavedaś ca yajurvedaś ca pāṇḍava atharvavedaś ca tathā parvāṇi ca viśāṃ pate 24 itihāsopavedāś ca vedāṅgāni ca sarvaśaḥ grahā yajñāś ca somaś ca daivatāni ca sarvaśaḥ 25 sāvitrī durga taraṇī vāṇī sapta vidhā tathā medhā dhṛtiḥ śrutiś caiva prajñā buddhir yaśo kṣamā 26 sāmāni stutiśastrāṇi gāthāś ca vividhās tathā bhāṣyāṇi tarka yuktāni dehavanti viśāṃ pate 27 kṣaṇā lavā muhūrtāś ca divārātris tathaiva ca ardhamāsāś ca māsāś ca ṛtavaḥ ṣaṭ ca bhārata 28 saṃvatsarāḥ pañca yugam ahorātrāś caturvidhā kālacakraṃ ca yad divyaṃ nityam akṣayam avyayam 29 aditir ditir danuś caiva surasā vinatā irā kālakā surabhir devī saramā cātha gautamī 30 ādityā vasavo rudrā marutaś cāśvināv api viśve devāś ca sādhyāś ca pitaraś ca manojavāḥ 31 rākṣasāś ca piśācāś ca dānavā guhyakās tathā suparṇanāgapaśavaḥ pitāmaham upāsate 32 devo nārāyaṇas tasyāṃ tathā devarṣayaś ca ye ṛṣayo vālakhilyāś ca yonijāyonijās tathā 33 yac ca kiṃ cit triloke 'smin dṛśyate sthāṇujaṅgamam sarvaṃ tasyāṃ mayā dṛṣṭaṃ tad viddhi manujādhipa 34 aṣṭāśīti sahasrāṇi yatīnām ūrdhvaretasām prajāvatāṃ ca pañcāśad ṛṣīṇām api pāṇḍava 35 te sma tatra yathākāmaṃ dṛṣṭvā sarve divaukasaḥ praṇamya śirasā tasmai pratiyānti yathāgatam 36 atithīn āgatān devān daityān nāgān munīṃs tathā yakṣān suparṇān kāleyān gandharvāpsarasas tathā 37 mahābhāgān amitadhīr brahmā lokapitā mahaḥ dayāvān sarvabhūteṣu yathārhaṃ pratipadyate 38 pratigṛhya ca viśvātmā svayambhūr amitaprabhaḥ sāntvamānārtha saṃbhogair yunakti manujādhipa 39 tathā tair upayātaiś ca pratiyātaiś ca bhārata ākulā sā sabhā tāta bhavati sma sukhapradā 40 sarvatejomayī divyā brahmarṣigaṇasevitā brāhmyā śriyā dīpyamānā śuśubhe vigataklamā 41 sā sabhā tādṛṣī dṛṣṭā sarvalokeṣu durlabhā sabheyaṃ rājaśārdūla manuṣyeṣu yathā tava 42 etā mayā dṛṣṭapūrvāḥ sabhā deveṣu pāṇḍava taveyaṃ mānuṣe loke sarvaśreṣṭhatamā sabhā 43 [y] prāyaśo rājalokas te kathito vadatāṃ vara vaivasvatasabhāyāṃ tu yathā vadasi vai prabho 44 varuṇasya sabhāyāṃ tu nāgās te kathitā vibho daityendrāś caiva bhūyiṣṭhāḥ saritaḥ sāgarās tathā 45 tathā dhanapater yakṣā guhyakā rākṣasās tathā gandharvāpsarasaś caiva bhagavāṃś ca vṛṣadhvajaḥ 46 pitāmaha sabhāyāṃ tu kathitās te maharṣayaḥ sarvadeva nikāyāś ca sarvaśāstrāṇi caiva hi 47 śatakratusabhāyāṃ tu devāḥ saṃkīrtitā mune uddeśataś ca gandharvā vividhāś ca maharṣayaḥ 48 eka eva tu rājarṣir hariś candro mahāmune kathitas te sabhā nityo devendrasya mahātmanaḥ 49 kiṃ karma tenācaritaṃ tapo vā niyatavratam yenāsau saha śakreṇa spardhate sma mahāyaśāḥ 50 pitṛlokagataś cāpi tvayā vipra pitā mama dṛṣṭaḥ pāṇḍur mahābhāgaḥ kathaṃ cāsi samāgataḥ 51 kim uktavāṃś ca bhagavann etad icchāmi veditum tvattaḥ śrotum ahaṃ sarvaṃ paraṃ kautūhalaṃ hi me 52 [n] yan māṃ pṛcchasi rājendra hariś candraṃ prati prabho tat te 'haṃ saṃpravakṣyāmi māhātmyaṃ tasya dhīmataḥ 53 sa rājā balavān āsīt samrāṭ sarvamahīkṣitām tasya sarve mahīpālāḥ śāsanāvanatāḥ sthitāḥ 54 tenaikaṃ ratham āsthāya jaitraṃ hemavibhūṣitam śastrapratāpena jitā dvīpāḥ sapta nareśvara 55 sa vijitya mahīṃ sarvāṃ sa śailavanakānanām ājahāra mahārāja rājasūyaṃ mahākratum 56 tasya sarve mahīpālā dhanāny ājahrur ājñayā dvijānāṃ pariveṣṭāras tasmin yajñe ca te 'bhavan 57 prādāc ca draviṇaṃ prītyā yājakānāṃ nareśvaraḥ yathoktaṃ tatra tais tasmiṃs tataḥ pañca guṇādhikam 58 atarpayac ca vividhair vasubhir brāhmaṇāṃs tathā prāsarpa kāle saṃprāpte nānādigbhyaḥ samāgatān 59 bhakṣyair bhojyaiś ca vividhair yathā kāmapuraskṛtaiḥ ratnaughatarpitais tuṣṭair dvijaiś ca samudāhṛtam tejasvī ca yaśasvī ca nṛpebhyo 'bhyadhiko 'bhavat 60 etasmāt kāraṇāt pārtha hariś candro virājate tebhyo rājasahasrebhyas tad viddhi bharatarṣabha 61 samāpya ca hariś candro mahāyajñaṃ pratāpavān abhiṣiktaḥ sa śuśubhe sāmrājyena narādhipa 62 ye cānye 'pi mahīpālā rājasūyaṃ mahākratum yajante te mahendreṇa modante saha bhārata 63 ye cāpi nidhanaṃ prāptāḥ saṃgrāmeṣv apalāyinaḥ te tat sado samāsādya modante bharatarṣabha 64 tapasā ye ca tīvreṇa tyajantīha kalevaram te 'pi tat sthānam āsādya śrīmanto bhānti nityaśaḥ 65 pitā ca tv āha kaunteya pāṇḍuḥ kauravanandanaḥ hariś candre śriyaṃ dṛṣṭvā nṛpatau jātavismayaḥ 66 samartho 'si mahīṃ jetuṃ bhrātaras te vaśe sthitāḥ rājasūyaṃ kratuśreṣṭham āharasveti bhārata 67 tasya tvaṃ puruṣavyāghra saṃkalpaṃ kuru pāṇḍava gantāras te mahendrasya pūrvaiḥ saha salokatām 68 bahuvighnaś ca nṛpate kratur eṣa smṛto mahān chidrāṇy atra hi vāñchanti yajñaghnā brahmarākṣasāḥ 69 yuddhaṃ ca pṛṣṭhagamanaṃ pṛthivī kṣayakārakam kiṃ cid eva nimittaṃ ca bhavaty atra kṣayāvaham 70 etat saṃcintya rājendra yat kṣamaṃ tat samācara apramattotthito nityaṃ cāturvarṇyasya rakṣaṇe bhava edhasva modasva dānais tarpaya ca dvijān 71 etat te vistareṇoktaṃ yan māṃ tvaṃ paripṛcchasi āpṛcche tvāṃ gamiṣyāmi dāśārha nagarīṃ prati 72 [v] evam ākhyāya pārthebhyo nārado janamejaya jagāma tair vṛto rājann ṛṣibhir yaiḥ samāgataḥ 73 gate tu nārade pārtho bhrātṛbhiḥ saha kaurava rājasūyaṃ kratuśreṣṭhaṃ cintayām āsa bhārata |
The Mahabharata in Sanskrit
Book 2
Chapter 12
|
1
[व] ऋषेस तद वचनं शरुत्वा निशश्वास युधिष्ठिरः चिन्तयन राजसूयाप्तिं न लेभे शर्म भारत 2 राजर्षीणां हि तं शरुत्वा महिमानं महात्मनाम यज्वनां कर्मभिः पुण्यैर लॊकप्राप्तिं समीक्ष्य च 3 हरिश चन्द्रं च राजर्षिं रॊचमानं विशेषतः यज्वानं यज्ञम आहर्तुं राजसूयम इयेष सः 4 युधिष्ठिरस ततः सर्वान अर्चयित्वा सभा सदः परत्यर्चितश च तैः सर्वैर यज्ञायैव मनॊ दधे 5 स राजसूयं राजेन्द्र कुरूणाम ऋषभः करतुम आहर्तुं परवणं चक्रे मनॊ संचिन्त्य सॊ ऽसकृत 6 भूयॊ चाद्भुतवीर्यौजा धर्मम एवानुपालयन किं हितं सर्वलॊकानां भवेद इति मनॊ दधे 7 अनुगृह्णन परजाः सर्वाः सर्वधर्मविदां वरः अविशेषेण सर्वेषां हितं चक्रे युधिष्ठिरः 8 एवंगते ततस तस्मिन पितरीवाश्वसञ जनाः न तस्य विद्यते दवेष्टा ततॊ ऽसयाजात शत्रुता 9 स मन्त्रिणः समानाय्य भरातॄंश च वदतां वरः राजसूयं परति तदा पुनः पुनर अपृच्छत 10 ते पृच्छ्यमानाः सहिता वचॊ ऽरथ्यं मन्त्रिणस तदा युधिष्ठिरं महाप्राज्ञं यियक्षुम इदम अब्रुवन 11 येनाभिषिक्तॊ नृपतिर वारुणं गुणम ऋच्छति तेन राजापि सन कृत्स्नं सम्राड गुणम अभीप्सति 12 तस्य सम्राड गुणार्हस्य भवतः कुरुनन्दन राजसूयस्य समयं मन्यन्ते सुहृदस तव 13 तस्य यज्ञस्य समयः सवाधीनः कषत्रसंपदा साम्ना षड अग्नयॊ यस्मिंश चीयन्ते संशितव्रतैः 14 दर्वी हॊमान उपादाय सर्वान यः पराप्नुते करतून अभिषेकं च यज्ञान्ते सर्वजित तेन चॊच्यते 15 समर्थॊ ऽसि महाबाहॊ सर्वे ते वशगा वयम अविचार्य महाराज राजसूये मनॊ कुरु 16 इत्य एवं सुहृदः सर्वे पृथक च सह चाब्रुवन स धर्म्यं पाण्डवस तेषां वचॊ शरुत्वा विशां पते धृष्टम इष्टं वरिष्ठं च जग्राह मनसारिहा 17 शरुत्वा सुहृद वचस तच च जानंश चाप्य आत्मनः कषमम पुनः पुनर मनॊ दध्रे राजसूयाय भारत 18 स भरातृभिः पुनर धीमान ऋत्विग्भिश च महात्मभिः धौम्य दवैपायनाद्यैश च मन्त्रयाम आस मन्त्रिभिः 19 [य] इयं या राजसूयस्य सम्राड अर्हस्य सुक्रतॊः शरद्दधानस्य वदतः सपृहा मे सा कथं भवेत 20 [व] एवम उक्तास तु ते तेन राज्ञा राजीवलॊचन इदम ऊचुर वचॊ काले धर्मात्मानं युधिष्ठिरम अर्हस तवम असि धर्मज्ञ राजसूयं महाक्रतुम 21 अथैवम उक्ते नृपताव ऋत्विग्भिर ऋषिभिस तथा मन्त्रिणॊ भरातरश चास्य तद वचॊ परत्यपूजयन 22 स तु राजा महाप्राज्ञः पुनर एवात्मनात्मवान भूयॊ विममृशे पार्थॊ लॊकानां हितकाम्यया 23 सामर्थ्य यॊगं संप्रेक्ष्य देशकालौ वययागमौ विमृश्य सम्यक च धिया कुर्वन पराज्ञॊ न सीदति 24 न हि यज्ञसमारम्भः केवलात्म विपत्तये भवतीति समाज्ञाय यत्नतः कार्यम उद्वहन 25 स निश्चयार्थं कार्यस्य कृष्णम एव जनार्दनम सर्वलॊकात परं मत्वा जगाम मनसा हरिम 26 अप्रमेयं महाबाहुं कामाज जातम अजं नृषु पाण्डवस तर्कयाम आस कर्मभिर देव संमितैः 27 नास्य किं चिद अविज्ञातं नास्य किं चिद अकर्मजम न स किं चिन न विषहेद इति कृष्णम अमन्यत 28 स तु तां नैष्ठिकीं बुद्धिं कृत्वा पार्थॊ युधिष्ठिरः गुरुवद भूतगुरवे पराहिणॊद दूतम अञ्जसा 29 शीघ्रगेन रथेनाशु स दूतः पराप्य यादवान दवारकावासिनं कृष्णं दवारवत्यां समासदत 30 दर्शनाकाङ्क्षिणं पार्थं दर्शनाकांक्षयाच्युतः इन्द्रसेनेन सहित इन्द्रप्रस्थं ययौ तदा 31 वयतीत्य विविधान देशांस तवरावान कषिप्रवाहनः इन्द्रप्रस्थगतं पार्थम अभ्यगच्छज जनार्दनः 32 स गृहे भरातृवद भरात्रा धर्मराजेन पूजितः भीमेन च ततॊ ऽपश्यत सवसारं परीतिमान पितुः 33 परीतः परियेण सुहृदा रेमे स सहितस तदा अर्जुनेन यमाभ्यां च गुरुवत पर्युपस्थितः 34 तं विश्रान्तं शुभे देशे कषणिनं कल्यम अच्युतम धर्मराजः समागम्य जञापयत सवं परयॊजनम 35 [य] परार्थितॊ राजसूयॊ मे न चासौ केवलेप्सया पराप्यते येन तत ते ह विदितं कृष्ण सर्वशः 36 यस्मिन सर्वं संभवति यश च सर्वत्र पूज्यते यश च सर्वेश्वरॊ राजा राजसूयं स विन्दति 37 तं राजसूयं सुहृदः कार्यम आहुः समेत्य मे तत्र मे निश्चिततमं तव कृष्णगिरा भवेत 38 केचिद धि सौहृदाद एव दॊषं न परिचक्षते अर्थहेतॊस तथैवान्ये परियम एव वदन्त्य उत 39 परियम एव परीप्सन्ते के चिद आत्मणि यद धितम एवं परायाश च दृश्यन्ते जनवादाः परयॊजने 40 तवं तु हेतून अतीत्यैतान कामक्रॊधौ वयतीत्य च परमं नः कषमं लॊके यथावद वक्तुम अर्हसि |
1
[v] ṛṣes tad vacanaṃ śrutvā niśaśvāsa yudhiṣṭhiraḥ cintayan rājasūyāptiṃ na lebhe śarma bhārata 2 rājarṣīṇāṃ hi taṃ śrutvā mahimānaṃ mahātmanām yajvanāṃ karmabhiḥ puṇyair lokaprāptiṃ samīkṣya ca 3 hariś candraṃ ca rājarṣiṃ rocamānaṃ viśeṣataḥ yajvānaṃ yajñam āhartuṃ rājasūyam iyeṣa saḥ 4 yudhiṣṭhiras tataḥ sarvān arcayitvā sabhā sadaḥ pratyarcitaś ca taiḥ sarvair yajñāyaiva mano dadhe 5 sa rājasūyaṃ rājendra kurūṇām ṛṣabhaḥ kratum āhartuṃ pravaṇaṃ cakre mano saṃcintya so 'sakṛt 6 bhūyo cādbhutavīryaujā dharmam evānupālayan kiṃ hitaṃ sarvalokānāṃ bhaved iti mano dadhe 7 anugṛhṇan prajāḥ sarvāḥ sarvadharmavidāṃ varaḥ aviśeṣeṇa sarveṣāṃ hitaṃ cakre yudhiṣṭhiraḥ 8 evaṃgate tatas tasmin pitarīvāśvasañ janāḥ na tasya vidyate dveṣṭā tato 'syājāta śatrutā 9 sa mantriṇaḥ samānāyya bhrātṝṃś ca vadatāṃ varaḥ rājasūyaṃ prati tadā punaḥ punar apṛcchata 10 te pṛcchyamānāḥ sahitā vaco 'rthyaṃ mantriṇas tadā yudhiṣṭhiraṃ mahāprājñaṃ yiyakṣum idam abruvan 11 yenābhiṣikto nṛpatir vāruṇaṃ guṇam ṛcchati tena rājāpi san kṛtsnaṃ samrāḍ guṇam abhīpsati 12 tasya samrāḍ guṇārhasya bhavataḥ kurunandana rājasūyasya samayaṃ manyante suhṛdas tava 13 tasya yajñasya samayaḥ svādhīnaḥ kṣatrasaṃpadā sāmnā ṣaḍ agnayo yasmiṃś cīyante saṃśitavrataiḥ 14 darvī homān upādāya sarvān yaḥ prāpnute kratūn abhiṣekaṃ ca yajñānte sarvajit tena cocyate 15 samartho 'si mahābāho sarve te vaśagā vayam avicārya mahārāja rājasūye mano kuru 16 ity evaṃ suhṛdaḥ sarve pṛthak ca saha cābruvan sa dharmyaṃ pāṇḍavas teṣāṃ vaco śrutvā viśāṃ pate dhṛṣṭam iṣṭaṃ variṣṭhaṃ ca jagrāha manasārihā 17 śrutvā suhṛd vacas tac ca jānaṃś cāpy ātmanaḥ kṣamam punaḥ punar mano dadhre rājasūyāya bhārata 18 sa bhrātṛbhiḥ punar dhīmān ṛtvigbhiś ca mahātmabhiḥ dhaumya dvaipāyanādyaiś ca mantrayām āsa mantribhiḥ 19 [y] iyaṃ yā rājasūyasya samrāḍ arhasya sukratoḥ śraddadhānasya vadataḥ spṛhā me sā kathaṃ bhavet 20 [v] evam uktās tu te tena rājñā rājīvalocana idam ūcur vaco kāle dharmātmānaṃ yudhiṣṭhiram arhas tvam asi dharmajña rājasūyaṃ mahākratum 21 athaivam ukte nṛpatāv ṛtvigbhir ṛṣibhis tathā mantriṇo bhrātaraś cāsya tad vaco pratyapūjayan 22 sa tu rājā mahāprājñaḥ punar evātmanātmavān bhūyo vimamṛśe pārtho lokānāṃ hitakāmyayā 23 sāmarthya yogaṃ saṃprekṣya deśakālau vyayāgamau vimṛśya samyak ca dhiyā kurvan prājño na sīdati 24 na hi yajñasamārambhaḥ kevalātma vipattaye bhavatīti samājñāya yatnataḥ kāryam udvahan 25 sa niścayārthaṃ kāryasya kṛṣṇam eva janārdanam sarvalokāt paraṃ matvā jagāma manasā harim 26 aprameyaṃ mahābāhuṃ kāmāj jātam ajaṃ nṛṣu pāṇḍavas tarkayām āsa karmabhir deva saṃmitaiḥ 27 nāsya kiṃ cid avijñātaṃ nāsya kiṃ cid akarmajam na sa kiṃ cin na viṣahed iti kṛṣṇam amanyata 28 sa tu tāṃ naiṣṭhikīṃ buddhiṃ kṛtvā pārtho yudhiṣṭhiraḥ guruvad bhūtagurave prāhiṇod dūtam añjasā 29 śīghragena rathenāśu sa dūtaḥ prāpya yādavān dvārakāvāsinaṃ kṛṣṇaṃ dvāravatyāṃ samāsadat 30 darśanākāṅkṣiṇaṃ pārthaṃ darśanākāṃkṣayācyutaḥ indrasenena sahita indraprasthaṃ yayau tadā 31 vyatītya vividhān deśāṃs tvarāvān kṣipravāhanaḥ indraprasthagataṃ pārtham abhyagacchaj janārdanaḥ 32 sa gṛhe bhrātṛvad bhrātrā dharmarājena pūjitaḥ bhīmena ca tato 'paśyat svasāraṃ prītimān pituḥ 33 prītaḥ priyeṇa suhṛdā reme sa sahitas tadā arjunena yamābhyāṃ ca guruvat paryupasthitaḥ 34 taṃ viśrāntaṃ śubhe deśe kṣaṇinaṃ kalyam acyutam dharmarājaḥ samāgamya jñāpayat svaṃ prayojanam 35 [y] prārthito rājasūyo me na cāsau kevalepsayā prāpyate yena tat te ha viditaṃ kṛṣṇa sarvaśaḥ 36 yasmin sarvaṃ saṃbhavati yaś ca sarvatra pūjyate yaś ca sarveśvaro rājā rājasūyaṃ sa vindati 37 taṃ rājasūyaṃ suhṛdaḥ kāryam āhuḥ sametya me tatra me niścitatamaṃ tava kṛṣṇagirā bhavet 38 kecid dhi sauhṛdād eva doṣaṃ na paricakṣate arthahetos tathaivānye priyam eva vadanty uta 39 priyam eva parīpsante ke cid ātmaṇi yad dhitam evaṃ prāyāś ca dṛśyante janavādāḥ prayojane 40 tvaṃ tu hetūn atītyaitān kāmakrodhau vyatītya ca paramaṃ naḥ kṣamaṃ loke yathāvad vaktum arhasi |
The Mahabharata in Sanskrit
Book 2
Chapter 13
|
1
[क] सर्वैर गुणैर महाराज राजसूयं तवम अर्हसि जानतस तव एव ते सर्वं किं चिद वक्ष्यामि भारत 2 जामदग्न्येन रामेण कषत्रं यद अवशेषितम तस्माद अवरजं लॊके यद इदं कषत्रसंज्ञितम 3 कृतॊ ऽयं कुलसंकल्पः कषत्रियैर वसुधाधिप निदेशवाग्भिस तत ते ह विदितं भरतर्षभ 4 ऐलस्येक्ष्वाकु वंशस्य परकृतिं परिचक्षते राजानः शरेणि बद्धाश च ततॊ ऽनये कषत्रिया भुवि 5 ऐल वंश्यास तु ये राजंस तथैवेक्ष्वाकवॊ नृपाः तानि चैकशतं विद्धि कुलानि भरतर्षभ 6 ययातेस तव एव भॊजानां विस्तरॊ ऽतिगुणॊ महान भजते च महाराज विस्तरः स चतुर्दशम 7 तेषां तथैव तां लक्ष्मीं सर्वक्षत्रम उपासते सॊ ऽवनीं मध्यमां भुक्त्वा मिथॊ भेदेष्व अमन्यत 8 चतुर्युस तव अपरॊ राजा यस्मिन्न एकशतॊ ऽभवत स साम्राज्यं जरासंधः पराप्तॊ भवति यॊनितः 9 तं स राजा महाप्राज्ञ संश्रित्य किल सर्वशः राजन सेनापतिर जातः शिशुपालः परतापवान 10 तम एव च महाराज शिष्यवत समुपस्थितः वक्रः करूषाधिपतिर माया यॊधी महाबलः 11 अपरौ च महावीर्यौ महात्मानौ समाश्रितौ जरासंधं महावीर्यं तौ हंसडिभकाव उभौ 12 दन्तवक्रः करूषश च कलभॊ मेघवाहनः मूर्ध्ना दिव्यं मणिं बिभ्रद यं तं भूतमणिं विदुः 13 मुरं च नरकं चैव शास्ति यॊ यवनाधिपौ अपर्यन्त बलॊ राजा परतीच्यां वरुणॊ यथा 14 भगदत्तॊ महाराज वृद्धस तव पितुः सखा स वाचा परणतस तस्य कर्मणा चैव भारत 15 सनेहबद्धस तु पितृवन मनसा भक्तिमांस तवयि परतीच्यां दक्षिणं चान्तं पृथिव्याः पाति यॊ नृपः 16 मातुलॊ भवतः शूरः पुरुजित कुन्तिवर्धनः स ते संनतिमान एकः सनेहतः शत्रुतापनः 17 जरासंधं गतस तव एवं पुरा यॊ न मया हतः पुरुषॊत्तम विज्ञातॊ यॊ ऽसौ चेदिषु दुर्मतिः 18 आत्मानं परतिजानाति लॊके ऽसमिन पुरुषॊत्तमम आदत्ते सततं मॊहाद यः स चिह्नं च मामकम 19 वङ्ग पुण्ड्र किरातेषु राजा बलसमन्वितः पौण्ड्रकॊ वासुदेवेति यॊ ऽसौ लॊकेषु विश्रुतः 20 चतुर्युः स महाराज भॊज इन्द्र सखॊ बली विद्या बलाद यॊ वयजयत पाण्ड्य करथक कैशिकान 21 भराता यस्याहृतिः शूरॊ जामदग्न्य समॊ युधि स भक्तॊ मागधं राजा भीष्मकः परवीरहा 22 परियाण्य आचरतः परह्वान सदा संबन्धिनः सतः भजतॊ न भजत्य अस्मान अप्रियेषु वयवस्थितः 23 न कुलं न बलं राजन्न अभिजानंस तथात्मनः पश्यमानॊ यशॊ दीप्तं जरासंधम उपाश्रितः 24 उदीच्यभॊजाश च तथा कुलान्य अष्टा दशाभिभॊ जरासंध भयाद एव परतीचीं दिशम आश्रिताः 25 शूरसेना भद्र कारा बॊधाः शाल्वाः पतच चराः सुस्थराश च सुकुट्टाश च कुणिन्दाः कुन्तिभिः सह 26 शाल्वेयानां च राजानः सॊदर्यानुचरैः सह दक्षिणा ये च पाञ्चालाः पूर्वाः कुन्तिषु कॊशलाः 27 तथॊत्तरां दिशं चापि परित्यज्य भयार्दिताः मत्स्याः संन्यस्तपादाश च दक्षिणां दिशम आश्रिताः 28 तथैव सर्वपाञ्चाला जरासंध भयार्दिताः सवराष्ट्रं संपरित्यज्य विद्रुताः सर्वतॊदिशम 29 कस्य चित तव अथ कालस्य कंसॊ निर्मथ्य बान्धवान बार्हद्रथ सुते देव्याव उपागच्छद वृथा मतिः 30 अस्तिः पराप्तिश च नाम्ना ते सहदेवानुजे ऽबले बलेन तेन स जञातीन अभिभूय वृथा मतिः 31 शरैष्ठ्यं पराप्तः स तस्यासीद अतीवापनयॊ महान भॊजराजन्य वृद्धैस तु पीड्यमानैर दुरात्मना 32 जञातित्राणम अभीप्सद्भिर अस्मत संभावना कृता दत्त्वाक्रूराय सुतनुं ताम आहुक सुतां तदा 33 संकर्षण दवितीयेन जञातिकार्यं मया कृतम हतौ कंस सुनामानौ मया रामेण चाप्य उत 34 भये तु समुपक्रान्ते जरासंधे समुद्यते मन्त्रॊ ऽयं मन्त्रितॊ राजन कुलैर अष्टा दशावरैः 35 अनारमन्तॊ निघ्नन्तॊ महास्त्रैः शतघातिभिः न हन्याम वयं तस्य तरिभिर वर्षशतैर बलम 36 तस्य हय अमरसंकाशौ बलेण बलिनां वरौ नामभ्यां हंसडिभकाव इत्य आस्तां यॊधसत्तमौ 37 ताव उभौ सहितौ वीरौ जरासंधश च वीर्यवान तरयस तरयाणां लॊकानां पर्याप्ता इति मे मतिः 38 न हि केवलम अस्माकं यावन्तॊ ऽनये च पार्थिवाः तथैव तेषाम आसीच च बुद्धिर बुद्धिमतां वर 39 अथ हंस इति खयातः कश चिद आसीन महान नृपः स चान्यैः सहितॊ राजन संग्रामे ऽषटा दशावरैः 40 हतॊ हंस इति परॊक्तम अथ केनापि भारत तच छरुत्वा डिभकॊ राजन यमुनाम्भस्य अमज्जत 41 विना हंसेन लॊके ऽसमिन नाहं जीवितुम उत्सहे इत्य एतां मतिम आस्थाय डिभकॊ निधनं गतः 42 तथा तु डिभकं शरुत्वा हंसः परपुरंजयः परपेदे यमुनाम एव सॊ ऽपि तस्यां नयमज्जत 43 तौ स राजा जरासंधः शरुत्वाप्सु निधनं गतौ सवपुरं शूरसेनानां परययौ भरतर्षभ 44 ततॊ वयम अमित्रघ्न तस्मिन परतिगते नृपे पुनर आनन्दिताः सर्वे मथुरायां वसामहे 45 यदा तव अभ्येत्य पितरं सा वै राजीवलॊचना कंस भार्या जरासंधं दुहिता मागधं नृपम 46 चॊदयत्य एव राजेन्द्र पतिव्यसनदुःखिता पतिघ्नं मे जहीत्य एवं पुनः पुनर अरिन दम 47 ततॊ वयं महाराज तं मन्त्रं पूर्वमन्त्रितम संस्मरन्तॊ विमनसॊ वयपयाता नराधिप 48 पृथक्त्वेन दरुता राजन संक्षिप्य महतीं शरियम परपतामॊ भयात तस्य सधन जञातिबान्धवाः 49 इति संचिन्त्य सर्वे सम परतीचीं दिशम आश्रिताः कुश सथलीं पुरीं रम्यां रैवतेनॊपशॊभिताम 50 पुनर निवेशनं तस्यां कृतवन्तॊ वयं नृप तथैव दुर्ग संस्कारं देवैर अपि दुरासदम 51 सत्रियॊ ऽपि यस्यां युध्येयुः किं पुनर वृष्णिपुंगवाः तस्यां वयम अमित्रघ्न निवसामॊ ऽकुतॊभयाः 52 आलॊक्य गिरिमुख्यं तं माधवी तीर्थम एव च माधवाः कुरुशार्दूल परां मुदम अवाप्नुवन 53 एवं वयं जरासंधाद आदितः कृतकिल्बिषाः सामर्थ्यवन्तः संबन्धाद भवन्तं समुपाश्रिताः 54 तरियॊजनायतं सद्म तरिस्कन्धं यॊजनाद अधि यॊजनान्ते शतद्वारं विक्रमक्रमतॊरणम अष्टा दशावरैर नद्धं कषत्रियैर युद्धदुर्मदैः 55 अष्टा दशसहस्राणि वरतानां सन्ति नः कुले आहुकस्य शतं पुत्रा एकैकस तरिशतावरः 56 चारु देष्णः सह भरात्रा चक्रदेवॊ ऽथ सात्यकिः अहं च रौहिणेयश च साम्बः शौरि समॊ युधि 57 एवम एते रथा सप्त राजन्न अन्यान निबॊध मे कृतवर्मा अनाधृष्टिः समीकः समितिंजयः 58 कह्वः शङ्कुर निदान्तश च सप्तैवैते महारथाः पुत्रौ चान्धकभॊजस्य वृद्धॊ राजा च ते दश 59 लॊकसंहनना वीरा वीर्यवन्तॊ महाबलाः समरन्तॊ मध्यमं देशं वृष्णिमध्ये गतव्यथाः 60 स तवं सम्राड गुणैर युक्तः सदा भरतसत्तम कषत्रे सम्राजम आत्मानं कर्तुम अर्हसि भारत 61 न तु शक्यं जरासंधे जीवमाने महाबले राजसूयस तवया पराप्तुम एषा राजन मतिर मम 62 तेन रुद्धा हि राजानः सर्वे जित्वा गिरिव्रजे कन्दरायां गिरीन्द्रस्य सिंहेनेव महाद्विपाः 63 सॊ ऽपि राजा जरासंधॊ यियक्षुर वसुधाधिपैः आराध्य हि महादेवं निर्जितास तेन पार्थिवाः 64 स हि निर्जित्य निर्जित्य पार्थिवान पृतना गतान पुरम आनीय बद्ध्वा च चकार पुरुषव्रजम 65 वयं चैव महाराज जरासंध भयात तदा मथुरां संपरित्यज्य गता दवारवतीं पुरीम 66 यदि तव एनं महाराज यज्ञं पराप्तुम इहेच्छसि यतस्व तेषां मॊक्षाय जरासंध वधाय च 67 समारम्भॊ हि शक्यॊ ऽयं नान्यथा कुरुनन्दन राजसूयस्य कार्त्स्न्येन कत्रुं मतिमतां वर 68 इत्य एषा मे मती राजन यथा वा मन्यसे ऽनघ एवंगते ममाचक्ष्व सवयं निश्चित्य हेतुभिः |
1
[k] sarvair guṇair mahārāja rājasūyaṃ tvam arhasi jānatas tv eva te sarvaṃ kiṃ cid vakṣyāmi bhārata 2 jāmadagnyena rāmeṇa kṣatraṃ yad avaśeṣitam tasmād avarajaṃ loke yad idaṃ kṣatrasaṃjñitam 3 kṛto 'yaṃ kulasaṃkalpaḥ kṣatriyair vasudhādhipa nideśavāgbhis tat te ha viditaṃ bharatarṣabha 4 ailasyekṣvāku vaṃśasya prakṛtiṃ paricakṣate rājānaḥ śreṇi baddhāś ca tato 'nye kṣatriyā bhuvi 5 aila vaṃśyās tu ye rājaṃs tathaivekṣvākavo nṛpāḥ tāni caikaśataṃ viddhi kulāni bharatarṣabha 6 yayātes tv eva bhojānāṃ vistaro 'tiguṇo mahān bhajate ca mahārāja vistaraḥ sa caturdaśam 7 teṣāṃ tathaiva tāṃ lakṣmīṃ sarvakṣatram upāsate so 'vanīṃ madhyamāṃ bhuktvā mitho bhedeṣv amanyata 8 caturyus tv aparo rājā yasminn ekaśato 'bhavat sa sāmrājyaṃ jarāsaṃdhaḥ prāpto bhavati yonitaḥ 9 taṃ sa rājā mahāprājña saṃśritya kila sarvaśaḥ rājan senāpatir jātaḥ śiśupālaḥ pratāpavān 10 tam eva ca mahārāja śiṣyavat samupasthitaḥ vakraḥ karūṣādhipatir māyā yodhī mahābalaḥ 11 aparau ca mahāvīryau mahātmānau samāśritau jarāsaṃdhaṃ mahāvīryaṃ tau haṃsaḍibhakāv ubhau 12 dantavakraḥ karūṣaś ca kalabho meghavāhanaḥ mūrdhnā divyaṃ maṇiṃ bibhrad yaṃ taṃ bhūtamaṇiṃ viduḥ 13 muraṃ ca narakaṃ caiva śāsti yo yavanādhipau aparyanta balo rājā pratīcyāṃ varuṇo yathā 14 bhagadatto mahārāja vṛddhas tava pituḥ sakhā sa vācā praṇatas tasya karmaṇā caiva bhārata 15 snehabaddhas tu pitṛvan manasā bhaktimāṃs tvayi pratīcyāṃ dakṣiṇaṃ cāntaṃ pṛthivyāḥ pāti yo nṛpaḥ 16 mātulo bhavataḥ śūraḥ purujit kuntivardhanaḥ sa te saṃnatimān ekaḥ snehataḥ śatrutāpanaḥ 17 jarāsaṃdhaṃ gatas tv evaṃ purā yo na mayā hataḥ puruṣottama vijñāto yo 'sau cediṣu durmatiḥ 18 ātmānaṃ pratijānāti loke 'smin puruṣottamam ādatte satataṃ mohād yaḥ sa cihnaṃ ca māmakam 19 vaṅga puṇḍra kirāteṣu rājā balasamanvitaḥ pauṇḍrako vāsudeveti yo 'sau lokeṣu viśrutaḥ 20 caturyuḥ sa mahārāja bhoja indra sakho balī vidyā balād yo vyajayat pāṇḍya krathaka kaiśikān 21 bhrātā yasyāhṛtiḥ śūro jāmadagnya samo yudhi sa bhakto māgadhaṃ rājā bhīṣmakaḥ paravīrahā 22 priyāṇy ācarataḥ prahvān sadā saṃbandhinaḥ sataḥ bhajato na bhajaty asmān apriyeṣu vyavasthitaḥ 23 na kulaṃ na balaṃ rājann abhijānaṃs tathātmanaḥ paśyamāno yaśo dīptaṃ jarāsaṃdham upāśritaḥ 24 udīcyabhojāś ca tathā kulāny aṣṭā daśābhibho jarāsaṃdha bhayād eva pratīcīṃ diśam āśritāḥ 25 śūrasenā bhadra kārā bodhāḥ śālvāḥ patac carāḥ sustharāś ca sukuṭṭāś ca kuṇindāḥ kuntibhiḥ saha 26 śālveyānāṃ ca rājānaḥ sodaryānucaraiḥ saha dakṣiṇā ye ca pāñcālāḥ pūrvāḥ kuntiṣu kośalāḥ 27 tathottarāṃ diśaṃ cāpi parityajya bhayārditāḥ matsyāḥ saṃnyastapādāś ca dakṣiṇāṃ diśam āśritāḥ 28 tathaiva sarvapāñcālā jarāsaṃdha bhayārditāḥ svarāṣṭraṃ saṃparityajya vidrutāḥ sarvatodiśam 29 kasya cit tv atha kālasya kaṃso nirmathya bāndhavān bārhadratha sute devyāv upāgacchad vṛthā matiḥ 30 astiḥ prāptiś ca nāmnā te sahadevānuje 'bale balena tena sa jñātīn abhibhūya vṛthā matiḥ 31 śraiṣṭhyaṃ prāptaḥ sa tasyāsīd atīvāpanayo mahān bhojarājanya vṛddhais tu pīḍyamānair durātmanā 32 jñātitrāṇam abhīpsadbhir asmat saṃbhāvanā kṛtā dattvākrūrāya sutanuṃ tām āhuka sutāṃ tadā 33 saṃkarṣaṇa dvitīyena jñātikāryaṃ mayā kṛtam hatau kaṃsa sunāmānau mayā rāmeṇa cāpy uta 34 bhaye tu samupakrānte jarāsaṃdhe samudyate mantro 'yaṃ mantrito rājan kulair aṣṭā daśāvaraiḥ 35 anāramanto nighnanto mahāstraiḥ śataghātibhiḥ na hanyāma vayaṃ tasya tribhir varṣaśatair balam 36 tasya hy amarasaṃkāśau baleṇa balināṃ varau nāmabhyāṃ haṃsaḍibhakāv ity āstāṃ yodhasattamau 37 tāv ubhau sahitau vīrau jarāsaṃdhaś ca vīryavān trayas trayāṇāṃ lokānāṃ paryāptā iti me matiḥ 38 na hi kevalam asmākaṃ yāvanto 'nye ca pārthivāḥ tathaiva teṣām āsīc ca buddhir buddhimatāṃ vara 39 atha haṃsa iti khyātaḥ kaś cid āsīn mahān nṛpaḥ sa cānyaiḥ sahito rājan saṃgrāme 'ṣṭā daśāvaraiḥ 40 hato haṃsa iti proktam atha kenāpi bhārata tac chrutvā ḍibhako rājan yamunāmbhasy amajjata 41 vinā haṃsena loke 'smin nāhaṃ jīvitum utsahe ity etāṃ matim āsthāya ḍibhako nidhanaṃ gataḥ 42 tathā tu ḍibhakaṃ śrutvā haṃsaḥ parapuraṃjayaḥ prapede yamunām eva so 'pi tasyāṃ nyamajjata 43 tau sa rājā jarāsaṃdhaḥ śrutvāpsu nidhanaṃ gatau svapuraṃ śūrasenānāṃ prayayau bharatarṣabha 44 tato vayam amitraghna tasmin pratigate nṛpe punar ānanditāḥ sarve mathurāyāṃ vasāmahe 45 yadā tv abhyetya pitaraṃ sā vai rājīvalocanā kaṃsa bhāryā jarāsaṃdhaṃ duhitā māgadhaṃ nṛpam 46 codayaty eva rājendra pativyasanaduḥkhitā patighnaṃ me jahīty evaṃ punaḥ punar arin dama 47 tato vayaṃ mahārāja taṃ mantraṃ pūrvamantritam saṃsmaranto vimanaso vyapayātā narādhipa 48 pṛthaktvena drutā rājan saṃkṣipya mahatīṃ śriyam prapatāmo bhayāt tasya sadhana jñātibāndhavāḥ 49 iti saṃcintya sarve sma pratīcīṃ diśam āśritāḥ kuśa sthalīṃ purīṃ ramyāṃ raivatenopaśobhitām 50 punar niveśanaṃ tasyāṃ kṛtavanto vayaṃ nṛpa tathaiva durga saṃskāraṃ devair api durāsadam 51 striyo 'pi yasyāṃ yudhyeyuḥ kiṃ punar vṛṣṇipuṃgavāḥ tasyāṃ vayam amitraghna nivasāmo 'kutobhayāḥ 52 ālokya girimukhyaṃ taṃ mādhavī tīrtham eva ca mādhavāḥ kuruśārdūla parāṃ mudam avāpnuvan 53 evaṃ vayaṃ jarāsaṃdhād āditaḥ kṛtakilbiṣāḥ sāmarthyavantaḥ saṃbandhād bhavantaṃ samupāśritāḥ 54 triyojanāyataṃ sadma triskandhaṃ yojanād adhi yojanānte śatadvāraṃ vikramakramatoraṇam aṣṭā daśāvarair naddhaṃ kṣatriyair yuddhadurmadaiḥ 55 aṣṭā daśasahasrāṇi vratānāṃ santi naḥ kule āhukasya śataṃ putrā ekaikas triśatāvaraḥ 56 cāru deṣṇaḥ saha bhrātrā cakradevo 'tha sātyakiḥ ahaṃ ca rauhiṇeyaś ca sāmbaḥ śauri samo yudhi 57 evam ete rathā sapta rājann anyān nibodha me kṛtavarmā anādhṛṣṭiḥ samīkaḥ samitiṃjayaḥ 58 kahvaḥ śaṅkur nidāntaś ca saptaivaite mahārathāḥ putrau cāndhakabhojasya vṛddho rājā ca te daśa 59 lokasaṃhananā vīrā vīryavanto mahābalāḥ smaranto madhyamaṃ deśaṃ vṛṣṇimadhye gatavyathāḥ 60 sa tvaṃ samrāḍ guṇair yuktaḥ sadā bharatasattama kṣatre samrājam ātmānaṃ kartum arhasi bhārata 61 na tu śakyaṃ jarāsaṃdhe jīvamāne mahābale rājasūyas tvayā prāptum eṣā rājan matir mama 62 tena ruddhā hi rājānaḥ sarve jitvā girivraje kandarāyāṃ girīndrasya siṃheneva mahādvipāḥ 63 so 'pi rājā jarāsaṃdho yiyakṣur vasudhādhipaiḥ ārādhya hi mahādevaṃ nirjitās tena pārthivāḥ 64 sa hi nirjitya nirjitya pārthivān pṛtanā gatān puram ānīya baddhvā ca cakāra puruṣavrajam 65 vayaṃ caiva mahārāja jarāsaṃdha bhayāt tadā mathurāṃ saṃparityajya gatā dvāravatīṃ purīm 66 yadi tv enaṃ mahārāja yajñaṃ prāptum ihecchasi yatasva teṣāṃ mokṣāya jarāsaṃdha vadhāya ca 67 samārambho hi śakyo 'yaṃ nānyathā kurunandana rājasūyasya kārtsnyena katruṃ matimatāṃ vara 68 ity eṣā me matī rājan yathā vā manyase 'nagha evaṃgate mamācakṣva svayaṃ niścitya hetubhiḥ |
The Mahabharata in Sanskrit
Book 2
Chapter 14
|
1
[य] उक्तं तवया बुद्धिमता यन नान्यॊ वक्तुम अर्हति संशयानां हि निर्मॊक्ता तवन नान्यॊ विद्यते भुवि 2 गृहे गृहे हि राजानः सवस्य सवस्य परियं कराः न च साम्राज्यम आप्तास ते सम्राट शब्दॊ हि कृत्स्नभाक 3 कथं परानुभावज्ञः सवं परशंसितुम अर्हति परेण समवेतस तु यः परशस्तः स पूज्यते 4 विशाला बहुला भूमिर बहुरत्नसमाचिता दूरं गत्वा विजानाति शरेयॊ वृष्णिकुलॊद्वह 5 शमम एव परं मन्ये न तु मॊक्षाद भवेच छमः आरम्भे पारमेष्ठ्यं तु न पराप्यम इति मे मतिः 6 एवम एवाभिजानन्ति कुले जाता मनस्विनः कश चित कदा चिद एतेषां भवेच छरेयॊ जनार्दन 7 [भ] अनारम्भ परॊ राजा वल्मीक इव सीदति दुर्बलश चानुपायेन बलिनं यॊ ऽधितिष्ठति 8 अतन्द्रितस तु परायेन दुर्बलॊ बलिनं रिपुम जयेत सम्यङ नयॊ राजन नीत्यार्थान आत्मनॊ हितान 9 कृष्णे नयॊ मयि बलं जयः पार्थे धनंजये मागधं साधयिष्यामॊ वयं तरय इवाग्नयः 10 [क] आदत्ते ऽरथपरॊ बालॊ नानुबन्धम अवेक्षते तस्माद अरिं न मृष्यन्ति बालम अर्थपरायणम 11 हित्वा करान यौवनाश्वः पालनाच च भगीरथः कार्तवीर्यस तपॊयॊगाद बलात तु भरतॊ विभुः ऋद्ध्या मरुत्तस तान पञ्च सम्राज इति शुश्रुमः 12 निग्राह्य लक्षणं पराप्तॊ धर्मार्थनय लक्षणैः बार्हद्रथॊ जरासंधस तद विद्धि भरतर्षभ 13 न चैनम अनुरुध्यन्ते कुलान्य एकशतं नृपाः तस्माद एतद बलाद एव साम्राज्यं कुरुते ऽदय सः 14 रत्नभाजॊ हि राजानॊ जरासंधम उपासते न च तुष्यति तेनापि बाल्याद अनयम आस्थितः 15 मूर्धाभिषिक्तं नृपतिं परधानपुरुषं बलात आदत्ते न च नॊ दृष्टॊ ऽभागः पुरुषतः कव चित 16 एवं सर्वान वशे चक्रे जरासंधः शतावरान तं दुर्बलतरॊ राजा कथं पार्थ उपैष्यति 17 परॊक्षितानां परमृष्टानां राज्ञां पशुपतेर गृहे पशूनाम इव का परीतिर जीविते भरतर्षभ 18 कषत्रियः शस्त्रमरणॊ यदा भवति सत्कृतः ननु सम मागधं सर्वे परतिबाधेम यद वयम 19 षड अशीतिः समानीताः शेषा राजंश चतुर्दश जरासंधेन राजानस ततः करूरं परपत्स्यते 20 पराप्नुयात स यशॊ दीप्तं तत्र यॊ विघ्नम आचरेत जयेद यश च जरासंधं स सम्राण नियतं भवेत |
1
[y] uktaṃ tvayā buddhimatā yan nānyo vaktum arhati saṃśayānāṃ hi nirmoktā tvan nānyo vidyate bhuvi 2 gṛhe gṛhe hi rājānaḥ svasya svasya priyaṃ karāḥ na ca sāmrājyam āptās te samrāṭ śabdo hi kṛtsnabhāk 3 kathaṃ parānubhāvajñaḥ svaṃ praśaṃsitum arhati pareṇa samavetas tu yaḥ praśastaḥ sa pūjyate 4 viśālā bahulā bhūmir bahuratnasamācitā dūraṃ gatvā vijānāti śreyo vṛṣṇikulodvaha 5 śamam eva paraṃ manye na tu mokṣād bhavec chamaḥ ārambhe pārameṣṭhyaṃ tu na prāpyam iti me matiḥ 6 evam evābhijānanti kule jātā manasvinaḥ kaś cit kadā cid eteṣāṃ bhavec chreyo janārdana 7 [bh] anārambha paro rājā valmīka iva sīdati durbalaś cānupāyena balinaṃ yo 'dhitiṣṭhati 8 atandritas tu prāyena durbalo balinaṃ ripum jayet samyaṅ nayo rājan nītyārthān ātmano hitān 9 kṛṣṇe nayo mayi balaṃ jayaḥ pārthe dhanaṃjaye māgadhaṃ sādhayiṣyāmo vayaṃ traya ivāgnayaḥ 10 [k] ādatte 'rthaparo bālo nānubandham avekṣate tasmād ariṃ na mṛṣyanti bālam arthaparāyaṇam 11 hitvā karān yauvanāśvaḥ pālanāc ca bhagīrathaḥ kārtavīryas tapoyogād balāt tu bharato vibhuḥ ṛddhyā maruttas tān pañca samrāja iti śuśrumaḥ 12 nigrāhya lakṣaṇaṃ prāpto dharmārthanaya lakṣaṇaiḥ bārhadratho jarāsaṃdhas tad viddhi bharatarṣabha 13 na cainam anurudhyante kulāny ekaśataṃ nṛpāḥ tasmād etad balād eva sāmrājyaṃ kurute 'dya saḥ 14 ratnabhājo hi rājāno jarāsaṃdham upāsate na ca tuṣyati tenāpi bālyād anayam āsthitaḥ 15 mūrdhābhiṣiktaṃ nṛpatiṃ pradhānapuruṣaṃ balāt ādatte na ca no dṛṣṭo 'bhāgaḥ puruṣataḥ kva cit 16 evaṃ sarvān vaśe cakre jarāsaṃdhaḥ śatāvarān taṃ durbalataro rājā kathaṃ pārtha upaiṣyati 17 prokṣitānāṃ pramṛṣṭānāṃ rājñāṃ paśupater gṛhe paśūnām iva kā prītir jīvite bharatarṣabha 18 kṣatriyaḥ śastramaraṇo yadā bhavati satkṛtaḥ nanu sma māgadhaṃ sarve pratibādhema yad vayam 19 ṣaḍ aśītiḥ samānītāḥ śeṣā rājaṃś caturdaśa jarāsaṃdhena rājānas tataḥ krūraṃ prapatsyate 20 prāpnuyāt sa yaśo dīptaṃ tatra yo vighnam ācaret jayed yaś ca jarāsaṃdhaṃ sa samrāṇ niyataṃ bhavet |
The Mahabharata in Sanskrit
Book 2
Chapter 15
|
1
[य] सम्राड गुणम अभीप्सन वै युष्मान सवार्थपरायणः कथं परहिणुयां भीमं बलात केवलसाहसात 2 भीमार्जुनाव उभौ नेत्रे मनॊ मन्ये जनार्दनम मनश चक्षुर विहीनस्य कीदृशं जीवितं भवेत 3 जरासंध बलं पराप्य दुष्पारं भीमविक्रमम शरमॊ हि वः पराजय्यात किम उ तत्र विचेष्टितम 4 अस्मिन्न अर्थान्तरे युक्तम अनर्थः परतिपद्यते यथाहं विमृशाम्य एकस तत तावच छरूयतां मम 5 संन्यासं रॊचये साधुकार्यस्यास्य जनार्दन परतिहन्ति मनॊ मे ऽदय राजसूयॊ दुरासदः 6 [व] पार्थः पराप्य धनुःश्रेष्ठम अक्षय्यौ च महेषुधी रथं धवजं सभां चैव युधिष्ठिरम अभाषत 7 धनुर अस्त्रं शरा वीर्यं पक्षॊ भूमिर यशॊबलम पराप्तम एतन मया राजन दुष्प्रापं यद अभीप्सितम 8 कुले जन्म परशंसन्ति वैद्याः साधु सुनिष्ठिताः बलेन सदृशं नास्ति वीर्यं तु मम रॊचते 9 कृतवीर्यकुले जातॊ निर्वीर्यः किं करिष्यति कषत्रियः सर्वशॊ राजन यस्य वृत्तिः पराजये 10 सर्वैर अपि गुणैर हीनॊ वीर्यवान हि तरेद रिपून सर्वैर अपि गुणैर युक्तॊ निर्वीर्यः किं करिष्यति 11 दरव्यभूता गुणाः सर्वे तिष्ठन्ति हि पराक्रमे जयस्य हेतुः सिद्धिर हि कर्म दैवं च संश्रितम 12 संयुक्तॊ हि बलैः कश चित परमादान नॊपयुज्यते तेन दवारेण शत्रुभ्यः कषीयते सबलॊ रिपुः 13 दैन्यं यथाबलवति तथा मॊहॊ बलान्विते ताव उभौ नाशकौ हेतू राज्ञा तयाज्यौ जयार्थिना 14 जरासंध विनाशं च राज्ञां च परिमॊक्षणम यदि कुर्याम यज्ञार्थं किं ततः परमं भवेत 15 अनारम्भे तु नियतॊ भवेद अगुण निश्चयः गुणान निःसंशयाद राजन नैर्गुण्यं मन्यसे कथम 16 काषायं सुलभं पश्चान मुनीनां शमम इच्छताम साम्राज्यं तु तवेच्छन्तॊ वयं यॊत्स्यामहे परैः |
1
[y] samrāḍ guṇam abhīpsan vai yuṣmān svārthaparāyaṇaḥ kathaṃ prahiṇuyāṃ bhīmaṃ balāt kevalasāhasāt 2 bhīmārjunāv ubhau netre mano manye janārdanam manaś cakṣur vihīnasya kīdṛśaṃ jīvitaṃ bhavet 3 jarāsaṃdha balaṃ prāpya duṣpāraṃ bhīmavikramam śramo hi vaḥ parājayyāt kim u tatra viceṣṭitam 4 asminn arthāntare yuktam anarthaḥ pratipadyate yathāhaṃ vimṛśāmy ekas tat tāvac chrūyatāṃ mama 5 saṃnyāsaṃ rocaye sādhukāryasyāsya janārdana pratihanti mano me 'dya rājasūyo durāsadaḥ 6 [v] pārthaḥ prāpya dhanuḥśreṣṭham akṣayyau ca maheṣudhī rathaṃ dhvajaṃ sabhāṃ caiva yudhiṣṭhiram abhāṣata 7 dhanur astraṃ śarā vīryaṃ pakṣo bhūmir yaśobalam prāptam etan mayā rājan duṣprāpaṃ yad abhīpsitam 8 kule janma praśaṃsanti vaidyāḥ sādhu suniṣṭhitāḥ balena sadṛśaṃ nāsti vīryaṃ tu mama rocate 9 kṛtavīryakule jāto nirvīryaḥ kiṃ kariṣyati kṣatriyaḥ sarvaśo rājan yasya vṛttiḥ parājaye 10 sarvair api guṇair hīno vīryavān hi tared ripūn sarvair api guṇair yukto nirvīryaḥ kiṃ kariṣyati 11 dravyabhūtā guṇāḥ sarve tiṣṭhanti hi parākrame jayasya hetuḥ siddhir hi karma daivaṃ ca saṃśritam 12 saṃyukto hi balaiḥ kaś cit pramādān nopayujyate tena dvāreṇa śatrubhyaḥ kṣīyate sabalo ripuḥ 13 dainyaṃ yathābalavati tathā moho balānvite tāv ubhau nāśakau hetū rājñā tyājyau jayārthinā 14 jarāsaṃdha vināśaṃ ca rājñāṃ ca parimokṣaṇam yadi kuryāma yajñārthaṃ kiṃ tataḥ paramaṃ bhavet 15 anārambhe tu niyato bhaved aguṇa niścayaḥ guṇān niḥsaṃśayād rājan nairguṇyaṃ manyase katham 16 kāṣāyaṃ sulabhaṃ paścān munīnāṃ śamam icchatām sāmrājyaṃ tu tavecchanto vayaṃ yotsyāmahe paraiḥ |
The Mahabharata in Sanskrit
Book 2
Chapter 16
|
1
[वा] जातस्य भारते वंशे तथा कुन्त्याः सुतस्य च या वै युक्ता मतिः सेयम अर्जुनेन परदर्शिता 2 न मृत्यॊः समयं विद्म रात्रौ वा यदि वा दिवा न चापि कं चिद अमरम अयुद्धेनापि शुश्रुमः 3 एतावद एव पुरुषैः कार्यं हृदयतॊषणम नयेन विधिदृष्टेन यद उपक्रमते परान 4 सुनयस्यानपायस्य संयुगे परमः करमः संशयॊ जायते साम्ये साम्यं च न भवेद दवयॊः 5 ते वयं नयम आस्थाय शत्रुदेहसमीपगाः कथम अन्तं न गच्छेम वृक्षस्येव नदीरयाः पररन्ध्रे पराक्रान्ताः सवरन्ध्रावरणे सथिताः 6 वयूढानीकैर अनुबलैर नॊपेयाद बलवत्तरम इति बुद्धिमतां नीतिस तन ममापीह रॊचते 7 अनवद्या हय असंबुद्धाः परविष्टाः शत्रुसद्म तत शत्रुदेहम उपाक्रम्य तं कामं पराप्नुयामहे 8 एकॊ हय एव शरियं नित्यं बिभर्ति पुरुषर्षभ अन्तरात्मेव भूतानां तत कषये वै बलक्षयः 9 अथ चेत तं निहत्याजौ शेषेणाभिसमागताः पराप्नुयाम ततः सवर्गं जञातित्राण परायनाः 10 [य] कृष्ण कॊ ऽयं जरासंधः किं वीर्यः किं पराक्रमः यस तवां सपृष्ट्वाग्निसदृशं न दग्धः शलभॊ यथा 11 [क] शृणु राजञ जरासंधॊ यद वीर्यॊ यत पराक्रमः यथा चॊपेक्षितॊ ऽसमाभिर बहुशः कृतविप्रियः 12 अक्षौहिणीनां तिसृणाम आसीत समरदर्पितः राजा बृहद्रथॊ नाम मगधाधिपतिः पतिः 13 रूपवान वीर्यसंपन्नः शरीमान अतुलविक्रमः नित्यं दीक्षा कृश तनुः शतक्रतुर इवापरः 14 तेजसा सूर्यसदृशः कषमया पृथिवीसमः यमान्तकसमः कॊपे शरिया वैश्रवणॊपमः 15 तस्याभिजन संयुक्तैर गुणैर भरतसत्तम वयाप्तेयं पृथिवी सर्वा सूर्यस्येव गभस्तिभिः 16 स काशिराजस्य सुते यमजे भरतर्षभ उपयेमे महावीर्यॊ रूपद्रविण संमते 17 तयॊश चकार समयं मिथः स पुरुषर्षभः नातिवर्तिष्य इत्य एवं पत्नीभ्यां संनिधौ तदा 18 स ताभ्यां शुशुभे राजा पत्नीभ्यां मनुजाधिप परियाभ्याम अनुरूपाभ्यां करेणुभ्याम इव दविपः 19 तयॊर मध्यगतश चापि रराज वसुधाधिपः गङ्गायमुनयॊर मध्ये मूर्तिमान इव सागरः 20 विषयेषु निमग्नस्य तस्य यौवनम अत्यगात न च वंशकरः पुत्रस तस्याजायत कश चन 21 मङ्गलैर बहुभिर हॊमैः पुत्र कामाभिर इष्टिभिः नाससाद नृपश्रेष्ठः पुत्रं कुलविवर्धनम 22 अथ काक्षीवतः पुत्रं गौतमस्य महात्मनः शुश्राव तपसि शरान्तम उदारं चण्डकौशिकम 23 यदृच्छयागतं तं तु वृक्षमूलम उपाश्रितम पत्नीभ्यां सहितॊ राजा सर्वरत्नैर अतॊषयत 24 तम अब्रवीत सत्यधृतिः सत्यवाग ऋषिसत्तमः परितुष्टॊ ऽसमि ते राजन वरं वरय सुव्रत 25 ततः सभार्यः परनटस तम उवाच बृहद्रथः पुत्रदर्शननैराश्याद बाष्पगद्गदया गिरा 26 [ब] भगवन राज्यम उत्सृज्य परस्थितस्य तपॊवनम किं वरेणाल्प भाग्यस्य किं राज्येनाप्रजस्य मे 27 [क] एतच छरुत्वा मुनिर धयानम अगमत कषुभितेन्द्रियः तस्यैव चाम्र वृक्षस्य छायायां समुपाविशत 28 तस्यॊपविष्टस्य मुनेर उत्सङ्गे निपपात ह अवातम अशुकादष्टम एकम आम्रफलं किल 29 तत परगृह्य मुनिश्रेष्ठॊ हृदयेनाभिमन्त्र्य च राज्ञे ददाव अप्रतिमं पुत्रसंप्राप्ति कारकम 30 उवाच च महाप्राज्ञस तं राजानं महामुनिः गच्छ राजन कृतार्थॊ ऽसि निवर्त मनुजाधिप 31 यथा समयम आज्ञाय तदा स नृपसत्तमः दवाभ्याम एकं फलं परादात पत्नीभ्यां भरतर्षभ 32 ते तद आम्रं दविधाकृत्वा भक्षयाम आसतुः शुभे भावित्वाद अपि चार्थस्य सत्यवाक्यात तथा मुनेः 33 तयॊः समभवद गर्भः फलप्राशन संभवः ते च दृष्ट्वा नरपतिः परां मुदम अवाप ह 34 अथ काले महाप्राज्ञ यथा समयम आगते परजायेताम उभे राजञ शरीरशकले तदा 35 एकाक्षिबाहुचरणे अर्धॊदर मुखस्फिजे दृष्ट्वा शरीरशकले परवेपाते उभे भृशम 36 उद्विग्ने सह संमन्त्र्य ते भगिन्यौ तदाबले सजीवे पराणिशकले तत्यजाते सुदुःखिते 37 तयॊर धात्र्यौ सुसंवीते कृत्वा ते गर्भसंप्लवे निर्गम्यान्तः पुरद्वारात समुत्सृज्याशु जग्मतुः 38 ते चतुष्पथ निक्षिप्ते जरा नामाथ राक्षसी जग्राह मनुजव्याघ्रमांसशॊणितभॊजना 39 कर्तुकामा सुखवहे शकले सा तु राक्षसी संघट्टयाम आस तदा विधानबलचॊदिता 40 ते समानीत मात्रे तु शकले पुरुषर्षभ एकमूर्ति कृते वीरः कुमारः समपद्यत 41 ततः सा राक्षसी राजन विस्मयॊत्फुल्ललॊचना न शशाक समुद्वॊधुं वज्रसार मयं शिशुम 42 बालस ताम्रतलं मुष्टिं कृत्वा चास्ये निधाय सः पराक्रॊशद अतिसंरम्भात सतॊय इव तॊयदः 43 तेन शब्देन संभ्रान्तः सहसान्तः पुरे जनः निर्जगाम नरव्याघ्र राज्ञा सह परंतप 44 ते चाबले परिग्लाने पयः पूर्णपयॊधरे निराशे पुत्रलाभाय सहसैवाभ्यगच्छताम 45 अथ दृष्ट्वा तथा भूते राजानं चेष्ट संततिम तं च बालं सुबलिनं चिन्तयाम आस राक्षसी 46 नार्हामि विषये राज्ञॊ वसन्ती पुत्रगृद्धिनः बालं पुत्रम उपादातुं मेघलेखेव भास्करम 47 सा कृत्वा मानुषं रूपम उवाच मनुजाधिपम बृहद्रथसुतस ते ऽयं मद्दत्तः परतिगृह्यताम 48 तव पत्नी दवये जातॊ दविजातिवरशासनात धात्री जनपरित्यक्तॊ ममायं परिरक्षितः 49 ततस ते भरतश्रेष्ठ काशिराजसुते शुभे तं बालम अभिपत्याशु परस्नवैर अभिषिञ्चताम 50 ततः स राजा संहृष्टः सर्वं तद उपलभ्य च अपृच्छन नवहेमाभां राक्षसीं ताम अराक्षसीम 51 का तवं कमलगर्भाभे मम पुत्र परदायिनी कामया बरूहि कल्याणि देवता परतिभासि मे |
1
[vā] jātasya bhārate vaṃśe tathā kuntyāḥ sutasya ca yā vai yuktā matiḥ seyam arjunena pradarśitā 2 na mṛtyoḥ samayaṃ vidma rātrau vā yadi vā divā na cāpi kaṃ cid amaram ayuddhenāpi śuśrumaḥ 3 etāvad eva puruṣaiḥ kāryaṃ hṛdayatoṣaṇam nayena vidhidṛṣṭena yad upakramate parān 4 sunayasyānapāyasya saṃyuge paramaḥ kramaḥ saṃśayo jāyate sāmye sāmyaṃ ca na bhaved dvayoḥ 5 te vayaṃ nayam āsthāya śatrudehasamīpagāḥ katham antaṃ na gacchema vṛkṣasyeva nadīrayāḥ pararandhre parākrāntāḥ svarandhrāvaraṇe sthitāḥ 6 vyūḍhānīkair anubalair nopeyād balavattaram iti buddhimatāṃ nītis tan mamāpīha rocate 7 anavadyā hy asaṃbuddhāḥ praviṣṭāḥ śatrusadma tat śatrudeham upākramya taṃ kāmaṃ prāpnuyāmahe 8 eko hy eva śriyaṃ nityaṃ bibharti puruṣarṣabha antarātmeva bhūtānāṃ tat kṣaye vai balakṣayaḥ 9 atha cet taṃ nihatyājau śeṣeṇābhisamāgatāḥ prāpnuyāma tataḥ svargaṃ jñātitrāṇa parāyanāḥ 10 [y] kṛṣṇa ko 'yaṃ jarāsaṃdhaḥ kiṃ vīryaḥ kiṃ parākramaḥ yas tvāṃ spṛṣṭvāgnisadṛśaṃ na dagdhaḥ śalabho yathā 11 [k] śṛṇu rājañ jarāsaṃdho yad vīryo yat parākramaḥ yathā copekṣito 'smābhir bahuśaḥ kṛtavipriyaḥ 12 akṣauhiṇīnāṃ tisṛṇām āsīt samaradarpitaḥ rājā bṛhadratho nāma magadhādhipatiḥ patiḥ 13 rūpavān vīryasaṃpannaḥ śrīmān atulavikramaḥ nityaṃ dīkṣā kṛśa tanuḥ śatakratur ivāparaḥ 14 tejasā sūryasadṛśaḥ kṣamayā pṛthivīsamaḥ yamāntakasamaḥ kope śriyā vaiśravaṇopamaḥ 15 tasyābhijana saṃyuktair guṇair bharatasattama vyāpteyaṃ pṛthivī sarvā sūryasyeva gabhastibhiḥ 16 sa kāśirājasya sute yamaje bharatarṣabha upayeme mahāvīryo rūpadraviṇa saṃmate 17 tayoś cakāra samayaṃ mithaḥ sa puruṣarṣabhaḥ nātivartiṣya ity evaṃ patnībhyāṃ saṃnidhau tadā 18 sa tābhyāṃ śuśubhe rājā patnībhyāṃ manujādhipa priyābhyām anurūpābhyāṃ kareṇubhyām iva dvipaḥ 19 tayor madhyagataś cāpi rarāja vasudhādhipaḥ gaṅgāyamunayor madhye mūrtimān iva sāgaraḥ 20 viṣayeṣu nimagnasya tasya yauvanam atyagāt na ca vaṃśakaraḥ putras tasyājāyata kaś cana 21 maṅgalair bahubhir homaiḥ putra kāmābhir iṣṭibhiḥ nāsasāda nṛpaśreṣṭhaḥ putraṃ kulavivardhanam 22 atha kākṣīvataḥ putraṃ gautamasya mahātmanaḥ śuśrāva tapasi śrāntam udāraṃ caṇḍakauśikam 23 yadṛcchayāgataṃ taṃ tu vṛkṣamūlam upāśritam patnībhyāṃ sahito rājā sarvaratnair atoṣayat 24 tam abravīt satyadhṛtiḥ satyavāg ṛṣisattamaḥ parituṣṭo 'smi te rājan varaṃ varaya suvrata 25 tataḥ sabhāryaḥ pranaṭas tam uvāca bṛhadrathaḥ putradarśananairāśyād bāṣpagadgadayā girā 26 [b] bhagavan rājyam utsṛjya prasthitasya tapovanam kiṃ vareṇālpa bhāgyasya kiṃ rājyenāprajasya me 27 [k] etac chrutvā munir dhyānam agamat kṣubhitendriyaḥ tasyaiva cāmra vṛkṣasya chāyāyāṃ samupāviśat 28 tasyopaviṣṭasya muner utsaṅge nipapāta ha avātam aśukādaṣṭam ekam āmraphalaṃ kila 29 tat pragṛhya muniśreṣṭho hṛdayenābhimantrya ca rājñe dadāv apratimaṃ putrasaṃprāpti kārakam 30 uvāca ca mahāprājñas taṃ rājānaṃ mahāmuniḥ gaccha rājan kṛtārtho 'si nivarta manujādhipa 31 yathā samayam ājñāya tadā sa nṛpasattamaḥ dvābhyām ekaṃ phalaṃ prādāt patnībhyāṃ bharatarṣabha 32 te tad āmraṃ dvidhākṛtvā bhakṣayām āsatuḥ śubhe bhāvitvād api cārthasya satyavākyāt tathā muneḥ 33 tayoḥ samabhavad garbhaḥ phalaprāśana saṃbhavaḥ te ca dṛṣṭvā narapatiḥ parāṃ mudam avāpa ha 34 atha kāle mahāprājña yathā samayam āgate prajāyetām ubhe rājañ śarīraśakale tadā 35 ekākṣibāhucaraṇe ardhodara mukhasphije dṛṣṭvā śarīraśakale pravepāte ubhe bhṛśam 36 udvigne saha saṃmantrya te bhaginyau tadābale sajīve prāṇiśakale tatyajāte suduḥkhite 37 tayor dhātryau susaṃvīte kṛtvā te garbhasaṃplave nirgamyāntaḥ puradvārāt samutsṛjyāśu jagmatuḥ 38 te catuṣpatha nikṣipte jarā nāmātha rākṣasī jagrāha manujavyāghramāṃsaśoṇitabhojanā 39 kartukāmā sukhavahe śakale sā tu rākṣasī saṃghaṭṭayām āsa tadā vidhānabalacoditā 40 te samānīta mātre tu śakale puruṣarṣabha ekamūrti kṛte vīraḥ kumāraḥ samapadyata 41 tataḥ sā rākṣasī rājan vismayotphullalocanā na śaśāka samudvodhuṃ vajrasāra mayaṃ śiśum 42 bālas tāmratalaṃ muṣṭiṃ kṛtvā cāsye nidhāya saḥ prākrośad atisaṃrambhāt satoya iva toyadaḥ 43 tena śabdena saṃbhrāntaḥ sahasāntaḥ pure janaḥ nirjagāma naravyāghra rājñā saha paraṃtapa 44 te cābale pariglāne payaḥ pūrṇapayodhare nirāśe putralābhāya sahasaivābhyagacchatām 45 atha dṛṣṭvā tathā bhūte rājānaṃ ceṣṭa saṃtatim taṃ ca bālaṃ subalinaṃ cintayām āsa rākṣasī 46 nārhāmi viṣaye rājño vasantī putragṛddhinaḥ bālaṃ putram upādātuṃ meghalekheva bhāskaram 47 sā kṛtvā mānuṣaṃ rūpam uvāca manujādhipam bṛhadrathasutas te 'yaṃ maddattaḥ pratigṛhyatām 48 tava patnī dvaye jāto dvijātivaraśāsanāt dhātrī janaparityakto mamāyaṃ parirakṣitaḥ 49 tatas te bharataśreṣṭha kāśirājasute śubhe taṃ bālam abhipatyāśu prasnavair abhiṣiñcatām 50 tataḥ sa rājā saṃhṛṣṭaḥ sarvaṃ tad upalabhya ca apṛcchan navahemābhāṃ rākṣasīṃ tām arākṣasīm 51 kā tvaṃ kamalagarbhābhe mama putra pradāyinī kāmayā brūhi kalyāṇi devatā pratibhāsi me |
The Mahabharata in Sanskrit
Book 2
Chapter 17
|
1
[र] जरा नामास्मि भद्रं ते राक्षसी कामरूपिणी तव वेश्मनि राजेन्द्र पूजिता नयवसं सुखम 2 साहं परत्युपकारार्थं चिन्तयन्त्य अनिशं नृप तवेमे पुत्र शकले दृष्टवत्य अस्मि धार्मिक 3 संश्लेषिते मया दैवात कुमारः समपद्यत तव भाग्यैर महाराज हेतुमात्रम अहं तव इह 4 [क] एवम उक्त्वा तु सा राजंस तत्रैवान्तरधीयत स गृह्य च कुमारं तं पराविशत सवगृहं नृपः 5 तस्य बालस्य यत्कृत्यं तच चकार नृपस तदा आज्ञापयच च राक्षस्या मागधेषु महॊत्सवम 6 तस्य नामाकरॊत तत्र परजापतिसमः पिता जरया संधितॊ यस्माज जरासंधस ततॊ ऽभवत 7 सॊ ऽवर्धत महातेजा मगधाधिपतेः सुतः परमाण बलसंपन्नॊ हुताहुतिर इवानलः 8 कस्य चित तव अथ कालस्य पुनर एव महातपाः मगधान उपचक्राम भगवांश चण्डकौशिकः 9 तस्यागमनसंहृष्टः सामात्यः सपुरःसरः सभार्यः सह पुत्रेण निर्जगाम बृहद्रथः 10 पाद्यार्घ्याचमनीयैस तम अर्चयाम आस भारत स नृपॊ राज्यसहितं पुत्रं चास्मै नयवेदयत 11 परतिगृह्य तु तां पूजां पार्थिवाद भगवान ऋषिः उवाच मागधं राजन परहृष्टेनान्तरात्मना 12 सर्वम एतन मया राजन विज्ञातं जञानचक्षुषा पुत्रस तु शृणु राजेन्द्र यादृशॊ ऽयं भविष्यति 13 अस्य वीर्यवतॊ वीर्यं नानुयास्यन्ति पार्थिवाः देवैर अपि विसृष्टानि शस्त्राण्य अस्य महीपते न रुजं जनयिष्यन्ति गिरेर इव नदीरयाः 14 सर्वमूर्धाभिषिक्तानाम एष मूर्ध्नि जवलिष्यति सर्वेषां निष्प्रभ करॊ जयॊतिषाम इव भास्करः 15 एनम आसाद्य राजानः समृद्धबलवाहनाः विनाशम उपयास्यन्ति शलभा इव पावकम 16 एष शरियं समुदितां सर्वराज्ञां गरहीष्यति वर्षास्व इवॊद्धत जला नदीर नदनदीपतिः 17 एष धारयिता सम्यक चातुर्वर्ण्यं महाबलः शुभाशुभम इव सफीता सर्वसस्य धराधरा 18 अस्याज्ञा वशगाः सर्वे भविष्यन्ति नराधिपाः सर्वभूतात्मभूतस्य वायॊर इव शरीरिणः 19 एष रुद्रं महादेवं तरिपुरान्त करं हरम सर्वलॊकेष्व अति बलः सवयं दरक्ष्यति मागधः 20 एवं बरुवन्न एव मुनिः सवकार्यार्थं विचिन्तयन विसर्जयाम आस नृपं बृहद्रथम अथारिहन 21 परविश्य नगरं चैव जञातिसंबन्धिभिर वृतः अभिषिच्य जरासंधं मगधाधिपतिस तदा बृहद्रथॊ नरपतिः परां निर्वृतिम आययौ 22 अभिषिक्ते जरासंधे तदा राजा बृहद्रथः पत्नी दवयेनानुगतस तपॊवनरतॊ ऽभवत 23 तपॊवनस्थे पितरि मातृभ्यां सह भारत जरासंधः सववीर्येण पाथिवान अकरॊद वशे 24 अथ दीर्घस्य कालस्य तपॊवनगतॊ नृपः सभार्यः सवर्गम अगमत तपस तप्त्वा बृहद्रथः 25 तस्यास्तां हंसडिभकाव अशस्त्रनिधनाव उभौ मन्त्रे मतिमतां शरेष्ठौ युद्धशास्त्रविशारदौ 26 यौ तौ मया ते कथितौ पूर्वम एव महाबलौ तरयस तरयाणां लॊकानां पर्याप्ता इति मे मतिः 27 एवम एष तदा वीर बलिभिः कुकुरान्धकैः वृष्णिभिश च महाराज नीतिहेतॊर उपेक्षितः |
1
[r] jarā nāmāsmi bhadraṃ te rākṣasī kāmarūpiṇī tava veśmani rājendra pūjitā nyavasaṃ sukham 2 sāhaṃ pratyupakārārthaṃ cintayanty aniśaṃ nṛpa taveme putra śakale dṛṣṭavaty asmi dhārmika 3 saṃśleṣite mayā daivāt kumāraḥ samapadyata tava bhāgyair mahārāja hetumātram ahaṃ tv iha 4 [k] evam uktvā tu sā rājaṃs tatraivāntaradhīyata sa gṛhya ca kumāraṃ taṃ prāviśat svagṛhaṃ nṛpaḥ 5 tasya bālasya yatkṛtyaṃ tac cakāra nṛpas tadā ājñāpayac ca rākṣasyā māgadheṣu mahotsavam 6 tasya nāmākarot tatra prajāpatisamaḥ pitā jarayā saṃdhito yasmāj jarāsaṃdhas tato 'bhavat 7 so 'vardhata mahātejā magadhādhipateḥ sutaḥ pramāṇa balasaṃpanno hutāhutir ivānalaḥ 8 kasya cit tv atha kālasya punar eva mahātapāḥ magadhān upacakrāma bhagavāṃś caṇḍakauśikaḥ 9 tasyāgamanasaṃhṛṣṭaḥ sāmātyaḥ sapuraḥsaraḥ sabhāryaḥ saha putreṇa nirjagāma bṛhadrathaḥ 10 pādyārghyācamanīyais tam arcayām āsa bhārata sa nṛpo rājyasahitaṃ putraṃ cāsmai nyavedayat 11 pratigṛhya tu tāṃ pūjāṃ pārthivād bhagavān ṛṣiḥ uvāca māgadhaṃ rājan prahṛṣṭenāntarātmanā 12 sarvam etan mayā rājan vijñātaṃ jñānacakṣuṣā putras tu śṛṇu rājendra yādṛśo 'yaṃ bhaviṣyati 13 asya vīryavato vīryaṃ nānuyāsyanti pārthivāḥ devair api visṛṣṭāni śastrāṇy asya mahīpate na rujaṃ janayiṣyanti girer iva nadīrayāḥ 14 sarvamūrdhābhiṣiktānām eṣa mūrdhni jvaliṣyati sarveṣāṃ niṣprabha karo jyotiṣām iva bhāskaraḥ 15 enam āsādya rājānaḥ samṛddhabalavāhanāḥ vināśam upayāsyanti śalabhā iva pāvakam 16 eṣa śriyaṃ samuditāṃ sarvarājñāṃ grahīṣyati varṣāsv ivoddhata jalā nadīr nadanadīpatiḥ 17 eṣa dhārayitā samyak cāturvarṇyaṃ mahābalaḥ śubhāśubham iva sphītā sarvasasya dharādharā 18 asyājñā vaśagāḥ sarve bhaviṣyanti narādhipāḥ sarvabhūtātmabhūtasya vāyor iva śarīriṇaḥ 19 eṣa rudraṃ mahādevaṃ tripurānta karaṃ haram sarvalokeṣv ati balaḥ svayaṃ drakṣyati māgadhaḥ 20 evaṃ bruvann eva muniḥ svakāryārthaṃ vicintayan visarjayām āsa nṛpaṃ bṛhadratham athārihan 21 praviśya nagaraṃ caiva jñātisaṃbandhibhir vṛtaḥ abhiṣicya jarāsaṃdhaṃ magadhādhipatis tadā bṛhadratho narapatiḥ parāṃ nirvṛtim āyayau 22 abhiṣikte jarāsaṃdhe tadā rājā bṛhadrathaḥ patnī dvayenānugatas tapovanarato 'bhavat 23 tapovanasthe pitari mātṛbhyāṃ saha bhārata jarāsaṃdhaḥ svavīryeṇa pāthivān akarod vaśe 24 atha dīrghasya kālasya tapovanagato nṛpaḥ sabhāryaḥ svargam agamat tapas taptvā bṛhadrathaḥ 25 tasyāstāṃ haṃsaḍibhakāv aśastranidhanāv ubhau mantre matimatāṃ śreṣṭhau yuddhaśāstraviśāradau 26 yau tau mayā te kathitau pūrvam eva mahābalau trayas trayāṇāṃ lokānāṃ paryāptā iti me matiḥ 27 evam eṣa tadā vīra balibhiḥ kukurāndhakaiḥ vṛṣṇibhiś ca mahārāja nītihetor upekṣitaḥ |
The Mahabharata in Sanskrit
Book 2
Chapter 18
|
1
[वा] पतितौ हंसडिभकौ कंसामात्यौ निपातितौ जरासंधस्य निधने कालॊ ऽयं समुपागतः 2 न स शक्यॊ रणे जेतुं सर्वैर अपि सुरासुरैः पराणयुद्धेन जेतव्यः स इत्य उपलभामहे 3 मयि नीतिर बलं भीमे रक्षिता चावयॊ ऽरजुनः साधयिष्यामि तं राजन वयं तरय इवाग्नयः 4 तरिभिर आसादितॊ ऽसमाभिर विजने स नराधिपः न संदेहॊ यथा युद्धम एकेनाभ्युपयास्यति 5 अवमानाच च लॊकस्य वयायतत्वाच च धर्षितः भीमसेनेन युद्धाय धरुवम अभ्युपयास्यति 6 अलं तस्य महाबाहुर भीमसेनॊ महाबलः लॊकस्य समुदीर्णस्य निधनायान्तकॊ यथा 7 यदि ते हृदयं वेत्ति यदि ते परत्ययॊ मयि भीमसेनार्जुनौ शीघ्रं नयासभूतौ परयच्छ मे 8 [वै] एवम उक्तॊ भगवता परत्युवाच युधिष्ठिरः भीम पार्थौ समालॊक्य संप्रहृष्टमुखौ सथितौ 9 अच्युताच्युत मा मैवं वयाहरामित्र कर्षण पाण्डवानां भवान नाथॊ भवन्तं चाश्रिता वयम 10 यथा वदसि गॊविन्द सर्वं तद उपपद्यते न हि तवम अग्रतस तेषां येषां लक्ष्मीः पराङ्मुखी 11 निहतश च जरासंधॊ मॊक्षिताश च महीक्षितः राजसूयश च मे लब्धॊ निदेशे तव तिष्ठतः 12 कषिप्रकारिन यथा तव एतत कार्यं समुपपद्यते मम कार्यं जगत कार्यं तथा कुरु नरॊत्तम 13 तरिभिर भवद्भिर हि विना नाहं जीवितुम उत्सहे धर्मकामार्थ रहितॊ रॊगार्त इव दुर्गतः 14 न शौरिणा विना पार्थॊ न शौरिः पाण्डवं विना नाजेयॊ ऽसत्य अनयॊर लॊके कृष्णयॊर इति मे मतिः 15 अयं च बलिनां शरेष्ठः शरीमान अपि वृकॊदरः युवाभ्यां सहितॊ वीरः किं न कुर्यान महायशाः 16 सुप्रणीतॊ बलौघॊ हि कुरुते कार्यम उत्तमम अन्धं जडं बलं पराहुः परणेतव्यं विचक्षणैः 17 यतॊ हि निम्नं भवति नयन्तीह ततॊ जलम यतश छिद्रं ततश चापि नयन्ते धीधना बलम 18 तस्मान नयविधानज्ञं पुरुषं लॊकविश्रुतम वयम आश्रित्य गॊविन्दं यतामः कार्यसिद्धये 19 एवं परज्ञा नयबलं करियॊपाय समन्वितम पुरस्कुर्वीत कार्येषु कृष्ण कार्यार्थसिद्धये 20 एवम एव यदुश्रेष्ठं पार्थः कार्यार्थसिद्धये अर्जुनः कृष्णम अन्वेतु भीमॊ ऽनवेतु धनंजयम नयॊ जयॊ बलं चैव विक्रमे सिद्धिम एष्यति 21 एवम उक्तास ततः सर्वे भरातरॊ विपुलौजसः वार्ष्णेयः पाण्डवेयौ च परतस्थुर मागधं परति 22 वर्चस्विनां बराह्मणानां सनातकानां परिच्छदान आच्छाद्य सुहृदां वाक्यैर मनॊज्ञैर अभिनन्दिताः 23 अमर्षाद अभितप्तानां जञात्यर्थं मुख्यवाससाम रविसॊमाग्निवपुषां भीमम आसीत तदा वपुः 24 हतं मेने जरासंधं दृष्ट्वा भीम पुरॊगमौ एककार्यसमुद्युक्तौ कृष्णौ युद्धे ऽपराजितौ 25 ईशौ हि तौ महात्मानौ सर्वकार्यप्रवर्तने धर्मार्थकामकार्याणां कार्याणाम इव निग्रहे 26 कुरुभ्यः परस्थितास ते तु मध्येन कुरुजाङ्गलम रम्यं पद्मसरॊ गत्वा कालकूटम अतीत्य च 27 गण्डकीयां तथा शॊणं सदा नीरां तथैव च एकपर्वतके नद्यः करमेणैत्य वरजन्ति ते 28 संतीर्य सरयूं रम्यां दृष्ट्वा पूर्वांश च कॊसलान अतीत्य जग्मुर मिथिलां मालां चर्मण्वतीं नदीम 29 उत्तीर्य गङ्गां शॊणं च सर्वे ते पराङ्मुखास तरयः कुरवॊरश छदं जग्मुर मागधं कषेत्रम अच्युताः 30 ते शश्वद गॊधनाकीर्णम अम्बुमन्तं शुभद्रुतम गॊरथं गिरिम आसाद्य ददृशुर मागधं पुरम |
1
[vā] patitau haṃsaḍibhakau kaṃsāmātyau nipātitau jarāsaṃdhasya nidhane kālo 'yaṃ samupāgataḥ 2 na sa śakyo raṇe jetuṃ sarvair api surāsuraiḥ prāṇayuddhena jetavyaḥ sa ity upalabhāmahe 3 mayi nītir balaṃ bhīme rakṣitā cāvayo 'rjunaḥ sādhayiṣyāmi taṃ rājan vayaṃ traya ivāgnayaḥ 4 tribhir āsādito 'smābhir vijane sa narādhipaḥ na saṃdeho yathā yuddham ekenābhyupayāsyati 5 avamānāc ca lokasya vyāyatatvāc ca dharṣitaḥ bhīmasenena yuddhāya dhruvam abhyupayāsyati 6 alaṃ tasya mahābāhur bhīmaseno mahābalaḥ lokasya samudīrṇasya nidhanāyāntako yathā 7 yadi te hṛdayaṃ vetti yadi te pratyayo mayi bhīmasenārjunau śīghraṃ nyāsabhūtau prayaccha me 8 [vai] evam ukto bhagavatā pratyuvāca yudhiṣṭhiraḥ bhīma pārthau samālokya saṃprahṛṣṭamukhau sthitau 9 acyutācyuta mā maivaṃ vyāharāmitra karṣaṇa pāṇḍavānāṃ bhavān nātho bhavantaṃ cāśritā vayam 10 yathā vadasi govinda sarvaṃ tad upapadyate na hi tvam agratas teṣāṃ yeṣāṃ lakṣmīḥ parāṅmukhī 11 nihataś ca jarāsaṃdho mokṣitāś ca mahīkṣitaḥ rājasūyaś ca me labdho nideśe tava tiṣṭhataḥ 12 kṣiprakārin yathā tv etat kāryaṃ samupapadyate mama kāryaṃ jagat kāryaṃ tathā kuru narottama 13 tribhir bhavadbhir hi vinā nāhaṃ jīvitum utsahe dharmakāmārtha rahito rogārta iva durgataḥ 14 na śauriṇā vinā pārtho na śauriḥ pāṇḍavaṃ vinā nājeyo 'sty anayor loke kṛṣṇayor iti me matiḥ 15 ayaṃ ca balināṃ śreṣṭhaḥ śrīmān api vṛkodaraḥ yuvābhyāṃ sahito vīraḥ kiṃ na kuryān mahāyaśāḥ 16 supraṇīto balaugho hi kurute kāryam uttamam andhaṃ jaḍaṃ balaṃ prāhuḥ praṇetavyaṃ vicakṣaṇaiḥ 17 yato hi nimnaṃ bhavati nayantīha tato jalam yataś chidraṃ tataś cāpi nayante dhīdhanā balam 18 tasmān nayavidhānajñaṃ puruṣaṃ lokaviśrutam vayam āśritya govindaṃ yatāmaḥ kāryasiddhaye 19 evaṃ prajñā nayabalaṃ kriyopāya samanvitam puraskurvīta kāryeṣu kṛṣṇa kāryārthasiddhaye 20 evam eva yaduśreṣṭhaṃ pārthaḥ kāryārthasiddhaye arjunaḥ kṛṣṇam anvetu bhīmo 'nvetu dhanaṃjayam nayo jayo balaṃ caiva vikrame siddhim eṣyati 21 evam uktās tataḥ sarve bhrātaro vipulaujasaḥ vārṣṇeyaḥ pāṇḍaveyau ca pratasthur māgadhaṃ prati 22 varcasvināṃ brāhmaṇānāṃ snātakānāṃ paricchadān ācchādya suhṛdāṃ vākyair manojñair abhinanditāḥ 23 amarṣād abhitaptānāṃ jñātyarthaṃ mukhyavāsasām ravisomāgnivapuṣāṃ bhīmam āsīt tadā vapuḥ 24 hataṃ mene jarāsaṃdhaṃ dṛṣṭvā bhīma purogamau ekakāryasamudyuktau kṛṣṇau yuddhe 'parājitau 25 īśau hi tau mahātmānau sarvakāryapravartane dharmārthakāmakāryāṇāṃ kāryāṇām iva nigrahe 26 kurubhyaḥ prasthitās te tu madhyena kurujāṅgalam ramyaṃ padmasaro gatvā kālakūṭam atītya ca 27 gaṇḍakīyāṃ tathā śoṇaṃ sadā nīrāṃ tathaiva ca ekaparvatake nadyaḥ krameṇaitya vrajanti te 28 saṃtīrya sarayūṃ ramyāṃ dṛṣṭvā pūrvāṃś ca kosalān atītya jagmur mithilāṃ mālāṃ carmaṇvatīṃ nadīm 29 uttīrya gaṅgāṃ śoṇaṃ ca sarve te prāṅmukhās trayaḥ kuravoraś chadaṃ jagmur māgadhaṃ kṣetram acyutāḥ 30 te śaśvad godhanākīrṇam ambumantaṃ śubhadrutam gorathaṃ girim āsādya dadṛśur māgadhaṃ puram |
The Mahabharata in Sanskrit
Book 2
Chapter 19
|
1
[वा] एष पार्थ महान सवादुः पशुमान नित्यम अम्बुमान निरामयः सुवेश्माढ्यॊ निवेशॊ मागधः शुभः 2 वैहारॊ विपुलः शैलॊ वराहॊ वृषभस तथा तथैवर्षिगिरिस तात शुभाश चैत्यक पञ्चमाः 3 एते पञ्च महाशृङ्गाः पर्वताः शीतलद्रुमाः रक्षन्तीवाभिसंहत्य संहताङ्गा गिरिव्रजम 4 पुष्पवेष्टित शाखाग्रैर गन्धवद्भिर मनॊरमैः निगूढा इव लॊध्राणां वनैः कामि जनप्रियैः 5 शूद्रायां गौतमॊ यत्र महात्मा संशितव्रतः औशीनर्याम अजनयत काक्षीवादीन सुतान ऋषिः 6 गौतमः कषयणाद अस्माद अथासौ तत्र वेश्मनि भजते मागधं वंशं स नृपाणाम अनुग्रहात 7 अङ्गवङ्गादयश चैव राजानः सुमहाबलाः गौतम कषयम अभ्येत्य रमन्ते सम पुरार्जुन 8 वनराजीस तु पश्येमाः परियालानां मनॊरमाः लॊध्राणां च शुभाः पार्थ गौतमौकः समीपजाः 9 अर्बुदः शक्र वापी च पन्नगौ शत्रुतापनौ सवस्तिकस्यालयश चात्र मणिनागस्य चॊत्तमः 10 अपरिहार्या मेघानां मागधेयं मणेः कृते कौशिकॊ मणिमांश चैव ववृधाते हय अनुग्रहम 11 अर्थसिद्धिं तव अनपगां जरासंधॊ ऽभिमन्यते वयम आसादने तस्य दर्पम अद्य निहन्मि हि 12 [व] एवम उक्त्वा ततः सर्वे भरातरॊ विपुलौजसः वार्ष्णेयः पाण्डवेयौ च परतस्थुर मागधं पुरम 13 तुष्टपुष्टजनॊपेतं चातुर्वर्ण्यजनाकुलम सफीतॊत्सवम अनाधृष्यम आसेदुश च गिरिव्रजम 14 ते ऽथ दवारम अनासाद्य पुरस्य गिरिम उच्छ्रितम बार्हद्रथैः पूज्यमानं तथा नगरवासिभिः 15 यत्र माषादम ऋषभम आससाद बृहद्रथः तं हत्वा माषनालाश च तिस्रॊ भेरीर अकारयत 16 आनह्य चर्मणा तेन सथापयाम आस सवे पुरे यत्र ताः पराणदन भेर्यॊ दिव्यपुष्पावचूर्णिताः 17 मागधानां सुरुचिरं चैत्यकान्तं समाद्रवन शिरसीव जिघांसन्तॊ जरासंध जिघान्सवः 18 सथिरं सुविपुलं शृङ्गं सुमहान्तं पुरातनम अर्चितं माल्यदामैश च सततं सुप्रतिष्ठितम 19 विपुलैर बाहुभिर वीरास ते ऽभिहत्याभ्यपातयन ततस ते मागधं दृष्ट्वा पुरं परविविशुस तदा 20 एतस्मिन्न एव काले तु जरासंधं समर्चयन पर्य अग्निकुर्वंश च नृपं दविरदस्थं पुरॊहिताः 21 सनातक वरतिनस ते तु बाहुशस्त्रा निरायुधाः युयुत्सवः परविविशुर जरासंधेन भारत 22 भक्ष्यमाल्यापणानां च ददृशुः शरियम उत्तमाम सफीतां सर्वगुणॊपेतां सर्वकामसमृद्धिनीम 23 तां तु दृष्ट्वा समृद्धिं ते वीथ्यां तस्यां नरॊत्तमाः राजमार्गेण गच्छन्तः कृष्ण भीम धनंजयाः 24 बलाद गृहीत्वा माल्यानि मालाकारान महाबलाः विराग वसनाः सर्वे सरग्विणॊ मृष्टकुण्डलाः 25 निवेशनम अथाजग्मुर जरासंधस्य धीमतः गॊवासम इव वीक्षन्तः सिंहा हैमवता यथा 26 शैलस्तम्भनिभास तेषां चन्दनागुरुभूषिताः अशॊभन्त महाराज बाहवॊ बाहुशालिनाम 27 तान दृष्ट्वा दविरदप्रख्याञ शालस्कन्धान इवॊद्गतान वयूढॊरस्कान मागधानां विस्मयः समजायत 28 ते तव अतीत्य जनाकीर्णास तिस्रः कक्ष्या नरर्षभाः अहं कारेण राजानम उपतस्थुर महाबलाः 29 तान पाद्य मधुपर्कार्हान मानार्हान सत्कृतिं गतान परत्युत्थाय जरासंध उपतस्थे यथाविधि 30 उवाच चैतान राजासौ सवागतं वॊ ऽसत्व इति परभुः तस्य हय एतद वरतं राजन बभूव भुवि विश्रुतम 31 सनातकान बराह्मणान पराप्ताञ शरुत्वा स समितिंजयः अप्य अर्धरात्रे नृपतिः परत्युद्गच्छति भारत 32 तांस तव अपूर्वेण वेषेण दृष्ट्वा नृपतिसत्तमः उपतस्थे जरासंधॊ विस्मितश चाभवत तदा 33 ते तु दृष्ट्वैव राजानं जरासंधं नरर्षभाः इदम ऊचुर अमित्रघ्नाः सर्वे भरतसत्तम 34 सवस्त्य अस्तु कुशलं राजन्न इति सर्वे वयवस्थिताः तं नृपं नृपशार्दूल विप्रैक्षन्त परस्परम 35 तान अब्रवीज जरासंधस तदा यादव पाण्डवान आस्यताम इति राजेन्द्र बराह्मणच छद्म संवृतान 36 अथॊपविविशुः सर्वे तरयस ते पुरुषर्षभाः संप्रदीप्तास तरयॊ लक्ष्म्या महाध्वर इवाग्नयः 37 तान उवाच जरासंधः सत्यसंधॊ नराधिपः विगर्हमाणः कौरव्य वेषग्रहणकारणात 38 न सनातक वरता विप्रा बहिर माल्यानुलेपनाः भवन्तीति नृलॊके ऽसमिन विदितं मम सर्वशः 39 ते यूयं पुष्पवन्तश च भुजैर जयाघात लक्षणैः बिभ्रतः कषात्रम ओजॊ च बराह्मण्यं परतिजानथ 40 एवं विराग वसना बहिर माल्यानुलेपनाः सत्यं वदत के यूयं सत्यं राजसु शॊभते 41 चैत्यकं च गिरेः शृङ्गं भित्त्वा किम इव सद्म नः अद्वारेण परविष्टाः सथ निर्भया राजकिल्बिषात 42 कर्म चैतद विलिङ्गस्य किं वाद्य परसमीक्षितम वदध्वं वाचि वीर्यं च बराह्मणस्य विशेषतः 43 एवं च माम उपस्थाय कस्माच च विधिनार्हणाम परणीतां नॊ न गृह्णीत कार्यं किं चास्मद आगमे 44 एवम उक्तस ततः कृष्णः परत्युवाच महामनाः सनिग्धगम्भीरया वाचा वाक्यं वाक्यविशारदः 45 सनातक वरतिनॊ राजन बराह्मणाः कषत्रिया विशः विशेषनियमाश चैषाम अविशेषाश च सन्त्य उत 46 विशेषवांश च सततं कषत्रियः शरियम अर्छति पुष्पवत्सु धरुवा शरीश च पुष्पवन्तस ततॊ वयम 47 कषत्रियॊ बाहुवीर्यस तु न तथा वाक्यवीर्यवान अप्रगल्भं वचस तस्य तस्माद बार्हद्रथे समृतम 48 सववीर्यं कषत्रियाणां च बाह्वॊर धाता नयवेशयत तद दिदृक्षसि चेद राजन दरष्टास्य अद्य न संशयः 49 अद्वारेण रिपॊर गेहं दवारेण सुहृदॊ गृहम परविशन्ति सदा सन्तॊ दवारं नॊ वर्जितं ततः 50 कार्यवन्तॊ गृहान एत्य शत्रुतॊ नार्हणां वयम परतिगृह्णीम तद विद्धि एतन नः शाश्वतं वरतम |
1
[vā] eṣa pārtha mahān svāduḥ paśumān nityam ambumān nirāmayaḥ suveśmāḍhyo niveśo māgadhaḥ śubhaḥ 2 vaihāro vipulaḥ śailo varāho vṛṣabhas tathā tathaivarṣigiris tāta śubhāś caityaka pañcamāḥ 3 ete pañca mahāśṛṅgāḥ parvatāḥ śītaladrumāḥ rakṣantīvābhisaṃhatya saṃhatāṅgā girivrajam 4 puṣpaveṣṭita śākhāgrair gandhavadbhir manoramaiḥ nigūḍhā iva lodhrāṇāṃ vanaiḥ kāmi janapriyaiḥ 5 śūdrāyāṃ gautamo yatra mahātmā saṃśitavrataḥ auśīnaryām ajanayat kākṣīvādīn sutān ṛṣiḥ 6 gautamaḥ kṣayaṇād asmād athāsau tatra veśmani bhajate māgadhaṃ vaṃśaṃ sa nṛpāṇām anugrahāt 7 aṅgavaṅgādayaś caiva rājānaḥ sumahābalāḥ gautama kṣayam abhyetya ramante sma purārjuna 8 vanarājīs tu paśyemāḥ priyālānāṃ manoramāḥ lodhrāṇāṃ ca śubhāḥ pārtha gautamaukaḥ samīpajāḥ 9 arbudaḥ śakra vāpī ca pannagau śatrutāpanau svastikasyālayaś cātra maṇināgasya cottamaḥ 10 aparihāryā meghānāṃ māgadheyaṃ maṇeḥ kṛte kauśiko maṇimāṃś caiva vavṛdhāte hy anugraham 11 arthasiddhiṃ tv anapagāṃ jarāsaṃdho 'bhimanyate vayam āsādane tasya darpam adya nihanmi hi 12 [v] evam uktvā tataḥ sarve bhrātaro vipulaujasaḥ vārṣṇeyaḥ pāṇḍaveyau ca pratasthur māgadhaṃ puram 13 tuṣṭapuṣṭajanopetaṃ cāturvarṇyajanākulam sphītotsavam anādhṛṣyam āseduś ca girivrajam 14 te 'tha dvāram anāsādya purasya girim ucchritam bārhadrathaiḥ pūjyamānaṃ tathā nagaravāsibhiḥ 15 yatra māṣādam ṛṣabham āsasāda bṛhadrathaḥ taṃ hatvā māṣanālāś ca tisro bherīr akārayat 16 ānahya carmaṇā tena sthāpayām āsa sve pure yatra tāḥ prāṇadan bheryo divyapuṣpāvacūrṇitāḥ 17 māgadhānāṃ suruciraṃ caityakāntaṃ samādravan śirasīva jighāṃsanto jarāsaṃdha jighānsavaḥ 18 sthiraṃ suvipulaṃ śṛṅgaṃ sumahāntaṃ purātanam arcitaṃ mālyadāmaiś ca satataṃ supratiṣṭhitam 19 vipulair bāhubhir vīrās te 'bhihatyābhyapātayan tatas te māgadhaṃ dṛṣṭvā puraṃ praviviśus tadā 20 etasminn eva kāle tu jarāsaṃdhaṃ samarcayan pary agnikurvaṃś ca nṛpaṃ dviradasthaṃ purohitāḥ 21 snātaka vratinas te tu bāhuśastrā nirāyudhāḥ yuyutsavaḥ praviviśur jarāsaṃdhena bhārata 22 bhakṣyamālyāpaṇānāṃ ca dadṛśuḥ śriyam uttamām sphītāṃ sarvaguṇopetāṃ sarvakāmasamṛddhinīm 23 tāṃ tu dṛṣṭvā samṛddhiṃ te vīthyāṃ tasyāṃ narottamāḥ rājamārgeṇa gacchantaḥ kṛṣṇa bhīma dhanaṃjayāḥ 24 balād gṛhītvā mālyāni mālākārān mahābalāḥ virāga vasanāḥ sarve sragviṇo mṛṣṭakuṇḍalāḥ 25 niveśanam athājagmur jarāsaṃdhasya dhīmataḥ govāsam iva vīkṣantaḥ siṃhā haimavatā yathā 26 śailastambhanibhās teṣāṃ candanāgurubhūṣitāḥ aśobhanta mahārāja bāhavo bāhuśālinām 27 tān dṛṣṭvā dviradaprakhyāñ śālaskandhān ivodgatān vyūḍhoraskān māgadhānāṃ vismayaḥ samajāyata 28 te tv atītya janākīrṇās tisraḥ kakṣyā nararṣabhāḥ ahaṃ kāreṇa rājānam upatasthur mahābalāḥ 29 tān pādya madhuparkārhān mānārhān satkṛtiṃ gatān pratyutthāya jarāsaṃdha upatasthe yathāvidhi 30 uvāca caitān rājāsau svāgataṃ vo 'stv iti prabhuḥ tasya hy etad vrataṃ rājan babhūva bhuvi viśrutam 31 snātakān brāhmaṇān prāptāñ śrutvā sa samitiṃjayaḥ apy ardharātre nṛpatiḥ pratyudgacchati bhārata 32 tāṃs tv apūrveṇa veṣeṇa dṛṣṭvā nṛpatisattamaḥ upatasthe jarāsaṃdho vismitaś cābhavat tadā 33 te tu dṛṣṭvaiva rājānaṃ jarāsaṃdhaṃ nararṣabhāḥ idam ūcur amitraghnāḥ sarve bharatasattama 34 svasty astu kuśalaṃ rājann iti sarve vyavasthitāḥ taṃ nṛpaṃ nṛpaśārdūla vipraikṣanta parasparam 35 tān abravīj jarāsaṃdhas tadā yādava pāṇḍavān āsyatām iti rājendra brāhmaṇac chadma saṃvṛtān 36 athopaviviśuḥ sarve trayas te puruṣarṣabhāḥ saṃpradīptās trayo lakṣmyā mahādhvara ivāgnayaḥ 37 tān uvāca jarāsaṃdhaḥ satyasaṃdho narādhipaḥ vigarhamāṇaḥ kauravya veṣagrahaṇakāraṇāt 38 na snātaka vratā viprā bahir mālyānulepanāḥ bhavantīti nṛloke 'smin viditaṃ mama sarvaśaḥ 39 te yūyaṃ puṣpavantaś ca bhujair jyāghāta lakṣaṇaiḥ bibhrataḥ kṣātram ojo ca brāhmaṇyaṃ pratijānatha 40 evaṃ virāga vasanā bahir mālyānulepanāḥ satyaṃ vadata ke yūyaṃ satyaṃ rājasu śobhate 41 caityakaṃ ca gireḥ śṛṅgaṃ bhittvā kim iva sadma naḥ advāreṇa praviṣṭāḥ stha nirbhayā rājakilbiṣāt 42 karma caitad viliṅgasya kiṃ vādya prasamīkṣitam vadadhvaṃ vāci vīryaṃ ca brāhmaṇasya viśeṣataḥ 43 evaṃ ca mām upasthāya kasmāc ca vidhinārhaṇām praṇītāṃ no na gṛhṇīta kāryaṃ kiṃ cāsmad āgame 44 evam uktas tataḥ kṛṣṇaḥ pratyuvāca mahāmanāḥ snigdhagambhīrayā vācā vākyaṃ vākyaviśāradaḥ 45 snātaka vratino rājan brāhmaṇāḥ kṣatriyā viśaḥ viśeṣaniyamāś caiṣām aviśeṣāś ca santy uta 46 viśeṣavāṃś ca satataṃ kṣatriyaḥ śriyam archati puṣpavatsu dhruvā śrīś ca puṣpavantas tato vayam 47 kṣatriyo bāhuvīryas tu na tathā vākyavīryavān apragalbhaṃ vacas tasya tasmād bārhadrathe smṛtam 48 svavīryaṃ kṣatriyāṇāṃ ca bāhvor dhātā nyaveśayat tad didṛkṣasi ced rājan draṣṭāsy adya na saṃśayaḥ 49 advāreṇa ripor gehaṃ dvāreṇa suhṛdo gṛham praviśanti sadā santo dvāraṃ no varjitaṃ tataḥ 50 kāryavanto gṛhān etya śatruto nārhaṇāṃ vayam pratigṛhṇīma tad viddhi etan naḥ śāśvataṃ vratam |
The Mahabharata in Sanskrit
Book 2
Chapter 20
|
1
[ज] न समरेयं कदा वैरं कृतं युष्माभिर इत्य उत चिन्तयंश च न पश्यामि भवतां परति वैकृतम 2 वैकृते चासति कथं मन्यध्वं माम अनागसम अरिं विब्रूत तद विप्राः सतां समय एष हि 3 अथ धर्मॊपघाताद धि मनः समुपतप्यते यॊ ऽनागसि परसृजति कषत्रियॊ ऽपि न संशयः 4 अतॊ ऽनयथाचरँल लॊके धर्मज्ञः सन महाव्रतः वृजिनां गतिम आप्नॊति शरेयसॊ ऽपय उपहन्ति च 5 तरैलॊक्ये कषत्रधर्माद धि शरेयांसं साधु चारिणाम अनागसं परजानानाः परमादाद इव जल्पथ 6 [वासु] कुलकार्यं महाराज कश चिद एकः कुलॊद्वहः वहते तन्नियॊगाद वै वयम अभ्युत्थितास तरयः 7 तवया चॊपहृता राजन कषत्रिया लॊकवासिनः तद आगॊ करूरम उत्पाद्य मन्यसे किं तव अनागसम 8 राजा राज्ञः कथं साधून हिंस्यान नृपतिसत्तम तद राज्ञः संनिगृह्य तवं रुद्रायॊपजिहीर्षसि 9 अस्मांस तद एनॊ गच्छेत तवया बार्हद्रथे कृतम वयं हि शक्ता धर्मस्य रक्षणे धर्मचारिणः 10 मनुष्याणां समालम्भॊ न च दृष्टः कदा चन स कथं मानुषैर देवं यष्टुम इच्छसि शंकरम 11 सवर्णॊ हि सवर्णानां पशुसंज्ञां करिष्यति कॊ ऽनय एवं यथा हि तवं जरासंध वृथा मतिः 12 ते तवां जञातिक्षयकरं वयम आर्तानुसारिणः जञातिवृद्धि निमित्तार्थं विनियन्तुम इहागताः 13 नास्ति लॊके पुमान अन्यः कषत्रियेष्व इति चैव यत मन्यसे स च ते राजन सुमहान बुद्धिविप्लवः 14 कॊ हि जानन्न अभिजनम आत्मनः कषत्रियॊ नृप नाविशेत सवर्गम अतुलं रणानन्तरम अव्ययम 15 सवर्गं हय एव समास्थाय रणयज्ञेषु दीक्षिताः यजन्ते कषत्रिया लॊकांस तद विद्धि मगधाधिपः 16 सवर्गयॊनिर जयॊ राजन सवर्गयॊनिर महद यशः सवर्गयॊनिस तपॊ युद्धे मार्गः सॊ ऽवयभिचारवान 17 एष हय ऐन्द्रॊ वैजयन्तॊ गुणॊ नित्यं समाहितः येनासुरान पराजित्य जगत पाति शतक्रतुः 18 सवर्गम आस्थाय कस्य सयाद विग्रहित्वं यथा तव मागधैर विपुलैः सैन्यैर बाहुल्य बलदर्पितैः 19 मावमन्स्थाः परान राजन नास्ति वीर्यं नरे नरे समं तेजस तवया चैव केवलं मनुजेश्वर 20 यावद एव न संबुद्धं तावद एव भवेत तव विषह्यम एतद अस्माकम अतॊ राजन बरवीमि ते 21 जहि तवं सदृशेष्व एव मानं दर्पं च मागध मा गमः ससुतामात्यः सबलश च यमक्षयम 22 दम्भॊद्भवः कार्तवीर्य उत्तरश च बृहद्रथः शरेयसॊ हय अवमन्येह विनेशुः सबला नृपाः 23 मुमुक्षमाणास तवत्तश च न वयं बराह्मण बरुवाः शौरिर अस्मि हृषीकेशॊ नृवीरौ पाण्डवाव इमौ 24 तवाम आह्वयामहे राजन सथिरॊ युध्यस्व मागध मुञ्च वा नृपतीन सर्वान मा गमस तवं यमक्षयम 25 [ज] नाजितान वै नरपतीन अहम आदद्मि कांश चन जितः कः पर्यवस्थाता कॊ ऽतर यॊ न मया जितः 26 कषत्रियस्यैतद एवाहुर धर्म्यं कृष्णॊपजीवनम विक्रम्य वशम आनीय कामतॊ यत समाचरेत 27 देवतार्थम उपाकृत्य राज्ञः कृष्ण कथं भयात अहम अद्य विमुञ्चेयं कषात्रं वरतम अनुस्मरन 28 सैन्यं सैन्येन वयूढेन एक एकेन वा पुनः दवाभ्यां तरिभिर वा यॊत्स्ये ऽहं युगपत पृथग एव वा 29 [व] एवम उक्त्वा जरासंधः सहदेवाभिषेचनम आज्ञापयत तदा राजा युयुत्सुर भीमकर्मभिः 30 स तु सेनापती राजा सस्मार भरतर्षभ कौशिकं चित्रसेनं च तस्मिन युद्ध उपस्थिते 31 ययॊस ते नामनी लॊके हंसेति डिभकेति च पूर्वं संकथिते पुम्भिर नृलॊके लॊकसत्कृते 32 तं तु राजन विभुः शौरी राजानं बलिनां वरम समृत्वा पुरुषशार्दूल शार्दूलसमविक्रमम 33 सत्यसंधॊ जरासंधं भुवि भीमपराक्रमम भागम अन्यस्य निर्दिष्टं वध्यं भूमिभृद अच्युतः 34 नात्मनात्मवतां मुख्य इयेष मधुसूदनः बरह्मण आज्ञां पुरस्कृत्य हन्तुं हलधरानुजः |
1
[j] na smareyaṃ kadā vairaṃ kṛtaṃ yuṣmābhir ity uta cintayaṃś ca na paśyāmi bhavatāṃ prati vaikṛtam 2 vaikṛte cāsati kathaṃ manyadhvaṃ mām anāgasam ariṃ vibrūta tad viprāḥ satāṃ samaya eṣa hi 3 atha dharmopaghātād dhi manaḥ samupatapyate yo 'nāgasi prasṛjati kṣatriyo 'pi na saṃśayaḥ 4 ato 'nyathācaraṁl loke dharmajñaḥ san mahāvrataḥ vṛjināṃ gatim āpnoti śreyaso 'py upahanti ca 5 trailokye kṣatradharmād dhi śreyāṃsaṃ sādhu cāriṇām anāgasaṃ prajānānāḥ pramādād iva jalpatha 6 [vāsu] kulakāryaṃ mahārāja kaś cid ekaḥ kulodvahaḥ vahate tanniyogād vai vayam abhyutthitās trayaḥ 7 tvayā copahṛtā rājan kṣatriyā lokavāsinaḥ tad āgo krūram utpādya manyase kiṃ tv anāgasam 8 rājā rājñaḥ kathaṃ sādhūn hiṃsyān nṛpatisattama tad rājñaḥ saṃnigṛhya tvaṃ rudrāyopajihīrṣasi 9 asmāṃs tad eno gaccheta tvayā bārhadrathe kṛtam vayaṃ hi śaktā dharmasya rakṣaṇe dharmacāriṇaḥ 10 manuṣyāṇāṃ samālambho na ca dṛṣṭaḥ kadā cana sa kathaṃ mānuṣair devaṃ yaṣṭum icchasi śaṃkaram 11 savarṇo hi savarṇānāṃ paśusaṃjñāṃ kariṣyati ko 'nya evaṃ yathā hi tvaṃ jarāsaṃdha vṛthā matiḥ 12 te tvāṃ jñātikṣayakaraṃ vayam ārtānusāriṇaḥ jñātivṛddhi nimittārthaṃ viniyantum ihāgatāḥ 13 nāsti loke pumān anyaḥ kṣatriyeṣv iti caiva yat manyase sa ca te rājan sumahān buddhiviplavaḥ 14 ko hi jānann abhijanam ātmanaḥ kṣatriyo nṛpa nāviśet svargam atulaṃ raṇānantaram avyayam 15 svargaṃ hy eva samāsthāya raṇayajñeṣu dīkṣitāḥ yajante kṣatriyā lokāṃs tad viddhi magadhādhipaḥ 16 svargayonir jayo rājan svargayonir mahad yaśaḥ svargayonis tapo yuddhe mārgaḥ so 'vyabhicāravān 17 eṣa hy aindro vaijayanto guṇo nityaṃ samāhitaḥ yenāsurān parājitya jagat pāti śatakratuḥ 18 svargam āsthāya kasya syād vigrahitvaṃ yathā tava māgadhair vipulaiḥ sainyair bāhulya baladarpitaiḥ 19 māvamansthāḥ parān rājan nāsti vīryaṃ nare nare samaṃ tejas tvayā caiva kevalaṃ manujeśvara 20 yāvad eva na saṃbuddhaṃ tāvad eva bhavet tava viṣahyam etad asmākam ato rājan bravīmi te 21 jahi tvaṃ sadṛśeṣv eva mānaṃ darpaṃ ca māgadha mā gamaḥ sasutāmātyaḥ sabalaś ca yamakṣayam 22 dambhodbhavaḥ kārtavīrya uttaraś ca bṛhadrathaḥ śreyaso hy avamanyeha vineśuḥ sabalā nṛpāḥ 23 mumukṣamāṇās tvattaś ca na vayaṃ brāhmaṇa bruvāḥ śaurir asmi hṛṣīkeśo nṛvīrau pāṇḍavāv imau 24 tvām āhvayāmahe rājan sthiro yudhyasva māgadha muñca vā nṛpatīn sarvān mā gamas tvaṃ yamakṣayam 25 [j] nājitān vai narapatīn aham ādadmi kāṃś cana jitaḥ kaḥ paryavasthātā ko 'tra yo na mayā jitaḥ 26 kṣatriyasyaitad evāhur dharmyaṃ kṛṣṇopajīvanam vikramya vaśam ānīya kāmato yat samācaret 27 devatārtham upākṛtya rājñaḥ kṛṣṇa kathaṃ bhayāt aham adya vimuñceyaṃ kṣātraṃ vratam anusmaran 28 sainyaṃ sainyena vyūḍhena eka ekena vā punaḥ dvābhyāṃ tribhir vā yotsye 'haṃ yugapat pṛthag eva vā 29 [v] evam uktvā jarāsaṃdhaḥ sahadevābhiṣecanam ājñāpayat tadā rājā yuyutsur bhīmakarmabhiḥ 30 sa tu senāpatī rājā sasmāra bharatarṣabha kauśikaṃ citrasenaṃ ca tasmin yuddha upasthite 31 yayos te nāmanī loke haṃseti ḍibhaketi ca pūrvaṃ saṃkathite pumbhir nṛloke lokasatkṛte 32 taṃ tu rājan vibhuḥ śaurī rājānaṃ balināṃ varam smṛtvā puruṣaśārdūla śārdūlasamavikramam 33 satyasaṃdho jarāsaṃdhaṃ bhuvi bhīmaparākramam bhāgam anyasya nirdiṣṭaṃ vadhyaṃ bhūmibhṛd acyutaḥ 34 nātmanātmavatāṃ mukhya iyeṣa madhusūdanaḥ brahmaṇa ājñāṃ puraskṛtya hantuṃ haladharānujaḥ |
The Mahabharata in Sanskrit
Book 2
Chapter 21
|
1
[व] ततस तं निश्चितात्मानं युद्धाय यदुनन्दनः उवाच वाग्मी राजानं जरासंधम अधॊक्षजः 2 तरयाणां केन ते राजन यॊद्धुं वितरते मनः अस्मद अन्यतमेनेह सज्जीभवतु कॊ युधि 3 एवम उक्तः स कृष्णेन युद्धं वव्रे महाद्युतिः जरासंधस ततॊ राजन भीमसेनेन मागधः 4 धारयन्न अगदान मुख्यान निर्वृतीर वेदनानि च उपतस्थे जरासंधं युयुत्सुं वै पुरॊहितः 5 कृतस्वस्त्ययनॊ विद्वान बराह्मणेन यशस्विना समनह्यज जरासंधः कषत्रधर्मम अनुव्रतः 6 अवमुच्य किरीटं स केशान समनुमृज्य च उदतिष्ठज जरासंधॊ वेलातिग इवार्णवः 7 उवाच मतिमान राजा भीमं भीमपराक्रमम भीम यॊत्स्ये तवया सार्धं शरेयसा निर्जितं वरम 8 एवम उक्त्वा जरासंधॊ भीमसेनम अरिंदमः परत्युद्ययौ महातेजाः शक्रं बलिर इवासुरः 9 ततः संमन्त्र्य कृष्णेन कृतस्वस्त्ययनॊ बली भीमसेनॊ जरासंधम आससाद युयुत्सया 10 ततस तौ नरशार्दूलौ बाहुशस्त्रौ समीयतुः वीरौ परमसंहृष्टाव अन्यॊन्यजय काङ्क्षिणौ 11 तयॊर अथ भुजाघातान निग्रहप्रग्रहात तथा आसीत सुभीम संह्रादॊ वज्रपर्वतयॊर इव 12 उभौ परमसंहृष्टौ बलेनातिबलाव उभौ अन्यॊन्यस्यान्तरं परेप्सू परस्परजयैषिणौ 13 तद भीमम उत्सार्य जनं युद्धम आसीद उपह्वरे बलिनॊः संयुगे राजन वृत्रवासवयॊर इव 14 परकर्षणाकर्षणाभ्याम अभ्याकर्ष विकर्षणैः आकर्षेतां तथान्यॊन्यं जानुभिश चाभिजघ्नतुः 15 ततः शब्देन महता भर्त्सयन्तौ परस्परम पाषाण संघातनिभैः परहारैर अभिजघ्नतुः 16 वयूढॊरस्कौ दीर्घभुजौ नियुद्ध कुशलाव उभौ बाहुभिः समसज्जेताम आयसैः परिघैर इव 17 कार्त्तिकस्य तु मासस्य परवृत्तं परथमे ऽहनि अनारतं दिवारात्रम अविश्रान्तम अवर्तत 18 तद्वृत्तं तु तरयॊदश्यां समवेतं महात्मनॊः चतुर्दश्यां निशायां तु निवृत्तॊ मागधः कलमात 19 तं राजानं तथा कलान्तं दृष्ट्वा राजञ जनार्दनः उवाच भीमकर्माणं भीमं संबॊधयन्न इव 20 कलान्तः शत्रुर न कौन्तेय लभ्यः पीडयितुं रणे पीड्यमानॊ हि कार्त्स्न्येन जह्याज जीवितम आत्मनः 21 तस्मात ते नैव कौन्तेय पीडनीयॊ नराधिपः समम एतेन युध्यस्व बाहुभ्यां भरतर्षभ 22 एवम उक्तः स कृष्णेन पाण्डवः परवीरहा जरासंधस्य तद रन्ध्रं जञात्वा चक्रे मतिं वधे 23 ततस तम अजितं जेतुं जरासंधं वृकॊदरः संरभ्य बलिनां मुख्यॊ जग्राह कुरुनन्दनः |
1
[v] tatas taṃ niścitātmānaṃ yuddhāya yadunandanaḥ uvāca vāgmī rājānaṃ jarāsaṃdham adhokṣajaḥ 2 trayāṇāṃ kena te rājan yoddhuṃ vitarate manaḥ asmad anyatameneha sajjībhavatu ko yudhi 3 evam uktaḥ sa kṛṣṇena yuddhaṃ vavre mahādyutiḥ jarāsaṃdhas tato rājan bhīmasenena māgadhaḥ 4 dhārayann agadān mukhyān nirvṛtīr vedanāni ca upatasthe jarāsaṃdhaṃ yuyutsuṃ vai purohitaḥ 5 kṛtasvastyayano vidvān brāhmaṇena yaśasvinā samanahyaj jarāsaṃdhaḥ kṣatradharmam anuvrataḥ 6 avamucya kirīṭaṃ sa keśān samanumṛjya ca udatiṣṭhaj jarāsaṃdho velātiga ivārṇavaḥ 7 uvāca matimān rājā bhīmaṃ bhīmaparākramam bhīma yotsye tvayā sārdhaṃ śreyasā nirjitaṃ varam 8 evam uktvā jarāsaṃdho bhīmasenam ariṃdamaḥ pratyudyayau mahātejāḥ śakraṃ balir ivāsuraḥ 9 tataḥ saṃmantrya kṛṣṇena kṛtasvastyayano balī bhīmaseno jarāsaṃdham āsasāda yuyutsayā 10 tatas tau naraśārdūlau bāhuśastrau samīyatuḥ vīrau paramasaṃhṛṣṭāv anyonyajaya kāṅkṣiṇau 11 tayor atha bhujāghātān nigrahapragrahāt tathā āsīt subhīma saṃhrādo vajraparvatayor iva 12 ubhau paramasaṃhṛṣṭau balenātibalāv ubhau anyonyasyāntaraṃ prepsū parasparajayaiṣiṇau 13 tad bhīmam utsārya janaṃ yuddham āsīd upahvare balinoḥ saṃyuge rājan vṛtravāsavayor iva 14 prakarṣaṇākarṣaṇābhyām abhyākarṣa vikarṣaṇaiḥ ākarṣetāṃ tathānyonyaṃ jānubhiś cābhijaghnatuḥ 15 tataḥ śabdena mahatā bhartsayantau parasparam pāṣāṇa saṃghātanibhaiḥ prahārair abhijaghnatuḥ 16 vyūḍhoraskau dīrghabhujau niyuddha kuśalāv ubhau bāhubhiḥ samasajjetām āyasaiḥ parighair iva 17 kārttikasya tu māsasya pravṛttaṃ prathame 'hani anārataṃ divārātram aviśrāntam avartata 18 tadvṛttaṃ tu trayodaśyāṃ samavetaṃ mahātmanoḥ caturdaśyāṃ niśāyāṃ tu nivṛtto māgadhaḥ klamāt 19 taṃ rājānaṃ tathā klāntaṃ dṛṣṭvā rājañ janārdanaḥ uvāca bhīmakarmāṇaṃ bhīmaṃ saṃbodhayann iva 20 klāntaḥ śatrur na kaunteya labhyaḥ pīḍayituṃ raṇe pīḍyamāno hi kārtsnyena jahyāj jīvitam ātmanaḥ 21 tasmāt te naiva kaunteya pīḍanīyo narādhipaḥ samam etena yudhyasva bāhubhyāṃ bharatarṣabha 22 evam uktaḥ sa kṛṣṇena pāṇḍavaḥ paravīrahā jarāsaṃdhasya tad randhraṃ jñātvā cakre matiṃ vadhe 23 tatas tam ajitaṃ jetuṃ jarāsaṃdhaṃ vṛkodaraḥ saṃrabhya balināṃ mukhyo jagrāha kurunandanaḥ |
The Mahabharata in Sanskrit
Book 2
Chapter 22
|
1
[व] भीमसेनस ततः कृष्णम उवाच यदुनन्दनम बुद्धिम आस्थाय विपुलां जरासंध जिघांसया 2 नायं पापॊ मया कृष्ण युक्तः सयाद अनुरॊधितुम पराणेन यदुशार्दूल बद्धवङ्क्षण वाससा 3 एवम उक्तस ततः कृष्णः परत्युवाच वृकॊदरम तवरयन पुरुषव्याघ्रॊ जरासंध वधेप्सया 4 यत ते दैवं परं सत्त्वं यच च ते मातरिश्वनः बलं भीम जरासंधे दर्शयाशु तद अद्य नः 5 एवम उक्तस तदा भीमॊ जरासंधम अरिंदमः उत्क्षिप्य भरामयद राजन बलवन्तं महाबलः 6 भरामयित्वा शतगुणं भुजाभ्यां भरतर्षभ बभञ्ज पृष्ठे संक्षिप्य निष्पिष्य विननाद च 7 तस्य निष्पिष्यमाणस्य पाण्डवस्य च गर्जतः अभवत तुमुलॊ नादः सर्वप्राणि भयंकरः 8 वित्रेसुर मागधाः सर्वे सत्रीणां गर्भाश च सुस्रुवुः भीमसेनस्य नादेन जरासंधस्य चैव ह 9 किं नु सविद धिमवान भिन्नः किं नु सविद दीर्यते मही इति सम मागधा जज्ञुर भीमसेनस्य निस्वनात 10 ततॊ राजकुलद्वारि परसुप्तम इव तं नृपम रात्रौ परासुम उत्सृज्य निश्चक्रमुर अरिंदमाः 11 जरासंध रथं कृष्णॊ यॊजयित्वा पताकिनम आरॊप्य भरातरौ चैव मॊक्षयाम आस बान्धवान 12 ते वै रत्नभुजं कृष्णं रत्नार्हं पृथिवीश्वराः राजानश चक्रुर आसाद्य मॊक्षिता महतॊ भयात 13 अक्षतः शस्त्रसंपन्नॊ जितारिः सह राजभिः रथम आस्थाय तं दिव्यं निर्जगाम गिरिव्रजात 14 यः ससॊदर्यवान नाम दवियॊधः कृष्णसारथिः अभ्यासघाती संदृश्यॊ दुर्जयः सर्वराजभिः 15 भीमार्जुनाभ्यां यॊधाभ्याम आस्थितः कृष्णसारथिः शुशुभे रथवर्यॊ ऽसौ दुर्जयः सर्वधन्विभिः 16 शक्र विष्णू हि संग्रामे चेरतुस तारका मये रथेन तेन तं कृष्ण उपारुह्य ययौ तदा 17 तप्तचामीकराभेण किङ्किणीजालमालिना मेघनिर्घॊषनादेन जैत्रेणामित्र घातिना 18 येन शक्रॊ दानवानां जघान नवतीर नव तं पराप्य समहृष्यन्त रथं ते पुरुषर्षभाः 19 ततः कृष्णं महाबाहुं भरातृभ्यां सहितं तदा रथस्थं मागधा दृष्ट्वा समपद्यन्त विस्मिताः 20 हयैर दिव्यैः समायुक्तॊ रथॊ वायुसमॊ जवे अधिष्ठितः स शुशुभे कृष्णेनातीव भारत 21 असङ्गी देव विहितस तस्मिन रथवरे धवजः यॊजनाद ददृशे शरीमान इन्द्रायुधसमप्रभः 22 चिन्तयाम आस कृष्णॊ ऽथ गरुत्मन्तं स चाभ्ययात कषणे तस्मिन स तेनासीच चैत्ययूप इवॊच्छ्रितः 23 वयादितास्यैर महानादैः सह भूतैर धवजालयैः तस्थौ रथवरे तस्मिन गरुत्मान पन्नगाशनः 24 दुर्निरीक्ष्यॊ हि भूतानां तेजसाभ्यधिकं बभौ आदित्य इव मध्याह्ने सहस्रकिरणावृतः 25 न स सज्जति वृक्षेषु शस्त्रैश चापि न रिष्यते दिव्यॊ धवजवरॊ राजन दृश्यते देव मानुषैः 26 तम आस्थाय रथं दिव्यं पर्जन्यसमनिस्वनम निर्ययौ पुरुषव्याघ्रः पाण्डवाभ्यां सहाच्युतः 27 यं लेभे वासवाद राजा वसुस तस्माद बृहद्रथः बृहद्रथात करमेणैव पराप्तॊ बार्हद्रथं नृपम 28 स निर्ययौ महाबाहुः पुण्डरीकेक्षणस ततः गिरिव्रजाद बहिस तस्थौ समे देशे महायशाः 29 तत्रैनं नागराः सर्वे सत्कारेणाभ्ययुस तदा बराह्मण परमुखा राजन विधिदृष्टेण कर्मणा 30 बन्धनाद विप्रमुक्ताश च राजानॊ मधुसूदनम पूजयाम आसुर ऊचुश च सान्त्वपूर्वम इदं वचः 31 नैतच चित्रं महाबाहॊ तवयि देवकिनन्दन भीमार्जुनबलॊपेते धर्मस्य परिपालनम 32 जरासंध हरदे घॊरे दुःखपङ्के निमज्जताम राज्ञां समभ्युद्धरणं यद इदं कृतम अद्य ते 33 विष्णॊ समवसन्नानां गिरिदुर्गे सुदारुणे दिष्ट्या मॊक्षाद यशॊ दीप्तम आप्तं ते पुरुषॊत्तम 34 किं कुर्मः पुरुषव्याघ्र बरवीहि पुरुषर्षभ कृतम इत्य एव तज जञेयं नृपैर यद्य अपि दुष्करम 35 तान उवाच हृषीकेशः समाश्वास्य महामनाः युधिष्ठिरॊ राजसूयं करतुम आहर्तुम इच्छति 36 तस्य धर्मप्रवृत्तस्य पार्थिव तवं चिकीर्षतः सर्वैर भवद्भिर यज्ञार्थे साहाय्यं दीयताम इति 37 ततः परतीतमनसस ते नृपा भरतर्षभ तथेत्य एवाब्रुवन सर्वे परतिजज्ञुश च तां गिरम 38 रत्नभाजं च दाशार्हं चक्रुस ते पृथिवीश्वराः कृच्छ्राज जग्राह गॊविन्दस तेषां तद अनुकम्पया 39 जरासंधात्मजश चैव सहदेवॊ महारथः निर्ययौ सजनामात्यः पुरस्कृत्य पुरॊहितम 40 स नीचैः परश्रितॊ भूत्वा बहुरत्नपुरॊगमः सहदेवॊ नृणां देवं वासुदेवम उपस्थितः 41 भयार्ताय ततस तस्मै कृष्णॊ दत्त्वाभयं तदा अभ्यषिञ्चत तत्रैव जरासंधात्मजं तदा 42 गत्वैकत्वं च कृष्णेन पार्थाभ्यां चैव सत्कृतः विवेश राजा मतिमान पुनर बार्हद्रथं पुरम 43 कृष्णस तु सह पार्थाभ्यां शरिया परमया जवलन रत्नान्य आदाय भूरीणि परययौ पुष्करेक्षणः 44 इन्द्रप्रस्थम उपागम्य पाण्डवाभ्यां सहाच्युतः समेत्य धर्मराजानं परीयमाणॊ ऽभयभाषत 45 दिष्ट्या भीमेन बलवाञ जरासंधॊ निपातितः राजानॊ मॊक्षिताश चेमे बन्धनान नृपसत्तम 46 दिष्ट्या कुशलिनौ चेमौ भीमसेनधनंजयौ पुनः सवनगरं पराप्ताव अक्षताव इति भारत 47 ततॊ युधिष्ठिरः कृष्णं पूजयित्वा यथार्हतः भीमसेनार्जुनौ चैव परहृष्टः परिषस्वजे 48 ततः कषीणे जरासंधे भरातृभ्यां विहितं जयम अजातशत्रुर आसाद्य मुमुदे भरातृभिः सह 49 यथा वयः समागम्य राजभिस तैश च पाण्डवः सत्कृत्य पूजयित्वा च विससर्ज नराधिपान 50 युधिष्ठिराभ्यनुज्ञातास ते नृपा हृष्टमानसाः जग्मुः सवदेशांस तवरिता यानैर उच्चावचैस ततः 51 एवं पुरुषशार्दूलॊ महाबुद्धिर जनार्दनः पाण्डवैर घातयाम आस जरासंधम अरिं तदा 52 घातयित्वा जरासंधं बुद्धिपूर्वम अरिंदमः धर्मराजम अनुज्ञाप्य पृथां कृष्णां च भारत 53 सुभद्रां भीमसेनं च फाल्गुणं यमजौ तथा धौम्यम आमन्त्रयित्वा च परययौ सवां पुरीं परति 54 तेनैव रथमुख्येन तरुणादित्यवर्चसा धर्मराज विसृष्टेन दिव्येनानादयन दिशः 55 ततॊ युधिष्ठिर मुखाः पाण्डवा भरतर्षभ परदक्षिणम अकुर्वन्त कृष्णम अक्लिष्टकारिणम 56 ततॊ गते भगवति कृष्णे देवकिनन्दने जयं लब्ध्वा सुविपुलं राज्ञाम अभयदास तदा 57 संवर्धितौजसॊ भूयॊ कर्मणा तेन भारत दरौपद्याः पाण्डवा राजन परां परीतिम अवर्धयन 58 तस्मिन काले तु यद युक्तं धर्मकामार्थ संहितम तद राजा धर्मतश चक्रे राज्यपालन कीर्तिमान |
1
[v] bhīmasenas tataḥ kṛṣṇam uvāca yadunandanam buddhim āsthāya vipulāṃ jarāsaṃdha jighāṃsayā 2 nāyaṃ pāpo mayā kṛṣṇa yuktaḥ syād anurodhitum prāṇena yaduśārdūla baddhavaṅkṣaṇa vāsasā 3 evam uktas tataḥ kṛṣṇaḥ pratyuvāca vṛkodaram tvarayan puruṣavyāghro jarāsaṃdha vadhepsayā 4 yat te daivaṃ paraṃ sattvaṃ yac ca te mātariśvanaḥ balaṃ bhīma jarāsaṃdhe darśayāśu tad adya naḥ 5 evam uktas tadā bhīmo jarāsaṃdham ariṃdamaḥ utkṣipya bhrāmayad rājan balavantaṃ mahābalaḥ 6 bhrāmayitvā śataguṇaṃ bhujābhyāṃ bharatarṣabha babhañja pṛṣṭhe saṃkṣipya niṣpiṣya vinanāda ca 7 tasya niṣpiṣyamāṇasya pāṇḍavasya ca garjataḥ abhavat tumulo nādaḥ sarvaprāṇi bhayaṃkaraḥ 8 vitresur māgadhāḥ sarve strīṇāṃ garbhāś ca susruvuḥ bhīmasenasya nādena jarāsaṃdhasya caiva ha 9 kiṃ nu svid dhimavān bhinnaḥ kiṃ nu svid dīryate mahī iti sma māgadhā jajñur bhīmasenasya nisvanāt 10 tato rājakuladvāri prasuptam iva taṃ nṛpam rātrau parāsum utsṛjya niścakramur ariṃdamāḥ 11 jarāsaṃdha rathaṃ kṛṣṇo yojayitvā patākinam āropya bhrātarau caiva mokṣayām āsa bāndhavān 12 te vai ratnabhujaṃ kṛṣṇaṃ ratnārhaṃ pṛthivīśvarāḥ rājānaś cakrur āsādya mokṣitā mahato bhayāt 13 akṣataḥ śastrasaṃpanno jitāriḥ saha rājabhiḥ ratham āsthāya taṃ divyaṃ nirjagāma girivrajāt 14 yaḥ sasodaryavān nāma dviyodhaḥ kṛṣṇasārathiḥ abhyāsaghātī saṃdṛśyo durjayaḥ sarvarājabhiḥ 15 bhīmārjunābhyāṃ yodhābhyām āsthitaḥ kṛṣṇasārathiḥ śuśubhe rathavaryo 'sau durjayaḥ sarvadhanvibhiḥ 16 śakra viṣṇū hi saṃgrāme ceratus tārakā maye rathena tena taṃ kṛṣṇa upāruhya yayau tadā 17 taptacāmīkarābheṇa kiṅkiṇījālamālinā meghanirghoṣanādena jaitreṇāmitra ghātinā 18 yena śakro dānavānāṃ jaghāna navatīr nava taṃ prāpya samahṛṣyanta rathaṃ te puruṣarṣabhāḥ 19 tataḥ kṛṣṇaṃ mahābāhuṃ bhrātṛbhyāṃ sahitaṃ tadā rathasthaṃ māgadhā dṛṣṭvā samapadyanta vismitāḥ 20 hayair divyaiḥ samāyukto ratho vāyusamo jave adhiṣṭhitaḥ sa śuśubhe kṛṣṇenātīva bhārata 21 asaṅgī deva vihitas tasmin rathavare dhvajaḥ yojanād dadṛśe śrīmān indrāyudhasamaprabhaḥ 22 cintayām āsa kṛṣṇo 'tha garutmantaṃ sa cābhyayāt kṣaṇe tasmin sa tenāsīc caityayūpa ivocchritaḥ 23 vyāditāsyair mahānādaiḥ saha bhūtair dhvajālayaiḥ tasthau rathavare tasmin garutmān pannagāśanaḥ 24 durnirīkṣyo hi bhūtānāṃ tejasābhyadhikaṃ babhau āditya iva madhyāhne sahasrakiraṇāvṛtaḥ 25 na sa sajjati vṛkṣeṣu śastraiś cāpi na riṣyate divyo dhvajavaro rājan dṛśyate deva mānuṣaiḥ 26 tam āsthāya rathaṃ divyaṃ parjanyasamanisvanam niryayau puruṣavyāghraḥ pāṇḍavābhyāṃ sahācyutaḥ 27 yaṃ lebhe vāsavād rājā vasus tasmād bṛhadrathaḥ bṛhadrathāt krameṇaiva prāpto bārhadrathaṃ nṛpam 28 sa niryayau mahābāhuḥ puṇḍarīkekṣaṇas tataḥ girivrajād bahis tasthau same deśe mahāyaśāḥ 29 tatrainaṃ nāgarāḥ sarve satkāreṇābhyayus tadā brāhmaṇa pramukhā rājan vidhidṛṣṭeṇa karmaṇā 30 bandhanād vipramuktāś ca rājāno madhusūdanam pūjayām āsur ūcuś ca sāntvapūrvam idaṃ vacaḥ 31 naitac citraṃ mahābāho tvayi devakinandana bhīmārjunabalopete dharmasya paripālanam 32 jarāsaṃdha hrade ghore duḥkhapaṅke nimajjatām rājñāṃ samabhyuddharaṇaṃ yad idaṃ kṛtam adya te 33 viṣṇo samavasannānāṃ giridurge sudāruṇe diṣṭyā mokṣād yaśo dīptam āptaṃ te puruṣottama 34 kiṃ kurmaḥ puruṣavyāghra bravīhi puruṣarṣabha kṛtam ity eva taj jñeyaṃ nṛpair yady api duṣkaram 35 tān uvāca hṛṣīkeśaḥ samāśvāsya mahāmanāḥ yudhiṣṭhiro rājasūyaṃ kratum āhartum icchati 36 tasya dharmapravṛttasya pārthiva tvaṃ cikīrṣataḥ sarvair bhavadbhir yajñārthe sāhāyyaṃ dīyatām iti 37 tataḥ pratītamanasas te nṛpā bharatarṣabha tathety evābruvan sarve pratijajñuś ca tāṃ giram 38 ratnabhājaṃ ca dāśārhaṃ cakrus te pṛthivīśvarāḥ kṛcchrāj jagrāha govindas teṣāṃ tad anukampayā 39 jarāsaṃdhātmajaś caiva sahadevo mahārathaḥ niryayau sajanāmātyaḥ puraskṛtya purohitam 40 sa nīcaiḥ praśrito bhūtvā bahuratnapurogamaḥ sahadevo nṛṇāṃ devaṃ vāsudevam upasthitaḥ 41 bhayārtāya tatas tasmai kṛṣṇo dattvābhayaṃ tadā abhyaṣiñcata tatraiva jarāsaṃdhātmajaṃ tadā 42 gatvaikatvaṃ ca kṛṣṇena pārthābhyāṃ caiva satkṛtaḥ viveśa rājā matimān punar bārhadrathaṃ puram 43 kṛṣṇas tu saha pārthābhyāṃ śriyā paramayā jvalan ratnāny ādāya bhūrīṇi prayayau puṣkarekṣaṇaḥ 44 indraprastham upāgamya pāṇḍavābhyāṃ sahācyutaḥ sametya dharmarājānaṃ prīyamāṇo 'bhyabhāṣata 45 diṣṭyā bhīmena balavāñ jarāsaṃdho nipātitaḥ rājāno mokṣitāś ceme bandhanān nṛpasattama 46 diṣṭyā kuśalinau cemau bhīmasenadhanaṃjayau punaḥ svanagaraṃ prāptāv akṣatāv iti bhārata 47 tato yudhiṣṭhiraḥ kṛṣṇaṃ pūjayitvā yathārhataḥ bhīmasenārjunau caiva prahṛṣṭaḥ pariṣasvaje 48 tataḥ kṣīṇe jarāsaṃdhe bhrātṛbhyāṃ vihitaṃ jayam ajātaśatrur āsādya mumude bhrātṛbhiḥ saha 49 yathā vayaḥ samāgamya rājabhis taiś ca pāṇḍavaḥ satkṛtya pūjayitvā ca visasarja narādhipān 50 yudhiṣṭhirābhyanujñātās te nṛpā hṛṣṭamānasāḥ jagmuḥ svadeśāṃs tvaritā yānair uccāvacais tataḥ 51 evaṃ puruṣaśārdūlo mahābuddhir janārdanaḥ pāṇḍavair ghātayām āsa jarāsaṃdham ariṃ tadā 52 ghātayitvā jarāsaṃdhaṃ buddhipūrvam ariṃdamaḥ dharmarājam anujñāpya pṛthāṃ kṛṣṇāṃ ca bhārata 53 subhadrāṃ bhīmasenaṃ ca phālguṇaṃ yamajau tathā dhaumyam āmantrayitvā ca prayayau svāṃ purīṃ prati 54 tenaiva rathamukhyena taruṇādityavarcasā dharmarāja visṛṣṭena divyenānādayan diśaḥ 55 tato yudhiṣṭhira mukhāḥ pāṇḍavā bharatarṣabha pradakṣiṇam akurvanta kṛṣṇam akliṣṭakāriṇam 56 tato gate bhagavati kṛṣṇe devakinandane jayaṃ labdhvā suvipulaṃ rājñām abhayadās tadā 57 saṃvardhitaujaso bhūyo karmaṇā tena bhārata draupadyāḥ pāṇḍavā rājan parāṃ prītim avardhayan 58 tasmin kāle tu yad yuktaṃ dharmakāmārtha saṃhitam tad rājā dharmataś cakre rājyapālana kīrtimān |
The Mahabharata in Sanskrit
Book 2
Chapter 23
|
1
[व] पार्थः पराप्य धनुःश्रेष्ठम अक्षय्यौ च महेषुधी रथं धवजं सभां चैव युधिष्ठिरम अभाषत 2 धनुर अस्त्रं शरा वीर्यं पक्षॊ भूमिर यशॊबलम पराप्तम एतन मया राजन दुष्प्रापं यद अभीप्सितम 3 तत्र कृत्यम अहं मन्ये कॊशस्यास्य विवर्धनम करम आहारयिष्यामि राज्ञः सर्वान नृपॊत्तम 4 विजयाय परयास्यामि दिशं धनद रक्षिताम तिथाव अथ मुहूर्ते च नक्षत्रे च तथा शिवे 5 धनंजय वचॊ शरुत्वा धर्मराजॊ युधिष्ठिरः सनिग्धगम्भीर नादिन्या तं गिरा परत्यभाषत 6 सवस्ति वाच्यार्हतॊ विप्रान परयाहि भरतर्षभ दुर्हृदाम अप्रहर्षाय सुहृदां नन्दनाय च विजयस ते धरुवं पार्थ परियं कामम अवाप्नुहि 7 इत्य उक्तः परययौ पार्थः सैन्येन महता वृतः अग्निदत्तेन दिव्येन रथेनाद्भुतकर्मणा 8 तथैव भीमसेनॊ ऽपि यमौ च पुरुषर्षभौ स सैन्याः परययुः सर्वे धर्मराजाभि पूजिताः 9 दिशं धनपतेर इष्टाम अजयत पाकशासनिः भीमसेनस तथा पराचीं सहदेवस तु दक्षिणाम 10 परतीचीं नकुलॊ राजन दिशं वयजयद अस्त्रवित खाण्डव परस्थम अध्यास्ते धर्मराजॊ युधिष्ठिरः 11 [ज] दिशाम अभिजयं बरह्मन विस्तरेणानुकीर्तय न हि तृप्यामि पूर्वेषां शृण्वानश चरितं महत 12 [वै] धनंजयस्य वक्ष्यामि विजयं पूर्वम एव ते यौगपद्येन पार्थैर हि विजितेयं वसुंधरा 13 पूर्वं कुणिन्द विषये वशे चक्रे महीपतीन धनंजयॊ महाबाहुर नातितीव्रेण कर्मणा 14 आनर्तान कालकूटांश च कुणिन्दांश च विजित्य सः सुमण्डलं पापजितं कृतवान अनु सैनिकम 15 स तेन सहितॊ राजन सव्यसाची परंतपः विजिग्ये सकलं दवीपं परतिविन्ध्यं च पार्थिवम 16 सकल दवीपवासांश च सप्त दवीपे च ये नृपाः अर्जुनस्य च सैन्यानां विग्रहस तुमुलॊ ऽभवत 17 स तान अपि महेष्वासॊ विजित्य भरतर्षभ तैर एव सहितः सर्वैः पराग्ज्यॊतिषम उपाद्रवत 18 तत्र राजा महान आसीद भगदत्तॊ विशां पते तेनासीत सुमहद युद्धं पाण्डवस्य महात्मनः 19 स किरातैश च चीनैश च वृतः पराग्ज्यॊतिषॊ ऽभवत अन्यैश च बहुभिर यॊधैः सागरानूपवासिभिः 20 ततः स दिवसान अष्टौ यॊधयित्वा धनंजयम परहसन्न अब्रवीद राजा संग्रामे विगतक्लमः 21 उपपन्नं महाबाहॊ तवयि पाण्डवनन्दन पाकशासनदायादे वीर्यम आहवशॊभिनि 22 अहं सखा सुरेन्द्रस्य शक्राद अनवमॊ रणे न च शक्नॊमि ते तात सथातुं परमुखतॊ युधि 23 किम ईप्सितं पाण्डवेय बरूहि किं करवाणि ते यद वक्ष्यसि महाबाहॊ तत करिष्यामि पुत्रक 24 [अर] कुरूणाम ऋषभॊ राजा धर्मपुत्रॊ युधिष्ठिरः तस्य पार्थिवताम ईप्से करस तस्मै परदीयताम 25 भवान पितृसखा चैव परीयमाणॊ मयापि च ततॊ नाज्ञापयामि तवां परीतिपूर्वं परदीयताम 26 [भ] कुन्ती मातर यथा मे तवं तथा राजा युधिष्ठिरः सर्वम एतत करिष्यामि किं चान्यत करवाणि ते |
1
[v] pārthaḥ prāpya dhanuḥśreṣṭham akṣayyau ca maheṣudhī rathaṃ dhvajaṃ sabhāṃ caiva yudhiṣṭhiram abhāṣata 2 dhanur astraṃ śarā vīryaṃ pakṣo bhūmir yaśobalam prāptam etan mayā rājan duṣprāpaṃ yad abhīpsitam 3 tatra kṛtyam ahaṃ manye kośasyāsya vivardhanam karam āhārayiṣyāmi rājñaḥ sarvān nṛpottama 4 vijayāya prayāsyāmi diśaṃ dhanada rakṣitām tithāv atha muhūrte ca nakṣatre ca tathā śive 5 dhanaṃjaya vaco śrutvā dharmarājo yudhiṣṭhiraḥ snigdhagambhīra nādinyā taṃ girā pratyabhāṣata 6 svasti vācyārhato viprān prayāhi bharatarṣabha durhṛdām apraharṣāya suhṛdāṃ nandanāya ca vijayas te dhruvaṃ pārtha priyaṃ kāmam avāpnuhi 7 ity uktaḥ prayayau pārthaḥ sainyena mahatā vṛtaḥ agnidattena divyena rathenādbhutakarmaṇā 8 tathaiva bhīmaseno 'pi yamau ca puruṣarṣabhau sa sainyāḥ prayayuḥ sarve dharmarājābhi pūjitāḥ 9 diśaṃ dhanapater iṣṭām ajayat pākaśāsaniḥ bhīmasenas tathā prācīṃ sahadevas tu dakṣiṇām 10 pratīcīṃ nakulo rājan diśaṃ vyajayad astravit khāṇḍava prastham adhyāste dharmarājo yudhiṣṭhiraḥ 11 [j] diśām abhijayaṃ brahman vistareṇānukīrtaya na hi tṛpyāmi pūrveṣāṃ śṛṇvānaś caritaṃ mahat 12 [vai] dhanaṃjayasya vakṣyāmi vijayaṃ pūrvam eva te yaugapadyena pārthair hi vijiteyaṃ vasuṃdharā 13 pūrvaṃ kuṇinda viṣaye vaśe cakre mahīpatīn dhanaṃjayo mahābāhur nātitīvreṇa karmaṇā 14 ānartān kālakūṭāṃś ca kuṇindāṃś ca vijitya saḥ sumaṇḍalaṃ pāpajitaṃ kṛtavān anu sainikam 15 sa tena sahito rājan savyasācī paraṃtapaḥ vijigye sakalaṃ dvīpaṃ prativindhyaṃ ca pārthivam 16 sakala dvīpavāsāṃś ca sapta dvīpe ca ye nṛpāḥ arjunasya ca sainyānāṃ vigrahas tumulo 'bhavat 17 sa tān api maheṣvāso vijitya bharatarṣabha tair eva sahitaḥ sarvaiḥ prāgjyotiṣam upādravat 18 tatra rājā mahān āsīd bhagadatto viśāṃ pate tenāsīt sumahad yuddhaṃ pāṇḍavasya mahātmanaḥ 19 sa kirātaiś ca cīnaiś ca vṛtaḥ prāgjyotiṣo 'bhavat anyaiś ca bahubhir yodhaiḥ sāgarānūpavāsibhiḥ 20 tataḥ sa divasān aṣṭau yodhayitvā dhanaṃjayam prahasann abravīd rājā saṃgrāme vigataklamaḥ 21 upapannaṃ mahābāho tvayi pāṇḍavanandana pākaśāsanadāyāde vīryam āhavaśobhini 22 ahaṃ sakhā surendrasya śakrād anavamo raṇe na ca śaknomi te tāta sthātuṃ pramukhato yudhi 23 kim īpsitaṃ pāṇḍaveya brūhi kiṃ karavāṇi te yad vakṣyasi mahābāho tat kariṣyāmi putraka 24 [ar] kurūṇām ṛṣabho rājā dharmaputro yudhiṣṭhiraḥ tasya pārthivatām īpse karas tasmai pradīyatām 25 bhavān pitṛsakhā caiva prīyamāṇo mayāpi ca tato nājñāpayāmi tvāṃ prītipūrvaṃ pradīyatām 26 [bha] kuntī mātar yathā me tvaṃ tathā rājā yudhiṣṭhiraḥ sarvam etat kariṣyāmi kiṃ cānyat karavāṇi te |
The Mahabharata in Sanskrit
Book 2
Chapter 24
|
1
[वै] तं विजित्य महाबाहुः कुन्तीपुत्रॊ धनंजयः परययाव उत्तरां तस्माद दिशं धनद पालितम 2 अन्तर गिरिं च कौन्तेयस तथैव च बहिर गिरिम तथॊपरि गिरिं चैव विजिग्ये पुरुषर्षभः 3 विजित्य पर्वतान सर्वान ये च तत्र नराधिपाः तान वशे सथापयित्वा स रत्नान्य आदाय सर्वशः 4 तैर एव सहितः सर्वैर अनुरज्य च तान नृपान कुलूतवासिनं राजन बृहन्तम उपजग्मिवान 5 मृदङ्गवरनादेन रथनेमि सवनेन च हस्तिनां च निनादेन कम्पयन वसुधाम इमाम 6 ततॊ बृहन्तस तरुणॊ बलेन चतुरङ्गिना निष्क्रम्य नगरात तस्माद यॊधयाम आस पाण्डवम 7 सुमहान संनिपातॊ ऽभूद धनंजय बृहन्तयॊः न शशाक बृहन्तस तु सॊढुं पाण्डव विक्रमम 8 सॊ ऽविषह्यतमं जञात्वा कौन्तेयं पर्वतेश्वरः उपावर्तत दुर्मेधा रत्नान्य आदाय सर्वशः 9 स तद राज्यम अवस्थाप्य कुलूत सहितॊ ययौ सेना बिन्दुम अथॊ राजन राज्याद आशु समाक्षिपत 10 मॊदा पुरं वामदेवं सुदामानं सुसंकुलम कुलूतान उत्तरांश चैव तांश च राज्ञः समानयत 11 तत्रस्थः पुरुषैर एव धर्मराजस्य शासनात वयजयद धनंजयॊ राजन देशान पञ्च परमाणतः 12 स दिवः परस्थम आसाद्य सेना बिन्दॊः पुरं महत बलेन चतुरङ्गेण निवेशम अकरॊत परभुः 13 स तैः परिवृतः सर्वैर विष्वग अश्वं नराधिपम अभ्यगच्छन महातेजाः पौरवं पुरुषर्षभः 14 विजित्य चाहवे शूरान पार्वतीयान महारथान धवजिन्या वयजयद राजन पुरं पौरवरक्षितम 15 पौरवं तु विनिर्जित्य दस्यून पर्वतवासिनः गणान उत्सव संकेतान अजयत सप्त पाण्डवः 16 ततः काश्मीरकान वीरान कषत्रियान कषत्रियर्षभः वयजयल लॊहितं चैव मण्डलैर दशभिः सह 17 ततस तरिगर्तान कौन्तेयॊ दार्वान कॊक नदाश च ये कषत्रिया बहवॊ राजन्न उपावर्तन्त सर्वशः 18 अभिसारीं ततॊ रम्यां विजिग्ये कुरुनन्दनः उरगावासिनं चैव रॊचमानं रणे ऽजयत 19 ततः सिंहपुरं रम्यं चित्रायुधसुरक्षितम परामथद बलम आस्थाय पाकशासनिर आहवे 20 ततः सुह्मांश च चॊलांश च किरीटी पाण्डवर्षभः सहितः सर्वसैन्येन परामथत कुरुनन्दनः 21 ततः परमविक्रान्तॊ बाह्लीकान कुरुनन्दनः महता परिमर्देन वशे चक्रे दुरासदान 22 गृहीत्वा तु बलं सारं फल्गु चॊत्सृज्य पाण्डवः दरदान सह काम्बॊजैर अजयत पाकशासनिः 23 परागुत्तरां दिशं ये च वसन्त्य आश्रित्य दस्यवः निवसन्ति वने ये च तान सर्वान अजयत परभुः 24 लॊहान परमकाम्बॊजान ऋषिकान उत्तरान अपि सहितांस तान महाराज वयजयत पाकशासनिः 25 ऋषिकेषु तु संग्रामॊ बभूवातिभयं करः तारका मय संकाशः परमर्षिक पार्थयॊः 26 स विजित्य ततॊ राजन्न ऋषिकान रणमूर्धनि शुकॊदर समप्रख्यान हयान अष्टौ समानयत मयूरसदृशान अन्यान उभयान एव चापरान 27 स विनिर्जित्य संग्रामे हिमवन्तं स निष्कुटम शवेतपर्वतम आसाद्य नयवसत पुरुषर्षभः |
1
[vai] taṃ vijitya mahābāhuḥ kuntīputro dhanaṃjayaḥ prayayāv uttarāṃ tasmād diśaṃ dhanada pālitam 2 antar giriṃ ca kaunteyas tathaiva ca bahir girim tathopari giriṃ caiva vijigye puruṣarṣabhaḥ 3 vijitya parvatān sarvān ye ca tatra narādhipāḥ tān vaśe sthāpayitvā sa ratnāny ādāya sarvaśaḥ 4 tair eva sahitaḥ sarvair anurajya ca tān nṛpān kulūtavāsinaṃ rājan bṛhantam upajagmivān 5 mṛdaṅgavaranādena rathanemi svanena ca hastināṃ ca ninādena kampayan vasudhām imām 6 tato bṛhantas taruṇo balena caturaṅginā niṣkramya nagarāt tasmād yodhayām āsa pāṇḍavam 7 sumahān saṃnipāto 'bhūd dhanaṃjaya bṛhantayoḥ na śaśāka bṛhantas tu soḍhuṃ pāṇḍava vikramam 8 so 'viṣahyatamaṃ jñātvā kaunteyaṃ parvateśvaraḥ upāvartata durmedhā ratnāny ādāya sarvaśaḥ 9 sa tad rājyam avasthāpya kulūta sahito yayau senā bindum atho rājan rājyād āśu samākṣipat 10 modā puraṃ vāmadevaṃ sudāmānaṃ susaṃkulam kulūtān uttarāṃś caiva tāṃś ca rājñaḥ samānayat 11 tatrasthaḥ puruṣair eva dharmarājasya śāsanāt vyajayad dhanaṃjayo rājan deśān pañca pramāṇataḥ 12 sa divaḥ prastham āsādya senā bindoḥ puraṃ mahat balena caturaṅgeṇa niveśam akarot prabhuḥ 13 sa taiḥ parivṛtaḥ sarvair viṣvag aśvaṃ narādhipam abhyagacchan mahātejāḥ pauravaṃ puruṣarṣabhaḥ 14 vijitya cāhave śūrān pārvatīyān mahārathān dhvajinyā vyajayad rājan puraṃ pauravarakṣitam 15 pauravaṃ tu vinirjitya dasyūn parvatavāsinaḥ gaṇān utsava saṃketān ajayat sapta pāṇḍavaḥ 16 tataḥ kāśmīrakān vīrān kṣatriyān kṣatriyarṣabhaḥ vyajayal lohitaṃ caiva maṇḍalair daśabhiḥ saha 17 tatas trigartān kaunteyo dārvān koka nadāś ca ye kṣatriyā bahavo rājann upāvartanta sarvaśaḥ 18 abhisārīṃ tato ramyāṃ vijigye kurunandanaḥ uragāvāsinaṃ caiva rocamānaṃ raṇe 'jayat 19 tataḥ siṃhapuraṃ ramyaṃ citrāyudhasurakṣitam prāmathad balam āsthāya pākaśāsanir āhave 20 tataḥ suhmāṃś ca colāṃś ca kirīṭī pāṇḍavarṣabhaḥ sahitaḥ sarvasainyena prāmathat kurunandanaḥ 21 tataḥ paramavikrānto bāhlīkān kurunandanaḥ mahatā parimardena vaśe cakre durāsadān 22 gṛhītvā tu balaṃ sāraṃ phalgu cotsṛjya pāṇḍavaḥ daradān saha kāmbojair ajayat pākaśāsaniḥ 23 prāguttarāṃ diśaṃ ye ca vasanty āśritya dasyavaḥ nivasanti vane ye ca tān sarvān ajayat prabhuḥ 24 lohān paramakāmbojān ṛṣikān uttarān api sahitāṃs tān mahārāja vyajayat pākaśāsaniḥ 25 ṛṣikeṣu tu saṃgrāmo babhūvātibhayaṃ karaḥ tārakā maya saṃkāśaḥ paramarṣika pārthayoḥ 26 sa vijitya tato rājann ṛṣikān raṇamūrdhani śukodara samaprakhyān hayān aṣṭau samānayat mayūrasadṛśān anyān ubhayān eva cāparān 27 sa vinirjitya saṃgrāme himavantaṃ sa niṣkuṭam śvetaparvatam āsādya nyavasat puruṣarṣabhaḥ |
The Mahabharata in Sanskrit
Book 2
Chapter 25
|
1
[व] स शवेतपर्वतं वीरः समतिक्रम्य भारत देशं किं पुरुषावासं दरुमपुत्रेण रक्षितम 2 महता संनिपातेन कषत्रियान्तकरेण ह वयजयत पाण्डवश्रेष्ठः करे चैव नयवेशयत 3 तं जित्वा हाटकं नाम देशं गुह्यक रक्षितम पाकशासनिर अव्यग्रः सह सैन्यः समासदत 4 तांस तु सान्त्वेन निर्जित्य मानसं सर उत्तमम ऋषिकुल्याश च ताः सर्वा ददर्श कुरुनन्दनः 5 सरॊ मानसम आसाद्य हाटकान अभितः परभुः गन्धर्वरक्षितं देशं वयजयत पाण्डवस ततः 6 तत्र तित्तिरि कल्माषान मण्डूकाक्षान हयॊत्तमान लेभे स करम अत्यन्तं गन्धर्वनगरात तदा 7 उत्तरं हरिवर्षं तु समासाद्य स पाण्डवः इयेष जेतुं तं देशं पाकशासननन्दनः 8 तत एनं महाकाया महावीर्या महाबलाः दवारपालाः समासाद्य हृष्टा वचनम अब्रुवन 9 पार्थ नेदं तवया शक्यं पुरं जेतुं कथं चन उपावर्तस्व कल्याण पर्याप्तम इदम अच्युत 10 इदं पुरं यः परविशेद धरुवं स न भवेन नरः परीयामहे तवया वीर पर्याप्तॊ विजयस तव 11 न चापि किं चिज जेतव्यम अर्जुनात्र परदृश्यते उत्तराः कुरवॊ हय एते नात्र युद्धं परवर्तते 12 परविष्टश चापि कौन्तेय नेह दरक्ष्यसि किं चन न हि मानुषदेहेन शक्यम अत्राभिवीक्षितुम 13 अथेह पुरुषव्याघ्र किं चिद अन्यच चिकीर्षसि तद बरवीहि करिष्यामॊ वचनात तव भारत 14 ततस तान अब्रवीद राजन्न अर्जुनः पाकशासनिः पार्थिवत्वं चिकीर्षामि धर्मराजस्य धीमतः 15 न परवेक्ष्यामि वॊ देशं बाध्यत्वं यदि मानुषैः युधिष्ठिराय तत किं चित करवन नः परदीयताम 16 ततॊ दिव्यानि वस्त्राणि दिव्यान्य आभरणानि च मॊकाजिनानि दिव्यानि तस्मै ते परददुः करम 17 एवं स पुरुषव्याघ्रॊ विजिग्ये दिशम उत्तराम संग्रामान सुबहून कृत्वा कषत्रियैर दस्युभिस तथा 18 स विनिर्जित्य राज्ञस तान करे च विनिवेश्य ह धनान्य आधाय सर्वेभ्यॊ रत्नानि विविधानि च 19 हयांस तित्तिरि कल्माषाञ शुकपत्रनिभान अपि मयूरसदृशांश चान्यान सर्वान अनिलरंहसः 20 वृतः सुमहता राजन बलेन चतुरङ्गिणा आजगाम पुनर वीरः शक्र परस्थं पुरॊत्तमम |
1
[v] sa śvetaparvataṃ vīraḥ samatikramya bhārata deśaṃ kiṃ puruṣāvāsaṃ drumaputreṇa rakṣitam 2 mahatā saṃnipātena kṣatriyāntakareṇa ha vyajayat pāṇḍavaśreṣṭhaḥ kare caiva nyaveśayat 3 taṃ jitvā hāṭakaṃ nāma deśaṃ guhyaka rakṣitam pākaśāsanir avyagraḥ saha sainyaḥ samāsadat 4 tāṃs tu sāntvena nirjitya mānasaṃ sara uttamam ṛṣikulyāś ca tāḥ sarvā dadarśa kurunandanaḥ 5 saro mānasam āsādya hāṭakān abhitaḥ prabhuḥ gandharvarakṣitaṃ deśaṃ vyajayat pāṇḍavas tataḥ 6 tatra tittiri kalmāṣān maṇḍūkākṣān hayottamān lebhe sa karam atyantaṃ gandharvanagarāt tadā 7 uttaraṃ harivarṣaṃ tu samāsādya sa pāṇḍavaḥ iyeṣa jetuṃ taṃ deśaṃ pākaśāsananandanaḥ 8 tata enaṃ mahākāyā mahāvīryā mahābalāḥ dvārapālāḥ samāsādya hṛṣṭā vacanam abruvan 9 pārtha nedaṃ tvayā śakyaṃ puraṃ jetuṃ kathaṃ cana upāvartasva kalyāṇa paryāptam idam acyuta 10 idaṃ puraṃ yaḥ praviśed dhruvaṃ sa na bhaven naraḥ prīyāmahe tvayā vīra paryāpto vijayas tava 11 na cāpi kiṃ cij jetavyam arjunātra pradṛśyate uttarāḥ kuravo hy ete nātra yuddhaṃ pravartate 12 praviṣṭaś cāpi kaunteya neha drakṣyasi kiṃ cana na hi mānuṣadehena śakyam atrābhivīkṣitum 13 atheha puruṣavyāghra kiṃ cid anyac cikīrṣasi tad bravīhi kariṣyāmo vacanāt tava bhārata 14 tatas tān abravīd rājann arjunaḥ pākaśāsaniḥ pārthivatvaṃ cikīrṣāmi dharmarājasya dhīmataḥ 15 na pravekṣyāmi vo deśaṃ bādhyatvaṃ yadi mānuṣaiḥ yudhiṣṭhirāya tat kiṃ cit karavan naḥ pradīyatām 16 tato divyāni vastrāṇi divyāny ābharaṇāni ca mokājināni divyāni tasmai te pradaduḥ karam 17 evaṃ sa puruṣavyāghro vijigye diśam uttarām saṃgrāmān subahūn kṛtvā kṣatriyair dasyubhis tathā 18 sa vinirjitya rājñas tān kare ca viniveśya ha dhanāny ādhāya sarvebhyo ratnāni vividhāni ca 19 hayāṃs tittiri kalmāṣāñ śukapatranibhān api mayūrasadṛśāṃś cānyān sarvān anilaraṃhasaḥ 20 vṛtaḥ sumahatā rājan balena caturaṅgiṇā ājagāma punar vīraḥ śakra prasthaṃ purottamam |
The Mahabharata in Sanskrit
Book 2
Chapter 26
|
1
[व] एतस्मिन्न एव काले तु भीमसेनॊ ऽपि वीर्यवान धर्मराजम अनुज्ञाप्य ययौ पराचीं दिशं परति 2 महता बलचक्रेण परराष्ट्रावमर्दिना वृतॊ भरतशार्दूलॊ दविषच छॊकविवर्धनः 3 स गत्वा राजशार्दूलः पाञ्चालानां पुरं महत पाञ्चालान विविधॊपायैः सान्त्वयाम आस पाण्डवः 4 ततः सगण्डकीं शूरॊ विदेहांश च नरर्षभः विजित्याल्पेन कालेन दशार्णान अगमत परभुः 5 तत्र दाशार्हकॊ राजा सुधर्मा लॊमहर्षणम कृतवान कर्म भीमेन महद युद्धं निरायुधम 6 भीमसेनस तु तद दृष्ट्वा तस्य कर्म परंतपः अधिसेना पतिं चक्रे सुधर्माणं महाबलम 7 ततः पराचीं दिशं भीमॊ ययौ भीमपराक्रमः सैन्येन महता राजन कम्पयन्न इव मेदिनीम 8 सॊ ऽशवमेधेश्वरं राजन रॊचमानं सहानुजम जिगाय समरे वीरॊ बलेन बलिनां वरः 9 स तं निर्जित्य कौन्तेयॊ नातितीव्रेण कर्मणा पूर्वदेशं महावीर्यॊ विजिग्ये कुरुनन्दनः 10 ततॊ दक्षिणम आगम्य पुलिन्द नगरं महत सुकुमारं वशे चक्रे सुमित्रं च नराधिपम 11 ततस तु धर्मराजस्य शासनाद भरतर्षभः शिशुपालं महावीर्यम अभ्ययाज जनमेजय 12 चेदिराजॊ ऽपि तच छरुत्वा पाण्डवस्य चिकीर्षितम उपनिष्क्रम्य नगरात परत्यगृह्णात परंतपः 13 तौ समेत्य महाराज कुरु चेदिवृषौ तदा उभयॊर आत्मकुलयॊः कौशल्यं पर्यपृच्छताम 14 ततॊ निवेद्य तद राष्ट्रं चेदिराजॊ विशां पते उवाच भीमं परहसन किम इदं कुरुषे ऽनघ 15 तस्य भीमस तदाचख्यौ धर्मराज चिकीर्षितम स च तत परतिगृह्यैव तथा चक्रे नराधिपः 16 ततॊ भीमस तत्र राजन्न उषित्वा तरिदशाः कषपाः सत्कृतः शिशुपालेन ययौ सबलवाहनः |
1
[v] etasminn eva kāle tu bhīmaseno 'pi vīryavān dharmarājam anujñāpya yayau prācīṃ diśaṃ prati 2 mahatā balacakreṇa pararāṣṭrāvamardinā vṛto bharataśārdūlo dviṣac chokavivardhanaḥ 3 sa gatvā rājaśārdūlaḥ pāñcālānāṃ puraṃ mahat pāñcālān vividhopāyaiḥ sāntvayām āsa pāṇḍavaḥ 4 tataḥ sagaṇḍakīṃ śūro videhāṃś ca nararṣabhaḥ vijityālpena kālena daśārṇān agamat prabhuḥ 5 tatra dāśārhako rājā sudharmā lomaharṣaṇam kṛtavān karma bhīmena mahad yuddhaṃ nirāyudham 6 bhīmasenas tu tad dṛṣṭvā tasya karma paraṃtapaḥ adhisenā patiṃ cakre sudharmāṇaṃ mahābalam 7 tataḥ prācīṃ diśaṃ bhīmo yayau bhīmaparākramaḥ sainyena mahatā rājan kampayann iva medinīm 8 so 'śvamedheśvaraṃ rājan rocamānaṃ sahānujam jigāya samare vīro balena balināṃ varaḥ 9 sa taṃ nirjitya kaunteyo nātitīvreṇa karmaṇā pūrvadeśaṃ mahāvīryo vijigye kurunandanaḥ 10 tato dakṣiṇam āgamya pulinda nagaraṃ mahat sukumāraṃ vaśe cakre sumitraṃ ca narādhipam 11 tatas tu dharmarājasya śāsanād bharatarṣabhaḥ śiśupālaṃ mahāvīryam abhyayāj janamejaya 12 cedirājo 'pi tac chrutvā pāṇḍavasya cikīrṣitam upaniṣkramya nagarāt pratyagṛhṇāt paraṃtapaḥ 13 tau sametya mahārāja kuru cedivṛṣau tadā ubhayor ātmakulayoḥ kauśalyaṃ paryapṛcchatām 14 tato nivedya tad rāṣṭraṃ cedirājo viśāṃ pate uvāca bhīmaṃ prahasan kim idaṃ kuruṣe 'nagha 15 tasya bhīmas tadācakhyau dharmarāja cikīrṣitam sa ca tat pratigṛhyaiva tathā cakre narādhipaḥ 16 tato bhīmas tatra rājann uṣitvā tridaśāḥ kṣapāḥ satkṛtaḥ śiśupālena yayau sabalavāhanaḥ |
The Mahabharata in Sanskrit
Book 2
Chapter 27
|
1
[व] ततः कुमार विषये शरेणिमन्तम अथाजयत कॊसलाधिपतिं चैव बृहद्बलम अरिंदमः 2 अयॊध्यायां तु धर्मज्ञं दीर्घप्रज्ञं महाबलम अजयत पाण्डवश्रेष्ठॊ नातितीव्रेण कर्मणा 3 ततॊ गॊपाल कच्छं च सॊत्तमान अपि चॊत्तरान मल्लानाम अधिपं चैव पार्थिवं वयजयत परभुः 4 ततॊ हिमवतः पार्श्वे समभ्येत्य जरद गवम सर्वम अल्पेन कालेन देशं चक्रे वशे बली 5 एवं बहुविधान देशान विजित्य पुरुषर्षभः उन्नाटम अभितॊ जिग्ये कुक्षिमन्तं च पर्वतम पाण्डवः सुमहावीर्यॊ बलेन बलिनां वरः 6 स काशिराजं समरे सुबन्धम अनिवर्तिनम वशे चक्रे महाबाहुर भीमॊ भीमपराक्रमः 7 ततः सुपार्श्वम अभितस तथा राजपतिं करथम युध्यमानं बलात संख्ये विजिग्ये पाण्डवर्षभः 8 ततॊ मत्स्यान महातेजा मलयांश च महाबलान अनवद्यान गयांश चैव पशुभूमिं च सर्वशः 9 निवृत्य च महाबाहुर मदर्वीकं महीधरम सॊपदेशं विनिर्जित्य परययाव उत्तरा मुखः वत्सभूमिं च कौन्तेयॊ विजिग्ये बलवान बलात 10 भर्गाणाम अधिपं चैव निषादाधिपतिं तथा विजिग्ये भूमिपालांश च मणिमत परमुखान बहून 11 ततॊ दक्षिणमल्लांश च भॊगवन्तं च पाण्डवः तरसैवाजयद भीमॊ नातितीव्रेण कर्मणा 12 शर्मकान वर्मकांश चैव सान्त्वेनैवाजयत परभुः वैदेहकं च राजानं जनकं जगतीपतिम विजिग्ये पुरुषव्याघ्रॊ नातितीव्रेण कर्मणा 13 वैदेहस्थस तु कौन्तेय इन्द्र पर्वतम अन्तिकात किरातानाम अधिपतीन वयजयत सप्त पाण्डवः 14 ततः सुह्मान पराच्य सुह्मान समक्षांश चैव वीर्यवान विजित्य युधि कौन्तेयॊ मागधान उपयाद बली 15 दण्डं च दण्डधारं च विजित्य पृथिवीपतीन तैर एव सहितः सर्वैर गिरिव्रजम उपाद्रवत 16 जारा संधिं सान्त्वयित्वा करे च विनिवेश्य ह तैर एव सहितॊ राजन कर्णम अभ्यद्रवद बली 17 स कम्पयन्न इव महीं बलेन चतुरङ्गिणा युयुधे पाण्डवश्रेष्ठः कर्णेनामित्र घातिना 18 स कर्णं युधि निर्जित्य वशे कृत्वा च भारत ततॊ विजिग्ये बलवान राज्ञः पर्वतवासिनः 19 अथ मॊदा गिरिं चैव राजानं बलवत्तरम पाण्डवॊ बाहुवीर्येण निजघान महाबलम 20 ततः पौण्ड्राधिपं वीरं वासुदेवं महाबलम कौशिकी कच्छ निलयं राजानं च महौजसम 21 उभौ बलवृतौ वीराव उभौ तीव्रपराक्रमौ निर्जित्याजौ महाराज वङ्ग राजम उपाद्रवत 22 समुद्रसेनं निर्जित्य चन्द्र सेनं च पार्थिवम ताम्रलिप्तं च राजानं काचं वङ्गाधिपं तथा 23 सुह्मानाम अधिपं चैव ये च सागरवासिनः सर्वान मलेच्छ गणांश चैव विजिग्ये भरतर्षभः 24 एवं बहुविधान देशान विजित्य पवनात्मजः वसु तेभ्य उपादाय लौहित्यम अगमद बली 25 स सर्वान मलेच्छ नृपतिन सागरद्वीपवासिनः करम आहारयाम आस रत्नानि विविधानि च 26 चन्दनागुरुवस्त्राणि मणिमुक्तम अनुत्तमम काञ्चनं रजतं वज्रं विद्रुमं च महाधनम 27 स कॊटिशतसंख्येन धनेन महता तदा अभ्यवर्षद अमेयात्मा धनवर्षेण पाण्डवम 28 इन्द्रप्रस्थम अथागम्य भीमॊ भीमपराक्रमः निवेदयाम आस तदा धर्मराजाय तद धनम |
1
[v] tataḥ kumāra viṣaye śreṇimantam athājayat kosalādhipatiṃ caiva bṛhadbalam ariṃdamaḥ 2 ayodhyāyāṃ tu dharmajñaṃ dīrghaprajñaṃ mahābalam ajayat pāṇḍavaśreṣṭho nātitīvreṇa karmaṇā 3 tato gopāla kacchaṃ ca sottamān api cottarān mallānām adhipaṃ caiva pārthivaṃ vyajayat prabhuḥ 4 tato himavataḥ pārśve samabhyetya jarad gavam sarvam alpena kālena deśaṃ cakre vaśe balī 5 evaṃ bahuvidhān deśān vijitya puruṣarṣabhaḥ unnāṭam abhito jigye kukṣimantaṃ ca parvatam pāṇḍavaḥ sumahāvīryo balena balināṃ varaḥ 6 sa kāśirājaṃ samare subandham anivartinam vaśe cakre mahābāhur bhīmo bhīmaparākramaḥ 7 tataḥ supārśvam abhitas tathā rājapatiṃ kratham yudhyamānaṃ balāt saṃkhye vijigye pāṇḍavarṣabhaḥ 8 tato matsyān mahātejā malayāṃś ca mahābalān anavadyān gayāṃś caiva paśubhūmiṃ ca sarvaśaḥ 9 nivṛtya ca mahābāhur madarvīkaṃ mahīdharam sopadeśaṃ vinirjitya prayayāv uttarā mukhaḥ vatsabhūmiṃ ca kaunteyo vijigye balavān balāt 10 bhargāṇām adhipaṃ caiva niṣādādhipatiṃ tathā vijigye bhūmipālāṃś ca maṇimat pramukhān bahūn 11 tato dakṣiṇamallāṃś ca bhogavantaṃ ca pāṇḍavaḥ tarasaivājayad bhīmo nātitīvreṇa karmaṇā 12 śarmakān varmakāṃś caiva sāntvenaivājayat prabhuḥ vaidehakaṃ ca rājānaṃ janakaṃ jagatīpatim vijigye puruṣavyāghro nātitīvreṇa karmaṇā 13 vaidehasthas tu kaunteya indra parvatam antikāt kirātānām adhipatīn vyajayat sapta pāṇḍavaḥ 14 tataḥ suhmān prācya suhmān samakṣāṃś caiva vīryavān vijitya yudhi kaunteyo māgadhān upayād balī 15 daṇḍaṃ ca daṇḍadhāraṃ ca vijitya pṛthivīpatīn tair eva sahitaḥ sarvair girivrajam upādravat 16 jārā saṃdhiṃ sāntvayitvā kare ca viniveśya ha tair eva sahito rājan karṇam abhyadravad balī 17 sa kampayann iva mahīṃ balena caturaṅgiṇā yuyudhe pāṇḍavaśreṣṭhaḥ karṇenāmitra ghātinā 18 sa karṇaṃ yudhi nirjitya vaśe kṛtvā ca bhārata tato vijigye balavān rājñaḥ parvatavāsinaḥ 19 atha modā giriṃ caiva rājānaṃ balavattaram pāṇḍavo bāhuvīryeṇa nijaghāna mahābalam 20 tataḥ pauṇḍrādhipaṃ vīraṃ vāsudevaṃ mahābalam kauśikī kaccha nilayaṃ rājānaṃ ca mahaujasam 21 ubhau balavṛtau vīrāv ubhau tīvraparākramau nirjityājau mahārāja vaṅga rājam upādravat 22 samudrasenaṃ nirjitya candra senaṃ ca pārthivam tāmraliptaṃ ca rājānaṃ kācaṃ vaṅgādhipaṃ tathā 23 suhmānām adhipaṃ caiva ye ca sāgaravāsinaḥ sarvān mleccha gaṇāṃś caiva vijigye bharatarṣabhaḥ 24 evaṃ bahuvidhān deśān vijitya pavanātmajaḥ vasu tebhya upādāya lauhityam agamad balī 25 sa sarvān mleccha nṛpatin sāgaradvīpavāsinaḥ karam āhārayām āsa ratnāni vividhāni ca 26 candanāguruvastrāṇi maṇimuktam anuttamam kāñcanaṃ rajataṃ vajraṃ vidrumaṃ ca mahādhanam 27 sa koṭiśatasaṃkhyena dhanena mahatā tadā abhyavarṣad ameyātmā dhanavarṣeṇa pāṇḍavam 28 indraprastham athāgamya bhīmo bhīmaparākramaḥ nivedayām āsa tadā dharmarājāya tad dhanam |
The Mahabharata in Sanskrit
Book 2
Chapter 28
|
1
[व] तथैव सहदेवॊ ऽपि धर्मराजेन पूजितः महत्या सेनया सार्धं परययौ दक्षिणां दिशम 2 स शूरसेनान कार्त्स्न्येन पूर्वम एवाजयत परभुः मत्स्यराजं च कौरव्यॊ वशे चक्रे बलाद बली 3 अधिराजाधिपं चैव दन्तवक्रं महाहवे जिगाय करदं चैव सवराज्ये संन्यवेशयत 4 सुकुमारं वशे चक्रे सुमित्रं च नराधिपम तथैवापरमत्स्यांश च वयजयत स पटच चरान 5 निषादभूमिं गॊशृङ्गं पर्वत परवरं तथा तरसा वयजयद धीमाञ शरेणिमन्तं च पार्थिवम 6 नव राष्ट्रं विनिर्जित्य कुन्तिभॊजम उपाद्रवत परीतिपूर्वं च तस्यासौ परतिजग्राह शासनम 7 ततश चर्मण्वती कूले जम्भकस्यात्मजं नृपम ददर्श वासुदेवेन शेषितं पूर्ववैरिणा 8 चक्रे तत्र स संग्रामं सह भॊजेन भारत स तम आजौ विनिर्जित्य दक्षिणाभिमुखॊ ययौ 9 करांस तेभ्य उपादाय रत्नानि विविधानि च ततस तैर एव सहितॊ नर्मदाम अभितॊ ययौ 10 विन्दानुविन्दाव आवन्त्यौ सैन्येन महता वृतौ जिगाय समरे वीराव आश्विनेयः परतापवान 11 ततॊ रत्नान्य उपादाय पुरीं माहिष्मतीं ययौ तत्र नीलेन राज्ञा सचक्रे युद्धं नरर्षभः 12 पाण्डवः परवीरघ्नः सहदेवः परतापवान ततॊ ऽसय सुमहद युद्धम आसीद भीरु भयंकरम 13 सैन्यक्षयकरं चैव पराणानां संशयाय च चक्रे तस्य हि साहाय्यं भगवान हव्यवाहनः 14 ततॊ हया रथा नागाः पुरुषाः कवचानि च परदीप्तानि वयदृश्यन्त सहदेव बले तदा 15 ततः सुसंभ्रान्त मना बभूव कुरुनन्दनः नॊत्तरं परतिवक्तुं च शक्तॊ ऽभूज जनमेजय 16 [ज] किमर्थं भगवान अग्निः परत्यमित्रॊ ऽभवद युधि सहदेवस्य यज्ञार्थं घटमानस्य वै दविज 17 [व] तत्र माहिष्मती वासी भगवान हव्यवाहनः शरूयते निगृहीतॊ वै पुरस्तत पारदारिकः 18 नीलस्य राज्ञः पूर्वेषाम उपनीतश च सॊ ऽभवत तदा बराह्मणरूपेण चरमाणॊ यदृच्छया 19 तं तु राजा यथाशास्त्रम अन्वशाद धार्मिकस तदा परजज्वाल ततः कॊपाद भगवान हव्यवाहनः 20 तं दृष्ट्वा विस्मितॊ राजा जगाम शिरसा कविम चक्रे परसादं च तदा तस्य राज्ञॊ विभावसुः 21 वरेण छन्दयाम आस तं नृपं सविष्टकृत्तमः अभयं च स जग्राह सवसैन्ये वै महीपतिः 22 ततः परभृति ये के चिद अज्ञानात तां पुरीं नृपाः जिगीषन्ति बलाद राजंस ते दह्यन्तीह वह्निना 23 तस्यां पुर्यां तदा चैव माहिष्मत्यां कुरूद्वह बभूवुर अनभिग्राह्या यॊषितश छन्दतः किल 24 एवम अग्निर वरं परादात सत्रीणाम अप्रतिवारणे सवैरिण्यस तत्र नार्यॊ हि यथेष्टं परचरन्त्य उत 25 वर्जयन्ति च राजानस तद राष्ट्रं पुरुषॊत्तम भयाद अग्नेर महाराज तदा परभृति सर्वदा 26 सहदेवस तु धर्मात्मा सैन्यं दृष्ट्वा भयार्दितम परीतम अग्निना राजन नाकम्पत यथा गिरिः 27 उपस्पृश्य शुचिर भूत्वा सॊ ऽबरवीत पावकं ततः तवदर्थॊ ऽयं समारम्भः कृष्णवर्त्मन नमॊ ऽसतु ते 28 मुखं तवम असि देवानां यज्ञस तवम असि पावक पावनात पावकश चासि वहनाद धव्यवाहनः 29 वेदास तवदर्थं जाताश च जातवेदास ततॊ हय असि यज्ञविघ्नम इमं कर्तुं नार्हस तवं हव्यवाहन 30 एवम उक्त्वा तु माद्रेयः कुशैर आस्तीर्य मेदिनीम विधिवत पुरुषव्याघ्रः पावकं परत्युपाविशत 31 परमुखे सर्वसैन्यस्य भीतॊद्विग्नस्य भारत न चैनम अत्यगाद वह्निर वेलाम इव महॊदधिः 32 तम अभ्येत्य शनैर वह्निर उवाच कुरुनन्दनम सहदेवं नृणां देवं सान्त्वपूर्वम इदं वचः 33 उत्तिष्ठॊत्तिष्ठ कौरव्य जिज्ञासेयं कृता मया वेद्मि सर्वम अभिप्रायं तव धर्मसुतस्य च 34 मया तु रक्षितव्येयं पुरी भरतसत्तम यावद राज्ञॊ ऽसय नीलस्य कुलवंशधरा इति ईप्सितं तु करिष्यामि मनसस तव पाण्डव 35 तत उत्थाय हृष्टात्मा पराञ्जलिः शिरसानतः पूजयाम आस माद्रेयः पावकं पुरुषर्षभः 36 पावके विनिवृत्ते तु नीलॊ राजाभ्ययात तदा सत्कारेण नरव्याघ्रं सहदेवं युधां पतिम 37 परतिगृह्य च तां पूजां करे च विनिवेश्य तम माद्री सुतस ततः परायाद विजयी दक्षिणां दिशम 38 तरैपुरं स वशे कृत्वा राजानम अमितौजसम निजग्राह महाबाहुस तरसा पॊतनेश्वरम 39 आहृतिं कौशिकाचार्यं यत्नेन महता ततः वशे चक्रे महाबाहुः सुराष्ट्राधिपतिं तथा 40 सुराष्ट्र विषयस्थश च परेषयाम आस रुक्मिणे राज्ञे भॊजकटस्थाय महामात्राय धीमते 41 भीष्मकाय स धर्मात्मा साक्षाद इन्द्र सखाय वै स चास्य ससुतॊ राजन परतिजग्राह शासनम 42 परीतिपूर्वं महाबाहुर वासुदेवम अवेक्ष्य च ततः स रत्नान्य आदाय पुनः परायाद युधां पतिः 43 ततः शूर्पारकं चैव गणं चॊपकृताह्वयम वशे चक्रे महातेजा दण्डकांश च महाबलः 44 सागरद्वीपवासांश च नृपतीन मलेच्छ यॊनिजान निषादान पुरुषादांश च कर्णप्रावरणान अपि 45 ये च कालमुखा नाम नरा राक्षसयॊनयः कृत्स्नं कॊल्ल गिरिं चैव मुरची पत्तनं तथा 46 दवीपं ताम्राह्वयं चैव पर्वतं रामकं तथा तिमिङ्गिलं च नृपतिं वशे चक्रे महामतिः 47 एकपादांश च पुरुषान केवलान वनवासिनः नगरीं संजयन्तीं च पिच्छण्डं करहाटकम दूतैर एव वशे चक्रे करं चैनान अदापयत 48 पाण्ड्यांश च दरविदांश चैव सहितांश चॊद्र केरलैः अन्ध्रांस तलवनांश चैव कलिङ्गान ओष्ट्र कर्णिकान 49 अन्ताखीं चैव रॊमां च यवनानां पुरं तथा दूतैर एव वशे चक्रे करं चैनान अदापयत 50 भरु कच्छं गतॊ धीमान दूतान माद्रवतीसुतः परेषयाम आस राजेन्द्र पौलस्त्याय महात्मने विभीषणाय धर्मात्मा परीतिपूर्वम अरिंदमः 51 स चास्य परतिजग्राह शासनं परीतिपूर्वकम तच च कालकृतं धीमान अन्वमन्यत स परभुः 52 ततः संप्रेषयाम आस रत्नानि विविधानि च चन्दनागुरुमुख्यानि दिव्यान्य आभरणानि च 53 वासांसि च महार्हाणि मणींश चैव महाधनान नयवर्तत ततॊ धीमान सहदेवः परतापवान 54 एवं निर्जित्य तरसा सान्त्वेन विजयेन च करदान पार्थिवान कृत्वा परत्यागच्छद अरिंदमः 55 धर्मराजाय तत सर्वं निवेद्य भरतर्षभ कृतकर्मा सुखं राजन्न उवास जनमेजय |
1
[v] tathaiva sahadevo 'pi dharmarājena pūjitaḥ mahatyā senayā sārdhaṃ prayayau dakṣiṇāṃ diśam 2 sa śūrasenān kārtsnyena pūrvam evājayat prabhuḥ matsyarājaṃ ca kauravyo vaśe cakre balād balī 3 adhirājādhipaṃ caiva dantavakraṃ mahāhave jigāya karadaṃ caiva svarājye saṃnyaveśayat 4 sukumāraṃ vaśe cakre sumitraṃ ca narādhipam tathaivāparamatsyāṃś ca vyajayat sa paṭac carān 5 niṣādabhūmiṃ gośṛṅgaṃ parvata pravaraṃ tathā tarasā vyajayad dhīmāñ śreṇimantaṃ ca pārthivam 6 nava rāṣṭraṃ vinirjitya kuntibhojam upādravat prītipūrvaṃ ca tasyāsau pratijagrāha śāsanam 7 tataś carmaṇvatī kūle jambhakasyātmajaṃ nṛpam dadarśa vāsudevena śeṣitaṃ pūrvavairiṇā 8 cakre tatra sa saṃgrāmaṃ saha bhojena bhārata sa tam ājau vinirjitya dakṣiṇābhimukho yayau 9 karāṃs tebhya upādāya ratnāni vividhāni ca tatas tair eva sahito narmadām abhito yayau 10 vindānuvindāv āvantyau sainyena mahatā vṛtau jigāya samare vīrāv āśvineyaḥ pratāpavān 11 tato ratnāny upādāya purīṃ māhiṣmatīṃ yayau tatra nīlena rājñā sacakre yuddhaṃ nararṣabhaḥ 12 pāṇḍavaḥ paravīraghnaḥ sahadevaḥ pratāpavān tato 'sya sumahad yuddham āsīd bhīru bhayaṃkaram 13 sainyakṣayakaraṃ caiva prāṇānāṃ saṃśayāya ca cakre tasya hi sāhāyyaṃ bhagavān havyavāhanaḥ 14 tato hayā rathā nāgāḥ puruṣāḥ kavacāni ca pradīptāni vyadṛśyanta sahadeva bale tadā 15 tataḥ susaṃbhrānta manā babhūva kurunandanaḥ nottaraṃ prativaktuṃ ca śakto 'bhūj janamejaya 16 [j] kimarthaṃ bhagavān agniḥ pratyamitro 'bhavad yudhi sahadevasya yajñārthaṃ ghaṭamānasya vai dvija 17 [v] tatra māhiṣmatī vāsī bhagavān havyavāhanaḥ śrūyate nigṛhīto vai purastat pāradārikaḥ 18 nīlasya rājñaḥ pūrveṣām upanītaś ca so 'bhavat tadā brāhmaṇarūpeṇa caramāṇo yadṛcchayā 19 taṃ tu rājā yathāśāstram anvaśād dhārmikas tadā prajajvāla tataḥ kopād bhagavān havyavāhanaḥ 20 taṃ dṛṣṭvā vismito rājā jagāma śirasā kavim cakre prasādaṃ ca tadā tasya rājño vibhāvasuḥ 21 vareṇa chandayām āsa taṃ nṛpaṃ sviṣṭakṛttamaḥ abhayaṃ ca sa jagrāha svasainye vai mahīpatiḥ 22 tataḥ prabhṛti ye ke cid ajñānāt tāṃ purīṃ nṛpāḥ jigīṣanti balād rājaṃs te dahyantīha vahninā 23 tasyāṃ puryāṃ tadā caiva māhiṣmatyāṃ kurūdvaha babhūvur anabhigrāhyā yoṣitaś chandataḥ kila 24 evam agnir varaṃ prādāt strīṇām aprativāraṇe svairiṇyas tatra nāryo hi yatheṣṭaṃ pracaranty uta 25 varjayanti ca rājānas tad rāṣṭraṃ puruṣottama bhayād agner mahārāja tadā prabhṛti sarvadā 26 sahadevas tu dharmātmā sainyaṃ dṛṣṭvā bhayārditam parītam agninā rājan nākampata yathā giriḥ 27 upaspṛśya śucir bhūtvā so 'bravīt pāvakaṃ tataḥ tvadartho 'yaṃ samārambhaḥ kṛṣṇavartman namo 'stu te 28 mukhaṃ tvam asi devānāṃ yajñas tvam asi pāvaka pāvanāt pāvakaś cāsi vahanād dhavyavāhanaḥ 29 vedās tvadarthaṃ jātāś ca jātavedās tato hy asi yajñavighnam imaṃ kartuṃ nārhas tvaṃ havyavāhana 30 evam uktvā tu mādreyaḥ kuśair āstīrya medinīm vidhivat puruṣavyāghraḥ pāvakaṃ pratyupāviśat 31 pramukhe sarvasainyasya bhītodvignasya bhārata na cainam atyagād vahnir velām iva mahodadhiḥ 32 tam abhyetya śanair vahnir uvāca kurunandanam sahadevaṃ nṛṇāṃ devaṃ sāntvapūrvam idaṃ vacaḥ 33 uttiṣṭhottiṣṭha kauravya jijñāseyaṃ kṛtā mayā vedmi sarvam abhiprāyaṃ tava dharmasutasya ca 34 mayā tu rakṣitavyeyaṃ purī bharatasattama yāvad rājño 'sya nīlasya kulavaṃśadharā iti īpsitaṃ tu kariṣyāmi manasas tava pāṇḍava 35 tata utthāya hṛṣṭātmā prāñjaliḥ śirasānataḥ pūjayām āsa mādreyaḥ pāvakaṃ puruṣarṣabhaḥ 36 pāvake vinivṛtte tu nīlo rājābhyayāt tadā satkāreṇa naravyāghraṃ sahadevaṃ yudhāṃ patim 37 pratigṛhya ca tāṃ pūjāṃ kare ca viniveśya tam mādrī sutas tataḥ prāyād vijayī dakṣiṇāṃ diśam 38 traipuraṃ sa vaśe kṛtvā rājānam amitaujasam nijagrāha mahābāhus tarasā potaneśvaram 39 āhṛtiṃ kauśikācāryaṃ yatnena mahatā tataḥ vaśe cakre mahābāhuḥ surāṣṭrādhipatiṃ tathā 40 surāṣṭra viṣayasthaś ca preṣayām āsa rukmiṇe rājñe bhojakaṭasthāya mahāmātrāya dhīmate 41 bhīṣmakāya sa dharmātmā sākṣād indra sakhāya vai sa cāsya sasuto rājan pratijagrāha śāsanam 42 prītipūrvaṃ mahābāhur vāsudevam avekṣya ca tataḥ sa ratnāny ādāya punaḥ prāyād yudhāṃ patiḥ 43 tataḥ śūrpārakaṃ caiva gaṇaṃ copakṛtāhvayam vaśe cakre mahātejā daṇḍakāṃś ca mahābalaḥ 44 sāgaradvīpavāsāṃś ca nṛpatīn mleccha yonijān niṣādān puruṣādāṃś ca karṇaprāvaraṇān api 45 ye ca kālamukhā nāma narā rākṣasayonayaḥ kṛtsnaṃ kolla giriṃ caiva muracī pattanaṃ tathā 46 dvīpaṃ tāmrāhvayaṃ caiva parvataṃ rāmakaṃ tathā timiṅgilaṃ ca nṛpatiṃ vaśe cakre mahāmatiḥ 47 ekapādāṃś ca puruṣān kevalān vanavāsinaḥ nagarīṃ saṃjayantīṃ ca picchaṇḍaṃ karahāṭakam dūtair eva vaśe cakre karaṃ cainān adāpayat 48 pāṇḍyāṃś ca dravidāṃś caiva sahitāṃś codra keralaiḥ andhrāṃs talavanāṃś caiva kaliṅgān oṣṭra karṇikān 49 antākhīṃ caiva romāṃ ca yavanānāṃ puraṃ tathā dūtair eva vaśe cakre karaṃ cainān adāpayat 50 bharu kacchaṃ gato dhīmān dūtān mādravatīsutaḥ preṣayām āsa rājendra paulastyāya mahātmane vibhīṣaṇāya dharmātmā prītipūrvam ariṃdamaḥ 51 sa cāsya pratijagrāha śāsanaṃ prītipūrvakam tac ca kālakṛtaṃ dhīmān anvamanyata sa prabhuḥ 52 tataḥ saṃpreṣayām āsa ratnāni vividhāni ca candanāgurumukhyāni divyāny ābharaṇāni ca 53 vāsāṃsi ca mahārhāṇi maṇīṃś caiva mahādhanān nyavartata tato dhīmān sahadevaḥ pratāpavān 54 evaṃ nirjitya tarasā sāntvena vijayena ca karadān pārthivān kṛtvā pratyāgacchad ariṃdamaḥ 55 dharmarājāya tat sarvaṃ nivedya bharatarṣabha kṛtakarmā sukhaṃ rājann uvāsa janamejaya |
The Mahabharata in Sanskrit
Book 2
Chapter 29
|
1
[व] नकुलस्य तु वक्ष्यामि कर्माणि विजयं तथा वासुदेव जिताम आशां यथासौ वयजयत परभुः 2 निर्याय खाण्डव परस्थात परतीचीम अभितॊ दिशम उद्दिश्य मतिमान परायान महत्या सेनया सह 3 सिंहनादेन महता यॊधानां गर्जितेन च रथनेमि निनादैश च कम्पयन वसुधाम इमाम 4 ततॊ बहुधनं रम्यं गवाश्वधनधान्यवत कार्तिकेयस्य दयितं रॊहीतकम उपाद्रवत 5 तत्र युद्धं महद वृत्तं शूरैर मत्तमयूरकैः मरु भूमिं च कार्त्स्न्येन तथैव बहु धान्यकम 6 शैरीषकं महेच्छं च वशे चक्रे महाद्युतिः शिबींस तरिगर्तान अम्बष्ठान मालवान पञ्च कर्पटान 7 तथा मध्यमिकायांश च वाटधानान दविजान अथ पुनश च परिवृत्याथ पुष्करारण्यवासिनः 8 गणान उत्सव संकेतान वयजयत पुरुषर्षभ सिन्धुकूलाश्रिता ये च गरामणेया महाबलाः 9 शूद्राभीर गणाश चैव ये चाश्रित्य सरस्वतीम वर्तयन्ति च ये मत्स्यैर ये च पर्वतवासिनः 10 कृत्स्नं पञ्चनदं चैव तथैवापरपर्यटम उत्तरज्यॊतिकं चैव तथा वृण्डाटकं पुरम दवारपालं च तरसा वशे चक्रे महाद्युतिः 11 रमठान हारहूणांश च परतीच्याश चैव ये नृपाः तान सर्वान स वशे चक्रे शासनाद एव पाण्डवः 12 तत्रस्थः परेषयाम आस वासुदेवाय चाभिभुः स चास्य दशभी राज्यैः परतिजग्राह शासनम 13 ततः शाकलम अभ्येत्य मद्राणां पुटभेदनम मातुलं परीतिपूर्वेण शल्यं चक्रे वशे बली 14 स तस्मिन सत्कृतॊ राज्ञा सत्कारार्हॊ विशां पते रत्नानि भूरीण्य आदाय संप्रतस्थे युधां पतिः 15 ततः सागरकुक्षिस्थान मलेच्छान परमदारुणान पह्लवान बर्बरांश चैव तान सर्वान अनयद वशम 16 ततॊ रत्नान्य उपादाय वशे कृत्वा च पार्थिवान नयवर्तत नरश्रेष्ठॊ नकुलश चित्रमार्गवित 17 करभाणां सहस्राणि कॊशं तस्य महात्मनः ऊहुर दश महाराज कृच्छ्राद इव महाधनम 18 इन्द्रप्रस्थगतं वीरम अभ्येत्य स युधिष्ठिरम ततॊ माद्री सुतः शरीमान धनं तस्मै नयवेदयत 19 एवं परतीचीं नकुलॊ दिशं वरुणपालिताम विजिग्ये वासुदेवेन निर्जितां भरतर्षभः |
1
[v] nakulasya tu vakṣyāmi karmāṇi vijayaṃ tathā vāsudeva jitām āśāṃ yathāsau vyajayat prabhuḥ 2 niryāya khāṇḍava prasthāt pratīcīm abhito diśam uddiśya matimān prāyān mahatyā senayā saha 3 siṃhanādena mahatā yodhānāṃ garjitena ca rathanemi ninādaiś ca kampayan vasudhām imām 4 tato bahudhanaṃ ramyaṃ gavāśvadhanadhānyavat kārtikeyasya dayitaṃ rohītakam upādravat 5 tatra yuddhaṃ mahad vṛttaṃ śūrair mattamayūrakaiḥ maru bhūmiṃ ca kārtsnyena tathaiva bahu dhānyakam 6 śairīṣakaṃ mahecchaṃ ca vaśe cakre mahādyutiḥ śibīṃs trigartān ambaṣṭhān mālavān pañca karpaṭān 7 tathā madhyamikāyāṃś ca vāṭadhānān dvijān atha punaś ca parivṛtyātha puṣkarāraṇyavāsinaḥ 8 gaṇān utsava saṃketān vyajayat puruṣarṣabha sindhukūlāśritā ye ca grāmaṇeyā mahābalāḥ 9 śūdrābhīra gaṇāś caiva ye cāśritya sarasvatīm vartayanti ca ye matsyair ye ca parvatavāsinaḥ 10 kṛtsnaṃ pañcanadaṃ caiva tathaivāparaparyaṭam uttarajyotikaṃ caiva tathā vṛṇḍāṭakaṃ puram dvārapālaṃ ca tarasā vaśe cakre mahādyutiḥ 11 ramaṭhān hārahūṇāṃś ca pratīcyāś caiva ye nṛpāḥ tān sarvān sa vaśe cakre śāsanād eva pāṇḍavaḥ 12 tatrasthaḥ preṣayām āsa vāsudevāya cābhibhuḥ sa cāsya daśabhī rājyaiḥ pratijagrāha śāsanam 13 tataḥ śākalam abhyetya madrāṇāṃ puṭabhedanam mātulaṃ prītipūrveṇa śalyaṃ cakre vaśe balī 14 sa tasmin satkṛto rājñā satkārārho viśāṃ pate ratnāni bhūrīṇy ādāya saṃpratasthe yudhāṃ patiḥ 15 tataḥ sāgarakukṣisthān mlecchān paramadāruṇān pahlavān barbarāṃś caiva tān sarvān anayad vaśam 16 tato ratnāny upādāya vaśe kṛtvā ca pārthivān nyavartata naraśreṣṭho nakulaś citramārgavit 17 karabhāṇāṃ sahasrāṇi kośaṃ tasya mahātmanaḥ ūhur daśa mahārāja kṛcchrād iva mahādhanam 18 indraprasthagataṃ vīram abhyetya sa yudhiṣṭhiram tato mādrī sutaḥ śrīmān dhanaṃ tasmai nyavedayat 19 evaṃ pratīcīṃ nakulo diśaṃ varuṇapālitām vijigye vāsudevena nirjitāṃ bharatarṣabhaḥ |
The Mahabharata in Sanskrit
Book 2
Chapter 30
|
1
[व] रक्षणाद धर्मराजस्य सत्यस्य परिपालनात शत्रूणां कषपणाच चैव सवकर्मनिरताः परजाः 2 बलीनां सम्यग आदानाद धर्मतश चानुशासनात निकामवर्षी पर्जन्यः सफीतॊ जनपदॊ ऽभवत 3 सर्वारम्भाः सुप्रवृत्ता गॊरक्षं कर्षणं वनिक विशेषात सर्वम एवैतत संजज्ञे राजकर्मणः 4 दस्युभ्यॊ वञ्चकेभ्यॊ वा राजन परति परस्परम राजवल्लभतश चैव नाश्रूयन्त मृषा गिरः 5 अवर्षं चातिवर्षं च वयाधिपावक मूर्छनम सर्वम एतत तदा नासीद धर्मनित्ये युधिष्ठिरे 6 परियं कर्तुम उपस्थातुं बलिकर्म सवभावजम अभिहर्तुं नृपा जग्मुर नान्यैः कार्यैः पृथक पृथक 7 धर्म्यैर धनागमैस तस्य ववृधे निचयॊ महान कर्तुं यस्य न शक्येत कषयॊ वर्षशतैर अपि 8 सवकॊशस्य परीमाणं कॊष्ठस्य च महीपतिः विज्ञाय राजा कौन्तेयॊ यज्ञायैव मनॊ दधे 9 सुहृदश चैव तं सर्वे पृथक च सह चाब्रुवन यज्ञकालस तव विभॊ करियताम अत्र सांप्रतम 10 अथैवं बरुवताम एव तेषाम अभ्याययौ हरिः ऋषिः पुराणॊ वेदात्मा दृश्यश चापि विजानताम 11 जगतस तस्थुषां शरेष्ठः परभवश चाप्ययश च ह भूतभव्य भवन नाथः केशवः केशि सूदनः 12 पराकारः सर्ववृष्णीनाम आपत्स्व अभयदॊ ऽरिहा बलाधिकारे निक्षिप्य संहत्यानक दुन्दुभिम 13 उच्चावचम उपादाय धर्मराजाय माधवः धनौघं पुरुषव्याघ्रॊ बलेन महता वृतः 14 तं धनौघम अपर्यन्तं रत्नसागरम अक्षयम नादयन रथघॊषेण परविवेश पुरॊत्तमम 15 असूर्यम इव सूर्येण निवातम इव वायुना कृष्णेन समुपेतेन जहृषे भारतं पुरम 16 तं मुदाभिसमागम्य सत्कृत्य च यथाविधि संपृष्ट्वा कुशलं चैव सुखासीनं युधिष्ठिरः 17 धौम्य दवैपायन मुखैर ऋत्विग्भिः पुरुषर्षभ भीमार्जुनयमैश चापि सहितः कृष्णम अब्रवीत 18 तवत्कृते पृथिवी सर्वा मद वशे कृष्ण वर्तते धनं च बहु वार्ष्णेय तवत्प्रसादाद उपार्जितम 19 सॊ ऽहम इच्छामि तत सर्वं विधिवद देवकी सुत उपयॊक्तुं दविजाग्र्येषु हव्यवाहे च माधव 20 तद अहं यष्टुम इच्छामि दाशार्ह सहितस तवया अनुजैश च महाबाहॊ तन मानुज्ञातुम अर्हसि 21 स दीक्षापय गॊविन्द तवम आत्मानं महाभुज तवयीष्टवति दाशार्ह विपाप्मा भविता हय अहम 22 मां वाप्य अभ्यनुजानीहि सहैभिर अनुजैर विभॊ अनुज्ञातस तवया कृष्ण पराप्नुयां करतुम उत्तमम 23 तं कृष्णः परत्युवाचेदं बहूक्त्वा गुणविस्तरम तवम एव राजशार्दूल सम्राड अर्हॊ महाक्रतुम संप्राप्नुहि तवया पराप्ते कृतकृत्यास ततॊ वयम 24 यजस्वाभीप्सितं यज्ञं मयि शरेयस्य अवस्थिते नियुङ्क्ष्व चापि मां कृत्ये सर्वं कर्तास्मि ते वचः 25 [य] सफलः कृष्ण संकल्पः सिद्धिश च नियता मम यस्य मे तवं हृषीकेशयथेप्सितम उपस्थितः 26 [व] अनुज्ञातस तु कृष्णेन पाण्डवॊ भरातृभिः सह ईहितुं राजसूयाय साधनान्य उपचक्रमे 27 तत आज्ञापयाम आस पाण्डवॊ ऽरिनिबर्हणः सहदेवं युधां शरेष्ठं मन्त्रिणश चैव सर्वशः 28 अस्मिन करतौ यथॊक्तानि यज्ञाङ्गानि दविजातिभिः तथॊपकरणं सर्वं मङ्गलानि च सर्वशः 29 अधियज्ञांश च संभारान धौम्यॊक्तान कषिप्रम एव हि समानयन्तु पुरुषा यथायॊगं यथाक्रमम 30 इन्द्रसेनॊ विशॊकश च पूरुश चार्जुन सारथिः अन्नाद्याहरणे युक्ताः सन्तु मत्प्रियकाम्यया 31 सर्वकामाश च कार्यन्तां रसगन्धसमन्विताः मनॊहराः परीतिकरा दविजानां कुरुसत्तम 32 तद वाक्यसमकालं तु कृतं सर्वम अवेदयत सहदेवॊ युधां शरेष्ठॊ धर्मराजे महात्मनि 33 ततॊ दवैपायनॊ राजन्न ऋत्विजः समुपानयत वेदान इव महाभागान साक्षान मूर्तिमतॊ दविजान 34 सवयं बरह्मत्वम अकरॊत तस्य सत्यवती सुतः धनंजयानाम ऋषभः सुसामा सामगॊ ऽभवत 35 याज्ञवल्क्यॊ बभूवाथ बरह्मिष्ठॊ ऽधवर्यु सत्तमः पैलॊ हॊता वसॊः पुत्रॊ धौम्येन सहितॊ ऽभवत 36 एतेषां शिष्यवर्गाश च पुत्राश च भरतर्षभ बभूवुर हॊत्रगाः सर्वे वेदवेदाङ्गपारगाः 37 ते वाचयित्वा पुण्याहम ईहयित्वा च तं विधिम शास्त्रॊक्तं यॊजयाम आसुस तद देवयजनं महत 38 तत्र चक्रुर अनुज्ञाताः शरणान्य उत शिल्पिनः रत्नवन्ति विशालानि वेश्मानीव दिवौकसाम 39 तत आज्ञापयाम आस स राजा राजसत्तमः सहदेवं तदा सद्यॊ मन्त्रिणं कुरुसत्तमः 40 आमन्त्रणार्थं दूतांस तवं परेषयस्वाशुगान दरुतम उपश्रुत्य वचॊ राज्ञॊ स दूतान पराहिनॊत तदा 41 आमन्त्रयध्वं राष्ट्रेषु बराह्मणान भूमिपान अपि विशश च मान्याञ शूद्रांश च सर्वान आनयतेति च 42 ते सर्वान पृथिवीपालान पाण्डवेयस्य शासनात आमन्त्रयां बभूवुश च परेषयाम आस चापरान 43 ततस ते तु यथाकालं कुन्तीपुत्रं युधिष्ठिरम दीक्षयां चक्रिरे विप्रा राजसूयाय भारत 44 दीक्षितः स तु धर्मात्मा धर्मराजॊ युधिष्ठिरः जगाम यज्ञायतनं वृतॊ विप्रैः सहस्रशः 45 भरातृभिर जञातिभिश चैव सुहृद्भिः सचिवैस तथा कषत्रियैश च मनुष्येन्द्र नानादेशसमागतैः अमात्यैश च नृपश्रेष्ठॊ धर्मॊ विग्रहवान इव 46 आजग्मुर बराह्मणास तत्र विषयेभ्यस ततस ततः सर्वविद्यासु निष्णाता वेदवेदाङ्गपार गाः 47 तेषाम आवसथांश चक्रुर धर्मराजस्य शासनात बह्व अन्नाञ शयनैर युक्तान सगणानां पृथक पृथक सर्वर्तुगुणसंपन्नाञ शिल्पिनॊ ऽथ सहस्रशः 48 तेषु ते नयवसन राजन बराह्मणा भृशसत्कृताः कथयन्तः कथा बह्वीः पश्यन्तॊ नटनर्तकान 49 भुञ्जतां चैव विप्राणां वदतां च महास्वनः अनिशं शरूयते समात्र मुदितानां महात्मनाम 50 दीयतां दीयताम एषां भुज्यतां भुज्यताम इति एवं परकाराः संजल्पाः शरूयन्ते समात्र नित्यशः 51 गवां शतसहस्राणि शयनानां च भारत रुक्मस्य यॊषितां चैव धर्मराजः पृथग ददौ 52 परावर्ततैवं यज्ञः स पाण्डवस्य महात्मनः पृथिव्याम एकवीरस्य शक्रस्येव तरिविष्टपे 53 ततॊ युधिष्ठिरॊ राजा परेषयाम आस पाण्डवम नकुलं हास्तिनपुरं भीष्माय भरतर्षभ 54 दरॊणाय धृतराष्ट्राय विदुराय कृपाय च भरातॄणां चैव सर्वेषां ये ऽनुरक्ता युधिष्ठिर |
1
[v] rakṣaṇād dharmarājasya satyasya paripālanāt śatrūṇāṃ kṣapaṇāc caiva svakarmaniratāḥ prajāḥ 2 balīnāṃ samyag ādānād dharmataś cānuśāsanāt nikāmavarṣī parjanyaḥ sphīto janapado 'bhavat 3 sarvārambhāḥ supravṛttā gorakṣaṃ karṣaṇaṃ vanik viśeṣāt sarvam evaitat saṃjajñe rājakarmaṇaḥ 4 dasyubhyo vañcakebhyo vā rājan prati parasparam rājavallabhataś caiva nāśrūyanta mṛṣā giraḥ 5 avarṣaṃ cātivarṣaṃ ca vyādhipāvaka mūrchanam sarvam etat tadā nāsīd dharmanitye yudhiṣṭhire 6 priyaṃ kartum upasthātuṃ balikarma svabhāvajam abhihartuṃ nṛpā jagmur nānyaiḥ kāryaiḥ pṛthak pṛthak 7 dharmyair dhanāgamais tasya vavṛdhe nicayo mahān kartuṃ yasya na śakyeta kṣayo varṣaśatair api 8 svakośasya parīmāṇaṃ koṣṭhasya ca mahīpatiḥ vijñāya rājā kaunteyo yajñāyaiva mano dadhe 9 suhṛdaś caiva taṃ sarve pṛthak ca saha cābruvan yajñakālas tava vibho kriyatām atra sāṃpratam 10 athaivaṃ bruvatām eva teṣām abhyāyayau hariḥ ṛṣiḥ purāṇo vedātmā dṛśyaś cāpi vijānatām 11 jagatas tasthuṣāṃ śreṣṭhaḥ prabhavaś cāpyayaś ca ha bhūtabhavya bhavan nāthaḥ keśavaḥ keśi sūdanaḥ 12 prākāraḥ sarvavṛṣṇīnām āpatsv abhayado 'rihā balādhikāre nikṣipya saṃhatyānaka dundubhim 13 uccāvacam upādāya dharmarājāya mādhavaḥ dhanaughaṃ puruṣavyāghro balena mahatā vṛtaḥ 14 taṃ dhanaugham aparyantaṃ ratnasāgaram akṣayam nādayan rathaghoṣeṇa praviveśa purottamam 15 asūryam iva sūryeṇa nivātam iva vāyunā kṛṣṇena samupetena jahṛṣe bhārataṃ puram 16 taṃ mudābhisamāgamya satkṛtya ca yathāvidhi saṃpṛṣṭvā kuśalaṃ caiva sukhāsīnaṃ yudhiṣṭhiraḥ 17 dhaumya dvaipāyana mukhair ṛtvigbhiḥ puruṣarṣabha bhīmārjunayamaiś cāpi sahitaḥ kṛṣṇam abravīt 18 tvatkṛte pṛthivī sarvā mad vaśe kṛṣṇa vartate dhanaṃ ca bahu vārṣṇeya tvatprasādād upārjitam 19 so 'ham icchāmi tat sarvaṃ vidhivad devakī suta upayoktuṃ dvijāgryeṣu havyavāhe ca mādhava 20 tad ahaṃ yaṣṭum icchāmi dāśārha sahitas tvayā anujaiś ca mahābāho tan mānujñātum arhasi 21 sa dīkṣāpaya govinda tvam ātmānaṃ mahābhuja tvayīṣṭavati dāśārha vipāpmā bhavitā hy aham 22 māṃ vāpy abhyanujānīhi sahaibhir anujair vibho anujñātas tvayā kṛṣṇa prāpnuyāṃ kratum uttamam 23 taṃ kṛṣṇaḥ pratyuvācedaṃ bahūktvā guṇavistaram tvam eva rājaśārdūla samrāḍ arho mahākratum saṃprāpnuhi tvayā prāpte kṛtakṛtyās tato vayam 24 yajasvābhīpsitaṃ yajñaṃ mayi śreyasy avasthite niyuṅkṣva cāpi māṃ kṛtye sarvaṃ kartāsmi te vacaḥ 25 [y] saphalaḥ kṛṣṇa saṃkalpaḥ siddhiś ca niyatā mama yasya me tvaṃ hṛṣīkeśayathepsitam upasthitaḥ 26 [v] anujñātas tu kṛṣṇena pāṇḍavo bhrātṛbhiḥ saha īhituṃ rājasūyāya sādhanāny upacakrame 27 tata ājñāpayām āsa pāṇḍavo 'rinibarhaṇaḥ sahadevaṃ yudhāṃ śreṣṭhaṃ mantriṇaś caiva sarvaśaḥ 28 asmin kratau yathoktāni yajñāṅgāni dvijātibhiḥ tathopakaraṇaṃ sarvaṃ maṅgalāni ca sarvaśaḥ 29 adhiyajñāṃś ca saṃbhārān dhaumyoktān kṣipram eva hi samānayantu puruṣā yathāyogaṃ yathākramam 30 indraseno viśokaś ca pūruś cārjuna sārathiḥ annādyāharaṇe yuktāḥ santu matpriyakāmyayā 31 sarvakāmāś ca kāryantāṃ rasagandhasamanvitāḥ manoharāḥ prītikarā dvijānāṃ kurusattama 32 tad vākyasamakālaṃ tu kṛtaṃ sarvam avedayat sahadevo yudhāṃ śreṣṭho dharmarāje mahātmani 33 tato dvaipāyano rājann ṛtvijaḥ samupānayat vedān iva mahābhāgān sākṣān mūrtimato dvijān 34 svayaṃ brahmatvam akarot tasya satyavatī sutaḥ dhanaṃjayānām ṛṣabhaḥ susāmā sāmago 'bhavat 35 yājñavalkyo babhūvātha brahmiṣṭho 'dhvaryu sattamaḥ pailo hotā vasoḥ putro dhaumyena sahito 'bhavat 36 eteṣāṃ śiṣyavargāś ca putrāś ca bharatarṣabha babhūvur hotragāḥ sarve vedavedāṅgapāragāḥ 37 te vācayitvā puṇyāham īhayitvā ca taṃ vidhim śāstroktaṃ yojayām āsus tad devayajanaṃ mahat 38 tatra cakrur anujñātāḥ śaraṇāny uta śilpinaḥ ratnavanti viśālāni veśmānīva divaukasām 39 tata ājñāpayām āsa sa rājā rājasattamaḥ sahadevaṃ tadā sadyo mantriṇaṃ kurusattamaḥ 40 āmantraṇārthaṃ dūtāṃs tvaṃ preṣayasvāśugān drutam upaśrutya vaco rājño sa dūtān prāhinot tadā 41 āmantrayadhvaṃ rāṣṭreṣu brāhmaṇān bhūmipān api viśaś ca mānyāñ śūdrāṃś ca sarvān ānayateti ca 42 te sarvān pṛthivīpālān pāṇḍaveyasya śāsanāt āmantrayāṃ babhūvuś ca preṣayām āsa cāparān 43 tatas te tu yathākālaṃ kuntīputraṃ yudhiṣṭhiram dīkṣayāṃ cakrire viprā rājasūyāya bhārata 44 dīkṣitaḥ sa tu dharmātmā dharmarājo yudhiṣṭhiraḥ jagāma yajñāyatanaṃ vṛto vipraiḥ sahasraśaḥ 45 bhrātṛbhir jñātibhiś caiva suhṛdbhiḥ sacivais tathā kṣatriyaiś ca manuṣyendra nānādeśasamāgataiḥ amātyaiś ca nṛpaśreṣṭho dharmo vigrahavān iva 46 ājagmur brāhmaṇās tatra viṣayebhyas tatas tataḥ sarvavidyāsu niṣṇātā vedavedāṅgapāra gāḥ 47 teṣām āvasathāṃś cakrur dharmarājasya śāsanāt bahv annāñ śayanair yuktān sagaṇānāṃ pṛthak pṛthak sarvartuguṇasaṃpannāñ śilpino 'tha sahasraśaḥ 48 teṣu te nyavasan rājan brāhmaṇā bhṛśasatkṛtāḥ kathayantaḥ kathā bahvīḥ paśyanto naṭanartakān 49 bhuñjatāṃ caiva viprāṇāṃ vadatāṃ ca mahāsvanaḥ aniśaṃ śrūyate smātra muditānāṃ mahātmanām 50 dīyatāṃ dīyatām eṣāṃ bhujyatāṃ bhujyatām iti evaṃ prakārāḥ saṃjalpāḥ śrūyante smātra nityaśaḥ 51 gavāṃ śatasahasrāṇi śayanānāṃ ca bhārata rukmasya yoṣitāṃ caiva dharmarājaḥ pṛthag dadau 52 prāvartataivaṃ yajñaḥ sa pāṇḍavasya mahātmanaḥ pṛthivyām ekavīrasya śakrasyeva triviṣṭape 53 tato yudhiṣṭhiro rājā preṣayām āsa pāṇḍavam nakulaṃ hāstinapuraṃ bhīṣmāya bharatarṣabha 54 droṇāya dhṛtarāṣṭrāya vidurāya kṛpāya ca bhrātṝṇāṃ caiva sarveṣāṃ ye 'nuraktā yudhiṣṭhira |
The Mahabharata in Sanskrit
Book 2
Chapter 31
|
1
[व] स गत्वा हास्तिनपुरं नकुलः समितिंजयः भीष्मम आमन्त्रयाम आस धृतराष्ट्रं च पाण्डवः 2 परययुः परीतमनसॊ यज्ञं बरह्म पुरःसराः संश्रुत्य धर्मराजस्य यज्ञं यज्ञविदस तदा 3 अन्ये च शतशस तुष्टैर मनॊभिर मनुजर्षभ दरष्टुकामाः सभां चैव धर्मराजं च पाण्डवम 4 दिग्भ्यः सर्वे समापेतुः पार्थिवास तत्र भारत समुपादाय रत्नानि विविधानि महान्ति च 5 धृतराष्ट्रश च भीष्मश च विदुरश च महामतिः दुर्यॊधन पुरॊगाश च भरातरः सर्व एव ते 6 सत्कृत्यामन्त्रिताः सर्वे आचार्य परमुखा नृपाः गान्धारराजः सुबलः शकुनिश च महाबलः 7 अचलॊ वृषकश चैव कर्णश च रथिनां वरः ऋतः शल्यॊ मद्रराजॊ बाह्लिकश च महारथः 8 सॊमदत्तॊ ऽथ कौरव्यॊ भूरिर भूरिश्रवाः शलः अश्वत्थामा कृपॊ दरॊणः सैन्धवश च जयद्रथः 9 यज्ञसेनः सपुत्रश च शाल्वश च वसुधाधिपः पराग्ज्यॊतिषश च नृपतिर भगदत्तॊ महायशाः 10 सह सर्वैस तथा मलेच्छैः सागरानूपवासिभिः पार्वतीयाश च राजानॊ राजा चैव बृहद्बलः 11 पौण्ड्रकॊ वासुदेवश च वङ्गः कालिङ्गकस तथा आकर्षः कुन्तलश चैव वानवास्यान्ध्रकास तथा 12 दरविडाः सिंहलाश चैव राजा काश्मीरकस तथा कुन्तिभॊजॊ महातेजाः सुह्मश च सुमहाबलः 13 बाह्लिकाश चापरे शूरा राजानः सर्व एव ते विराटः सह पुत्रैश च माचेल्लश च महारथः राजानॊ राजपुत्राश च नानाजनपदेश्वराः 14 शिशुपालॊ महावीर्यः सह पुत्रेण भारत आगच्छत पाण्डवेयस्य यज्ञं संग्रामदुर्मदः 15 रामश चैवानिरुद्धश च बभ्रुश च सहसा रणः गद परद्युम्न साम्बाश च चारु देष्णश च वीर्यवान 16 उल्मुकॊ निशठश चैव वीरः पराद्युम्निर एव च वृष्णयॊ निखिलेनान्ये समाजग्मुर महारथाः 17 एते चान्ये च बहवॊ राजानॊ मध्यदेशजाः आजग्मुः पाण्डुपुत्रस्य राजसूयं महाक्रतुम 18 ददुस तेषाम आवसथान धर्मराजस्य शासनात बहु कक्ष्यान्वितान राजन दीर्घिका वृक्षशॊभितान 19 तथा धर्मात्मजस तेषां चक्रे पूजाम अनुत्तमाम सत्कृताश च यथॊद्दिष्टाञ जग्मुर आवसथान नृपाः 20 कैलासशिखरप्रख्यान मनॊज्ञान दरव्यभूषितान सर्वतः संवृतान उच्चैः पराकारैः सुकृतैः सितैः 21 सुवर्णजालसंवीतान मणिकुट्टिम शॊभितान सुखारॊहण सॊपानान महासनपरिच्छदान 22 सरग्दाम समवछन्नान उत्तमागुरु गन्धिनः हंसांशु वर्णसदृशान आयॊजनसुदर्शनान 23 असंबाधान समद्वारान युतान उच्चावचैर गुणैः बहुधातुपिनद्धाङ्गान हिमवच्छिखरान इव 24 विश्रान्तास ते ततॊ ऽपश्यन भूमिपा भूरिदक्षिणम वृतं सदस्यैर बहुभिर धर्मराजं युधिष्ठिरम 25 तत सदॊ पार्थिवैः कीर्णं बराह्मणैश च महात्मभिः भराजते सम तदा राजन नाकपृष्ठम इवामरैः |
1
[v] sa gatvā hāstinapuraṃ nakulaḥ samitiṃjayaḥ bhīṣmam āmantrayām āsa dhṛtarāṣṭraṃ ca pāṇḍavaḥ 2 prayayuḥ prītamanaso yajñaṃ brahma puraḥsarāḥ saṃśrutya dharmarājasya yajñaṃ yajñavidas tadā 3 anye ca śataśas tuṣṭair manobhir manujarṣabha draṣṭukāmāḥ sabhāṃ caiva dharmarājaṃ ca pāṇḍavam 4 digbhyaḥ sarve samāpetuḥ pārthivās tatra bhārata samupādāya ratnāni vividhāni mahānti ca 5 dhṛtarāṣṭraś ca bhīṣmaś ca viduraś ca mahāmatiḥ duryodhana purogāś ca bhrātaraḥ sarva eva te 6 satkṛtyāmantritāḥ sarve ācārya pramukhā nṛpāḥ gāndhārarājaḥ subalaḥ śakuniś ca mahābalaḥ 7 acalo vṛṣakaś caiva karṇaś ca rathināṃ varaḥ ṛtaḥ śalyo madrarājo bāhlikaś ca mahārathaḥ 8 somadatto 'tha kauravyo bhūrir bhūriśravāḥ śalaḥ aśvatthāmā kṛpo droṇaḥ saindhavaś ca jayadrathaḥ 9 yajñasenaḥ saputraś ca śālvaś ca vasudhādhipaḥ prāgjyotiṣaś ca nṛpatir bhagadatto mahāyaśāḥ 10 saha sarvais tathā mlecchaiḥ sāgarānūpavāsibhiḥ pārvatīyāś ca rājāno rājā caiva bṛhadbalaḥ 11 pauṇḍrako vāsudevaś ca vaṅgaḥ kāliṅgakas tathā ākarṣaḥ kuntalaś caiva vānavāsyāndhrakās tathā 12 draviḍāḥ siṃhalāś caiva rājā kāśmīrakas tathā kuntibhojo mahātejāḥ suhmaś ca sumahābalaḥ 13 bāhlikāś cāpare śūrā rājānaḥ sarva eva te virāṭaḥ saha putraiś ca mācellaś ca mahārathaḥ rājāno rājaputrāś ca nānājanapadeśvarāḥ 14 śiśupālo mahāvīryaḥ saha putreṇa bhārata āgacchat pāṇḍaveyasya yajñaṃ saṃgrāmadurmadaḥ 15 rāmaś caivāniruddhaś ca babhruś ca sahasā raṇaḥ gada pradyumna sāmbāś ca cāru deṣṇaś ca vīryavān 16 ulmuko niśaṭhaś caiva vīraḥ prādyumnir eva ca vṛṣṇayo nikhilenānye samājagmur mahārathāḥ 17 ete cānye ca bahavo rājāno madhyadeśajāḥ ājagmuḥ pāṇḍuputrasya rājasūyaṃ mahākratum 18 dadus teṣām āvasathān dharmarājasya śāsanāt bahu kakṣyānvitān rājan dīrghikā vṛkṣaśobhitān 19 tathā dharmātmajas teṣāṃ cakre pūjām anuttamām satkṛtāś ca yathoddiṣṭāñ jagmur āvasathān nṛpāḥ 20 kailāsaśikharaprakhyān manojñān dravyabhūṣitān sarvataḥ saṃvṛtān uccaiḥ prākāraiḥ sukṛtaiḥ sitaiḥ 21 suvarṇajālasaṃvītān maṇikuṭṭima śobhitān sukhārohaṇa sopānān mahāsanaparicchadān 22 sragdāma samavachannān uttamāguru gandhinaḥ haṃsāṃśu varṇasadṛśān āyojanasudarśanān 23 asaṃbādhān samadvārān yutān uccāvacair guṇaiḥ bahudhātupinaddhāṅgān himavacchikharān iva 24 viśrāntās te tato 'paśyan bhūmipā bhūridakṣiṇam vṛtaṃ sadasyair bahubhir dharmarājaṃ yudhiṣṭhiram 25 tat sado pārthivaiḥ kīrṇaṃ brāhmaṇaiś ca mahātmabhiḥ bhrājate sma tadā rājan nākapṛṣṭham ivāmaraiḥ |
The Mahabharata in Sanskrit
Book 2
Chapter 32
|
1
[व] पिता महं गुरुं चैव परत्युद्गम्य युधिष्ठिरः अभिवाद्य ततॊ राजन्न इदं वचनम अब्रवीत भीष्मं दरॊणं कृपं दरौणिं दुर्यॊधन विविंशती 2 अस्मिन यज्ञे भवन्तॊ माम अनुगृह्णन्तु सर्वशः इदं वः सवम अहं चैव यद इहास्ति धनं मम परीणयन्तु भवन्तॊ मां यथेष्टम अनियन्त्रिताः 3 एवम उक्त्वा स तान सर्वान दीक्षितः पाण्डवाग्रजः युयॊज ह यथायॊगम अधिकारेष्व अनन्तरम 4 भक्ष्यभॊज्याधिकारेषु दुःशासनम अयॊजयत परिग्रहे बराह्मणानाम अश्वत्थामानम उक्तवान 5 राज्ञां तु परतिपूजार्थं संजयं संन्ययॊजयत कृताकृत परिज्ञाने भीष्मद्रॊणौ महामती 6 हिरण्यस्य सुवर्णस्य रत्नानां चान्ववेक्षणे दक्षिणानां च वै दाने कृपं राजा नययॊजयत तथान्यान पुरुषव्याघ्रांस तस्मिंस तस्मिन नययॊजयत 7 बाह्लिकॊ धृतराष्ट्रश च सॊमदत्तॊ जयद्रथः नकुलेन समानीताः सवामिवत तत्र रेमिरे 8 कषत्ता वययकरस तव आसीद विदुरः सर्वधर्मवित दुर्यॊधनस तव अर्हणानि परतिजग्राह सर्वशः 9 सर्वलॊकः समावृत्तः पिप्रीषुः फलम उत्तमम दरष्टुकामः सभां चैव धर्मराजं च पाण्डवम 10 न कश चिद आहरत तत्र सहस्रावरम अर्हणम रत्नैश च बहुभिस तत्र धर्मराजम अवर्धयन 11 कथं नु मम कौरव्यॊ रत्नदानैः समाप्नुयात यज्ञम इत्य एव राजानः सपर्धमाना ददुर धनम 12 भवनैः सविमानाग्रैः सॊदर्कैर बलसंवृतैः लॊकराज विमानैश च बराह्मणावसथैः सह 13 कृतैर आवसथैर दिव्यैर विमानप्रतिमैस तथा विचित्रै रत्नवद्भिश च ऋद्ध्या परमया युतैः 14 राजभिश च समावृत्तैर अतीव शरीसमृद्धिभिः अशॊभत सदॊ राजन कौन्तेयस्य महात्मनः 15 ऋद्द्या च वरुणं देवं सपर्धमानॊ युधिष्ठिरः षड अग्निनाथ यज्ञेन सॊ ऽयजद दक्षिणावता सर्वाञ जनान सर्वकामैः समृद्धैर समतर्पयत 16 अन्नवान बहुभक्ष्यश च भुक्तवज जनसंवृतः रत्नॊपहार कर्मण्यॊ बभूव स समागमः 17 इडाज्य हॊमाहुतिभिर मन्त्रशिक्षा समन्वितैः तस्मिन हि ततृपुर देवास तते यज्ञे महर्षिभिः 18 यथा देवास तथा विप्रा दक्षिणान्न महाधनैः ततृपुः सर्ववर्णाश च तस्मिन यज्ञे मुदान्विताः |
1
[v] pitā mahaṃ guruṃ caiva pratyudgamya yudhiṣṭhiraḥ abhivādya tato rājann idaṃ vacanam abravīt bhīṣmaṃ droṇaṃ kṛpaṃ drauṇiṃ duryodhana viviṃśatī 2 asmin yajñe bhavanto mām anugṛhṇantu sarvaśaḥ idaṃ vaḥ svam ahaṃ caiva yad ihāsti dhanaṃ mama prīṇayantu bhavanto māṃ yatheṣṭam aniyantritāḥ 3 evam uktvā sa tān sarvān dīkṣitaḥ pāṇḍavāgrajaḥ yuyoja ha yathāyogam adhikāreṣv anantaram 4 bhakṣyabhojyādhikāreṣu duḥśāsanam ayojayat parigrahe brāhmaṇānām aśvatthāmānam uktavān 5 rājñāṃ tu pratipūjārthaṃ saṃjayaṃ saṃnyayojayat kṛtākṛta parijñāne bhīṣmadroṇau mahāmatī 6 hiraṇyasya suvarṇasya ratnānāṃ cānvavekṣaṇe dakṣiṇānāṃ ca vai dāne kṛpaṃ rājā nyayojayat tathānyān puruṣavyāghrāṃs tasmiṃs tasmin nyayojayat 7 bāhliko dhṛtarāṣṭraś ca somadatto jayadrathaḥ nakulena samānītāḥ svāmivat tatra remire 8 kṣattā vyayakaras tv āsīd viduraḥ sarvadharmavit duryodhanas tv arhaṇāni pratijagrāha sarvaśaḥ 9 sarvalokaḥ samāvṛttaḥ piprīṣuḥ phalam uttamam draṣṭukāmaḥ sabhāṃ caiva dharmarājaṃ ca pāṇḍavam 10 na kaś cid āharat tatra sahasrāvaram arhaṇam ratnaiś ca bahubhis tatra dharmarājam avardhayan 11 kathaṃ nu mama kauravyo ratnadānaiḥ samāpnuyāt yajñam ity eva rājānaḥ spardhamānā dadur dhanam 12 bhavanaiḥ savimānāgraiḥ sodarkair balasaṃvṛtaiḥ lokarāja vimānaiś ca brāhmaṇāvasathaiḥ saha 13 kṛtair āvasathair divyair vimānapratimais tathā vicitrai ratnavadbhiś ca ṛddhyā paramayā yutaiḥ 14 rājabhiś ca samāvṛttair atīva śrīsamṛddhibhiḥ aśobhata sado rājan kaunteyasya mahātmanaḥ 15 ṛddyā ca varuṇaṃ devaṃ spardhamāno yudhiṣṭhiraḥ ṣaḍ agninātha yajñena so 'yajad dakṣiṇāvatā sarvāñ janān sarvakāmaiḥ samṛddhair samatarpayat 16 annavān bahubhakṣyaś ca bhuktavaj janasaṃvṛtaḥ ratnopahāra karmaṇyo babhūva sa samāgamaḥ 17 iḍājya homāhutibhir mantraśikṣā samanvitaiḥ tasmin hi tatṛpur devās tate yajñe maharṣibhiḥ 18 yathā devās tathā viprā dakṣiṇānna mahādhanaiḥ tatṛpuḥ sarvavarṇāś ca tasmin yajñe mudānvitāḥ |
The Mahabharata in Sanskrit
Book 2
Chapter 33
|
1
[व] ततॊ ऽभिषेचनीये ऽहनि बराह्मणा राजभिः सह अन्तर वेदीं परविविशुः सत्कारार्थं महर्षयः 2 नारदप्रमुखास तस्याम अन्तर वेद्यां महात्मनः समासीनाः शुशुभिरे सह राजर्षिभिस तदा 3 समेता बरह्मभवने देवा देवर्षयॊ यथा कर्मान्तरम उपासन्तॊ जजल्पुर अमितौजसः 4 इदम एवं न चाप्य एवम एवम एतन न चान्यथा इत्य ऊचुर बहवस तत्र वितण्डानाः परस्परम 5 कृशान अर्थांस तथा के चिद अकृशांस तत्र कुर्वते अकृशांश च कृशांश चक्रुर हेतुभिः शास्त्रनिश्चितैः 6 तत्र मेधाविनः के चिद अर्थम अन्यैः परपूरितम विचिक्षिपुर यथा शयेना नभॊगतम इवामिषम 7 के चिद धर्मार्थसंयुक्ताः कथास तत्र महाव्रताः रेमिरे कथयन्तश च सर्ववेदविदां वराः 8 सा वेदिर वेदसंपन्नैर देवद्विज महर्षिभिः आबभासे समाकीर्णा नक्षत्रैर दयौर इवामला 9 न तस्यां समिधौ शूद्रः कश चिद आसीन न चाव्रतः अन्तर वेद्यां तदा राजन युधिष्ठिर निवेशने 10 तां तु लक्ष्मीवतॊ लक्ष्मीं तदा यज्ञविधानजाम तुतॊष नारदः पश्यन धर्मराजस्य धीमतः 11 अथ चिन्तां समापेदे स मुनिर मनुजाधिप नारदस तं तदा पश्यन सर्वक्षत्रसमागमम 12 सस्मार च पुरावृत्तां कथां तां भरतर्षभ अंशावतरणे यासौ बरह्मणॊ भवने ऽभवत 13 देवानां संगमं तं तु विज्ञाय कुरुनन्दन नारदः पुण्डरीकाक्षं सस्मार मनसा हरिम 14 साक्षात स विबुधारिघ्नः कषत्रे नारायणॊ विभुः परतिज्ञां पालयन धीमाञ जातः परपुरंजयः 15 संदिदेश पुरा यॊ ऽसौ विबुधान भूतकृत सवयम अन्यॊन्यम अभिनिघ्नन्तः पुनर लॊकान अवाप्स्यथ 16 इति नारायणः शम्भुर भगवाञ जगतः परभुः आदिश्य विबुधान सर्वान अजायत यदुक्षये 17 कषिताव अन्धकवृष्णीणां वंशे वंशभृतां वरः परया शुशुभे लक्ष्म्या नक्षत्राणाम इवॊडुराट 18 यस्य बाहुबलं सेन्द्राः सुराः सर्व उपासते सॊ ऽयं मानुषवन नाम हरिर आस्ते ऽरिमर्दनः 19 अहॊ बत महद भूतं सवयम्भूर यद इदं सवयम आदास्यति पुनः कषत्रम एवं बलसमन्वितम 20 इत्य एतां नारदश चिन्तां चिन्तयाम आस धर्मवित हरिं नारायणं जञात्वा यज्ञैर ईड्यं तम ईश्वरम 21 तस्मिन धर्मविदां शरेष्ठॊ धर्मराजस्य धीमतः महाध्वरे महाबुद्धिस तस्थौ स बहुमानतः 22 ततॊ भीष्मॊ ऽबरवीद राजन धर्मराजं युधिष्ठिरम करियताम अर्हणं राज्ञां यथार्हम इति भारत 23 आचार्यम ऋत्विजं चैव संयुक्तं च युधिष्ठिर सनातकं च परियं चाहुः षड अर्घ्यार्हान नृपं तथा 24 एतान अर्हान अभिगतान आहुः संवत्सरॊषितान त इमे कालपूगस्य महतॊ ऽसमान उपागताः 25 एषाम एकैकशॊ राजन्न अर्घ्यम आनीयताम इति अथ चैषां वरिष्ठाय समर्थायॊपनीयताम 26 [य] कस्मै भवान मन्यते ऽरघम एकस्मै कुरुनन्दन उपनीयमानं युक्तं च तन मे बरूहि पितामह 27 [व] ततॊ भीष्मः शांतनवॊ बुद्ध्या निश्चित्य भारत वार्ष्णेयं मन्यते कृष्णम अर्हणीयतमं भुवि 28 एष हय एषां समेतानां तेजॊबलपराक्रमैः मध्ये तपन्न इवाभाति जयॊतिषाम इव भास्करः 29 असूर्यम इव सूर्येण निवातम इव वायुना भासितं हलादितं चैव कृष्णेनेदं सदॊ हि नः 30 तस्मै भीष्माभ्यनुज्ञातः सहदेवः परतापवान उपजह्रे ऽथ विधिवद वार्ष्णेयायार्घ्यम उत्तमम 31 परतिजग्राह तत कृष्णः शास्र दृष्टेन कर्मणा शिशुपालस तु तां पूजां वासुदेवे न चक्षमे 32 स उपालभ्य भीमं च धर्मराजं च संसदि अपाक्षिपद वासुदेवं चेदिराजॊ महाबलः |
1
[v] tato 'bhiṣecanīye 'hni brāhmaṇā rājabhiḥ saha antar vedīṃ praviviśuḥ satkārārthaṃ maharṣayaḥ 2 nāradapramukhās tasyām antar vedyāṃ mahātmanaḥ samāsīnāḥ śuśubhire saha rājarṣibhis tadā 3 sametā brahmabhavane devā devarṣayo yathā karmāntaram upāsanto jajalpur amitaujasaḥ 4 idam evaṃ na cāpy evam evam etan na cānyathā ity ūcur bahavas tatra vitaṇḍānāḥ parasparam 5 kṛśān arthāṃs tathā ke cid akṛśāṃs tatra kurvate akṛśāṃś ca kṛśāṃś cakrur hetubhiḥ śāstraniścitaiḥ 6 tatra medhāvinaḥ ke cid artham anyaiḥ prapūritam vicikṣipur yathā śyenā nabhogatam ivāmiṣam 7 ke cid dharmārthasaṃyuktāḥ kathās tatra mahāvratāḥ remire kathayantaś ca sarvavedavidāṃ varāḥ 8 sā vedir vedasaṃpannair devadvija maharṣibhiḥ ābabhāse samākīrṇā nakṣatrair dyaur ivāmalā 9 na tasyāṃ samidhau śūdraḥ kaś cid āsīn na cāvrataḥ antar vedyāṃ tadā rājan yudhiṣṭhira niveśane 10 tāṃ tu lakṣmīvato lakṣmīṃ tadā yajñavidhānajām tutoṣa nāradaḥ paśyan dharmarājasya dhīmataḥ 11 atha cintāṃ samāpede sa munir manujādhipa nāradas taṃ tadā paśyan sarvakṣatrasamāgamam 12 sasmāra ca purāvṛttāṃ kathāṃ tāṃ bharatarṣabha aṃśāvataraṇe yāsau brahmaṇo bhavane 'bhavat 13 devānāṃ saṃgamaṃ taṃ tu vijñāya kurunandana nāradaḥ puṇḍarīkākṣaṃ sasmāra manasā harim 14 sākṣāt sa vibudhārighnaḥ kṣatre nārāyaṇo vibhuḥ pratijñāṃ pālayan dhīmāñ jātaḥ parapuraṃjayaḥ 15 saṃdideśa purā yo 'sau vibudhān bhūtakṛt svayam anyonyam abhinighnantaḥ punar lokān avāpsyatha 16 iti nārāyaṇaḥ śambhur bhagavāñ jagataḥ prabhuḥ ādiśya vibudhān sarvān ajāyata yadukṣaye 17 kṣitāv andhakavṛṣṇīṇāṃ vaṃśe vaṃśabhṛtāṃ varaḥ parayā śuśubhe lakṣmyā nakṣatrāṇām ivoḍurāṭ 18 yasya bāhubalaṃ sendrāḥ surāḥ sarva upāsate so 'yaṃ mānuṣavan nāma harir āste 'rimardanaḥ 19 aho bata mahad bhūtaṃ svayambhūr yad idaṃ svayam ādāsyati punaḥ kṣatram evaṃ balasamanvitam 20 ity etāṃ nāradaś cintāṃ cintayām āsa dharmavit hariṃ nārāyaṇaṃ jñātvā yajñair īḍyaṃ tam īśvaram 21 tasmin dharmavidāṃ śreṣṭho dharmarājasya dhīmataḥ mahādhvare mahābuddhis tasthau sa bahumānataḥ 22 tato bhīṣmo 'bravīd rājan dharmarājaṃ yudhiṣṭhiram kriyatām arhaṇaṃ rājñāṃ yathārham iti bhārata 23 ācāryam ṛtvijaṃ caiva saṃyuktaṃ ca yudhiṣṭhira snātakaṃ ca priyaṃ cāhuḥ ṣaḍ arghyārhān nṛpaṃ tathā 24 etān arhān abhigatān āhuḥ saṃvatsaroṣitān ta ime kālapūgasya mahato 'smān upāgatāḥ 25 eṣām ekaikaśo rājann arghyam ānīyatām iti atha caiṣāṃ variṣṭhāya samarthāyopanīyatām 26 [y] kasmai bhavān manyate 'rgham ekasmai kurunandana upanīyamānaṃ yuktaṃ ca tan me brūhi pitāmaha 27 [v] tato bhīṣmaḥ śāṃtanavo buddhyā niścitya bhārata vārṣṇeyaṃ manyate kṛṣṇam arhaṇīyatamaṃ bhuvi 28 eṣa hy eṣāṃ sametānāṃ tejobalaparākramaiḥ madhye tapann ivābhāti jyotiṣām iva bhāskaraḥ 29 asūryam iva sūryeṇa nivātam iva vāyunā bhāsitaṃ hlāditaṃ caiva kṛṣṇenedaṃ sado hi naḥ 30 tasmai bhīṣmābhyanujñātaḥ sahadevaḥ pratāpavān upajahre 'tha vidhivad vārṣṇeyāyārghyam uttamam 31 pratijagrāha tat kṛṣṇaḥ śāsra dṛṣṭena karmaṇā śiśupālas tu tāṃ pūjāṃ vāsudeve na cakṣame 32 sa upālabhya bhīmaṃ ca dharmarājaṃ ca saṃsadi apākṣipad vāsudevaṃ cedirājo mahābalaḥ |
The Mahabharata in Sanskrit
Book 2
Chapter 34
|
1
[ष] नायम अर्हति वार्ष्णेयस तिष्ठत्स्व इह महात्मसु महीपतिषु कौरव्य राजवत पार्थिवार्हणम 2 नायं युक्तः समाचारः पाण्डवेषु महात्मसु यत कामात पुण्डरीकाक्षं पाण्डवार्चितवान असि 3 बाला यूयं न जानीध्वं धर्मः सूक्ष्मॊ हि पाण्डवाः अयं तत्राभ्यतिक्रान्त आपगेयॊ ऽलपदर्शनः 4 तवादृशॊ धर्मयुक्तॊ हि कुर्वाणः परियकाम्यया भवत्य अभ्यधिकं भीष्मॊ लॊकेष्व अवमतः सताम 5 कथं हय अराजा दाशार्हॊ मध्ये सर्वमहीक्षिताम अर्हणाम अर्हति तथा यथा युष्माभिर अर्चितः 6 अथ वा मन्यसे कृष्णं सथविरं भरतर्षभ वसुदेवे सथिते वृद्धे कथम अर्हति तत सुतः 7 अथ वा वासुदेवॊ ऽपि परियकामॊ ऽनुवृत्तवान दरुपदे तिष्ठति कथं माधवॊ ऽरहति पूजनम 8 आचार्यं मन्यसे कृष्णम अथ वा कुरुपुंगव दरॊणे तिष्ठति वार्ष्णेयं कस्माद अर्चितवान असि 9 ऋत्विजं मन्यसे कृष्णम अथ वा कुरुनन्दन दवैपायने सथिते विप्रे कथं कृष्णॊ ऽरचितस तवया 10 नैव ऋत्विन न चाचार्यॊ न राजा मधुसूदनः अर्चितश च कुरुश्रेष्ठ किम अन्यत परियकाम्यया 11 अथ वाप्य अर्चनीयॊ ऽयं युष्माकं मधुसूदनः किं राजभिर इहानीतैर अवमानाय भारत 12 वयं तु न भयाद अस्य कौन्तेयस्य महात्मनः परयच्छामः करान सर्वे न लॊभान न च सान्त्वनात 13 अस्य धर्मप्रवृत्तस्य पार्थिव तवं चिकीर्षतः करान अस्मै परयच्छामः सॊ ऽयम अस्मान न मन्यते 14 किम अन्यद अवमानाद धि यद इमं राजसंसदि अप्राप्तलक्षणं कृष्णम अर्घ्येणार्चितवान असि 15 अकस्माद धर्मपुत्रस्य धर्मात्मेति यशॊ गतम कॊ हि धर्मच्युते पूजाम एवं युक्तां परयॊजयेत यॊ ऽयं वृष्णिकुले जातॊ राजानं हतवान पुरा 16 अद्य धर्मात्मता चैव वयपकृष्टा युधिष्ठिरात कृपणत्वं निविष्टं च कृष्णे ऽरघ्यस्य निवेदनात 17 यदि भीताश च कौन्तेयाः कृपणाश च तपस्विनः ननु तवयापि बॊद्धव्यं यां पूजां माधवॊ ऽरहति 18 अथ वा कृपणैर एताम उपनीतां जनार्दन पूजाम अनर्हः कस्मात तवम अभ्यनुज्ञातवान असि 19 अयुक्ताम आत्मनः पूजां तवं पुनर बहु मन्यसे हविषः पराप्य निष्यन्दं पराशितुं शवेव निर्जने 20 न तव अयं पार्थिवेन्द्राणाम अवमानः परयुज्यते तवाम एव कुरवॊ वयक्तं परलम्भन्ते जनार्दन 21 कलीबे दारक्रिया यादृग अन्धे वा रूपदर्शनम अराज्ञॊ राजवत पूजा तथा ते मधुसूदन 22 दृष्टॊ युधिष्ठिरॊ राजा दृष्टॊ भीष्मश च यादृशः वासुदेवॊ ऽपय अयं दृष्टः सर्वम एतद यथातथम 23 इत्य उक्त्वा शिशुपालस तान उत्थाय परमासनात निर्ययौ सदसस तस्मात सहितॊ राजभिस तदा |
1
[ṣ] nāyam arhati vārṣṇeyas tiṣṭhatsv iha mahātmasu mahīpatiṣu kauravya rājavat pārthivārhaṇam 2 nāyaṃ yuktaḥ samācāraḥ pāṇḍaveṣu mahātmasu yat kāmāt puṇḍarīkākṣaṃ pāṇḍavārcitavān asi 3 bālā yūyaṃ na jānīdhvaṃ dharmaḥ sūkṣmo hi pāṇḍavāḥ ayaṃ tatrābhyatikrānta āpageyo 'lpadarśanaḥ 4 tvādṛśo dharmayukto hi kurvāṇaḥ priyakāmyayā bhavaty abhyadhikaṃ bhīṣmo lokeṣv avamataḥ satām 5 kathaṃ hy arājā dāśārho madhye sarvamahīkṣitām arhaṇām arhati tathā yathā yuṣmābhir arcitaḥ 6 atha vā manyase kṛṣṇaṃ sthaviraṃ bharatarṣabha vasudeve sthite vṛddhe katham arhati tat sutaḥ 7 atha vā vāsudevo 'pi priyakāmo 'nuvṛttavān drupade tiṣṭhati kathaṃ mādhavo 'rhati pūjanam 8 ācāryaṃ manyase kṛṣṇam atha vā kurupuṃgava droṇe tiṣṭhati vārṣṇeyaṃ kasmād arcitavān asi 9 ṛtvijaṃ manyase kṛṣṇam atha vā kurunandana dvaipāyane sthite vipre kathaṃ kṛṣṇo 'rcitas tvayā 10 naiva ṛtvin na cācāryo na rājā madhusūdanaḥ arcitaś ca kuruśreṣṭha kim anyat priyakāmyayā 11 atha vāpy arcanīyo 'yaṃ yuṣmākaṃ madhusūdanaḥ kiṃ rājabhir ihānītair avamānāya bhārata 12 vayaṃ tu na bhayād asya kaunteyasya mahātmanaḥ prayacchāmaḥ karān sarve na lobhān na ca sāntvanāt 13 asya dharmapravṛttasya pārthiva tvaṃ cikīrṣataḥ karān asmai prayacchāmaḥ so 'yam asmān na manyate 14 kim anyad avamānād dhi yad imaṃ rājasaṃsadi aprāptalakṣaṇaṃ kṛṣṇam arghyeṇārcitavān asi 15 akasmād dharmaputrasya dharmātmeti yaśo gatam ko hi dharmacyute pūjām evaṃ yuktāṃ prayojayet yo 'yaṃ vṛṣṇikule jāto rājānaṃ hatavān purā 16 adya dharmātmatā caiva vyapakṛṣṭā yudhiṣṭhirāt kṛpaṇatvaṃ niviṣṭaṃ ca kṛṣṇe 'rghyasya nivedanāt 17 yadi bhītāś ca kaunteyāḥ kṛpaṇāś ca tapasvinaḥ nanu tvayāpi boddhavyaṃ yāṃ pūjāṃ mādhavo 'rhati 18 atha vā kṛpaṇair etām upanītāṃ janārdana pūjām anarhaḥ kasmāt tvam abhyanujñātavān asi 19 ayuktām ātmanaḥ pūjāṃ tvaṃ punar bahu manyase haviṣaḥ prāpya niṣyandaṃ prāśituṃ śveva nirjane 20 na tv ayaṃ pārthivendrāṇām avamānaḥ prayujyate tvām eva kuravo vyaktaṃ pralambhante janārdana 21 klībe dārakriyā yādṛg andhe vā rūpadarśanam arājño rājavat pūjā tathā te madhusūdana 22 dṛṣṭo yudhiṣṭhiro rājā dṛṣṭo bhīṣmaś ca yādṛśaḥ vāsudevo 'py ayaṃ dṛṣṭaḥ sarvam etad yathātatham 23 ity uktvā śiśupālas tān utthāya paramāsanāt niryayau sadasas tasmāt sahito rājabhis tadā |
The Mahabharata in Sanskrit
Book 2
Chapter 35
|
1
[व] ततॊ युधिष्ठिरॊ राजा शिशुपालम उपाद्रवत उवाच चैनं मधुरं सान्त्वपूर्वम इदं वचः 2 नेदं युक्तं महीपाल यादृशं वै तवम उक्तवान अधर्मश च परॊ राजन पारुष्यं च निरर्थकम 3 न हि धर्मं परं जातु नावबुध्येत पार्थिव भीष्मः शांतनवस तव एनं मावमंस्था अतॊ ऽनयथा 4 पश्य चेमान महीपालांस तवत्तॊ वृद्धतमान बहून मृष्यन्ते चार्हणां कृष्णे तद्वत तवं कषन्तुम अर्हसि 5 वेद तत्त्वेन कृष्णं हि भीष्मश चेदिपते भृशम न हय एनं तवं तथा वेत्थ यथैनं वेद कौरवः 6 [भस] नास्मा अनुनयॊ देयॊ नायम अर्हति सान्त्वनम लॊकवृद्धतमे कृष्णे यॊ ऽरहणां नानुमन्यते 7 कषत्रियः कषत्रियं जित्वा रणे रणकृतां वरः यॊ मुञ्चति वशे कृत्वा गुरुर भवति तस्य सः 8 अस्यां च समितौ राज्ञाम एकम अप्य अजितं युधि न पश्यामि महीपालं सात्वती पुत्र तेजसा 9 न हि केवलम अस्माकम अयम अर्च्यतमॊ ऽचयुतः तरयाणाम अपि लॊकानाम अर्चनीयॊ जनार्दनः 10 कृष्णेन हि जिता युद्धे बहवः कषत्रियर्षभाः जगत सर्वं च वार्ष्णेये निखिलेन परतिष्ठितम 11 तस्मात सत्स्व अपि वृद्धेषु कृष्णम अर्चाम नेतरान एवं वक्तुं न चार्हस तवं मा भूत ते बुद्धिर ईदृशी 12 जञानवृद्धा मया राजन बहवः पर्युपासिताः तेषां कथयतां शौरेर अहं गुणवतॊ गुणान समागतानाम अश्रौषं बहून बहुमतान सताम 13 कर्माण्य अपि च यान्य अस्य जन्मप्रभृति धीमतः बहुशः कथ्यमानानि नरैर भूयॊ शरुतानि मे 14 न केवलं वयं कामाच चेदिराजजनार्दनम न संबन्धं पुरस्कृत्य कृतार्थं वा कथं चन 15 अर्चामहे ऽरचितं सद्भिर भुवि भौम सुखावहम यशॊ शौचं जयं चास्य विज्ञायार्चां परयुज्महे 16 न हि कश चिद इहास्माभिः सुबालॊ ऽपय अपरीक्षितः गुणैर वृद्धान अतिक्रम्य हरिर अर्च्यतमॊ मतः 17 जञानवृद्धॊ दविजातीनां कषत्रियाणां बलाधिकः पूज्ये ताव इह गॊविन्दे हेतू दवाव अपि संस्थितौ 18 वेदवेदाङ्गविज्ञानं बलं चाप्य अमितं तथा नृणां हि लॊके कस्यास्ति विशिष्टं केशवाद ऋते 19 दानं दाक्ष्यं शरुतं शौर्यं हरीः कीर्तिर बुद्धिर उत्तमा संनतिः शरीर धृतिस तुष्टिः पुष्टिश च नियताच्युते 20 तम इमं सर्वसंपन्नम आचार्यं पितरं गुरुम अर्च्यम अर्चितम अर्चार्हं सर्वे संमन्तुम अर्थथ 21 ऋत्विग गुरुर विवाह्यश च सनातकॊ नृपतिः परियः सर्वम एतद धृषी केशे तस्माद अभ्यर्चितॊ ऽचयुतः 22 कृष्ण एव हि लॊकानाम उत्पत्तिर अपि चाप्ययः कृष्णस्य हि कृते भूतम इदं विश्वं समर्पितम 23 एष परकृतिर अव्यक्ता कर्ता चैव सनातनः परश च सर्वभूतेभ्यस तस्माद वृद्धतमॊ ऽचयुतः 24 बुद्धिर मनॊ महान वायुस तेजॊ ऽमभः खं मही च या चतुर्विधं च यद भूतं सर्वं कृष्णे परतिष्ठितम 25 आदित्यश चन्द्रमाश चैव नक्षत्राणि गरहाश च ये दिशश चॊपदिशश चैव सर्वं कृष्णे परतिष्ठितम 26 अयं तु पुरुषॊ बालः शिशुपालॊ न बुध्यते सर्वत्र सर्वदा कृष्णं तस्माद एवं परभाषते 27 यॊ हि धर्मं विचिनुयाद उत्कृष्टं मतिमान नरः स वै पश्येद यथा धर्मं न तथा चेदिराड अयम 28 स वृद्धबालेष्व अथ वा पार्थिवेषु महात्मसु कॊ नार्हं मन्यते कृष्णं कॊ वाप्य एनं न पूजयेत 29 अथेमां दुष्कृतां पूजां शिशुपालॊ वयवस्यति दुष्कृतायां यथान्यायं तथायं कर्तुम अर्हति |
1
[v] tato yudhiṣṭhiro rājā śiśupālam upādravat uvāca cainaṃ madhuraṃ sāntvapūrvam idaṃ vacaḥ 2 nedaṃ yuktaṃ mahīpāla yādṛśaṃ vai tvam uktavān adharmaś ca paro rājan pāruṣyaṃ ca nirarthakam 3 na hi dharmaṃ paraṃ jātu nāvabudhyeta pārthiva bhīṣmaḥ śāṃtanavas tv enaṃ māvamaṃsthā ato 'nyathā 4 paśya cemān mahīpālāṃs tvatto vṛddhatamān bahūn mṛṣyante cārhaṇāṃ kṛṣṇe tadvat tvaṃ kṣantum arhasi 5 veda tattvena kṛṣṇaṃ hi bhīṣmaś cedipate bhṛśam na hy enaṃ tvaṃ tathā vettha yathainaṃ veda kauravaḥ 6 [bhs] nāsmā anunayo deyo nāyam arhati sāntvanam lokavṛddhatame kṛṣṇe yo 'rhaṇāṃ nānumanyate 7 kṣatriyaḥ kṣatriyaṃ jitvā raṇe raṇakṛtāṃ varaḥ yo muñcati vaśe kṛtvā gurur bhavati tasya saḥ 8 asyāṃ ca samitau rājñām ekam apy ajitaṃ yudhi na paśyāmi mahīpālaṃ sātvatī putra tejasā 9 na hi kevalam asmākam ayam arcyatamo 'cyutaḥ trayāṇām api lokānām arcanīyo janārdanaḥ 10 kṛṣṇena hi jitā yuddhe bahavaḥ kṣatriyarṣabhāḥ jagat sarvaṃ ca vārṣṇeye nikhilena pratiṣṭhitam 11 tasmāt satsv api vṛddheṣu kṛṣṇam arcāma netarān evaṃ vaktuṃ na cārhas tvaṃ mā bhūt te buddhir īdṛśī 12 jñānavṛddhā mayā rājan bahavaḥ paryupāsitāḥ teṣāṃ kathayatāṃ śaurer ahaṃ guṇavato guṇān samāgatānām aśrauṣaṃ bahūn bahumatān satām 13 karmāṇy api ca yāny asya janmaprabhṛti dhīmataḥ bahuśaḥ kathyamānāni narair bhūyo śrutāni me 14 na kevalaṃ vayaṃ kāmāc cedirājajanārdanam na saṃbandhaṃ puraskṛtya kṛtārthaṃ vā kathaṃ cana 15 arcāmahe 'rcitaṃ sadbhir bhuvi bhauma sukhāvaham yaśo śaucaṃ jayaṃ cāsya vijñāyārcāṃ prayujmahe 16 na hi kaś cid ihāsmābhiḥ subālo 'py aparīkṣitaḥ guṇair vṛddhān atikramya harir arcyatamo mataḥ 17 jñānavṛddho dvijātīnāṃ kṣatriyāṇāṃ balādhikaḥ pūjye tāv iha govinde hetū dvāv api saṃsthitau 18 vedavedāṅgavijñānaṃ balaṃ cāpy amitaṃ tathā nṛṇāṃ hi loke kasyāsti viśiṣṭaṃ keśavād ṛte 19 dānaṃ dākṣyaṃ śrutaṃ śauryaṃ hrīḥ kīrtir buddhir uttamā saṃnatiḥ śrīr dhṛtis tuṣṭiḥ puṣṭiś ca niyatācyute 20 tam imaṃ sarvasaṃpannam ācāryaṃ pitaraṃ gurum arcyam arcitam arcārhaṃ sarve saṃmantum arthatha 21 ṛtvig gurur vivāhyaś ca snātako nṛpatiḥ priyaḥ sarvam etad dhṛṣī keśe tasmād abhyarcito 'cyutaḥ 22 kṛṣṇa eva hi lokānām utpattir api cāpyayaḥ kṛṣṇasya hi kṛte bhūtam idaṃ viśvaṃ samarpitam 23 eṣa prakṛtir avyaktā kartā caiva sanātanaḥ paraś ca sarvabhūtebhyas tasmād vṛddhatamo 'cyutaḥ 24 buddhir mano mahān vāyus tejo 'mbhaḥ khaṃ mahī ca yā caturvidhaṃ ca yad bhūtaṃ sarvaṃ kṛṣṇe pratiṣṭhitam 25 ādityaś candramāś caiva nakṣatrāṇi grahāś ca ye diśaś copadiśaś caiva sarvaṃ kṛṣṇe pratiṣṭhitam 26 ayaṃ tu puruṣo bālaḥ śiśupālo na budhyate sarvatra sarvadā kṛṣṇaṃ tasmād evaṃ prabhāṣate 27 yo hi dharmaṃ vicinuyād utkṛṣṭaṃ matimān naraḥ sa vai paśyed yathā dharmaṃ na tathā cedirāḍ ayam 28 sa vṛddhabāleṣv atha vā pārthiveṣu mahātmasu ko nārhaṃ manyate kṛṣṇaṃ ko vāpy enaṃ na pūjayet 29 athemāṃ duṣkṛtāṃ pūjāṃ śiśupālo vyavasyati duṣkṛtāyāṃ yathānyāyaṃ tathāyaṃ kartum arhati |
The Mahabharata in Sanskrit
Book 2
Chapter 36
|
1
[व] एवम उक्त्वा ततॊ भीष्मॊ विरराम महायशाः वयाजहारॊत्तरं तत्र सहदेवॊ ऽरथवद वचः 2 केशवं केशि हन्तारम अप्रमेयपराक्रमम पूज्यमानं मया यॊ वः कृष्णं न सहते नृपाः 3 सर्वेषां बलिनां मूर्ध्नि मयेदं निहितं पदम एवम उक्ते मया सम्यग उत्तरं परब्रवीतु सः 4 मतिमन्तस तु ये के चिद आचार्यं पितरं गुरुम अर्च्यम अर्चितम अर्चार्हम अनुजानन्तु ते नृपाः 5 ततॊ न वयाजहारैषां कश चिद बुद्धिमतां सताम मानिनां बलिनां राज्ञां मध्ये संदर्शिते पदे 6 ततॊ ऽपतत पुष्पवृष्टिः सहदेवस्य मूर्धनि अदृश्य रूपा वाचश चाप्य अब्रुवन साधु साध्व इति 7 आविध्यद अजिनं कृष्णं भविष्यद भूतजल्पकः सर्वसंशय निर्मॊक्ता नारदः सर्वलॊकवित 8 तत्राहूतागताः सर्वे सुनीथ परमुखा गणाः संप्रादृश्यन्त संक्रुद्धा विवर्णवदनास तथा 9 युधिष्ठिराभिषेकं च वासुदेवस्य चार्हणम अब्रुवंस तत्र राजानॊ निर्वेदाद आत्मनिश्चयात 10 सुहृद्भिर वार्यमाणानां तेषां हि वपुर आबभौ आमिषाद अपकृष्टानां सिंहानाम इव गर्जताम 11 तं बलौघम अपर्यन्तं राजसागरम अक्षयम कुर्वाणं समयं कृष्णॊ युद्धाय बुबुधे तदा 12 पूजयित्वा तु पूजार्हं बरह्मक्षत्रं विशेषतः सहदेवॊ नृणां देवः समापयत कर्म तत 13 तस्मिन्न अभ्यर्चिते कृष्णे सुनीथः शत्रुकर्षणः अतिताम्रेक्षणः कॊपाद उवाच मनुजाधिपान 14 सथितः सेनापतिर वॊ ऽहं मन्यध्वं किं नु सांप्रतम युधि तिष्ठाम संनह्य समेतान वृष्णिपाण्डवान 15 इति सर्वान समुत्साह्य राज्ञस तांश चेदिपुंगवः यज्ञॊपघाताय ततः सॊ ऽमन्त्रयत राजभिः |
1
[v] evam uktvā tato bhīṣmo virarāma mahāyaśāḥ vyājahārottaraṃ tatra sahadevo 'rthavad vacaḥ 2 keśavaṃ keśi hantāram aprameyaparākramam pūjyamānaṃ mayā yo vaḥ kṛṣṇaṃ na sahate nṛpāḥ 3 sarveṣāṃ balināṃ mūrdhni mayedaṃ nihitaṃ padam evam ukte mayā samyag uttaraṃ prabravītu saḥ 4 matimantas tu ye ke cid ācāryaṃ pitaraṃ gurum arcyam arcitam arcārham anujānantu te nṛpāḥ 5 tato na vyājahāraiṣāṃ kaś cid buddhimatāṃ satām mānināṃ balināṃ rājñāṃ madhye saṃdarśite pade 6 tato 'patat puṣpavṛṣṭiḥ sahadevasya mūrdhani adṛśya rūpā vācaś cāpy abruvan sādhu sādhv iti 7 āvidhyad ajinaṃ kṛṣṇaṃ bhaviṣyad bhūtajalpakaḥ sarvasaṃśaya nirmoktā nāradaḥ sarvalokavit 8 tatrāhūtāgatāḥ sarve sunītha pramukhā gaṇāḥ saṃprādṛśyanta saṃkruddhā vivarṇavadanās tathā 9 yudhiṣṭhirābhiṣekaṃ ca vāsudevasya cārhaṇam abruvaṃs tatra rājāno nirvedād ātmaniścayāt 10 suhṛdbhir vāryamāṇānāṃ teṣāṃ hi vapur ābabhau āmiṣād apakṛṣṭānāṃ siṃhānām iva garjatām 11 taṃ balaugham aparyantaṃ rājasāgaram akṣayam kurvāṇaṃ samayaṃ kṛṣṇo yuddhāya bubudhe tadā 12 pūjayitvā tu pūjārhaṃ brahmakṣatraṃ viśeṣataḥ sahadevo nṛṇāṃ devaḥ samāpayata karma tat 13 tasminn abhyarcite kṛṣṇe sunīthaḥ śatrukarṣaṇaḥ atitāmrekṣaṇaḥ kopād uvāca manujādhipān 14 sthitaḥ senāpatir vo 'haṃ manyadhvaṃ kiṃ nu sāṃpratam yudhi tiṣṭhāma saṃnahya sametān vṛṣṇipāṇḍavān 15 iti sarvān samutsāhya rājñas tāṃś cedipuṃgavaḥ yajñopaghātāya tataḥ so 'mantrayata rājabhiḥ |
The Mahabharata in Sanskrit
Book 2
Chapter 37
|
1
[व] ततः सागरसंकाशं दृष्ट्वा नृपतिसागरम रॊषात परचलितं सर्वम इदम आह युधिष्ठिरः 2 भीष्मं मतिमतां शरेष्ठं वृद्धं कुरु पिता महम बृहस्पतिं बृहत तेजाः पुरुहूता इवारिहा 3 असौ रॊषात परचलितॊ महान नृपतिसागरः अत्र यत परतिपत्तव्यं तन मे बरूहि पितामह 4 यज्ञस्य च न विघ्नः सयात परजानां च शिवं भवेत यथा सर्वत्र तत सर्वं बरूहि मे ऽदय पितामह 5 इत्य उक्तवति धर्मज्ञे धर्मराजे युधिष्ठिरे उवाचेदं वचॊ भीष्मस ततः कुरु पिता महः 6 मा भैस तवं कुरुशार्दूल शवा सिंहं हन्तुम अर्हति शिवः पन्थाः सुनीतॊ ऽतर मया पूर्वतरं वृतः 7 परसुप्ते हि यथा सिंहे शवानस तत्र समागताः भषेयुः सहिताः सर्वे तथेमे वसुधाधिपाः 8 वृष्णिसिंहस्य सुप्तस्य तथेमे परमुखे सथिताः भषन्ते तात संक्रुद्धाः शवानः सिंहस्य संनिधौ 9 न हि संबुध्यते तावत सुप्तः सिंह इवाच्युतः तेन सिंही करॊत्य एतान नृसिंहश चेदिपुंगवः 10 पार्थिवान पार्थिवश्रेष्ठ शिशुपालॊ ऽलपचेतनः सर्वान सर्वात्मना तात नेतु कामॊ यमक्षयम 11 नूनम एतत समादातुं पुनर इच्छत्य अधॊ ऽकषजः यद अस्य शिशुपालस्थं तेजस तिष्ठति भारत 12 विप्लुता चास्य भद्रं ते बुद्धिर बुद्धिमतां वर चेदिराजस्य कौन्तेय सर्वेषां च महीक्षिताम 13 आदातुं हि नरव्याघ्रॊ यं यम इच्छत्य अयं यदा तस्य विप्लवते बुद्धिर एवं चेदिपतेर यथा 14 चतुर्विधानां भूतानां तरिषु लॊकेषु माधवः परभवश चैव सर्वेषां निधनं च युधिष्ठिर 15 इति तस्य वचॊ शरुत्वा ततश चेदिपतिर नृपः भीष्मं रूक्षाक्षरा वाचः शरावयाम आस भारत |
1
[v] tataḥ sāgarasaṃkāśaṃ dṛṣṭvā nṛpatisāgaram roṣāt pracalitaṃ sarvam idam āha yudhiṣṭhiraḥ 2 bhīṣmaṃ matimatāṃ śreṣṭhaṃ vṛddhaṃ kuru pitā maham bṛhaspatiṃ bṛhat tejāḥ puruhūtā ivārihā 3 asau roṣāt pracalito mahān nṛpatisāgaraḥ atra yat pratipattavyaṃ tan me brūhi pitāmaha 4 yajñasya ca na vighnaḥ syāt prajānāṃ ca śivaṃ bhavet yathā sarvatra tat sarvaṃ brūhi me 'dya pitāmaha 5 ity uktavati dharmajñe dharmarāje yudhiṣṭhire uvācedaṃ vaco bhīṣmas tataḥ kuru pitā mahaḥ 6 mā bhais tvaṃ kuruśārdūla śvā siṃhaṃ hantum arhati śivaḥ panthāḥ sunīto 'tra mayā pūrvataraṃ vṛtaḥ 7 prasupte hi yathā siṃhe śvānas tatra samāgatāḥ bhaṣeyuḥ sahitāḥ sarve tatheme vasudhādhipāḥ 8 vṛṣṇisiṃhasya suptasya tatheme pramukhe sthitāḥ bhaṣante tāta saṃkruddhāḥ śvānaḥ siṃhasya saṃnidhau 9 na hi saṃbudhyate tāvat suptaḥ siṃha ivācyutaḥ tena siṃhī karoty etān nṛsiṃhaś cedipuṃgavaḥ 10 pārthivān pārthivaśreṣṭha śiśupālo 'lpacetanaḥ sarvān sarvātmanā tāta netu kāmo yamakṣayam 11 nūnam etat samādātuṃ punar icchaty adho 'kṣajaḥ yad asya śiśupālasthaṃ tejas tiṣṭhati bhārata 12 viplutā cāsya bhadraṃ te buddhir buddhimatāṃ vara cedirājasya kaunteya sarveṣāṃ ca mahīkṣitām 13 ādātuṃ hi naravyāghro yaṃ yam icchaty ayaṃ yadā tasya viplavate buddhir evaṃ cedipater yathā 14 caturvidhānāṃ bhūtānāṃ triṣu lokeṣu mādhavaḥ prabhavaś caiva sarveṣāṃ nidhanaṃ ca yudhiṣṭhira 15 iti tasya vaco śrutvā tataś cedipatir nṛpaḥ bhīṣmaṃ rūkṣākṣarā vācaḥ śrāvayām āsa bhārata |
The Mahabharata in Sanskrit
Book 2
Chapter 38
|
1
शिशुपाल उवाच विभीषिकाभिर बह्वीभिर भीषयन सर्वपार्थिवान न वयपत्रपसे कस्माद वृद्धः सन कुलपांसनः 2 युक्तम एतत तृतीयायां परकृतौ वर्तता तवया वक्तुं धर्माद अपेतार्थं तवं हि सर्वकुरूत्तमः 3 नावि नौर इव संबद्धा यथान्धॊ वान्धम अन्वियात तथाभूता हि कौरव्या भीष्म येषां तवम अग्रणीः 4 पूतनाघातपूर्वाणि कर्माण्य अस्य विशेषतः तवया कीर्तयतास्माकं भूयः परच्यावितं मनः 5 अवलिप्तस्य मूर्खस्य केशवं सतॊतुम इच्छतः कथं भीष्म न ते जिह्वा शतधेयं विदीर्यते 6 यत्र कुत्सा परयॊक्तव्या भीष्म बालतरैर नरैः तम इमं जञानवृद्धः सन गॊपं संस्तॊतुम इच्छसि 7 यद्य अनेन हता बाल्ये शकुनिश चित्रम अत्र किम तौ वाश्ववृषभौ भीष्म यौ न युद्धविशारदौ 8 चेतनारहितं काष्ठं यद्य अनेन निपातितम पादेन शकटं भीष्म तत्र किं कृतम अद्भुतम 9 वल्मीकमात्रः सप्ताहं यद्य अनेन धृतॊ ऽचलः तदा गॊवर्धनॊ भीष्म न तच चित्रं मतं मम 10 भुक्तम एतेन बह्व अन्नं करीडता नगमूर्धनि इति ते भीष्म शृण्वानाः परं विस्मयम आगताः 11 यस्य चानेन धर्मज्ञ भुक्तम अन्नं बलीयसः स चानेन हतः कंस इत्य एतन न महाद्भुतम 12 न ते शरुतम इदं भीष्म नूनं कथयतां सताम यद वक्ष्ये तवाम अधर्मज्ञ वाक्यं कुरुकुलाधम 13 सत्रीषु गॊषु न शस्त्राणि पातयेद बराह्मणेषु च यस्य चान्नानि भुञ्जीत यश च सयाच छरणागतः 14 इति सन्तॊ ऽनुशासन्ति सज्जना धर्मिणः सदा भीष्म लॊके हि तत सर्वं वितथं तवयि दृश्यते 15 जञानवृद्धं च वृद्धं च भूयांसं केशवं मम अजानत इवाख्यासि संस्तुवन कुरुसत्तम गॊघ्नः सत्रीघ्नश च सन भीष्म कथं संस्तवम अर्हति 16 असौ मतिमतां शरेष्ठॊ य एष जगतः परभुः संभावयति यद्य एवं तवद्वाक्याच च जनार्दनः एवम एतत सर्वम इति सर्वं तद वितथं धरुवम 17 न गाथा गाथिनं शास्ति बहु चेद अपि गायति परकृतिं यान्ति भूतानि भूलिङ्गशकुनिर यथा 18 नूनं परकृतिर एषा ते जघन्या नात्र संशयः अतः पापीयसी चैषां पाण्डवानाम अपीष्यते 19 येषाम अर्च्यतमः कृष्णस तवं च येषां परदर्शकः धर्मवाक तवम अधर्मज्ञः सतां मार्गाद अवप्लुतः 20 कॊ हि धर्मिणम आत्मानं जानञ जञानवतां वरः कुर्याद यथा तवया भीष्म कृतं धर्मम अवेक्षता 21 अन्यकामा हि धर्मज्ञ कन्यका पराज्ञमानिना अम्बा नामेति भद्रं ते कथं सापहृता तवया 22 यां तवयापहृतां भीष्म कन्यां नैषितवान नृपः भराता विचित्रवीर्यस ते सतां वृत्तम अनुष्ठितः 23 दारयॊर यस्य चान्येन मिषतः पराज्ञमानिनः तव जातान्य अपत्यानि सज्जनाचरिते पथि 24 न हि धर्मॊ ऽसति ते भीष्म बरह्मचर्यम इदं वृथा यद धारयसि मॊहाद वा कलीबत्वाद वा न संशयः 25 न तव अहं तव धर्मज्ञ पश्याम्य उपचयं कव चित न हि ते सेविता वृद्धा य एवं धर्मम अब्रुवन 26 इष्टं दत्तम अधीतं च यज्ञाश च बहुदक्षिणाः सर्वम एतद अपत्यस्य कलां नार्हति षॊडशीम 27 वरतॊपवासैर बहुभिः कृतं भवति भीष्म यत सर्वं तद अनपत्यस्य मॊघं भवति निश्चयात 28 सॊ ऽनपत्यश च वृद्धश च मिथ्याधर्मानुशासनात हंसवत तवम अपीदानीं जञातिभ्यः पराप्नुया वधम 29 एवं हि कथयन्त्य अन्ये नरा जञानविदः पुरा भीष्म यत तद अहं सम्यग वक्ष्यामि तव शृण्वतः 30 वृद्धः किल समुद्रान्ते कश चिद धंसॊ ऽभवत पुरा धर्मवाग अन्यथावृत्तः पक्षिणः सॊ ऽनुशास्ति ह 31 धर्मं चरत माधर्मम इति तस्य वचः किल पक्षिणः शुश्रुवुर भीष्म सततं धर्मवादिनः 32 अथास्य भक्ष्यम आजह्रुः समुद्रजलचारिणः अण्डजा भीष्म तस्यान्ये धर्मार्थम इति शुश्रुम 33 तस्य चैव समभ्याशे निक्षिप्याण्डानि सर्वशः समुद्राम्भस्य अमॊदन्त चरन्तॊ भीष्म पक्षिणः 34 तेषाम अण्डानि सर्वेषां भक्षयाम आस पापकृत स हंसः संप्रमत्तानाम अप्रमत्तः सवकर्मणि 35 ततः परक्षीयमाणेषु तेष्व अण्डेष्व अण्डजॊ ऽपरः अशङ्कत महाप्राज्ञस तं कदा चिद ददर्श ह 36 ततः स कथयाम आस दृष्ट्वा हंसस्य किल्बिषम तेषां परमदुःखार्तः स पक्षी सर्वपक्षिणाम 37 ततः परत्यक्षतॊ दृष्ट्वा पक्षिणस ते समागताः निजघ्नुस तं तदा हंसं मिथ्यावृत्तं कुरूद्वह 38 ते तवां हंससधर्माणम अपीमे वसुधाधिपाः निहन्युर भीष्म संक्रुद्धाः पक्षिणस तम इवाण्डजम 39 गाथाम अप्य अत्र गायन्ति ये पुराणविदॊ जनाः भीष्म यां तां च ते सम्यक कथयिष्यामि भारत 40 अन्तरात्मनि विनिहिते; रौषि पत्ररथ वितथम अण्डभक्षणम अशुचि ते; कर्म वाचम अतिशयते |
1
śiśupāla uvāca vibhīṣikābhir bahvībhir bhīṣayan sarvapārthivān na vyapatrapase kasmād vṛddhaḥ san kulapāṃsanaḥ 2 yuktam etat tṛtīyāyāṃ prakṛtau vartatā tvayā vaktuṃ dharmād apetārthaṃ tvaṃ hi sarvakurūttamaḥ 3 nāvi naur iva saṃbaddhā yathāndho vāndham anviyāt tathābhūtā hi kauravyā bhīṣma yeṣāṃ tvam agraṇīḥ 4 pūtanāghātapūrvāṇi karmāṇy asya viśeṣataḥ tvayā kīrtayatāsmākaṃ bhūyaḥ pracyāvitaṃ manaḥ 5 avaliptasya mūrkhasya keśavaṃ stotum icchataḥ kathaṃ bhīṣma na te jihvā śatadheyaṃ vidīryate 6 yatra kutsā prayoktavyā bhīṣma bālatarair naraiḥ tam imaṃ jñānavṛddhaḥ san gopaṃ saṃstotum icchasi 7 yady anena hatā bālye śakuniś citram atra kim tau vāśvavṛṣabhau bhīṣma yau na yuddhaviśāradau 8 cetanārahitaṃ kāṣṭhaṃ yady anena nipātitam pādena śakaṭaṃ bhīṣma tatra kiṃ kṛtam adbhutam 9 valmīkamātraḥ saptāhaṃ yady anena dhṛto 'calaḥ tadā govardhano bhīṣma na tac citraṃ mataṃ mama 10 bhuktam etena bahv annaṃ krīḍatā nagamūrdhani iti te bhīṣma śṛṇvānāḥ paraṃ vismayam āgatāḥ 11 yasya cānena dharmajña bhuktam annaṃ balīyasaḥ sa cānena hataḥ kaṃsa ity etan na mahādbhutam 12 na te śrutam idaṃ bhīṣma nūnaṃ kathayatāṃ satām yad vakṣye tvām adharmajña vākyaṃ kurukulādhama 13 strīṣu goṣu na śastrāṇi pātayed brāhmaṇeṣu ca yasya cānnāni bhuñjīta yaś ca syāc charaṇāgataḥ 14 iti santo 'nuśāsanti sajjanā dharmiṇaḥ sadā bhīṣma loke hi tat sarvaṃ vitathaṃ tvayi dṛśyate 15 jñānavṛddhaṃ ca vṛddhaṃ ca bhūyāṃsaṃ keśavaṃ mama ajānata ivākhyāsi saṃstuvan kurusattama goghnaḥ strīghnaś ca san bhīṣma kathaṃ saṃstavam arhati 16 asau matimatāṃ śreṣṭho ya eṣa jagataḥ prabhuḥ saṃbhāvayati yady evaṃ tvadvākyāc ca janārdanaḥ evam etat sarvam iti sarvaṃ tad vitathaṃ dhruvam 17 na gāthā gāthinaṃ śāsti bahu ced api gāyati prakṛtiṃ yānti bhūtāni bhūliṅgaśakunir yathā 18 nūnaṃ prakṛtir eṣā te jaghanyā nātra saṃśayaḥ ataḥ pāpīyasī caiṣāṃ pāṇḍavānām apīṣyate 19 yeṣām arcyatamaḥ kṛṣṇas tvaṃ ca yeṣāṃ pradarśakaḥ dharmavāk tvam adharmajñaḥ satāṃ mārgād avaplutaḥ 20 ko hi dharmiṇam ātmānaṃ jānañ jñānavatāṃ varaḥ kuryād yathā tvayā bhīṣma kṛtaṃ dharmam avekṣatā 21 anyakāmā hi dharmajña kanyakā prājñamāninā ambā nāmeti bhadraṃ te kathaṃ sāpahṛtā tvayā 22 yāṃ tvayāpahṛtāṃ bhīṣma kanyāṃ naiṣitavān nṛpaḥ bhrātā vicitravīryas te satāṃ vṛttam anuṣṭhitaḥ 23 dārayor yasya cānyena miṣataḥ prājñamāninaḥ tava jātāny apatyāni sajjanācarite pathi 24 na hi dharmo 'sti te bhīṣma brahmacaryam idaṃ vṛthā yad dhārayasi mohād vā klībatvād vā na saṃśayaḥ 25 na tv ahaṃ tava dharmajña paśyāmy upacayaṃ kva cit na hi te sevitā vṛddhā ya evaṃ dharmam abruvan 26 iṣṭaṃ dattam adhītaṃ ca yajñāś ca bahudakṣiṇāḥ sarvam etad apatyasya kalāṃ nārhati ṣoḍaśīm 27 vratopavāsair bahubhiḥ kṛtaṃ bhavati bhīṣma yat sarvaṃ tad anapatyasya moghaṃ bhavati niścayāt 28 so 'napatyaś ca vṛddhaś ca mithyādharmānuśāsanāt haṃsavat tvam apīdānīṃ jñātibhyaḥ prāpnuyā vadham 29 evaṃ hi kathayanty anye narā jñānavidaḥ purā bhīṣma yat tad ahaṃ samyag vakṣyāmi tava śṛṇvataḥ 30 vṛddhaḥ kila samudrānte kaś cid dhaṃso 'bhavat purā dharmavāg anyathāvṛttaḥ pakṣiṇaḥ so 'nuśāsti ha 31 dharmaṃ carata mādharmam iti tasya vacaḥ kila pakṣiṇaḥ śuśruvur bhīṣma satataṃ dharmavādinaḥ 32 athāsya bhakṣyam ājahruḥ samudrajalacāriṇaḥ aṇḍajā bhīṣma tasyānye dharmārtham iti śuśruma 33 tasya caiva samabhyāśe nikṣipyāṇḍāni sarvaśaḥ samudrāmbhasy amodanta caranto bhīṣma pakṣiṇaḥ 34 teṣām aṇḍāni sarveṣāṃ bhakṣayām āsa pāpakṛt sa haṃsaḥ saṃpramattānām apramattaḥ svakarmaṇi 35 tataḥ prakṣīyamāṇeṣu teṣv aṇḍeṣv aṇḍajo 'paraḥ aśaṅkata mahāprājñas taṃ kadā cid dadarśa ha 36 tataḥ sa kathayām āsa dṛṣṭvā haṃsasya kilbiṣam teṣāṃ paramaduḥkhārtaḥ sa pakṣī sarvapakṣiṇām 37 tataḥ pratyakṣato dṛṣṭvā pakṣiṇas te samāgatāḥ nijaghnus taṃ tadā haṃsaṃ mithyāvṛttaṃ kurūdvaha 38 te tvāṃ haṃsasadharmāṇam apīme vasudhādhipāḥ nihanyur bhīṣma saṃkruddhāḥ pakṣiṇas tam ivāṇḍajam 39 gāthām apy atra gāyanti ye purāṇavido janāḥ bhīṣma yāṃ tāṃ ca te samyak kathayiṣyāmi bhārata 40 antarātmani vinihite; rauṣi patraratha vitatham aṇḍabhakṣaṇam aśuci te; karma vācam atiśayate |
The Mahabharata in Sanskrit
Book 2
Chapter 39
|
1
[षिषु] स मे बहुमतॊ राजा जरासंधॊ महाबलः यॊ ऽनेन युद्धं नेयेष दासॊ ऽयम इति संयुगे 2 केशवेन कृतं यत तु जरासंध वधे तदा भीमसेनार्जुनाभ्यां च कस तत साध्व इति मन्यते 3 अद्वारेण परविष्टेन छद्मना बरह्मवादिना दृष्टः परभावः कृष्णेन जरासंधस्य धीमतः 4 येन धर्मात्मनात्मानं बरह्मण्यम अभिजानता नैषितं पाद्यम अस्मै तद दातुम अग्रे दुरात्मने 5 भुज्यताम इति तेनॊक्ताः कृष्ण भीम धनंजयाः जरासंधेन कौरव्य कृष्णेन विकृतं कृतम 6 यद्य अयं जगतः कर्ता यथैनं मूर्ख मन्यसे कस्मान न बराह्मणं सम्यग आत्मानम अवगच्छति 7 इदं तव आश्चर्यभूतं मे यद इमे पाण्डवास तवया अपकृष्टाः सतां मार्गान मन्यन्ते तच च साध्व इति 8 अथ वा नैतद आश्चर्यं येषां तवम असि भारत सत्री सधर्मा च वृद्धश च सर्वार्थानां परदर्शकः 9 [व] तस्य तद वचनं शरुत्वा रूक्षं रूक्षाक्षरं बहु चुकॊप बलिनां शरेष्ठॊ भीमसेनः परतापवान 10 तस्य पद्मप्रतीकाशे सवभावायत विस्तृते भूयॊ करॊधाभिताम्रान्ते रक्ते नेत्रे बभूवतुः 11 तरिशिखां भरुकुटीं चास्य ददृशुः सर्वपार्थिवाः ललाटस्थां तरिकूटस्थां गङ्गां तरिपथगाम इव 12 दन्तान संदशतस तस्य कॊपाद ददृशुर आननम युगान्ते सर्वभूतानि कालस्येव दिधक्षतः 13 उत्पतन्तं तु वेगेन जग्राहैनं मनस्विनम भीष्म एव महाबाहुर महासेनम इवेश्वरः 14 तस्य भीमस्य भीष्मेण वार्यमाणस्य भारत गुरुणा विविधैर वाक्यैः करॊधः परशमम आगतः 15 नातिचक्राम भीष्मस्य स हि वाक्यम अरिंदमः समुद्धूतॊ घनापाये वेलाम इव महॊदधिः 16 शिशुपालस तु संक्रुद्धे भीमसेने नराधिप नाकम्पत तदा वीरः पौरुषे सवे वयवस्थितः 17 उत्पतन्तं तु वेगेन पुनः पुनर अरिंदमः न स तं चिन्तयाम आस सिंहः कषुद्रमृगं यथा 18 परहसंश चाब्रवीद वाक्यं चेदिराजः परतापवान भीमसेनम अतिक्रुद्धं दृष्ट्वा भीमपराक्रमम 19 मुञ्चैनं भीष्म पश्यन्तु यावद एनं नराधिपाः मत परतापाग्निनिर्दग्धं पतंगम इव वह्निना 20 ततश चेदिपतेर वाक्यं तच छरुत्वा कुरुसत्तमः भीमसेनम उवाचेदं भीष्मॊ मतिमतां वरः |
1
[ṣiṣu] sa me bahumato rājā jarāsaṃdho mahābalaḥ yo 'nena yuddhaṃ neyeṣa dāso 'yam iti saṃyuge 2 keśavena kṛtaṃ yat tu jarāsaṃdha vadhe tadā bhīmasenārjunābhyāṃ ca kas tat sādhv iti manyate 3 advāreṇa praviṣṭena chadmanā brahmavādinā dṛṣṭaḥ prabhāvaḥ kṛṣṇena jarāsaṃdhasya dhīmataḥ 4 yena dharmātmanātmānaṃ brahmaṇyam abhijānatā naiṣitaṃ pādyam asmai tad dātum agre durātmane 5 bhujyatām iti tenoktāḥ kṛṣṇa bhīma dhanaṃjayāḥ jarāsaṃdhena kauravya kṛṣṇena vikṛtaṃ kṛtam 6 yady ayaṃ jagataḥ kartā yathainaṃ mūrkha manyase kasmān na brāhmaṇaṃ samyag ātmānam avagacchati 7 idaṃ tv āścaryabhūtaṃ me yad ime pāṇḍavās tvayā apakṛṣṭāḥ satāṃ mārgān manyante tac ca sādhv iti 8 atha vā naitad āścaryaṃ yeṣāṃ tvam asi bhārata strī sadharmā ca vṛddhaś ca sarvārthānāṃ pradarśakaḥ 9 [v] tasya tad vacanaṃ śrutvā rūkṣaṃ rūkṣākṣaraṃ bahu cukopa balināṃ śreṣṭho bhīmasenaḥ pratāpavān 10 tasya padmapratīkāśe svabhāvāyata vistṛte bhūyo krodhābhitāmrānte rakte netre babhūvatuḥ 11 triśikhāṃ bhrukuṭīṃ cāsya dadṛśuḥ sarvapārthivāḥ lalāṭasthāṃ trikūṭasthāṃ gaṅgāṃ tripathagām iva 12 dantān saṃdaśatas tasya kopād dadṛśur ānanam yugānte sarvabhūtāni kālasyeva didhakṣataḥ 13 utpatantaṃ tu vegena jagrāhainaṃ manasvinam bhīṣma eva mahābāhur mahāsenam iveśvaraḥ 14 tasya bhīmasya bhīṣmeṇa vāryamāṇasya bhārata guruṇā vividhair vākyaiḥ krodhaḥ praśamam āgataḥ 15 nāticakrāma bhīṣmasya sa hi vākyam ariṃdamaḥ samuddhūto ghanāpāye velām iva mahodadhiḥ 16 śiśupālas tu saṃkruddhe bhīmasene narādhipa nākampata tadā vīraḥ pauruṣe sve vyavasthitaḥ 17 utpatantaṃ tu vegena punaḥ punar ariṃdamaḥ na sa taṃ cintayām āsa siṃhaḥ kṣudramṛgaṃ yathā 18 prahasaṃś cābravīd vākyaṃ cedirājaḥ pratāpavān bhīmasenam atikruddhaṃ dṛṣṭvā bhīmaparākramam 19 muñcainaṃ bhīṣma paśyantu yāvad enaṃ narādhipāḥ mat pratāpāgninirdagdhaṃ pataṃgam iva vahninā 20 tataś cedipater vākyaṃ tac chrutvā kurusattamaḥ bhīmasenam uvācedaṃ bhīṣmo matimatāṃ varaḥ |
The Mahabharata in Sanskrit
Book 2
Chapter 40
|
1
[भ] चेदिराजकुले जातस तर्यक्ष एष चतुर्भुजः रासभाराव सदृशं रुराव च ननाद च 2 तेनास्य माता पितरौ तरेसतुस तौ स बान्धवौ वैकृतं तच च तौ दृष्ट्वा तयागाय कुरुतां मतिम 3 ततः सभार्यं नृपतिं सामात्यं सपुरॊहितम चिन्ता संमूढहृदयं वाग उवाचाशरीरिणी 4 एष ते नृपते पुत्रः शरीमाञ जातॊ महाबलः तस्माद अस्मान न भेतव्यम अव्यग्रः पाहि वै शिशुम 5 न चैवैतस्य मृत्युस तवं न कालः परत्युपस्थितः मृत्युर हन्तास्य शस्त्रेण स चॊत्पन्नॊ नराधिप 6 संश्रुत्यॊदाहृतं वाक्यं भूतम अन्तर्हितं ततः पुत्रस्नेहाभिसंतप्ता जननी वाक्यम अब्रवीत 7 येनेदम ईरितं वाक्यं ममैव तनयं परति पराञ्जलिस तं नमस्यामि बरवीतु स पुनर वचः 8 शरॊतुम इच्छामि पुत्रस्य कॊ ऽसय मृत्युर भविष्यति अन्तर्हितं ततॊ भूतम उवाचेदं पुनर वचः 9 येनॊत्सङ्गे गृहीतस्य भुजाव अभ्यधिकाव उभौ पतिष्यतः कषितितले पञ्चशीर्षाव इवॊरगौ 10 तृतीयम एतद बालस्य ललाटस्थं च लॊचनम निमज्जिष्यति यं दृष्ट्वा सॊ ऽसय मृत्युर भविष्यति 11 तर्यक्षं चतुर्भुजं शरुत्वा तथा च समुदाहृतम धरण्यां पार्थिवाः सर्वे अभ्यगच्छन दिदृक्षवः 12 तान पूजयित्वा संप्राप्तान यथार्हं स महीपतिः एकैकस्य नृपस्याङ्के पुत्रम आरॊपयत तदा 13 एवं राजसहस्राणां पृथक्त्वेन यथाक्रमम शिशुर अङ्के समारूढॊ न तत पराप निदर्शनम 14 ततश चेदिपुरं पराप्तौ संकर्षण जनार्दनौ यादवौ यादवीं दरस्तुं सवसारं तां पितुस तदा 15 अभिवाद्य यथान्यायं यथा जयेष्ठं नृपांश च तान कुशलानामयं पृष्ट्वा निषण्णौ राम केशवौ 16 अभ्यर्चितौ तदा वीरौ परीत्या चाभ्यधिकं ततः पुत्रं दामॊदरॊत्सङ्गे देवी संन्यदधात सवयम 17 नयस्तमात्रस्य तस्याङ्के भुजाव अभ्यधिकाव उभौ पेततुस तच च नयनं निममज्ज ललाटजम 18 तद दृष्ट्वा वयथिता तरस्ता वरं कृष्णम अयाचत ददस्व मे वरं कृष्ण भयार्ताय महाभुज 19 तवं हय आर्तानां समाश्वासॊ भीतानाम अभयंकरः पितृस्वसारं मा भैषीर इत्य उवाच जनार्दनः 20 ददानि कं वरं किं वा करवाणि पितृस्वसः शक्यं वा यदि वाशक्यं करिष्यामि वचस तव 21 एवम उक्ता ततः कृष्णम अब्रवीद यदुनन्दनम शिशुपालस्यापराधान कषमेथास तवं महाबल 22 [क] अपराधशतं कषाम्यं मया हय अस्य पितृष्वसः पुत्रस्य ते वधार्हाणां मा तवं शॊके मनः कृथाः 23 [भस] एवम एष नृपः पापः शिशुपालः सुमन्दधीः तवां समाह्वयते वीर गॊविन्द वरदर्पितः |
1
[bh] cedirājakule jātas tryakṣa eṣa caturbhujaḥ rāsabhārāva sadṛśaṃ rurāva ca nanāda ca 2 tenāsya mātā pitarau tresatus tau sa bāndhavau vaikṛtaṃ tac ca tau dṛṣṭvā tyāgāya kurutāṃ matim 3 tataḥ sabhāryaṃ nṛpatiṃ sāmātyaṃ sapurohitam cintā saṃmūḍhahṛdayaṃ vāg uvācāśarīriṇī 4 eṣa te nṛpate putraḥ śrīmāñ jāto mahābalaḥ tasmād asmān na bhetavyam avyagraḥ pāhi vai śiśum 5 na caivaitasya mṛtyus tvaṃ na kālaḥ pratyupasthitaḥ mṛtyur hantāsya śastreṇa sa cotpanno narādhipa 6 saṃśrutyodāhṛtaṃ vākyaṃ bhūtam antarhitaṃ tataḥ putrasnehābhisaṃtaptā jananī vākyam abravīt 7 yenedam īritaṃ vākyaṃ mamaiva tanayaṃ prati prāñjalis taṃ namasyāmi bravītu sa punar vacaḥ 8 śrotum icchāmi putrasya ko 'sya mṛtyur bhaviṣyati antarhitaṃ tato bhūtam uvācedaṃ punar vacaḥ 9 yenotsaṅge gṛhītasya bhujāv abhyadhikāv ubhau patiṣyataḥ kṣititale pañcaśīrṣāv ivoragau 10 tṛtīyam etad bālasya lalāṭasthaṃ ca locanam nimajjiṣyati yaṃ dṛṣṭvā so 'sya mṛtyur bhaviṣyati 11 tryakṣaṃ caturbhujaṃ śrutvā tathā ca samudāhṛtam dharaṇyāṃ pārthivāḥ sarve abhyagacchan didṛkṣavaḥ 12 tān pūjayitvā saṃprāptān yathārhaṃ sa mahīpatiḥ ekaikasya nṛpasyāṅke putram āropayat tadā 13 evaṃ rājasahasrāṇāṃ pṛthaktvena yathākramam śiśur aṅke samārūḍho na tat prāpa nidarśanam 14 tataś cedipuraṃ prāptau saṃkarṣaṇa janārdanau yādavau yādavīṃ drastuṃ svasāraṃ tāṃ pitus tadā 15 abhivādya yathānyāyaṃ yathā jyeṣṭhaṃ nṛpāṃś ca tān kuśalānāmayaṃ pṛṣṭvā niṣaṇṇau rāma keśavau 16 abhyarcitau tadā vīrau prītyā cābhyadhikaṃ tataḥ putraṃ dāmodarotsaṅge devī saṃnyadadhāt svayam 17 nyastamātrasya tasyāṅke bhujāv abhyadhikāv ubhau petatus tac ca nayanaṃ nimamajja lalāṭajam 18 tad dṛṣṭvā vyathitā trastā varaṃ kṛṣṇam ayācata dadasva me varaṃ kṛṣṇa bhayārtāya mahābhuja 19 tvaṃ hy ārtānāṃ samāśvāso bhītānām abhayaṃkaraḥ pitṛsvasāraṃ mā bhaiṣīr ity uvāca janārdanaḥ 20 dadāni kaṃ varaṃ kiṃ vā karavāṇi pitṛsvasaḥ śakyaṃ vā yadi vāśakyaṃ kariṣyāmi vacas tava 21 evam uktā tataḥ kṛṣṇam abravīd yadunandanam śiśupālasyāparādhān kṣamethās tvaṃ mahābala 22 [k] aparādhaśataṃ kṣāmyaṃ mayā hy asya pitṛṣvasaḥ putrasya te vadhārhāṇāṃ mā tvaṃ śoke manaḥ kṛthāḥ 23 [bhs] evam eṣa nṛpaḥ pāpaḥ śiśupālaḥ sumandadhīḥ tvāṃ samāhvayate vīra govinda varadarpitaḥ |
The Mahabharata in Sanskrit
Book 2
Chapter 41
|
1
[भस] नैषा चेदिपतेर बुद्धिर यया तव आह्वयते ऽचयुतम नूनम एष जगद भर्तुः कृष्णस्यैव विनिश्चयः 2 कॊ हि मां भीमसेनाद्य कषिताव अर्हति पार्थिवः कषेप्तुं दैवपरीतात्मा यथैष कुलपांसनः 3 एष हय अस्य महाबाहॊ तेजॊ ऽंशश च हरेर धरुवम तम एव पुनर आदातुम इच्छत पृथु यशा हरिः 4 येनैष कुरुशार्दूल शार्दूल इव चेदिराट गर्जत्य अतीव दुर्बुद्धिः सर्वान अस्मान अचिन्तयन 5 [व] ततॊ न ममृषे चैद्यस तद भीष्म वचनं तदा उवाच चैनं संक्रुद्धः पुनर भीष्मम अथॊत्तरम 6 [ष] दविषतां नॊ ऽसतु भीष्मैष परभावः केशवस्य यः यस्य संस्तव वक्ता तवं बन्दिवत सततॊत्थितः 7 संस्तवाय मनॊ भीष्म परेषां रमते सदा यदि संस्तौषि राज्ञस तवम इमं हित्वा जनार्दनम 8 दरदं सतुहि बाह्लीकम इमं पार्थिव सत्तमम जायमानेन येनेयम अभवद दारिता मही 9 वङ्गाङ्गविषयाध्यक्षं सहस्राक्षसमं बले सतुहि कर्णम इमं भीष्म महाचाप विकर्षणम 10 दरॊणं दरौणिं च साधु तवं पिता पुत्रौ महारथौ सतुहि सतुत्याव इमौ भीष्म सततं दविजसत्तमौ 11 ययॊर अन्यतरॊ भीष्म संक्रुद्धः स चराचराम इमां वसुमतीं कुर्याद अशेषाम इति मे मतिः 12 दरॊणस्य हि समं युद्धे न पश्यामि नराधिपम अश्वत्थाम्नस तथा भीष्म न चैतौ सतॊतुम इच्छसि 13 शल्यादीन अपि कस्मात तवं न सतौषि वसुधाधिपान सतवाय यदि ते बुद्धिर वर्तते भीष्म सर्वदा 14 किं हि शक्यं मया कर्तुं यद वृद्धानां तवया नृप पुरा कथयतां नूनं न शरुतं धर्मवादिनाम 15 आत्मनिन्दात्मपूजा च परनिन्दा परस्तवः अनाचरितम आर्याणां वृत्तम एतच चतुर्विधम 16 यद अस्तव्यम इमं शश्वन मॊहात संस्तौषि भक्तितः केशवं तच च ते भीष्म न कश चिद अनुमन्यते 17 कथं भॊजस्य पुरुषे वर्ग पाले दुरात्मनि समावेशयसे सर्वं जगत केवलकाम्यया 18 अथ वैषा न ते भक्तिः पकृतिं याति भारत मयैव कथितं पूर्वं भूलिङ्गशकुनिर यथा 19 भूलिङ्गशकुनिर नाम पार्श्वे हिमवतः परे भीष्म तस्याः सदा वाचॊ शरूयन्ते ऽरथविगर्हिताः 20 मा साहसम इतीदं सा सततं वाशते किल साहसं चात्मनातीव चरन्ती नावबुध्यते 21 सा हि मांसार्गलं भीष्म मुखात सिंहस्य खादतः दन्तान्तर विलग्नं यत तद आदत्ते ऽलपचेतना 22 इच्छतः सा हि सिंहस्य भीष्म जीवत्य असंशयम तद्वत तवम अप्य अधर्मज्ञ सदा वाचॊ परभाषसे 23 इच्छतां पार्थिवेन्द्राणां भीष्म जीवस्य असंशयम लॊकविद्विष्ट कर्मा हि नान्यॊ ऽसति भवता समः 24 [व] ततश चेदिपतेः शरुत्वा भीष्मः सकटुकं वचः उवाचेदं वचॊ राजंश चेदिराजस्य शृण्वतः 25 इच्छतां किल नामाहं जीवाम्य एषां महीक्षिताम यॊ ऽहं न गणयाम्य एतांस तृणानीव नराधिपान 26 एवम उक्ते तु भीष्मेण ततः संचुक्रुधुर नृपाः के चिज जहृषिरे तत्र के चिद भीष्मं जगर्हिरे 27 के चिद ऊचुर महेष्वासाः शरुत्वा भीष्मस्य तद वचः पापॊ ऽवलिप्तॊ वृद्धश च नायं भीष्मॊ ऽरहति कषमाम 28 हन्यतां दुर्मतिर भीष्मः पशुवत साध्व अयं नृपैः सर्वैः समेत्य संरब्धैर दह्यतां वा कटाग्निना 29 इति तेषां वचॊ शरुत्वा ततः कुरु पिता महः उवाच मतिमान भीष्मस तान एव वसुधाधिपान 30 उक्तस्यॊक्तस्य नेहान्तम अहं समुपलक्षये यत तु वक्ष्यामि तत सर्वं शृणुध्वं वसुधाधिपाः 31 पशुवद घातनं वा मे दहनं वा कटाग्निना करियतां मूर्ध्नि वॊ नयस्तं मयेदं सकलं पदम 32 एष तिष्ठति गॊविन्दः पूजितॊ ऽसमाभिर अच्युतः यस्य वस तवरते बुद्धिर मरणाय स माधवम 33 कृष्णम आह्वयताम अद्य युद्धे शार्ङ्गगदाधरम यावद अस्यैव देवस्य देहं विशतु पातितः |
1
[bhs] naiṣā cedipater buddhir yayā tv āhvayate 'cyutam nūnam eṣa jagad bhartuḥ kṛṣṇasyaiva viniścayaḥ 2 ko hi māṃ bhīmasenādya kṣitāv arhati pārthivaḥ kṣeptuṃ daivaparītātmā yathaiṣa kulapāṃsanaḥ 3 eṣa hy asya mahābāho tejo 'ṃśaś ca harer dhruvam tam eva punar ādātum icchat pṛthu yaśā hariḥ 4 yenaiṣa kuruśārdūla śārdūla iva cedirāṭ garjaty atīva durbuddhiḥ sarvān asmān acintayan 5 [v] tato na mamṛṣe caidyas tad bhīṣma vacanaṃ tadā uvāca cainaṃ saṃkruddhaḥ punar bhīṣmam athottaram 6 [ṣ] dviṣatāṃ no 'stu bhīṣmaiṣa prabhāvaḥ keśavasya yaḥ yasya saṃstava vaktā tvaṃ bandivat satatotthitaḥ 7 saṃstavāya mano bhīṣma pareṣāṃ ramate sadā yadi saṃstauṣi rājñas tvam imaṃ hitvā janārdanam 8 daradaṃ stuhi bāhlīkam imaṃ pārthiva sattamam jāyamānena yeneyam abhavad dāritā mahī 9 vaṅgāṅgaviṣayādhyakṣaṃ sahasrākṣasamaṃ bale stuhi karṇam imaṃ bhīṣma mahācāpa vikarṣaṇam 10 droṇaṃ drauṇiṃ ca sādhu tvaṃ pitā putrau mahārathau stuhi stutyāv imau bhīṣma satataṃ dvijasattamau 11 yayor anyataro bhīṣma saṃkruddhaḥ sa carācarām imāṃ vasumatīṃ kuryād aśeṣām iti me matiḥ 12 droṇasya hi samaṃ yuddhe na paśyāmi narādhipam aśvatthāmnas tathā bhīṣma na caitau stotum icchasi 13 śalyādīn api kasmāt tvaṃ na stauṣi vasudhādhipān stavāya yadi te buddhir vartate bhīṣma sarvadā 14 kiṃ hi śakyaṃ mayā kartuṃ yad vṛddhānāṃ tvayā nṛpa purā kathayatāṃ nūnaṃ na śrutaṃ dharmavādinām 15 ātmanindātmapūjā ca paranindā parastavaḥ anācaritam āryāṇāṃ vṛttam etac caturvidham 16 yad astavyam imaṃ śaśvan mohāt saṃstauṣi bhaktitaḥ keśavaṃ tac ca te bhīṣma na kaś cid anumanyate 17 kathaṃ bhojasya puruṣe varga pāle durātmani samāveśayase sarvaṃ jagat kevalakāmyayā 18 atha vaiṣā na te bhaktiḥ pakṛtiṃ yāti bhārata mayaiva kathitaṃ pūrvaṃ bhūliṅgaśakunir yathā 19 bhūliṅgaśakunir nāma pārśve himavataḥ pare bhīṣma tasyāḥ sadā vāco śrūyante 'rthavigarhitāḥ 20 mā sāhasam itīdaṃ sā satataṃ vāśate kila sāhasaṃ cātmanātīva carantī nāvabudhyate 21 sā hi māṃsārgalaṃ bhīṣma mukhāt siṃhasya khādataḥ dantāntara vilagnaṃ yat tad ādatte 'lpacetanā 22 icchataḥ sā hi siṃhasya bhīṣma jīvaty asaṃśayam tadvat tvam apy adharmajña sadā vāco prabhāṣase 23 icchatāṃ pārthivendrāṇāṃ bhīṣma jīvasy asaṃśayam lokavidviṣṭa karmā hi nānyo 'sti bhavatā samaḥ 24 [v] tataś cedipateḥ śrutvā bhīṣmaḥ sakaṭukaṃ vacaḥ uvācedaṃ vaco rājaṃś cedirājasya śṛṇvataḥ 25 icchatāṃ kila nāmāhaṃ jīvāmy eṣāṃ mahīkṣitām yo 'haṃ na gaṇayāmy etāṃs tṛṇānīva narādhipān 26 evam ukte tu bhīṣmeṇa tataḥ saṃcukrudhur nṛpāḥ ke cij jahṛṣire tatra ke cid bhīṣmaṃ jagarhire 27 ke cid ūcur maheṣvāsāḥ śrutvā bhīṣmasya tad vacaḥ pāpo 'valipto vṛddhaś ca nāyaṃ bhīṣmo 'rhati kṣamām 28 hanyatāṃ durmatir bhīṣmaḥ paśuvat sādhv ayaṃ nṛpaiḥ sarvaiḥ sametya saṃrabdhair dahyatāṃ vā kaṭāgninā 29 iti teṣāṃ vaco śrutvā tataḥ kuru pitā mahaḥ uvāca matimān bhīṣmas tān eva vasudhādhipān 30 uktasyoktasya nehāntam ahaṃ samupalakṣaye yat tu vakṣyāmi tat sarvaṃ śṛṇudhvaṃ vasudhādhipāḥ 31 paśuvad ghātanaṃ vā me dahanaṃ vā kaṭāgninā kriyatāṃ mūrdhni vo nyastaṃ mayedaṃ sakalaṃ padam 32 eṣa tiṣṭhati govindaḥ pūjito 'smābhir acyutaḥ yasya vas tvarate buddhir maraṇāya sa mādhavam 33 kṛṣṇam āhvayatām adya yuddhe śārṅgagadādharam yāvad asyaiva devasya dehaṃ viśatu pātitaḥ |
The Mahabharata in Sanskrit
Book 2
Chapter 42
|
1
[व] ततः शरुत्वैव भीष्मस्य चेदिराड उरुविक्रमः युयुत्सुर वासुदेवेन वासुदेवम उवाच ह 2 आह्वये तवां रणं गच्छ मया सार्धं जनार्दन यावद अद्य निहन्मि तवां सहितं सर्वपाण्डवैः 3 सह तवया हि मे वध्याः पाण्डवाः कृष्ण सर्वथा नृपतीन समतिक्रम्य यैर अराजा तवम अर्चितः 4 ये तवां दासम अराजानं बाल्याद अर्चन्ति दुर्मतिम अनर्हम अर्हवत कृष्ण वध्यास त इति मे मतिः इत्य उक्त्वा राजशार्दूलस तस्थौ गर्जन्न अमर्षणः 5 एवम उक्ते ततः कृष्णॊ मृदुपूर्वम इदं वचः उवाच पार्थिवान सर्वांस तत्समक्षं च पाण्डवान 6 एष नः शत्रुर अत्यन्तं पार्थिवाः सात्वती सुतः सात्वतानां नृशंसात्मा न हितॊ ऽनपकारिणाम 7 पराग्ज्यॊतिष पुरं यातान अस्माञ जञात्वा नृशंसकृत अदहद दवारकाम एष सवस्रीयः सन नराधिपाः 8 करीडतॊ भॊजराजन्यान एष रैवतके गिरौ हत्वा बद्ध्वा च तान सर्वान उपायात सवपुरं पुरा 9 अश्वमेधे हयं मेध्यम उत्सृष्टं रक्षिभिर वृतम पितुर मे यज्ञविघ्नार्थम अहरत पापनिश्चयः 10 सुवीरान परतिपत्तौ च बभ्रॊर एष यशस्विनः भार्याम अभ्यहरन मॊहाद अकामां ताम इतॊ गताम 11 एष माया परतिच्छन्नः करूषार्थे तपस्विनीम जहार भद्रां वैशालीं मातुलस्य नृशंसकृत 12 पितृस्वसुः कृते दुःखं सुमहन मर्षयाम्य अहम दिष्ट्या तव इदं सर्वराज्ञां संनिधाव अद्य वर्तते 13 पश्यन्ति हि भवन्तॊ ऽदय मय्य अतीव वयतिक्रमम कृतानि तु परॊक्षं मे यानि तानि निबॊधत 14 इमं तव अस्य न शक्ष्यामि कषन्तुम अद्य वयतिक्रमम अवलेपाद वधार्हस्य समग्रे राजमण्डले 15 रुक्मिण्याम अस्य मूढस्य परार्थनासीन मुमूर्षतः न च तां पराप्तवान मूढः शूद्रॊ वेदश्रुतिं यथा 16 एवमादि ततः सर्वे सहितास ते नराधिपाः वासुदेव वचॊ शरुत्वा चेदिराजं वयगर्हयन 17 ततस तद वचनं शरुत्वा शिशुपालः परतापवान जहास सवनवद धासं परहस्येदम उवाच ह 18 मत पूर्वां रुक्मिणीं कृष्ण संसत्सु परिकीर्तयन विशेषतः पार्थिवेषु वरीडां न कुरुषे कथम 19 मन्यमानॊ हि कः सत्सु पुरुषः परिकीर्तयेत अन्यपूर्वां सत्रियं जातु तवदन्यॊ मधुसूदन 20 कषम वा यदि ते शरद्धा मा वा कृष्ण मम कषम करुद्धाद वापि परसन्नाद वा किं मे तवत्तॊ भविष्यति 21 तथा बरुवत एवास्य भगवान मधुसूदनः वयपाहरच छिरॊ करुद्धश चक्रेणामित्र कर्षणः स पपात महाबाहुर वज्राहत इवाचलः 22 ततश चेदिपतेर देहात तेजॊ ऽगर्यं ददृशुर नृपाः उत्पतन्तं महाराज गगणाद इव भास्करम 23 ततः कमलपत्राक्षं कृष्णं लॊकनमस्कृतम ववन्दे तत तदा तेजॊ विवेश च नराधिप 24 तद अद्भुतम अमन्यन्त दृष्ट्वा सर्वे महीक्षितः यद विवेश महाबाहुं तत तेजॊ पुरुषॊत्तमम 25 अनभ्रे परववर्ष दयौः पपात जवलिताशनिः कृष्णेन निहते चैद्ये चचाल च वसुंधरा 26 ततः के चिन महीपाला नाब्रुवंस तत्र किं चन अतीतवाक्पथे काले परेक्षमाणा जनार्दनम 27 हस्तैर हस्ताग्रम अपरे परत्यपीषन्न अमर्षिताः अपरे दशनैर ओष्ठान अदशन करॊधमूर्छिताः 28 रहस तु के चिद वार्ष्णेयं परशशंसुर नराधिपाः के चिद एव तु संरब्धा मध्यस्थास तव अपरे ऽभवन 29 परहृष्टाः केशवं जग्मुः संस्तुवन्तॊ महर्षयः बराह्मणाश च महात्मानः पार्थिवाश च महाबलाः 30 पाण्डवस तव अब्रवीद भरातॄन सत्कारेण महीपतिम दमघॊषात्मजं वीरं संसाधयत माचिरम तथा च कृतवन्तस ते भरातुर वै शासनं तदा 31 चेदीनाम आधिपत्ये च पुत्रम अस्य महीपतिम अभ्यसिञ्चत तदा पार्थः सह तैर वसुधाधिपैः 32 ततः स कुरुराजस्य करतुः सर्वं समृद्धिमान यूनां परीतिकरॊ राजन संबभौ विपुलौजसः 33 शान्तविघ्नः सुखारम्भः परभूतधनधान्यवान अन्नवान बहुभक्ष्यश च केशवेन सुरक्षितः 34 समापयाम आस च तं राजसूयं महाक्रतुम तं तु यज्ञं महाबाहुर आ समाप्तेर जनार्दनः ररक्ष भगवाञ शौरिः शार्ङ्गचक्रगदाधरः 35 ततस तव अवभृथ सनातं धर्मराजं युधिष्ठिरम समस्तं पार्थिवं कषत्रम अभिगम्येदम अब्रवीत 36 दिष्ट्या वर्धसि धर्मज्ञ साम्राज्यं पराप्तवान विभॊ आजमीढाजमीढानां यशॊ संवर्धितं तवया कर्मणैतेन राजेन्द्र धर्मश च सुमहान कृतः 37 आपृच्छामॊ नरव्याघ्र सर्वकामैः सुपूजिताः सवराष्ट्राणि गमिष्यामस तदनुज्ञातुम अर्हसि 38 शरुत्वा तु वचनं राज्ञां धर्मराजॊ युधिष्ठिरः यथार्हं पूज्य नृपतीन भरातॄन सर्वान उवाच ह 39 राजानः सर्व एवैते परीत्यास्मान समुपागताः परस्थिताः सवानि राष्ट्राणि माम आपृच्छ्य परंतपाः ते ऽनुव्रजत भद्रं ते विषयान्तं नृपॊत्तमान 40 भरातुर वचनम आज्ञाय पाण्डवा धर्मचारिणः यथार्हं नृप मुख्यांस तान एकैकं समनुव्रजन 41 विराटम अन्वयात तूर्णं धृष्टद्युम्नः परतापवान धनंजयॊ यज्ञसेनं महात्मानं महारथः 42 भीष्मं च धृतराष्ट्रं च भीमसेनॊ महाबलः दरॊणं च स सुतं वीरं सहदेवॊ महारथः 43 नकुलः सुबलं राजन सह पुत्रं समन्वयात दरौपदेयाः स सौभौद्राः पार्वतीयान महीपतीन 44 अन्वगच्छंस तथैवान्यान कषत्रियान कषत्रियर्षभाः एवं संपूजितास ते वै जग्मुर विप्राश च सर्वशः 45 गतेषु पार्थिवेन्द्रेषु सर्वेषु भरतर्षभ युधिष्ठिरम उवाचेदं वासुदेवः परतापवान 46 आपृच्छे तवां गमिष्यामि दवारकां कुरुनन्दन राजसूयं करतुश्रेष्ठं दिष्ट्या तवं पराप्तवान असि 47 तम उवाचैवम उक्तस तु धर्मराण मधुसूदनम तव परसादाद गॊविन्द पराप्तवान अस्मि वै करतुम 48 समस्तं पार्थिवं कषत्रं तवत्प्रसादाद वशानुगम उपादाय बलिं मुख्यं माम एव समुपस्थितम 49 न वयं तवाम ऋते वीर रंस्यामेह कथं चन अवश्यं चापि गन्तव्या तवया दवारवती पुरी 50 एवम उक्तः स धर्मात्मा युधिष्ठिर सहायवान अभिगम्याब्रवीत परीतः पृथां पृथु यशा हरिः 51 साम्राज्यं समनुप्राप्ताः पुत्रास ते ऽदय पितृष्वसः सिद्धार्था वसुमन्तश च सा तवं परीतिम इवाप्नुहि 52 अनुज्ञातस तवया चाहं दवारकां गन्तुम उत्सहे सुभद्रां दरौपदीं चैव सभाजयत केशवः 53 निष्क्रम्यान्तःपुराच चैव युधिष्ठिर सहायवान सनातश च कृतजप्यश च बराह्मणान सवस्ति वाच्य च 54 ततॊ मेघवरप्रख्यं सयन्दनं वै सुकल्पितम यॊजयित्वा महाराज दारुकः परत्युपस्थितः 55 उपस्थितं रथं दृष्ट्वा तार्क्ष्य परवर केतनम परदक्षिणम उपावृत्य समारुह्य महामनाः परययौ पुण्डरीकाक्षस ततॊ दवारवतीं पुरीम 56 तं पद्भ्याम अनुवव्राज धर्मराजॊ युधिष्ठिरः भरातृभिः सहितः शरीमान वासुदेवं महाबलम 57 ततॊ मुहूर्तं संगृह्य सयन्दनप्रवरं हरिः अब्रवीत पुण्डरीकाक्षः कुन्तीपुत्रं युधिष्ठिरम 58 अप्रमत्तः सथितॊ नित्यं परजाः पाहि विशां पते पर्जन्यम इव भूतानि महाद्रुमम इवाण्डजाः बान्धवास तवॊपजीवन्तु सहस्राक्षम इवामराः 59 कृत्वा परस्परेणैव संविदं कृष्ण पाण्डवौ अन्यॊन्यं समनुज्ञाप्य जग्मतुः सवगृहान परति 60 गते दवारवतीं कृष्णे सात्वत परवरे नृप एकॊ दुर्यॊधनॊ राजा शकुनिश चापि सौबलः तस्यां सभायां दिव्यायाम ऊषतुस तौ नरर्षभौ |
1
[v] tataḥ śrutvaiva bhīṣmasya cedirāḍ uruvikramaḥ yuyutsur vāsudevena vāsudevam uvāca ha 2 āhvaye tvāṃ raṇaṃ gaccha mayā sārdhaṃ janārdana yāvad adya nihanmi tvāṃ sahitaṃ sarvapāṇḍavaiḥ 3 saha tvayā hi me vadhyāḥ pāṇḍavāḥ kṛṣṇa sarvathā nṛpatīn samatikramya yair arājā tvam arcitaḥ 4 ye tvāṃ dāsam arājānaṃ bālyād arcanti durmatim anarham arhavat kṛṣṇa vadhyās ta iti me matiḥ ity uktvā rājaśārdūlas tasthau garjann amarṣaṇaḥ 5 evam ukte tataḥ kṛṣṇo mṛdupūrvam idaṃ vacaḥ uvāca pārthivān sarvāṃs tatsamakṣaṃ ca pāṇḍavān 6 eṣa naḥ śatrur atyantaṃ pārthivāḥ sātvatī sutaḥ sātvatānāṃ nṛśaṃsātmā na hito 'napakāriṇām 7 prāgjyotiṣa puraṃ yātān asmāñ jñātvā nṛśaṃsakṛt adahad dvārakām eṣa svasrīyaḥ san narādhipāḥ 8 krīḍato bhojarājanyān eṣa raivatake girau hatvā baddhvā ca tān sarvān upāyāt svapuraṃ purā 9 aśvamedhe hayaṃ medhyam utsṛṣṭaṃ rakṣibhir vṛtam pitur me yajñavighnārtham aharat pāpaniścayaḥ 10 suvīrān pratipattau ca babhror eṣa yaśasvinaḥ bhāryām abhyaharan mohād akāmāṃ tām ito gatām 11 eṣa māyā praticchannaḥ karūṣārthe tapasvinīm jahāra bhadrāṃ vaiśālīṃ mātulasya nṛśaṃsakṛt 12 pitṛsvasuḥ kṛte duḥkhaṃ sumahan marṣayāmy aham diṣṭyā tv idaṃ sarvarājñāṃ saṃnidhāv adya vartate 13 paśyanti hi bhavanto 'dya mayy atīva vyatikramam kṛtāni tu parokṣaṃ me yāni tāni nibodhata 14 imaṃ tv asya na śakṣyāmi kṣantum adya vyatikramam avalepād vadhārhasya samagre rājamaṇḍale 15 rukmiṇyām asya mūḍhasya prārthanāsīn mumūrṣataḥ na ca tāṃ prāptavān mūḍhaḥ śūdro vedaśrutiṃ yathā 16 evamādi tataḥ sarve sahitās te narādhipāḥ vāsudeva vaco śrutvā cedirājaṃ vyagarhayan 17 tatas tad vacanaṃ śrutvā śiśupālaḥ pratāpavān jahāsa svanavad dhāsaṃ prahasyedam uvāca ha 18 mat pūrvāṃ rukmiṇīṃ kṛṣṇa saṃsatsu parikīrtayan viśeṣataḥ pārthiveṣu vrīḍāṃ na kuruṣe katham 19 manyamāno hi kaḥ satsu puruṣaḥ parikīrtayet anyapūrvāṃ striyaṃ jātu tvadanyo madhusūdana 20 kṣama vā yadi te śraddhā mā vā kṛṣṇa mama kṣama kruddhād vāpi prasannād vā kiṃ me tvatto bhaviṣyati 21 tathā bruvata evāsya bhagavān madhusūdanaḥ vyapāharac chiro kruddhaś cakreṇāmitra karṣaṇaḥ sa papāta mahābāhur vajrāhata ivācalaḥ 22 tataś cedipater dehāt tejo 'gryaṃ dadṛśur nṛpāḥ utpatantaṃ mahārāja gagaṇād iva bhāskaram 23 tataḥ kamalapatrākṣaṃ kṛṣṇaṃ lokanamaskṛtam vavande tat tadā tejo viveśa ca narādhipa 24 tad adbhutam amanyanta dṛṣṭvā sarve mahīkṣitaḥ yad viveśa mahābāhuṃ tat tejo puruṣottamam 25 anabhre pravavarṣa dyauḥ papāta jvalitāśaniḥ kṛṣṇena nihate caidye cacāla ca vasuṃdharā 26 tataḥ ke cin mahīpālā nābruvaṃs tatra kiṃ cana atītavākpathe kāle prekṣamāṇā janārdanam 27 hastair hastāgram apare pratyapīṣann amarṣitāḥ apare daśanair oṣṭhān adaśan krodhamūrchitāḥ 28 rahas tu ke cid vārṣṇeyaṃ praśaśaṃsur narādhipāḥ ke cid eva tu saṃrabdhā madhyasthās tv apare 'bhavan 29 prahṛṣṭāḥ keśavaṃ jagmuḥ saṃstuvanto maharṣayaḥ brāhmaṇāś ca mahātmānaḥ pārthivāś ca mahābalāḥ 30 pāṇḍavas tv abravīd bhrātṝn satkāreṇa mahīpatim damaghoṣātmajaṃ vīraṃ saṃsādhayata māciram tathā ca kṛtavantas te bhrātur vai śāsanaṃ tadā 31 cedīnām ādhipatye ca putram asya mahīpatim abhyasiñcat tadā pārthaḥ saha tair vasudhādhipaiḥ 32 tataḥ sa kururājasya kratuḥ sarvaṃ samṛddhimān yūnāṃ prītikaro rājan saṃbabhau vipulaujasaḥ 33 śāntavighnaḥ sukhārambhaḥ prabhūtadhanadhānyavān annavān bahubhakṣyaś ca keśavena surakṣitaḥ 34 samāpayām āsa ca taṃ rājasūyaṃ mahākratum taṃ tu yajñaṃ mahābāhur ā samāpter janārdanaḥ rarakṣa bhagavāñ śauriḥ śārṅgacakragadādharaḥ 35 tatas tv avabhṛtha snātaṃ dharmarājaṃ yudhiṣṭhiram samastaṃ pārthivaṃ kṣatram abhigamyedam abravīt 36 diṣṭyā vardhasi dharmajña sāmrājyaṃ prāptavān vibho ājamīḍhājamīḍhānāṃ yaśo saṃvardhitaṃ tvayā karmaṇaitena rājendra dharmaś ca sumahān kṛtaḥ 37 āpṛcchāmo naravyāghra sarvakāmaiḥ supūjitāḥ svarāṣṭrāṇi gamiṣyāmas tadanujñātum arhasi 38 śrutvā tu vacanaṃ rājñāṃ dharmarājo yudhiṣṭhiraḥ yathārhaṃ pūjya nṛpatīn bhrātṝn sarvān uvāca ha 39 rājānaḥ sarva evaite prītyāsmān samupāgatāḥ prasthitāḥ svāni rāṣṭrāṇi mām āpṛcchya paraṃtapāḥ te 'nuvrajata bhadraṃ te viṣayāntaṃ nṛpottamān 40 bhrātur vacanam ājñāya pāṇḍavā dharmacāriṇaḥ yathārhaṃ nṛpa mukhyāṃs tān ekaikaṃ samanuvrajan 41 virāṭam anvayāt tūrṇaṃ dhṛṣṭadyumnaḥ pratāpavān dhanaṃjayo yajñasenaṃ mahātmānaṃ mahārathaḥ 42 bhīṣmaṃ ca dhṛtarāṣṭraṃ ca bhīmaseno mahābalaḥ droṇaṃ ca sa sutaṃ vīraṃ sahadevo mahārathaḥ 43 nakulaḥ subalaṃ rājan saha putraṃ samanvayāt draupadeyāḥ sa saubhaudrāḥ pārvatīyān mahīpatīn 44 anvagacchaṃs tathaivānyān kṣatriyān kṣatriyarṣabhāḥ evaṃ saṃpūjitās te vai jagmur viprāś ca sarvaśaḥ 45 gateṣu pārthivendreṣu sarveṣu bharatarṣabha yudhiṣṭhiram uvācedaṃ vāsudevaḥ pratāpavān 46 āpṛcche tvāṃ gamiṣyāmi dvārakāṃ kurunandana rājasūyaṃ kratuśreṣṭhaṃ diṣṭyā tvaṃ prāptavān asi 47 tam uvācaivam uktas tu dharmarāṇ madhusūdanam tava prasādād govinda prāptavān asmi vai kratum 48 samastaṃ pārthivaṃ kṣatraṃ tvatprasādād vaśānugam upādāya baliṃ mukhyaṃ mām eva samupasthitam 49 na vayaṃ tvām ṛte vīra raṃsyāmeha kathaṃ cana avaśyaṃ cāpi gantavyā tvayā dvāravatī purī 50 evam uktaḥ sa dharmātmā yudhiṣṭhira sahāyavān abhigamyābravīt prītaḥ pṛthāṃ pṛthu yaśā hariḥ 51 sāmrājyaṃ samanuprāptāḥ putrās te 'dya pitṛṣvasaḥ siddhārthā vasumantaś ca sā tvaṃ prītim ivāpnuhi 52 anujñātas tvayā cāhaṃ dvārakāṃ gantum utsahe subhadrāṃ draupadīṃ caiva sabhājayata keśavaḥ 53 niṣkramyāntaḥpurāc caiva yudhiṣṭhira sahāyavān snātaś ca kṛtajapyaś ca brāhmaṇān svasti vācya ca 54 tato meghavaraprakhyaṃ syandanaṃ vai sukalpitam yojayitvā mahārāja dārukaḥ pratyupasthitaḥ 55 upasthitaṃ rathaṃ dṛṣṭvā tārkṣya pravara ketanam pradakṣiṇam upāvṛtya samāruhya mahāmanāḥ prayayau puṇḍarīkākṣas tato dvāravatīṃ purīm 56 taṃ padbhyām anuvavrāja dharmarājo yudhiṣṭhiraḥ bhrātṛbhiḥ sahitaḥ śrīmān vāsudevaṃ mahābalam 57 tato muhūrtaṃ saṃgṛhya syandanapravaraṃ hariḥ abravīt puṇḍarīkākṣaḥ kuntīputraṃ yudhiṣṭhiram 58 apramattaḥ sthito nityaṃ prajāḥ pāhi viśāṃ pate parjanyam iva bhūtāni mahādrumam ivāṇḍajāḥ bāndhavās tvopajīvantu sahasrākṣam ivāmarāḥ 59 kṛtvā paraspareṇaiva saṃvidaṃ kṛṣṇa pāṇḍavau anyonyaṃ samanujñāpya jagmatuḥ svagṛhān prati 60 gate dvāravatīṃ kṛṣṇe sātvata pravare nṛpa eko duryodhano rājā śakuniś cāpi saubalaḥ tasyāṃ sabhāyāṃ divyāyām ūṣatus tau nararṣabhau |
The Mahabharata in Sanskrit
Book 2
Chapter 43
|
1
[व] वसन दुर्यॊधनस तस्यां सभायां भरतर्षभ शनैर ददर्श तां सर्वां सभां शकुनिना सह 2 तस्यां दिव्यान अभिप्रायान ददर्श कुरुनन्दनः न दृष्टपूर्वा ये तेन नगरे नागसाह्वये 3 स कदा चित सभामध्ये धार्तराष्ट्रॊ महीपतिः सफाटिकं तलम आसाद्य जलम इत्य अभिशङ्कया 4 सववस्त्रॊत्कर्षणं राजा कृतवान बुद्धिमॊहितः दुर्मना विमुखश चैव परिचक्राम तां सभाम 5 ततः सफाटिकतॊयां वै सफाटिकाम्बुज शॊभिताम वापीं मत्वा सथलम इति स वासाः परापतज जले 6 जले निपतितं दृष्ट्वा किं करा जहसुर भृशम वासांसि च शुभान्य अस्मै परददू राजशासनात 7 तथागतं तु तं दृष्ट्वा भीमसेनॊ महाबलः अर्जुनश च यमौ चॊभौ सर्वे ते पराहसंस तदा 8 नामर्षयत ततस तेषाम अवहासम अमर्षणः आकारं रक्षमाणस तु न स तान समुदैक्षत 9 पुनर वसनम उत्क्षिप्य परतरिष्यन्न इव सथलम आरुरॊह ततः सर्वे जहसुस ते पुनर जनाः 10 दवारं च विवृताकारं ललाटेन समाहनत संवृतं चेति मन्वानॊ दवारदेशाद उपारमत 11 एवं परलम्भान विविधान पराप्य तत्र विशां पते पाण्डवेयाभ्यनुज्ञातस ततॊ दुर्यॊधनॊ नृपः 12 अप्रहृष्टेन मनसा राजसूये महाक्रतौ परेक्ष्यताम अद्भुताम ऋद्धिं जगाम गजसाह्वयम 13 पाण्डव शरीप्रतप्तस्य धयानग्लानस्य गच्छतः दुर्यॊधनस्य नृपतेः पापा मतिर अजायत 14 पार्थान सुमनसॊ दृष्ट्वा पार्थिवांश च वशानुगान कृत्स्नं चापिहितं लॊकम आ कुमारं कुरूद्वह 15 महिमानं परं चापि पाण्डवानां महात्मनाम दुर्यॊधनॊ धार्तराष्ट्रॊ विवर्णः समपद्यत 16 स तु गच्छन्न अनेकाग्रः सभाम एवानुचिन्तयन शरियं च ताम अनुपमां धर्मराजस्य धीमतः 17 परमत्तॊ धृतराष्ट्रस्य पुत्रॊ दुर्यॊधनस तदा नाभ्यभाषत सुबलजं भाषमाणं पुनः पुनः 18 अनेकाग्रं तु तं दृष्ट्वा शकुनिः परत्यभाषत दुर्यॊधन कुतॊ मूलं निःश्वसन्न इव गच्छसि 19 [द] दृष्ट्वेमां पृथिवीं कृत्स्नां युधिष्ठिर वशानुगाम जिताम अस्त्रप्रतापेन शवेताश्वस्य महात्मनः 20 तं च यज्ञं तथा भूतं दृष्ट्वा पार्थस्य मातुल यथा शक्रस्य देवेषु तथा भूतं महाद्युते 21 अमर्षेण सुसंपूर्णॊ दह्यमानॊ दिवानिशम शुचि शुक्रागमे काले शुष्ये तॊयम इवाल्पकम 22 पश्य सात्वत मुख्येन शिशुपालं निपातितम न च तत्र पुमान आसीत कश चित तस्य पदानुगः 23 दह्यमाना हि राजानः पाण्डवॊत्थेन वह्निना कषान्तवन्तॊ ऽपराधं तं कॊ हि तं कषन्तुम अर्हति 24 वासुदेवेन तत कर्म तथायुक्तं महत कृतम सिद्धं च पाण्डवेयानां परतापेन महात्मनाम 25 तथा हि रत्नान्य आदाय विविधानि नृपा नृपम उपतिष्ठन्ति कौन्तेयं वैश्या इव करप्रदाः 26 शरियं तथाविधां दृष्ट्वा जवलन्तीम इव पाण्डवे अमर्षवशम आपन्नॊ दह्ये ऽहम अतथॊचितः 27 वह्निम एव परवेक्ष्यामि भक्षयिष्यामि वा विषम अपॊ वापि परवेक्ष्यामि न हि शक्ष्यामि जीवितुम 28 कॊ हि नाम पुमाँल लॊके मर्षयिष्यति सत्त्ववान सपत्नान ऋध्यतॊ दृष्ट्वा हानिम आत्मन एव च 29 सॊ ऽहं न सत्री न चाप्य अस्त्री न पुमान नापुमान अपि यॊ ऽहं तां मर्षयाम्य अद्य तादृशीं शरियम आगताम 30 ईश्वरत्वं पृथिव्याश च वसुमत्तां च तादृशीम यज्ञं च तादृशं दृष्ट्वा मादृशः कॊ न संज्वरेत 31 अशक्तश चैक एवाहं ताम आहर्तुं नृप शरियम सहायांश च न पश्यामि तेन मृत्युं विचिन्तये 32 दैवम एव परं मन्ये पौरुषं तु निरर्थकम दृष्ट्वा कुन्तीसुते शुभ्रां शरियं ताम आहृतां तथा 33 कृतॊ यत्नॊ मया पूर्वं विनाशे तस्य सौबल तच च सर्वम अतिक्रम्य सवृद्धॊ ऽपस्व इव पङ्कजम 34 तेन दैवं परं मन्ये पौरुषं तु निरर्थकम धार्तराष्ट्रा हि हीयन्ते पार्था वर्धन्ति नित्यशः 35 सॊ ऽहं शरियं च तां दृष्ट्वा सभां तां च तथाविधाम रक्षिभिश चावहासं तं परितप्ये यथाग्निना 36 स माम अभ्यनुजानीहि मातुलाद्य सुदुःखितम अमर्षं च समाविष्टं धृतराष्ट्रे निवेदय |
1
[v] vasan duryodhanas tasyāṃ sabhāyāṃ bharatarṣabha śanair dadarśa tāṃ sarvāṃ sabhāṃ śakuninā saha 2 tasyāṃ divyān abhiprāyān dadarśa kurunandanaḥ na dṛṣṭapūrvā ye tena nagare nāgasāhvaye 3 sa kadā cit sabhāmadhye dhārtarāṣṭro mahīpatiḥ sphāṭikaṃ talam āsādya jalam ity abhiśaṅkayā 4 svavastrotkarṣaṇaṃ rājā kṛtavān buddhimohitaḥ durmanā vimukhaś caiva paricakrāma tāṃ sabhām 5 tataḥ sphāṭikatoyāṃ vai sphāṭikāmbuja śobhitām vāpīṃ matvā sthalam iti sa vāsāḥ prāpataj jale 6 jale nipatitaṃ dṛṣṭvā kiṃ karā jahasur bhṛśam vāsāṃsi ca śubhāny asmai pradadū rājaśāsanāt 7 tathāgataṃ tu taṃ dṛṣṭvā bhīmaseno mahābalaḥ arjunaś ca yamau cobhau sarve te prāhasaṃs tadā 8 nāmarṣayat tatas teṣām avahāsam amarṣaṇaḥ ākāraṃ rakṣamāṇas tu na sa tān samudaikṣata 9 punar vasanam utkṣipya pratariṣyann iva sthalam āruroha tataḥ sarve jahasus te punar janāḥ 10 dvāraṃ ca vivṛtākāraṃ lalāṭena samāhanat saṃvṛtaṃ ceti manvāno dvāradeśād upāramat 11 evaṃ pralambhān vividhān prāpya tatra viśāṃ pate pāṇḍaveyābhyanujñātas tato duryodhano nṛpaḥ 12 aprahṛṣṭena manasā rājasūye mahākratau prekṣyatām adbhutām ṛddhiṃ jagāma gajasāhvayam 13 pāṇḍava śrīprataptasya dhyānaglānasya gacchataḥ duryodhanasya nṛpateḥ pāpā matir ajāyata 14 pārthān sumanaso dṛṣṭvā pārthivāṃś ca vaśānugān kṛtsnaṃ cāpihitaṃ lokam ā kumāraṃ kurūdvaha 15 mahimānaṃ paraṃ cāpi pāṇḍavānāṃ mahātmanām duryodhano dhārtarāṣṭro vivarṇaḥ samapadyata 16 sa tu gacchann anekāgraḥ sabhām evānucintayan śriyaṃ ca tām anupamāṃ dharmarājasya dhīmataḥ 17 pramatto dhṛtarāṣṭrasya putro duryodhanas tadā nābhyabhāṣat subalajaṃ bhāṣamāṇaṃ punaḥ punaḥ 18 anekāgraṃ tu taṃ dṛṣṭvā śakuniḥ pratyabhāṣata duryodhana kuto mūlaṃ niḥśvasann iva gacchasi 19 [d] dṛṣṭvemāṃ pṛthivīṃ kṛtsnāṃ yudhiṣṭhira vaśānugām jitām astrapratāpena śvetāśvasya mahātmanaḥ 20 taṃ ca yajñaṃ tathā bhūtaṃ dṛṣṭvā pārthasya mātula yathā śakrasya deveṣu tathā bhūtaṃ mahādyute 21 amarṣeṇa susaṃpūrṇo dahyamāno divāniśam śuci śukrāgame kāle śuṣye toyam ivālpakam 22 paśya sātvata mukhyena śiśupālaṃ nipātitam na ca tatra pumān āsīt kaś cit tasya padānugaḥ 23 dahyamānā hi rājānaḥ pāṇḍavotthena vahninā kṣāntavanto 'parādhaṃ taṃ ko hi taṃ kṣantum arhati 24 vāsudevena tat karma tathāyuktaṃ mahat kṛtam siddhaṃ ca pāṇḍaveyānāṃ pratāpena mahātmanām 25 tathā hi ratnāny ādāya vividhāni nṛpā nṛpam upatiṣṭhanti kaunteyaṃ vaiśyā iva karapradāḥ 26 śriyaṃ tathāvidhāṃ dṛṣṭvā jvalantīm iva pāṇḍave amarṣavaśam āpanno dahye 'ham atathocitaḥ 27 vahnim eva pravekṣyāmi bhakṣayiṣyāmi vā viṣam apo vāpi pravekṣyāmi na hi śakṣyāmi jīvitum 28 ko hi nāma pumāṁl loke marṣayiṣyati sattvavān sapatnān ṛdhyato dṛṣṭvā hānim ātmana eva ca 29 so 'haṃ na strī na cāpy astrī na pumān nāpumān api yo 'haṃ tāṃ marṣayāmy adya tādṛśīṃ śriyam āgatām 30 īśvaratvaṃ pṛthivyāś ca vasumattāṃ ca tādṛśīm yajñaṃ ca tādṛśaṃ dṛṣṭvā mādṛśaḥ ko na saṃjvaret 31 aśaktaś caika evāhaṃ tām āhartuṃ nṛpa śriyam sahāyāṃś ca na paśyāmi tena mṛtyuṃ vicintaye 32 daivam eva paraṃ manye pauruṣaṃ tu nirarthakam dṛṣṭvā kuntīsute śubhrāṃ śriyaṃ tām āhṛtāṃ tathā 33 kṛto yatno mayā pūrvaṃ vināśe tasya saubala tac ca sarvam atikramya savṛddho 'psv iva paṅkajam 34 tena daivaṃ paraṃ manye pauruṣaṃ tu nirarthakam dhārtarāṣṭrā hi hīyante pārthā vardhanti nityaśaḥ 35 so 'haṃ śriyaṃ ca tāṃ dṛṣṭvā sabhāṃ tāṃ ca tathāvidhām rakṣibhiś cāvahāsaṃ taṃ paritapye yathāgninā 36 sa mām abhyanujānīhi mātulādya suduḥkhitam amarṣaṃ ca samāviṣṭaṃ dhṛtarāṣṭre nivedaya |
The Mahabharata in Sanskrit
Book 2
Chapter 44
|
1
[ष] दुर्यॊधन न ते ऽमर्षः कार्यः परति युधिष्ठिरम भागधेयानि हि सवानि पाण्डवा भुञ्जते सदा 2 अनेकैर अभ्युपायैश च तवयारब्धाः पुरासकृत विमुक्ताश च नरव्याघ्रा भागधेय पुरस्कृताः 3 तैर लब्धा दरौपदी भार्या दरुपदश च सुतैः सह सहायः पृथिवी लाभे वासुदेवश च वीर्यवान 4 लब्धश च नाभिभूतॊ ऽरथः पित्र्यॊ ऽंशः पृथिवीपते विवृद्धस तेजसा तेषां तत्र का परिदेवना 5 धनंजयेन गाण्डीवम अक्षय्यौ च महेषुधी लब्धान्य अस्त्राणि दिव्यानि तर्पयित्वा हुताशनम 6 तेन कार्मुकमुख्येन बाहुवीर्येण चात्मनः कृता वशे महीपालास तत्र का परिदेवना 7 अग्निदाहान मयं चापि मॊक्षयित्वा सदानवम सभां तां कारयाम आस सव्यसाची परंतपः 8 तेन चैव मयेनॊक्ताः किं करा नाम राक्षसाः वहन्ति तां सभां भीमास तत्र का परिदेवना 9 यच चासहायतां राजन्न उक्तवान असि भारत तन मिथ्या भरातरॊ हीमे सहायास ते महारथाः 10 दरॊणस तव महेष्वासः सह पुत्रेण धीमता सूतपुत्रश च राधेयॊ गौतमश च महारथः 11 अहं च सह सॊदर्यैः सौमदत्तिश च वीर्यवान एतैस तवं सहितः सर्वैर जय कृत्स्नां वसुंधराम 12 [द] तवया च सहितॊ राजन्न एतैश चान्यैर महारथैः एतान एव विजेष्यामि यदि तवम अनुमन्यसे 13 एतेषु विजितेष्व अद्य भविष्यति मही मम सर्वे च पृथिवीपालाः सभा सा च महाधना 14 [ष] धनंजयॊ वासुदेवॊ भीमसेनॊ युधिष्ठिरः नकुलः सहदेवश च दरुपदश च सहात्म जैः 15 नैते युधि बलाज जेतुं शक्याः सुरगणैर अपि महारथा महेष्वासाः कृतास्त्रा युद्धदुर्मदाः 16 अहं तु तद विजानामि विजेतुं येन शक्यते युधिष्ठिरं सवयं राजंस तन निबॊध जुषस्व च 17 [द] अप्रमादेन सुहृदाम अन्येषां च महात्मनाम यदि शक्या विजेतुं ते तन ममाचक्ष्व मातुल 18 [ष] दयूतप्रियश च कौन्तेयॊ न च जानाति देवितुम समाहूतश च राजेन्द्रॊ न शक्ष्यति निवर्तितुम 19 देवने कुशलश चाहं न मे ऽसति सदृशॊ भुवि तरिषु लॊकेषु कौन्तेयं तं तवं दयूते समाह्वय 20 तस्याक्षकुशलॊ राजन्न आदास्ये ऽहम असंशयम राज्यं शरियं च तां दीप्तां तवदर्थं पुरुषर्षभ 21 इदं तु सर्वं तवं राज्ञे दुर्यॊधन निवेदय अनुज्ञातस तु ते पित्रा विजेष्ये तं न संशयः 22 [द] तवम एव कुरुमुख्याय धृतराष्ट्राय सौबल निवेदय यथान्यायं नाहं शक्ष्ये निशंसितुम |
1
[ṣ] duryodhana na te 'marṣaḥ kāryaḥ prati yudhiṣṭhiram bhāgadheyāni hi svāni pāṇḍavā bhuñjate sadā 2 anekair abhyupāyaiś ca tvayārabdhāḥ purāsakṛt vimuktāś ca naravyāghrā bhāgadheya puraskṛtāḥ 3 tair labdhā draupadī bhāryā drupadaś ca sutaiḥ saha sahāyaḥ pṛthivī lābhe vāsudevaś ca vīryavān 4 labdhaś ca nābhibhūto 'rthaḥ pitryo 'ṃśaḥ pṛthivīpate vivṛddhas tejasā teṣāṃ tatra kā paridevanā 5 dhanaṃjayena gāṇḍīvam akṣayyau ca maheṣudhī labdhāny astrāṇi divyāni tarpayitvā hutāśanam 6 tena kārmukamukhyena bāhuvīryeṇa cātmanaḥ kṛtā vaśe mahīpālās tatra kā paridevanā 7 agnidāhān mayaṃ cāpi mokṣayitvā sadānavam sabhāṃ tāṃ kārayām āsa savyasācī paraṃtapaḥ 8 tena caiva mayenoktāḥ kiṃ karā nāma rākṣasāḥ vahanti tāṃ sabhāṃ bhīmās tatra kā paridevanā 9 yac cāsahāyatāṃ rājann uktavān asi bhārata tan mithyā bhrātaro hīme sahāyās te mahārathāḥ 10 droṇas tava maheṣvāsaḥ saha putreṇa dhīmatā sūtaputraś ca rādheyo gautamaś ca mahārathaḥ 11 ahaṃ ca saha sodaryaiḥ saumadattiś ca vīryavān etais tvaṃ sahitaḥ sarvair jaya kṛtsnāṃ vasuṃdharām 12 [d] tvayā ca sahito rājann etaiś cānyair mahārathaiḥ etān eva vijeṣyāmi yadi tvam anumanyase 13 eteṣu vijiteṣv adya bhaviṣyati mahī mama sarve ca pṛthivīpālāḥ sabhā sā ca mahādhanā 14 [ṣ] dhanaṃjayo vāsudevo bhīmaseno yudhiṣṭhiraḥ nakulaḥ sahadevaś ca drupadaś ca sahātma jaiḥ 15 naite yudhi balāj jetuṃ śakyāḥ suragaṇair api mahārathā maheṣvāsāḥ kṛtāstrā yuddhadurmadāḥ 16 ahaṃ tu tad vijānāmi vijetuṃ yena śakyate yudhiṣṭhiraṃ svayaṃ rājaṃs tan nibodha juṣasva ca 17 [d] apramādena suhṛdām anyeṣāṃ ca mahātmanām yadi śakyā vijetuṃ te tan mamācakṣva mātula 18 [ṣ] dyūtapriyaś ca kaunteyo na ca jānāti devitum samāhūtaś ca rājendro na śakṣyati nivartitum 19 devane kuśalaś cāhaṃ na me 'sti sadṛśo bhuvi triṣu lokeṣu kaunteyaṃ taṃ tvaṃ dyūte samāhvaya 20 tasyākṣakuśalo rājann ādāsye 'ham asaṃśayam rājyaṃ śriyaṃ ca tāṃ dīptāṃ tvadarthaṃ puruṣarṣabha 21 idaṃ tu sarvaṃ tvaṃ rājñe duryodhana nivedaya anujñātas tu te pitrā vijeṣye taṃ na saṃśayaḥ 22 [d] tvam eva kurumukhyāya dhṛtarāṣṭrāya saubala nivedaya yathānyāyaṃ nāhaṃ śakṣye niśaṃsitum |
The Mahabharata in Sanskrit
Book 2
Chapter 45
|
1
[व] अनुभूय तु राज्ञस तं राजसूयं महाक्रतुम युधिष्ठिरस्य नृपतेर गान्धारी पुत्र संयुतः 2 परियकृन मतम आज्ञाय पूर्वं दुर्यॊधनस्य तत परज्ञा चक्षुषम आसीनं शकुनिः सौबलस तदा 3 दुर्यॊधन वचॊ शरुत्वा धृतराष्ट्रं जनाधिपम उपगम्य महाप्राज्ञं शकुनिर वाक्यम अब्रवीत 4 दुर्यॊधनॊ महाराज विवर्णॊ हरिणः कृशः दीनश चिन्तापरश चैव तद विद्धि भरतर्षभ 5 न वै परीक्षसे सम्यग असह्यं शत्रुसंभवम जयेष्ठपुत्रस्य शॊकं तवं किमर्थं नावबुध्यसे 6 [ध] दुर्यॊधन कुतॊ मूलं भृशम आर्तॊ ऽसि पुत्रक शरॊतव्यश चेन मया सॊ ऽरथॊ बरूहि मे कुरुनन्दन 7 अयं तवां शकुनिः पराह विवर्णं हरिणं कृशम चिन्तयंश च न पश्यामि शॊकस्य तव संभवम 8 ऐश्वर्यं हि महत पुत्र तवयि सर्वं समर्पितम भरातरः सुहृदश चैव नाचरन्ति तवाप्रियम 9 आच्छादयसि परावारान अश्नासि पिशितौदनम आजानेया वहन्ति तवां केनासि हरिणः कृशः 10 शयनानि महार्हाणि यॊषितश च मनॊरमाः गुणवन्ति च वेश्मानि विहाराश च यथासुखम 11 देवानाम इव ते सर्वं वाचि बद्धं न संशयः सदीन इव दुर्धर्षः कस्माच छॊचसि पुत्रक 12 [द] अश्नाम्य आच्छादये चाहं यथा कुपुरुषस तथा अमर्षं धारये चॊग्रं तितिक्षन कालपर्ययम 13 अमर्षणः सवाः परकृतीर अभिभूय परे सथिताः कलेशान मुमुक्षुः परजान स वै पुरुष उच्यते 14 संतॊषॊ वै शरियं हन्ति अभिमानश च भारत अनुक्रॊश भये चॊभे यैर वृतॊ नाश्नुते महत 15 न माम अवति तद भुक्तं शरियं दृष्ट्वा युधिष्ठिरे जवलन्तीम इव कौन्तेये विवर्णकरणीं मम 16 सपत्नान ऋध्यत आत्मानं हीयमानं निशाम्य च अदृश्याम अपि कौन्तेये सथितां पश्यन्न इवॊद्यताम तस्माद अहं विवर्णश च दीनश च हरिणः कृशः 17 अष्टाशीति सहस्राणि सनातका गृहमेधिनः तरिंशद दासीक एकैकॊ यान बिभर्ति युधिष्ठिरः 18 दशान्यानि सहस्राणि नित्यं तत्रान्नम उत्तमम भुञ्जते रुक्मपात्रीभिर युधिष्ठिर निवेशने 19 कदली मृगमॊकानि कृष्ण शयामारुणानि च काम्बॊजः पराहिणॊत तस्मै परार्ध्यान अपि कम्बलान 20 रथयॊषिद गवाश्वस्य शतशॊ ऽथ सहस्रशः तरिंशतं चॊष्ट्र वामीनां शतानि विचरन्त्य उत 21 पृथग्विधानि रत्नानि पार्थिवाः पृथिवीपते आहरन करतुमुख्ये ऽसमिन कुन्तीपुत्राय भूरिशः 22 न कवचिद धि मया दृष्टस तादृशॊ नैव च शरुतः यादृग धनागमॊ यज्ञे पाण्डुपुत्रस्य धीमतः 23 अपर्यन्तं धनौघं तं दृष्ट्वा शत्रॊर अहं नृप शर्म नैवाधिगच्छामि चिन्तयानॊ ऽनिशं विभॊ 24 बराह्मणा वाटधानाश च गॊमन्तः शतसंघशः तरैखर्वं बलिम आदाय दवारि तिष्ठन्ति वारिताः 25 कमण्डलून उपादाय जातरूपमयाञ शुभान एवं बलिं समादाय परवेशं लेभिरे ततः 26 यन नैव मधु शक्राय धारयन्त्य अमर सत्रियः तद अस्मै कांस्यम आहार्षीद वारुणं कलशॊदधिः 27 शैक्यं रुक्मसहस्रस्य बहुरत्नविभूषितम दृष्ट्वा च मम तत सर्वं जवर रूपम इवाभवत 28 गृहीत्वा तत तु गच्छन्ति समुद्रौ पूर्वदक्षिणौ तथैव पश्चिमं यान्ति गृहीत्वा भरतर्षभ 29 उत्तरं तु न गच्छन्ति विना तात पतत्रिभिः इदं चाद्भुतम अत्रासीत तन मे निगदतः शृणु 30 पूर्णे शतसहस्रे तु विप्राणां परिविष्यताम सथापिता तत्र संज्ञाभूच छङ्खॊ धमायति नित्यशः 31 मुहुर मुहुः परनदतस तस्य शङ्खस्य भारत उत्तमं शब्दम अश्रौषं ततॊ रॊमाणि मे ऽहृषन 32 पार्थिवैर बहुभिः कीर्णम उपस्थानं दिदृक्षुभिः सर्वरत्नान्य उपादाय पार्थिवा वै जनेश्वर 33 यज्ञे तस्य महाराज पाण्डुपुत्रस्य धीमतः वैश्या इव महीपाला दविजातिपरिवेषकाः 34 न सा शरीर देवराजस्य यमस्य वरुणस्य वा गुह्यकाधिपतेर वापि या शरीराजन युधिष्ठिरे 35 तां दृष्ट्वा पाण्डुपुत्रस्य शरियं परमिकाम अहम शान्तिं न परिगच्छामि दह्यमानेन चेतसा 36 [ष] याम एताम उत्तमां लक्ष्मीं दृष्टवान असि पाण्डवे तस्याः पराप्ताव उपायं मे शृणु सत्यपराक्रम 37 अहम अक्षेष्व अभिज्ञातः पृथिव्याम अपि भारत हृदयज्ञः पणज्ञश च विशेषज्ञश च देवने 38 दयूतप्रियश च कौन्तेयॊ न च जानाति देवितुम आहूतश चैष्यति वयक्तं दीव्यावेत्य आह्वयस्व तम 39 [व] एवम उक्तः शकुनिना राजा दुर्यॊधनस तदा धृतराष्ट्रम इदं वाक्यम अपदान्तरम अब्रवीत 40 अयम उत्सहते राजञ शरियम आहर्तुम अक्षवित दयूतेन पाण्डुपुत्रस्य तदनुज्ञातुम अर्हसि 41 [ध] कषत्ता मन्त्री महाप्राज्ञः सथितॊ यस्यास्मि शासने तेन संगम्य वेत्स्यामि कार्यस्यास्य विनिश्चयम 42 स हि धर्मं पुरस्कृत्य दीर्घदर्शी परं हितम उभयॊः पक्षयॊर युक्तं वक्ष्यत्य अर्थविनिश्चयम 43 [द] निवर्तयिष्यति तवासौ यदि कषत्ता समेष्यति निवृत्ते तवयि राजेन्द्र मरिष्ये ऽहम असंशयम 44 स मयि तवं मृते राजन विदुरेण सुखी भव भॊक्ष्यसे पृथिवीं कृत्स्नां किं मया तवं करिष्यसि 45 [व] आर्तवाक्यं तु तत तस्य परणयॊक्तं निशम्य सः धृतराष्ट्रॊ ऽबरवीत परेष्यान दुर्यॊधन मते सथितः 46 सथूणा सहस्रैर बृहतीं शतद्वारां सभां मम मनॊरमां दर्शनीयाम आशु कुर्वन्तु शिल्पिनः 47 ततः संस्तीर्य रत्नैस ताम अक्षान आवाप्य सर्वशः सुकृतां सुप्रवेशां च निवेदयत मे शनैः 48 दुर्यॊधनस्य शान्त्य अर्थम इति निश्चित्य भूमिपः धृतराष्ट्रॊ महाराज पराहिणॊद विदुराय वै 49 अपृष्ट्वा विदुरं हय अस्य नासीत कश चिद विनिश्चयः दयूतदॊषांश च जानन सपुत्रस्नेहाद अकृष्यत 50 तच छरुत्वा विदुरॊ धीमान कलिद्वारम उपस्थितम विनाशमुखम उत्पन्नं धृतराष्ट्रम उपाद्रवत 51 सॊ ऽभिगम्य महात्मानं भराता भरातरम अग्रजम मूर्ध्ना परणम्य चरणाव इदं वचनम अब्रवीत 52 नाभिनन्दामि ते राजन वयवसायम इमं परभॊ पुत्रैर भेदॊ यथा न सयाद दयूतहेतॊस तथा कुरु 53 [धृ] कषत्तः पुत्रेषु पुत्रैर मे कलहॊ न भविष्यति दिवि देवाः परसादं नः करिष्यन्ति न संशयः 54 अशुभं वा शुभं वापिहितं वा यदि वाहितम परवर्ततां सुहृद दयूतं दिष्टम एतन न संशयः 55 मयि संनिहिते चैव भीष्मे च भरतर्षभे अनयॊ दैवविहितॊ न कथं चिद भविष्यति 56 गच्छ तवं रथम आस्थाय हयैर वातसमैर जवे खाण्डव परस्थम अद्यैव समानय युधिष्ठिरम 57 न वार्यॊ वयवसायॊ मे विदुरैतद बरवीमि ते दैवम एव परं मन्ये येनैतद उपपद्यते 58 इत्य उक्तॊ विदुरॊ धीमान नैतद अस्तीति चिन्तयन आपगेयं महाप्राज्ञम अभ्यगच्छत सुदुःखितः |
1
[v] anubhūya tu rājñas taṃ rājasūyaṃ mahākratum yudhiṣṭhirasya nṛpater gāndhārī putra saṃyutaḥ 2 priyakṛn matam ājñāya pūrvaṃ duryodhanasya tat prajñā cakṣuṣam āsīnaṃ śakuniḥ saubalas tadā 3 duryodhana vaco śrutvā dhṛtarāṣṭraṃ janādhipam upagamya mahāprājñaṃ śakunir vākyam abravīt 4 duryodhano mahārāja vivarṇo hariṇaḥ kṛśaḥ dīnaś cintāparaś caiva tad viddhi bharatarṣabha 5 na vai parīkṣase samyag asahyaṃ śatrusaṃbhavam jyeṣṭhaputrasya śokaṃ tvaṃ kimarthaṃ nāvabudhyase 6 [dh] duryodhana kuto mūlaṃ bhṛśam ārto 'si putraka śrotavyaś cen mayā so 'rtho brūhi me kurunandana 7 ayaṃ tvāṃ śakuniḥ prāha vivarṇaṃ hariṇaṃ kṛśam cintayaṃś ca na paśyāmi śokasya tava saṃbhavam 8 aiśvaryaṃ hi mahat putra tvayi sarvaṃ samarpitam bhrātaraḥ suhṛdaś caiva nācaranti tavāpriyam 9 ācchādayasi prāvārān aśnāsi piśitaudanam ājāneyā vahanti tvāṃ kenāsi hariṇaḥ kṛśaḥ 10 śayanāni mahārhāṇi yoṣitaś ca manoramāḥ guṇavanti ca veśmāni vihārāś ca yathāsukham 11 devānām iva te sarvaṃ vāci baddhaṃ na saṃśayaḥ sadīna iva durdharṣaḥ kasmāc chocasi putraka 12 [d] aśnāmy ācchādaye cāhaṃ yathā kupuruṣas tathā amarṣaṃ dhāraye cograṃ titikṣan kālaparyayam 13 amarṣaṇaḥ svāḥ prakṛtīr abhibhūya pare sthitāḥ kleśān mumukṣuḥ parajān sa vai puruṣa ucyate 14 saṃtoṣo vai śriyaṃ hanti abhimānaś ca bhārata anukrośa bhaye cobhe yair vṛto nāśnute mahat 15 na mām avati tad bhuktaṃ śriyaṃ dṛṣṭvā yudhiṣṭhire jvalantīm iva kaunteye vivarṇakaraṇīṃ mama 16 sapatnān ṛdhyata ātmānaṃ hīyamānaṃ niśāmya ca adṛśyām api kaunteye sthitāṃ paśyann ivodyatām tasmād ahaṃ vivarṇaś ca dīnaś ca hariṇaḥ kṛśaḥ 17 aṣṭāśīti sahasrāṇi snātakā gṛhamedhinaḥ triṃśad dāsīka ekaiko yān bibharti yudhiṣṭhiraḥ 18 daśānyāni sahasrāṇi nityaṃ tatrānnam uttamam bhuñjate rukmapātrībhir yudhiṣṭhira niveśane 19 kadalī mṛgamokāni kṛṣṇa śyāmāruṇāni ca kāmbojaḥ prāhiṇot tasmai parārdhyān api kambalān 20 rathayoṣid gavāśvasya śataśo 'tha sahasraśaḥ triṃśataṃ coṣṭra vāmīnāṃ śatāni vicaranty uta 21 pṛthagvidhāni ratnāni pārthivāḥ pṛthivīpate āharan kratumukhye 'smin kuntīputrāya bhūriśaḥ 22 na kvacid dhi mayā dṛṣṭas tādṛśo naiva ca śrutaḥ yādṛg dhanāgamo yajñe pāṇḍuputrasya dhīmataḥ 23 aparyantaṃ dhanaughaṃ taṃ dṛṣṭvā śatror ahaṃ nṛpa śarma naivādhigacchāmi cintayāno 'niśaṃ vibho 24 brāhmaṇā vāṭadhānāś ca gomantaḥ śatasaṃghaśaḥ traikharvaṃ balim ādāya dvāri tiṣṭhanti vāritāḥ 25 kamaṇḍalūn upādāya jātarūpamayāñ śubhān evaṃ baliṃ samādāya praveśaṃ lebhire tataḥ 26 yan naiva madhu śakrāya dhārayanty amara striyaḥ tad asmai kāṃsyam āhārṣīd vāruṇaṃ kalaśodadhiḥ 27 śaikyaṃ rukmasahasrasya bahuratnavibhūṣitam dṛṣṭvā ca mama tat sarvaṃ jvara rūpam ivābhavat 28 gṛhītvā tat tu gacchanti samudrau pūrvadakṣiṇau tathaiva paścimaṃ yānti gṛhītvā bharatarṣabha 29 uttaraṃ tu na gacchanti vinā tāta patatribhiḥ idaṃ cādbhutam atrāsīt tan me nigadataḥ śṛṇu 30 pūrṇe śatasahasre tu viprāṇāṃ pariviṣyatām sthāpitā tatra saṃjñābhūc chaṅkho dhmāyati nityaśaḥ 31 muhur muhuḥ pranadatas tasya śaṅkhasya bhārata uttamaṃ śabdam aśrauṣaṃ tato romāṇi me 'hṛṣan 32 pārthivair bahubhiḥ kīrṇam upasthānaṃ didṛkṣubhiḥ sarvaratnāny upādāya pārthivā vai janeśvara 33 yajñe tasya mahārāja pāṇḍuputrasya dhīmataḥ vaiśyā iva mahīpālā dvijātipariveṣakāḥ 34 na sā śrīr devarājasya yamasya varuṇasya vā guhyakādhipater vāpi yā śrīrājan yudhiṣṭhire 35 tāṃ dṛṣṭvā pāṇḍuputrasya śriyaṃ paramikām aham śāntiṃ na parigacchāmi dahyamānena cetasā 36 [ṣ] yām etām uttamāṃ lakṣmīṃ dṛṣṭavān asi pāṇḍave tasyāḥ prāptāv upāyaṃ me śṛṇu satyaparākrama 37 aham akṣeṣv abhijñātaḥ pṛthivyām api bhārata hṛdayajñaḥ paṇajñaś ca viśeṣajñaś ca devane 38 dyūtapriyaś ca kaunteyo na ca jānāti devitum āhūtaś caiṣyati vyaktaṃ dīvyāvety āhvayasva tam 39 [v] evam uktaḥ śakuninā rājā duryodhanas tadā dhṛtarāṣṭram idaṃ vākyam apadāntaram abravīt 40 ayam utsahate rājañ śriyam āhartum akṣavit dyūtena pāṇḍuputrasya tadanujñātum arhasi 41 [dh] kṣattā mantrī mahāprājñaḥ sthito yasyāsmi śāsane tena saṃgamya vetsyāmi kāryasyāsya viniścayam 42 sa hi dharmaṃ puraskṛtya dīrghadarśī paraṃ hitam ubhayoḥ pakṣayor yuktaṃ vakṣyaty arthaviniścayam 43 [d] nivartayiṣyati tvāsau yadi kṣattā sameṣyati nivṛtte tvayi rājendra mariṣye 'ham asaṃśayam 44 sa mayi tvaṃ mṛte rājan vidureṇa sukhī bhava bhokṣyase pṛthivīṃ kṛtsnāṃ kiṃ mayā tvaṃ kariṣyasi 45 [v] ārtavākyaṃ tu tat tasya praṇayoktaṃ niśamya saḥ dhṛtarāṣṭro 'bravīt preṣyān duryodhana mate sthitaḥ 46 sthūṇā sahasrair bṛhatīṃ śatadvārāṃ sabhāṃ mama manoramāṃ darśanīyām āśu kurvantu śilpinaḥ 47 tataḥ saṃstīrya ratnais tām akṣān āvāpya sarvaśaḥ sukṛtāṃ supraveśāṃ ca nivedayata me śanaiḥ 48 duryodhanasya śānty artham iti niścitya bhūmipaḥ dhṛtarāṣṭro mahārāja prāhiṇod vidurāya vai 49 apṛṣṭvā viduraṃ hy asya nāsīt kaś cid viniścayaḥ dyūtadoṣāṃś ca jānan saputrasnehād akṛṣyata 50 tac chrutvā viduro dhīmān kalidvāram upasthitam vināśamukham utpannaṃ dhṛtarāṣṭram upādravat 51 so 'bhigamya mahātmānaṃ bhrātā bhrātaram agrajam mūrdhnā praṇamya caraṇāv idaṃ vacanam abravīt 52 nābhinandāmi te rājan vyavasāyam imaṃ prabho putrair bhedo yathā na syād dyūtahetos tathā kuru 53 [dhṛ] kṣattaḥ putreṣu putrair me kalaho na bhaviṣyati divi devāḥ prasādaṃ naḥ kariṣyanti na saṃśayaḥ 54 aśubhaṃ vā śubhaṃ vāpihitaṃ vā yadi vāhitam pravartatāṃ suhṛd dyūtaṃ diṣṭam etan na saṃśayaḥ 55 mayi saṃnihite caiva bhīṣme ca bharatarṣabhe anayo daivavihito na kathaṃ cid bhaviṣyati 56 gaccha tvaṃ ratham āsthāya hayair vātasamair jave khāṇḍava prastham adyaiva samānaya yudhiṣṭhiram 57 na vāryo vyavasāyo me viduraitad bravīmi te daivam eva paraṃ manye yenaitad upapadyate 58 ity ukto viduro dhīmān naitad astīti cintayan āpageyaṃ mahāprājñam abhyagacchat suduḥkhitaḥ |
The Mahabharata in Sanskrit
Book 2
Chapter 46
|
1
[ज] कथं समभवद दयूतं भरातॄणां तन महात्ययम यत्र तद वयसनं पराप्तं पाण्डवैर मे पितामहैः 2 के च तत्र सभास्तारा राजानॊ बरह्मवित्तम के चैनम अन्वमॊदन्त के चैनं परत्यषेधयन 3 विस्तरेणैतद इच्छामि कथ्यमानं तवया दविज मूलं हय एतद विनाशस्य पृथिव्या दविजसत्तम 4 [सूत] एवम उक्तस तदा राज्ञा वयास शिष्यः परतापवान आचचक्षे यथावृत्तं तत सर्वं सर्ववेदवित 5 [व] शृणु मे विस्तरेणेमां कथां भरतसत्तम भूय एव महाराज यदि ते शरवणे मतिः 6 विदुरस्य मतं जञात्वा धृतराष्ट्रॊ ऽमबिका सुतः दुर्यॊधनम इदं वाक्यम उवाच विजने पुनः 7 अलं दयूतेन गान्धारे विदुरॊ न परशंसति न हय असौ सुमहाबुद्धिर अहितं नॊ वदिष्यति 8 हितं हि परमं मन्ये विदुरॊ यत परभाषते करियतां पुत्र तत सर्वम एतन मन्ये हितं तव 9 देवर्षिर वासव गुरुर देवराजाय धीमते यत पराह शास्त्रं भगवान बृहस्पतिर उदारधीः 10 तद वेद विदुरः सर्वं सरहस्यं महाकविः सथितश च वचने तस्य सदाहम अपि पुत्रक 11 विदुरॊ वापि मेधावी कुरूणां परवरॊ मतः उद्धवॊ वा महाबुद्धिर वृष्णीणाम अर्चितॊ नृप 12 दयूतेन तद अलं पुत्र दयूते भेदॊ हि दृश्यते भेदे विनाशॊ राज्यस्य तत पुत्र परिवर्जय 13 पित्रा मात्रा च पुत्रस्य यद वै कार्यं परं समृतम पराप्तस तवम असि तत तात पितृपैतामहं पदम 14 अधीतवान कृती शास्त्रे लालितः सततं गृहे भरातृज्येष्ठः सथितॊ राज्ये विन्दसे किं न शॊभनम 15 पृथग्जनैर अलभ्यं यद भॊजनाच्छादनं परम तत पराप्तॊ ऽसि महाबाहॊ कस्माच छॊचसि पुत्रक 16 सफीतं राष्ट्रं महाबाहॊ पितृपैतामहं महत नित्यम आज्ञापयन भासि दिवि देवेश्वरॊ यथा 17 तस्य ते विदितप्रज्ञ शॊकमूलम इदं कथम समुत्थितं दुःखतरं तन मे शंसितुम अर्हसि 18 [द] अश्नाम्य आच्छादयामीति परपश्यन पापपूरुषः नामर्षं कुरुते यस तु पुरुषः सॊ ऽधमः समृतः 19 न मां परीणाति राजेन्द्र लक्ष्मीः साधारणा विभॊ जवलिताम इव कौन्तेये शरियं दृष्ट्वा च विव्यथे 20 सर्वां हि पृथिवीं दृष्ट्वा युधिष्ठिर वशानुगाम सथिरॊ ऽसमि यॊ ऽहं जीवामि दुःखाद एतद बरवीमि ते 21 आवर्जिता इवाभान्ति निघ्नाश चैत्रकि कौकुराः कारः करा लॊहजङ्घा युधिष्ठिर निवेशने 22 हिमवत्सागरानूपाः सर्वरत्नाकरास तथा अन्त्याः सर्वे पर्युदस्ता युधिष्ठिर निवेशने 23 जयेष्ठॊ ऽयम इति मां मत्वा शरेष्ठश चेति विशां पते युधिष्ठिरेण सत्कृत्य युक्तॊ रत्नपरिग्रहे 24 उपस्थितानां रत्नानां शरेष्ठानाम अर्घ हारिणाम नादृश्यत परः परान्तॊ नापरस तत्र भारत 25 न मे हस्तः समभवद वसु तत परतिगृह्णतः परातिष्ठन्त मयि शरान्ते गृह्य दूराहृतं वसु 26 कृतां बिन्दुसरॊ रत्नैर मयेन सफाटिकच छदाम अपश्यं नलिनीं पूर्णाम उदकस्येव भारत 27 वस्त्रम उत्कर्षति मयि पराहसत स वृकॊदरः शत्रॊर ऋद्धिविशेषेण विमूढं रत्नवर्जितम 28 तत्र सम यदि शक्तः सयां पातयेयं वृकॊदरम सपत्नेनावहासॊ हि स मां दहति भारत 29 पुनश च तादृशीम एव वापीं जलज शालिनीम मत्वा शिला समां तॊये पतितॊ ऽसमि नराधिप 30 तत्र मां पराहसत कृष्णः पार्थेन सह सस्वनम दरौपदी च सह सत्रीभिर वयथयन्ती मनॊ मम 31 कलिन्नवस्त्रस्य च जले किं करा राजचॊदिताः ददुर वासांसि मे ऽनयानि तच च दुःखतरं मम 32 परलम्भं च शृणुष्वान्यं गदतॊ मे नराधिप अद्वारेण विनिर्गच्छन दवारसंस्थान रूपिणा अभिहत्य शिलां भूयॊ ललाटेनास्मि विक्षतः 33 तत्र मां यमजौ दूराद आलॊक्य ललितौ किल बाहुभिः परिगृह्णीतां शॊचन्तौ सहिताव उभौ 34 उवाच सहदेवस तु तत्र मां विस्मयन्न इव इदं दवारम इतॊ गच्छ राजन्न इति पुनः पुनः 35 नामधेयानि रत्नानां पुरस्तान न शरुतानि मे यानि दृष्टानि मे तस्यां मनस तपति तच च मे |
1
[j] kathaṃ samabhavad dyūtaṃ bhrātṝṇāṃ tan mahātyayam yatra tad vyasanaṃ prāptaṃ pāṇḍavair me pitāmahaiḥ 2 ke ca tatra sabhāstārā rājāno brahmavittama ke cainam anvamodanta ke cainaṃ pratyaṣedhayan 3 vistareṇaitad icchāmi kathyamānaṃ tvayā dvija mūlaṃ hy etad vināśasya pṛthivyā dvijasattama 4 [sūta] evam uktas tadā rājñā vyāsa śiṣyaḥ pratāpavān ācacakṣe yathāvṛttaṃ tat sarvaṃ sarvavedavit 5 [v] śṛṇu me vistareṇemāṃ kathāṃ bharatasattama bhūya eva mahārāja yadi te śravaṇe matiḥ 6 vidurasya mataṃ jñātvā dhṛtarāṣṭro 'mbikā sutaḥ duryodhanam idaṃ vākyam uvāca vijane punaḥ 7 alaṃ dyūtena gāndhāre viduro na praśaṃsati na hy asau sumahābuddhir ahitaṃ no vadiṣyati 8 hitaṃ hi paramaṃ manye viduro yat prabhāṣate kriyatāṃ putra tat sarvam etan manye hitaṃ tava 9 devarṣir vāsava gurur devarājāya dhīmate yat prāha śāstraṃ bhagavān bṛhaspatir udāradhīḥ 10 tad veda viduraḥ sarvaṃ sarahasyaṃ mahākaviḥ sthitaś ca vacane tasya sadāham api putraka 11 viduro vāpi medhāvī kurūṇāṃ pravaro mataḥ uddhavo vā mahābuddhir vṛṣṇīṇām arcito nṛpa 12 dyūtena tad alaṃ putra dyūte bhedo hi dṛśyate bhede vināśo rājyasya tat putra parivarjaya 13 pitrā mātrā ca putrasya yad vai kāryaṃ paraṃ smṛtam prāptas tvam asi tat tāta pitṛpaitāmahaṃ padam 14 adhītavān kṛtī śāstre lālitaḥ satataṃ gṛhe bhrātṛjyeṣṭhaḥ sthito rājye vindase kiṃ na śobhanam 15 pṛthagjanair alabhyaṃ yad bhojanācchādanaṃ param tat prāpto 'si mahābāho kasmāc chocasi putraka 16 sphītaṃ rāṣṭraṃ mahābāho pitṛpaitāmahaṃ mahat nityam ājñāpayan bhāsi divi deveśvaro yathā 17 tasya te viditaprajña śokamūlam idaṃ katham samutthitaṃ duḥkhataraṃ tan me śaṃsitum arhasi 18 [d] aśnāmy ācchādayāmīti prapaśyan pāpapūruṣaḥ nāmarṣaṃ kurute yas tu puruṣaḥ so 'dhamaḥ smṛtaḥ 19 na māṃ prīṇāti rājendra lakṣmīḥ sādhāraṇā vibho jvalitām iva kaunteye śriyaṃ dṛṣṭvā ca vivyathe 20 sarvāṃ hi pṛthivīṃ dṛṣṭvā yudhiṣṭhira vaśānugām sthiro 'smi yo 'haṃ jīvāmi duḥkhād etad bravīmi te 21 āvarjitā ivābhānti nighnāś caitraki kaukurāḥ kāraḥ karā lohajaṅghā yudhiṣṭhira niveśane 22 himavatsāgarānūpāḥ sarvaratnākarās tathā antyāḥ sarve paryudastā yudhiṣṭhira niveśane 23 jyeṣṭho 'yam iti māṃ matvā śreṣṭhaś ceti viśāṃ pate yudhiṣṭhireṇa satkṛtya yukto ratnaparigrahe 24 upasthitānāṃ ratnānāṃ śreṣṭhānām argha hāriṇām nādṛśyata paraḥ prānto nāparas tatra bhārata 25 na me hastaḥ samabhavad vasu tat pratigṛhṇataḥ prātiṣṭhanta mayi śrānte gṛhya dūrāhṛtaṃ vasu 26 kṛtāṃ bindusaro ratnair mayena sphāṭikac chadām apaśyaṃ nalinīṃ pūrṇām udakasyeva bhārata 27 vastram utkarṣati mayi prāhasat sa vṛkodaraḥ śatror ṛddhiviśeṣeṇa vimūḍhaṃ ratnavarjitam 28 tatra sma yadi śaktaḥ syāṃ pātayeyaṃ vṛkodaram sapatnenāvahāso hi sa māṃ dahati bhārata 29 punaś ca tādṛśīm eva vāpīṃ jalaja śālinīm matvā śilā samāṃ toye patito 'smi narādhipa 30 tatra māṃ prāhasat kṛṣṇaḥ pārthena saha sasvanam draupadī ca saha strībhir vyathayantī mano mama 31 klinnavastrasya ca jale kiṃ karā rājacoditāḥ dadur vāsāṃsi me 'nyāni tac ca duḥkhataraṃ mama 32 pralambhaṃ ca śṛṇuṣvānyaṃ gadato me narādhipa advāreṇa vinirgacchan dvārasaṃsthāna rūpiṇā abhihatya śilāṃ bhūyo lalāṭenāsmi vikṣataḥ 33 tatra māṃ yamajau dūrād ālokya lalitau kila bāhubhiḥ parigṛhṇītāṃ śocantau sahitāv ubhau 34 uvāca sahadevas tu tatra māṃ vismayann iva idaṃ dvāram ito gaccha rājann iti punaḥ punaḥ 35 nāmadheyāni ratnānāṃ purastān na śrutāni me yāni dṛṣṭāni me tasyāṃ manas tapati tac ca me |
The Mahabharata in Sanskrit
Book 2
Chapter 47
|
1
[द] यन मया पाण्डवानां तु दृष्टं तच छृणु भारत आहृतं भूमिपालैर हि वसु मुख्यं ततस ततः 2 न विन्दे दृढम आत्मामं दृष्ट्वाहं तद अरेर धनम फलतॊ भूमितॊ वापि परतिपद्यस्व भारत 3 ऐडांश चैलान वार्षदंशाञ जातरूपपरिष्कृताम परावाराजिन मुख्यांश च कम्बॊजः परददौ वसु 4 अश्वांस तित्तिरि कल्माषांस तरिशतं शुकनासिकान उष्ट्रवामीस तरिशतं च पुष्टाः पीलु शमीङ्गुदैः 5 गॊवासना बराह्मणाश च दासमीयाश च सर्वशः परीत्यर्थं ते महाभागा धर्मराज्ञॊ महात्मनः तरिखर्वं बलिम आदाय दवारि तिष्ठन्ति वारिताः 6 कमण्डलून उपादाय जातरूपमयाञ शुभान एवं बलिं परदायाथ परवेशं लेभिरे ततः 7 शतं दासी सहस्राणां कार्पासिक निवासिनाम शयामास तन्व्यॊ दीर्घकेश्यॊ हेमाभरण भूषिताः शूद्रा विप्रॊत्तमार्हाणि राङ्कवान्य अजिनानि च 8 बलिं च कृत्स्नम आदाय भरु कच्छ निवासिनः उपनिन्युर महाराज हयान गान्धारदेशजान 9 इन्द्र कृष्टैर वर्तयन्ति धान्यैर नदी मुखैश च ये समुद्रनिष्कुटे जाताः परिसिन्दु च मानवाः 10 ते वैरामाः पारदाश च वङ्गाश च कितवैः सह विविधं बलिम आदाय रत्नानि विविधानि च 11 अजाविकं गॊहिरण्यं खरॊष्ट्रं फलजं मधु कम्बलान विविधांश चैव दवारि तिष्ठन्ति वारिताः 12 पराग्ज्यॊतिषाधिपः शूरॊ मलेच्छानाम अधिपॊ बली यनवैः सहितॊ राजा भगदत्तॊ महारथः 13 आजानेयान हयाञ शीघ्रान आदायानिल रंहसः बलिं च कृत्स्नम आदाय दवारि तिष्ठति वारितः 14 अश्मसारमयं भाण्डं शुद्धदन्तत्सरून असीन पराग्ज्यॊतिषॊ ऽथ तद दत्त्वा भगदत्तॊ ऽवरजत तदा 15 दव्यक्षांस तर्यक्षाँल ललाटाक्षान नानादिग्भ्यः समागतान औष्णीषान अनिवासांश च बाहुकान पुरुषादकान 16 एकपादांश च तत्राहम अपश्यं दवारि वारितान बल्यर्थं ददतस तस्मै हिरण्यं रजतं बहु 17 इन्द्र गॊप कवर्णाभाञ शुकवर्णान मनॊजवान तथैवेन्द्रायुध निभान संध्याभ्रसदृशान अपि 18 अनेकवर्णान आरण्यान गृहीत्वाश्वान मनॊजवान जातरूपम अनर्घ्यं च ददुस तस्यैक पादकाः 19 चीनान हूनाञ शकान ओडून पर्वतान्तरवासिनः वार्ष्णेयान हारहूणांश च कृष्णान हैमवतांस तथा 20 न पारयाम्य अभिगतान विविधान दवारि वारितान बल्यर्थं ददतस तस्य नानारूपान अनेकशः 21 कृष्ण गरीवान महाकायान रासभाञ शतपातिनः आहार्षुर दशसाहस्रान विनीतान दिक्षु विश्रुतान 22 परमाण रागस्पर्शाढ्यं बाह्ली चीन समुद्भवम और्णं च राङ्कवं चैव कीटजं पट्टजं तथा 23 कुट्टी कृतं तथैवान्यत कमलाभं सहस्रशः शलक्ष्णं वस्त्रम अकार्पासम आविकं मृदु चाजिनम 24 निशितांश चैव दीर्घासीन ऋष्टिशक्तिपरश्वधान अपरान्त समुद्भूतांस तथैव परशूञ शितान 25 रसान गन्धांश च विविधान रत्नानि च सहस्रशः बलिं च कृत्स्नम आदाय दवारि तिष्ठन्ति वारिताः 26 शकास तुखाराः कङ्काश च रॊमशाः शृङ्गिणॊ नराः महागमान दूरगमान गणितान अर्बुदं हयान 27 कॊटिशश चैव बहुशः सुवर्णं पद्मसंमितम बलिम आदाय विविधं दवारि तिष्ठन्ति वारिताः 28 आसनानि महार्हाणि यानानि शयनानि च मणिकाञ्चनचित्राणि गजदन्त मयानि च 29 रथांश च विविधाकाराञ जातरूपपरिष्कृतान हयैर विनीतैः संपन्नान वैयाघ्रपरिवारणान 30 विचित्रांश च परिस्तॊमान रत्नानि च सहस्रशः नाराचान अर्धनाराचाञ शस्त्राणि विविधानि च 31 एतद दत्त्वा महद दरव्यं पूर्वदेशाधिपॊ नृपः परविष्टॊ यज्ञसदनं पाण्डवस्य महात्मनः |
1
[d] yan mayā pāṇḍavānāṃ tu dṛṣṭaṃ tac chṛṇu bhārata āhṛtaṃ bhūmipālair hi vasu mukhyaṃ tatas tataḥ 2 na vinde dṛḍham ātmāmaṃ dṛṣṭvāhaṃ tad arer dhanam phalato bhūmito vāpi pratipadyasva bhārata 3 aiḍāṃś cailān vārṣadaṃśāñ jātarūpapariṣkṛtām prāvārājina mukhyāṃś ca kambojaḥ pradadau vasu 4 aśvāṃs tittiri kalmāṣāṃs triśataṃ śukanāsikān uṣṭravāmīs triśataṃ ca puṣṭāḥ pīlu śamīṅgudaiḥ 5 govāsanā brāhmaṇāś ca dāsamīyāś ca sarvaśaḥ prītyarthaṃ te mahābhāgā dharmarājño mahātmanaḥ trikharvaṃ balim ādāya dvāri tiṣṭhanti vāritāḥ 6 kamaṇḍalūn upādāya jātarūpamayāñ śubhān evaṃ baliṃ pradāyātha praveśaṃ lebhire tataḥ 7 śataṃ dāsī sahasrāṇāṃ kārpāsika nivāsinām śyāmās tanvyo dīrghakeśyo hemābharaṇa bhūṣitāḥ śūdrā viprottamārhāṇi rāṅkavāny ajināni ca 8 baliṃ ca kṛtsnam ādāya bharu kaccha nivāsinaḥ upaninyur mahārāja hayān gāndhāradeśajān 9 indra kṛṣṭair vartayanti dhānyair nadī mukhaiś ca ye samudraniṣkuṭe jātāḥ parisindu ca mānavāḥ 10 te vairāmāḥ pāradāś ca vaṅgāś ca kitavaiḥ saha vividhaṃ balim ādāya ratnāni vividhāni ca 11 ajāvikaṃ gohiraṇyaṃ kharoṣṭraṃ phalajaṃ madhu kambalān vividhāṃś caiva dvāri tiṣṭhanti vāritāḥ 12 prāgjyotiṣādhipaḥ śūro mlecchānām adhipo balī yanavaiḥ sahito rājā bhagadatto mahārathaḥ 13 ājāneyān hayāñ śīghrān ādāyānila raṃhasaḥ baliṃ ca kṛtsnam ādāya dvāri tiṣṭhati vāritaḥ 14 aśmasāramayaṃ bhāṇḍaṃ śuddhadantatsarūn asīn prāgjyotiṣo 'tha tad dattvā bhagadatto 'vrajat tadā 15 dvyakṣāṃs tryakṣāṁl lalāṭākṣān nānādigbhyaḥ samāgatān auṣṇīṣān anivāsāṃś ca bāhukān puruṣādakān 16 ekapādāṃś ca tatrāham apaśyaṃ dvāri vāritān balyarthaṃ dadatas tasmai hiraṇyaṃ rajataṃ bahu 17 indra gopa kavarṇābhāñ śukavarṇān manojavān tathaivendrāyudha nibhān saṃdhyābhrasadṛśān api 18 anekavarṇān āraṇyān gṛhītvāśvān manojavān jātarūpam anarghyaṃ ca dadus tasyaika pādakāḥ 19 cīnān hūnāñ śakān oḍūn parvatāntaravāsinaḥ vārṣṇeyān hārahūṇāṃś ca kṛṣṇān haimavatāṃs tathā 20 na pārayāmy abhigatān vividhān dvāri vāritān balyarthaṃ dadatas tasya nānārūpān anekaśaḥ 21 kṛṣṇa grīvān mahākāyān rāsabhāñ śatapātinaḥ āhārṣur daśasāhasrān vinītān dikṣu viśrutān 22 pramāṇa rāgasparśāḍhyaṃ bāhlī cīna samudbhavam aurṇaṃ ca rāṅkavaṃ caiva kīṭajaṃ paṭṭajaṃ tathā 23 kuṭṭī kṛtaṃ tathaivānyat kamalābhaṃ sahasraśaḥ ślakṣṇaṃ vastram akārpāsam āvikaṃ mṛdu cājinam 24 niśitāṃś caiva dīrghāsīn ṛṣṭiśaktiparaśvadhān aparānta samudbhūtāṃs tathaiva paraśūñ śitān 25 rasān gandhāṃś ca vividhān ratnāni ca sahasraśaḥ baliṃ ca kṛtsnam ādāya dvāri tiṣṭhanti vāritāḥ 26 śakās tukhārāḥ kaṅkāś ca romaśāḥ śṛṅgiṇo narāḥ mahāgamān dūragamān gaṇitān arbudaṃ hayān 27 koṭiśaś caiva bahuśaḥ suvarṇaṃ padmasaṃmitam balim ādāya vividhaṃ dvāri tiṣṭhanti vāritāḥ 28 āsanāni mahārhāṇi yānāni śayanāni ca maṇikāñcanacitrāṇi gajadanta mayāni ca 29 rathāṃś ca vividhākārāñ jātarūpapariṣkṛtān hayair vinītaiḥ saṃpannān vaiyāghraparivāraṇān 30 vicitrāṃś ca paristomān ratnāni ca sahasraśaḥ nārācān ardhanārācāñ śastrāṇi vividhāni ca 31 etad dattvā mahad dravyaṃ pūrvadeśādhipo nṛpaḥ praviṣṭo yajñasadanaṃ pāṇḍavasya mahātmanaḥ |
The Mahabharata in Sanskrit
Book 2
Chapter 48
|
1
[द] दायं तु तस्मै विविधं शृणु मे गदतॊ ऽनघ यज्ञार्थं राजभिर दत्तं महान्तं धनसंचयम 2 मेरुमन्दरयॊर मध्ये शैलॊदाम अभितॊ नदीम ये ते कीचक वेणूनां छायां रम्याम उपासते 3 खशा एकाशनाज्यॊहाः परदरा दीर्घवेनवः पशुपाश च कुणिन्दाश च तङ्गणाः परतङ्गणाः 4 ते वै पिपीलिकं नाम वरदत्तं पिपीलिकैः जातरूपं दरॊण मेयम अहार्षुः पुञ्जशॊ नृपाः 5 कृष्णाँल ललामांश चमराञ शुक्लांश चान्याञ शशिप्रभान हिमवत्पुष्पजं चैव सवादु कषौद्रं तथा बहु 6 उत्तरेभ्यः कुरुभ्यश चाप्य अपॊढं माल्यम अम्बुभिः उत्तराद अपि कैलासाद ओषधीः सुमहाबलाः 7 पार्वतीया बलिं चान्यम आहृत्य परणताः सथिताः अजातशत्रॊर नृपतेर दवारि तिष्ठन्ति वारिताः 8 ये परार्धे हिमवतः सूर्यॊदयगिरौ नृपाः वारि षेण समुद्रान्ते लॊहित्यम अभितश च ये फलमूलाशना ये च किराताश चर्म वाससः 9 चन्दनागुरुकाष्ठानां भारान कालीयकस्य च चर्म रत्नसुवर्णानां गन्धानां चैव राशयः 10 कैरातिकानाम अयुतं दासीनां च विशां पते आहृत्य रमणीयार्थान दूरजान मृगपक्षिणः 11 निचितं पर्वतेभ्यश च हिरण्यं भूरि वर्चसम बलिं च कृत्स्नम आदाय दवारि तिष्ठन्ति वारिताः 12 कायव्या दरदा दार्वाः शूरा वैयमकास तथा औदुम्बरा दुर्विभागाः पारदा बाह्लिकैः सह 13 काश्मीराः कुन्दमानाश च पौरका हंसकायनाः शिबित्रिगर्तयौधेया राजन्या मद्रकेकयाः 14 अम्बष्ठाः कौकुरास तार्क्ष्या वस्त्रपाः पह्लवैः सह वसातयः समौलेयाः सह कषुद्रकमालवैः 15 शौण्डिकाः कुक्कुराश चैव शकाश चैव विशां पते अङ्गा वङ्गाश च पुण्ड्राश च शानवत्या गयास तथा 16 सुजातयः शरेणिमन्तः शरेयांसः शस्त्रपाणयः आहार्षुः कषत्रिया वित्तं शतशॊ ऽजातशत्रवे 17 वङ्गाः कलिङ्ग पतयस ताम्रलिप्ताः सपुण्ड्रकाः दुकूलं कौशिकं चैव पत्रॊर्णं परावरान अपि 18 तत्र सम दवारपालैस ते परॊच्यन्ते राजशासनात कृतकाराः सुबलयस ततॊ दवारम अवाप्स्यथ 19 ईषा दन्तान हेमकक्षान पद्मवर्णान कुथावृतान शैलाभान नित्यमत्तांश च अभितः काम्यकं सरः 20 दत्त्वैकैकॊ दशशतान कुञ्जरान कवचावृतान कषमावतः कुलीनांश च दवारेण पराविशंस ततः 21 एते चान्ये च बहवॊ गणा दिग्भ्यः समागताः अन्यैश चॊपाहृतान्य अत्र रत्नानीह महात्मभिः 22 राजा चित्ररथॊ नाम गन्धर्वॊ वासवानुगः शतानि चत्वार्य अददद धयानां वातरंहसाम 23 तुम्बुरुस तु परमुदितॊ गन्धर्वॊ वाजिनां शतम आम्रपत्र सवर्णानाम अददद धेममालिनाम 24 कृती तु राजा कौरव्य शूकराणां विशां पते अददद गजरत्नानां शतानि सुबहून्य अपि 25 विराटेन तु मत्स्येन बल्यर्थं हेममालिनाम कुञ्जराणां सहस्रे दवे मत्तानां समुपाहृते 26 पांशुराष्ट्राद वसु दानॊ राजा षड विंशतिं गजान अश्वानां च सहस्रे दवे राजन काञ्चनमालिनाम 27 जवसत्त्वॊपपन्नानां वयःस्थानां नराधिप बलिं च कृत्स्नम आदाय पाण्डवेभ्यॊ नयवेदयत 28 यज्ञसेनेन दासीनां सहस्राणि चतुर्दश दासानाम अयुतं चैव सदाराणां विशां पते 29 गजयुक्ता महाराज रथाः षड विंशतिस तथा राज्यं च कृत्स्नं पार्थेभ्यॊ यज्ञार्थं वै निवेदितम 30 समुद्रसारं वैडूर्यं मुक्ताः शङ्खांस तथैव च शतशश च कुथांस तत्र सिन्हलाः समुपाहरन 31 संवृता मणिचीरैस तु शयामास ताम्रान्त लॊचनाः तान गृहीत्वा नरास तत्र दवारि तिष्ठन्ति वारिताः 32 परीत्यर्थं बराह्मणैश चैव कषत्रियाश च विनिर्जिताः उपाजह्रुर विशश चैव शूद्राः शुश्रूषवॊ ऽपि च परीत्या च बहुमानाच च अभ्यगच्छन युधिष्ठिरम 33 सर्वे मलेच्छाः सर्ववर्णा आदिमध्यान्तजास तथा नानादेशसमुत्थैश च नाना जातिभिर आगतैः पर्यस्त इव लॊकॊ ऽयं युधिष्ठिर निवेशने 34 उच्चावचान उपग्राहान राजभिः परहितान बहून शत्रूणां पश्यतॊ दुःखान मुमूर्षा मे ऽदय जायते 35 भृत्यास तु ये पाण्डवानां तांस ते वक्ष्यामि भारत येषाम आमं च पक्वं च संविधत्ते युधिष्ठिरः 36 अयुतं तरीणि पद्मानि गजारॊहाः ससादिनः रथानाम अर्बुदं चापि पादाता बहवस तथा 37 परमीयमानम आरब्धं पच्यमानं तथैव च विसृज्यमानं चान्यत्र पुण्याहस्वन एव च 38 नाभुक्तवन्तं नाहृष्टं नासुभिक्षं कथं चन अपश्यं सर्ववर्णानां युधिष्ठिर निवेशने 39 अष्टाशीति सहस्राणि सनातका गृहमेधिनः तरिंशद दासीक एकैकॊ यान बिभर्ति युधिष्ठिरः सुप्रीताः परितुष्टाश च ते ऽपय आशंसन्त्य अरिक्षयम 40 दशान्यानि सहस्राणि यतीनाम ऊर्ध्वरेतसाम भुञ्जते रुक्मपात्रीषु युधिष्ठिर निवेशने 41 भुक्ताभुक्तं कृताकृतं सर्वम आ कुब्ज वामनम अभुञ्जाना याज्ञसेनी परत्यवैक्षद विशां पते 42 दवौ करं न परयच्छेतां कुन्तीपुत्राय भारत वैवाहिकेन पाञ्चालाः सख्येनान्धकवृष्णयः |
1
[d] dāyaṃ tu tasmai vividhaṃ śṛṇu me gadato 'nagha yajñārthaṃ rājabhir dattaṃ mahāntaṃ dhanasaṃcayam 2 merumandarayor madhye śailodām abhito nadīm ye te kīcaka veṇūnāṃ chāyāṃ ramyām upāsate 3 khaśā ekāśanājyohāḥ pradarā dīrghavenavaḥ paśupāś ca kuṇindāś ca taṅgaṇāḥ parataṅgaṇāḥ 4 te vai pipīlikaṃ nāma varadattaṃ pipīlikaiḥ jātarūpaṃ droṇa meyam ahārṣuḥ puñjaśo nṛpāḥ 5 kṛṣṇāṁl lalāmāṃś camarāñ śuklāṃś cānyāñ śaśiprabhān himavatpuṣpajaṃ caiva svādu kṣaudraṃ tathā bahu 6 uttarebhyaḥ kurubhyaś cāpy apoḍhaṃ mālyam ambubhiḥ uttarād api kailāsād oṣadhīḥ sumahābalāḥ 7 pārvatīyā baliṃ cānyam āhṛtya praṇatāḥ sthitāḥ ajātaśatror nṛpater dvāri tiṣṭhanti vāritāḥ 8 ye parārdhe himavataḥ sūryodayagirau nṛpāḥ vāri ṣeṇa samudrānte lohityam abhitaś ca ye phalamūlāśanā ye ca kirātāś carma vāsasaḥ 9 candanāgurukāṣṭhānāṃ bhārān kālīyakasya ca carma ratnasuvarṇānāṃ gandhānāṃ caiva rāśayaḥ 10 kairātikānām ayutaṃ dāsīnāṃ ca viśāṃ pate āhṛtya ramaṇīyārthān dūrajān mṛgapakṣiṇaḥ 11 nicitaṃ parvatebhyaś ca hiraṇyaṃ bhūri varcasam baliṃ ca kṛtsnam ādāya dvāri tiṣṭhanti vāritāḥ 12 kāyavyā daradā dārvāḥ śūrā vaiyamakās tathā audumbarā durvibhāgāḥ pāradā bāhlikaiḥ saha 13 kāśmīrāḥ kundamānāś ca paurakā haṃsakāyanāḥ śibitrigartayaudheyā rājanyā madrakekayāḥ 14 ambaṣṭhāḥ kaukurās tārkṣyā vastrapāḥ pahlavaiḥ saha vasātayaḥ samauleyāḥ saha kṣudrakamālavaiḥ 15 śauṇḍikāḥ kukkurāś caiva śakāś caiva viśāṃ pate aṅgā vaṅgāś ca puṇḍrāś ca śānavatyā gayās tathā 16 sujātayaḥ śreṇimantaḥ śreyāṃsaḥ śastrapāṇayaḥ āhārṣuḥ kṣatriyā vittaṃ śataśo 'jātaśatrave 17 vaṅgāḥ kaliṅga patayas tāmraliptāḥ sapuṇḍrakāḥ dukūlaṃ kauśikaṃ caiva patrorṇaṃ prāvarān api 18 tatra sma dvārapālais te procyante rājaśāsanāt kṛtakārāḥ subalayas tato dvāram avāpsyatha 19 īṣā dantān hemakakṣān padmavarṇān kuthāvṛtān śailābhān nityamattāṃś ca abhitaḥ kāmyakaṃ saraḥ 20 dattvaikaiko daśaśatān kuñjarān kavacāvṛtān kṣamāvataḥ kulīnāṃś ca dvāreṇa prāviśaṃs tataḥ 21 ete cānye ca bahavo gaṇā digbhyaḥ samāgatāḥ anyaiś copāhṛtāny atra ratnānīha mahātmabhiḥ 22 rājā citraratho nāma gandharvo vāsavānugaḥ śatāni catvāry adadad dhayānāṃ vātaraṃhasām 23 tumburus tu pramudito gandharvo vājināṃ śatam āmrapatra savarṇānām adadad dhemamālinām 24 kṛtī tu rājā kauravya śūkarāṇāṃ viśāṃ pate adadad gajaratnānāṃ śatāni subahūny api 25 virāṭena tu matsyena balyarthaṃ hemamālinām kuñjarāṇāṃ sahasre dve mattānāṃ samupāhṛte 26 pāṃśurāṣṭrād vasu dāno rājā ṣaḍ viṃśatiṃ gajān aśvānāṃ ca sahasre dve rājan kāñcanamālinām 27 javasattvopapannānāṃ vayaḥsthānāṃ narādhipa baliṃ ca kṛtsnam ādāya pāṇḍavebhyo nyavedayat 28 yajñasenena dāsīnāṃ sahasrāṇi caturdaśa dāsānām ayutaṃ caiva sadārāṇāṃ viśāṃ pate 29 gajayuktā mahārāja rathāḥ ṣaḍ viṃśatis tathā rājyaṃ ca kṛtsnaṃ pārthebhyo yajñārthaṃ vai niveditam 30 samudrasāraṃ vaiḍūryaṃ muktāḥ śaṅkhāṃs tathaiva ca śataśaś ca kuthāṃs tatra sinhalāḥ samupāharan 31 saṃvṛtā maṇicīrais tu śyāmās tāmrānta locanāḥ tān gṛhītvā narās tatra dvāri tiṣṭhanti vāritāḥ 32 prītyarthaṃ brāhmaṇaiś caiva kṣatriyāś ca vinirjitāḥ upājahrur viśaś caiva śūdrāḥ śuśrūṣavo 'pi ca prītyā ca bahumānāc ca abhyagacchan yudhiṣṭhiram 33 sarve mlecchāḥ sarvavarṇā ādimadhyāntajās tathā nānādeśasamutthaiś ca nānā jātibhir āgataiḥ paryasta iva loko 'yaṃ yudhiṣṭhira niveśane 34 uccāvacān upagrāhān rājabhiḥ prahitān bahūn śatrūṇāṃ paśyato duḥkhān mumūrṣā me 'dya jāyate 35 bhṛtyās tu ye pāṇḍavānāṃ tāṃs te vakṣyāmi bhārata yeṣām āmaṃ ca pakvaṃ ca saṃvidhatte yudhiṣṭhiraḥ 36 ayutaṃ trīṇi padmāni gajārohāḥ sasādinaḥ rathānām arbudaṃ cāpi pādātā bahavas tathā 37 pramīyamānam ārabdhaṃ pacyamānaṃ tathaiva ca visṛjyamānaṃ cānyatra puṇyāhasvana eva ca 38 nābhuktavantaṃ nāhṛṣṭaṃ nāsubhikṣaṃ kathaṃ cana apaśyaṃ sarvavarṇānāṃ yudhiṣṭhira niveśane 39 aṣṭāśīti sahasrāṇi snātakā gṛhamedhinaḥ triṃśad dāsīka ekaiko yān bibharti yudhiṣṭhiraḥ suprītāḥ parituṣṭāś ca te 'py āśaṃsanty arikṣayam 40 daśānyāni sahasrāṇi yatīnām ūrdhvaretasām bhuñjate rukmapātrīṣu yudhiṣṭhira niveśane 41 bhuktābhuktaṃ kṛtākṛtaṃ sarvam ā kubja vāmanam abhuñjānā yājñasenī pratyavaikṣad viśāṃ pate 42 dvau karaṃ na prayacchetāṃ kuntīputrāya bhārata vaivāhikena pāñcālāḥ sakhyenāndhakavṛṣṇayaḥ |
The Mahabharata in Sanskrit
Book 2
Chapter 49
|
1
[द] आर्यास तु ये वै राजानः सत्यसंधा महाव्रताः पर्याप्तविद्या वक्तारॊ वेदान्तावभृथाप्लुताः 2 धृतिमन्तॊ हरीनिषेधा धर्मात्मानॊ यशस्विनः मूर्ढाभिषिक्तास ते चैनं राजानः पर्युपासते 3 दक्षिणार्थं समानीता राजभिः कांस्यदॊहनाः आरण्या बहुसाहस्रा अपश्यं तत्र तत्र गाः 4 आजह्रुस तत्र सत्कृत्य सवयम उद्यम्य भारत अभिषेकार्थम अव्यग्रा भाण्डम उच्चावचं नृपाः 5 बाह्लीकॊ रथम आहार्षीज जाम्बूनदपरिष्कृतम सुदक्षिणस तं युयुजे शवेतैः काम्बॊजजैर हयैः 6 सुनीथॊ ऽपरतिमं तस्य अनुकर्षं महायशाः धवजं चेदिपतिः कषिप्रम अहार्षीत सवयम उद्यतम 7 दाक्षिणात्यः संनहनं सरग उष्णीषे च मागधः वसु दानॊ महेष्वासॊ गजेन्द्रं षष्टिहायनम 8 मत्स्यस तव अक्षान अवाबध्नाद एकलव्य उपानहौ आवन्त्यस तव अभिषेकार्थम आपॊ बहुविधास तथा 9 चेकितान उपासङ्गं धनुः काश्य उपाहरत असिं रुक्मत्सरुं शल्यः शैक्यं काञ्चनभूषणम 10 अभ्यषिञ्चत ततॊ धौम्यॊ वयासश च सुमहातपाः नारदं वै पुरस्कृत्य देवलं चासितं मुनिम 11 परीतिमन्त उपातिष्ठन्न अभिषेकं महर्षयः जामदग्न्येन सहितास तथान्ये वेदपारगाः 12 अभिजग्मुर महात्मानं मन्त्रवद भूरिदक्षिणम महेन्द्रम इव देवेन्द्रं दिवि सप्तर्षयॊ यथा 13 अधारयच छत्रम अस्य सात्यकिः सत्यविक्रमः धनंजयश च वयजने भीमसेनश च पाण्डवः 14 उपागृह्णाद यम इन्द्राय पुराकल्पे परजापतिः तम अस्मै शङ्खम आहार्षीद वारुणं कलशॊदधिः 15 सिक्तं निष्कसहस्रेण सुकृतं विश्वकर्मणा तेनाभिषिक्तः कृष्णेन तत्र मे कश्मलॊ ऽभवत 16 गच्छन्ति पूर्वाद अपरं समुद्रं चापि दक्षिणम उत्तरं तु न गच्छन्ति विना तात पतत्रिभिः 17 तत्र सम दध्मुः शतशः शङ्खान मङ्गल्य कारणात पराणदंस ते समाध्मातास तत्र रॊमाणि मे ऽहृषन 18 परणता भूमिपाश चापि पेतुर ईनाः सवतेजसा धृष्टद्युम्नः पाण्डवाश च सात्यकिः केशवॊ ऽषटमः 19 सत्त्वस्थाः शौर्यसंपन्ना अन्यॊन्यप्रियकारिणः विसंज्ञान भूमिपान दृष्ट्वा मां च ते पराहसंस तदा 20 ततः परहृष्टॊ बीभत्सुः परादाद धेमविषाणिनाम शतान्य अनडुहां पञ्च दविजमुख्येषु भारत 21 नैवं शम्बर हन्ताभूद यौवनाश्वॊ मनुर न च न च राजा पृथुर वैन्यॊ न चाप्य आसीद भगीरथः 22 यथातिमात्रं कौन्तेयः शरिया परमया युतः राजसूयम अवाप्यैवं हरिश चन्द्र इव परभुः 23 एतां दृष्ट्वा शरियं पार्थे हरिश चन्द्रे यथा विभॊ कथं नु जीवितं शरेयॊ मम पश्यसि भारत 24 अन्धेनेव युगं नद्धं विपर्यस्तं नराधिप कनीयांसॊ विवर्धन्ते जयेष्ठा हीयन्ति भारत 25 एवं दृष्ट्वा नाभिविन्दामि शर्म; परीक्षमाणॊ ऽपि कुरुप्रवीर तेनाहम एवं कृषतां गतश च; विवर्णतां चैव स शॊकतां च |
1
[d] āryās tu ye vai rājānaḥ satyasaṃdhā mahāvratāḥ paryāptavidyā vaktāro vedāntāvabhṛthāplutāḥ 2 dhṛtimanto hrīniṣedhā dharmātmāno yaśasvinaḥ mūrḍhābhiṣiktās te cainaṃ rājānaḥ paryupāsate 3 dakṣiṇārthaṃ samānītā rājabhiḥ kāṃsyadohanāḥ āraṇyā bahusāhasrā apaśyaṃ tatra tatra gāḥ 4 ājahrus tatra satkṛtya svayam udyamya bhārata abhiṣekārtham avyagrā bhāṇḍam uccāvacaṃ nṛpāḥ 5 bāhlīko ratham āhārṣīj jāmbūnadapariṣkṛtam sudakṣiṇas taṃ yuyuje śvetaiḥ kāmbojajair hayaiḥ 6 sunītho 'pratimaṃ tasya anukarṣaṃ mahāyaśāḥ dhvajaṃ cedipatiḥ kṣipram ahārṣīt svayam udyatam 7 dākṣiṇātyaḥ saṃnahanaṃ srag uṣṇīṣe ca māgadhaḥ vasu dāno maheṣvāso gajendraṃ ṣaṣṭihāyanam 8 matsyas tv akṣān avābadhnād ekalavya upānahau āvantyas tv abhiṣekārtham āpo bahuvidhās tathā 9 cekitāna upāsaṅgaṃ dhanuḥ kāśya upāharat asiṃ rukmatsaruṃ śalyaḥ śaikyaṃ kāñcanabhūṣaṇam 10 abhyaṣiñcat tato dhaumyo vyāsaś ca sumahātapāḥ nāradaṃ vai puraskṛtya devalaṃ cāsitaṃ munim 11 prītimanta upātiṣṭhann abhiṣekaṃ maharṣayaḥ jāmadagnyena sahitās tathānye vedapāragāḥ 12 abhijagmur mahātmānaṃ mantravad bhūridakṣiṇam mahendram iva devendraṃ divi saptarṣayo yathā 13 adhārayac chatram asya sātyakiḥ satyavikramaḥ dhanaṃjayaś ca vyajane bhīmasenaś ca pāṇḍavaḥ 14 upāgṛhṇād yam indrāya purākalpe prajāpatiḥ tam asmai śaṅkham āhārṣīd vāruṇaṃ kalaśodadhiḥ 15 siktaṃ niṣkasahasreṇa sukṛtaṃ viśvakarmaṇā tenābhiṣiktaḥ kṛṣṇena tatra me kaśmalo 'bhavat 16 gacchanti pūrvād aparaṃ samudraṃ cāpi dakṣiṇam uttaraṃ tu na gacchanti vinā tāta patatribhiḥ 17 tatra sma dadhmuḥ śataśaḥ śaṅkhān maṅgalya kāraṇāt prāṇadaṃs te samādhmātās tatra romāṇi me 'hṛṣan 18 praṇatā bhūmipāś cāpi petur īnāḥ svatejasā dhṛṣṭadyumnaḥ pāṇḍavāś ca sātyakiḥ keśavo 'ṣṭamaḥ 19 sattvasthāḥ śauryasaṃpannā anyonyapriyakāriṇaḥ visaṃjñān bhūmipān dṛṣṭvā māṃ ca te prāhasaṃs tadā 20 tataḥ prahṛṣṭo bībhatsuḥ prādād dhemaviṣāṇinām śatāny anaḍuhāṃ pañca dvijamukhyeṣu bhārata 21 naivaṃ śambara hantābhūd yauvanāśvo manur na ca na ca rājā pṛthur vainyo na cāpy āsīd bhagīrathaḥ 22 yathātimātraṃ kaunteyaḥ śriyā paramayā yutaḥ rājasūyam avāpyaivaṃ hariś candra iva prabhuḥ 23 etāṃ dṛṣṭvā śriyaṃ pārthe hariś candre yathā vibho kathaṃ nu jīvitaṃ śreyo mama paśyasi bhārata 24 andheneva yugaṃ naddhaṃ viparyastaṃ narādhipa kanīyāṃso vivardhante jyeṣṭhā hīyanti bhārata 25 evaṃ dṛṣṭvā nābhivindāmi śarma; parīkṣamāṇo 'pi kurupravīra tenāham evaṃ kṛṣatāṃ gataś ca; vivarṇatāṃ caiva sa śokatāṃ ca |
The Mahabharata in Sanskrit
Book 2
Chapter 50
|
1
[द] तवं वै जयेष्ठॊ जयैष्ठिनेयः पुत्र मा पाण्डवान दविषः दवेष्टा हय असुखम आदत्ते यथैव निधनं तथा 2 अव्युत्पन्नं समानार्थं तुल्यमित्रं युधिष्ठिरम अद्विषन्तं कथं दविष्यात तवादृशॊ भरतर्षभ 3 तुल्याभिजनवीर्यश च कथं भरातुः शरियं नृप पुत्र कामयसे मॊहान मैवं भूः शाम्य साध्व इह 4 अथ यज्ञविभूतिं तां काङ्क्षसे भरतर्षभ ऋत्विजस तव तन्वन्तु सप्त तन्तुं महाध्वरम 5 आहरिष्यन्ति राजानस तवापि विपुलं धनम परीत्या च बहुमानाच च रत्नान्य आभरणानि च 6 अनर्थाचरितं तात परस्वस्पृहणं भृशम सवसंतुष्टः सवधर्मस्थॊ यः स वै सुखम एधते 7 अव्यापारः परार्थेषु नित्यॊद्यॊगः सवकर्मसु उद्यमॊ रक्षणे सवेषाम एतद वैभव लक्षणम 8 विपत्तिष्व अव्यथॊ दक्षॊ नित्यम उत्थानवान नरः अप्रमत्तॊ विनीतात्मा नित्यं भद्राणि पश्यति 9 अन्तर वेद्यां ददद वित्तं कामान अनुभवन परियान करीडन सत्रीभिर निरातङ्कः परशाम्य भरतर्षभ 10 [द] जानन वै मॊहयसि मां नावि नौर इव संयता सवार्थे किं नावधानं ते उताहॊ दवेष्टि मां भवान 11 न सन्तीमे धार्तराष्ट्रा येषां तवम अनुशासिता भविष्यम अर्थम आख्यासि सदा तवं कृत्यम आत्मनः 12 परप्रणेयॊ ऽगरणीर हि यश च मार्गात परमुह्यति पन्थानम अनुगच्छेयुः कथं तस्य पदानुगाः 13 राजन परिगत परज्ञॊ वृद्धसेवी जितेन्द्रियः परतिपन्नान सवकार्येषु संमॊहयसि नॊ भृषम 14 लॊकवृत्ताद राजवृत्तम अन्यद आह बृहस्पतिः तस्माद राज्ञा परयत्नेन सवार्थश चिन्त्यः सदैव हि 15 कषत्रियस्य महाराज जये वृत्तिः समाहिता स वै धर्मॊ ऽसत्व अधर्मॊ वा सववृत्तौ भरतर्षभ 16 परकालयेद दिशः सर्वाः परतॊदेनेव सारथिः परत्य अमित्रश्रियं दीप्तां बुभूषुर भरतर्षभ 17 परच्छन्नॊ वा परकाशॊ वा यॊ यॊगॊ रिपुबान्धनः तद वै शस्त्रं शस्त्रविदां न शस्त्रं छेदनं समृतम 18 असंतॊषः शरियॊ मूलं तस्मात तं कामयाम्य अहम समुच्छ्रये यॊ यतते स राजन परमॊ नयी 19 मम तवं हि न कर्तव्यम ऐश्वर्ये वा धने ऽपि वा पूर्वावाप्तं हरन्त्य अन्ये राजधर्मं हि तं विदुः 20 अद्रॊहे समयं कृत्वा चिच्छेद नमुचेः शिरः शक्रः सा हि मता तस्य रिपौ वृत्तिः सनातनी 21 दवाव एतौ गरसते भूमिः सर्पॊ बिलशयान इव राजानं चाविरॊद्धारं बराह्मणं चाप्रवासिनम 22 नास्ति वै जातितः शत्रुः पुरुषस्य विशां पते येन साधारणी वृत्तिः स शत्रुर नेतरॊ जनः 23 शत्रुपक्षं समृध्यन्तं यॊ मॊहात समुपेक्षते वयाधिर आप्यायित इव तस्य मूलं छिनत्ति सः 24 अल्पॊ ऽपि हय अरिर अत्यन्तं वर्धमानपराक्रमः वल्मीकॊ मूलज इव गरसते वृक्षम अन्तिकात 25 आजमीढ रिपॊर लक्ष्मीर मा ते रॊचिष्ट भारत एष भारः सत्त्ववतां नयः शिरसि धिष्ठितः 26 जन्म वृद्धिम इवार्थानां यॊ वृद्धिम अभिकाङ्क्षते एधते जञातिषु स वै सद्यॊ वृद्धिर हि विक्रमः 27 नाप्राप्य पाण्डवैश्वर्यं संशयॊ मे भविष्यति अवाप्स्ये वा शरियं तां हि शेष्ये वा निहतॊ युधि 28 अतादृशस्य किं मे ऽदय जीवितेन विशां पते वर्धन्ते पाण्डवा नित्यं वयं तु सथिरवृद्धयः |
1
[d] tvaṃ vai jyeṣṭho jyaiṣṭhineyaḥ putra mā pāṇḍavān dviṣaḥ dveṣṭā hy asukham ādatte yathaiva nidhanaṃ tathā 2 avyutpannaṃ samānārthaṃ tulyamitraṃ yudhiṣṭhiram adviṣantaṃ kathaṃ dviṣyāt tvādṛśo bharatarṣabha 3 tulyābhijanavīryaś ca kathaṃ bhrātuḥ śriyaṃ nṛpa putra kāmayase mohān maivaṃ bhūḥ śāmya sādhv iha 4 atha yajñavibhūtiṃ tāṃ kāṅkṣase bharatarṣabha ṛtvijas tava tanvantu sapta tantuṃ mahādhvaram 5 āhariṣyanti rājānas tavāpi vipulaṃ dhanam prītyā ca bahumānāc ca ratnāny ābharaṇāni ca 6 anarthācaritaṃ tāta parasvaspṛhaṇaṃ bhṛśam svasaṃtuṣṭaḥ svadharmastho yaḥ sa vai sukham edhate 7 avyāpāraḥ parārtheṣu nityodyogaḥ svakarmasu udyamo rakṣaṇe sveṣām etad vaibhava lakṣaṇam 8 vipattiṣv avyatho dakṣo nityam utthānavān naraḥ apramatto vinītātmā nityaṃ bhadrāṇi paśyati 9 antar vedyāṃ dadad vittaṃ kāmān anubhavan priyān krīḍan strībhir nirātaṅkaḥ praśāmya bharatarṣabha 10 [d] jānan vai mohayasi māṃ nāvi naur iva saṃyatā svārthe kiṃ nāvadhānaṃ te utāho dveṣṭi māṃ bhavān 11 na santīme dhārtarāṣṭrā yeṣāṃ tvam anuśāsitā bhaviṣyam artham ākhyāsi sadā tvaṃ kṛtyam ātmanaḥ 12 parapraṇeyo 'graṇīr hi yaś ca mārgāt pramuhyati panthānam anugaccheyuḥ kathaṃ tasya padānugāḥ 13 rājan parigata prajño vṛddhasevī jitendriyaḥ pratipannān svakāryeṣu saṃmohayasi no bhṛṣam 14 lokavṛttād rājavṛttam anyad āha bṛhaspatiḥ tasmād rājñā prayatnena svārthaś cintyaḥ sadaiva hi 15 kṣatriyasya mahārāja jaye vṛttiḥ samāhitā sa vai dharmo 'stv adharmo vā svavṛttau bharatarṣabha 16 prakālayed diśaḥ sarvāḥ pratodeneva sārathiḥ praty amitraśriyaṃ dīptāṃ bubhūṣur bharatarṣabha 17 pracchanno vā prakāśo vā yo yogo ripubāndhanaḥ tad vai śastraṃ śastravidāṃ na śastraṃ chedanaṃ smṛtam 18 asaṃtoṣaḥ śriyo mūlaṃ tasmāt taṃ kāmayāmy aham samucchraye yo yatate sa rājan paramo nayī 19 mama tvaṃ hi na kartavyam aiśvarye vā dhane 'pi vā pūrvāvāptaṃ haranty anye rājadharmaṃ hi taṃ viduḥ 20 adrohe samayaṃ kṛtvā ciccheda namuceḥ śiraḥ śakraḥ sā hi matā tasya ripau vṛttiḥ sanātanī 21 dvāv etau grasate bhūmiḥ sarpo bilaśayān iva rājānaṃ cāviroddhāraṃ brāhmaṇaṃ cāpravāsinam 22 nāsti vai jātitaḥ śatruḥ puruṣasya viśāṃ pate yena sādhāraṇī vṛttiḥ sa śatrur netaro janaḥ 23 śatrupakṣaṃ samṛdhyantaṃ yo mohāt samupekṣate vyādhir āpyāyita iva tasya mūlaṃ chinatti saḥ 24 alpo 'pi hy arir atyantaṃ vardhamānaparākramaḥ valmīko mūlaja iva grasate vṛkṣam antikāt 25 ājamīḍha ripor lakṣmīr mā te rociṣṭa bhārata eṣa bhāraḥ sattvavatāṃ nayaḥ śirasi dhiṣṭhitaḥ 26 janma vṛddhim ivārthānāṃ yo vṛddhim abhikāṅkṣate edhate jñātiṣu sa vai sadyo vṛddhir hi vikramaḥ 27 nāprāpya pāṇḍavaiśvaryaṃ saṃśayo me bhaviṣyati avāpsye vā śriyaṃ tāṃ hi śeṣye vā nihato yudhi 28 atādṛśasya kiṃ me 'dya jīvitena viśāṃ pate vardhante pāṇḍavā nityaṃ vayaṃ tu sthiravṛddhayaḥ |
The Mahabharata in Sanskrit
Book 2
Chapter 51
|
1
[ष] यां तवम एतां शरियं दृष्ट्वा पाण्डुपुत्रे युधिष्ठिरे तप्यसे तां हरिष्यामि दयूतेनाहूयतां परः 2 अगत्वा संशयम अहम अयुद्ध्वा च चमूमुखे अक्षान कषिपन्न अक्षतः सन विद्वान अविदुषॊ जये 3 गलहान धनूंसि मे विद्धि शरान अक्षांश च भारत अक्षाणां हृदयं मे जयां रथं विद्धि ममास्तरम 4 [द] अयम उत्सहते राजञ शरियम आहर्तुम अक्षवित दयूतेन पाण्डुपुत्रेभ्यस तत तुभ्यं तात रॊचताम 5 [ध] सथितॊ ऽसमि शासने भरातुर विदुरस्य महात्मनः तेन संगम्य वेत्स्यामि कार्यस्यास्य विनिश्चयम 6 [द] विहनिष्यति ते बुद्धिं विदुरॊ मुक्तसंशयः पाण्डवानां हिते युक्तॊ न तथा मम कौरव 7 नारभेत परसामर्थ्यात पुरुषः कार्यम आत्मनः मतिसाम्यं दवयॊर नास्ति कार्येषु कुरुनन्दन 8 भयं परिहरन मन्द आत्मानं परिपालयन वर्षासु कलिन्नकटवत तिष्ठन्न एवावसीदति 9 न वयाधयॊ नापि यमः शरेयः पराप्तिं परतीक्षते यावद एव भवेत कल्पस तावच छरेयॊ समाचरेत 10 [ध] सर्वथा पुत्रबलिभिर विग्रहं ते न रॊचये वैरं विकारं सृजति तद वै शस्त्रम अनायसम 11 अनर्थम अर्थं मन्यसे राजपुत्र; संग्रन्थनं कलहस्यातिघॊरम तद वै परवृत्तं तु यथा कथं चिद; विमॊक्षयेच चाप्य असि सायकांश च 12 [दुर] दयूते पुराणैर वयवहारः परनीतस; तत्रात्ययॊ नास्ति न संप्रहारः तद रॊचतां शकुनेर वाक्यम अद्य सभां; कषिप्रं तवम इहाज्ञापयस्व 13 सवर्गद्वारं दीव्यतां नॊ विशिष्टं; तद वर्तिनां चापि तथैव युक्तम भवेद एवं हय आत्मना तुल्यम एव; दुरॊदरं पाण्डवैस तवं कुरुष्व 14 [धृ] वाक्यं न मे रॊचते यत तवयॊक्तं; यत ते परियं तत करियतां नरेन्द्र पश्चात तप्यसे तद उपाक्रम्य वाक्यं; न हीदृशं भावि वचॊ हि धर्म्यम 15 दृष्टं हय एतद विदुरेनैवम एव; सर्वं पूर्वं बुद्धिविद्यानुगेन तद एवैतद अवशस्याभ्युपैति; महद भयं कषत्रिय बीजघाति 16 [व] एवम उक्त्वा धृतरास्थ्रॊ मनीषी; दैवं मत्वा परमं दुस्तरं च शशासॊच्चैः पुरुषान पुत्र वाक्ये; सथितॊ राजा दैवसंमूढचेताः 17 सहस्रस्तम्भां हेमवैडूर्य चित्रां; शतद्वारां तॊरणस्फाटि शृङ्गाम सभाम अग्र्यां करॊशमात्रायतां; मे तद विस्ताराम आशु कुर्वन्तु युक्ताः 18 शरुत्वा तस्य तवरिता निर्विशङ्काः; पराज्ञा दक्षास तां तथा चक्रुर आशु सर्वद्रव्याण्य उपजह्रुः सभायां; सहस्रशः शिल्पिनश चापि युक्ताः 19 कालेनाल्पेनाथ निष्ठां गतां; तां सभां रम्यां बहुरत्नां विचित्राम चित्रैर हेमैर आसनैर अभ्युपेताम; आचख्युस ते तस्य राज्ञः परतीताः 20 ततॊ विद्वान विदुरं मन्त्रिमुख्यम; उवाचेदं धृतराष्ट्रॊ नरेन्द्रः युधिष्ठिरं राजपुत्रं हि गत्वा; मद्वाक्येन कषिप्रम इहानयस्व 21 सभेयं मे बहुरत्ना विचित्रा; शय्यासनैर उपपन्ना महार्हैः सा दृश्यतां भरातृभिः सार्धम एत्य; सुहृद दयूतं वर्तताम अत्र चेति 22 मतम आज्ञाय पुत्रस्य धृतराष्ट्रॊ नराधिपः मत्वा च दुस्तरं दैवम एतद राजा चकार ह 23 अन्यायेन तथॊक्तस तु विदुरॊ विदुषां वरः नाभ्यनन्दद वचॊ भरातुर वचनं चेदम अब्रवीत 24 नाभिनन्दामि नृपते परैषम एतं; मैवं कृथाः कुलनाशाद बिभेमि पुत्रैर भिन्नैः कलहस ते धरुवं सयाद; एतच छङ्के दयूतकृते नरेन्द्र 25 [ध] नेह कषत्तः कलहस तप्स्यते मां; न चेद दैवं परतिलॊमं भविष्यत धात्रा तु दिष्टस्य वशे किलेदं सर्वं; जगच चेष्टति न सवतन्त्रम 26 तद अद्य विदुर पराप्य राजानं मम शासनात कषिप्रम आनय दुर्धर्षं कुन्तीपुत्रं युधिष्ठिरम |
1
[ṣ] yāṃ tvam etāṃ śriyaṃ dṛṣṭvā pāṇḍuputre yudhiṣṭhire tapyase tāṃ hariṣyāmi dyūtenāhūyatāṃ paraḥ 2 agatvā saṃśayam aham ayuddhvā ca camūmukhe akṣān kṣipann akṣataḥ san vidvān aviduṣo jaye 3 glahān dhanūṃsi me viddhi śarān akṣāṃś ca bhārata akṣāṇāṃ hṛdayaṃ me jyāṃ rathaṃ viddhi mamāstaram 4 [d] ayam utsahate rājañ śriyam āhartum akṣavit dyūtena pāṇḍuputrebhyas tat tubhyaṃ tāta rocatām 5 [dh] sthito 'smi śāsane bhrātur vidurasya mahātmanaḥ tena saṃgamya vetsyāmi kāryasyāsya viniścayam 6 [d] vihaniṣyati te buddhiṃ viduro muktasaṃśayaḥ pāṇḍavānāṃ hite yukto na tathā mama kaurava 7 nārabhet parasāmarthyāt puruṣaḥ kāryam ātmanaḥ matisāmyaṃ dvayor nāsti kāryeṣu kurunandana 8 bhayaṃ pariharan manda ātmānaṃ paripālayan varṣāsu klinnakaṭavat tiṣṭhann evāvasīdati 9 na vyādhayo nāpi yamaḥ śreyaḥ prāptiṃ pratīkṣate yāvad eva bhavet kalpas tāvac chreyo samācaret 10 [dh] sarvathā putrabalibhir vigrahaṃ te na rocaye vairaṃ vikāraṃ sṛjati tad vai śastram anāyasam 11 anartham arthaṃ manyase rājaputra; saṃgranthanaṃ kalahasyātighoram tad vai pravṛttaṃ tu yathā kathaṃ cid; vimokṣayec cāpy asi sāyakāṃś ca 12 [dur] dyūte purāṇair vyavahāraḥ pranītas; tatrātyayo nāsti na saṃprahāraḥ tad rocatāṃ śakuner vākyam adya sabhāṃ; kṣipraṃ tvam ihājñāpayasva 13 svargadvāraṃ dīvyatāṃ no viśiṣṭaṃ; tad vartināṃ cāpi tathaiva yuktam bhaved evaṃ hy ātmanā tulyam eva; durodaraṃ pāṇḍavais tvaṃ kuruṣva 14 [dhṛ] vākyaṃ na me rocate yat tvayoktaṃ; yat te priyaṃ tat kriyatāṃ narendra paścāt tapyase tad upākramya vākyaṃ; na hīdṛśaṃ bhāvi vaco hi dharmyam 15 dṛṣṭaṃ hy etad vidurenaivam eva; sarvaṃ pūrvaṃ buddhividyānugena tad evaitad avaśasyābhyupaiti; mahad bhayaṃ kṣatriya bījaghāti 16 [v] evam uktvā dhṛtarāsthro manīṣī; daivaṃ matvā paramaṃ dustaraṃ ca śaśāsoccaiḥ puruṣān putra vākye; sthito rājā daivasaṃmūḍhacetāḥ 17 sahasrastambhāṃ hemavaiḍūrya citrāṃ; śatadvārāṃ toraṇasphāṭi śṛṅgām sabhām agryāṃ krośamātrāyatāṃ; me tad vistārām āśu kurvantu yuktāḥ 18 śrutvā tasya tvaritā nirviśaṅkāḥ; prājñā dakṣās tāṃ tathā cakrur āśu sarvadravyāṇy upajahruḥ sabhāyāṃ; sahasraśaḥ śilpinaś cāpi yuktāḥ 19 kālenālpenātha niṣṭhāṃ gatāṃ; tāṃ sabhāṃ ramyāṃ bahuratnāṃ vicitrām citrair hemair āsanair abhyupetām; ācakhyus te tasya rājñaḥ pratītāḥ 20 tato vidvān viduraṃ mantrimukhyam; uvācedaṃ dhṛtarāṣṭro narendraḥ yudhiṣṭhiraṃ rājaputraṃ hi gatvā; madvākyena kṣipram ihānayasva 21 sabheyaṃ me bahuratnā vicitrā; śayyāsanair upapannā mahārhaiḥ sā dṛśyatāṃ bhrātṛbhiḥ sārdham etya; suhṛd dyūtaṃ vartatām atra ceti 22 matam ājñāya putrasya dhṛtarāṣṭro narādhipaḥ matvā ca dustaraṃ daivam etad rājā cakāra ha 23 anyāyena tathoktas tu viduro viduṣāṃ varaḥ nābhyanandad vaco bhrātur vacanaṃ cedam abravīt 24 nābhinandāmi nṛpate praiṣam etaṃ; maivaṃ kṛthāḥ kulanāśād bibhemi putrair bhinnaiḥ kalahas te dhruvaṃ syād; etac chaṅke dyūtakṛte narendra 25 [dh] neha kṣattaḥ kalahas tapsyate māṃ; na ced daivaṃ pratilomaṃ bhaviṣyat dhātrā tu diṣṭasya vaśe kiledaṃ sarvaṃ; jagac ceṣṭati na svatantram 26 tad adya vidura prāpya rājānaṃ mama śāsanāt kṣipram ānaya durdharṣaṃ kuntīputraṃ yudhiṣṭhiram |
The Mahabharata in Sanskrit
Book 2
Chapter 52
|
1
[व] ततः परायाद विदुरॊ ऽशवैर उदारैर; महाजवैर बलिभिः साधु दान्तैः बलान नियुक्तॊ धृतराष्ट्रेण राज्ञा; मनीषिणां पाण्डवानां सकाशम 2 सॊ ऽभिपत्य तद अध्वानम आसाद्य नृपतेः पुरम परविवेश महाबुद्धिः पूज्यमानॊ दविजातिभिः 3 स राजगृहम आसाद्य कुवेर भवनॊपमम अभ्यगच्छत धर्मात्मा धर्मपुत्रं युधिष्ठिरम 4 तं वै राजा सत्यधृतिर महात्मा; अजातशत्रुर विदुरं यथावत पूजा पूर्वं परतिगृह्याजमीढस; ततॊ ऽपृच्छद धृतराष्ट्रं सपुत्रम 5 [य] विज्ञायते ते मनसॊ न परहर्षः; कच चित कषत्तः कुशलेनागतॊ ऽसि कच चित पुत्राः सथविरस्यानुलॊमा; वशानुगाश चापि विशॊ ऽपि कच चित 6 [वि] राजा महात्मा कुशली सपुत्र; आस्ते वृतॊ जञातिभिर इन्द्रकल्पैः परीतॊ राजन पुत्र गणैर विनीतैर; विशॊक एवात्म रतिर दृढात्मा 7 इदं तु तवां कुरुराजॊ ऽभयुवाच; पूर्वां पृष्ट्वा कुशलं चाव्ययं च इयं सभा तवत सभा तुल्यरूपा; भरातॄणां ते पश्यताम एत्य पुत्र 8 समागम्य भरातृभिः पार्थ तस्यां; सुहृद दयूतं करियतां रम्यतां च परीयामहे भवतः संगमेन; समागताः कुरवश चैव सर्वे 9 दुरॊदरा विहिता ये तु तत्र; महात्मना धृतराष्ट्रेण राज्ञा तान दरक्ष्यसे कितवान संनिविष्टान; इत्य आगतॊ ऽहं नृपते तज जुषस्व 10 [य] दयूते कषत्तः कलहॊ विद्यते; नः कश वै दयूतं रॊचयेद युध्यमानः किं वा भवान मन्यते युक्तरूपं; भवद्वाक्ये सर्व एव सथिताः सम 11 [वि] जानाम्य अहं दयूतम अनर्थमूलं; कृतश च यत्नॊ ऽसय मया निवारणे राजा तु मां पराहिनॊत तवत्सकाशं; शरुत्वा विद्वञ शरेय इहाचरस्व 12 [य] के तत्रान्ये कितवा दीव्यमाना; विना राज्ञॊ धृतराष्ट्रस्य पुत्रैः पृच्छामि तवां विदुर बरूहि नस तान; यैर दीव्यामः शतशः संनिपत्य 13 [वि] गान्धारराजः शकुनिर विशां पते; राजातिदेवी कृतहस्तॊ मताक्षः विविंशतिश चित्रसेनश च राजा; सत्यव्रतः पुरुमित्रॊ जयश च 14 [य] महाभयाः कितवाः संनिविष्टा; मायॊपधा देवितारॊ ऽतर सन्ति धात्रा तु दिष्टस्य वशे किलेदं; नादेवनं कितवैर अद्य तैर मे 15 नाहं राज्ञॊ धृतराष्ट्रस्य शासनान; न गन्तुम इच्छामि कवे दुरॊदरम इष्टॊ हि पुत्रस्य पिता सदैव; तद अस्मि कर्ता विदुरात्थ मां यथा 16 न चाकामः शकुनिना देविताहं; न चेन मां धृष्णुर आह्वयिता सभायाम आहूतॊ ऽहं न निवर्ते कदा चित; तद आहितं शाश्वतं वै वरतं मे 17 [व] एवम उक्त्वा विदुरं धर्मराजः; परायात्रिकं सर्वम आज्ञाप्य तूर्णम परायाच छवॊ भूते सगणः सानुयात्रः; सह सत्रीभिर दरौपदीम आदि कृत्वा 18 दैवं परज्ञां तु मुष्णाति तेजश चक्षुर इवापतत धातुश च वशम अन्वेति पाशैर इव नरः सितः 19 इत्य उक्त्वा परययौ राजा सह कषत्त्रा युधिष्ठिरः अमृष्यमाणस तत पार्थः समाह्वानम अरिंदमः 20 बाह्लिकेन रथं दत्तम आस्थाय परवीरहा परिच्छन्नॊ ययौ पार्थॊ भरातृभिः सह पाण्डवः 21 राजश्रिया दीप्यमानॊ ययौ बरह्म पुरःसरः धृतराष्ट्रेण चाहूतः कालस्य समयेन च 22 स हास्तिनपुरं गत्वा धृतराष्ट्र गृहं ययौ समियाय च धर्मात्मा धृतराष्ट्रेण पाण्डवः 23 तथा दरॊणेन भीष्मेण कर्णेन च कृपेण च समियाय यथान्यायं दरौणिना च विभुः सह 24 समेत्य च महाबाहुः सॊमदत्तेन चैव ह दुर्यॊधनेन शल्येन सौबलेन च वीर्यवान 25 ये चान्ये तत्र राजानः पूर्वम एव समागताः जयद्रथेन च तथा कुरुभिश चापि सर्वशः 26 ततः सर्वैर महाबाहुर भरातृभिः परिवारितः परविवेश गृहं राज्ञॊ धृतराष्ट्रस्य धीमतः 27 ददर्श तत्र गान्धारीं देवीं पतिम अनुव्रताम सनुषाभिः संवृतां शश्वत ताराभिर इव रॊहिणीम 28 अभिवाद्य स गान्धारीं तया च परतिनन्दितः ददर्श पितरं वृद्धं परज्ञा चक्षुषम ईश्वरम 29 राज्ञा मूर्धन्य उपाघ्रातास ते च कौरवनन्दनाः चत्वारः पाण्डवा राजन भीमसेनपुरॊगमाः 30 ततॊ हर्षः समभवत कौरवाणां विशां पते तान दृष्ट्वा पुरुषव्याघ्रान पाण्डवान परियदर्शनान 31 विविशुस ते ऽभयनुज्ञाता रत्नवन्ति गृहाण्य अथ ददृशुश चॊपयातास तान दरौपदी परमुखाः सत्रियः 32 याज्ञसेन्याः पराम ऋद्धिं दृष्ट्वा परज्वलिताम इव सनुषास ता धृतराष्ट्रस्य नातिप्रमनसॊ ऽभवन 33 ततस ते पुरुषव्याघ्रा गत्वा सत्रीभिस तु संविदम कृत्वा वयायामपूर्वाणि कृत्यानि परतिकर्म च 34 ततः कृताह्निकाः सर्वे दिव्यचन्दन रूषिताः कल्याण मनसश चैव बराह्मणान सवस्ति वाच्य च 35 मनॊज्ञम अशनं भुक्त्वा विविशुः शरणान्य अथ उपगीयमाना नारीभिर अस्वपन कुरुनन्दनाः 36 जगाम तेषां सा रात्रिः पुण्या रतिविहारिणाम सतूयमानाश च विश्रान्ताः काले निद्राम अथात्यजन 37 सुखॊषितास तां रजनीं परातः सर्वे कृताह्निकाः सभां रम्यां परविविशुः कितवैर अभिसंवृताम |
1
[v] tataḥ prāyād viduro 'śvair udārair; mahājavair balibhiḥ sādhu dāntaiḥ balān niyukto dhṛtarāṣṭreṇa rājñā; manīṣiṇāṃ pāṇḍavānāṃ sakāśam 2 so 'bhipatya tad adhvānam āsādya nṛpateḥ puram praviveśa mahābuddhiḥ pūjyamāno dvijātibhiḥ 3 sa rājagṛham āsādya kuvera bhavanopamam abhyagacchata dharmātmā dharmaputraṃ yudhiṣṭhiram 4 taṃ vai rājā satyadhṛtir mahātmā; ajātaśatrur viduraṃ yathāvat pūjā pūrvaṃ pratigṛhyājamīḍhas; tato 'pṛcchad dhṛtarāṣṭraṃ saputram 5 [y] vijñāyate te manaso na praharṣaḥ; kac cit kṣattaḥ kuśalenāgato 'si kac cit putrāḥ sthavirasyānulomā; vaśānugāś cāpi viśo 'pi kac cit 6 [vi] rājā mahātmā kuśalī saputra; āste vṛto jñātibhir indrakalpaiḥ prīto rājan putra gaṇair vinītair; viśoka evātma ratir dṛḍhātmā 7 idaṃ tu tvāṃ kururājo 'bhyuvāca; pūrvāṃ pṛṣṭvā kuśalaṃ cāvyayaṃ ca iyaṃ sabhā tvat sabhā tulyarūpā; bhrātṝṇāṃ te paśyatām etya putra 8 samāgamya bhrātṛbhiḥ pārtha tasyāṃ; suhṛd dyūtaṃ kriyatāṃ ramyatāṃ ca prīyāmahe bhavataḥ saṃgamena; samāgatāḥ kuravaś caiva sarve 9 durodarā vihitā ye tu tatra; mahātmanā dhṛtarāṣṭreṇa rājñā tān drakṣyase kitavān saṃniviṣṭān; ity āgato 'haṃ nṛpate taj juṣasva 10 [y] dyūte kṣattaḥ kalaho vidyate; naḥ kaś vai dyūtaṃ rocayed yudhyamānaḥ kiṃ vā bhavān manyate yuktarūpaṃ; bhavadvākye sarva eva sthitāḥ sma 11 [vi] jānāmy ahaṃ dyūtam anarthamūlaṃ; kṛtaś ca yatno 'sya mayā nivāraṇe rājā tu māṃ prāhinot tvatsakāśaṃ; śrutvā vidvañ śreya ihācarasva 12 [y] ke tatrānye kitavā dīvyamānā; vinā rājño dhṛtarāṣṭrasya putraiḥ pṛcchāmi tvāṃ vidura brūhi nas tān; yair dīvyāmaḥ śataśaḥ saṃnipatya 13 [vi] gāndhārarājaḥ śakunir viśāṃ pate; rājātidevī kṛtahasto matākṣaḥ viviṃśatiś citrasenaś ca rājā; satyavrataḥ purumitro jayaś ca 14 [y] mahābhayāḥ kitavāḥ saṃniviṣṭā; māyopadhā devitāro 'tra santi dhātrā tu diṣṭasya vaśe kiledaṃ; nādevanaṃ kitavair adya tair me 15 nāhaṃ rājño dhṛtarāṣṭrasya śāsanān; na gantum icchāmi kave durodaram iṣṭo hi putrasya pitā sadaiva; tad asmi kartā vidurāttha māṃ yathā 16 na cākāmaḥ śakuninā devitāhaṃ; na cen māṃ dhṛṣṇur āhvayitā sabhāyām āhūto 'haṃ na nivarte kadā cit; tad āhitaṃ śāśvataṃ vai vrataṃ me 17 [v] evam uktvā viduraṃ dharmarājaḥ; prāyātrikaṃ sarvam ājñāpya tūrṇam prāyāc chvo bhūte sagaṇaḥ sānuyātraḥ; saha strībhir draupadīm ādi kṛtvā 18 daivaṃ prajñāṃ tu muṣṇāti tejaś cakṣur ivāpatat dhātuś ca vaśam anveti pāśair iva naraḥ sitaḥ 19 ity uktvā prayayau rājā saha kṣattrā yudhiṣṭhiraḥ amṛṣyamāṇas tat pārthaḥ samāhvānam ariṃdamaḥ 20 bāhlikena rathaṃ dattam āsthāya paravīrahā paricchanno yayau pārtho bhrātṛbhiḥ saha pāṇḍavaḥ 21 rājaśriyā dīpyamāno yayau brahma puraḥsaraḥ dhṛtarāṣṭreṇa cāhūtaḥ kālasya samayena ca 22 sa hāstinapuraṃ gatvā dhṛtarāṣṭra gṛhaṃ yayau samiyāya ca dharmātmā dhṛtarāṣṭreṇa pāṇḍavaḥ 23 tathā droṇena bhīṣmeṇa karṇena ca kṛpeṇa ca samiyāya yathānyāyaṃ drauṇinā ca vibhuḥ saha 24 sametya ca mahābāhuḥ somadattena caiva ha duryodhanena śalyena saubalena ca vīryavān 25 ye cānye tatra rājānaḥ pūrvam eva samāgatāḥ jayadrathena ca tathā kurubhiś cāpi sarvaśaḥ 26 tataḥ sarvair mahābāhur bhrātṛbhiḥ parivāritaḥ praviveśa gṛhaṃ rājño dhṛtarāṣṭrasya dhīmataḥ 27 dadarśa tatra gāndhārīṃ devīṃ patim anuvratām snuṣābhiḥ saṃvṛtāṃ śaśvat tārābhir iva rohiṇīm 28 abhivādya sa gāndhārīṃ tayā ca pratinanditaḥ dadarśa pitaraṃ vṛddhaṃ prajñā cakṣuṣam īśvaram 29 rājñā mūrdhany upāghrātās te ca kauravanandanāḥ catvāraḥ pāṇḍavā rājan bhīmasenapurogamāḥ 30 tato harṣaḥ samabhavat kauravāṇāṃ viśāṃ pate tān dṛṣṭvā puruṣavyāghrān pāṇḍavān priyadarśanān 31 viviśus te 'bhyanujñātā ratnavanti gṛhāṇy atha dadṛśuś copayātās tān draupadī pramukhāḥ striyaḥ 32 yājñasenyāḥ parām ṛddhiṃ dṛṣṭvā prajvalitām iva snuṣās tā dhṛtarāṣṭrasya nātipramanaso 'bhavan 33 tatas te puruṣavyāghrā gatvā strībhis tu saṃvidam kṛtvā vyāyāmapūrvāṇi kṛtyāni pratikarma ca 34 tataḥ kṛtāhnikāḥ sarve divyacandana rūṣitāḥ kalyāṇa manasaś caiva brāhmaṇān svasti vācya ca 35 manojñam aśanaṃ bhuktvā viviśuḥ śaraṇāny atha upagīyamānā nārībhir asvapan kurunandanāḥ 36 jagāma teṣāṃ sā rātriḥ puṇyā rativihāriṇām stūyamānāś ca viśrāntāḥ kāle nidrām athātyajan 37 sukhoṣitās tāṃ rajanīṃ prātaḥ sarve kṛtāhnikāḥ sabhāṃ ramyāṃ praviviśuḥ kitavair abhisaṃvṛtām |
The Mahabharata in Sanskrit
Book 2
Chapter 53
|
1
[ष] उपस्तीर्णा सभा राजन रन्तुं चैते कृतक्षणाः अक्षान उप्त्वा देवनस्य समयॊ ऽसतु युधिष्ठिर 2 [य] निकृतिर देवनं पापं न कषात्रॊ ऽतर पराक्रमः न च नीतिर धरुवा राजन किं तवं दयूतं परशंससि 3 न हि मानं परशंसन्ति निकृतौ कितवस्य ह शकुने मैव नॊ जैषीर अमार्गेण नृशंसवत 4 [ष] यॊ ऽनवेति संख्यां निकृतौ विधिज्ञश; चेष्टास्व अखिन्नः कितवॊ ऽकषजासु महामतिर यश च जानाति दयूतं; स वै सर्वं सहते परक्रियासु 5 अक्षग्लहः सॊ ऽभिभवेत परं; नस तेनैव कालॊ भवतीदम आत्थ दीव्यामहे पार्थिव मा विशङ्कां; कुरुष्व पाणं च चिरं च मा कृथाः 6 [य] एवम आहायम असितॊ देवलॊ मुनिसत्तमः इमानि लॊकद्वाराणि यॊ वै संचरते सदा 7 इदं वै देवनं पापं मायया कितवैः सह धर्मेण तु जयॊ युद्धे तत्परं साधु देवनम 8 नार्या मलेच्छन्ति भाषाभिर मायया न चरन्त्य उत अजिह्मम अशठं युद्धम एतत सत्पुरुषव्रतम 9 शक्तितॊ बराह्मणान वन्द्याञ शिक्षितुं परयतामहे तद वै वित्तं मातिदेवीर मा जैषीः शकुने परम 10 नाहं निकृत्या कामये सुखान्य उत धनानि वा कितवस्याप्य अनिकृतेर वृत्तम एतन न पूज्यते 11 [ष] शरॊत्रियॊ ऽशरॊत्रियम उत निकृत्यैव युधिष्ठिर विद्वान अविदुषॊ ऽभयेति नाहुस तां निकृतिं जनाः 12 एवं तवं माम इहाभ्येत्य निकृतिं यदि मन्यसे देवनाद विनिवर्तस्व यदि ते विद्यते भयम 13 [य] आहूतॊ न निवर्तेयम इति मे वरतम आहितम विधिश च बलवान राजन दिष्टस्यास्मि वशे सथितः 14 अस्मिन समागमे केन देवनं मे भविष्यति परतिपाणश च कॊ ऽनयॊ ऽसति ततॊ दयूतं परवर्तताम 15 [द] अहं दातास्मि रत्नानां धनानां च विशां पते मदर्थे देविता चायं शकुनिर मातुलॊ मम 16 [य] अन्येनान्यस्य विषमं देवनं परतिभाति मे एतद विद्वन्न उपादत्स्व कामम एवं परवर्तताम 17 [व] उपॊह्यमाने दयूते तु राजानः सर्व एव ते धृतराष्ट्रं पुरस्कृत्य विविशुस ते सभां ततः 18 भीष्मॊ दरॊणः कृपश चैव विदुरश च महामतिः नातीव परीतिमनसस ते ऽनववर्तन्त भारत 19 ते दवन्द्वशः पृथक चैव सिंहग्रीवा महौजसः सिंहासनानि भूरीणि विचित्राणि च भेजिरे 20 शुशुभे सा सभा राजन राजभिस तैः समागतैः देवैर इव महाभागैः समवेतैस तरिविष्टपम 21 सर्वे वेदविदः शूराः सर्वे भास्वरमूर्तयः परावर्तत महाराज सुहृद दयूतम अनन्तरम 22 [य] अयं बहुधनॊ राजन सागरावर्त संभवः मणिर हारॊत्तरः शरीमान कनकॊत्तम भूषणः 23 एतद राजन धनं मह्यं परतिपाणस तु कस तव भवत्व एष करमस तात जयाम्य एनं दुरॊदरम 24 [द] सन्ति मे मणयश चैव धनानि विविधानि च मत्सरश च न मे ऽरथेषु जयाम्य एनं दुरॊदरम 25 [व] ततॊ जग्राह शकुनिस तान अक्षान अक्षतत्त्ववित जितम इत्य एव शकुनिर युधिष्ठिरम अभाषत |
1
[ṣ] upastīrṇā sabhā rājan rantuṃ caite kṛtakṣaṇāḥ akṣān uptvā devanasya samayo 'stu yudhiṣṭhira 2 [y] nikṛtir devanaṃ pāpaṃ na kṣātro 'tra parākramaḥ na ca nītir dhruvā rājan kiṃ tvaṃ dyūtaṃ praśaṃsasi 3 na hi mānaṃ praśaṃsanti nikṛtau kitavasya ha śakune maiva no jaiṣīr amārgeṇa nṛśaṃsavat 4 [ṣ] yo 'nveti saṃkhyāṃ nikṛtau vidhijñaś; ceṣṭāsv akhinnaḥ kitavo 'kṣajāsu mahāmatir yaś ca jānāti dyūtaṃ; sa vai sarvaṃ sahate prakriyāsu 5 akṣaglahaḥ so 'bhibhavet paraṃ; nas tenaiva kālo bhavatīdam āttha dīvyāmahe pārthiva mā viśaṅkāṃ; kuruṣva pāṇaṃ ca ciraṃ ca mā kṛthāḥ 6 [y] evam āhāyam asito devalo munisattamaḥ imāni lokadvārāṇi yo vai saṃcarate sadā 7 idaṃ vai devanaṃ pāpaṃ māyayā kitavaiḥ saha dharmeṇa tu jayo yuddhe tatparaṃ sādhu devanam 8 nāryā mlecchanti bhāṣābhir māyayā na caranty uta ajihmam aśaṭhaṃ yuddham etat satpuruṣavratam 9 śaktito brāhmaṇān vandyāñ śikṣituṃ prayatāmahe tad vai vittaṃ mātidevīr mā jaiṣīḥ śakune param 10 nāhaṃ nikṛtyā kāmaye sukhāny uta dhanāni vā kitavasyāpy anikṛter vṛttam etan na pūjyate 11 [ṣ] śrotriyo 'śrotriyam uta nikṛtyaiva yudhiṣṭhira vidvān aviduṣo 'bhyeti nāhus tāṃ nikṛtiṃ janāḥ 12 evaṃ tvaṃ mām ihābhyetya nikṛtiṃ yadi manyase devanād vinivartasva yadi te vidyate bhayam 13 [y] āhūto na nivarteyam iti me vratam āhitam vidhiś ca balavān rājan diṣṭasyāsmi vaśe sthitaḥ 14 asmin samāgame kena devanaṃ me bhaviṣyati pratipāṇaś ca ko 'nyo 'sti tato dyūtaṃ pravartatām 15 [d] ahaṃ dātāsmi ratnānāṃ dhanānāṃ ca viśāṃ pate madarthe devitā cāyaṃ śakunir mātulo mama 16 [y] anyenānyasya viṣamaṃ devanaṃ pratibhāti me etad vidvann upādatsva kāmam evaṃ pravartatām 17 [v] upohyamāne dyūte tu rājānaḥ sarva eva te dhṛtarāṣṭraṃ puraskṛtya viviśus te sabhāṃ tataḥ 18 bhīṣmo droṇaḥ kṛpaś caiva viduraś ca mahāmatiḥ nātīva prītimanasas te 'nvavartanta bhārata 19 te dvandvaśaḥ pṛthak caiva siṃhagrīvā mahaujasaḥ siṃhāsanāni bhūrīṇi vicitrāṇi ca bhejire 20 śuśubhe sā sabhā rājan rājabhis taiḥ samāgataiḥ devair iva mahābhāgaiḥ samavetais triviṣṭapam 21 sarve vedavidaḥ śūrāḥ sarve bhāsvaramūrtayaḥ prāvartata mahārāja suhṛd dyūtam anantaram 22 [y] ayaṃ bahudhano rājan sāgarāvarta saṃbhavaḥ maṇir hārottaraḥ śrīmān kanakottama bhūṣaṇaḥ 23 etad rājan dhanaṃ mahyaṃ pratipāṇas tu kas tava bhavatv eṣa kramas tāta jayāmy enaṃ durodaram 24 [d] santi me maṇayaś caiva dhanāni vividhāni ca matsaraś ca na me 'rtheṣu jayāmy enaṃ durodaram 25 [v] tato jagrāha śakunis tān akṣān akṣatattvavit jitam ity eva śakunir yudhiṣṭhiram abhāṣata |
The Mahabharata in Sanskrit
Book 2
Chapter 54
|
1
[य] मत्तः कैतवकेनैव यज जितॊ ऽसमि दुरॊदरम शकुने हन्त दीव्यामॊ गलहमानाः सहस्रशः 2 इमे निष्कसहस्रस्य कुण्डिनॊ भरिताः शतम कॊशॊ हिरण्यम अक्षय्यं जातरूपम अनेकशः एतद राजन धनं मह्यं तेन दीव्याम्य अहं तवया 3 [व] इत्य उक्तः शकुनिः पराह जितम इत्य एव तं नृपम 4 [य] अयं सहस्रसमितॊ वैयाघ्रः सुप्रवर्तितः सुचक्रॊपस्करः शरीमान किङ्किणीजालमण्डितः 5 संह्रादनॊ राजरथॊ य इहास्मान उपावहत जैत्रॊ रथवरः पुण्यॊ मेघसागर निःस्वनः 6 अष्टौ यं कुररच छायाः सदश्वा राष्ट्रसंमताः वहन्ति नैषाम उच्येत पदा भूमिम उपस्पृशन एतद राजन धनं मह्यं तेन दीव्याम्य अहं तवया 7 [व] एतच छरुत्वा वयवसितॊ निकृतिं समुपाश्रितः जितम इत्य एव शकुनिर युधिष्ठिरम अभाषत 8 [य] सहस्रसंख्या नागा मे मत्तास तिष्ठन्ति सौबल हेमकक्षाः कृतापीडाः पद्मिनॊ हेममालिनः 9 सुदान्ता राजवहनाः सर्वशब्दक्षमा युधि ईषा दन्ता महाकायाः सर्वे चाष्ट करेणवः 10 सर्वे च पुरभेत्तारॊ नगमेघनिभा गजाः एतद राजन धनं मह्यं तेन दीव्याम्य अहं तवया 11 [व] तम एवं वादिनं पार्थं परहसन्न इव सौबलः जितम इत्य एव शकुनिर युधिष्ठिरम अभासत 12 [य] शतं दासी सहस्राणि तरुण्यॊ मे परभद्रिकाः कम्बुकेयूर धारिण्यॊ निष्ककन्थ्यः सवलं कृताः 13 महार्हमाल्याभरणाः सुवस्त्राश चन्दनॊक्षिताः मणीन हेमच बिभ्रत्यः सर्वा वै सूक्ष्मवाससः 14 अनुसेवां चरन्तीमाः कुशला नृत्यसामसु सनातकानाम अमात्यानां राज्ञां च मम शासनात एतद राजन धनं मह्यं तेन दीव्याम्य अहं तवया 15 [व] एतच छरुत्वा वयवसितॊ निकृतिं समुपाश्रितः जितम इत्य एव शकुनिर युधिष्ठिरम अभाषत 16 [य] एतावन्त्य एव दासानां सहस्राण्य उत सन्ति मे परदक्षिणानुलॊमाश च परावार वसनाः सदा 17 पराज्ञा मेधाविनॊ दक्षा युवानॊ मृष्टकुण्डलाः पात्री हस्ता दिवारात्रम अतिथीन भॊजयन्त्य उत एतद राजन धनं मह्यं तेन दीव्याम्य अहं तवया 18 [व] एतच छरुत्वा वयवसितॊ निकृतिं समुपाश्रितः जितम इत्य एव शकुनिर युधिष्ठिरम अभाषत 19 [य] रथास तावन्त एवेमे हेमभाण्डाः पताकिनः हयैर विनीतैः संपन्ना रथिभिश चित्रयॊधिभिः 20 एकैकॊ यत्र लभते सहस्रपरमां भृतिम युध्यतॊ ऽयुध्यतॊ वापि वेतनं मासकालिकम एतद राजन धनं मह्यं तेन दीव्याम्य अहं तवया 21 [व] इत्य एवम उक्ते पार्थेन कृतवैरॊ दुरात्मवान जितम इत्य एव शकुनिर युधिष्ठिरम अभाषत 22 [य] अश्वांस तित्तिरि कल्माषान गान्धर्वान हेममालिनः ददौ चित्ररथस तुष्टॊ यांस तान गाण्डीवधन्वने एतद राजन धनं मह्यं तेन दीव्याम्य अहं तवया 23 [व] एतच छरुत्वा वयवसितॊ निकृतिं समुपाश्रितः जितम इत्य एव शकुनिर युधिष्ठिरम अभाषत 24 [य] रथानां शकटानां च हयानां चायुतानि मे युक्तानाम एव तिष्ठन्ति वाहैर उच्चावचैर वृताः 25 एवं वर्णस्य वर्णस्य समुच्चीय सहस्रशः कषीरं पिबन्तस तिष्ठन्ति भुञ्जानाः शालितण्डुलान 26 षष्टिस तानि सहस्राणि सर्वे पृथुल वक्षसः एतद राजन धनं मह्यं तेन दीव्याम्य अहं तवया 27 [व] एतच छरुत्वा वयवसितॊ निकृतिं समुपाश्रितः जितम इत्य एव शकुनिर युधिष्ठिरम अभाषत 28 [य] ताम्रलॊहैर परिवृता निधयॊ मे चतुर्शताः पञ्च दरौणिक एकैकः सुवर्णस्याहतस्य वै एतद राजन धनं मह्यं तेन दीव्याम्य अहं तवया 29 [व] एतच छरुत्वा वयवसितॊ निकृतिं समुपाश्रितः जितम इत्य एव शकुनिर युधिष्ठिरम अभाषत |
1
[y] mattaḥ kaitavakenaiva yaj jito 'smi durodaram śakune hanta dīvyāmo glahamānāḥ sahasraśaḥ 2 ime niṣkasahasrasya kuṇḍino bharitāḥ śatam kośo hiraṇyam akṣayyaṃ jātarūpam anekaśaḥ etad rājan dhanaṃ mahyaṃ tena dīvyāmy ahaṃ tvayā 3 [v] ity uktaḥ śakuniḥ prāha jitam ity eva taṃ nṛpam 4 [y] ayaṃ sahasrasamito vaiyāghraḥ supravartitaḥ sucakropaskaraḥ śrīmān kiṅkiṇījālamaṇḍitaḥ 5 saṃhrādano rājaratho ya ihāsmān upāvahat jaitro rathavaraḥ puṇyo meghasāgara niḥsvanaḥ 6 aṣṭau yaṃ kurarac chāyāḥ sadaśvā rāṣṭrasaṃmatāḥ vahanti naiṣām ucyeta padā bhūmim upaspṛśan etad rājan dhanaṃ mahyaṃ tena dīvyāmy ahaṃ tvayā 7 [v] etac chrutvā vyavasito nikṛtiṃ samupāśritaḥ jitam ity eva śakunir yudhiṣṭhiram abhāṣata 8 [y] sahasrasaṃkhyā nāgā me mattās tiṣṭhanti saubala hemakakṣāḥ kṛtāpīḍāḥ padmino hemamālinaḥ 9 sudāntā rājavahanāḥ sarvaśabdakṣamā yudhi īṣā dantā mahākāyāḥ sarve cāṣṭa kareṇavaḥ 10 sarve ca purabhettāro nagameghanibhā gajāḥ etad rājan dhanaṃ mahyaṃ tena dīvyāmy ahaṃ tvayā 11 [v] tam evaṃ vādinaṃ pārthaṃ prahasann iva saubalaḥ jitam ity eva śakunir yudhiṣṭhiram abhāsata 12 [y] śataṃ dāsī sahasrāṇi taruṇyo me prabhadrikāḥ kambukeyūra dhāriṇyo niṣkakanthyaḥ svalaṃ kṛtāḥ 13 mahārhamālyābharaṇāḥ suvastrāś candanokṣitāḥ maṇīn hemaca bibhratyaḥ sarvā vai sūkṣmavāsasaḥ 14 anusevāṃ carantīmāḥ kuśalā nṛtyasāmasu snātakānām amātyānāṃ rājñāṃ ca mama śāsanāt etad rājan dhanaṃ mahyaṃ tena dīvyāmy ahaṃ tvayā 15 [v] etac chrutvā vyavasito nikṛtiṃ samupāśritaḥ jitam ity eva śakunir yudhiṣṭhiram abhāṣata 16 [y] etāvanty eva dāsānāṃ sahasrāṇy uta santi me pradakṣiṇānulomāś ca prāvāra vasanāḥ sadā 17 prājñā medhāvino dakṣā yuvāno mṛṣṭakuṇḍalāḥ pātrī hastā divārātram atithīn bhojayanty uta etad rājan dhanaṃ mahyaṃ tena dīvyāmy ahaṃ tvayā 18 [v] etac chrutvā vyavasito nikṛtiṃ samupāśritaḥ jitam ity eva śakunir yudhiṣṭhiram abhāṣata 19 [y] rathās tāvanta eveme hemabhāṇḍāḥ patākinaḥ hayair vinītaiḥ saṃpannā rathibhiś citrayodhibhiḥ 20 ekaiko yatra labhate sahasraparamāṃ bhṛtim yudhyato 'yudhyato vāpi vetanaṃ māsakālikam etad rājan dhanaṃ mahyaṃ tena dīvyāmy ahaṃ tvayā 21 [v] ity evam ukte pārthena kṛtavairo durātmavān jitam ity eva śakunir yudhiṣṭhiram abhāṣata 22 [y] aśvāṃs tittiri kalmāṣān gāndharvān hemamālinaḥ dadau citrarathas tuṣṭo yāṃs tān gāṇḍīvadhanvane etad rājan dhanaṃ mahyaṃ tena dīvyāmy ahaṃ tvayā 23 [v] etac chrutvā vyavasito nikṛtiṃ samupāśritaḥ jitam ity eva śakunir yudhiṣṭhiram abhāṣata 24 [y] rathānāṃ śakaṭānāṃ ca hayānāṃ cāyutāni me yuktānām eva tiṣṭhanti vāhair uccāvacair vṛtāḥ 25 evaṃ varṇasya varṇasya samuccīya sahasraśaḥ kṣīraṃ pibantas tiṣṭhanti bhuñjānāḥ śālitaṇḍulān 26 ṣaṣṭis tāni sahasrāṇi sarve pṛthula vakṣasaḥ etad rājan dhanaṃ mahyaṃ tena dīvyāmy ahaṃ tvayā 27 [v] etac chrutvā vyavasito nikṛtiṃ samupāśritaḥ jitam ity eva śakunir yudhiṣṭhiram abhāṣata 28 [y] tāmralohair parivṛtā nidhayo me caturśatāḥ pañca drauṇika ekaikaḥ suvarṇasyāhatasya vai etad rājan dhanaṃ mahyaṃ tena dīvyāmy ahaṃ tvayā 29 [v] etac chrutvā vyavasito nikṛtiṃ samupāśritaḥ jitam ity eva śakunir yudhiṣṭhiram abhāṣata |
The Mahabharata in Sanskrit
Book 2
Chapter 55
|
1
[विदुर] महाराज विजानीहि यत तवां वक्ष्यामि तच छृणु मुमूर्षॊर औषधम इव न रॊचेतापि ते शरुतम 2 यद वै पुरा जातमात्रॊ रुराव; गॊमायुवद विस्वरं पापचेताः दुर्यॊधनॊ भारतानां कुलघ्नः; सॊ ऽयं युक्तॊ भविता कालहेतुः 3 गृहे वसन्तं गॊमायुं तवं वै मत्वा न बुध्यसे दुर्यॊधनस्य रूपेण शृणु काव्यां गिरं मम 4 मधु वै माध्विकॊ लब्ध्वा परपातं नावबुध्यते आरुह्य तं मज्जति वा पतनं वाधिगच्छति 5 सॊ ऽयं मत्तॊ ऽकषदेवेन मधुवन न परीक्षते परपातं बुध्यते नैव वैरं कृत्वा महारथैः 6 विदितं ते महाराज राजस्व एवासमञ्जसम अन्धका यादवा भॊजाः समेताः कंसम अत्यजन 7 नियॊगाच च हते तस्मिन कृष्णेनामित्र घातिना एवं ते जञातयः सर्वे मॊदमानाः शतं समाः 8 तवन नियुक्तः सव्यसाची निगृह्णातु सुयॊधनम निग्रहाद अस्य पापस्य मॊदन्तां कुरवः सुखम 9 काकेनेमांश चित्रबर्हाञ शार्दूलान करॊष्टुकेन च करीणीष्व पाण्डवान राजन मा मज्जीः शॊकसागरे 10 तयजेत कुलार्थे पुरुषं गरामस्यार्थे कुलं तयजेत गरामं जनपदस्यार्थे आत्मार्थे पृथिवीं तयजेत 11 सर्वज्ञः सर्वभावज्ञः सर्वशत्रुभयं करः इति सम भाषते काव्यॊ जम्भ तयागे महासुरान 12 हिरण्यष्ठीविनः कश चित पक्षिणॊ वनगॊचरान गृहे किल कृतावासाँल लॊभाद राजन्न अपीडयत 13 सदॊपभॊज्याँल लॊभान्धॊ हिरण्यार्थे परंतप आयातिं च तदा तवं च उभे सद्यॊ वयनाशयत 14 तदात्व कामः पाण्डूंस तवं मा दरुहॊ भरतर्षभ मॊहात्मा तप्यसे पश्चात पक्षिहा पुरुषॊ यथा 15 जातं जातं पाण्डवेभ्यः पुष्पम आदत्स्व भारत माला कार इवारामे सनेहं कुर्वन पुनः पुनः 16 वृक्षान अङ्गारकारीव मैनान धाक्षीः समूलकान मा गमः ससुतामात्यः सबलश च पराभवम 17 समवेतान हि कः पार्थान परतियुध्येत भारत मरुद्भिः सहितॊ राजन्न अपि साक्षान मरुत्पतिः |
1
[vidura] mahārāja vijānīhi yat tvāṃ vakṣyāmi tac chṛṇu mumūrṣor auṣadham iva na rocetāpi te śrutam 2 yad vai purā jātamātro rurāva; gomāyuvad visvaraṃ pāpacetāḥ duryodhano bhāratānāṃ kulaghnaḥ; so 'yaṃ yukto bhavitā kālahetuḥ 3 gṛhe vasantaṃ gomāyuṃ tvaṃ vai matvā na budhyase duryodhanasya rūpeṇa śṛṇu kāvyāṃ giraṃ mama 4 madhu vai mādhviko labdhvā prapātaṃ nāvabudhyate āruhya taṃ majjati vā patanaṃ vādhigacchati 5 so 'yaṃ matto 'kṣadevena madhuvan na parīkṣate prapātaṃ budhyate naiva vairaṃ kṛtvā mahārathaiḥ 6 viditaṃ te mahārāja rājasv evāsamañjasam andhakā yādavā bhojāḥ sametāḥ kaṃsam atyajan 7 niyogāc ca hate tasmin kṛṣṇenāmitra ghātinā evaṃ te jñātayaḥ sarve modamānāḥ śataṃ samāḥ 8 tvan niyuktaḥ savyasācī nigṛhṇātu suyodhanam nigrahād asya pāpasya modantāṃ kuravaḥ sukham 9 kākenemāṃś citrabarhāñ śārdūlān kroṣṭukena ca krīṇīṣva pāṇḍavān rājan mā majjīḥ śokasāgare 10 tyajet kulārthe puruṣaṃ grāmasyārthe kulaṃ tyajet grāmaṃ janapadasyārthe ātmārthe pṛthivīṃ tyajet 11 sarvajñaḥ sarvabhāvajñaḥ sarvaśatrubhayaṃ karaḥ iti sma bhāṣate kāvyo jambha tyāge mahāsurān 12 hiraṇyaṣṭhīvinaḥ kaś cit pakṣiṇo vanagocarān gṛhe kila kṛtāvāsāṁl lobhād rājann apīḍayat 13 sadopabhojyāṁl lobhāndho hiraṇyārthe paraṃtapa āyātiṃ ca tadā tvaṃ ca ubhe sadyo vyanāśayat 14 tadātva kāmaḥ pāṇḍūṃs tvaṃ mā druho bharatarṣabha mohātmā tapyase paścāt pakṣihā puruṣo yathā 15 jātaṃ jātaṃ pāṇḍavebhyaḥ puṣpam ādatsva bhārata mālā kāra ivārāme snehaṃ kurvan punaḥ punaḥ 16 vṛkṣān aṅgārakārīva mainān dhākṣīḥ samūlakān mā gamaḥ sasutāmātyaḥ sabalaś ca parābhavam 17 samavetān hi kaḥ pārthān pratiyudhyeta bhārata marudbhiḥ sahito rājann api sākṣān marutpatiḥ |
The Mahabharata in Sanskrit
Book 2
Chapter 56
|
1
[वि] दयूतं मूलं कलहस्यानुपाति; मिथॊ भेदाय महते वा रणाय यद आस्थितॊ ऽयं धृतराष्ट्रस्य पुत्रॊ; दुर्यॊधनः सृजते वैरम उग्रम 2 परातिपीयाः शांतनवा भैमसेनाः स बाह्लिकाः दुर्यॊधनापराधेन कृच्छ्रं पराप्स्यन्ति सर्वशः 3 दुर्यॊधनॊ मदेनैव कषेमं राष्ट्राद अपॊहति विषाणं गौर इव मदात सवयम आरुजते बलात 4 यश चित्तम अन्वेति परस्य राजन; वीरः कविः सवाम अतिपत्य दृष्टिम नावं समुद्र इव बाल नेत्राम; आरुह्य घॊरे वयसने निमज्जेत 5 दुर्यॊधनॊ गलहते पाण्डवेन; परियायसे तवं जयतीति तच च अतिनर्माज जायते संप्रहारॊ; यतॊ विनाशः समुपैति पुंसाम 6 आकर्षस ते ऽवाक्फलः कु परणीतॊ; हृदि परौढॊ मन्त्रपदः समाधिः युधिष्ठिरेण सफलः संस्तवॊ ऽसतु; साम्नः सुरिक्तॊ ऽरिमतेः सुधन्वा 7 परातिपीयाः शांतनवाश च राजन; काव्यां वाचं शृणुत मात्यगाद वः वैश्वानरं परज्वलितं सुघॊरम; अयुद्धेन परशमयतॊत्पतन्तम 8 यदा मन्युं पाण्डवॊ ऽजातशत्रुर; न संयच्छेद अक्षमयाभिभूतः वृकॊदरः सव्यसाची यमौ च; कॊ ऽतर दवीपः सयात तुमुले वस तदानीम 9 महाराज परभवस तवं धनानां; पुरा दयूतान मनसा यावद इच्छेः बहु वित्तं पाण्डवांश चेज जयेस तवं; किं तेन सयाद वसु विन्देह पार्थान 10 जानीमहे देवितं सौबलस्य; वेद दयूते निकृतिं पार्वतीयः यतः पराप्तः शकुनिस तत्र यातु; माया यॊधी भारत पार्वतीयः |
1
[vi] dyūtaṃ mūlaṃ kalahasyānupāti; mitho bhedāya mahate vā raṇāya yad āsthito 'yaṃ dhṛtarāṣṭrasya putro; duryodhanaḥ sṛjate vairam ugram 2 prātipīyāḥ śāṃtanavā bhaimasenāḥ sa bāhlikāḥ duryodhanāparādhena kṛcchraṃ prāpsyanti sarvaśaḥ 3 duryodhano madenaiva kṣemaṃ rāṣṭrād apohati viṣāṇaṃ gaur iva madāt svayam ārujate balāt 4 yaś cittam anveti parasya rājan; vīraḥ kaviḥ svām atipatya dṛṣṭim nāvaṃ samudra iva bāla netrām; āruhya ghore vyasane nimajjet 5 duryodhano glahate pāṇḍavena; priyāyase tvaṃ jayatīti tac ca atinarmāj jāyate saṃprahāro; yato vināśaḥ samupaiti puṃsām 6 ākarṣas te 'vākphalaḥ ku praṇīto; hṛdi prauḍho mantrapadaḥ samādhiḥ yudhiṣṭhireṇa saphalaḥ saṃstavo 'stu; sāmnaḥ surikto 'rimateḥ sudhanvā 7 prātipīyāḥ śāṃtanavāś ca rājan; kāvyāṃ vācaṃ śṛṇuta mātyagād vaḥ vaiśvānaraṃ prajvalitaṃ sughoram; ayuddhena praśamayatotpatantam 8 yadā manyuṃ pāṇḍavo 'jātaśatrur; na saṃyacched akṣamayābhibhūtaḥ vṛkodaraḥ savyasācī yamau ca; ko 'tra dvīpaḥ syāt tumule vas tadānīm 9 mahārāja prabhavas tvaṃ dhanānāṃ; purā dyūtān manasā yāvad iccheḥ bahu vittaṃ pāṇḍavāṃś cej jayes tvaṃ; kiṃ tena syād vasu vindeha pārthān 10 jānīmahe devitaṃ saubalasya; veda dyūte nikṛtiṃ pārvatīyaḥ yataḥ prāptaḥ śakunis tatra yātu; māyā yodhī bhārata pārvatīyaḥ |
The Mahabharata in Sanskrit
Book 2
Chapter 57
|
1
[दुर] परेषाम एव यशसा शलाघसे तवं; सदा छन्नः कुत्सयन धार्तराष्ट्रान जानीमस तवां विदुर यत परियस तवं; बालान इवास्मान अवमन्यसे तवम 2 सुविज्ञेयः पुरुषॊ ऽनयत्र कामॊ; निन्दा परशंसे हि तथा युनक्ति जिह्वा मनस ते हृदयं निर्व्यनक्ति; जयायॊ निराह मनसः परातिकूल्यम 3 उत्सङ्गेन वयाल इवाहृतॊ ऽसि; मार्जारवत पॊषकं चॊपहंसि भर्तृघ्नत्वान न हि पापीय आहुस; तस्मात कषत्तः किं न बिभेषि पापात 4 जित्वा शत्रून फलम आप्तं महन नॊ; मास्मान कषत्तः परुषाणीह वॊचः दविषद्भिस तवं संप्रयॊगाभिनन्दी; मुहुर दवेषं यासि नः संप्रमॊहात 5 अमित्रतां याति नरॊ ऽकषमं बरुवन; निगूहते गुह्यम अमित्रसंस्तवे तद आश्रितापत्रपा किं न बाधते; यद इच्छसि तवं तद इहाद्य भाषसे 6 मा नॊ ऽवमन्स्था विद्म मनस तवेदं; शिक्षस्व बुद्धिं सथविराणां सकाशात यशॊ रक्षस्व विदुर संप्रणीतं; मा वयापृतः परकार्येषु भूस तवम 7 अहं कर्तेति विदुर मावमन्स्था; मा नॊ नित्यं परुषाणीह वॊचः न तवां पृच्छामि विदुर यद धितं मे; सवस्ति कषत्तर मा तितिक्षून कषिणु तवम 8 एकः शास्ता न दवितीयॊ ऽसति शास्ता; गर्भे शयानं पुरुषं शास्ति शास्ता तेनानुशिष्टः परवणाद इवाम्भॊ; यथा नियुक्तॊ ऽसमि तथा वहामि 9 भिनत्ति शिरसा शैलम अहिं भॊजयते च यः स एव तस्य कुरुते कार्याणाम अनुशासनम 10 यॊ बलाद अनुशास्तीह सॊ ऽमित्रं तेन विन्दति मित्रताम अनुवृत्तं तु समुपेक्षेत पण्डितः 11 परदीप्य यः परदीप्ताग्निं पराक तवरन नाभिधावति भस्मापि न स विन्देत शिष्टं कव चन भारत 12 न वासयेत पारवर्ग्यं दविषन्तं; विशेषतः कषत्तर अहितं मनुष्यम स यत्रेच्छसि विदुर तत्र गच्छ; सुसान्त्वितापि हय असती सत्री जहाति 13 [वि] एतावता ये पुरुषं तयजन्ति; तेषां सख्यम अन्तवद बरूहि राजन राज्ञां हि चित्तानि परिप्लुतानि; सान्त्वं दत्त्वा मुसलैर घातयन्ति 14 अबालस तवं मन्यसे राजपुत्र; बालॊ ऽहम इत्य एव सुमन्दबुद्धे यः सौहृदे पुरुषं सथापयित्वा; पश्चाद एनं दूषयते स बालः 15 न शरेयसे नीयते मन्दबुद्धिः; सत्री शरॊत्रियस्येव गृहे परदुष्टा धरुवं न रॊचेद भरतर्षभस्य; पतिः कुमार्या इव षष्टिवर्षः 16 अनुप्रियं चेद अनुकाङ्क्षसे तवं; सर्वेषु कार्येषु हिताहितेषु सत्रियश च राजञ जद पङ्गुकांश च; पृच्छ तवं वै तादृशांश चैव मूढान 17 लभ्यः खलु परातिपीय नरॊ ऽनुप्रिय वाग इह अप्रियस्य तु पथ्यस्य वक्ता शरॊता च दुर्लभः 18 यस तु धर्मे पराश्वस्य हित्वा भर्तुः परियाप्रिये अप्रियाण्य आह पथ्यानि तेन राजा सहायवान 19 अव्याधिजं कटुकं तीक्ष्णम उष्णं; यशॊ मुषं परुषं पूति गन्धि सतां पेयं यन न पिबन्त्य असन्तॊ; मन्युं महाराज पिब परशाम्य 20 वैचित्रवीर्यस्य यशॊ धनं च; वाञ्छाम्य अहं सहपुत्रस्य शश्वत यथातथा वॊ ऽसतु नमश च वॊ ऽसतु; ममापि च सवस्ति दिशन्तु विप्राः 21 आशीविषान नेत्रविषान कॊपयेन न तु पण्डितः एवं ते ऽहं वदामीदं परयतः कुरुनन्दन |
1
[dur] pareṣām eva yaśasā ślāghase tvaṃ; sadā channaḥ kutsayan dhārtarāṣṭrān jānīmas tvāṃ vidura yat priyas tvaṃ; bālān ivāsmān avamanyase tvam 2 suvijñeyaḥ puruṣo 'nyatra kāmo; nindā praśaṃse hi tathā yunakti jihvā manas te hṛdayaṃ nirvyanakti; jyāyo nirāha manasaḥ prātikūlyam 3 utsaṅgena vyāla ivāhṛto 'si; mārjāravat poṣakaṃ copahaṃsi bhartṛghnatvān na hi pāpīya āhus; tasmāt kṣattaḥ kiṃ na bibheṣi pāpāt 4 jitvā śatrūn phalam āptaṃ mahan no; māsmān kṣattaḥ paruṣāṇīha vocaḥ dviṣadbhis tvaṃ saṃprayogābhinandī; muhur dveṣaṃ yāsi naḥ saṃpramohāt 5 amitratāṃ yāti naro 'kṣamaṃ bruvan; nigūhate guhyam amitrasaṃstave tad āśritāpatrapā kiṃ na bādhate; yad icchasi tvaṃ tad ihādya bhāṣase 6 mā no 'vamansthā vidma manas tavedaṃ; śikṣasva buddhiṃ sthavirāṇāṃ sakāśāt yaśo rakṣasva vidura saṃpraṇītaṃ; mā vyāpṛtaḥ parakāryeṣu bhūs tvam 7 ahaṃ karteti vidura māvamansthā; mā no nityaṃ paruṣāṇīha vocaḥ na tvāṃ pṛcchāmi vidura yad dhitaṃ me; svasti kṣattar mā titikṣūn kṣiṇu tvam 8 ekaḥ śāstā na dvitīyo 'sti śāstā; garbhe śayānaṃ puruṣaṃ śāsti śāstā tenānuśiṣṭaḥ pravaṇād ivāmbho; yathā niyukto 'smi tathā vahāmi 9 bhinatti śirasā śailam ahiṃ bhojayate ca yaḥ sa eva tasya kurute kāryāṇām anuśāsanam 10 yo balād anuśāstīha so 'mitraṃ tena vindati mitratām anuvṛttaṃ tu samupekṣeta paṇḍitaḥ 11 pradīpya yaḥ pradīptāgniṃ prāk tvaran nābhidhāvati bhasmāpi na sa vindeta śiṣṭaṃ kva cana bhārata 12 na vāsayet pāravargyaṃ dviṣantaṃ; viśeṣataḥ kṣattar ahitaṃ manuṣyam sa yatrecchasi vidura tatra gaccha; susāntvitāpi hy asatī strī jahāti 13 [vi] etāvatā ye puruṣaṃ tyajanti; teṣāṃ sakhyam antavad brūhi rājan rājñāṃ hi cittāni pariplutāni; sāntvaṃ dattvā musalair ghātayanti 14 abālas tvaṃ manyase rājaputra; bālo 'ham ity eva sumandabuddhe yaḥ sauhṛde puruṣaṃ sthāpayitvā; paścād enaṃ dūṣayate sa bālaḥ 15 na śreyase nīyate mandabuddhiḥ; strī śrotriyasyeva gṛhe praduṣṭā dhruvaṃ na roced bharatarṣabhasya; patiḥ kumāryā iva ṣaṣṭivarṣaḥ 16 anupriyaṃ ced anukāṅkṣase tvaṃ; sarveṣu kāryeṣu hitāhiteṣu striyaś ca rājañ jada paṅgukāṃś ca; pṛccha tvaṃ vai tādṛśāṃś caiva mūḍhān 17 labhyaḥ khalu prātipīya naro 'nupriya vāg iha apriyasya tu pathyasya vaktā śrotā ca durlabhaḥ 18 yas tu dharme parāśvasya hitvā bhartuḥ priyāpriye apriyāṇy āha pathyāni tena rājā sahāyavān 19 avyādhijaṃ kaṭukaṃ tīkṣṇam uṣṇaṃ; yaśo muṣaṃ paruṣaṃ pūti gandhi satāṃ peyaṃ yan na pibanty asanto; manyuṃ mahārāja piba praśāmya 20 vaicitravīryasya yaśo dhanaṃ ca; vāñchāmy ahaṃ sahaputrasya śaśvat yathātathā vo 'stu namaś ca vo 'stu; mamāpi ca svasti diśantu viprāḥ 21 āśīviṣān netraviṣān kopayen na tu paṇḍitaḥ evaṃ te 'haṃ vadāmīdaṃ prayataḥ kurunandana |
The Mahabharata in Sanskrit
Book 2
Chapter 58
|
1
[ष] बहु वित्तं पराजैषीः पाण्डवानां युधिष्ठिर आचक्ष्व वित्तं कौन्तेय यदि ते ऽसत्य अपराजितम 2 [य] मम वित्तम असंख्येयं यद अहं वेद सौबल अथ तवं शकुने कस्माद वित्तं समनुपृच्छसि 3 अयुतं परयुतं चैव खर्वं पद्मं तथार्बुदम शङ्खं चैव निखर्वं च समुद्रं चात्र पण्यताम एतन मम धनं राजंस तेन दीव्याम्य अहं तवया 4 [व] एतच छरुत्वा वयवसितॊ निकृतिं समुपाश्रितः जितम इत्य एव शकुनिर युधिष्ठिरम अभाषत 5 [य] गवाश्वं बहुधेनूकम असंख्येयम अजाविकम यत किं चिद अनुवर्णानां पराक सिन्धॊर अपि सौबल एतन मम धनं राजंस तेन दीव्याम्य अहं तवया 6 [व] एतच छरुत्वा वयवसितॊ निकृतिं समुपाश्रितः जितम इत्य एव शकुनिर युधिष्ठिरम अभाषत 7 [य] पुरं जनपदॊ भूमिर अब्राह्मण धनैः सह अब्राह्मणाश च पुरुषा राजञ शिष्टं धनं मम एतद राजन धनं मह्यं तेन दीव्याम्य अहं तवया 8 [व] एतच छरुत्वा वयवसितॊ निकृतिं समुपाश्रितः जितम इत्य एव शकुनिर युधिष्ठिरम अभाषत 9 [य] राजपुत्रा इमे राजञ शॊभन्ते येन भूषिताः कुण्डलानि च निष्काश च सर्वं चाङ्गविभूषणम एतं मम धनं राजंस तेन दीव्याम्य अहं तवया 10 [व] एतच छरुत्वा वयवसितॊ निकृतिं समुपाश्रितः जितम इत्य एव शकुनिर युधिष्ठिरम अभाषत 11 [य] शयामॊ युवा लॊहिताक्षः सिंहस्कन्धॊ महाभुजः नकुलॊ गलह एकॊ मे यच चैतत सवगतं धनम 12 [ष] परियस ते नकुलॊ राजन राजपुत्रॊ युधिष्ठिर अस्माकं धनतां पराप्तॊ भूयस तवं केन दीव्यसि 13 [व] एवम उक्त्वा तु शकुनिस तान अक्षान परत्यपद्यत जितम इत्य एव शकुनिर युधिष्ठिरम अभाषत 14 [य] अयं धर्मान सहदेवॊ ऽनुशास्ति; लॊके हय अस्मिन पण्डिताख्यां गतश च अनर्हता राजपुत्रेण तेन; तवया दीव्याम्य अप्रियवत परियेण 15 [व] एतच छरुत्वा वयवसितॊ निकृतिं समुपाश्रितः जितम इत्य एव शकुनिर युधिष्ठिरम अभाषत 16 [ष] माद्रीपुत्रौ परियौ राजंस तवेमौ विजितौ मया गरीयांसौ तु ते मन्ये भीमसेनधनंजयौ 17 [य] अधर्मं चरसे नूनं यॊ नावेक्षसि वै नयम यॊ नः सुमनसां मूढ विभेदं कर्तुम इच्छसि 18 [ष] गर्ते मत्तः परपतति परमत्तः सथाणुम ऋच्छति जयेष्ठॊ राजन वरिष्ठॊ ऽसि नमस ते भरतर्षभ 19 सवप्ने न तानि पश्यन्ति जाग्रतॊ वा युधिष्ठिर कितवा यानि दीव्यन्तः परलपन्त्य उत्कटा इव 20 [य] यॊ नः संख्ये नौर इव पारनेता; जेता रिपूणां राजपुत्रस तरस्वी अनर्हता लॊकवीरेण तेन; दीव्याम्य अहं शकुने फल्गुनेन 21 [व] एतच छरुत्वा वयवसितॊ निकृतिं समुपाश्रितः जितम इत्य एव शकुनिर युधिष्ठिरम अभाषत 22 [ष] अयं मया पाण्डवानां धनुर्धरः; पराजितः पाण्डवः सव्यसाची भीमेन राजन दयितेन दीव्य; यत कैवव्यं पाण्डव ते ऽवशिष्टम 23 [य] यॊ नॊ नेता यॊ युधां नः परणेता; यथा वज्री दानव शत्रुर एकः तिर्यक परेक्षी संहतभ्रूर महात्मा; सिंहस्कन्धॊ यश च सदात्यमर्षी 24 बलेन तुल्यॊ यस्य पुमान न विद्यते; गदा भृताम अग्र्य इहारि मर्दनः अनर्हता राजपुत्रेण तेन; दीव्याम्य अहं भीमसेनेन राजन 25 [व] एतच छरुत्वा वयवसितॊ निकृतिं समुपाश्रितः जितम इत्य एव शकुनिर युधिष्ठिरम अभाषत 26 [ष] बहु वित्तं पराजैषीर भरातॄंश च सहयद्विपान आचक्ष्व वित्तं कौन्तेय यदि ते ऽसत्य अपराजितम 27 [य] अहं विशिष्टः सर्वेषां भरातॄणां दयितस तथा कुर्यामस ते जिताः कर्म सवयम आत्मन्य उपप्लवे 28 [व] एतच छरुत्वा वयवसितॊ निकृतिं समुपाश्रितः जितम इत्य एव शकुनिर युधिष्ठिरम अभाषत 29 [ष] एतत पापिष्ठम अकरॊर यद आत्मानं पराजितः शिष्टे सति धने राजन पाप आत्मपराजयः 30 [व] एवम उक्त्वा मताक्षस तान गलहे सर्वान अवस्थितान पराजयल लॊकवीरान आक्षेपेण पृथक पृथक 31 [ष] अस्ति वै ते परिया देवी गलह एकॊ ऽपराजितः पणस्व कृष्णां पाञ्चालीं तयात्मानं पुनर जय 32 [य] नैव हरस्वा न महती नातिकृष्णा न रॊहिणी सराग रक्तनेत्रा च तया दीव्याम्य अहं तवया 33 शारदॊत्पल पत्राक्ष्या शारदॊत्पल गन्धया शारदॊत्पल सेविन्या रूपेण शरीसमानया 34 तथैव सयाद आनृशंस्यात तथा सयाद रूपसंपदा तथा सयाच छील संपत्त्या याम इच्छेत पुरुषः सत्रियम 35 चरमं संविशति या परथमं परतिबुध्यते आ गॊपालावि पालेभ्यः सर्वं वेद कृताकृतम 36 आभाति पद्मवद वक्त्रं सस्वेदं मल्लिकेव च वेदीमध्या दीर्घकेशी ताम्राक्षी नातिरॊमशा 37 तयैवं विधया राजन पाञ्चाल्याहं सुमध्यया गलहं दीव्यामि चार्व अङ्ग्या दरौपद्या हन्त सौबल 38 [व] एवम उक्ते तु वचने धर्मराजेन भारत धिग धिग इत्य एव वृद्धानां सभ्यानां निःसृता गिरः 39 चुक्षुभे सा सभा राजन राज्ञां संजज्ञिरे कथाः भीष्मद्रॊणकृपादीनां सवेदश च समजायत 40 शिरॊ गृहीत्वा विदुरॊ गतसत्त्व इवाभवत आस्ते धयायन्न अधॊ वक्त्रॊ निःश्वसन पन्नगॊ यथा 41 धृतराष्ट्रस तु संहृष्टः पर्यपृच्छत पुनः पुनः किं जितं किं जितम इति हय आकारं नाभ्यलक्षत 42 जहर्ष कर्णॊ ऽतिभृशं सह दुःशासनादिभिः इतरेषां तु सभ्यानां नेत्रेभ्यः परापतज जलम 43 सौबलस तव अविचार्यैव जितकाशी मदॊत्कटः जितम इत्य एव तान अक्षान पुनर एवान्वपद्यत |
1
[ṣ] bahu vittaṃ parājaiṣīḥ pāṇḍavānāṃ yudhiṣṭhira ācakṣva vittaṃ kaunteya yadi te 'sty aparājitam 2 [y] mama vittam asaṃkhyeyaṃ yad ahaṃ veda saubala atha tvaṃ śakune kasmād vittaṃ samanupṛcchasi 3 ayutaṃ prayutaṃ caiva kharvaṃ padmaṃ tathārbudam śaṅkhaṃ caiva nikharvaṃ ca samudraṃ cātra paṇyatām etan mama dhanaṃ rājaṃs tena dīvyāmy ahaṃ tvayā 4 [v] etac chrutvā vyavasito nikṛtiṃ samupāśritaḥ jitam ity eva śakunir yudhiṣṭhiram abhāṣata 5 [y] gavāśvaṃ bahudhenūkam asaṃkhyeyam ajāvikam yat kiṃ cid anuvarṇānāṃ prāk sindhor api saubala etan mama dhanaṃ rājaṃs tena dīvyāmy ahaṃ tvayā 6 [v] etac chrutvā vyavasito nikṛtiṃ samupāśritaḥ jitam ity eva śakunir yudhiṣṭhiram abhāṣata 7 [y] puraṃ janapado bhūmir abrāhmaṇa dhanaiḥ saha abrāhmaṇāś ca puruṣā rājañ śiṣṭaṃ dhanaṃ mama etad rājan dhanaṃ mahyaṃ tena dīvyāmy ahaṃ tvayā 8 [v] etac chrutvā vyavasito nikṛtiṃ samupāśritaḥ jitam ity eva śakunir yudhiṣṭhiram abhāṣata 9 [y] rājaputrā ime rājañ śobhante yena bhūṣitāḥ kuṇḍalāni ca niṣkāś ca sarvaṃ cāṅgavibhūṣaṇam etaṃ mama dhanaṃ rājaṃs tena dīvyāmy ahaṃ tvayā 10 [v] etac chrutvā vyavasito nikṛtiṃ samupāśritaḥ jitam ity eva śakunir yudhiṣṭhiram abhāṣata 11 [y] śyāmo yuvā lohitākṣaḥ siṃhaskandho mahābhujaḥ nakulo glaha eko me yac caitat svagataṃ dhanam 12 [ṣ] priyas te nakulo rājan rājaputro yudhiṣṭhira asmākaṃ dhanatāṃ prāpto bhūyas tvaṃ kena dīvyasi 13 [v] evam uktvā tu śakunis tān akṣān pratyapadyata jitam ity eva śakunir yudhiṣṭhiram abhāṣata 14 [y] ayaṃ dharmān sahadevo 'nuśāsti; loke hy asmin paṇḍitākhyāṃ gataś ca anarhatā rājaputreṇa tena; tvayā dīvyāmy apriyavat priyeṇa 15 [v] etac chrutvā vyavasito nikṛtiṃ samupāśritaḥ jitam ity eva śakunir yudhiṣṭhiram abhāṣata 16 [ṣ] mādrīputrau priyau rājaṃs tavemau vijitau mayā garīyāṃsau tu te manye bhīmasenadhanaṃjayau 17 [y] adharmaṃ carase nūnaṃ yo nāvekṣasi vai nayam yo naḥ sumanasāṃ mūḍha vibhedaṃ kartum icchasi 18 [ṣ] garte mattaḥ prapatati pramattaḥ sthāṇum ṛcchati jyeṣṭho rājan variṣṭho 'si namas te bharatarṣabha 19 svapne na tāni paśyanti jāgrato vā yudhiṣṭhira kitavā yāni dīvyantaḥ pralapanty utkaṭā iva 20 [y] yo naḥ saṃkhye naur iva pāranetā; jetā ripūṇāṃ rājaputras tarasvī anarhatā lokavīreṇa tena; dīvyāmy ahaṃ śakune phalgunena 21 [v] etac chrutvā vyavasito nikṛtiṃ samupāśritaḥ jitam ity eva śakunir yudhiṣṭhiram abhāṣata 22 [ṣ] ayaṃ mayā pāṇḍavānāṃ dhanurdharaḥ; parājitaḥ pāṇḍavaḥ savyasācī bhīmena rājan dayitena dīvya; yat kaivavyaṃ pāṇḍava te 'vaśiṣṭam 23 [y] yo no netā yo yudhāṃ naḥ praṇetā; yathā vajrī dānava śatrur ekaḥ tiryak prekṣī saṃhatabhrūr mahātmā; siṃhaskandho yaś ca sadātyamarṣī 24 balena tulyo yasya pumān na vidyate; gadā bhṛtām agrya ihāri mardanaḥ anarhatā rājaputreṇa tena; dīvyāmy ahaṃ bhīmasenena rājan 25 [v] etac chrutvā vyavasito nikṛtiṃ samupāśritaḥ jitam ity eva śakunir yudhiṣṭhiram abhāṣata 26 [ṣ] bahu vittaṃ parājaiṣīr bhrātṝṃś ca sahayadvipān ācakṣva vittaṃ kaunteya yadi te 'sty aparājitam 27 [y] ahaṃ viśiṣṭaḥ sarveṣāṃ bhrātṝṇāṃ dayitas tathā kuryāmas te jitāḥ karma svayam ātmany upaplave 28 [v] etac chrutvā vyavasito nikṛtiṃ samupāśritaḥ jitam ity eva śakunir yudhiṣṭhiram abhāṣata 29 [ṣ] etat pāpiṣṭham akaror yad ātmānaṃ parājitaḥ śiṣṭe sati dhane rājan pāpa ātmaparājayaḥ 30 [v] evam uktvā matākṣas tān glahe sarvān avasthitān parājayal lokavīrān ākṣepeṇa pṛthak pṛthak 31 [ṣ] asti vai te priyā devī glaha eko 'parājitaḥ paṇasva kṛṣṇāṃ pāñcālīṃ tayātmānaṃ punar jaya 32 [y] naiva hrasvā na mahatī nātikṛṣṇā na rohiṇī sarāga raktanetrā ca tayā dīvyāmy ahaṃ tvayā 33 śāradotpala patrākṣyā śāradotpala gandhayā śāradotpala sevinyā rūpeṇa śrīsamānayā 34 tathaiva syād ānṛśaṃsyāt tathā syād rūpasaṃpadā tathā syāc chīla saṃpattyā yām icchet puruṣaḥ striyam 35 caramaṃ saṃviśati yā prathamaṃ pratibudhyate ā gopālāvi pālebhyaḥ sarvaṃ veda kṛtākṛtam 36 ābhāti padmavad vaktraṃ sasvedaṃ mallikeva ca vedīmadhyā dīrghakeśī tāmrākṣī nātiromaśā 37 tayaivaṃ vidhayā rājan pāñcālyāhaṃ sumadhyayā glahaṃ dīvyāmi cārv aṅgyā draupadyā hanta saubala 38 [v] evam ukte tu vacane dharmarājena bhārata dhig dhig ity eva vṛddhānāṃ sabhyānāṃ niḥsṛtā giraḥ 39 cukṣubhe sā sabhā rājan rājñāṃ saṃjajñire kathāḥ bhīṣmadroṇakṛpādīnāṃ svedaś ca samajāyata 40 śiro gṛhītvā viduro gatasattva ivābhavat āste dhyāyann adho vaktro niḥśvasan pannago yathā 41 dhṛtarāṣṭras tu saṃhṛṣṭaḥ paryapṛcchat punaḥ punaḥ kiṃ jitaṃ kiṃ jitam iti hy ākāraṃ nābhyalakṣata 42 jaharṣa karṇo 'tibhṛśaṃ saha duḥśāsanādibhiḥ itareṣāṃ tu sabhyānāṃ netrebhyaḥ prāpataj jalam 43 saubalas tv avicāryaiva jitakāśī madotkaṭaḥ jitam ity eva tān akṣān punar evānvapadyata |
The Mahabharata in Sanskrit
Book 2
Chapter 59
|
1
[दूृ] एहि कषत्तर दरौपदीम आनयस्व; परियां भार्यां संमतां पाण्डवानाम संमार्जतां वेश्म परैतु शीघ्रम; आनन्दॊ नः सह दासीभिर अस्तु 2 [व] दुर्विभाव्यं भवति तवादृशेन; न मन्दसंबुध्यसि पाशबद्धः परपाते तवं लम्बमानॊ न वेत्सि; वयाघ्रान मृगः कॊपयसे ऽतिबाल्यात 3 आशीविषाः शिरसि ते पूर्णकॊशा महाविषाः मा कॊपिष्ठाः सुमन्दात्मन मा गमस तवं यमक्षयम 4 न हि दासीत्वम आपन्ना कृष्णा भवति भारत अनीशेन हि राज्ञैषा पणे नयस्तेति मे मतिः 5 अयं धत्ते वेणुर इवात्मघाती; फलं राजा धृतराष्ट्रस्य पुत्रः दयूतं हि वैराय महाभयाय; पक्वॊ न बुध्यत्य अयम अन्तकाले 6 नारुं तुदः सयान न नृशंसवादी; न हीनतः परम अभ्याददीत ययास्य वाचा पर उद्विजेत; न तां वदेद रुशतीं पापलॊक्याम 7 समुच्चरन्त्य अतिवादा हि वक्त्राद; यैर आहतः शॊचति रात्र्यहानि परस्य नामर्मसु ते पतन्ति; तान पण्डितॊ नावसृजेत परेषाम 8 अजॊ हि शस्त्रम अखनत किलैकः; शस्त्रे विपन्ने पद्भिर अपास्य भूमिम निकृन्तनं सवस्य कण्ठस्य घॊरं; तद्वद वैरं मा खनीः पाण्डुपुत्रैः 9 न किं चिद ईड्यं परवदन्ति पापं; वनेचरं वा गृहमेधिनं वा तपस्विनं संपरिपूर्ण विद्यं; भषन्ति हैवं शवनराः सदैव 10 दवारं सुघॊरं नरकस्य जिह्मं; न बुध्यसे धृतराष्ट्रस्य पुत्र तवाम अन्वेतारॊ बहवः कुरूणां; दयूतॊदये सह दुःशासनेन 11 मज्जन्त्य अलाबूनि शिलाः पलवन्ते; मुह्यन्ति नावॊ ऽमभसि शश्वद एव मूढॊ राजा धृतराष्ट्रस्य पुत्रॊ; न मे वाचः पथ्यरूपाः शृणॊति 12 अन्तॊ नूनं भवितायं कुरूणां; सुदारुणः सर्वहरॊ विनाशः वाचः काव्याः सुहृदां पथ्यरूपा; न शरूयन्ते वर्धते लॊभ एव |
1
[dūṛ] ehi kṣattar draupadīm ānayasva; priyāṃ bhāryāṃ saṃmatāṃ pāṇḍavānām saṃmārjatāṃ veśma paraitu śīghram; ānando naḥ saha dāsībhir astu 2 [v] durvibhāvyaṃ bhavati tvādṛśena; na mandasaṃbudhyasi pāśabaddhaḥ prapāte tvaṃ lambamāno na vetsi; vyāghrān mṛgaḥ kopayase 'tibālyāt 3 āśīviṣāḥ śirasi te pūrṇakośā mahāviṣāḥ mā kopiṣṭhāḥ sumandātman mā gamas tvaṃ yamakṣayam 4 na hi dāsītvam āpannā kṛṣṇā bhavati bhārata anīśena hi rājñaiṣā paṇe nyasteti me matiḥ 5 ayaṃ dhatte veṇur ivātmaghātī; phalaṃ rājā dhṛtarāṣṭrasya putraḥ dyūtaṃ hi vairāya mahābhayāya; pakvo na budhyaty ayam antakāle 6 nāruṃ tudaḥ syān na nṛśaṃsavādī; na hīnataḥ param abhyādadīta yayāsya vācā para udvijeta; na tāṃ vaded ruśatīṃ pāpalokyām 7 samuccaranty ativādā hi vaktrād; yair āhataḥ śocati rātryahāni parasya nāmarmasu te patanti; tān paṇḍito nāvasṛjet pareṣām 8 ajo hi śastram akhanat kilaikaḥ; śastre vipanne padbhir apāsya bhūmim nikṛntanaṃ svasya kaṇṭhasya ghoraṃ; tadvad vairaṃ mā khanīḥ pāṇḍuputraiḥ 9 na kiṃ cid īḍyaṃ pravadanti pāpaṃ; vanecaraṃ vā gṛhamedhinaṃ vā tapasvinaṃ saṃparipūrṇa vidyaṃ; bhaṣanti haivaṃ śvanarāḥ sadaiva 10 dvāraṃ sughoraṃ narakasya jihmaṃ; na budhyase dhṛtarāṣṭrasya putra tvām anvetāro bahavaḥ kurūṇāṃ; dyūtodaye saha duḥśāsanena 11 majjanty alābūni śilāḥ plavante; muhyanti nāvo 'mbhasi śaśvad eva mūḍho rājā dhṛtarāṣṭrasya putro; na me vācaḥ pathyarūpāḥ śṛṇoti 12 anto nūnaṃ bhavitāyaṃ kurūṇāṃ; sudāruṇaḥ sarvaharo vināśaḥ vācaḥ kāvyāḥ suhṛdāṃ pathyarūpā; na śrūyante vardhate lobha eva |
The Mahabharata in Sanskrit
Book 2
Chapter 60
|
1
[वै] धिग अस्तु कषत्तारम इति बरुवाणॊ; दर्पेण मत्तॊ धृतराष्ट्रस्य पुत्रः अवैक्षत परातिकामीं सभायाम; उवाच चैनं परमार्यमध्ये 2 तवं परातिकामिन दरौपदीम आनयस्व; न ते भयं विद्यते पाण्डवेभ्यः कषत्ता हय अयं विवदत्य एव भीरुर; न चास्माकं वृद्धिकामः सदैव 3 एवम उक्तः परातिकामी ससूतः; परायाच छीघ्रं राजवचॊ निशम्य परविश्य च शवेव स सिंहगॊष्ठं; समासदन महिषीं पाण्डवानाम 4 [पर] युधिष्ठिरे दयूतमदेन मत्ते; दुर्यॊधनॊ दरौपदि तवाम अजैषीत सा परपद्य तवं धृतराष्ट्रस्य वेश्म; नयामि तवां कर्मणे याज्ञसेनि 5 [द] कथं तव एवं वदसि परातिकामिन; कॊ वै दीव्येद भार्ययया राजपुत्रः मूढॊ राजा दयूतमदेन मत्त; आहॊ नान्यत कैतवम अस्य किं चित 6 [प] यदा नाभूत कैतवम अन्यद अस्य; तदादेवीत पाण्डवॊ ऽजातशत्रुः नयस्ताः पूर्वं भरातरस तेन राज्ञा; सवयं चात्मा तवम अथॊ राजपुत्रि 7 [द] गच्छ तवं कितवं गत्वा सभायां पृच्छ सूतज किं नु पूर्वं पराजैषीर आत्मानं मां नु भारत एतज जञात्वा तवम आगच्छ ततॊ मां नयसूतज 8 [व] सभां गत्वा स चॊवाच दरौपद्यास तद वचस तदा कस्येशॊ नः पराजैषीर इति तवाम आह दरौपदी किं नु पूर्वं पराजैषीर आत्मानम अथ वापि माम 9 युधिष्ठिरस तु निश्चेष्टॊ गतसत्त्व इवाभवत न तं सूतं परत्युवाच वचनं साध्व असाधु वा 10 [दुर] इहैत्य कृष्णा पाञ्चाली परश्नम एतं परभाषताम इहैव सर्वे शृण्वन्तु तस्या अस्य च यद वचः 11 [व] स गत्वा राजभवनं दुर्यॊधन वशानुगः उवाच दरौपदीं सूतः परातिकामी वयथन्न इव 12 सभ्यास तव अमी राजपुत्र्य आह्वयन्ति; मन्ये पराप्तः संक्षयः कौरवाणाम न वै समृद्धिं पालयते लघीयान; यत तवं सभाम एष्यसि राजपुत्रि 13 [दरौ] एवं नूनं वयदधात संविधाता; सपर्शाव उभौ सपृशतॊ वीर बालौ धर्मं तव एकं परमं पराह लॊके; स नः शमं धास्यति गॊप्यमानः 14 [वै] युधिष्ठिरस तु तच छरुत्वा दुर्यॊधन चिकीर्षितम दरौपद्या संमतं दूतं पराहिणॊद भरतर्षभ 15 एकवस्त्रा अधॊ नीवी रॊदमाना रजस्वला सभाम आगम्य पाञ्चाली शवशुरस्याग्रतॊ ऽभवत 16 ततस तेषां मुखम आलॊक्य राजा; दुर्यॊधनः सूतम उवाच हृष्टः इहैवैताम आनय परातिकामिन; परत्यक्षम अस्याः कुरवॊ बरुवन्तु 17 ततः सूतस तस्य वशानुगामी; भीतश च कॊपाद दरुपदात्मजायाः विहाय मानं पुनर एव सभ्यान; उवाच कृष्णां किम अहं बरवीमि 18 [दुर] दुःशासनैष मम सूतपुत्रॊ; वृकॊदराद उद्विजते ऽलपचेताः सवयं परगृह्यानय याज्ञसेनीं; किं ते करिष्यन्त्य अवशाः सपत्नाः 19 ततः समुत्थाय स राजपुत्रः; शरुत्वा भरातुः कॊपविरक्त दृष्टिः परविश्य तद वेश्म महारथानाम; इत्य अब्रवीद दरौपदीं राजपुत्रीम 20 एह्य एहि पाञ्चालि जितासि कृष्णे; दुर्यॊधनं पश्य विमुक्तलज्जा कुरून भजस्वायत पद्मनेत्रे; धर्मेण लब्धासि सभां परैहि 21 ततः समुत्थाय सुदुर्मनाः सा; विवर्णम आमृज्य मुखं करेण आर्ता परदुद्राव यतः सत्रियस ता; वृद्धस्य राज्ञः कुरुपुंगवस्य 22 ततॊ जवेनाभिससार रॊषाद; दुःशासनस ताम अभिगर्जमानः दीर्घेषु नीलेष्व अथ चॊर्मि मत्सु; जग्राह केशेषु नरेन्द्रपत्नीम 23 ये राजसूयावभृथे जलेन; महाक्रतौ मन्त्रपूतेन सिक्ताः ते पाण्डवानां परिभूय वीर्यं; बलात परमृष्टा धृतराष्ट्र जेन 24 स तां परामृश्य सभा समीपम; आनीय कृष्णाम अतिकृष्ण केशीम दुःशासनॊ नाथवतीम अनाथवच; चकर्ष वायुः कदलीम इवार्ताम 25 सा कृष्यमाणा नमिताङ्गयस्तिः; शनैर उवाचाद्य रजस्वलास्मि एकं च वासॊ मम मन्दबुद्धे; सभां नेतुं नार्हसि माम अनार्य 26 ततॊ ऽबरवीत तां परसभं निगृह्य; केशेषु कृष्णेषु तदा स कृष्णाम कृष्णं च जिष्णुं च हरिं नरं च; तराणाय विक्रॊश नयामि हि तवाम 27 रजस्वला वा भव याज्ञसेनि; एकाम्बरा वाप्य अथ वा विवस्त्रा दयूते जिता चासि कृतासि दासी; दासीषु कामश च यथॊपजॊषम 28 परकीर्णकेशी पतितार्ध वस्त्रा; दुःशासनेन वयवधूयमाना हरीमत्य अमर्षेण च दह्यमाना; शनैर इदं वाक्यम उवाच कृष्णा 29 इमे सभायाम उपदिष्ट शास्त्राः; करियावन्तः सर्व एवेन्द्र कल्पाः गुरु सथाना गुरवश चैव सर्वे; तेषाम अग्रे नॊत्सहे सथातुम एवम 30 नृशंसकर्मंस तवम अनार्य वृत्त; मा मां विवस्त्रां कृधि मा विकार्षीः न मर्षयेयुस तव राजपुत्राः; सेन्द्रापि देवा यदि ते सहायाः 31 धर्मे सथितॊ धर्मसुतश च राजा; धर्मश च सूक्ष्मॊ निपुणॊपलभ्यः वाचापि भर्तुः परमाणु मात्रं; नेच्छसि दॊषं सवगुणान विषृज्य 32 इदं तव अनार्यं कुरुवीरमध्ये; रजस्वलां यत परिकर्षसे माम न चापि कश चित कुरुते ऽतर पूजां; धरुवं तवेदं मतम अन्वपद्यन 33 धिग अस्तु नष्टः खलु भारतानां; धर्मस तथा कषत्रविदां च वृत्तम यत्राभ्यतीतां कुरु धर्मवेलां; परेक्षन्ति सर्वे कुरवः सभायाम 34 दरॊणस्य भीष्मस्य च नास्ति सत्त्वं; धरुवं तथैवास्य महात्मनॊ ऽपि राज्ञस तथा हीमम अधर्मम उग्रं; न लक्षयन्ते कुरुवृद्ध मुख्याः 35 तथा बरुवन्ती करुणं सुमध्यमा; काक्षेण भर्तॄन कुपितान अपश्यत सा पाण्डवान कॊपपरीत देहान; संदीपयाम आस कटाक्ष पातैः 36 हृतेन राज्येन तथा धनेन; रत्नैश च मुख्यैर न तथा बभूव यथार्तया कॊपसमीरितेन; कृष्णा कटाक्षेण बभूव दुःखम 37 दुःशासनश चापि समीक्ष्य कृष्णाम; अवेक्षमाणां कृपणान पतींस तान आधूय वेगेन विसंज्ञकल्पाम; उवाच दासीति हसन्न इवॊग्रः 38 कर्णस तु तद वाक्यम अतीव हृष्टः; संपूजयाम आस हसन सशब्दम गान्धारराजः सुबलस्य पुत्रस; तथैव दुःशासनम अभ्यनन्दत 39 सभ्यास तु ये तत्र बभूवुर अन्ये; ताभ्याम ऋते धार्तराष्ट्रेण चैव तेषाम अभूद दुःखम अतीव कृष्णां; दृष्ट्वा सभायां परिकृष्यमाणाम 40 [भीस्म] न धर्मसौक्ष्म्यात सुभगे विवक्तुं; शक्नॊमि ते परश्नम इमं यथावत अस्वॊ हय अशक्तः पणितुं परस्वं; सत्रियश च भर्तुर वशतां समीक्ष्य 41 तयजेत सर्वां पृथिवीं समृद्धां; युधिष्ठिरः सत्यम अथॊ न जह्यात उक्तं जितॊ ऽसमीति च पाण्डवेन; तस्मान न शक्नॊमि विवेक्तुम एतत 42 दयूते ऽदवितीयः शकुनिर नरेषु; कुन्तीसुतस तेन निसृष्टकामः न मन्यते तां निकृतिं महात्मा; तस्मान न ते परश्नम इमं बरवीमि 43 [द] आहूय राजा कुशलैः सभायां; दुष्टात्मभिर नैकृतिकैर अनार्यैः दयूतप्रियैर नातिकृत परयत्नः; कस्माद अयं नाम निसृष्टकामः 44 स शुद्धभावॊ निकृतिप्रवृत्तिम; अबुध्यमानः कुरुपाण्डवाग्र्यः संभूय सर्वैश च जितॊ ऽपि यस्मात; पश्चाच च यत कैतवम अभ्युपेतः 45 तिष्ठन्ति चेमे कुरवः सभायाम; ईशाः सुतानां च तथा सनुषाणाम समीक्ष्य सर्वे मम चापि वाक्यं; विब्रूत मे परश्नम इमं यथावत 46 [व] तथा बरुवन्तीं करुणं रुदन्तीम; अवेक्षमाणाम असकृत पतींस तान दुःशासनः परुषाण्य अप्रियाणि; वाक्यान्य उवाचामधुराणि चैव 47 तां कृष्यमाणां च रजस्वलां च; सरस्तॊत्तरीयाम अतदर्हमाणाम वृकॊदरः परेक्ष्य युधिष्ठिरं च; चकार कॊपं परमार्तरूपः |
1
[vai] dhig astu kṣattāram iti bruvāṇo; darpeṇa matto dhṛtarāṣṭrasya putraḥ avaikṣata prātikāmīṃ sabhāyām; uvāca cainaṃ paramāryamadhye 2 tvaṃ prātikāmin draupadīm ānayasva; na te bhayaṃ vidyate pāṇḍavebhyaḥ kṣattā hy ayaṃ vivadaty eva bhīrur; na cāsmākaṃ vṛddhikāmaḥ sadaiva 3 evam uktaḥ prātikāmī sasūtaḥ; prāyāc chīghraṃ rājavaco niśamya praviśya ca śveva sa siṃhagoṣṭhaṃ; samāsadan mahiṣīṃ pāṇḍavānām 4 [pra] yudhiṣṭhire dyūtamadena matte; duryodhano draupadi tvām ajaiṣīt sā prapadya tvaṃ dhṛtarāṣṭrasya veśma; nayāmi tvāṃ karmaṇe yājñaseni 5 [d] kathaṃ tv evaṃ vadasi prātikāmin; ko vai dīvyed bhāryayayā rājaputraḥ mūḍho rājā dyūtamadena matta; āho nānyat kaitavam asya kiṃ cit 6 [p] yadā nābhūt kaitavam anyad asya; tadādevīt pāṇḍavo 'jātaśatruḥ nyastāḥ pūrvaṃ bhrātaras tena rājñā; svayaṃ cātmā tvam atho rājaputri 7 [d] gaccha tvaṃ kitavaṃ gatvā sabhāyāṃ pṛccha sūtaja kiṃ nu pūrvaṃ parājaiṣīr ātmānaṃ māṃ nu bhārata etaj jñātvā tvam āgaccha tato māṃ nayasūtaja 8 [v] sabhāṃ gatvā sa covāca draupadyās tad vacas tadā kasyeśo naḥ parājaiṣīr iti tvām āha draupadī kiṃ nu pūrvaṃ parājaiṣīr ātmānam atha vāpi mām 9 yudhiṣṭhiras tu niśceṣṭo gatasattva ivābhavat na taṃ sūtaṃ pratyuvāca vacanaṃ sādhv asādhu vā 10 [dur] ihaitya kṛṣṇā pāñcālī praśnam etaṃ prabhāṣatām ihaiva sarve śṛṇvantu tasyā asya ca yad vacaḥ 11 [v] sa gatvā rājabhavanaṃ duryodhana vaśānugaḥ uvāca draupadīṃ sūtaḥ prātikāmī vyathann iva 12 sabhyās tv amī rājaputry āhvayanti; manye prāptaḥ saṃkṣayaḥ kauravāṇām na vai samṛddhiṃ pālayate laghīyān; yat tvaṃ sabhām eṣyasi rājaputri 13 [drau] evaṃ nūnaṃ vyadadhāt saṃvidhātā; sparśāv ubhau spṛśato vīra bālau dharmaṃ tv ekaṃ paramaṃ prāha loke; sa naḥ śamaṃ dhāsyati gopyamānaḥ 14 [vai] yudhiṣṭhiras tu tac chrutvā duryodhana cikīrṣitam draupadyā saṃmataṃ dūtaṃ prāhiṇod bharatarṣabha 15 ekavastrā adho nīvī rodamānā rajasvalā sabhām āgamya pāñcālī śvaśurasyāgrato 'bhavat 16 tatas teṣāṃ mukham ālokya rājā; duryodhanaḥ sūtam uvāca hṛṣṭaḥ ihaivaitām ānaya prātikāmin; pratyakṣam asyāḥ kuravo bruvantu 17 tataḥ sūtas tasya vaśānugāmī; bhītaś ca kopād drupadātmajāyāḥ vihāya mānaṃ punar eva sabhyān; uvāca kṛṣṇāṃ kim ahaṃ bravīmi 18 [dur] duḥśāsanaiṣa mama sūtaputro; vṛkodarād udvijate 'lpacetāḥ svayaṃ pragṛhyānaya yājñasenīṃ; kiṃ te kariṣyanty avaśāḥ sapatnāḥ 19 tataḥ samutthāya sa rājaputraḥ; śrutvā bhrātuḥ kopavirakta dṛṣṭiḥ praviśya tad veśma mahārathānām; ity abravīd draupadīṃ rājaputrīm 20 ehy ehi pāñcāli jitāsi kṛṣṇe; duryodhanaṃ paśya vimuktalajjā kurūn bhajasvāyata padmanetre; dharmeṇa labdhāsi sabhāṃ paraihi 21 tataḥ samutthāya sudurmanāḥ sā; vivarṇam āmṛjya mukhaṃ kareṇa ārtā pradudrāva yataḥ striyas tā; vṛddhasya rājñaḥ kurupuṃgavasya 22 tato javenābhisasāra roṣād; duḥśāsanas tām abhigarjamānaḥ dīrgheṣu nīleṣv atha cormi matsu; jagrāha keśeṣu narendrapatnīm 23 ye rājasūyāvabhṛthe jalena; mahākratau mantrapūtena siktāḥ te pāṇḍavānāṃ paribhūya vīryaṃ; balāt pramṛṣṭā dhṛtarāṣṭra jena 24 sa tāṃ parāmṛśya sabhā samīpam; ānīya kṛṣṇām atikṛṣṇa keśīm duḥśāsano nāthavatīm anāthavac; cakarṣa vāyuḥ kadalīm ivārtām 25 sā kṛṣyamāṇā namitāṅgayastiḥ; śanair uvācādya rajasvalāsmi ekaṃ ca vāso mama mandabuddhe; sabhāṃ netuṃ nārhasi mām anārya 26 tato 'bravīt tāṃ prasabhaṃ nigṛhya; keśeṣu kṛṣṇeṣu tadā sa kṛṣṇām kṛṣṇaṃ ca jiṣṇuṃ ca hariṃ naraṃ ca; trāṇāya vikrośa nayāmi hi tvām 27 rajasvalā vā bhava yājñaseni; ekāmbarā vāpy atha vā vivastrā dyūte jitā cāsi kṛtāsi dāsī; dāsīṣu kāmaś ca yathopajoṣam 28 prakīrṇakeśī patitārdha vastrā; duḥśāsanena vyavadhūyamānā hrīmaty amarṣeṇa ca dahyamānā; śanair idaṃ vākyam uvāca kṛṣṇā 29 ime sabhāyām upadiṣṭa śāstrāḥ; kriyāvantaḥ sarva evendra kalpāḥ guru sthānā guravaś caiva sarve; teṣām agre notsahe sthātum evam 30 nṛśaṃsakarmaṃs tvam anārya vṛtta; mā māṃ vivastrāṃ kṛdhi mā vikārṣīḥ na marṣayeyus tava rājaputrāḥ; sendrāpi devā yadi te sahāyāḥ 31 dharme sthito dharmasutaś ca rājā; dharmaś ca sūkṣmo nipuṇopalabhyaḥ vācāpi bhartuḥ paramāṇu mātraṃ; necchasi doṣaṃ svaguṇān viṣṛjya 32 idaṃ tv anāryaṃ kuruvīramadhye; rajasvalāṃ yat parikarṣase mām na cāpi kaś cit kurute 'tra pūjāṃ; dhruvaṃ tavedaṃ matam anvapadyan 33 dhig astu naṣṭaḥ khalu bhāratānāṃ; dharmas tathā kṣatravidāṃ ca vṛttam yatrābhyatītāṃ kuru dharmavelāṃ; prekṣanti sarve kuravaḥ sabhāyām 34 droṇasya bhīṣmasya ca nāsti sattvaṃ; dhruvaṃ tathaivāsya mahātmano 'pi rājñas tathā hīmam adharmam ugraṃ; na lakṣayante kuruvṛddha mukhyāḥ 35 tathā bruvantī karuṇaṃ sumadhyamā; kākṣeṇa bhartṝn kupitān apaśyat sā pāṇḍavān kopaparīta dehān; saṃdīpayām āsa kaṭākṣa pātaiḥ 36 hṛtena rājyena tathā dhanena; ratnaiś ca mukhyair na tathā babhūva yathārtayā kopasamīritena; kṛṣṇā kaṭākṣeṇa babhūva duḥkham 37 duḥśāsanaś cāpi samīkṣya kṛṣṇām; avekṣamāṇāṃ kṛpaṇān patīṃs tān ādhūya vegena visaṃjñakalpām; uvāca dāsīti hasann ivograḥ 38 karṇas tu tad vākyam atīva hṛṣṭaḥ; saṃpūjayām āsa hasan saśabdam gāndhārarājaḥ subalasya putras; tathaiva duḥśāsanam abhyanandat 39 sabhyās tu ye tatra babhūvur anye; tābhyām ṛte dhārtarāṣṭreṇa caiva teṣām abhūd duḥkham atīva kṛṣṇāṃ; dṛṣṭvā sabhāyāṃ parikṛṣyamāṇām 40 [bhīsma] na dharmasaukṣmyāt subhage vivaktuṃ; śaknomi te praśnam imaṃ yathāvat asvo hy aśaktaḥ paṇituṃ parasvaṃ; striyaś ca bhartur vaśatāṃ samīkṣya 41 tyajeta sarvāṃ pṛthivīṃ samṛddhāṃ; yudhiṣṭhiraḥ satyam atho na jahyāt uktaṃ jito 'smīti ca pāṇḍavena; tasmān na śaknomi vivektum etat 42 dyūte 'dvitīyaḥ śakunir nareṣu; kuntīsutas tena nisṛṣṭakāmaḥ na manyate tāṃ nikṛtiṃ mahātmā; tasmān na te praśnam imaṃ bravīmi 43 [d] āhūya rājā kuśalaiḥ sabhāyāṃ; duṣṭātmabhir naikṛtikair anāryaiḥ dyūtapriyair nātikṛta prayatnaḥ; kasmād ayaṃ nāma nisṛṣṭakāmaḥ 44 sa śuddhabhāvo nikṛtipravṛttim; abudhyamānaḥ kurupāṇḍavāgryaḥ saṃbhūya sarvaiś ca jito 'pi yasmāt; paścāc ca yat kaitavam abhyupetaḥ 45 tiṣṭhanti ceme kuravaḥ sabhāyām; īśāḥ sutānāṃ ca tathā snuṣāṇām samīkṣya sarve mama cāpi vākyaṃ; vibrūta me praśnam imaṃ yathāvat 46 [v] tathā bruvantīṃ karuṇaṃ rudantīm; avekṣamāṇām asakṛt patīṃs tān duḥśāsanaḥ paruṣāṇy apriyāṇi; vākyāny uvācāmadhurāṇi caiva 47 tāṃ kṛṣyamāṇāṃ ca rajasvalāṃ ca; srastottarīyām atadarhamāṇām vṛkodaraḥ prekṣya yudhiṣṭhiraṃ ca; cakāra kopaṃ paramārtarūpaḥ |
The Mahabharata in Sanskrit
Book 2
Chapter 61
|
1
[भम] भवन्ति देशे बन्धक्यः कितवानां युधिष्ठिर न ताभिर उत दीव्यन्ति दया चैवास्ति तास्व अपि 2 काश्यॊ यद बलिम आहार्षीद दरव्यं यच चान्यद उत्तमम तथान्ये पृथिवीपाला यानि रत्नान्य उपाहरन 3 वाहनानि धनं चैव कवचान्य आयुधानि च राज्यम आत्मा वयं चैव कैतवेन हृतं परैः 4 न च मे तत्र कॊपॊ ऽभूत सर्वस्येशॊ हि नॊ भवान इदं तव अतिकृतं मन्ये दरौपदी यत्र पण्यते 5 एषा हय अनर्हती बाला पाण्डवान पराप्य कौरवैः तवत्कृते कलिश्यते कषुद्रैर नृशंसैर निकृतिप्रियैः 6 अस्याः कृते मन्युर अयं तवयि राजन निपात्यते बाहू ते संप्रधक्ष्यामि सहदेवाग्निम आनय 7 [अर] न पुरा भीमसेन तवम ईदृशीर वदिता गिरः परैस ते नाशितं नूनं नृशंसैर धर्मगौरवम 8 न सकामाः परे कार्या धर्मम एवाचरॊत्तमम भरातरं धार्मिकं जयेष्ठं नातिक्रमितुम अर्हति 9 आहूतॊ हि परै राजा कषात्र धर्मम अनुस्मरन दीव्यते परकामेन तन नः कीर्तिकरं महत 10 [भम] एवम अस्मि कृतं विद्यां यद्य अस्याहं धनंजय दीप्ते ऽगनौ सहितौ बाहू निर्दयेयं बलाद इव 11 [व] तथा तान दुःखितान दृष्ट्वा पाण्डवान धृतराष्ट्रजः कलिश्यमानां च पाञ्चालीं विकर्ण इदम अब्रवीत 12 याज्ञसेन्या यद उक्तं तद वाक्यं विब्रूत पार्थिवाः अविवेकेन वाक्यस्य नरकः सद्य एव नः 13 भीष्मश च धृतराष्ट्रश च कुरुवृद्ध तमाव उभौ समेत्य नाहतुः किं चिद विदुरश च महामतिः 14 भरद्वाजॊ ऽपि सर्वेषाम आचार्यः कृप एव च अत एताव अपि परश्नं नाहतुर दविजसत्तमौ 15 ये तव अन्ये पृथिवीपालाः समेताः सर्वतॊदिशः कामक्रॊधौ समुत्सृज्य ते बरुवन्तु यथामति 16 यद इदं दरौपदी वाक्यम उक्तवत्य असकृच छुभा विमृश्य कस्य कः पक्षः पार्थिवा वदतॊत्तरम 17 एवं स बहुशः सर्वान उक्तवांस तान सभा सदः न च ते पृथिवीपालास तम ऊचुः साध्व असाधु वा 18 उक्त्वा तथासकृत सर्वान विकर्णः पृथिवीपतीन पाणिं पाणौ विनिष्पिष्य निःश्वसन्न इदम अब्रवीत 19 विब्रूत पृथिवीपाला वाक्यं मा वा कथं चन मन्ये नयाय्यं यद अत्राहं तद धि वक्ष्यामि कौरवाः 20 चत्वार्य आहुर नरश्रेष्ठा वयसनानि महीक्षिताम मृगयां पानम अक्षांश च गराम्ये चैवातिसक्तताम 21 एतेषु हि नरः सक्तॊ धर्मम उत्सृज्य वर्तते तथायुक्तेन च कृतां करियां लॊकॊ न मन्यते 22 तद अयं पाण्डुपुत्रेण वयसने वर्तता भृशम समाहूतेन कितवैर आस्थितॊ दरौपदी पणः 23 साधारणी च सर्वेषां पाण्डवानाम अनिन्दिता जितेन पूर्वं चानेन पाण्डवेन कृतः पणः 24 इयं च कीर्तिता कृष्णा सौबलेन पणार्थिना एतत सर्वं विचार्याहं मन्ये न विजिताम इमाम 25 एतच छरुत्वा महान नादः सभ्यानाम उदतिष्ठत विकर्णं शंसमानानां सौबलं च विनिन्दताम 26 तस्मिन्न उपरते शब्दे राधेयः करॊधमूर्छितः परगृह्य रुचिरं बाहुम इदं वचनम अब्रवीत 27 दृश्यन्ते वै विकर्णे हि वैकृतानि बहून्य अपि तज्जस तस्य विनाशाय यथाग्निर अरणि परजः 28 एते न किं चिद अप्य आहुश चॊद्यमानापि कृष्णया धर्मेण विजितां मन्ये मन्यन्ते दरुपदात्मजाम 29 तवं तु केवलबाल्येन धार्तराष्ट्र विदीर्यसे यद बरवीषि सभामध्ये बालः सथविर भाषितम 30 न च धर्मं यथातत्त्वं वेत्सि दुर्यॊधनावर यद बरवीषि जितां कृष्णाम अजितेति सुमन्दधीः 31 कथं हय अविजितां कृष्णां मन्यसे धृतराष्ट्रज यदा सभायां सर्वस्वं नयस्तवान पाण्डवाग्रजः 32 अभ्यन्तरा च सर्वस्वे दरौपदी भरतर्षभ एवं धर्मजितां कृष्णां मन्यसे न जितां कथम 33 कीर्तिता दरौपदी वाचा अनुज्ञाता च पाण्डवैः भवत्य अविजिता केन हेतुनैषा मता तव 34 मन्यसे वा सभाम एताम आनीताम एकवाससम अधर्मेणेति तत्रापि शृणु मे वाक्यम उत्तरम 35 एकॊ भर्ता सत्रिया देवैर विहितः कुरुनन्दन इयं तव अनेकवशगा बन्धकीति विनिश्चिता 36 अस्याः सभाम आनयनं न चित्रम इति मे मतिः एकाम्बर धरत्वं वाप्य अथ वापि विवस्त्रता 37 यच चैषां दरविणं किं चिद या चैषा ये च पाण्डवाः सौबलेनेह तत सर्वं धर्मेण विजितं वसु 38 दुःशासन सुबालॊ ऽयं विकर्णः पराज्ञवादिकः पाण्डवानां च वासांसि दरौपद्याश चाप्य उपाहर 39 तच छरुत्वा पाण्डवाः सर्वे सवानि वासांसि भारत अवकीर्यॊत्तरीयाणि सभायां समुपाविशत 40 ततॊ दुःशासनॊ राजन दरौपद्या वसनं बलात सभामध्ये समाक्षिप्य वयपक्रष्टुं परचक्रमे 41 आकृष्यमाणे वसने दरौपद्यास तु विशां पते तद रूपम अपरं वस्त्रं परादुरासीद अनेकशः 42 ततॊ हलहलाशब्दस तत्रासीद घॊरनिस्वनः तद अद्भुततमं लॊके वीक्ष्य सर्वमहीक्षिताम 43 शशाप तत्र भीमस तु राजमध्ये महास्वनः करॊधाद विस्फुरमाणौष्ठॊ विनिष्पिष्य करे करम 44 इदं मे वाक्यम आदद्ध्वं कषत्रिया लॊकवासिनः नॊक्तपूर्वं नरैर अन्यैर न चान्यॊ यद वदिष्यति 45 यद्य एतद एवम उक्त्वा तु न कुर्यां पृथिवीश्वराः पितामहानां सर्वेषां नाहं गतिम अवाप्नुयाम 46 अस्य पापस्य दुर्जातेर भारतापसदस्य च न पिबेयं बलाद वक्षॊ भित्त्वा चेद रुधिरं युधि 47 तस्य ते वचनं शरुत्वा सर्वलॊकप्रहर्षणम परचक्रुर बहुलां पूजां कुत्सन्तॊ धृतराष्ट्रजम 48 यदा तु वाससां राशिः सभामध्ये समाचितः ततॊ दुःशासनः शरान्तॊ वरीडितः समुपाविशत 49 धिक शब्दस तु ततस तत्र समभूल लॊमहर्षणः सभ्यानां नरदेवानां दृष्ट्वा कुन्तीसुतांस तदा 50 न विब्रुवन्ति कौरव्याः परश्नम एतम इति सम ह सजनः करॊशति समात्र धृतराष्ट्रं विगर्हयन 51 ततॊ बाहू समुच्छ्रित्य निवार्य च सभा सदः विदुरः सर्वधर्मज्ञ इदं वचनम अब्रवीत 52 [वि] दरौपदी परश्नम उक्त्वैवं रॊरवीति हय अनाथवत न च विब्रूत तं परश्नं सभ्या धर्मॊ ऽतर पीड्यते 53 सभां परपद्यते हय आर्तः परज्वलन्न इव हव्यवाट तं वै सत्येन धर्मेण सभ्याः परशमयन्त्य उत 54 धर्मप्रश्नम अथॊ बरूयाद आर्तः सभ्येषु मानवः विब्रूयुस तत्र ते परश्नं कामक्रॊधवशातिगाः 55 विकर्णेन यथा परज्ञम उक्तः परश्नॊ नराधिपाः भवन्तॊ ऽपि हि तं परश्नं विब्रुवन्तु यथामति 56 यॊ हि परश्नं न विब्रूयाद धर्मदर्षी सभां गतः अनृते या फलावाप्तिस तस्याः सॊ ऽरधं समश्नुते 57 यः पुनर वितथं बरूयाद धर्मदर्शी सभां गतः अनृतस्य फलं कृत्स्नं संप्राप्नॊतीति निश्चयः 58 अत्राप्य उदाहरन्तीमम इतिहासं पुरातनम परह्लादस्य च संवादं मुनेर आङ्गिरसस्य च 59 परह्लादॊ नाम दैत्येन्द्रस तस्य पुत्रॊ विरॊचनः कन्या हेतॊर आङ्गिरसं सुधन्वानम उपाद्रवत 60 अहं जयायान अहं जयायान इति कन्येप्सया तदा तयॊर देवनम अत्रासीत पराणयॊर इति नः शरुतम 61 तयॊः परश्न विवादॊ ऽभूत परह्लादं ताव अपृच्छताम जयायान क आवयॊर एकः परश्नं परब्रूहि मा मृषा 62 स वै विवदनाद भीतः सुधन्वानं वयलॊकयत तं सुधन्वाब्रवीत करुद्धॊ बरह्मदण्ड इव जवलन 63 यदि वै वक्ष्यसि मृषा परह्लादाथ न वक्ष्यसि शतधा ते शिरॊ वज्री वज्रेण परहरिष्यति 64 सुधन्वना तथॊक्तः सन वयथितॊ ऽशवत्थ पर्णवत जगाम कश्यपं दैत्यः परिप्रष्टुं महौजसम 65 [परह] तवं वै धर्मस्य विज्ञाता दैवस्येहासुरस्य च बराह्मणस्य महाप्राज्ञ धर्मकृच्छ्रम इदं शृणु 66 यॊ वै परश्नं न विब्रूयाद वितथं वापि निर्दिशेत के वै तस्य परे लॊकास तन ममाचक्ष्व पृच्छतः 67 [कष] जानन न विब्रुवन परश्नं कामात करॊधात तथा भयात सहस्रं वारुणान पाशान आत्मनि परतिमुञ्चति 68 तस्य संवत्सरे पूर्णे पाश एकः परमुच्यते तस्मात सत्यं तु वक्तव्यं जानता सत्यम अञ्जसा 69 विद्धॊ धर्मॊ हय अधर्मेण सभां यत्र परपद्यते न चास्य शल्यं कृन्तन्ति विद्धास तत्र सभा सदः 70 अर्धं हरति वै शरेष्ठः पादॊ भवति कर्तृषु पादश चैव सभासत्सु ये न निन्दन्ति निन्दितम 71 अनेनॊ भवति शरेष्ठॊ मुच्यन्ते च सभा सदः एनॊ गच्छति कर्तारं निन्दार्हॊ यत्र निन्द्यते 72 वितथं तु वदेयुर ये धर्मं परह्लाद पृच्छते इष्टापूर्तं च ते घनन्ति सप्त चैव परावरान 73 हृतस्वस्य हि यद दुःखं हतपुत्रस्य चापि यत ऋणिनं परति यच चैव राज्ञा गरस्तस्य चापि यत 74 सत्रियाः पत्या विहीनायाः सार्थाद भरष्टस्य चैव यत अध्यूढायाश च यद दुःखं साक्षिभिर विहतस्य च 75 एतानि वै समान्य आहुर दुःखानि तरिदशेश्वराः तानि सर्वाणि दुःखानि पराप्नॊति वितथं बरुवन 76 समक्ष दर्शनात साक्ष्यं शरवणाच चेति धारणात तस्मात सत्यं बरुवन साक्षी धर्मार्थाभ्यां न हीयते 77 [वि] कश्यपस्य वचॊ शरुत्वा परह्लादः पुत्रम अब्रवीत शरेयान सुधन्वा तवत्तॊ वै मत्तः शरेयांस तथाङ्गिराः 78 माता सुधन्वनश चापि शरेयसी मातृतस तव विरॊचन सुधन्वायं पराणानाम ईश्वरस तव 79 [सुधन्वन] पुत्रस्नेहं परित्यज्य यस तवं धर्मे परतिष्ठितः अनुजानामि ते पुत्रं जीवत्व एष शतं समाः 80 [वि] एवं वै परमं धर्मं शरुत्वा सर्वे सभा सदः यथा परश्नं तु कृष्णाया मन्यध्वं तत्र किं परम 81 [व] विदुरस्य वचॊ शरुत्वा नॊचुः किं चन पार्थिवाः कर्णॊ दुःशासनं तव आह कृष्णां दासीं गृहान नय 82 तां वेपमानां सव्रीडां परलपन्तीं सम पाण्डवान दुःशासनः सभामध्ये विचकर्ष तपस्विनीम |
1
[bhm] bhavanti deśe bandhakyaḥ kitavānāṃ yudhiṣṭhira na tābhir uta dīvyanti dayā caivāsti tāsv api 2 kāśyo yad balim āhārṣīd dravyaṃ yac cānyad uttamam tathānye pṛthivīpālā yāni ratnāny upāharan 3 vāhanāni dhanaṃ caiva kavacāny āyudhāni ca rājyam ātmā vayaṃ caiva kaitavena hṛtaṃ paraiḥ 4 na ca me tatra kopo 'bhūt sarvasyeśo hi no bhavān idaṃ tv atikṛtaṃ manye draupadī yatra paṇyate 5 eṣā hy anarhatī bālā pāṇḍavān prāpya kauravaiḥ tvatkṛte kliśyate kṣudrair nṛśaṃsair nikṛtipriyaiḥ 6 asyāḥ kṛte manyur ayaṃ tvayi rājan nipātyate bāhū te saṃpradhakṣyāmi sahadevāgnim ānaya 7 [ar] na purā bhīmasena tvam īdṛśīr vaditā giraḥ parais te nāśitaṃ nūnaṃ nṛśaṃsair dharmagauravam 8 na sakāmāḥ pare kāryā dharmam evācarottamam bhrātaraṃ dhārmikaṃ jyeṣṭhaṃ nātikramitum arhati 9 āhūto hi parai rājā kṣātra dharmam anusmaran dīvyate parakāmena tan naḥ kīrtikaraṃ mahat 10 [bhm] evam asmi kṛtaṃ vidyāṃ yady asyāhaṃ dhanaṃjaya dīpte 'gnau sahitau bāhū nirdayeyaṃ balād iva 11 [v] tathā tān duḥkhitān dṛṣṭvā pāṇḍavān dhṛtarāṣṭrajaḥ kliśyamānāṃ ca pāñcālīṃ vikarṇa idam abravīt 12 yājñasenyā yad uktaṃ tad vākyaṃ vibrūta pārthivāḥ avivekena vākyasya narakaḥ sadya eva naḥ 13 bhīṣmaś ca dhṛtarāṣṭraś ca kuruvṛddha tamāv ubhau sametya nāhatuḥ kiṃ cid viduraś ca mahāmatiḥ 14 bharadvājo 'pi sarveṣām ācāryaḥ kṛpa eva ca ata etāv api praśnaṃ nāhatur dvijasattamau 15 ye tv anye pṛthivīpālāḥ sametāḥ sarvatodiśaḥ kāmakrodhau samutsṛjya te bruvantu yathāmati 16 yad idaṃ draupadī vākyam uktavaty asakṛc chubhā vimṛśya kasya kaḥ pakṣaḥ pārthivā vadatottaram 17 evaṃ sa bahuśaḥ sarvān uktavāṃs tān sabhā sadaḥ na ca te pṛthivīpālās tam ūcuḥ sādhv asādhu vā 18 uktvā tathāsakṛt sarvān vikarṇaḥ pṛthivīpatīn pāṇiṃ pāṇau viniṣpiṣya niḥśvasann idam abravīt 19 vibrūta pṛthivīpālā vākyaṃ mā vā kathaṃ cana manye nyāyyaṃ yad atrāhaṃ tad dhi vakṣyāmi kauravāḥ 20 catvāry āhur naraśreṣṭhā vyasanāni mahīkṣitām mṛgayāṃ pānam akṣāṃś ca grāmye caivātisaktatām 21 eteṣu hi naraḥ sakto dharmam utsṛjya vartate tathāyuktena ca kṛtāṃ kriyāṃ loko na manyate 22 tad ayaṃ pāṇḍuputreṇa vyasane vartatā bhṛśam samāhūtena kitavair āsthito draupadī paṇaḥ 23 sādhāraṇī ca sarveṣāṃ pāṇḍavānām aninditā jitena pūrvaṃ cānena pāṇḍavena kṛtaḥ paṇaḥ 24 iyaṃ ca kīrtitā kṛṣṇā saubalena paṇārthinā etat sarvaṃ vicāryāhaṃ manye na vijitām imām 25 etac chrutvā mahān nādaḥ sabhyānām udatiṣṭhata vikarṇaṃ śaṃsamānānāṃ saubalaṃ ca vinindatām 26 tasminn uparate śabde rādheyaḥ krodhamūrchitaḥ pragṛhya ruciraṃ bāhum idaṃ vacanam abravīt 27 dṛśyante vai vikarṇe hi vaikṛtāni bahūny api tajjas tasya vināśāya yathāgnir araṇi prajaḥ 28 ete na kiṃ cid apy āhuś codyamānāpi kṛṣṇayā dharmeṇa vijitāṃ manye manyante drupadātmajām 29 tvaṃ tu kevalabālyena dhārtarāṣṭra vidīryase yad bravīṣi sabhāmadhye bālaḥ sthavira bhāṣitam 30 na ca dharmaṃ yathātattvaṃ vetsi duryodhanāvara yad bravīṣi jitāṃ kṛṣṇām ajiteti sumandadhīḥ 31 kathaṃ hy avijitāṃ kṛṣṇāṃ manyase dhṛtarāṣṭraja yadā sabhāyāṃ sarvasvaṃ nyastavān pāṇḍavāgrajaḥ 32 abhyantarā ca sarvasve draupadī bharatarṣabha evaṃ dharmajitāṃ kṛṣṇāṃ manyase na jitāṃ katham 33 kīrtitā draupadī vācā anujñātā ca pāṇḍavaiḥ bhavaty avijitā kena hetunaiṣā matā tava 34 manyase vā sabhām etām ānītām ekavāsasam adharmeṇeti tatrāpi śṛṇu me vākyam uttaram 35 eko bhartā striyā devair vihitaḥ kurunandana iyaṃ tv anekavaśagā bandhakīti viniścitā 36 asyāḥ sabhām ānayanaṃ na citram iti me matiḥ ekāmbara dharatvaṃ vāpy atha vāpi vivastratā 37 yac caiṣāṃ draviṇaṃ kiṃ cid yā caiṣā ye ca pāṇḍavāḥ saubaleneha tat sarvaṃ dharmeṇa vijitaṃ vasu 38 duḥśāsana subālo 'yaṃ vikarṇaḥ prājñavādikaḥ pāṇḍavānāṃ ca vāsāṃsi draupadyāś cāpy upāhara 39 tac chrutvā pāṇḍavāḥ sarve svāni vāsāṃsi bhārata avakīryottarīyāṇi sabhāyāṃ samupāviśat 40 tato duḥśāsano rājan draupadyā vasanaṃ balāt sabhāmadhye samākṣipya vyapakraṣṭuṃ pracakrame 41 ākṛṣyamāṇe vasane draupadyās tu viśāṃ pate tad rūpam aparaṃ vastraṃ prādurāsīd anekaśaḥ 42 tato halahalāśabdas tatrāsīd ghoranisvanaḥ tad adbhutatamaṃ loke vīkṣya sarvamahīkṣitām 43 śaśāpa tatra bhīmas tu rājamadhye mahāsvanaḥ krodhād visphuramāṇauṣṭho viniṣpiṣya kare karam 44 idaṃ me vākyam ādaddhvaṃ kṣatriyā lokavāsinaḥ noktapūrvaṃ narair anyair na cānyo yad vadiṣyati 45 yady etad evam uktvā tu na kuryāṃ pṛthivīśvarāḥ pitāmahānāṃ sarveṣāṃ nāhaṃ gatim avāpnuyām 46 asya pāpasya durjāter bhāratāpasadasya ca na pibeyaṃ balād vakṣo bhittvā ced rudhiraṃ yudhi 47 tasya te vacanaṃ śrutvā sarvalokapraharṣaṇam pracakrur bahulāṃ pūjāṃ kutsanto dhṛtarāṣṭrajam 48 yadā tu vāsasāṃ rāśiḥ sabhāmadhye samācitaḥ tato duḥśāsanaḥ śrānto vrīḍitaḥ samupāviśat 49 dhik śabdas tu tatas tatra samabhūl lomaharṣaṇaḥ sabhyānāṃ naradevānāṃ dṛṣṭvā kuntīsutāṃs tadā 50 na vibruvanti kauravyāḥ praśnam etam iti sma ha sajanaḥ krośati smātra dhṛtarāṣṭraṃ vigarhayan 51 tato bāhū samucchritya nivārya ca sabhā sadaḥ viduraḥ sarvadharmajña idaṃ vacanam abravīt 52 [vi] draupadī praśnam uktvaivaṃ roravīti hy anāthavat na ca vibrūta taṃ praśnaṃ sabhyā dharmo 'tra pīḍyate 53 sabhāṃ prapadyate hy ārtaḥ prajvalann iva havyavāṭ taṃ vai satyena dharmeṇa sabhyāḥ praśamayanty uta 54 dharmapraśnam atho brūyād ārtaḥ sabhyeṣu mānavaḥ vibrūyus tatra te praśnaṃ kāmakrodhavaśātigāḥ 55 vikarṇena yathā prajñam uktaḥ praśno narādhipāḥ bhavanto 'pi hi taṃ praśnaṃ vibruvantu yathāmati 56 yo hi praśnaṃ na vibrūyād dharmadarṣī sabhāṃ gataḥ anṛte yā phalāvāptis tasyāḥ so 'rdhaṃ samaśnute 57 yaḥ punar vitathaṃ brūyād dharmadarśī sabhāṃ gataḥ anṛtasya phalaṃ kṛtsnaṃ saṃprāpnotīti niścayaḥ 58 atrāpy udāharantīmam itihāsaṃ purātanam prahlādasya ca saṃvādaṃ muner āṅgirasasya ca 59 prahlādo nāma daityendras tasya putro virocanaḥ kanyā hetor āṅgirasaṃ sudhanvānam upādravat 60 ahaṃ jyāyān ahaṃ jyāyān iti kanyepsayā tadā tayor devanam atrāsīt prāṇayor iti naḥ śrutam 61 tayoḥ praśna vivādo 'bhūt prahlādaṃ tāv apṛcchatām jyāyān ka āvayor ekaḥ praśnaṃ prabrūhi mā mṛṣā 62 sa vai vivadanād bhītaḥ sudhanvānaṃ vyalokayat taṃ sudhanvābravīt kruddho brahmadaṇḍa iva jvalan 63 yadi vai vakṣyasi mṛṣā prahlādātha na vakṣyasi śatadhā te śiro vajrī vajreṇa prahariṣyati 64 sudhanvanā tathoktaḥ san vyathito 'śvattha parṇavat jagāma kaśyapaṃ daityaḥ paripraṣṭuṃ mahaujasam 65 [prah] tvaṃ vai dharmasya vijñātā daivasyehāsurasya ca brāhmaṇasya mahāprājña dharmakṛcchram idaṃ śṛṇu 66 yo vai praśnaṃ na vibrūyād vitathaṃ vāpi nirdiśet ke vai tasya pare lokās tan mamācakṣva pṛcchataḥ 67 [kaṣ] jānan na vibruvan praśnaṃ kāmāt krodhāt tathā bhayāt sahasraṃ vāruṇān pāśān ātmani pratimuñcati 68 tasya saṃvatsare pūrṇe pāśa ekaḥ pramucyate tasmāt satyaṃ tu vaktavyaṃ jānatā satyam añjasā 69 viddho dharmo hy adharmeṇa sabhāṃ yatra prapadyate na cāsya śalyaṃ kṛntanti viddhās tatra sabhā sadaḥ 70 ardhaṃ harati vai śreṣṭhaḥ pādo bhavati kartṛṣu pādaś caiva sabhāsatsu ye na nindanti ninditam 71 aneno bhavati śreṣṭho mucyante ca sabhā sadaḥ eno gacchati kartāraṃ nindārho yatra nindyate 72 vitathaṃ tu vadeyur ye dharmaṃ prahlāda pṛcchate iṣṭāpūrtaṃ ca te ghnanti sapta caiva parāvarān 73 hṛtasvasya hi yad duḥkhaṃ hataputrasya cāpi yat ṛṇinaṃ prati yac caiva rājñā grastasya cāpi yat 74 striyāḥ patyā vihīnāyāḥ sārthād bhraṣṭasya caiva yat adhyūḍhāyāś ca yad duḥkhaṃ sākṣibhir vihatasya ca 75 etāni vai samāny āhur duḥkhāni tridaśeśvarāḥ tāni sarvāṇi duḥkhāni prāpnoti vitathaṃ bruvan 76 samakṣa darśanāt sākṣyaṃ śravaṇāc ceti dhāraṇāt tasmāt satyaṃ bruvan sākṣī dharmārthābhyāṃ na hīyate 77 [vi] kaśyapasya vaco śrutvā prahlādaḥ putram abravīt śreyān sudhanvā tvatto vai mattaḥ śreyāṃs tathāṅgirāḥ 78 mātā sudhanvanaś cāpi śreyasī mātṛtas tava virocana sudhanvāyaṃ prāṇānām īśvaras tava 79 [sudhanvan] putrasnehaṃ parityajya yas tvaṃ dharme pratiṣṭhitaḥ anujānāmi te putraṃ jīvatv eṣa śataṃ samāḥ 80 [vi] evaṃ vai paramaṃ dharmaṃ śrutvā sarve sabhā sadaḥ yathā praśnaṃ tu kṛṣṇāyā manyadhvaṃ tatra kiṃ param 81 [v] vidurasya vaco śrutvā nocuḥ kiṃ cana pārthivāḥ karṇo duḥśāsanaṃ tv āha kṛṣṇāṃ dāsīṃ gṛhān naya 82 tāṃ vepamānāṃ savrīḍāṃ pralapantīṃ sma pāṇḍavān duḥśāsanaḥ sabhāmadhye vicakarṣa tapasvinīm |
The Mahabharata in Sanskrit
Book 2
Chapter 62
|
1
[दरौ] पुरस्तात करणीयं मे न कृतं कार्यम उत्तरम विह्वलास्मि कृतानेन कर्षता बलिना बलात 2 अभिवादं करॊम्य एषां गुरूणां कुरुसंसदि न मे सयाद अपराधॊ ऽयं यद इदं न कृतं मया 3 [वै] सा तेन च समुद्धूता दुःखेन च तपस्विनी पतिता विललापेदं सभायाम अतथॊचिता 4 [दरौ] सवयंवरे यास्मि नृपैर दृष्टा रङ्गे समागतैः न दृष्टपूर्वा चान्यत्र साहम अद्य सभां गता 5 यां न वायुर न चादित्यॊ दृष्टवन्तौ पुरा गृहे साहम अद्य सभामध्ये दृश्यामि कुरुसंसदि 6 यां न मृष्यन्ति वातेन सपृश्यमानां पुरा गृहे सपृश्यमानां सहन्ते ऽदय पाण्डवास तां दुरात्मना 7 मृष्यन्ते कुरवश चेमे मन्ये कालस्य पर्ययम सनुषां दुहितरं चैव कलिश्यमानाम अनर्हतीम 8 किं तव अतः कृपणं भूयॊ यद अहं सत्री सती शुभा सभामध्यं विगाहे ऽदय कव नु धर्मॊ महीक्षिताम 9 धर्म्याः सत्रियः सभां पूर्वं न नयन्तीति नः शरुतम स नष्टः कौरवेयेषु पूर्वॊ धर्मः सनातनः 10 कथं हि भार्या पाण्डूनां पार्षतस्य सवसा सती वासुदेवस्य च सखी पार्थिवानां सभाम इयाम 11 ताम इमां धर्मराजस्य भार्यां सदृशवर्णजाम बरूत दासीम अदासीं वा तत करिष्यामि कौरवाः 12 अयं हि मां दृढं कषुद्रः कौरवाणां यशॊहरः कलिश्नाति नाहं तत सॊढुं चिरं शक्ष्यामि कौरवाः 13 जितां वाप्य अजितां वापि मन्यध्वं वा यथा नृपाः तथा परत्युक्तम इच्छामि तत करिष्यामि कौरवाः 14 [भस] उक्तवान अस्मि कल्याणि धर्मस्य तु परां गतिम लॊके न शक्यते गन्तुम अपि विप्रैर महात्मभिः 15 बलवांस तु यथा धर्मं लॊके पश्यति पूरुषः स धर्मॊ धर्मवेलायां भवत्य अभिहितः परैः 16 न विवेक्तुं च ते परश्नम एतं शक्नॊमि निश्चयात सूक्ष्मत्वाद गहनत्वाच च कार्यस्यास्य च गौरवात 17 नूनम अन्तः कुलस्यास्य भविता नचिराद इव तथा हि कुरवः सर्वे लॊभमॊहपरायणाः 18 कुलेषु जाताः कल्याणि वयसनाभ्याहता भृशम धर्म्यान मार्गान न चयवन्ते यथा नस तवं वधूः सथिता 19 उपपन्नं च पाञ्चालि तवेदं वृत्तम ईदृशम यत कृच्छ्रम अपि संप्राप्ता धर्मम एवान्ववेक्षसे 20 एते दरॊणादयश चैव वृद्धा धर्मविदॊ जनाः शून्यैः शरीरैस तिष्ठन्ति गतासव इवानताः 21 युधिष्ठिरस तु परश्ने ऽसमिन परमाणम इति मे मतिः अजितां वा जितां वापि सवयं वयाहर्तुम अर्हति 22 [व] तथा तु दृष्ट्वा बहु तत तद एवं; रॊरूयमाणां कुररीम इवार्ताम नॊचुर वचः साध्व अथ वाप्य असाधु; महीक्षितॊ धार्तराष्ट्रस्य भीताः 23 दृष्ट्वा तु तान पार्थिव पुत्रपौत्रांस; तूष्णींभूतान धृतराष्ट्रस्य पुत्रः समयन्न इवेदं वचनं बभाषे; पाञ्चालराजस्य सुतां तदानीम 24 तिष्ठत्व अयं परश्न उदारसत्त्वे; भीमे ऽरजुने सहदेवे तथैव पत्यौ च ते नकुले याज्ञसेनि; वदन्त्व एते वचनं तवत परसूतम 25 अनीश्वरं विब्रुवन्त्व आर्यमध्ये; युधिष्ठिरं तव पाञ्चालि हेतॊः कुर्वन्तु सर्वे चानृतं धर्मराजं; पाञ्चालि तवं मॊक्ष्यसे दासभावात 26 धर्मे सथितॊ धर्मराजॊ महात्मा; सवयं चेदं कथयत्व इन्द्रकल्पः ईशॊ वा ते यद्य अनीशॊ ऽथ वैष; वाक्याद अस्य कषिप्रम एकं भजस्व 27 सर्वे हीमे कौरवेयाः सभायां; दुःखान्तरे वर्तमानास तवैव न विब्रुवन्त्य आर्य सत्त्वा यथावत; पतींश च ते समवेक्ष्याल्प भाग्यान 28 [व] ततः सभ्याः कुरुराजस्य तत्र; वाक्यं सर्वे परशशंसुस तदॊच्चैः चेलावेधांश चापि चक्रुर नदन्तॊ; हाहेत्य आसीद अपि चैवात्र नादः सर्वे चासन पार्थिवाः परीतिमन्तः; कुरुश्रेष्ठं धार्मिकं पूजयन्तः 29 युधिष्ठिरं च ते सर्वे समुदैक्षन्त पार्थिवाः किं नु वक्ष्यति धर्मज्ञ इति साची कृताननाः 30 किं नु वक्ष्यति बीभत्सुर अजितॊ युधि पाण्डवः भीमसेनॊ यमौ चेति भृशं कौतूहलान्विताः 31 तस्मिन्न उपरते शब्दे भीमसेनॊ ऽबरवीद इदम परगृह्य विपुलं वृत्तं भुजं चन्दनरूषितम 32 यद्य एष गुरुर अस्माकं धर्मराजॊ युधिष्ठिरः न परभुः सयात कुलस्यास्य न वयं मर्षयेमहि 33 ईशॊ नः पुण्यतपसां पराणानाम अपि चेश्वरः मन्यते जितम आत्मानं यद्य एष विजिता वयम 34 न हि मुच्येत जीवन मे पदा भूमिम उपस्पृशन मर्त्यधर्मा परामृश्य पाञ्चाल्या मूर्धजान इमान 35 पश्यध्वम आयतौ वृत्तौ भुजौ मे परिघाव इव नैतयॊर अन्तरं पराप्य मुच्येतापि शतक्रतुः 36 धर्मपाशसितस तव एवं नाधिगच्छामि संकटम गौरवेण निरुद्धश च निग्रहाद अर्जुनस्य च 37 धर्मराज निसृष्टस तु सिंहः कषुद्रमृगान इव धार्तराष्ट्रान इमान पापान निष्पिषेयं तलासिभिः 38 तम उवाच तदा भीष्मॊ दरॊणॊ विदुर एव च कषम्यताम एवम इत्य एवं सर्वं संभवति तवयि |
1
[drau] purastāt karaṇīyaṃ me na kṛtaṃ kāryam uttaram vihvalāsmi kṛtānena karṣatā balinā balāt 2 abhivādaṃ karomy eṣāṃ gurūṇāṃ kurusaṃsadi na me syād aparādho 'yaṃ yad idaṃ na kṛtaṃ mayā 3 [vai] sā tena ca samuddhūtā duḥkhena ca tapasvinī patitā vilalāpedaṃ sabhāyām atathocitā 4 [drau] svayaṃvare yāsmi nṛpair dṛṣṭā raṅge samāgataiḥ na dṛṣṭapūrvā cānyatra sāham adya sabhāṃ gatā 5 yāṃ na vāyur na cādityo dṛṣṭavantau purā gṛhe sāham adya sabhāmadhye dṛśyāmi kurusaṃsadi 6 yāṃ na mṛṣyanti vātena spṛśyamānāṃ purā gṛhe spṛśyamānāṃ sahante 'dya pāṇḍavās tāṃ durātmanā 7 mṛṣyante kuravaś ceme manye kālasya paryayam snuṣāṃ duhitaraṃ caiva kliśyamānām anarhatīm 8 kiṃ tv ataḥ kṛpaṇaṃ bhūyo yad ahaṃ strī satī śubhā sabhāmadhyaṃ vigāhe 'dya kva nu dharmo mahīkṣitām 9 dharmyāḥ striyaḥ sabhāṃ pūrvaṃ na nayantīti naḥ śrutam sa naṣṭaḥ kauraveyeṣu pūrvo dharmaḥ sanātanaḥ 10 kathaṃ hi bhāryā pāṇḍūnāṃ pārṣatasya svasā satī vāsudevasya ca sakhī pārthivānāṃ sabhām iyām 11 tām imāṃ dharmarājasya bhāryāṃ sadṛśavarṇajām brūta dāsīm adāsīṃ vā tat kariṣyāmi kauravāḥ 12 ayaṃ hi māṃ dṛḍhaṃ kṣudraḥ kauravāṇāṃ yaśoharaḥ kliśnāti nāhaṃ tat soḍhuṃ ciraṃ śakṣyāmi kauravāḥ 13 jitāṃ vāpy ajitāṃ vāpi manyadhvaṃ vā yathā nṛpāḥ tathā pratyuktam icchāmi tat kariṣyāmi kauravāḥ 14 [bhs] uktavān asmi kalyāṇi dharmasya tu parāṃ gatim loke na śakyate gantum api viprair mahātmabhiḥ 15 balavāṃs tu yathā dharmaṃ loke paśyati pūruṣaḥ sa dharmo dharmavelāyāṃ bhavaty abhihitaḥ paraiḥ 16 na vivektuṃ ca te praśnam etaṃ śaknomi niścayāt sūkṣmatvād gahanatvāc ca kāryasyāsya ca gauravāt 17 nūnam antaḥ kulasyāsya bhavitā nacirād iva tathā hi kuravaḥ sarve lobhamohaparāyaṇāḥ 18 kuleṣu jātāḥ kalyāṇi vyasanābhyāhatā bhṛśam dharmyān mārgān na cyavante yathā nas tvaṃ vadhūḥ sthitā 19 upapannaṃ ca pāñcāli tavedaṃ vṛttam īdṛśam yat kṛcchram api saṃprāptā dharmam evānvavekṣase 20 ete droṇādayaś caiva vṛddhā dharmavido janāḥ śūnyaiḥ śarīrais tiṣṭhanti gatāsava ivānatāḥ 21 yudhiṣṭhiras tu praśne 'smin pramāṇam iti me matiḥ ajitāṃ vā jitāṃ vāpi svayaṃ vyāhartum arhati 22 [v] tathā tu dṛṣṭvā bahu tat tad evaṃ; rorūyamāṇāṃ kurarīm ivārtām nocur vacaḥ sādhv atha vāpy asādhu; mahīkṣito dhārtarāṣṭrasya bhītāḥ 23 dṛṣṭvā tu tān pārthiva putrapautrāṃs; tūṣṇīṃbhūtān dhṛtarāṣṭrasya putraḥ smayann ivedaṃ vacanaṃ babhāṣe; pāñcālarājasya sutāṃ tadānīm 24 tiṣṭhatv ayaṃ praśna udārasattve; bhīme 'rjune sahadeve tathaiva patyau ca te nakule yājñaseni; vadantv ete vacanaṃ tvat prasūtam 25 anīśvaraṃ vibruvantv āryamadhye; yudhiṣṭhiraṃ tava pāñcāli hetoḥ kurvantu sarve cānṛtaṃ dharmarājaṃ; pāñcāli tvaṃ mokṣyase dāsabhāvāt 26 dharme sthito dharmarājo mahātmā; svayaṃ cedaṃ kathayatv indrakalpaḥ īśo vā te yady anīśo 'tha vaiṣa; vākyād asya kṣipram ekaṃ bhajasva 27 sarve hīme kauraveyāḥ sabhāyāṃ; duḥkhāntare vartamānās tavaiva na vibruvanty ārya sattvā yathāvat; patīṃś ca te samavekṣyālpa bhāgyān 28 [v] tataḥ sabhyāḥ kururājasya tatra; vākyaṃ sarve praśaśaṃsus tadoccaiḥ celāvedhāṃś cāpi cakrur nadanto; hāhety āsīd api caivātra nādaḥ sarve cāsan pārthivāḥ prītimantaḥ; kuruśreṣṭhaṃ dhārmikaṃ pūjayantaḥ 29 yudhiṣṭhiraṃ ca te sarve samudaikṣanta pārthivāḥ kiṃ nu vakṣyati dharmajña iti sācī kṛtānanāḥ 30 kiṃ nu vakṣyati bībhatsur ajito yudhi pāṇḍavaḥ bhīmaseno yamau ceti bhṛśaṃ kautūhalānvitāḥ 31 tasminn uparate śabde bhīmaseno 'bravīd idam pragṛhya vipulaṃ vṛttaṃ bhujaṃ candanarūṣitam 32 yady eṣa gurur asmākaṃ dharmarājo yudhiṣṭhiraḥ na prabhuḥ syāt kulasyāsya na vayaṃ marṣayemahi 33 īśo naḥ puṇyatapasāṃ prāṇānām api ceśvaraḥ manyate jitam ātmānaṃ yady eṣa vijitā vayam 34 na hi mucyeta jīvan me padā bhūmim upaspṛśan martyadharmā parāmṛśya pāñcālyā mūrdhajān imān 35 paśyadhvam āyatau vṛttau bhujau me parighāv iva naitayor antaraṃ prāpya mucyetāpi śatakratuḥ 36 dharmapāśasitas tv evaṃ nādhigacchāmi saṃkaṭam gauraveṇa niruddhaś ca nigrahād arjunasya ca 37 dharmarāja nisṛṣṭas tu siṃhaḥ kṣudramṛgān iva dhārtarāṣṭrān imān pāpān niṣpiṣeyaṃ talāsibhiḥ 38 tam uvāca tadā bhīṣmo droṇo vidura eva ca kṣamyatām evam ity evaṃ sarvaṃ saṃbhavati tvayi |
The Mahabharata in Sanskrit
Book 2
Chapter 63
|
1
[कर्ण] तरयः किलेमे अधना भवन्ति; दासः शिष्यश चास्वतन्त्रा च नारी दासस्य पत्नी तवं धनम अस्य भद्रे; हीनेश्वरा दासधनं च दासी 2 परविश्य सा नः परिचारैर भजस्व; तत ते कार्यं शिष्टम आवेश्य वेश्म ईशाः सम सर्वे तव राजपुत्रि; भवन्ति ते धार्तराष्ट्रा न पार्थाः 3 अन्यं वृणीष्व पतिम आशु भामिनि; यस्माद दास्यं न लभसे देवनेन अनवद्या वै पतिषु कामवृत्तिर; नित्यं दास्ये विदितं वै तवास्तु 4 पराजितॊ नकुलॊ भीमसेनॊ; युधिष्ठिरः सहदेवॊ ऽरजुनश च दासी भूता परविश याज्ञसेनि; पराजितास ते पतयॊ न सन्ति 5 परयॊजनं चात्मनि किं नु मन्यते; पराक्रमं पौरुषं चेह पार्थः पाञ्चाल्यस्य दरुपदस्यात्मजाम इमां; सभामध्ये यॊ ऽतिदेवीद गलहेषु 6 [व] तद वै शरुत्वा भीमसेनॊ ऽतय अमर्षी; भृशं निशश्वास तदार्तरूपः राजानुगॊ धर्मपाशानुबद्धॊ; दहन्न इवैनं कॊपविरक्त दृष्टिः 7 [भम] नाहं कुप्ये सूतपुत्रस्य राजन्न; एष सत्यं दासधर्मः परविष्टः किं विद्विषॊ वाद्य मां धारयेयुर; नादेवीस तवं यद्य अनया नरेन्द्र 8 [वै] राधेयस्य वचॊ शरुत्वा राजा दुर्यॊधनस तदा युधिष्ठिरम उवाचेदं तूष्णींभूतम अचेतसम 9 भीमार्जुनौ यमौ चैव सथितौ ते नृपशासने परश्नं परब्रूहि कृष्णां तवम अजितां यदि मन्यसे 10 एवम उक्त्वा स कौन्तेयम अपॊह्य वसनं सवकम समयन्न इवैक्षत पाञ्चालीम ऐश्वर्यमदमॊहितः 11 कदली दण्डसदृशं सर्वलक्षणपूजितम गजहस्तप्रतीकाशं वज्रप्रतिम गौरवम 12 अभ्युत्स्मयित्वा राधेयं भीमम आधर्षयन्न इव दरौपद्याः परेक्षमाणायाः सव्यम ऊरुम अदर्शयत 13 वृकॊदरस तद आलॊक्य नेत्रे उत्फाल्य लॊहिते परॊवाच राजमध्ये तं सभां विश्रावयन्न इव 14 पितृभिः सह सालॊक्यं मा सम गच्छेद वृकॊदरः यद्य एतम ऊरुं गदया न भिन्द्यां ते महाहवे 15 करुद्धस्य तस्य सरॊतॊभ्यः सर्वेभ्यः पावकार्चिषः वृक्षस्येव विनिश्चेरुः कॊटरेभ्यः परदह्यतः 16 [वि] परं भयं पश्यत भीमसेनाद; बुध्यध्वं राज्ञॊ वरुणस्येव पाशात दैवेरितॊ नूनम अयं पुरस्तात; परॊ ऽनयॊ भरतेषूदपादि 17 अति दयूतं कृतम इदं धार्तराष्ट्रा; ये ऽसयां सत्रियं विवदध्वं सभायाम यॊगक्षेमॊ दृश्यते वॊ महाभयः; पापान मन्त्रान कुरवॊ मन्त्रयन्ति 18 इमं धर्मं कुरवॊ जानताशु; दुर्दृष्टे ऽसमिन परिषत संप्रदुष्येत इमां चेत पूर्वं कितवॊ ऽगलहीष्यद; ईशॊ ऽभविष्यद अपराजितात्मा 19 सवप्ने यथैतद धि धनं जितं सयात; तद एवं मन्ये यस्य दीव्यत्य अनीशः गान्धारि पुत्रस्य वचॊ निशम्य; धर्माद अस्मात कुरवॊ मापयात 20 [दुर] भीमस्य वाक्ये तद्वद एवार्जुनस्य; सथितॊ ऽहं वै यमयॊश चैवम एव युधिष्ठिरं चेत परवदन्त्य अनीशम; अथॊ दास्यान मॊक्ष्यसे याज्ञसेनि 21 [अर] ईशॊ राजा पूर्वम आसीद गलहे; नः कुन्तीपुत्रॊ धर्मराजॊ महात्मा ईशस तव अयं कस्य पराजितात्मा; तज जानीध्वं कुरवः सर्व एव 22 [व] ततॊ राज्ञॊ धृतराष्ट्रस्य गेहे; गॊमायुर उच्चैर वयाहरद अग्निहॊत्रे तं रासभाः परत्यभाषन्त राजन; समन्ततः पक्षिणश चैव रौद्राः 23 तं च शब्दं विदुरस तत्त्ववेदी; शुश्राव घॊरं सुबलात्मजा च भीष्मद्रॊणौ गौतमश चापि विद्वान; सवस्ति सवस्तीत्य अपि चैवाहुर उच्चैः 24 ततॊ गान्धारी विदुरश चैव विद्वांस; तम उत्पातं घॊरम आलक्ष्य राज्ञे निवेदयाम आसतुर आर्तवत तदा; ततॊ राजा वाक्यम इदं बभाषे 25 हतॊ ऽसि दुर्यॊधन मन्दबुद्धे; यस तवं सभायां कुरुपुंगवानाम सत्रियं समाभाषसि दुर्विनीत; विशेषतॊ दरौपदीं धर्मपत्नीम 26 एवम उक्त्वा धृतराष्ट्रॊ मनीषी; हितान्वेषी बान्धवानाम अपायात कृष्णां पाञ्चालीम अब्रवीत सान्त्वपूर्वं; विमृश्यैतत परज्ञया तत्त्वबुद्धिः 27 [ध] वरं वृणीष्व पाञ्चालि मत्तॊ यद अभिकाङ्क्षसि वधूनां हि विशिष्टा मे तवं धर्मपरमा सती 28 [दर] ददासि चेद वरं मह्यं वृणॊमि भरतर्षभ सर्वधर्मानुगः शरीमान अदासॊ ऽसतु युधिष्ठिरः 29 मनस्विनम अजानन्तॊ मा वै बरूयुः कुमारकाः एष वै दासपुत्रेति परतिविन्ध्यं तम आगतम 30 राजपुत्रः पुरा भूत्वा यथा नान्यः पुमान कव चित लालितॊ दासपुत्रत्वं पश्यन नश्येद धि भारत 31 [ध] दवितीयं ते वरं भद्रे ददामि वरयस्व माम मनॊ हि मे वितरति नैकं तवं वरम अर्हसि 32 [दर] सरथौ सधनुष्कौ च भीमसेनधनंजयौ नकुलं सहदेवं च दवितीयं वरये वयम 33 [ध] तृतीयं वरयास्मत्तॊ नासि दवाभ्यां सुसत कृता तवं हि सर्वस्नुषाणां मे शरेयसी धर्मचारिणी 34 [दर] लॊभॊ धर्मस्य नाशाय भगवन नाहम उत्सहे अनर्हा वरम आदातुं तृतीयं राजसत्तम 35 एकम आहुर वैश्य वरं दवौ तु कषत्रस्त्रिया वरौ तरयस तु राज्ञॊ राजेन्द्र बराह्मणस्य शतं वराः 36 पापीयांस इमे भूत्वा संतीर्णाः पतयॊ मम वेत्स्यन्ति चैव भद्राणि राजन पुण्येन कर्मणा |
1
[karṇa] trayaḥ kileme adhanā bhavanti; dāsaḥ śiṣyaś cāsvatantrā ca nārī dāsasya patnī tvaṃ dhanam asya bhadre; hīneśvarā dāsadhanaṃ ca dāsī 2 praviśya sā naḥ paricārair bhajasva; tat te kāryaṃ śiṣṭam āveśya veśma īśāḥ sma sarve tava rājaputri; bhavanti te dhārtarāṣṭrā na pārthāḥ 3 anyaṃ vṛṇīṣva patim āśu bhāmini; yasmād dāsyaṃ na labhase devanena anavadyā vai patiṣu kāmavṛttir; nityaṃ dāsye viditaṃ vai tavāstu 4 parājito nakulo bhīmaseno; yudhiṣṭhiraḥ sahadevo 'rjunaś ca dāsī bhūtā praviśa yājñaseni; parājitās te patayo na santi 5 prayojanaṃ cātmani kiṃ nu manyate; parākramaṃ pauruṣaṃ ceha pārthaḥ pāñcālyasya drupadasyātmajām imāṃ; sabhāmadhye yo 'tidevīd glaheṣu 6 [v] tad vai śrutvā bhīmaseno 'ty amarṣī; bhṛśaṃ niśaśvāsa tadārtarūpaḥ rājānugo dharmapāśānubaddho; dahann ivainaṃ kopavirakta dṛṣṭiḥ 7 [bhm] nāhaṃ kupye sūtaputrasya rājann; eṣa satyaṃ dāsadharmaḥ praviṣṭaḥ kiṃ vidviṣo vādya māṃ dhārayeyur; nādevīs tvaṃ yady anayā narendra 8 [vai] rādheyasya vaco śrutvā rājā duryodhanas tadā yudhiṣṭhiram uvācedaṃ tūṣṇīṃbhūtam acetasam 9 bhīmārjunau yamau caiva sthitau te nṛpaśāsane praśnaṃ prabrūhi kṛṣṇāṃ tvam ajitāṃ yadi manyase 10 evam uktvā sa kaunteyam apohya vasanaṃ svakam smayann ivaikṣat pāñcālīm aiśvaryamadamohitaḥ 11 kadalī daṇḍasadṛśaṃ sarvalakṣaṇapūjitam gajahastapratīkāśaṃ vajrapratima gauravam 12 abhyutsmayitvā rādheyaṃ bhīmam ādharṣayann iva draupadyāḥ prekṣamāṇāyāḥ savyam ūrum adarśayat 13 vṛkodaras tad ālokya netre utphālya lohite provāca rājamadhye taṃ sabhāṃ viśrāvayann iva 14 pitṛbhiḥ saha sālokyaṃ mā sma gacched vṛkodaraḥ yady etam ūruṃ gadayā na bhindyāṃ te mahāhave 15 kruddhasya tasya srotobhyaḥ sarvebhyaḥ pāvakārciṣaḥ vṛkṣasyeva viniśceruḥ koṭarebhyaḥ pradahyataḥ 16 [vi] paraṃ bhayaṃ paśyata bhīmasenād; budhyadhvaṃ rājño varuṇasyeva pāśāt daiverito nūnam ayaṃ purastāt; paro 'nayo bharateṣūdapādi 17 ati dyūtaṃ kṛtam idaṃ dhārtarāṣṭrā; ye 'syāṃ striyaṃ vivadadhvaṃ sabhāyām yogakṣemo dṛśyate vo mahābhayaḥ; pāpān mantrān kuravo mantrayanti 18 imaṃ dharmaṃ kuravo jānatāśu; durdṛṣṭe 'smin pariṣat saṃpraduṣyet imāṃ cet pūrvaṃ kitavo 'glahīṣyad; īśo 'bhaviṣyad aparājitātmā 19 svapne yathaitad dhi dhanaṃ jitaṃ syāt; tad evaṃ manye yasya dīvyaty anīśaḥ gāndhāri putrasya vaco niśamya; dharmād asmāt kuravo māpayāta 20 [dur] bhīmasya vākye tadvad evārjunasya; sthito 'haṃ vai yamayoś caivam eva yudhiṣṭhiraṃ cet pravadanty anīśam; atho dāsyān mokṣyase yājñaseni 21 [ar] īśo rājā pūrvam āsīd glahe; naḥ kuntīputro dharmarājo mahātmā īśas tv ayaṃ kasya parājitātmā; taj jānīdhvaṃ kuravaḥ sarva eva 22 [v] tato rājño dhṛtarāṣṭrasya gehe; gomāyur uccair vyāharad agnihotre taṃ rāsabhāḥ pratyabhāṣanta rājan; samantataḥ pakṣiṇaś caiva raudrāḥ 23 taṃ ca śabdaṃ viduras tattvavedī; śuśrāva ghoraṃ subalātmajā ca bhīṣmadroṇau gautamaś cāpi vidvān; svasti svastīty api caivāhur uccaiḥ 24 tato gāndhārī viduraś caiva vidvāṃs; tam utpātaṃ ghoram ālakṣya rājñe nivedayām āsatur ārtavat tadā; tato rājā vākyam idaṃ babhāṣe 25 hato 'si duryodhana mandabuddhe; yas tvaṃ sabhāyāṃ kurupuṃgavānām striyaṃ samābhāṣasi durvinīta; viśeṣato draupadīṃ dharmapatnīm 26 evam uktvā dhṛtarāṣṭro manīṣī; hitānveṣī bāndhavānām apāyāt kṛṣṇāṃ pāñcālīm abravīt sāntvapūrvaṃ; vimṛśyaitat prajñayā tattvabuddhiḥ 27 [dh] varaṃ vṛṇīṣva pāñcāli matto yad abhikāṅkṣasi vadhūnāṃ hi viśiṣṭā me tvaṃ dharmaparamā satī 28 [dra] dadāsi ced varaṃ mahyaṃ vṛṇomi bharatarṣabha sarvadharmānugaḥ śrīmān adāso 'stu yudhiṣṭhiraḥ 29 manasvinam ajānanto mā vai brūyuḥ kumārakāḥ eṣa vai dāsaputreti prativindhyaṃ tam āgatam 30 rājaputraḥ purā bhūtvā yathā nānyaḥ pumān kva cit lālito dāsaputratvaṃ paśyan naśyed dhi bhārata 31 [dh] dvitīyaṃ te varaṃ bhadre dadāmi varayasva mām mano hi me vitarati naikaṃ tvaṃ varam arhasi 32 [dra] sarathau sadhanuṣkau ca bhīmasenadhanaṃjayau nakulaṃ sahadevaṃ ca dvitīyaṃ varaye vayam 33 [dh] tṛtīyaṃ varayāsmatto nāsi dvābhyāṃ susat kṛtā tvaṃ hi sarvasnuṣāṇāṃ me śreyasī dharmacāriṇī 34 [dra] lobho dharmasya nāśāya bhagavan nāham utsahe anarhā varam ādātuṃ tṛtīyaṃ rājasattama 35 ekam āhur vaiśya varaṃ dvau tu kṣatrastriyā varau trayas tu rājño rājendra brāhmaṇasya śataṃ varāḥ 36 pāpīyāṃsa ime bhūtvā saṃtīrṇāḥ patayo mama vetsyanti caiva bhadrāṇi rājan puṇyena karmaṇā |
The Mahabharata in Sanskrit
Book 2
Chapter 64
|
1
[कर्ण] या नः शरुता मनुष्येषु सत्रियॊ रूपेण संमताः तासाम एतादृशं कर्म न कस्यां चन शुश्रुमः 2 करॊधाविष्टेषु पार्थेषु धार्तराष्ट्रेषु चाप्य अति दरौपदी पाण्डुपुत्राणां कृष्णा शान्तिर इहाभवत 3 अप्लवे ऽमभसि मग्नानाम अप्रतिष्ठे निमज्जताम पाञ्चाली पाण्डुपुत्राणां नौर एषा पारगाभवत 4 [व] तद वै शरुत्वा भीमसेनः कुरुमध्ये ऽतय अमर्षणः सत्री गतिः पाण्डुपुत्राणाम इत्य उवाच सुदुर्मनाः 5 तरीणि जयॊतींषि पुरुष इति वै देवलॊ ऽबरवीत अपत्यं कर्म विद्या च यतः सृष्टाः परजास ततः 6 अमेध्ये वै गतप्राणे शून्ये जञातिभिर उज्झिते देहे तरितयम एवैतत पुरुषस्यॊपजायते 7 तन नॊ जयॊतिर अभिहतं दाराणाम अभिमर्शनात धनंजय कथंस्वित सयाद अपत्यम अभिमृष्टजम 8 [अर] न चैवॊक्ता न चानुक्ता हीनतः परुषा गिरः भारताः परतिजल्पन्ति सदा तूत्तम पूरुषाः 9 समरन्ति सुकृतान्य एव न वैराणि कृतानि च सन्तः परतिविजानन्तॊ लब्ध्वा परत्ययम आत्मनः 10 [भ] इहैवैतांस तुरा सर्वान हन्मि शत्रून समागतान अथ निष्क्रम्य राजेन्द्र समूलान कृन्धि भारत 11 किं नॊ विवदितेनेह किं नः कलेशेन भारत अद्यैवैतान निहन्मीह परशाधि वसुधाम इमाम 12 [व] इत्य उक्त्वा भीमसेनस तु कनिष्ठैर भरातृभिर वृतः मृगमध्ये यथा सिंहॊ मुहुः परिघम ऐक्षत 13 सान्त्व्यमानॊ वीज्यमानः पार्थेनाक्लिष्ट कर्मणा सविद्यते च महाबाहुर अन्तर्दाहेन वीर्यवान 14 करुद्धस्य तस्य सरॊतॊभ्यॊ कर्णादिभ्यॊ नराधिप सधूमः सस्फुलिङ्गाच्रिः पावकः समजायत 15 भरुकुटी पुटदुष्प्रेक्ष्यम अभवत तस्य तन्मुखम युगान्तकाले संप्राप्ते कृतान्तस्येव रूपिणः 16 युधिष्ठिरस तम आवार्य बाहुना बाहुशालिनम मैवम इत्य अब्रवीच चैनं जॊषम आस्स्वेति भारत 17 निवार्य तं महाबाहुं कॊपसंरक्त लॊचनम पितरं समुपातिष्ठद धृतराष्ट्रं कृताञ्जलिः |
1
[karṇa] yā naḥ śrutā manuṣyeṣu striyo rūpeṇa saṃmatāḥ tāsām etādṛśaṃ karma na kasyāṃ cana śuśrumaḥ 2 krodhāviṣṭeṣu pārtheṣu dhārtarāṣṭreṣu cāpy ati draupadī pāṇḍuputrāṇāṃ kṛṣṇā śāntir ihābhavat 3 aplave 'mbhasi magnānām apratiṣṭhe nimajjatām pāñcālī pāṇḍuputrāṇāṃ naur eṣā pāragābhavat 4 [v] tad vai śrutvā bhīmasenaḥ kurumadhye 'ty amarṣaṇaḥ strī gatiḥ pāṇḍuputrāṇām ity uvāca sudurmanāḥ 5 trīṇi jyotīṃṣi puruṣa iti vai devalo 'bravīt apatyaṃ karma vidyā ca yataḥ sṛṣṭāḥ prajās tataḥ 6 amedhye vai gataprāṇe śūnye jñātibhir ujjhite dehe tritayam evaitat puruṣasyopajāyate 7 tan no jyotir abhihataṃ dārāṇām abhimarśanāt dhanaṃjaya kathaṃsvit syād apatyam abhimṛṣṭajam 8 [ar] na caivoktā na cānuktā hīnataḥ paruṣā giraḥ bhāratāḥ pratijalpanti sadā tūttama pūruṣāḥ 9 smaranti sukṛtāny eva na vairāṇi kṛtāni ca santaḥ prativijānanto labdhvā pratyayam ātmanaḥ 10 [bh] ihaivaitāṃs turā sarvān hanmi śatrūn samāgatān atha niṣkramya rājendra samūlān kṛndhi bhārata 11 kiṃ no vivaditeneha kiṃ naḥ kleśena bhārata adyaivaitān nihanmīha praśādhi vasudhām imām 12 [v] ity uktvā bhīmasenas tu kaniṣṭhair bhrātṛbhir vṛtaḥ mṛgamadhye yathā siṃho muhuḥ parigham aikṣata 13 sāntvyamāno vījyamānaḥ pārthenākliṣṭa karmaṇā svidyate ca mahābāhur antardāhena vīryavān 14 kruddhasya tasya srotobhyo karṇādibhyo narādhipa sadhūmaḥ sasphuliṅgācriḥ pāvakaḥ samajāyata 15 bhrukuṭī puṭaduṣprekṣyam abhavat tasya tanmukham yugāntakāle saṃprāpte kṛtāntasyeva rūpiṇaḥ 16 yudhiṣṭhiras tam āvārya bāhunā bāhuśālinam maivam ity abravīc cainaṃ joṣam āssveti bhārata 17 nivārya taṃ mahābāhuṃ kopasaṃrakta locanam pitaraṃ samupātiṣṭhad dhṛtarāṣṭraṃ kṛtāñjaliḥ |
The Mahabharata in Sanskrit
Book 2
Chapter 65
|
1
[य] राजन किं करवामस ते परशाध्य अस्मांस तवम ईश्वरः नित्यं हि सथातुम इच्छामस तव भारत शासने 2 [धृ] अजातशत्रॊ भद्रं ते अरिष्टं सवस्ति गच्छत अनुज्ञाताः सहधनाः सवराज्यम अनुशासत 3 इदं तव एवावबॊद्धव्यं वृद्धस्य मम शासनम धिया निगदितं कृत्स्नं पथ्यं निःश्रेयसं परम 4 वेत्थ तवं तात धर्माणां गतिं सूक्ष्मां युधिष्ठिर विनीतॊ ऽसि महाप्राज्ञ वृद्धानां पर्युपासिता 5 यतॊ बुद्धिस ततः शान्तिः परशमं गच्छ भारत नादारौ करमते शस्त्रं दारौ शस्त्रं निपात्यते 6 न वैराण्य अभिजानन्ति गुणान पश्यन्ति नागुणान विरॊधं नाधिगच्छन्ति ये त उत्तमपूरुषाः 7 संवादे परुषाण्य आहुर युधिष्ठिर नराधमाः परत्याहुर मध्यमास तव एतान उक्ताः परुषम उत्तरम 8 नैवॊक्ता नैव चानुक्ता अहिताः परुषा गिरः परतिजल्पन्ति वै धीराः सदा उत्तमपूरुषाः 9 समरन्ति सुकृतान्य एव न वैराणि कृतान्य अपि सन्तः परतिविजानन्तॊ लब्ध्वा परत्ययम आत्मनः 10 तथाचरितम आर्येण तवयास्मिन सत समागमे दुर्यॊधनस्य पारुष्यं तत तात हृदि मा कृथाः 11 मातरं चैव गान्धारीं मां च तवद गुणकाङ्क्षिणम उपस्थितं वृद्धम अन्धं पितरं पश्य भारत 12 परेक्षापूर्वं मया दयूतम इदम आसीद उपेक्षितम मित्राणि दरष्टुकामेन पुत्राणां च बलाबलम 13 अशॊच्याः कुरवॊ राजन येषां तवम अनुशासिता मन्त्री च विदुरॊ धीमान सर्वशास्त्रविशारदः 14 तवयि धर्मॊ ऽरजुने वीर्यं भीमसेने पराक्रमः शरद्धा च गुरुशुश्रूषा यमयॊः पुरुषाग्र्ययॊः 15 अजातशत्रॊ भद्रं ते खाण्डव परस्थम आविश भरातृभिस ते ऽसतु सौभ्रात्रं धर्मे ते धीयतां मनः 16 [व] इत्य उक्तॊ भरतश्रेष्ठॊ धर्मराजॊ युधिष्ठिरः कृत्वार्य समयं सर्वं परतस्थे भरातृभिः सह 17 ते रथान मेघसंकाशान आस्थाय सह कृष्णया परययुर हृष्टमनस इन्द्रप्रस्थं पुरॊत्तमम |
1
[y] rājan kiṃ karavāmas te praśādhy asmāṃs tvam īśvaraḥ nityaṃ hi sthātum icchāmas tava bhārata śāsane 2 [dhṛ] ajātaśatro bhadraṃ te ariṣṭaṃ svasti gacchata anujñātāḥ sahadhanāḥ svarājyam anuśāsata 3 idaṃ tv evāvaboddhavyaṃ vṛddhasya mama śāsanam dhiyā nigaditaṃ kṛtsnaṃ pathyaṃ niḥśreyasaṃ param 4 vettha tvaṃ tāta dharmāṇāṃ gatiṃ sūkṣmāṃ yudhiṣṭhira vinīto 'si mahāprājña vṛddhānāṃ paryupāsitā 5 yato buddhis tataḥ śāntiḥ praśamaṃ gaccha bhārata nādārau kramate śastraṃ dārau śastraṃ nipātyate 6 na vairāṇy abhijānanti guṇān paśyanti nāguṇān virodhaṃ nādhigacchanti ye ta uttamapūruṣāḥ 7 saṃvāde paruṣāṇy āhur yudhiṣṭhira narādhamāḥ pratyāhur madhyamās tv etān uktāḥ paruṣam uttaram 8 naivoktā naiva cānuktā ahitāḥ paruṣā giraḥ pratijalpanti vai dhīrāḥ sadā uttamapūruṣāḥ 9 smaranti sukṛtāny eva na vairāṇi kṛtāny api santaḥ prativijānanto labdhvā pratyayam ātmanaḥ 10 tathācaritam āryeṇa tvayāsmin sat samāgame duryodhanasya pāruṣyaṃ tat tāta hṛdi mā kṛthāḥ 11 mātaraṃ caiva gāndhārīṃ māṃ ca tvad guṇakāṅkṣiṇam upasthitaṃ vṛddham andhaṃ pitaraṃ paśya bhārata 12 prekṣāpūrvaṃ mayā dyūtam idam āsīd upekṣitam mitrāṇi draṣṭukāmena putrāṇāṃ ca balābalam 13 aśocyāḥ kuravo rājan yeṣāṃ tvam anuśāsitā mantrī ca viduro dhīmān sarvaśāstraviśāradaḥ 14 tvayi dharmo 'rjune vīryaṃ bhīmasene parākramaḥ śraddhā ca guruśuśrūṣā yamayoḥ puruṣāgryayoḥ 15 ajātaśatro bhadraṃ te khāṇḍava prastham āviśa bhrātṛbhis te 'stu saubhrātraṃ dharme te dhīyatāṃ manaḥ 16 [v] ity ukto bharataśreṣṭho dharmarājo yudhiṣṭhiraḥ kṛtvārya samayaṃ sarvaṃ pratasthe bhrātṛbhiḥ saha 17 te rathān meghasaṃkāśān āsthāya saha kṛṣṇayā prayayur hṛṣṭamanasa indraprasthaṃ purottamam |
The Mahabharata in Sanskrit
Book 2
Chapter 66
|
1
जनमेजय उवाच अनुज्ञातांस तान विदित्वा सरत्नधनसंचयान पाण्डवान धार्तराष्ट्राणां कथम आसीन मनस तदा 2 वैशंपायन उवाच अनुज्ञातांस तान विदित्वा धृतराष्ट्रेण धीमता राजन दुःशासनः कषिप्रं जगाम भरातरं परति 3 दुर्यॊधनं समासाद्य सामात्यं भरतर्षभ दुःखार्तॊ भरतश्रेष्ठ इदं वचनम अब्रवीत 4 दुःखेनैतत समानीतं सथविरॊ नाशयत्य असौ शत्रुसाद गमयद दरव्यं तद बुध्यध्वं महारथाः 5 अथ दुर्यॊधनः कर्णः शकुनिश चापि सौबलः मिथः संगम्य सहिताः पाण्डवान परति मानिनः 6 वैचित्रवीर्यं राजानं धृतराष्ट्रं मनीषिणम अभिगम्य तवरायुक्ताः शलक्ष्णं वचनम अब्रुवन 7 दुर्यॊधन उवाच न तवयेदं शरुतं राजन यज जगाद बृहस्पतिः शक्रस्य नीतिं परवदन विद्वान देवपुरॊहितः 8 सर्वॊपायैर निहन्तव्याः शत्रवः शत्रुकर्षण पुरा युद्धाद बलाद वापि परकुर्वन्ति तवाहितम 9 ते वयं पाण्डवधनैः सर्वान संपूज्य पार्थिवान यदि तान यॊधयिष्यामः किं वा नः परिहास्यति 10 अहीन आशीविषान करुद्धान दंशाय समुपस्थितान कृत्वा कण्ठे च पृष्ठे च कः समुत्स्रष्टुम अर्हति 11 आत्तशस्त्रा रथगताः कुपितास तात पाण्डवाः निःशेषं नः करिष्यन्ति करुद्धा हय आशीविषा यथा 12 संनद्धॊ हय अर्जुनॊ याति विवृत्य परमेषुधी गाण्डीवं मुहुर आदत्ते निःश्वसंश च निरीक्षते 13 गदां गुर्वीं समुद्यम्य तवरितश च वृकॊदरः सवरथं यॊजयित्वाशु निर्यात इति नः शरुतम 14 नकुलः खड्गम आदाय चर्म चाप्य अष्टचन्द्रकम सहदेवश च राजा च चक्रुर आकारम इङ्गितैः 15 ते तव आस्थाय रथान सर्वे बहुशस्त्रपरिच्छदान अभिघ्नन्तॊ रथव्रातान सेनायॊगाय निर्ययुः 16 न कषंस्यन्ते तथास्माभिर जातु विप्रकृता हि ते दरौपद्याश च परिक्लेशं कस तेषां कषन्तुम अर्हति 17 पुनर दीव्याम भद्रं ते वनवासाय पाण्डवैः एवम एतान वशे कर्तुं शक्ष्यामॊ भरतर्षभ 18 ते वा दवादश वर्षाणि वयं वा दयूतनिर्जिताः परविशेम महारण्यम अजिनैः परतिवासिताः 19 तरयॊदशं च सजने अज्ञाताः परिवत्सरम जञाताश च पुनर अन्यानि वने वर्षाणि दवादश 20 निवसेम वयं ते वा तथा दयूतं परवर्तताम अक्षान उप्त्वा पुनर्द्यूतम इदं दीव्यन्तु पाण्डवाः 21 एतत कृत्यतमं राजन्न अस्माकं भरतर्षभ अयं हि शकुनिर वेद सविद्याम अक्षसंपदम 22 दृढमूला वयं राज्ये मित्राणि परिगृह्य च सारवद विपुलं सैन्यं सत्कृत्य च दुरासदम 23 ते च तरयॊदशे वर्षे पारयिष्यन्ति चेद वरतम जेष्यामस तान वयं राजन रॊचतां ते परंतप 24 धृतराष्ट्र उवाच तूर्णं परत्यानयस्वैतान कामं वयध्वगतान अपि आगच्छन्तु पुनर्द्यूतम इदं कुर्वन्तु पाण्डवाः 25 वैशंपायन उवाच ततॊ दरॊणः सॊमदत्तॊ बाह्लीकश च महारथः विदुरॊ दरॊणपुत्रश च वैश्यापुत्रश च वीर्यवान 26 भूरिश्रवाः शांतनवॊ विकर्णश च महारथः मा दयूतम इत्य अभाषन्त शमॊ ऽसत्व इति च सर्वशः 27 अकामानां च सर्वेषां सुहृदाम अर्थदर्शिनाम अकरॊत पाण्डवाह्वानं धृतराष्ट्रः सुतप्रियः 28 अथाब्रवीन महाराज धृतराष्ट्रं जनेश्वरम पुत्रहार्दाद धर्मयुक्तं गान्धारी शॊककर्शिता 29 जाते दुर्यॊधने कषत्ता महामतिर अभाषत नीयतां परलॊकाय साध्व अयं कुलपांसनः 30 वयनदज जातमात्रॊ हि गॊमायुर इव भारत अन्तॊ नूनं कुलस्यास्य कुरवस तन निबॊधत 31 मा बालानाम अशिष्टानाम अभिमंस्था मतिं परभॊ मा कुलस्य कषये घॊरे कारणं तवं भविष्यसि 32 बद्धं सेतुं कॊ नु भिन्द्याद धमेच छान्तं च पावकम शमे धृतान पुनः पार्थान कॊपयेत कॊ नु भारत 33 समरन्तं तवाम आजमीढ समारयिष्याम्य अहं पुनः शास्त्रं न शास्ति दुर्बुद्धिं शरेयसे वेतराय वा 34 न वै वृद्धॊ बालमतिर भवेद राजन कथं चन तवन्नेत्राः सन्तु ते पुत्रा मा तवां दीर्णाः परहासिषुः 35 शमेन धर्मेण परस्य बुद्ध्या; जाता बुद्धिः सास्तु ते मा परतीपा परध्वंसिनी करूरसमाहिता शरीर; मृदुप्रौढा गच्छति पुत्रपौत्रान 36 अथाब्रवीन महाराजॊ गान्धारीं धर्मदर्शिनीम अन्तः कामं कुलस्यास्तु न शक्ष्यामि निवारितुम 37 यथेच्छन्ति तथैवास्तु परत्यागच्छन्तु पाण्डवाः पुनर्द्यूतं परकुर्वन्तु मामकाः पाण्डवैः सह |
1
janamejaya uvāca anujñātāṃs tān viditvā saratnadhanasaṃcayān pāṇḍavān dhārtarāṣṭrāṇāṃ katham āsīn manas tadā 2 vaiśaṃpāyana uvāca anujñātāṃs tān viditvā dhṛtarāṣṭreṇa dhīmatā rājan duḥśāsanaḥ kṣipraṃ jagāma bhrātaraṃ prati 3 duryodhanaṃ samāsādya sāmātyaṃ bharatarṣabha duḥkhārto bharataśreṣṭha idaṃ vacanam abravīt 4 duḥkhenaitat samānītaṃ sthaviro nāśayaty asau śatrusād gamayad dravyaṃ tad budhyadhvaṃ mahārathāḥ 5 atha duryodhanaḥ karṇaḥ śakuniś cāpi saubalaḥ mithaḥ saṃgamya sahitāḥ pāṇḍavān prati māninaḥ 6 vaicitravīryaṃ rājānaṃ dhṛtarāṣṭraṃ manīṣiṇam abhigamya tvarāyuktāḥ ślakṣṇaṃ vacanam abruvan 7 duryodhana uvāca na tvayedaṃ śrutaṃ rājan yaj jagāda bṛhaspatiḥ śakrasya nītiṃ pravadan vidvān devapurohitaḥ 8 sarvopāyair nihantavyāḥ śatravaḥ śatrukarṣaṇa purā yuddhād balād vāpi prakurvanti tavāhitam 9 te vayaṃ pāṇḍavadhanaiḥ sarvān saṃpūjya pārthivān yadi tān yodhayiṣyāmaḥ kiṃ vā naḥ parihāsyati 10 ahīn āśīviṣān kruddhān daṃśāya samupasthitān kṛtvā kaṇṭhe ca pṛṣṭhe ca kaḥ samutsraṣṭum arhati 11 āttaśastrā rathagatāḥ kupitās tāta pāṇḍavāḥ niḥśeṣaṃ naḥ kariṣyanti kruddhā hy āśīviṣā yathā 12 saṃnaddho hy arjuno yāti vivṛtya parameṣudhī gāṇḍīvaṃ muhur ādatte niḥśvasaṃś ca nirīkṣate 13 gadāṃ gurvīṃ samudyamya tvaritaś ca vṛkodaraḥ svarathaṃ yojayitvāśu niryāta iti naḥ śrutam 14 nakulaḥ khaḍgam ādāya carma cāpy aṣṭacandrakam sahadevaś ca rājā ca cakrur ākāram iṅgitaiḥ 15 te tv āsthāya rathān sarve bahuśastraparicchadān abhighnanto rathavrātān senāyogāya niryayuḥ 16 na kṣaṃsyante tathāsmābhir jātu viprakṛtā hi te draupadyāś ca parikleśaṃ kas teṣāṃ kṣantum arhati 17 punar dīvyāma bhadraṃ te vanavāsāya pāṇḍavaiḥ evam etān vaśe kartuṃ śakṣyāmo bharatarṣabha 18 te vā dvādaśa varṣāṇi vayaṃ vā dyūtanirjitāḥ praviśema mahāraṇyam ajinaiḥ prativāsitāḥ 19 trayodaśaṃ ca sajane ajñātāḥ parivatsaram jñātāś ca punar anyāni vane varṣāṇi dvādaśa 20 nivasema vayaṃ te vā tathā dyūtaṃ pravartatām akṣān uptvā punardyūtam idaṃ dīvyantu pāṇḍavāḥ 21 etat kṛtyatamaṃ rājann asmākaṃ bharatarṣabha ayaṃ hi śakunir veda savidyām akṣasaṃpadam 22 dṛḍhamūlā vayaṃ rājye mitrāṇi parigṛhya ca sāravad vipulaṃ sainyaṃ satkṛtya ca durāsadam 23 te ca trayodaśe varṣe pārayiṣyanti ced vratam jeṣyāmas tān vayaṃ rājan rocatāṃ te paraṃtapa 24 dhṛtarāṣṭra uvāca tūrṇaṃ pratyānayasvaitān kāmaṃ vyadhvagatān api āgacchantu punardyūtam idaṃ kurvantu pāṇḍavāḥ 25 vaiśaṃpāyana uvāca tato droṇaḥ somadatto bāhlīkaś ca mahārathaḥ viduro droṇaputraś ca vaiśyāputraś ca vīryavān 26 bhūriśravāḥ śāṃtanavo vikarṇaś ca mahārathaḥ mā dyūtam ity abhāṣanta śamo 'stv iti ca sarvaśaḥ 27 akāmānāṃ ca sarveṣāṃ suhṛdām arthadarśinām akarot pāṇḍavāhvānaṃ dhṛtarāṣṭraḥ sutapriyaḥ 28 athābravīn mahārāja dhṛtarāṣṭraṃ janeśvaram putrahārdād dharmayuktaṃ gāndhārī śokakarśitā 29 jāte duryodhane kṣattā mahāmatir abhāṣata nīyatāṃ paralokāya sādhv ayaṃ kulapāṃsanaḥ 30 vyanadaj jātamātro hi gomāyur iva bhārata anto nūnaṃ kulasyāsya kuravas tan nibodhata 31 mā bālānām aśiṣṭānām abhimaṃsthā matiṃ prabho mā kulasya kṣaye ghore kāraṇaṃ tvaṃ bhaviṣyasi 32 baddhaṃ setuṃ ko nu bhindyād dhamec chāntaṃ ca pāvakam śame dhṛtān punaḥ pārthān kopayet ko nu bhārata 33 smarantaṃ tvām ājamīḍha smārayiṣyāmy ahaṃ punaḥ śāstraṃ na śāsti durbuddhiṃ śreyase vetarāya vā 34 na vai vṛddho bālamatir bhaved rājan kathaṃ cana tvannetrāḥ santu te putrā mā tvāṃ dīrṇāḥ prahāsiṣuḥ 35 śamena dharmeṇa parasya buddhyā; jātā buddhiḥ sāstu te mā pratīpā pradhvaṃsinī krūrasamāhitā śrīr; mṛduprauḍhā gacchati putrapautrān 36 athābravīn mahārājo gāndhārīṃ dharmadarśinīm antaḥ kāmaṃ kulasyāstu na śakṣyāmi nivāritum 37 yathecchanti tathaivāstu pratyāgacchantu pāṇḍavāḥ punardyūtaṃ prakurvantu māmakāḥ pāṇḍavaiḥ saha |
The Mahabharata in Sanskrit
Book 2
Chapter 67
|
1
वैशंपायन उवाच ततॊ वयध्वगतं पार्थं परातिकामी युधिष्ठिरम उवाच वचनाद राज्ञॊ धृतराष्ट्रस्य धीमतः 2 उपस्तीर्णा सभा राजन्न अक्षान उप्त्वा युधिष्ठिर एहि पाण्डव दीव्येति पिता तवाम आह भारत 3 युधिष्ठिर उवाच धातुर नियॊगाद भूतानि पराप्नुवन्ति शुभाशुभम न निवृत्तिस तयॊर अस्ति देवितव्यं पुनर यदि 4 अक्षद्यूते समाह्वानं नियॊगात सथविरस्य च जानन्न अपि कषयकरं नातिक्रमितुम उत्सहे 5 वैशंपायन उवाच इति बरुवन निववृते भरातृभिः सह पाण्डवः जानंश च शकुनेर मायां पार्थॊ दयूतम इयात पुनः 6 विविशुस ते सभां तां तु पुनर एव महारथाः वयथयन्ति सम चेतांसि सुहृदां भरतर्षभाः 7 यथॊपजॊषम आसीनाः पुनर्द्यूतप्रवृत्तये सर्वलॊकविनाशाय दैवेनॊपनिपीडिताः 8 शकुनिर उवाच अमुञ्चत सथविरॊ यद वॊ धनं पूजितम एव तत महाधनं गलहं तव एकं शृणु मे भरतर्षभ 9 वयं दवादश वर्षाणि युष्माभिर दयूतनिर्जिताः परविशेम महारण्यं रौरवाजिनवाससः 10 तरयॊदशं च सजने अज्ञाताः परिवत्सरम जञाताश च पुनर अन्यानि वने वर्षाणि दवादश 11 अस्माभिर वा जिता यूयं वने वर्षाणि दवादश वसध्वं कृष्णया सार्धम अजिनैः परतिवासिताः 12 तरयॊदशे च निर्वृत्ते पुनर एव यथॊचितम सवराज्यं परतिपत्तव्यम इतरैर अथ वेतरैः 13 अनेन वयवसायेन सहास्माभिर युधिष्ठिर अक्षान उप्त्वा पुनर्द्यूतम एहि दीव्यस्व भारत 14 सभासद ऊचुः अहॊ धिग बान्धवा नैनं बॊधयन्ति महद भयम बुद्ध्या बॊध्यं न बुध्यन्ते सवयं च भरतर्षभाः 15 वैशंपायन उवाच जनप्रवादान सुबहून इति शृण्वन नराधिपः हरिया च धर्मसङ्गाच च पार्थॊ दयूतम इयात पुनः 16 जानन्न अपि महाबुद्धिः पुनर्द्यूतम अवर्तयत अप्य अयं न विनाशः सयात कुरूणाम इति चिन्तयन 17 युधिष्ठिर उवाच कथं वै मद्विधॊ राजा सवधर्मम अनुपालयन आहूतॊ विनिवर्तेत दीव्यामि शकुने तवया 18 शकुनिर उवाच गवाश्वं बहुधेनूकम अपर्यन्तम अजाविकम गजाः कॊशॊ हिरण्यं च दासीदासं च सर्वशः 19 एष नॊ गलह एवैकॊ वनवासाय पाण्डवाः यूयं वयं वा विजिता वसेम वनम आश्रिताः 20 अनेन वयवसायेन दीव्याम भरतर्षभ समुत्क्षेपेण चैकेन वनवासाय भारत 21 वैशंपायन उवाच परतिजग्राह तं पार्थॊ गलहं जग्राह सौबलः जितम इत्य एव शकुनिर युधिष्ठिरम अभाषत |
1
vaiśaṃpāyana uvāca tato vyadhvagataṃ pārthaṃ prātikāmī yudhiṣṭhiram uvāca vacanād rājño dhṛtarāṣṭrasya dhīmataḥ 2 upastīrṇā sabhā rājann akṣān uptvā yudhiṣṭhira ehi pāṇḍava dīvyeti pitā tvām āha bhārata 3 yudhiṣṭhira uvāca dhātur niyogād bhūtāni prāpnuvanti śubhāśubham na nivṛttis tayor asti devitavyaṃ punar yadi 4 akṣadyūte samāhvānaṃ niyogāt sthavirasya ca jānann api kṣayakaraṃ nātikramitum utsahe 5 vaiśaṃpāyana uvāca iti bruvan nivavṛte bhrātṛbhiḥ saha pāṇḍavaḥ jānaṃś ca śakuner māyāṃ pārtho dyūtam iyāt punaḥ 6 viviśus te sabhāṃ tāṃ tu punar eva mahārathāḥ vyathayanti sma cetāṃsi suhṛdāṃ bharatarṣabhāḥ 7 yathopajoṣam āsīnāḥ punardyūtapravṛttaye sarvalokavināśāya daivenopanipīḍitāḥ 8 śakunir uvāca amuñcat sthaviro yad vo dhanaṃ pūjitam eva tat mahādhanaṃ glahaṃ tv ekaṃ śṛṇu me bharatarṣabha 9 vayaṃ dvādaśa varṣāṇi yuṣmābhir dyūtanirjitāḥ praviśema mahāraṇyaṃ rauravājinavāsasaḥ 10 trayodaśaṃ ca sajane ajñātāḥ parivatsaram jñātāś ca punar anyāni vane varṣāṇi dvādaśa 11 asmābhir vā jitā yūyaṃ vane varṣāṇi dvādaśa vasadhvaṃ kṛṣṇayā sārdham ajinaiḥ prativāsitāḥ 12 trayodaśe ca nirvṛtte punar eva yathocitam svarājyaṃ pratipattavyam itarair atha vetaraiḥ 13 anena vyavasāyena sahāsmābhir yudhiṣṭhira akṣān uptvā punardyūtam ehi dīvyasva bhārata 14 sabhāsada ūcuḥ aho dhig bāndhavā nainaṃ bodhayanti mahad bhayam buddhyā bodhyaṃ na budhyante svayaṃ ca bharatarṣabhāḥ 15 vaiśaṃpāyana uvāca janapravādān subahūn iti śṛṇvan narādhipaḥ hriyā ca dharmasaṅgāc ca pārtho dyūtam iyāt punaḥ 16 jānann api mahābuddhiḥ punardyūtam avartayat apy ayaṃ na vināśaḥ syāt kurūṇām iti cintayan 17 yudhiṣṭhira uvāca kathaṃ vai madvidho rājā svadharmam anupālayan āhūto vinivarteta dīvyāmi śakune tvayā 18 śakunir uvāca gavāśvaṃ bahudhenūkam aparyantam ajāvikam gajāḥ kośo hiraṇyaṃ ca dāsīdāsaṃ ca sarvaśaḥ 19 eṣa no glaha evaiko vanavāsāya pāṇḍavāḥ yūyaṃ vayaṃ vā vijitā vasema vanam āśritāḥ 20 anena vyavasāyena dīvyāma bharatarṣabha samutkṣepeṇa caikena vanavāsāya bhārata 21 vaiśaṃpāyana uvāca pratijagrāha taṃ pārtho glahaṃ jagrāha saubalaḥ jitam ity eva śakunir yudhiṣṭhiram abhāṣata |
The Mahabharata in Sanskrit
Book 2
Chapter 68
|
1
वैशंपायन उवाच वनवासाय चक्रुस ते मतिं पार्थाः पराजिताः अजिनान्य उत्तरीयाणि जगृहुश च यथाक्रमम 2 अजिनैः संवृतान दृष्ट्वा हृतराज्यान अरिंदमान परस्थितान वनवासाय ततॊ दुःशासनॊ ऽबरवीत 3 परवृत्तं धार्तराष्ट्रस्य चक्रं राज्ञॊ महात्मनः पराभूताः पाण्डुपुत्रा विपत्तिं परमां गताः 4 अद्य देवाः संप्रयाताः समैर वर्त्मभिर अस्थलैः गुणज्येष्ठास तथा जयेष्ठा भूयांसॊ यद वयं परैः 5 नरकं पातिताः पार्था दीर्घकालम अनन्तकम सुखाच च हीना राज्याच च विनष्टाः शाश्वतीः समाः 6 बलेन मत्ता ये ते सम धार्तराष्ट्रान परहासिषुः ते निर्जिता हृतधना वनम एष्यन्ति पाण्डवाः 7 चित्रान संनाहान अवमुञ्चन्तु चैषां; वासांसि दिव्यानि च भानुमन्ति निवास्यन्तां रुरुचर्माणि सर्वे; यथा गलहं सौबलस्याभ्युपेताः 8 न सन्ति लॊकेषु पुमांस ईदृशा; इत्य एव ये भावितबुद्धयः सदा जञास्यन्ति ते तमानम इमे ऽदय पाण्डवा; विपर्यये षण्ढतिला इवाफलाः 9 अयं हि वासॊदय ईदृशानां; मनस्विनां कौरव मा भवेद वः अदीक्षितानाम अजिनानि यद्वद; बलीयसां पश्यत पाण्डवानाम 10 महाप्राज्ञः सॊमकॊ यज्ञसेनः; कन्यां पाञ्चालीं पाण्डवेभ्यः परदाय अकार्षीद वै दुष्कृतं नेह सन्ति; कलीबाः पार्थाः पतयॊ याज्ञसेन्याः 11 सूक्ष्मान परावारान अजिनानि चॊदितान; दृष्ट्वारण्ये निर्धनान अप्रतिष्ठान कां तवं परीतिं लप्स्यसे याज्ञसेनि; पतिं वृणीष्व यम इहान्यम इच्छसि 12 एते हि सर्वे कुरवः समेताः; कषान्ता दान्ताः सुद्रविणॊपपन्नाः एषां वृणीष्वैकतमं पतित्वे; न तवां तपेत कालविपर्ययॊ ऽयम 13 यथाफलाः षण्ढतिला यथा चर्ममया मृगाः तथैव पाण्डवाः सर्वे यथा काकयवा अपि 14 किं पाण्डवांस तवं पतितान उपास्से; मॊघः शरमः षण्ढतिलान उपास्य एवं नृशंसः परुषाणि पार्थान; अश्रावयद धृतराष्ट्रस्य पुत्रः 15 तद वै शरुत्वा भीमसेनॊ ऽतयमर्षी; निर्भर्त्स्यॊच्चैस तं निगृह्यैव रॊषात उवाचेदं सहसैवॊपगम्य; सिंहॊ यथा हैमवतः शृगालम 16 भीमसेन उवाच करूर पापजनैर जुष्टम अकृतार्थं परभाषसे गान्धारविद्यया हि तवं राजमध्ये विकत्थसे 17 यथा तुदसि मर्माणि वाक्शरैर इह नॊ भृशम तथा समारयिता ते ऽहं कृन्तन मर्माणि संयुगे 18 ये च तवाम अनुवर्तन्ते कामलॊभवशानुगाः गॊप्तारः सानुबन्धांस तान नेष्यामि यमसादनम 19 वैशंपायन उवाच एवं बरुवाणम अजिनैर विवासितं; दुःखाभिभूतं परिनृत्यति सम मध्ये कुरूणां धर्मनिबद्धमार्गं; गौर गौर इति समाह्वयन मुक्तलज्जः 20 भीमसेन उवाच नृशंसं परुषं करूरं शक्यं दुःशासन तवया निकृत्या हि धनं लब्ध्वा कॊ विकत्थितुम अर्हति 21 मा ह सम सुकृताँल लॊकान गच्छेत पार्थॊ वृकॊदरः यदि वक्षसि भित्त्वा ते न पिबेच छॊणितं रणे 22 धार्तराष्ट्रान रणे हत्वा मिषतां सर्वधन्विनाम शमं गन्तास्मि नचिरात सत्यम एतद बरवीमि वः 23 वैशंपायन उवाच तस्य राजा सिंहगतेः सखेलं; दुर्यॊधनॊ भीमसेनस्य हर्षात गतिं सवगत्यानुचकार मन्दॊ; निर्गच्छतां पाण्डवानां सभायाः 24 नैतावता कृतम इत्य अब्रवीत तं; वृकॊदरः संनिवृत्तार्धकायः शीघ्रं हि तवा निहतं सानुबन्धं; संस्मार्याहं परतिवक्ष्यामि मूढ 25 एतत समीक्ष्यात्मनि चावमानं; नियम्य मन्युं बलवान स मानी राजानुगः संसदि कौरवाणां; विनिष्क्रमन वाक्यम उवाच भीमः 26 अहं दुर्यॊधनं हन्ता कर्णं हन्ता धनंजयः शकुनिं चाक्षकितवं सहदेवॊ हनिष्यति 27 इदं च भूयॊ वक्ष्यामि सभामध्ये बृहद वचः सत्यं देवाः करिष्यन्ति यन नॊ युद्धं भविष्यति 28 सुयॊधनम इमं पापं हन्तास्मि गदया युधि शिरः पादेन चास्याहम अधिष्ठास्यामि भूतले 29 वाक्यशूरस्य चैवास्य परुषस्य दुरात्मनः दुःशासनस्य रुधिरं पातास्मि मृगराड इव 30 अर्जुन उवाच नैव वाचा वयवसितं भीम विज्ञायते सताम इतश चतुर्दशे वर्षे दरष्टारॊ यद भविष्यति 31 दुर्यॊधनस्य कर्णस्य शकुनेश च दुरात्मनः दुःशासनचतुर्थानां भूमिः पास्यति शॊणितम 32 असूयितारं वक्तारं परस्रष्टारं दुरात्मनाम भीमसेन नियॊगात ते हन्ताहं कर्णम आहवे 33 अर्जुनः परतिजानीते भीमस्य परियकाम्यया कर्णं कर्णानुगांश चैव रणे हन्तास्मि पत्रिभिः 34 ये चान्ये परतियॊत्स्यन्ति बुद्धिमॊहेन मां नृपाः तांश च सर्वाञ शतैर बाणैर नेतास्मि यमसादनम 35 चलेद धि हिमवान सथानान निष्प्रभः सयाद दिवाकरः शैत्यं सॊमात परणश्येत मत्सत्यं विचलेद यदि 36 न परदास्यति चेद राज्यम इतॊ वर्षे चतुर्दशे दुर्यॊधनॊ हि सत्कृत्य सत्यम एतद भविष्यति 37 वैशंपायन उवाच इत्य उक्तवति पार्थे तु शरीमान माद्रवतीसुतः परगृह्य विपुलं बाहुं सहदेवः परतापवान 38 सौबलस्य वधं परेप्सुर इदं वचनम अब्रवीत करॊधसंरक्तनयनॊ निःश्वसन्न इव पन्नगः 39 अक्षान यान मन्यसे मूढ गान्धाराणां यशॊहर नैते ऽकषा निशिता बाणास तवयैते समरे वृताः 40 यथा चैवॊक्तवान भीमस तवाम उद्दिश्य सबान्धवम कर्ताहं कर्मणस तस्य कुरु कार्याणि सर्वशः 41 हन्तास्मि तरसा युद्धे तवां विक्रम्य सबान्धवम यदि सथास्यसि संग्रामे कषत्रधर्मेण सौबल 42 सहदेववचः शरुत्वा नकुलॊ ऽपि विशां पते दर्शनीयतमॊ नॄणाम इदं वचनम अब्रवीत 43 सुतेयं यज्ञसेनस्य दयूते ऽसमिन धृतराष्ट्रजैः यैर वाचः शराविता रूक्षाः सथितैर दुर्यॊधनप्रिये 44 तान धार्तराष्ट्रान दुर्वृत्तान मुमूर्षून कालचॊदितान दर्शयिष्यामि भूयिष्ठम अहं वैवस्वतक्षयम 45 निदेशाद धर्मराजस्य दरौपद्याः पदवीं चरन निर्धार्तराष्ट्रां पृथिवीं कर्तास्मि नचिराद इव 46 एवं ते पुरुषव्याघ्राः सर्वे वयायतबाहवः परतिज्ञा बहुलाः कृत्वा धृतराष्ट्रम उपागमन |
1
vaiśaṃpāyana uvāca vanavāsāya cakrus te matiṃ pārthāḥ parājitāḥ ajināny uttarīyāṇi jagṛhuś ca yathākramam 2 ajinaiḥ saṃvṛtān dṛṣṭvā hṛtarājyān ariṃdamān prasthitān vanavāsāya tato duḥśāsano 'bravīt 3 pravṛttaṃ dhārtarāṣṭrasya cakraṃ rājño mahātmanaḥ parābhūtāḥ pāṇḍuputrā vipattiṃ paramāṃ gatāḥ 4 adya devāḥ saṃprayātāḥ samair vartmabhir asthalaiḥ guṇajyeṣṭhās tathā jyeṣṭhā bhūyāṃso yad vayaṃ paraiḥ 5 narakaṃ pātitāḥ pārthā dīrghakālam anantakam sukhāc ca hīnā rājyāc ca vinaṣṭāḥ śāśvatīḥ samāḥ 6 balena mattā ye te sma dhārtarāṣṭrān prahāsiṣuḥ te nirjitā hṛtadhanā vanam eṣyanti pāṇḍavāḥ 7 citrān saṃnāhān avamuñcantu caiṣāṃ; vāsāṃsi divyāni ca bhānumanti nivāsyantāṃ rurucarmāṇi sarve; yathā glahaṃ saubalasyābhyupetāḥ 8 na santi lokeṣu pumāṃsa īdṛśā; ity eva ye bhāvitabuddhayaḥ sadā jñāsyanti te tmānam ime 'dya pāṇḍavā; viparyaye ṣaṇḍhatilā ivāphalāḥ 9 ayaṃ hi vāsodaya īdṛśānāṃ; manasvināṃ kaurava mā bhaved vaḥ adīkṣitānām ajināni yadvad; balīyasāṃ paśyata pāṇḍavānām 10 mahāprājñaḥ somako yajñasenaḥ; kanyāṃ pāñcālīṃ pāṇḍavebhyaḥ pradāya akārṣīd vai duṣkṛtaṃ neha santi; klībāḥ pārthāḥ patayo yājñasenyāḥ 11 sūkṣmān prāvārān ajināni coditān; dṛṣṭvāraṇye nirdhanān apratiṣṭhān kāṃ tvaṃ prītiṃ lapsyase yājñaseni; patiṃ vṛṇīṣva yam ihānyam icchasi 12 ete hi sarve kuravaḥ sametāḥ; kṣāntā dāntāḥ sudraviṇopapannāḥ eṣāṃ vṛṇīṣvaikatamaṃ patitve; na tvāṃ tapet kālaviparyayo 'yam 13 yathāphalāḥ ṣaṇḍhatilā yathā carmamayā mṛgāḥ tathaiva pāṇḍavāḥ sarve yathā kākayavā api 14 kiṃ pāṇḍavāṃs tvaṃ patitān upāsse; moghaḥ śramaḥ ṣaṇḍhatilān upāsya evaṃ nṛśaṃsaḥ paruṣāṇi pārthān; aśrāvayad dhṛtarāṣṭrasya putraḥ 15 tad vai śrutvā bhīmaseno 'tyamarṣī; nirbhartsyoccais taṃ nigṛhyaiva roṣāt uvācedaṃ sahasaivopagamya; siṃho yathā haimavataḥ śṛgālam 16 bhīmasena uvāca krūra pāpajanair juṣṭam akṛtārthaṃ prabhāṣase gāndhāravidyayā hi tvaṃ rājamadhye vikatthase 17 yathā tudasi marmāṇi vākśarair iha no bhṛśam tathā smārayitā te 'haṃ kṛntan marmāṇi saṃyuge 18 ye ca tvām anuvartante kāmalobhavaśānugāḥ goptāraḥ sānubandhāṃs tān neṣyāmi yamasādanam 19 vaiśaṃpāyana uvāca evaṃ bruvāṇam ajinair vivāsitaṃ; duḥkhābhibhūtaṃ parinṛtyati sma madhye kurūṇāṃ dharmanibaddhamārgaṃ; gaur gaur iti smāhvayan muktalajjaḥ 20 bhīmasena uvāca nṛśaṃsaṃ paruṣaṃ krūraṃ śakyaṃ duḥśāsana tvayā nikṛtyā hi dhanaṃ labdhvā ko vikatthitum arhati 21 mā ha sma sukṛtāṁl lokān gacchet pārtho vṛkodaraḥ yadi vakṣasi bhittvā te na pibec choṇitaṃ raṇe 22 dhārtarāṣṭrān raṇe hatvā miṣatāṃ sarvadhanvinām śamaṃ gantāsmi nacirāt satyam etad bravīmi vaḥ 23 vaiśaṃpāyana uvāca tasya rājā siṃhagateḥ sakhelaṃ; duryodhano bhīmasenasya harṣāt gatiṃ svagatyānucakāra mando; nirgacchatāṃ pāṇḍavānāṃ sabhāyāḥ 24 naitāvatā kṛtam ity abravīt taṃ; vṛkodaraḥ saṃnivṛttārdhakāyaḥ śīghraṃ hi tvā nihataṃ sānubandhaṃ; saṃsmāryāhaṃ prativakṣyāmi mūḍha 25 etat samīkṣyātmani cāvamānaṃ; niyamya manyuṃ balavān sa mānī rājānugaḥ saṃsadi kauravāṇāṃ; viniṣkraman vākyam uvāca bhīmaḥ 26 ahaṃ duryodhanaṃ hantā karṇaṃ hantā dhanaṃjayaḥ śakuniṃ cākṣakitavaṃ sahadevo haniṣyati 27 idaṃ ca bhūyo vakṣyāmi sabhāmadhye bṛhad vacaḥ satyaṃ devāḥ kariṣyanti yan no yuddhaṃ bhaviṣyati 28 suyodhanam imaṃ pāpaṃ hantāsmi gadayā yudhi śiraḥ pādena cāsyāham adhiṣṭhāsyāmi bhūtale 29 vākyaśūrasya caivāsya paruṣasya durātmanaḥ duḥśāsanasya rudhiraṃ pātāsmi mṛgarāḍ iva 30 arjuna uvāca naiva vācā vyavasitaṃ bhīma vijñāyate satām itaś caturdaśe varṣe draṣṭāro yad bhaviṣyati 31 duryodhanasya karṇasya śakuneś ca durātmanaḥ duḥśāsanacaturthānāṃ bhūmiḥ pāsyati śoṇitam 32 asūyitāraṃ vaktāraṃ prasraṣṭāraṃ durātmanām bhīmasena niyogāt te hantāhaṃ karṇam āhave 33 arjunaḥ pratijānīte bhīmasya priyakāmyayā karṇaṃ karṇānugāṃś caiva raṇe hantāsmi patribhiḥ 34 ye cānye pratiyotsyanti buddhimohena māṃ nṛpāḥ tāṃś ca sarvāñ śatair bāṇair netāsmi yamasādanam 35 caled dhi himavān sthānān niṣprabhaḥ syād divākaraḥ śaityaṃ somāt praṇaśyeta matsatyaṃ vicaled yadi 36 na pradāsyati ced rājyam ito varṣe caturdaśe duryodhano hi satkṛtya satyam etad bhaviṣyati 37 vaiśaṃpāyana uvāca ity uktavati pārthe tu śrīmān mādravatīsutaḥ pragṛhya vipulaṃ bāhuṃ sahadevaḥ pratāpavān 38 saubalasya vadhaṃ prepsur idaṃ vacanam abravīt krodhasaṃraktanayano niḥśvasann iva pannagaḥ 39 akṣān yān manyase mūḍha gāndhārāṇāṃ yaśohara naite 'kṣā niśitā bāṇās tvayaite samare vṛtāḥ 40 yathā caivoktavān bhīmas tvām uddiśya sabāndhavam kartāhaṃ karmaṇas tasya kuru kāryāṇi sarvaśaḥ 41 hantāsmi tarasā yuddhe tvāṃ vikramya sabāndhavam yadi sthāsyasi saṃgrāme kṣatradharmeṇa saubala 42 sahadevavacaḥ śrutvā nakulo 'pi viśāṃ pate darśanīyatamo nṝṇām idaṃ vacanam abravīt 43 suteyaṃ yajñasenasya dyūte 'smin dhṛtarāṣṭrajaiḥ yair vācaḥ śrāvitā rūkṣāḥ sthitair duryodhanapriye 44 tān dhārtarāṣṭrān durvṛttān mumūrṣūn kālacoditān darśayiṣyāmi bhūyiṣṭham ahaṃ vaivasvatakṣayam 45 nideśād dharmarājasya draupadyāḥ padavīṃ caran nirdhārtarāṣṭrāṃ pṛthivīṃ kartāsmi nacirād iva 46 evaṃ te puruṣavyāghrāḥ sarve vyāyatabāhavaḥ pratijñā bahulāḥ kṛtvā dhṛtarāṣṭram upāgaman |
The Mahabharata in Sanskrit
Book 2
Chapter 69
|
1
[य] आमन्त्रयामि भरतांस तथा वृद्धं पिता महम राजानं सॊमदत्तं च महाराजं च बाह्लिकम 2 दरॊणं कृपं नृपांश चान्यान अश्वत्थामानम एव च विदुरं धृतराष्ट्रं च धार्तराष्ट्रांश च सर्वशः 3 युयुत्सुं संजयं चैव तथैवान्यान सभा सदः सर्वान आमन्त्र्य गच्छामि दरष्टास्मि पुनर एत्य वः 4 [व] न च किं चित तदॊचुस ते हरिया सन्तॊ युधिष्ठिरम मनॊभिर एव कल्याणं दध्युस ते तस्य धीमतः 5 [वि] आर्या पृथा राजपुत्री नारण्यं गन्तुम अर्हति सुकुमारी च वृद्धा च नित्यं चैव सुखॊचिता 6 इह वत्स्यति कल्याणी सत्कृता मम वेश्मनि इति पार्था विजानीध्वम अगदं वॊ ऽसतु सर्वशः 7 युधिष्ठिर विजानीहि ममेदं भरतर्षभ नाधर्मेण जितः कश चिद वयथते वै पराजयात 8 तवं वै धर्मान विजानीषे युधां वेत्ता धनंजयः हन्तारीणां भीमसेनॊ नकुलस तव अर्थसंग्रही 9 संयन्ता सहदेवस तु धौम्यॊ बरह्मविद उत्तमः धर्मार्थकुशला चैव दरौपदी धर्मचारिणी 10 अन्यॊन्यस्य परियाः सर्वे तथैव परियवादिनः परैर अभेद्याः संतुष्टाः कॊ वॊ न सपृहयेद इह 11 एष वै सर्वकल्याणः समाधिस तव भारत नैनं शत्रुर विषहते शक्रेणापि समॊ ऽचयुत 12 हिमवत्य अनुशिष्टॊ ऽसि मेरुसावर्णिना पुरा दवैपायनेन कृष्णेन नगरे वारणावते 13 भृगुतुङ्गे च रामेण दृषद्वत्यां च शम्भुना अश्रौषीर असितस्यापि महर्षेर अञ्जनं परति 14 दरष्टा सदा नारदस्य धौम्यस ते ऽयं पुरॊहितः मा हार्षीः साम्पराये तवं बुद्धिं ताम ऋषिपूजिताम 15 पुरूरवसम ऐलं तवं बुद्ध्या जयसि पाण्डव शक्त्या जयसि राज्ञॊ ऽनयान ऋषीन धर्मॊपसेवया 16 ऐन्द्रे जये धृतमना याम्ये कॊपविधारणे विसर्गे चैव कौबेरे वारुणे चैव संयमे 17 आत्मप्रदानं सौम्य तवम अद्भ्यश चैवॊपजीवनम भूमेः कषमा च तेजॊ च समग्रं सूर्यमण्डलात 18 वायॊर बलं विद्धि स तवं भूतेभ्यश चात्मसंभवम अगदं वॊ ऽसतु भद्रं वॊ दरक्ष्यामि पुनरागतान 19 आपद धर्मार्थकृच्छ्रेषु सर्वकार्येषु वा पुनः यथावत परतिपद्येथाः काले काले युधिष्ठिर 20 आपृष्टॊ ऽसीह कौन्तेय सवस्ति पराप्नुहि भारत कृतार्थं सवस्तिमन्तं तवां दरक्ष्यामः पुनरागतम 21 [व] एवम उक्तस तथेत्य उक्त्वा पाण्डवः सत्यविक्रमः भीष्मद्रॊणौ नमस्कृत्य परातिष्ठत युधिष्ठिरः |
1
[y] āmantrayāmi bharatāṃs tathā vṛddhaṃ pitā maham rājānaṃ somadattaṃ ca mahārājaṃ ca bāhlikam 2 droṇaṃ kṛpaṃ nṛpāṃś cānyān aśvatthāmānam eva ca viduraṃ dhṛtarāṣṭraṃ ca dhārtarāṣṭrāṃś ca sarvaśaḥ 3 yuyutsuṃ saṃjayaṃ caiva tathaivānyān sabhā sadaḥ sarvān āmantrya gacchāmi draṣṭāsmi punar etya vaḥ 4 [v] na ca kiṃ cit tadocus te hriyā santo yudhiṣṭhiram manobhir eva kalyāṇaṃ dadhyus te tasya dhīmataḥ 5 [vi] āryā pṛthā rājaputrī nāraṇyaṃ gantum arhati sukumārī ca vṛddhā ca nityaṃ caiva sukhocitā 6 iha vatsyati kalyāṇī satkṛtā mama veśmani iti pārthā vijānīdhvam agadaṃ vo 'stu sarvaśaḥ 7 yudhiṣṭhira vijānīhi mamedaṃ bharatarṣabha nādharmeṇa jitaḥ kaś cid vyathate vai parājayāt 8 tvaṃ vai dharmān vijānīṣe yudhāṃ vettā dhanaṃjayaḥ hantārīṇāṃ bhīmaseno nakulas tv arthasaṃgrahī 9 saṃyantā sahadevas tu dhaumyo brahmavid uttamaḥ dharmārthakuśalā caiva draupadī dharmacāriṇī 10 anyonyasya priyāḥ sarve tathaiva priyavādinaḥ parair abhedyāḥ saṃtuṣṭāḥ ko vo na spṛhayed iha 11 eṣa vai sarvakalyāṇaḥ samādhis tava bhārata nainaṃ śatrur viṣahate śakreṇāpi samo 'cyuta 12 himavaty anuśiṣṭo 'si merusāvarṇinā purā dvaipāyanena kṛṣṇena nagare vāraṇāvate 13 bhṛgutuṅge ca rāmeṇa dṛṣadvatyāṃ ca śambhunā aśrauṣīr asitasyāpi maharṣer añjanaṃ prati 14 draṣṭā sadā nāradasya dhaumyas te 'yaṃ purohitaḥ mā hārṣīḥ sāmparāye tvaṃ buddhiṃ tām ṛṣipūjitām 15 purūravasam ailaṃ tvaṃ buddhyā jayasi pāṇḍava śaktyā jayasi rājño 'nyān ṛṣīn dharmopasevayā 16 aindre jaye dhṛtamanā yāmye kopavidhāraṇe visarge caiva kaubere vāruṇe caiva saṃyame 17 ātmapradānaṃ saumya tvam adbhyaś caivopajīvanam bhūmeḥ kṣamā ca tejo ca samagraṃ sūryamaṇḍalāt 18 vāyor balaṃ viddhi sa tvaṃ bhūtebhyaś cātmasaṃbhavam agadaṃ vo 'stu bhadraṃ vo drakṣyāmi punarāgatān 19 āpad dharmārthakṛcchreṣu sarvakāryeṣu vā punaḥ yathāvat pratipadyethāḥ kāle kāle yudhiṣṭhira 20 āpṛṣṭo 'sīha kaunteya svasti prāpnuhi bhārata kṛtārthaṃ svastimantaṃ tvāṃ drakṣyāmaḥ punarāgatam 21 [v] evam uktas tathety uktvā pāṇḍavaḥ satyavikramaḥ bhīṣmadroṇau namaskṛtya prātiṣṭhata yudhiṣṭhiraḥ |
The Mahabharata in Sanskrit
Book 2
Chapter 70
|
1
[व] तस्मिन संप्रस्थिते कृष्णा पृथां पराप्य यशस्विनीम आपृच्छद भृशदुःखार्ता याश चान्यास तत्र यॊषितः 2 यथार्हं वन्दनाश्लेषान कृत्वा गन्तुम इयेष सा ततॊ निनादः सुमहान पाण्डवान्तः पुरे ऽभवत 3 कुन्ती च भृशसंतप्ता दरौपदीं परेक्ष्य गच्छतीम शॊकविह्वलया वाचा कृच्छ्राद वचनम अब्रवीत 4 वत्से शॊकॊ न ते कार्यः पराप्येदं वयसनं महत सत्री धर्माणाम अभिज्ञासि शीलाचारवती तथा 5 न तवां संदेष्टुम अर्हामि भर्तॄन परति शुचिस्मिते साध्वी गुणसमाधानैर भूषितं ते कुलद्वयम 6 सभाग्याः कुरवश चेमे ये न दग्धास तवयानगे अरिष्टं वरज पन्थानं मद अनुध्यान बृंहिता 7 भाविन्य अर्थे हि सत सत्रीणां वैक्लव्यं नॊपजायते गुरुधर्माभिगुप्ता च शरेयॊ कषिप्रम अवाप्स्यसि 8 सहदेवश च मे पुत्रः सदावेक्ष्यॊ वने वसन यथेदं वयसनं पराप्य नास्य सीदेन महन मनः 9 तथेत्य उक्त्वा तु सा देवी सरवन नेत्रजलाविला शॊणिताक्तैक वसना मुक्तकेश्य अभिनिर्ययौ 10 तां करॊशन्तीं पृथा दुःखाद अनुवव्राज गच्छतीम अथापश्यत सुतान सर्वान हृताभरण वाससः 11 रुरुचर्मावृत तनून हरिया किं चिद अवाङ्मुखान परैः परीतान संहृष्टैः सुहृद्भिश चानुशॊचितान 12 तदवस्थान सुतान सर्वान उपसृत्यातिवत्सला सस्वजानावदच छॊकात तत तद विलपती बहु 13 कथं सद धर्मचारित्रवृत्तस्थिति विभूषितान अक्षुद्रान दृढभक्तांश च दैवतेज्या परान सदा 14 वयसनं वः समभ्यागात कॊ ऽयं विधिविपर्ययः कस्यापध्यानजं चेदम आगॊ पश्यामि वॊ धिया 15 सयात तु मद्भाग्यदॊषॊ ऽयं याहं युष्मान अजीजनम दुःखायास भुजॊ ऽतयर्थं युक्तान अप्य उत्तमैर गुणैः 16 कथं वत्स्यथ दुर्गेषु वनेष्व ऋद्धिविनाकृताः वीर्यसत्त्वबलॊत्साह तेजॊभिर अकृशाः कृशाः 17 यद्य एतद अहम अज्ञास्यं वनवासॊ हि वॊ धरुवम शतशृङ्गान मृते पाण्डौ नागमिष्यं गजाह्वयम 18 धन्यं वः पितरं मन्ये तपॊ मेधान्वितं तथा यः पुत्राधिम असंप्राप्य सवर्गेच्छाम अकरॊत परियाम 19 धन्यां चातीन्द्रियज्ञानाम इमां पराप्तां परां गतिम मन्ये ऽदय माद्रीं धर्मज्ञां कल्याणीं सर्वथैव हि 20 रत्या मत्या च गत्या च ययाहम अभिसंधिता जीवितप्रियतां मह्यं धिग इमां कलेशभागिनीम 21 एवं विलपतीं कुन्तीम अभिसान्त्व्य परनम्य च पाण्डवा विगतानन्दा वनायैव परवव्रजुः 22 विदुरादयश च ताम आर्तां कुन्तीम आश्वास्य हेतुभिः परावेशयन गृहं कषत्तुः सवयम आर्ततराः शनैः 23 राजा च धृतराष्ट्रः स शॊकाकुलित चेतनः कषत्तुः संप्रेषयाम आस शीघ्रम आगम्यताम इति 24 ततॊ जगाम विदुरॊ धृतराष्ट्र निवेशनम तं पर्यपृच्छत संविग्नॊ धृतराष्ट्रॊ नराधिपः |
1
[v] tasmin saṃprasthite kṛṣṇā pṛthāṃ prāpya yaśasvinīm āpṛcchad bhṛśaduḥkhārtā yāś cānyās tatra yoṣitaḥ 2 yathārhaṃ vandanāśleṣān kṛtvā gantum iyeṣa sā tato ninādaḥ sumahān pāṇḍavāntaḥ pure 'bhavat 3 kuntī ca bhṛśasaṃtaptā draupadīṃ prekṣya gacchatīm śokavihvalayā vācā kṛcchrād vacanam abravīt 4 vatse śoko na te kāryaḥ prāpyedaṃ vyasanaṃ mahat strī dharmāṇām abhijñāsi śīlācāravatī tathā 5 na tvāṃ saṃdeṣṭum arhāmi bhartṝn prati śucismite sādhvī guṇasamādhānair bhūṣitaṃ te kuladvayam 6 sabhāgyāḥ kuravaś ceme ye na dagdhās tvayānage ariṣṭaṃ vraja panthānaṃ mad anudhyāna bṛṃhitā 7 bhāviny arthe hi sat strīṇāṃ vaiklavyaṃ nopajāyate gurudharmābhiguptā ca śreyo kṣipram avāpsyasi 8 sahadevaś ca me putraḥ sadāvekṣyo vane vasan yathedaṃ vyasanaṃ prāpya nāsya sīden mahan manaḥ 9 tathety uktvā tu sā devī sravan netrajalāvilā śoṇitāktaika vasanā muktakeśy abhiniryayau 10 tāṃ krośantīṃ pṛthā duḥkhād anuvavrāja gacchatīm athāpaśyat sutān sarvān hṛtābharaṇa vāsasaḥ 11 rurucarmāvṛta tanūn hriyā kiṃ cid avāṅmukhān paraiḥ parītān saṃhṛṣṭaiḥ suhṛdbhiś cānuśocitān 12 tadavasthān sutān sarvān upasṛtyātivatsalā sasvajānāvadac chokāt tat tad vilapatī bahu 13 kathaṃ sad dharmacāritravṛttasthiti vibhūṣitān akṣudrān dṛḍhabhaktāṃś ca daivatejyā parān sadā 14 vyasanaṃ vaḥ samabhyāgāt ko 'yaṃ vidhiviparyayaḥ kasyāpadhyānajaṃ cedam āgo paśyāmi vo dhiyā 15 syāt tu madbhāgyadoṣo 'yaṃ yāhaṃ yuṣmān ajījanam duḥkhāyāsa bhujo 'tyarthaṃ yuktān apy uttamair guṇaiḥ 16 kathaṃ vatsyatha durgeṣu vaneṣv ṛddhivinākṛtāḥ vīryasattvabalotsāha tejobhir akṛśāḥ kṛśāḥ 17 yady etad aham ajñāsyaṃ vanavāso hi vo dhruvam śataśṛṅgān mṛte pāṇḍau nāgamiṣyaṃ gajāhvayam 18 dhanyaṃ vaḥ pitaraṃ manye tapo medhānvitaṃ tathā yaḥ putrādhim asaṃprāpya svargecchām akarot priyām 19 dhanyāṃ cātīndriyajñānām imāṃ prāptāṃ parāṃ gatim manye 'dya mādrīṃ dharmajñāṃ kalyāṇīṃ sarvathaiva hi 20 ratyā matyā ca gatyā ca yayāham abhisaṃdhitā jīvitapriyatāṃ mahyaṃ dhig imāṃ kleśabhāginīm 21 evaṃ vilapatīṃ kuntīm abhisāntvya pranamya ca pāṇḍavā vigatānandā vanāyaiva pravavrajuḥ 22 vidurādayaś ca tām ārtāṃ kuntīm āśvāsya hetubhiḥ prāveśayan gṛhaṃ kṣattuḥ svayam ārtatarāḥ śanaiḥ 23 rājā ca dhṛtarāṣṭraḥ sa śokākulita cetanaḥ kṣattuḥ saṃpreṣayām āsa śīghram āgamyatām iti 24 tato jagāma viduro dhṛtarāṣṭra niveśanam taṃ paryapṛcchat saṃvigno dhṛtarāṣṭro narādhipaḥ |
The Mahabharata in Sanskrit
Book 2
Chapter 71
|
1
[ध] कथं गच्छति कौन्तेयॊ धर्मराजॊ युधिष्ठिरः भीमसेनः सव्यसाची माद्रीपुत्रौ च ताव उभौ 2 धौम्यश चैव कथं कषत्तर दरौपदी वा तपस्विनी शरॊतुम इच्छाम्य अहं सर्वं तेषाम अङ्गविचेष्टितम 3 [वि] वस्त्रेण संवृत्य मुखं कुन्तीपुत्रॊ युधिष्ठिरः बाहू विशालौ कृत्वा तु भीमॊ गच्छति पाण्डवः 4 सिकता वपन सव्यसाची राजानम अनुगच्छति माद्रीपुत्रः सहदेवॊ मुखम आलिप्य गच्छति 5 पांसूपलिप्त सर्वाङ्गॊ नकुलश चित्तविह्वलः दर्शनीयतमॊ लॊके राजानम अनुगच्छति 6 कृष्णा केशैः परतिच्छाद्य मुखम आयतलॊचना दर्शनीया पररुदती राजानम अनुगच्छति 7 धौम्यॊ याम्यानि सामानि रौद्राणि च विशां पते गायन गच्छति मार्गेषु कुशान आदाय पाणिना 8 [धृ] विविधान्य इह रूपाणि कृत्वा गच्छन्ति पाण्डवाः तन ममाचक्ष्व विदुर कस्माद एवं वरजन्ति ते 9 [वि] निकृतस्यापि ते पुत्रैर हृते राज्ये धनेषु च न धर्माच चलते बुद्धिर धर्मराजस्य धीमतः 10 यॊ ऽसौ राजा घृणी नित्यं धार्तराष्ट्रेषु भारत निकृत्या करॊधसंतप्तॊ नॊन्मीलयति लॊचने 11 नाहं जनं निर्दहेयं दृष्ट्वा घॊरेण चक्षुषा स पिधाय मुखं राजा तस्माद गच्छति पाण्डवः 12 यथा च भीमॊ वरजति तन मे निगदतः शृणु बाह्वॊर बले नास्ति समॊ ममेति भरतर्षभ 13 बाहू विशालौ कृत्वा तु तेन भीमॊ ऽपि गच्छति बाहू दर्शयमानॊ हि बाहुद्रविण दर्पितः चिकीर्षन कर्म शत्रुभ्यॊ बाहुद्रव्यानुरूपतः 14 परदिशञ शरसंपातान कुन्तीपुत्रॊ ऽरजुनस तदा सिकता वपन सव्यसाची राजानम अनुगच्छति 15 असक्ताः सिकतास तस्य यथा संप्रति भारत असक्तं शरवर्षाणि तथा मॊक्ष्यति शत्रुषु 16 न मे कश चिद विजानीयान मुखम अद्येति भारत मुखम आलिप्य तेनासौ सहदेवॊ ऽपि गच्छति 17 नाहं मनांस्य आददेयं मार्गे सत्रीणाम इति परभॊ पांसूपचित सर्गाङ्गॊ नकुलस तेन गच्छति 18 एकवस्त्रा तु रुदती मुक्तकेशी रजस्वला शॊनिताक्तार्द्र वसना दरौपदी वाक्यम अब्रवीत 19 यत्कृते ऽहम इमां पराप्ता तेषां वर्षे चतुर्दशे हतपत्यॊ हतसुता हतबन्धुजनप्रियाः 20 बन्धुशॊनित दिग्धाङ्ग्यॊ मुक्तकेश्यॊ रजस्वलाः एवं कृतॊदका नार्यः परवेक्ष्यन्ति गजाह्वयम 21 कृत्वा तु नैरृतान दर्भान घॊरॊ धौम्यः पुरॊहितः सामानि गायन याम्यानि पुरतॊ याति भारत 22 हतेषु भारतेष्व आजौ कुरूणां गुरवस तदा एवं सामानि गास्यन्तीत्य उक्त्वा धौम्यॊ ऽपि गच्छति 23 हाहा गच्छन्ति नॊ नाथाः समवेक्षध्वम ईदृशम इति पौराः सुदुःखार्ताः करॊशन्ति सम समन्ततः 24 एवम आकार लिङ्गैस ते वयवसायं मनॊगतम कथयन्तः सम कौन्तेया वनं जग्मुर मनस्विनः 25 एवं तेषु नराग्र्येषु निर्यत्सु गजसाह्वयात अनभ्रे विद्युतश चासन भूमिश च समकम्पत 26 राहुर अग्रसद आदित्यम अपर्वणि विशां पते उल्का चाप्य अपसव्यं तु पुरं कृत्वा वयशीर्यत 27 परव्याहरन्ति करव्यादा गृध्रगॊमायुवायसाः देवायतनचैत्येषु पराकाराट्टालकेषु च 28 एवम एते महॊत्पाता वनं गच्छति पाण्डवे भारतानाम अभावाय राजन दुर्मन्त्रिते तव 29 नारदश च सभामध्ये कुरूणाम अग्रतः सथितः महर्षिभिः परिवृतॊ रौद्रं वाक्यम उवाच ह 30 इतश चतुर्दशे वर्षे विनङ्क्ष्यन्तीह कौरवाः दुर्यॊधनापराधेन भीमार्जुनबलेन च 31 इत्य उक्त्वा दिवम आक्रम्य कषिप्रम अन्तरधीयत बराह्मीं शरियं सुविपुलां बिभ्रद देवर्षिसत्तमः 32 ततॊ दुर्यॊधनः कर्णः शकुनिश चापि सौबलः दरॊणं दवीपम अमन्यन्त राज्यं चास्मै नयवेदयन 33 अथाब्रवीत ततॊ दरॊणॊ दुर्यॊधनम अमर्षणम दुःशासनं च कर्णं च सर्वान एव च भारतान 34 अवध्यान पाण्डवान आहुर देवपुत्रान दविजातयः अहं तु शरणं पराप्तान वर्तमानॊ यथाबलम 35 गतान सर्वात्मना भक्त्या धार्तरस्त्रान सराजकान नॊत्सहे समभित्यक्तुं दैवमूलम अतः परम 36 धर्मतः पाण्डुपुत्रा वै वनं गच्छन्ति निर्जिताः ते च दवादश वर्षाणि वने वत्स्यन्ति कौरवाः 37 चरितब्रह्म चर्याश च करॊधामर्षवशानुगाः वैरं परत्यानयिष्यन्ति मम दुःखाय पाण्डवाः 38 मया तु भरंशितॊ राज्याद दरुपदः सखिविग्रहे पुत्रार्थम अयजत करॊधाद वधाय मम भारत 39 याजॊपयाज तपसा पुत्रं लेभे स पावकात धृष्टद्युम्नं दरौपदीं च वेदीमध्यात सुमध्यमाम 40 जवाला वर्णॊ देवदत्तॊ धनुष्मान कवची शरी मर्त्यधर्मतया तस्माद इति मां भयम आविशत 41 गतॊ हि पक्षतां तेषां पार्षतः पुरुषर्षभः सृष्ट पराणॊ भृशतरं तस्माद यॊत्स्ये तवारिभिः 42 मद्वधाय शरुतॊ हय एष लॊके चाप्य अतिविश्रुतः नूनं सॊ ऽयम अनुप्राप्तस तवत्कृते कालपर्ययः 43 तवरिताः कुरुत शरेयॊ नैतद एतावता कृतम मुहूर्तं सुखम एवैतत तालच छायेव हैमनी 44 यजध्वं च महायज्ञैर भॊगान अश्नीत दत्तच इतश चतुर्दशे वर्षे महत पराप्स्यथ वैशसम 45 दुर्यॊधन निशम्यैतत परतिपद्य यथेच्छसि साम वा पाण्डवेयेषु परयुङ्क्ष्व यदि मन्यसे 46 [व] दरॊणस्य वचनं शरुत्वा धृतराष्ट्रॊ ऽबरवीद इदम सम्यग आह गुरुः कषत्तर उपावर्तय पाण्डवान 47 यदि वा न निवर्तन्ते सत्कृता यान्तु पाण्डवाः स शस्त्ररथपादाता भॊगवन्तश च पुत्रकाः |
1
[dh] kathaṃ gacchati kaunteyo dharmarājo yudhiṣṭhiraḥ bhīmasenaḥ savyasācī mādrīputrau ca tāv ubhau 2 dhaumyaś caiva kathaṃ kṣattar draupadī vā tapasvinī śrotum icchāmy ahaṃ sarvaṃ teṣām aṅgaviceṣṭitam 3 [vi] vastreṇa saṃvṛtya mukhaṃ kuntīputro yudhiṣṭhiraḥ bāhū viśālau kṛtvā tu bhīmo gacchati pāṇḍavaḥ 4 sikatā vapan savyasācī rājānam anugacchati mādrīputraḥ sahadevo mukham ālipya gacchati 5 pāṃsūpalipta sarvāṅgo nakulaś cittavihvalaḥ darśanīyatamo loke rājānam anugacchati 6 kṛṣṇā keśaiḥ praticchādya mukham āyatalocanā darśanīyā prarudatī rājānam anugacchati 7 dhaumyo yāmyāni sāmāni raudrāṇi ca viśāṃ pate gāyan gacchati mārgeṣu kuśān ādāya pāṇinā 8 [dhṛ] vividhāny iha rūpāṇi kṛtvā gacchanti pāṇḍavāḥ tan mamācakṣva vidura kasmād evaṃ vrajanti te 9 [vi] nikṛtasyāpi te putrair hṛte rājye dhaneṣu ca na dharmāc calate buddhir dharmarājasya dhīmataḥ 10 yo 'sau rājā ghṛṇī nityaṃ dhārtarāṣṭreṣu bhārata nikṛtyā krodhasaṃtapto nonmīlayati locane 11 nāhaṃ janaṃ nirdaheyaṃ dṛṣṭvā ghoreṇa cakṣuṣā sa pidhāya mukhaṃ rājā tasmād gacchati pāṇḍavaḥ 12 yathā ca bhīmo vrajati tan me nigadataḥ śṛṇu bāhvor bale nāsti samo mameti bharatarṣabha 13 bāhū viśālau kṛtvā tu tena bhīmo 'pi gacchati bāhū darśayamāno hi bāhudraviṇa darpitaḥ cikīrṣan karma śatrubhyo bāhudravyānurūpataḥ 14 pradiśañ śarasaṃpātān kuntīputro 'rjunas tadā sikatā vapan savyasācī rājānam anugacchati 15 asaktāḥ sikatās tasya yathā saṃprati bhārata asaktaṃ śaravarṣāṇi tathā mokṣyati śatruṣu 16 na me kaś cid vijānīyān mukham adyeti bhārata mukham ālipya tenāsau sahadevo 'pi gacchati 17 nāhaṃ manāṃsy ādadeyaṃ mārge strīṇām iti prabho pāṃsūpacita sargāṅgo nakulas tena gacchati 18 ekavastrā tu rudatī muktakeśī rajasvalā śonitāktārdra vasanā draupadī vākyam abravīt 19 yatkṛte 'ham imāṃ prāptā teṣāṃ varṣe caturdaśe hatapatyo hatasutā hatabandhujanapriyāḥ 20 bandhuśonita digdhāṅgyo muktakeśyo rajasvalāḥ evaṃ kṛtodakā nāryaḥ pravekṣyanti gajāhvayam 21 kṛtvā tu nairṛtān darbhān ghoro dhaumyaḥ purohitaḥ sāmāni gāyan yāmyāni purato yāti bhārata 22 hateṣu bhārateṣv ājau kurūṇāṃ guravas tadā evaṃ sāmāni gāsyantīty uktvā dhaumyo 'pi gacchati 23 hāhā gacchanti no nāthāḥ samavekṣadhvam īdṛśam iti paurāḥ suduḥkhārtāḥ krośanti sma samantataḥ 24 evam ākāra liṅgais te vyavasāyaṃ manogatam kathayantaḥ sma kaunteyā vanaṃ jagmur manasvinaḥ 25 evaṃ teṣu narāgryeṣu niryatsu gajasāhvayāt anabhre vidyutaś cāsan bhūmiś ca samakampata 26 rāhur agrasad ādityam aparvaṇi viśāṃ pate ulkā cāpy apasavyaṃ tu puraṃ kṛtvā vyaśīryata 27 pravyāharanti kravyādā gṛdhragomāyuvāyasāḥ devāyatanacaityeṣu prākārāṭṭālakeṣu ca 28 evam ete mahotpātā vanaṃ gacchati pāṇḍave bhāratānām abhāvāya rājan durmantrite tava 29 nāradaś ca sabhāmadhye kurūṇām agrataḥ sthitaḥ maharṣibhiḥ parivṛto raudraṃ vākyam uvāca ha 30 itaś caturdaśe varṣe vinaṅkṣyantīha kauravāḥ duryodhanāparādhena bhīmārjunabalena ca 31 ity uktvā divam ākramya kṣipram antaradhīyata brāhmīṃ śriyaṃ suvipulāṃ bibhrad devarṣisattamaḥ 32 tato duryodhanaḥ karṇaḥ śakuniś cāpi saubalaḥ droṇaṃ dvīpam amanyanta rājyaṃ cāsmai nyavedayan 33 athābravīt tato droṇo duryodhanam amarṣaṇam duḥśāsanaṃ ca karṇaṃ ca sarvān eva ca bhāratān 34 avadhyān pāṇḍavān āhur devaputrān dvijātayaḥ ahaṃ tu śaraṇaṃ prāptān vartamāno yathābalam 35 gatān sarvātmanā bhaktyā dhārtarastrān sarājakān notsahe samabhityaktuṃ daivamūlam ataḥ param 36 dharmataḥ pāṇḍuputrā vai vanaṃ gacchanti nirjitāḥ te ca dvādaśa varṣāṇi vane vatsyanti kauravāḥ 37 caritabrahma caryāś ca krodhāmarṣavaśānugāḥ vairaṃ pratyānayiṣyanti mama duḥkhāya pāṇḍavāḥ 38 mayā tu bhraṃśito rājyād drupadaḥ sakhivigrahe putrārtham ayajat krodhād vadhāya mama bhārata 39 yājopayāja tapasā putraṃ lebhe sa pāvakāt dhṛṣṭadyumnaṃ draupadīṃ ca vedīmadhyāt sumadhyamām 40 jvālā varṇo devadatto dhanuṣmān kavacī śarī martyadharmatayā tasmād iti māṃ bhayam āviśat 41 gato hi pakṣatāṃ teṣāṃ pārṣataḥ puruṣarṣabhaḥ sṛṣṭa prāṇo bhṛśataraṃ tasmād yotsye tavāribhiḥ 42 madvadhāya śruto hy eṣa loke cāpy ativiśrutaḥ nūnaṃ so 'yam anuprāptas tvatkṛte kālaparyayaḥ 43 tvaritāḥ kuruta śreyo naitad etāvatā kṛtam muhūrtaṃ sukham evaitat tālac chāyeva haimanī 44 yajadhvaṃ ca mahāyajñair bhogān aśnīta dattaca itaś caturdaśe varṣe mahat prāpsyatha vaiśasam 45 duryodhana niśamyaitat pratipadya yathecchasi sāma vā pāṇḍaveyeṣu prayuṅkṣva yadi manyase 46 [v] droṇasya vacanaṃ śrutvā dhṛtarāṣṭro 'bravīd idam samyag āha guruḥ kṣattar upāvartaya pāṇḍavān 47 yadi vā na nivartante satkṛtā yāntu pāṇḍavāḥ sa śastrarathapādātā bhogavantaś ca putrakāḥ |
The Mahabharata in Sanskrit
Book 2
Chapter 72
|
1
[व] वनं गतेषु पार्थेषु निर्जितेषु दुरॊदरे धृतराष्ट्रं महाराज तदा चिन्ता समाविशत 2 तं चिन्तयानम आसीनं धृतराष्ट्रं जनेश्वरम निःश्वसन्तम अनेकाग्रम इति हॊवाच संजयः 3 अवाप्य वसुसंपूर्णां वसुधां वसुधाधिप परव्राज्य पाण्डवान राज्याद राजन किम अनुशॊचसि 4 [ध] अशॊच्यं तु कुतस तेषां येषां वैरं भविष्यति पाण्डवैर युद्धशौण्डैर हि मित्रवद्भिर महारथैः 5 [स] तवेदं सुकृतं राजन महद वैरं भविष्यति विनाशः सर्वलॊकस्य सानुबन्धॊ भविष्यति 6 वार्यमाणॊ ऽपि भीष्मेण दरॊणेन विदुरेण च पाण्डवानां परियां भार्यां दरौपदीं धर्मचारिणीम 7 पराहिणॊद आनयेहेति पुत्रॊ दुर्यॊधनस तव सूतपुत्रं सुमन्दात्मा निर्लज्जः परातिकामिनम 8 [धृ] यस्मै देवाः परयच्छन्ति पुरुषाय पराभवम बुद्धिं तस्यापकर्षन्ति सॊ ऽपाचीनानि पश्यति 9 बुद्धौ कलुष भूतायां विनाशे परत्युपस्थिते अनयॊ नयसंकाशॊ हृदयान नापसर्पति 10 अनर्थाश चार्थरूपेण अर्थाश चानर्थ रूपिणः उत्तिष्ठन्ति विनाशान्ते नरं तच चास्य रॊचते 11 न कालॊ दण्डम उद्यम्य शिरॊ कृन्तति कस्य चित कालस्य बलम एतावद विपरीतार्थ दर्शनम 12 आसादितम इदं घॊरं तुमुलं लॊमहर्षणम पाञ्चालीम अपकर्षद्भिः सभामध्ये तपस्विनीम 13 अयॊनिजां रूपवतीं कुले जातां विभावरीम कॊ नु तां सर्वधर्मज्ञां परिभूय यशस्विनीम 14 पर्यानयेत सभामध्यम ऋते दुर्द्यूत देविनम सत्री धर्मिणीं वरारॊहां शॊनितेन समुक्षिता 15 एकवस्त्रां च पाञ्चालीं पाण्डवान अभ्यवेक्षतीम हृतस्वान भरष्टचित्तांस तान हृतदारान हृतश्रियः 16 विहीनान सर्वकामेभ्यॊ दासभाववशं गतान धर्मपाशपरिक्षिप्तान अशक्तान इव विक्रमे 17 करुद्धाम अमर्षितां कृष्णां दुःखितां कुरुसंसदि दुर्यॊधनश च कर्णश च कटुकान्य अभ्यभाषताम 18 तस्याः कृपण चक्षुर भयां परदह्येतापि मेदिनी अपि शेषं भवेद अद्य पुत्राणां मम संजय 19 भारतानां सत्रियः सर्वा गान्धार्या सह संगताः पराक्रॊर्शन भैरवं तत्र दृष्ट्वा कृष्णां सभा गताम 20 अग्निहॊत्राणि सायाह्ने न चाहूयन्त सर्वशः बराह्मणाः कुपिताश चासन दरौपद्याः परिकर्षणे 21 आसीन निष्टानकॊ घॊरॊ निर्घातश च महान अभूत दिवॊल्काश चापतन घॊरा राहुश चार्कम उपाग्रसत अपर्वणि महाघॊरं परजानां जनयन भयम 22 तथैव रथशालासु परादुरासीद धुताशनः धवजाश च वयवशीर्यन्त भरतानाम अभूतये 23 दुर्यॊधनस्याग्निहॊत्रे पराक्रॊशन भैरवं शिवाः तास तदा परत्यभाषन्त रासभाः सर्वतॊदिशम 24 परातिष्ठत ततॊ भीष्मॊ दरॊणेन सह संजय कृपश च सॊमदत्तश च बाह्लीकश च महारथः 25 ततॊ ऽहम अब्रुवं तत्र विदुरेण परचॊदितः वरं ददानि कृष्णायै कान्स्कितं यद यद इच्छति 26 अवृणॊत तत्र पाञ्चाली पाण्डवान अमितौजसः सरथान सधनुष्कांश चाप्य अनुज्ञासिषम अप्य अहम 27 अथाब्रवीन महाप्राज्ञॊ विदुरः सर्वधर्मवित एतद अन्ताः सथ भरता यद वः कृष्णा सभां गता 28 एषा पाञ्चालराजस्य सुतैषा शरीर अनुत्तमा पाञ्चाली पाण्डवान एतान दैवसृष्टॊपसर्पति 29 तस्याः पार्थाः परिक्लेशं न कषंस्यन्ते ऽतयमर्षणाः वृष्णयॊ वा महेष्वासाः पाञ्चाला वा महौजसः 30 तेन सत्याभिसंधेन वासुदेवेन रक्षिताः आगमिष्यति बीभत्सुः पाञ्चालैर अभिरक्षितः 31 तेषां मध्ये महेष्वासॊ भीमसेनॊ महाबलः आगमिष्यति धुन्वानॊ गदां दण्डम इवान्तकः 32 ततॊ गाण्डीवनिर्घॊषं शरुत्वा पार्थस्य धीमतः गदा वेगं च भीमस्य नालं सॊढुं नराधिपाः 33 तत्र मे रॊचते नित्यं पार्थैर सार्धं न विग्रहः कुरुभ्यॊ हि सदा मन्ये पाण्डवाञ शक्तिमत्तरान 34 तथा हि बलवान राजा जरासंधॊ महाद्युतिः बाहुप्रहरणेनैव भीमेन निहतॊ युधि 35 तस्य ते शम एवास्तु पाण्डवैर भरतर्षभ उभयॊः पक्षयॊर युक्तं करियताम अविशङ्कया 36 एवं गावल्गणे कषत्ता धर्मार्थसहितं वचः उक्तवान न गृहीतं च मया पुत्र हितेप्सया |
1
[v] vanaṃ gateṣu pārtheṣu nirjiteṣu durodare dhṛtarāṣṭraṃ mahārāja tadā cintā samāviśat 2 taṃ cintayānam āsīnaṃ dhṛtarāṣṭraṃ janeśvaram niḥśvasantam anekāgram iti hovāca saṃjayaḥ 3 avāpya vasusaṃpūrṇāṃ vasudhāṃ vasudhādhipa pravrājya pāṇḍavān rājyād rājan kim anuśocasi 4 [dh] aśocyaṃ tu kutas teṣāṃ yeṣāṃ vairaṃ bhaviṣyati pāṇḍavair yuddhaśauṇḍair hi mitravadbhir mahārathaiḥ 5 [s] tavedaṃ sukṛtaṃ rājan mahad vairaṃ bhaviṣyati vināśaḥ sarvalokasya sānubandho bhaviṣyati 6 vāryamāṇo 'pi bhīṣmeṇa droṇena vidureṇa ca pāṇḍavānāṃ priyāṃ bhāryāṃ draupadīṃ dharmacāriṇīm 7 prāhiṇod ānayeheti putro duryodhanas tava sūtaputraṃ sumandātmā nirlajjaḥ prātikāminam 8 [dhṛ] yasmai devāḥ prayacchanti puruṣāya parābhavam buddhiṃ tasyāpakarṣanti so 'pācīnāni paśyati 9 buddhau kaluṣa bhūtāyāṃ vināśe pratyupasthite anayo nayasaṃkāśo hṛdayān nāpasarpati 10 anarthāś cārtharūpeṇa arthāś cānartha rūpiṇaḥ uttiṣṭhanti vināśānte naraṃ tac cāsya rocate 11 na kālo daṇḍam udyamya śiro kṛntati kasya cit kālasya balam etāvad viparītārtha darśanam 12 āsāditam idaṃ ghoraṃ tumulaṃ lomaharṣaṇam pāñcālīm apakarṣadbhiḥ sabhāmadhye tapasvinīm 13 ayonijāṃ rūpavatīṃ kule jātāṃ vibhāvarīm ko nu tāṃ sarvadharmajñāṃ paribhūya yaśasvinīm 14 paryānayet sabhāmadhyam ṛte durdyūta devinam strī dharmiṇīṃ varārohāṃ śonitena samukṣitā 15 ekavastrāṃ ca pāñcālīṃ pāṇḍavān abhyavekṣatīm hṛtasvān bhraṣṭacittāṃs tān hṛtadārān hṛtaśriyaḥ 16 vihīnān sarvakāmebhyo dāsabhāvavaśaṃ gatān dharmapāśaparikṣiptān aśaktān iva vikrame 17 kruddhām amarṣitāṃ kṛṣṇāṃ duḥkhitāṃ kurusaṃsadi duryodhanaś ca karṇaś ca kaṭukāny abhyabhāṣatām 18 tasyāḥ kṛpaṇa cakṣur bhyāṃ pradahyetāpi medinī api śeṣaṃ bhaved adya putrāṇāṃ mama saṃjaya 19 bhāratānāṃ striyaḥ sarvā gāndhāryā saha saṃgatāḥ prākrorśan bhairavaṃ tatra dṛṣṭvā kṛṣṇāṃ sabhā gatām 20 agnihotrāṇi sāyāhne na cāhūyanta sarvaśaḥ brāhmaṇāḥ kupitāś cāsan draupadyāḥ parikarṣaṇe 21 āsīn niṣṭānako ghoro nirghātaś ca mahān abhūt divolkāś cāpatan ghorā rāhuś cārkam upāgrasat aparvaṇi mahāghoraṃ prajānāṃ janayan bhayam 22 tathaiva rathaśālāsu prādurāsīd dhutāśanaḥ dhvajāś ca vyavaśīryanta bharatānām abhūtaye 23 duryodhanasyāgnihotre prākrośan bhairavaṃ śivāḥ tās tadā pratyabhāṣanta rāsabhāḥ sarvatodiśam 24 prātiṣṭhata tato bhīṣmo droṇena saha saṃjaya kṛpaś ca somadattaś ca bāhlīkaś ca mahārathaḥ 25 tato 'ham abruvaṃ tatra vidureṇa pracoditaḥ varaṃ dadāni kṛṣṇāyai kānskitaṃ yad yad icchati 26 avṛṇot tatra pāñcālī pāṇḍavān amitaujasaḥ sarathān sadhanuṣkāṃś cāpy anujñāsiṣam apy aham 27 athābravīn mahāprājño viduraḥ sarvadharmavit etad antāḥ stha bharatā yad vaḥ kṛṣṇā sabhāṃ gatā 28 eṣā pāñcālarājasya sutaiṣā śrīr anuttamā pāñcālī pāṇḍavān etān daivasṛṣṭopasarpati 29 tasyāḥ pārthāḥ parikleśaṃ na kṣaṃsyante 'tyamarṣaṇāḥ vṛṣṇayo vā maheṣvāsāḥ pāñcālā vā mahaujasaḥ 30 tena satyābhisaṃdhena vāsudevena rakṣitāḥ āgamiṣyati bībhatsuḥ pāñcālair abhirakṣitaḥ 31 teṣāṃ madhye maheṣvāso bhīmaseno mahābalaḥ āgamiṣyati dhunvāno gadāṃ daṇḍam ivāntakaḥ 32 tato gāṇḍīvanirghoṣaṃ śrutvā pārthasya dhīmataḥ gadā vegaṃ ca bhīmasya nālaṃ soḍhuṃ narādhipāḥ 33 tatra me rocate nityaṃ pārthair sārdhaṃ na vigrahaḥ kurubhyo hi sadā manye pāṇḍavāñ śaktimattarān 34 tathā hi balavān rājā jarāsaṃdho mahādyutiḥ bāhupraharaṇenaiva bhīmena nihato yudhi 35 tasya te śama evāstu pāṇḍavair bharatarṣabha ubhayoḥ pakṣayor yuktaṃ kriyatām aviśaṅkayā 36 evaṃ gāvalgaṇe kṣattā dharmārthasahitaṃ vacaḥ uktavān na gṛhītaṃ ca mayā putra hitepsayā |
The Mahabharata in Sanskrit
Book 3
Chapter 1
|
1
[ज] एवं दयूतजिताः पार्थाः कॊपिताश च दुरात्मभिः धार्तराष्ट्रैः सहामात्यैर निकृत्या दविजसत्तम 2 शराविताः परुषा वाचः सृजद्भिर वैरम उत्तमम किम अकुर्वन्त कौरव्या मम पूर्वपितामहाः 3 कथं चैश्वर्यविभ्रष्टाः सहसा दुःखम एयुषः वने विजह्रिरे पार्थाः शक्र परतिमतेजसः 4 के चैनान अन्ववर्तन्त पराप्तान वयसनम उत्तमम किमाहाराः किमाचाराः कव च वासॊ महात्मनाम 5 कथं दवादश वर्षाणि वने तेषां महात्मनाम वयतीयुर बराह्मणश्रेष्ठ शूराणाम अरिघातिनाम 6 कथं च राजपुत्री सा परवरा सर्वयॊषिताम पतिव्रता महाभागा सततं सत्यवादिनी वनवासम अदुःखार्हा दारुणं परत्यपद्यत 7 एतद आचक्ष्व मे सर्वं विस्तरेण तपॊधन शरॊतुम इच्छामि चरितं भूरि दरविण तेजसाम कथ्यमानं तवया विप्र परं कौतूहलं हि मे 8 [व] एवं दयूतजिताः पार्थाः कॊपिताश च दुरात्मभिः धार्तराष्ट्रैः सहामात्यैर निर्ययुर गजसाह्वयात 9 वर्धमानपुरद्वारेणाहिनिष्क्रम्य ते तदा उदङ्मुखः शस्त्रभृतः परययुः सह कृष्णया 10 इन्द्रसेनादयश चैनान भृत्याः परिचतुर्दश रथैर अनुययुः शीघ्रैः सत्रिय आदाय सर्वशः 11 वरजतस तान विदित्वा तु पौराः शॊकाभिपीडिताः गर्हयन्तॊ ऽसकृद भीष्म विदुर दरॊण गौतमान ऊचुर विगतसंत्रासाः समागम्य परस्परम 12 नेदम अस्ति कुलं सर्वं न वयं न च नॊ गृहाः यत्र दुर्यॊधनः पापः सौबलेयेन पालिताः कर्ण दुःखासनाभ्यां च राज्यम एतच चिकीर्षति 13 नॊ चेत कुलं न चाचारॊ न धर्मॊ ऽरथः कुतः सुखम यत्र पापसहायॊ ऽयं पापॊ राज्यं बुभूषते 14 दुर्यॊधनॊ गुरु दवेषी तयक्ताचार सुहृज्जनः अर्थलुब्धॊ ऽभिमानी च नीचः परकृतिनिर्घृणः 15 नेयम अस्ति महीकृत्स्ना यत्र दुर्यॊधनॊ नृपः साधु गच्छामहे सर्वे यत्र गच्छन्ति पाण्डवाः 16 सानुक्रॊशॊ महात्मानॊ विजितेन्द्रिय शत्रवः हरीमन्तः कीर्तिमन्तश च धर्माचार परायणाः 17 एवम उक्त्वानुजग्मुस तान पाण्डवांस ते समेत्य च ऊचुः पराञ्जलयः सर्वे तान कुन्ती माद्रिनन्दनान 18 कव गमिष्यथ भद्रं वस तयक्त्वास्मान दुःखभागिनः वयम अप्य अनुयास्यामॊ यत्र यूयं गमिष्यथ 19 अधर्मेण जिताञ शरुत्वा युष्मांस तयक्तघृषैः परैः उद्विग्नाः सम भृशं सर्वे नास्मान हातुम इहार्हथ 20 भक्तानुरक्ताः सुहृदः सदा परियहिते रतान कुराजाधिष्ठिते राज्ये न विनश्येम सर्वशः 21 शरूयतां चाभिधास्यामॊ गुणदॊषान नरर्षभाः शुभाशुभाधिवासेन संसर्गं कुरुते यथा 22 वस्त्रम आपस तिलान भूमिं गन्धॊ वासयते यथा पुष्पाणाम अधिवासेन तथा संसर्गजा गुणाः 23 मॊहजालस्य यॊनिर हि मूढैर एव समागमः अहन्य अहनि धर्मस्य यॊनिः साधु समागमः 24 तस्मात पराज्ञैश च वृद्धैश च सुस्वभावैस तपस्विभिः सद्भिश च सह संसर्गः कार्यः शम परायणैः 25 येषां तरीण्य अवदातानि यॊनिर विध्या च कर्म च तान सेवेत तैः समास्या हि शास्त्रेभ्यॊ ऽपि गरीयसी 26 निरारम्भा हय अपि वयं पुण्यशीलेषु साधुषु पुण्यम एवाप्नुयामेह पापं पापॊपसेवनात 27 असतां दर्शनात सपर्शात संजल्पन सहासनत धर्माचारः परहीयन्ते न च सिध्यन्ति मानवाः 28 बुद्धिश च हीयते पुंसां नीचैः सह समागमात मध्यमैर मध्यतां याति शरेष्ठतां याति चॊत्तमैः 29 ये गुणाः कीर्तिता लॊके धर्मकामार्थ संभवाः लॊकाचारात्म संभूता वेदॊक्ताः शिष्टसंमताः 30 ते युष्मासु समस्ताश च वयस्ताश चैवेह सद्गुणाः इच्छामॊ गुणवन मध्ये वस्तुं शरेयॊ ऽभिकाङ्क्षिणः 31 [य] धन्या वयं यद अस्माकं सनेहकारुण्ययन्त्रिताः असतॊ ऽपि गुणान आहुर बराह्मण परमुखाः परजाः 32 तद अहं भरातृसहितः सर्वान विज्ञापयामि वः नान्यथा तद धि कर्तव्यम अस्मत सनेहानुकम्पया 33 भीष्मः पितामहॊ राजा विदुरॊ जननी च मे सुहृज्जनश च परायॊ मे नगरे नागसाह्वये 34 ते तव अस्मद्धितकामार्थं पालनीयाः परयत्नतः युष्माभिः सहितैः सर्वैः शॊकसंताप विह्वलाः 35 निवर्ततागता दूरं समागमन शापिताः सवजने नयासभूते मे कार्या सनेहान्विता मतिः 36 एतद धि मम कार्याणां परमं हृदि संस्थितम सुकृतानेन मे तुष्टिः सत्काराश च भविष्यति 37 [व] तथानुमन्त्रितास तेन धर्मराजेन ताः परजाः चक्रुर आर्तस्वरं घॊरं हा राजन्न इति दुःखिताः 38 गुणान पार्थस्य संस्मृत्य दुःखार्ताः परमातुराः अकामाः संन्यवर्तन्त समागम्याथ पाण्डवान 39 निवृत्तेषु तु पौरेषु रथान आस्थाय पाण्डवाः परजग्मुर जाह्नवीतीरे परमाणाख्यं महावटम 40 तं ते दिवसशेषेण वटं गत्वा तु पाण्डवाः ऊषुस तां रजनीं वीराः संस्पृश्य सलिलं शुचि उदकेनैव तां रात्रिम ऊषुस ते दुःखकर्शिताः 41 अनुजग्मुश च तत्रैतान सनेहात के चिद दविजातयः सग्नयॊ ऽनग्नयश चैव सशिष्य गणबान्धवाः स तैः परिवृतॊ राजा शुशुभे बरह्मवादिभिः 42 तेषां परादुष्कृताग्नीनां मुहूर्ते रम्यदारुणे बरह्मघॊषपुरस्कारः संजल्पः समजायत 43 राजानं तु कुरुश्रेष्ठं ते हंसमधुरस्वराः आश्वासयन्तॊ विप्राग्र्याः कषपां सर्वां वयनॊदयन |
1
[j] evaṃ dyūtajitāḥ pārthāḥ kopitāś ca durātmabhiḥ dhārtarāṣṭraiḥ sahāmātyair nikṛtyā dvijasattama 2 śrāvitāḥ paruṣā vācaḥ sṛjadbhir vairam uttamam kim akurvanta kauravyā mama pūrvapitāmahāḥ 3 kathaṃ caiśvaryavibhraṣṭāḥ sahasā duḥkham eyuṣaḥ vane vijahrire pārthāḥ śakra pratimatejasaḥ 4 ke cainān anvavartanta prāptān vyasanam uttamam kimāhārāḥ kimācārāḥ kva ca vāso mahātmanām 5 kathaṃ dvādaśa varṣāṇi vane teṣāṃ mahātmanām vyatīyur brāhmaṇaśreṣṭha śūrāṇām arighātinām 6 kathaṃ ca rājaputrī sā pravarā sarvayoṣitām pativratā mahābhāgā satataṃ satyavādinī vanavāsam aduḥkhārhā dāruṇaṃ pratyapadyata 7 etad ācakṣva me sarvaṃ vistareṇa tapodhana śrotum icchāmi caritaṃ bhūri draviṇa tejasām kathyamānaṃ tvayā vipra paraṃ kautūhalaṃ hi me 8 [v] evaṃ dyūtajitāḥ pārthāḥ kopitāś ca durātmabhiḥ dhārtarāṣṭraiḥ sahāmātyair niryayur gajasāhvayāt 9 vardhamānapuradvāreṇāhiniṣkramya te tadā udaṅmukhaḥ śastrabhṛtaḥ prayayuḥ saha kṛṣṇayā 10 indrasenādayaś cainān bhṛtyāḥ paricaturdaśa rathair anuyayuḥ śīghraiḥ striya ādāya sarvaśaḥ 11 vrajatas tān viditvā tu paurāḥ śokābhipīḍitāḥ garhayanto 'sakṛd bhīṣma vidura droṇa gautamān ūcur vigatasaṃtrāsāḥ samāgamya parasparam 12 nedam asti kulaṃ sarvaṃ na vayaṃ na ca no gṛhāḥ yatra duryodhanaḥ pāpaḥ saubaleyena pālitāḥ karṇa duḥkhāsanābhyāṃ ca rājyam etac cikīrṣati 13 no cet kulaṃ na cācāro na dharmo 'rthaḥ kutaḥ sukham yatra pāpasahāyo 'yaṃ pāpo rājyaṃ bubhūṣate 14 duryodhano guru dveṣī tyaktācāra suhṛjjanaḥ arthalubdho 'bhimānī ca nīcaḥ prakṛtinirghṛṇaḥ 15 neyam asti mahīkṛtsnā yatra duryodhano nṛpaḥ sādhu gacchāmahe sarve yatra gacchanti pāṇḍavāḥ 16 sānukrośo mahātmāno vijitendriya śatravaḥ hrīmantaḥ kīrtimantaś ca dharmācāra parāyaṇāḥ 17 evam uktvānujagmus tān pāṇḍavāṃs te sametya ca ūcuḥ prāñjalayaḥ sarve tān kuntī mādrinandanān 18 kva gamiṣyatha bhadraṃ vas tyaktvāsmān duḥkhabhāginaḥ vayam apy anuyāsyāmo yatra yūyaṃ gamiṣyatha 19 adharmeṇa jitāñ śrutvā yuṣmāṃs tyaktaghṛṣaiḥ paraiḥ udvignāḥ sma bhṛśaṃ sarve nāsmān hātum ihārhatha 20 bhaktānuraktāḥ suhṛdaḥ sadā priyahite ratān kurājādhiṣṭhite rājye na vinaśyema sarvaśaḥ 21 śrūyatāṃ cābhidhāsyāmo guṇadoṣān nararṣabhāḥ śubhāśubhādhivāsena saṃsargaṃ kurute yathā 22 vastram āpas tilān bhūmiṃ gandho vāsayate yathā puṣpāṇām adhivāsena tathā saṃsargajā guṇāḥ 23 mohajālasya yonir hi mūḍhair eva samāgamaḥ ahany ahani dharmasya yoniḥ sādhu samāgamaḥ 24 tasmāt prājñaiś ca vṛddhaiś ca susvabhāvais tapasvibhiḥ sadbhiś ca saha saṃsargaḥ kāryaḥ śama parāyaṇaiḥ 25 yeṣāṃ trīṇy avadātāni yonir vidhyā ca karma ca tān sevet taiḥ samāsyā hi śāstrebhyo 'pi garīyasī 26 nirārambhā hy api vayaṃ puṇyaśīleṣu sādhuṣu puṇyam evāpnuyāmeha pāpaṃ pāpopasevanāt 27 asatāṃ darśanāt sparśāt saṃjalpana sahāsanat dharmācāraḥ prahīyante na ca sidhyanti mānavāḥ 28 buddhiś ca hīyate puṃsāṃ nīcaiḥ saha samāgamāt madhyamair madhyatāṃ yāti śreṣṭhatāṃ yāti cottamaiḥ 29 ye guṇāḥ kīrtitā loke dharmakāmārtha saṃbhavāḥ lokācārātma saṃbhūtā vedoktāḥ śiṣṭasaṃmatāḥ 30 te yuṣmāsu samastāś ca vyastāś caiveha sadguṇāḥ icchāmo guṇavan madhye vastuṃ śreyo 'bhikāṅkṣiṇaḥ 31 [y] dhanyā vayaṃ yad asmākaṃ snehakāruṇyayantritāḥ asato 'pi guṇān āhur brāhmaṇa pramukhāḥ prajāḥ 32 tad ahaṃ bhrātṛsahitaḥ sarvān vijñāpayāmi vaḥ nānyathā tad dhi kartavyam asmat snehānukampayā 33 bhīṣmaḥ pitāmaho rājā viduro jananī ca me suhṛjjanaś ca prāyo me nagare nāgasāhvaye 34 te tv asmaddhitakāmārthaṃ pālanīyāḥ prayatnataḥ yuṣmābhiḥ sahitaiḥ sarvaiḥ śokasaṃtāpa vihvalāḥ 35 nivartatāgatā dūraṃ samāgamana śāpitāḥ svajane nyāsabhūte me kāryā snehānvitā matiḥ 36 etad dhi mama kāryāṇāṃ paramaṃ hṛdi saṃsthitam sukṛtānena me tuṣṭiḥ satkārāś ca bhaviṣyati 37 [v] tathānumantritās tena dharmarājena tāḥ prajāḥ cakrur ārtasvaraṃ ghoraṃ hā rājann iti duḥkhitāḥ 38 guṇān pārthasya saṃsmṛtya duḥkhārtāḥ paramāturāḥ akāmāḥ saṃnyavartanta samāgamyātha pāṇḍavān 39 nivṛtteṣu tu paureṣu rathān āsthāya pāṇḍavāḥ prajagmur jāhnavītīre pramāṇākhyaṃ mahāvaṭam 40 taṃ te divasaśeṣeṇa vaṭaṃ gatvā tu pāṇḍavāḥ ūṣus tāṃ rajanīṃ vīrāḥ saṃspṛśya salilaṃ śuci udakenaiva tāṃ rātrim ūṣus te duḥkhakarśitāḥ 41 anujagmuś ca tatraitān snehāt ke cid dvijātayaḥ sagnayo 'nagnayaś caiva saśiṣya gaṇabāndhavāḥ sa taiḥ parivṛto rājā śuśubhe brahmavādibhiḥ 42 teṣāṃ prāduṣkṛtāgnīnāṃ muhūrte ramyadāruṇe brahmaghoṣapuraskāraḥ saṃjalpaḥ samajāyata 43 rājānaṃ tu kuruśreṣṭhaṃ te haṃsamadhurasvarāḥ āśvāsayanto viprāgryāḥ kṣapāṃ sarvāṃ vyanodayan |
The Mahabharata in Sanskrit
Book 3
Chapter 2
|
1
[व] परभातायां तु शर्वर्यां तेषाम अक्लिष्टकर्मणाम वनं यियासतां विप्रास तस्थुर भिक्षा भुजॊ ऽगरतः तान उवाच ततॊ राजा कुन्तीपुत्रॊ युधिष्ठिरः 2 वयं हि हृतसर्वस्वा हृतराज्या हृतश्रियः फलमूलामिषाहारा वनं यास्याम दुःखिताः 3 वनं च दॊषबहुलं बहु वयालसरीसृपम परिक्लेशश च वॊ मन्ये धरुवं तत्र भविष्यति 4 बराह्मणानां परिक्लेशॊ दैवतान्य अपि सादयेत किं पुनर माम इतॊ विप्रा निवर्तध्वं यथेष्टतः 5 [बर] गतिर या भवतां राजंस तां वयं गन्तुम उद्यताः नार्हथास्मान परित्यक्तुं भक्तान सद धर्मदर्शिनः 6 अनुकम्पां हि भक्तेषु दैवतान्य अपि कुर्वते विशेषतॊ बराह्मणेषु सद आचारावलम्बिषु 7 [य] ममापि परमा भक्तिर बराह्मणेषु सदा दविजाः सहायविपरिभ्रंशस तव अयं सादयतीव माम 8 आहरेयुर हि मे ये ऽपि फलमूलमृगांस तथा त इमे शॊकजैर दुःखैर भरातरॊ मे विमॊहिताः 9 दरौपद्या विप्रकर्षेण राज्यापहरणेन च दुःखान्वितान इमान कलेशैर नाहं यॊक्तुम इहॊत्सहे 10 [बर] अस्मत पॊषणजा चिन्ता मा भूत ते हृदि पार्थिव सवयम आहृत्य वन्यानि अनुयास्यामहे वयम 11 अनुध्यानेन जप्येन विधास्यामः शिवं तव कथाभिश चानुकूलाभिः सह रंस्यामहे वने 12 [य] एवम एतन न संदेहॊ रमेयं बराह्मणैः सह नयून भावात तु पश्यामि परत्यादेशम इवात्मनः 13 कथं दरक्ष्यामि वः सर्वान सवयम आहृत भॊजनान मद्भक्त्या कलिश्यतॊ ऽनर्हान धिक पापान धृतराष्ट्रजान 14 [व] इत्य उक्त्वा स नृपः शॊचन निषसाद महीतले तम अध्यात्मरतिर विद्वाञ शौनकॊ नाम वै दविजः यॊगे सांख्ये च कुशलॊ राजानम इदम अब्रवीत 15 शॊकस्थान सहस्राणि भयस्थान शतानि च दिवसे दिवसे मूढम आविशन्ति न पण्डितम 16 न हि जञानविरुद्धेषु बहुदॊषेषु कर्मसु शरेयॊ घातिषु सज्जन्ते बुद्धिमन्तॊ भवद्विधाः 17 अष्टाङ्गां बुद्धिम आहुर यां सर्वाश्रेयॊ विघातिनीम शरुतिस्मृतिसमायुक्तां सा राजंस तवय्य अवस्थिता 18 अर्थकृच्छ्रेषु दुर्गेषु वयापत्सु सवजनस्य च शारीर मानसैर दुःखैर न सीदन्ति भवद्विधाः 19 शरूयतां चाभिधास्यामि जनकेन यथा पुरा आत्मव्यवस्थान करा गीताः शलॊका महात्मना 20 मनॊ देहसमुत्थाभ्यां दुःखाभ्याम अर्दितं जगत तयॊर वयास समासाभ्यां शमॊपायम इमं शृणु 21 वयाधेर अनिष्ट संस्पर्शाच छरमाद इष्टविवर्जनात दुःखं चतुर्भिर शारीरं कारणैः संप्रवर्तते 22 तद आशु परतिकाराच च सततं चाविचिन्तनात आधिव्याधिप्रशमनं करियायॊगद्वयेन तु 23 मतिमन्तॊ हय अतॊ वैद्याः शमं पराग एव कुर्वते मानसस्य परियाख्यानैः संभॊगॊपनयैर नृणाम 24 मानसेन हि दुःखेन शरीरम उपतप्यते अयः पिण्डेन तप्तेन कुम्ब्भ संस्थाम इवॊदकम 25 मानसं शमयेत तस्माज जञानेनागिम इवाम्बुना परशान्ते मानसे दुःखे शारीरम उपशाम्यति 26 मनसॊ दुःखमूलं तु सनेह इत्य उपलभ्यते सनेहात तु सज्जते जन्तुर दुःखयॊगम उपैति च 27 सनेहमूलानि दुःखानि सनेहजानि भयानि च शॊकहर्षौ तथायासः सर्वं सनेहात परवर्तते 28 सनेहत करण रागश च परजज्ञे वैषयस तथा अश्रेयस्काव उभाव एतौ पूर्वस तत्र गुरुः समृतः 29 कॊटराग्निर यथाशेषं समूलं पादपं दहेत धर्मार्थिनं तथाल्पॊ ऽपि रागदॊषॊ विनाशयेत 30 विप्रयॊगे न तु तयागी दॊषदर्शी समागमात विरागं भजते जन्तुर निर्वैरॊ निष्परिग्रहः 31 तस्मात सनेहं सवपक्षेभ्यॊ मित्रेभ्यॊ धनसंचयात सवशरीरसमुत्थं तु जञानेन विनिवर्तयेत 32 जञानान्वितेषु मुख्येषु शास्त्रज्ञेषु कृतात्मसु न तेषु सज्जते सनेहः पद्मपत्रेष्व इवॊदकम 33 रागाभिभूतः पुरुषः कामेन परिकृष्यते इच्छा संजायते तस्य ततस तृष्णा परवर्तते 34 तृष्णा हि सर्वपापिष्ठा नित्यॊद्वेग करी नृणाम अधर्मबहुला चैव घॊरा पापानुबन्धिनी 35 या दुस्त्यजा दुर्मतिभिर या न जीर्यति जीर्यतः यॊ ऽसौ पराणान्तिकॊ रॊगस तां तृष्णां तयजतः सुखम 36 अनाद्य अन्ता तु सा तृष्णा अन्तर देहगता नृणाम विनाशयति संभूता अयॊनिज इवानलः 37 यथैधः सवसमुत्थेन वह्निना नाशम ऋच्छति तथाकृतात्मा लॊभेन सहजेन विनश्यति 38 राजतः सलिलाद अग्नेश चॊरतः सवजनाद अपि भयम अर्थवतां नित्यं मृत्यॊः पराणभृताम इव 39 यथा हय आमिषम आकाशे पक्षिभिः शवापदैर भुवि भक्ष्यते सलिले मत्स्यैस तथा सर्वेण वित्तवान 40 अर्थ एव हि केषां चिद अनर्थॊ भविता नृणाम अर्थश्रेयसि चासक्तॊ न शरेयॊ विन्दते नरः तस्माद अर्थागमाः सर्वे मनॊ मॊहविवर्धनाः 41 कार्पण्यं दर्पमानौ च भयम उद्वेग एव च अर्थजानि विदुः पराज्ञा दुःखान्य एतानि देहिनाम 42 अर्थस्यॊपार्जने दुःखं पालने च कषये तथा नाशे दुःखं वयये दुःखं घनन्ति चैवार्थ कारणात 43 अर्था दुःखं परित्यक्तुं पालिताश चापि ते ऽसुखाः दुःखेन चाधिगम्यन्ते तेषां नाशं न चिन्तयेत 44 असंतॊष परा मूढाः संतॊषं यान्ति पण्डिताः अन्तॊ नास्ति पिपासायाः संतॊषः परमं सुखम 45 तस्मात संतॊषम एवेह धनं पश्यन्ति पण्डिताः अनित्यं यौवनं रूपं जीवितं दरव्यसंचयः ऐश्वर्यं परिय संवासॊ गृध्येद एषु न पण्डितः 46 तयजेत संचयांस तस्मात तज्जं कलेशं सहेत कः न हि संचयवान कश चिद दृश्यते निरुपद्रवः 47 अतश च धर्मिभिः पुम्भिर अनीहार्थः परशस्यते परक्षालनाद धि पङ्कस्य दूराद अस्पर्शनं वरम 48 युधिष्ठिरैवम अर्थेषु न सपृहां कर्तुम अर्हसि धर्मेण यदि ते कार्यं विमुक्तेच्छॊ भवार्थतः 49 [य] नार्थॊपभॊग लिप्सार्थम इयम अर्थेप्सुता मम भरणार्थं तु विप्राणां बरह्मन काङ्क्षे न लॊभतः 50 कथं हय अस्मद्विधॊ बरह्मन वर्तमानॊ गृहाश्रमे भरणं पालनं चापि न कुर्याद अनुयायिनाम 51 संविभागॊ हि भूतानां सर्वेषाम एव शिष्यते तथैवॊपचमानेभ्यः परदेयं गृहमेधिना 52 तृणानि भूमिर उदकं वाक चतुर्थी च सूनृता सताम एतानि गेहेषु नॊच्छिद्यन्ते कदा चन 53 देयम आर्तस्य शयनं सथितश्रान्तस्य चासनम तृषितस्य च पानीयं कषुधितस्य च भॊजनम 54 चक्षुर अद्यान मनॊ दद्याद वाचं दद्याच च सूनृताम परत्युद्गम्याभिगमनं कुर्यान नयायेन चार्चनम 55 अघि हॊत्रम अनड्वांश च जञातयॊ ऽतिथिबान्धवाः पुत्रदारभृताश चैव निर्दहेयुर अपूजिताः 56 नात्मार्थं पाचयेद अन्नं न वृथा घातयेत पशून न च तत सवयम अश्नीयाद विधिवद यन न निर्वपेत 57 शवभ्यश च शवपचेभ्यश च वयॊभ्यश चावपेद भुवि वैश्वदेवं हि नामैतत सायंप्रातर विधीयते 58 विघसाशी भवेत तस्मान नित्यं चामृतभॊजनः विघसं भृत्यशेषं तु यज्ञशेषं तथामृतम 59 एतां यॊ वर्तते वृत्तिं वर्तमानॊ गृहाश्रमे तस्य धर्मं परं पराहुः कथं वा विप्र मन्यसे 60 [ष] अहॊ बत महत कष्टं विपरीतम इदं जगत येनापत्रपते साधुर असाधुस तेन तुष्यति 61 शिश्नॊदर कृते ऽपराज्ञः करॊति विघसं बहु मॊहरागसमाक्रान्त इन्द्रियार्थ वशानुगः 62 हरियते बुध्यमानॊ ऽपि नरॊ हारिभिर इन्द्रियैः विमूढसंज्ञॊ दुष्टाश्वैर उद्भ्रान्तैर इव सारथिः 63 षडिन्द्रियाणि विषयं समागच्छन्ति वै यदा तदा परादुर्भवत्य एषां पूर्वसंकल्पजं मनः 64 मनॊ यस्येन्द्रिय गरामविषयं परति चॊदितम तस्यौत्सुक्यं संभवति परवृत्तिश चॊपजायते 65 ततः संकल्पवीर्येण कामेन विषयेषुभिः विद्धः पतति लॊभाग्नौ जयॊतिर लॊभात पतंगवत 66 ततॊ विहारैर आहारैर मॊहितश च विशां पते महामॊहमुखे मग्ने नात्मानम अवबुध्यते 67 एवं पतति संसारे तासु तास्व इह यॊनिषु अविद्या कर्म तृष्णाभिर भराम्यमाणॊ ऽथ चक्रवत 68 बरह्मादिषु तृणान्तेषु हूतेषु परिवर्तते जले भुवि तथाकाशे जायमानः पुनः पुनः 69 अबुधानां गतिस तव एषा बुधानाम अपि मे शृणु ये धर्मे शरेयसि रता विमॊक्षरतयॊ जनाः 70 यद इदं वेद वचनं कुरु कर्म तयजेति च तस्माद धर्मान इमान सर्वान नाभिमानात समाचरेत 71 इज्याध्ययन दानानि तपः सत्यं कषमा दमः अलॊभ इति मार्गॊ ऽयं धर्मस्याष्ट विधः समृतः 72 तत्र पूर्वश चतुर्वर्गः पितृयानपथे सथितः कर्तव्यम इति यत कार्यं नाभिमानात समाचरेत 73 उत्तरॊ देव यानस तु सद्भिर आचरितः सदा अष्टाङ्गेनैव मार्गेण विशुद्धात्मा समाचरेत 74 सम्यक संकल्पसंबन्धात सम्यक चेन्द्रियनिग्रहात सम्यग वरतविशेषाच च सम्यक च गुरु सेवनात 75 सम्यग आहारयॊगाच च सम्यक चाध्ययनागमात सम्यक कर्मॊपसंन्यासात सम्यक चित्तनिरॊधनात एवं कर्माणि कुर्वन्ति संसारविजिगीषवः 76 रागद्वेषविनिर्मुक्ता ऐश्वर्यं देवता गताः रुद्राः साध्यास तथादित्या वसवॊ ऽथाश्विनाव अपि यॊगैश्वर्येण संयुक्ता धारयन्ति परजा इमाः 77 तथा तवम अपि कौन्तेय शमम आस्थाय पुष्कलम तपसा सिद्धिम अन्विच्छ यॊगसिद्धिं च भारत 78 पितृमातृमयी सिद्धिः पराप्ता कर्ममयी च ते तपसा सिद्धिम अन्विच्छ कुर्वते तद अनुग्रहात 79 सिद्धा हि यद यद इच्छन्ति कुर्वते तद अनुग्रहात तस्मात तपः समास्थाय कुरुष्वात्म मनॊरथम |
1
[v] prabhātāyāṃ tu śarvaryāṃ teṣām akliṣṭakarmaṇām vanaṃ yiyāsatāṃ viprās tasthur bhikṣā bhujo 'grataḥ tān uvāca tato rājā kuntīputro yudhiṣṭhiraḥ 2 vayaṃ hi hṛtasarvasvā hṛtarājyā hṛtaśriyaḥ phalamūlāmiṣāhārā vanaṃ yāsyāma duḥkhitāḥ 3 vanaṃ ca doṣabahulaṃ bahu vyālasarīsṛpam parikleśaś ca vo manye dhruvaṃ tatra bhaviṣyati 4 brāhmaṇānāṃ parikleśo daivatāny api sādayet kiṃ punar mām ito viprā nivartadhvaṃ yatheṣṭataḥ 5 [br] gatir yā bhavatāṃ rājaṃs tāṃ vayaṃ gantum udyatāḥ nārhathāsmān parityaktuṃ bhaktān sad dharmadarśinaḥ 6 anukampāṃ hi bhakteṣu daivatāny api kurvate viśeṣato brāhmaṇeṣu sad ācārāvalambiṣu 7 [y] mamāpi paramā bhaktir brāhmaṇeṣu sadā dvijāḥ sahāyaviparibhraṃśas tv ayaṃ sādayatīva mām 8 āhareyur hi me ye 'pi phalamūlamṛgāṃs tathā ta ime śokajair duḥkhair bhrātaro me vimohitāḥ 9 draupadyā viprakarṣeṇa rājyāpaharaṇena ca duḥkhānvitān imān kleśair nāhaṃ yoktum ihotsahe 10 [br] asmat poṣaṇajā cintā mā bhūt te hṛdi pārthiva svayam āhṛtya vanyāni anuyāsyāmahe vayam 11 anudhyānena japyena vidhāsyāmaḥ śivaṃ tava kathābhiś cānukūlābhiḥ saha raṃsyāmahe vane 12 [y] evam etan na saṃdeho rameyaṃ brāhmaṇaiḥ saha nyūna bhāvāt tu paśyāmi pratyādeśam ivātmanaḥ 13 kathaṃ drakṣyāmi vaḥ sarvān svayam āhṛta bhojanān madbhaktyā kliśyato 'narhān dhik pāpān dhṛtarāṣṭrajān 14 [v] ity uktvā sa nṛpaḥ śocan niṣasāda mahītale tam adhyātmaratir vidvāñ śaunako nāma vai dvijaḥ yoge sāṃkhye ca kuśalo rājānam idam abravīt 15 śokasthāna sahasrāṇi bhayasthāna śatāni ca divase divase mūḍham āviśanti na paṇḍitam 16 na hi jñānaviruddheṣu bahudoṣeṣu karmasu śreyo ghātiṣu sajjante buddhimanto bhavadvidhāḥ 17 aṣṭāṅgāṃ buddhim āhur yāṃ sarvāśreyo vighātinīm śrutismṛtisamāyuktāṃ sā rājaṃs tvayy avasthitā 18 arthakṛcchreṣu durgeṣu vyāpatsu svajanasya ca śārīra mānasair duḥkhair na sīdanti bhavadvidhāḥ 19 śrūyatāṃ cābhidhāsyāmi janakena yathā purā ātmavyavasthāna karā gītāḥ ślokā mahātmanā 20 mano dehasamutthābhyāṃ duḥkhābhyām arditaṃ jagat tayor vyāsa samāsābhyāṃ śamopāyam imaṃ śṛṇu 21 vyādher aniṣṭa saṃsparśāc chramād iṣṭavivarjanāt duḥkhaṃ caturbhir śārīraṃ kāraṇaiḥ saṃpravartate 22 tad āśu pratikārāc ca satataṃ cāvicintanāt ādhivyādhipraśamanaṃ kriyāyogadvayena tu 23 matimanto hy ato vaidyāḥ śamaṃ prāg eva kurvate mānasasya priyākhyānaiḥ saṃbhogopanayair nṛṇām 24 mānasena hi duḥkhena śarīram upatapyate ayaḥ piṇḍena taptena kumbbha saṃsthām ivodakam 25 mānasaṃ śamayet tasmāj jñānenāgim ivāmbunā praśānte mānase duḥkhe śārīram upaśāmyati 26 manaso duḥkhamūlaṃ tu sneha ity upalabhyate snehāt tu sajjate jantur duḥkhayogam upaiti ca 27 snehamūlāni duḥkhāni snehajāni bhayāni ca śokaharṣau tathāyāsaḥ sarvaṃ snehāt pravartate 28 snehat karaṇa rāgaś ca prajajñe vaiṣayas tathā aśreyaskāv ubhāv etau pūrvas tatra guruḥ smṛtaḥ 29 koṭarāgnir yathāśeṣaṃ samūlaṃ pādapaṃ dahet dharmārthinaṃ tathālpo 'pi rāgadoṣo vināśayet 30 viprayoge na tu tyāgī doṣadarśī samāgamāt virāgaṃ bhajate jantur nirvairo niṣparigrahaḥ 31 tasmāt snehaṃ svapakṣebhyo mitrebhyo dhanasaṃcayāt svaśarīrasamutthaṃ tu jñānena vinivartayet 32 jñānānviteṣu mukhyeṣu śāstrajñeṣu kṛtātmasu na teṣu sajjate snehaḥ padmapatreṣv ivodakam 33 rāgābhibhūtaḥ puruṣaḥ kāmena parikṛṣyate icchā saṃjāyate tasya tatas tṛṣṇā pravartate 34 tṛṣṇā hi sarvapāpiṣṭhā nityodvega karī nṛṇām adharmabahulā caiva ghorā pāpānubandhinī 35 yā dustyajā durmatibhir yā na jīryati jīryataḥ yo 'sau prāṇāntiko rogas tāṃ tṛṣṇāṃ tyajataḥ sukham 36 anādy antā tu sā tṛṣṇā antar dehagatā nṛṇām vināśayati saṃbhūtā ayonija ivānalaḥ 37 yathaidhaḥ svasamutthena vahninā nāśam ṛcchati tathākṛtātmā lobhena sahajena vinaśyati 38 rājataḥ salilād agneś corataḥ svajanād api bhayam arthavatāṃ nityaṃ mṛtyoḥ prāṇabhṛtām iva 39 yathā hy āmiṣam ākāśe pakṣibhiḥ śvāpadair bhuvi bhakṣyate salile matsyais tathā sarveṇa vittavān 40 artha eva hi keṣāṃ cid anartho bhavitā nṛṇām arthaśreyasi cāsakto na śreyo vindate naraḥ tasmād arthāgamāḥ sarve mano mohavivardhanāḥ 41 kārpaṇyaṃ darpamānau ca bhayam udvega eva ca arthajāni viduḥ prājñā duḥkhāny etāni dehinām 42 arthasyopārjane duḥkhaṃ pālane ca kṣaye tathā nāśe duḥkhaṃ vyaye duḥkhaṃ ghnanti caivārtha kāraṇāt 43 arthā duḥkhaṃ parityaktuṃ pālitāś cāpi te 'sukhāḥ duḥkhena cādhigamyante teṣāṃ nāśaṃ na cintayet 44 asaṃtoṣa parā mūḍhāḥ saṃtoṣaṃ yānti paṇḍitāḥ anto nāsti pipāsāyāḥ saṃtoṣaḥ paramaṃ sukham 45 tasmāt saṃtoṣam eveha dhanaṃ paśyanti paṇḍitāḥ anityaṃ yauvanaṃ rūpaṃ jīvitaṃ dravyasaṃcayaḥ aiśvaryaṃ priya saṃvāso gṛdhyed eṣu na paṇḍitaḥ 46 tyajeta saṃcayāṃs tasmāt tajjaṃ kleśaṃ saheta kaḥ na hi saṃcayavān kaś cid dṛśyate nirupadravaḥ 47 ataś ca dharmibhiḥ pumbhir anīhārthaḥ praśasyate prakṣālanād dhi paṅkasya dūrād asparśanaṃ varam 48 yudhiṣṭhiraivam artheṣu na spṛhāṃ kartum arhasi dharmeṇa yadi te kāryaṃ vimukteccho bhavārthataḥ 49 [y] nārthopabhoga lipsārtham iyam arthepsutā mama bharaṇārthaṃ tu viprāṇāṃ brahman kāṅkṣe na lobhataḥ 50 kathaṃ hy asmadvidho brahman vartamāno gṛhāśrame bharaṇaṃ pālanaṃ cāpi na kuryād anuyāyinām 51 saṃvibhāgo hi bhūtānāṃ sarveṣām eva śiṣyate tathaivopacamānebhyaḥ pradeyaṃ gṛhamedhinā 52 tṛṇāni bhūmir udakaṃ vāk caturthī ca sūnṛtā satām etāni geheṣu nocchidyante kadā cana 53 deyam ārtasya śayanaṃ sthitaśrāntasya cāsanam tṛṣitasya ca pānīyaṃ kṣudhitasya ca bhojanam 54 cakṣur adyān mano dadyād vācaṃ dadyāc ca sūnṛtām pratyudgamyābhigamanaṃ kuryān nyāyena cārcanam 55 aghi hotram anaḍvāṃś ca jñātayo 'tithibāndhavāḥ putradārabhṛtāś caiva nirdaheyur apūjitāḥ 56 nātmārthaṃ pācayed annaṃ na vṛthā ghātayet paśūn na ca tat svayam aśnīyād vidhivad yan na nirvapet 57 śvabhyaś ca śvapacebhyaś ca vayobhyaś cāvaped bhuvi vaiśvadevaṃ hi nāmaitat sāyaṃprātar vidhīyate 58 vighasāśī bhavet tasmān nityaṃ cāmṛtabhojanaḥ vighasaṃ bhṛtyaśeṣaṃ tu yajñaśeṣaṃ tathāmṛtam 59 etāṃ yo vartate vṛttiṃ vartamāno gṛhāśrame tasya dharmaṃ paraṃ prāhuḥ kathaṃ vā vipra manyase 60 [ṣ] aho bata mahat kaṣṭaṃ viparītam idaṃ jagat yenāpatrapate sādhur asādhus tena tuṣyati 61 śiśnodara kṛte 'prājñaḥ karoti vighasaṃ bahu moharāgasamākrānta indriyārtha vaśānugaḥ 62 hriyate budhyamāno 'pi naro hāribhir indriyaiḥ vimūḍhasaṃjño duṣṭāśvair udbhrāntair iva sārathiḥ 63 ṣaḍindriyāṇi viṣayaṃ samāgacchanti vai yadā tadā prādurbhavaty eṣāṃ pūrvasaṃkalpajaṃ manaḥ 64 mano yasyendriya grāmaviṣayaṃ prati coditam tasyautsukyaṃ saṃbhavati pravṛttiś copajāyate 65 tataḥ saṃkalpavīryeṇa kāmena viṣayeṣubhiḥ viddhaḥ patati lobhāgnau jyotir lobhāt pataṃgavat 66 tato vihārair āhārair mohitaś ca viśāṃ pate mahāmohamukhe magne nātmānam avabudhyate 67 evaṃ patati saṃsāre tāsu tāsv iha yoniṣu avidyā karma tṛṣṇābhir bhrāmyamāṇo 'tha cakravat 68 brahmādiṣu tṛṇānteṣu hūteṣu parivartate jale bhuvi tathākāśe jāyamānaḥ punaḥ punaḥ 69 abudhānāṃ gatis tv eṣā budhānām api me śṛṇu ye dharme śreyasi ratā vimokṣaratayo janāḥ 70 yad idaṃ veda vacanaṃ kuru karma tyajeti ca tasmād dharmān imān sarvān nābhimānāt samācaret 71 ijyādhyayana dānāni tapaḥ satyaṃ kṣamā damaḥ alobha iti mārgo 'yaṃ dharmasyāṣṭa vidhaḥ smṛtaḥ 72 tatra pūrvaś caturvargaḥ pitṛyānapathe sthitaḥ kartavyam iti yat kāryaṃ nābhimānāt samācaret 73 uttaro deva yānas tu sadbhir ācaritaḥ sadā aṣṭāṅgenaiva mārgeṇa viśuddhātmā samācaret 74 samyak saṃkalpasaṃbandhāt samyak cendriyanigrahāt samyag vrataviśeṣāc ca samyak ca guru sevanāt 75 samyag āhārayogāc ca samyak cādhyayanāgamāt samyak karmopasaṃnyāsāt samyak cittanirodhanāt evaṃ karmāṇi kurvanti saṃsāravijigīṣavaḥ 76 rāgadveṣavinirmuktā aiśvaryaṃ devatā gatāḥ rudrāḥ sādhyās tathādityā vasavo 'thāśvināv api yogaiśvaryeṇa saṃyuktā dhārayanti prajā imāḥ 77 tathā tvam api kaunteya śamam āsthāya puṣkalam tapasā siddhim anviccha yogasiddhiṃ ca bhārata 78 pitṛmātṛmayī siddhiḥ prāptā karmamayī ca te tapasā siddhim anviccha kurvate tad anugrahāt 79 siddhā hi yad yad icchanti kurvate tad anugrahāt tasmāt tapaḥ samāsthāya kuruṣvātma manoratham |
The Mahabharata in Sanskrit
Book 3
Chapter 3
|
1
[व] शौनकेनैवम उक्तस तु कुन्तीपुत्रॊ युधिष्ठिरः पुरॊहितम उपागम्य भरातृमध्ये ऽबरवीद इदम 2 परस्थितं मानुयान्तीमे बराह्मणा वेदपारगाः न चास्मि पालने शक्तॊ बहुदुःखसमन्वितः 3 परित्यक्तुं न शक्नॊमि दानशक्तिश च नास्ति मे कथम अत्र मया कार्यं भगवांस तद बरवीतु मे 4 मुहूर्तम इव स धयात्वा धर्मेणान्विष्य तां गतिम युधिष्ठिरम उवाचेदं धौम्यॊ धर्मभृतां वरः 5 पुरा सृष्टनि भूतानि पीड्यन्ते कषुधया भृशम ततॊ ऽनुकम्पया तेषां सविता सवपिता इव 6 गत्वॊत्तरायणं तेजॊ रसान उद्धृत्य रश्मिभिः दक्षिणायनम आवृत्तॊ महीं निविशते रविः 7 कषेत्रभूते ततस तस्मिन्न ओषधीर ओषधी पतिः दिवस तेजः समुद्धृत्य जनयाम आस वारिणा 8 निषिक्तश चन्द्र तेजॊभिः सूयते भूगतॊ रविः ओषध्यः षड्रसा मेध्यास तदन्नं पराणिनां भुवि 9 एवं भानुमयं हय अन्नं भूतानां पराणधारणम पितैष सर्वभूतानां तस्मात तं शरणं वरज 10 राजानॊ हि महात्मानॊ यॊनिकर्म विशॊधिताः उद्धरन्ति परजाः सर्वास तप आस्थाय पुष्कलम 11 भीमेन कार्तवीर्येण वैन्येन नहुषेण च तपॊयॊगसमाधिस्थैर उद्धृता हय आपदः परजाः 12 तथा तवम अपि धर्मात्मन कर्मणा च विशॊधितः तप आस्थाय धर्मेण दविजातीन भर भारत 13 एवम उक्तस तु धौम्येन तत कालसदृशं वचः धर्मराजॊ विशुद्धात्मा तप आतिष्ठद उत्तमम 14 पुष्पॊपहारैर बलिभिर अर्चयित्वा दिवाकरम यॊगम आस्थाय धर्मात्मा वायुभक्षॊ जितेन्द्रियः गाङ्गेयं वार्य उपस्पृष्य पराणायामेन तस्थिवान 15 [ज] कथं कुरूणाम ऋषभः स तु राजा युधिष्ठिरः विप्रार्थम आराधितवान सूर्यम अद्भुतविक्रमम 16 [व] शृणुष्वावहितॊ राजञ शुचिर भूत्वा समाहितः कषणं च कुरु राजेन्द्र सर्वं वक्ष्याम्य अशेषतः 17 धौम्येन तु यथ परॊक्तं पार्थाय सुमहात्मने नाम्नाम अष्ट शतं पुण्यं तच छृणुष्व महामते 18 सूर्यॊ ऽरयमा भगस तवष्टा पूषार्कः सविता रविः गभस्तिमान अजः कालॊ मृत्युर धाता परभा करः 19 पृथिव्य आपश च तेजश च खं वायुश च परायणम सॊमॊ बृहस्पतिः शुक्रॊ बुधॊ ऽङगारक एव च 20 इन्द्रॊ विवस्व्वान दीप्तांशुः शुचिः शौरिः शनैश्चरः बरह्मा विष्णुश च रुद्रश च सकन्दॊ वैश्वरणॊ यमः 21 वैद्युतॊ जाठरश चागिर ऐन्धनस तेजसां पतिः धर्मध्वजॊ वेद कर्ता वेदाङ्गॊ वेद वाहनः 22 कृतं तरेता दवापरश च कलिः सर्वामराश्रयः कला काष्ठा मुहुर्ताश च पक्षा मासा ऋतुस तथा 23 संवत्सरकरॊ ऽशवत्थः कालचक्रॊ विभावसुः पुरुषः शाश्वतॊ यॊगी वयक्ताव्यक्तः सनातनः 24 लॊकाध्यक्षः परजाध्यक्षॊ विश्वकर्मा तमॊनुदः वरुणः सागरॊ ऽंशुश च जीमूतॊ जीवनॊ ऽरिहा 25 भूताश्रयॊ भूतपतिः सर्वभूतनिषेवितः मणिः सुवर्णॊ भूतादिः कामदः सर्वतॊ मुखः 26 जयॊ विशालॊ वरदः शीघ्रगः पराणधारणः धन्वन्तरिर धूमकेतुर आदिदेवॊ ऽदितेः सुतः 27 दवादशात्मारविन्दाक्षः पिता माता पितामहः सवर्गद्वारं परजा दवारं मॊक्षद्वारं तरिविष्टपम 28 देहकर्ता परशान्तात्मा विश्वात्मा विश्वतॊमुखः चराचरात्मा सूक्ष्मात्मा मैत्रेण वपुषान्वितः 29 एतद वै कीर्तनीयस्य सूर्यस्यैव महात्मनः नाम्नाम अष्ट शतं पुण्यं शक्रेणॊक्तं महात्मना 30 शक्राच च नारदः पराप्तॊ धौम्यश च तदनन्तरम धौम्याद युधिष्ठिरः पराप्य सर्वान कामान अवाप्तवान 31 सुरपितृगणयक्षसेवितं; हय असुरनिशाचरसिद्धवन्दितम वरकनकहुताशनप्रभं; तवम अपि मनस्य अभिधेहि भास्करम 32 सूर्यॊदये यस तु समाहितः पठेत; सपुत्रलाभं धनरत्नसंचयान लभेत जातिस्मरतां सदा नरः; समृतिं च मेधां च स विन्दते पराम 33 इमं सतवं देववरस्य यॊ नरः; परकीर्तयेच छुचि सुमनाः समाहितः स मुच्यते शॊकदवाग्निसागराल; लभेत कामान मनसा यथेप्सितान |
1
[v] śaunakenaivam uktas tu kuntīputro yudhiṣṭhiraḥ purohitam upāgamya bhrātṛmadhye 'bravīd idam 2 prasthitaṃ mānuyāntīme brāhmaṇā vedapāragāḥ na cāsmi pālane śakto bahuduḥkhasamanvitaḥ 3 parityaktuṃ na śaknomi dānaśaktiś ca nāsti me katham atra mayā kāryaṃ bhagavāṃs tad bravītu me 4 muhūrtam iva sa dhyātvā dharmeṇānviṣya tāṃ gatim yudhiṣṭhiram uvācedaṃ dhaumyo dharmabhṛtāṃ varaḥ 5 purā sṛṣṭani bhūtāni pīḍyante kṣudhayā bhṛśam tato 'nukampayā teṣāṃ savitā svapitā iva 6 gatvottarāyaṇaṃ tejo rasān uddhṛtya raśmibhiḥ dakṣiṇāyanam āvṛtto mahīṃ niviśate raviḥ 7 kṣetrabhūte tatas tasminn oṣadhīr oṣadhī patiḥ divas tejaḥ samuddhṛtya janayām āsa vāriṇā 8 niṣiktaś candra tejobhiḥ sūyate bhūgato raviḥ oṣadhyaḥ ṣaḍrasā medhyās tadannaṃ prāṇināṃ bhuvi 9 evaṃ bhānumayaṃ hy annaṃ bhūtānāṃ prāṇadhāraṇam pitaiṣa sarvabhūtānāṃ tasmāt taṃ śaraṇaṃ vraja 10 rājāno hi mahātmāno yonikarma viśodhitāḥ uddharanti prajāḥ sarvās tapa āsthāya puṣkalam 11 bhīmena kārtavīryeṇa vainyena nahuṣeṇa ca tapoyogasamādhisthair uddhṛtā hy āpadaḥ prajāḥ 12 tathā tvam api dharmātman karmaṇā ca viśodhitaḥ tapa āsthāya dharmeṇa dvijātīn bhara bhārata 13 evam uktas tu dhaumyena tat kālasadṛśaṃ vacaḥ dharmarājo viśuddhātmā tapa ātiṣṭhad uttamam 14 puṣpopahārair balibhir arcayitvā divākaram yogam āsthāya dharmātmā vāyubhakṣo jitendriyaḥ gāṅgeyaṃ vāry upaspṛṣya prāṇāyāmena tasthivān 15 [j] kathaṃ kurūṇām ṛṣabhaḥ sa tu rājā yudhiṣṭhiraḥ viprārtham ārādhitavān sūryam adbhutavikramam 16 [v] śṛṇuṣvāvahito rājañ śucir bhūtvā samāhitaḥ kṣaṇaṃ ca kuru rājendra sarvaṃ vakṣyāmy aśeṣataḥ 17 dhaumyena tu yatha proktaṃ pārthāya sumahātmane nāmnām aṣṭa śataṃ puṇyaṃ tac chṛṇuṣva mahāmate 18 sūryo 'ryamā bhagas tvaṣṭā pūṣārkaḥ savitā raviḥ gabhastimān ajaḥ kālo mṛtyur dhātā prabhā karaḥ 19 pṛthivy āpaś ca tejaś ca khaṃ vāyuś ca parāyaṇam somo bṛhaspatiḥ śukro budho 'ṅgāraka eva ca 20 indro vivasvvān dīptāṃśuḥ śuciḥ śauriḥ śanaiścaraḥ brahmā viṣṇuś ca rudraś ca skando vaiśvaraṇo yamaḥ 21 vaidyuto jāṭharaś cāgir aindhanas tejasāṃ patiḥ dharmadhvajo veda kartā vedāṅgo veda vāhanaḥ 22 kṛtaṃ tretā dvāparaś ca kaliḥ sarvāmarāśrayaḥ kalā kāṣṭhā muhurtāś ca pakṣā māsā ṛtus tathā 23 saṃvatsarakaro 'śvatthaḥ kālacakro vibhāvasuḥ puruṣaḥ śāśvato yogī vyaktāvyaktaḥ sanātanaḥ 24 lokādhyakṣaḥ prajādhyakṣo viśvakarmā tamonudaḥ varuṇaḥ sāgaro 'ṃśuś ca jīmūto jīvano 'rihā 25 bhūtāśrayo bhūtapatiḥ sarvabhūtaniṣevitaḥ maṇiḥ suvarṇo bhūtādiḥ kāmadaḥ sarvato mukhaḥ 26 jayo viśālo varadaḥ śīghragaḥ prāṇadhāraṇaḥ dhanvantarir dhūmaketur ādidevo 'diteḥ sutaḥ 27 dvādaśātmāravindākṣaḥ pitā mātā pitāmahaḥ svargadvāraṃ prajā dvāraṃ mokṣadvāraṃ triviṣṭapam 28 dehakartā praśāntātmā viśvātmā viśvatomukhaḥ carācarātmā sūkṣmātmā maitreṇa vapuṣānvitaḥ 29 etad vai kīrtanīyasya sūryasyaiva mahātmanaḥ nāmnām aṣṭa śataṃ puṇyaṃ śakreṇoktaṃ mahātmanā 30 śakrāc ca nāradaḥ prāpto dhaumyaś ca tadanantaram dhaumyād yudhiṣṭhiraḥ prāpya sarvān kāmān avāptavān 31 surapitṛgaṇayakṣasevitaṃ; hy asuraniśācarasiddhavanditam varakanakahutāśanaprabhaṃ; tvam api manasy abhidhehi bhāskaram 32 sūryodaye yas tu samāhitaḥ paṭhet; saputralābhaṃ dhanaratnasaṃcayān labheta jātismaratāṃ sadā naraḥ; smṛtiṃ ca medhāṃ ca sa vindate parām 33 imaṃ stavaṃ devavarasya yo naraḥ; prakīrtayec chuci sumanāḥ samāhitaḥ sa mucyate śokadavāgnisāgarāl; labheta kāmān manasā yathepsitān |
The Mahabharata in Sanskrit
Book 3
Chapter 4
|
1
[व] ततॊ दिवाकरः परीतॊ दर्शयाम आस पाण्डवम दीप्यमानः सववपुषा जवलन्न इव हुताशनः 2 यत ते ऽभिलषितं राजन सर्वम एतद अवाप्स्यसि अहम अन्नं परदास्यामि सप्त पञ्च च ते समाः 3 फलमूलामिषं शाकं संस्कृतं यन महानसे चतुर्विधं तदन्नाद्यम अक्षय्यं ते भविष्यति धनं च विविधं तुभ्यम इत्य उक्त्वान्तरधीयत 4 लब्ध्वा वरं तु कौन्तेयॊ जलाद उत्तीर्य धर्मवित जग्राह पादौ धौम्यस्य भरातॄंश चास्वजताच्युतः 5 दरौपद्या सह संगम्य पश्यमानॊ ऽभययात परभुः महानसे तदान्नं तु साधयाम आस पाण्डवः 6 संस्कृतं परसवं याति वन्यम अन्नं चतुर्विधम अक्षय्यं वर्धते चान्नं तेन भॊजयते दविजान 7 भुक्तवत्सु च विप्रेषु भॊजयित्वानुजान अपि शेषं विघस संज्ञं तु पश्चाद भुङ्क्ते युधिष्ठिरः युधिष्ठिरं भॊजयित्वा शेषम अश्नाति पार्षती 8 एवं दिवाकरात पराप्य दिवाकरसमद्युतिः कामान मनॊ ऽभिलषितान बराह्मणेभ्यॊ ददौ परभुः 9 पुरॊहित पुरॊगाश च तिथि नक्षत्रपर्वसु यज्ञियार्थः परवर्तन्ते विधिमन्त्रप्रमाणतः 10 ततः कृतस्वस्त्ययना धौम्येन सह पाण्डवाः दविजसंघैः परिवृताः परययुः काम्यकं वनम |
1
[v] tato divākaraḥ prīto darśayām āsa pāṇḍavam dīpyamānaḥ svavapuṣā jvalann iva hutāśanaḥ 2 yat te 'bhilaṣitaṃ rājan sarvam etad avāpsyasi aham annaṃ pradāsyāmi sapta pañca ca te samāḥ 3 phalamūlāmiṣaṃ śākaṃ saṃskṛtaṃ yan mahānase caturvidhaṃ tadannādyam akṣayyaṃ te bhaviṣyati dhanaṃ ca vividhaṃ tubhyam ity uktvāntaradhīyata 4 labdhvā varaṃ tu kaunteyo jalād uttīrya dharmavit jagrāha pādau dhaumyasya bhrātṝṃś cāsvajatācyutaḥ 5 draupadyā saha saṃgamya paśyamāno 'bhyayāt prabhuḥ mahānase tadānnaṃ tu sādhayām āsa pāṇḍavaḥ 6 saṃskṛtaṃ prasavaṃ yāti vanyam annaṃ caturvidham akṣayyaṃ vardhate cānnaṃ tena bhojayate dvijān 7 bhuktavatsu ca vipreṣu bhojayitvānujān api śeṣaṃ vighasa saṃjñaṃ tu paścād bhuṅkte yudhiṣṭhiraḥ yudhiṣṭhiraṃ bhojayitvā śeṣam aśnāti pārṣatī 8 evaṃ divākarāt prāpya divākarasamadyutiḥ kāmān mano 'bhilaṣitān brāhmaṇebhyo dadau prabhuḥ 9 purohita purogāś ca tithi nakṣatraparvasu yajñiyārthaḥ pravartante vidhimantrapramāṇataḥ 10 tataḥ kṛtasvastyayanā dhaumyena saha pāṇḍavāḥ dvijasaṃghaiḥ parivṛtāḥ prayayuḥ kāmyakaṃ vanam |
The Mahabharata in Sanskrit
Book 3
Chapter 5
|
1
[व] वनं परविष्टेष्व अथ पाण्डवेषु; परज्ञा चक्षुस तप्यमानॊ ऽमबिकेयः धर्मात्मानं विदुरम अगाध बुद्धिं; सुखासीनॊ वाक्यम उवाच राजा 2 परज्ञा च ते भार्गवस्येव शुद्धा; धर्मं च तवं परमं वेत्थ सूक्ष्मम समश च तवं संमतः कौरवाणां; पथ्यं चैषां मम चैव बरवीहि 3 एवंगते विदुर यद अद्य कार्यं; पौराश चेमे कथम अस्मान भजेरन ते चाप्य अस्मान नॊद्धरेयुः समूलान; न कामये तांश च विनश्यमाना 4 [वि] तरिगर्तॊ ऽयं धर्ममूलॊ नरेन्द्र; राज्यं चेदं धर्ममूलं वदन्ति धर्मे राजन वर्तमानः सवशक्त्या; पुत्रान सर्वान पाहि कुन्तीसुतांश च 5 स वै धर्मॊ विप्रलुप्तः सभायां; पापात्मभिः सौबलेय परधानैः आहूय कुन्तीसुतम अक्षवत्यां; पराजैषीत सत्यसंधं सुतस ते 6 एतस्य ते दुष्प्रणीतस्य राजञ; शेषस्याहं परिपश्याम्य उपायम यथा पुत्रस तव कौरव्य पापान; मुक्तॊ लॊके परतितिष्ठेत साधु 7 तद वै सर्वं पाण्डुपुत्रा लभन्तां; यत तद राजन्न अतिसृष्टं तवयासीत एष धर्मः परमॊ यत सवकेन; राजा तुष्येन अन परस्वेषु गृध्येत 8 एतत कार्यं तव सर्वप्रधानं; तेषां तुष्टिः शकुनेश चावमानः एवं शेषं यदि पुत्रेषु ते सयाद; एतद राजंस तवरमाणः कुरुष्व 9 अथैतद एवं न करॊषि राजन; धरुवं कुरूणां भविता विनाशः न हि करुद्धॊ भीमसेनॊ ऽरजुनॊ वा; शेषं कुर्याच छात्रवाणाम अनीके 10 येषां यॊद्धा सव्यसाची कृतास्त्रॊ; धनुर येषां पाण्डिवं लॊकसारम येषां भीमॊ बाहुशाली च यॊद्धा; तेषां लॊके किं नु न पराप्यम अस्ति 11 उक्तं पूर्वं जातमात्रे सुते ते; मया यत ते हितम आसीत तदानीम पुत्रं तयजेमम अहितं कुलस्येत्य; एतद राजन न च तत तवं चकर्थ इदानीं ते हितम उक्तं न चेत तवं; कर्तासि राजन परितप्तासि पश्चात 12 यद्य एतद एवम अनुमन्ता सुतस ते; संप्रीयमाणः पाण्डवैर एकराज्यम तापॊ न ते वै भविता परीतियॊगात; तवं चेन न गृह्णासि सुतं सहायैः अथापरॊ भवति हि तं निगृह्य; पाण्डॊः पुत्रं परकुरुष्वाधिपत्ये 13 अजातशत्रुर हि विमुक्तरागॊ; धर्मेणेमां पृथिवीं शास्तु राजन ततॊ राजन पार्थिवाः सर्व एव; वैश्या इवास्मान उपतिष्ठन्तु सद्यः 14 दुर्यॊधनः शकुनिः सूतपुत्रः; परीत्या राजन पाण्डुपुत्रान भजन्ताम दुःशासनॊ याचतु भीमसेनं; सभामध्ये दरुपदस्यात्मजां च 15 युधिष्ठिरं तवं परिसान्त्वयस्व; राज्ये चैनं सथापयस्वाभिपूज्य तवया पृष्ठः किम अहम अन्यद वदेयम; एतत कृत्वा कृतकृत्यॊ ऽसि राजन 16 [धृ] एतद वाक्यं विदुर यत ते सभायाम; इह परॊक्तं पाण्डवान पराप्य मां च हितं तेषाम अहितं मामकानाम; एतत सर्वं मम नॊपैति चेतः 17 इदं तव इदानीं कुत एव निश्चितं; तेषाम अर्थे पाण्डवानां यद आत्थ तेनाद्य मन्ये नासि हितॊ ममेति; कथं हि पुत्रं पाण्डवार्थे तयजेयम 18 असंशयं ते ऽपि ममैव पुत्रा; दुर्यॊधनस तु मम देहात परसूतः सवं वै देहं परहेतॊस तयजेति; कॊ नु बरूयात समताम अन्ववेक्षन 19 स मा जिह्मं विदुर सर्वं बरवीषि; मानं च ते ऽहम अधिकं धारयामि यथेच्छकं गच्छ वा तिष्ठ वा तवं; सुसान्त्व्यमानाप्य असती सत्री जहाति 20 [व] एतावद उक्त्वा धृतराष्ट्रॊ ऽनवपद्यद; अन्तर वेश्म सहसॊत्थाय राजन नेदम अस्तीत्य अथ विदुरॊ भाषमाणः; संप्राद्रवद यत्र पार्थ बभूवुः |
1
[v] vanaṃ praviṣṭeṣv atha pāṇḍaveṣu; prajñā cakṣus tapyamāno 'mbikeyaḥ dharmātmānaṃ viduram agādha buddhiṃ; sukhāsīno vākyam uvāca rājā 2 prajñā ca te bhārgavasyeva śuddhā; dharmaṃ ca tvaṃ paramaṃ vettha sūkṣmam samaś ca tvaṃ saṃmataḥ kauravāṇāṃ; pathyaṃ caiṣāṃ mama caiva bravīhi 3 evaṃgate vidura yad adya kāryaṃ; paurāś ceme katham asmān bhajeran te cāpy asmān noddhareyuḥ samūlān; na kāmaye tāṃś ca vinaśyamānā 4 [vi] trigarto 'yaṃ dharmamūlo narendra; rājyaṃ cedaṃ dharmamūlaṃ vadanti dharme rājan vartamānaḥ svaśaktyā; putrān sarvān pāhi kuntīsutāṃś ca 5 sa vai dharmo vipraluptaḥ sabhāyāṃ; pāpātmabhiḥ saubaleya pradhānaiḥ āhūya kuntīsutam akṣavatyāṃ; parājaiṣīt satyasaṃdhaṃ sutas te 6 etasya te duṣpraṇītasya rājañ; śeṣasyāhaṃ paripaśyāmy upāyam yathā putras tava kauravya pāpān; mukto loke pratitiṣṭheta sādhu 7 tad vai sarvaṃ pāṇḍuputrā labhantāṃ; yat tad rājann atisṛṣṭaṃ tvayāsīt eṣa dharmaḥ paramo yat svakena; rājā tuṣyen an parasveṣu gṛdhyet 8 etat kāryaṃ tava sarvapradhānaṃ; teṣāṃ tuṣṭiḥ śakuneś cāvamānaḥ evaṃ śeṣaṃ yadi putreṣu te syād; etad rājaṃs tvaramāṇaḥ kuruṣva 9 athaitad evaṃ na karoṣi rājan; dhruvaṃ kurūṇāṃ bhavitā vināśaḥ na hi kruddho bhīmaseno 'rjuno vā; śeṣaṃ kuryāc chātravāṇām anīke 10 yeṣāṃ yoddhā savyasācī kṛtāstro; dhanur yeṣāṃ pāṇḍivaṃ lokasāram yeṣāṃ bhīmo bāhuśālī ca yoddhā; teṣāṃ loke kiṃ nu na prāpyam asti 11 uktaṃ pūrvaṃ jātamātre sute te; mayā yat te hitam āsīt tadānīm putraṃ tyajemam ahitaṃ kulasyety; etad rājan na ca tat tvaṃ cakartha idānīṃ te hitam uktaṃ na cet tvaṃ; kartāsi rājan paritaptāsi paścāt 12 yady etad evam anumantā sutas te; saṃprīyamāṇaḥ pāṇḍavair ekarājyam tāpo na te vai bhavitā prītiyogāt; tvaṃ cen na gṛhṇāsi sutaṃ sahāyaiḥ athāparo bhavati hi taṃ nigṛhya; pāṇḍoḥ putraṃ prakuruṣvādhipatye 13 ajātaśatrur hi vimuktarāgo; dharmeṇemāṃ pṛthivīṃ śāstu rājan tato rājan pārthivāḥ sarva eva; vaiśyā ivāsmān upatiṣṭhantu sadyaḥ 14 duryodhanaḥ śakuniḥ sūtaputraḥ; prītyā rājan pāṇḍuputrān bhajantām duḥśāsano yācatu bhīmasenaṃ; sabhāmadhye drupadasyātmajāṃ ca 15 yudhiṣṭhiraṃ tvaṃ parisāntvayasva; rājye cainaṃ sthāpayasvābhipūjya tvayā pṛṣṭhaḥ kim aham anyad vadeyam; etat kṛtvā kṛtakṛtyo 'si rājan 16 [dhṛ] etad vākyaṃ vidura yat te sabhāyām; iha proktaṃ pāṇḍavān prāpya māṃ ca hitaṃ teṣām ahitaṃ māmakānām; etat sarvaṃ mama nopaiti cetaḥ 17 idaṃ tv idānīṃ kuta eva niścitaṃ; teṣām arthe pāṇḍavānāṃ yad āttha tenādya manye nāsi hito mameti; kathaṃ hi putraṃ pāṇḍavārthe tyajeyam 18 asaṃśayaṃ te 'pi mamaiva putrā; duryodhanas tu mama dehāt prasūtaḥ svaṃ vai dehaṃ parahetos tyajeti; ko nu brūyāt samatām anvavekṣan 19 sa mā jihmaṃ vidura sarvaṃ bravīṣi; mānaṃ ca te 'ham adhikaṃ dhārayāmi yathecchakaṃ gaccha vā tiṣṭha vā tvaṃ; susāntvyamānāpy asatī strī jahāti 20 [v] etāvad uktvā dhṛtarāṣṭro 'nvapadyad; antar veśma sahasotthāya rājan nedam astīty atha viduro bhāṣamāṇaḥ; saṃprādravad yatra pārtha babhūvuḥ |
The Mahabharata in Sanskrit
Book 3
Chapter 6
|
1
[व] पाण्डवास तु वने वासम उद्दिश्य भरतर्षभाः परययुर जाह्नवी कूलात कुरुक्षेत्रं सहानुगाः 2 सरस्वती दृषद्वत्यौ यमुनां च निषेव्य ते ययुर वनेनैव वनं सततं पश्चिमां दिशम 3 ततः सरस्वती कूले समेषु मरु धन्वसु काम्यकं नाम ददृशुर वनं मुनिजनप्रियम 4 तत्र ते नयवसन वीरा वने बहुमृगद्विजे अन्वास्यमाना मुनिभिः सान्त्व्यमानाश च भारत 5 विदुरस तव अपि पाण्डूनां तदा दर्शनलालसः जगामैक रथेनैव काम्यकं वनम ऋद्धिवत 6 ततॊ यात्वा विदुरः काननं तच; छीघ्रैर अश्वैर वाहिना सयन्दनेन ददर्शासीनं धर्मराजं विविक्ते; सार्धं दरौपद्या भरातृभिर बराह्मणैश च 7 ततॊ ऽपश्यद विदुरं तूर्णम आराद; अभ्यायान्तं सत्यसंधः स राजा अथाब्रवीद भरातरं भीमसेनं; किं नु कषत्ता वक्ष्यति नः समेत्य 8 कच चिन नायं वचनात सौबलस्य; समाह्वाता देवनायॊपयाति कच चित कषुद्रः शकुनिर नायुधानि; जेष्यत्य अस्मान्पुनर एवाक्षवत्याम 9 समाहूतः केन चिद आद्रवेति; नाहं शक्तॊ भीमसेनापयातुम गाण्डीवे वा संशयिते कथं चिद; राज्यप्राप्तिः संशयिता भवेन नः 10 तत उत्थाय विदुरं पाण्डवेयाः; परत्यगृह्णन नृपते सर्व एव तैः सत्कृतः स च तान आजमीढॊ; यथॊचितं पाण्डुपुत्रान समेयात 11 समाश्वस्तं विदुरं ते नरर्षभास; ततॊ ऽपृच्छन्न आगमनाय हेतुम स चापि तेभ्यॊ विस्तरतः शशंस; यथावृत्तॊ धृतराष्ट्रॊ ऽऽमबिकेयः 12 [वि] अवॊचन मां धृतराष्ट्रॊ ऽनुगुप्तम; अजातशत्रॊ परिगृह्याभिपूज्य एवंगते समताम अब्भ्युपेत्य; पथ्यं तेषां मम चैव बरवीहि 13 मयाप्य उक्तं यत कषमं कौरवाणां; हितं पथ्यं धृतराष्ट्रस्य चैव तद वै पथ्यं तन मनॊ नाभ्युपैति; ततश चाहं कषमम अन्यन न मन्ये 14 परं शरेयः पाण्डवेया मयॊक्तं; न मे तच च शरुतवान आम्बिकेयः यथातुरस्येव हि पथ्यम अन्नं; न रॊचते समास्य तद उच्यमानम 15 न शरेयसे नीयते ऽजातशत्रॊ; सत्री शरॊत्रियस्येव गृहे परदुष्टा बरुवन न रुच्यै भरतर्षभस्य; पतिः कुमार्या इव षष्टिवर्षः 16 धरुवं विनाशॊ नृप कौरवाणां; न वै शरेयॊ धृतराष्ट्रः परैति यथा पर्णे पुष्करस्येव सिक्तं; जलं न तिष्ठेत पथ्यम उक्तं तथास्मिन 17 ततः करुद्धॊ धृतराष्ट्रॊ ऽबरवीन मां; यत्र शरद्धा भारत तत्र याहि नाहं भूयः कामये तवां सहायं; महीम इमां पालयितुं पुरं वा 18 सॊ ऽहं तयक्तॊ धृतराष्ट्रेण राजंस; तवां शासितुम उपयातस तवरावान तद वै सर्वं यन मयॊक्तं सभायां; तद धार्यतां यत परवक्ष्यामि भूयः 19 कलेशैस तीव्रैर युज्यमानः सपत्नैः; कषमां कुर्वन कालम उपासते यः सं वर्धयन सतॊकम इवाग्निम आत्मवान; स वै भुङ्क्ते पृथिवीम एक एव 20 यस्याविभक्तं वसु राजन सहायैस; तस्य दुःखे ऽपय अंशभाजः सहायाः सहायानाम एष संग्रहणे ऽभयुपायः; सहायाप्तौ पृथिवी पराप्तिम आहुः 21 सत्यं शरेष्ठं पाण्डव निष्प्रलापं; तुल्यं चान्नं सह भॊज्यं सहायैः आत्मा चैषाम अग्रतॊ नातिवर्तेद; एवंवृत्तिर वर्धते भूमिपालः 22 [य] एवं करिष्यामि यथा बरवीषि; परां बुद्धिम उपगम्याप्रमत्तः यच चाप्य अन्यद देशकालॊपपन्नं; तद वै वाच्यं तत करिष्यामि कृत्स्नम |
1
[v] pāṇḍavās tu vane vāsam uddiśya bharatarṣabhāḥ prayayur jāhnavī kūlāt kurukṣetraṃ sahānugāḥ 2 sarasvatī dṛṣadvatyau yamunāṃ ca niṣevya te yayur vanenaiva vanaṃ satataṃ paścimāṃ diśam 3 tataḥ sarasvatī kūle sameṣu maru dhanvasu kāmyakaṃ nāma dadṛśur vanaṃ munijanapriyam 4 tatra te nyavasan vīrā vane bahumṛgadvije anvāsyamānā munibhiḥ sāntvyamānāś ca bhārata 5 viduras tv api pāṇḍūnāṃ tadā darśanalālasaḥ jagāmaika rathenaiva kāmyakaṃ vanam ṛddhivat 6 tato yātvā viduraḥ kānanaṃ tac; chīghrair aśvair vāhinā syandanena dadarśāsīnaṃ dharmarājaṃ vivikte; sārdhaṃ draupadyā bhrātṛbhir brāhmaṇaiś ca 7 tato 'paśyad viduraṃ tūrṇam ārād; abhyāyāntaṃ satyasaṃdhaḥ sa rājā athābravīd bhrātaraṃ bhīmasenaṃ; kiṃ nu kṣattā vakṣyati naḥ sametya 8 kac cin nāyaṃ vacanāt saubalasya; samāhvātā devanāyopayāti kac cit kṣudraḥ śakunir nāyudhāni; jeṣyaty asmānpunar evākṣavatyām 9 samāhūtaḥ kena cid ādraveti; nāhaṃ śakto bhīmasenāpayātum gāṇḍīve vā saṃśayite kathaṃ cid; rājyaprāptiḥ saṃśayitā bhaven naḥ 10 tata utthāya viduraṃ pāṇḍaveyāḥ; pratyagṛhṇan nṛpate sarva eva taiḥ satkṛtaḥ sa ca tān ājamīḍho; yathocitaṃ pāṇḍuputrān sameyāt 11 samāśvastaṃ viduraṃ te nararṣabhās; tato 'pṛcchann āgamanāya hetum sa cāpi tebhyo vistarataḥ śaśaṃsa; yathāvṛtto dhṛtarāṣṭro ''mbikeyaḥ 12 [vi] avocan māṃ dhṛtarāṣṭro 'nuguptam; ajātaśatro parigṛhyābhipūjya evaṃgate samatām abbhyupetya; pathyaṃ teṣāṃ mama caiva bravīhi 13 mayāpy uktaṃ yat kṣamaṃ kauravāṇāṃ; hitaṃ pathyaṃ dhṛtarāṣṭrasya caiva tad vai pathyaṃ tan mano nābhyupaiti; tataś cāhaṃ kṣamam anyan na manye 14 paraṃ śreyaḥ pāṇḍaveyā mayoktaṃ; na me tac ca śrutavān āmbikeyaḥ yathāturasyeva hi pathyam annaṃ; na rocate smāsya tad ucyamānam 15 na śreyase nīyate 'jātaśatro; strī śrotriyasyeva gṛhe praduṣṭā bruvan na rucyai bharatarṣabhasya; patiḥ kumāryā iva ṣaṣṭivarṣaḥ 16 dhruvaṃ vināśo nṛpa kauravāṇāṃ; na vai śreyo dhṛtarāṣṭraḥ paraiti yathā parṇe puṣkarasyeva siktaṃ; jalaṃ na tiṣṭhet pathyam uktaṃ tathāsmin 17 tataḥ kruddho dhṛtarāṣṭro 'bravīn māṃ; yatra śraddhā bhārata tatra yāhi nāhaṃ bhūyaḥ kāmaye tvāṃ sahāyaṃ; mahīm imāṃ pālayituṃ puraṃ vā 18 so 'haṃ tyakto dhṛtarāṣṭreṇa rājaṃs; tvāṃ śāsitum upayātas tvarāvān tad vai sarvaṃ yan mayoktaṃ sabhāyāṃ; tad dhāryatāṃ yat pravakṣyāmi bhūyaḥ 19 kleśais tīvrair yujyamānaḥ sapatnaiḥ; kṣamāṃ kurvan kālam upāsate yaḥ saṃ vardhayan stokam ivāgnim ātmavān; sa vai bhuṅkte pṛthivīm eka eva 20 yasyāvibhaktaṃ vasu rājan sahāyais; tasya duḥkhe 'py aṃśabhājaḥ sahāyāḥ sahāyānām eṣa saṃgrahaṇe 'bhyupāyaḥ; sahāyāptau pṛthivī prāptim āhuḥ 21 satyaṃ śreṣṭhaṃ pāṇḍava niṣpralāpaṃ; tulyaṃ cānnaṃ saha bhojyaṃ sahāyaiḥ ātmā caiṣām agrato nātivarted; evaṃvṛttir vardhate bhūmipālaḥ 22 [y] evaṃ kariṣyāmi yathā bravīṣi; parāṃ buddhim upagamyāpramattaḥ yac cāpy anyad deśakālopapannaṃ; tad vai vācyaṃ tat kariṣyāmi kṛtsnam |
The Mahabharata in Sanskrit
Book 3
Chapter 7
|
1
[व] गते तु विदुरे राजन्न आश्रमं पाण्डवान परति धृतराष्ट्रॊ महाप्राज्ञः पर्यतप्यत भारत 2 स सभा दवारम आगम्य विदुर समर मॊहितः समक्षं पार्थिवेन्द्राणां पपाताविष्ट चेतनः 3 स तु लब्ध्वा पुनः संज्ञां समुत्थाय महीतलात समीपॊपस्थितं राजा संजयं वाक्यम अब्रवीत 4 भराता मम सुहृच चैव साक्षाद धर्म इवापरः तस्य समृत्वाद्य सुभृशं हृदयं दीर्यतीव मे 5 तम आनयस्व धर्मज्ञं मम भरातरम आशु वै इति बरुवन स नृपतिः करुणं पर्यदेवयत 6 पश्चात तापाभिसंतप्तॊ विदुर समार कर्शितः भरातृस्नेहाद इदं राजन संजयं वाक्यम अब्रवीत 7 गच्छ संजय जानीहि भरातरं विदुरं मम यदि जीवति रॊषेण मया पापेन निर्धुतः 8 न हि तेन मम भरात्रा सुसूक्ष्मम अपि किं चन वयलीकं कृतपूर्वं मे पराज्ञेनामित बुद्धिना 9 स वयलीकं कथं पराप्तॊ मत्तः परमबुद्धिमान न जन्याज जीवितं पराज्ञस तं गच्छानय संजय 10 तस्य तद वचनं शरुत्वा राज्ञस तम अनुमान्य च संजयॊ बाढम इत्य उक्त्वा पराद्रवत काम्यकं वनम 11 सॊ ऽचिरेण समासाद्य तद वनं यत्र पाण्डवाः रौरवाजिनसंवीतं ददर्शाथ युधिष्ठिरम 12 विदुरेण सहासीनं बराह्मणैश च सहस्रशः भरातृभिश चाभिसंगुप्तं देवैर इव शतक्रतुम 13 युधिष्ठिरम अथाभ्येत्य पूजयाम आस संजयः भीमार्जुनयमांश चापि तद अर्हं परत्यपद्यत 14 राज्ञा पृष्टः स कुशलं सुखासीनश च संजयः शशंसागमने हेतुम इदं चैवाब्रवीद वचः 15 राजा समरति ते कषत्तर धृतराष्ट्रॊ ऽमबिका सुतः तं पश्य गत्वा तवं कषिप्रं संजीवय च पार्थिवम 16 सॊ ऽनुमान्य नरश्रेष्ठान पाण्डवान कुरुनन्दनान नियॊगाद राजसिंहस्य गन्तुम अर्हसि मानद 17 एवम उक्तस तु विदुरॊ धीमान सवजनवत्सलः युधिष्ठिरस्यानुमते पुनर आयाद गजाह्वयम 18 तम अब्रवीन महाप्राज्ञं धृतराष्ट्रः परतापवान दिष्ट्या पराप्तॊ ऽसि धर्मज्ञ दिष्ट्या समरसि मे ऽनघ 19 अद्य रात्रौ दिवा चाहं तवत्कृते भरतर्षभ परजागरे पपश्यामि विचित्रं देहम आत्मनः 20 सॊ ऽङकम आदाय विदुरं मूर्ध्न्य उपाघ्राय चैव ह कषम्यताम इति चॊवाच यद उक्तॊ ऽसि मया रुषा 21 [वि] कषान्तम एव मया राजन गुरुर नः परमॊ भवान तथा हय अस्म्य आगतः कषिप्रं तवद्दर्शनपरायणः 22 भवन्ति हि नरव्याघ्र पुरुषा धर्मचेतसः दीनाभिपातिनॊ राजन नात्र कार्या विचारणा 23 पाण्डॊः सुता यादृशा मे तादृशा मे सुतास तव दीना इति हि मे बुद्धिर अभिपन्नाद्य तान रपति 24 [व] अन्यॊन्यम अनुनीयैवं भरातरौ तौ महाद्युती विदुरॊ धृतराष्ट्रश च लेभाते परमां मुदम |
1
[v] gate tu vidure rājann āśramaṃ pāṇḍavān prati dhṛtarāṣṭro mahāprājñaḥ paryatapyata bhārata 2 sa sabhā dvāram āgamya vidura smara mohitaḥ samakṣaṃ pārthivendrāṇāṃ papātāviṣṭa cetanaḥ 3 sa tu labdhvā punaḥ saṃjñāṃ samutthāya mahītalāt samīpopasthitaṃ rājā saṃjayaṃ vākyam abravīt 4 bhrātā mama suhṛc caiva sākṣād dharma ivāparaḥ tasya smṛtvādya subhṛśaṃ hṛdayaṃ dīryatīva me 5 tam ānayasva dharmajñaṃ mama bhrātaram āśu vai iti bruvan sa nṛpatiḥ karuṇaṃ paryadevayat 6 paścāt tāpābhisaṃtapto vidura smāra karśitaḥ bhrātṛsnehād idaṃ rājan saṃjayaṃ vākyam abravīt 7 gaccha saṃjaya jānīhi bhrātaraṃ viduraṃ mama yadi jīvati roṣeṇa mayā pāpena nirdhutaḥ 8 na hi tena mama bhrātrā susūkṣmam api kiṃ cana vyalīkaṃ kṛtapūrvaṃ me prājñenāmita buddhinā 9 sa vyalīkaṃ kathaṃ prāpto mattaḥ paramabuddhimān na janyāj jīvitaṃ prājñas taṃ gacchānaya saṃjaya 10 tasya tad vacanaṃ śrutvā rājñas tam anumānya ca saṃjayo bāḍham ity uktvā prādravat kāmyakaṃ vanam 11 so 'cireṇa samāsādya tad vanaṃ yatra pāṇḍavāḥ rauravājinasaṃvītaṃ dadarśātha yudhiṣṭhiram 12 vidureṇa sahāsīnaṃ brāhmaṇaiś ca sahasraśaḥ bhrātṛbhiś cābhisaṃguptaṃ devair iva śatakratum 13 yudhiṣṭhiram athābhyetya pūjayām āsa saṃjayaḥ bhīmārjunayamāṃś cāpi tad arhaṃ pratyapadyata 14 rājñā pṛṣṭaḥ sa kuśalaṃ sukhāsīnaś ca saṃjayaḥ śaśaṃsāgamane hetum idaṃ caivābravīd vacaḥ 15 rājā smarati te kṣattar dhṛtarāṣṭro 'mbikā sutaḥ taṃ paśya gatvā tvaṃ kṣipraṃ saṃjīvaya ca pārthivam 16 so 'numānya naraśreṣṭhān pāṇḍavān kurunandanān niyogād rājasiṃhasya gantum arhasi mānada 17 evam uktas tu viduro dhīmān svajanavatsalaḥ yudhiṣṭhirasyānumate punar āyād gajāhvayam 18 tam abravīn mahāprājñaṃ dhṛtarāṣṭraḥ pratāpavān diṣṭyā prāpto 'si dharmajña diṣṭyā smarasi me 'nagha 19 adya rātrau divā cāhaṃ tvatkṛte bharatarṣabha prajāgare papaśyāmi vicitraṃ deham ātmanaḥ 20 so 'ṅkam ādāya viduraṃ mūrdhny upāghrāya caiva ha kṣamyatām iti covāca yad ukto 'si mayā ruṣā 21 [vi] kṣāntam eva mayā rājan gurur naḥ paramo bhavān tathā hy asmy āgataḥ kṣipraṃ tvaddarśanaparāyaṇaḥ 22 bhavanti hi naravyāghra puruṣā dharmacetasaḥ dīnābhipātino rājan nātra kāryā vicāraṇā 23 pāṇḍoḥ sutā yādṛśā me tādṛśā me sutās tava dīnā iti hi me buddhir abhipannādya tān rpati 24 [v] anyonyam anunīyaivaṃ bhrātarau tau mahādyutī viduro dhṛtarāṣṭraś ca lebhāte paramāṃ mudam |
The Mahabharata in Sanskrit
Book 3
Chapter 8
|
1
[व] शरुत्वा च विदुरं पराप्तं राज्ञा च परिसान्त्वितम धृतराट्रात्मजॊ राजा पर्यतप्यत दुर्मतिः 2 स सौबलं समानाय्य कर्ण दुःशासनाव अपि अब्रवीद वचनं राजा परविश्याबुद्धिजं तमः 3 एष परप्त्यगतॊ मन्त्री धृतराष्ट्रस्य संमतः विदुरः पाण्डुपुत्राणां सुहृद विद्वान हिते रतः 4 यावद अस्य पुनर बुद्धिं विदुरॊ नापकर्षति पाण्डवानयने तावन मन्त्रयध्वं हितं मम 5 अथ पश्याम्य अहं पार्थान पराप्तान इह कथं चन पुनः शॊषं गमिष्यामि निरासुर निरवग्रहः 6 विषम उद्बन्धनं वापि शस्त्रम अग्निप्रवेशनम करिष्ये न हि तान ऋद्धान पुनर दरष्टुम इहॊत्सहे 7 [ष] किं बालिषां मतिं राजन्न आस्थितॊ ऽसि विशां पते गतास ते समयं कृत्वा नैतद एवं भविष्यति 8 सत्यवाक्ये सथिताः सर्वे पाण्डवा भरतर्षभ पितुस ते वचनं तात न गरहीष्यन्ति कर्हि चित 9 अथ वा ते गरहीष्यन्ति पुनर एष्यन्ति वा पुरम निरस्य समयं भूयः पणॊ ऽसमाकं भविष्यति 10 सर्वे भवामॊ मध्यस्था राज्ञश छन्दानुवर्तिनः छिद्रं बहु परपश्यन्तः पाण्डवानां सुसंवृताः 11 [दुह] एवम एतन महाप्राज्ञ यथा वदसि मातुल नित्यं हि मे कथयतस तव बुद्धिर हि रॊचते 12 [कर] कामम ईक्षामहे सर्वे दुर्यॊधन तवेप्सितम ऐकमत्यं हि नॊ राजन सर्वेषाम एव लक्ष्यते 13 [व] एवम उक्तस तु कर्णेन राजा दुर्यॊधनस तदा नातिहृष्टमनाः कषिप्रम अभवत स पराङ्मुखः 14 उपलभ्य ततः कर्णॊ विवृत्य नयने शुभे रॊषाद दुःशासनं चैव सौबलेयं च ताव उभौ 15 उवाच परमक्रुद्ध उद्यम्यात्मानम आत्मना अहॊ मम मतं यत तन निबॊधत नराधिपाः 16 परियं सर्वे चिकीर्षामॊ राज्ञः किंकरपाणयः न चास्य शक्नुमः सर्वे परिये सथातुम अतन्द्रिताः 17 वयं तु शस्त्राण्य आदाय रथान आस्थाय दंशिताः गच्छामः सहिता हन्तुं पाण्डवान वनगॊचरान 18 तेषु सर्वेषु शान्तेषु गतेष अविदितां गतिम निर्विवादा भविष्यन्ति धार्तराष्ट्रास तथा वयम 19 यावद एव परिद्यूना यावच छॊकपरायणाः यावन मित्र विहीनाश च तावच छक्या मतं मम 20 तस्य तद वचनं शरुत्वा पूजयन्तः पुनः पुनः बाढम इत्य एव ते सर्वे परत्यूचुः सूतजं तदा 21 एवम उक्त्वा तु संक्रुद्धा रथैः सर्वे पृथक पृथक निर्ययुः पाण्डवान हन्तुं संघशः कृतनिश्चयाः 22 तान परस्थितान परिज्ञाय कृष्णद्वैपायनस तदा आजगाम विशुद्धात्मा दृष्ट्वा दिव्येन चक्षुषा 23 परतिषिध्याथ तान सर्वान भगवाँल लॊकपूजितः परज्ञा चक्षुषम आसीनम उवाचाभ्येत्य सत्वरः |
1
[v] śrutvā ca viduraṃ prāptaṃ rājñā ca parisāntvitam dhṛtarāṭrātmajo rājā paryatapyata durmatiḥ 2 sa saubalaṃ samānāyya karṇa duḥśāsanāv api abravīd vacanaṃ rājā praviśyābuddhijaṃ tamaḥ 3 eṣa praptyagato mantrī dhṛtarāṣṭrasya saṃmataḥ viduraḥ pāṇḍuputrāṇāṃ suhṛd vidvān hite rataḥ 4 yāvad asya punar buddhiṃ viduro nāpakarṣati pāṇḍavānayane tāvan mantrayadhvaṃ hitaṃ mama 5 atha paśyāmy ahaṃ pārthān prāptān iha kathaṃ cana punaḥ śoṣaṃ gamiṣyāmi nirāsur niravagrahaḥ 6 viṣam udbandhanaṃ vāpi śastram agnipraveśanam kariṣye na hi tān ṛddhān punar draṣṭum ihotsahe 7 [ṣa] kiṃ bāliṣāṃ matiṃ rājann āsthito 'si viśāṃ pate gatās te samayaṃ kṛtvā naitad evaṃ bhaviṣyati 8 satyavākye sthitāḥ sarve pāṇḍavā bharatarṣabha pitus te vacanaṃ tāta na grahīṣyanti karhi cit 9 atha vā te grahīṣyanti punar eṣyanti vā puram nirasya samayaṃ bhūyaḥ paṇo 'smākaṃ bhaviṣyati 10 sarve bhavāmo madhyasthā rājñaś chandānuvartinaḥ chidraṃ bahu prapaśyantaḥ pāṇḍavānāṃ susaṃvṛtāḥ 11 [duh] evam etan mahāprājña yathā vadasi mātula nityaṃ hi me kathayatas tava buddhir hi rocate 12 [kar] kāmam īkṣāmahe sarve duryodhana tavepsitam aikamatyaṃ hi no rājan sarveṣām eva lakṣyate 13 [v] evam uktas tu karṇena rājā duryodhanas tadā nātihṛṣṭamanāḥ kṣipram abhavat sa parāṅmukhaḥ 14 upalabhya tataḥ karṇo vivṛtya nayane śubhe roṣād duḥśāsanaṃ caiva saubaleyaṃ ca tāv ubhau 15 uvāca paramakruddha udyamyātmānam ātmanā aho mama mataṃ yat tan nibodhata narādhipāḥ 16 priyaṃ sarve cikīrṣāmo rājñaḥ kiṃkarapāṇayaḥ na cāsya śaknumaḥ sarve priye sthātum atandritāḥ 17 vayaṃ tu śastrāṇy ādāya rathān āsthāya daṃśitāḥ gacchāmaḥ sahitā hantuṃ pāṇḍavān vanagocarān 18 teṣu sarveṣu śānteṣu gateṣ aviditāṃ gatim nirvivādā bhaviṣyanti dhārtarāṣṭrās tathā vayam 19 yāvad eva paridyūnā yāvac chokaparāyaṇāḥ yāvan mitra vihīnāś ca tāvac chakyā mataṃ mama 20 tasya tad vacanaṃ śrutvā pūjayantaḥ punaḥ punaḥ bāḍham ity eva te sarve pratyūcuḥ sūtajaṃ tadā 21 evam uktvā tu saṃkruddhā rathaiḥ sarve pṛthak pṛthak niryayuḥ pāṇḍavān hantuṃ saṃghaśaḥ kṛtaniścayāḥ 22 tān prasthitān parijñāya kṛṣṇadvaipāyanas tadā ājagāma viśuddhātmā dṛṣṭvā divyena cakṣuṣā 23 pratiṣidhyātha tān sarvān bhagavāṁl lokapūjitaḥ prajñā cakṣuṣam āsīnam uvācābhyetya satvaraḥ |
The Mahabharata in Sanskrit
Book 3
Chapter 9
|
1
[वय] धृतराष्ट्र महाप्राज्ञ निबॊध वचनं मम वक्ष्यामि तवा कौरवाणां सर्वेषां हितम उत्तमम 2 न मे परियं महाबाहॊ यद गताः पाण्डवा वनम निकृत्या निर्जिताश चैव दुर्यॊधन वशानुगैः 3 ते समरन्तः परिक्लेशान वर्षे पूर्णे तरयॊदशे विमॊक्ष्यन्ति विषं करुद्धाः करवेयेषु भारत 4 तद अयं किं नु पापात्मा तव पुत्रः सुमन्दधीः पाण्डवान नित्यसंक्रुद्धॊ राज्यहेतॊर जिघांसति 5 वार्यतां साध्व अयं मूढः शमं गच्छतु ते सुतः वनस्थांस तान अयं हन्तुम इच्छन पराणैर विमॊक्ष्यते 6 यथाह विदुरः पराज्ञॊ यथा भीष्मॊ यथा वयम यथा कृपश च दरॊणश च तथा साधु विधीयताम 7 विग्रहॊ हि महाप्राज्ञ सवजनेन विगर्हितः अधार्म्यम अयशस्यं च मा राजन परतिपद्यथाः 8 समीक्षा यादृशी हय अस्य पाण्डवान परति भारत उपेक्ष्यमाणा सा राजन हमान्तम अनयं सपृशेत 9 अथ वायं सुमन्दात्मा वनं गच्छतु ते सुतः पाण्डवैः सहितॊ राजन्न एक एवासहाय वान 10 ततः संसर्गजः सनेहः पुत्रस्य तव पाण्डवैः यदि सयात कृतकार्यॊ ऽदय भवेस तवं मनुजेश्वर 11 अथ वा जायमानस्य यच छीलम अनुजायते शरूयते तन महाराज नामृतस्य अपसर्पति 12 कथं वा मन्यते भीष्मॊ दरॊणॊ वा विदुरॊ ऽपि वा भवान वात्र कषमं कार्यं पुरा चार्थॊ ऽतिवर्तते |
1
[vy] dhṛtarāṣṭra mahāprājña nibodha vacanaṃ mama vakṣyāmi tvā kauravāṇāṃ sarveṣāṃ hitam uttamam 2 na me priyaṃ mahābāho yad gatāḥ pāṇḍavā vanam nikṛtyā nirjitāś caiva duryodhana vaśānugaiḥ 3 te smarantaḥ parikleśān varṣe pūrṇe trayodaśe vimokṣyanti viṣaṃ kruddhāḥ karaveyeṣu bhārata 4 tad ayaṃ kiṃ nu pāpātmā tava putraḥ sumandadhīḥ pāṇḍavān nityasaṃkruddho rājyahetor jighāṃsati 5 vāryatāṃ sādhv ayaṃ mūḍhaḥ śamaṃ gacchatu te sutaḥ vanasthāṃs tān ayaṃ hantum icchan prāṇair vimokṣyate 6 yathāha viduraḥ prājño yathā bhīṣmo yathā vayam yathā kṛpaś ca droṇaś ca tathā sādhu vidhīyatām 7 vigraho hi mahāprājña svajanena vigarhitaḥ adhārmyam ayaśasyaṃ ca mā rājan pratipadyathāḥ 8 samīkṣā yādṛśī hy asya pāṇḍavān prati bhārata upekṣyamāṇā sā rājan hamāntam anayaṃ spṛśet 9 atha vāyaṃ sumandātmā vanaṃ gacchatu te sutaḥ pāṇḍavaiḥ sahito rājann eka evāsahāya vān 10 tataḥ saṃsargajaḥ snehaḥ putrasya tava pāṇḍavaiḥ yadi syāt kṛtakāryo 'dya bhaves tvaṃ manujeśvara 11 atha vā jāyamānasya yac chīlam anujāyate śrūyate tan mahārāja nāmṛtasy apasarpati 12 kathaṃ vā manyate bhīṣmo droṇo vā viduro 'pi vā bhavān vātra kṣamaṃ kāryaṃ purā cārtho 'tivartate |
The Mahabharata in Sanskrit
Book 3
Chapter 10
|
1
[धृ] भगवन नाहम अप्य एतद रॊचये दयूतसंस्तवम मन्ये तद विधिनाक्रम्य कारितॊ ऽसमीति वै मुने 2 नैतद रॊचयते भीष्मॊ न दरॊणॊ विदुरॊ न च गान्धारी नेच्छति दयूतं तच च मॊहात परवर्तितम 3 परित्यक्तुं न शक्नॊमि दुर्यॊधनम अचेतनम पुत्रस्नेहेन भगवञ जानन्न अपि यतव्रत 4 [वय] वैचित्र वीर्यनृपते सत्यम आह यथा भवान दृढं वेद्मि परं पुत्रं परं पुत्रान न विद्यते 5 इन्द्रॊ ऽपय अश्रुनिपातेन सुरभ्या परतिबॊधितः अन्यैः समृद्धैर अप्य अर्थैर न सुताद विद्यते परम 6 अत्र ते वर्तयिष्यामि महद आख्यानम उत्तमम सुरभ्याश चैव संवादम इन्द्रस्य च विशां पते 7 तरिविष्टपगता राजन सुरभिः परारुदत किल गवां मात पुरा तात ताम इन्द्रॊ ऽनवकृपायत 8 [इन] किम इदं रॊदिषि शुभे कच चित कषेमं दिवौकसाम मानुषेष्व अथ वा गॊषु नैतद अल्पं भविष्यति 9 [सु] विनिपातॊ न वः कश चिद दृश्यते तरिदशाधिप अहं तु पुत्रं शॊचामि तेन रॊदिमि कौशिक 10 पश्यैनं कर्षकं रौद्रं दुर्बलं मम पुत्रकम परतॊदेनाभिनिघ्नन्तं लाङ्गलेन निपीडितम 11 एतं दृष्ट्वा भृशं शरन्तं वध्यमानं सुराधिप कृपाविष्टास्मि देवेन्द्र मनश चॊद्विजते मम 12 एकस तत्र बलॊपेतॊ धुरम उद्वहते ऽधिकाम अपरॊ ऽलपबलप्राणः कृशॊ धमनि संततः कृच्छ्राद उद्वहते भारं तं वै शॊचामि वासव 13 वध्यमानः परतॊदेन तुद्यमानः पुनः पुनः नैव शक्नॊमि तं भारम उद्वॊढुं पश्य वासव 14 ततॊ ऽहं तस्य दुःखार्ता विरौमि भृशदुःखिता अश्रूण्य आवर्तयन्ती च नेत्राभ्यां करुणायती 15 [इन] तव पुत्रसहस्रेषु पीड्यमानेषु शॊभने किं कृपायितम अस्त्य अत्र पुत्र एकॊ ऽतर पीड्यते 16 [सु] यदि पुत्रसहस्रं मे सर्वत्र समम एव मे दीनस्य तु सतः शक्रपुत्रस्याभ्यधिका कृपा 17 [वय] तद इन्द्रः सुरभी वाक्यं निशम्य भृशविस्मितः जीवितेनापि कौरव्य मेने ऽभयधिकम आत्मजम 18 परववर्ष च तत्रैव सहसा तॊयम उल्बणम कर्षकस्याचरन विघ्नं भगवान पाकशासनः 19 तद यथा सुरभिः पराह समम एवास्तु मे तथा सुतेषु राजन सर्वेषु दीनेष्व अभ्यधिका कृपा 20 यादृशॊ मे सुतः पण्डुस तादृशॊ मे ऽसि पुत्रक विदुरश च महाप्राज्ञः सनेहाद एतद वरमीम्य अहम 21 चिराय तव पुत्राणां शतम एकश च पार्थिव पाण्डॊः पञ्चैव लक्ष्यन्ते ते ऽपि मन्दाः सुदुःखिताः 22 कथं जीवेयुर अत्यन्तं कथं वर्धेयुर इत्य अपि इति दीनेषु पार्थेषु मनॊ मे परितप्यते 23 यदि पार्थिव कौरव्याञ जीवमानान इहेच्छसि दुर्यॊधनस तव सुतः शमं गच्छतु पाण्डवैः |
1
[dhṛ] bhagavan nāham apy etad rocaye dyūtasaṃstavam manye tad vidhinākramya kārito 'smīti vai mune 2 naitad rocayate bhīṣmo na droṇo viduro na ca gāndhārī necchati dyūtaṃ tac ca mohāt pravartitam 3 parityaktuṃ na śaknomi duryodhanam acetanam putrasnehena bhagavañ jānann api yatavrata 4 [vy] vaicitra vīryanṛpate satyam āha yathā bhavān dṛḍhaṃ vedmi paraṃ putraṃ paraṃ putrān na vidyate 5 indro 'py aśrunipātena surabhyā pratibodhitaḥ anyaiḥ samṛddhair apy arthair na sutād vidyate param 6 atra te vartayiṣyāmi mahad ākhyānam uttamam surabhyāś caiva saṃvādam indrasya ca viśāṃ pate 7 triviṣṭapagatā rājan surabhiḥ prārudat kila gavāṃ māta purā tāta tām indro 'nvakṛpāyata 8 [in] kim idaṃ rodiṣi śubhe kac cit kṣemaṃ divaukasām mānuṣeṣv atha vā goṣu naitad alpaṃ bhaviṣyati 9 [su] vinipāto na vaḥ kaś cid dṛśyate tridaśādhipa ahaṃ tu putraṃ śocāmi tena rodimi kauśika 10 paśyainaṃ karṣakaṃ raudraṃ durbalaṃ mama putrakam pratodenābhinighnantaṃ lāṅgalena nipīḍitam 11 etaṃ dṛṣṭvā bhṛśaṃ śrantaṃ vadhyamānaṃ surādhipa kṛpāviṣṭāsmi devendra manaś codvijate mama 12 ekas tatra balopeto dhuram udvahate 'dhikām aparo 'lpabalaprāṇaḥ kṛśo dhamani saṃtataḥ kṛcchrād udvahate bhāraṃ taṃ vai śocāmi vāsava 13 vadhyamānaḥ pratodena tudyamānaḥ punaḥ punaḥ naiva śaknomi taṃ bhāram udvoḍhuṃ paśya vāsava 14 tato 'haṃ tasya duḥkhārtā viraumi bhṛśaduḥkhitā aśrūṇy āvartayantī ca netrābhyāṃ karuṇāyatī 15 [in] tava putrasahasreṣu pīḍyamāneṣu śobhane kiṃ kṛpāyitam asty atra putra eko 'tra pīḍyate 16 [su] yadi putrasahasraṃ me sarvatra samam eva me dīnasya tu sataḥ śakraputrasyābhyadhikā kṛpā 17 [vy] tad indraḥ surabhī vākyaṃ niśamya bhṛśavismitaḥ jīvitenāpi kauravya mene 'bhyadhikam ātmajam 18 pravavarṣa ca tatraiva sahasā toyam ulbaṇam karṣakasyācaran vighnaṃ bhagavān pākaśāsanaḥ 19 tad yathā surabhiḥ prāha samam evāstu me tathā suteṣu rājan sarveṣu dīneṣv abhyadhikā kṛpā 20 yādṛśo me sutaḥ paṇḍus tādṛśo me 'si putraka viduraś ca mahāprājñaḥ snehād etad vramīmy aham 21 cirāya tava putrāṇāṃ śatam ekaś ca pārthiva pāṇḍoḥ pañcaiva lakṣyante te 'pi mandāḥ suduḥkhitāḥ 22 kathaṃ jīveyur atyantaṃ kathaṃ vardheyur ity api iti dīneṣu pārtheṣu mano me paritapyate 23 yadi pārthiva kauravyāñ jīvamānān ihecchasi duryodhanas tava sutaḥ śamaṃ gacchatu pāṇḍavaiḥ |
The Mahabharata in Sanskrit
Book 3
Chapter 11
|
1
[धृ] एवम एतन महाप्राज्ञ यथा वदसि नॊ मुने अहं चैव विजानामि सर्वे चेमे नराधिपाः 2 भवांस तु मन्यते साधु यत कुरूणां सुखॊदयम तद एव विदुरॊ ऽपय आह भीष्मॊ दरॊणश च मां मुने 3 यदि तव अहम अनुग्राह्यः कौरवेषु दया यदि अनुशाधि दुरात्मानं पुत्रं दुर्यॊधनं मम 4 [वय] अयम आयाति वै राजन मैत्रेयॊ भवगान ऋषिः अन्वीय पाण्डवान भरातॄन इहैवास्मद दिदृक्षया 5 एष दुर्यॊधनं पुत्रं तव राजन महान ऋषिः अनुशास्ता यथान्यायं शमायास्य कुलस्य ते 6 बरूयाद यद एष राजेन्द्र तत कार्यम अविशङ्कया अक्रियायां हि कार्यस्य पुत्रं ते शप्स्यते रुषा 7 [वै] एवम उक्त्वा ययौ वयासॊ मैत्रेयः परत्यदृश्यत पूजया परतिजग्राह सपुत्रस तं नराधिपः 8 दत्त्वार्घ्याद्याः करियाः सर्वा विश्रान्तं मुनिपुंगवम परश्रयेणाब्रवीद राजा धृतराष्ट्रॊ ऽमबिका सुतः 9 सुखेनागमनं कच चिद भगवन कुरुजाङ्गले कच चित कुशलिनॊ वीरा भरातरः पञ्च पाण्डवाः 10 समये सथातुम इच्छन्ति कच चिच च पुरुषर्षभाः कच चित कुरूणां सौभ्रात्रम अव्युच्छन्नं भविष्यति 11 [मै] तीर्थयात्राम अनुक्रामन पराप्तॊ ऽसमि कुरुजाङ्गलम यदृच्छया धर्मराजं दृष्टवान काम्यके वने 12 तं जटाजिनसंवीतं तपॊवननिवासिनम समाजग्मुर महात्मानं दरष्टुं मुनिगणाः परभॊ 13 तत्राश्रौषं महाराज पुत्राणां तव विभ्रमम अनयं दयूतरूपेण महापापम उपस्थितम 14 ततॊ ऽहं तवाम अनुप्राप्तः कौरवाणाम अवेक्षया सदा हय अभ्यधिकः सनेहः परीतिश च तवयि मे परभॊ 15 नैतद औपयिकं राजंस तवयि भीष्मे च जीवति यद अन्यॊन्येन ते पुत्रा विरुध्यन्ते नराधिप 16 मेढी भूतः सवयं राजन निग्रहे रपग्रहे भवान किमर्थम अनयं घॊरम उत्पतन्तम उपेक्षसे 17 दस्यूनाम इव यद्वृत्तं सभायां कुरुनन्दन तेन न भराजसे राजंस तापसानां समागमे 18 [वै] ततॊ वयावृत्य राजानं दुर्यॊधनम अमर्षणम उवाच शलक्ष्णया वाचा मैत्रेयॊ भगवान ऋषिः 19 दुर्यॊधन महाबाहॊ निबॊध वदतां वर वचनं मे महाप्राज्ञ बरुवतॊ यद धितं तव 20 मा दरुहः पाण्डवान राजन कुरुष्व हितम आत्मनः पाण्डवानां कुरूणां च लॊकस्य च नरर्षभ 21 ते हि सर्वे नरव्याघ्राः शूरा विक्रान्तयॊधिनः सर्वे नागायुत पराणा वज्रसंहनना दृढाः 22 सत्यव्रतपराः सर्वे सर्वे पुरुषमानिनः हन्तारॊ देवशत्रूणां रक्षसां कामरूपिणाम हिडिम्बबकमुख्यानां किर्मीरस्य च रक्षसः 23 इतः परच्यवतां रात्रौ यः स तेषां महात्मनाम आवृत्य मार्गं रौद्रात्मा तस्थौ गिरिर इवाचलः 24 तं भीमः समरश्लाघी बलेन बलिनां वरः जघान पशुमारेण वयाघ्रः कषुद्रमृगं यथा 25 पश्य दिग विजये राजन यथा भीमेन पातितः जरासंधॊ महेष्वासॊ नागायुत बलॊ युधि 26 संबन्धी वासुदेवश च येषां शयालश च पार्षतः कस तान युधि समासीत जरामरणवान नरः 27 तस्य ते शम एवास्तु पाण्डवैर भरतर्षभ कुरु मे वचनं राजन मा मृत्युवशम अन्वगाः 28 एवं तु बरुवतस तस्य मैत्रेयस्य विशां पते ऊरुं गजकराकारं करेणाभिजघान सः 29 दुर्यॊधनः समितं कृत्वा चरणेनालिखन महीम न किं चिद उक्त्वा दुर्यॊधास तस्थौ किं चिद अवाङ्मुखः 30 तम अशुश्रूषमाणं तु विलिखन्तं वसुंधराम दृष्ट्वा दुर्यॊधनं राजन मैत्रेयं कॊप आविशत 31 स कॊपवशम आपन्नॊ मैत्रेयॊ मुनिसत्तमः विधिना संप्रयुक्तश च शापायास्य मनॊ दधे 32 ततः स वार्य उपस्पृश्य कॊपसंरक्त लॊचनः मैत्रेयॊ धार्तराष्ट्रं तम अशपद दुष्टचेतसम 33 यस्मात तवं माम अनादृत्य नेमां वाचं चिकीर्षसि तस्माद अस्याभिमानस्य सद्यः फलम अवाप्नुहि 34 तवद अभिद्रॊह संयुक्तं युद्धम उत्पत्स्यते महत यत्र भीमॊ गदापातैस तवॊरुं भेत्स्यते बली 35 इत्य एवम उक्ते वचने धृतराष्ट्रॊ महीपतिः परसादयाम आस मुनिं नैतद एवं भवेद इति 36 [मै] शमं यास्यति चेत पुत्रस तव राजन यथातथा शापॊ न भविता तात विपरीते भविष्यति 37 [वै] स विलक्षस तु राजेन्द्र दुर्यॊधन पिता तदा मैत्रेयं पराह किर्मीरः कथं भीमेन पातितः 38 [मै] नाहं वक्ष्याम्य असूरा ते न ते शुश्रूषते सुतः एष ते विदुरः सर्वम आख्यास्यति गते मयि 39 [वै] इत्य एवम उक्त्वा मैत्रेयः परातिष्ठत यथागतम किर्मीरवधसंविग्नॊ बहिर दुर्यॊधनॊ ऽगमत |
1
[dhṛ] evam etan mahāprājña yathā vadasi no mune ahaṃ caiva vijānāmi sarve ceme narādhipāḥ 2 bhavāṃs tu manyate sādhu yat kurūṇāṃ sukhodayam tad eva viduro 'py āha bhīṣmo droṇaś ca māṃ mune 3 yadi tv aham anugrāhyaḥ kauraveṣu dayā yadi anuśādhi durātmānaṃ putraṃ duryodhanaṃ mama 4 [vy] ayam āyāti vai rājan maitreyo bhavagān ṛṣiḥ anvīya pāṇḍavān bhrātṝn ihaivāsmad didṛkṣayā 5 eṣa duryodhanaṃ putraṃ tava rājan mahān ṛṣiḥ anuśāstā yathānyāyaṃ śamāyāsya kulasya te 6 brūyād yad eṣa rājendra tat kāryam aviśaṅkayā akriyāyāṃ hi kāryasya putraṃ te śapsyate ruṣā 7 [vai] evam uktvā yayau vyāso maitreyaḥ pratyadṛśyata pūjayā pratijagrāha saputras taṃ narādhipaḥ 8 dattvārghyādyāḥ kriyāḥ sarvā viśrāntaṃ munipuṃgavam praśrayeṇābravīd rājā dhṛtarāṣṭro 'mbikā sutaḥ 9 sukhenāgamanaṃ kac cid bhagavan kurujāṅgale kac cit kuśalino vīrā bhrātaraḥ pañca pāṇḍavāḥ 10 samaye sthātum icchanti kac cic ca puruṣarṣabhāḥ kac cit kurūṇāṃ saubhrātram avyucchannaṃ bhaviṣyati 11 [mai] tīrthayātrām anukrāman prāpto 'smi kurujāṅgalam yadṛcchayā dharmarājaṃ dṛṣṭavān kāmyake vane 12 taṃ jaṭājinasaṃvītaṃ tapovananivāsinam samājagmur mahātmānaṃ draṣṭuṃ munigaṇāḥ prabho 13 tatrāśrauṣaṃ mahārāja putrāṇāṃ tava vibhramam anayaṃ dyūtarūpeṇa mahāpāpam upasthitam 14 tato 'haṃ tvām anuprāptaḥ kauravāṇām avekṣayā sadā hy abhyadhikaḥ snehaḥ prītiś ca tvayi me prabho 15 naitad aupayikaṃ rājaṃs tvayi bhīṣme ca jīvati yad anyonyena te putrā virudhyante narādhipa 16 meḍhī bhūtaḥ svayaṃ rājan nigrahe rpagrahe bhavān kimartham anayaṃ ghoram utpatantam upekṣase 17 dasyūnām iva yadvṛttaṃ sabhāyāṃ kurunandana tena na bhrājase rājaṃs tāpasānāṃ samāgame 18 [vai] tato vyāvṛtya rājānaṃ duryodhanam amarṣaṇam uvāca ślakṣṇayā vācā maitreyo bhagavān ṛṣiḥ 19 duryodhana mahābāho nibodha vadatāṃ vara vacanaṃ me mahāprājña bruvato yad dhitaṃ tava 20 mā druhaḥ pāṇḍavān rājan kuruṣva hitam ātmanaḥ pāṇḍavānāṃ kurūṇāṃ ca lokasya ca nararṣabha 21 te hi sarve naravyāghrāḥ śūrā vikrāntayodhinaḥ sarve nāgāyuta prāṇā vajrasaṃhananā dṛḍhāḥ 22 satyavrataparāḥ sarve sarve puruṣamāninaḥ hantāro devaśatrūṇāṃ rakṣasāṃ kāmarūpiṇām hiḍimbabakamukhyānāṃ kirmīrasya ca rakṣasaḥ 23 itaḥ pracyavatāṃ rātrau yaḥ sa teṣāṃ mahātmanām āvṛtya mārgaṃ raudrātmā tasthau girir ivācalaḥ 24 taṃ bhīmaḥ samaraślāghī balena balināṃ varaḥ jaghāna paśumāreṇa vyāghraḥ kṣudramṛgaṃ yathā 25 paśya dig vijaye rājan yathā bhīmena pātitaḥ jarāsaṃdho maheṣvāso nāgāyuta balo yudhi 26 saṃbandhī vāsudevaś ca yeṣāṃ śyālaś ca pārṣataḥ kas tān yudhi samāsīta jarāmaraṇavān naraḥ 27 tasya te śama evāstu pāṇḍavair bharatarṣabha kuru me vacanaṃ rājan mā mṛtyuvaśam anvagāḥ 28 evaṃ tu bruvatas tasya maitreyasya viśāṃ pate ūruṃ gajakarākāraṃ kareṇābhijaghāna saḥ 29 duryodhanaḥ smitaṃ kṛtvā caraṇenālikhan mahīm na kiṃ cid uktvā duryodhās tasthau kiṃ cid avāṅmukhaḥ 30 tam aśuśrūṣamāṇaṃ tu vilikhantaṃ vasuṃdharām dṛṣṭvā duryodhanaṃ rājan maitreyaṃ kopa āviśat 31 sa kopavaśam āpanno maitreyo munisattamaḥ vidhinā saṃprayuktaś ca śāpāyāsya mano dadhe 32 tataḥ sa vāry upaspṛśya kopasaṃrakta locanaḥ maitreyo dhārtarāṣṭraṃ tam aśapad duṣṭacetasam 33 yasmāt tvaṃ mām anādṛtya nemāṃ vācaṃ cikīrṣasi tasmād asyābhimānasya sadyaḥ phalam avāpnuhi 34 tvad abhidroha saṃyuktaṃ yuddham utpatsyate mahat yatra bhīmo gadāpātais tavoruṃ bhetsyate balī 35 ity evam ukte vacane dhṛtarāṣṭro mahīpatiḥ prasādayām āsa muniṃ naitad evaṃ bhaved iti 36 [mai] śamaṃ yāsyati cet putras tava rājan yathātathā śāpo na bhavitā tāta viparīte bhaviṣyati 37 [vai] sa vilakṣas tu rājendra duryodhana pitā tadā maitreyaṃ prāha kirmīraḥ kathaṃ bhīmena pātitaḥ 38 [mai] nāhaṃ vakṣyāmy asūrā te na te śuśrūṣate sutaḥ eṣa te viduraḥ sarvam ākhyāsyati gate mayi 39 [vai] ity evam uktvā maitreyaḥ prātiṣṭhata yathāgatam kirmīravadhasaṃvigno bahir duryodhano 'gamat |
The Mahabharata in Sanskrit
Book 3
Chapter 12
|
1
[धृ] किर्मीरस्य वधं कषत्तः शरॊतुम इच्छामि कथ्यताम रक्षसा भीमसेनस्य कथम आसीत समागमः 2 [वि] शृणु भीमस्य कर्मेदम अतिमानुष कर्मणः शरुतपूर्वं मया तेषां कथान्तेषु पुनः पुनः 3 इतः परयाता राजेन्द्र पाण्डवा दयूतनिर्जिताः जग्मुस तरिभिर अहॊरात्रैः काम्यकं नाम तद वनम 4 रात्रौ निशीथे सवाभीले गते ऽरथसमये नृप परचारे पुरुषादानां रक्षसां भीमकर्मणाम 5 तद वनं तापसा नित्यं शेषाश च वनचारिणः दूरात परिहरन्ति सम पुरुषाद अभयात किल 6 तेषां परविशतां तत्र मार्गम आवृत्य भारत दीप्ताक्षं भीषणं रक्षः सॊल्मुकं परत्यदृश्यत 7 बाहू महान्तौ कृत्वा तु तथास्यं च भयानकम सथितम आवृत्य पन्थानं येन यान्ति कुरूद्वहाः 8 दष्टौष्ठ दंष्ट्रं ताम्राक्षं परदीप्तॊर्ध्व शिरॊरुहम सार्करश्मितडिच चक्रं सबलाकम इवाम्बुदम 9 सृजन्तं राक्षसीं मायां महाराव विराविणम मुञ्चन्तं विपुलं नादं सतॊयम इव तॊयदम 10 तस्य नादेन संत्रस्ताः पक्षिणः सर्वतॊदिशम विमुक्तनादाः संपेतुः सथलजा जलजैः सह 11 संप्रद्रुत मृगद्वीपिमहिषर्क्ष समाकुलम तद वनं तस्य नादेन संप्रस्थितम इवाभवत 12 तस्यॊरुवाताभिहता ताम्रपल्लव बाहवः विदूर जाताश च लताः समाल्शिष्यन्त पादपान 13 तस्मिन कषणे ऽथ परववौ मारुतॊ भृशदारुणः रजसा संवृतं तेन नष्टर्ष्कम अभवन नभः 14 पञ्चानां पाण्डुपुत्राणाम अविज्ञातॊ महारिपुः पञ्चानाम इन्द्रियाणां तु शॊकवेग इवातुलः 15 स दृष्ट्वा पाण्डवान दूरात कृष्णाजिनसमावृतान आवृणॊत तद वनद्वारं मैनाक इव पर्वतः 16 तं समासाद्य वित्रस्ता कृष्णा कमललॊचना अदृष्टपूर्वं संत्रासान नयमीलयत लॊचने 17 दुःशासन करॊत्सृष्टविप्रकीर्णशिरॊरुहा पञ्च पर्वतमध्यस्था नदीवाकुलतां गता 18 मॊमुह्यमानां तां तत्र जगृहुः पञ्च पाण्डवाः इन्द्रियाणि परसक्तानि विषयेषु यथा रतिम 19 अथ तां राक्षसीं मायाम उत्थितां घॊरदर्शनाम रक्षॊघ्नैर विविधैर मन्त्रैर धौम्यः सम्यक परयॊजितैः पश्यतां पाण्डुपुत्राणां नाशयाम आस वीर्यवान 20 स नष्टमायॊ ऽतिबलः करॊधविस्फारितेक्षणः काममूर्ति धरः कषुद्रः कालकल्पॊ वयदृश्यत 21 तम उवाच ततॊ राजा दीर्घप्रज्ञॊ युधिष्ठिरः कॊ भवान कस्य वा किं ते करियतां कार्यम उच्यताम 22 परत्युवाचाथ तद रक्षॊ धर्मराजं युधिष्ठिरम अहं बकस्य वै भराता किर्मीर इति विश्रुतः 23 वने ऽसमिन काम्यके शून्ये निवसामि गतज्वरः युधि निर्जित्य पुरुषान आहारं नित्यम आचरन 24 के यूयम इह संप्राप्ता भक्ष्यभूता ममान्तिकम युधि निर्जित्य वः सर्वान भक्षयिष्ये गतज्वरः 25 युधिष्ठिरस तु तच छरुत्वा वचस तस्य दुरात्मनः आचचक्षे ततः सर्वं गॊत्र नामादि भारत 26 पाण्डवॊ धर्मराजॊ ऽहं यदि ते शरॊत्रम आगतः सहितॊ भरातृभिः सर्वैर भीमसेनार्जुनादिभिः 27 हृतराज्यॊ वनेवासं वस्तुं कृतम इतस ततः वनम अभ्यागतॊ घॊरम इदं तव परिग्रहम 28 किर्मीरस तव अब्रवीद एनं दिष्ट्या देवैर इदं मम उपपादितम अद्येह चिरकालान मनॊगतम 29 भीमसेनवधार्थं हि नित्यम अभ्युद्यतायुधः चरामि पृथिवीं कृत्स्नां नैनम आसादयाम्य अहम 30 सॊ ऽयम आसादितॊ दिष्ट्या भरातृहा काङ्क्षितश चिरम अनेन हि मम भराता बकॊ विनिहतः परियः 31 वेत्रकीय गृहे राजन बराह्मणच छद्म रूपिणा विद्या बलम उपाश्रित्य न हय अस्त्य अस्यौरसं बलम 32 हिडिम्बश च सखा मह्यं दयितॊ वनगॊचरः हतॊ दुरात्मनानेन सवसा चास्य हृता पुरा 33 सॊ ऽयम अभ्यागतॊ मूढ ममेदं गहनं वनम परचार समये ऽसमाकम अर्धरात्रे समास्थिते 34 अद्यास्य यातयिष्याम तद वैरं चिरसंभृतम तर्पयिष्यामि च बकं रुधिरेणास्य भूरिणा 35 अध्याहम अनृणॊ भूत्वा भरातुः सख्युस तथैव च शान्तिं लब्धास्मि परमां हत्व राक्षसकण्टकम 36 यदि तेन पुरा मुक्तॊ भीमसेनॊ बकेन वै अद्यैनं भक्षयिष्यामि पश्यतस ते युधिष्ठिर 37 एनं हि विपुलप्राणम अद्य हत्वा वृकॊदरम संभक्ष्य जरयिष्यामि यथागस्त्यॊ महासुरम 38 एवम उक्तस तु धर्मात्मा सत्यसंधॊ युधिष्ठिरः नैतद अस्तीति सक्रॊधॊ भर्त्सयाम आस राक्षसम 39 ततॊ भीमॊ महाबाहुर आरुज्य तरसा दरुम दशव्यामम इवॊद्विद्धं निष्पत्रम अकरॊत तदा 40 चकार सज्यं गाण्डीवं वज्रनिष्पेष गौरवम निमेषान्तरमात्रेण तथैव विजयॊ ऽरजुनः 41 निवार्य भीमॊ जिष्णुं तु तद रक्षॊ घॊरदर्शनम अभिद्रुत्याब्रवीद वाक्यं तिष्ठ तिष्ठेति भारत 42 इत्य उक्त्वैनम अभिक्रुद्धः कक्ष्याम उत्पीड्य पाण्डवः निष्पिष्य पाणिना पाणिं संदष्टौष्ठ पुटॊ बली तम अभ्यधावद वेगेन भीमॊ वृक्षायुधस तदा 43 यमदण्डप्रतीकाशं ततस तं तस्य मूर्धनि पातयाम आस वेगेन कुलिशं मघवान इव 44 असंभ्रान्तं तु तद रक्षः समरे परत्यदृश्यत चिक्षेप चॊल्मिकं दीप्तम अशनिं जवलिताम इव 45 तद उदस्तम अलातं तु भीमः परहरतां वरः पदा सव्येन चिक्षेप तद रक्षः पुनर आव्रजत 46 किर्मीरश चापि सहसा वृक्षम उत्पाट्य पाण्डवम दण्डपाणिर इव करुद्धः समरे परत्ययुध्यत 47 तद वृक्षयुद्धम अभवन महीरुह विनाशनम वालिसुग्रीवयॊर भरात्रॊर यथा शरीकाङ्क्षिणॊः पुरा 48 शीर्षयॊः पतिता वृक्षा बिभिदुर नैकधा तयॊः यथैवॊत्पल पद्मानि मत्तयॊर दविपयॊस तथा 49 मुञ्जवज जार्जरी भूता बहवस तत्र पादपाः चीराणीव वयुदस्तानि रेजुस तत्र महावने 50 तद वृक्षयुद्धम अभवत सुमुहूर्तं विशां पते राक्षसानां च मुख्यस्य नराणाम उत्तमस्य च 51 ततः शिलां समुत्क्षिप्य भीमस्य युधि तिष्ठतः पराहिणॊद राक्षसः करुद्धॊ भीमसेनश चचाल ह 52 तं शिला ताडनजडं पर्यधावत स राक्षसः बाहुविक्षिप्त किरणः सवर्भानुर इव भास्करम 53 ताव अन्यॊन्यं समाश्लिष्य परकर्षन्तौ परस्परम उभाव अपि चकाशेते परयुद्धौ वृषभाव इव 54 तयॊर आसीत सुतुमुलः संप्रहारः सुदारुणः नखदंष्ट्रायुधवतॊर वयाघ्रयॊर इव दृट्तयॊः 55 दुर्यॊधन निकाराच च बाहुवीर्याच च दर्पितः कृष्णा नयनदृष्टश च वयवर्धत वृकॊदरः 56 अभिपत्याथ बाहुभ्यां परत्यगृह्णाद अमर्षितः मातङ्ग इव मातङ्गं परभिन्नकरटा मुखः 57 तं चाप्य आथ ततॊ रक्षः परतिजग्राह वीर्यवान तम आक्षिपद भीमसेनॊ बलेन बलिनां वरः 58 तयॊर भुजविनिष्पेषाद उभयॊर वलिनॊस तदा शब्दः समभवद घॊरॊ वेणुस्फॊट समॊ युधि 59 अथैनम आक्षिप्य बलाद गृह्य मध्ये वृकॊदरः धूनयाम आस वेगेन वायुश चण्ड इव दरुमम 60 स भीमेन परामृष्टॊ दुर्बलॊ बलिना रणे वयस्पन्दत यथाप्राणं विचकर्ष च पाण्डवम 61 तत एनं परिश्रान्तम उपलभ्य वृकॊदरः यॊक्त्रयाम आस बाहुभ्यां पशुं रशनया यथा 62 विनदन्तं महानादं भिन्नभेरी समस्वनम भरामयाम आस सुचिरं विस्फुरन्तम अचेतसम 63 तं विषीदन्तम आज्ञाय राक्षसं पाण्डुनन्दनः परगृह्य तरसा दॊर्भ्यां पशुमारम अमारयन 64 आक्रम्य स कटी देशे जानुना राक्षसाधमम अपीडयत बाहुब्भ्यां कण्ठं तस्य वृकॊदरः 65 अथ तं जड सर्वाङ्गं वयावृत्तनयनॊल्बणम भूतले पातयाम आस वाक्यं चेदम उवाच ह 66 हिडिम्बबकयॊः पापन तवम अश्रुप्रमार्जनम करिष्यसि गतश चासि यमस्य सदनं परति 67 इत्य एवम उक्त्वा पुरुषप्रवीरस; तं राक्षसं करॊधविवृत्त नेत्रः परस्रस्तवस्त्राभरणं सफुरन्तम; उद्ब्भ्रान्त चित्तं वयसुम उत्ससर्ज 68 तस्मिन हते तॊयदतुल्यरूपे; कृष्णां पुरस्कृत्य नरेन्द्रपुत्राः भीमं परशस्याथ गुणैर अनेकैर; हृष्टास ततॊ दवैतवनाय जग्मुः 69 एवं विनिहतः संख्ये किर्मीरॊ मनुजाधिप भीमेन वचनाद अस्य धर्मराजस्य कौरव 70 ततॊ निष्कण्टकं कृत्वा वनं तद अपराजितः दरौपद्या सहधर्मज्ञॊ वसतिं ताम उवास ह 71 समाश्वास्य च ते सर्वे दरौपदीं भरतर्षभाः परहृष्टमनसः परीत्या परशशंसुर वृकॊदरम 72 भीम बाहुबलॊत्पिष्टे विनष्टे राक्षसे ततः विविशुस तद वनं वीराः कषेमं निहतकण्टकम 73 स मया गच्छता मार्गे विनिकीर्णॊ भयावहः वने महति दुष्टात्मा दृष्टॊ भीमबलाद धतः 74 तत्राश्रौषम अहं चैतत कर्म भीमस्य भारत बराह्मणानां कथयतां ये तत्रासन समागताः 75 एवं विनिहतं संख्ये किर्मीरं राक्षसॊत्तमम शरुत्वा धयानपरॊ राजा निशश्वासार्तवत तदा |
1
[dhṛ] kirmīrasya vadhaṃ kṣattaḥ śrotum icchāmi kathyatām rakṣasā bhīmasenasya katham āsīt samāgamaḥ 2 [vi] śṛṇu bhīmasya karmedam atimānuṣa karmaṇaḥ śrutapūrvaṃ mayā teṣāṃ kathānteṣu punaḥ punaḥ 3 itaḥ prayātā rājendra pāṇḍavā dyūtanirjitāḥ jagmus tribhir ahorātraiḥ kāmyakaṃ nāma tad vanam 4 rātrau niśīthe svābhīle gate 'rthasamaye nṛpa pracāre puruṣādānāṃ rakṣasāṃ bhīmakarmaṇām 5 tad vanaṃ tāpasā nityaṃ śeṣāś ca vanacāriṇaḥ dūrāt pariharanti sma puruṣād abhayāt kila 6 teṣāṃ praviśatāṃ tatra mārgam āvṛtya bhārata dīptākṣaṃ bhīṣaṇaṃ rakṣaḥ solmukaṃ pratyadṛśyata 7 bāhū mahāntau kṛtvā tu tathāsyaṃ ca bhayānakam sthitam āvṛtya panthānaṃ yena yānti kurūdvahāḥ 8 daṣṭauṣṭha daṃṣṭraṃ tāmrākṣaṃ pradīptordhva śiroruham sārkaraśmitaḍic cakraṃ sabalākam ivāmbudam 9 sṛjantaṃ rākṣasīṃ māyāṃ mahārāva virāviṇam muñcantaṃ vipulaṃ nādaṃ satoyam iva toyadam 10 tasya nādena saṃtrastāḥ pakṣiṇaḥ sarvatodiśam vimuktanādāḥ saṃpetuḥ sthalajā jalajaiḥ saha 11 saṃpradruta mṛgadvīpimahiṣarkṣa samākulam tad vanaṃ tasya nādena saṃprasthitam ivābhavat 12 tasyoruvātābhihatā tāmrapallava bāhavaḥ vidūra jātāś ca latāḥ samālśiṣyanta pādapān 13 tasmin kṣaṇe 'tha pravavau māruto bhṛśadāruṇaḥ rajasā saṃvṛtaṃ tena naṣṭarṣkam abhavan nabhaḥ 14 pañcānāṃ pāṇḍuputrāṇām avijñāto mahāripuḥ pañcānām indriyāṇāṃ tu śokavega ivātulaḥ 15 sa dṛṣṭvā pāṇḍavān dūrāt kṛṣṇājinasamāvṛtān āvṛṇot tad vanadvāraṃ maināka iva parvataḥ 16 taṃ samāsādya vitrastā kṛṣṇā kamalalocanā adṛṣṭapūrvaṃ saṃtrāsān nyamīlayata locane 17 duḥśāsana karotsṛṣṭaviprakīrṇaśiroruhā pañca parvatamadhyasthā nadīvākulatāṃ gatā 18 momuhyamānāṃ tāṃ tatra jagṛhuḥ pañca pāṇḍavāḥ indriyāṇi prasaktāni viṣayeṣu yathā ratim 19 atha tāṃ rākṣasīṃ māyām utthitāṃ ghoradarśanām rakṣoghnair vividhair mantrair dhaumyaḥ samyak prayojitaiḥ paśyatāṃ pāṇḍuputrāṇāṃ nāśayām āsa vīryavān 20 sa naṣṭamāyo 'tibalaḥ krodhavisphāritekṣaṇaḥ kāmamūrti dharaḥ kṣudraḥ kālakalpo vyadṛśyata 21 tam uvāca tato rājā dīrghaprajño yudhiṣṭhiraḥ ko bhavān kasya vā kiṃ te kriyatāṃ kāryam ucyatām 22 pratyuvācātha tad rakṣo dharmarājaṃ yudhiṣṭhiram ahaṃ bakasya vai bhrātā kirmīra iti viśrutaḥ 23 vane 'smin kāmyake śūnye nivasāmi gatajvaraḥ yudhi nirjitya puruṣān āhāraṃ nityam ācaran 24 ke yūyam iha saṃprāptā bhakṣyabhūtā mamāntikam yudhi nirjitya vaḥ sarvān bhakṣayiṣye gatajvaraḥ 25 yudhiṣṭhiras tu tac chrutvā vacas tasya durātmanaḥ ācacakṣe tataḥ sarvaṃ gotra nāmādi bhārata 26 pāṇḍavo dharmarājo 'haṃ yadi te śrotram āgataḥ sahito bhrātṛbhiḥ sarvair bhīmasenārjunādibhiḥ 27 hṛtarājyo vanevāsaṃ vastuṃ kṛtam itas tataḥ vanam abhyāgato ghoram idaṃ tava parigraham 28 kirmīras tv abravīd enaṃ diṣṭyā devair idaṃ mama upapāditam adyeha cirakālān manogatam 29 bhīmasenavadhārthaṃ hi nityam abhyudyatāyudhaḥ carāmi pṛthivīṃ kṛtsnāṃ nainam āsādayāmy aham 30 so 'yam āsādito diṣṭyā bhrātṛhā kāṅkṣitaś ciram anena hi mama bhrātā bako vinihataḥ priyaḥ 31 vetrakīya gṛhe rājan brāhmaṇac chadma rūpiṇā vidyā balam upāśritya na hy asty asyaurasaṃ balam 32 hiḍimbaś ca sakhā mahyaṃ dayito vanagocaraḥ hato durātmanānena svasā cāsya hṛtā purā 33 so 'yam abhyāgato mūḍha mamedaṃ gahanaṃ vanam pracāra samaye 'smākam ardharātre samāsthite 34 adyāsya yātayiṣyāma tad vairaṃ cirasaṃbhṛtam tarpayiṣyāmi ca bakaṃ rudhireṇāsya bhūriṇā 35 adhyāham anṛṇo bhūtvā bhrātuḥ sakhyus tathaiva ca śāntiṃ labdhāsmi paramāṃ hatva rākṣasakaṇṭakam 36 yadi tena purā mukto bhīmaseno bakena vai adyainaṃ bhakṣayiṣyāmi paśyatas te yudhiṣṭhira 37 enaṃ hi vipulaprāṇam adya hatvā vṛkodaram saṃbhakṣya jarayiṣyāmi yathāgastyo mahāsuram 38 evam uktas tu dharmātmā satyasaṃdho yudhiṣṭhiraḥ naitad astīti sakrodho bhartsayām āsa rākṣasam 39 tato bhīmo mahābāhur ārujya tarasā druma daśavyāmam ivodviddhaṃ niṣpatram akarot tadā 40 cakāra sajyaṃ gāṇḍīvaṃ vajraniṣpeṣa gauravam nimeṣāntaramātreṇa tathaiva vijayo 'rjunaḥ 41 nivārya bhīmo jiṣṇuṃ tu tad rakṣo ghoradarśanam abhidrutyābravīd vākyaṃ tiṣṭha tiṣṭheti bhārata 42 ity uktvainam abhikruddhaḥ kakṣyām utpīḍya pāṇḍavaḥ niṣpiṣya pāṇinā pāṇiṃ saṃdaṣṭauṣṭha puṭo balī tam abhyadhāvad vegena bhīmo vṛkṣāyudhas tadā 43 yamadaṇḍapratīkāśaṃ tatas taṃ tasya mūrdhani pātayām āsa vegena kuliśaṃ maghavān iva 44 asaṃbhrāntaṃ tu tad rakṣaḥ samare pratyadṛśyata cikṣepa colmikaṃ dīptam aśaniṃ jvalitām iva 45 tad udastam alātaṃ tu bhīmaḥ praharatāṃ varaḥ padā savyena cikṣepa tad rakṣaḥ punar āvrajat 46 kirmīraś cāpi sahasā vṛkṣam utpāṭya pāṇḍavam daṇḍapāṇir iva kruddhaḥ samare pratyayudhyata 47 tad vṛkṣayuddham abhavan mahīruha vināśanam vālisugrīvayor bhrātror yathā śrīkāṅkṣiṇoḥ purā 48 śīrṣayoḥ patitā vṛkṣā bibhidur naikadhā tayoḥ yathaivotpala padmāni mattayor dvipayos tathā 49 muñjavaj jārjarī bhūtā bahavas tatra pādapāḥ cīrāṇīva vyudastāni rejus tatra mahāvane 50 tad vṛkṣayuddham abhavat sumuhūrtaṃ viśāṃ pate rākṣasānāṃ ca mukhyasya narāṇām uttamasya ca 51 tataḥ śilāṃ samutkṣipya bhīmasya yudhi tiṣṭhataḥ prāhiṇod rākṣasaḥ kruddho bhīmasenaś cacāla ha 52 taṃ śilā tāḍanajaḍaṃ paryadhāvat sa rākṣasaḥ bāhuvikṣipta kiraṇaḥ svarbhānur iva bhāskaram 53 tāv anyonyaṃ samāśliṣya prakarṣantau parasparam ubhāv api cakāśete prayuddhau vṛṣabhāv iva 54 tayor āsīt sutumulaḥ saṃprahāraḥ sudāruṇaḥ nakhadaṃṣṭrāyudhavator vyāghrayor iva dṛṭtayoḥ 55 duryodhana nikārāc ca bāhuvīryāc ca darpitaḥ kṛṣṇā nayanadṛṣṭaś ca vyavardhata vṛkodaraḥ 56 abhipatyātha bāhubhyāṃ pratyagṛhṇād amarṣitaḥ mātaṅga iva mātaṅgaṃ prabhinnakaraṭā mukhaḥ 57 taṃ cāpy ātha tato rakṣaḥ pratijagrāha vīryavān tam ākṣipad bhīmaseno balena balināṃ varaḥ 58 tayor bhujaviniṣpeṣād ubhayor valinos tadā śabdaḥ samabhavad ghoro veṇusphoṭa samo yudhi 59 athainam ākṣipya balād gṛhya madhye vṛkodaraḥ dhūnayām āsa vegena vāyuś caṇḍa iva drumam 60 sa bhīmena parāmṛṣṭo durbalo balinā raṇe vyaspandata yathāprāṇaṃ vicakarṣa ca pāṇḍavam 61 tata enaṃ pariśrāntam upalabhya vṛkodaraḥ yoktrayām āsa bāhubhyāṃ paśuṃ raśanayā yathā 62 vinadantaṃ mahānādaṃ bhinnabherī samasvanam bhrāmayām āsa suciraṃ visphurantam acetasam 63 taṃ viṣīdantam ājñāya rākṣasaṃ pāṇḍunandanaḥ pragṛhya tarasā dorbhyāṃ paśumāram amārayan 64 ākramya sa kaṭī deśe jānunā rākṣasādhamam apīḍayata bāhubbhyāṃ kaṇṭhaṃ tasya vṛkodaraḥ 65 atha taṃ jaḍa sarvāṅgaṃ vyāvṛttanayanolbaṇam bhūtale pātayām āsa vākyaṃ cedam uvāca ha 66 hiḍimbabakayoḥ pāpana tvam aśrupramārjanam kariṣyasi gataś cāsi yamasya sadanaṃ prati 67 ity evam uktvā puruṣapravīras; taṃ rākṣasaṃ krodhavivṛtta netraḥ prasrastavastrābharaṇaṃ sphurantam; udbbhrānta cittaṃ vyasum utsasarja 68 tasmin hate toyadatulyarūpe; kṛṣṇāṃ puraskṛtya narendraputrāḥ bhīmaṃ praśasyātha guṇair anekair; hṛṣṭās tato dvaitavanāya jagmuḥ 69 evaṃ vinihataḥ saṃkhye kirmīro manujādhipa bhīmena vacanād asya dharmarājasya kaurava 70 tato niṣkaṇṭakaṃ kṛtvā vanaṃ tad aparājitaḥ draupadyā sahadharmajño vasatiṃ tām uvāsa ha 71 samāśvāsya ca te sarve draupadīṃ bharatarṣabhāḥ prahṛṣṭamanasaḥ prītyā praśaśaṃsur vṛkodaram 72 bhīma bāhubalotpiṣṭe vinaṣṭe rākṣase tataḥ viviśus tad vanaṃ vīrāḥ kṣemaṃ nihatakaṇṭakam 73 sa mayā gacchatā mārge vinikīrṇo bhayāvahaḥ vane mahati duṣṭātmā dṛṣṭo bhīmabalād dhataḥ 74 tatrāśrauṣam ahaṃ caitat karma bhīmasya bhārata brāhmaṇānāṃ kathayatāṃ ye tatrāsan samāgatāḥ 75 evaṃ vinihataṃ saṃkhye kirmīraṃ rākṣasottamam śrutvā dhyānaparo rājā niśaśvāsārtavat tadā |
The Mahabharata in Sanskrit
Book 3
Chapter 13
|
1
[वै] भॊजाः परव्रजिताञ शरुत्वा वृष्णयश चान्धकैः सह पाण्डवान दुःखसंतप्तान समाजग्मुर महावने 2 पाञ्चालस्य च दायादा धृष्टकेतुश च चेदिपः केकयाश च महावीर्या भरातरॊ लॊकविश्रुताः 3 वने ते ऽभिययुः पार्थान करॊधामर्श समन्विताः गर्हयन्तॊ धार्तराष्ट्रान किं कुर्म इति चाब्रुवन 4 वासुदेवं पुरस्कृत्य सर्वे ते कषत्रियर्षभाः परिवार्यॊपविविशुर धर्मराजं युधिष्ठिरम 5 [वा] दुर्यॊधनस्य कर्णस्य शकुनेश च दुरात्मनः दुःशासनचतुर्थानां भूमिः पास्यति शॊणितम 6 ततः सर्वे ऽभिषिञ्चामॊ धर्मराजं युधिष्ठिरम निकृत्यॊपचरन वध्य एव धर्मः सनातनः 7 [वै] पार्थानाम अभिषङ्गेण तथा करुद्धं जनार्दनम अर्जुनः शमयाम आसा दिधक्षन्तम इव परजाः 8 संक्रुद्धं केशवं दृष्ट्वा पूर्वदेहेषु फल्गुनः कीर्तयाम आस कर्माणि सत्यकीर्तेर महात्मनः 9 पुरुषस्याप्रमेयस्य सत्यस्यामित तेजसः परजापतिपतेर विष्णॊर लॊकनाथस्य धीमतः 10 [अर] दशवर्षसहस्राणि यत्रसायं गृहॊ मुनिः वयचरस तवं पुरा कृष्ण पर्वते गन्धमादने 11 दशवर्षसहस्राणि दशवर्षशतानि च पुष्करेष्व अवसः कृष्ण तवम अपॊ भक्षयन पुरा 12 ऊर्ध्वबाहुर विशालायां बदर्यां मधुसूदन अतिष्ठ एकपादेन वायुभक्षः शतं समाः 13 अपकृष्टॊत्तरासङ्गः कृशॊ धमनि संततः आसीः कृष्ण सरस्वत्यां सत्रे दवादश वार्षिके 14 परभासं चाप्य अथासाद्य तीर्थं पुण्यजनॊचितम तथा कृष्ण महातेजा दिव्यं वर्षसहस्रकम आतिष्ठस तप एकेन पादेन नियमे सथितः 15 कषेत्रजः सर्वभूतानाम आदिर अन्तश च केशव निधानं तपसां कृष्ण यज्ञस तवं च सनातनः 16 निहत्य नरकं भौमम आहृत्य मणिकुण्डले परथमॊत्पादितं कृष्ण मेध्यम अश्वम अवासृजः 17 कृत्वा तत कर्म लॊकानाम ऋषभः सर्वलॊकजित अवधीस तवं रणे सर्वान समेतान दैत्यदानवान 18 ततः सर्वेश्वरत्वं च संप्रदाय शचीपतेः मानुषेषु महाबाहॊ परादुर्भूतॊ ऽसि केशव 19 स तवं नारायणॊ भूत्वा हरिर आसीः परंतप बरह्मा सॊमश च सूर्यश च धर्मॊ धाता यमॊ ऽनलः 20 वायुर वैश्रवणॊ रुद्रः कालः खं पृथिवी दिशः अजश चराचरगुरुः सरष्टा तवं पुरुषॊत्तम 21 तुरायणादिभिर देवक्रतुभिर भूरिदक्षिणैः अयजॊ भूरि तेजा वै कृष्ण चैत्ररथॊ वने 22 शतं शतसहस्राणि सुवर्णस्य जनार्दन एकैकस्मिंस तदा रज्ञे परिपूर्णानि भागशः 23 अदितेर अपि पुत्रत्वम एत्य यादवनन्दन तवं विष्णुर इति विख्यात इन्द्राद अवरजॊ भुवि 24 शिशुर भूत्वा दिवं खं च पृथिवीं च परंतप तरिभिर विक्रमणैः कृष्ण करान्तवान असि तेजसा 25 संप्राप्य दिवम आकाशम आदित्यसदने सथितः अत्यरॊचश च भूतात्मन भास्करं सवेन तेजसा 26 सादिता मौरवाः पाशा निसुन्द नरकौ हतौ कृतः कषेमः पुनः पन्थाः पुरं पराग्ज्यॊतिषं परति 27 जारूथ्याम आहुतिः कराथः शिशुपालॊ जनैः सह भीमसेनश च शैब्यश च शतधन्वा च निर्जितः 28 तथा पर्जन्यघॊषेण रथेनादित्यवर्चसा अवाक्षीर महिषीं भॊज्यां रणे निर्जित्य रुक्मिणम 29 इन्द्र दयुम्नॊ हतः कॊपाद यवनश च कशेरुमान हतः सौभपतिः शाल्वस तवया सौभं च पातितम 30 इरावत्यां तथा भॊजः कार्तवीर्यसमॊ युधि गॊपतिस तालकेतुश च तवया विनिहताव उभौ 31 तां च भॊगवतीं पुण्याम ऋषिकान्तां जनार्दन दवारकाम आत्मसात्कृत्वा समुद्रं गमयिष्यसि 32 न करॊधॊ न च मात्सर्यं नानृतं मधुसूदन तवयि तिष्ठति दाशार्ह न नृशंस्यं कुतॊ ऽनघ 33 आसीनं चित्तमध्ये तवां दीप्यमानं सवतेजसा आगम्य ऋषयः सर्वे ऽयाचन्ताभयम अच्युत 34 युगान्ते सर्वभूतानि संक्षिप्य मधुसूदन आत्मन्य एवात्म सात्कृत्वा जगद आस्से परंतप 35 नैवं पूर्वे नापरे वा करिष्यन्ति कृतानि ते कर्माणि यानि देव तवं बाल एव महाद्युते 36 कृतवान पुण्डरीकाक्ष बलदेव सहायवान वैराज भवने चापि बरह्मणा नयवसः सह 37 [वै] एवम उक्त्वा तदात्मानम आत्मा कृष्णस्य पाण्डवः तूष्णीम आसीत ततः पार्थम इत्य उवाच जनार्दनः 38 ममैव तवं तवैवाहं ये मदीयास तवैव ते यस तवां दवेष्टि स मां दवेष्टि यस तवाम अनु स माम अनु 39 नरस तवम असि दुर्धर्ष हरिर नारायणॊ हय अहम लॊकाल लॊकम इमं परप्तौ नरनारायणाव ऋषी 40 अनन्यः पार्थ मत्तस तवम अहं तवत्तश च भारत नावयॊर अन्तरं शक्यं वेदितुं भरतर्षभ 41 तस्मिन वीर समावाये संरब्धेष्व अथ राजसु धृष्टद्युम्नमुखैर वीरैर भरातृभिः परिवारिता 42 पाञ्चाली पुण्डरीकाक्षम आसीनं यादवैः सह अभिगम्याब्रवीत कृष्णा शरण्यं शरणैषिणी 43 पूर्वे परजा निसर्वे तवाम आहुर एकं परजापतिम सरष्टारं सर्वभूतानाम असितॊ देवलॊ ऽबरवीत 44 विष्णुस तवम असि दुर्धर्ष तवं यज्ञॊ मधुसूदन यष्टा तवम असि यष्टव्यॊ जामदग्न्यॊ यथाब्रवीत 45 ऋषयस तवां कषमाम आहुः सत्यं च पुरुषॊत्तम सत्याद यज्ञॊ ऽसि संभूतः कश्यपस तवां यथाब्रवीत 46 साध्यानाम अपि देवानां वसूनाम ईश्वरेश्वर लॊभभावेन लॊकेश यथा तवां नारदॊ ऽबरवीत 47 दिवं ते शिरसा वयाप्तं पद्भ्यां च पृथिवी विभॊ जठरं ते इमे लॊकाः पुरुषॊ ऽसि सनातनः 48 विद्या तपॊ ऽभितप्तानां तपसा भावितात्मनाम आत्मदर्शनसिद्धानाम ऋषीणाम ऋषिसत्तम 49 राजर्षीणां पुण्यकृताम आहवेष्व अनिवर्तिनाम सर्वधर्मॊपपन्नानां तवं गतिः पुरुषॊत्तम 50 तवं परभुस तवं विभुस तवं भूर आत्मभूस तवं सनातनः लॊकपालाश च लॊकाश च नक्षत्राणि दिशॊ दश नभश चन्द्रश च सूर्यश च तवयि सर्वं परतिष्ठितम 51 मर्त्यता चैव भूतानाम अमरत्वं दिवौकसाम तवयि सर्वं महाबाहॊ लॊककार्यं परतिष्ठितम 52 सा ते ऽहं दुःखम आख्यास्ये परणयान मधुसूदन ईशस तवं सर्वभूतानां ये दिव्या ये च मानुषाः 53 कथं नु भार्या पार्थानां तव कृष्ण सखी विभॊ धृष्टद्युम्नस्य भगिनी सभां कृष्येत मादृशी 54 सत्री धर्मिणी वेपमाना रुधिरेण समुक्षिता एकवस्त्रा विकृष्टास्मि दुःखिता कुरुसंसदि 55 राजमध्ये सभायां तु रजसाभिसमीरिताम दृष्ट्वा च मां धार्तराष्ट्रः पराहसन पापचेतसः 56 दासी भावेन भॊक्तुं माम ईषुस ते मधुसूदन जीवत्सु पाण्डुपुत्रेषु पाञ्चालेष्व अथ वृष्णिषु 57 नन्व अहं कृष्टभीष्मस्य धृतराष्ट्रस्य चॊभयॊः सनुषा भवामि धर्मेण साहं दासी कृता बलात 58 गर्हये पाण्डवांस तव एव युधि शरेष्ठान महाबलान ये कलिश्यमानां परेक्षन्ते धर्मपत्नीं यशस्विनीम 59 धिग बलं भीमसेनस्य धिक पार्थस्य धनुष्मताम यौ मां विप्रकृतां कषुद्रैर मर्षयेतां जनार्दन 60 शाश्वतॊ ऽयं धर्मपथः सद्भिर आचरितः सदा यद भार्यां परिरक्षन्ति भर्तारॊ ऽलपबला अपि 61 भार्यायां रक्ष्यमाणायां परजा भवति रक्षिता परजायां रक्ष्यमाणायाम आत्मा भवति रक्षितः 62 आत्मा हि जायते तस्यां तस्माज जाया भवत्य उत भर्ता च भार्यया रक्ष्यः कथं जायान ममॊदरे 63 नन्व इमे शरणं पराप्तान न तयजन्ति कदा चन ते मां शरणम आपान्नां नान्वपद्यन्त पाण्डवाः 64 पञ्चेमे पञ्चभिर जाताः कुमाराश चामितौजसः एतेषाम अप्य अवेक्षार्थं तरातव्यास्मि जनार्दन 65 परतिविन्ध्यॊ युधिष्ठिरात सुत सॊमॊ वृकॊदरात अर्जुनाच छरुत कीरित्स तु शतानीकस तु नाकुलिः 66 कनिष्टाच छरुत कर्मा तु सर्वे सत्यपराक्रमाः परद्युम्नॊ यादृशः कृष्ण तादृशास ते महारथाः 67 नन्व इमे धनुषि शरेष्ठा अजेया युधि शात्रवैः किमर्थं धार्तराष्ट्राणां सहन्ते दुर्बलीयसाम 68 अधार्मेण हृतं राज्यं सर्वे दासाः कृतास तथा सभायां परिकृष्टाहम एकवस्त्रा रजस्वला 69 नाधिज्यम अपि यच छक्यं कर्तुम अन्येन गाण्डिवम अन्यत्रार्जुन भीमाभ्यां तवया वा मधुसूदन 70 धिग भीमसेनस्य बलं धिक पार्थस्य च गाण्डिवम यत्र दुर्यॊधनः कृष्ण मुहूर्तम अपि जीवति 71 य एतान आक्षिपद राष्ट्रात सह मात्राविहिंसकान अधीयानान पुरा बालान वरतस्थान मधुसूदन 72 भॊजने भीमसेनस्य पापः पराक्षेपयद विषम कालकूटं नवं तीक्ष्णं संभृतं लॊमहर्षणम 73 तज जीर्णम अविकारेण सहान्नेन जनार्दन सशेषत्वान महाबाहॊ भीमस्य पुरुषॊत्तम 74 परमाण कॊट्यां विश्वस्तं तथा सुप्तं वृकॊदरम बद्ध्वैनं कृष्ण गङ्गायां परक्षिप्य पुनर आव्रजत 75 यदा विबुद्धः कौन्तेयस तदा संछिद्य बन्धनम उदतिष्ठन महाबाहुर भीमसेनॊ महाबलः 76 आशीविषैः कृष्णसर्पैः सुप्तं चैनम अदर्शयत सर्वेष्व एवाङ्गदेशेषु न ममार च शत्रुहा 77 परतिब्बुद्धस तु कौन्तेयः सर्वान सर्पान अपॊथयत सारथिं चास्य दयितम अपहस्तेन जघ्निवान 78 पुनः सुप्तान उपाधाक्षीद बालकान वारणावते शयानान आर्यया सार्धं कॊ नु तत कर्तुम अर्हति 79 यत्रार्या रुदती भीता पाण्डवान इदम अब्रवीत महद वयसनम आपन्ना शिखिना परिवारिता 80 हाहतास्मि कुतॊ नव अद्य भवेच छान्तिर इहानलात अनाथा विनशिष्यामि बालकैः पुत्रकैः सह 81 तत्र भीमॊ महाबाहुर वायुवेगपराक्रमः आर्याम आश्वासयाम आस भरातॄंश चापि वृकॊदरः 82 वैनतेयॊ यथा पक्षी गरुडः पततां वरः तथैवाभिपतिष्यामि भयं वॊ नेह विद्यते 83 आर्याम अङ्केन वामेन राजानं दक्षिणेन च अंसयॊश च यमौ कृत्वा पृष्ठे बीभत्सुम एव च 84 सहसॊत्पत्य वेगेन सर्वान आदाय वीर्यवान भरातॄन आर्यां च बलवान मॊक्षयाम आस पावकात 85 ते रात्रौ परस्थिताः सर्वे मात्रा सह यशस्विनः अभ्यगच्छन महारण्यं हिडिम्बवनम अन्तिकात 86 शरान्ताः परसुप्तास तत्रेमे मात्रा सह सुदुःखिताः सुप्तांश चैनान अभ्यगच्छद धिडिम्बा नाम राक्षसी 87 भीमस्य पादौ कृत्वा तु ख उत्सङ्गे ततॊ बलात पर्यमर्दत संहृष्टा कल्याणी मृदु पाणिना 88 ताम अबुध्यद अमेयात्मा बलवान सत्यविक्रमः पर्यपृच्छच च तां भीमः किम इहेच्छस्य अनिन्दिते 89 तयॊः शरुता तु कथितम आगच्छद राक्षसाधमः भीमरूपॊ महानादान विसृजन भीमदर्शनः 90 केन सार्धं कथयसि आनयैनं ममान्तिकम हिडिम्बे भक्षयिष्यावॊ नचिरं कर्तुम अर्हसि 91 सा कृपा संगृहीतेन हृदयेन मनस्विनी नैनम ऐछत तदाख्यातुम अनुक्रॊशाद अनिन्दिता 92 स नादान विनदन घॊरान राक्षसः पुरुषादकः अभ्यद्रवत वेगेन भीमसेनं तदा किल 93 तम अभिद्रुत्य संक्रुद्धॊ वेगेन महता बली अगृह्णात पाणिना पाणिं भीमसेनस्य राक्षसः 94 इन्द्राशनिसमस्पर्शं वज्रसंहननं दृढम संहत्य भीमसेनाय वयाक्षिपत सहसा करम 95 गृहीतं पाणिना पाणिं भीमसेनॊ ऽथ रक्षसा नामृष्यत महाबाहुस तत्राक्रुध्यद वृकॊदरः 96 तत्रासीत तुमुलं युद्धं भीमसेनहिडिम्बयॊः सर्वास्त्रविदुषॊर घॊरं वृत्रवासवयॊर इव 97 हत्वा हिडिम्बं भीमॊ ऽथ परस्थितॊ भरातृभिः सह हिडिम्बाम अग्रतः कृत्वा यस्यां जातॊ घटॊत्कचः 98 ततश च पराद्रवन सर्वे सह मात्रा यशस्विनः एकचक्राम अभिमुखाः संवृता बराह्मण वरजैः 99 परस्थाने वयास एषां न मन्त्री परियहितॊ ऽभवत ततॊ ऽगच्छन्न एकचक्रां पाण्डवाः संशितव्रताः 100 तत्र अप्य आसादयाम आसुर बकं नाम महाबलम पुरुषादं परतिभयं हिडिम्बेनैव संमितम 101 तं चापि विनिहत्यॊग्रं भीमः परहरतां वरः सहितॊ भरातृभिः सर्वैर दरुपदस्य पुरं ययौ 102 लब्धाहम अपि तत्रैव वसता सव्यसाचिना यथा तवया जिता कृष्ण रुक्मिणी भीष्मकात्मजा 103 एवं सुयुद्धे पार्थेन जिताहं मधुसूदन सवयंवरे महत कर्मकृत्वा नसुकरं परैः 104 एवं कलेशैः सुबहुभिः कलिश्यमानाः सुदुःखिताः निवसाम आर्यया हीनाः कृष्ण धौम्य पुरःसराः 105 त इमे सिंहविक्रान्ता वीर्येणाभ्यधिका परैः विहीनैः परिक्लिश्यन्तीं समुपेक्षन्त मां कथम 106 एतादृशानि दुःखानि सहन्ते दुर्बलीयसाम दीर्घकालं परदीप्तानि पापानां कषुद्रकर्मणाम 107 कुले महति जातास्मि दिव्येन विधिना किल पाण्डवानां परिया भार्या सनुषा पाण्डॊर महात्मनः 108 कच गरहम अनुप्राप्ता सास्मि कृष्ण वरा सती पञ्चानाम इन्द्रकल्पानां परेक्षतां मधुसूदन 109 इत्य उक्त्वा परारुदत कृष्णा मुखं पच्छाद्य पाणिना पद्मकेश परकाशेन मृदुना मृदुभाषिणी 110 सतनाव अपतितौ पीनौ सुजातौ शुभलक्षणौ अभ्यवर्षत पाञ्चाली दुःखजैर अश्रुबिन्दुभिः 111 चक्षुषी परिमार्जन्ती निःश्वसन्ती पुनः पुनः बाष्पपूर्णेन कण्ठेन करुद्धा वचनम अब्रवीत 112 नैव मे पतयः सन्ति न पुत्रा मधुसूदन न भरातरॊ न च पिता नैव तवं न च बान्धवाः 113 ये मां विप्रकृतां कषुद्रैर उपेक्षध्वं विशॊकवत न हि मे शाम्यते दुःखं कर्णॊ यत पराहसत तदा 114 अथैनाम अब्रवीत कृष्णस तस्मिन वीर समागमे रॊदिष्यन्ति सत्रियॊ हय एवं येषां करुद्धासि भामिनि 115 बीभत्सु शरसांछन्नाञ शॊणितौघपरिप्लुतान निहताञ जीवितं तयक्त्वा शयानान वसुधातले 116 यत समर्थं पाण्डवानां तत करिष्यामि मा शुचः सत्यं ते परतिजानामि राज्ञां राज्ञी भविष्यसि 117 पतेद दयौर हिमवाञ शीर्येत पृथिवी शकलीभवेत शुष्येत तॊयनिधिः कृष्णे न मे मॊघं वचॊ भवेत 118 [धृस्त] अहं दरॊणं हनिष्यामि शिखण्डी तु पितामहम दुर्यॊधनं भीमसेनः कर्णं हन्ता धनंजयः 119 राम कृष्णौ वयपाश्रित्य अजेयाः सम शुचिस्मिते अपि वृत्रहणा युद्धे किं पुनर धृतराष्ट्रजैः 120 [वै] इत्य उक्ते ऽभिमुखा वीरा वासुदेव्वम उपस्थिता तेषां मध्ये महाबाहुः केशवॊ वाक्यम अब्रवीत |
1
[vai] bhojāḥ pravrajitāñ śrutvā vṛṣṇayaś cāndhakaiḥ saha pāṇḍavān duḥkhasaṃtaptān samājagmur mahāvane 2 pāñcālasya ca dāyādā dhṛṣṭaketuś ca cedipaḥ kekayāś ca mahāvīryā bhrātaro lokaviśrutāḥ 3 vane te 'bhiyayuḥ pārthān krodhāmarśa samanvitāḥ garhayanto dhārtarāṣṭrān kiṃ kurma iti cābruvan 4 vāsudevaṃ puraskṛtya sarve te kṣatriyarṣabhāḥ parivāryopaviviśur dharmarājaṃ yudhiṣṭhiram 5 [vā] duryodhanasya karṇasya śakuneś ca durātmanaḥ duḥśāsanacaturthānāṃ bhūmiḥ pāsyati śoṇitam 6 tataḥ sarve 'bhiṣiñcāmo dharmarājaṃ yudhiṣṭhiram nikṛtyopacaran vadhya eva dharmaḥ sanātanaḥ 7 [vai] pārthānām abhiṣaṅgeṇa tathā kruddhaṃ janārdanam arjunaḥ śamayām āsā didhakṣantam iva prajāḥ 8 saṃkruddhaṃ keśavaṃ dṛṣṭvā pūrvadeheṣu phalgunaḥ kīrtayām āsa karmāṇi satyakīrter mahātmanaḥ 9 puruṣasyāprameyasya satyasyāmita tejasaḥ prajāpatipater viṣṇor lokanāthasya dhīmataḥ 10 [ar] daśavarṣasahasrāṇi yatrasāyaṃ gṛho muniḥ vyacaras tvaṃ purā kṛṣṇa parvate gandhamādane 11 daśavarṣasahasrāṇi daśavarṣaśatāni ca puṣkareṣv avasaḥ kṛṣṇa tvam apo bhakṣayan purā 12 ūrdhvabāhur viśālāyāṃ badaryāṃ madhusūdana atiṣṭha ekapādena vāyubhakṣaḥ śataṃ samāḥ 13 apakṛṣṭottarāsaṅgaḥ kṛśo dhamani saṃtataḥ āsīḥ kṛṣṇa sarasvatyāṃ satre dvādaśa vārṣike 14 prabhāsaṃ cāpy athāsādya tīrthaṃ puṇyajanocitam tathā kṛṣṇa mahātejā divyaṃ varṣasahasrakam ātiṣṭhas tapa ekena pādena niyame sthitaḥ 15 kṣetrajaḥ sarvabhūtānām ādir antaś ca keśava nidhānaṃ tapasāṃ kṛṣṇa yajñas tvaṃ ca sanātanaḥ 16 nihatya narakaṃ bhaumam āhṛtya maṇikuṇḍale prathamotpāditaṃ kṛṣṇa medhyam aśvam avāsṛjaḥ 17 kṛtvā tat karma lokānām ṛṣabhaḥ sarvalokajit avadhīs tvaṃ raṇe sarvān sametān daityadānavān 18 tataḥ sarveśvaratvaṃ ca saṃpradāya śacīpateḥ mānuṣeṣu mahābāho prādurbhūto 'si keśava 19 sa tvaṃ nārāyaṇo bhūtvā harir āsīḥ paraṃtapa brahmā somaś ca sūryaś ca dharmo dhātā yamo 'nalaḥ 20 vāyur vaiśravaṇo rudraḥ kālaḥ khaṃ pṛthivī diśaḥ ajaś carācaraguruḥ sraṣṭā tvaṃ puruṣottama 21 turāyaṇādibhir devakratubhir bhūridakṣiṇaiḥ ayajo bhūri tejā vai kṛṣṇa caitraratho vane 22 śataṃ śatasahasrāṇi suvarṇasya janārdana ekaikasmiṃs tadā rajñe paripūrṇāni bhāgaśaḥ 23 aditer api putratvam etya yādavanandana tvaṃ viṣṇur iti vikhyāta indrād avarajo bhuvi 24 śiśur bhūtvā divaṃ khaṃ ca pṛthivīṃ ca paraṃtapa tribhir vikramaṇaiḥ kṛṣṇa krāntavān asi tejasā 25 saṃprāpya divam ākāśam ādityasadane sthitaḥ atyarocaś ca bhūtātman bhāskaraṃ svena tejasā 26 sāditā mauravāḥ pāśā nisunda narakau hatau kṛtaḥ kṣemaḥ punaḥ panthāḥ puraṃ prāgjyotiṣaṃ prati 27 jārūthyām āhutiḥ krāthaḥ śiśupālo janaiḥ saha bhīmasenaś ca śaibyaś ca śatadhanvā ca nirjitaḥ 28 tathā parjanyaghoṣeṇa rathenādityavarcasā avākṣīr mahiṣīṃ bhojyāṃ raṇe nirjitya rukmiṇam 29 indra dyumno hataḥ kopād yavanaś ca kaśerumān hataḥ saubhapatiḥ śālvas tvayā saubhaṃ ca pātitam 30 irāvatyāṃ tathā bhojaḥ kārtavīryasamo yudhi gopatis tālaketuś ca tvayā vinihatāv ubhau 31 tāṃ ca bhogavatīṃ puṇyām ṛṣikāntāṃ janārdana dvārakām ātmasātkṛtvā samudraṃ gamayiṣyasi 32 na krodho na ca mātsaryaṃ nānṛtaṃ madhusūdana tvayi tiṣṭhati dāśārha na nṛśaṃsyaṃ kuto 'nagha 33 āsīnaṃ cittamadhye tvāṃ dīpyamānaṃ svatejasā āgamya ṛṣayaḥ sarve 'yācantābhayam acyuta 34 yugānte sarvabhūtāni saṃkṣipya madhusūdana ātmany evātma sātkṛtvā jagad āsse paraṃtapa 35 naivaṃ pūrve nāpare vā kariṣyanti kṛtāni te karmāṇi yāni deva tvaṃ bāla eva mahādyute 36 kṛtavān puṇḍarīkākṣa baladeva sahāyavān vairāja bhavane cāpi brahmaṇā nyavasaḥ saha 37 [vai] evam uktvā tadātmānam ātmā kṛṣṇasya pāṇḍavaḥ tūṣṇīm āsīt tataḥ pārtham ity uvāca janārdanaḥ 38 mamaiva tvaṃ tavaivāhaṃ ye madīyās tavaiva te yas tvāṃ dveṣṭi sa māṃ dveṣṭi yas tvām anu sa mām anu 39 naras tvam asi durdharṣa harir nārāyaṇo hy aham lokāl lokam imaṃ praptau naranārāyaṇāv ṛṣī 40 ananyaḥ pārtha mattas tvam ahaṃ tvattaś ca bhārata nāvayor antaraṃ śakyaṃ vedituṃ bharatarṣabha 41 tasmin vīra samāvāye saṃrabdheṣv atha rājasu dhṛṣṭadyumnamukhair vīrair bhrātṛbhiḥ parivāritā 42 pāñcālī puṇḍarīkākṣam āsīnaṃ yādavaiḥ saha abhigamyābravīt kṛṣṇā śaraṇyaṃ śaraṇaiṣiṇī 43 pūrve prajā nisarve tvām āhur ekaṃ prajāpatim sraṣṭāraṃ sarvabhūtānām asito devalo 'bravīt 44 viṣṇus tvam asi durdharṣa tvaṃ yajño madhusūdana yaṣṭā tvam asi yaṣṭavyo jāmadagnyo yathābravīt 45 ṛṣayas tvāṃ kṣamām āhuḥ satyaṃ ca puruṣottama satyād yajño 'si saṃbhūtaḥ kaśyapas tvāṃ yathābravīt 46 sādhyānām api devānāṃ vasūnām īśvareśvara lobhabhāvena lokeśa yathā tvāṃ nārado 'bravīt 47 divaṃ te śirasā vyāptaṃ padbhyāṃ ca pṛthivī vibho jaṭharaṃ te ime lokāḥ puruṣo 'si sanātanaḥ 48 vidyā tapo 'bhitaptānāṃ tapasā bhāvitātmanām ātmadarśanasiddhānām ṛṣīṇām ṛṣisattama 49 rājarṣīṇāṃ puṇyakṛtām āhaveṣv anivartinām sarvadharmopapannānāṃ tvaṃ gatiḥ puruṣottama 50 tvaṃ prabhus tvaṃ vibhus tvaṃ bhūr ātmabhūs tvaṃ sanātanaḥ lokapālāś ca lokāś ca nakṣatrāṇi diśo daśa nabhaś candraś ca sūryaś ca tvayi sarvaṃ pratiṣṭhitam 51 martyatā caiva bhūtānām amaratvaṃ divaukasām tvayi sarvaṃ mahābāho lokakāryaṃ pratiṣṭhitam 52 sā te 'haṃ duḥkham ākhyāsye praṇayān madhusūdana īśas tvaṃ sarvabhūtānāṃ ye divyā ye ca mānuṣāḥ 53 kathaṃ nu bhāryā pārthānāṃ tava kṛṣṇa sakhī vibho dhṛṣṭadyumnasya bhaginī sabhāṃ kṛṣyeta mādṛśī 54 strī dharmiṇī vepamānā rudhireṇa samukṣitā ekavastrā vikṛṣṭāsmi duḥkhitā kurusaṃsadi 55 rājamadhye sabhāyāṃ tu rajasābhisamīritām dṛṣṭvā ca māṃ dhārtarāṣṭraḥ prāhasan pāpacetasaḥ 56 dāsī bhāvena bhoktuṃ mām īṣus te madhusūdana jīvatsu pāṇḍuputreṣu pāñcāleṣv atha vṛṣṇiṣu 57 nanv ahaṃ kṛṣṭabhīṣmasya dhṛtarāṣṭrasya cobhayoḥ snuṣā bhavāmi dharmeṇa sāhaṃ dāsī kṛtā balāt 58 garhaye pāṇḍavāṃs tv eva yudhi śreṣṭhān mahābalān ye kliśyamānāṃ prekṣante dharmapatnīṃ yaśasvinīm 59 dhig balaṃ bhīmasenasya dhik pārthasya dhanuṣmatām yau māṃ viprakṛtāṃ kṣudrair marṣayetāṃ janārdana 60 śāśvato 'yaṃ dharmapathaḥ sadbhir ācaritaḥ sadā yad bhāryāṃ parirakṣanti bhartāro 'lpabalā api 61 bhāryāyāṃ rakṣyamāṇāyāṃ prajā bhavati rakṣitā prajāyāṃ rakṣyamāṇāyām ātmā bhavati rakṣitaḥ 62 ātmā hi jāyate tasyāṃ tasmāj jāyā bhavaty uta bhartā ca bhāryayā rakṣyaḥ kathaṃ jāyān mamodare 63 nanv ime śaraṇaṃ prāptān na tyajanti kadā cana te māṃ śaraṇam āpānnāṃ nānvapadyanta pāṇḍavāḥ 64 pañceme pañcabhir jātāḥ kumārāś cāmitaujasaḥ eteṣām apy avekṣārthaṃ trātavyāsmi janārdana 65 prativindhyo yudhiṣṭhirāt suta somo vṛkodarāt arjunāc chruta kīrits tu śatānīkas tu nākuliḥ 66 kaniṣṭāc chruta karmā tu sarve satyaparākramāḥ pradyumno yādṛśaḥ kṛṣṇa tādṛśās te mahārathāḥ 67 nanv ime dhanuṣi śreṣṭhā ajeyā yudhi śātravaiḥ kimarthaṃ dhārtarāṣṭrāṇāṃ sahante durbalīyasām 68 adhārmeṇa hṛtaṃ rājyaṃ sarve dāsāḥ kṛtās tathā sabhāyāṃ parikṛṣṭāham ekavastrā rajasvalā 69 nādhijyam api yac chakyaṃ kartum anyena gāṇḍivam anyatrārjuna bhīmābhyāṃ tvayā vā madhusūdana 70 dhig bhīmasenasya balaṃ dhik pārthasya ca gāṇḍivam yatra duryodhanaḥ kṛṣṇa muhūrtam api jīvati 71 ya etān ākṣipad rāṣṭrāt saha mātrāvihiṃsakān adhīyānān purā bālān vratasthān madhusūdana 72 bhojane bhīmasenasya pāpaḥ prākṣepayad viṣam kālakūṭaṃ navaṃ tīkṣṇaṃ saṃbhṛtaṃ lomaharṣaṇam 73 taj jīrṇam avikāreṇa sahānnena janārdana saśeṣatvān mahābāho bhīmasya puruṣottama 74 pramāṇa koṭyāṃ viśvastaṃ tathā suptaṃ vṛkodaram baddhvainaṃ kṛṣṇa gaṅgāyāṃ prakṣipya punar āvrajat 75 yadā vibuddhaḥ kaunteyas tadā saṃchidya bandhanam udatiṣṭhan mahābāhur bhīmaseno mahābalaḥ 76 āśīviṣaiḥ kṛṣṇasarpaiḥ suptaṃ cainam adarśayat sarveṣv evāṅgadeśeṣu na mamāra ca śatruhā 77 pratibbuddhas tu kaunteyaḥ sarvān sarpān apothayat sārathiṃ cāsya dayitam apahastena jaghnivān 78 punaḥ suptān upādhākṣīd bālakān vāraṇāvate śayānān āryayā sārdhaṃ ko nu tat kartum arhati 79 yatrāryā rudatī bhītā pāṇḍavān idam abravīt mahad vyasanam āpannā śikhinā parivāritā 80 hāhatāsmi kuto nv adya bhavec chāntir ihānalāt anāthā vinaśiṣyāmi bālakaiḥ putrakaiḥ saha 81 tatra bhīmo mahābāhur vāyuvegaparākramaḥ āryām āśvāsayām āsa bhrātṝṃś cāpi vṛkodaraḥ 82 vainateyo yathā pakṣī garuḍaḥ patatāṃ varaḥ tathaivābhipatiṣyāmi bhayaṃ vo neha vidyate 83 āryām aṅkena vāmena rājānaṃ dakṣiṇena ca aṃsayoś ca yamau kṛtvā pṛṣṭhe bībhatsum eva ca 84 sahasotpatya vegena sarvān ādāya vīryavān bhrātṝn āryāṃ ca balavān mokṣayām āsa pāvakāt 85 te rātrau prasthitāḥ sarve mātrā saha yaśasvinaḥ abhyagacchan mahāraṇyaṃ hiḍimbavanam antikāt 86 śrāntāḥ prasuptās tatreme mātrā saha suduḥkhitāḥ suptāṃś cainān abhyagacchad dhiḍimbā nāma rākṣasī 87 bhīmasya pādau kṛtvā tu kha utsaṅge tato balāt paryamardata saṃhṛṣṭā kalyāṇī mṛdu pāṇinā 88 tām abudhyad ameyātmā balavān satyavikramaḥ paryapṛcchac ca tāṃ bhīmaḥ kim ihecchasy anindite 89 tayoḥ śrutā tu kathitam āgacchad rākṣasādhamaḥ bhīmarūpo mahānādān visṛjan bhīmadarśanaḥ 90 kena sārdhaṃ kathayasi ānayainaṃ mamāntikam hiḍimbe bhakṣayiṣyāvo naciraṃ kartum arhasi 91 sā kṛpā saṃgṛhītena hṛdayena manasvinī nainam aichat tadākhyātum anukrośād aninditā 92 sa nādān vinadan ghorān rākṣasaḥ puruṣādakaḥ abhyadravata vegena bhīmasenaṃ tadā kila 93 tam abhidrutya saṃkruddho vegena mahatā balī agṛhṇāt pāṇinā pāṇiṃ bhīmasenasya rākṣasaḥ 94 indrāśanisamasparśaṃ vajrasaṃhananaṃ dṛḍham saṃhatya bhīmasenāya vyākṣipat sahasā karam 95 gṛhītaṃ pāṇinā pāṇiṃ bhīmaseno 'tha rakṣasā nāmṛṣyata mahābāhus tatrākrudhyad vṛkodaraḥ 96 tatrāsīt tumulaṃ yuddhaṃ bhīmasenahiḍimbayoḥ sarvāstraviduṣor ghoraṃ vṛtravāsavayor iva 97 hatvā hiḍimbaṃ bhīmo 'tha prasthito bhrātṛbhiḥ saha hiḍimbām agrataḥ kṛtvā yasyāṃ jāto ghaṭotkacaḥ 98 tataś ca prādravan sarve saha mātrā yaśasvinaḥ ekacakrām abhimukhāḥ saṃvṛtā brāhmaṇa vrajaiḥ 99 prasthāne vyāsa eṣāṃ na mantrī priyahito 'bhavat tato 'gacchann ekacakrāṃ pāṇḍavāḥ saṃśitavratāḥ 100 tatr apy āsādayām āsur bakaṃ nāma mahābalam puruṣādaṃ pratibhayaṃ hiḍimbenaiva saṃmitam 101 taṃ cāpi vinihatyograṃ bhīmaḥ praharatāṃ varaḥ sahito bhrātṛbhiḥ sarvair drupadasya puraṃ yayau 102 labdhāham api tatraiva vasatā savyasācinā yathā tvayā jitā kṛṣṇa rukmiṇī bhīṣmakātmajā 103 evaṃ suyuddhe pārthena jitāhaṃ madhusūdana svayaṃvare mahat karmakṛtvā nasukaraṃ paraiḥ 104 evaṃ kleśaiḥ subahubhiḥ kliśyamānāḥ suduḥkhitāḥ nivasām āryayā hīnāḥ kṛṣṇa dhaumya puraḥsarāḥ 105 ta ime siṃhavikrāntā vīryeṇābhyadhikā paraiḥ vihīnaiḥ parikliśyantīṃ samupekṣanta māṃ katham 106 etādṛśāni duḥkhāni sahante durbalīyasām dīrghakālaṃ pradīptāni pāpānāṃ kṣudrakarmaṇām 107 kule mahati jātāsmi divyena vidhinā kila pāṇḍavānāṃ priyā bhāryā snuṣā pāṇḍor mahātmanaḥ 108 kaca graham anuprāptā sāsmi kṛṣṇa varā satī pañcānām indrakalpānāṃ prekṣatāṃ madhusūdana 109 ity uktvā prārudat kṛṣṇā mukhaṃ pacchādya pāṇinā padmakeśa prakāśena mṛdunā mṛdubhāṣiṇī 110 stanāv apatitau pīnau sujātau śubhalakṣaṇau abhyavarṣata pāñcālī duḥkhajair aśrubindubhiḥ 111 cakṣuṣī parimārjantī niḥśvasantī punaḥ punaḥ bāṣpapūrṇena kaṇṭhena kruddhā vacanam abravīt 112 naiva me patayaḥ santi na putrā madhusūdana na bhrātaro na ca pitā naiva tvaṃ na ca bāndhavāḥ 113 ye māṃ viprakṛtāṃ kṣudrair upekṣadhvaṃ viśokavat na hi me śāmyate duḥkhaṃ karṇo yat prāhasat tadā 114 athainām abravīt kṛṣṇas tasmin vīra samāgame rodiṣyanti striyo hy evaṃ yeṣāṃ kruddhāsi bhāmini 115 bībhatsu śarasāṃchannāñ śoṇitaughapariplutān nihatāñ jīvitaṃ tyaktvā śayānān vasudhātale 116 yat samarthaṃ pāṇḍavānāṃ tat kariṣyāmi mā śucaḥ satyaṃ te pratijānāmi rājñāṃ rājñī bhaviṣyasi 117 pated dyaur himavāñ śīryet pṛthivī śakalībhavet śuṣyet toyanidhiḥ kṛṣṇe na me moghaṃ vaco bhavet 118 [dhṛsta] ahaṃ droṇaṃ haniṣyāmi śikhaṇḍī tu pitāmaham duryodhanaṃ bhīmasenaḥ karṇaṃ hantā dhanaṃjayaḥ 119 rāma kṛṣṇau vyapāśritya ajeyāḥ sma śucismite api vṛtrahaṇā yuddhe kiṃ punar dhṛtarāṣṭrajaiḥ 120 [vai] ity ukte 'bhimukhā vīrā vāsudevvam upasthitā teṣāṃ madhye mahābāhuḥ keśavo vākyam abravīt |
The Mahabharata in Sanskrit
Book 3
Chapter 14
|
1
[वा] नेदं कृच्छ्रम अनुप्राप्तॊ भवान सयाद वसुधाधिप यद्य अहं दवारकायां सयां राजन संनिहितः पुरा 2 आगछेयम अहं दयूतम अनाहूतॊ ऽपि कौरवैः आम्बिकेयेन दुर्धर्ष राज्ञा दुर्यॊधनेन च 3 वारयेयम अहं दयूतं बहून दॊषान परदर्शयन भीष्मद्रॊणौ समानाय्य कृपं बाह्लीकम एव च 4 वैचित्रवीर्यं राजानम अल दयूतेन कौरव पुत्राणां तव राजेन्द्र तवन्निमित्तम इति परभॊ 5 तत्र वक्ष्याम्य अहं दॊषान यैर भवान अवरॊफितः वीरसेनसुतॊ यश च राज्यात परभ्रंशितः पुरा 6 अभक्षित विनाशंच देवनेन विशां पते सातत्यं च परसङ्गस्य वर्णयेयं यथासुखम 7 सत्रियॊ ऽकषा मृगया पानम एतत कामसमुत्थितम वयसनं चतुष्टयं परॊक्तं यै राजन भरश्यते सरियः 8 तत्र सर्वत्र वक्तव्यं मन्यन्ते शास्त्रकॊविदाः विशेषतश च वक्तव्यं दयूते पश्यन्ति तद्विदः 9 एकाह्ना दरव्यनाशॊ ऽतर धरुवं वयसनम एव च अभुक्त नाशश चार्थानां वाक पौरुष्यं च केवलम 10 एतच चान्यच च कौरव्य परसङ्गि कटुकॊदयम दयूते बरूयां महाबाहॊ समासाद्याम्बिका सुतम 11 एवम उक्तॊ यदि मया गृह्णीयाद वचनं मम अनामयं सयाद धर्मस्य कुरूणां कुरुनन्दन 12 न चेत स मम राजेन्द्र गृह्णीयान मधुरं वचः पथ्यं च भरतश्रेष्ठ निगृह्णीयां बलेन तम 13 अथैनान अभिनीयैवं सुहृदॊ नाम दुर्हृदः सभासदश च तान सर्वान भेदयेयं दुरॊदरान 14 असांनिध्यं तु कौरव्य ममानर्तेष्व अभूत तदा येनेदं वयसनं पराप्ता भवन्तॊ दयूतकारितम 15 सॊ ऽहम एत्य कुरुश्रेष्ठ दवारकां पाण्डुनन्दन अश्रौषं तवां वयसनिनं युयुधानाद यथा तथम 16 शरुत्वैव चाहं राजेन्द्र परमॊद्विग्न मानसः तूर्णम अभ्यागतॊ ऽसमि तवां दरष्टुकामॊ विशां पते 17 अहॊ कृच्छ्रम अनुप्राप्ताः सर्वे सम भरतर्षभ ये वयं तवां वयसनिनं पश्यामः सह सॊदरैः |
1
[vā] nedaṃ kṛcchram anuprāpto bhavān syād vasudhādhipa yady ahaṃ dvārakāyāṃ syāṃ rājan saṃnihitaḥ purā 2 āgacheyam ahaṃ dyūtam anāhūto 'pi kauravaiḥ āmbikeyena durdharṣa rājñā duryodhanena ca 3 vārayeyam ahaṃ dyūtaṃ bahūn doṣān pradarśayan bhīṣmadroṇau samānāyya kṛpaṃ bāhlīkam eva ca 4 vaicitravīryaṃ rājānam ala dyūtena kaurava putrāṇāṃ tava rājendra tvannimittam iti prabho 5 tatra vakṣyāmy ahaṃ doṣān yair bhavān avarophitaḥ vīrasenasuto yaś ca rājyāt prabhraṃśitaḥ purā 6 abhakṣita vināśaṃca devanena viśāṃ pate sātatyaṃ ca prasaṅgasya varṇayeyaṃ yathāsukham 7 striyo 'kṣā mṛgayā pānam etat kāmasamutthitam vyasanaṃ catuṣṭayaṃ proktaṃ yai rājan bhraśyate sriyaḥ 8 tatra sarvatra vaktavyaṃ manyante śāstrakovidāḥ viśeṣataś ca vaktavyaṃ dyūte paśyanti tadvidaḥ 9 ekāhnā dravyanāśo 'tra dhruvaṃ vyasanam eva ca abhukta nāśaś cārthānāṃ vāk pauruṣyaṃ ca kevalam 10 etac cānyac ca kauravya prasaṅgi kaṭukodayam dyūte brūyāṃ mahābāho samāsādyāmbikā sutam 11 evam ukto yadi mayā gṛhṇīyād vacanaṃ mama anāmayaṃ syād dharmasya kurūṇāṃ kurunandana 12 na cet sa mama rājendra gṛhṇīyān madhuraṃ vacaḥ pathyaṃ ca bharataśreṣṭha nigṛhṇīyāṃ balena tam 13 athainān abhinīyaivaṃ suhṛdo nāma durhṛdaḥ sabhāsadaś ca tān sarvān bhedayeyaṃ durodarān 14 asāṃnidhyaṃ tu kauravya mamānarteṣv abhūt tadā yenedaṃ vyasanaṃ prāptā bhavanto dyūtakāritam 15 so 'ham etya kuruśreṣṭha dvārakāṃ pāṇḍunandana aśrauṣaṃ tvāṃ vyasaninaṃ yuyudhānād yathā tatham 16 śrutvaiva cāhaṃ rājendra paramodvigna mānasaḥ tūrṇam abhyāgato 'smi tvāṃ draṣṭukāmo viśāṃ pate 17 aho kṛcchram anuprāptāḥ sarve sma bharatarṣabha ye vayaṃ tvāṃ vyasaninaṃ paśyāmaḥ saha sodaraiḥ |
The Mahabharata in Sanskrit
Book 3
Chapter 15
|
1
[य] असांनिध्यं कथं कृष्ण तवासीद वृष्णिनन्दन कव चासीद विप्रवासस ते किं वाकार्षीः परवासकः 2 [कृ] शाल्वस्य नगरं सौभं गतॊ ऽहं भरतर्षभ विनिहन्तुं नरश्रेष्ठ तत्र मे शृणु कारणम 3 महातेजा महाबाहुर यः स राजा महायशाः दमघॊषात्मजॊ वीरः शिशुपालॊ मया हतः 4 यज्ञे ते भरतश्रेष्ठ राजसूये ऽरहणां परति सरॊषवशसंप्राप्तॊ नामृष्यत दुरात्मवान 5 शरुत्वा तं निहतं शाल्वस तीव्ररॊषसमन्वितः उपायाद दवारकां शून्याम इहस्थे मयि भारत 6 स तत्र यॊधितॊ राजन बालकैर वृष्णिपुंगवैः आगतः कामगं सौभम आरुह्यैव नृशंसकृत 7 ततॊ वृष्णिप्रवीरांस तान बालान हत्वा बहूंस तदा पुरॊद्यानानि सर्वाणि भेदयाम आस दुर्मतिः 8 उक्तवांश च महाबाहॊ कवासौ वृष्णिकुलाधमः वासुदेवः सुमन्दात्मा वसुदेव सुतॊ गतः 9 तस्य युद्धार्थिनॊ दर्पं युद्धे नाशयितास्म्य अहम आनर्ताः सत्यम आख्यात तत्र गन्तास्मि यत्र सः 10 तं हत्वा विनिवर्तिष्ये कंस केशि निषूदनम अहत्वा न निवर्तिष्ये सत्येनायुधम आलभे 11 कवासौ कवासाव इति पुनस तत्र तत्र विधावति मया किल रणे युद्धं काङ्क्षमाणः स सौभराट 12 अद्य तं पापकर्माणं कषुद्रं विश्वासघातिनम शिशुपाल वधामर्षाद गमयिष्ये यमक्षयम 13 मम पापस्वभावेन भराता येन निपातितः शिशुपालॊ महीपालस तं वधिष्ये महीतले 14 भराता बालश च राजा च न च संग्राममूर्धनि परमत्तश च हतॊ वीरस तं हनिष्ये जनार्दनम 15 एवमादि महाराज विलप्य दिवम आस्थितः कामगेन स सौभेन कषिप्त्वा मां कुरुनन्दन 16 तम अश्रौषम अहं गत्वा यथावृत्तः सुदुर्मतिः मयि कौरव्य दुष्टात्मा मार्तिकावतकॊ नृपः 17 ततॊ ऽहम अपि कौरव्य रॊषव्याकुललॊचनः निश्चित्य मनसा राजन वधायास्य मनॊ दधे 18 आनर्तेषु विमर्दं च कषेपं चात्मनि कौरव परवृद्धम अवलेपं च तस्य दुष्कृतकर्मणः 19 ततः सौभवधायाहं परतस्थे पृथिवीपते स मया सागरावर्ते दृष्ट आसीत परीप्सता 20 ततः परध्माप्य जलजं पाञ्चजन्यम अहं नृप आहूय शाल्वं समरे युद्धाय समवस्थितः 21 सुमुहूर्तम अभूद युद्धं तत्र मे दानवैः सह वशीभूताश च मे सर्वे भूतले च निपातिताः 22 एतत कार्यं महाबाहॊ येनाहं नागमं तदा शरुत्वैव हास्तिनपुरं दयूतं चाविनयॊत्थितम |
1
[y] asāṃnidhyaṃ kathaṃ kṛṣṇa tavāsīd vṛṣṇinandana kva cāsīd vipravāsas te kiṃ vākārṣīḥ pravāsakaḥ 2 [kṛ] śālvasya nagaraṃ saubhaṃ gato 'haṃ bharatarṣabha vinihantuṃ naraśreṣṭha tatra me śṛṇu kāraṇam 3 mahātejā mahābāhur yaḥ sa rājā mahāyaśāḥ damaghoṣātmajo vīraḥ śiśupālo mayā hataḥ 4 yajñe te bharataśreṣṭha rājasūye 'rhaṇāṃ prati saroṣavaśasaṃprāpto nāmṛṣyata durātmavān 5 śrutvā taṃ nihataṃ śālvas tīvraroṣasamanvitaḥ upāyād dvārakāṃ śūnyām ihasthe mayi bhārata 6 sa tatra yodhito rājan bālakair vṛṣṇipuṃgavaiḥ āgataḥ kāmagaṃ saubham āruhyaiva nṛśaṃsakṛt 7 tato vṛṣṇipravīrāṃs tān bālān hatvā bahūṃs tadā purodyānāni sarvāṇi bhedayām āsa durmatiḥ 8 uktavāṃś ca mahābāho kvāsau vṛṣṇikulādhamaḥ vāsudevaḥ sumandātmā vasudeva suto gataḥ 9 tasya yuddhārthino darpaṃ yuddhe nāśayitāsmy aham ānartāḥ satyam ākhyāta tatra gantāsmi yatra saḥ 10 taṃ hatvā vinivartiṣye kaṃsa keśi niṣūdanam ahatvā na nivartiṣye satyenāyudham ālabhe 11 kvāsau kvāsāv iti punas tatra tatra vidhāvati mayā kila raṇe yuddhaṃ kāṅkṣamāṇaḥ sa saubharāṭ 12 adya taṃ pāpakarmāṇaṃ kṣudraṃ viśvāsaghātinam śiśupāla vadhāmarṣād gamayiṣye yamakṣayam 13 mama pāpasvabhāvena bhrātā yena nipātitaḥ śiśupālo mahīpālas taṃ vadhiṣye mahītale 14 bhrātā bālaś ca rājā ca na ca saṃgrāmamūrdhani pramattaś ca hato vīras taṃ haniṣye janārdanam 15 evamādi mahārāja vilapya divam āsthitaḥ kāmagena sa saubhena kṣiptvā māṃ kurunandana 16 tam aśrauṣam ahaṃ gatvā yathāvṛttaḥ sudurmatiḥ mayi kauravya duṣṭātmā mārtikāvatako nṛpaḥ 17 tato 'ham api kauravya roṣavyākulalocanaḥ niścitya manasā rājan vadhāyāsya mano dadhe 18 ānarteṣu vimardaṃ ca kṣepaṃ cātmani kaurava pravṛddham avalepaṃ ca tasya duṣkṛtakarmaṇaḥ 19 tataḥ saubhavadhāyāhaṃ pratasthe pṛthivīpate sa mayā sāgarāvarte dṛṣṭa āsīt parīpsatā 20 tataḥ pradhmāpya jalajaṃ pāñcajanyam ahaṃ nṛpa āhūya śālvaṃ samare yuddhāya samavasthitaḥ 21 sumuhūrtam abhūd yuddhaṃ tatra me dānavaiḥ saha vaśībhūtāś ca me sarve bhūtale ca nipātitāḥ 22 etat kāryaṃ mahābāho yenāhaṃ nāgamaṃ tadā śrutvaiva hāstinapuraṃ dyūtaṃ cāvinayotthitam |
The Mahabharata in Sanskrit
Book 3
Chapter 16
|
1
[य] वासुदेव महाबाहॊ विस्तरेण महामते सौभस्य वधम आचक्ष्व न हि तृप्यामि कथ्यतः 2 [वा] हतं शरुत्वा महाबाहॊ मया शरौतश्रवं नृपम उपायाद भरतश्रेष्ठ शाल्वॊ दवारवतीं पुरीम 3 अरुन्धत तां सुदुष्टात्मा सर्वतः पाण्डुनन्दन शाल्वॊ वैहायसं चापि तत पुरं वयूह्य विष्ठितः 4 तत्रस्थॊ ऽथ महीपालॊ यॊधयाम आस तां पुरीम अभिसारेण सर्वेण तत्र युद्धम अवर्तत 5 पुरी समन्ताद विहिता सपताका सतॊरणा सचक्रा सहुडा चैव सयान्त्र खनका तथा 6 सॊपतल्प परतॊलीका साट्टाट्टाकल गॊपुरा सकच गरहणी चैव सॊल्कालातावपॊथिका 7 सॊष्ट्रिका भरतश्रेष्ठ सभेरी पणवानका समित तृणकुशा राजन सशतघ्नीक लाङ्गला 8 सभुशुण्ड्य अश्मल गुडा सायुधा सपरश्वधा लॊहचर्मवती चापि साग्निः सहुड शृङ्गिका 9 शास्त्रदृष्टेन विधिना संयुक्ता भरतर्षभ दरव्यैर अनेकैर विविधैर गद साम्बॊद्धवादिभिः 10 पुरुषैः कुरुशार्दूल समर्थैः परतिबाधने अभिख्यात कुलैर वीरैर दृष्टवीर्यैश च संयुगे 11 मध्यमेन च गुल्मेन रक्षिता सारसंज्ञिता उत्क्षिप्त गुल्मैश च तथा हयैश चैव पदातिभिः 12 आघॊषितं च नगरे न पातव्या सुरेति ह परमादं परिरक्षद्भिर उग्रसेनॊद्धवादिभिः 13 परमत्तेष्व अभिघातं हि कुर्याच छाल्वॊ नराधिपः इति कृत्वाप्रमत्तास ते सरे वृष्ण्यन्धकाः सथिताः 14 आनर्ताश च तथा सर्वे नटनर्तक गायनाः बहिर विवासिताः सर्वे रक्षद्भिर वित्तसंचयान 15 संक्रमा भेदिताः सर्वे नावश च परतिषेधिताः परिखाश चापि कौरव्य कीलैः सुनिचिताः कृताः 16 उदपानाः कुरुश्रेष्ठ तथैवाप्य अम्बरीषकाः समन्तात कॊशमात्रं च कारिता विषमा च भूः 17 परकृत्या विषमं दुर्गं परकृत्या च सुरक्षितम परकृत्या चायुधॊपेतं विशेषेण तदानघ 18 सुरक्षितं सुगुप्तं च सरायुध समन्वितम तत पुरं भरतश्रेष्ठ यथेन्द्र भवनं तथा 19 न चामुद्रॊ ऽभिनिर्याति न चामुद्रः परवेश्यते वृष्ण्यन्धकपुरे राजंस तदा सौभसमागमे 20 अनु रथ्यासु सर्वासु चत्वरेषु च कौरव बलं बभूव राजेन्द्र परभूतगजवाजिमत 21 दत्तवेतन भक्तं च दत्तायुध परिच्छदम कृतापदानं च तदा बलम आसीन महाभुज 22 न कुप्य वेतनी कश चिन न चातिक्रान्त वेतनी नानुग्रहभृतः कश चिन न चादृष्ट पराक्रमः 23 एवं सुविहिता राजन दवारका भूरिदक्षिणैः आहुकेन सुगुप्ता च राज्ञा राजीवलॊचन |
1
[y] vāsudeva mahābāho vistareṇa mahāmate saubhasya vadham ācakṣva na hi tṛpyāmi kathyataḥ 2 [vā] hataṃ śrutvā mahābāho mayā śrautaśravaṃ nṛpam upāyād bharataśreṣṭha śālvo dvāravatīṃ purīm 3 arundhat tāṃ suduṣṭātmā sarvataḥ pāṇḍunandana śālvo vaihāyasaṃ cāpi tat puraṃ vyūhya viṣṭhitaḥ 4 tatrastho 'tha mahīpālo yodhayām āsa tāṃ purīm abhisāreṇa sarveṇa tatra yuddham avartata 5 purī samantād vihitā sapatākā satoraṇā sacakrā sahuḍā caiva sayāntra khanakā tathā 6 sopatalpa pratolīkā sāṭṭāṭṭākala gopurā sakaca grahaṇī caiva solkālātāvapothikā 7 soṣṭrikā bharataśreṣṭha sabherī paṇavānakā samit tṛṇakuśā rājan saśataghnīka lāṅgalā 8 sabhuśuṇḍy aśmala guḍā sāyudhā saparaśvadhā lohacarmavatī cāpi sāgniḥ sahuḍa śṛṅgikā 9 śāstradṛṣṭena vidhinā saṃyuktā bharatarṣabha dravyair anekair vividhair gada sāmboddhavādibhiḥ 10 puruṣaiḥ kuruśārdūla samarthaiḥ pratibādhane abhikhyāta kulair vīrair dṛṣṭavīryaiś ca saṃyuge 11 madhyamena ca gulmena rakṣitā sārasaṃjñitā utkṣipta gulmaiś ca tathā hayaiś caiva padātibhiḥ 12 āghoṣitaṃ ca nagare na pātavyā sureti ha pramādaṃ parirakṣadbhir ugrasenoddhavādibhiḥ 13 pramatteṣv abhighātaṃ hi kuryāc chālvo narādhipaḥ iti kṛtvāpramattās te sare vṛṣṇyandhakāḥ sthitāḥ 14 ānartāś ca tathā sarve naṭanartaka gāyanāḥ bahir vivāsitāḥ sarve rakṣadbhir vittasaṃcayān 15 saṃkramā bheditāḥ sarve nāvaś ca pratiṣedhitāḥ parikhāś cāpi kauravya kīlaiḥ sunicitāḥ kṛtāḥ 16 udapānāḥ kuruśreṣṭha tathaivāpy ambarīṣakāḥ samantāt kośamātraṃ ca kāritā viṣamā ca bhūḥ 17 prakṛtyā viṣamaṃ durgaṃ prakṛtyā ca surakṣitam prakṛtyā cāyudhopetaṃ viśeṣeṇa tadānagha 18 surakṣitaṃ suguptaṃ ca sarāyudha samanvitam tat puraṃ bharataśreṣṭha yathendra bhavanaṃ tathā 19 na cāmudro 'bhiniryāti na cāmudraḥ praveśyate vṛṣṇyandhakapure rājaṃs tadā saubhasamāgame 20 anu rathyāsu sarvāsu catvareṣu ca kaurava balaṃ babhūva rājendra prabhūtagajavājimat 21 dattavetana bhaktaṃ ca dattāyudha paricchadam kṛtāpadānaṃ ca tadā balam āsīn mahābhuja 22 na kupya vetanī kaś cin na cātikrānta vetanī nānugrahabhṛtaḥ kaś cin na cādṛṣṭa parākramaḥ 23 evaṃ suvihitā rājan dvārakā bhūridakṣiṇaiḥ āhukena suguptā ca rājñā rājīvalocana |
The Mahabharata in Sanskrit
Book 3
Chapter 17
|
1
[वा] तां तूपयात्वा राजेन्द्र शाल्वः सौभपतिस तदा परभूतनरनागेन बलेनॊपविवेश ह 2 समे निविष्टा सा सेना परभूतसलिलाशये चतुरङ्ग बलॊपेता शाल्वराजाभिपालिता 3 वर्जयित्वा शमशानानि देवतायतनानि च वल्मीकाश चैव चैत्यांश च तन निविष्टम अभूद बलम 4 अनीकानां विभागेन पन्थानः षट कृताभवन परवणा नव चैवासञ शाल्वस्य शिबिरे नृप 5 सर्वायुधसमॊपेतं सर्वशस्त्रविशारदम रथनागाश्वकलिलं पदातिध्वजसंकुलम 6 तुष्टपुष्टजनॊपेतं वीर लक्षणलक्षितम विचित्रध्वजसंनाहं विचित्ररथकार्मुकम 7 संनिवेश्य च कौरव्य दवारकायां नरर्षभ अभिसारयाम आस तदा वेगेन पतगेन्द्रवत 8 तदापतन्तं संदृश्य बलं शाल्वपतेस तदा निर्याय यॊधयाम आसुः कुमारा वृष्णिनन्दनाः 9 असहन्तॊ ऽभियातं तच छाल्व राजस्य कौरव चारुदेष्णश च साम्बश च परद्युम्नश च महारथः 10 ते रथैर दंशिताः सर्वे विचित्राभरण धवजाः संसक्ताः शाल्वराजस्य बहुभिर यॊधपुंगवैः 11 गृहीत्वा तु धनुः साम्बः शाल्वस्य सचिवं रणे यॊधयाम आस संहृष्टः कषेमवृद्धिं चमूपतिम 12 तस्य बाणमयं वर्षं जाम्बवत्याः सुतॊ मह त मुमॊच भरतश्रेष्ठ यथा वर्षं सहस्रधृक 13 तद बाणवर्षं तुमुलं विषेहे स चमूपतिः कषेमवृद्धिर महाराज हिमवान इव निश्चलः 14 ततः साम्बाय राजेन्द्र कषेमवृद्धिर अपि सम ह मुमॊच मायाविहितं शरजालं महत्तरम 15 ततॊ मायामयं जालं माययैव विदार्य सः साम्बः शरसहस्रेण रथम अस्याभ्यवर्षत 16 ततः स विद्धः साम्बेन कषेमवृद्धिश चमूपतिः अपायाज जवनैर अश्वैः साम्ब बाणप्रपीडितः 17 तस्मिन विप्रद्रुते करूरे शाल्वस्याथ चमूपतौ वेगवान नाम दैतेयः सुतं मे ऽभयद्रवद बली 18 अभिपन्नस तु राजेन्द्र साम्बॊ वृष्णिकुलॊद्वहः वेगं वेगवतॊ राजंस तस्थौ वीरॊ विधारयन 19 स वेगवति कौन्तेय साम्बॊ वेगवतीं गदाम चिक्षेप तरसा वीरॊ वयाविध्य सत्यविक्रमः 20 तया तव अभिहतॊ राजन वेगवान अपतद भुवि वातरुग्ण इव कषुण्णॊ जीर्ण मूलॊ वनस्पतिः 21 तस्मिन निपतिते वीरे गदा नुन्ने महासुरे परविश्य महतीं सेनां यॊधयाम आस मे सुतः 22 चारुदेष्णेन संसक्तॊ विविन्ध्यॊनाम दानवः महारथः समाज्ञातॊ महाराज महाधनुः 23 ततः सुतुमुलं युद्धं चारुदेष्ण विविन्ध्ययॊः वृत्रवासवयॊ राजन यथापूर्वं तथाभवत 24 अन्यॊन्यस्याभिसंक्रुद्धाव अन्यॊन्यं जघ्नतुः शरैः विनदन्तौ महाराज सिंहाव इव महाबलौ 25 रौक्मिणेयस ततॊ बाणम अग्न्यर्कॊपम वर्चसम अभिमान्त्र्य महास्त्रेण संदधे शत्रुनाशनम 26 स विविन्ध्याय सक्रॊधः समाहूय महारथः चिक्षेप मे सुतॊ राजन स गतासुर अथापतत 27 विविन्ध्यं निहतं दृष्ट्वा तां च विक्षॊभितां चमूम कामगेन स सौभेन शाल्वः पुनर उपागमत 28 ततॊ वयाकुलितं सर्वं दवारकावासितद बलम दृष्ट्वा शाल्वं महाबाहॊ सौभस्थं पृथिवी गतम 29 ततॊ निर्याय कौन्तेय वयवस्थाप्य च तद बलम आनर्तानां महाराज परद्युम्नॊ वाक्यम अब्रवीत 30 सर्वे भवन्तस तिष्ठन्तु सर्वे पश्यन्तु मां युधि निवारयन्तं संग्रामे बलात सौभं सराजकम 31 अहं सौभपतेः सेनाम आयसैर भुजगैर इव धनुर भुजविनिर्मुक्तैर नाशयाम्य अद्य यादवाः 32 आश्वसध्वं न भीः कार्या सौभराड अद्य नश्यति मयाभिपन्नॊ दुष्टात्मा ससौभॊ विनशिष्यति 33 एवं बरुवति संहृष्टे परद्युम्ने पाण्डुनन्दन विष्ठितं तद बलं वीर युयुधे च यथासुखम |
1
[vā] tāṃ tūpayātvā rājendra śālvaḥ saubhapatis tadā prabhūtanaranāgena balenopaviveśa ha 2 same niviṣṭā sā senā prabhūtasalilāśaye caturaṅga balopetā śālvarājābhipālitā 3 varjayitvā śmaśānāni devatāyatanāni ca valmīkāś caiva caityāṃś ca tan niviṣṭam abhūd balam 4 anīkānāṃ vibhāgena panthānaḥ ṣaṭ kṛtābhavan pravaṇā nava caivāsañ śālvasya śibire nṛpa 5 sarvāyudhasamopetaṃ sarvaśastraviśāradam rathanāgāśvakalilaṃ padātidhvajasaṃkulam 6 tuṣṭapuṣṭajanopetaṃ vīra lakṣaṇalakṣitam vicitradhvajasaṃnāhaṃ vicitrarathakārmukam 7 saṃniveśya ca kauravya dvārakāyāṃ nararṣabha abhisārayām āsa tadā vegena patagendravat 8 tadāpatantaṃ saṃdṛśya balaṃ śālvapates tadā niryāya yodhayām āsuḥ kumārā vṛṣṇinandanāḥ 9 asahanto 'bhiyātaṃ tac chālva rājasya kaurava cārudeṣṇaś ca sāmbaś ca pradyumnaś ca mahārathaḥ 10 te rathair daṃśitāḥ sarve vicitrābharaṇa dhvajāḥ saṃsaktāḥ śālvarājasya bahubhir yodhapuṃgavaiḥ 11 gṛhītvā tu dhanuḥ sāmbaḥ śālvasya sacivaṃ raṇe yodhayām āsa saṃhṛṣṭaḥ kṣemavṛddhiṃ camūpatim 12 tasya bāṇamayaṃ varṣaṃ jāmbavatyāḥ suto maha t mumoca bharataśreṣṭha yathā varṣaṃ sahasradhṛk 13 tad bāṇavarṣaṃ tumulaṃ viṣehe sa camūpatiḥ kṣemavṛddhir mahārāja himavān iva niścalaḥ 14 tataḥ sāmbāya rājendra kṣemavṛddhir api sma ha mumoca māyāvihitaṃ śarajālaṃ mahattaram 15 tato māyāmayaṃ jālaṃ māyayaiva vidārya saḥ sāmbaḥ śarasahasreṇa ratham asyābhyavarṣata 16 tataḥ sa viddhaḥ sāmbena kṣemavṛddhiś camūpatiḥ apāyāj javanair aśvaiḥ sāmba bāṇaprapīḍitaḥ 17 tasmin vipradrute krūre śālvasyātha camūpatau vegavān nāma daiteyaḥ sutaṃ me 'bhyadravad balī 18 abhipannas tu rājendra sāmbo vṛṣṇikulodvahaḥ vegaṃ vegavato rājaṃs tasthau vīro vidhārayan 19 sa vegavati kaunteya sāmbo vegavatīṃ gadām cikṣepa tarasā vīro vyāvidhya satyavikramaḥ 20 tayā tv abhihato rājan vegavān apatad bhuvi vātarugṇa iva kṣuṇṇo jīrṇa mūlo vanaspatiḥ 21 tasmin nipatite vīre gadā nunne mahāsure praviśya mahatīṃ senāṃ yodhayām āsa me sutaḥ 22 cārudeṣṇena saṃsakto vivindhyonāma dānavaḥ mahārathaḥ samājñāto mahārāja mahādhanuḥ 23 tataḥ sutumulaṃ yuddhaṃ cārudeṣṇa vivindhyayoḥ vṛtravāsavayo rājan yathāpūrvaṃ tathābhavat 24 anyonyasyābhisaṃkruddhāv anyonyaṃ jaghnatuḥ śaraiḥ vinadantau mahārāja siṃhāv iva mahābalau 25 raukmiṇeyas tato bāṇam agnyarkopama varcasam abhimāntrya mahāstreṇa saṃdadhe śatrunāśanam 26 sa vivindhyāya sakrodhaḥ samāhūya mahārathaḥ cikṣepa me suto rājan sa gatāsur athāpatat 27 vivindhyaṃ nihataṃ dṛṣṭvā tāṃ ca vikṣobhitāṃ camūm kāmagena sa saubhena śālvaḥ punar upāgamat 28 tato vyākulitaṃ sarvaṃ dvārakāvāsitad balam dṛṣṭvā śālvaṃ mahābāho saubhasthaṃ pṛthivī gatam 29 tato niryāya kaunteya vyavasthāpya ca tad balam ānartānāṃ mahārāja pradyumno vākyam abravīt 30 sarve bhavantas tiṣṭhantu sarve paśyantu māṃ yudhi nivārayantaṃ saṃgrāme balāt saubhaṃ sarājakam 31 ahaṃ saubhapateḥ senām āyasair bhujagair iva dhanur bhujavinirmuktair nāśayāmy adya yādavāḥ 32 āśvasadhvaṃ na bhīḥ kāryā saubharāḍ adya naśyati mayābhipanno duṣṭātmā sasaubho vinaśiṣyati 33 evaṃ bruvati saṃhṛṣṭe pradyumne pāṇḍunandana viṣṭhitaṃ tad balaṃ vīra yuyudhe ca yathāsukham |
The Mahabharata in Sanskrit
Book 3
Chapter 18
|
1
[वा] एवम उक्त्वा रौक्मिणेयॊ यादवान भरतर्षभ दंशितैर हरिभिर युक्तं रथम आस्थाय काञ्चनम 2 उच्छ्रित्य मकरं केतुं वयात्ताननम अलंकृतम उत्पतद्भिर इवाकाशं तैर हयैर अन्वयात परान 3 विक्षिपन नादयंश चापि धनुःश्रेष्ठं महाबलः तूणखड्गधरः शूरॊ बद्धगॊधाङ्गुलि तरवान 4 स विद्युच्चलितं चापं विहरन वै तलात तलम मॊहयाम आस दैतेयान सर्वान सौभनिवासिनः 5 नास्य विक्षिपतश चापं संदधानस्य चासकृत अन्तरं ददृशे कश चिन निघ्नतः शात्रवान रणे 6 मुखस्य वर्णॊ न विकल्पते ऽसय; चेलुश च गात्राणि न चापि तस्य सिंहॊन्नतं चाप्य अभिगर्जतॊ ऽसय; शुश्राव लॊकॊ ऽदभुतरूपम अग्र्यम 7 जले चरः काञ्चनयष्टि संस्थॊ; वयात्ताननः सर्वतिमि परमाथी वित्रासयन राजति वाहमुख्ये; शाल्वस्य सेना परमुखे धवजाग्र्यः 8 ततः स तूर्णं निष्पत्य परद्युम्नः शत्रुकर्शनः शाल्वम एवाभिदुद्राव विधास्यन कलहं नृप 9 अभियानं तु वीरेण परद्युम्नेन महाहवे नामर्षयत संक्रुद्धः शाल्वः कुरुकुलॊद्वह 10 स रॊममदमत्तॊ वै कामगाद अवरुह्य च परद्युम्नं यॊधयाम आस शाल्वः परपुरंजयः 11 तयॊः सुतुमुलं युद्धं शाल्व वृष्णिप्रवीरयॊः समेता ददृशुर लॊका बलिवासवयॊर इव 12 तस्य मायामयॊ वीर रथॊ हेमपरिष्कृतः सध्वजः सपताकश च सानुकर्षः सतूणवान 13 स तं रथवरं शरीमान समारुह्य किल परभॊ मुमॊच बाणान कौरव्य परद्युम्नाय महाबलः 14 ततॊ बाणमयं वर्षं वयसृजत तरसा रणे परद्युम्नॊ भुजवेगेन शाल्वं संमॊहयन्न इव 15 स तैर अभिहतः संख्ये नामर्षयत सौभराट शरान दीप्ताग्निसंकाशान मुमॊच तनये मम 16 स शाल्व बाणै राजेन्द्र विद्धॊ रुक्मिणिनन्दनः मुमॊच बाणं तवरितॊ मर्मभेदिनम आहवे 17 तस्य वर्म विभिद्याशु स बाणॊ मत सुतेरितः बिभेद हृदयं पत्री स पपात मुमॊह च 18 तस्मिन निपतिते वीरे शाल्वराजे विचेतसि संप्राद्रवन दानवेन्द्रा दारयन्तॊ वसुंधराम 19 हाहाकृतम अभूत सैन्यं शाल्वस्य पृथिवीपते नष्टसंज्ञे निपतिते तदा सौभपतौ नृप 20 तत उत्थाय कौरव्य परतिलभ्य च चेतनम मुमॊच बाणं तरसा परद्युम्नाय महाबलः 21 तेन विद्धॊ महाबाहुः परद्युम्नः समरे सथितः जत्रु देशे भृशं वीरॊ वयवासीदद रथे तदा 22 तं स विद्ध्वा महाराज शाल्वॊ रुक्मिणिनन्दनम ननाद सिंहनादं वै नादेनापूरयन महीम 23 ततॊ मॊहं समापन्ने तनये मम भारत मुमॊच बाणांस तवरितः पुनर अन्यान दुरासदान 24 स तैर अभिहतॊ बाणैर बहुभिस तेन मॊहितः निश्चेष्टः कौरवश्रेष्ठ परद्युम्नॊ ऽभूद रणाजिरम |
1
[vā] evam uktvā raukmiṇeyo yādavān bharatarṣabha daṃśitair haribhir yuktaṃ ratham āsthāya kāñcanam 2 ucchritya makaraṃ ketuṃ vyāttānanam alaṃkṛtam utpatadbhir ivākāśaṃ tair hayair anvayāt parān 3 vikṣipan nādayaṃś cāpi dhanuḥśreṣṭhaṃ mahābalaḥ tūṇakhaḍgadharaḥ śūro baddhagodhāṅguli travān 4 sa vidyuccalitaṃ cāpaṃ viharan vai talāt talam mohayām āsa daiteyān sarvān saubhanivāsinaḥ 5 nāsya vikṣipataś cāpaṃ saṃdadhānasya cāsakṛt antaraṃ dadṛśe kaś cin nighnataḥ śātravān raṇe 6 mukhasya varṇo na vikalpate 'sya; celuś ca gātrāṇi na cāpi tasya siṃhonnataṃ cāpy abhigarjato 'sya; śuśrāva loko 'dbhutarūpam agryam 7 jale caraḥ kāñcanayaṣṭi saṃstho; vyāttānanaḥ sarvatimi pramāthī vitrāsayan rājati vāhamukhye; śālvasya senā pramukhe dhvajāgryaḥ 8 tataḥ sa tūrṇaṃ niṣpatya pradyumnaḥ śatrukarśanaḥ śālvam evābhidudrāva vidhāsyan kalahaṃ nṛpa 9 abhiyānaṃ tu vīreṇa pradyumnena mahāhave nāmarṣayata saṃkruddhaḥ śālvaḥ kurukulodvaha 10 sa romamadamatto vai kāmagād avaruhya ca pradyumnaṃ yodhayām āsa śālvaḥ parapuraṃjayaḥ 11 tayoḥ sutumulaṃ yuddhaṃ śālva vṛṣṇipravīrayoḥ sametā dadṛśur lokā balivāsavayor iva 12 tasya māyāmayo vīra ratho hemapariṣkṛtaḥ sadhvajaḥ sapatākaś ca sānukarṣaḥ satūṇavān 13 sa taṃ rathavaraṃ śrīmān samāruhya kila prabho mumoca bāṇān kauravya pradyumnāya mahābalaḥ 14 tato bāṇamayaṃ varṣaṃ vyasṛjat tarasā raṇe pradyumno bhujavegena śālvaṃ saṃmohayann iva 15 sa tair abhihataḥ saṃkhye nāmarṣayata saubharāṭ śarān dīptāgnisaṃkāśān mumoca tanaye mama 16 sa śālva bāṇai rājendra viddho rukmiṇinandanaḥ mumoca bāṇaṃ tvarito marmabhedinam āhave 17 tasya varma vibhidyāśu sa bāṇo mat suteritaḥ bibheda hṛdayaṃ patrī sa papāta mumoha ca 18 tasmin nipatite vīre śālvarāje vicetasi saṃprādravan dānavendrā dārayanto vasuṃdharām 19 hāhākṛtam abhūt sainyaṃ śālvasya pṛthivīpate naṣṭasaṃjñe nipatite tadā saubhapatau nṛpa 20 tata utthāya kauravya pratilabhya ca cetanam mumoca bāṇaṃ tarasā pradyumnāya mahābalaḥ 21 tena viddho mahābāhuḥ pradyumnaḥ samare sthitaḥ jatru deśe bhṛśaṃ vīro vyavāsīdad rathe tadā 22 taṃ sa viddhvā mahārāja śālvo rukmiṇinandanam nanāda siṃhanādaṃ vai nādenāpūrayan mahīm 23 tato mohaṃ samāpanne tanaye mama bhārata mumoca bāṇāṃs tvaritaḥ punar anyān durāsadān 24 sa tair abhihato bāṇair bahubhis tena mohitaḥ niśceṣṭaḥ kauravaśreṣṭha pradyumno 'bhūd raṇājiram |
The Mahabharata in Sanskrit
Book 3
Chapter 19
|
1
[वा] शाल्व बाणार्दिते तस्मिन परद्युम्ने बलिनां वरे वृष्णयॊ भग्नसंकल्पा विव्यथुः पृतना गताः 2 हाहाकृतम अभूत सार्वं वृष्ण्यन्धकबलं तदा परद्युम्ने पतिते राजन परे च मुदिताभवन 3 तं तथा मॊहितं दृष्ट्वा सारथिर जवनैर हयैः रणाद अपाहरत तूर्णं शिक्षितॊ दारुकिस ततः 4 न तिदूरापयाते तु रथे रथवरप्रणुत धनुर गृहीत्वा यन्तारं लब्धसंज्ञॊ ऽबरवीद इदम 5 सौते किं ते वयवसितं कस्माद यासि पराङ्मुखः नैष वृष्णिप्रवीराणाम आहवे धर्म उच्यते 6 कच चित सौते न ते मॊहः शाल्वं दृष्ट्वा महाहवे विषादॊ वा रणं दृष्ट्वा बरूहि मे तवं यथातथम 7 [सूत] जानार्दने न मे मॊहॊ नापि मे भयम आविशत अतिभारं तु ते मन्ये शाल्वं केशवनन्दन 8 सॊ ऽपयामि शनैर वीर बलवान एष पापकृत मॊहितश च रणे शूरॊ रक्ष्यः सारथिना रथी 9 आयुष्मंस तवं मया नित्यं रक्षितव्यस तवयाप्य अहम रक्षितव्यॊ रथी नित्यम इति कृत्वापयाम्य अहम 10 एकश चासि महाबाहॊ बहवश चापि दानवाः नसमं रौक्मिणेयाहं रणं मत्वापयाम्य अहम 11 [वा] एवं बरुवति सूते तु तदा मकरकेतुमान उव्वाच सूतं कौरव्य निवर्तय रथं पुनः 12 दारुकात्मज मैवं तं पुनः कार्षीः कथं चन वयपयानं रणात सौते जीवतॊ मम कर्हि चित 13 न स वृष्णिकुले जातॊ यॊ वै तयजति संगरम यॊ वा निपतितं हन्ति तवास्मीति च वादिनम 14 तथा सत्रियं वै यॊ हन्ति वृद्धं बालं तथैव च विरथं विप्रकीर्णं च भग्नशस्स्त्रायुधं तथा 15 तवं च सूत कुले जातॊ विनीतः सूत कर्मणि धर्मज्ञश चासि वृष्णीनाम आहवेष्व अपि दारुके 16 स जानंश चरितं कृत्स्नं वृष्णीनां पृतना मुखे अपयानं पुनः सौते मैवं कार्षीः कथं चन 17 अपयातं हतं पृष्ठे भीतं रणपलायिनम गदाग्रजॊ दुराधर्षः किं मां वक्ष्यति माधवः 18 केशवस्याग्रजॊ वापि नीलवासा मदॊत्कटः किं वक्ष्यति महाबाहुर बलदेवः समागतः 19 किं वक्ष्यति शिनेर नप्ता नरसिंहॊ महाधनुः अपयातं रणात सौते साम्ब्बश च समितिंजयः 20 चारुदेष्णश च दुर्धर्षस तथैव गद सारणौ अक्रूरश च महाबाहुः किं मां वक्ष्यति सारथे 21 शूरं संभावितं सन्तं नित्यं पुरुषमानिनम सत्रियश च वृष्णी वीराणां किं मां वक्ष्यन्ति संगताः 22 परद्युम्नॊ ऽयम उपायाति भीतस तयक्त्वा महाहवम धिग एनम इति वक्ष्यन्ति न तु वक्ष्यन्ति साध्व इति 23 धिग वाचा परिहासॊ ऽपि मम वा मद्विधस्य वा मृत्युनाभ्यधिकः सौते स तवं मा वयपयाः पुनः 24 भारं हि मयि संन्यस्य यातॊ मधुनिहा हरिः यज्ञं भरत सिंहस्य पार्थस्यामित तेजसः 25 कृतवर्मा मया वीरॊ निर्यास्यन्न एव वारितः शाल्वं निवारयिष्ये ऽहं तिष्ठ तवम इति सूतज 26 स च संभावयन मां वै निवृत्तॊ हृदिकात्मजः तं समेत्य रणं तयक्त्वा किं वक्ष्यामि महारथम 27 उपयातं दुराधर्षं शङ्खचक्रगदाधरम पुरुषं पुण्डरीकाक्षं किं वक्ष्यामि महाभुजम 28 सात्यकिं बलदेवं च ये चान्ये ऽनधकवृष्णयः मया सपर्धन्ति सततं किं नु वक्ष्यामि तान अहम 29 तयक्त्वा रणम इमं सौते पृष्ठतॊ ऽभयाहतः शरैः तवयापनीतॊ विवशॊ न जीवेयं कथं चन 30 स निवर्त रथेनाशु पुनर दारुकनन्दन न चैतद एवं कर्तव्यम अथापत्सु कथं चन 31 न जीवितम अहं सौते बहु मन्ये कदा चन अपयातॊ रणाद भीतः पृष्ठतॊ ऽभयाहताः शरैः 32 कदा वा सूतपुत्र तवं जानीषे मां भयार्दितम अपयातं रणं हित्वा यथा कापुरुषं तथा 33 न युक्तं भवता तयक्तुं संग्रामं दारुकात्मज मयि युद्धार्थिनि भृशं स तवं याहि यतॊ रणम |
1
[vā] śālva bāṇārdite tasmin pradyumne balināṃ vare vṛṣṇayo bhagnasaṃkalpā vivyathuḥ pṛtanā gatāḥ 2 hāhākṛtam abhūt sārvaṃ vṛṣṇyandhakabalaṃ tadā pradyumne patite rājan pare ca muditābhavan 3 taṃ tathā mohitaṃ dṛṣṭvā sārathir javanair hayaiḥ raṇād apāharat tūrṇaṃ śikṣito dārukis tataḥ 4 na tidūrāpayāte tu rathe rathavarapraṇut dhanur gṛhītvā yantāraṃ labdhasaṃjño 'bravīd idam 5 saute kiṃ te vyavasitaṃ kasmād yāsi parāṅmukhaḥ naiṣa vṛṣṇipravīrāṇām āhave dharma ucyate 6 kac cit saute na te mohaḥ śālvaṃ dṛṣṭvā mahāhave viṣādo vā raṇaṃ dṛṣṭvā brūhi me tvaṃ yathātatham 7 [sūta] jānārdane na me moho nāpi me bhayam āviśat atibhāraṃ tu te manye śālvaṃ keśavanandana 8 so 'payāmi śanair vīra balavān eṣa pāpakṛt mohitaś ca raṇe śūro rakṣyaḥ sārathinā rathī 9 āyuṣmaṃs tvaṃ mayā nityaṃ rakṣitavyas tvayāpy aham rakṣitavyo rathī nityam iti kṛtvāpayāmy aham 10 ekaś cāsi mahābāho bahavaś cāpi dānavāḥ nasamaṃ raukmiṇeyāhaṃ raṇaṃ matvāpayāmy aham 11 [vā] evaṃ bruvati sūte tu tadā makaraketumān uvvāca sūtaṃ kauravya nivartaya rathaṃ punaḥ 12 dārukātmaja maivaṃ taṃ punaḥ kārṣīḥ kathaṃ cana vyapayānaṃ raṇāt saute jīvato mama karhi cit 13 na sa vṛṣṇikule jāto yo vai tyajati saṃgaram yo vā nipatitaṃ hanti tavāsmīti ca vādinam 14 tathā striyaṃ vai yo hanti vṛddhaṃ bālaṃ tathaiva ca virathaṃ viprakīrṇaṃ ca bhagnaśasstrāyudhaṃ tathā 15 tvaṃ ca sūta kule jāto vinītaḥ sūta karmaṇi dharmajñaś cāsi vṛṣṇīnām āhaveṣv api dāruke 16 sa jānaṃś caritaṃ kṛtsnaṃ vṛṣṇīnāṃ pṛtanā mukhe apayānaṃ punaḥ saute maivaṃ kārṣīḥ kathaṃ cana 17 apayātaṃ hataṃ pṛṣṭhe bhītaṃ raṇapalāyinam gadāgrajo durādharṣaḥ kiṃ māṃ vakṣyati mādhavaḥ 18 keśavasyāgrajo vāpi nīlavāsā madotkaṭaḥ kiṃ vakṣyati mahābāhur baladevaḥ samāgataḥ 19 kiṃ vakṣyati śiner naptā narasiṃho mahādhanuḥ apayātaṃ raṇāt saute sāmbbaś ca samitiṃjayaḥ 20 cārudeṣṇaś ca durdharṣas tathaiva gada sāraṇau akrūraś ca mahābāhuḥ kiṃ māṃ vakṣyati sārathe 21 śūraṃ saṃbhāvitaṃ santaṃ nityaṃ puruṣamāninam striyaś ca vṛṣṇī vīrāṇāṃ kiṃ māṃ vakṣyanti saṃgatāḥ 22 pradyumno 'yam upāyāti bhītas tyaktvā mahāhavam dhig enam iti vakṣyanti na tu vakṣyanti sādhv iti 23 dhig vācā parihāso 'pi mama vā madvidhasya vā mṛtyunābhyadhikaḥ saute sa tvaṃ mā vyapayāḥ punaḥ 24 bhāraṃ hi mayi saṃnyasya yāto madhunihā hariḥ yajñaṃ bharata siṃhasya pārthasyāmita tejasaḥ 25 kṛtavarmā mayā vīro niryāsyann eva vāritaḥ śālvaṃ nivārayiṣye 'haṃ tiṣṭha tvam iti sūtaja 26 sa ca saṃbhāvayan māṃ vai nivṛtto hṛdikātmajaḥ taṃ sametya raṇaṃ tyaktvā kiṃ vakṣyāmi mahāratham 27 upayātaṃ durādharṣaṃ śaṅkhacakragadādharam puruṣaṃ puṇḍarīkākṣaṃ kiṃ vakṣyāmi mahābhujam 28 sātyakiṃ baladevaṃ ca ye cānye 'ndhakavṛṣṇayaḥ mayā spardhanti satataṃ kiṃ nu vakṣyāmi tān aham 29 tyaktvā raṇam imaṃ saute pṛṣṭhato 'bhyāhataḥ śaraiḥ tvayāpanīto vivaśo na jīveyaṃ kathaṃ cana 30 sa nivarta rathenāśu punar dārukanandana na caitad evaṃ kartavyam athāpatsu kathaṃ cana 31 na jīvitam ahaṃ saute bahu manye kadā cana apayāto raṇād bhītaḥ pṛṣṭhato 'bhyāhatāḥ śaraiḥ 32 kadā vā sūtaputra tvaṃ jānīṣe māṃ bhayārditam apayātaṃ raṇaṃ hitvā yathā kāpuruṣaṃ tathā 33 na yuktaṃ bhavatā tyaktuṃ saṃgrāmaṃ dārukātmaja mayi yuddhārthini bhṛśaṃ sa tvaṃ yāhi yato raṇam |
The Mahabharata in Sanskrit
Book 3
Chapter 20
|
1
[वा] एवम उक्तस तु कौन्तेय सूतपुत्रस तदा मृधे परद्युम्नम अब्रवीच छलक्ष्णं मधुरं वाक्यम अञ्जसा 2 न मे भयं रौक्मिणेय संग्रामे यच्छतॊ हयान युद्धज्ञश चास्मि वृष्णीनां नात्र किं चिद अतॊ ऽनयथा 3 आयुष्मन्न उपदेशस तु सारथ्ये वर्ततां समृतः सर्वार्थेषु रथी रक्ष्यस तवं चापि भृशपीडितः 4 तवं हि शाल्व परयुक्तेन पत्रिणाभिहतॊ भृशम कश्मलाभिहतॊ वीर ततॊ ऽहम अपयातवान 5 स तवं सात्वत मुख्याद्य लब्धसंज्ञॊ यदृच्छया पश्य मे हयसाम्याने शिक्षां केशवनन्दन 6 दारुकेणाहम उत्पन्नॊ यथावच चैव शिक्षितः वीतभीः परविशाम्य एतां शाल्वस्य महतीं चमूम 7 एवम उक्त्वा ततॊ वीर हयान संचॊद्य संगरे रश्मिभिश च समुद्यम्य जवेनाभ्यपतत तदा 8 मण्डलानि विचित्राणि यमकानीतराणि च सव्यानि च विचित्राणि दक्षिणानि च सर्वशः 9 परतॊदेनाहता राजन रश्मिभिश च समुद्यताः उत्पतन्त इवाकाशं विबभुस ते हयॊत्तमाः 10 ते हस्तलाघवॊपेतं विज्ञाय नृप दारुकिम दह्यमाना इव तदा पस्पृशुश चरणैर महीम 11 सॊ ऽपसव्यां चमूं तस्य शाल्वस्य भरतर्षभ चकार नातियत्नेन तद अद्भुतम इवाभवत 12 अमृष्यमाणॊ ऽपसव्यं परद्युम्नेन स सौभराट यन्तारम अस्य सहसा तरिभिर बाणैः समर्पयत 13 दारुकस्य सुतस तं तु बाणवेगम अचिन्तयन भूय एव महाबाहॊ परययौ हयसंमतः 14 ततॊ बाणान बहुविधान पुनर एव स सौभराट मुमॊच तनये वीरे मम रुक्मिणिनन्दने 15 तान अप्राप्ताञ शितैर बाणैश चिच्छेद परवीरहा रौक्मिणेयः समितं कृत्वा दर्शयन हस्तलाघवम 16 छिन्नान दृष्ट्वा तु तान बाणान परद्युम्नेन स सौभराट आसुरीं दारुणीं मायाम आस्थाय वयसृजच छरान 17 परयुज्यमानम आज्ञाय दैतेयास्त्रं महाबलः बरह्मास्त्रेणान्तरा छित्त्वा मुमॊचान्यान पतत्रिणः 18 ते तद अस्त्रं विधूयाशु विव्यधू रुधिराशनाः शिरस्य उरसि वक्त्रेच स मुमॊह पपात च 19 तस्मिन निपतिते कषुद्रे शाल्वे बाणप्रपीडिते रौक्मिणेयॊ ऽपरं बाणं संदधे शत्रुनाशनम 20 तम अर्चितं सर्वदाशार्ह पूगैर; आशीर्भिर अर्कज्वलन परकाशम दृष्ट्वा शरं जयाम अभिनीयमानं; बभूव हाहाकृतम अन्तरिक्षम 21 ततॊ देवगणाः सर्वे सेन्द्राः सह धनेश्वराः नारदं परेषयाम आसुः शवसनं च महाबलम 22 तौ रौक्मिणेयम आगम्य वचॊ ऽबरूतां दिवौकसाम नैष वध्यस तवया वीर शाल्वराजः कथं चन 23 संहरस्व पुनर बाणम अवध्यॊ ऽयं तवया रणे एतस्य हि शरस्याजौ नावध्यॊ ऽसति पुमान कव चित 24 मृत्युर अस्य महाबाहॊ रणे देवकिनन्दनः कृष्णः संकल्पितॊ धात्रा तन न मिथ्या भवेद इति 25 ततः परमसंहृष्टः परद्युम्नः शरम उत्तरम संजहार धनुःश्रेष्ठात तूर्णे चैव नयवेशयत 26 तत उत्थाय राजेन्द्र शाल्वः परमदुर्मनाः वयपायात सबलस तूर्णं परद्युम्न शरपीडितः 27 स दवारकां परित्यज्य करूरॊ वृणिभिर अर्दितः सौभम आस्थाय राजेन्द्र दिवम आचक्रमे तदा |
1
[vā] evam uktas tu kaunteya sūtaputras tadā mṛdhe pradyumnam abravīc chlakṣṇaṃ madhuraṃ vākyam añjasā 2 na me bhayaṃ raukmiṇeya saṃgrāme yacchato hayān yuddhajñaś cāsmi vṛṣṇīnāṃ nātra kiṃ cid ato 'nyathā 3 āyuṣmann upadeśas tu sārathye vartatāṃ smṛtaḥ sarvārtheṣu rathī rakṣyas tvaṃ cāpi bhṛśapīḍitaḥ 4 tvaṃ hi śālva prayuktena patriṇābhihato bhṛśam kaśmalābhihato vīra tato 'ham apayātavān 5 sa tvaṃ sātvata mukhyādya labdhasaṃjño yadṛcchayā paśya me hayasāmyāne śikṣāṃ keśavanandana 6 dārukeṇāham utpanno yathāvac caiva śikṣitaḥ vītabhīḥ praviśāmy etāṃ śālvasya mahatīṃ camūm 7 evam uktvā tato vīra hayān saṃcodya saṃgare raśmibhiś ca samudyamya javenābhyapatat tadā 8 maṇḍalāni vicitrāṇi yamakānītarāṇi ca savyāni ca vicitrāṇi dakṣiṇāni ca sarvaśaḥ 9 pratodenāhatā rājan raśmibhiś ca samudyatāḥ utpatanta ivākāśaṃ vibabhus te hayottamāḥ 10 te hastalāghavopetaṃ vijñāya nṛpa dārukim dahyamānā iva tadā paspṛśuś caraṇair mahīm 11 so 'pasavyāṃ camūṃ tasya śālvasya bharatarṣabha cakāra nātiyatnena tad adbhutam ivābhavat 12 amṛṣyamāṇo 'pasavyaṃ pradyumnena sa saubharāṭ yantāram asya sahasā tribhir bāṇaiḥ samarpayat 13 dārukasya sutas taṃ tu bāṇavegam acintayan bhūya eva mahābāho prayayau hayasaṃmataḥ 14 tato bāṇān bahuvidhān punar eva sa saubharāṭ mumoca tanaye vīre mama rukmiṇinandane 15 tān aprāptāñ śitair bāṇaiś ciccheda paravīrahā raukmiṇeyaḥ smitaṃ kṛtvā darśayan hastalāghavam 16 chinnān dṛṣṭvā tu tān bāṇān pradyumnena sa saubharāṭ āsurīṃ dāruṇīṃ māyām āsthāya vyasṛjac charān 17 prayujyamānam ājñāya daiteyāstraṃ mahābalaḥ brahmāstreṇāntarā chittvā mumocānyān patatriṇaḥ 18 te tad astraṃ vidhūyāśu vivyadhū rudhirāśanāḥ śirasy urasi vaktreca sa mumoha papāta ca 19 tasmin nipatite kṣudre śālve bāṇaprapīḍite raukmiṇeyo 'paraṃ bāṇaṃ saṃdadhe śatrunāśanam 20 tam arcitaṃ sarvadāśārha pūgair; āśīrbhir arkajvalana prakāśam dṛṣṭvā śaraṃ jyām abhinīyamānaṃ; babhūva hāhākṛtam antarikṣam 21 tato devagaṇāḥ sarve sendrāḥ saha dhaneśvarāḥ nāradaṃ preṣayām āsuḥ śvasanaṃ ca mahābalam 22 tau raukmiṇeyam āgamya vaco 'brūtāṃ divaukasām naiṣa vadhyas tvayā vīra śālvarājaḥ kathaṃ cana 23 saṃharasva punar bāṇam avadhyo 'yaṃ tvayā raṇe etasya hi śarasyājau nāvadhyo 'sti pumān kva cit 24 mṛtyur asya mahābāho raṇe devakinandanaḥ kṛṣṇaḥ saṃkalpito dhātrā tan na mithyā bhaved iti 25 tataḥ paramasaṃhṛṣṭaḥ pradyumnaḥ śaram uttaram saṃjahāra dhanuḥśreṣṭhāt tūrṇe caiva nyaveśayat 26 tata utthāya rājendra śālvaḥ paramadurmanāḥ vyapāyāt sabalas tūrṇaṃ pradyumna śarapīḍitaḥ 27 sa dvārakāṃ parityajya krūro vṛṇibhir arditaḥ saubham āsthāya rājendra divam ācakrame tadā |
The Mahabharata in Sanskrit
Book 3
Chapter 21
|
1
[वा] आनर्तनगरं मुक्तं ततॊ ऽहम अगमं तदा महाक्रतौ राजसूये निवृत्ते नृपते तव 2 अपश्यं दवारकां चाहं महाराज हतत्विषम निःस्वाध्याय वषट्कारां निर्भूषण वरस्त्रियम 3 अनभिज्ञेय रूपाणि दवारकॊपवनानि च दृष्ट्वा शङ्कॊपपन्नॊ ऽहम अपृच्छं हृदिकात्मजम 4 अस्वस्थनरनारीकम इदं वृष्णिपुरं भृषम किम इदं नरशार्दूल शरॊतुम इच्छामहे वयम 5 एवम उक्तस तु स मया विस्तरेणेदम अब्रवीत रॊधं मॊक्षं च शाल्वेन हार्दिक्यॊ राजसत्तम 6 ततॊ ऽहं कौरवश्रेष्ठ शरुत्वा सर्वम अशेषतः विनाशे शाल्वराजस्य तदैवाकरवं मतिम 7 ततॊ ऽहं भरतश्रेष्ठ समाश्वास्य पुरे जनम राजानम आहुकं चैव तथैवानक दुन्दुभिम सर्ववृष्णिप्रवीरांश च हर्षयन्न अब्रुवं तदा 8 अप्रमादः सदा कार्यॊ नगरे यादवर्षभाः शाल्वराजविनाशाय परयातं मां निबॊधत 9 नाहत्वा तं निवर्तिष्ये पुरीं दवारवतीं परति सशाल्वं सौभनगरं हत्वा दरष्टास्मि वः पुनः तरिसामा हन्यताम एषा दुन्दुभिः शत्रुभीषणी 10 ते मयाश्वासिता वीरा यथावद भरतर्षभ सर्वे माम अब्रुवन हृष्टाः परयाहि जहि शत्रवान 11 तैः परहृष्टात्मभिर वीरैर आशीर्भिर अभिनन्दितः वाचयित्वा दविजश्रेष्ठान परणम्य शिरसाहुकम 12 सैन्यसुग्रीव युक्तेन रथेनानादयन दिशः परध्माप्य शङ्खप्रवरं पाञ्चजन्यम अहं नृप 13 परयातॊ ऽसमि नरव्याघ्र बलेन महता वृतः कॢप्तेन चतुरङ्गेण बलेन जितकाशिना 14 समतीत्य बहून देशान गिरींश च बहुपादपान सरांसि सरितश चैव मार्तिकावतम आसदम 15 तत्राश्रौषं नरव्याघ्र शाल्वं नगरम अन्तिकात परयातं सौभम आस्थाय तम अहं पृष्ठतॊ ऽनवयाम 16 ततः सागरम आसाद्य कुक्षौ तस्य महॊर्मिणः समुद्रनाभ्यां शाल्वॊ ऽभूत सौभम आस्थाय शत्रुहन 17 स समालॊक्य दूरान मां समयन्न इव युधिष्ठिर आह्वयाम आस दुष्टात्मा युद्धायैव मुहुर मुहुः 18 तस्य शार्ङ्गविनिर्मुक्तैर बहुभिर मर्मभेदिभिः पुरं नासाद्यत शरैस ततॊ मां रॊष आविशत 19 स चापि पापप्रकृतिर दैतेयापसदॊ नृप मय्य अवर्षत दुर्धर्षः शरधाराः सहस्रशः 20 सैनिकान मम सूतं च हयांश च समवाकिरत अचिन्तयन्तस तु शरान वयं युध्याम भारत 21 ततः शतसहस्राणि शराणां नतपर्वणाम चिक्षिपुः समरे वीरा मयि शाल्व पदानुगाः 22 ते हयान मे रथं चैव तदा दारुकम एव च छादयाम आसुर असुरा बाणैर मर्म विभेदिभिः 23 न हया न रथॊ वीर न यन्ता मम दारुकः अदृश्यन्त शरैश छन्नास तथाहं सैनिकाश च मे 24 ततॊ ऽहम अपि कौरव्य शराणाम अयुतान बहून अभिमन्त्रितानां धनुषा दिव्येन विधिनाक्षिपम 25 न तत्र विषयस तव आसीन मम सैन्यस्य भारत खे विषिक्तं हि तत सौभं करॊशमात्र इवाभवत 26 ततस ते परेक्षकाः सर्वे रङ्ग वाट इव सथिताः हर्षयाम आसुर उच्चैर मां सिंहनाद तलस्वनैः 27 मत्कार्मुकविनिर्मुक्ता दानवानां महारणे अङ्गेषु रुधिराक्तास ते विविशुः शलभा इव 28 ततॊ हलहलाशब्दः सौभमध्ये वयवर्धत वध्यतां विशिखैस तीक्ष्णैः पततां च महार्णवे 29 ते निकृत्तभुजस्कन्धाः कबन्धाकृति दर्शनाः नदन्तॊ भैरवान नादन निपतन्ति सम दानवाः 30 ततॊ गॊक्षीरकुन्देन्दु मृणालरजतप्रभम जलजं पाञ्चजन्यं वै पराणेनाहम अपूरयम 31 तान दृष्ट्वा पतितांस तत्र शाल्वः सौभपतिस तदा मायायुद्धेन महता यॊधयाम आस मां युधि 32 ततॊ हुडहुडाः परासाः शक्तिशूलपरश्वधाः पट्टिशाश च भुशुण्ड्यश च परापतन्न अनिशं मयि 33 तान अहं माययैवाशु परतिगृह्य वयनाशयम तस्यां हतायां मायायां गिरिशृङ्गैर अयॊधयत 34 ततॊ ऽभवत तम इव परभातम इव चाभवत दुर्दिनं सुदिनं चैव शीतम उष्णं च भारत 35 एवं मायां विकुर्वाणॊ यॊधयाम आस मां रिपुः विज्ञाय तद अहं सर्वं माययैव वयनाशयम यथाकालं तु युद्धेन वयधमं सर्वतः शरैः 36 ततॊ वयॊम महाराज शतसूर्यम इवाभवत शतचन्द्रं च कौन्तेय सहस्रायुत तारकम 37 ततॊ नाज्ञायत तदा दिवारात्रं तथा दिशः ततॊ ऽहं मॊहम आपन्नः परज्ञास्त्रं समयॊजयम ततस तद अस्त्रम अस्त्रेण विधूतं शरतूलवत 38 तथा तद अभवद युद्धं तुमुलं लॊमहर्षणम लब्धालॊकश च राजेन्द्र पुनः शत्रुम अयॊधयम |
1
[vā] ānartanagaraṃ muktaṃ tato 'ham agamaṃ tadā mahākratau rājasūye nivṛtte nṛpate tava 2 apaśyaṃ dvārakāṃ cāhaṃ mahārāja hatatviṣam niḥsvādhyāya vaṣaṭkārāṃ nirbhūṣaṇa varastriyam 3 anabhijñeya rūpāṇi dvārakopavanāni ca dṛṣṭvā śaṅkopapanno 'ham apṛcchaṃ hṛdikātmajam 4 asvasthanaranārīkam idaṃ vṛṣṇipuraṃ bhṛṣam kim idaṃ naraśārdūla śrotum icchāmahe vayam 5 evam uktas tu sa mayā vistareṇedam abravīt rodhaṃ mokṣaṃ ca śālvena hārdikyo rājasattama 6 tato 'haṃ kauravaśreṣṭha śrutvā sarvam aśeṣataḥ vināśe śālvarājasya tadaivākaravaṃ matim 7 tato 'haṃ bharataśreṣṭha samāśvāsya pure janam rājānam āhukaṃ caiva tathaivānaka dundubhim sarvavṛṣṇipravīrāṃś ca harṣayann abruvaṃ tadā 8 apramādaḥ sadā kāryo nagare yādavarṣabhāḥ śālvarājavināśāya prayātaṃ māṃ nibodhata 9 nāhatvā taṃ nivartiṣye purīṃ dvāravatīṃ prati saśālvaṃ saubhanagaraṃ hatvā draṣṭāsmi vaḥ punaḥ trisāmā hanyatām eṣā dundubhiḥ śatrubhīṣaṇī 10 te mayāśvāsitā vīrā yathāvad bharatarṣabha sarve mām abruvan hṛṣṭāḥ prayāhi jahi śatravān 11 taiḥ prahṛṣṭātmabhir vīrair āśīrbhir abhinanditaḥ vācayitvā dvijaśreṣṭhān praṇamya śirasāhukam 12 sainyasugrīva yuktena rathenānādayan diśaḥ pradhmāpya śaṅkhapravaraṃ pāñcajanyam ahaṃ nṛpa 13 prayāto 'smi naravyāghra balena mahatā vṛtaḥ kḷptena caturaṅgeṇa balena jitakāśinā 14 samatītya bahūn deśān girīṃś ca bahupādapān sarāṃsi saritaś caiva mārtikāvatam āsadam 15 tatrāśrauṣaṃ naravyāghra śālvaṃ nagaram antikāt prayātaṃ saubham āsthāya tam ahaṃ pṛṣṭhato 'nvayām 16 tataḥ sāgaram āsādya kukṣau tasya mahormiṇaḥ samudranābhyāṃ śālvo 'bhūt saubham āsthāya śatruhan 17 sa samālokya dūrān māṃ smayann iva yudhiṣṭhira āhvayām āsa duṣṭātmā yuddhāyaiva muhur muhuḥ 18 tasya śārṅgavinirmuktair bahubhir marmabhedibhiḥ puraṃ nāsādyata śarais tato māṃ roṣa āviśat 19 sa cāpi pāpaprakṛtir daiteyāpasado nṛpa mayy avarṣata durdharṣaḥ śaradhārāḥ sahasraśaḥ 20 sainikān mama sūtaṃ ca hayāṃś ca samavākirat acintayantas tu śarān vayaṃ yudhyāma bhārata 21 tataḥ śatasahasrāṇi śarāṇāṃ nataparvaṇām cikṣipuḥ samare vīrā mayi śālva padānugāḥ 22 te hayān me rathaṃ caiva tadā dārukam eva ca chādayām āsur asurā bāṇair marma vibhedibhiḥ 23 na hayā na ratho vīra na yantā mama dārukaḥ adṛśyanta śaraiś channās tathāhaṃ sainikāś ca me 24 tato 'ham api kauravya śarāṇām ayutān bahūn abhimantritānāṃ dhanuṣā divyena vidhinākṣipam 25 na tatra viṣayas tv āsīn mama sainyasya bhārata khe viṣiktaṃ hi tat saubhaṃ krośamātra ivābhavat 26 tatas te prekṣakāḥ sarve raṅga vāṭa iva sthitāḥ harṣayām āsur uccair māṃ siṃhanāda talasvanaiḥ 27 matkārmukavinirmuktā dānavānāṃ mahāraṇe aṅgeṣu rudhirāktās te viviśuḥ śalabhā iva 28 tato halahalāśabdaḥ saubhamadhye vyavardhata vadhyatāṃ viśikhais tīkṣṇaiḥ patatāṃ ca mahārṇave 29 te nikṛttabhujaskandhāḥ kabandhākṛti darśanāḥ nadanto bhairavān nādan nipatanti sma dānavāḥ 30 tato gokṣīrakundendu mṛṇālarajataprabham jalajaṃ pāñcajanyaṃ vai prāṇenāham apūrayam 31 tān dṛṣṭvā patitāṃs tatra śālvaḥ saubhapatis tadā māyāyuddhena mahatā yodhayām āsa māṃ yudhi 32 tato huḍahuḍāḥ prāsāḥ śaktiśūlaparaśvadhāḥ paṭṭiśāś ca bhuśuṇḍyaś ca prāpatann aniśaṃ mayi 33 tān ahaṃ māyayaivāśu pratigṛhya vyanāśayam tasyāṃ hatāyāṃ māyāyāṃ giriśṛṅgair ayodhayat 34 tato 'bhavat tama iva prabhātam iva cābhavat durdinaṃ sudinaṃ caiva śītam uṣṇaṃ ca bhārata 35 evaṃ māyāṃ vikurvāṇo yodhayām āsa māṃ ripuḥ vijñāya tad ahaṃ sarvaṃ māyayaiva vyanāśayam yathākālaṃ tu yuddhena vyadhamaṃ sarvataḥ śaraiḥ 36 tato vyoma mahārāja śatasūryam ivābhavat śatacandraṃ ca kaunteya sahasrāyuta tārakam 37 tato nājñāyata tadā divārātraṃ tathā diśaḥ tato 'haṃ moham āpannaḥ prajñāstraṃ samayojayam tatas tad astram astreṇa vidhūtaṃ śaratūlavat 38 tathā tad abhavad yuddhaṃ tumulaṃ lomaharṣaṇam labdhālokaś ca rājendra punaḥ śatrum ayodhayam |
The Mahabharata in Sanskrit
Book 3
Chapter 22
|
1
[वा] एवं स पुरुषव्याघ्र शाल्वॊ राज्ञां महारिपुः युध्यमानॊ मया संख्ये वियद अभ्यागमत पुनः 2 ततः शतघ्नीश च महागदाश च; दीप्तंश च शूलान मुसलान असींश च चिक्षेप रॊषान मयि मन्दबुद्धिः; शाल्वॊ महाराज जयाभिकाङ्क्षी 3 तान आशुगैर आपततॊ ऽहम आशु; निवार्य तूर्णं खगमान ख एव दविधा तरिधा चाच्छिनम आशु मुखैस; ततॊ ऽनतरिक्षे निनदॊ बभूव 4 ततः शतसहस्रेण शराणां नतपर्वणाम दारुकं वाजिनश चैव रथं च समवाकिरत 5 ततॊ माम अब्रवीद वीर दारुकॊ विह्वलन्न इव सथातव्यम इति तिष्ठामि शाल्व बाणप्रपीडितः 6 इति तस्य निशम्याहं सारथेः करुणं वचः अवेक्षमाणॊ यन्तारम अपश्यं शरपीडितम 7 न तस्यॊरसि नॊ मूर्ध्नि न काये न भुजद्वजे अन्तरं पाण्डवश्रेष्ठ पश्यामि नहतं शरैः 8 स तु बाणवरॊत्पीडाद विस्रवत्य असृग उल्बणम अभिवृष्टॊ यथा मेधैर गिरिर गैरिकधातुमान 9 अभीषु हस्तं तं दृष्ट्वा सीदन्तं सारथिं रणे अस्तम्भयं महाबाहॊ शाल्व बाणप्रपीडितम 10 अथ मां पुरुषः कश चिद दवारका निलयॊ ऽबरवीत तवरितॊ रथम अभ्येत्य सौहृदाद इव भारत 11 आहुकस्य वचॊ वीर तस्यैव परिचारकः विषण्णः सन्नकण्ठॊ वै तन निबॊध युधिष्ठिरः 12 दवारकाधिपतिर वीर आह तवाम आहुकॊ वचः केशवेह विजानीष्व यत तवां पितृसखॊ ऽबरवीत 13 उपयात्वाद्य शाल्वेन दवारकां वृष्णिनन्दन विषक्ते तवयि दुर्धर्ष हतः शूर सुतॊ बलात 14 तद अलं साधु युद्धेन निवर्तस्व जनार्दन दवारकाम एव रक्षस्व कार्यम एतन महत तव 15 इत्य अहं तस्य वचनं शरुत्वा परमदुर्मनाः निश्चयं नाधिगच्छामि कर्तव्यस्येतरस्य वा 16 सात्यकिं बलदेवं च परद्युम्नं च महारथम जगर्हे मनसा वीर तच छरुत्वा विप्रियं वचः 17 अहं हि दवारकायाश च पितुश च कुरुनन्दन तेषु रक्षां समाधाय परयातः सौभपातने 18 बलदेवॊ महाबाहुः कच चिज जीवति शत्रुहा सात्यकी रौक्मिणेयश च चारुदेष्णश च वीर्यवान साम्बप्रभृतयश चैवेत्य अहम आसं सुदुर्मनाः 19 एतेषु हि नरव्याघ्र जीवत्सु न कथं चन शक्यः शूर सुतॊ हन्तुम अपि वज्रभृता सवयम 20 हतः शूर सुतॊ वयक्तं वयक्तं ते च परासवः बलदेव मुखाः सर्वे इति मे निश्चिता मतिः 21 सॊ ऽहं सर्वविनाशं तं चिन्तयानॊ मुहुर मुहुः सुविह्वलॊ महाराज पुनः शाल्वम अयॊधयम 22 ततॊ ऽपश्यं महाराज परपतन्तम अहं तदा सौभाच छूर सुतं वीर ततॊ मां मॊह आविशत 23 तस्य रूपं परपततः पितुर मम नराधिप ययातेः कषीणपुण्यस्य सवर्गाद इव महीतलम 24 विशीर्णगलितॊष्णीषः परकीर्णाम्बर मूर्धजः परपतन दृश्यते ह सम कषीणपुण्य इव गरहः 25 ततः शार्ङ्गं धनुःश्रेष्ठं करात परपतितं मम मॊहात सन्नश च कौन्तेय रथॊपस्थ उपाविशम 26 ततॊ हाहाकृतं सर्वं सैन्यं मे गतचेतनम मां दृष्ट्वा रथनीडस्थं गतासुम इव भारत 27 परसार्य बाहू पततः परसार्य चरणाव अपि रूपं पितुर अपश्यं तच छकुनेः पतितॊ यथा 28 तं पतन्तं महाबाहॊ शूलपट्टिशपाणयः अभिघ्नन्तॊ भृशं वीरा मम चेतॊ वयकम्पयन 29 ततॊ मुहूर्तात परतिलभ्य संज्ञाम; अहं तदा वीर महाविमर्दे न तत्र सौभं न रिपुं न शाल्वं; पश्यामि वृद्धं पितरं न चापि 30 ततॊ ममासीन मनसि पायेयम इति निश्चितम परबुद्धॊ ऽसमि ततॊ भूयः शतशॊ विकिरञ शरान |
1
[vā] evaṃ sa puruṣavyāghra śālvo rājñāṃ mahāripuḥ yudhyamāno mayā saṃkhye viyad abhyāgamat punaḥ 2 tataḥ śataghnīś ca mahāgadāś ca; dīptaṃś ca śūlān musalān asīṃś ca cikṣepa roṣān mayi mandabuddhiḥ; śālvo mahārāja jayābhikāṅkṣī 3 tān āśugair āpatato 'ham āśu; nivārya tūrṇaṃ khagamān kha eva dvidhā tridhā cācchinam āśu mukhais; tato 'ntarikṣe ninado babhūva 4 tataḥ śatasahasreṇa śarāṇāṃ nataparvaṇām dārukaṃ vājinaś caiva rathaṃ ca samavākirat 5 tato mām abravīd vīra dāruko vihvalann iva sthātavyam iti tiṣṭhāmi śālva bāṇaprapīḍitaḥ 6 iti tasya niśamyāhaṃ sāratheḥ karuṇaṃ vacaḥ avekṣamāṇo yantāram apaśyaṃ śarapīḍitam 7 na tasyorasi no mūrdhni na kāye na bhujadvaje antaraṃ pāṇḍavaśreṣṭha paśyāmi nahataṃ śaraiḥ 8 sa tu bāṇavarotpīḍād visravaty asṛg ulbaṇam abhivṛṣṭo yathā medhair girir gairikadhātumān 9 abhīṣu hastaṃ taṃ dṛṣṭvā sīdantaṃ sārathiṃ raṇe astambhayaṃ mahābāho śālva bāṇaprapīḍitam 10 atha māṃ puruṣaḥ kaś cid dvārakā nilayo 'bravīt tvarito ratham abhyetya sauhṛdād iva bhārata 11 āhukasya vaco vīra tasyaiva paricārakaḥ viṣaṇṇaḥ sannakaṇṭho vai tan nibodha yudhiṣṭhiraḥ 12 dvārakādhipatir vīra āha tvām āhuko vacaḥ keśaveha vijānīṣva yat tvāṃ pitṛsakho 'bravīt 13 upayātvādya śālvena dvārakāṃ vṛṣṇinandana viṣakte tvayi durdharṣa hataḥ śūra suto balāt 14 tad alaṃ sādhu yuddhena nivartasva janārdana dvārakām eva rakṣasva kāryam etan mahat tava 15 ity ahaṃ tasya vacanaṃ śrutvā paramadurmanāḥ niścayaṃ nādhigacchāmi kartavyasyetarasya vā 16 sātyakiṃ baladevaṃ ca pradyumnaṃ ca mahāratham jagarhe manasā vīra tac chrutvā vipriyaṃ vacaḥ 17 ahaṃ hi dvārakāyāś ca pituś ca kurunandana teṣu rakṣāṃ samādhāya prayātaḥ saubhapātane 18 baladevo mahābāhuḥ kac cij jīvati śatruhā sātyakī raukmiṇeyaś ca cārudeṣṇaś ca vīryavān sāmbaprabhṛtayaś caivety aham āsaṃ sudurmanāḥ 19 eteṣu hi naravyāghra jīvatsu na kathaṃ cana śakyaḥ śūra suto hantum api vajrabhṛtā svayam 20 hataḥ śūra suto vyaktaṃ vyaktaṃ te ca parāsavaḥ baladeva mukhāḥ sarve iti me niścitā matiḥ 21 so 'haṃ sarvavināśaṃ taṃ cintayāno muhur muhuḥ suvihvalo mahārāja punaḥ śālvam ayodhayam 22 tato 'paśyaṃ mahārāja prapatantam ahaṃ tadā saubhāc chūra sutaṃ vīra tato māṃ moha āviśat 23 tasya rūpaṃ prapatataḥ pitur mama narādhipa yayāteḥ kṣīṇapuṇyasya svargād iva mahītalam 24 viśīrṇagalitoṣṇīṣaḥ prakīrṇāmbara mūrdhajaḥ prapatan dṛśyate ha sma kṣīṇapuṇya iva grahaḥ 25 tataḥ śārṅgaṃ dhanuḥśreṣṭhaṃ karāt prapatitaṃ mama mohāt sannaś ca kaunteya rathopastha upāviśam 26 tato hāhākṛtaṃ sarvaṃ sainyaṃ me gatacetanam māṃ dṛṣṭvā rathanīḍasthaṃ gatāsum iva bhārata 27 prasārya bāhū patataḥ prasārya caraṇāv api rūpaṃ pitur apaśyaṃ tac chakuneḥ patito yathā 28 taṃ patantaṃ mahābāho śūlapaṭṭiśapāṇayaḥ abhighnanto bhṛśaṃ vīrā mama ceto vyakampayan 29 tato muhūrtāt pratilabhya saṃjñām; ahaṃ tadā vīra mahāvimarde na tatra saubhaṃ na ripuṃ na śālvaṃ; paśyāmi vṛddhaṃ pitaraṃ na cāpi 30 tato mamāsīn manasi pāyeyam iti niścitam prabuddho 'smi tato bhūyaḥ śataśo vikirañ śarān |
The Mahabharata in Sanskrit
Book 3
Chapter 23
|
1
[वा] ततॊ ऽहं भरतश्रेष्ठ परगृह्य रुचिरं धनुः शरैर अपातयं सौभाच छिरांसि विबुधद्विषाम 2 शरांश चाशीविषाकारान ऊर्ध्वगांस तिग्मतेजसः अप्रैषं शाल्वराजाय शार्ङ्गमुक्तान सुवाससः 3 ततॊ नादृश्यत तदा सौभं कुरुकुलॊद्वह अन्तर्हितं माययाभूत ततॊ ऽहं विस्मितॊ ऽभवम 4 अथ दानवसंघास ते विकृताननमूर्धजाः उदक्रॊशन महाराज विष्ठिते मयि भारत 5 ततॊ ऽसत्रं शब्दसाहं वै तवरमाणॊ महाहवे अयॊजयं तद वधाय ततः शब्द उपारमत 6 हतास ते दानवाः सर्वे यैः स शब्द उदीरितः शरैर आदित्यसंकाशैर जवलितैः शब्दसाधनैः 7 तस्मिन्न उपरते शब्दे पुनर एवान्यतॊ ऽभवत शब्दॊ ऽपरॊ महाराज तत्रापि पराहरं शरान 8 एवं दश दिशः सर्वास तिर्यग ऊर्ध्वं च भारत नादयाम आसुर असुरास ते चापि निहता मया 9 ततः पराग्ज्यॊतिषं गत्वा पुनर एव वयदृश्यत सौभं कामगमं वीर मॊहयन मम चक्षुषी 10 ततॊ लॊकान्त करणॊ दानवॊ वानराकृतिः शिला वर्षेण सहसा सहसा मां समावृणॊत 11 सॊ ऽहं पर्वत वर्षेण वध्यमानः समन्ततः वल्मीक इव राजेन्द्र पर्वतॊपचितॊ ऽभवम 12 ततॊ ऽहं पर्वत चितः सहयः सह सारथिः अप्रख्यातिम इयां राजन सध्वजः पर्वतैश चितः 13 ततॊ वृणि परवीरा यॊ ममासन सैनिकास तदा ते भयार्ता दिशः सर्वाः सहसा विप्रदुद्रुवुः 14 ततॊ हाहाकृतं सर्वम अभूत किल विशां पते दयौश च भूमिश च खं चैवादृश्यमाने तथा मयि 15 ततॊ विषण्णमनसॊ मम राजन सुहृज्जनाः रुरुदुश चुक्रुशुश चैव दुःखशॊकसमन्विताः 16 दविषतां च परहर्षॊ ऽभूद आर्तिश चाद्विषताम अपि एवं विजितवान वीर पश्चाद अश्रौषम अच्युत 17 ततॊ ऽहम अस्त्रं दयितं सर्वपाषाण भेदनम वज्रम उद्यम्य तान सर्वान पर्वतान समशातयम 18 ततः पर्वत भारार्ता मन्दप्राणविचेष्टिताः हया मम महाराज वेपमाना इवाभवन 19 मेघजालम इवाकाशे विदार्याभ्युदितं रविम दृष्ट्वा मां बान्धवाः सर्वे हर्षम आहारयन पुनः 20 ततॊ माम अब्रवीत सूतः पराञ्जलिः परणतॊ नृप साधु संपश्य वार्ष्णेय शाल्वं सौभपतिं सथितम 21 अलं कृष्णावमन्यैनं साधु यत्नं समाचर मार्दवं सखितां चैव शाल्वाद अद्य वयपाहर 22 जहि शाल्वं महाबाहॊ मैनं जीवय केशव सर्वैः पराक्रमैर वीरवध्यः शत्रुर अमित्रहन 23 न शत्रुर अवमन्तव्यॊ दुर्बलॊ ऽपि बलीयसा यॊ ऽपि सयात पीढगः कश चित किं पुनः समरे सथितः 24 स तवं पुरुषशार्दूल सर्वयत्नैर इमं परभॊ जहि वृष्णिकुलश्रेष्ठ मा तवां कालॊ ऽतयगात पुनः 25 नैष मार्दवसाध्यॊ वै मतॊ नापि सखा तव येन तवं यॊधितॊ वीर दवारका चावमर्दिता 26 एवमादि तु कौन्तेय शरुत्वाहं सारथेर वचः तत्त्वम एतद इति जञात्वा युद्धे मतिम अधारयम 27 वधाय शाल्वराजस्य सौभस्य च निपातने दारुकं चाब्रुवं वीर मुहूर्तं सथीयताम इति 28 ततॊ ऽपरतिहतं दिव्यम अभेद्यम अतिवीर्यवत आग्नेयम अस्त्रं दयितं सर्वसाहं महाप्रभम 29 यक्षाणां राक्षसाणां च दानवानां च संयुगे राज्ञां च परतिलॊमानां भस्मान्त करणं महत 30 कषुरान्तम अमलं चक्रं कालान्तकयमॊपमम अभिमन्त्र्याहम अतुलं दविषतां च निबर्हणम 31 जहि सौभं सववीर्येण ये चात्र रिपवॊ मम इत्य उक्त्वा भुजवीर्येण तस्मै पराहिणवं रुषा 32 रूपं सुदर्शनस्यासीद आकाशे पततस तदा दवितीयस्येव सूर्यस्य युगान्ते परिविष्यतः 33 तत समासाद्य नगरं सौभं वयपगतत्विषम मध्येन पाटयाम आस करकचॊ दार्व इवॊच्छ्रितम 34 दविधाकृतं ततः सौभं सुदर्शन बलाद धतम महेश्वर शरॊद्धूतं पपात तरिपुरं यथा 35 तस्मिन निपतिते सौभे चक्रम आगत करं मम पुनश चॊद्धूय वेगेन शाल्वाल्येत्य अहम अब्रुवम 36 ततः शाल्वं गदां गुर्वीम आविध्यन्तं महाहवे दविधा चकार सहसा परजज्वाल च तेजसा 37 तस्मिन निपतिते वीरे दानवास तरस्तचेतसः हाहाभूता दिशॊ जग्मुर अर्दिता मम सायकैः 38 ततॊ ऽहं समवस्थाप्य रथं सौभसमीपतः शङ्खं परध्माप्य हर्षेण मुहृदः पर्यहर्षयम 39 तन मेरुशिखराकारं विध्वस्ताट्टाल गॊपुरम दह्यमानम अभिप्रेक्ष्य सत्रियस ताः संप्रदुद्रुवुः 40 एवं निहत्य समरे शाल्वं सौभं निपात्य च आनर्तान पुनर आगम्य सुहृदां परीतिम आवहम 41 एतस्मात कारणाद राजन नागमं नागसाह्वयम यद्य अगां परवीरघ्न न हि जीवेत सुयॊधनः 42 [वै] एवम उक्त्वा महाबाहुः कौरवं पुरुषॊत्तमः आमन्त्र्य परययौ धीमान पाण्डवान मधुसूदनः 43 अभिवाद्य महाबाहुर धर्मराजं युधिष्ठिरम राज्ञा मूर्धन्य उपाघ्रातॊ भीमेन च महाभुजः 44 सुभद्राम अभिमन्युं च रथम आरॊप्य काञ्चनम आरुरॊह रथं कृष्णः पाण्डवैर अभिपूजितः 45 सैन्यसुग्रीव युक्तेन रथेनादित्यवर्चसा दवारकां परययौ कृष्णः समाश्वास्य युधिष्ठिरम 46 ततः परयाते दाशार्हे धृष्टद्युम्नॊ ऽपि पार्षतः दरौपदेयान उपादाय परययौ सवपुरं तदा 47 धृष्टकेतुः सवसारं च समादायाथ चेदिराट जगाम पाण्डवान दृष्ट्वा रम्यां शुक्तिमतीं पुरीम 48 केकयाश चाप्य अनुज्ञाताः कौन्तेयेनामितौजसा आमन्त्र्य पाण्डवान सर्वान परययुस ते ऽपि भारत 49 बराह्मणाश च विशश चैव तथा विषयवासिनः विसृज्यमानाः सुभृशं न तयजन्ति सम पाण्डवान 50 सामवायः स राजेन्द्र सुमहाद्भुत दर्शनः आसीन महात्मानं तेषां काम्यके भरतर्षभ 51 युधिष्ठिरस तु विप्रांस तान अनुमान्य महात्मनाः शशास पुरुषान काले रथान यॊजयतेति ह |
1
[vā] tato 'haṃ bharataśreṣṭha pragṛhya ruciraṃ dhanuḥ śarair apātayaṃ saubhāc chirāṃsi vibudhadviṣām 2 śarāṃś cāśīviṣākārān ūrdhvagāṃs tigmatejasaḥ apraiṣaṃ śālvarājāya śārṅgamuktān suvāsasaḥ 3 tato nādṛśyata tadā saubhaṃ kurukulodvaha antarhitaṃ māyayābhūt tato 'haṃ vismito 'bhavam 4 atha dānavasaṃghās te vikṛtānanamūrdhajāḥ udakrośan mahārāja viṣṭhite mayi bhārata 5 tato 'straṃ śabdasāhaṃ vai tvaramāṇo mahāhave ayojayaṃ tad vadhāya tataḥ śabda upāramat 6 hatās te dānavāḥ sarve yaiḥ sa śabda udīritaḥ śarair ādityasaṃkāśair jvalitaiḥ śabdasādhanaiḥ 7 tasminn uparate śabde punar evānyato 'bhavat śabdo 'paro mahārāja tatrāpi prāharaṃ śarān 8 evaṃ daśa diśaḥ sarvās tiryag ūrdhvaṃ ca bhārata nādayām āsur asurās te cāpi nihatā mayā 9 tataḥ prāgjyotiṣaṃ gatvā punar eva vyadṛśyata saubhaṃ kāmagamaṃ vīra mohayan mama cakṣuṣī 10 tato lokānta karaṇo dānavo vānarākṛtiḥ śilā varṣeṇa sahasā sahasā māṃ samāvṛṇot 11 so 'haṃ parvata varṣeṇa vadhyamānaḥ samantataḥ valmīka iva rājendra parvatopacito 'bhavam 12 tato 'haṃ parvata citaḥ sahayaḥ saha sārathiḥ aprakhyātim iyāṃ rājan sadhvajaḥ parvataiś citaḥ 13 tato vṛṇi pravīrā yo mamāsan sainikās tadā te bhayārtā diśaḥ sarvāḥ sahasā vipradudruvuḥ 14 tato hāhākṛtaṃ sarvam abhūt kila viśāṃ pate dyauś ca bhūmiś ca khaṃ caivādṛśyamāne tathā mayi 15 tato viṣaṇṇamanaso mama rājan suhṛjjanāḥ ruruduś cukruśuś caiva duḥkhaśokasamanvitāḥ 16 dviṣatāṃ ca praharṣo 'bhūd ārtiś cādviṣatām api evaṃ vijitavān vīra paścād aśrauṣam acyuta 17 tato 'ham astraṃ dayitaṃ sarvapāṣāṇa bhedanam vajram udyamya tān sarvān parvatān samaśātayam 18 tataḥ parvata bhārārtā mandaprāṇaviceṣṭitāḥ hayā mama mahārāja vepamānā ivābhavan 19 meghajālam ivākāśe vidāryābhyuditaṃ ravim dṛṣṭvā māṃ bāndhavāḥ sarve harṣam āhārayan punaḥ 20 tato mām abravīt sūtaḥ prāñjaliḥ praṇato nṛpa sādhu saṃpaśya vārṣṇeya śālvaṃ saubhapatiṃ sthitam 21 alaṃ kṛṣṇāvamanyainaṃ sādhu yatnaṃ samācara mārdavaṃ sakhitāṃ caiva śālvād adya vyapāhara 22 jahi śālvaṃ mahābāho mainaṃ jīvaya keśava sarvaiḥ parākramair vīravadhyaḥ śatrur amitrahan 23 na śatrur avamantavyo durbalo 'pi balīyasā yo 'pi syāt pīḍhagaḥ kaś cit kiṃ punaḥ samare sthitaḥ 24 sa tvaṃ puruṣaśārdūla sarvayatnair imaṃ prabho jahi vṛṣṇikulaśreṣṭha mā tvāṃ kālo 'tyagāt punaḥ 25 naiṣa mārdavasādhyo vai mato nāpi sakhā tava yena tvaṃ yodhito vīra dvārakā cāvamarditā 26 evamādi tu kaunteya śrutvāhaṃ sārather vacaḥ tattvam etad iti jñātvā yuddhe matim adhārayam 27 vadhāya śālvarājasya saubhasya ca nipātane dārukaṃ cābruvaṃ vīra muhūrtaṃ sthīyatām iti 28 tato 'pratihataṃ divyam abhedyam ativīryavat āgneyam astraṃ dayitaṃ sarvasāhaṃ mahāprabham 29 yakṣāṇāṃ rākṣasāṇāṃ ca dānavānāṃ ca saṃyuge rājñāṃ ca pratilomānāṃ bhasmānta karaṇaṃ mahat 30 kṣurāntam amalaṃ cakraṃ kālāntakayamopamam abhimantryāham atulaṃ dviṣatāṃ ca nibarhaṇam 31 jahi saubhaṃ svavīryeṇa ye cātra ripavo mama ity uktvā bhujavīryeṇa tasmai prāhiṇavaṃ ruṣā 32 rūpaṃ sudarśanasyāsīd ākāśe patatas tadā dvitīyasyeva sūryasya yugānte pariviṣyataḥ 33 tat samāsādya nagaraṃ saubhaṃ vyapagatatviṣam madhyena pāṭayām āsa krakaco dārv ivocchritam 34 dvidhākṛtaṃ tataḥ saubhaṃ sudarśana balād dhatam maheśvara śaroddhūtaṃ papāta tripuraṃ yathā 35 tasmin nipatite saubhe cakram āgat karaṃ mama punaś coddhūya vegena śālvālyety aham abruvam 36 tataḥ śālvaṃ gadāṃ gurvīm āvidhyantaṃ mahāhave dvidhā cakāra sahasā prajajvāla ca tejasā 37 tasmin nipatite vīre dānavās trastacetasaḥ hāhābhūtā diśo jagmur arditā mama sāyakaiḥ 38 tato 'haṃ samavasthāpya rathaṃ saubhasamīpataḥ śaṅkhaṃ pradhmāpya harṣeṇa muhṛdaḥ paryaharṣayam 39 tan meruśikharākāraṃ vidhvastāṭṭāla gopuram dahyamānam abhiprekṣya striyas tāḥ saṃpradudruvuḥ 40 evaṃ nihatya samare śālvaṃ saubhaṃ nipātya ca ānartān punar āgamya suhṛdāṃ prītim āvaham 41 etasmāt kāraṇād rājan nāgamaṃ nāgasāhvayam yady agāṃ paravīraghna na hi jīvet suyodhanaḥ 42 [vai] evam uktvā mahābāhuḥ kauravaṃ puruṣottamaḥ āmantrya prayayau dhīmān pāṇḍavān madhusūdanaḥ 43 abhivādya mahābāhur dharmarājaṃ yudhiṣṭhiram rājñā mūrdhany upāghrāto bhīmena ca mahābhujaḥ 44 subhadrām abhimanyuṃ ca ratham āropya kāñcanam āruroha rathaṃ kṛṣṇaḥ pāṇḍavair abhipūjitaḥ 45 sainyasugrīva yuktena rathenādityavarcasā dvārakāṃ prayayau kṛṣṇaḥ samāśvāsya yudhiṣṭhiram 46 tataḥ prayāte dāśārhe dhṛṣṭadyumno 'pi pārṣataḥ draupadeyān upādāya prayayau svapuraṃ tadā 47 dhṛṣṭaketuḥ svasāraṃ ca samādāyātha cedirāṭ jagāma pāṇḍavān dṛṣṭvā ramyāṃ śuktimatīṃ purīm 48 kekayāś cāpy anujñātāḥ kaunteyenāmitaujasā āmantrya pāṇḍavān sarvān prayayus te 'pi bhārata 49 brāhmaṇāś ca viśaś caiva tathā viṣayavāsinaḥ visṛjyamānāḥ subhṛśaṃ na tyajanti sma pāṇḍavān 50 sāmavāyaḥ sa rājendra sumahādbhuta darśanaḥ āsīn mahātmānaṃ teṣāṃ kāmyake bharatarṣabha 51 yudhiṣṭhiras tu viprāṃs tān anumānya mahātmanāḥ śaśāsa puruṣān kāle rathān yojayateti ha |
The Mahabharata in Sanskrit
Book 3
Chapter 24
|
1
[वै] तस्मिन दशार्हाधिपतौ परयाते; युधिष्ठिरॊ भीमसेनार्जुनौ च यमौ च कृष्णा च पुरॊहितश च; रथान महार्हान परमाश्वयुक्तान 2 आस्थाय वीराः सहिता वनाय; परतस्थिरे भूतपतिप्रकाशाः हिरण्यनिष्कान वसनानि गाश च; परदाय शिक्षाक्षर मन्त्रिविद्भ्यः 3 परेष्याः पुरॊ विंशतिर आत्तशस्त्रा; धनूंषि वर्माणि शरांश च पीतान मौर्वीश च यन्त्राणि च सायकांश च; सर्वे समादाय जघन्यम ईयुः 4 ततस तु वासांसि च राजपुत्र्या; धात्र्यश च दास्यश च विभूषणं च तद इन्द्रसेनस तवरितं परगृह्य; जघन्यम एवॊपययौ रथेन 5 ततः कुरुश्रेष्ठम उपेत्य पौराः; परदक्षिणं चक्रुर अदीनसत्त्वाः तं बराह्मणाश चाभ्यवदन परसन्ना; मुख्याश च सर्वे कुरुजाङ्गलानाम 6 स चापि तान अभ्यवदत परसन्नः; सहैव तैर भरातृभिर धर्मराजः तस्थौ च तत्राधिपतिर महात्मा; दृष्ट्वा जनौघं कुरुजाङ्गलानाम 7 पितेव पुत्रेषु स तेषु भावं; चक्रे कुरूणाम ऋषभॊ महात्मा ते चापि तस्मिन भरत परबर्हे; तदा बभूवुः पितरीव पुत्राः 8 ततः समासाद्य महाजनौघाः; कुरुप्रवीरं परिवार्य तस्थुः हा नाथ हा धर्म इति बरुवन्तॊ; हरिया च सर्वे ऽशरुमुखा बभूवुः 9 वरः कुरूणाम अधिपः परजानां; पितेव पुत्रान अपहाय चास्मान पौरान इमाञ जानपदांश च सर्वान; हित्वा परयातः कव नु धर्मराजः 10 धिग धार्तराष्ट्रं सुनृशंस बुद्धिं; ससौबलं पापमतिं च कर्णम अनर्थम इच्छन्ति नरेन्द्र पापा; ये धर्मनित्यस्य सतस तवाग्राः 11 सवयं निवेश्याप्रतिमं महात्मा; पुरं महद देवपुरप्रकाशम शतक्रतुप्रथम अमॊघकर्मा; हित्वा परयातः कव नु धर्मराजः 12 चकार याम अप्रतिमां महात्मा; सभां मयॊ देव सभा परकाशाम तां देव गुप्ताम इव देव मायां; हित्वा परयातः कव नु धर्मराजः 13 तान धर्मकामार्थविद उत्तमौजा; बीभत्सुर उच्चैः सहितान उवाच आदास्यते वासम इमं निरुष्य; वनेषु राजा दविषतां यशांसि 14 दविजातिमुख्याः सहिताः पृथक च; भवद्भिर आसाद्य तपस्विनश च परसाद्य धर्मार्थविदश च वाच्या; यथार्थसिद्धिः परमा भवेन नः 15 इत्य एवम उक्ते वचने ऽरजुनेन; ते बराह्मणाः सर्ववर्णाश च राजन मुदाभ्यनन्दन सहिताश च चक्रुः; परदक्षिणं धर्मभृतां वरिष्ठम 16 आमन्त्र्य पार्थं च वृकॊदरं च; धनंजयं याज्ञसेनीं यमौ च परतस्थिरे राष्ट्रम अपेतहर्षा; युधिष्ठिरेणानुमता यथा सवम |
1
[vai] tasmin daśārhādhipatau prayāte; yudhiṣṭhiro bhīmasenārjunau ca yamau ca kṛṣṇā ca purohitaś ca; rathān mahārhān paramāśvayuktān 2 āsthāya vīrāḥ sahitā vanāya; pratasthire bhūtapatiprakāśāḥ hiraṇyaniṣkān vasanāni gāś ca; pradāya śikṣākṣara mantrividbhyaḥ 3 preṣyāḥ puro viṃśatir āttaśastrā; dhanūṃṣi varmāṇi śarāṃś ca pītān maurvīś ca yantrāṇi ca sāyakāṃś ca; sarve samādāya jaghanyam īyuḥ 4 tatas tu vāsāṃsi ca rājaputryā; dhātryaś ca dāsyaś ca vibhūṣaṇaṃ ca tad indrasenas tvaritaṃ pragṛhya; jaghanyam evopayayau rathena 5 tataḥ kuruśreṣṭham upetya paurāḥ; pradakṣiṇaṃ cakrur adīnasattvāḥ taṃ brāhmaṇāś cābhyavadan prasannā; mukhyāś ca sarve kurujāṅgalānām 6 sa cāpi tān abhyavadat prasannaḥ; sahaiva tair bhrātṛbhir dharmarājaḥ tasthau ca tatrādhipatir mahātmā; dṛṣṭvā janaughaṃ kurujāṅgalānām 7 piteva putreṣu sa teṣu bhāvaṃ; cakre kurūṇām ṛṣabho mahātmā te cāpi tasmin bharata prabarhe; tadā babhūvuḥ pitarīva putrāḥ 8 tataḥ samāsādya mahājanaughāḥ; kurupravīraṃ parivārya tasthuḥ hā nātha hā dharma iti bruvanto; hriyā ca sarve 'śrumukhā babhūvuḥ 9 varaḥ kurūṇām adhipaḥ prajānāṃ; piteva putrān apahāya cāsmān paurān imāñ jānapadāṃś ca sarvān; hitvā prayātaḥ kva nu dharmarājaḥ 10 dhig dhārtarāṣṭraṃ sunṛśaṃsa buddhiṃ; sasaubalaṃ pāpamatiṃ ca karṇam anartham icchanti narendra pāpā; ye dharmanityasya satas tavāgrāḥ 11 svayaṃ niveśyāpratimaṃ mahātmā; puraṃ mahad devapuraprakāśam śatakratupratham amoghakarmā; hitvā prayātaḥ kva nu dharmarājaḥ 12 cakāra yām apratimāṃ mahātmā; sabhāṃ mayo deva sabhā prakāśām tāṃ deva guptām iva deva māyāṃ; hitvā prayātaḥ kva nu dharmarājaḥ 13 tān dharmakāmārthavid uttamaujā; bībhatsur uccaiḥ sahitān uvāca ādāsyate vāsam imaṃ niruṣya; vaneṣu rājā dviṣatāṃ yaśāṃsi 14 dvijātimukhyāḥ sahitāḥ pṛthak ca; bhavadbhir āsādya tapasvinaś ca prasādya dharmārthavidaś ca vācyā; yathārthasiddhiḥ paramā bhaven naḥ 15 ity evam ukte vacane 'rjunena; te brāhmaṇāḥ sarvavarṇāś ca rājan mudābhyanandan sahitāś ca cakruḥ; pradakṣiṇaṃ dharmabhṛtāṃ variṣṭham 16 āmantrya pārthaṃ ca vṛkodaraṃ ca; dhanaṃjayaṃ yājñasenīṃ yamau ca pratasthire rāṣṭram apetaharṣā; yudhiṣṭhireṇānumatā yathā svam |
The Mahabharata in Sanskrit
Book 3
Chapter 25
|
1
[वै] ततस तेषु परयातेषु कौन्तेयः सत्यसंगरः अभ्यभाषत धर्मात्मा भरातॄन सर्वान युधिष्ठिरः 2 दवादशेमाः समास्माभिर वस्तव्यं निर्जने वने समीक्षध्वं महारण्ये देशं बहुमृगद्विजम 3 बहुपुष्पफलं रम्यं शिवं पुण्यजनॊचितम यत्रेमाः शरदः सर्वाः सुखं परतिवसेमहि 4 एवम उक्ते परत्युवाच धर्मराजं धनंजयः गुरुवन मानव गुरुं मानयित्व मनस्विनम 5 [अर] भवान एव महर्षीणां वृद्धानां पर्युपासिता अज्ञातं मानुषे लॊके भवतॊ नास्ति किं चन 6 तवया हय उपासिता नित्यं बराह्मणा भरतर्षभ दवैपायनप्रभृतयॊ नारदश च महातपाः 7 यः सर्वलॊकद्वाराणि नित्यं संचरते वशी देवलॊकाद बरह्मलॊकं गन्धर्वाप्सरसाम अपि 8 सर्वा गतीर विजानासि बराह्मणानां न संशयः परभावांश चैव वेत्थ तवं सर्वेषाम एव पार्थिव 9 तवम एव राजञ जानासि शरेयः कारणम एव च यत्रेच्छसि महाराज निवासं तत्र कुर्महे 10 इदं दवैतवनं नाम सरः पुण्यजनॊचितम बहुपुष्पफलं रम्यं नानाद्विजनिषेवितम 11 अत्रेमा दवादश समा विहरेमेति रॊचये यदि ते ऽनुमतं राजन किं वान्यन मन्यते भवान 12 [य] ममाप्य एतन मतं पार्थ तवया यत समुदाहृतम गच्छाम पुण्यं विख्यातं महद दवैतवनं सरः 13 [वै] ततस ते परययुः सर्वे पाण्डवा धर्मचारिणः बराह्मणैर बहुभिः सार्धं पुण्यं दवैतवनं सरः 14 बराह्मणाः साग्निहॊत्राश च तथैव च निरग्नयः सवाध्यायिनॊ भिक्षवश च सजपा वनवासिनः 15 बहवॊ बराह्मणास तत्र परिवव्रुर युधिष्ठिरम तपस्विनः सत्यशीलाः शतशः संशितव्रताः 16 ते यात्वा पाण्डवास तत्र बहुभिर बराह्मणैः सह पुण्यं दवैतवनं रम्यं विविशुर भरतर्षभाः 17 तच छाल तालाम्र मधूकनीप; कदम्बसर्जार्जुन कर्णिकारैः तपात्यये पुष्पधरैर उपेतं; महावनं राष्ट्रपतिर ददर्श 18 महाद्रुमाणां शिखरेषु तस्थुर; मनॊरमां वाचम उदीरयन्तः मयूरदात्यूह चकॊर संघास; तस्मिन वने काननकॊकिलाश च 19 करेणुयूथैः सह यूथपानां; मदॊत्कटानाम अचलप्रभाणाम महान्ति यूथानि महाद्विपानां; तस्मिन वने राष्ट्रपतिर ददर्श 20 मनॊरमां भॊगवतीम उपेत्य; धृतात्मानं चीरजटा धराणाम तस्मिन वने धर्मभृतां निवासे; ददर्श सिद्धर्षिगणान अनेकान 21 ततः स यानाद अवरुह्य राजा; सभ्रातृकः सजनः काननं तत विवेश धर्मात्मवतां वरिष्ठस; तरिविष्टपं शक्र इवामितौजाः 22 तं सत्यसंधं सहिताभिपेतुर; दिदृक्षवश चारणसिद्धसंघाः वनौकसश चापि नरेन्द्र सिंहं; मनस्विनं संपरिवार्य तस्थुः 23 स तत्र सिद्धान अभिवाद्य सर्वान; परत्यर्चितॊ राजवद देववच च विवेश सर्वैः सहितॊ दविजाग्र्यैः; कृताञ्जलिर धर्मभृतां वरिष्ठः 24 स पुण्यशीलः पितृवन महात्मा; तपस्विभिर धर्मपरैर उपेत्य परत्यर्चितः पुष्पधरस्य मूले; महाद्रुमस्यॊपविवेश राजा 25 भीमश च कृष्णा च धनंजयश च; यमौ च ते चानुचरा नरेन्द्रम विमुच्य वाहान अवरुह्य सर्वे; तत्रॊपतस्थुर भरत परबर्हाः 26 लतावतानावनतः स पाण्डवैर; महाद्रुमः पञ्चभिर उग्रधन्विभिः बभौ निवासॊपगतैर महात्मभिर; महागिरिर वारणयूथपैर इव |
1
[vai] tatas teṣu prayāteṣu kaunteyaḥ satyasaṃgaraḥ abhyabhāṣata dharmātmā bhrātṝn sarvān yudhiṣṭhiraḥ 2 dvādaśemāḥ samāsmābhir vastavyaṃ nirjane vane samīkṣadhvaṃ mahāraṇye deśaṃ bahumṛgadvijam 3 bahupuṣpaphalaṃ ramyaṃ śivaṃ puṇyajanocitam yatremāḥ śaradaḥ sarvāḥ sukhaṃ prativasemahi 4 evam ukte pratyuvāca dharmarājaṃ dhanaṃjayaḥ guruvan mānava guruṃ mānayitva manasvinam 5 [ar] bhavān eva maharṣīṇāṃ vṛddhānāṃ paryupāsitā ajñātaṃ mānuṣe loke bhavato nāsti kiṃ cana 6 tvayā hy upāsitā nityaṃ brāhmaṇā bharatarṣabha dvaipāyanaprabhṛtayo nāradaś ca mahātapāḥ 7 yaḥ sarvalokadvārāṇi nityaṃ saṃcarate vaśī devalokād brahmalokaṃ gandharvāpsarasām api 8 sarvā gatīr vijānāsi brāhmaṇānāṃ na saṃśayaḥ prabhāvāṃś caiva vettha tvaṃ sarveṣām eva pārthiva 9 tvam eva rājañ jānāsi śreyaḥ kāraṇam eva ca yatrecchasi mahārāja nivāsaṃ tatra kurmahe 10 idaṃ dvaitavanaṃ nāma saraḥ puṇyajanocitam bahupuṣpaphalaṃ ramyaṃ nānādvijaniṣevitam 11 atremā dvādaśa samā viharemeti rocaye yadi te 'numataṃ rājan kiṃ vānyan manyate bhavān 12 [y] mamāpy etan mataṃ pārtha tvayā yat samudāhṛtam gacchāma puṇyaṃ vikhyātaṃ mahad dvaitavanaṃ saraḥ 13 [vai] tatas te prayayuḥ sarve pāṇḍavā dharmacāriṇaḥ brāhmaṇair bahubhiḥ sārdhaṃ puṇyaṃ dvaitavanaṃ saraḥ 14 brāhmaṇāḥ sāgnihotrāś ca tathaiva ca niragnayaḥ svādhyāyino bhikṣavaś ca sajapā vanavāsinaḥ 15 bahavo brāhmaṇās tatra parivavrur yudhiṣṭhiram tapasvinaḥ satyaśīlāḥ śataśaḥ saṃśitavratāḥ 16 te yātvā pāṇḍavās tatra bahubhir brāhmaṇaiḥ saha puṇyaṃ dvaitavanaṃ ramyaṃ viviśur bharatarṣabhāḥ 17 tac chāla tālāmra madhūkanīpa; kadambasarjārjuna karṇikāraiḥ tapātyaye puṣpadharair upetaṃ; mahāvanaṃ rāṣṭrapatir dadarśa 18 mahādrumāṇāṃ śikhareṣu tasthur; manoramāṃ vācam udīrayantaḥ mayūradātyūha cakora saṃghās; tasmin vane kānanakokilāś ca 19 kareṇuyūthaiḥ saha yūthapānāṃ; madotkaṭānām acalaprabhāṇām mahānti yūthāni mahādvipānāṃ; tasmin vane rāṣṭrapatir dadarśa 20 manoramāṃ bhogavatīm upetya; dhṛtātmānaṃ cīrajaṭā dharāṇām tasmin vane dharmabhṛtāṃ nivāse; dadarśa siddharṣigaṇān anekān 21 tataḥ sa yānād avaruhya rājā; sabhrātṛkaḥ sajanaḥ kānanaṃ tat viveśa dharmātmavatāṃ variṣṭhas; triviṣṭapaṃ śakra ivāmitaujāḥ 22 taṃ satyasaṃdhaṃ sahitābhipetur; didṛkṣavaś cāraṇasiddhasaṃghāḥ vanaukasaś cāpi narendra siṃhaṃ; manasvinaṃ saṃparivārya tasthuḥ 23 sa tatra siddhān abhivādya sarvān; pratyarcito rājavad devavac ca viveśa sarvaiḥ sahito dvijāgryaiḥ; kṛtāñjalir dharmabhṛtāṃ variṣṭhaḥ 24 sa puṇyaśīlaḥ pitṛvan mahātmā; tapasvibhir dharmaparair upetya pratyarcitaḥ puṣpadharasya mūle; mahādrumasyopaviveśa rājā 25 bhīmaś ca kṛṣṇā ca dhanaṃjayaś ca; yamau ca te cānucarā narendram vimucya vāhān avaruhya sarve; tatropatasthur bharata prabarhāḥ 26 latāvatānāvanataḥ sa pāṇḍavair; mahādrumaḥ pañcabhir ugradhanvibhiḥ babhau nivāsopagatair mahātmabhir; mahāgirir vāraṇayūthapair iva |
The Mahabharata in Sanskrit
Book 3
Chapter 26
|
1
[वै] तत काननं पराप्य नरेन्द्रपुत्राः; सुखॊचिता वासम उपेत्य कृच्छ्रम विजह्रुर इन्द्र परतिमाः शिवेषु; सरस्वती शालवनेषु तेषु 2 यतींश च सर्वान स मुनींश च राजा; तस्मिन वने मूलफलैर उदग्रैः दविजातिमुख्यान ऋषभः कुरूणां; संतर्पयाम आस महानुभावः 3 इष्टीश च पित्र्याणि तथाग्रियाणि; महावने वसतां पाण्डवानाम पुरॊहितः सर्वसमृद्धतेजाश; चकार धौम्यः पितृवत कुरूणाम 4 अपेत्य राष्ट्राद वसतां तु तेषाम; ऋषिः पुराणॊ ऽतिथिर आजगाम तम आश्रमं तीव्रसमृद्धतेजा; मार्कण्डेयः शरीमतां पाण्डवानाम 5 स सर्वविद दरौपदीं परेक्ष्य कृष्णां; युधिष्ठिरं भीमसेनार्जुनौ च संस्मृत्य रामं मनसा महात्मा; तपस्विमध्ये ऽसमयतामितौजाः 6 तं धर्मराजॊ विमना इवाब्रवीत; सर्वे हरिया सन्ति तपस्विनॊ ऽमी भवान इदं किं समयतीव हृष्टस; तपस्विनां पश्यतां माम उदीक्ष्य 7 [मार] न तात हृष्यामि न च समयामि; परहर्षजॊ मां भजते न दर्पः तवापदं तव अद्य समीक्ष्य रामं; सत्यव्रतं दाशरथिं समरामि 8 स चापि राजा सह लक्ष्मणेन; वने निवासं पितुर एव शासनात धन्वी चरन पार्थ पुरा मयैव; दृष्टॊ गिरेर ऋष्यमूकस्य सानौ 9 सहस्रनेत्र परतिमॊ महात्मा; मयस्य जेत नमुचेश च हन्ता पितुर निदेशाद अनघः सवधर्मं; वनेवासं दाशरथिश चकार 10 स चापि शक्रस्य समप्रभावॊ; महानुभावः समरेष्व अजेयः विहाय भॊगान अचरद वनेषु; नेशे बलस्येति चरेद अधर्मम 11 नृपाश च नाभाग भगीरथादयॊ; महीम इमां सागरान्तां विजित्य सत्येन ते ऽपय अजयंस तात लॊकान; नेशे बलस्येति चरेद अधर्मम 12 अलर्कम आहुर नरवर्य सन्तं; सत्यव्रतं काशिकरूष राजम विहाय रष्ट्राणि वसूनि चैव; नेशे बलस्येति चरेद अधर्मम 13 धात्रा विधिर यॊ विहितः पुराणस; तं पूजयन्तॊ नरवर्य सन्तः सप्तर्षयः पार्थ दिवि परभान्ति; नेशे बलस्येति चरेद अधर्मम 14 महाबलान पर्वतकूटमात्रान; विषाणिनः पश्य गजान नरेन्द्र सथितान निदेशे नरवर्य धातुर; नेशे बलस्येति चरेद अधर्मम 15 सर्वाणि भूतानि नरेन्द्र पश्य; यथा यथावद विहितं विधात्रा सवयॊनितस तत कुरुते परभावान; नेशे बलस्येति चरेद अधर्मम 16 सत्येन धर्मेण यथार्ह वृत्त्या; हरिया तथा सर्वभूतान्य अतीत्य यशश च तेजश च तवापि दीप्तं; विभावसॊर भास्करस्येव पार्थ 17 यथाप्रतिज्ञं च महानुभाव; कृच्छ्रं वनेवासम इमं निरुष्य ततः शरियं तेजसा सवेन दीप्ताम; आदास्यसे पार्थिव कौरवेभ्यः 18 [वै] तम एवम उक्त्वा वचनं महर्षिस; तपस्विमध्ये सहितं सुहृद्भिः आमन्त्र्य धौम्यं सहितांश च पार्थांस; ततः परतस्थे दिशम उत्तरां सः |
1
[vai] tat kānanaṃ prāpya narendraputrāḥ; sukhocitā vāsam upetya kṛcchram vijahrur indra pratimāḥ śiveṣu; sarasvatī śālavaneṣu teṣu 2 yatīṃś ca sarvān sa munīṃś ca rājā; tasmin vane mūlaphalair udagraiḥ dvijātimukhyān ṛṣabhaḥ kurūṇāṃ; saṃtarpayām āsa mahānubhāvaḥ 3 iṣṭīś ca pitryāṇi tathāgriyāṇi; mahāvane vasatāṃ pāṇḍavānām purohitaḥ sarvasamṛddhatejāś; cakāra dhaumyaḥ pitṛvat kurūṇām 4 apetya rāṣṭrād vasatāṃ tu teṣām; ṛṣiḥ purāṇo 'tithir ājagāma tam āśramaṃ tīvrasamṛddhatejā; mārkaṇḍeyaḥ śrīmatāṃ pāṇḍavānām 5 sa sarvavid draupadīṃ prekṣya kṛṣṇāṃ; yudhiṣṭhiraṃ bhīmasenārjunau ca saṃsmṛtya rāmaṃ manasā mahātmā; tapasvimadhye 'smayatāmitaujāḥ 6 taṃ dharmarājo vimanā ivābravīt; sarve hriyā santi tapasvino 'mī bhavān idaṃ kiṃ smayatīva hṛṣṭas; tapasvināṃ paśyatāṃ mām udīkṣya 7 [mār] na tāta hṛṣyāmi na ca smayāmi; praharṣajo māṃ bhajate na darpaḥ tavāpadaṃ tv adya samīkṣya rāmaṃ; satyavrataṃ dāśarathiṃ smarāmi 8 sa cāpi rājā saha lakṣmaṇena; vane nivāsaṃ pitur eva śāsanāt dhanvī caran pārtha purā mayaiva; dṛṣṭo girer ṛṣyamūkasya sānau 9 sahasranetra pratimo mahātmā; mayasya jeta namuceś ca hantā pitur nideśād anaghaḥ svadharmaṃ; vanevāsaṃ dāśarathiś cakāra 10 sa cāpi śakrasya samaprabhāvo; mahānubhāvaḥ samareṣv ajeyaḥ vihāya bhogān acarad vaneṣu; neśe balasyeti cared adharmam 11 nṛpāś ca nābhāga bhagīrathādayo; mahīm imāṃ sāgarāntāṃ vijitya satyena te 'py ajayaṃs tāta lokān; neśe balasyeti cared adharmam 12 alarkam āhur naravarya santaṃ; satyavrataṃ kāśikarūṣa rājam vihāya raṣṭrāṇi vasūni caiva; neśe balasyeti cared adharmam 13 dhātrā vidhir yo vihitaḥ purāṇas; taṃ pūjayanto naravarya santaḥ saptarṣayaḥ pārtha divi prabhānti; neśe balasyeti cared adharmam 14 mahābalān parvatakūṭamātrān; viṣāṇinaḥ paśya gajān narendra sthitān nideśe naravarya dhātur; neśe balasyeti cared adharmam 15 sarvāṇi bhūtāni narendra paśya; yathā yathāvad vihitaṃ vidhātrā svayonitas tat kurute prabhāvān; neśe balasyeti cared adharmam 16 satyena dharmeṇa yathārha vṛttyā; hriyā tathā sarvabhūtāny atītya yaśaś ca tejaś ca tavāpi dīptaṃ; vibhāvasor bhāskarasyeva pārtha 17 yathāpratijñaṃ ca mahānubhāva; kṛcchraṃ vanevāsam imaṃ niruṣya tataḥ śriyaṃ tejasā svena dīptām; ādāsyase pārthiva kauravebhyaḥ 18 [vai] tam evam uktvā vacanaṃ maharṣis; tapasvimadhye sahitaṃ suhṛdbhiḥ āmantrya dhaumyaṃ sahitāṃś ca pārthāṃs; tataḥ pratasthe diśam uttarāṃ saḥ |
The Mahabharata in Sanskrit
Book 3
Chapter 27
|
1
[वै] वसत्स्व अथ दवैतवने पाण्डवेषु महात्मसु अनुकीर्णं महारण्यं बराह्मणैः समपद्यत 2 ईर्यमाणेन सततं बरह्मघॊषेण सर्वतः बरह्मलॊकसमं पुण्यम आसीद दवैतवनं सरः 3 यजुषाम ऋचां च साम्नां च गद्यानां चैव सर्वशः आसीद उच्चार्यमाणानां निस्वनॊ हृदयंगमः 4 जयाघॊषः पाण्ववेयानां बरह्मघॊषश च धीमताम संसृष्टं बरह्मणा कषत्रं भूय एव वयरॊचत 5 अथाब्रवीद बकॊ दाल्भ्यॊ धर्मराजं युधिष्ठिरम संध्यां कौन्तेयम आसीनम ऋषिभिः परिवारितम 6 पश्य दवैतवने पार्थ बराह्मणानां तपस्विनाम हॊमवेलां कुरुश्रेष्ठ संप्रज्वलित पावकाम 7 चरन्ति धर्मं पुण्ये ऽसमिंस तवया गुप्ता धृतव्रताः भृगवॊ ऽङगिरसश चैव वासिष्ठाः काश्यपैः सह 8 आगस्त्याश च महाभागा आत्रेयाश चॊत्तमव्रताः सर्वस्य जगतः शरेष्ठा बराह्मणाः संगतास तवया 9 इदं तु वचनं पार्थ शृण्व एकाग्रमना मम भरातृभिः सह कौन्तेय यत तवां वक्ष्यामि कौरव 10 बरह्मक्षत्रेण संसृष्टं कषत्रं च बरह्मणा सह उदीर्णौ दहतः शत्रून वनानीवाग्निमारुतौ 11 नाब्राह्मणस तात चिरं बुभूषेद; इच्छान्न इमं लॊकम अमुं च जेतुम विनीतधर्मार्थम अपेतमॊहं; लब्ध्वा दविजं नुदति नृपः सपत्नान 12 चरन नैःश्रेयसं धर्मं परजापालनकारितम नाध्यगच्छद बलिर लॊके तीर्थम अन्यत्र वै दविजात 13 अनूनम आसीद असुरस्य कामैर; वैरॊचनेः शरीर अपि चाक्षयासीत लब्ध्वा महीं बराह्मण संप्रयॊगात; तेष्व आचरन दुष्टम अतॊ वयनश्यत 14 नाब्राह्मणं भूमिर इयं सभूतिर; वर्णं दवितीयं भजते चिराय समुद्रनेमिर नमते तु तस्मै; यं बराह्मणः शास्ति नयैर विनीतः 15 कुञ्जरस्येव संग्रामे ऽपरिगृह्याङ्कुश गरहम बराह्मणैर विप्रहीणस्य कषत्रस्य कषीयते बलम 16 बरह्मण्य अनुपमा दृष्टिः कषात्रम अप्रतिमं बलम तौ यदा चरतः सार्धम अथ लॊकः परसीदति 17 यथा हि सुमहान अग्निः कक्षं दहति सानिलः तथा दहति राजन्यॊ बराह्मणेन समं रिपून 18 बराह्मणेभ्यॊ ऽथ मेधावी बुद्धिर पर्येषणं चरे अलब्धस्यच लाभाय लब्धस्य च विवृद्धये 19 अलब्धलाभाय च लब्धवृद्धये; यथार्ह तीर्थप्रतिपादनाय यशस्विनं वेदविदं विपश्चितं; बहुश्रुतं बराह्मणम एव वासय 20 बराह्मणेषूत्तमा वृत्तिस तव नित्यं युधिष्ठिर तेन ते सर्वलॊकेषु दीप्यते परथितं यशः 21 ततस ते बराह्मणाः सर्वे बकं दाल्भ्यम अपूजयन युधिष्ठिरे सतूयमाने भूयः सुमनसॊ ऽभवन 22 दवैपायनॊ नारदश च जामदग्न्यः पृथुश्रवाः इन्द्र दयुम्नॊ भालुकिश च कृतचेताः सहस्रपात 23 कर्ण शरवाश च मुञ्जश च लवणाश्वश च काश्यपः हारीतः सथूण कर्णश च अग्निवेश्यॊ ऽथ शौनकः 24 ऋतवाक च सुवाक चैव बृहदश्व ऋता वसुः ऊर्ध्वरेता वृषामित्रः सुहॊत्रॊ हॊत्रवाहनः 25 एते चान्ये च बहवॊ बराह्मणाः संशितव्रताः अजातशत्रुम आनर्चुः पुरंदरम इवर्षयः |
1
[vai] vasatsv atha dvaitavane pāṇḍaveṣu mahātmasu anukīrṇaṃ mahāraṇyaṃ brāhmaṇaiḥ samapadyata 2 īryamāṇena satataṃ brahmaghoṣeṇa sarvataḥ brahmalokasamaṃ puṇyam āsīd dvaitavanaṃ saraḥ 3 yajuṣām ṛcāṃ ca sāmnāṃ ca gadyānāṃ caiva sarvaśaḥ āsīd uccāryamāṇānāṃ nisvano hṛdayaṃgamaḥ 4 jyāghoṣaḥ pāṇvaveyānāṃ brahmaghoṣaś ca dhīmatām saṃsṛṣṭaṃ brahmaṇā kṣatraṃ bhūya eva vyarocata 5 athābravīd bako dālbhyo dharmarājaṃ yudhiṣṭhiram saṃdhyāṃ kaunteyam āsīnam ṛṣibhiḥ parivāritam 6 paśya dvaitavane pārtha brāhmaṇānāṃ tapasvinām homavelāṃ kuruśreṣṭha saṃprajvalita pāvakām 7 caranti dharmaṃ puṇye 'smiṃs tvayā guptā dhṛtavratāḥ bhṛgavo 'ṅgirasaś caiva vāsiṣṭhāḥ kāśyapaiḥ saha 8 āgastyāś ca mahābhāgā ātreyāś cottamavratāḥ sarvasya jagataḥ śreṣṭhā brāhmaṇāḥ saṃgatās tvayā 9 idaṃ tu vacanaṃ pārtha śṛṇv ekāgramanā mama bhrātṛbhiḥ saha kaunteya yat tvāṃ vakṣyāmi kaurava 10 brahmakṣatreṇa saṃsṛṣṭaṃ kṣatraṃ ca brahmaṇā saha udīrṇau dahataḥ śatrūn vanānīvāgnimārutau 11 nābrāhmaṇas tāta ciraṃ bubhūṣed; icchānn imaṃ lokam amuṃ ca jetum vinītadharmārtham apetamohaṃ; labdhvā dvijaṃ nudati nṛpaḥ sapatnān 12 caran naiḥśreyasaṃ dharmaṃ prajāpālanakāritam nādhyagacchad balir loke tīrtham anyatra vai dvijāt 13 anūnam āsīd asurasya kāmair; vairocaneḥ śrīr api cākṣayāsīt labdhvā mahīṃ brāhmaṇa saṃprayogāt; teṣv ācaran duṣṭam ato vyanaśyat 14 nābrāhmaṇaṃ bhūmir iyaṃ sabhūtir; varṇaṃ dvitīyaṃ bhajate cirāya samudranemir namate tu tasmai; yaṃ brāhmaṇaḥ śāsti nayair vinītaḥ 15 kuñjarasyeva saṃgrāme 'parigṛhyāṅkuśa graham brāhmaṇair viprahīṇasya kṣatrasya kṣīyate balam 16 brahmaṇy anupamā dṛṣṭiḥ kṣātram apratimaṃ balam tau yadā carataḥ sārdham atha lokaḥ prasīdati 17 yathā hi sumahān agniḥ kakṣaṃ dahati sānilaḥ tathā dahati rājanyo brāhmaṇena samaṃ ripūn 18 brāhmaṇebhyo 'tha medhāvī buddhir paryeṣaṇaṃ care alabdhasyaca lābhāya labdhasya ca vivṛddhaye 19 alabdhalābhāya ca labdhavṛddhaye; yathārha tīrthapratipādanāya yaśasvinaṃ vedavidaṃ vipaścitaṃ; bahuśrutaṃ brāhmaṇam eva vāsaya 20 brāhmaṇeṣūttamā vṛttis tava nityaṃ yudhiṣṭhira tena te sarvalokeṣu dīpyate prathitaṃ yaśaḥ 21 tatas te brāhmaṇāḥ sarve bakaṃ dālbhyam apūjayan yudhiṣṭhire stūyamāne bhūyaḥ sumanaso 'bhavan 22 dvaipāyano nāradaś ca jāmadagnyaḥ pṛthuśravāḥ indra dyumno bhālukiś ca kṛtacetāḥ sahasrapāt 23 karṇa śravāś ca muñjaś ca lavaṇāśvaś ca kāśyapaḥ hārītaḥ sthūṇa karṇaś ca agniveśyo 'tha śaunakaḥ 24 ṛtavāk ca suvāk caiva bṛhadaśva ṛtā vasuḥ ūrdhvaretā vṛṣāmitraḥ suhotro hotravāhanaḥ 25 ete cānye ca bahavo brāhmaṇāḥ saṃśitavratāḥ ajātaśatrum ānarcuḥ puraṃdaram ivarṣayaḥ |
The Mahabharata in Sanskrit
Book 3
Chapter 28
|
1
[वै] ततॊ वनगताः पार्थाः सायाह्ने सह कृष्णया उपविष्टाः कथाश चक्रुर दुःखशॊकपरायणाः 2 परिया च दर्शनीया च पण्डिता च पतिव्रता ततः कृष्णा धर्मराजम इदं वचनम अब्रवीत 3 न नूनं तस्य पापस्य दुःखम अस्मासु किं चन विद्यते धार्तराष्ट्रस्य नृशंसस्य दुरात्मनः 4 यस तवां राजन मया सार्धम अजिनैः परतिवासितम भरातृभिश च तथा सर्वैर नाभ्यभाषत किं चन वनं परस्थाप्य दुष्टात्मा नान्वपत्यत दुर्मतिः 5 आयसं हृदयं नूनं तस्या दुष्कृतकर्मणः यस तवां धर्मपरं शरेष्ठं रूक्षाण्य अश्रावयत तदा 6 सुखॊचितम अदुःखार्हं दुरात्मा ससुहृद गणः ईदृशं दुःखम आनीय मॊदते पापपूरुषः 7 चतुर्णाम एव पापानाम अश्रुवै नापतत तदा तवयि भारत निष्क्रान्ते वनायाजिन वाससि 8 दुर्यॊधनस्य कर्णस्य शकुनेश च दुरात्मनः दुर्भ्रातुस तस्य चॊग्रस्य तथा दुःशासनस्य च 9 इतरेषां तु सर्वेषां कुरूणां कुरुसत्तम दुःखेनाभिपरीतानां नेत्रेभ्यः परापतज जलम 10 इदं च शयनं दृष्ट्वा यच चासीत ते पुरातनम शॊचामि तवां महाराज दुःखानर्हं सुखॊचितम 11 दान्तं यच च सभामध्ये आसनं रत्नभूषितम दृष्ट्वा कुश बृसीं चेमां शॊकॊ मां रुन्धयत्य अयम 12 यद अपश्यं सभायां तवां राजभिः परिवारितम तच च राजन्न अपश्यन्त्याः का शान्तिर हृदयस्य मे 13 या तवाहं चन्दनादिग्धम अपश्यं सूर्यवर्चसम सा तवां पङ्कमलादिग्धं दृष्ट्वा मुह्यामि भारत 14 या वै तवा कौशिकैर वस्त्रैः शुभ्रैर बहुधनैः पुरा दृष्टवत्य अस्मि राजेन्द्र सा तवां पश्यामि चीरिणम 15 यच च तद रुक्मपात्रीभिर बराह्मणेभ्यः सहस्रशः हरियते ते गृहाद अन्नं संस्कृतं सार्वकामिकम 16 यतीनाम अगृहाणां ते तथैव गृहमेधिनाम दीयते भॊजनं राजन्न अतीव गुणवत परभॊ तच च राजन्न अपश्यन्त्याः का शान्तिर हृदयस्य मे 17 यांस ते भरातॄन महाराज युवानॊ मृष्टकुण्डलाः अभॊजयन्त मृष्टान्नैः सूदाः परमसंस्कृतैः 18 सर्वांस तान अद्य पश्यामि वने वन्येन जीवतः अदुःखार्हान मनुष्येन्द्र नॊपशाम्यति मे मनः 19 भीमसेनम इमं चापि दुःखितं वनवासिनम धयायन्तं किं न मन्युस ते पराप्ते काले विवर्धते 20 भीमसेनं हि कर्माणि सवयं कुर्वाणम अच्युत सुखार्हं दुःखितं दृष्ट्वा कस्मान मन्युर न वर्धते 21 सत्कृतं विविदैर यानैर वस्त्रैर उच्चावचैस तथा तं ते वनगतं दृष्ट्वा कस्मान मन्युर न वर्धते 22 कुरून अपि हि यः सर्वान हन्तुम उत्सहते परभुः तवत्प्रसादं परतीक्षंस तु सहते ऽयं वृकॊदरः 23 यॊ ऽरजुनेनार्जुनस तुल्यॊ दविबाहुर बहु बाहुना शरातिसर्गे शीघ्रत्वात कालान्तकयमॊपमः 24 यस्य शस्त्रप्रतापेन परणताः सर्वपार्थिवाः यज्ञे तव महाराज बराह्मणान उपतस्थिरे 25 तम इमं पुरुषव्याघ्रं पूजितं देवदानवैः धयायन्तम अर्जुनं दृष्ट्वा कस्मान मन्युर न वर्धते 26 दृष्ट्वा वनगतं पार्थम अदुःखार्हं सुखॊचितम न च ते वर्धते मन्युस तेन मुह्यामि भारत 27 यॊ देवांश च मनुष्यांश च सर्पांश चैकरथॊ ऽजयत तं ते वनगतं दृष्ट्वा कस्मान मन्युर न वर्धते 28 यॊ यानैर अद्भुताकारैर हयैर नागैश च संवृतः परसह्य वित्तान्य आदत्त पार्थिवेभ्यः परंतपः 29 कषिपत्य एकेन वेगेन पञ्चबाणशतानि यः तं ते वनगतं दृष्ट्वा कस्मान मन्युर न वर्धते 30 शयामं बृहन्तं तरुणं चर्मिणाम उत्तमं रणे नकुलं ते वने दृष्ट्वा कस्मान मन्युर न वर्धते 31 दर्शनीयं च शूरं च माद्रीपुत्रं युधिष्ठिर सहदेवं वने दृष्ट्वा कस्मान मन्युर न वर्धते 32 दरुपदस्य कुले जातां सनुषां पाण्डॊर महात्मनः मां ते वनगतां दृष्ट्वा कस्मान मन्युर न वर्धते 33 नूनं च तव नैवास्ति मन्युर भरतसत्तम यत ते भरातॄंश च मां चैव दृष्ट्वा न वयथते मनः 34 न निर्मन्युः कषत्रियॊ ऽसति लॊके निर्वचनं समृतम तद अद्य तवयि पश्यामि कषत्रिये विपरीतवत 35 यॊ न दर्शयते तेजः कषत्रियः काल आगते सर्वभूतानि तं पार्थ सदा परिभवन्त्य उत 36 तत तवया न कषमा कार्या शत्रून परति कथं चन तेजसैव हि ते शक्या निहन्तुं नात्र संशयः 37 तथैव यः कषमा काले कषत्रियॊ नॊपशाम्यति अप्रियः सर्वभूतानां सॊ ऽमुत्रेह च नश्यति |
1
[vai] tato vanagatāḥ pārthāḥ sāyāhne saha kṛṣṇayā upaviṣṭāḥ kathāś cakrur duḥkhaśokaparāyaṇāḥ 2 priyā ca darśanīyā ca paṇḍitā ca pativratā tataḥ kṛṣṇā dharmarājam idaṃ vacanam abravīt 3 na nūnaṃ tasya pāpasya duḥkham asmāsu kiṃ cana vidyate dhārtarāṣṭrasya nṛśaṃsasya durātmanaḥ 4 yas tvāṃ rājan mayā sārdham ajinaiḥ prativāsitam bhrātṛbhiś ca tathā sarvair nābhyabhāṣata kiṃ cana vanaṃ prasthāpya duṣṭātmā nānvapatyata durmatiḥ 5 āyasaṃ hṛdayaṃ nūnaṃ tasyā duṣkṛtakarmaṇaḥ yas tvāṃ dharmaparaṃ śreṣṭhaṃ rūkṣāṇy aśrāvayat tadā 6 sukhocitam aduḥkhārhaṃ durātmā sasuhṛd gaṇaḥ īdṛśaṃ duḥkham ānīya modate pāpapūruṣaḥ 7 caturṇām eva pāpānām aśruvai nāpatat tadā tvayi bhārata niṣkrānte vanāyājina vāsasi 8 duryodhanasya karṇasya śakuneś ca durātmanaḥ durbhrātus tasya cograsya tathā duḥśāsanasya ca 9 itareṣāṃ tu sarveṣāṃ kurūṇāṃ kurusattama duḥkhenābhiparītānāṃ netrebhyaḥ prāpataj jalam 10 idaṃ ca śayanaṃ dṛṣṭvā yac cāsīt te purātanam śocāmi tvāṃ mahārāja duḥkhānarhaṃ sukhocitam 11 dāntaṃ yac ca sabhāmadhye āsanaṃ ratnabhūṣitam dṛṣṭvā kuśa bṛsīṃ cemāṃ śoko māṃ rundhayaty ayam 12 yad apaśyaṃ sabhāyāṃ tvāṃ rājabhiḥ parivāritam tac ca rājann apaśyantyāḥ kā śāntir hṛdayasya me 13 yā tvāhaṃ candanādigdham apaśyaṃ sūryavarcasam sā tvāṃ paṅkamalādigdhaṃ dṛṣṭvā muhyāmi bhārata 14 yā vai tvā kauśikair vastraiḥ śubhrair bahudhanaiḥ purā dṛṣṭavaty asmi rājendra sā tvāṃ paśyāmi cīriṇam 15 yac ca tad rukmapātrībhir brāhmaṇebhyaḥ sahasraśaḥ hriyate te gṛhād annaṃ saṃskṛtaṃ sārvakāmikam 16 yatīnām agṛhāṇāṃ te tathaiva gṛhamedhinām dīyate bhojanaṃ rājann atīva guṇavat prabho tac ca rājann apaśyantyāḥ kā śāntir hṛdayasya me 17 yāṃs te bhrātṝn mahārāja yuvāno mṛṣṭakuṇḍalāḥ abhojayanta mṛṣṭānnaiḥ sūdāḥ paramasaṃskṛtaiḥ 18 sarvāṃs tān adya paśyāmi vane vanyena jīvataḥ aduḥkhārhān manuṣyendra nopaśāmyati me manaḥ 19 bhīmasenam imaṃ cāpi duḥkhitaṃ vanavāsinam dhyāyantaṃ kiṃ na manyus te prāpte kāle vivardhate 20 bhīmasenaṃ hi karmāṇi svayaṃ kurvāṇam acyuta sukhārhaṃ duḥkhitaṃ dṛṣṭvā kasmān manyur na vardhate 21 satkṛtaṃ vividair yānair vastrair uccāvacais tathā taṃ te vanagataṃ dṛṣṭvā kasmān manyur na vardhate 22 kurūn api hi yaḥ sarvān hantum utsahate prabhuḥ tvatprasādaṃ pratīkṣaṃs tu sahate 'yaṃ vṛkodaraḥ 23 yo 'rjunenārjunas tulyo dvibāhur bahu bāhunā śarātisarge śīghratvāt kālāntakayamopamaḥ 24 yasya śastrapratāpena praṇatāḥ sarvapārthivāḥ yajñe tava mahārāja brāhmaṇān upatasthire 25 tam imaṃ puruṣavyāghraṃ pūjitaṃ devadānavaiḥ dhyāyantam arjunaṃ dṛṣṭvā kasmān manyur na vardhate 26 dṛṣṭvā vanagataṃ pārtham aduḥkhārhaṃ sukhocitam na ca te vardhate manyus tena muhyāmi bhārata 27 yo devāṃś ca manuṣyāṃś ca sarpāṃś caikaratho 'jayat taṃ te vanagataṃ dṛṣṭvā kasmān manyur na vardhate 28 yo yānair adbhutākārair hayair nāgaiś ca saṃvṛtaḥ prasahya vittāny ādatta pārthivebhyaḥ paraṃtapaḥ 29 kṣipaty ekena vegena pañcabāṇaśatāni yaḥ taṃ te vanagataṃ dṛṣṭvā kasmān manyur na vardhate 30 śyāmaṃ bṛhantaṃ taruṇaṃ carmiṇām uttamaṃ raṇe nakulaṃ te vane dṛṣṭvā kasmān manyur na vardhate 31 darśanīyaṃ ca śūraṃ ca mādrīputraṃ yudhiṣṭhira sahadevaṃ vane dṛṣṭvā kasmān manyur na vardhate 32 drupadasya kule jātāṃ snuṣāṃ pāṇḍor mahātmanaḥ māṃ te vanagatāṃ dṛṣṭvā kasmān manyur na vardhate 33 nūnaṃ ca tava naivāsti manyur bharatasattama yat te bhrātṝṃś ca māṃ caiva dṛṣṭvā na vyathate manaḥ 34 na nirmanyuḥ kṣatriyo 'sti loke nirvacanaṃ smṛtam tad adya tvayi paśyāmi kṣatriye viparītavat 35 yo na darśayate tejaḥ kṣatriyaḥ kāla āgate sarvabhūtāni taṃ pārtha sadā paribhavanty uta 36 tat tvayā na kṣamā kāryā śatrūn prati kathaṃ cana tejasaiva hi te śakyā nihantuṃ nātra saṃśayaḥ 37 tathaiva yaḥ kṣamā kāle kṣatriyo nopaśāmyati apriyaḥ sarvabhūtānāṃ so 'mutreha ca naśyati |
The Mahabharata in Sanskrit
Book 3
Chapter 29
|
1
[दरौ] अत्राप्य उदाहरन्तीमम इतिहासं पुरातनम परह्लादस्या च संवादं बलेर वैरॊचनस्य च 2 असुरेन्द्रं महाप्राज्ञं धर्माणाम आगतागमम बलिः पप्रच्छ दैत्येन्द्रं परह्लादं पितरं पितुः 3 कषमा सविच छरेयसी तात उपाहॊ तेज इत्य उत एतन मे संशयं तात यथावद बरूहि पृच्छते 4 शरेयॊ यद अत्र धर्मज्ञ बरूहि मे तद असंशयम करिष्यामि हि तत सर्वं यथावद अनुशासनम 5 तस्मै परॊवाच तत सर्वम एवं पृष्टः पितामहः सर्वनिश्चयवत पराज्ञः संशयं परिपृच्छते 6 [परह] न शरेयः सततं तेजॊ न नित्यं शरेयसी कषमा इति तात विजानीहि दवयम एतद असंशयम 7 यॊ नित्यं कषमते तात बहून दॊषान स विन्दति भृत्याः परिभवन्त्य एनम उदासीनास तथैव च 8 सर्वभूतानि चाप्य अस्य न नमन्ते कदा चन तस्मान नित्यं कषमा तात पण्डितैर अपवादिता 9 अवज्ञाय हि तं भृत्या भजन्ते बहुदॊषताम आदातुं चास्य वित्तानि परार्थयन्ते ऽलपचेतसः 10 यानं वस्त्राण्य अलंकाराञ शयनान्य आसनानि च भॊजनान्य अथ पानानि सर्वॊपकरणानि च 11 आददीरन्न अधिकृता यथाकामम अचेतसः परदिष्टानि च देयानि न दद्युर भर्तृशासनात 12 न चैनं भर्तृपूजाभिः पूजयन्ति कदा चन अवज्ञानं हि लॊके ऽसमिन मरणाद अपि गर्हितम 13 कषमिणं तादृशं तात बरुवन्ति कटुकान्य अपि परेष्याः पुत्राश च भृत्याश च तथॊदासीन वृत्तयः 14 अप्य अस्य दारान इच्छन्ति परिभूय कषमावतः दाराश चास्य परवर्तन्ते यथाकामम अचेतसः 15 तथा च नित्यम उदिता यदि सवल्पम अपीश्वरात दण्डम अर्हन्ति दुष्यन्ति दुष्टाश चाप्य अपकुर्वते 16 एते चान्ये च बहवॊ नित्यं दॊषाः कषमावताम अथ वैरॊचने दॊषान इमान विद्ध्य अक्षमावताम 17 अस्थाने यदि वा सथाने सततं रजसावृतः करुद्धॊ दण्डान परणयति विविधान सवेन तेजसा 18 मित्रैः सह विरॊधं च पराप्नुते तेजसावृतः पराप्नॊति दवेष्यतां चैव लॊकात सवजनतस तथा 19 सॊ ऽवमानाद अर्थहानिम उपालम्भम अनादरम संतापद्वेषलॊभांश च शत्रूंश च लभते नरः 20 करॊधाद दण्डान मनुष्येषु विविधान पुरुषॊ नयन भरश्यते शीघ्रम ऐश्वर्यात पराणेभ्यः सवजनाद अपि 21 यॊ ऽपकर्तॄंश च कर्तॄंश च तेजसैवॊपगच्छति तस्माद उद्विजते लॊकः सर्पाद वेश्म गताद इव 22 यस्माद उद्विजते लॊकः कथं तस्य भवॊ भवेत अन्तरं हय अस्य दृष्ट्वैव लॊकॊ विकुरुते धरुवम तस्मान नात्युत्सृजेत तेजॊ न च नित्यं मृदुर भवेत 23 काले मृदुर यॊ भवति काले भवति दारुणः स वै सुखम अवाप्नॊति लॊके ऽमुष्मिन्न इहैव च 24 कषमा कालांस तु वक्ष्यामि शृणु मे विस्तरेण तान ये ते नित्यम असंत्याज्या यथा पराहुर मनीषिणः 25 पूर्वॊपकारी यस तु सयाद अपराधे ऽगरीयसि उपकारेण तत तस्य कषन्तव्यम अपराधिनः 26 अबुद्धिम आश्रितानां च कषन्तव्यम अपराधिनाम न हि सर्वत्र पाण्डित्यं सुलभं पुरुषेण वै 27 अथ चेद बुद्धिजं कृत्वा बरूयुस ते तद अबुद्धिजम पापान सवल्पे ऽपि तान हन्याद अपराधे तथानृजून 28 सर्वस्यैकॊ ऽपराधस ते कषन्तव्यः पराणिनॊ भवेत दवितीये सति वध्यस तु सवल्पे ऽपय अपकृते भवेत 29 अजानता भवेत कश चिद अपराधः कृतॊ यदि कषन्तव्यम एव तस्याहुः सुपरीक्ष्य परीक्षया 30 मृदुना मार्दवं हन्ति मृदुना हन्ति दारुणम नासाध्यं मृदुना किं चित तस्मात तीक्ष्णतरॊ मृदुः 31 देशकालौ तु संप्रेक्ष्य बलाबलम अथात्मनः नादेश कालॊ किं चित सयाद देशः कालः परतीष्यते तथा लॊकभयाच चैव कषन्तव्यम अपराधिनः 32 एव एवंविधाः कालाः कषमायाः परिकीर्तिताः अतॊ ऽनयथानुवर्तत्सु तेजसः काल उच्यते 33 [दरौ] तद अहं तेजसः कालं तव मन्ये नराधिप धार्तराष्ट्रेषु लुब्धेषु सततं चापकारिषु 34 न हि कश चित कषमा कालॊ विद्यते ऽदय कुरून परति तेजसश चागते काले तेज उत्स्रष्टुम अर्हसि 35 मृदुर भवत्य अवज्ञातस तीक्ष्णाद उद्विजते जनः काले पराप्ते दवयं हय एतद यॊ वेद स महीपतिः |
1
[drau] atrāpy udāharantīmam itihāsaṃ purātanam prahlādasyā ca saṃvādaṃ baler vairocanasya ca 2 asurendraṃ mahāprājñaṃ dharmāṇām āgatāgamam baliḥ papraccha daityendraṃ prahlādaṃ pitaraṃ pituḥ 3 kṣamā svic chreyasī tāta upāho teja ity uta etan me saṃśayaṃ tāta yathāvad brūhi pṛcchate 4 śreyo yad atra dharmajña brūhi me tad asaṃśayam kariṣyāmi hi tat sarvaṃ yathāvad anuśāsanam 5 tasmai provāca tat sarvam evaṃ pṛṣṭaḥ pitāmahaḥ sarvaniścayavat prājñaḥ saṃśayaṃ paripṛcchate 6 [prah] na śreyaḥ satataṃ tejo na nityaṃ śreyasī kṣamā iti tāta vijānīhi dvayam etad asaṃśayam 7 yo nityaṃ kṣamate tāta bahūn doṣān sa vindati bhṛtyāḥ paribhavanty enam udāsīnās tathaiva ca 8 sarvabhūtāni cāpy asya na namante kadā cana tasmān nityaṃ kṣamā tāta paṇḍitair apavāditā 9 avajñāya hi taṃ bhṛtyā bhajante bahudoṣatām ādātuṃ cāsya vittāni prārthayante 'lpacetasaḥ 10 yānaṃ vastrāṇy alaṃkārāñ śayanāny āsanāni ca bhojanāny atha pānāni sarvopakaraṇāni ca 11 ādadīrann adhikṛtā yathākāmam acetasaḥ pradiṣṭāni ca deyāni na dadyur bhartṛśāsanāt 12 na cainaṃ bhartṛpūjābhiḥ pūjayanti kadā cana avajñānaṃ hi loke 'smin maraṇād api garhitam 13 kṣamiṇaṃ tādṛśaṃ tāta bruvanti kaṭukāny api preṣyāḥ putrāś ca bhṛtyāś ca tathodāsīna vṛttayaḥ 14 apy asya dārān icchanti paribhūya kṣamāvataḥ dārāś cāsya pravartante yathākāmam acetasaḥ 15 tathā ca nityam uditā yadi svalpam apīśvarāt daṇḍam arhanti duṣyanti duṣṭāś cāpy apakurvate 16 ete cānye ca bahavo nityaṃ doṣāḥ kṣamāvatām atha vairocane doṣān imān viddhy akṣamāvatām 17 asthāne yadi vā sthāne satataṃ rajasāvṛtaḥ kruddho daṇḍān praṇayati vividhān svena tejasā 18 mitraiḥ saha virodhaṃ ca prāpnute tejasāvṛtaḥ prāpnoti dveṣyatāṃ caiva lokāt svajanatas tathā 19 so 'vamānād arthahānim upālambham anādaram saṃtāpadveṣalobhāṃś ca śatrūṃś ca labhate naraḥ 20 krodhād daṇḍān manuṣyeṣu vividhān puruṣo nayan bhraśyate śīghram aiśvaryāt prāṇebhyaḥ svajanād api 21 yo 'pakartṝṃś ca kartṝṃś ca tejasaivopagacchati tasmād udvijate lokaḥ sarpād veśma gatād iva 22 yasmād udvijate lokaḥ kathaṃ tasya bhavo bhavet antaraṃ hy asya dṛṣṭvaiva loko vikurute dhruvam tasmān nātyutsṛjet tejo na ca nityaṃ mṛdur bhavet 23 kāle mṛdur yo bhavati kāle bhavati dāruṇaḥ sa vai sukham avāpnoti loke 'muṣminn ihaiva ca 24 kṣamā kālāṃs tu vakṣyāmi śṛṇu me vistareṇa tān ye te nityam asaṃtyājyā yathā prāhur manīṣiṇaḥ 25 pūrvopakārī yas tu syād aparādhe 'garīyasi upakāreṇa tat tasya kṣantavyam aparādhinaḥ 26 abuddhim āśritānāṃ ca kṣantavyam aparādhinām na hi sarvatra pāṇḍityaṃ sulabhaṃ puruṣeṇa vai 27 atha ced buddhijaṃ kṛtvā brūyus te tad abuddhijam pāpān svalpe 'pi tān hanyād aparādhe tathānṛjūn 28 sarvasyaiko 'parādhas te kṣantavyaḥ prāṇino bhavet dvitīye sati vadhyas tu svalpe 'py apakṛte bhavet 29 ajānatā bhavet kaś cid aparādhaḥ kṛto yadi kṣantavyam eva tasyāhuḥ suparīkṣya parīkṣayā 30 mṛdunā mārdavaṃ hanti mṛdunā hanti dāruṇam nāsādhyaṃ mṛdunā kiṃ cit tasmāt tīkṣṇataro mṛduḥ 31 deśakālau tu saṃprekṣya balābalam athātmanaḥ nādeśa kālo kiṃ cit syād deśaḥ kālaḥ pratīṣyate tathā lokabhayāc caiva kṣantavyam aparādhinaḥ 32 eva evaṃvidhāḥ kālāḥ kṣamāyāḥ parikīrtitāḥ ato 'nyathānuvartatsu tejasaḥ kāla ucyate 33 [drau] tad ahaṃ tejasaḥ kālaṃ tava manye narādhipa dhārtarāṣṭreṣu lubdheṣu satataṃ cāpakāriṣu 34 na hi kaś cit kṣamā kālo vidyate 'dya kurūn prati tejasaś cāgate kāle teja utsraṣṭum arhasi 35 mṛdur bhavaty avajñātas tīkṣṇād udvijate janaḥ kāle prāpte dvayaṃ hy etad yo veda sa mahīpatiḥ |
The Mahabharata in Sanskrit
Book 3
Chapter 30
|
1
[य] करॊधॊ हन्ता मनुष्याणां करॊधॊ भावयिता पुनः इति विद्धि महाप्राज्ञे करॊधमूलौ भवाभवौ 2 यॊ हि संहरते करॊधं भावस तस्य सुशॊभने यः पुनः पुरुषः करॊधं नित्यां न सहते शुभे तस्याभावाय भवति करॊधः परमदारुणः 3 करॊधमूलॊ विनाशॊ हि परजानाम इह दृश्यते तत कथं मादृशः करॊधम उत्सृजेल लॊकनाशनम 4 करुद्धः पापं नरः कुर्यात करुद्धॊ हन्याद गुरून अपि करुद्धः परुषया वाचा शरेयसॊ ऽपय अवमन्यते 5 वाच्यावाच्ये हि कुपितॊ न परजानाति कर्हि चित नाकार्यम अस्ति करुद्धस्य नावाच्यं विद्यते तथा 6 हिंस्यात करॊधाद अवध्यांश च वध्यान संपूजयेद अपि आत्मानम अपि च करुद्धः परेषयेद यमसादनम 7 एतान दॊषान परपश्यद्भिर जितः करॊधॊ मनीषिभिः इच्छद्भिः परमं शरेय इह चामुत्र चॊत्तमम 8 तं करॊधं वर्जितं धीरैः कथम अस्मद्विधश चरेत एतद दरौपदि संधाय न मे मन्युः परवर्धते 9 आत्मानं च परं चैव तरायते महतॊ भयात करुध्यन्तम अप्रतिक्रुध्यन दवयॊर एष चिकित्सकः 10 मूढॊ यदि कलिश्यमानः करुध्यते ऽशक्तिमान नरः बलीयसां मनुष्याणां तयजत्य आत्मानम अन्ततः 11 तस्यात्मानं संत्यजतॊ लॊका नश्यन्त्य अनात्मनः तस्माद दरौपद्य अशक्तस्य मन्यॊर नियमनं समृतम 12 विद्वांस तथैव यः शक्तः कलिश्यमानॊ न कुप्यति स नाशयित्वा कलेष्टारं परलॊके च नन्दति 13 तस्माद बलवता चैव दुर्बलेन च नित्यदा कषन्तव्यं पुरुषेणाहुर आपत्स्व अपि विजानता 14 मन्यॊर हि विजयं कृष्णे परशंसन्तीह साधवः कषमावतॊ जयॊ नित्यं साधॊर इह सतां मतम 15 सत्यं चानृततः शरेयॊ नृशंसाच चानृशंसता तम एवं बहुदॊषं तु करॊधं साधु विवर्जितम मादृशः परसृजेत कस्मात सुयॊधन वधाद अपि 16 तेजस्वीति यम आहुर वै पण्डिता दीर्घदर्शिनः न करॊधॊ ऽभयन्तरस तस्य भवतीति विनिश्चितम 17 यस तु करॊधं समुत्पन्नं परज्ञया परतिबाधते तेजस्विनं तं विद्वांसॊ मन्यन्ते तत्त्वदर्शिनः 18 करुद्धॊ हि कायं सुश्रॊणि न यथावत परपश्यति न कार्यं न च मर्यादां नरः करुद्धॊ ऽनुपश्यति 19 हन्त्य अवध्यान अपि करुद्धॊ गुरून रूक्षैस तुदत्य अपि तस्मात तेजसि कर्तव्ये करॊधॊ दूरात परतिष्ठितः 20 दाक्ष्यं हय अमर्षः शौर्यं च शीघ्रत्वम इति तेजसः गुणाः करॊधाभिभूतेन न शक्याः पराप्तुम अञ्जसा 21 करॊधं तयक्त्वा तु पुरुषः सम्यक तेजॊ ऽभिपद्यते कालयुक्तं महाप्राज्ञे करुद्धैस तेजः सुदुःसहम 22 करॊधस तव अपण्डितैः शश्वत तेज इत्य अभिधीयते रजस तल लॊकनाशाय विहितं मानुषान परति 23 तस्माच छश्वत तयजेत करॊधं पुरुषः सम्यग आचरन शरेयान सवधर्मानपगॊ न करुद्ध इति निश्चितम 24 यदि सर्वम अबुद्धीनाम अतिक्रान्तम अमेधसाम अतिक्रमॊ मद्विधस्य कथं सवित सयाद अनिन्दिते 25 यदि न सयुर मनुष्येषु कषमिणः पृथिवीसमाः न सयात संधिर मनुष्याणां करॊधमूलॊ हि विग्रहः 26 अभिषक्तॊ हय अभिषजेद आहन्याद गुरुणा हतः एवं विनाशॊ भूतानाम अधर्मः परथितॊ भवेत 27 आक्रुष्टः पुरुषः सर्वः परत्याक्रॊशेद अनन्तरम परतिहन्याद धतश चैव तथा हिंस्याच च हिंसितः 28 हन्युर हि पितरः पुत्रान पुत्राश चापि तथा पितॄन हन्युश च पतयॊ भार्याः पतीन भार्यास तथैव च 29 एवं संकुपिते लॊके जन्म कृष्णे न विद्यते परजानां संधिमूलं हि जन्म विद्धि शुभानने 30 ताः कषीयेरन परजाः सर्वाः कषिप्रं दरौपदि तादृशे तस्मान मन्युर विनाशाय परजानाम अभवाय च 31 यस्मात तु लॊके दृश्यन्ते कषमिणः पृथिवीसमाः तस्माज जन्म च भूतानां भवश च परतिपद्यते 32 कषन्तव्यं पुरुषेणेह सर्वास्व आपत्सु शॊभने कषमा भवॊ हि भूतानां जन्म चैव परकीर्तितम 33 आक्रुष्टस ताडितः करुद्धः कषमते यॊ बलीयसा यश च नित्यं जितक्रॊधॊ विद्वान उत्तमपूरुषः 34 परभाववान अपि नरस तस्य लॊकाः सनातनाः करॊधनस तव अल्पविज्ञानः परेत्य चेह च नश्यति 35 अत्राप्य उदाहरन्तीमा गाथा नित्यं कषमावताम गीताः कषमावता कृष्णे काश्यपेन महात्मना 36 कषमा धर्मः कषमा यज्ञः कषमा वेदाः कषमा शरुतम यस ताम एवं विजानाति स सर्वं कषन्तुम अर्हति 37 कषमा बरह्म कषमा सत्यं कषमा भूतं च भावि च कषमा तपः कषमा शौचं कषमया चॊद्धृतं जगत 38 अति बरह्मविदां लॊकान अति चापि तपस्विनाम अति यज्ञविदां चैव कषमिणः पराप्नुवन्ति तान 39 कषमा तेजस्विनां तेजः कषमा बरह्म तपस्विनाम कषमा सत्यं सत्यवतां कषमा दानं कषमायशः 40 तां कषमाम ईदृशीं कृष्णे कथम अस्मद्विधस तयजेत यस्यां बरह्म च सत्यं च यज्ञा लॊकाश च विष्ठिताः भुज्यन्ते यज्वनां लॊकाः कषमिणाम अपरे तथा 41 कषन्तव्यम एव सततं पुरुषेण विजानता यदा हि कषमते सर्वं बरह्म संपद्यते तदा 42 कषमावताम अयं लॊकः परश चैव कषमावताम इह संमानम ऋच्छन्ति परत्र च शुभां गतिम 43 येषां मन्युर मनुष्याणां कषमया निहितस तदा तेषां परतरे लॊकास तस्मात कषान्तिः परा मता 44 इति गीताः काश्यपेन गाथा नित्यं कषमावताम शरुत्वा गाथाः कषमायास तवं तुष्य दरौपदि मा करुधः 45 पितामहः शांतनवः शमं संपूजयिष्यति आचार्यॊ विदुरः कषत्ता शमम एव वदिष्यतः कृपश च संजयश चैव शमम एव वदिष्यतः 46 सॊमदत्तॊ युयुत्सुश च दरॊणपुत्रस तथैव च पितामहश च नॊ वयासः शमं वदति नित्यशः 47 एतैर हि राजा नियतं चॊद्यमानं शमं परति राज्यं दातेति मे बुद्धिर न चेल लॊभान नशिष्यति 48 कालॊ ऽयं दारुणः पराप्तॊ भरतानाम अभूतये निश्चितं मे सदैवैतत पुरस्ताद अपि भामिनि 49 सुयॊधनॊ नार्हतीति कषमाम एवं न विन्दति अर्हस तस्याहम इत्य एव तस्मान मां विन्दते कषमा 50 एतद आत्मवतां वृत्तम एष धर्मः सनातनः कषमा चैवानृशंस्यं च तत कर्तास्म्य अहम अञ्जसा |
1
[y] krodho hantā manuṣyāṇāṃ krodho bhāvayitā punaḥ iti viddhi mahāprājñe krodhamūlau bhavābhavau 2 yo hi saṃharate krodhaṃ bhāvas tasya suśobhane yaḥ punaḥ puruṣaḥ krodhaṃ nityāṃ na sahate śubhe tasyābhāvāya bhavati krodhaḥ paramadāruṇaḥ 3 krodhamūlo vināśo hi prajānām iha dṛśyate tat kathaṃ mādṛśaḥ krodham utsṛjel lokanāśanam 4 kruddhaḥ pāpaṃ naraḥ kuryāt kruddho hanyād gurūn api kruddhaḥ paruṣayā vācā śreyaso 'py avamanyate 5 vācyāvācye hi kupito na prajānāti karhi cit nākāryam asti kruddhasya nāvācyaṃ vidyate tathā 6 hiṃsyāt krodhād avadhyāṃś ca vadhyān saṃpūjayed api ātmānam api ca kruddhaḥ preṣayed yamasādanam 7 etān doṣān prapaśyadbhir jitaḥ krodho manīṣibhiḥ icchadbhiḥ paramaṃ śreya iha cāmutra cottamam 8 taṃ krodhaṃ varjitaṃ dhīraiḥ katham asmadvidhaś caret etad draupadi saṃdhāya na me manyuḥ pravardhate 9 ātmānaṃ ca paraṃ caiva trāyate mahato bhayāt krudhyantam apratikrudhyan dvayor eṣa cikitsakaḥ 10 mūḍho yadi kliśyamānaḥ krudhyate 'śaktimān naraḥ balīyasāṃ manuṣyāṇāṃ tyajaty ātmānam antataḥ 11 tasyātmānaṃ saṃtyajato lokā naśyanty anātmanaḥ tasmād draupady aśaktasya manyor niyamanaṃ smṛtam 12 vidvāṃs tathaiva yaḥ śaktaḥ kliśyamāno na kupyati sa nāśayitvā kleṣṭāraṃ paraloke ca nandati 13 tasmād balavatā caiva durbalena ca nityadā kṣantavyaṃ puruṣeṇāhur āpatsv api vijānatā 14 manyor hi vijayaṃ kṛṣṇe praśaṃsantīha sādhavaḥ kṣamāvato jayo nityaṃ sādhor iha satāṃ matam 15 satyaṃ cānṛtataḥ śreyo nṛśaṃsāc cānṛśaṃsatā tam evaṃ bahudoṣaṃ tu krodhaṃ sādhu vivarjitam mādṛśaḥ prasṛjet kasmāt suyodhana vadhād api 16 tejasvīti yam āhur vai paṇḍitā dīrghadarśinaḥ na krodho 'bhyantaras tasya bhavatīti viniścitam 17 yas tu krodhaṃ samutpannaṃ prajñayā pratibādhate tejasvinaṃ taṃ vidvāṃso manyante tattvadarśinaḥ 18 kruddho hi kāyaṃ suśroṇi na yathāvat prapaśyati na kāryaṃ na ca maryādāṃ naraḥ kruddho 'nupaśyati 19 hanty avadhyān api kruddho gurūn rūkṣais tudaty api tasmāt tejasi kartavye krodho dūrāt pratiṣṭhitaḥ 20 dākṣyaṃ hy amarṣaḥ śauryaṃ ca śīghratvam iti tejasaḥ guṇāḥ krodhābhibhūtena na śakyāḥ prāptum añjasā 21 krodhaṃ tyaktvā tu puruṣaḥ samyak tejo 'bhipadyate kālayuktaṃ mahāprājñe kruddhais tejaḥ suduḥsaham 22 krodhas tv apaṇḍitaiḥ śaśvat teja ity abhidhīyate rajas tal lokanāśāya vihitaṃ mānuṣān prati 23 tasmāc chaśvat tyajet krodhaṃ puruṣaḥ samyag ācaran śreyān svadharmānapago na kruddha iti niścitam 24 yadi sarvam abuddhīnām atikrāntam amedhasām atikramo madvidhasya kathaṃ svit syād anindite 25 yadi na syur manuṣyeṣu kṣamiṇaḥ pṛthivīsamāḥ na syāt saṃdhir manuṣyāṇāṃ krodhamūlo hi vigrahaḥ 26 abhiṣakto hy abhiṣajed āhanyād guruṇā hataḥ evaṃ vināśo bhūtānām adharmaḥ prathito bhavet 27 ākruṣṭaḥ puruṣaḥ sarvaḥ pratyākrośed anantaram pratihanyād dhataś caiva tathā hiṃsyāc ca hiṃsitaḥ 28 hanyur hi pitaraḥ putrān putrāś cāpi tathā pitṝn hanyuś ca patayo bhāryāḥ patīn bhāryās tathaiva ca 29 evaṃ saṃkupite loke janma kṛṣṇe na vidyate prajānāṃ saṃdhimūlaṃ hi janma viddhi śubhānane 30 tāḥ kṣīyeran prajāḥ sarvāḥ kṣipraṃ draupadi tādṛśe tasmān manyur vināśāya prajānām abhavāya ca 31 yasmāt tu loke dṛśyante kṣamiṇaḥ pṛthivīsamāḥ tasmāj janma ca bhūtānāṃ bhavaś ca pratipadyate 32 kṣantavyaṃ puruṣeṇeha sarvāsv āpatsu śobhane kṣamā bhavo hi bhūtānāṃ janma caiva prakīrtitam 33 ākruṣṭas tāḍitaḥ kruddhaḥ kṣamate yo balīyasā yaś ca nityaṃ jitakrodho vidvān uttamapūruṣaḥ 34 prabhāvavān api naras tasya lokāḥ sanātanāḥ krodhanas tv alpavijñānaḥ pretya ceha ca naśyati 35 atrāpy udāharantīmā gāthā nityaṃ kṣamāvatām gītāḥ kṣamāvatā kṛṣṇe kāśyapena mahātmanā 36 kṣamā dharmaḥ kṣamā yajñaḥ kṣamā vedāḥ kṣamā śrutam yas tām evaṃ vijānāti sa sarvaṃ kṣantum arhati 37 kṣamā brahma kṣamā satyaṃ kṣamā bhūtaṃ ca bhāvi ca kṣamā tapaḥ kṣamā śaucaṃ kṣamayā coddhṛtaṃ jagat 38 ati brahmavidāṃ lokān ati cāpi tapasvinām ati yajñavidāṃ caiva kṣamiṇaḥ prāpnuvanti tān 39 kṣamā tejasvināṃ tejaḥ kṣamā brahma tapasvinām kṣamā satyaṃ satyavatāṃ kṣamā dānaṃ kṣamāyaśaḥ 40 tāṃ kṣamām īdṛśīṃ kṛṣṇe katham asmadvidhas tyajet yasyāṃ brahma ca satyaṃ ca yajñā lokāś ca viṣṭhitāḥ bhujyante yajvanāṃ lokāḥ kṣamiṇām apare tathā 41 kṣantavyam eva satataṃ puruṣeṇa vijānatā yadā hi kṣamate sarvaṃ brahma saṃpadyate tadā 42 kṣamāvatām ayaṃ lokaḥ paraś caiva kṣamāvatām iha saṃmānam ṛcchanti paratra ca śubhāṃ gatim 43 yeṣāṃ manyur manuṣyāṇāṃ kṣamayā nihitas tadā teṣāṃ paratare lokās tasmāt kṣāntiḥ parā matā 44 iti gītāḥ kāśyapena gāthā nityaṃ kṣamāvatām śrutvā gāthāḥ kṣamāyās tvaṃ tuṣya draupadi mā krudhaḥ 45 pitāmahaḥ śāṃtanavaḥ śamaṃ saṃpūjayiṣyati ācāryo viduraḥ kṣattā śamam eva vadiṣyataḥ kṛpaś ca saṃjayaś caiva śamam eva vadiṣyataḥ 46 somadatto yuyutsuś ca droṇaputras tathaiva ca pitāmahaś ca no vyāsaḥ śamaṃ vadati nityaśaḥ 47 etair hi rājā niyataṃ codyamānaṃ śamaṃ prati rājyaṃ dāteti me buddhir na cel lobhān naśiṣyati 48 kālo 'yaṃ dāruṇaḥ prāpto bharatānām abhūtaye niścitaṃ me sadaivaitat purastād api bhāmini 49 suyodhano nārhatīti kṣamām evaṃ na vindati arhas tasyāham ity eva tasmān māṃ vindate kṣamā 50 etad ātmavatāṃ vṛttam eṣa dharmaḥ sanātanaḥ kṣamā caivānṛśaṃsyaṃ ca tat kartāsmy aham añjasā |
The Mahabharata in Sanskrit
Book 3
Chapter 31
|
1
[दरौ] नमॊ धात्रे विधात्रे च यौ मॊहं चक्रतुस तव पितृपैतामहे वृत्ते वॊढव्ये ते ऽनयथा मतिः 2 नेह धर्मानृशंस्याभ्यां न कषान्त्या नार्जवेन च पुरुषः शरियम आप्नॊति न घृणित्वेन कर्हि चित 3 तवां चेद वयसनम अभ्यागाद इदं भारत दुःसहम यत तवं नार्हसि नापीमे भरातरस ते महौजसः 4 न हि ते ऽधयगमज जातु तदानीं नाद्य भारत धर्मात परियतरं किं चिद अपि चेज जीविताद इह 5 धर्मार्थम एव ते राज्यं धर्मार्थं जीवितं च ते बराह्मणा गुरवश चैव जानत्य अपि च देवताः 6 भीमसेनार्जुनौ चैव माद्रेयौ च मया सह तयजेस तवम इति मे बुद्धिर न तु धर्मं परित्यजेः 7 राजानं धर्मगॊप्तारं धर्मॊ रक्षति रक्षितः इति मे शरुतम आर्याणां तवां तु मन्ये न रक्षति 8 अनन्या हि नरव्याघ्र नित्यदा धर्मम एव ते बुद्धिः सततम अन्वेति छायेव पुरुषं निजा 9 नावमंस्था हि सदृशान नावराञ शरेयसः कुतः अवाप्य पृथिवीं कृत्स्नां न ते शृङ्गम अवर्धत 10 सवाहाकारैः सवधाभिश च पूजाभिर अपि च दविजान दैवतानि पितॄंश चैव सततं पार्थ सेवसे 11 बराह्मणाः सर्वकामैस ते सततं पार्थ तर्पिताः यतयॊ मॊक्षिणश चैव गृहस्थाश चैव भारत 12 आरण्यकेभ्यॊ लौहानि भाजनानि परयच्छसि नादेयं बराह्मणेभ्यस ते गृहे किं चन विद्यते 13 यद इदं वैश्वदेवान्ते सायंप्रातः परदीयते तद दत्त्वातिथि भृत्येभ्यॊ राजञ शेषेण जीवसि 14 इष्टयः पशुबन्धाश च काम्यनैमित्तिकाश च ये वर्तन्ते पाकयज्ञाश च यज्ञकर्म च नित्यदा 15 अस्मिन्न अपि महारण्ये विजने दस्यु सेविते राष्ट्राद अपेत्य वसतॊ धार्मस ते नावसीदति 16 अश्वमेधॊ राजसूयः पुण्डरीकॊ ऽथ गॊसवः एतैर अपि महायज्ञैर इष्टं ते भूरिदक्षिणैः 17 राजन परीतया बुद्ध्या विषमे ऽकषपराजये राज्यं वसून्य आयुधानि भरातॄन मां चासि निर्जितः 18 ऋजॊर मृदॊर वदान्यस्य हरीमतः सत्यवादिनः कथम अक्षव्यसनजा बुद्धिर आपतिता तव 19 अतीव मॊहम आयाति मनश च परिदूयते निशाम्य ते दुःखम इदम इमां चापदम ईदृशीम 20 अत्राप्य उदाहरन्तीमम इतिहासं पुरातनम ईश्वरस्य वशे लॊकस तिष्ठते नात्मनॊ यथा 21 धातैव खलु भूतानां सुखदुःखे परियाप्रिये दधाति सर्वम ईशानः पुरस्ताच छुक्रम उच्चरन 22 यथा दारुमयी यॊषा नरवीर समाहिता ईरयत्य अङ्गम अङ्गानि तथा राजन्न इमाः परजाः 23 आकाश इव भूतानि वयाप्य सर्वाणि भारत ईश्वरॊ विदधातीह कल्याणं यच च पापकम 24 शकुनिस तन्तु बद्धॊवा नियतॊ ऽयम अनीश्वरः ईश्वरस्य वशे तिष्ठन नान्येषां नात्मनः परभुः 25 मणिः सूत्र इव परॊतॊ नस्यॊत इव गॊवृषः धातुर आदेशम अन्वेति तन्मयॊ हि तद अर्पणः 26 नात्माधीनॊ मनुष्यॊ ऽयं कालं भवति कं चन सरॊतसॊ मध्यम आपन्नः कूलाद वृक्श इव चयुतः 27 अज्ञॊ जन्तुर अनीशॊ ऽयम आत्मनः सुखदुःखयॊः ईश्वर परेरितॊ गच्छेत सवर्गं नरकम एव च 28 यथा वायॊस तृणाग्राणि वशं यान्ति बलीयसः धातुर एवं वशं यान्ति सर्वभूतानि भारत 29 आर्य कर्मणि युञ्जानः पापे वा पुनर ईश्वरः वयाप्य भूतानि चरते न चायम इति लक्ष्यते 30 हेतुमात्रम इदं धात्तुः शरीरं कषेत्रसंज्ञितम येन कारयते कर्म शुभाशुभफलं विभुः 31 पश्य माया परभावॊ ऽयम ईश्वरेण यथा कृतः यॊ हन्ति भूतैर भूतानि मुनिभिर वेद दर्शिभिः 32 अन्यथा परिदृष्टानि मुनिभिर वेद दर्शिभिः अन्यथा परिवर्तन्ते वेगा इव नभस्वतः 33 अन्यथैव हि मन्यन्ते पुरुषास तानि तानि च अन्यथैव परभुस तानि करॊति विकरॊति च 34 यथा काष्ठेन वा काष्टम अश्मानं चाश्मना पुनः अयसा चाप्य अयश छिन्द्यान निर्विचेष्टम अचेतनम 35 एवं स भगवान देवः सवयम्भूः परपितामहः हिनस्ति भूतैर भूतानि छद्म कृत्वा युधिष्ठिर 36 संप्रयॊज्य वियॊज्यायं कामकार करः परभुः करीडते भगवन भूतैर बालः करीडनकैर इव 37 न मातृपितृवद राजन धाता भूतेषु वर्तते रॊषाद इव परवृत्तॊ ऽयं यथायम इतरॊ जनः 38 आर्याञ शीलवतॊ दृष्ट्वा हरीमतॊ वृत्ति कर्शितान अनार्यान सुखिनश चैव विह्वलामीव चिन्तया 39 तवेमाम आपदं दृष्ट्वा समृद्धिं च सुयॊधन धातारं गर्हये पार्थ विषमं यॊ ऽनुपश्यति 40 आर्य शास्त्रातिगे करूरे लुब्धे धर्मापचायिनि धार्तराष्ट्रे शरियं दत्त्वा धाता किं फलम अश्नुते 41 कर्म चेत कृतम अन्वेति कर्तारं नान्यम ऋच्छति कर्मणा तेन पापेन लिप्यते नूनम ईश्वरः 42 अथ कर्मकृतं पापं न चेत कर्तारम ऋच्छति कारणं बलम एवेह जनाञ शॊचामि दुर्बलान |
1
[drau] namo dhātre vidhātre ca yau mohaṃ cakratus tava pitṛpaitāmahe vṛtte voḍhavye te 'nyathā matiḥ 2 neha dharmānṛśaṃsyābhyāṃ na kṣāntyā nārjavena ca puruṣaḥ śriyam āpnoti na ghṛṇitvena karhi cit 3 tvāṃ ced vyasanam abhyāgād idaṃ bhārata duḥsaham yat tvaṃ nārhasi nāpīme bhrātaras te mahaujasaḥ 4 na hi te 'dhyagamaj jātu tadānīṃ nādya bhārata dharmāt priyataraṃ kiṃ cid api cej jīvitād iha 5 dharmārtham eva te rājyaṃ dharmārthaṃ jīvitaṃ ca te brāhmaṇā guravaś caiva jānaty api ca devatāḥ 6 bhīmasenārjunau caiva mādreyau ca mayā saha tyajes tvam iti me buddhir na tu dharmaṃ parityajeḥ 7 rājānaṃ dharmagoptāraṃ dharmo rakṣati rakṣitaḥ iti me śrutam āryāṇāṃ tvāṃ tu manye na rakṣati 8 ananyā hi naravyāghra nityadā dharmam eva te buddhiḥ satatam anveti chāyeva puruṣaṃ nijā 9 nāvamaṃsthā hi sadṛśān nāvarāñ śreyasaḥ kutaḥ avāpya pṛthivīṃ kṛtsnāṃ na te śṛṅgam avardhata 10 svāhākāraiḥ svadhābhiś ca pūjābhir api ca dvijān daivatāni pitṝṃś caiva satataṃ pārtha sevase 11 brāhmaṇāḥ sarvakāmais te satataṃ pārtha tarpitāḥ yatayo mokṣiṇaś caiva gṛhasthāś caiva bhārata 12 āraṇyakebhyo lauhāni bhājanāni prayacchasi nādeyaṃ brāhmaṇebhyas te gṛhe kiṃ cana vidyate 13 yad idaṃ vaiśvadevānte sāyaṃprātaḥ pradīyate tad dattvātithi bhṛtyebhyo rājañ śeṣeṇa jīvasi 14 iṣṭayaḥ paśubandhāś ca kāmyanaimittikāś ca ye vartante pākayajñāś ca yajñakarma ca nityadā 15 asminn api mahāraṇye vijane dasyu sevite rāṣṭrād apetya vasato dhārmas te nāvasīdati 16 aśvamedho rājasūyaḥ puṇḍarīko 'tha gosavaḥ etair api mahāyajñair iṣṭaṃ te bhūridakṣiṇaiḥ 17 rājan parītayā buddhyā viṣame 'kṣaparājaye rājyaṃ vasūny āyudhāni bhrātṝn māṃ cāsi nirjitaḥ 18 ṛjor mṛdor vadānyasya hrīmataḥ satyavādinaḥ katham akṣavyasanajā buddhir āpatitā tava 19 atīva moham āyāti manaś ca paridūyate niśāmya te duḥkham idam imāṃ cāpadam īdṛśīm 20 atrāpy udāharantīmam itihāsaṃ purātanam īśvarasya vaśe lokas tiṣṭhate nātmano yathā 21 dhātaiva khalu bhūtānāṃ sukhaduḥkhe priyāpriye dadhāti sarvam īśānaḥ purastāc chukram uccaran 22 yathā dārumayī yoṣā naravīra samāhitā īrayaty aṅgam aṅgāni tathā rājann imāḥ prajāḥ 23 ākāśa iva bhūtāni vyāpya sarvāṇi bhārata īśvaro vidadhātīha kalyāṇaṃ yac ca pāpakam 24 śakunis tantu baddhovā niyato 'yam anīśvaraḥ īśvarasya vaśe tiṣṭhan nānyeṣāṃ nātmanaḥ prabhuḥ 25 maṇiḥ sūtra iva proto nasyota iva govṛṣaḥ dhātur ādeśam anveti tanmayo hi tad arpaṇaḥ 26 nātmādhīno manuṣyo 'yaṃ kālaṃ bhavati kaṃ cana srotaso madhyam āpannaḥ kūlād vṛkśa iva cyutaḥ 27 ajño jantur anīśo 'yam ātmanaḥ sukhaduḥkhayoḥ īśvara prerito gacchet svargaṃ narakam eva ca 28 yathā vāyos tṛṇāgrāṇi vaśaṃ yānti balīyasaḥ dhātur evaṃ vaśaṃ yānti sarvabhūtāni bhārata 29 ārya karmaṇi yuñjānaḥ pāpe vā punar īśvaraḥ vyāpya bhūtāni carate na cāyam iti lakṣyate 30 hetumātram idaṃ dhāttuḥ śarīraṃ kṣetrasaṃjñitam yena kārayate karma śubhāśubhaphalaṃ vibhuḥ 31 paśya māyā prabhāvo 'yam īśvareṇa yathā kṛtaḥ yo hanti bhūtair bhūtāni munibhir veda darśibhiḥ 32 anyathā paridṛṣṭāni munibhir veda darśibhiḥ anyathā parivartante vegā iva nabhasvataḥ 33 anyathaiva hi manyante puruṣās tāni tāni ca anyathaiva prabhus tāni karoti vikaroti ca 34 yathā kāṣṭhena vā kāṣṭam aśmānaṃ cāśmanā punaḥ ayasā cāpy ayaś chindyān nirviceṣṭam acetanam 35 evaṃ sa bhagavān devaḥ svayambhūḥ prapitāmahaḥ hinasti bhūtair bhūtāni chadma kṛtvā yudhiṣṭhira 36 saṃprayojya viyojyāyaṃ kāmakāra karaḥ prabhuḥ krīḍate bhagavan bhūtair bālaḥ krīḍanakair iva 37 na mātṛpitṛvad rājan dhātā bhūteṣu vartate roṣād iva pravṛtto 'yaṃ yathāyam itaro janaḥ 38 āryāñ śīlavato dṛṣṭvā hrīmato vṛtti karśitān anāryān sukhinaś caiva vihvalāmīva cintayā 39 tavemām āpadaṃ dṛṣṭvā samṛddhiṃ ca suyodhana dhātāraṃ garhaye pārtha viṣamaṃ yo 'nupaśyati 40 ārya śāstrātige krūre lubdhe dharmāpacāyini dhārtarāṣṭre śriyaṃ dattvā dhātā kiṃ phalam aśnute 41 karma cet kṛtam anveti kartāraṃ nānyam ṛcchati karmaṇā tena pāpena lipyate nūnam īśvaraḥ 42 atha karmakṛtaṃ pāpaṃ na cet kartāram ṛcchati kāraṇaṃ balam eveha janāñ śocāmi durbalān |
The Mahabharata in Sanskrit
Book 3
Chapter 32
|
1
[य] वल्गु चित्रपदं शलक्ष्णं याज्ञसेनि तवया वचः उक्तं तच छरुतम अस्माभिर नास्तिक्यं तु परभाषसे 2 नाहं धर्मफलान्वेषी राजपुत्रि चराम्य उत ददामि देयम इत्य एव यजे यष्टव्यम इत्य उत 3 अस्तु वात्र फलं मा वा कर्तव्यं पुरुषेण यत गृहान आवसता कृष्णे यथाशक्ति करॊमि तत 4 धर्मं चरामि सुश्रॊणि न धर्मफलकारणात आगमान अनतिक्रम्य सतां वृत्तम अवेक्ष्य च धर्म एव मनः कृष्णे सवभावाच चैव मे धृतम 5 न धर्मफलम आप्नॊति यॊ धर्मं दॊग्धुम इच्छति यश चैनं शङ्कते कृत्वा नास्तिक्यात पापचेतनः 6 अतिवादान मदाच चैव मा धर्मम अतिशङ्किथाः धर्मातिशङ्की पुरुषस तिर्यग्गतिपरायणः 7 धर्मॊ यस्यातिशङ्क्यः सयाद आर्षं वा दुर्बलात्मनः वेदाच छूद्र इवापेयात स लॊकाद अजरामरात 8 वेदाध्यायी धर्मपरः कुले जातॊ यशस्विनि सथविरेषु स यॊक्तव्यॊ राजभिर धर्मचारिभिः 9 पापीयान हि स शूद्रेभ्यस तस्करेब्भ्यॊ विशेषतः शास्त्रातिगॊ मन्दबुद्धिर यॊ धर्मम अतिशङ्कते 10 परत्यक्षं हि तवया दृष्ट ऋषिर गच्छन महातपाः मार्कण्डेयॊ ऽपरमेयात्मा धर्मेण चिरजीविताम 11 वयासॊ वसिष्ठॊ मैत्रेयॊ नारदॊ लॊमशः शुकः अन्ये च ऋषयः सिद्धा धर्मेणैव सुचेतसः 12 परत्यक्षं पश्यसि हय एतान दिव्ययॊगसमन्वितान शापानुग्रहणे शक्तान देवैर अपि गरीयसः 13 एते हि धर्मम एवादौ वर्णयन्ति सदा मम कर्तव्यम अमरप्रख्याः परत्यक्षागम बुद्धयः 14 अतॊ नार्हसि कल्याणि धातारं धर्मम एव च रजॊ मूढेन मनसा कषेप्तुं शङ्कितुम एव च 15 धर्मातिशङ्की नान्यस्मिन परमाणम अधिगछति आत्मप्रमाण उन्नद्धः शरेयसॊ हय अवमन्यकः 16 इन्द्रियप्रीतिसंबद्धं यद इदं लॊकसाक्षिकम एतावान मन्यते बालॊ मॊहम अन्यत्र गच्छति 17 परायश चितां न तस्यास्ति यॊ धर्मम अतिशङ्कते धयायन स कृपणः पापॊ न लॊकान परतिपद्यते 18 परमाणान्य अतिवृत्तॊ हि वेद शास्त्रार्थनिन्दकः कामलॊभानुगॊ मूढॊ नरकं परतिपद्यते 19 यस तु नित्यं कृतमतिर धर्मम एवाभिपद्यते अशङ्कमानः कल्याणि सॊ ऽमुत्रानन्त्यम अश्नुते 20 आर्षं परमाणम उत्क्रम्य धर्मान अपरिपालयन सर्वशास्त्रातिगॊ मूढॊ शं जन्मसु न विन्दति 21 शिष्टैर आचरितं धर्मं कृष्णे मा समातिशङ्किथाः पुराणम ऋषिभिः परॊक्तं सर्वज्ञैः सर्वदर्शिभिः 22 धर्म एव्व पलवॊ नान्यः सवर्गं दरौपदि गच्छताम सैव नौः सागरस्येव वणिजः पारम ऋच्छतः 23 अफालॊ यदि धर्मः सयाच चरितॊ धर्मचारिभिः अप्रतिष्ठे तमस्य एतञ जगन मज्जेद अनिन्दिते 24 निर्वाणं नाधिगच्छेयुर जीवेयुः पशुजीविकाम विघातेनैव युज्येयुर न चार्थं किं चिद आप्नुयुः 25 तपश च बरह्मचर्यं च यज्ञः सवाध्याय एव च दानम आर्जवम एतानि यदि सयुर अफलानि वै 26 नाचरिष्यन परे धर्मं परे परतरे चये विप्रलम्भॊ ऽयम अत्यन्तं यदि सयुर अफलाः करियाः 27 ऋषयश चैव देवाश च गन्धर्वासुरराक्षसाः ईश्वराः कस्य हेतॊस ते चरेयुर धरम आदृताः 28 फलदं तव इह विज्ञाय धातारं शरेयसि धरुवे धर्मं ते हय आचरन कृष्णे तद्धि धर्मसनातनम 29 स चायं सफलॊ धर्मॊ न धर्मॊ ऽफल उच्यते दृश्यन्ते ऽपि हि विद्यानां फलानि तपसां तथा 30 तवय्य एतद वै विजानीहि जन्म कृष्णे यथा शरुतम वेत्थ चापि यथा जातॊ धृष्टद्युम्नः परतापवान 31 एतावद एव पर्याप्तम उपमानं शुचिस्मिते कर्मणां फलम अस्तीति धीरॊ ऽलपेनापि तुष्यति 32 बहुनापि हय अविद्वांसॊ नैव तुष्यन्त्य अबुद्धयः तेषां न धर्मजं किं चित परेत्य शर्मास्ति कर्म वा 33 कर्मणाम उत पुण्यानां पापानां च फलॊदयः परभवश चाप्ययश चैव देव गुह्यानि भामिनि 34 नैतानि वेद यः कश चिन मुह्यन्त्य अत्र परजा इमाः रक्ष्याण्य एतानि देवानां गूढमाया हि देवताः 35 कृशाङ्गाः सुव्रताश चैव तपसा दग्धकिल्बिषाः परसन्नैर मानसैर युक्ताः पश्यन्त्य एतानि वै दविजाः 36 न फलादर्शनाद धर्मः शङ्कितव्यॊ न देवताः यष्टव्यं चाप्रमत्तेन दातव्यं चानसूयता 37 कर्मणा फलम अस्तीति तथैतद धर्मशाश्वतम बरह्मा परॊवाच पुत्राणां यद ऋषिर वेद कश्यपः 38 तस्मात ते संशयः कृष्णे नीहार इव नश्यतु वयवस्त्य सर्वम अस्तीति नास्तिक्यं भावम उत्सृज 39 ईश्वरं चापि भूतानां धातारं मा विचिक्षिपः शिक्षस्वैनं नमस्वैनं मा ते भूद बुद्धिर ईदृशी 40 यस्य परसादात तद भक्तॊ मर्त्यॊ गच्छत्य अमर्त्यताम उत्तमं दैवतं कृष्णे मातिवॊचः कथं चन |
1
[y] valgu citrapadaṃ ślakṣṇaṃ yājñaseni tvayā vacaḥ uktaṃ tac chrutam asmābhir nāstikyaṃ tu prabhāṣase 2 nāhaṃ dharmaphalānveṣī rājaputri carāmy uta dadāmi deyam ity eva yaje yaṣṭavyam ity uta 3 astu vātra phalaṃ mā vā kartavyaṃ puruṣeṇa yat gṛhān āvasatā kṛṣṇe yathāśakti karomi tat 4 dharmaṃ carāmi suśroṇi na dharmaphalakāraṇāt āgamān anatikramya satāṃ vṛttam avekṣya ca dharma eva manaḥ kṛṣṇe svabhāvāc caiva me dhṛtam 5 na dharmaphalam āpnoti yo dharmaṃ dogdhum icchati yaś cainaṃ śaṅkate kṛtvā nāstikyāt pāpacetanaḥ 6 ativādān madāc caiva mā dharmam atiśaṅkithāḥ dharmātiśaṅkī puruṣas tiryaggatiparāyaṇaḥ 7 dharmo yasyātiśaṅkyaḥ syād ārṣaṃ vā durbalātmanaḥ vedāc chūdra ivāpeyāt sa lokād ajarāmarāt 8 vedādhyāyī dharmaparaḥ kule jāto yaśasvini sthavireṣu sa yoktavyo rājabhir dharmacāribhiḥ 9 pāpīyān hi sa śūdrebhyas taskarebbhyo viśeṣataḥ śāstrātigo mandabuddhir yo dharmam atiśaṅkate 10 pratyakṣaṃ hi tvayā dṛṣṭa ṛṣir gacchan mahātapāḥ mārkaṇḍeyo 'prameyātmā dharmeṇa cirajīvitām 11 vyāso vasiṣṭho maitreyo nārado lomaśaḥ śukaḥ anye ca ṛṣayaḥ siddhā dharmeṇaiva sucetasaḥ 12 pratyakṣaṃ paśyasi hy etān divyayogasamanvitān śāpānugrahaṇe śaktān devair api garīyasaḥ 13 ete hi dharmam evādau varṇayanti sadā mama kartavyam amaraprakhyāḥ pratyakṣāgama buddhayaḥ 14 ato nārhasi kalyāṇi dhātāraṃ dharmam eva ca rajo mūḍhena manasā kṣeptuṃ śaṅkitum eva ca 15 dharmātiśaṅkī nānyasmin pramāṇam adhigachati ātmapramāṇa unnaddhaḥ śreyaso hy avamanyakaḥ 16 indriyaprītisaṃbaddhaṃ yad idaṃ lokasākṣikam etāvān manyate bālo moham anyatra gacchati 17 prāyaś citāṃ na tasyāsti yo dharmam atiśaṅkate dhyāyan sa kṛpaṇaḥ pāpo na lokān pratipadyate 18 pramāṇāny ativṛtto hi veda śāstrārthanindakaḥ kāmalobhānugo mūḍho narakaṃ pratipadyate 19 yas tu nityaṃ kṛtamatir dharmam evābhipadyate aśaṅkamānaḥ kalyāṇi so 'mutrānantyam aśnute 20 ārṣaṃ pramāṇam utkramya dharmān aparipālayan sarvaśāstrātigo mūḍho śaṃ janmasu na vindati 21 śiṣṭair ācaritaṃ dharmaṃ kṛṣṇe mā smātiśaṅkithāḥ purāṇam ṛṣibhiḥ proktaṃ sarvajñaiḥ sarvadarśibhiḥ 22 dharma evva plavo nānyaḥ svargaṃ draupadi gacchatām saiva nauḥ sāgarasyeva vaṇijaḥ pāram ṛcchataḥ 23 aphālo yadi dharmaḥ syāc carito dharmacāribhiḥ apratiṣṭhe tamasy etañ jagan majjed anindite 24 nirvāṇaṃ nādhigaccheyur jīveyuḥ paśujīvikām vighātenaiva yujyeyur na cārthaṃ kiṃ cid āpnuyuḥ 25 tapaś ca brahmacaryaṃ ca yajñaḥ svādhyāya eva ca dānam ārjavam etāni yadi syur aphalāni vai 26 nācariṣyan pare dharmaṃ pare paratare caye vipralambho 'yam atyantaṃ yadi syur aphalāḥ kriyāḥ 27 ṛṣayaś caiva devāś ca gandharvāsurarākṣasāḥ īśvarāḥ kasya hetos te careyur dharam ādṛtāḥ 28 phaladaṃ tv iha vijñāya dhātāraṃ śreyasi dhruve dharmaṃ te hy ācaran kṛṣṇe taddhi dharmasanātanam 29 sa cāyaṃ saphalo dharmo na dharmo 'phala ucyate dṛśyante 'pi hi vidyānāṃ phalāni tapasāṃ tathā 30 tvayy etad vai vijānīhi janma kṛṣṇe yathā śrutam vettha cāpi yathā jāto dhṛṣṭadyumnaḥ pratāpavān 31 etāvad eva paryāptam upamānaṃ śucismite karmaṇāṃ phalam astīti dhīro 'lpenāpi tuṣyati 32 bahunāpi hy avidvāṃso naiva tuṣyanty abuddhayaḥ teṣāṃ na dharmajaṃ kiṃ cit pretya śarmāsti karma vā 33 karmaṇām uta puṇyānāṃ pāpānāṃ ca phalodayaḥ prabhavaś cāpyayaś caiva deva guhyāni bhāmini 34 naitāni veda yaḥ kaś cin muhyanty atra prajā imāḥ rakṣyāṇy etāni devānāṃ gūḍhamāyā hi devatāḥ 35 kṛśāṅgāḥ suvratāś caiva tapasā dagdhakilbiṣāḥ prasannair mānasair yuktāḥ paśyanty etāni vai dvijāḥ 36 na phalādarśanād dharmaḥ śaṅkitavyo na devatāḥ yaṣṭavyaṃ cāpramattena dātavyaṃ cānasūyatā 37 karmaṇā phalam astīti tathaitad dharmaśāśvatam brahmā provāca putrāṇāṃ yad ṛṣir veda kaśyapaḥ 38 tasmāt te saṃśayaḥ kṛṣṇe nīhāra iva naśyatu vyavastya sarvam astīti nāstikyaṃ bhāvam utsṛja 39 īśvaraṃ cāpi bhūtānāṃ dhātāraṃ mā vicikṣipaḥ śikṣasvainaṃ namasvainaṃ mā te bhūd buddhir īdṛśī 40 yasya prasādāt tad bhakto martyo gacchaty amartyatām uttamaṃ daivataṃ kṛṣṇe mātivocaḥ kathaṃ cana |
The Mahabharata in Sanskrit
Book 3
Chapter 33
|
1
[दरौ] नावमन्ये न गर्हे च धर्मं पार्थ कथं चन ईश्वरं कुत एवाहम अवमंस्ये परजापतिम 2 आर्ताहं परलपामीदम इति मां विद्धि भारत भूयश च विलपिष्यामि सुमनास तन निबॊध मे 3 कर्म खल्व इह कर्तव्यं जातेनामित्रकर्शन अकर्माणॊ हि जीवन्ति सथावरा नेतरे जनाः 4 आ मातृस्तन पानाच च यावच छय्यॊपसर्पणम जङ्गमाः कर्मणा वृत्तिम आप्नुवन्ति युधिष्ठिर 5 जङ्गमेषु विशेषेण मनुष्या भरतर्षभ इच्छन्ति कर्मणा वृत्तिम अवाप्तुं परेत्य चेह च 6 उत्थानम अभिजानन्ति सर्वभूतानि भारत परत्यक्षं फलम अश्नन्ति कर्मणां लॊकसाक्षिकम 7 पश्यामि सवं समुत्थानम उपजीवन्ति जन्तवः अपि धाता विधाता च यथायम उदके बकः 8 सवकर्म कुरु मा गलासीः कर्मणा भव दंशितः कृत्यं हि यॊ ऽभिजानाति सहस्रे नास्ति सॊ ऽसति वा 9 तस्य चापि भवेत कार्यं विवृद्धौ रक्षणे तथा भक्ष्यमाणॊ हय अनावापः कषीयते हिमवान अपि 10 उत्सीदेरन परजाः सर्वा न कुर्युः कर्म चेद यदि अपि चाप्य अफलं कर्म पश्यामः कुर्वतॊ जनान नान्यथा हय अभिजानन्ति वृत्तिं लॊके कथं चन 11 यश च दिष्ट परॊ लॊके यश चायं हठ वादकः उभाव अपसदाव एतौ कर्म बुद्धिः परशस्यते 12 यॊ हि दिष्टम उपासीनॊ निर्विचेष्टः सुखं सवपेत अवसीदेत सुदुर्बुद्धिर आमॊ घट इवाम्भसि 13 तथैव हठ बुद्धिर यः शक्तः कर्मण्य अकर्मकृत आसीत नचिरं जीवेद अनाथ इव दुर्बलः 14 अकस्माद अपि यः कश चिद अर्थं पराप्नॊति पूरुषः तं हठेनेति मन्यन्ते स हि यत्नॊ न कस्य चित 15 यच चापि किं चित पुरुषॊ दिष्टं नाम लभत्य उत दैवेन विधिना पार्थ तद दैवम इति निश्चितम 16 यत सवयं कर्मणा किं चित फलम आप्नॊति पूरुषः परत्यक्षं चक्षुषा दृष्टं तत पौरुषम इति समृतम 17 सवभावतः परवृत्तॊ ऽनयः पराप्नॊत्य अर्थान अकारणात तत सवभावात्मकं विद्धि फलं पुरुषसत्तम 18 एवं हठाच च दैवाच च सवभावात कर्मणस तथा यानि पराप्नॊति पुरुषस तत फलं पूर्वकर्मणः 19 धातापि हि सवकर्मैव तैस तैर हेतुभिर ईश्वरः विदधाति विभज्येह फलं पूर्वकृतं नृणाम 20 यद धययं पुरुषं किं चित कुरुते वै शुभाशुभम तद धातृविहितं विद्धि पूर्वकर्मफलॊदयम 21 कारणं तस्य देहॊ ऽयं धातुः कर्मणि कर्मणि स यथा परेरयत्य एनं तथायं कुरुते ऽवशः 22 तेषु तेषु हि कृत्येषु विनियॊक्ता महेश्वरः सर्वभूतानि कौन्तेय कारयत्य अवशान्य अपि 23 मनसार्थान विनिश्चित्य पश्चात पराप्नॊति कर्मणा बुद्धिपूर्वं सवयं धीरः पुरुषस तत्र कारणम 24 संख्यातुं नैव शक्यानि कर्माणि पुरुषर्षभ अगार नगराणां हि सिद्धिः पुरुषहैतुकी 25 तिले तैलं गवि कषीरं काष्ठे पावकम अन्ततः धिया धिरॊ विजानीयाद उपायं चास्य सिद्धये 26 ततः परवर्तते पश्च्चात करणेष्व अस्य सिद्धये तां सिद्धिम उपजीवन्ति कर्मणाम इह जन्तवः 27 कुशलेन कृतं कर्म कर्त्रा साधु विनिश्चितम इदं तव अकुशलेनेति विशेषाद उपलभ्यते 28 इष्टापूर्तफलं न सयान न शिष्यॊ न गुरुर भवेत पुरुषः कर्म साध्येषु सयाच चेद अयम अकारणम 29 कर्तृत्वाद एव पुरुषः कर्मसिद्धौ परशस्यते असिद्धौ निन्द्यते चापि कर्म नाशः कथं तव इह 30 सर्वम एव हठेनैके दिष्टेनैके वदन्त्य उत पुरुषप्रयत्नजं के चित तरैधम एतन निरुच्यते 31 न चैवैतावता कायं मन्यन्त इति चापरे अस्ति सर्वम अदृश्यं तु दिष्टं चैव तथा हठः दृश्यते हि हठाच चैव दिष्टाच चार्थस्य संततिः 32 किं चिद दैवाद धठात किं चित किं चिद एव सवकर्मतः पुरुषः फलम आप्नॊति चतुर्थं नात्र कारणम कुशलाः परतिजानन्ति ये तत तव अविदुषॊ जनाः 33 तथैव धाता भूतानाम इष्टानिष्ट फलप्रदः यदि न सयान न भूतानां कृपणॊ नाम कश चन 34 यं यम अर्थम अभिप्रेप्सुः कुरुते कर्म पूरुषः तत तत सफलम एव सयाद यदि न सयात पुरा कृतम 35 तरिद्वाराम अर्थ सिद्धिं तु नानुपश्यन्ति ये नराः तथैवानर्थ सिद्धिं च यथा लॊकास तथैव ते 36 कर्तव्यं तव एव कर्मेति मनॊर एष विनिश्चयः एकान्तेन हय अनीहॊ ऽयं पराभवति पूरुषः 37 कुर्वतॊ हि भवत्य एव परायेणेह युधिष्ठिर एकान्तफलसिद्धिं तु न विन्दत्य अलसः कव चित 38 असंभवे तव अस्य हेतुः परायश्चित्तं तु लक्ष्यते कृते कर्मणि राजेन्द्र तथानृण्यम अवाप्यते 39 अलक्ष्मीर आविशत्य एनं शयानम अलसं नरम निःसंशयं फलं लब्ध्वा दक्षॊ भूतिम उपाश्नुते 40 अनर्थं संशयावस्थं वृण्वते मुक्तसंशयाः धीरा नराः कर्म रता न तु निःसंशयं कव चित 41 एकान्तेन हय अनर्थॊ ऽयं वर्तते ऽसमासु सांप्रतम न तु निःसंशयं न सयात तवयि कर्मण्य अवस्थिते 42 अथ वा सिद्धिर एव सयान महिमा तु तथैव ते वृकॊदरस्य बीभत्सॊर भरात्रॊश च यमयॊर अपि 43 अन्येषां कर्म सफलम अस्माकम अपि वा पुनः विप्रकर्षेण बुध्येत कृतकर्मा यथा फलम 44 पृथिवीं लाङ्गलेनैव भित्त्वा बीजं वपत्य उत आस्ते ऽथ कर्षकस तूष्णीं पर्जन्यस तत्र कारणम 45 वृष्टिश चेन नानुगृह्णीयाद अनेनास तत्र कर्षकः यद अन्यः पुरुषः कुर्यात कृतं तत सकलं मया 46 तच चेद अफलम अस्माकं नापराधॊ ऽसति नः कव चित इति घॊरॊ ऽनववेक्ष्यैव नात्मानं तत्र गर्हयेत 47 कुर्वतॊ नार्थसिद्धिर मे भवतीति ह भारत निर्वेदॊ नात्र गन्तव्यॊ दवाव एतौ हय अस्य कर्मणः सिद्धिर वाप्य अथ वासिद्धिर अप्रवृत्तिर अतॊ ऽनयथा 48 बहूनां समवाये हि भावानां कर्म सिध्यति गुणाभावे फलं नयूनं भवत्य अफलम एव वा अनारम्भे तु न फलं न गुणॊ दृश्यते ऽचयुत 49 देशकालाव उपायांश च मङ्गलं सवस्ति वृद्धये युनक्ति मेधया धीरॊ यथाशक्ति यथाबलम 50 अप्रमत्तेन तत कार्यम उपदेष्टा पराक्रमः भूयिष्ठं कर्मयॊगेषु सर्व एव पराक्रमः 51 यं तु धीरॊ ऽनववेक्षेत शरेयांसं बहुभिर गुणैः साम्नैवार्थं ततॊ लिप्सेत कर्म चास्मै परयॊजयेत 52 वयसनं वास्य काङ्क्षेत विनाशं वा युधिष्ठिर अपि सिन्धॊर गिरेर वापि किं पुनर मर्त्यधर्मिणः 53 उत्थान युक्तः सततं परेषाम अन्तरैषिणे आनृण्यम आप्नॊति नरः परस्यात्मन एव च 54 न चैवात्मावमन्तव्यः पुरुषेण कदा चन न हय आत्मपरिभूतस्य भूतिर भवति भारत 55 एवं संस्थितिका सिद्धिर इयं लॊकस्य भारत चित्रा सिद्धिगतिः परॊक्ता कालावस्था विभागतः 56 बराह्मणं मे पिता पूर्वं वासयाम आस पण्डितम सॊ ऽसमा अर्थम इमं पराह पित्रे मे भरतर्षभ 57 नीतिं बृहस्पतिप्रॊक्तां भरातॄन मे ऽगराहयत पुरा तेषां सांकथ्यम अश्रौषम अहम एतत तदा गृहे 58 स मां राजन कर्मवतीम आगताम आह सान्त्वयन शुश्रूषमाणाम आसीनां पितुर अङ्के युधिष्ठिर |
1
[drau] nāvamanye na garhe ca dharmaṃ pārtha kathaṃ cana īśvaraṃ kuta evāham avamaṃsye prajāpatim 2 ārtāhaṃ pralapāmīdam iti māṃ viddhi bhārata bhūyaś ca vilapiṣyāmi sumanās tan nibodha me 3 karma khalv iha kartavyaṃ jātenāmitrakarśana akarmāṇo hi jīvanti sthāvarā netare janāḥ 4 ā mātṛstana pānāc ca yāvac chayyopasarpaṇam jaṅgamāḥ karmaṇā vṛttim āpnuvanti yudhiṣṭhira 5 jaṅgameṣu viśeṣeṇa manuṣyā bharatarṣabha icchanti karmaṇā vṛttim avāptuṃ pretya ceha ca 6 utthānam abhijānanti sarvabhūtāni bhārata pratyakṣaṃ phalam aśnanti karmaṇāṃ lokasākṣikam 7 paśyāmi svaṃ samutthānam upajīvanti jantavaḥ api dhātā vidhātā ca yathāyam udake bakaḥ 8 svakarma kuru mā glāsīḥ karmaṇā bhava daṃśitaḥ kṛtyaṃ hi yo 'bhijānāti sahasre nāsti so 'sti vā 9 tasya cāpi bhavet kāryaṃ vivṛddhau rakṣaṇe tathā bhakṣyamāṇo hy anāvāpaḥ kṣīyate himavān api 10 utsīderan prajāḥ sarvā na kuryuḥ karma ced yadi api cāpy aphalaṃ karma paśyāmaḥ kurvato janān nānyathā hy abhijānanti vṛttiṃ loke kathaṃ cana 11 yaś ca diṣṭa paro loke yaś cāyaṃ haṭha vādakaḥ ubhāv apasadāv etau karma buddhiḥ praśasyate 12 yo hi diṣṭam upāsīno nirviceṣṭaḥ sukhaṃ svapet avasīdet sudurbuddhir āmo ghaṭa ivāmbhasi 13 tathaiva haṭha buddhir yaḥ śaktaḥ karmaṇy akarmakṛt āsīta naciraṃ jīved anātha iva durbalaḥ 14 akasmād api yaḥ kaś cid arthaṃ prāpnoti pūruṣaḥ taṃ haṭheneti manyante sa hi yatno na kasya cit 15 yac cāpi kiṃ cit puruṣo diṣṭaṃ nāma labhaty uta daivena vidhinā pārtha tad daivam iti niścitam 16 yat svayaṃ karmaṇā kiṃ cit phalam āpnoti pūruṣaḥ pratyakṣaṃ cakṣuṣā dṛṣṭaṃ tat pauruṣam iti smṛtam 17 svabhāvataḥ pravṛtto 'nyaḥ prāpnoty arthān akāraṇāt tat svabhāvātmakaṃ viddhi phalaṃ puruṣasattama 18 evaṃ haṭhāc ca daivāc ca svabhāvāt karmaṇas tathā yāni prāpnoti puruṣas tat phalaṃ pūrvakarmaṇaḥ 19 dhātāpi hi svakarmaiva tais tair hetubhir īśvaraḥ vidadhāti vibhajyeha phalaṃ pūrvakṛtaṃ nṛṇām 20 yad dhyayaṃ puruṣaṃ kiṃ cit kurute vai śubhāśubham tad dhātṛvihitaṃ viddhi pūrvakarmaphalodayam 21 kāraṇaṃ tasya deho 'yaṃ dhātuḥ karmaṇi karmaṇi sa yathā prerayaty enaṃ tathāyaṃ kurute 'vaśaḥ 22 teṣu teṣu hi kṛtyeṣu viniyoktā maheśvaraḥ sarvabhūtāni kaunteya kārayaty avaśāny api 23 manasārthān viniścitya paścāt prāpnoti karmaṇā buddhipūrvaṃ svayaṃ dhīraḥ puruṣas tatra kāraṇam 24 saṃkhyātuṃ naiva śakyāni karmāṇi puruṣarṣabha agāra nagarāṇāṃ hi siddhiḥ puruṣahaitukī 25 tile tailaṃ gavi kṣīraṃ kāṣṭhe pāvakam antataḥ dhiyā dhiro vijānīyād upāyaṃ cāsya siddhaye 26 tataḥ pravartate paśccāt karaṇeṣv asya siddhaye tāṃ siddhim upajīvanti karmaṇām iha jantavaḥ 27 kuśalena kṛtaṃ karma kartrā sādhu viniścitam idaṃ tv akuśaleneti viśeṣād upalabhyate 28 iṣṭāpūrtaphalaṃ na syān na śiṣyo na gurur bhavet puruṣaḥ karma sādhyeṣu syāc ced ayam akāraṇam 29 kartṛtvād eva puruṣaḥ karmasiddhau praśasyate asiddhau nindyate cāpi karma nāśaḥ kathaṃ tv iha 30 sarvam eva haṭhenaike diṣṭenaike vadanty uta puruṣaprayatnajaṃ ke cit traidham etan nirucyate 31 na caivaitāvatā kāyaṃ manyanta iti cāpare asti sarvam adṛśyaṃ tu diṣṭaṃ caiva tathā haṭhaḥ dṛśyate hi haṭhāc caiva diṣṭāc cārthasya saṃtatiḥ 32 kiṃ cid daivād dhaṭhāt kiṃ cit kiṃ cid eva svakarmataḥ puruṣaḥ phalam āpnoti caturthaṃ nātra kāraṇam kuśalāḥ pratijānanti ye tat tv aviduṣo janāḥ 33 tathaiva dhātā bhūtānām iṣṭāniṣṭa phalapradaḥ yadi na syān na bhūtānāṃ kṛpaṇo nāma kaś cana 34 yaṃ yam artham abhiprepsuḥ kurute karma pūruṣaḥ tat tat saphalam eva syād yadi na syāt purā kṛtam 35 tridvārām artha siddhiṃ tu nānupaśyanti ye narāḥ tathaivānartha siddhiṃ ca yathā lokās tathaiva te 36 kartavyaṃ tv eva karmeti manor eṣa viniścayaḥ ekāntena hy anīho 'yaṃ parābhavati pūruṣaḥ 37 kurvato hi bhavaty eva prāyeṇeha yudhiṣṭhira ekāntaphalasiddhiṃ tu na vindaty alasaḥ kva cit 38 asaṃbhave tv asya hetuḥ prāyaścittaṃ tu lakṣyate kṛte karmaṇi rājendra tathānṛṇyam avāpyate 39 alakṣmīr āviśaty enaṃ śayānam alasaṃ naram niḥsaṃśayaṃ phalaṃ labdhvā dakṣo bhūtim upāśnute 40 anarthaṃ saṃśayāvasthaṃ vṛṇvate muktasaṃśayāḥ dhīrā narāḥ karma ratā na tu niḥsaṃśayaṃ kva cit 41 ekāntena hy anartho 'yaṃ vartate 'smāsu sāṃpratam na tu niḥsaṃśayaṃ na syāt tvayi karmaṇy avasthite 42 atha vā siddhir eva syān mahimā tu tathaiva te vṛkodarasya bībhatsor bhrātroś ca yamayor api 43 anyeṣāṃ karma saphalam asmākam api vā punaḥ viprakarṣeṇa budhyeta kṛtakarmā yathā phalam 44 pṛthivīṃ lāṅgalenaiva bhittvā bījaṃ vapaty uta āste 'tha karṣakas tūṣṇīṃ parjanyas tatra kāraṇam 45 vṛṣṭiś cen nānugṛhṇīyād anenās tatra karṣakaḥ yad anyaḥ puruṣaḥ kuryāt kṛtaṃ tat sakalaṃ mayā 46 tac ced aphalam asmākaṃ nāparādho 'sti naḥ kva cit iti ghoro 'nvavekṣyaiva nātmānaṃ tatra garhayet 47 kurvato nārthasiddhir me bhavatīti ha bhārata nirvedo nātra gantavyo dvāv etau hy asya karmaṇaḥ siddhir vāpy atha vāsiddhir apravṛttir ato 'nyathā 48 bahūnāṃ samavāye hi bhāvānāṃ karma sidhyati guṇābhāve phalaṃ nyūnaṃ bhavaty aphalam eva vā anārambhe tu na phalaṃ na guṇo dṛśyate 'cyuta 49 deśakālāv upāyāṃś ca maṅgalaṃ svasti vṛddhaye yunakti medhayā dhīro yathāśakti yathābalam 50 apramattena tat kāryam upadeṣṭā parākramaḥ bhūyiṣṭhaṃ karmayogeṣu sarva eva parākramaḥ 51 yaṃ tu dhīro 'nvavekṣeta śreyāṃsaṃ bahubhir guṇaiḥ sāmnaivārthaṃ tato lipset karma cāsmai prayojayet 52 vyasanaṃ vāsya kāṅkṣeta vināśaṃ vā yudhiṣṭhira api sindhor girer vāpi kiṃ punar martyadharmiṇaḥ 53 utthāna yuktaḥ satataṃ pareṣām antaraiṣiṇe ānṛṇyam āpnoti naraḥ parasyātmana eva ca 54 na caivātmāvamantavyaḥ puruṣeṇa kadā cana na hy ātmaparibhūtasya bhūtir bhavati bhārata 55 evaṃ saṃsthitikā siddhir iyaṃ lokasya bhārata citrā siddhigatiḥ proktā kālāvasthā vibhāgataḥ 56 brāhmaṇaṃ me pitā pūrvaṃ vāsayām āsa paṇḍitam so 'smā artham imaṃ prāha pitre me bharatarṣabha 57 nītiṃ bṛhaspatiproktāṃ bhrātṝn me 'grāhayat purā teṣāṃ sāṃkathyam aśrauṣam aham etat tadā gṛhe 58 sa māṃ rājan karmavatīm āgatām āha sāntvayan śuśrūṣamāṇām āsīnāṃ pitur aṅke yudhiṣṭhira |
The Mahabharata in Sanskrit
Book 3
Chapter 34
|
1
[वै] याज्ञसेन्या वचः शरुत्वा भीमसेनॊ ऽतयमर्षणः निःश्वसन्न उपसंगम्य करुद्धॊ राजानम अब्रवीत 2 राज्यस्य पदवीं धर्म्यां वरज सत्पुरुषॊचिताम धर्मकामार्थ हीनानां किं नॊ वस्तुं तपॊवने 3 नैव धर्मेण तद राज्यं नार्जवेन न चौजसा अक्षकूटम अधिष्ठाय हृतं दुर्यॊधनेन नः 4 गॊमायुनेव सिंहानां दुर्बलेन बलीयसाम आमिषं विघसाशेन तद्वद राज्यं हि नॊ हृतम 5 धर्मलेश परतिच्छन्नः परभवं धर्मकामयॊः अर्थम उत्सृज्य किं राजन दुर्गेषु परितप्यसे 6 भवतॊ ऽनुविधानेन राज्यं नः पश्यतां हृतम अहार्यम अपि शक्रेण गुप्तं गाण्डीवधन्वना 7 कुणीनाम इव बिल्वानि पङ्गूनाम इव धेनवः हृतम ऐश्वर्यम अस्माकं जीवतां भवतः कृते 8 भवतः परियम इत्य एवं महद वयसनम ईदृशम धर्मकामे परतीतस्य परतिपन्नाः सम भारत 9 कर्शयामः सवमित्राणि नन्दयामश च शात्रवान आत्मानं भवतः शास्त्रे नियम्य भरतर्षभ 10 यद वयं न तदैवैतान धार्तराष्ट्रान निहन्महि भवतः शास्त्रम आदाय तन नस तपति दुष्कृतम 11 अथैनाम अन्ववेक्षस्व मृगचर्याम इवात्मनः अवीराचरितां राजन न बलस्थैर निषेविताम 12 यां न कृष्णॊ न बीभत्सुर नाभिमन्युर न सृञ्जयः न चाहम अभिनन्दामि न च माद्री सुताव उभौ 13 भवान धर्मॊ धर्म इति सततं वरतकर्शितः कच चिद राजन न निर्वेदाद आपन्नः कलीब जीविकाम 14 दुर्मनुष्यां हि निर्वेदम अफलं सर्वघातिनाम अशक्ताः शरियम आहर्तुम आत्मनः कुर्वते परियम 15 स भवान दृष्टिमाञ शक्तः पश्यन्न आत्मनि पौरुषम आनृशंस्य परॊ राजन नानर्थम अवबुध्यसे 16 अस्मान अमी धार्तराष्ट्राः कषममाणान अलं सतः अशक्तान एव मन्यन्ते तद्दुःखं नाहवे वधः 17 तत्र चेद युध्यमानानाम अजिह्मम अनिवर्तिनाम सर्वशॊ हि वधः शरेयान परेत्य लॊकाँल लभेमहि 18 अथ वा वयम एवैतान निहत्य भरतर्षभ आददीमहि गां सर्वां तथापि शरेय एव नः 19 सर्वथा कार्यम एतन नः सवधर्मम अनुतिष्ठताम काङ्क्षतां विपुलां कीर्तिं वैरं परतिचिकीर्षताम 20 आत्मार्थं युध्यमानानां विदिते कृत्यलक्षणे अन्यैर अपहृते राज्ये परशंसैव न गर्हणा 21 कर्शनार्थॊ हि यॊ धर्मॊ मित्राणाम आत्मनस तथा वयसनं नाम तद राजन न सा धर्मः कुधर्म तत 22 सर्वथा धर्मनित्यं तु पुरुषं धर्मदुर्बलम जहतस तात धर्मार्थौ परेतं दुःखसुखे यथा 23 यस्य धर्मॊ हि धर्मार्थं कलेशभान न स पण्डितः न स धर्मस्य वेदार्थं सूर्यस्यान्धः परभाम इव 24 यस्य चार्थार्थम एवार्थः स च नार्थस्य कॊविदः रक्षते भृतकॊ ऽरण्यं यथा सयात तादृग एव सः 25 अतिवेलं हि यॊ ऽरथार्थी नेतराव अनुतिष्ठति स वध्यः सर्वभूतानां बरह्महेव जुगुप्सितः 26 सततं यश च कामार्थी नेतराव अनुतिष्ठति मित्राणि तस्य नश्यन्ति धर्मार्थाब्भ्यां च हीयते 27 तस्य धर्मार्थहीनस्य कामान्ते निधनं धरुवम कामतॊ रममाणस्य मीनस्येवाम्भसः कषये 28 तस्माद धर्मार्थयॊर नित्यं न परमाद्यन्ति पण्डिताः परकृतिः सा हि कामस्य पावकस्यारणिर यथा 29 सर्वथा धर्ममूलॊ ऽरथॊ धर्मश चार्थपरिग्रहः इतरेतर यॊनी तौ विद्धि मेघॊदधी यथा 30 दरव्यार्थ सपर्शसंयॊगे या परीतिर उपजायते स कामश चित्तसंकल्पः शरीरं नास्य विद्यते 31 अर्थार्थी पुरुषॊ राजन बृहन्तं धर्मम ऋच्छति अर्थम ऋच्छति कामार्थी न कामाद अन्यम ऋच्छती 32 न हि कामेन कामॊ ऽनयः साध्यते फलम एव तत उपयॊगात फलस्येव काष्ठाद भस्मेव पण्डितः 33 इमाञ शकुनिकान राजन हन्ति वैतंसिकॊ यथा एतद रूपम अधर्मस्य भूतेषु च विहिंसताम 34 कामाल लॊभाच च धर्मस्य परवृत्तिं यॊ न पश्यति स वध्यः सर्वभूतानां परेत्य चेह च दुर्मतिः 35 वयक्तं ते विदितॊ राजन्न अर्थॊ दरव्यपरिग्रहः परकृतिं चापि वेत्थास्य विकृतिं चापि भूयसीम 36 तस्य नाशं विनाशं वा जरया मरणेन वा अनर्थम इति मन्यन्ते सॊ ऽयम अस्मासु वर्तते 37 इन्द्रियाणां च पञ्चानां मनसॊ हृदयस्य च विषये वर्तमानानां या परीतिर उपजायते स काम इति मे बुद्धिः कर्मणां फलम उत्तमम 38 एवम एव पृथग दृष्ट्वा धर्मार्थौ कामम एव च न धर्मपर एव सयान नाथार्थ परमॊ नरः न कामपरमॊ वा सयात सर्वान सेवेत सर्वदा 39 धर्मं पूर्वं धनं मध्ये जघन्ये कामम आचरेत अहन्य अनुचरेद एवम एष शास्त्रकृतॊ विधिः 40 कामं पूर्वं धनं मध्ये जघन्ये धर्मम आचरेत वयस्य अनुचरेद एवम एष शास्त्रकृतॊ विधिः 41 धर्मं चार्थं च कामं च यथावद वदतां वर विभज्य काले कालज्ञः सर्वान सेवेत पण्डितः 42 मॊक्षॊ वा परमं शरेय एष राजन सुखार्थिनाम पराप्तिर वा बुद्धिम आस्थाय सॊपायं कुरुनन्दन 43 तद वाशु करियतां राजन पराप्तिर वाप्य अधिगम्यताम जीवितं हय आतुरस्येव दुःखम अन्तरवर्तिनः 44 विदितश चैव ते धर्मः सततं चरितश च ते जानते तवयि शंसन्ति सुहृदः कर्मचॊदनाम 45 दानं यज्ञं सतां पूजा वेद धारणम आर्जवम एष धर्मः परॊ राजन फलवान परेत्य चेह च 46 एष नार्थविहीनेन शक्यॊ राजन निषेवितुम अखिलाः पुरुषव्याघ्र गुणाः सयुर यद्य अपीतरे 47 धर्ममूलं जगद राजन नान्यद धर्माद विशिष्यते धर्मश चार्थेन महता शक्यॊ राजन निषेवितुम 48 न चार्थॊ भैक्ष चर्येण नापि कलैब्येन कर्हि चित वेत्तुं शक्यः सदा राजन केवलं धर्मबुद्धिना 49 परतिषिद्धा हि ते याच्ञा यया सिध्यति वै दविजः तेजसैवार्थ लिप्सायां यतस्व पुरुषर्षभ 50 भैक्ष चर्या न विहिता न च विट शूद्र जीविका कषत्रियस्य विशेषेण धर्मस तु बलम औरसम 51 उदारम एव विद्वांसॊ धर्मं पराहुर मनीषिणः उदारं परतिपद्यस्व नावरे सथातुम अर्हसि 52 अनुबुध्यस्व राजेन्द्र वेत्थ धर्मान सनातनान करूरकर्माभिजातॊ ऽसि यस्माद उद्विजते जनः 53 परजापालनसंभूतं फलं तव न गर्हितम एष ते विहितॊ राजन धात्रा धर्मः सनातनः 54 तस्माद विचलितः पार्थ लॊके हास्यं गमिष्यसि सवधर्माद धि मनुष्याणां चलनं न परशस्यते 55 स कषात्रं हृदयं कृत्वा तयक्त्वेदं शिथिलं मनः वीर्यम आस्थाय कौन्तेय धुरम उद्वह धुर्यवत 56 न हि केवलधर्मात्मा पृथिवीं जातु कश चन पार्थिवॊ वयजयद राजन न भूतिं न पुनः शरियम 57 जिह्वां दत्त्वा बहूनां हि कषुद्राणां लुब्ध चेतसाम निकृत्या लभते राज्यम आहारम इव शल्यकः 58 भरातरः पूर्वजाताश च सुसमृद्धाश च सर्वशः निकृत्या निर्जिता देवैर असुराः पाण्डवर्षभ 59 एवं बलवतः सर्वम इति बुद्ध्वा महीपते जहि शत्रून महाबाहॊ परां निकृतिम आस्थितः 60 न हय अर्जुन समः कश चिद युधि यॊद्धा धनुर्धरः भविता वा पुमान कश चिन मत्समॊ वा गदाधरः 61 सत्त्वेन कुरुते युद्धं राजन सुबलवान अपि न परमाणेन नॊत्साहात सत्त्वस्थॊ भव पाण्डव 62 सत्त्वं हि मूलम अर्थस्य वितथं यद अयॊ ऽनयथा न तु परसक्तं भवति वृक्षच छायेव हैमनी 63 अर्थत्यागॊ हि कार्यः सयाद अर्थं शरेयांसम इच्छता बीजौपम्येन कौन्तेय मा ते भूद अत्र संशयः 64 अर्थेन तु समॊ ऽनर्थॊ यत्र लभ्येत नॊदयः न तत्र विपणः कार्यः खरकण्डूयितं हि तत 65 एवम एव मनुष्येन्द्र धर्मं तयक्त्वाल्पकं नरः बृहन्तं धर्मम आप्नॊति स बुद्ध इति निश्चितः 66 अमित्रं मित्रसंपन्नं मित्रैर भिन्दन्ति पण्डिताः भिन्नैर मित्रैः परित्यक्तं दुर्बलं कुरुते वशे 67 सत्त्वेन कुरुते युद्धं राजन सुबलवान अपि नॊद्यमेन न हॊत्राब्भिः सर्वाः सवीकुरुते परजाः 68 सर्वथा संहतैर एव दुर्बलैर बलवान अपि अमित्रः शक्यते हन्तुं मधुहा भरमरैर इव 69 यथा राजन परजाः सर्वाः सूर्यः पाति गभस्तिभिः अत्ति चैव तथैव तवं सवितुः सदृशॊ भव 70 एतद धयपि तपॊ राजन पुराणम इति नः शरुतम विधिना पालनं भूमेर यत्कृतं नः पितामहैः 71 अपेयात किल भाः सूर्याल लक्ष्मीश चन्द्रमसस तथा इति लॊके वयवसितॊ दृष्ट्वेमां भवतॊ वयथाम 72 भवतश च परशंसाभिर निन्दाभिर इतरस्य च कथा युक्ताः परिषदः पृथग राजन समागताः 73 इदम अभ्यधिकं राजन बराह्मणा गुरवश च ते समेताः कथयन्तीह मुदिताः सत्यसंधताम 74 यन न मॊहान न कार्पण्यान न लॊभान न भयाद अपि अनृतं किं चिद उक्तं ते न कामान नार्थकारणात 75 यद एनः कुरुते किं चिद राजा भूमिम इवाप्नुवन सर्वं तन नुदते पश्चाद यज्ञैर विपुलदक्षिणैः 76 बराह्मणेभ्यॊ ददद गरामान गाश च राजन सहस्रशः मुच्यते सर्वपापेभ्यस तमॊभ्य इव चन्द्रमाः 77 पौरजानपदाः सर्वे परायशः कुरुनन्दन सवृद्धबालाः सहिताः शंसन्ति तवां युधिष्ठिर 78 शवदृतौ कषीरम आसक्तं बरह्म वा वृषले यथा सत्यं सतेने बलं नार्यां राज्यं दुर्यॊधने तथा 79 इति निर्वचनं लॊके चिरं चरति भारत अपि चैतत सत्रियॊ बालाः सवाध्यायम इव कुर्वते 80 स भवान रथम आस्थाय सर्वॊपकरणान्वितम तवरमाणॊ ऽभिनिर्यातु चिरम अर्थॊपपादकम 81 वाचयित्वा दविजश्रेष्ठान अद्यैव गजसाह्वयम अस्त्रविद्भिः परिवृतॊ भरातृभिर दृठ धन्विभिः आशीविषसमैर वीरैर मरुद्भिर इव वृत्रहा 82 शरियम आदत्स्व कौन्तेय धार्तराष्ट्रान महाबल न हि गाण्डीवमुक्तानां शराणां गार्ध्रवाससाम 83 सपर्शम आशीविषाभानां मर्त्यः कश चन संसहेत न स वीरॊ न मातङ्गॊ न सदश्वॊ ऽसति भारत 84 यः सहेत गदा वेगं मम करुद्धस्य संयुगे सृञ्जयैः सह कैकेयैर वृष्णीनाम ऋषभेण च 85 कथं सविद युधि कौन्तेय राज्यं न पराप्नुयामहे |
1
[vai] yājñasenyā vacaḥ śrutvā bhīmaseno 'tyamarṣaṇaḥ niḥśvasann upasaṃgamya kruddho rājānam abravīt 2 rājyasya padavīṃ dharmyāṃ vraja satpuruṣocitām dharmakāmārtha hīnānāṃ kiṃ no vastuṃ tapovane 3 naiva dharmeṇa tad rājyaṃ nārjavena na caujasā akṣakūṭam adhiṣṭhāya hṛtaṃ duryodhanena naḥ 4 gomāyuneva siṃhānāṃ durbalena balīyasām āmiṣaṃ vighasāśena tadvad rājyaṃ hi no hṛtam 5 dharmaleśa praticchannaḥ prabhavaṃ dharmakāmayoḥ artham utsṛjya kiṃ rājan durgeṣu paritapyase 6 bhavato 'nuvidhānena rājyaṃ naḥ paśyatāṃ hṛtam ahāryam api śakreṇa guptaṃ gāṇḍīvadhanvanā 7 kuṇīnām iva bilvāni paṅgūnām iva dhenavaḥ hṛtam aiśvaryam asmākaṃ jīvatāṃ bhavataḥ kṛte 8 bhavataḥ priyam ity evaṃ mahad vyasanam īdṛśam dharmakāme pratītasya pratipannāḥ sma bhārata 9 karśayāmaḥ svamitrāṇi nandayāmaś ca śātravān ātmānaṃ bhavataḥ śāstre niyamya bharatarṣabha 10 yad vayaṃ na tadaivaitān dhārtarāṣṭrān nihanmahi bhavataḥ śāstram ādāya tan nas tapati duṣkṛtam 11 athainām anvavekṣasva mṛgacaryām ivātmanaḥ avīrācaritāṃ rājan na balasthair niṣevitām 12 yāṃ na kṛṣṇo na bībhatsur nābhimanyur na sṛñjayaḥ na cāham abhinandāmi na ca mādrī sutāv ubhau 13 bhavān dharmo dharma iti satataṃ vratakarśitaḥ kac cid rājan na nirvedād āpannaḥ klība jīvikām 14 durmanuṣyāṃ hi nirvedam aphalaṃ sarvaghātinām aśaktāḥ śriyam āhartum ātmanaḥ kurvate priyam 15 sa bhavān dṛṣṭimāñ śaktaḥ paśyann ātmani pauruṣam ānṛśaṃsya paro rājan nānartham avabudhyase 16 asmān amī dhārtarāṣṭrāḥ kṣamamāṇān alaṃ sataḥ aśaktān eva manyante tadduḥkhaṃ nāhave vadhaḥ 17 tatra ced yudhyamānānām ajihmam anivartinām sarvaśo hi vadhaḥ śreyān pretya lokāṁl labhemahi 18 atha vā vayam evaitān nihatya bharatarṣabha ādadīmahi gāṃ sarvāṃ tathāpi śreya eva naḥ 19 sarvathā kāryam etan naḥ svadharmam anutiṣṭhatām kāṅkṣatāṃ vipulāṃ kīrtiṃ vairaṃ praticikīrṣatām 20 ātmārthaṃ yudhyamānānāṃ vidite kṛtyalakṣaṇe anyair apahṛte rājye praśaṃsaiva na garhaṇā 21 karśanārtho hi yo dharmo mitrāṇām ātmanas tathā vyasanaṃ nāma tad rājan na sā dharmaḥ kudharma tat 22 sarvathā dharmanityaṃ tu puruṣaṃ dharmadurbalam jahatas tāta dharmārthau pretaṃ duḥkhasukhe yathā 23 yasya dharmo hi dharmārthaṃ kleśabhān na sa paṇḍitaḥ na sa dharmasya vedārthaṃ sūryasyāndhaḥ prabhām iva 24 yasya cārthārtham evārthaḥ sa ca nārthasya kovidaḥ rakṣate bhṛtako 'raṇyaṃ yathā syāt tādṛg eva saḥ 25 ativelaṃ hi yo 'rthārthī netarāv anutiṣṭhati sa vadhyaḥ sarvabhūtānāṃ brahmaheva jugupsitaḥ 26 satataṃ yaś ca kāmārthī netarāv anutiṣṭhati mitrāṇi tasya naśyanti dharmārthābbhyāṃ ca hīyate 27 tasya dharmārthahīnasya kāmānte nidhanaṃ dhruvam kāmato ramamāṇasya mīnasyevāmbhasaḥ kṣaye 28 tasmād dharmārthayor nityaṃ na pramādyanti paṇḍitāḥ prakṛtiḥ sā hi kāmasya pāvakasyāraṇir yathā 29 sarvathā dharmamūlo 'rtho dharmaś cārthaparigrahaḥ itaretara yonī tau viddhi meghodadhī yathā 30 dravyārtha sparśasaṃyoge yā prītir upajāyate sa kāmaś cittasaṃkalpaḥ śarīraṃ nāsya vidyate 31 arthārthī puruṣo rājan bṛhantaṃ dharmam ṛcchati artham ṛcchati kāmārthī na kāmād anyam ṛcchatī 32 na hi kāmena kāmo 'nyaḥ sādhyate phalam eva tat upayogāt phalasyeva kāṣṭhād bhasmeva paṇḍitaḥ 33 imāñ śakunikān rājan hanti vaitaṃsiko yathā etad rūpam adharmasya bhūteṣu ca vihiṃsatām 34 kāmāl lobhāc ca dharmasya pravṛttiṃ yo na paśyati sa vadhyaḥ sarvabhūtānāṃ pretya ceha ca durmatiḥ 35 vyaktaṃ te vidito rājann artho dravyaparigrahaḥ prakṛtiṃ cāpi vetthāsya vikṛtiṃ cāpi bhūyasīm 36 tasya nāśaṃ vināśaṃ vā jarayā maraṇena vā anartham iti manyante so 'yam asmāsu vartate 37 indriyāṇāṃ ca pañcānāṃ manaso hṛdayasya ca viṣaye vartamānānāṃ yā prītir upajāyate sa kāma iti me buddhiḥ karmaṇāṃ phalam uttamam 38 evam eva pṛthag dṛṣṭvā dharmārthau kāmam eva ca na dharmapara eva syān nāthārtha paramo naraḥ na kāmaparamo vā syāt sarvān seveta sarvadā 39 dharmaṃ pūrvaṃ dhanaṃ madhye jaghanye kāmam ācaret ahany anucared evam eṣa śāstrakṛto vidhiḥ 40 kāmaṃ pūrvaṃ dhanaṃ madhye jaghanye dharmam ācaret vayasy anucared evam eṣa śāstrakṛto vidhiḥ 41 dharmaṃ cārthaṃ ca kāmaṃ ca yathāvad vadatāṃ vara vibhajya kāle kālajñaḥ sarvān seveta paṇḍitaḥ 42 mokṣo vā paramaṃ śreya eṣa rājan sukhārthinām prāptir vā buddhim āsthāya sopāyaṃ kurunandana 43 tad vāśu kriyatāṃ rājan prāptir vāpy adhigamyatām jīvitaṃ hy āturasyeva duḥkham antaravartinaḥ 44 viditaś caiva te dharmaḥ satataṃ caritaś ca te jānate tvayi śaṃsanti suhṛdaḥ karmacodanām 45 dānaṃ yajñaṃ satāṃ pūjā veda dhāraṇam ārjavam eṣa dharmaḥ paro rājan phalavān pretya ceha ca 46 eṣa nārthavihīnena śakyo rājan niṣevitum akhilāḥ puruṣavyāghra guṇāḥ syur yady apītare 47 dharmamūlaṃ jagad rājan nānyad dharmād viśiṣyate dharmaś cārthena mahatā śakyo rājan niṣevitum 48 na cārtho bhaikṣa caryeṇa nāpi klaibyena karhi cit vettuṃ śakyaḥ sadā rājan kevalaṃ dharmabuddhinā 49 pratiṣiddhā hi te yācñā yayā sidhyati vai dvijaḥ tejasaivārtha lipsāyāṃ yatasva puruṣarṣabha 50 bhaikṣa caryā na vihitā na ca viṭ śūdra jīvikā kṣatriyasya viśeṣeṇa dharmas tu balam aurasam 51 udāram eva vidvāṃso dharmaṃ prāhur manīṣiṇaḥ udāraṃ pratipadyasva nāvare sthātum arhasi 52 anubudhyasva rājendra vettha dharmān sanātanān krūrakarmābhijāto 'si yasmād udvijate janaḥ 53 prajāpālanasaṃbhūtaṃ phalaṃ tava na garhitam eṣa te vihito rājan dhātrā dharmaḥ sanātanaḥ 54 tasmād vicalitaḥ pārtha loke hāsyaṃ gamiṣyasi svadharmād dhi manuṣyāṇāṃ calanaṃ na praśasyate 55 sa kṣātraṃ hṛdayaṃ kṛtvā tyaktvedaṃ śithilaṃ manaḥ vīryam āsthāya kaunteya dhuram udvaha dhuryavat 56 na hi kevaladharmātmā pṛthivīṃ jātu kaś cana pārthivo vyajayad rājan na bhūtiṃ na punaḥ śriyam 57 jihvāṃ dattvā bahūnāṃ hi kṣudrāṇāṃ lubdha cetasām nikṛtyā labhate rājyam āhāram iva śalyakaḥ 58 bhrātaraḥ pūrvajātāś ca susamṛddhāś ca sarvaśaḥ nikṛtyā nirjitā devair asurāḥ pāṇḍavarṣabha 59 evaṃ balavataḥ sarvam iti buddhvā mahīpate jahi śatrūn mahābāho parāṃ nikṛtim āsthitaḥ 60 na hy arjuna samaḥ kaś cid yudhi yoddhā dhanurdharaḥ bhavitā vā pumān kaś cin matsamo vā gadādharaḥ 61 sattvena kurute yuddhaṃ rājan subalavān api na pramāṇena notsāhāt sattvastho bhava pāṇḍava 62 sattvaṃ hi mūlam arthasya vitathaṃ yad ayo 'nyathā na tu prasaktaṃ bhavati vṛkṣac chāyeva haimanī 63 arthatyāgo hi kāryaḥ syād arthaṃ śreyāṃsam icchatā bījaupamyena kaunteya mā te bhūd atra saṃśayaḥ 64 arthena tu samo 'nartho yatra labhyeta nodayaḥ na tatra vipaṇaḥ kāryaḥ kharakaṇḍūyitaṃ hi tat 65 evam eva manuṣyendra dharmaṃ tyaktvālpakaṃ naraḥ bṛhantaṃ dharmam āpnoti sa buddha iti niścitaḥ 66 amitraṃ mitrasaṃpannaṃ mitrair bhindanti paṇḍitāḥ bhinnair mitraiḥ parityaktaṃ durbalaṃ kurute vaśe 67 sattvena kurute yuddhaṃ rājan subalavān api nodyamena na hotrābbhiḥ sarvāḥ svīkurute prajāḥ 68 sarvathā saṃhatair eva durbalair balavān api amitraḥ śakyate hantuṃ madhuhā bhramarair iva 69 yathā rājan prajāḥ sarvāḥ sūryaḥ pāti gabhastibhiḥ atti caiva tathaiva tvaṃ savituḥ sadṛśo bhava 70 etad dhyapi tapo rājan purāṇam iti naḥ śrutam vidhinā pālanaṃ bhūmer yatkṛtaṃ naḥ pitāmahaiḥ 71 apeyāt kila bhāḥ sūryāl lakṣmīś candramasas tathā iti loke vyavasito dṛṣṭvemāṃ bhavato vyathām 72 bhavataś ca praśaṃsābhir nindābhir itarasya ca kathā yuktāḥ pariṣadaḥ pṛthag rājan samāgatāḥ 73 idam abhyadhikaṃ rājan brāhmaṇā guravaś ca te sametāḥ kathayantīha muditāḥ satyasaṃdhatām 74 yan na mohān na kārpaṇyān na lobhān na bhayād api anṛtaṃ kiṃ cid uktaṃ te na kāmān nārthakāraṇāt 75 yad enaḥ kurute kiṃ cid rājā bhūmim ivāpnuvan sarvaṃ tan nudate paścād yajñair vipuladakṣiṇaiḥ 76 brāhmaṇebhyo dadad grāmān gāś ca rājan sahasraśaḥ mucyate sarvapāpebhyas tamobhya iva candramāḥ 77 paurajānapadāḥ sarve prāyaśaḥ kurunandana savṛddhabālāḥ sahitāḥ śaṃsanti tvāṃ yudhiṣṭhira 78 śvadṛtau kṣīram āsaktaṃ brahma vā vṛṣale yathā satyaṃ stene balaṃ nāryāṃ rājyaṃ duryodhane tathā 79 iti nirvacanaṃ loke ciraṃ carati bhārata api caitat striyo bālāḥ svādhyāyam iva kurvate 80 sa bhavān ratham āsthāya sarvopakaraṇānvitam tvaramāṇo 'bhiniryātu ciram arthopapādakam 81 vācayitvā dvijaśreṣṭhān adyaiva gajasāhvayam astravidbhiḥ parivṛto bhrātṛbhir dṛṭha dhanvibhiḥ āśīviṣasamair vīrair marudbhir iva vṛtrahā 82 śriyam ādatsva kaunteya dhārtarāṣṭrān mahābala na hi gāṇḍīvamuktānāṃ śarāṇāṃ gārdhravāsasām 83 sparśam āśīviṣābhānāṃ martyaḥ kaś cana saṃsahet na sa vīro na mātaṅgo na sadaśvo 'sti bhārata 84 yaḥ saheta gadā vegaṃ mama kruddhasya saṃyuge sṛñjayaiḥ saha kaikeyair vṛṣṇīnām ṛṣabheṇa ca 85 kathaṃ svid yudhi kaunteya rājyaṃ na prāpnuyāmahe |
The Mahabharata in Sanskrit
Book 3
Chapter 35
|
1
[य] असंशयं भारत सत्यम एतद; यन मा तुदन वाक्यशल्यैः कषिणॊषि न तवा विगर्हे परतिकूलम एतन; ममानयाद धि वयसनं व आगात 2 अहं हय अक्षान अन्वपद्यं जिहीर्षन; राज्यं सराष्ट्रं धृतराष्ट्रस्य पुत्रात तन मा शठः कितव्वः परत्यदेवीत; सुयॊधनार्थं सुबलस्य पुत्रः 3 महामायः शकुनिः पार्वतीयः; सदा सभायां परवपन्न अक्षपूगान अमायिनं मायया परत्यदेवीत; ततॊ ऽपश्यं वृजिनं भीमसेन 4 अक्षान हि दृष्ट्वा शकुनेर यथावत; कामानुलॊमान अयुजॊ युजश च शक्यं नियन्तुम अभविष्यद आत्मा; मन्युस तु हन्ति पुरुषस्य धैर्यम 5 यन्तुं नात्मा शक्यते पौरुषेण; मानेन वीर्येण च तात नद्धः न ते वाचं भीमसेनाभ्यसूये; मन्ये तथा तद भवितव्यम आसीत 6 स नॊ राजा धृतराष्ट्रस्य पुत्रॊ; नयपातयद वयसने राज्यम इच्छन दास्यं च नॊ ऽगमयद भीमसेन; यत्राभवच छरणं दरौपदी नः 7 तवं चापि तद वेत्थ धनंजयश च; पुनर्द्यूतायागतानां सभां नः यन माब्रवीद धृतराष्ट्रस्य पुत्र; एकग्लहार्थं भरतानां समक्षम 8 वने समा दवादश राजपुत्र; यथाकामं विदितम अजातशत्रॊ अथापरं चाविदितं चरेथाः; सर्वैः सह भरातृभिश छद्म गूढः 9 तवां चेच छरुत्वा तात तथा चरन्तम; अवभॊत्स्यन्ते भरतानां चराः सम अन्यांश चरेथास तावतॊ ऽबदांस ततस तवं; निश्चित्य तत परतिजानीहि पार्थ 10 चरैश चेन नॊ ऽविदितः कालम एतं; युक्तॊ राजन मॊहयित्वा मदीयान बरवीमि सत्यं कुरुसंसदीह; तवैव ता भारत पञ्च नद्यः 11 वयं चैवं भरातरः सर्व एव; तवया जिताः कालम अपास्य भॊगान वसेम इत्य आह पुरा स राजा; मध्ये कुरूणां स मयॊक्तस तथेति 12 तत्र दयूतम अभवन नॊ जघन्यं; तस्मिञ जिताः परव्रजिताश च सर्वे इत्थं च देशान अनुसंचरामॊ; वनानि कृच्छ्राणि च कृच्छ्ररूपाः 13 सुयॊधनश चापि न शान्तिम इच्छन; भूयः स मन्यॊर वशम अन्वगच्छत उद्यॊजायाम आस कुरूंश च सर्वान; ये चास्य के चिद वशम अन्वगच्छन 14 तं संधिम आस्थाय सतां सकाशे; कॊ नाम जह्याद इह राज्यहेतॊः आर्यस्य मन्ये मरणाद गरीयॊ; यद धर्मम उत्क्रम्य महीं परशिष्यात 15 तदैव चेद वीरकर्माकरिष्यॊ; यदा दयूते परिघं पर्यमृक्षः बाहू दिधक्षन वारितः फल्गुनेन; किं दुष्कृतं भीम तदाब्भविष्यत 16 पराग एव चैवं समयक्रियायाः; किं नाब्रवीः पौरुषम आविदानः पराप्तं तु कालं तव अभिपद्य पश्चाद; इं माम इदानीम अतिवेलम आत्थ 17 भूयॊ ऽपि दुःखं मम भीमसेन; दूये विषस्येव रसं विदित्वा यद याज्ञसेनीं परिकृष्यमाणां; संदृश्य तत कषान्तम इति सम भीम 18 न तव अद्य शक्यं भरत परवीर; कृत्वा यद उक्तं कुरुवीरमध्ये कालं परतीक्षस्व सुखॊदयस्य; पङ्क्तिं फलानाम इव बीजवापः 19 यदा हि पूर्वं निकृतॊ निकृत्या; वैरं सपुष्पं सफलं विदित्वा महागुणं हरति हि पौरुषेण; तदा वीरॊ जीवति जीवलॊके 20 शरियं च लॊके लभते समग्रां; मन्ये चास्मै शत्रवः संनमन्ते मित्राणि चैनम अतिरागाद भजन्ते; देवा इवेन्द्रम अनुजीवन्ति चैनम 21 मम परतिज्ञां च निबॊध सत्यां; वृणे धर्मम अमृताज जीविताच च राज्यं च पुत्राश च यशॊ धनं च; सर्वं न सत्यस्य कलाम उपैति |
1
[y] asaṃśayaṃ bhārata satyam etad; yan mā tudan vākyaśalyaiḥ kṣiṇoṣi na tvā vigarhe pratikūlam etan; mamānayād dhi vyasanaṃ va āgāt 2 ahaṃ hy akṣān anvapadyaṃ jihīrṣan; rājyaṃ sarāṣṭraṃ dhṛtarāṣṭrasya putrāt tan mā śaṭhaḥ kitavvaḥ pratyadevīt; suyodhanārthaṃ subalasya putraḥ 3 mahāmāyaḥ śakuniḥ pārvatīyaḥ; sadā sabhāyāṃ pravapann akṣapūgān amāyinaṃ māyayā pratyadevīt; tato 'paśyaṃ vṛjinaṃ bhīmasena 4 akṣān hi dṛṣṭvā śakuner yathāvat; kāmānulomān ayujo yujaś ca śakyaṃ niyantum abhaviṣyad ātmā; manyus tu hanti puruṣasya dhairyam 5 yantuṃ nātmā śakyate pauruṣeṇa; mānena vīryeṇa ca tāta naddhaḥ na te vācaṃ bhīmasenābhyasūye; manye tathā tad bhavitavyam āsīt 6 sa no rājā dhṛtarāṣṭrasya putro; nyapātayad vyasane rājyam icchan dāsyaṃ ca no 'gamayad bhīmasena; yatrābhavac charaṇaṃ draupadī naḥ 7 tvaṃ cāpi tad vettha dhanaṃjayaś ca; punardyūtāyāgatānāṃ sabhāṃ naḥ yan mābravīd dhṛtarāṣṭrasya putra; ekaglahārthaṃ bharatānāṃ samakṣam 8 vane samā dvādaśa rājaputra; yathākāmaṃ viditam ajātaśatro athāparaṃ cāviditaṃ carethāḥ; sarvaiḥ saha bhrātṛbhiś chadma gūḍhaḥ 9 tvāṃ cec chrutvā tāta tathā carantam; avabhotsyante bharatānāṃ carāḥ sma anyāṃś carethās tāvato 'bdāṃs tatas tvaṃ; niścitya tat pratijānīhi pārtha 10 caraiś cen no 'viditaḥ kālam etaṃ; yukto rājan mohayitvā madīyān bravīmi satyaṃ kurusaṃsadīha; tavaiva tā bhārata pañca nadyaḥ 11 vayaṃ caivaṃ bhrātaraḥ sarva eva; tvayā jitāḥ kālam apāsya bhogān vasema ity āha purā sa rājā; madhye kurūṇāṃ sa mayoktas tatheti 12 tatra dyūtam abhavan no jaghanyaṃ; tasmiñ jitāḥ pravrajitāś ca sarve itthaṃ ca deśān anusaṃcarāmo; vanāni kṛcchrāṇi ca kṛcchrarūpāḥ 13 suyodhanaś cāpi na śāntim icchan; bhūyaḥ sa manyor vaśam anvagacchat udyojāyām āsa kurūṃś ca sarvān; ye cāsya ke cid vaśam anvagacchan 14 taṃ saṃdhim āsthāya satāṃ sakāśe; ko nāma jahyād iha rājyahetoḥ āryasya manye maraṇād garīyo; yad dharmam utkramya mahīṃ praśiṣyāt 15 tadaiva ced vīrakarmākariṣyo; yadā dyūte parighaṃ paryamṛkṣaḥ bāhū didhakṣan vāritaḥ phalgunena; kiṃ duṣkṛtaṃ bhīma tadābbhaviṣyat 16 prāg eva caivaṃ samayakriyāyāḥ; kiṃ nābravīḥ pauruṣam āvidānaḥ prāptaṃ tu kālaṃ tv abhipadya paścād; iṃ mām idānīm ativelam āttha 17 bhūyo 'pi duḥkhaṃ mama bhīmasena; dūye viṣasyeva rasaṃ viditvā yad yājñasenīṃ parikṛṣyamāṇāṃ; saṃdṛśya tat kṣāntam iti sma bhīma 18 na tv adya śakyaṃ bharata pravīra; kṛtvā yad uktaṃ kuruvīramadhye kālaṃ pratīkṣasva sukhodayasya; paṅktiṃ phalānām iva bījavāpaḥ 19 yadā hi pūrvaṃ nikṛto nikṛtyā; vairaṃ sapuṣpaṃ saphalaṃ viditvā mahāguṇaṃ harati hi pauruṣeṇa; tadā vīro jīvati jīvaloke 20 śriyaṃ ca loke labhate samagrāṃ; manye cāsmai śatravaḥ saṃnamante mitrāṇi cainam atirāgād bhajante; devā ivendram anujīvanti cainam 21 mama pratijñāṃ ca nibodha satyāṃ; vṛṇe dharmam amṛtāj jīvitāc ca rājyaṃ ca putrāś ca yaśo dhanaṃ ca; sarvaṃ na satyasya kalām upaiti |
The Mahabharata in Sanskrit
Book 3
Chapter 36
|
1
[भि] संधिं कृत्वैव कालेन अन्तकेन पतत्रिणा अनन्तेनाप्रमेयेन सरॊतसा सर्वहारिणा 2 परत्यक्षं मन्यसे कालं मर्त्यः सन कालबन्धनः फेनधर्मा महाराज फलधर्मा तथैव च 3 निमेषाद अपि कौन्तेय यस्यायुर अपचीयते सूच्येवाञ्जन चूर्णस्य किम इति परतिपालयेत 4 यॊ नूनम अमितायुः सयाद अथ वापि परमाणवित स कालं वै परतीक्षेत सर्वप्रत्यक्षदर्शिवान 5 परतीक्षमाणान कालॊ नः समा राजंस तरयॊ दश आयुषॊ ऽपचयं कृत्वा मरणायॊपनेष्यति 6 शरीरिणां हि मरणं शरीरे नित्यम आश्रितम पराग एव मरणात तस्माद राज्यायैव घटामहे 7 यॊ न याति परसंख्यानम अस्पष्टॊ भूमिवर्धनः अयातयित्वा वैराणि सॊ ऽवसीदति गौर इव 8 यॊ न यातयते वैरम अल्पसत्त्वॊद्यमः पुमान अफलं तस्य जन्माहं मन्ये दुर्जात जायिनः 9 हैरण्यौ भवतॊ बाहू शरुतिर भवति पार्थिव हत्वा दविषन्तं संग्रामे भुक्त्वा बाह्वर्जितं वसुः 10 हत्वा चेत पुरुषॊ राजन निकर्तारम अरिंदम अह्नाय नरकं गच्छेत सवर्गेणास्य स संमितः 11 अमर्षजॊ हि संतापः पावकाद दीप्तिमत्तरः येनाहम अभिसंतप्तॊ न नक्तं न दिवा शये 12 अयं च पार्थॊ बीभत्सुर वरिष्ठॊ जया विकर्षणे आस्ते परमसंतप्तॊ नूनं सिंह इवाशये 13 यॊ ऽयम एकॊ ऽभिमनुते सर्वाँल लॊके धनुर्भृतः सॊ ऽयम आत्मजम ऊष्माणं महाहस्तीव यच्छति 14 नकुलः सहदेवश च वृद्धा माता च वीरसूः तवैव परियम इच्छन्त आसते जड मूकवत 15 सवे ते परियम इच्छन्ति बन्धवाः सह सृञ्जयैः अहम एकॊ ऽभिसंतप्तॊ माता च परतिविन्ध्यतः 16 परियम एव तु सर्वेषां यद बरवीम्य उत किं चन सर्वे ही वयसनं पराप्ताः सर्वे युद्धाभिनन्दिनः 17 नेतः पापीयसी का चिद आपद राजन भविष्यति यन नॊ नीचैर अल्पबलै राज्यम आच्छिद्य भुज्यते 18 शीलदॊषाद घृणाविष्ट आनृशंस्यात परंतप कलेशांस तितिक्षसे राजन नान्यः कश चित परशंसति 19 घृणी बराह्मणरूपॊ ऽसि कथं कषत्रे अजायथाः अस्यां हि यॊनौ जायन्ते परायशः करूर बुद्धयः 20 अश्रौषीस तवं राजधर्मान यथा वै मनुर अब्रवीत करूरान निकृतिसंयुक्तान विहितान अशमात्मकान 21 कर्तव्ये पुरुषव्याघ्र किम आस्से पीठ सर्पवत बुद्ध्या वीर्येण संयुक्तः शरुतेनाभिजनेन च 22 तृणानां मुष्टिनैकेन हिमवन्तं तु पर्वतम छन्नम इच्छसि कौन्तेय यॊ ऽसमान संवर्तुम इच्छसि 23 अज्ञातचर्या गूढेन पृथिव्यां विश्रुतेन च दिवीव पार्थ सूर्येण न शक्या चरितुं तवया 24 बृहच छाल इवानूपे शाखा पुष्पपलाशवान हस्ती शवेत इवाज्ञातः कथं जिष्णुश चरिष्यति 25 इमौ च सिंहसंकाशौ भरातरौ सहितौ शिशू नकुलः सहदेवश च कथं पार्थ चरिष्यतः 26 पुण्यकीर्ती राजपुत्री दरौपदी वीरसूर इयम विश्रुता कथम अज्ञाता कृष्णा पार्थ चरिश्यति 27 मां चापि राजञ जानन्ति आकुमारम इमाः परजाः अज्ञातचर्यां पश्यामि मेरॊर इव निगूहनम 28 तथैव बहवॊ ऽसमाभी राष्ट्रेभ्यॊ विप्रवासिताः राजानॊ राजपुत्राश च धृतराष्ट्रम अनुव्रताः 29 न हि ते ऽपय उपशाम्यन्ति निकृतानां निराकृताः अवश्यं तैर निकर्तव्यम अस्माकं तत्प्रियैषिभिः 30 ते ऽपय अस्मासु परयुञ्जीरन परच्छन्नान सुबहूञ जनान आचक्षीरंश च नॊ जञात्वा तन नः सयात सुमहद भयम 31 अस्माभिर उषिताः सम्यग वने मासास तरयॊदश परिमाणेन तान पश्य तावतः परिवत्सरान 32 अस्ति मासः परतिनिधिर यथा पराहुर मनीषिणः पूतिकान इव सॊमस्य तथेदं करियताम इति 33 अथ वानडुहे राजन साधवे साधु वाहिने सौहित्य दानाद एकस्माद एनसः परतिमुच्यते 34 तस्माच छत्रुवधे राजन करियतां निश्चयस तवया कषत्रियस्य तु सर्वस्य नान्यॊ धर्मॊ ऽसति संयुगात |
1
[bhi] saṃdhiṃ kṛtvaiva kālena antakena patatriṇā anantenāprameyena srotasā sarvahāriṇā 2 pratyakṣaṃ manyase kālaṃ martyaḥ san kālabandhanaḥ phenadharmā mahārāja phaladharmā tathaiva ca 3 nimeṣād api kaunteya yasyāyur apacīyate sūcyevāñjana cūrṇasya kim iti pratipālayet 4 yo nūnam amitāyuḥ syād atha vāpi pramāṇavit sa kālaṃ vai pratīkṣeta sarvapratyakṣadarśivān 5 pratīkṣamāṇān kālo naḥ samā rājaṃs trayo daśa āyuṣo 'pacayaṃ kṛtvā maraṇāyopaneṣyati 6 śarīriṇāṃ hi maraṇaṃ śarīre nityam āśritam prāg eva maraṇāt tasmād rājyāyaiva ghaṭāmahe 7 yo na yāti prasaṃkhyānam aspaṣṭo bhūmivardhanaḥ ayātayitvā vairāṇi so 'vasīdati gaur iva 8 yo na yātayate vairam alpasattvodyamaḥ pumān aphalaṃ tasya janmāhaṃ manye durjāta jāyinaḥ 9 hairaṇyau bhavato bāhū śrutir bhavati pārthiva hatvā dviṣantaṃ saṃgrāme bhuktvā bāhvarjitaṃ vasuḥ 10 hatvā cet puruṣo rājan nikartāram ariṃdama ahnāya narakaṃ gacchet svargeṇāsya sa saṃmitaḥ 11 amarṣajo hi saṃtāpaḥ pāvakād dīptimattaraḥ yenāham abhisaṃtapto na naktaṃ na divā śaye 12 ayaṃ ca pārtho bībhatsur variṣṭho jyā vikarṣaṇe āste paramasaṃtapto nūnaṃ siṃha ivāśaye 13 yo 'yam eko 'bhimanute sarvāṁl loke dhanurbhṛtaḥ so 'yam ātmajam ūṣmāṇaṃ mahāhastīva yacchati 14 nakulaḥ sahadevaś ca vṛddhā mātā ca vīrasūḥ tavaiva priyam icchanta āsate jaḍa mūkavat 15 save te priyam icchanti bandhavāḥ saha sṛñjayaiḥ aham eko 'bhisaṃtapto mātā ca prativindhyataḥ 16 priyam eva tu sarveṣāṃ yad bravīmy uta kiṃ cana sarve hī vyasanaṃ prāptāḥ sarve yuddhābhinandinaḥ 17 netaḥ pāpīyasī kā cid āpad rājan bhaviṣyati yan no nīcair alpabalai rājyam ācchidya bhujyate 18 śīladoṣād ghṛṇāviṣṭa ānṛśaṃsyāt paraṃtapa kleśāṃs titikṣase rājan nānyaḥ kaś cit praśaṃsati 19 ghṛṇī brāhmaṇarūpo 'si kathaṃ kṣatre ajāyathāḥ asyāṃ hi yonau jāyante prāyaśaḥ krūra buddhayaḥ 20 aśrauṣīs tvaṃ rājadharmān yathā vai manur abravīt krūrān nikṛtisaṃyuktān vihitān aśamātmakān 21 kartavye puruṣavyāghra kim āsse pīṭha sarpavat buddhyā vīryeṇa saṃyuktaḥ śrutenābhijanena ca 22 tṛṇānāṃ muṣṭinaikena himavantaṃ tu parvatam channam icchasi kaunteya yo 'smān saṃvartum icchasi 23 ajñātacaryā gūḍhena pṛthivyāṃ viśrutena ca divīva pārtha sūryeṇa na śakyā carituṃ tvayā 24 bṛhac chāla ivānūpe śākhā puṣpapalāśavān hastī śveta ivājñātaḥ kathaṃ jiṣṇuś cariṣyati 25 imau ca siṃhasaṃkāśau bhrātarau sahitau śiśū nakulaḥ sahadevaś ca kathaṃ pārtha cariṣyataḥ 26 puṇyakīrtī rājaputrī draupadī vīrasūr iyam viśrutā katham ajñātā kṛṣṇā pārtha cariśyati 27 māṃ cāpi rājañ jānanti ākumāram imāḥ prajāḥ ajñātacaryāṃ paśyāmi meror iva nigūhanam 28 tathaiva bahavo 'smābhī rāṣṭrebhyo vipravāsitāḥ rājāno rājaputrāś ca dhṛtarāṣṭram anuvratāḥ 29 na hi te 'py upaśāmyanti nikṛtānāṃ nirākṛtāḥ avaśyaṃ tair nikartavyam asmākaṃ tatpriyaiṣibhiḥ 30 te 'py asmāsu prayuñjīran pracchannān subahūñ janān ācakṣīraṃś ca no jñātvā tan naḥ syāt sumahad bhayam 31 asmābhir uṣitāḥ samyag vane māsās trayodaśa parimāṇena tān paśya tāvataḥ parivatsarān 32 asti māsaḥ pratinidhir yathā prāhur manīṣiṇaḥ pūtikān iva somasya tathedaṃ kriyatām iti 33 atha vānaḍuhe rājan sādhave sādhu vāhine sauhitya dānād ekasmād enasaḥ pratimucyate 34 tasmāc chatruvadhe rājan kriyatāṃ niścayas tvayā kṣatriyasya tu sarvasya nānyo dharmo 'sti saṃyugāt |
The Mahabharata in Sanskrit
Book 3
Chapter 37
|
1
[वै] भीमसेनवचः शरुत्वा कुन्तीपुत्रॊ युधिष्ठिरः निःश्वस्य पुरुषव्याघ्रः संप्रदध्यौ परंतपः 2 स मुहूर्तम इव धयात्वा विनिश्चित्येति कृत्यताम भीमसेनम इदं वाक्यम अपदान्तरम अब्रवीत 3 एवम एतन महाबाहॊ यथा वदसि भारत इदम अन्यत समाधत्स्व वाक्यं मे वाक्यकॊविद 4 महापापानि कर्माणि यानि केवलसाहसात आरभ्यन्ते भीमसेन वयथन्ते तानि भारत 5 सुमन्त्रिते सुविक्रान्ते सुकृते सुविचारिते सिध्यन्त्य अर्था महाबाहॊ दैवं चात्र परदक्षिणम 6 तवं तु केवलचापल्याद बलदर्पॊच्छ्रितः सवयम आरब्धव्यम इदं कर्म मन्यसे शृणु तत्र मे 7 भूरिश्रवाः शलश चैव जलसंधश च वीर्यवान भीष्मॊ दरॊणश च कर्णश च दरॊणपुत्रश च वीर्यवान 8 धार्तराष्ट्रा दुराधर्षा दुर्यॊधन पुरॊगमाः सर्व एव कृतास्त्राश च सततं चाततायिनः 9 राजानः पार्थिवाश चैव ये ऽसमाभिर उपतापिताः संश्रिताः कौरवं पक्षं जातस्नेहाश च सांप्रतम 10 दुर्यॊधन हिते युक्ता न तथास्मासु भारत पूर्णकॊशा बलॊपेताः परयतिष्यन्ति रक्षणे 11 सर्वे कौरव सैन्यस्य सपुत्रामात्यसैनिकाः संविभक्ता हि मात्राभिर भॊगैर अपि च सर्वशः 12 दुर्यॊधनेन ते वीरा मानिताश च विशेषतः पराणांस तयक्ष्यन्ति संग्रामे इति मे निश्चिता मतिः 13 समा यद्य अपि भीष्मस्य वृत्तिर अस्मासु तेषु च दरॊणस्य च महाबाहॊ कृपस्य च महात्मनः 14 अवश्यं राजपिण्डस तैर निर्वेश्य इति मे मतिः तस्मात तयक्ष्यन्ति संग्रामे पराणान अपि सुदुस्त्यजान 15 सर्वे दिव्यास्त्रविद्वांसः सर्वे धर्मपरायणाः अजेयाश चेति मे बुद्धिर अपि देवैः सवासवैः 16 अमर्षी नित्यसंहृष्टस तत्र कर्णॊ महारथः सर्वास्त्रविद अनाधृष्य अभेद्यकवचावृतः 17 अनिर्जित्य रणे सर्वान एतान पुरुषसत्तमान अशक्यॊ हय असहायेन हन्तुं दुर्यॊधनस तवया 18 न निद्राम अधिगच्छामि चिन्तयानॊ वृकॊदर अति सर्वान धनुर गराहान सूतपुत्रस्य लाघवम 19 एतद वचनम आज्ञाय भीमसेनॊ ऽतयमर्षणः बभूव विमनास तरस्तॊ न चैवॊवाच किं चन 20 तयॊः संवदतॊर एवं तदा पाण्डवयॊर दवयॊः आजगाम महायॊगी वयासः सत्यवती सुतः 21 सॊ ऽभिगम्य यथान्यायं पाण्डवैः परतिपूजितः युधिष्ठिरम इदं वाक्यम उवाच वदतां वरः 22 युधिष्ठिर महाबाहॊ वेद्मि ते हृदि मानसम मनीषया ततः कषिप्रम आगतॊ ऽसमि नरर्षभ 23 भीष्माद दरॊणात कृपात कर्णाद दरॊणपुत्राच च भारत यत ते भयम अमित्रघ्न हृदि संपरिवर्तते 24 तत ते ऽहं नाशयिष्यामि विधिदृष्टेन हेतुना तच छरुत्वा धृतिम आस्थाय कर्मणा परतिपादय 25 तत एकान्तम उन्नीय पाराशर्यॊ युधिष्ठिरम अब्रवीद उपपन्नार्थम इदं वाक्यविशारदः 26 शरेयसस ते परः कालः पराप्तॊ भरतसत्तम येनाभिभविता शत्रून रणे पार्थॊ धनंजयः 27 गृहाणेमां मया परॊक्तां सिद्धिं मूर्तिमतीम इव विद्यां परतिस्मृतिं नाम परपन्नाय बरवीमि ते याम अवाप्य महाबाहुर अर्जुनः साधयिष्यति 28 अस्त्रहेतॊर महेन्द्रं च रुद्रं चैवाभिगच्छतु वरुणं च धनेशं च धर्मराजं च पाण्डव शक्तॊ हय एष सुरान दरष्टुं तपसा विक्रमेण च 29 ऋषिर एष महातेजा नारायण सहायवान पुराणः शाश्वतॊ देवॊ विष्णॊर अंशः सनातनः 30 अस्त्राणीन्द्राच च रुद्राच च लॊकपालेभ्य एव च समादाय महाबाहुर महत कर्म करिष्यति 31 वदाद अस्माच च कौन्तेय वनम अन्यद विचिन्त्यताम निवासार्थाय यद युक्तं भवेद वः पृथिवीपते 32 एकत्र चिरवासॊ हि न परीतिजननॊ भवेत तापसानां च शान्तानां भवेद उद्वेग कारकः 33 मृगाणाम उपयॊगश च वीरुद ओषधिसंक्षयः विभर्षि हि बहून विप्रान वेदवेदाङ्गपारगान 34 एवम उक्त्वा परपन्नाय शुचये भगवान परभुः परॊवाच यॊगतत्त्वज्ञॊ यॊगविद्याम अनुत्तमाम 35 धर्मराज्ञे तदा धीमान वयासः सत्यवती सुतः अनुज्ञाय च कौन्तेयं तत्रैवान्तरधीयत 36 युधिष्ठिरस तु धर्मात्मा तद बरह्म मनसा यतः धारयाम आस मेधावी काले काले समब्भ्यसन 37 स वयासवाक्यमुदितॊ वनाद दवैतवनात ततः ययौ सरस्वती तीरे काम्यकं नाम काननम 38 तम अन्वयुर महाराज शिक्षा कषरविदस तथा बराह्मणास तपसा युक्ता देवेन्द्रम ऋषयॊ यथा 39 ततः काम्यकम आसाद्य पुनस ते भरतर्षभाः नयविशन्त महात्मानः सामात्याः सपदानुगाः 40 तत्र ते नयवसन राजन कं चित कालं मनस्विनः धनुर्वेद परा वीरा शृण्वाना वेदम उत्तमम 41 चरन्तॊ मृगयां नित्यं शुद्धैर बाणैर मृगार्थिनः पितृदैवतविप्रेभ्यॊ निर्वपन्तॊ यथाविधि |
1
[vai] bhīmasenavacaḥ śrutvā kuntīputro yudhiṣṭhiraḥ niḥśvasya puruṣavyāghraḥ saṃpradadhyau paraṃtapaḥ 2 sa muhūrtam iva dhyātvā viniścityeti kṛtyatām bhīmasenam idaṃ vākyam apadāntaram abravīt 3 evam etan mahābāho yathā vadasi bhārata idam anyat samādhatsva vākyaṃ me vākyakovida 4 mahāpāpāni karmāṇi yāni kevalasāhasāt ārabhyante bhīmasena vyathante tāni bhārata 5 sumantrite suvikrānte sukṛte suvicārite sidhyanty arthā mahābāho daivaṃ cātra pradakṣiṇam 6 tvaṃ tu kevalacāpalyād baladarpocchritaḥ svayam ārabdhavyam idaṃ karma manyase śṛṇu tatra me 7 bhūriśravāḥ śalaś caiva jalasaṃdhaś ca vīryavān bhīṣmo droṇaś ca karṇaś ca droṇaputraś ca vīryavān 8 dhārtarāṣṭrā durādharṣā duryodhana purogamāḥ sarva eva kṛtāstrāś ca satataṃ cātatāyinaḥ 9 rājānaḥ pārthivāś caiva ye 'smābhir upatāpitāḥ saṃśritāḥ kauravaṃ pakṣaṃ jātasnehāś ca sāṃpratam 10 duryodhana hite yuktā na tathāsmāsu bhārata pūrṇakośā balopetāḥ prayatiṣyanti rakṣaṇe 11 sarve kaurava sainyasya saputrāmātyasainikāḥ saṃvibhaktā hi mātrābhir bhogair api ca sarvaśaḥ 12 duryodhanena te vīrā mānitāś ca viśeṣataḥ prāṇāṃs tyakṣyanti saṃgrāme iti me niścitā matiḥ 13 samā yady api bhīṣmasya vṛttir asmāsu teṣu ca droṇasya ca mahābāho kṛpasya ca mahātmanaḥ 14 avaśyaṃ rājapiṇḍas tair nirveśya iti me matiḥ tasmāt tyakṣyanti saṃgrāme prāṇān api sudustyajān 15 sarve divyāstravidvāṃsaḥ sarve dharmaparāyaṇāḥ ajeyāś ceti me buddhir api devaiḥ savāsavaiḥ 16 amarṣī nityasaṃhṛṣṭas tatra karṇo mahārathaḥ sarvāstravid anādhṛṣya abhedyakavacāvṛtaḥ 17 anirjitya raṇe sarvān etān puruṣasattamān aśakyo hy asahāyena hantuṃ duryodhanas tvayā 18 na nidrām adhigacchāmi cintayāno vṛkodara ati sarvān dhanur grāhān sūtaputrasya lāghavam 19 etad vacanam ājñāya bhīmaseno 'tyamarṣaṇaḥ babhūva vimanās trasto na caivovāca kiṃ cana 20 tayoḥ saṃvadator evaṃ tadā pāṇḍavayor dvayoḥ ājagāma mahāyogī vyāsaḥ satyavatī sutaḥ 21 so 'bhigamya yathānyāyaṃ pāṇḍavaiḥ pratipūjitaḥ yudhiṣṭhiram idaṃ vākyam uvāca vadatāṃ varaḥ 22 yudhiṣṭhira mahābāho vedmi te hṛdi mānasam manīṣayā tataḥ kṣipram āgato 'smi nararṣabha 23 bhīṣmād droṇāt kṛpāt karṇād droṇaputrāc ca bhārata yat te bhayam amitraghna hṛdi saṃparivartate 24 tat te 'haṃ nāśayiṣyāmi vidhidṛṣṭena hetunā tac chrutvā dhṛtim āsthāya karmaṇā pratipādaya 25 tata ekāntam unnīya pārāśaryo yudhiṣṭhiram abravīd upapannārtham idaṃ vākyaviśāradaḥ 26 śreyasas te paraḥ kālaḥ prāpto bharatasattama yenābhibhavitā śatrūn raṇe pārtho dhanaṃjayaḥ 27 gṛhāṇemāṃ mayā proktāṃ siddhiṃ mūrtimatīm iva vidyāṃ pratismṛtiṃ nāma prapannāya bravīmi te yām avāpya mahābāhur arjunaḥ sādhayiṣyati 28 astrahetor mahendraṃ ca rudraṃ caivābhigacchatu varuṇaṃ ca dhaneśaṃ ca dharmarājaṃ ca pāṇḍava śakto hy eṣa surān draṣṭuṃ tapasā vikrameṇa ca 29 ṛṣir eṣa mahātejā nārāyaṇa sahāyavān purāṇaḥ śāśvato devo viṣṇor aṃśaḥ sanātanaḥ 30 astrāṇīndrāc ca rudrāc ca lokapālebhya eva ca samādāya mahābāhur mahat karma kariṣyati 31 vadād asmāc ca kaunteya vanam anyad vicintyatām nivāsārthāya yad yuktaṃ bhaved vaḥ pṛthivīpate 32 ekatra ciravāso hi na prītijanano bhavet tāpasānāṃ ca śāntānāṃ bhaved udvega kārakaḥ 33 mṛgāṇām upayogaś ca vīrud oṣadhisaṃkṣayaḥ vibharṣi hi bahūn viprān vedavedāṅgapāragān 34 evam uktvā prapannāya śucaye bhagavān prabhuḥ provāca yogatattvajño yogavidyām anuttamām 35 dharmarājñe tadā dhīmān vyāsaḥ satyavatī sutaḥ anujñāya ca kaunteyaṃ tatraivāntaradhīyata 36 yudhiṣṭhiras tu dharmātmā tad brahma manasā yataḥ dhārayām āsa medhāvī kāle kāle samabbhyasan 37 sa vyāsavākyamudito vanād dvaitavanāt tataḥ yayau sarasvatī tīre kāmyakaṃ nāma kānanam 38 tam anvayur mahārāja śikṣā kṣaravidas tathā brāhmaṇās tapasā yuktā devendram ṛṣayo yathā 39 tataḥ kāmyakam āsādya punas te bharatarṣabhāḥ nyaviśanta mahātmānaḥ sāmātyāḥ sapadānugāḥ 40 tatra te nyavasan rājan kaṃ cit kālaṃ manasvinaḥ dhanurveda parā vīrā śṛṇvānā vedam uttamam 41 caranto mṛgayāṃ nityaṃ śuddhair bāṇair mṛgārthinaḥ pitṛdaivataviprebhyo nirvapanto yathāvidhi |
The Mahabharata in Sanskrit
Book 3
Chapter 38
|
1
[वै] कस्य चित तव अथ कालस्य धर्मराजॊ युधिष्ठिरः संस्मृत्य मुनिसंदेशम इदं वचनम अब्रवीत 2 विविक्ते विदितप्रज्ञम अर्जुनं भरतर्षभम सान्त्वपूर्वं समितं कृत्वा पाणिना परिसंस्पृशन 3 स मुहूर्तम इव धयात्वा वनवासम अरिंदमः धनंजयं धर्मराजॊ रहसीदम उवाच ह 4 भीष्मे दरॊणे कृपे कर्णे दरॊणपुत्रे च भारत धनुर्वेदश चतुष्पाद एतेष्व अद्य परतिष्ठितः 5 बराह्मं दैवम आसुरं च सप्रयॊग चिकित्सितम सर्वास्त्राणां परयॊगं च ते ऽभिजानन्ति कृत्स्नशः 6 ते सर्वे धृतराष्ट्रस्य पुत्रेण परिसान्त्विताः संविभक्ताश च तुष्टाश च गुरुवत तेषु वर्तते 7 सर्वयॊधेषु चैवास्य सदा वृत्तिर अनुत्तमा शक्तिं न हापयिष्यन्ति ते काले परतिपूजिताः 8 अद्य चेयं महीकृत्स्ना दुर्यॊधन वशानुगा तवयि वयपाश्रयॊ ऽसमाकं तवयि भारः समाहितः तत्र कृत्यं परपश्यामि पराप्तकालम अरिंदम 9 कृष्णद्वैपायनात तात गृहीतॊपनिषन मया तया परयुक्तया सम्यग जगत सर्वं परकाशते तेन तवं बरह्मणा तात संयुक्तः सुसमाहितः 10 देवतानां यथाकालं परसादं परतिपालय तपसा यॊजयात्मानम उग्रेण भरतर्षभ 11 धनुष्मान कवची खद्गी मुनिः सारसमन्वितः न कस्य चिद ददन मार्गं गच्छ तातॊत्तरां दिशम इन्द्रे हय अस्त्राणि दिव्यानि समस्तानि धनंजय 12 वृत्राद भीतैस तदा देवैर बलम इन्द्रे समर्पितम तान्य एकस्थानि सर्वाणि ततस तवं परतिपत्स्यसे 13 शक्रम एव परपद्यस्व स ते ऽसत्राणि परदास्यति दीक्षितॊ ऽदयैव गच्छ तवं दरष्टुं देवं पुरंदरम 14 एवम उक्त्वा धर्मराजस तम अध्यापयत परभुः दीक्षितं विधिना तेन यतवाक्कायमानसम अनुजज्ञे ततॊ वीरं भराता भरातरम अग्रजः 15 निदेशाद धर्मराजस्य दरष्टुं देवं पुरंदरम धनुर गाण्डीवम आदाय तथाक्षय्यौ महेषुधी 16 कवची सतल तराणॊ बद्धगॊधाङ्गुलि तरवान हुत्वाग्निं बराह्मणान निष्कैः सवस्ति वाच्य महाभुजः 17 परातिष्ठत महाबाहुः परगृहीतशरासनः वधाय धार्तराष्ट्राणां निःश्वस्यॊर्ध्वम उदीक्ष्य च 18 तं दृष्ट्वा तत्र कौन्तेयं परगृहीतशरासनम अब्रुवन बराह्मणाः सिद्धा भूतान्य अन्तर्हितानि च कषिप्रं पराप्नुहि कौन्तेय मनसा यद यद इच्छसि 19 तं सिंहम इव गच्छन्तं शालस्कन्धॊरुम अर्जुनम मनांस्य आदाय सर्वेषां कृट्णा वचनम अब्रवीत 20 यत ते कुन्ती महाबाहॊ जातस्यैच्छद धनंजय तत ते ऽसतु सर्वं कौन्तेय याथा च सवयम इच्छसि 21 मास्माकं कषत्रियकुले जन्म कश चिद अवाप्नुयात बराह्मणेभ्यॊ नमॊ नित्यं येषां युद्धे न जीविका 22 नूनं ते भरातरः सर्वे तवत कथाभिः परजागरे रंस्यन्ते वीरकर्माणि कीर्तयन्तः पुनः पुनः 23 नैव नः पार्थ भॊगेषु न धने नॊत जीविते तुष्टिर बुद्धिर भवित्री वा तवयि दीर्घप्रवासिनि 24 तवयि नः पार्थ सर्वेषां सुखदुःखे समाहिते जीवितं मरणं चैव राज्यम ऐश्वर्यम एव च आपृष्टॊ मे ऽसि कौन्तेय सवस्ति पराप्नुहि पाण्डव 25 नमॊ धात्रे विधात्रे च सवस्ति गच्छ हय अनामयम सवस्ति ते ऽसव आन्तरिक्षेभ्यः पार्थिवेभ्यश च भारत दिव्येभ्यश चैव भूतेभ्यॊ ये चान्ये परिपन्थिनः 26 ततः परदक्षिणं कृत्वा भरातॄन धौम्यं च पाण्डवः परातिष्ठत महाबाहुः परगृह्य रुचिरं धनुः 27 तस्य मार्गाद अपाक्रामन सर्वभूतानि गच्छतः युक्तस्यैन्द्रेण यॊगेन पराक्रान्तस्य शुष्मिणः 28 सॊ ऽगच्छत पर्वतं पुण्यम एकाह्नैव महामनाः मनॊजव गतिर भूत्वा यॊगयुक्तॊ यथानिलः 29 हिमवन्तम अतिक्रम्य गन्धमादनम एव च अत्यक्रामत स दुर्गाणि दिवारात्रम अतन्द्रितः 30 इन्द्र कीलं समासाद्य ततॊ ऽतिष्ठद धनंजयः अन्तरिक्षे हि शुश्राव तिष्ठेति स वचस तदा 31 ततॊ ऽपश्यत सव्यसाची वृक्षमूले तपस्विनम बराह्म्या शरिया दीप्यमानं पिङ्गलं जटिलं कृशम 32 सॊ ऽबरवीद अर्जुनं तत्र सथितं दृष्ट्वा महातपाः कस तवं तातेह संप्राप्तॊ धनुष्मान कवची शरी निबद्धासि तलत्राणः कषत्रधर्मम अनुव्रतः 33 नेह शस्त्रेण कर्तव्यं शान्तानाम अयम आलयः विनीतक्रॊधहर्षाणां बराह्मणानां तपस्विनाम 34 नेहास्ति धनुषा कार्यं न संग्रामेण कर्हि चित निक्षिपैतद धनुस तात पराप्तॊ ऽसि परमां गतिम 35 इत्य अनन्तौजसं वीरं यथा चान्यं पृथग्जनम तथा वाचन्म अथाभीक्ष्णं बराह्मणॊ ऽरजुनम अब्रवीत न चैनं चालयाम आस धैर्यात सुदृढ निश्चयम 36 तम उवाच ततः परीतः स दविजः परहसन्न इव वरं वृणीष्व भद्रं ते शक्रॊ ऽहम अरिसूदनः 37 एवम उक्तः परत्युवाच सहस्राक्षं धनंजयः पराञ्जलिः परणतॊ भूत्वा शूरः कुलकुलॊद्वहः 38 ईप्सितॊ हय एष मे कामॊ वरं चैनं परयच्छ मे तवत्तॊ ऽदय भगवन्न अस्त्रं कृत्स्नम इच्छामि वेदितुम 39 परत्युवाच महेन्द्रस तं परीतात्मा परहसन्न इव इह पराप्तस्य किं कार्यम अस्त्रैस तव धनंजय कामान वृणीष्व लॊकांश च पराप्तॊ ऽसि परमां गतिम 40 एवम उक्तः परत्युवाच सहस्राक्षं धनंजयः न लॊकान न पुनः कामान न देवत्वं कुतः सुखम 41 न च सर्वामरैश्वर्यं कामये तरिदशाधिप भरातॄंस तान विपिने तयक्त्वा वैरम अप्रतियात्य च अकीर्तिं सर्वलॊकेषु गच्छेयं शाश्वतीः समाः 42 एवम उक्तः परत्युवाच वृत्रहा पाण्डुनन्दनम सान्त्वयञ शलक्ष्णया वाचा सर्वलॊकनमस्कृतः 43 यदा दरक्ष्यसि भूतेशं तर्यक्षं शूलधरं शिवम तदा दातास्मि ते तात दिव्यान्य अस्त्राणि सर्वशः 44 करियतां दर्शने यत्नॊ देवस्य परमेष्ठिनः दर्शनात तस्य कौन्तेय संसिद्धः सवर्गम एष्यसि 45 इत्य उक्त्वा फल्गुनं शक्रॊ जगामादर्शनं ततः अर्जुनॊ ऽपय अथ तत्रैव तस्थौ यॊगसमन्वितः |
1
[vai] kasya cit tv atha kālasya dharmarājo yudhiṣṭhiraḥ saṃsmṛtya munisaṃdeśam idaṃ vacanam abravīt 2 vivikte viditaprajñam arjunaṃ bharatarṣabham sāntvapūrvaṃ smitaṃ kṛtvā pāṇinā parisaṃspṛśan 3 sa muhūrtam iva dhyātvā vanavāsam ariṃdamaḥ dhanaṃjayaṃ dharmarājo rahasīdam uvāca ha 4 bhīṣme droṇe kṛpe karṇe droṇaputre ca bhārata dhanurvedaś catuṣpāda eteṣv adya pratiṣṭhitaḥ 5 brāhmaṃ daivam āsuraṃ ca saprayoga cikitsitam sarvāstrāṇāṃ prayogaṃ ca te 'bhijānanti kṛtsnaśaḥ 6 te sarve dhṛtarāṣṭrasya putreṇa parisāntvitāḥ saṃvibhaktāś ca tuṣṭāś ca guruvat teṣu vartate 7 sarvayodheṣu caivāsya sadā vṛttir anuttamā śaktiṃ na hāpayiṣyanti te kāle pratipūjitāḥ 8 adya ceyaṃ mahīkṛtsnā duryodhana vaśānugā tvayi vyapāśrayo 'smākaṃ tvayi bhāraḥ samāhitaḥ tatra kṛtyaṃ prapaśyāmi prāptakālam ariṃdama 9 kṛṣṇadvaipāyanāt tāta gṛhītopaniṣan mayā tayā prayuktayā samyag jagat sarvaṃ prakāśate tena tvaṃ brahmaṇā tāta saṃyuktaḥ susamāhitaḥ 10 devatānāṃ yathākālaṃ prasādaṃ pratipālaya tapasā yojayātmānam ugreṇa bharatarṣabha 11 dhanuṣmān kavacī khadgī muniḥ sārasamanvitaḥ na kasya cid dadan mārgaṃ gaccha tātottarāṃ diśam indre hy astrāṇi divyāni samastāni dhanaṃjaya 12 vṛtrād bhītais tadā devair balam indre samarpitam tāny ekasthāni sarvāṇi tatas tvaṃ pratipatsyase 13 śakram eva prapadyasva sa te 'strāṇi pradāsyati dīkṣito 'dyaiva gaccha tvaṃ draṣṭuṃ devaṃ puraṃdaram 14 evam uktvā dharmarājas tam adhyāpayata prabhuḥ dīkṣitaṃ vidhinā tena yatavākkāyamānasam anujajñe tato vīraṃ bhrātā bhrātaram agrajaḥ 15 nideśād dharmarājasya draṣṭuṃ devaṃ puraṃdaram dhanur gāṇḍīvam ādāya tathākṣayyau maheṣudhī 16 kavacī satala trāṇo baddhagodhāṅguli travān hutvāgniṃ brāhmaṇān niṣkaiḥ svasti vācya mahābhujaḥ 17 prātiṣṭhata mahābāhuḥ pragṛhītaśarāsanaḥ vadhāya dhārtarāṣṭrāṇāṃ niḥśvasyordhvam udīkṣya ca 18 taṃ dṛṣṭvā tatra kaunteyaṃ pragṛhītaśarāsanam abruvan brāhmaṇāḥ siddhā bhūtāny antarhitāni ca kṣipraṃ prāpnuhi kaunteya manasā yad yad icchasi 19 taṃ siṃham iva gacchantaṃ śālaskandhorum arjunam manāṃsy ādāya sarveṣāṃ kṛṭṇā vacanam abravīt 20 yat te kuntī mahābāho jātasyaicchad dhanaṃjaya tat te 'stu sarvaṃ kaunteya yāthā ca svayam icchasi 21 māsmākaṃ kṣatriyakule janma kaś cid avāpnuyāt brāhmaṇebhyo namo nityaṃ yeṣāṃ yuddhe na jīvikā 22 nūnaṃ te bhrātaraḥ sarve tvat kathābhiḥ prajāgare raṃsyante vīrakarmāṇi kīrtayantaḥ punaḥ punaḥ 23 naiva naḥ pārtha bhogeṣu na dhane nota jīvite tuṣṭir buddhir bhavitrī vā tvayi dīrghapravāsini 24 tvayi naḥ pārtha sarveṣāṃ sukhaduḥkhe samāhite jīvitaṃ maraṇaṃ caiva rājyam aiśvaryam eva ca āpṛṣṭo me 'si kaunteya svasti prāpnuhi pāṇḍava 25 namo dhātre vidhātre ca svasti gaccha hy anāmayam svasti te 'sv āntarikṣebhyaḥ pārthivebhyaś ca bhārata divyebhyaś caiva bhūtebhyo ye cānye paripanthinaḥ 26 tataḥ pradakṣiṇaṃ kṛtvā bhrātṝn dhaumyaṃ ca pāṇḍavaḥ prātiṣṭhata mahābāhuḥ pragṛhya ruciraṃ dhanuḥ 27 tasya mārgād apākrāman sarvabhūtāni gacchataḥ yuktasyaindreṇa yogena parākrāntasya śuṣmiṇaḥ 28 so 'gacchat parvataṃ puṇyam ekāhnaiva mahāmanāḥ manojava gatir bhūtvā yogayukto yathānilaḥ 29 himavantam atikramya gandhamādanam eva ca atyakrāmat sa durgāṇi divārātram atandritaḥ 30 indra kīlaṃ samāsādya tato 'tiṣṭhad dhanaṃjayaḥ antarikṣe hi śuśrāva tiṣṭheti sa vacas tadā 31 tato 'paśyat savyasācī vṛkṣamūle tapasvinam brāhmyā śriyā dīpyamānaṃ piṅgalaṃ jaṭilaṃ kṛśam 32 so 'bravīd arjunaṃ tatra sthitaṃ dṛṣṭvā mahātapāḥ kas tvaṃ tāteha saṃprāpto dhanuṣmān kavacī śarī nibaddhāsi talatrāṇaḥ kṣatradharmam anuvrataḥ 33 neha śastreṇa kartavyaṃ śāntānām ayam ālayaḥ vinītakrodhaharṣāṇāṃ brāhmaṇānāṃ tapasvinām 34 nehāsti dhanuṣā kāryaṃ na saṃgrāmeṇa karhi cit nikṣipaitad dhanus tāta prāpto 'si paramāṃ gatim 35 ity anantaujasaṃ vīraṃ yathā cānyaṃ pṛthagjanam tathā vācanm athābhīkṣṇaṃ brāhmaṇo 'rjunam abravīt na cainaṃ cālayām āsa dhairyāt sudṛḍha niścayam 36 tam uvāca tataḥ prītaḥ sa dvijaḥ prahasann iva varaṃ vṛṇīṣva bhadraṃ te śakro 'ham arisūdanaḥ 37 evam uktaḥ pratyuvāca sahasrākṣaṃ dhanaṃjayaḥ prāñjaliḥ praṇato bhūtvā śūraḥ kulakulodvahaḥ 38 īpsito hy eṣa me kāmo varaṃ cainaṃ prayaccha me tvatto 'dya bhagavann astraṃ kṛtsnam icchāmi veditum 39 pratyuvāca mahendras taṃ prītātmā prahasann iva iha prāptasya kiṃ kāryam astrais tava dhanaṃjaya kāmān vṛṇīṣva lokāṃś ca prāpto 'si paramāṃ gatim 40 evam uktaḥ pratyuvāca sahasrākṣaṃ dhanaṃjayaḥ na lokān na punaḥ kāmān na devatvaṃ kutaḥ sukham 41 na ca sarvāmaraiśvaryaṃ kāmaye tridaśādhipa bhrātṝṃs tān vipine tyaktvā vairam apratiyātya ca akīrtiṃ sarvalokeṣu gaccheyaṃ śāśvatīḥ samāḥ 42 evam uktaḥ pratyuvāca vṛtrahā pāṇḍunandanam sāntvayañ ślakṣṇayā vācā sarvalokanamaskṛtaḥ 43 yadā drakṣyasi bhūteśaṃ tryakṣaṃ śūladharaṃ śivam tadā dātāsmi te tāta divyāny astrāṇi sarvaśaḥ 44 kriyatāṃ darśane yatno devasya parameṣṭhinaḥ darśanāt tasya kaunteya saṃsiddhaḥ svargam eṣyasi 45 ity uktvā phalgunaṃ śakro jagāmādarśanaṃ tataḥ arjuno 'py atha tatraiva tasthau yogasamanvitaḥ |
The Mahabharata in Sanskrit
Book 3
Chapter 39
|
1
[ज] भगवञ शरॊतुम इच्छामि पार्थस्याक्लिष्ट कर्मणः विस्तरेण कथाम एतां यथास्त्राण्य उपलब्धवान 2 कथं स पुरुषव्याघ्रॊ दीर्घबाहुर धनंजयः वनं परविष्टस तेजस्वी निर्मनुष्यम अभीतवत 3 किं च तेन कृतं तत्र वसता बरह्मवित्तम कथं च भगवान सथाणुर देवराजश च तॊषितः 4 एतद इच्छाम्य अहं शरॊतुं तवत्प्रसादाद दविजॊत्तम तवं हि सर्वज्ञ दिव्यं च मानुषं चैव वेत्थ ह 5 अत्यद्भुतं महाप्राज्ञ रॊमहर्षणम अर्जुनः भवेन सह संग्रामं चकाराप्रतिमं किल पुरा परहरतां शरेष्ठः संग्रामेष्व अपराजितः 6 यच छरुत्वा नरसिंहानां दैन्यहर्षातिविस्मयात शूराणाम अपि पार्थानां हृदयानि चकम्पिरे 7 यद यच च कृतवान अन्यत पार्थस तद अखिलं वद न हय अस्य निन्दितं जिष्णॊः सुसूक्ष्मम अपि लक्षये चरितं तस्य शूरस्य तन मे सर्वं परकीर्तय 8 [वै] कथयिष्यामि ते तात कथाम एतां महात्मनः दिव्यां कौरव शार्दूलमहतीम अद्भुतॊपमाम 9 गात्रसंस्पर्श संबन्धं तर्यम्बकेण सहानघ पार्थस्य देवदेवेन शृणु सम्यक समागमम 10 युधिष्ठिर नियॊगात स जगामामित विक्रमः शक्रं सुरेश्वरं दरष्टुं देवदेवं च शंकरम 11 दिव्यं तद धनुर आदाय खड्गं च पुरुषर्षभः महाबलॊ महाबाहुर अर्जुनः कार्यसिद्धये दिशं हय उदीचीं कौरव्यॊ हिमवच्छिखरं परति 12 ऐन्द्रिः सथिरमना राजन सर्वलॊकमहारथः तवरया परया युक्तस तपसे धृतनिश्चयः वनं कण्टकितं घॊरम एक एवान्वपद्यत 13 नानापुष्पफलॊपेतं नानापक्षिनिषेवितम नानामृगगणाकीर्णं सिद्धचारणसेवितम 14 ततः परयाते कौन्तेय वनं मानुषवर्जितम शङ्खानां पटहानां च शब्दः समभवद दिवि 15 पुष्पवर्षं च सुमहन निपपात महीतले मेघजालं च विततं छादयाम आस सर्वतः 16 अतीत्य वनदुर्गाणि संनिकर्षे महागिरेः शुशुभे हिमवत्पृष्ठे वसमानॊ ऽरजुनस तदा 17 तत्रापश्यद दरुमान फुल्लान विहगैर वल्गु नादितान नदीश च बहुलावर्ता नीलवैडूर्य संनिभाः 18 हंसकारण्डवॊद्गीताः सारसाभिरुतास तथा पुंस्कॊकिल रुताश चैव करौञ्चबर्हिण नादिताः 19 मनॊहरवनॊपेतास तस्मिन्न अतिरथॊ ऽरजुनः पुण्यशीतामल जलाः पश्यन परीतमनाभवत 20 रमणीये वनॊद्देशे रममाणॊ ऽरजुनस तदा तपस्य उग्रे वर्तमान उग्रतेजा महामनाः 21 दर्भचीरं निवस्याथ दण्डाजिन विभूषितः पूर्णे पूर्णे तरिरात्रे तु मासम एकं फलाशनः दविगुणेनैव कालेन दवितीयं मासम अत्यगात 22 तृतीयम अपि मासं स पक्षेणाहारम आचरन शीर्णं च पतितं भूमौ पर्णं समुपयुक्तवान 23 चतुर्थे तव अथ संप्राप्ते मासि पूर्णे ततः परम वायुभक्षॊ महाबाहुर अभवत पाण्डुनन्दनः ऊर्ध्वबाहुर निरालम्बः पादाङ्गुष्ठाग्रविष्ठितः 24 सदॊपस्पर्शनाच चास्य बभूवुर अमितौजसः विद्युद अम्भॊ रुहनिभा जटास तस्य महात्मनः 25 ततॊ महर्षयः सर्वे जग्मुर देवं पिनाकिनम शितिकण्ठं महाभागं परणिपत्य परसाद्य च सर्वे निवेदयाम आसुः कर्म तत फल्गुनस्य ह 26 एष पार्थॊ महातेजा हिमवत्पृष्ठम आश्रितः उग्रे तपसि दुष्पारे सथितॊ धूमाययन दिशः 27 तस्य देवेश न वयं विद्मः सर्वे चिकीर्षितम संतापयति नः सर्वान असौ साधु निवार्यताम 28 [महेष्वर] शीघ्रं गच्छत संहृष्टा यथागतम अतन्द्रिताः अहम अस्य विजानामि संकल्पं मनसि सथितम 29 नास्य सवर्गस्पृहा का चिन नैश्वर्यस्य न चायुषः यत तव अस्य काङ्क्षितं सर्वं तत करिष्ये ऽहम अद्य वै 30 [वै] ते शरुत्व शर्व वचनम ऋषयः सत्यवादिनः परहृष्टमनसॊ जग्मुर यथा सवं पुनर आश्रमान |
1
[j] bhagavañ śrotum icchāmi pārthasyākliṣṭa karmaṇaḥ vistareṇa kathām etāṃ yathāstrāṇy upalabdhavān 2 kathaṃ sa puruṣavyāghro dīrghabāhur dhanaṃjayaḥ vanaṃ praviṣṭas tejasvī nirmanuṣyam abhītavat 3 kiṃ ca tena kṛtaṃ tatra vasatā brahmavittama kathaṃ ca bhagavān sthāṇur devarājaś ca toṣitaḥ 4 etad icchāmy ahaṃ śrotuṃ tvatprasādād dvijottama tvaṃ hi sarvajña divyaṃ ca mānuṣaṃ caiva vettha ha 5 atyadbhutaṃ mahāprājña romaharṣaṇam arjunaḥ bhavena saha saṃgrāmaṃ cakārāpratimaṃ kila purā praharatāṃ śreṣṭhaḥ saṃgrāmeṣv aparājitaḥ 6 yac chrutvā narasiṃhānāṃ dainyaharṣātivismayāt śūrāṇām api pārthānāṃ hṛdayāni cakampire 7 yad yac ca kṛtavān anyat pārthas tad akhilaṃ vada na hy asya ninditaṃ jiṣṇoḥ susūkṣmam api lakṣaye caritaṃ tasya śūrasya tan me sarvaṃ prakīrtaya 8 [vai] kathayiṣyāmi te tāta kathām etāṃ mahātmanaḥ divyāṃ kaurava śārdūlamahatīm adbhutopamām 9 gātrasaṃsparśa saṃbandhaṃ tryambakeṇa sahānagha pārthasya devadevena śṛṇu samyak samāgamam 10 yudhiṣṭhira niyogāt sa jagāmāmita vikramaḥ śakraṃ sureśvaraṃ draṣṭuṃ devadevaṃ ca śaṃkaram 11 divyaṃ tad dhanur ādāya khaḍgaṃ ca puruṣarṣabhaḥ mahābalo mahābāhur arjunaḥ kāryasiddhaye diśaṃ hy udīcīṃ kauravyo himavacchikharaṃ prati 12 aindriḥ sthiramanā rājan sarvalokamahārathaḥ tvarayā parayā yuktas tapase dhṛtaniścayaḥ vanaṃ kaṇṭakitaṃ ghoram eka evānvapadyata 13 nānāpuṣpaphalopetaṃ nānāpakṣiniṣevitam nānāmṛgagaṇākīrṇaṃ siddhacāraṇasevitam 14 tataḥ prayāte kaunteya vanaṃ mānuṣavarjitam śaṅkhānāṃ paṭahānāṃ ca śabdaḥ samabhavad divi 15 puṣpavarṣaṃ ca sumahan nipapāta mahītale meghajālaṃ ca vitataṃ chādayām āsa sarvataḥ 16 atītya vanadurgāṇi saṃnikarṣe mahāgireḥ śuśubhe himavatpṛṣṭhe vasamāno 'rjunas tadā 17 tatrāpaśyad drumān phullān vihagair valgu nāditān nadīś ca bahulāvartā nīlavaiḍūrya saṃnibhāḥ 18 haṃsakāraṇḍavodgītāḥ sārasābhirutās tathā puṃskokila rutāś caiva krauñcabarhiṇa nāditāḥ 19 manoharavanopetās tasminn atiratho 'rjunaḥ puṇyaśītāmala jalāḥ paśyan prītamanābhavat 20 ramaṇīye vanoddeśe ramamāṇo 'rjunas tadā tapasy ugre vartamāna ugratejā mahāmanāḥ 21 darbhacīraṃ nivasyātha daṇḍājina vibhūṣitaḥ pūrṇe pūrṇe trirātre tu māsam ekaṃ phalāśanaḥ dviguṇenaiva kālena dvitīyaṃ māsam atyagāt 22 tṛtīyam api māsaṃ sa pakṣeṇāhāram ācaran śīrṇaṃ ca patitaṃ bhūmau parṇaṃ samupayuktavān 23 caturthe tv atha saṃprāpte māsi pūrṇe tataḥ param vāyubhakṣo mahābāhur abhavat pāṇḍunandanaḥ ūrdhvabāhur nirālambaḥ pādāṅguṣṭhāgraviṣṭhitaḥ 24 sadopasparśanāc cāsya babhūvur amitaujasaḥ vidyud ambho ruhanibhā jaṭās tasya mahātmanaḥ 25 tato maharṣayaḥ sarve jagmur devaṃ pinākinam śitikaṇṭhaṃ mahābhāgaṃ praṇipatya prasādya ca sarve nivedayām āsuḥ karma tat phalgunasya ha 26 eṣa pārtho mahātejā himavatpṛṣṭham āśritaḥ ugre tapasi duṣpāre sthito dhūmāyayan diśaḥ 27 tasya deveśa na vayaṃ vidmaḥ sarve cikīrṣitam saṃtāpayati naḥ sarvān asau sādhu nivāryatām 28 [maheṣvara] śīghraṃ gacchata saṃhṛṣṭā yathāgatam atandritāḥ aham asya vijānāmi saṃkalpaṃ manasi sthitam 29 nāsya svargaspṛhā kā cin naiśvaryasya na cāyuṣaḥ yat tv asya kāṅkṣitaṃ sarvaṃ tat kariṣye 'ham adya vai 30 [vai] te śrutva śarva vacanam ṛṣayaḥ satyavādinaḥ prahṛṣṭamanaso jagmur yathā svaṃ punar āśramān |
The Mahabharata in Sanskrit
Book 3
Chapter 40
|
1
[वै] गतेषु तेषु सर्वेषु तपस्विषु महात्मसु पिनाक पाणिर भगवान सर्वपापहरॊ हरः 2 कैरातं वेषम आस्थाय काञ्चनद्रुम संनिभम विभ्राजमानॊ वपुषा गिरिर मेरुर इवापरः 3 शरीमद धनुर उपादाय शरांश चाशीविषॊपमान निष्पपात महार्चिष्मान दहन कक्षम इवानलः 4 देव्या सहॊमया शरीमान समानव्रतवेषया नानावेषधरैर हृष्टैर भूतैर अनुगतस तदा 5 किरात वेषप्रच्छन्नः सत्रीभिश चानु सहस्रशः अशॊभत तदा राजन स देवॊ ऽतीव भारत 6 कषणेन तद वनं सर्वं निःशब्दम अभवत तदा नादः परस्रवणानां च पक्षिणां चाप्य उपारमत 7 स संनिकर्णम आगम्य पार्थस्याक्लिष्ट कर्मणः मूकं नाम दितेः पुत्रं ददर्शाद्भुतदर्शनम 8 वाराहं रूपम आस्थाय तर्कयन्तम इवार्जुनम हन्तुं परमदुष्टात्मा तम उवाचाथ फल्गुनः 9 गाण्डीवं धनुर आदाय शरांश चाशीविषॊपमान सज्यं धनुर्वरं कृत्वा जयाघॊषेण निनादयन 10 यन मां परार्थयसे हन्तुम अनागसम इहागतम तस्मात तवां पूर्वम एवाहं नेष्यामि यमसादनम 11 तं दृष्ट्वा परहरिष्यन्तं फल्गुनं दृष्ठ धन्व्विनम किरात रूपी सहसा वारयाम आस शंकरः 12 मयैष परार्थितः पूर्वं नीलमेघसमप्रभः अनादृत्यैव तद वाक्यं परजहाराथ फल्गुनः 13 किरातश च समं तस्मिन्न एकलक्ष्ये महाद्युतिः परमुमॊचाशनि परख्यं शरम अग्निशिखॊपमम 14 तौ मुक्तौ सायकौ ताभ्यां समं तत्र निपेततुः मूकस्य गात्रे विस्तीर्णे शैलसंहनने तदा 15 यथाशनिविनिष्पेषॊ वज्रस्येव च पर्वते तथा तयॊः संनिपातः शरयॊर अभवत तदा 16 स विद्धॊ बहुभिर बाणैर दीप्तास्यैः पन्नगैर इव ममार राक्षसं रूपं भूयः कृत्वा विभीषणम 17 ददर्शाथ ततॊ जिष्णुः पुरुषं काञ्चनप्रभम किरात वेषप्रच्छन्नं सत्री सहायम अमित्रहा 18 तम अब्रवीत परीतमनाः कौन्तेयः परहसन्न इव कॊ भवान अटते घॊरे विभेषि कनकप्रभ 19 किमर्थं च तवया विद्धॊ मृगॊ ऽयं मत्परिग्रहः मयाभिपन्नः पूर्वं हि राक्षसॊ ऽयम इहागतः 20 कामात परिभवाद वापि न मे जीवन विमॊक्ष्यसे न हय एष मृगया धर्मॊ यस तवयाद्य कृतॊ मयि तेन तवां भरंशयिष्यामि जीवितात पर्वताश्रय 21 इत्य उक्तः पाण्डवेयेन किरातः परहसन्न इव उवाच शलक्ष्णया वाचा पाण्डवं सव्यसाचिनम 22 ममैवायं लक्ष्यभूतः पूर्वम एव परिग्रहः ममैव च परहारेण जीविताद वयवरॊपितः 23 दॊषान सवान नार्हसे ऽनयस्मै वक्तुं सवबलदर्पितः अभिषक्तॊ ऽसमि मन्दात्मन न मे जीवन विमॊक्ष्यसे 24 सथिरॊ भवस्व मॊक्ष्यामि सायकान अशनीन इव घटस्व परया शक्त्या मुञ्च तवम अपि सायकान 25 ततस तौ तत्र संरब्धौ गर्जमानौ मुहुर मुहुः शरैर आशीविषाकारैस ततक्षाते परस्परम 26 ततॊ ऽरजुनः शरवर्षं किराते समवासृजत तत परसन्नेन मनसा परतिजग्राह शंकरः 27 मुहूर्तं शरवर्षं तत परतिगृह्य पिनाकधृक अक्षतेन शरीरेण तस्थौ गिरिर इवाचलः 28 स दृष्ट्वा बाणवर्षं तन मॊघी भूतं धनंजयः परमं विस्मयं चक्रे साधु साध्व इति चाब्रवीत 29 अहॊ ऽयं सुकुमाराङ्गॊ हिमवच्छिखरालयः गाण्डीवमुक्तान नाराचान परतिगृह्णात्य अविह्वलः 30 कॊ ऽयं देवॊ भवेत साक्षाद रुद्रॊ यक्षः सुरेश्वरः विद्यते हि गिरिश्रेष्ठे तरिदशानां समागमः 31 न हि मद्बाणजालानाम उत्सृष्टानां सहस्रशः शक्तॊ ऽनयः सहितुं वेगम ऋते देवं पिनाकिनम 32 देवॊ वा यदि वा यक्षॊ रुद्राद अन्यॊ वयवस्थितः अहम एनं शरैस तीक्ष्णैर नयामि यमसादनम 33 ततॊ हृष्टमना जिष्णुर नाराचान मर्मभेदिनः वयसृजच छतधा राजन मयूखान इव भास्करः 34 तान परसन्नेन मनसा भगवाँल लॊकभावनः शूलपाणिः परत्यगृह्णाच छिला वर्षम इवाचलः 35 कषणेन कषीणबाणॊ ऽथ संवृत्तः फल्गुनस तदा वित्रासं च जगामाथ तं दृष्ट्वा शरसंक्षयम 36 चिन्तयाम आस जिष्णुस तु भगवन्तं हुताशनम पुरस्ताद अक्षयौ दत्तौ तूणौ येनास्य खाण्डवे 37 किं नु मॊक्ष्यामि धनुषा यन मे बाणाः कषयं गताः अयं च पुरुषः कॊ ऽपि बाणान गरसति सर्वशः 38 अहम एनं धनुष्कॊट्या शूलाग्रेणेव कुञ्जरम नयामि दण्डधारस्य यमस्य सदनं परति 39 संप्रायुध्यद धनुष्कॊट्या कौन्तेयः परवीरहा तद अप्य अस्य धनुर दिव्यं जग्रास गिरिगॊचरः 40 ततॊ ऽरजुनॊ गरस्तधनुः खड्गपाणिर अतिष्ठत युद्धस्यान्तम अभीप्सन वै वेगेनाभिजगाम तम 41 तस्य मूर्ध्नि शितं खड्गम असक्तं पर्वतेष्व अपि मुमॊच भुजवीर्येण पफालासि वरॊ हि सः तस्य मूर्धानम आसाद्य पफालासि वरॊ हि सः 42 ततॊ वृक्षैः शिलाभिश च यॊधयाम आस फल्गुनः यथा वृक्षान महाकायः परत्यगृह्णाद अथॊ शिलाः 43 किरात रूपी भगवांस ततः पार्थॊ महाबलः मुष्टिभिर वज्रसंस्पर्शैर धूमम उत्पादयन मुखे परजहार दुराधर्षे किरात समरूपिणि 44 ततः शक्राशनिसमैर मुष्टिभिर भृशदारुणैः किरात रूपी भगवान अर्दयाम आस फल्गुनम 45 ततश चटचटा शब्दः सुघॊरः समजायत पाण्डावस्य च मुष्टीनां किरातस्य च युध्यतः 46 सुमुहूर्तं महद युद्धम आसीत तल लॊमहर्षणम भुजप्रहार संयुक्तं वृत्रवासवयॊर इव 47 जहाराथ ततॊ जिष्णुः किरातम उरसा बली पाण्डवं च विचेष्टन्तं किरातॊ ऽपय अहनद बलात 48 तयॊर भुजविनिष्पेषात संघर्षेणॊरसॊस तथा समजायत गात्रेषु पावकॊ ऽङगारधूमवान 49 तत एनं महादेवः पीड्य गात्रैः सुपीडितम तेजसा वयाक्रमद रॊषाच चेतस तस्य विमॊहयन 50 ततॊ निपीडितैर गात्रैः पिण्डी कृत इवाबभौ फल्गुनॊ गात्रसंरुद्धॊ देवदेवेन भारत 51 निरुच्च्वासॊ ऽभवच चैव संनिरुद्धॊ महात्मना ततः पपात संमूढस ततः परीतॊ ऽभवद भवः 52 [भगवान] भॊ भॊ फल्गुन तुष्टॊ ऽसमि कर्मणाप्रतिमेन ते शौर्येणानेन धृत्या च कषत्रियॊ नास्ति ते समः 53 समं तेजश च वीर्यं च ममाद्य तव चानघ परीतस ते ऽहं महाबाहॊ पश्य मां पुरुषर्षभ 54 ददानि ते विशालाक्ष चक्षुः पूर्व ऋषिर भवान विजेष्यसि रणे शत्रून अपि सर्वान दिवौकसः 55 [वै] ततॊ देवं महादेवं गिरिशं शूलपाणिनम ददर्श फल्गुनस तत्र सहदेव्या महाद्युतिम 56 स जानुभ्यां महीं गत्वा शिरसा परणिपत्य च परसादयाम आस हरं पार्थः परपुरंजयः 57 [अर्ज] कपर्दिन सर्वभूतेश भग नेत्रनिपातन वयतिक्रमं मे भगवन कषन्तुम अर्हसि शंकर 58 भवगद दर्शनाकाङ्क्षी पराप्तॊ ऽसमीमं महागिरिम दयितं तव देवेश तापसालयम उत्तमम 59 परसादये तवां भगवन सर्वभूतनमस्कृत न मे सयाद अपराधॊ ऽयं महादेवातिसाहसात 60 कृतॊ मया यद अज्ञानाद विमर्दॊ ऽयं तवया सह शरणं संप्रपन्नाय तत्क्षमस्वाद्य शंकर 61 [वै] तम उवाच महातेजाः परहस्य वृषभध्वजः परगृह्य रुचिरं बाहुं कषान्तम इत्य एव फल्गुनम |
1
[vai] gateṣu teṣu sarveṣu tapasviṣu mahātmasu pināka pāṇir bhagavān sarvapāpaharo haraḥ 2 kairātaṃ veṣam āsthāya kāñcanadruma saṃnibham vibhrājamāno vapuṣā girir merur ivāparaḥ 3 śrīmad dhanur upādāya śarāṃś cāśīviṣopamān niṣpapāta mahārciṣmān dahan kakṣam ivānalaḥ 4 devyā sahomayā śrīmān samānavrataveṣayā nānāveṣadharair hṛṣṭair bhūtair anugatas tadā 5 kirāta veṣapracchannaḥ strībhiś cānu sahasraśaḥ aśobhata tadā rājan sa devo 'tīva bhārata 6 kṣaṇena tad vanaṃ sarvaṃ niḥśabdam abhavat tadā nādaḥ prasravaṇānāṃ ca pakṣiṇāṃ cāpy upāramat 7 sa saṃnikarṇam āgamya pārthasyākliṣṭa karmaṇaḥ mūkaṃ nāma diteḥ putraṃ dadarśādbhutadarśanam 8 vārāhaṃ rūpam āsthāya tarkayantam ivārjunam hantuṃ paramaduṣṭātmā tam uvācātha phalgunaḥ 9 gāṇḍīvaṃ dhanur ādāya śarāṃś cāśīviṣopamān sajyaṃ dhanurvaraṃ kṛtvā jyāghoṣeṇa ninādayan 10 yan māṃ prārthayase hantum anāgasam ihāgatam tasmāt tvāṃ pūrvam evāhaṃ neṣyāmi yamasādanam 11 taṃ dṛṣṭvā prahariṣyantaṃ phalgunaṃ dṛṣṭha dhanvvinam kirāta rūpī sahasā vārayām āsa śaṃkaraḥ 12 mayaiṣa prārthitaḥ pūrvaṃ nīlameghasamaprabhaḥ anādṛtyaiva tad vākyaṃ prajahārātha phalgunaḥ 13 kirātaś ca samaṃ tasminn ekalakṣye mahādyutiḥ pramumocāśani prakhyaṃ śaram agniśikhopamam 14 tau muktau sāyakau tābhyāṃ samaṃ tatra nipetatuḥ mūkasya gātre vistīrṇe śailasaṃhanane tadā 15 yathāśaniviniṣpeṣo vajrasyeva ca parvate tathā tayoḥ saṃnipātaḥ śarayor abhavat tadā 16 sa viddho bahubhir bāṇair dīptāsyaiḥ pannagair iva mamāra rākṣasaṃ rūpaṃ bhūyaḥ kṛtvā vibhīṣaṇam 17 dadarśātha tato jiṣṇuḥ puruṣaṃ kāñcanaprabham kirāta veṣapracchannaṃ strī sahāyam amitrahā 18 tam abravīt prītamanāḥ kaunteyaḥ prahasann iva ko bhavān aṭate ghore vibheṣi kanakaprabha 19 kimarthaṃ ca tvayā viddho mṛgo 'yaṃ matparigrahaḥ mayābhipannaḥ pūrvaṃ hi rākṣaso 'yam ihāgataḥ 20 kāmāt paribhavād vāpi na me jīvan vimokṣyase na hy eṣa mṛgayā dharmo yas tvayādya kṛto mayi tena tvāṃ bhraṃśayiṣyāmi jīvitāt parvatāśraya 21 ity uktaḥ pāṇḍaveyena kirātaḥ prahasann iva uvāca ślakṣṇayā vācā pāṇḍavaṃ savyasācinam 22 mamaivāyaṃ lakṣyabhūtaḥ pūrvam eva parigrahaḥ mamaiva ca prahāreṇa jīvitād vyavaropitaḥ 23 doṣān svān nārhase 'nyasmai vaktuṃ svabaladarpitaḥ abhiṣakto 'smi mandātman na me jīvan vimokṣyase 24 sthiro bhavasva mokṣyāmi sāyakān aśanīn iva ghaṭasva parayā śaktyā muñca tvam api sāyakān 25 tatas tau tatra saṃrabdhau garjamānau muhur muhuḥ śarair āśīviṣākārais tatakṣāte parasparam 26 tato 'rjunaḥ śaravarṣaṃ kirāte samavāsṛjat tat prasannena manasā pratijagrāha śaṃkaraḥ 27 muhūrtaṃ śaravarṣaṃ tat pratigṛhya pinākadhṛk akṣatena śarīreṇa tasthau girir ivācalaḥ 28 sa dṛṣṭvā bāṇavarṣaṃ tan moghī bhūtaṃ dhanaṃjayaḥ paramaṃ vismayaṃ cakre sādhu sādhv iti cābravīt 29 aho 'yaṃ sukumārāṅgo himavacchikharālayaḥ gāṇḍīvamuktān nārācān pratigṛhṇāty avihvalaḥ 30 ko 'yaṃ devo bhavet sākṣād rudro yakṣaḥ sureśvaraḥ vidyate hi giriśreṣṭhe tridaśānāṃ samāgamaḥ 31 na hi madbāṇajālānām utsṛṣṭānāṃ sahasraśaḥ śakto 'nyaḥ sahituṃ vegam ṛte devaṃ pinākinam 32 devo vā yadi vā yakṣo rudrād anyo vyavasthitaḥ aham enaṃ śarais tīkṣṇair nayāmi yamasādanam 33 tato hṛṣṭamanā jiṣṇur nārācān marmabhedinaḥ vyasṛjac chatadhā rājan mayūkhān iva bhāskaraḥ 34 tān prasannena manasā bhagavāṁl lokabhāvanaḥ śūlapāṇiḥ pratyagṛhṇāc chilā varṣam ivācalaḥ 35 kṣaṇena kṣīṇabāṇo 'tha saṃvṛttaḥ phalgunas tadā vitrāsaṃ ca jagāmātha taṃ dṛṣṭvā śarasaṃkṣayam 36 cintayām āsa jiṣṇus tu bhagavantaṃ hutāśanam purastād akṣayau dattau tūṇau yenāsya khāṇḍave 37 kiṃ nu mokṣyāmi dhanuṣā yan me bāṇāḥ kṣayaṃ gatāḥ ayaṃ ca puruṣaḥ ko 'pi bāṇān grasati sarvaśaḥ 38 aham enaṃ dhanuṣkoṭyā śūlāgreṇeva kuñjaram nayāmi daṇḍadhārasya yamasya sadanaṃ prati 39 saṃprāyudhyad dhanuṣkoṭyā kaunteyaḥ paravīrahā tad apy asya dhanur divyaṃ jagrāsa girigocaraḥ 40 tato 'rjuno grastadhanuḥ khaḍgapāṇir atiṣṭhata yuddhasyāntam abhīpsan vai vegenābhijagāma tam 41 tasya mūrdhni śitaṃ khaḍgam asaktaṃ parvateṣv api mumoca bhujavīryeṇa paphālāsi varo hi saḥ tasya mūrdhānam āsādya paphālāsi varo hi saḥ 42 tato vṛkṣaiḥ śilābhiś ca yodhayām āsa phalgunaḥ yathā vṛkṣān mahākāyaḥ pratyagṛhṇād atho śilāḥ 43 kirāta rūpī bhagavāṃs tataḥ pārtho mahābalaḥ muṣṭibhir vajrasaṃsparśair dhūmam utpādayan mukhe prajahāra durādharṣe kirāta samarūpiṇi 44 tataḥ śakrāśanisamair muṣṭibhir bhṛśadāruṇaiḥ kirāta rūpī bhagavān ardayām āsa phalgunam 45 tataś caṭacaṭā śabdaḥ sughoraḥ samajāyata pāṇḍāvasya ca muṣṭīnāṃ kirātasya ca yudhyataḥ 46 sumuhūrtaṃ mahad yuddham āsīt tal lomaharṣaṇam bhujaprahāra saṃyuktaṃ vṛtravāsavayor iva 47 jahārātha tato jiṣṇuḥ kirātam urasā balī pāṇḍavaṃ ca viceṣṭantaṃ kirāto 'py ahanad balāt 48 tayor bhujaviniṣpeṣāt saṃgharṣeṇorasos tathā samajāyata gātreṣu pāvako 'ṅgāradhūmavān 49 tata enaṃ mahādevaḥ pīḍya gātraiḥ supīḍitam tejasā vyākramad roṣāc cetas tasya vimohayan 50 tato nipīḍitair gātraiḥ piṇḍī kṛta ivābabhau phalguno gātrasaṃruddho devadevena bhārata 51 niruccvāso 'bhavac caiva saṃniruddho mahātmanā tataḥ papāta saṃmūḍhas tataḥ prīto 'bhavad bhavaḥ 52 [bhagavān] bho bho phalguna tuṣṭo 'smi karmaṇāpratimena te śauryeṇānena dhṛtyā ca kṣatriyo nāsti te samaḥ 53 samaṃ tejaś ca vīryaṃ ca mamādya tava cānagha prītas te 'haṃ mahābāho paśya māṃ puruṣarṣabha 54 dadāni te viśālākṣa cakṣuḥ pūrva ṛṣir bhavān vijeṣyasi raṇe śatrūn api sarvān divaukasaḥ 55 [vai] tato devaṃ mahādevaṃ giriśaṃ śūlapāṇinam dadarśa phalgunas tatra sahadevyā mahādyutim 56 sa jānubhyāṃ mahīṃ gatvā śirasā praṇipatya ca prasādayām āsa haraṃ pārthaḥ parapuraṃjayaḥ 57 [arj] kapardin sarvabhūteśa bhaga netranipātana vyatikramaṃ me bhagavan kṣantum arhasi śaṃkara 58 bhavagad darśanākāṅkṣī prāpto 'smīmaṃ mahāgirim dayitaṃ tava deveśa tāpasālayam uttamam 59 prasādaye tvāṃ bhagavan sarvabhūtanamaskṛta na me syād aparādho 'yaṃ mahādevātisāhasāt 60 kṛto mayā yad ajñānād vimardo 'yaṃ tvayā saha śaraṇaṃ saṃprapannāya tatkṣamasvādya śaṃkara 61 [vai] tam uvāca mahātejāḥ prahasya vṛṣabhadhvajaḥ pragṛhya ruciraṃ bāhuṃ kṣāntam ity eva phalgunam |
The Mahabharata in Sanskrit
Book 3
Chapter 41
|
1
[भगवान] नरस तवं पूर्वदेहे वै नारायण सहायवान बदर्यां तप्तवान उग्रं तपॊ वर्षायुतान बहून 2 तवयि वा परमं तेजॊविष्णौ वा पुरुषॊत्तमे युवाभ्यां पुरुषाग्र्याभ्यां तेजसा धार्यते जगत 3 शक्राभिषेके सुमहद धनुर जलदनिस्वनम परगृह्य दानवाः शस्तास तवया कृष्णेन च परभॊ 4 एतत तद एव गाण्डीवं तव पार्थ करॊचितम मायाम आस्थाय यद गरस्तं मया पुरुषसत्तम तूणौ चाप्य अक्षयौ भूयस तव पार्थ यथॊचितौ 5 परीतिमान अस्मि वै पार्थ तव सत्यपराक्रम गृहाण वरम अस्मत्तः काङ्क्षितं यन नरर्षभ 6 न तवया सदृशः कश चित पुमान मर्त्येषु मानद दिवि वा विद्यते कषत्रं तवत परधानम अरिंदम 7 [अर्ज] भगवन ददासि चेन मह्यं कामं परीत्या वृषध्वज कामये दिव्यम अस्त्रं तद घॊरं पाशुपतं परभॊ 8 यत तद बरह्मशिरॊ नाम रौद्रं भीमपराक्रमम युगान्ते दारुणे पराप्ते कृत्स्नं संहरते जगत 9 दहेयं येन संग्रामे दानवान राक्षसांस तथा भूतानि च पिशाचांश च गन्धर्वान अथ पन्नगान 10 यतः शूलसहस्राणि गदाश चॊग्रप्रदर्शनाः शराश चाशीविषाकाराः संभवन्त्य अनुमन्त्रिताः 11 युध्येयं येन भीष्मेण दरॊणेन च कृपेण च सूतपुत्रेण च रणे नित्यं कटुक भाषिणा 12 एष मे परथमः कामॊ भगवन भव नेत्रहन तवत्प्रसादाद विनिर्वृत्तः समर्थः सयाम अहं यथा 13 [भगवान] ददानि ते ऽसत्रं दयितम अहं पाशुपतं महत समर्थॊ धारणे मॊक्षे संहारे चापि पाण्डव 14 नैतद वेद महेन्द्रॊ ऽपि न यमॊ न च यक्षराट वरुणॊ वाथ वा वायुः कुतॊ वेत्स्यन्ति मानवाः 15 न तव एतत सहसा पार्थ मॊक्तव्यं पुरुषे कव चित जगद विनिर्दहेत सर्वम अल्पतेजसि पातितम 16 अवध्यॊ नाम नास्त्य अस्य तरैलॊक्ये सचराचरे मनसा चक्षुषा वाचा धनुषा च निपात्यते 17 [वै] तच छरुत्वा तवरितः पार्थः शुचिर भूत्वा समाहितः उपसंगृह्य विश्वेशम अधीष्वेति च सॊ ऽबरवीत 18 ततस तव अध्यापयाम आस सरहस्य निवर्तनम तद अस्त्रं पाण्डवश्रेष्ठं मूर्तिमन्तम इवान्तकम 19 उपतस्थे महात्मानं यथा तर्यक्षम उमापतिम परतिजग्राह तच चापि परीतिमान अर्जुनस तदा 20 ततश चचाल पृथिवी सपर्वतवनद्रुमा ससागरवनॊद्देशा सग्राम नगराकरा 21 शङ्खदुन्दुभिघॊषाश च भेरीणां च सहस्रशः तस्मिन मुहूर्ते संप्राप्ते निर्घातश च महान अभूत 22 अथास्त्रं जाज्वलद घॊरं पाण्डवस्यामितौजसः मूर्तिमद विष्ठितं पार्श्वे ददृशुर देवदानवाः 23 सपृष्टस्य च तर्यम्बकेन फल्गुनस्यामितौजसः यत किं चिद अशुभं देहे तत सर्वं नाशम एयिवत 24 सवर्गं गच्छेत्य अनुज्ञातस तर्यम्बकेन तदार्जुनः परणम्य शिरसा पार्थः पराञ्जलिर देवम ऐक्षत 25 ततः परभुस तरिदिव निवासिनां वशी; महामतिर गिरिश उमापतिः शिवः धनुर महद दितिजपिशाचसूदनं; ददौ भवः पुरुषवराय गाण्डिवम 26 ततः शुभं गिरिवरम ईश्वरस तदा; सहॊमया सिततट सानु कन्दरम विहाय तं पतगमहर्षिसेवितं; जगाम खं पुरुषवरस्य पश्यतः |
1
[bhagavān] naras tvaṃ pūrvadehe vai nārāyaṇa sahāyavān badaryāṃ taptavān ugraṃ tapo varṣāyutān bahūn 2 tvayi vā paramaṃ tejoviṣṇau vā puruṣottame yuvābhyāṃ puruṣāgryābhyāṃ tejasā dhāryate jagat 3 śakrābhiṣeke sumahad dhanur jaladanisvanam pragṛhya dānavāḥ śastās tvayā kṛṣṇena ca prabho 4 etat tad eva gāṇḍīvaṃ tava pārtha karocitam māyām āsthāya yad grastaṃ mayā puruṣasattama tūṇau cāpy akṣayau bhūyas tava pārtha yathocitau 5 prītimān asmi vai pārtha tava satyaparākrama gṛhāṇa varam asmattaḥ kāṅkṣitaṃ yan nararṣabha 6 na tvayā sadṛśaḥ kaś cit pumān martyeṣu mānada divi vā vidyate kṣatraṃ tvat pradhānam ariṃdama 7 [arj] bhagavan dadāsi cen mahyaṃ kāmaṃ prītyā vṛṣadhvaja kāmaye divyam astraṃ tad ghoraṃ pāśupataṃ prabho 8 yat tad brahmaśiro nāma raudraṃ bhīmaparākramam yugānte dāruṇe prāpte kṛtsnaṃ saṃharate jagat 9 daheyaṃ yena saṃgrāme dānavān rākṣasāṃs tathā bhūtāni ca piśācāṃś ca gandharvān atha pannagān 10 yataḥ śūlasahasrāṇi gadāś cograpradarśanāḥ śarāś cāśīviṣākārāḥ saṃbhavanty anumantritāḥ 11 yudhyeyaṃ yena bhīṣmeṇa droṇena ca kṛpeṇa ca sūtaputreṇa ca raṇe nityaṃ kaṭuka bhāṣiṇā 12 eṣa me prathamaḥ kāmo bhagavan bhava netrahan tvatprasādād vinirvṛttaḥ samarthaḥ syām ahaṃ yathā 13 [bhagavān] dadāni te 'straṃ dayitam ahaṃ pāśupataṃ mahat samartho dhāraṇe mokṣe saṃhāre cāpi pāṇḍava 14 naitad veda mahendro 'pi na yamo na ca yakṣarāṭ varuṇo vātha vā vāyuḥ kuto vetsyanti mānavāḥ 15 na tv etat sahasā pārtha moktavyaṃ puruṣe kva cit jagad vinirdahet sarvam alpatejasi pātitam 16 avadhyo nāma nāsty asya trailokye sacarācare manasā cakṣuṣā vācā dhanuṣā ca nipātyate 17 [vai] tac chrutvā tvaritaḥ pārthaḥ śucir bhūtvā samāhitaḥ upasaṃgṛhya viśveśam adhīṣveti ca so 'bravīt 18 tatas tv adhyāpayām āsa sarahasya nivartanam tad astraṃ pāṇḍavaśreṣṭhaṃ mūrtimantam ivāntakam 19 upatasthe mahātmānaṃ yathā tryakṣam umāpatim pratijagrāha tac cāpi prītimān arjunas tadā 20 tataś cacāla pṛthivī saparvatavanadrumā sasāgaravanoddeśā sagrāma nagarākarā 21 śaṅkhadundubhighoṣāś ca bherīṇāṃ ca sahasraśaḥ tasmin muhūrte saṃprāpte nirghātaś ca mahān abhūt 22 athāstraṃ jājvalad ghoraṃ pāṇḍavasyāmitaujasaḥ mūrtimad viṣṭhitaṃ pārśve dadṛśur devadānavāḥ 23 spṛṣṭasya ca tryambakena phalgunasyāmitaujasaḥ yat kiṃ cid aśubhaṃ dehe tat sarvaṃ nāśam eyivat 24 svargaṃ gacchety anujñātas tryambakena tadārjunaḥ praṇamya śirasā pārthaḥ prāñjalir devam aikṣata 25 tataḥ prabhus tridiva nivāsināṃ vaśī; mahāmatir giriśa umāpatiḥ śivaḥ dhanur mahad ditijapiśācasūdanaṃ; dadau bhavaḥ puruṣavarāya gāṇḍivam 26 tataḥ śubhaṃ girivaram īśvaras tadā; sahomayā sitataṭa sānu kandaram vihāya taṃ patagamaharṣisevitaṃ; jagāma khaṃ puruṣavarasya paśyataḥ |
The Mahabharata in Sanskrit
Book 3
Chapter 42
|
1
[वै] तस्य संपश्यतस तव एव पिनाकी वृषभध्वजः जगामादर्शनं भानुर लॊकस्येवास्तम एयिवान 2 ततॊ ऽरजुनः परं चक्रे विस्मयं परवीरहा मया साक्षान महादेवॊ दृष्ट इत्य एव भारत 3 धन्यॊ ऽसम्य अनुगृहीतॊ ऽसमि यन मया तर्यम्बकॊ हरः पिनाकी वरदॊ रूपी दृष्टः सपृष्टश च पाणिना 4 कृतार्थं चावगच्छामि परम आत्मानम आत्मना शत्रूंश च विजितान सर्वान निर्वृत्तं च परयॊजनम 5 ततॊ वैडूर्य वर्णाभॊ भासयन सर्वतॊदिशः यादॊगणवृतः शरीमान आजगाम जलेश्वरः 6 नागैर नदैर नदीभिश च दैत्यैः साध्यैश च दैवतैः वरुणॊ यादसां भर्ता वशीतं देशम आगमत 7 अथ जाम्बूनदवपुर विमानेन महार्चिषा कुबेरः समनुप्राप्तॊ यक्षैर अनुगतः परभुः 8 विद्यॊतयन्न इवाकाशम अद्भुतॊपमदर्शनः धनानाम ईश्वरः शरीमान अर्जुनं दरष्टुम आगतः 9 तथा लॊकान्त कृच छरीमान यमः साक्षात परतापवान मूर्त्य अमूर्ति धरैः सार्धं पितृभिर लॊकभावनैः 10 दण्डपाणिर अचिन्त्यात्मा सर्वभूतविनाशकृत वैवस्वतॊ धर्मराजॊ विमानेनावभासयन 11 तरीँल लॊकान गुह्यकांश चैव गन्धर्वांश च सपन्नगान दवितीय इव मार्तण्डॊ युगान्ते समुपस्थिते 12 भानुमन्ति विचित्राणि शिखराणि महागिरेः समास्थायार्जुनं तत्र ददृशुस तपसान्वितः 13 ततॊ मुहूर्ताद भगवान ऐरावत शिरॊ गतः आजगाम सहेन्द्राण्या शक्रः सुरगणैर वृतः 14 पाण्डुरेणातपत्रेण धरियमाणेन मूर्धनि शुशुभे तारका राजः सितम अभ्रम इवास्थितः 15 संस्तूयमानॊ गन्धर्वैर ऋषिभिश च तपॊधनैः शृङ्गं गिरेः समासाद्य तस्थौ सूर्य इवॊदितः 16 अथ मेघस्वनॊ धीमान वयाजहार शुभां गिरम यमः परमधर्मज्ञॊ दक्षिणां दिशम आस्थितः 17 अर्जुनार्जुन पश्यास्माँल लॊकपालान समागतान दृष्टिं ते वितरामॊ ऽदय भवान अर्हॊ हि दर्शनम 18 पूर्वर्षिर अमितात्मा तवं नरॊ नाम महाबलः नियॊगाद बरह्मणस तात मर्त्यतां समुपागतः तवं वासव समुद्भूतॊ महावीर्यपराक्रमः 19 कषत्रं चाग्निसमस्पर्शं भारद्वाजेन रक्षितम दानवाश च महावीर्या ये मनुष्यत्वम आगताः निवातकवचाश चैव संसाध्याः कुरुनन्दन 20 पितुर ममांशॊ देवस्य सर्वलॊकप्रतापिनः कर्णः स सुमहावीर्यस तवया वध्यॊ धनंजय 21 अंशाश च कषितिसंप्राप्ता देवगन्धर्वरक्षसाम तया निपातिता युद्धे सवकर्मफलनिर्जिताम गतिं पराप्स्यन्ति कौन्तेय यथा सवम अरिकर्शन 22 अक्षया तव कीर्तिश च लॊके सथास्यति फल्गुन लघ्वी वसुमती चापि कर्तव्या विष्णुना सह 23 गृहाणास्त्रं महाबाहॊ दण्डम अप्रतिवारणम अनेनास्त्रेण सुमहत तवं हि कर्म करिष्यसि 24 परतिजग्राह तत पार्थॊ विधिवत कुरुनन्दनः समन्त्रं सॊपचारं च समॊक्षं सनिवर्तनम 25 ततॊ जलधर शयामॊ वरुणॊ यादसां पतिः पश्चिमां दिशम आस्थाय गिरम उच्चारयन परभुः 26 पार्थ कषत्रिय मुख्यस तवं कषत्रधर्मे वयवस्थितः पश्य मां पृथु ताम्राक्ष वरुणॊ ऽसमि जलेश्वरः 27 मया समुद्यतान पाशान वारुणान अनिवारणान परतिगृह्णीष्व कौन्तेय सरहस्य निवर्तनान 28 एभिस तदा मया वीर संग्रामे तारकामये दैतेयानां सहस्राणि संयतानि महात्मनाम 29 तस्माद इमान महासत्त्वमत्प्रसादात समुत्थितान गृहाण न हि ते मुच्येद अन्तकॊ ऽपय आततायिनः 30 अनेन तवं यदास्त्रेण संग्रामे विचरिष्यसि तदा निःक्षत्रिया भूमिर भविष्यति न संशयः 31 ततः कैलासनिलयॊ धनाध्यक्षॊ ऽभयभाषत दत्तेष्व अस्त्रेषु दिव्येषु वरुणेन यमेन च 32 सव्यसाचिन महाबाहॊ पूर्वदेव सनातन सहास्माभिर भवाञ शरान्तः पुराकल्पेषु नित्यशः 33 मत्तॊ ऽपि तवं गृहाणास्त्रम अन्तर्धानं परियं मम ओजस तेजॊ दयुतिहरं परस्वापनम अरातिहन 34 ततॊ ऽरजुनॊ महाबाहुर विधिवत कुरुनन्दनः कौबेरम अपि जग्राह दिव्यम अस्त्रं महाबलः 35 ततॊ ऽबरवीद देवराजः पार्थम अक्लिष्टकारिणम सान्त्वयञ शलक्ष्णया वाचा मेघदुन्दुभि निस्वनः 36 कुन्ती मातर महाबाहॊ तवम ईशानः पुरातनः परां सिद्धिम अनुप्राप्तः साक्षाद देव गतिं गतः 37 देवकार्यं हि सुमहत तवया कार्यम अरिंदम आरॊढव्यस तवया सवर्गाः सज्जीभव महाद्युते 38 रथॊ मातलिसंयुक्त आगन्ता तवत्कृते महीम तत्र ते ऽहं परदास्यामि दिव्यान्य अस्त्राणि कौरव 39 तान दृष्ट्वा लॊकपालांस तु समेतान गिरिमूर्धनि जगाम विस्मयं धीमान कुन्तीपुत्रॊ धनंजयः 40 ततॊ ऽरजुनॊ महातेजा लॊकपालान समागतान पूजयाम आस विधिवद वाग्भिर अद्भिः फलैर अपि 41 ततः परतिययुर देवाः परतिपूज्य धनंजयम यथागतेन विबुधाः सर्वे काममनॊ जवाः 42 ततॊ ऽरजुनॊ मुदं लेभे लब्धास्त्रः पुरुषर्षभः कृतार्थम इव चात्मानं स मेने पूर्णमानसः |
1
[vai] tasya saṃpaśyatas tv eva pinākī vṛṣabhadhvajaḥ jagāmādarśanaṃ bhānur lokasyevāstam eyivān 2 tato 'rjunaḥ paraṃ cakre vismayaṃ paravīrahā mayā sākṣān mahādevo dṛṣṭa ity eva bhārata 3 dhanyo 'smy anugṛhīto 'smi yan mayā tryambako haraḥ pinākī varado rūpī dṛṣṭaḥ spṛṣṭaś ca pāṇinā 4 kṛtārthaṃ cāvagacchāmi param ātmānam ātmanā śatrūṃś ca vijitān sarvān nirvṛttaṃ ca prayojanam 5 tato vaiḍūrya varṇābho bhāsayan sarvatodiśaḥ yādogaṇavṛtaḥ śrīmān ājagāma jaleśvaraḥ 6 nāgair nadair nadībhiś ca daityaiḥ sādhyaiś ca daivataiḥ varuṇo yādasāṃ bhartā vaśītaṃ deśam āgamat 7 atha jāmbūnadavapur vimānena mahārciṣā kuberaḥ samanuprāpto yakṣair anugataḥ prabhuḥ 8 vidyotayann ivākāśam adbhutopamadarśanaḥ dhanānām īśvaraḥ śrīmān arjunaṃ draṣṭum āgataḥ 9 tathā lokānta kṛc chrīmān yamaḥ sākṣāt pratāpavān mūrty amūrti dharaiḥ sārdhaṃ pitṛbhir lokabhāvanaiḥ 10 daṇḍapāṇir acintyātmā sarvabhūtavināśakṛt vaivasvato dharmarājo vimānenāvabhāsayan 11 trīṁl lokān guhyakāṃś caiva gandharvāṃś ca sapannagān dvitīya iva mārtaṇḍo yugānte samupasthite 12 bhānumanti vicitrāṇi śikharāṇi mahāgireḥ samāsthāyārjunaṃ tatra dadṛśus tapasānvitaḥ 13 tato muhūrtād bhagavān airāvata śiro gataḥ ājagāma sahendrāṇyā śakraḥ suragaṇair vṛtaḥ 14 pāṇḍureṇātapatreṇa dhriyamāṇena mūrdhani śuśubhe tārakā rājaḥ sitam abhram ivāsthitaḥ 15 saṃstūyamāno gandharvair ṛṣibhiś ca tapodhanaiḥ śṛṅgaṃ gireḥ samāsādya tasthau sūrya ivoditaḥ 16 atha meghasvano dhīmān vyājahāra śubhāṃ giram yamaḥ paramadharmajño dakṣiṇāṃ diśam āsthitaḥ 17 arjunārjuna paśyāsmāṁl lokapālān samāgatān dṛṣṭiṃ te vitarāmo 'dya bhavān arho hi darśanam 18 pūrvarṣir amitātmā tvaṃ naro nāma mahābalaḥ niyogād brahmaṇas tāta martyatāṃ samupāgataḥ tvaṃ vāsava samudbhūto mahāvīryaparākramaḥ 19 kṣatraṃ cāgnisamasparśaṃ bhāradvājena rakṣitam dānavāś ca mahāvīryā ye manuṣyatvam āgatāḥ nivātakavacāś caiva saṃsādhyāḥ kurunandana 20 pitur mamāṃśo devasya sarvalokapratāpinaḥ karṇaḥ sa sumahāvīryas tvayā vadhyo dhanaṃjaya 21 aṃśāś ca kṣitisaṃprāptā devagandharvarakṣasām tayā nipātitā yuddhe svakarmaphalanirjitām gatiṃ prāpsyanti kaunteya yathā svam arikarśana 22 akṣayā tava kīrtiś ca loke sthāsyati phalguna laghvī vasumatī cāpi kartavyā viṣṇunā saha 23 gṛhāṇāstraṃ mahābāho daṇḍam aprativāraṇam anenāstreṇa sumahat tvaṃ hi karma kariṣyasi 24 pratijagrāha tat pārtho vidhivat kurunandanaḥ samantraṃ sopacāraṃ ca samokṣaṃ sanivartanam 25 tato jaladhara śyāmo varuṇo yādasāṃ patiḥ paścimāṃ diśam āsthāya giram uccārayan prabhuḥ 26 pārtha kṣatriya mukhyas tvaṃ kṣatradharme vyavasthitaḥ paśya māṃ pṛthu tāmrākṣa varuṇo 'smi jaleśvaraḥ 27 mayā samudyatān pāśān vāruṇān anivāraṇān pratigṛhṇīṣva kaunteya sarahasya nivartanān 28 ebhis tadā mayā vīra saṃgrāme tārakāmaye daiteyānāṃ sahasrāṇi saṃyatāni mahātmanām 29 tasmād imān mahāsattvamatprasādāt samutthitān gṛhāṇa na hi te mucyed antako 'py ātatāyinaḥ 30 anena tvaṃ yadāstreṇa saṃgrāme vicariṣyasi tadā niḥkṣatriyā bhūmir bhaviṣyati na saṃśayaḥ 31 tataḥ kailāsanilayo dhanādhyakṣo 'bhyabhāṣata datteṣv astreṣu divyeṣu varuṇena yamena ca 32 savyasācin mahābāho pūrvadeva sanātana sahāsmābhir bhavāñ śrāntaḥ purākalpeṣu nityaśaḥ 33 matto 'pi tvaṃ gṛhāṇāstram antardhānaṃ priyaṃ mama ojas tejo dyutiharaṃ prasvāpanam arātihan 34 tato 'rjuno mahābāhur vidhivat kurunandanaḥ kauberam api jagrāha divyam astraṃ mahābalaḥ 35 tato 'bravīd devarājaḥ pārtham akliṣṭakāriṇam sāntvayañ ślakṣṇayā vācā meghadundubhi nisvanaḥ 36 kuntī mātar mahābāho tvam īśānaḥ purātanaḥ parāṃ siddhim anuprāptaḥ sākṣād deva gatiṃ gataḥ 37 devakāryaṃ hi sumahat tvayā kāryam ariṃdama āroḍhavyas tvayā svargāḥ sajjībhava mahādyute 38 ratho mātalisaṃyukta āgantā tvatkṛte mahīm tatra te 'haṃ pradāsyāmi divyāny astrāṇi kaurava 39 tān dṛṣṭvā lokapālāṃs tu sametān girimūrdhani jagāma vismayaṃ dhīmān kuntīputro dhanaṃjayaḥ 40 tato 'rjuno mahātejā lokapālān samāgatān pūjayām āsa vidhivad vāgbhir adbhiḥ phalair api 41 tataḥ pratiyayur devāḥ pratipūjya dhanaṃjayam yathāgatena vibudhāḥ sarve kāmamano javāḥ 42 tato 'rjuno mudaṃ lebhe labdhāstraḥ puruṣarṣabhaḥ kṛtārtham iva cātmānaṃ sa mene pūrṇamānasaḥ |
The Mahabharata in Sanskrit
Book 3
Chapter 43
|
1
[वै] गतेषु लॊकपालेषु पार्थः शत्रुनिबर्हणः चिन्तयाम आस राजेन्द्र देवराजरथागमम 2 ततश चिन्तयमानस्य गुडा केशस्य धीमतः रथॊ मातलिसंयुक्त आजगाम महाप्रभः 3 नभॊ वितिमिरं कुर्वञ जलदान पाटयन्न इव दिशः संपूरयन नादैर महामेघरवॊपमैः 4 असयः शक्तयॊ भीमा गदाश चॊग्रप्रदर्शनाः दिव्यप्रभावा परासाश च विद्युतश च महाप्रभाः 5 तथैवाशनयस तत्र चक्रयुक्ता हुडा गुडाः वायुस्फॊटाः सनिर्घाता बर्हि मेघनिभ सवनाः 6 तत्र नागा महाकाया जवलितास्याः सुदारुणाः सिताभ्रकूटप्रतिमाः संहताश च यथॊपलाः 7 दशवाजिसहस्राणि हरीणां वातरंहसाम वहन्ति यं नेत्रमुषं दिव्यं मायामयं रथम 8 तत्रापश्यन महानीलं वैजयन्तं महाप्रभम धवजम इन्दी वरश्यामं वंशं कनकभूषणम 9 तस्मिन रथे सथितं सूतं तप्तहेमविभूषितम दृष्ट्वा पार्थॊ महाबाहुर देवम एवान्वतर्कयत 10 तथा तर्कयतस तस्य फल्गुनस्याथ मातलिः संनतः परश्रितॊ भूत्वा वाक्यम अर्जुनम अब्रवीत 11 भॊ भॊ शक्रात्मज शरीमाञ शक्रस तवां दरष्टुम इच्छति आरॊहतु भवाञ शीघ्रं रथम इन्द्रस्य संमतम 12 आह माम अमर शरेष्ठः पिता तव शतक्रतुः कुन्तीसुतम इह पराप्तं पश्यन्तु तरिदशालयाः 13 एष शक्रः परिवृतॊ देवैर ऋषिगणैस तथा गन्धर्वैर अप्सरॊभिश च तवां दिदृक्षुः परतीक्षते 14 अस्माल लॊकाद देवलॊकं पाकशासन शासनात आरॊह तवं मया सार्धं लब्धास्त्रः पुनर एष्यसि 15 [अर्ज] मातले गच्छ शीघ्रं तवम आरॊहस्व रथॊत्तमम राजसूयाश्वमेधानां शतैर अपि सुदुर्लभम 16 पार्थिवैः सुमहाभागैर यज्वभिर भूरिदक्षिणैः दैवतैर वा समारॊढुं दानवैर वा रथॊत्तमम 17 नातप्त तपसा शक्य एष दिव्यॊ महारथः दरष्टुं वाप्य अथ वा सप्रष्टुम आरॊढुं कुत एव तु 18 तवयि परतिष्ठिते साधॊ रथस्थे सथिरवाजिनि पश्चाद अहम अथारॊक्ष्ये सुकृती सत्पथं यथा 19 [वै] तस्य तद वचनं शरुत्वा मातलिः शक्रसारथिः आरुरॊह रथं शीघ्रं हयान येमे च रश्मिभिः 20 ततॊ ऽरजुनॊ हृष्टमना गङ्गायाम आप्लुतः शुचिः जजाप जप्यं कौन्तेयॊ विधिवत कुरुनन्दनः 21 ततः पितॄन यथान्यायं तर्पयित्वा यथाविधि मन्दरं शैलराजं तम आप्रष्टुम उपचक्रमे 22 साधूनां धर्मशीलानां मुनीनां पुण्यकर्मणाम तवं सदा संश्रयः शैलस्वर्गमार्गाभिकाङ्क्षिणाम 23 तवत्प्रसादात सदा शैलब्राह्मणाः कषत्रिया विशः सवगं पराप्ताश चरन्ति सम देवैः सह गतव्यथाः 24 अद्रिराजमहाशैलमुनि संश्रयतीर्थवन गच्छाम्य आमन्त्रयामि तवां सुखम अस्म्य उषितस तवयि 25 तव सानूनि कुञ्जाश च नद्यः परस्रवणानि च तीर्थानि च सुपुण्यानि मया दृष्टान्य अनेकशः 26 एवम उक्त्वार्जुनः शैलम आमन्त्र्य परवीरहा आरुरॊह रथं दिव्यं दयॊतयन्न इव भास्वकः 27 स तेनादित्य रूपेण दिव्येनाद्भुत कर्मणा ऊर्ध्वम आचक्रमे धीमान परहृष्टः कुरुनन्दनः 28 सॊ ऽदर्शन पथं यात्वा मर्त्यानां भूमिचारिणाम ददर्शाद्भुतरूपाणि विमानानि सहस्रशः 29 न तत्र सूर्यः सॊमॊ वा दयॊतते न च पावकः सवयैव परभया तत्र दयॊतन्ते पुण्यलब्धया 30 तारा रूपाणि यानीह दृश्यन्ते दयुतिमन्ति वै दीपवद विप्रकृष्टत्वाद अणूनि सुमहान्त्य अपि 31 तानि तत्र परभास्वन्ति रूपवन्ति च पाण्डवः ददर्श सवेषु धिष्ण्येषु दीप्तिमन्ति सवयार्चिषा 32 तत्र राजर्षयः सिद्धा वीराश च निहता युधि तपसा च जितस्वर्गाः संपेतुः शतसंघशः 33 गन्धर्वाणां सहस्राणि सूर्यज्वलन तेजसाम गुह्यकानाम ऋषीणां च तथैवाप्सरसां गणाः 34 लॊकान आत्मप्रभान पश्यन फल्गुनॊ विस्मयान्वितः पप्रच्छ मातलिं परीत्या स चाप्य एनम उवाच ह 35 एते सुकृतिनः पार्थ सवेषु धिष्ण्येष्व्व अवस्थिताः यान दृष्टवान असि विभॊ तारा रूपाणि भूतले 36 ततॊ ऽपश्यत सथितं दवारि सितं वैजयिनं गजम ऐरावतं चतुर्दन्तं कैलासम इव शृङ्गिणम 37 स सिद्धमार्गम आक्रम्य कुरुपाण्डवसत्तमः वयरॊचत यथापूर्वं मान्धाता पार्थिवॊत्तमः 38 अतिचक्राम लॊकान स राज्ञां राजीवलॊचनः ततॊ ददर्श शक्रस्य पुरीं ताम अमरावतीम |
1
[vai] gateṣu lokapāleṣu pārthaḥ śatrunibarhaṇaḥ cintayām āsa rājendra devarājarathāgamam 2 tataś cintayamānasya guḍā keśasya dhīmataḥ ratho mātalisaṃyukta ājagāma mahāprabhaḥ 3 nabho vitimiraṃ kurvañ jaladān pāṭayann iva diśaḥ saṃpūrayan nādair mahāmegharavopamaiḥ 4 asayaḥ śaktayo bhīmā gadāś cograpradarśanāḥ divyaprabhāvā prāsāś ca vidyutaś ca mahāprabhāḥ 5 tathaivāśanayas tatra cakrayuktā huḍā guḍāḥ vāyusphoṭāḥ sanirghātā barhi meghanibha svanāḥ 6 tatra nāgā mahākāyā jvalitāsyāḥ sudāruṇāḥ sitābhrakūṭapratimāḥ saṃhatāś ca yathopalāḥ 7 daśavājisahasrāṇi harīṇāṃ vātaraṃhasām vahanti yaṃ netramuṣaṃ divyaṃ māyāmayaṃ ratham 8 tatrāpaśyan mahānīlaṃ vaijayantaṃ mahāprabham dhvajam indī varaśyāmaṃ vaṃśaṃ kanakabhūṣaṇam 9 tasmin rathe sthitaṃ sūtaṃ taptahemavibhūṣitam dṛṣṭvā pārtho mahābāhur devam evānvatarkayat 10 tathā tarkayatas tasya phalgunasyātha mātaliḥ saṃnataḥ praśrito bhūtvā vākyam arjunam abravīt 11 bho bho śakrātmaja śrīmāñ śakras tvāṃ draṣṭum icchati ārohatu bhavāñ śīghraṃ ratham indrasya saṃmatam 12 āha mām amara śreṣṭhaḥ pitā tava śatakratuḥ kuntīsutam iha prāptaṃ paśyantu tridaśālayāḥ 13 eṣa śakraḥ parivṛto devair ṛṣigaṇais tathā gandharvair apsarobhiś ca tvāṃ didṛkṣuḥ pratīkṣate 14 asmāl lokād devalokaṃ pākaśāsana śāsanāt āroha tvaṃ mayā sārdhaṃ labdhāstraḥ punar eṣyasi 15 [arj] mātale gaccha śīghraṃ tvam ārohasva rathottamam rājasūyāśvamedhānāṃ śatair api sudurlabham 16 pārthivaiḥ sumahābhāgair yajvabhir bhūridakṣiṇaiḥ daivatair vā samāroḍhuṃ dānavair vā rathottamam 17 nātapta tapasā śakya eṣa divyo mahārathaḥ draṣṭuṃ vāpy atha vā spraṣṭum āroḍhuṃ kuta eva tu 18 tvayi pratiṣṭhite sādho rathasthe sthiravājini paścād aham athārokṣye sukṛtī satpathaṃ yathā 19 [vai] tasya tad vacanaṃ śrutvā mātaliḥ śakrasārathiḥ āruroha rathaṃ śīghraṃ hayān yeme ca raśmibhiḥ 20 tato 'rjuno hṛṣṭamanā gaṅgāyām āplutaḥ śuciḥ jajāpa japyaṃ kaunteyo vidhivat kurunandanaḥ 21 tataḥ pitṝn yathānyāyaṃ tarpayitvā yathāvidhi mandaraṃ śailarājaṃ tam āpraṣṭum upacakrame 22 sādhūnāṃ dharmaśīlānāṃ munīnāṃ puṇyakarmaṇām tvaṃ sadā saṃśrayaḥ śailasvargamārgābhikāṅkṣiṇām 23 tvatprasādāt sadā śailabrāhmaṇāḥ kṣatriyā viśaḥ svagaṃ prāptāś caranti sma devaiḥ saha gatavyathāḥ 24 adrirājamahāśailamuni saṃśrayatīrthavan gacchāmy āmantrayāmi tvāṃ sukham asmy uṣitas tvayi 25 tava sānūni kuñjāś ca nadyaḥ prasravaṇāni ca tīrthāni ca supuṇyāni mayā dṛṣṭāny anekaśaḥ 26 evam uktvārjunaḥ śailam āmantrya paravīrahā āruroha rathaṃ divyaṃ dyotayann iva bhāsvakaḥ 27 sa tenāditya rūpeṇa divyenādbhuta karmaṇā ūrdhvam ācakrame dhīmān prahṛṣṭaḥ kurunandanaḥ 28 so 'darśana pathaṃ yātvā martyānāṃ bhūmicāriṇām dadarśādbhutarūpāṇi vimānāni sahasraśaḥ 29 na tatra sūryaḥ somo vā dyotate na ca pāvakaḥ svayaiva prabhayā tatra dyotante puṇyalabdhayā 30 tārā rūpāṇi yānīha dṛśyante dyutimanti vai dīpavad viprakṛṣṭatvād aṇūni sumahānty api 31 tāni tatra prabhāsvanti rūpavanti ca pāṇḍavaḥ dadarśa sveṣu dhiṣṇyeṣu dīptimanti svayārciṣā 32 tatra rājarṣayaḥ siddhā vīrāś ca nihatā yudhi tapasā ca jitasvargāḥ saṃpetuḥ śatasaṃghaśaḥ 33 gandharvāṇāṃ sahasrāṇi sūryajvalana tejasām guhyakānām ṛṣīṇāṃ ca tathaivāpsarasāṃ gaṇāḥ 34 lokān ātmaprabhān paśyan phalguno vismayānvitaḥ papraccha mātaliṃ prītyā sa cāpy enam uvāca ha 35 ete sukṛtinaḥ pārtha sveṣu dhiṣṇyeṣvv avasthitāḥ yān dṛṣṭavān asi vibho tārā rūpāṇi bhūtale 36 tato 'paśyat sthitaṃ dvāri sitaṃ vaijayinaṃ gajam airāvataṃ caturdantaṃ kailāsam iva śṛṅgiṇam 37 sa siddhamārgam ākramya kurupāṇḍavasattamaḥ vyarocata yathāpūrvaṃ māndhātā pārthivottamaḥ 38 aticakrāma lokān sa rājñāṃ rājīvalocanaḥ tato dadarśa śakrasya purīṃ tām amarāvatīm |
The Mahabharata in Sanskrit
Book 3
Chapter 44
|
1
[वै] स ददर्श पुरीं रम्यां सिद्धचारणसेविताम सर्वर्तुकुसुमैः पुण्यैः पादपैर उपशॊभिताम 2 तत्र सौगन्धिकानां स दरुमाणां पुण्यगन्धिनाम उपवीज्यमानॊ मिश्रेण वायुना पुण्यगन्धिना 3 नन्दनं च वनं दिव्यम अप्सरॊगणसेवितम ददर्श दिव्यकुसुमैर आह्वयद्भिर इव दरुमैः 4 नातप्त तपसा शक्यॊ दरष्टुं नानाहिताग्निना स लॊकः पुण्यकर्तॄणां नापि युद्धपराङ्मुखैः 5 नायज्वभिर नानृतकैर न वेदश्रुतिवर्जितैः नाना पलुताङ्गैस तीर्थेषु यज्ञदानबहिष कृतैः 6 नापि यज्ञहनैः कषुद्रैर दरष्टुं शक्यः कथं चन पानपैर गुरु तल्पैश च मांसादैर वा दुरात्मभिः 7 स तद दिव्यं वनं पश्यन दिव्यगीत निनादितम परविवेश महाबाहुः शक्रस्य दयितां पुरीम 8 तत्र देव विमानानि कामगानि सहस्रशः संस्थितान्य अभियातानि ददर्शायुतशस तदा 9 संस्तूयमानॊ गन्धर्वैर अप्सरॊभिश च पाण्डवः पुष्पगन्धवहैः पुण्यैर वायुभिश चानुजीवितः 10 ततॊ देवाः सगन्धर्वाः सिद्धाश च परमर्षयः हृष्टाः संपूजयाम आसुः पार्थम अक्लिष्टकारिणम 11 आशीर्वादैः सतूयमानॊ दिव्यवादित्र निस्वनैः परतिपेदे महाबाहुः शङ्खदुन्दुभिनादितम 12 नक्षत्रमार्गं विपुलं सुरवीथीति विश्रुतम इन्द्राज्ञया ययौ पार्थः सतूयमानः समन्ततः 13 तत्र साध्यास तथा विश्वे मरुतॊ ऽथाश्विनाव अपि आदित्या वसवॊ रुद्रास तथा बरह्मर्षयॊ ऽमलाः 14 राजर्षयश च बहवॊ दिलीप परमुखा नृपाः तुम्बुरुर नारदैश चैव गन्धर्व्वौ च हहाहुहू 15 तान सर्व्वान स समागम्य विधिवत कुरुनन्दनः ततॊ ऽपश्यद देवराजं शतक्रतुम अरिंदमम 16 ततः पार्थॊ महाबाहुर अवतीर्य रथॊत्तमात ददर्श साक्षाद देवेन्द्रं पितरं पाकशासनम 17 पाण्डुरेणातपत्रेण हेमदण्डेन चारुणा दिव्यगन्धाधिवासेन वयजनेन विधूयता 18 विश्वावसुप्रभृतिभिर गन्धर्वैः सतुतिवन्दनैः सतूयमानं दविजाग्र्यैश च ऋग यजुः साम संस्तवैः 19 ततॊ ऽभिगम्य कौन्तेयः शिरसाभ्यनमद बली स चैनम अनुवृत्ताभ्यां भुजाभ्यां परत्यगृह्णत 20 ततः शक्रासने पुण्ये देवराजर्षिपूजिते शक्रः पाणौ गृहीत्वैनम उपावेशयद अन्तिके 21 मूर्ध्नि चैनम उपाघ्राय देवेन्द्रः परवीरहा अङ्कम आरॊपयाम आस परश्रयावनतं तदा 22 सहस्राक्ष नियॊगात स पार्थः शक्रासनं तदा अध्यक्रामद अमेयात्मा दवितीय इव वासवः 23 ततः परेम्णा वृत्र शत्रुर अर्जुनस्य शुभं मुखम पस्पर्श पुण्यगन्धेन करेण परिसान्त्वयन 24 परिमार्जमानः शनकैर बाहू चास्यायतौ शुभौ जया शरक्षेप कठिनौ सतम्भाव इव हिरण्मयौ 25 वज्रग्रहणचिह्नेन करेण बलसूदनः मुहुर मुहुर वज्रधरॊ बाहू संस्फालयञ शनैः 26 समयन्न इव गुडा केशं परेक्षमाणः सहस्रदृक हर्षेणॊत्फुल्ल नयनॊ न चातृप्यत वृत्रहा 27 एकासनॊपविष्टौ तौ शॊभयां चक्रतुः सभाम सूर्या चन्द्रमसौ वयॊम्नि चतुर्दश्याम इवॊदितौ 28 तत्र सम गाथा गायन्ति साम्ना परमवल्गुना गन्धर्वास तुम्बुरु शरेष्ठाः कुशला गीतसामसु 29 घृताची मेनका रम्भा पूर्वचित्तिः सवयंप्रभा उर्वशी मिश्रकेशी च डुण्डुर गौरी वरूथिनी 30 गॊपाली सह जन्या च कुम्भयॊनिः परजागरा चित्रसेना चित्रलेखा सहा च मधुरस्वरा 31 एताश चान्याश च ननृतुस तत्र तत्र वराङ्गनाः चित्तप्रमथने युक्ताः सिद्धानां पद्मलॊचनाः 32 महाकटि तट शरॊण्यः कम्पमानैः पयॊधरैः कटाक्ष हाव माधुर्यैश चेतॊ बुद्धिमनॊहराः |
1
[vai] sa dadarśa purīṃ ramyāṃ siddhacāraṇasevitām sarvartukusumaiḥ puṇyaiḥ pādapair upaśobhitām 2 tatra saugandhikānāṃ sa drumāṇāṃ puṇyagandhinām upavījyamāno miśreṇa vāyunā puṇyagandhinā 3 nandanaṃ ca vanaṃ divyam apsarogaṇasevitam dadarśa divyakusumair āhvayadbhir iva drumaiḥ 4 nātapta tapasā śakyo draṣṭuṃ nānāhitāgninā sa lokaḥ puṇyakartṝṇāṃ nāpi yuddhaparāṅmukhaiḥ 5 nāyajvabhir nānṛtakair na vedaśrutivarjitaiḥ nānā plutāṅgais tīrtheṣu yajñadānabahiṣ kṛtaiḥ 6 nāpi yajñahanaiḥ kṣudrair draṣṭuṃ śakyaḥ kathaṃ cana pānapair guru talpaiś ca māṃsādair vā durātmabhiḥ 7 sa tad divyaṃ vanaṃ paśyan divyagīta nināditam praviveśa mahābāhuḥ śakrasya dayitāṃ purīm 8 tatra deva vimānāni kāmagāni sahasraśaḥ saṃsthitāny abhiyātāni dadarśāyutaśas tadā 9 saṃstūyamāno gandharvair apsarobhiś ca pāṇḍavaḥ puṣpagandhavahaiḥ puṇyair vāyubhiś cānujīvitaḥ 10 tato devāḥ sagandharvāḥ siddhāś ca paramarṣayaḥ hṛṣṭāḥ saṃpūjayām āsuḥ pārtham akliṣṭakāriṇam 11 āśīrvādaiḥ stūyamāno divyavāditra nisvanaiḥ pratipede mahābāhuḥ śaṅkhadundubhināditam 12 nakṣatramārgaṃ vipulaṃ suravīthīti viśrutam indrājñayā yayau pārthaḥ stūyamānaḥ samantataḥ 13 tatra sādhyās tathā viśve maruto 'thāśvināv api ādityā vasavo rudrās tathā brahmarṣayo 'malāḥ 14 rājarṣayaś ca bahavo dilīpa pramukhā nṛpāḥ tumburur nāradaiś caiva gandharvvau ca hahāhuhū 15 tān sarvvān sa samāgamya vidhivat kurunandanaḥ tato 'paśyad devarājaṃ śatakratum ariṃdamam 16 tataḥ pārtho mahābāhur avatīrya rathottamāt dadarśa sākṣād devendraṃ pitaraṃ pākaśāsanam 17 pāṇḍureṇātapatreṇa hemadaṇḍena cāruṇā divyagandhādhivāsena vyajanena vidhūyatā 18 viśvāvasuprabhṛtibhir gandharvaiḥ stutivandanaiḥ stūyamānaṃ dvijāgryaiś ca ṛg yajuḥ sāma saṃstavaiḥ 19 tato 'bhigamya kaunteyaḥ śirasābhyanamad balī sa cainam anuvṛttābhyāṃ bhujābhyāṃ pratyagṛhṇata 20 tataḥ śakrāsane puṇye devarājarṣipūjite śakraḥ pāṇau gṛhītvainam upāveśayad antike 21 mūrdhni cainam upāghrāya devendraḥ paravīrahā aṅkam āropayām āsa praśrayāvanataṃ tadā 22 sahasrākṣa niyogāt sa pārthaḥ śakrāsanaṃ tadā adhyakrāmad ameyātmā dvitīya iva vāsavaḥ 23 tataḥ premṇā vṛtra śatrur arjunasya śubhaṃ mukham pasparśa puṇyagandhena kareṇa parisāntvayan 24 parimārjamānaḥ śanakair bāhū cāsyāyatau śubhau jyā śarakṣepa kaṭhinau stambhāv iva hiraṇmayau 25 vajragrahaṇacihnena kareṇa balasūdanaḥ muhur muhur vajradharo bāhū saṃsphālayañ śanaiḥ 26 smayann iva guḍā keśaṃ prekṣamāṇaḥ sahasradṛk harṣeṇotphulla nayano na cātṛpyata vṛtrahā 27 ekāsanopaviṣṭau tau śobhayāṃ cakratuḥ sabhām sūryā candramasau vyomni caturdaśyām ivoditau 28 tatra sma gāthā gāyanti sāmnā paramavalgunā gandharvās tumburu śreṣṭhāḥ kuśalā gītasāmasu 29 ghṛtācī menakā rambhā pūrvacittiḥ svayaṃprabhā urvaśī miśrakeśī ca ḍuṇḍur gaurī varūthinī 30 gopālī saha janyā ca kumbhayoniḥ prajāgarā citrasenā citralekhā sahā ca madhurasvarā 31 etāś cānyāś ca nanṛtus tatra tatra varāṅganāḥ cittapramathane yuktāḥ siddhānāṃ padmalocanāḥ 32 mahākaṭi taṭa śroṇyaḥ kampamānaiḥ payodharaiḥ kaṭākṣa hāva mādhuryaiś ceto buddhimanoharāḥ |
The Mahabharata in Sanskrit
Book 3
Chapter 45
|
1
[वै] ततॊ देवाः सगन्धर्वाः समादायार्घ्यम उत्तमम शक्रस्य मतम आज्ञाय पार्थम आनर्चुर अञ्जसा 2 पाद्यम आचमनीयं च परतिगृह्य नृपात्मजम परवेशया मासुर अथॊ पुरंदर निवेशनम 3 एवं संपूजितॊ जिष्णुर उवास भवने पितुः उपशिक्षन महास्त्राणि ससंहाराणि पाण्डवः 4 शक्रस्य हस्ताद दयितं वज्रम अस्त्रं दुरुत्सहम अशनीश च महानादा मेघबर्हिण लक्षणाः 5 गृहीतास्त्रस तु कौन्तेयॊ भरातॄन सस्मार पाण्डवः पुरंदर नियॊगाच च पञ्चाब्दम अवसत सुखी 6 ततः शक्रॊ ऽबरवीत पार्थं कृतास्त्रं काल आगते नृत्तं गीतं च कौन्तेय चित्रसेनाद अवाप्नुहि 7 वादित्रं देव विहितं नृलॊके यन न विद्यते तद अर्जयस्व कौन्तेय शरेयॊ वै ते भविष्यति 8 सखायं परददौ चास्य चित्रसेनं पुरंदरः स तेन सह संगम्य रेमे पार्थॊ निरामयः 9 कदा चिद अटमानस तु महर्षिर उत लॊमशः जगाम शक्र भवनं पुरंदर दिदृक्षया 10 स समेत्य नमस्कृत्य देवराजं महामुनिः ददर्शार्धासन गतं पाण्डवं वासवस्य ह 11 ततः शक्राभ्यनुज्ञात आसने विष्टरॊत्तरे निषसाद दविजश्रेष्ठः पूज्यमानॊ महर्षिभिः 12 तस्य दृष्ट्वाभवद बुद्धिः पार्थम इन्द्रासने सथितम कथं नु कषत्रियः पार्थः शक्रासनम अवाप्तवान 13 किं तव अस्य सुकृतं कर्म लॊका वा के विनिर्जिताः य एवम उपसंप्राप्तः सथानं देवनमस्कृतम 14 तस्य विज्ञाय संकल्पं शक्रॊ वृत्रनिषूदनः लॊमशं परहसन वाक्यम इदम आह शचीपतिः 15 बरह्मर्षे शरूयतां यत ते मनसैतद विवक्षितम नायं केवलमर्त्यॊ वै कषत्रियत्वम उपागतः 16 महर्षे मम पुत्रॊ ऽयं कुन्त्यां जातॊ महाभुजः अस्त्रहेतॊर इह पराप्तः कस्माच चित कारणान्तरात 17 अहॊ नैनं भवान वेत्ति पुराणम ऋषिसत्तमम शृणु मे वदतॊ बरह्मन यॊ ऽयं यच चास्य कारणम 18 नरनारायणौ यौ तौ पुराणाव ऋषिसत्तमौ ताव इमाव अभिजानीहि हृषीकेशधनंजयौ 19 यन न शक्यं सुरैर दरष्टुम ऋषिभिर वा महात्मभिः तद आश्रमपदं पुण्यं बदरी नाम विश्रुतम 20 स निवासॊ ऽभवद विप्र विष्णॊर जिष्णॊस तथैव च यतः परववृते गङ्गा सिद्धचारणसेविता 21 तौ मन्नियॊगाद बरह्मर्षे कषितौ जातौ महाद्युती भूमेर भारावतरणं महावीर्यौ करिष्यतः 22 उद्वृत्ता हय असुराः के चिन निवातकवचा इति विप्रियेषु सथितास्माकं वरदानेन मॊहिताः 23 तर्कयन्ते सुरान हन्तुं बलदर्प समन्विताः देवान न गणयन्ते च तथा दत्तवरा हि ते 24 पातालवासिनॊ रौद्रा दनॊः पुत्रा महाबलाः सर्वे देव निकाया हि नालं यॊधयितुं सम तान 25 यॊ ऽसौ भूमिगतः शरीमान विष्णुर मधु निषूदनः कपिलॊ नाम देवॊ ऽसौ भगवान अजितॊ हरिः 26 येन पूर्वं महात्मानः खनमाना रसातलम दर्शनाद एव निहताः सगरस्यात्मजा विभॊ 27 तेन कार्यं महत कार्यम अस्माकं दविजसत्तम पार्थेन च महायुद्धे समेताभ्याम असंशयम 28 अयं तेषां समस्तानां शक्तः परतिसमासने तान निहत्य रणे शूरः पुनर यास्यति मानुषान 29 भवांश चास्मन नियॊगेन यातु तावन महीतलम काम्यके दरक्ष्यसे वीरं निवसन्तं युधिष्ठिरम 30 स वाच्यॊ मम संदेशाद धर्मात्मा सत्यसंगरः नॊत्कण्ठा फल्गुने कार्या कृतास्त्रः शीघ्रम एष्यति 31 नाशुद्ध बाहुवीर्येण नाकृतास्त्रेण वा रणे भीष्मद्रॊणादयॊ युद्धे शक्त्याः परतिसमासितुम 32 गृहीतास्त्रॊ गुडा केशॊ महाबाहुर महामनाः नृत्तवादित्रगीतानां दिव्यानां पारम एयिवान 33 भवान अपि विविक्तानि तीर्थानि मनुजेश्वर भरातृभिः सहितः सर्वैर दरष्टुम अर्हत्य अरिंदम 34 तीर्थेष्व आप्लुत्य पुण्येषु विपाप्मा विगतज्वरः राज्यं भॊक्ष्यसि राजेन्द्र सुखी विगतकल्मषः 35 भवांश चैनं दविजश्रेष्ठ पर्यटन्तं महीतले तरातुम अर्हति विप्राग्र्य तपॊबलसमन्वितः 36 गिरिदुर्गेषु हि सदा देशेषु विषमेषु च वसन्ति राक्षसा रौद्रास तेभ्यॊ रक्षेत सदा भवान 37 स तथेति परतिज्ञाय लॊमशः सुमहातपाः काम्यकं वनम उद्दिश्य समुपायान महीतलम 38 ददर्श तत्र कौन्तेयं धर्मराजम अरिंदमम तापसैर भरातृभिश चैव सर्वतः परिवारितम |
1
[vai] tato devāḥ sagandharvāḥ samādāyārghyam uttamam śakrasya matam ājñāya pārtham ānarcur añjasā 2 pādyam ācamanīyaṃ ca pratigṛhya nṛpātmajam praveśayā māsur atho puraṃdara niveśanam 3 evaṃ saṃpūjito jiṣṇur uvāsa bhavane pituḥ upaśikṣan mahāstrāṇi sasaṃhārāṇi pāṇḍavaḥ 4 śakrasya hastād dayitaṃ vajram astraṃ durutsaham aśanīś ca mahānādā meghabarhiṇa lakṣaṇāḥ 5 gṛhītāstras tu kaunteyo bhrātṝn sasmāra pāṇḍavaḥ puraṃdara niyogāc ca pañcābdam avasat sukhī 6 tataḥ śakro 'bravīt pārthaṃ kṛtāstraṃ kāla āgate nṛttaṃ gītaṃ ca kaunteya citrasenād avāpnuhi 7 vāditraṃ deva vihitaṃ nṛloke yan na vidyate tad arjayasva kaunteya śreyo vai te bhaviṣyati 8 sakhāyaṃ pradadau cāsya citrasenaṃ puraṃdaraḥ sa tena saha saṃgamya reme pārtho nirāmayaḥ 9 kadā cid aṭamānas tu maharṣir uta lomaśaḥ jagāma śakra bhavanaṃ puraṃdara didṛkṣayā 10 sa sametya namaskṛtya devarājaṃ mahāmuniḥ dadarśārdhāsana gataṃ pāṇḍavaṃ vāsavasya ha 11 tataḥ śakrābhyanujñāta āsane viṣṭarottare niṣasāda dvijaśreṣṭhaḥ pūjyamāno maharṣibhiḥ 12 tasya dṛṣṭvābhavad buddhiḥ pārtham indrāsane sthitam kathaṃ nu kṣatriyaḥ pārthaḥ śakrāsanam avāptavān 13 kiṃ tv asya sukṛtaṃ karma lokā vā ke vinirjitāḥ ya evam upasaṃprāptaḥ sthānaṃ devanamaskṛtam 14 tasya vijñāya saṃkalpaṃ śakro vṛtraniṣūdanaḥ lomaśaṃ prahasan vākyam idam āha śacīpatiḥ 15 brahmarṣe śrūyatāṃ yat te manasaitad vivakṣitam nāyaṃ kevalamartyo vai kṣatriyatvam upāgataḥ 16 maharṣe mama putro 'yaṃ kuntyāṃ jāto mahābhujaḥ astrahetor iha prāptaḥ kasmāc cit kāraṇāntarāt 17 aho nainaṃ bhavān vetti purāṇam ṛṣisattamam śṛṇu me vadato brahman yo 'yaṃ yac cāsya kāraṇam 18 naranārāyaṇau yau tau purāṇāv ṛṣisattamau tāv imāv abhijānīhi hṛṣīkeśadhanaṃjayau 19 yan na śakyaṃ surair draṣṭum ṛṣibhir vā mahātmabhiḥ tad āśramapadaṃ puṇyaṃ badarī nāma viśrutam 20 sa nivāso 'bhavad vipra viṣṇor jiṣṇos tathaiva ca yataḥ pravavṛte gaṅgā siddhacāraṇasevitā 21 tau manniyogād brahmarṣe kṣitau jātau mahādyutī bhūmer bhārāvataraṇaṃ mahāvīryau kariṣyataḥ 22 udvṛttā hy asurāḥ ke cin nivātakavacā iti vipriyeṣu sthitāsmākaṃ varadānena mohitāḥ 23 tarkayante surān hantuṃ baladarpa samanvitāḥ devān na gaṇayante ca tathā dattavarā hi te 24 pātālavāsino raudrā danoḥ putrā mahābalāḥ sarve deva nikāyā hi nālaṃ yodhayituṃ sma tān 25 yo 'sau bhūmigataḥ śrīmān viṣṇur madhu niṣūdanaḥ kapilo nāma devo 'sau bhagavān ajito hariḥ 26 yena pūrvaṃ mahātmānaḥ khanamānā rasātalam darśanād eva nihatāḥ sagarasyātmajā vibho 27 tena kāryaṃ mahat kāryam asmākaṃ dvijasattama pārthena ca mahāyuddhe sametābhyām asaṃśayam 28 ayaṃ teṣāṃ samastānāṃ śaktaḥ pratisamāsane tān nihatya raṇe śūraḥ punar yāsyati mānuṣān 29 bhavāṃś cāsman niyogena yātu tāvan mahītalam kāmyake drakṣyase vīraṃ nivasantaṃ yudhiṣṭhiram 30 sa vācyo mama saṃdeśād dharmātmā satyasaṃgaraḥ notkaṇṭhā phalgune kāryā kṛtāstraḥ śīghram eṣyati 31 nāśuddha bāhuvīryeṇa nākṛtāstreṇa vā raṇe bhīṣmadroṇādayo yuddhe śaktyāḥ pratisamāsitum 32 gṛhītāstro guḍā keśo mahābāhur mahāmanāḥ nṛttavāditragītānāṃ divyānāṃ pāram eyivān 33 bhavān api viviktāni tīrthāni manujeśvara bhrātṛbhiḥ sahitaḥ sarvair draṣṭum arhaty ariṃdama 34 tīrtheṣv āplutya puṇyeṣu vipāpmā vigatajvaraḥ rājyaṃ bhokṣyasi rājendra sukhī vigatakalmaṣaḥ 35 bhavāṃś cainaṃ dvijaśreṣṭha paryaṭantaṃ mahītale trātum arhati viprāgrya tapobalasamanvitaḥ 36 giridurgeṣu hi sadā deśeṣu viṣameṣu ca vasanti rākṣasā raudrās tebhyo rakṣet sadā bhavān 37 sa tatheti pratijñāya lomaśaḥ sumahātapāḥ kāmyakaṃ vanam uddiśya samupāyān mahītalam 38 dadarśa tatra kaunteyaṃ dharmarājam ariṃdamam tāpasair bhrātṛbhiś caiva sarvataḥ parivāritam |
The Mahabharata in Sanskrit
Book 3
Chapter 46
|
1
[ज] अत्यद्भुतम इदं कर्म पार्थस्यामित तेजसः धृतराष्ट्रॊ महातेजाः शरुत्वा विप्र किम अब्रवीत 2 [वै] शक्र लॊकगतं पार्थं शरुत्वा राजाम्बिका सुतः दवैपायनाद ऋषिश्रेष्ठात संजयं वाक्यम अब्रवीत 3 शरुतं मे सूत कार्त्स्न्येन कर्म पार्थस्य धीमतः कच चित तवापि विदितं यथातथ्येन सारथे 4 परमत्तॊ गराम्यधर्मेषु मन्दात्मा पापनिश्चयः मम पुत्रः सुदुर्बुद्धिः पृथिवीं घातयिष्यति 5 यस्य नित्यम ऋता वाचः सवैरेष्व अपि महात्मनः तरैलॊक्यम अपि तस्य सयाद यॊद्धा यस्य धनंजयः 6 अस्यतः कर्णिनाराचांस तीक्ष्णाग्रांश च शिलाशितान कॊ ऽरजुनस्याग्रतस तिष्ठेद अपि मृत्युर जरातिगः 7 मम पुत्रा दुरात्मानः सर्वे मृत्युवशं गताः येषां युद्धं दुराधर्षैः पाण्डवैः परत्युपस्थितम 8 तस्यैव च न पश्यामि युधि गाण्डीवधन्वनः अनिशं चिन्तयानॊ ऽपि य एनम उदियाद रथी 9 दरॊणकर्णौ परतीयातां यदि भीष्मॊ ऽपि वा रणे महान सयात संशयॊ लॊके न तु पश्यामि नॊ जयम 10 घृणी कर्णः परमादी च आचार्यः सथविरॊ गुरुः अमर्षी बलवान पार्थः संरम्भी दृढविक्रमः 11 भवेत सुतुमुलं युद्धं सर्वशॊ ऽपय अपराजितम सर्वे हय अस्त्रविदः शूराः सर्वे पराप्ता महद यशः 12 अपि सर्वेश्वरत्वं हि न वाञ्छेरन पराजिताः वधे नूनं भवेच छान्तिस तेषां वा फल्गुनस्य वा 13 न तु हन्तार्जुनस्यास्ति जेता वास्य न विद्यते मन्युस तस्य कथं शाम्येन मन्दान परति समुत्थितः 14 तरिदशेश समॊ वीरः खाण्डवे ऽगनिम अतर्पयत जिगाय पार्थिवान सर्वान राजसूये महाक्रतौ 15 शेषं कुर्याद गिरेर वज्रं निपतन मूर्ध्नि संजय न तु कुर्युः शराः शेषम अस्तास तात किरीटिना 16 यथा हि किरणा भानॊस तपन्तीह चराचरम तथा पार्थ भुजॊत्सृष्टाः शरास तप्स्यन्ति मे सुतान 17 अपि वा रथघॊषेण भयार्ता सव्यसाचिनः परतिभाति विदीर्णेव सर्वतॊ भारती चमूः 18 यद उद्वपन परवपंश चैव बाणान; सथाताततायी समरे किरीटी सृष्टॊ ऽनतकः सर्वहरॊ विधात्रा; भवेद यथा तद्वद अपारणीयः 19 [स] यद एतत कथितं राजंस तवया दुर्यॊधनं परति सर्वम एतद यथात्थ तवं नैतन मिथ्या महीपते 20 मन्युना हि समाविष्टाः पाण्डवास ते ऽमितौजसः दृष्ट्वा कृष्णां सभां नीतां धर्मपत्नीं यशस्विनीम 21 दुःशासनस्य ता वाचः शरुत्वा ते दारुणॊदयाः कर्णस्य च महाराज न सवप्स्यन्तीति मे मतिः 22 शरुतं हि ते महाराज यथा पार्थेन संयुगे एकादश तनुः सथाणुर धनुषा परितॊषितः 23 कैरातं वेषम आस्थाय यॊधयाम आस फल्गुनम जिज्ञासुः सर्वदेवेशः कपर्दी भगवान सवयम 24 तत्रैनं लॊकपालास ते दर्शयाम आसुर अर्जुनम अस्त्रहेतॊः पराक्रान्तं तपसा कौरवर्षभम 25 नैतद उत्सहते ऽनयॊ हि लब्धुम अन्यत्र फल्गुनात साक्षाद दर्शनम एतेषाम ईश्वराणां नरॊ भुवि 26 महेश्वरेण यॊ राजन न जीर्णॊ गरस्तमूर्तिमान कस तम उत्सहते वीरं युद्धे जरयितुं पुमान 27 आसादितम इदं घॊरं तुमुलं लॊमहर्षणम दरौपदीं परिकर्षद्भिः कॊपयद्भिश च पाण्डवान 28 यत्र विस्फुरमाणौष्ठॊ भीमः पराह वचॊ महत दृष्ट्वा दुर्यॊधनेनॊरू दरौपद्या दर्शिताव उभौ 29 ऊरू भेत्स्यामि ते पापगदया वज्रकल्पया तरयॊदशानां वर्षाणाम अन्ते दुर्द्यूत देविनः 30 सर्वे परहरतां शरेष्ठाः सर्वे चामिततेजसः सर्वे सर्वास्त्रविद्वांसॊ देवैर अपि सुदुर्जयाः 31 मन्ये मन्युसमुद्धूताः पुत्राणां तव संयुगे अन्तं पार्थाः करिष्यन्ति वीर्यामर्ष समन्विताः 32 [धृ] किं कृतं सूत कर्णेन वदता परुषं वचः पर्याप्तं वैरम एतावद यत कृष्णा सा सभां गता 33 अपीदानीं मम सुतास तिष्ठेरन मन्दचेतसः येषां भराता गुरुर जयेष्ठॊ विनये नावतिष्ठते 34 ममापि वचनं सूत न शुश्रूषति मन्दभाक दृष्ट्वा मां चक्षुषा हीनं निर्विचेष्टम अचेतनम 35 ये चास्य सचिवा मन्दाः कर्ण सौबलकादयः ते ऽपय अस्य भूयसॊ दॊषान वर्धयन्ति विचेतसः 36 सवैरम उक्ता अपि शराः पार्थेनामित तेजसा निर्दहेयुर मम सुतान किं पुनर मन्युनेरिताः 37 पार्थ बाहुबलॊत्सृष्टा महाचाप विनिःसृताः दिव्यास्त्रमन्त्रमुदिताः सादयेयुः सुरान अपि 38 यस्य मन्त्री च गॊप्ता च सुहृच चैव जनार्दनः हरिस तरैलॊक्यनाथः स किं नु तस्य न निर्जितम 39 इदं च सुमहच चित्रम अर्जुनस्येह संजय महादेवेन बाहुभ्यां यत समेत इति शरुतिः 40 परत्यक्षं सर्वलॊकस्य खाण्डवे यत्कृतं पुरा फल्गुनेन सहायार्थे वह्नेर दामॊदरेण च 41 सर्वथा नास्ति मे पुत्रः सामात्यः सह बान्धवः करुद्धे पार्थे च भीमे च वासुदेवे च सात्वते |
1
[j] atyadbhutam idaṃ karma pārthasyāmita tejasaḥ dhṛtarāṣṭro mahātejāḥ śrutvā vipra kim abravīt 2 [vai] śakra lokagataṃ pārthaṃ śrutvā rājāmbikā sutaḥ dvaipāyanād ṛṣiśreṣṭhāt saṃjayaṃ vākyam abravīt 3 śrutaṃ me sūta kārtsnyena karma pārthasya dhīmataḥ kac cit tavāpi viditaṃ yathātathyena sārathe 4 pramatto grāmyadharmeṣu mandātmā pāpaniścayaḥ mama putraḥ sudurbuddhiḥ pṛthivīṃ ghātayiṣyati 5 yasya nityam ṛtā vācaḥ svaireṣv api mahātmanaḥ trailokyam api tasya syād yoddhā yasya dhanaṃjayaḥ 6 asyataḥ karṇinārācāṃs tīkṣṇāgrāṃś ca śilāśitān ko 'rjunasyāgratas tiṣṭhed api mṛtyur jarātigaḥ 7 mama putrā durātmānaḥ sarve mṛtyuvaśaṃ gatāḥ yeṣāṃ yuddhaṃ durādharṣaiḥ pāṇḍavaiḥ pratyupasthitam 8 tasyaiva ca na paśyāmi yudhi gāṇḍīvadhanvanaḥ aniśaṃ cintayāno 'pi ya enam udiyād rathī 9 droṇakarṇau pratīyātāṃ yadi bhīṣmo 'pi vā raṇe mahān syāt saṃśayo loke na tu paśyāmi no jayam 10 ghṛṇī karṇaḥ pramādī ca ācāryaḥ sthaviro guruḥ amarṣī balavān pārthaḥ saṃrambhī dṛḍhavikramaḥ 11 bhavet sutumulaṃ yuddhaṃ sarvaśo 'py aparājitam sarve hy astravidaḥ śūrāḥ sarve prāptā mahad yaśaḥ 12 api sarveśvaratvaṃ hi na vāñcheran parājitāḥ vadhe nūnaṃ bhavec chāntis teṣāṃ vā phalgunasya vā 13 na tu hantārjunasyāsti jetā vāsya na vidyate manyus tasya kathaṃ śāmyen mandān prati samutthitaḥ 14 tridaśeśa samo vīraḥ khāṇḍave 'gnim atarpayat jigāya pārthivān sarvān rājasūye mahākratau 15 śeṣaṃ kuryād girer vajraṃ nipatan mūrdhni saṃjaya na tu kuryuḥ śarāḥ śeṣam astās tāta kirīṭinā 16 yathā hi kiraṇā bhānos tapantīha carācaram tathā pārtha bhujotsṛṣṭāḥ śarās tapsyanti me sutān 17 api vā rathaghoṣeṇa bhayārtā savyasācinaḥ pratibhāti vidīrṇeva sarvato bhāratī camūḥ 18 yad udvapan pravapaṃś caiva bāṇān; sthātātatāyī samare kirīṭī sṛṣṭo 'ntakaḥ sarvaharo vidhātrā; bhaved yathā tadvad apāraṇīyaḥ 19 [s] yad etat kathitaṃ rājaṃs tvayā duryodhanaṃ prati sarvam etad yathāttha tvaṃ naitan mithyā mahīpate 20 manyunā hi samāviṣṭāḥ pāṇḍavās te 'mitaujasaḥ dṛṣṭvā kṛṣṇāṃ sabhāṃ nītāṃ dharmapatnīṃ yaśasvinīm 21 duḥśāsanasya tā vācaḥ śrutvā te dāruṇodayāḥ karṇasya ca mahārāja na svapsyantīti me matiḥ 22 śrutaṃ hi te mahārāja yathā pārthena saṃyuge ekādaśa tanuḥ sthāṇur dhanuṣā paritoṣitaḥ 23 kairātaṃ veṣam āsthāya yodhayām āsa phalgunam jijñāsuḥ sarvadeveśaḥ kapardī bhagavān svayam 24 tatrainaṃ lokapālās te darśayām āsur arjunam astrahetoḥ parākrāntaṃ tapasā kauravarṣabham 25 naitad utsahate 'nyo hi labdhum anyatra phalgunāt sākṣād darśanam eteṣām īśvarāṇāṃ naro bhuvi 26 maheśvareṇa yo rājan na jīrṇo grastamūrtimān kas tam utsahate vīraṃ yuddhe jarayituṃ pumān 27 āsāditam idaṃ ghoraṃ tumulaṃ lomaharṣaṇam draupadīṃ parikarṣadbhiḥ kopayadbhiś ca pāṇḍavān 28 yatra visphuramāṇauṣṭho bhīmaḥ prāha vaco mahat dṛṣṭvā duryodhanenorū draupadyā darśitāv ubhau 29 ūrū bhetsyāmi te pāpagadayā vajrakalpayā trayodaśānāṃ varṣāṇām ante durdyūta devinaḥ 30 sarve praharatāṃ śreṣṭhāḥ sarve cāmitatejasaḥ sarve sarvāstravidvāṃso devair api sudurjayāḥ 31 manye manyusamuddhūtāḥ putrāṇāṃ tava saṃyuge antaṃ pārthāḥ kariṣyanti vīryāmarṣa samanvitāḥ 32 [dhṛ] kiṃ kṛtaṃ sūta karṇena vadatā paruṣaṃ vacaḥ paryāptaṃ vairam etāvad yat kṛṣṇā sā sabhāṃ gatā 33 apīdānīṃ mama sutās tiṣṭheran mandacetasaḥ yeṣāṃ bhrātā gurur jyeṣṭho vinaye nāvatiṣṭhate 34 mamāpi vacanaṃ sūta na śuśrūṣati mandabhāk dṛṣṭvā māṃ cakṣuṣā hīnaṃ nirviceṣṭam acetanam 35 ye cāsya sacivā mandāḥ karṇa saubalakādayaḥ te 'py asya bhūyaso doṣān vardhayanti vicetasaḥ 36 svairam uktā api śarāḥ pārthenāmita tejasā nirdaheyur mama sutān kiṃ punar manyuneritāḥ 37 pārtha bāhubalotsṛṣṭā mahācāpa viniḥsṛtāḥ divyāstramantramuditāḥ sādayeyuḥ surān api 38 yasya mantrī ca goptā ca suhṛc caiva janārdanaḥ haris trailokyanāthaḥ sa kiṃ nu tasya na nirjitam 39 idaṃ ca sumahac citram arjunasyeha saṃjaya mahādevena bāhubhyāṃ yat sameta iti śrutiḥ 40 pratyakṣaṃ sarvalokasya khāṇḍave yatkṛtaṃ purā phalgunena sahāyārthe vahner dāmodareṇa ca 41 sarvathā nāsti me putraḥ sāmātyaḥ saha bāndhavaḥ kruddhe pārthe ca bhīme ca vāsudeve ca sātvate |
The Mahabharata in Sanskrit
Book 3
Chapter 47
|
1
[ज] यद इदं शॊचितं राज्ञा धृतराष्ट्रेण वै मुने परव्राज्य पाण्डवान वीरान सर्वम एतन निरर्थकम 2 कथं हि राजा पुत्रं सवम उपेक्षेताल्प चेतसम दुर्यॊधनं पाण्डुपुत्रान कॊपयानं महारथान 3 किम आसीत पाण्डुपुत्राणां वने भॊजनम उच्यताम वानेयम अथ वा कृष्टम एतद आख्यातु मे भवान 4 [वै] वानेयं च मृगांश चैव शुद्धैर बाणैर निपातितान बराह्मणानां निवेद्याग्रम अभुञ्जन पुरुषर्षभाः 5 तांस तु शूरान महेष्वासांस तदा निवसतॊ वने अन्वयुर बराह्मणा राजन साग्नयॊ ऽनङ्गयस तथा 6 बराह्मणानां सहस्राणि सनातकानां महात्मनाम दश मॊक्षविदां तद्वद यान बिभर्ति युधिष्ठिरः 7 रुरून कृष्णमृगांश चैव मेध्यांश चान्यान वनेचरान बाणैर उन्मथ्य विधिवद बराह्मणेभ्यॊ नयवेदयत 8 न तत्र कश चिद दुर्वर्णॊ वयाधितॊ वाप्य अदृश्यत कृशॊ वा दुर्बलॊ वापि दीनॊ भीतॊ ऽपि वा नरः 9 पुत्रान इव परियाञ जञातीन भरातॄन इव सहॊदरान पुपॊष कौरवश्रेष्ठॊ धर्मराजॊ युधिष्ठिरः 10 पतींश च दरौपदी सर्वान दविजांश चैव यशस्विनी मातेव भॊजयित्वाग्रे शिष्टम आहारयत तदा 11 पराचीं राजा दक्षिणां भीमसेनॊ; यमौ परतीचीम अथ वाप्य उदीचीम धनुर्धरा मांसहेतॊर मृगाणां; कषयं चक्रुर नित्यम एवॊपगम्य 12 तथा तेषां वसतां काम्यके वै; विहीनानाम अर्जुनेनॊत्सुकानाम पञ्चैव वर्षाणि तदा वयतीयुर; अधीयतां जपतां जुह्वतां च |
1
[j] yad idaṃ śocitaṃ rājñā dhṛtarāṣṭreṇa vai mune pravrājya pāṇḍavān vīrān sarvam etan nirarthakam 2 kathaṃ hi rājā putraṃ svam upekṣetālpa cetasam duryodhanaṃ pāṇḍuputrān kopayānaṃ mahārathān 3 kim āsīt pāṇḍuputrāṇāṃ vane bhojanam ucyatām vāneyam atha vā kṛṣṭam etad ākhyātu me bhavān 4 [vai] vāneyaṃ ca mṛgāṃś caiva śuddhair bāṇair nipātitān brāhmaṇānāṃ nivedyāgram abhuñjan puruṣarṣabhāḥ 5 tāṃs tu śūrān maheṣvāsāṃs tadā nivasato vane anvayur brāhmaṇā rājan sāgnayo 'naṅgayas tathā 6 brāhmaṇānāṃ sahasrāṇi snātakānāṃ mahātmanām daśa mokṣavidāṃ tadvad yān bibharti yudhiṣṭhiraḥ 7 rurūn kṛṣṇamṛgāṃś caiva medhyāṃś cānyān vanecarān bāṇair unmathya vidhivad brāhmaṇebhyo nyavedayat 8 na tatra kaś cid durvarṇo vyādhito vāpy adṛśyata kṛśo vā durbalo vāpi dīno bhīto 'pi vā naraḥ 9 putrān iva priyāñ jñātīn bhrātṝn iva sahodarān pupoṣa kauravaśreṣṭho dharmarājo yudhiṣṭhiraḥ 10 patīṃś ca draupadī sarvān dvijāṃś caiva yaśasvinī māteva bhojayitvāgre śiṣṭam āhārayat tadā 11 prācīṃ rājā dakṣiṇāṃ bhīmaseno; yamau pratīcīm atha vāpy udīcīm dhanurdharā māṃsahetor mṛgāṇāṃ; kṣayaṃ cakrur nityam evopagamya 12 tathā teṣāṃ vasatāṃ kāmyake vai; vihīnānām arjunenotsukānām pañcaiva varṣāṇi tadā vyatīyur; adhīyatāṃ japatāṃ juhvatāṃ ca |
The Mahabharata in Sanskrit
Book 3
Chapter 48
|
1
[वै] सुदीर्घम उष्णं निःश्वस्य धृतराष्ट्रॊ ऽमबिका सुतः अब्रवीत संजयं सूतम आमन्त्र्य भरतर्षभ 2 देवपुत्रौ महाभागौ देवराजसमद्युती नकुलः सहदेवश च पाण्डवौ युद्धदुर्मदौ 3 दृढायुधौ दूरपातौ युद्धे च कृतनिश्चयौ शीघ्रहस्तौ दृढक्रॊधौ नित्ययुक्तौ तरस्विनौ 4 भीमार्जुनौ पुरॊधाय यदा तौ रणमूर्धनि सथास्येते सिंहविक्रान्ताव अश्विनाव इव दुःसहौ न शेषम इह पश्यामि तदा सैन्यस्य संजय 5 तौ हय अप्रतिरथौ युद्धे देवपुत्रौ महारथौ दरौपद्यास तं परिक्लेशं न कषंस्येते तव अमर्षिणौ 6 वृष्णयॊ वा महेष्वासा पाञ्चाला वा महौजसः युधि सत्याभिसंधेन वासुदेवेन रक्षिताः परधक्ष्यन्ति रणे पार्थाः पुत्राणां मम वाहिनीम 7 राम कृष्ण परणीतानां वृष्णीनां सूतनन्दन न शक्यः सहितुं वेगः पर्वतैर अपि संयुगे 8 तेषां मध्ये महेष्वासॊ भीमॊ भीमपराक्रमः शक्यया वीर घातिन्या गदया विचरिष्यति 9 तथा गाण्डीवनिर्घॊषं विस्फूर्जितम इवाशनेः गदा वेगं च भीमस्य नालं सॊढुं नराधिपाः 10 ततॊ ऽहं सुहृदां वाचॊ दुर्यॊधन वशानुगः समरणीयाः समरिष्यामि मया या न कृताः पुरा 11 [स] वयतिक्रमॊ ऽयं सुमहांस तवया राजन्न उपेक्षितः समर्थेनापि यन मॊहात पुत्रस ते न निवारितः 12 शरुत्वा हि निर्जितान दयूते पाण्डवान मधुसूदनः तवरितः काम्यके पार्थान समभावयद अच्युतः 13 दरुपदस्य तथा पुत्रा धृष्टद्युम्नपुरॊगमाः विराटॊ धृष्टकेतुश च केकयाश च महारथाः 14 तैश च यत कथितं तत्र दृष्ट्वा पार्थान पराजितान चारेण विदितं सर्वं तन मया वेदितं च ते 15 समागम्य वृतस तत्र पाण्डवैर मधुसूदनः सारथ्ये फल्गुनस्याजौ तथेत्य आह च तान हरिः 16 अमर्षितॊ हि कृष्णॊ ऽपि दृष्ट्वा पार्थांस तथागतान कृष्णाजिनॊत्तरासङ्गान अब्रवीच च युधिष्ठिरम 17 या सा समृद्धिः पार्थानाम इन्द्रप्रस्थे बभूव ह राजसूये मया दृष्टा नृपैर अन्यैः सुदुर्लभा 18 यत्र सर्वान महीपालाञ शस्त्रतेजॊ भयार्दितान सवङ्गाङ्गान सपौण्ड्र उड्रान सचॊल दरविडान्धकान 19 सागरानूपगांश चैव ये च पत्तनवासिनः सिंहलान बर्बरान मलेच्छान ये च जाङ्गलवासिनः 20 पश्चिमानि च राज्यानि शतशः सागरान्तिकान पह्लवान दरदान सर्वान किरातान यवनाञ शकान 21 हारहूणांश च चीनांश च तुखारान सैन्धवांस तथा जागुडान रमठान मुण्डान सत्री राज्यान अथ तङ्गणान 22 एते चान्ये च बहवॊ ये च ते भरतर्षभ आगतान अहम अद्राक्षं यज्ञे ते परिवेषकान 23 सा ते समृद्धिर यैर आत्ता चपला परतिसारिणी आदाय जीवितं तेषाम आहरिष्यामि ताम अहम 24 रामेण सह कौरव्य भीमार्जुनयमैस तथा अक्रूर गद साम्बैश च परद्युम्नेनाहुकेन च धृष्टद्युम्नेन वीरेण शिशुपालात्मजेन च 25 दुर्यॊधनं रणे हत्वा सद्यः कर्णं च भारत दुःशासनं सौबलेयं यश चान्यः परतियॊत्स्यते 26 ततस तवं हास्तिनपुरे भरातृभिः सहितॊ वसन धार्तराष्ट्रीं शरियं पराप्य परशाधि पृथिवीम इमाम 27 अथैनम अब्रवीद राजा तस्मिन वीर समागमे शृण्वत्सु तेषु सर्वेषु धृष्टद्युम्नमुखेषु च 28 परतिगृह्णामि ते वाचं सत्याम एतां जनार्दन अमित्रान मे महाबाहॊ सानुबन्धान हनिष्यसि 29 वर्षात तरयॊदशाद ऊर्ध्वं सत्यं मां कुरु केशव परतिज्ञातॊ वनेवासॊ राजमध्ये मया हय अयम 30 तद धर्मराज वचनं परतिश्रुत्य सभा सदः धृष्टद्युम्न पुरॊगास ते शमयाम आसुर अञ्जसा केशवं मधुरैर वाक्यैः कालयुक्तैर अमर्षितम 31 पाञ्चालीं चाहुर अक्लिष्टां वासुदेवस्य शृण्वतः दुर्यॊधनस तव करॊधाद देवि तयक्ष्यति जीवितम परतिजानीम ते सत्यं मा शुचॊ वरवर्णिनि 32 ये सम ते कुपितां कृष्णे दृष्ट्वा तवां पराहसंस तदा मांसानि तेषां खादन्तॊ हसिष्यन्ति मृगद्विजाः 33 पास्यन्ति रुधिरं तेषां गृध्रा गॊमायवस तथा उत्तमाङ्गानि कर्षन्तॊ यैस तवं कृष्टा सभा तले 34 तेषां दरक्ष्यसि पाञ्चालि गात्राणि पृथिवीतले करव्यादैः कृष्यमाणानि भक्ष्यमाणानि चासकृत 35 परिक्लिष्टासि यैस तत्र यैश चापि समुपेक्षिता तेषाम उत्कृत्त शिरसां भूमिः पास्यति शॊणितम 36 एवं बहुविधा वाचस तदॊचुः पुरुषर्षभाः सर्वे तेजस्विनः शूराः सर्वे चाहतलक्षणाः 37 ते धर्मराजेन वृता वर्षाद ऊर्ध्वं तरयॊदशात पुरस्कृत्यॊपयास्यन्ति वासुदेवं महारथाः 38 रामश च कृष्णश च धनंजयश च; परद्युम्न साम्बौ युयुधान भीमौ माद्री सुतौ केकयराजपुत्राः; पाञ्चाल पुत्राः सहधर्मराज्ञा 39 एतान सर्वाँल लॊकवीरान अजेयान; महात्मनः सानुबन्धान ससैन्यान कॊ जीवितार्थी समरे परत्युदीयात; करुद्धान सिंहान केसरिणॊ यथैव 40 [धृ] यन माब्रवीद विदुरॊ दयूतकाले; तवं पाण्डवाञ जेष्यसि चेन नरेन्द्र धरुवं कुरूणाम अयम अन्तकालॊ; महाभयॊ भविता शॊणितौघः 41 मन्ये तथा तद भवितेति सूत; यथा कषत्ता पराह वचः पुरा माम असंशयं भविता युद्धम एतद; गते काले पाण्डवानां यथॊक्तम |
1
[vai] sudīrgham uṣṇaṃ niḥśvasya dhṛtarāṣṭro 'mbikā sutaḥ abravīt saṃjayaṃ sūtam āmantrya bharatarṣabha 2 devaputrau mahābhāgau devarājasamadyutī nakulaḥ sahadevaś ca pāṇḍavau yuddhadurmadau 3 dṛḍhāyudhau dūrapātau yuddhe ca kṛtaniścayau śīghrahastau dṛḍhakrodhau nityayuktau tarasvinau 4 bhīmārjunau purodhāya yadā tau raṇamūrdhani sthāsyete siṃhavikrāntāv aśvināv iva duḥsahau na śeṣam iha paśyāmi tadā sainyasya saṃjaya 5 tau hy apratirathau yuddhe devaputrau mahārathau draupadyās taṃ parikleśaṃ na kṣaṃsyete tv amarṣiṇau 6 vṛṣṇayo vā maheṣvāsā pāñcālā vā mahaujasaḥ yudhi satyābhisaṃdhena vāsudevena rakṣitāḥ pradhakṣyanti raṇe pārthāḥ putrāṇāṃ mama vāhinīm 7 rāma kṛṣṇa praṇītānāṃ vṛṣṇīnāṃ sūtanandana na śakyaḥ sahituṃ vegaḥ parvatair api saṃyuge 8 teṣāṃ madhye maheṣvāso bhīmo bhīmaparākramaḥ śakyayā vīra ghātinyā gadayā vicariṣyati 9 tathā gāṇḍīvanirghoṣaṃ visphūrjitam ivāśaneḥ gadā vegaṃ ca bhīmasya nālaṃ soḍhuṃ narādhipāḥ 10 tato 'haṃ suhṛdāṃ vāco duryodhana vaśānugaḥ smaraṇīyāḥ smariṣyāmi mayā yā na kṛtāḥ purā 11 [s] vyatikramo 'yaṃ sumahāṃs tvayā rājann upekṣitaḥ samarthenāpi yan mohāt putras te na nivāritaḥ 12 śrutvā hi nirjitān dyūte pāṇḍavān madhusūdanaḥ tvaritaḥ kāmyake pārthān samabhāvayad acyutaḥ 13 drupadasya tathā putrā dhṛṣṭadyumnapurogamāḥ virāṭo dhṛṣṭaketuś ca kekayāś ca mahārathāḥ 14 taiś ca yat kathitaṃ tatra dṛṣṭvā pārthān parājitān cāreṇa viditaṃ sarvaṃ tan mayā veditaṃ ca te 15 samāgamya vṛtas tatra pāṇḍavair madhusūdanaḥ sārathye phalgunasyājau tathety āha ca tān hariḥ 16 amarṣito hi kṛṣṇo 'pi dṛṣṭvā pārthāṃs tathāgatān kṛṣṇājinottarāsaṅgān abravīc ca yudhiṣṭhiram 17 yā sā samṛddhiḥ pārthānām indraprasthe babhūva ha rājasūye mayā dṛṣṭā nṛpair anyaiḥ sudurlabhā 18 yatra sarvān mahīpālāñ śastratejo bhayārditān savaṅgāṅgān sapauṇḍr uḍrān sacola draviḍāndhakān 19 sāgarānūpagāṃś caiva ye ca pattanavāsinaḥ siṃhalān barbarān mlecchān ye ca jāṅgalavāsinaḥ 20 paścimāni ca rājyāni śataśaḥ sāgarāntikān pahlavān daradān sarvān kirātān yavanāñ śakān 21 hārahūṇāṃś ca cīnāṃś ca tukhārān saindhavāṃs tathā jāguḍān ramaṭhān muṇḍān strī rājyān atha taṅgaṇān 22 ete cānye ca bahavo ye ca te bharatarṣabha āgatān aham adrākṣaṃ yajñe te pariveṣakān 23 sā te samṛddhir yair āttā capalā pratisāriṇī ādāya jīvitaṃ teṣām āhariṣyāmi tām aham 24 rāmeṇa saha kauravya bhīmārjunayamais tathā akrūra gada sāmbaiś ca pradyumnenāhukena ca dhṛṣṭadyumnena vīreṇa śiśupālātmajena ca 25 duryodhanaṃ raṇe hatvā sadyaḥ karṇaṃ ca bhārata duḥśāsanaṃ saubaleyaṃ yaś cānyaḥ pratiyotsyate 26 tatas tvaṃ hāstinapure bhrātṛbhiḥ sahito vasan dhārtarāṣṭrīṃ śriyaṃ prāpya praśādhi pṛthivīm imām 27 athainam abravīd rājā tasmin vīra samāgame śṛṇvatsu teṣu sarveṣu dhṛṣṭadyumnamukheṣu ca 28 pratigṛhṇāmi te vācaṃ satyām etāṃ janārdana amitrān me mahābāho sānubandhān haniṣyasi 29 varṣāt trayodaśād ūrdhvaṃ satyaṃ māṃ kuru keśava pratijñāto vanevāso rājamadhye mayā hy ayam 30 tad dharmarāja vacanaṃ pratiśrutya sabhā sadaḥ dhṛṣṭadyumna purogās te śamayām āsur añjasā keśavaṃ madhurair vākyaiḥ kālayuktair amarṣitam 31 pāñcālīṃ cāhur akliṣṭāṃ vāsudevasya śṛṇvataḥ duryodhanas tava krodhād devi tyakṣyati jīvitam pratijānīma te satyaṃ mā śuco varavarṇini 32 ye sma te kupitāṃ kṛṣṇe dṛṣṭvā tvāṃ prāhasaṃs tadā māṃsāni teṣāṃ khādanto hasiṣyanti mṛgadvijāḥ 33 pāsyanti rudhiraṃ teṣāṃ gṛdhrā gomāyavas tathā uttamāṅgāni karṣanto yais tvaṃ kṛṣṭā sabhā tale 34 teṣāṃ drakṣyasi pāñcāli gātrāṇi pṛthivītale kravyādaiḥ kṛṣyamāṇāni bhakṣyamāṇāni cāsakṛt 35 parikliṣṭāsi yais tatra yaiś cāpi samupekṣitā teṣām utkṛtta śirasāṃ bhūmiḥ pāsyati śoṇitam 36 evaṃ bahuvidhā vācas tadocuḥ puruṣarṣabhāḥ sarve tejasvinaḥ śūrāḥ sarve cāhatalakṣaṇāḥ 37 te dharmarājena vṛtā varṣād ūrdhvaṃ trayodaśāt puraskṛtyopayāsyanti vāsudevaṃ mahārathāḥ 38 rāmaś ca kṛṣṇaś ca dhanaṃjayaś ca; pradyumna sāmbau yuyudhāna bhīmau mādrī sutau kekayarājaputrāḥ; pāñcāla putrāḥ sahadharmarājñā 39 etān sarvāṁl lokavīrān ajeyān; mahātmanaḥ sānubandhān sasainyān ko jīvitārthī samare pratyudīyāt; kruddhān siṃhān kesariṇo yathaiva 40 [dhṛ] yan mābravīd viduro dyūtakāle; tvaṃ pāṇḍavāñ jeṣyasi cen narendra dhruvaṃ kurūṇām ayam antakālo; mahābhayo bhavitā śoṇitaughaḥ 41 manye tathā tad bhaviteti sūta; yathā kṣattā prāha vacaḥ purā mām asaṃśayaṃ bhavitā yuddham etad; gate kāle pāṇḍavānāṃ yathoktam |
The Mahabharata in Sanskrit
Book 3
Chapter 49
|
1
[ज] अस्त्रहेतॊर गते पार्थे शक्र लॊकं महात्मनि युधिष्ठिरप्रभृतयः किम अकुर्वन्त पाण्डवाः 2 [व] अस्त्रहेतॊर गते पार्थे शक्र लॊकं महात्मनि नयवसन कृष्णया सार्धं काम्यके पुरुषर्षभाः 3 ततः कदा चिद एकान्ते विविक्त इव शाद्वले दुःखार्ता भरतश्रेष्ठा निषेदुः सह कृष्णया धनंजयं शॊचमानाः साश्रुकण्ठाः सुदुःखिताः 4 तद वियॊगाद धि तान सर्वाञ शॊकः समभिपुप्लुवे धनंजय वियॊगाच च राज्यनाशाश च दुःखिताः 5 अथ भीमॊ महाबाहुर युधिष्ठिरम अभाषत निदेशात ते महाराज गतॊ ऽसौ पुरुषर्षभः अर्जुनः पाण्डुपुत्राणां यस्मिन पराणाः परतिष्ठिताः 6 यस्मिन विनष्टे पाञ्चालाः सह पुत्रैस तथा वयम सात्यकिर वासुदेवश च विनश्येयुर असंशयम 7 यॊ ऽसौ गच्छति तेजस्वी बहून कलेशान अचिन्तयन भवन नियॊगाद बीभत्सुस ततॊ दुःखतरं नु किम 8 यस्य बाहू समाश्रित्य वयं सर्वे महात्मनः मन्यामहे जितान आजौ परान पराप्तां च मेदिनीम 9 यस्य परभावान न मया सभामध्ये धनुष्मतः नीता लॊकम अमुं सर्वे धार्तराष्ट्राः स सौबलाः 10 ते वयं बाहुबलिनः करॊधम उत्थितम आत्मनः सहामहे भवन मूलं वासुदेवेन पालिताः 11 वयं हि सह कृष्णेन हत्वा कर्ण मुखान परान सवबाहुविजितां कृत्स्नां परशासेम वसुंधराम 12 भवतॊ दयूतदॊषेण सर्वे वयम उपप्लुताः अहीन पौरुषा राजन बलिभिर बलवत्तमाः 13 कषात्रं धर्मं महाराज समवेक्षितुम अर्हसि न हि धर्मॊ महाराज कषत्रियस्य वनाश्रयः राज्यम एव परं धर्मं कषत्रियस्य विदुर बुधाः 14 स कषत्रधर्मविद राजन मा धर्म्यान नीनशः पथः पराग दवादश समा राजन धार्तराष्ट्रान निहन्महि 15 निवर्त्य च वनात पार्थम आनाय्य च जनार्दनम वयूढानीकान महाराज जवेनैव महाहवे धार्तराष्ट्रान अमुं लॊकं गमयामि विशां पते 16 सर्वान अहं हनिष्यामि धार्तराष्ट्रान स सौबलान दुर्यॊधनं च कर्णं च यॊ वान्यः परतियॊत्स्यते 17 मया परशमिते पश्चात तवम एष्यसि वनात पुनः एवं कृते न ते दॊषॊ भविष्यति विशां पते 18 यज्ञैश च विविधैस तात कृतं पापम अरिंदम अवधूय महाराज गच्छेम सवर्गम उत्तमम 19 एवम एतद भवेद राजन यदि राजा न बालिशः अस्माकं दीर्घसूत्रः सयाद भवान धर्मपरायणः 20 निकृत्या निकृतिप्रज्ञा हन्तव्या इति निश्चयः न हि नैकृतिकं हत्वा निकृत्या पापम उच्यते 21 तथा भारत धर्मेषु धर्मज्ञैर इह दृश्यते अहॊरात्रं महाराज तुल्यं संवत्सरेण हि 22 तथैव वेद वचनं शरूयते नित्यदा विभॊ संवत्सरॊ महाराज पूर्णॊ भवति कृच्छ्रतः 23 यदि वेदाः परमाणं ते दिवसाद ऊर्ध्वम अच्युत तरयॊदश समाः कालॊ जञायतां परिनिष्ठितः 24 कालॊ दुर्यॊधनं हन्तुं सानुबन्धम अरिंदम एकाग्रां पृथिवीं सर्वां पुरा राजन करॊति सः 25 एवं बरुवाणं भीमं तु धर्मराजॊ युधिष्ठिरः उवाच सान्त्वयन राजा मूर्ध्न्य उपाघ्राय पाण्डवम 26 असंशयं महाबाहॊ हनिष्यसि सुयॊधनम वर्षात तरयॊदशाद ऊर्ध्वं सह गाण्डीवधन्वना 27 यच च मा भाषसे पार्थ पराप्तः काल इति परभॊ अनृतं नॊत्सहे वक्तुं न हय एतन मयि विद्यते 28 अन्तरेणापि कौन्तेय निकृतिं पापनिश्चयम हन्ता तवम असि दुर्धर्ष सानुबन्धं सुयॊधनम 29 एवं बरुवति भीमं तु धर्मराजे युधिष्ठिरे आजगाम महाभागॊ बृहदश्वॊ महान ऋषिः 30 तम अभिप्रेक्ष्य धर्मात्मा संप्राप्तं धर्मचारिणम शास्त्रवन मधुपर्केण पूजयाम आस धर्मराट 31 आश्वस्तं चैनम आसीनम उपासीनॊ युधिष्ठिरः अभिप्रेक्ष्य महाबाहुः कृपणं बह्व अभाषत 32 अक्षद्यूतेन भगवन धनं राज्यं च मे हृतम आहूय निकृतिप्रज्ञैः कितवैर अक्षकॊविदैः 33 अनक्ष जञस्य हि सतॊ निकृत्या पापनिश्चयैः भार्या च मे सभां नीता पराणेभ्यॊ ऽपि गरीयसी 34 अस्ति राजा मया कश चिद अल्पभाग्यतरॊ भुवि भवता दृष्टपूर्वॊ वा शरुतपूर्वॊ ऽपि वा भवेत न मत्तॊ दुःखिततरः पुमान अस्तीति मे मतिः 35 [ब] यद बरवीषि महाराज न मत्तॊ विद्यते कव चित अल्पभाग्यतरः कश चित पुमान अस्तीति पाण्डव 36 अत्र ते कथयिष्यामि यदि शुश्रूषसे ऽनघ यस तवत्तॊ दुःखिततरॊ राजासीत पृथिवीपते 37 अथैनम अब्रवीद राजा बरवीतु भगवान इति इमाम अवस्थां संप्राप्तं शरॊतुम इच्छामि पार्थिव 38 [ब] शृणु राजन्न अवहितः सह भरातृभिर अच्युत यस तवत्तॊ दुःखिततरॊ राजासीत पृथिवीपते 39 निषधेषु महीपालॊ वीरसेन इति सम ह तस्य पुत्रॊ ऽभवन नाम्ना नलॊ धर्मार्थदर्शिवान 40 स निकृत्या जितॊ राजा पुष्करेणेति नः शरुतम वनवासम अदुःखार्हॊ भार्यया नयवसत सह 41 न तस्याश्वॊ न च रथॊ न भराता न च बान्धवाः वने निवसतॊ राजञ शिष्यन्ते सम कदा चन 42 भवान हि संवृतॊ वीरैर भरातृभिर देव संमितैः बरह्मकल्पैर दविजाग्र्यैश च तस्मान नार्हसि शॊचितुम 43 [य] विस्तरेणाहम इच्छामि नलस्य सुमहात्मनः चरितं वदतां शरेष्ठ तन ममाख्यातुम अर्हसि |
1
[j] astrahetor gate pārthe śakra lokaṃ mahātmani yudhiṣṭhiraprabhṛtayaḥ kim akurvanta pāṇḍavāḥ 2 [v] astrahetor gate pārthe śakra lokaṃ mahātmani nyavasan kṛṣṇayā sārdhaṃ kāmyake puruṣarṣabhāḥ 3 tataḥ kadā cid ekānte vivikta iva śādvale duḥkhārtā bharataśreṣṭhā niṣeduḥ saha kṛṣṇayā dhanaṃjayaṃ śocamānāḥ sāśrukaṇṭhāḥ suduḥkhitāḥ 4 tad viyogād dhi tān sarvāñ śokaḥ samabhipupluve dhanaṃjaya viyogāc ca rājyanāśāś ca duḥkhitāḥ 5 atha bhīmo mahābāhur yudhiṣṭhiram abhāṣata nideśāt te mahārāja gato 'sau puruṣarṣabhaḥ arjunaḥ pāṇḍuputrāṇāṃ yasmin prāṇāḥ pratiṣṭhitāḥ 6 yasmin vinaṣṭe pāñcālāḥ saha putrais tathā vayam sātyakir vāsudevaś ca vinaśyeyur asaṃśayam 7 yo 'sau gacchati tejasvī bahūn kleśān acintayan bhavan niyogād bībhatsus tato duḥkhataraṃ nu kim 8 yasya bāhū samāśritya vayaṃ sarve mahātmanaḥ manyāmahe jitān ājau parān prāptāṃ ca medinīm 9 yasya prabhāvān na mayā sabhāmadhye dhanuṣmataḥ nītā lokam amuṃ sarve dhārtarāṣṭrāḥ sa saubalāḥ 10 te vayaṃ bāhubalinaḥ krodham utthitam ātmanaḥ sahāmahe bhavan mūlaṃ vāsudevena pālitāḥ 11 vayaṃ hi saha kṛṣṇena hatvā karṇa mukhān parān svabāhuvijitāṃ kṛtsnāṃ praśāsema vasuṃdharām 12 bhavato dyūtadoṣeṇa sarve vayam upaplutāḥ ahīna pauruṣā rājan balibhir balavattamāḥ 13 kṣātraṃ dharmaṃ mahārāja samavekṣitum arhasi na hi dharmo mahārāja kṣatriyasya vanāśrayaḥ rājyam eva paraṃ dharmaṃ kṣatriyasya vidur budhāḥ 14 sa kṣatradharmavid rājan mā dharmyān nīnaśaḥ pathaḥ prāg dvādaśa samā rājan dhārtarāṣṭrān nihanmahi 15 nivartya ca vanāt pārtham ānāyya ca janārdanam vyūḍhānīkān mahārāja javenaiva mahāhave dhārtarāṣṭrān amuṃ lokaṃ gamayāmi viśāṃ pate 16 sarvān ahaṃ haniṣyāmi dhārtarāṣṭrān sa saubalān duryodhanaṃ ca karṇaṃ ca yo vānyaḥ pratiyotsyate 17 mayā praśamite paścāt tvam eṣyasi vanāt punaḥ evaṃ kṛte na te doṣo bhaviṣyati viśāṃ pate 18 yajñaiś ca vividhais tāta kṛtaṃ pāpam ariṃdama avadhūya mahārāja gacchema svargam uttamam 19 evam etad bhaved rājan yadi rājā na bāliśaḥ asmākaṃ dīrghasūtraḥ syād bhavān dharmaparāyaṇaḥ 20 nikṛtyā nikṛtiprajñā hantavyā iti niścayaḥ na hi naikṛtikaṃ hatvā nikṛtyā pāpam ucyate 21 tathā bhārata dharmeṣu dharmajñair iha dṛśyate ahorātraṃ mahārāja tulyaṃ saṃvatsareṇa hi 22 tathaiva veda vacanaṃ śrūyate nityadā vibho saṃvatsaro mahārāja pūrṇo bhavati kṛcchrataḥ 23 yadi vedāḥ pramāṇaṃ te divasād ūrdhvam acyuta trayodaśa samāḥ kālo jñāyatāṃ pariniṣṭhitaḥ 24 kālo duryodhanaṃ hantuṃ sānubandham ariṃdama ekāgrāṃ pṛthivīṃ sarvāṃ purā rājan karoti saḥ 25 evaṃ bruvāṇaṃ bhīmaṃ tu dharmarājo yudhiṣṭhiraḥ uvāca sāntvayan rājā mūrdhny upāghrāya pāṇḍavam 26 asaṃśayaṃ mahābāho haniṣyasi suyodhanam varṣāt trayodaśād ūrdhvaṃ saha gāṇḍīvadhanvanā 27 yac ca mā bhāṣase pārtha prāptaḥ kāla iti prabho anṛtaṃ notsahe vaktuṃ na hy etan mayi vidyate 28 antareṇāpi kaunteya nikṛtiṃ pāpaniścayam hantā tvam asi durdharṣa sānubandhaṃ suyodhanam 29 evaṃ bruvati bhīmaṃ tu dharmarāje yudhiṣṭhire ājagāma mahābhāgo bṛhadaśvo mahān ṛṣiḥ 30 tam abhiprekṣya dharmātmā saṃprāptaṃ dharmacāriṇam śāstravan madhuparkeṇa pūjayām āsa dharmarāṭ 31 āśvastaṃ cainam āsīnam upāsīno yudhiṣṭhiraḥ abhiprekṣya mahābāhuḥ kṛpaṇaṃ bahv abhāṣata 32 akṣadyūtena bhagavan dhanaṃ rājyaṃ ca me hṛtam āhūya nikṛtiprajñaiḥ kitavair akṣakovidaiḥ 33 anakṣa jñasya hi sato nikṛtyā pāpaniścayaiḥ bhāryā ca me sabhāṃ nītā prāṇebhyo 'pi garīyasī 34 asti rājā mayā kaś cid alpabhāgyataro bhuvi bhavatā dṛṣṭapūrvo vā śrutapūrvo 'pi vā bhavet na matto duḥkhitataraḥ pumān astīti me matiḥ 35 [b] yad bravīṣi mahārāja na matto vidyate kva cit alpabhāgyataraḥ kaś cit pumān astīti pāṇḍava 36 atra te kathayiṣyāmi yadi śuśrūṣase 'nagha yas tvatto duḥkhitataro rājāsīt pṛthivīpate 37 athainam abravīd rājā bravītu bhagavān iti imām avasthāṃ saṃprāptaṃ śrotum icchāmi pārthiva 38 [b] śṛṇu rājann avahitaḥ saha bhrātṛbhir acyuta yas tvatto duḥkhitataro rājāsīt pṛthivīpate 39 niṣadheṣu mahīpālo vīrasena iti sma ha tasya putro 'bhavan nāmnā nalo dharmārthadarśivān 40 sa nikṛtyā jito rājā puṣkareṇeti naḥ śrutam vanavāsam aduḥkhārho bhāryayā nyavasat saha 41 na tasyāśvo na ca ratho na bhrātā na ca bāndhavāḥ vane nivasato rājañ śiṣyante sma kadā cana 42 bhavān hi saṃvṛto vīrair bhrātṛbhir deva saṃmitaiḥ brahmakalpair dvijāgryaiś ca tasmān nārhasi śocitum 43 [y] vistareṇāham icchāmi nalasya sumahātmanaḥ caritaṃ vadatāṃ śreṣṭha tan mamākhyātum arhasi |
The Mahabharata in Sanskrit
Book 3
Chapter 50
|
1
बृहदश्व उवाच आसीद राजा नलॊ नाम वीरसेनसुतॊ बली उपपन्नॊ गुणैर इष्टै रूपवान अश्वकॊविदः 2 अतिष्ठन मनुजेन्द्राणां मूर्ध्नि देवपतिर यथा उपर्य उपरि सर्वेषाम आदित्य इव तेजसा 3 बरह्मण्यॊ वेदविच छूरॊ निषधेषु महीपतिः अक्षप्रियः सत्यवादी महान अक्षौहिणीपतिः 4 ईप्सितॊ वरनारीणाम उदारः संयतेन्द्रियः रक्षिता धन्विनां शरेष्ठः साक्षाद इव मनुः सवयम 5 तथैवासीद विदर्भेषु भीमॊ भीमपराक्रमः शूरः सर्वगुणैर युक्तः परजाकामः स चाप्रजः 6 स परजार्थे परं यत्नम अकरॊत सुसमाहितः तम अभ्यगच्छद बरह्मर्षिर दमनॊ नाम भारत 7 तं स भीमः परजाकामस तॊषयाम आस धर्मवित महिष्या सह राजेन्द्र सत्कारेण सुवर्चसम 8 तस्मै परसन्नॊ दमनः सभार्याय वरं ददौ कन्यारत्नं कुमारांश च तरीन उदारान महायशाः 9 दमयन्तीं दमं दान्तं दमनं च सुवर्चसम उपपन्नान गुणैः सर्वैर भीमान भीमपराक्रमान 10 दमयन्ती तु रूपेण तेजसा यशसा शरिया सौभाग्येन च लॊकेषु यशः पराप सुमध्यमा 11 अथ तां वयसि पराप्ते दासीनां समलंकृतम शतं सखीनां च तथा पर्युपास्ते शचीम इव 12 तत्र सम भराजते भैमी सर्वाभरणभूषिता सखीमध्ये ऽनवद्याङ्गी विद्युत सौदामिनी यथा अतीव रूपसंपन्ना शरीर इवायतलॊचना 13 न देवेषु न यक्षेषु तादृग्रूपवती कव चित मानुसेष्व अपि चान्येषु दृष्टपूर्वा न च शरुता चित्तप्रमाथिनी बाला देवानाम अपि सुन्दरी 14 नलश च नरशार्दूलॊ रूपेणाप्रतिमॊ भुवि कन्दर्प इव रूपेण मूर्तिमान अभवत सवयम 15 तस्याः समीपे तु नलं परशशंसुः कुतूहलात नैषधस्य समीपे तु दमयन्तीं पुनः पुनः 16 तयॊर अदृष्टकामॊ ऽभूच छृण्वतॊः सततं गुणान अन्यॊन्यं परति कौन्तेय स वयवर्धत हृच्छयः 17 अशक्नुवन नलः कामं तदा धारयितुं हृदा अन्तःपुरसमीपस्थे वन आस्ते रहॊगतः 18 स ददर्श तदा हंसाञ जातरूपपरिच्छदान वने विचरतां तेषाम एकं जग्राह पक्षिणम 19 ततॊ ऽनतरिक्षगॊ वाचं वयाजहार तदा नलम न हन्तव्यॊ ऽसमि ते राजन करिष्यामि हि ते परियम 20 दमयन्तीसकाशे तवां कथयिष्यामि नैषध यथा तवदन्यं पुरुषं न सा मंस्यति कर्हि चित 21 एवम उक्तस ततॊ हंसम उत्ससर्ज महीपतिः ते तु हंसाः समुत्पत्य विदर्भान अगमंस ततः 22 विदर्भनगरीं गत्वा दमयन्त्यास तदान्तिके निपेतुस ते गरुत्मन्तः सा ददर्शाथ तान खगान 23 सा तान अद्भुतरूपान वै दृष्ट्वा सखिगणावृता हृष्टा गरहीतुं खगमांस तवरमाणॊपचक्रमे 24 अथ हंसा विससृपुः सर्वतः परमदावने एकैकशस ततः कन्यास तान हंसान समुपाद्रवन 25 दमयन्ती तु यं हंसं समुपाधावद अन्तिके स मानुषीं गिरं कृत्वा दमयन्तीम अथाब्रवीत 26 दमयन्ति नलॊ नाम निषधेषु महीपतिः अश्विनॊः सदृशॊ रूपे न समास तस्य मानुषाः 27 तस्य वै यदि भार्या तवं भवेथा वरवर्णिनि सफलं ते भवेज जन्म रूपं चेदं सुमध्यमे 28 वयं हि देवगन्धर्वमनुष्यॊरगराक्षसान दृष्टवन्तॊ न चास्माभिर दृष्टपूर्वस तथाविधः 29 तवं चापि रत्नं नारीणां नरेषु च नलॊ वरः विशिष्टाया विशिष्टेन संगमॊ गुणवान भवेत 30 एवम उक्ता तु हंसेन दमयन्ती विशां पते अब्रवीत तत्र तं हंसं तम अप्य एवं नलं वद 31 तथेत्य उक्त्वाण्डजः कन्यां वैदर्भस्य विशां पते पुनर आगम्य निषधान नले सर्वं नयवेदयत |
1
bṛhadaśva uvāca āsīd rājā nalo nāma vīrasenasuto balī upapanno guṇair iṣṭai rūpavān aśvakovidaḥ 2 atiṣṭhan manujendrāṇāṃ mūrdhni devapatir yathā upary upari sarveṣām āditya iva tejasā 3 brahmaṇyo vedavic chūro niṣadheṣu mahīpatiḥ akṣapriyaḥ satyavādī mahān akṣauhiṇīpatiḥ 4 īpsito varanārīṇām udāraḥ saṃyatendriyaḥ rakṣitā dhanvināṃ śreṣṭhaḥ sākṣād iva manuḥ svayam 5 tathaivāsīd vidarbheṣu bhīmo bhīmaparākramaḥ śūraḥ sarvaguṇair yuktaḥ prajākāmaḥ sa cāprajaḥ 6 sa prajārthe paraṃ yatnam akarot susamāhitaḥ tam abhyagacchad brahmarṣir damano nāma bhārata 7 taṃ sa bhīmaḥ prajākāmas toṣayām āsa dharmavit mahiṣyā saha rājendra satkāreṇa suvarcasam 8 tasmai prasanno damanaḥ sabhāryāya varaṃ dadau kanyāratnaṃ kumārāṃś ca trīn udārān mahāyaśāḥ 9 damayantīṃ damaṃ dāntaṃ damanaṃ ca suvarcasam upapannān guṇaiḥ sarvair bhīmān bhīmaparākramān 10 damayantī tu rūpeṇa tejasā yaśasā śriyā saubhāgyena ca lokeṣu yaśaḥ prāpa sumadhyamā 11 atha tāṃ vayasi prāpte dāsīnāṃ samalaṃkṛtam śataṃ sakhīnāṃ ca tathā paryupāste śacīm iva 12 tatra sma bhrājate bhaimī sarvābharaṇabhūṣitā sakhīmadhye 'navadyāṅgī vidyut saudāminī yathā atīva rūpasaṃpannā śrīr ivāyatalocanā 13 na deveṣu na yakṣeṣu tādṛgrūpavatī kva cit mānuseṣv api cānyeṣu dṛṣṭapūrvā na ca śrutā cittapramāthinī bālā devānām api sundarī 14 nalaś ca naraśārdūlo rūpeṇāpratimo bhuvi kandarpa iva rūpeṇa mūrtimān abhavat svayam 15 tasyāḥ samīpe tu nalaṃ praśaśaṃsuḥ kutūhalāt naiṣadhasya samīpe tu damayantīṃ punaḥ punaḥ 16 tayor adṛṣṭakāmo 'bhūc chṛṇvatoḥ satataṃ guṇān anyonyaṃ prati kaunteya sa vyavardhata hṛcchayaḥ 17 aśaknuvan nalaḥ kāmaṃ tadā dhārayituṃ hṛdā antaḥpurasamīpasthe vana āste rahogataḥ 18 sa dadarśa tadā haṃsāñ jātarūpaparicchadān vane vicaratāṃ teṣām ekaṃ jagrāha pakṣiṇam 19 tato 'ntarikṣago vācaṃ vyājahāra tadā nalam na hantavyo 'smi te rājan kariṣyāmi hi te priyam 20 damayantīsakāśe tvāṃ kathayiṣyāmi naiṣadha yathā tvadanyaṃ puruṣaṃ na sā maṃsyati karhi cit 21 evam uktas tato haṃsam utsasarja mahīpatiḥ te tu haṃsāḥ samutpatya vidarbhān agamaṃs tataḥ 22 vidarbhanagarīṃ gatvā damayantyās tadāntike nipetus te garutmantaḥ sā dadarśātha tān khagān 23 sā tān adbhutarūpān vai dṛṣṭvā sakhigaṇāvṛtā hṛṣṭā grahītuṃ khagamāṃs tvaramāṇopacakrame 24 atha haṃsā visasṛpuḥ sarvataḥ pramadāvane ekaikaśas tataḥ kanyās tān haṃsān samupādravan 25 damayantī tu yaṃ haṃsaṃ samupādhāvad antike sa mānuṣīṃ giraṃ kṛtvā damayantīm athābravīt 26 damayanti nalo nāma niṣadheṣu mahīpatiḥ aśvinoḥ sadṛśo rūpe na samās tasya mānuṣāḥ 27 tasya vai yadi bhāryā tvaṃ bhavethā varavarṇini saphalaṃ te bhavej janma rūpaṃ cedaṃ sumadhyame 28 vayaṃ hi devagandharvamanuṣyoragarākṣasān dṛṣṭavanto na cāsmābhir dṛṣṭapūrvas tathāvidhaḥ 29 tvaṃ cāpi ratnaṃ nārīṇāṃ nareṣu ca nalo varaḥ viśiṣṭāyā viśiṣṭena saṃgamo guṇavān bhavet 30 evam uktā tu haṃsena damayantī viśāṃ pate abravīt tatra taṃ haṃsaṃ tam apy evaṃ nalaṃ vada 31 tathety uktvāṇḍajaḥ kanyāṃ vaidarbhasya viśāṃ pate punar āgamya niṣadhān nale sarvaṃ nyavedayat |
The Mahabharata in Sanskrit
Book 3
Chapter 51
|
1
बृहदश्व उवाच दमयन्ती तु तच छरुत्वा वचॊ हंसस्य भारत तदा परभृति न सवस्था नलं परति बभूव सा 2 ततश चिन्तापरा दीना विवर्णवदना कृशा बभूव दमयन्ती तु निःश्वासपरमा तदा 3 ऊर्ध्वदृष्टिर धयानपरा बभूवॊन्मत्त दर्शना न शय्यासनभॊगेषु रतिं विन्दति कर्हि चित 4 न नक्तं न दिवा शेते हा हेति वदती मुहुः ताम अस्वस्थां तदाकारां सख्यस ता जज्ञुर इङ्गितैः 5 ततॊ विदर्भपतये दमयन्त्याः सखीगणः नयवेदयत न सवस्थां दमयन्तीं नरेश्वर 6 तच छरुत्वा नृपतिर भीमॊ दमयन्तीसखीगणात चिन्तयाम आस तत कार्यं सुमहत सवां सुतां परति 7 स समीक्ष्य महीपालः सवां सुतां पराप्तयौवनाम अपश्यद आत्मनः कार्यं दमयन्त्याः सवयंवरम 8 स संनिपातयाम आस महीपालान विशां पते अनुभूयताम अयं वीराः सवयंवर इति परभॊ 9 शरुत्वा तु पार्थिवाः सर्वे दमयन्त्याः सवयंवरम अभिजग्मुस तदा भीमं राजानॊ भीमशासनात 10 हस्त्यश्वरथघॊषेण नादयन्तॊ वसुंधराम विचित्रमाल्याभरणैर बलैर दृश्यैः सवलंकृतैः 11 एतस्मिन्न एव काले तु पुराणाव ऋषिसत्तमौ अटमानौ महात्मानाव इन्द्रलॊकम इतॊ गतौ 12 नारदः पर्वतश चैव महात्मानौ महाव्रतौ देवराजस्य भवनं विविशाते सुपूजितौ 13 ताव अर्चित्वा सहस्राक्षस ततः कुशलम अव्ययम पप्रच्छानामयं चापि तयॊः सर्वगतं विभुः 14 नारद उवाच आवयॊः कुशलं देव सर्वत्रगतम ईश्वर लॊके च मघवन कृत्स्ने नृपाः कुशलिनॊ विभॊ 15 बृहदश्व उवाच नारदस्य वचः शरुत्वा पप्रच्छ बलवृत्रहा धर्मज्ञाः पृथिवीपालास तयक्तजीवितयॊधिनः 16 शस्त्रेण निधनं काले ये गच्छन्त्य अपराङ्मुखाः अयं लॊकॊ ऽकषयस तेषां यथैव मम कामधुक 17 कव नु ते कषत्रियाः शूरा न हि पश्यामि तान अहम आगच्छतॊ महीपालान अतिथीन दयितान मम 18 एवम उक्तस तु शक्रेण नारदः परत्यभाषत शृणु मे भगवन येन न दृश्यन्ते महीक्षितः 19 विदर्भराजदुहिता दमयन्तीति विश्रुता रूपेण समतिक्रान्ता पृथिव्यां सर्वयॊषितः 20 तस्याः सवयंवरः शक्र भविता नचिराद इव तत्र गच्छन्ति राजानॊ राजपुत्राश च सर्वशः 21 तां रत्नभूतां लॊकस्य परार्थयन्तॊ महीक्षितः काङ्क्षन्ति सम विशेषेण बलवृत्रनिषूदन 22 एतस्मिन कथ्यमाने तु लॊकपालाश च साग्निकाः आजग्मुर देवराजस्य समीपम अमरॊत्तमाः 23 ततस तच छुश्रुवुः सर्वे नारदस्य वचॊ महत शरुत्वा चैवाब्रुवन हृष्टा गच्छामॊ वयम अप्य उत 24 ततः सर्वे महाराज सगणाः सहवाहनाः विदर्भान अभितॊ जग्मुर यत्र सर्वे महीक्षितः 25 नलॊ ऽपि राजा कौन्तेय शरुत्वा राज्ञां समागमम अभ्यगच्छद अदीनात्मा दमयन्तीम अनुव्रतः 26 अथ देवाः पथि नलं ददृशुर भूतले सथितम साक्षाद इव सथितं मूर्त्या मन्मथं रूपसंपदा 27 तं दृष्ट्वा लॊकपालास ते भराजमानं यथा रविम तस्थुर विगतसंकल्पा विस्मिता रूपसंपदा 28 ततॊ ऽनतरिक्षे विष्टभ्य विमानानि दिवौकसः अब्रुवन नैषधं राजन्न अवतीर्य नभस्तलात 29 भॊ भॊ नैषध राजेन्द्र नल सत्यव्रतॊ भवान अस्माकं कुरु साहाय्यं दूतॊ भव नरॊत्तम |
1
bṛhadaśva uvāca damayantī tu tac chrutvā vaco haṃsasya bhārata tadā prabhṛti na svasthā nalaṃ prati babhūva sā 2 tataś cintāparā dīnā vivarṇavadanā kṛśā babhūva damayantī tu niḥśvāsaparamā tadā 3 ūrdhvadṛṣṭir dhyānaparā babhūvonmatta darśanā na śayyāsanabhogeṣu ratiṃ vindati karhi cit 4 na naktaṃ na divā śete hā heti vadatī muhuḥ tām asvasthāṃ tadākārāṃ sakhyas tā jajñur iṅgitaiḥ 5 tato vidarbhapataye damayantyāḥ sakhīgaṇaḥ nyavedayata na svasthāṃ damayantīṃ nareśvara 6 tac chrutvā nṛpatir bhīmo damayantīsakhīgaṇāt cintayām āsa tat kāryaṃ sumahat svāṃ sutāṃ prati 7 sa samīkṣya mahīpālaḥ svāṃ sutāṃ prāptayauvanām apaśyad ātmanaḥ kāryaṃ damayantyāḥ svayaṃvaram 8 sa saṃnipātayām āsa mahīpālān viśāṃ pate anubhūyatām ayaṃ vīrāḥ svayaṃvara iti prabho 9 śrutvā tu pārthivāḥ sarve damayantyāḥ svayaṃvaram abhijagmus tadā bhīmaṃ rājāno bhīmaśāsanāt 10 hastyaśvarathaghoṣeṇa nādayanto vasuṃdharām vicitramālyābharaṇair balair dṛśyaiḥ svalaṃkṛtaiḥ 11 etasminn eva kāle tu purāṇāv ṛṣisattamau aṭamānau mahātmānāv indralokam ito gatau 12 nāradaḥ parvataś caiva mahātmānau mahāvratau devarājasya bhavanaṃ viviśāte supūjitau 13 tāv arcitvā sahasrākṣas tataḥ kuśalam avyayam papracchānāmayaṃ cāpi tayoḥ sarvagataṃ vibhuḥ 14 nārada uvāca āvayoḥ kuśalaṃ deva sarvatragatam īśvara loke ca maghavan kṛtsne nṛpāḥ kuśalino vibho 15 bṛhadaśva uvāca nāradasya vacaḥ śrutvā papraccha balavṛtrahā dharmajñāḥ pṛthivīpālās tyaktajīvitayodhinaḥ 16 śastreṇa nidhanaṃ kāle ye gacchanty aparāṅmukhāḥ ayaṃ loko 'kṣayas teṣāṃ yathaiva mama kāmadhuk 17 kva nu te kṣatriyāḥ śūrā na hi paśyāmi tān aham āgacchato mahīpālān atithīn dayitān mama 18 evam uktas tu śakreṇa nāradaḥ pratyabhāṣata śṛṇu me bhagavan yena na dṛśyante mahīkṣitaḥ 19 vidarbharājaduhitā damayantīti viśrutā rūpeṇa samatikrāntā pṛthivyāṃ sarvayoṣitaḥ 20 tasyāḥ svayaṃvaraḥ śakra bhavitā nacirād iva tatra gacchanti rājāno rājaputrāś ca sarvaśaḥ 21 tāṃ ratnabhūtāṃ lokasya prārthayanto mahīkṣitaḥ kāṅkṣanti sma viśeṣeṇa balavṛtraniṣūdana 22 etasmin kathyamāne tu lokapālāś ca sāgnikāḥ ājagmur devarājasya samīpam amarottamāḥ 23 tatas tac chuśruvuḥ sarve nāradasya vaco mahat śrutvā caivābruvan hṛṣṭā gacchāmo vayam apy uta 24 tataḥ sarve mahārāja sagaṇāḥ sahavāhanāḥ vidarbhān abhito jagmur yatra sarve mahīkṣitaḥ 25 nalo 'pi rājā kaunteya śrutvā rājñāṃ samāgamam abhyagacchad adīnātmā damayantīm anuvrataḥ 26 atha devāḥ pathi nalaṃ dadṛśur bhūtale sthitam sākṣād iva sthitaṃ mūrtyā manmathaṃ rūpasaṃpadā 27 taṃ dṛṣṭvā lokapālās te bhrājamānaṃ yathā ravim tasthur vigatasaṃkalpā vismitā rūpasaṃpadā 28 tato 'ntarikṣe viṣṭabhya vimānāni divaukasaḥ abruvan naiṣadhaṃ rājann avatīrya nabhastalāt 29 bho bho naiṣadha rājendra nala satyavrato bhavān asmākaṃ kuru sāhāyyaṃ dūto bhava narottama |
The Mahabharata in Sanskrit
Book 3
Chapter 52
|
1
बृहदश्व उवाच तेभ्यः परतिज्ञाय नलः करिष्य इति भारत अथैनान परिपप्रच्छ कृताञ्जलिर अवस्थितः 2 के वै भवन्तः कश चासौ यस्याहं दूत ईप्सितः किं च तत्र मया कार्यं कथयध्वं यथातथम 3 एवम उक्ते नैषधेन मघवान परत्यभाषत अमरान वै निबॊधास्मान दमयन्त्यर्थम आगतान 4 अहम इन्द्रॊ ऽयम अग्निश च तथैवायम अपां पतिः शरीरान्तकरॊ नॄणां यमॊ ऽयम अपि पार्थिव 5 स वै तवम आगतान अस्मान दमयन्त्यै निवेदय लॊकपालाः सहेन्द्रास तवां समायान्ति दिदृक्षवः 6 पराप्तुम इच्छन्ति देवास तवां शक्रॊ ऽगनिर वरुणॊ यमः तेषाम अन्यतमं देवं पतित्वे वरयस्व ह 7 एवम उक्तः स शक्रेण नलः पराञ्जलिर अब्रवीत एकार्थसमवेतं मां न परेषयितुम अर्हथ 8 देवा ऊचुः करिष्य इति संश्रुत्य पूर्वम अस्मासु नैषध न करिष्यसि कस्मात तवं वरज नैषध माचिरम 9 बृहदश्व उवाच एवम उक्तः स देवैस तैर नैषधः पुनर अब्रवीत सुरक्षितानि वेश्मानि परवेष्टुं कथम उत्सहे 10 परवेक्ष्यसीति तं शक्रः पुनर एवाभ्यभाषत जगाम स तथेत्य उक्त्वा दमयन्त्या निवेशनम 11 ददर्श तत्र वैदर्भीं सखीगणसमावृताम देदीप्यमानां वपुषा शरिया च वरवर्णिनीम 12 अतीव सुकुमाराङ्गीं तनुमध्यां सुलॊचनाम आक्षिपन्तीम इव च भाः शशिनः सवेन तेजसा 13 तस्य दृष्ट्वैव ववृधे कामस तां चारुहासिनीम सत्यं चिकीर्षमाणस तु धारयाम आस हृच्छयम 14 ततस ता नैषधं दृष्ट्वा संभ्रान्ताः परमाङ्गनाः आसनेभ्यः समुत्पेतुस तेजसा तस्य धर्षिताः 15 परशशंसुश च सुप्रीता नलं ता विस्मयान्विताः न चैनम अभ्यभाषन्त मनॊभिस तव अभ्यचिन्तयन 16 अहॊ रूपम अहॊ कान्तिर अहॊ धैर्यं महात्मनः कॊ ऽयं देवॊ नु यक्षॊ नु गन्धर्वॊ नु भविष्यति 17 न तव एनं शक्नुवन्ति सम वयाहर्तुम अपि किं चन तेजसा धर्षिताः सर्वा लज्जावत्यॊ वराङ्गनाः 18 अथैनं समयमानेव समितपूर्वाभिभाषिणी दमयन्ती नलं वीरम अभ्यभाषत विस्मिता 19 कस तवं सर्वानवद्याङ्ग मम हृच्छयवर्धन पराप्तॊ ऽसय अमरवद वीर जञातुम इच्छामि ते ऽनघ 20 कथम आगमनं चेह कथं चासि न लक्षितः सुरक्षितं हि मे वेश्म राजा चैवॊग्रशासनः 21 एवम उक्तस तु वैदर्भ्या नलस तां परत्युवाच ह नलं मां विद्धि कल्याणि देवदूतम इहागतम 22 देवास तवां पराप्तुम इच्छन्ति शक्रॊ ऽगनिर वरुणॊ यमः तेषाम अन्यतमं देवं पतिं वरय शॊभने 23 तेषाम एव परभावेन परविष्टॊ ऽहम अलक्षितः परविशन्तं हि मां कश चिन नापश्यन नाप्य अवारयत 24 एतदर्थम अहं भद्रे परेषितः सुरसत्तमैः एतच छरुत्वा शुभे बुद्धिं परकुरुष्व यथेच्छसि |
1
bṛhadaśva uvāca tebhyaḥ pratijñāya nalaḥ kariṣya iti bhārata athainān paripapraccha kṛtāñjalir avasthitaḥ 2 ke vai bhavantaḥ kaś cāsau yasyāhaṃ dūta īpsitaḥ kiṃ ca tatra mayā kāryaṃ kathayadhvaṃ yathātatham 3 evam ukte naiṣadhena maghavān pratyabhāṣata amarān vai nibodhāsmān damayantyartham āgatān 4 aham indro 'yam agniś ca tathaivāyam apāṃ patiḥ śarīrāntakaro nṝṇāṃ yamo 'yam api pārthiva 5 sa vai tvam āgatān asmān damayantyai nivedaya lokapālāḥ sahendrās tvāṃ samāyānti didṛkṣavaḥ 6 prāptum icchanti devās tvāṃ śakro 'gnir varuṇo yamaḥ teṣām anyatamaṃ devaṃ patitve varayasva ha 7 evam uktaḥ sa śakreṇa nalaḥ prāñjalir abravīt ekārthasamavetaṃ māṃ na preṣayitum arhatha 8 devā ūcuḥ kariṣya iti saṃśrutya pūrvam asmāsu naiṣadha na kariṣyasi kasmāt tvaṃ vraja naiṣadha māciram 9 bṛhadaśva uvāca evam uktaḥ sa devais tair naiṣadhaḥ punar abravīt surakṣitāni veśmāni praveṣṭuṃ katham utsahe 10 pravekṣyasīti taṃ śakraḥ punar evābhyabhāṣata jagāma sa tathety uktvā damayantyā niveśanam 11 dadarśa tatra vaidarbhīṃ sakhīgaṇasamāvṛtām dedīpyamānāṃ vapuṣā śriyā ca varavarṇinīm 12 atīva sukumārāṅgīṃ tanumadhyāṃ sulocanām ākṣipantīm iva ca bhāḥ śaśinaḥ svena tejasā 13 tasya dṛṣṭvaiva vavṛdhe kāmas tāṃ cāruhāsinīm satyaṃ cikīrṣamāṇas tu dhārayām āsa hṛcchayam 14 tatas tā naiṣadhaṃ dṛṣṭvā saṃbhrāntāḥ paramāṅganāḥ āsanebhyaḥ samutpetus tejasā tasya dharṣitāḥ 15 praśaśaṃsuś ca suprītā nalaṃ tā vismayānvitāḥ na cainam abhyabhāṣanta manobhis tv abhyacintayan 16 aho rūpam aho kāntir aho dhairyaṃ mahātmanaḥ ko 'yaṃ devo nu yakṣo nu gandharvo nu bhaviṣyati 17 na tv enaṃ śaknuvanti sma vyāhartum api kiṃ cana tejasā dharṣitāḥ sarvā lajjāvatyo varāṅganāḥ 18 athainaṃ smayamāneva smitapūrvābhibhāṣiṇī damayantī nalaṃ vīram abhyabhāṣata vismitā 19 kas tvaṃ sarvānavadyāṅga mama hṛcchayavardhana prāpto 'sy amaravad vīra jñātum icchāmi te 'nagha 20 katham āgamanaṃ ceha kathaṃ cāsi na lakṣitaḥ surakṣitaṃ hi me veśma rājā caivograśāsanaḥ 21 evam uktas tu vaidarbhyā nalas tāṃ pratyuvāca ha nalaṃ māṃ viddhi kalyāṇi devadūtam ihāgatam 22 devās tvāṃ prāptum icchanti śakro 'gnir varuṇo yamaḥ teṣām anyatamaṃ devaṃ patiṃ varaya śobhane 23 teṣām eva prabhāvena praviṣṭo 'ham alakṣitaḥ praviśantaṃ hi māṃ kaś cin nāpaśyan nāpy avārayat 24 etadartham ahaṃ bhadre preṣitaḥ surasattamaiḥ etac chrutvā śubhe buddhiṃ prakuruṣva yathecchasi |
The Mahabharata in Sanskrit
Book 3
Chapter 53
|
1
बृहदश्व उवाच सा नमस्कृत्य देवेभ्यः परहस्य नलम अब्रवीत परणयस्व यथाश्रद्धं राजन किं करवाणि ते 2 अहं चैव हि यच चान्यन ममास्ति वसु किं चन सर्वं तत तव विश्रब्धं कुरु परणयम ईश्वर 3 हंसानां वचनं यत तत तन मां दहति पार्थिव तवत्कृते हि मया वीर राजानः संनिपातिताः 4 यदि चेद भजमानां मां परत्याख्यास्यसि मानद विषम अग्निं जलं रज्जुम आस्थास्ये तव कारणात 5 एवम उक्तस तु वैदर्भ्या नलस तां परत्युवाच ह तिष्ठत्सु लॊकपालेषु कथं मानुषम इच्छसि 6 येषाम अहं लॊककृताम ईश्वराणां महात्मनाम न पादरजसा तुल्यॊ मनस ते तेषु वर्तताम 7 विप्रियं हय आचरन मर्त्यॊ देवानां मृत्युम ऋच्छति तराहि माम अनवद्याङ्गि वरयस्व सुरॊत्तमान 8 ततॊ बाष्पकलां वाचं दमयन्ती शुचिस्मिता परव्याहरन्ती शनकैर नलं राजानम अब्रवीत 9 अस्त्य उपायॊ मया दृष्टॊ निरपायॊ नरेश्वर येन दॊषॊ न भविता तव राजन कथं चन 10 तवं चैव हि नरश्रेष्ठ देवाश चाग्निपुरॊगमाः आयान्तु सहिताः सर्वे मम यत्र सवयंवरः 11 ततॊ ऽहं लॊकपालानां संनिधौ तवां नरेश्वर वरयिष्ये नरव्याघ्र नैवं दॊषॊ भविष्यति 12 एवम उक्तस तु वैदर्भ्या नलॊ राजा विशां पते आजगाम पुनस तत्र यत्र देवाः समागताः 13 तम अपश्यंस तथायान्तं लॊकपालाः सहेश्वराः दृष्ट्वा चैनं ततॊ ऽपृच्छन वृत्तान्तं सर्वम एव तत 14 देवा ऊचुः कच चिद दृष्टा तवया राजन दमयन्ती शुचिस्मिता किम अब्रवीच च नः सर्वान वद भूमिपते ऽनघ 15 नल उवाच भवद्भिर अहम आदिष्टॊ दमयन्त्या निवेशनम परविष्टः सुमहाकक्ष्यं दण्डिभिः सथविरैर वृतम 16 परविशन्तं च मां तत्र न कश चिद दृष्टवान नरः ऋते तां पार्थिवसुतां भवताम एव तेजसा 17 सख्यश चास्या मया दृष्टास ताभिश चाप्य उपलक्षितः विस्मिताश चाभवन दृष्ट्वा सर्वा मां विबुधेश्वराः 18 वर्ण्यमानेषु च मया भवत्सु रुचिरानना माम एव गतसंकल्पा वृणीते सुरसत्तमाः 19 अब्रवीच चैव मां बाला आयान्तु सहिताः सुराः तवया सह नरश्रेष्ठ मम यत्र सवयंवरः 20 तेषाम अहं संनिधौ तवां वरयिष्ये नरॊत्तम एवं तव महाबाहॊ दॊषॊ न भवितेति ह 21 एतावद एव विबुधा यथावृत्तम उदाहृतम मयाशेषं परमाणं तु भवन्तस तरिदशेश्वराः |
1
bṛhadaśva uvāca sā namaskṛtya devebhyaḥ prahasya nalam abravīt praṇayasva yathāśraddhaṃ rājan kiṃ karavāṇi te 2 ahaṃ caiva hi yac cānyan mamāsti vasu kiṃ cana sarvaṃ tat tava viśrabdhaṃ kuru praṇayam īśvara 3 haṃsānāṃ vacanaṃ yat tat tan māṃ dahati pārthiva tvatkṛte hi mayā vīra rājānaḥ saṃnipātitāḥ 4 yadi ced bhajamānāṃ māṃ pratyākhyāsyasi mānada viṣam agniṃ jalaṃ rajjum āsthāsye tava kāraṇāt 5 evam uktas tu vaidarbhyā nalas tāṃ pratyuvāca ha tiṣṭhatsu lokapāleṣu kathaṃ mānuṣam icchasi 6 yeṣām ahaṃ lokakṛtām īśvarāṇāṃ mahātmanām na pādarajasā tulyo manas te teṣu vartatām 7 vipriyaṃ hy ācaran martyo devānāṃ mṛtyum ṛcchati trāhi mām anavadyāṅgi varayasva surottamān 8 tato bāṣpakalāṃ vācaṃ damayantī śucismitā pravyāharantī śanakair nalaṃ rājānam abravīt 9 asty upāyo mayā dṛṣṭo nirapāyo nareśvara yena doṣo na bhavitā tava rājan kathaṃ cana 10 tvaṃ caiva hi naraśreṣṭha devāś cāgnipurogamāḥ āyāntu sahitāḥ sarve mama yatra svayaṃvaraḥ 11 tato 'haṃ lokapālānāṃ saṃnidhau tvāṃ nareśvara varayiṣye naravyāghra naivaṃ doṣo bhaviṣyati 12 evam uktas tu vaidarbhyā nalo rājā viśāṃ pate ājagāma punas tatra yatra devāḥ samāgatāḥ 13 tam apaśyaṃs tathāyāntaṃ lokapālāḥ saheśvarāḥ dṛṣṭvā cainaṃ tato 'pṛcchan vṛttāntaṃ sarvam eva tat 14 devā ūcuḥ kac cid dṛṣṭā tvayā rājan damayantī śucismitā kim abravīc ca naḥ sarvān vada bhūmipate 'nagha 15 nala uvāca bhavadbhir aham ādiṣṭo damayantyā niveśanam praviṣṭaḥ sumahākakṣyaṃ daṇḍibhiḥ sthavirair vṛtam 16 praviśantaṃ ca māṃ tatra na kaś cid dṛṣṭavān naraḥ ṛte tāṃ pārthivasutāṃ bhavatām eva tejasā 17 sakhyaś cāsyā mayā dṛṣṭās tābhiś cāpy upalakṣitaḥ vismitāś cābhavan dṛṣṭvā sarvā māṃ vibudheśvarāḥ 18 varṇyamāneṣu ca mayā bhavatsu rucirānanā mām eva gatasaṃkalpā vṛṇīte surasattamāḥ 19 abravīc caiva māṃ bālā āyāntu sahitāḥ surāḥ tvayā saha naraśreṣṭha mama yatra svayaṃvaraḥ 20 teṣām ahaṃ saṃnidhau tvāṃ varayiṣye narottama evaṃ tava mahābāho doṣo na bhaviteti ha 21 etāvad eva vibudhā yathāvṛttam udāhṛtam mayāśeṣaṃ pramāṇaṃ tu bhavantas tridaśeśvarāḥ |
The Mahabharata in Sanskrit
Book 3
Chapter 54
|
1
बृहदश्व उवाच अथ काले शुभे पराप्ते तिथौ पुण्ये कषणे तथा आजुहाव महीपालान भीमॊ राजा सवयंवरे 2 तच छरुत्वा पृथिवीपालाः सर्वे हृच्छयपीडिताः तवरिताः समुपाजग्मुर दमयन्तीम अभीप्सवः 3 कनकस्तम्भरुचिरं तॊरणेन विराजितम विविशुस ते महारङ्गं नृपाः सिंहा इवाचलम 4 तत्रासनेषु विविधेष्व आसीनाः पृथिवीक्षितः सुरभिस्रग्धराः सर्वे सुमृष्टमणिकुण्डलाः 5 तां राजसमितिं पूर्णां नागैर भॊगवतीम इव संपूर्णां पुरुषव्याघ्रैर वयाघ्रैर गिरिगुहाम इव 6 तत्र सम पीना दृश्यन्ते बाहवः परिघॊपमाः आकारवन्तः सुश्लक्ष्णाः पञ्चशीर्षा इवॊरगाः 7 सुकेशान्तानि चारूणि सुनासानि शुभानि च मुखानि राज्ञां शॊभन्ते नक्षत्राणि यथा दिवि 8 दमयन्ती ततॊ रङ्गं परविवेश शुभानना मुष्णन्ती परभया राज्ञां चक्षूंसि च मनांसि च 9 तस्या गात्रेषु पतिता तेषां दृष्टिर महात्मनाम तत्र तत्रैव सक्ताभून न चचाल च पश्यताम 10 ततः संकीर्त्यमानेषु राज्ञां नामसु भारत ददर्श भैमी पुरुषान पञ्च तुल्याकृतीन इव 11 तान समीक्ष्य ततः सर्वान निर्विशेषाकृतीन सथितान संदेशाद अथ वैधर्भी नाभ्यजानान नलं नृपम यं यं हि ददृशे तेषां तं तं मेने नलं नृपम 12 सा चिन्तयन्ती बुद्ध्याथ तर्कयाम आस भामिनी कथं नु देवाञ जानीयां कथं विद्यां नलं नृपम 13 एवं संचिन्तयन्ती सा वैदर्भी भृशदुःखिता शरुतानि देवलिङ्गानि चिन्तयाम आस भारत 14 देवानां यानि लिङ्गानि सथविरेभ्यः शरुतानि मे तानीह तिष्ठतां भूमाव एकस्यापि न लक्षये 15 सा विनिश्चित्य बहुधा विचार्य च पुनः पुनः शरणं परति देवानां पराप्तकालम अमन्यत 16 वाचा च मनसा चैव नमः कारं परयुज्य सा देवेभ्यः पराञ्जलिर भूत्वा वेपमानेदम अब्रवीत 17 हंसानां वचनं शरुत्वा यथा मे नैषधॊ वृतः पतित्वे तेन सत्येन देवास तं परदिशन्तु मे 18 वाचा च मनसा चैव यथा नाभिचराम्य अहम तेन सत्येन विबुधास तम एव परदिशन्तु मे 19 यथा देवैः स मे भर्ता विहितॊ निषधाधिपः तेन सत्येन मे देवास तम एव परदिशन्तु मे 20 सवं चैव रूपं पुष्यन्तु लॊकपालाः सहेश्वराः यथाहम अभिजानीयां पुण्यश्लॊकं नराधिपम 21 निशम्य दमयन्त्यास तत करुणं परिदेवितम निश्चयं परमं तथ्यम अनुरागं च नैषधे 22 मनॊविशुद्धिं बुद्धिं च भक्तिं रागं च भारत यथॊक्तं चक्रिरे देवाः सामर्थ्यं लिङ्गधारणे 23 सापश्यद विबुधान सर्वान अस्वेदान सतब्धलॊचनान हृषितस्रग रजॊहीनान सथितान अस्पृशतः कषितिम 24 छायाद्वितीयॊ मलानस्रग रजःस्वेदसमन्वितः भूमिष्ठॊ नैषधश चैव निमेषेण च सूचितः 25 सा समीक्ष्य ततॊ देवान पुण्यश्लॊकं च भारत नैषधं वरयाम आस भैमी धर्मेण भारत 26 विलज्जमाना वस्त्रान्ते जग्राहायतलॊचना सकन्धदेशे ऽसृजच चास्य सरजं परमशॊभनाम वरयाम आस चैवैनं पतित्वे वरवर्णिनी 27 ततॊ हा हेति सहसा शब्दॊ मुक्तॊ नराधिपैः देवैर महर्षिभिश चैव साधु साध्व इति भारत विस्मितैर ईरितः शब्दः परशंसद्भिर नलं नृपम 28 वृते तु नैषधे भैम्या लॊकपाला महौजसा परहृष्टमनसः सर्वे नलायाष्टौ वरान ददुः 29 परत्यक्षदर्शनं यज्ञे गतिं चानुत्तमां शुभाम नैषधाय ददौ शक्रः परीयमाणः शचीपतिः 30 अग्निर आत्मभवं परादाद यत्र वाञ्छति नैषधः लॊकान आत्मप्रभांश चैव ददौ तस्मै हुताशनः 31 यमस तव अन्नरसं परादाद धर्मे च परमां सथितिम अपां पतिर अपां भावं यत्र वाञ्छति नैषधः 32 सरजं चॊत्तमगन्धाढ्यां सर्वे च मिथुनं ददुः वरान एवं परदायास्य देवास ते तरिदिवं गताः 33 पार्थिवाश चानुभूयास्य विवाहं विस्मयान्विताः दमयन्त्याः परमुदिताः परतिजग्मुर यथागतम 34 अवाप्य नारीरत्नं तत पुण्यश्लॊकॊ ऽपि पार्थिवः रेमे सह तया राजा शच्येव बलवृत्रहा 35 अतीव मुदितॊ राजा भराजमानॊ ऽंशुमान इव अरञ्जयत परजा वीरॊ धर्मेण परिपालयन 36 ईजे चाप्य अश्वमेधेन ययातिर इव नाहुषः अन्यैश च करतुभिर धीमान बहुभिश चाप्तदक्षिणैः 37 पुनश च रमणीयेषु वनेषूपवनेषु च दमयन्त्या सह नलॊ विजहारामरॊपमः 38 एवं स यजमानश च विहरंश च नराधिपः ररक्ष वसुसंपूर्णां वसुधां वसुधाधिपः |
1
bṛhadaśva uvāca atha kāle śubhe prāpte tithau puṇye kṣaṇe tathā ājuhāva mahīpālān bhīmo rājā svayaṃvare 2 tac chrutvā pṛthivīpālāḥ sarve hṛcchayapīḍitāḥ tvaritāḥ samupājagmur damayantīm abhīpsavaḥ 3 kanakastambharuciraṃ toraṇena virājitam viviśus te mahāraṅgaṃ nṛpāḥ siṃhā ivācalam 4 tatrāsaneṣu vividheṣv āsīnāḥ pṛthivīkṣitaḥ surabhisragdharāḥ sarve sumṛṣṭamaṇikuṇḍalāḥ 5 tāṃ rājasamitiṃ pūrṇāṃ nāgair bhogavatīm iva saṃpūrṇāṃ puruṣavyāghrair vyāghrair giriguhām iva 6 tatra sma pīnā dṛśyante bāhavaḥ parighopamāḥ ākāravantaḥ suślakṣṇāḥ pañcaśīrṣā ivoragāḥ 7 sukeśāntāni cārūṇi sunāsāni śubhāni ca mukhāni rājñāṃ śobhante nakṣatrāṇi yathā divi 8 damayantī tato raṅgaṃ praviveśa śubhānanā muṣṇantī prabhayā rājñāṃ cakṣūṃsi ca manāṃsi ca 9 tasyā gātreṣu patitā teṣāṃ dṛṣṭir mahātmanām tatra tatraiva saktābhūn na cacāla ca paśyatām 10 tataḥ saṃkīrtyamāneṣu rājñāṃ nāmasu bhārata dadarśa bhaimī puruṣān pañca tulyākṛtīn iva 11 tān samīkṣya tataḥ sarvān nirviśeṣākṛtīn sthitān saṃdeśād atha vaidharbhī nābhyajānān nalaṃ nṛpam yaṃ yaṃ hi dadṛśe teṣāṃ taṃ taṃ mene nalaṃ nṛpam 12 sā cintayantī buddhyātha tarkayām āsa bhāminī kathaṃ nu devāñ jānīyāṃ kathaṃ vidyāṃ nalaṃ nṛpam 13 evaṃ saṃcintayantī sā vaidarbhī bhṛśaduḥkhitā śrutāni devaliṅgāni cintayām āsa bhārata 14 devānāṃ yāni liṅgāni sthavirebhyaḥ śrutāni me tānīha tiṣṭhatāṃ bhūmāv ekasyāpi na lakṣaye 15 sā viniścitya bahudhā vicārya ca punaḥ punaḥ śaraṇaṃ prati devānāṃ prāptakālam amanyata 16 vācā ca manasā caiva namaḥ kāraṃ prayujya sā devebhyaḥ prāñjalir bhūtvā vepamānedam abravīt 17 haṃsānāṃ vacanaṃ śrutvā yathā me naiṣadho vṛtaḥ patitve tena satyena devās taṃ pradiśantu me 18 vācā ca manasā caiva yathā nābhicarāmy aham tena satyena vibudhās tam eva pradiśantu me 19 yathā devaiḥ sa me bhartā vihito niṣadhādhipaḥ tena satyena me devās tam eva pradiśantu me 20 svaṃ caiva rūpaṃ puṣyantu lokapālāḥ saheśvarāḥ yathāham abhijānīyāṃ puṇyaślokaṃ narādhipam 21 niśamya damayantyās tat karuṇaṃ paridevitam niścayaṃ paramaṃ tathyam anurāgaṃ ca naiṣadhe 22 manoviśuddhiṃ buddhiṃ ca bhaktiṃ rāgaṃ ca bhārata yathoktaṃ cakrire devāḥ sāmarthyaṃ liṅgadhāraṇe 23 sāpaśyad vibudhān sarvān asvedān stabdhalocanān hṛṣitasrag rajohīnān sthitān aspṛśataḥ kṣitim 24 chāyādvitīyo mlānasrag rajaḥsvedasamanvitaḥ bhūmiṣṭho naiṣadhaś caiva nimeṣeṇa ca sūcitaḥ 25 sā samīkṣya tato devān puṇyaślokaṃ ca bhārata naiṣadhaṃ varayām āsa bhaimī dharmeṇa bhārata 26 vilajjamānā vastrānte jagrāhāyatalocanā skandhadeśe 'sṛjac cāsya srajaṃ paramaśobhanām varayām āsa caivainaṃ patitve varavarṇinī 27 tato hā heti sahasā śabdo mukto narādhipaiḥ devair maharṣibhiś caiva sādhu sādhv iti bhārata vismitair īritaḥ śabdaḥ praśaṃsadbhir nalaṃ nṛpam 28 vṛte tu naiṣadhe bhaimyā lokapālā mahaujasā prahṛṣṭamanasaḥ sarve nalāyāṣṭau varān daduḥ 29 pratyakṣadarśanaṃ yajñe gatiṃ cānuttamāṃ śubhām naiṣadhāya dadau śakraḥ prīyamāṇaḥ śacīpatiḥ 30 agnir ātmabhavaṃ prādād yatra vāñchati naiṣadhaḥ lokān ātmaprabhāṃś caiva dadau tasmai hutāśanaḥ 31 yamas tv annarasaṃ prādād dharme ca paramāṃ sthitim apāṃ patir apāṃ bhāvaṃ yatra vāñchati naiṣadhaḥ 32 srajaṃ cottamagandhāḍhyāṃ sarve ca mithunaṃ daduḥ varān evaṃ pradāyāsya devās te tridivaṃ gatāḥ 33 pārthivāś cānubhūyāsya vivāhaṃ vismayānvitāḥ damayantyāḥ pramuditāḥ pratijagmur yathāgatam 34 avāpya nārīratnaṃ tat puṇyaśloko 'pi pārthivaḥ reme saha tayā rājā śacyeva balavṛtrahā 35 atīva mudito rājā bhrājamāno 'ṃśumān iva arañjayat prajā vīro dharmeṇa paripālayan 36 īje cāpy aśvamedhena yayātir iva nāhuṣaḥ anyaiś ca kratubhir dhīmān bahubhiś cāptadakṣiṇaiḥ 37 punaś ca ramaṇīyeṣu vaneṣūpavaneṣu ca damayantyā saha nalo vijahārāmaropamaḥ 38 evaṃ sa yajamānaś ca viharaṃś ca narādhipaḥ rarakṣa vasusaṃpūrṇāṃ vasudhāṃ vasudhādhipaḥ |
The Mahabharata in Sanskrit
Book 3
Chapter 55
|
1
बृहदश्व उवाच वृते तु नैषधे भैम्या लॊकपाला महौजसः यान्तॊ ददृशुर आयान्तं दवापरं कलिना सह 2 अथाब्रवीत कलिं शक्रः संप्रेक्ष्य बलवृत्रहा दवापरेण सहायेन कले बरूहि कव यास्यसि 3 ततॊ ऽबरवीत कलिः शक्रं दमयन्त्याः सवयंवरम गत्वाहं वरयिष्ये तां मनॊ हि मम तद्गतम 4 तम अब्रवीत परहस्येन्द्रॊ निर्वृत्तः स सवयंवरः वृतस तया नलॊ राजा पतिर अस्मत्समीपतः 5 एवम उक्तस तु शक्रेण कलिः कॊपसमन्वितः देवान आमन्त्र्य तान सर्वान उवाचेदं वचस तदा 6 देवानां मानुषं मध्ये यत सा पतिम अविन्दत ननु तस्या भवेन नयाय्यं विपुलं दण्डधारणम 7 एवम उक्ते तु कलिना परत्यूचुस ते दिवौकसः अस्माभिः समनुज्ञातॊ दमयन्त्या नलॊ वृतः 8 कश च सर्वगुणॊपेतं नाश्रयेत नलं नृपम यॊ वेद धर्मान अखिलान यथावच चरितव्रतः 9 यस्मिन सत्यं धृतिर दानं तपः शौचं दमः शमः धरुवाणि पुरुषव्याघ्रे लॊकपालसमे नृपे 10 आत्मानं स शपेन मूढॊ हन्याच चात्मानम आत्मना एवंगुणं नलं यॊ वै कामयेच छपितुं कले 11 कृच्छ्रे स नरके मज्जेद अगाधे विपुले ऽपलवे एवम उक्त्वा कलिं देवा दवापरं च दिवं ययुः 12 ततॊ गतेषु देवेषु कलिर दवापरम अब्रवीत संहर्तुं नॊत्सहे कॊपं नले वत्स्यामि दवापर 13 भरंशयिष्यामि तं राज्यान न भैम्या सह रंस्यते तवम अप्य अक्षान समाविश्य कर्तुं साहाय्यम अर्हसि |
1
bṛhadaśva uvāca vṛte tu naiṣadhe bhaimyā lokapālā mahaujasaḥ yānto dadṛśur āyāntaṃ dvāparaṃ kalinā saha 2 athābravīt kaliṃ śakraḥ saṃprekṣya balavṛtrahā dvāpareṇa sahāyena kale brūhi kva yāsyasi 3 tato 'bravīt kaliḥ śakraṃ damayantyāḥ svayaṃvaram gatvāhaṃ varayiṣye tāṃ mano hi mama tadgatam 4 tam abravīt prahasyendro nirvṛttaḥ sa svayaṃvaraḥ vṛtas tayā nalo rājā patir asmatsamīpataḥ 5 evam uktas tu śakreṇa kaliḥ kopasamanvitaḥ devān āmantrya tān sarvān uvācedaṃ vacas tadā 6 devānāṃ mānuṣaṃ madhye yat sā patim avindata nanu tasyā bhaven nyāyyaṃ vipulaṃ daṇḍadhāraṇam 7 evam ukte tu kalinā pratyūcus te divaukasaḥ asmābhiḥ samanujñāto damayantyā nalo vṛtaḥ 8 kaś ca sarvaguṇopetaṃ nāśrayeta nalaṃ nṛpam yo veda dharmān akhilān yathāvac caritavrataḥ 9 yasmin satyaṃ dhṛtir dānaṃ tapaḥ śaucaṃ damaḥ śamaḥ dhruvāṇi puruṣavyāghre lokapālasame nṛpe 10 ātmānaṃ sa śapen mūḍho hanyāc cātmānam ātmanā evaṃguṇaṃ nalaṃ yo vai kāmayec chapituṃ kale 11 kṛcchre sa narake majjed agādhe vipule 'plave evam uktvā kaliṃ devā dvāparaṃ ca divaṃ yayuḥ 12 tato gateṣu deveṣu kalir dvāparam abravīt saṃhartuṃ notsahe kopaṃ nale vatsyāmi dvāpara 13 bhraṃśayiṣyāmi taṃ rājyān na bhaimyā saha raṃsyate tvam apy akṣān samāviśya kartuṃ sāhāyyam arhasi |
The Mahabharata in Sanskrit
Book 3
Chapter 56
|
1
बृहदश्व उवाच एवं स समयं कृत्वा दवापरेण कलिः सह आजगाम ततस तत्र यत्र राजा स नैषधः 2 स नित्यम अन्तरप्रेक्षी निषधेष्व अवसच चिरम अथास्य दवादशे वर्षे ददर्श कलिर अन्तरम 3 कृत्वा मूत्रम उपस्पृश्य संध्याम आस्ते सम नैषधः अकृत्वा पादयॊः शौचं तत्रैनं कलिर आविशत 4 स समाविश्य तु नलं समीपं पुष्करस्य ह गत्वा पुष्करम आहेदम एहि दीव्य नलेन वै 5 अक्षद्यूते नलं जेता भवान हि सहितॊ मया निषधान परतिपद्यस्व जित्वा राजन नलं नृपम 6 एवम उक्तस तु कलिना पुष्करॊ नलम अभ्ययात कलिश चैव वृषॊ भूत्वा गवां पुष्करम अभ्ययात 7 आसाद्य तु नलं वीरं पुष्करः परवीरहा दीव्यावेत्य अब्रवीद भराता वृषेणेति मुहुर मुहुः 8 न चक्षमे ततॊ राजा समाह्वानं महामनाः वैदर्भ्याः परेक्षमाणायाः पणकालम अमन्यत 9 हिरण्यस्य सुवर्णस्य यानयुग्यस्य वाससाम आविष्टः कलिना दयूते जीयते सम नलस तदा 10 तम अक्षमदसंमत्तं सुहृदां न तु कश चन निवारणे ऽभवच छक्तॊ दीव्यमानम अचेतसम 11 ततः पौरजनः सर्वॊ मन्त्रिभिः सह भारत राजानं दरष्टुम आगच्छन निवारयितुम आतुरम 12 ततः सूत उपागम्य दमयन्त्यै नयवेदयत एष पौरजनः सर्वॊ दवारि तिष्ठति कार्यवान 13 निवेद्यतां नैषधाय सर्वाः परकृतयः सथिताः अमृष्यमाणा वयसनं राज्ञॊ धर्मार्थदर्शिनः 14 ततः सा बाष्पकलया वाचा दुःखेन कर्शिता उवाच नैषधं भैमी शॊकॊपहतचेतना 15 राजन पौरजनॊ दवारि तवां दिदृक्षुर अवस्थितः मन्त्रिभिः सहितः सर्वै राजभक्तिपुरस्कृतः तं दरष्टुम अर्हसीत्य एव पुनः पुनर अभाषत 16 तां तथा रुचिरापाङ्गीं विलपन्तीं सुमध्यमाम आविष्टः कलिना राजा नाभ्यभाषत किं चन 17 ततस ते मन्त्रिणः सर्वे ते चैव पुरवासिनः नायम अस्तीति दुःखार्ता वरीडिता जग्मुर आलयान 18 तथा तद अभवद दयूतं पुष्करस्य नलस्य च युधिष्ठिर बहून मासान पुण्यश्लॊकस तव अजीयत |
1
bṛhadaśva uvāca evaṃ sa samayaṃ kṛtvā dvāpareṇa kaliḥ saha ājagāma tatas tatra yatra rājā sa naiṣadhaḥ 2 sa nityam antaraprekṣī niṣadheṣv avasac ciram athāsya dvādaśe varṣe dadarśa kalir antaram 3 kṛtvā mūtram upaspṛśya saṃdhyām āste sma naiṣadhaḥ akṛtvā pādayoḥ śaucaṃ tatrainaṃ kalir āviśat 4 sa samāviśya tu nalaṃ samīpaṃ puṣkarasya ha gatvā puṣkaram āhedam ehi dīvya nalena vai 5 akṣadyūte nalaṃ jetā bhavān hi sahito mayā niṣadhān pratipadyasva jitvā rājan nalaṃ nṛpam 6 evam uktas tu kalinā puṣkaro nalam abhyayāt kaliś caiva vṛṣo bhūtvā gavāṃ puṣkaram abhyayāt 7 āsādya tu nalaṃ vīraṃ puṣkaraḥ paravīrahā dīvyāvety abravīd bhrātā vṛṣeṇeti muhur muhuḥ 8 na cakṣame tato rājā samāhvānaṃ mahāmanāḥ vaidarbhyāḥ prekṣamāṇāyāḥ paṇakālam amanyata 9 hiraṇyasya suvarṇasya yānayugyasya vāsasām āviṣṭaḥ kalinā dyūte jīyate sma nalas tadā 10 tam akṣamadasaṃmattaṃ suhṛdāṃ na tu kaś cana nivāraṇe 'bhavac chakto dīvyamānam acetasam 11 tataḥ paurajanaḥ sarvo mantribhiḥ saha bhārata rājānaṃ draṣṭum āgacchan nivārayitum āturam 12 tataḥ sūta upāgamya damayantyai nyavedayat eṣa paurajanaḥ sarvo dvāri tiṣṭhati kāryavān 13 nivedyatāṃ naiṣadhāya sarvāḥ prakṛtayaḥ sthitāḥ amṛṣyamāṇā vyasanaṃ rājño dharmārthadarśinaḥ 14 tataḥ sā bāṣpakalayā vācā duḥkhena karśitā uvāca naiṣadhaṃ bhaimī śokopahatacetanā 15 rājan paurajano dvāri tvāṃ didṛkṣur avasthitaḥ mantribhiḥ sahitaḥ sarvai rājabhaktipuraskṛtaḥ taṃ draṣṭum arhasīty eva punaḥ punar abhāṣata 16 tāṃ tathā rucirāpāṅgīṃ vilapantīṃ sumadhyamām āviṣṭaḥ kalinā rājā nābhyabhāṣata kiṃ cana 17 tatas te mantriṇaḥ sarve te caiva puravāsinaḥ nāyam astīti duḥkhārtā vrīḍitā jagmur ālayān 18 tathā tad abhavad dyūtaṃ puṣkarasya nalasya ca yudhiṣṭhira bahūn māsān puṇyaślokas tv ajīyata |
The Mahabharata in Sanskrit
Book 3
Chapter 57
|
1
बृहदश्व उवाच दमयन्ती ततॊ दृष्ट्वा पुण्यश्लॊकं नराधिपम उन्मत्तवद अनुन्मत्ता देवने गतचेतसाम 2 भयशॊकसमाविष्टा राजन भीमसुता ततः चिन्तयाम आस तत कार्यं सुमहत पार्थिवं परति 3 सा शङ्कमाना तत्पापं चिकीर्षन्ती च तत्प्रियम नलं च हृतसर्वस्वम उपलभ्येदम अब्रवीत 4 बृहत्सेने वरजामात्यान आनाय्य नलशासनात आचक्ष्व यद धृतं दरव्यम अवशिष्टं च यद वसु 5 ततस ते मन्त्रिणः सर्वे विज्ञाय नलशासनम अपि नॊ भागधेयं सयाद इत्य उक्त्वा पुनर आव्रजन 6 तास तु सर्वाः परकृतयॊ दवितीयं समुपस्थिताः नयवेदयद भीमसुता न च तत परत्यनन्दत 7 वाक्यम अप्रतिनन्दन्तं भर्तारम अभिवीक्ष्य सा दमयन्ती पुनर वेश्म वरीडिता परविवेश ह 8 निशम्य सततं चाक्षान पुण्यश्लॊकपराङ्मुखान नलं च हृतसर्वस्वं धात्रीं पुनर उवाच ह 9 बृहत्सेने पुनर गच्छ वार्ष्णेयं नलशासनात सूतम आनय कल्याणि महत कार्यम उपस्थितम 10 बृहत्सेना तु तच छरुत्वा दमयन्त्याः परभाषितम वार्ष्णेयम आनयाम आस पुरुषैर आप्तकारिभिः 11 वार्ष्णेयं तु ततॊ भैमी सान्त्वयञ शलक्ष्णया गिरा उवाच देशकालज्ञा पराप्तकालम अनिन्दिता 12 जानीषे तवं यथा राजा सम्यग्वृत्तः सदा तवयि तस्य तवं विषमस्थस्य साहाय्यं कर्तुम अर्हसि 13 यथा यथा हि नृपतिः पुष्करेणेह जीयते तथा तथास्य दयूते वै रागॊ भूयॊ ऽभिवर्धते 14 यथा च पुष्करस्याक्षा वर्तन्ते वशवर्तिनः तथा विपर्ययश चापि नलस्याक्षेषु दृश्यते 15 सुहृत्स्वजनवाक्यानि यथावन न शृणॊति च नूनं मन्ये न शेषॊ ऽसति नैषधस्य महात्मनः 16 यत्र मे वचनं राजा नाभिनन्दति मॊहितः शरणं तवां परपन्नास्मि सारथे कुरु मद्वचः न हि मे शुध्यते भावः कदा चिद विनशेद इति 17 नलस्य दयितान अश्वान यॊजयित्वा महाजवान इदम आरॊप्य मिथुनं कुण्डिनं यातुम अर्हसि 18 मम जञातिषु निक्षिप्य दारकौ सयन्दनं तथा अश्वांश चैतान यथाकामं वस वान्यत्र गच्छ वा 19 दमयन्त्यास तु तद वाक्यं वार्ष्णेयॊ नलसारथिः नयवेदयद अशेषेण नलामात्येषु मुख्यशः 20 तैः समेत्य विनिश्चित्य सॊ ऽनुज्ञातॊ महीपते ययौ मिथुनम आरॊप्य विदर्भांस तेन वाहिना 21 हयांस तत्र विनिक्षिप्य सूतॊ रथवरं च तम इन्द्रसेनां च तां कन्याम इन्द्रसेनं च बालकम 22 आमन्त्र्य भीमं राजानम आर्तः शॊचन नलं नृपम अटमानस ततॊ ऽयॊध्यां जगाम नगरीं तदा 23 ऋतुपर्णं स राजानम उपतस्थे सुदुःखितः भृतिं चॊपययौ तस्य सारथ्येन महीपते |
1
bṛhadaśva uvāca damayantī tato dṛṣṭvā puṇyaślokaṃ narādhipam unmattavad anunmattā devane gatacetasām 2 bhayaśokasamāviṣṭā rājan bhīmasutā tataḥ cintayām āsa tat kāryaṃ sumahat pārthivaṃ prati 3 sā śaṅkamānā tatpāpaṃ cikīrṣantī ca tatpriyam nalaṃ ca hṛtasarvasvam upalabhyedam abravīt 4 bṛhatsene vrajāmātyān ānāyya nalaśāsanāt ācakṣva yad dhṛtaṃ dravyam avaśiṣṭaṃ ca yad vasu 5 tatas te mantriṇaḥ sarve vijñāya nalaśāsanam api no bhāgadheyaṃ syād ity uktvā punar āvrajan 6 tās tu sarvāḥ prakṛtayo dvitīyaṃ samupasthitāḥ nyavedayad bhīmasutā na ca tat pratyanandata 7 vākyam apratinandantaṃ bhartāram abhivīkṣya sā damayantī punar veśma vrīḍitā praviveśa ha 8 niśamya satataṃ cākṣān puṇyaślokaparāṅmukhān nalaṃ ca hṛtasarvasvaṃ dhātrīṃ punar uvāca ha 9 bṛhatsene punar gaccha vārṣṇeyaṃ nalaśāsanāt sūtam ānaya kalyāṇi mahat kāryam upasthitam 10 bṛhatsenā tu tac chrutvā damayantyāḥ prabhāṣitam vārṣṇeyam ānayām āsa puruṣair āptakāribhiḥ 11 vārṣṇeyaṃ tu tato bhaimī sāntvayañ ślakṣṇayā girā uvāca deśakālajñā prāptakālam aninditā 12 jānīṣe tvaṃ yathā rājā samyagvṛttaḥ sadā tvayi tasya tvaṃ viṣamasthasya sāhāyyaṃ kartum arhasi 13 yathā yathā hi nṛpatiḥ puṣkareṇeha jīyate tathā tathāsya dyūte vai rāgo bhūyo 'bhivardhate 14 yathā ca puṣkarasyākṣā vartante vaśavartinaḥ tathā viparyayaś cāpi nalasyākṣeṣu dṛśyate 15 suhṛtsvajanavākyāni yathāvan na śṛṇoti ca nūnaṃ manye na śeṣo 'sti naiṣadhasya mahātmanaḥ 16 yatra me vacanaṃ rājā nābhinandati mohitaḥ śaraṇaṃ tvāṃ prapannāsmi sārathe kuru madvacaḥ na hi me śudhyate bhāvaḥ kadā cid vinaśed iti 17 nalasya dayitān aśvān yojayitvā mahājavān idam āropya mithunaṃ kuṇḍinaṃ yātum arhasi 18 mama jñātiṣu nikṣipya dārakau syandanaṃ tathā aśvāṃś caitān yathākāmaṃ vasa vānyatra gaccha vā 19 damayantyās tu tad vākyaṃ vārṣṇeyo nalasārathiḥ nyavedayad aśeṣeṇa nalāmātyeṣu mukhyaśaḥ 20 taiḥ sametya viniścitya so 'nujñāto mahīpate yayau mithunam āropya vidarbhāṃs tena vāhinā 21 hayāṃs tatra vinikṣipya sūto rathavaraṃ ca tam indrasenāṃ ca tāṃ kanyām indrasenaṃ ca bālakam 22 āmantrya bhīmaṃ rājānam ārtaḥ śocan nalaṃ nṛpam aṭamānas tato 'yodhyāṃ jagāma nagarīṃ tadā 23 ṛtuparṇaṃ sa rājānam upatasthe suduḥkhitaḥ bhṛtiṃ copayayau tasya sārathyena mahīpate |
The Mahabharata in Sanskrit
Book 3
Chapter 58
|
1
बृहदश्व उवाच ततस तु याते वार्ष्णेये पुण्यश्लॊकस्य दीव्यतः पुष्करेण हृतं राज्यं यच चान्यद वसु किं चन 2 हृतराज्यं नलं राजन परहसन पुष्करॊ ऽबरवीत दयूतं परवर्ततां भूयः परतिपाणॊ ऽसति कस तव 3 शिष्टा ते दमयन्त्य एका सर्वम अन्यद धृतं मया दमयन्त्याः पुणः साधु वर्ततां यदि मन्यसे 4 पुष्करेणैवम उक्तस्य पुण्यश्लॊकस्य मन्युना वयदीर्यतेव हृदयं न चैनं किं चिद अब्रवीत 5 ततः पुष्करम आलॊक्य नलः परममन्युमान उत्सृज्य सर्वगात्रेभ्यॊ भूषणानि महायशाः 6 एकवासा असंवीतः सुहृच्छॊकविवर्धनः निश्चक्राम तदा राजा तयक्त्वा सुविपुलां शरियम 7 दमयन्त्य एकवस्त्रा तं गच्छन्तं पृष्ठतॊ ऽनवियात स तया बाह्यतः सार्धं तरिरात्रं नैषधॊ ऽवसत 8 पुष्करस तु महाराज घॊषयाम आस वै पुरे नले यः सम्यग आतिष्ठेत स गच्छेद वध्यतां मम 9 पुष्करस्य तु वाक्येन तस्य विद्वेषणेन च पौरा न तस्मिन सत्कारं कृतवन्तॊ युधिष्ठिर 10 स तथा नगराभ्याशे सत्कारार्हॊ न सत्कृतः तरिरात्रम उषितॊ राजा जलमात्रेण वर्तयन 11 कषुधा संपीड्यमानस तु नलॊ बहुतिथे ऽहनि अपश्यच छकुनान कांश चिद धिरण्यसदृशच्छदान 12 स चिन्तयाम आस तदा निषधाधिपतिर बली अस्ति भक्षॊ ममाद्यायं वसु चेदं भविष्यति 13 ततस तान अन्तरीयेण वाससा समवास्तृणॊत तस्यान्तरीयम आदाय जग्मुः सर्वे विहायसा 14 उत्पतन्तः खगास ते तु वाक्यम आहुस तदा नलम दृष्ट्वा दिग्वाससं भूमौ सथितं दीनम अधॊमुखम 15 वयम अक्षाः सुदुर्बुद्धे तव वासॊर जिहीर्षवः आगता न हि नः परीतिः सवाससि गते तवयि 16 तान समीक्ष्य गतान अक्षान आत्मानं च विवाससम पुण्यश्लॊकस ततॊ राजा दमयन्तीम अथाब्रवीत 17 येषां परकॊपाद ऐश्वर्यात परच्युतॊ ऽहम अनिन्दिते पराणयात्रां न विन्दे च दुःखितः कषुधयार्दितः 18 येषां कृते न सत्कारम अकुर्वन मयि नैषधाः त इमे शकुना भूत्वा वासॊ ऽपय अपहरन्ति मे 19 वैषम्यं परमं पराप्तॊ दुःखितॊ गतचेतनः भर्ता ते ऽहं निबॊधेदं वचनं हितम आत्मनः 20 एते गच्छन्ति बहवः पन्थानॊ दक्षिणापथम अवन्तीम ऋक्षवन्तं च समतिक्रम्य पर्वतम 21 एष विन्ध्यॊ महाशैलः पयॊष्णी च समुद्रगा आश्रमाश च महर्षीणाम अमी पुष्पफलान्विताः 22 एष पन्था विदर्भाणाम अयं गच्छति कॊसलान अतः परं च देशॊ ऽयं दक्षिणे दक्षिणापथः 23 ततः सा बाष्पकलया वाचा दुःखेन कर्शिता उवाच दमयन्ती तं नैषधं करुणं वचः 24 उद्वेपते मे हृदयं सीदन्त्य अङ्गानि सर्वशः तव पार्थिव संकल्पं चिन्तयन्त्याः पुनः पुनः 25 हृतराज्यं हृतधनं विवस्त्रं कषुच्छ्रमान्वितम कथम उत्सृज्य गच्छेयम अहं तवां विजने वने 26 शरान्तस्य ते कषुधार्तस्य चिन्तयानस्य तत सुखम वने घॊरे महाराज नाशयिष्यामि ते कलमम 27 न च भार्यासमं किं चिद विद्यते भिषजां मतम औषधं सर्वदुःखेषु सत्यम एतद बरवीमि ते 28 नल उवाच एवम एतद यथात्थ तवं दमयन्ति सुमध्यमे नास्ति भार्यासमं मित्रं नरस्यार्तस्य भेषजम 29 न चाहं तयक्तुकामस तवां किमर्थं भीरु शङ्कसे तयजेयम अहम आत्मानं न तव एव तवाम अनिन्दिते 30 दमयन्त्य उवाच यदि मां तवं महाराज न विहातुम इहेच्छसि तत किमर्थं विदर्भाणां पन्थाः समुपदिश्यते 31 अवैमि चाहं नृपते न तवं मां तयकुम अर्हसि चेतसा तव अपकृष्टेन मां तयजेथा महापते 32 पन्थानं हि ममाभीक्ष्णम आख्यासि नरसत्तम अतॊनिमित्तं शॊकं मे वर्धयस्य अमरप्रभ 33 यदि चायम अभिप्रायस तव राजन वरजेद इति सहिताव एव गच्छावॊ विदर्भान यदि मन्यसे 34 विदर्भराजस तत्र तवां पूजयिष्यति मानद तेन तवं पूजितॊ राजन सुखं वत्स्यसि नॊ गृहे |
1
bṛhadaśva uvāca tatas tu yāte vārṣṇeye puṇyaślokasya dīvyataḥ puṣkareṇa hṛtaṃ rājyaṃ yac cānyad vasu kiṃ cana 2 hṛtarājyaṃ nalaṃ rājan prahasan puṣkaro 'bravīt dyūtaṃ pravartatāṃ bhūyaḥ pratipāṇo 'sti kas tava 3 śiṣṭā te damayanty ekā sarvam anyad dhṛtaṃ mayā damayantyāḥ puṇaḥ sādhu vartatāṃ yadi manyase 4 puṣkareṇaivam uktasya puṇyaślokasya manyunā vyadīryateva hṛdayaṃ na cainaṃ kiṃ cid abravīt 5 tataḥ puṣkaram ālokya nalaḥ paramamanyumān utsṛjya sarvagātrebhyo bhūṣaṇāni mahāyaśāḥ 6 ekavāsā asaṃvītaḥ suhṛcchokavivardhanaḥ niścakrāma tadā rājā tyaktvā suvipulāṃ śriyam 7 damayanty ekavastrā taṃ gacchantaṃ pṛṣṭhato 'nviyāt sa tayā bāhyataḥ sārdhaṃ trirātraṃ naiṣadho 'vasat 8 puṣkaras tu mahārāja ghoṣayām āsa vai pure nale yaḥ samyag ātiṣṭhet sa gacched vadhyatāṃ mama 9 puṣkarasya tu vākyena tasya vidveṣaṇena ca paurā na tasmin satkāraṃ kṛtavanto yudhiṣṭhira 10 sa tathā nagarābhyāśe satkārārho na satkṛtaḥ trirātram uṣito rājā jalamātreṇa vartayan 11 kṣudhā saṃpīḍyamānas tu nalo bahutithe 'hani apaśyac chakunān kāṃś cid dhiraṇyasadṛśacchadān 12 sa cintayām āsa tadā niṣadhādhipatir balī asti bhakṣo mamādyāyaṃ vasu cedaṃ bhaviṣyati 13 tatas tān antarīyeṇa vāsasā samavāstṛṇot tasyāntarīyam ādāya jagmuḥ sarve vihāyasā 14 utpatantaḥ khagās te tu vākyam āhus tadā nalam dṛṣṭvā digvāsasaṃ bhūmau sthitaṃ dīnam adhomukham 15 vayam akṣāḥ sudurbuddhe tava vāsor jihīrṣavaḥ āgatā na hi naḥ prītiḥ savāsasi gate tvayi 16 tān samīkṣya gatān akṣān ātmānaṃ ca vivāsasam puṇyaślokas tato rājā damayantīm athābravīt 17 yeṣāṃ prakopād aiśvaryāt pracyuto 'ham anindite prāṇayātrāṃ na vinde ca duḥkhitaḥ kṣudhayārditaḥ 18 yeṣāṃ kṛte na satkāram akurvan mayi naiṣadhāḥ ta ime śakunā bhūtvā vāso 'py apaharanti me 19 vaiṣamyaṃ paramaṃ prāpto duḥkhito gatacetanaḥ bhartā te 'haṃ nibodhedaṃ vacanaṃ hitam ātmanaḥ 20 ete gacchanti bahavaḥ panthāno dakṣiṇāpatham avantīm ṛkṣavantaṃ ca samatikramya parvatam 21 eṣa vindhyo mahāśailaḥ payoṣṇī ca samudragā āśramāś ca maharṣīṇām amī puṣpaphalānvitāḥ 22 eṣa panthā vidarbhāṇām ayaṃ gacchati kosalān ataḥ paraṃ ca deśo 'yaṃ dakṣiṇe dakṣiṇāpathaḥ 23 tataḥ sā bāṣpakalayā vācā duḥkhena karśitā uvāca damayantī taṃ naiṣadhaṃ karuṇaṃ vacaḥ 24 udvepate me hṛdayaṃ sīdanty aṅgāni sarvaśaḥ tava pārthiva saṃkalpaṃ cintayantyāḥ punaḥ punaḥ 25 hṛtarājyaṃ hṛtadhanaṃ vivastraṃ kṣucchramānvitam katham utsṛjya gaccheyam ahaṃ tvāṃ vijane vane 26 śrāntasya te kṣudhārtasya cintayānasya tat sukham vane ghore mahārāja nāśayiṣyāmi te klamam 27 na ca bhāryāsamaṃ kiṃ cid vidyate bhiṣajāṃ matam auṣadhaṃ sarvaduḥkheṣu satyam etad bravīmi te 28 nala uvāca evam etad yathāttha tvaṃ damayanti sumadhyame nāsti bhāryāsamaṃ mitraṃ narasyārtasya bheṣajam 29 na cāhaṃ tyaktukāmas tvāṃ kimarthaṃ bhīru śaṅkase tyajeyam aham ātmānaṃ na tv eva tvām anindite 30 damayanty uvāca yadi māṃ tvaṃ mahārāja na vihātum ihecchasi tat kimarthaṃ vidarbhāṇāṃ panthāḥ samupadiśyate 31 avaimi cāhaṃ nṛpate na tvaṃ māṃ tyakum arhasi cetasā tv apakṛṣṭena māṃ tyajethā mahāpate 32 panthānaṃ hi mamābhīkṣṇam ākhyāsi narasattama atonimittaṃ śokaṃ me vardhayasy amaraprabha 33 yadi cāyam abhiprāyas tava rājan vrajed iti sahitāv eva gacchāvo vidarbhān yadi manyase 34 vidarbharājas tatra tvāṃ pūjayiṣyati mānada tena tvaṃ pūjito rājan sukhaṃ vatsyasi no gṛhe |
The Mahabharata in Sanskrit
Book 3
Chapter 59
|
1
नल उवाच यथा राज्यं पितुस ते तत तथा मम न संशयः न तु तत्र गमिष्यामि विषमस्थः कथं चन 2 कथं समृद्धॊ गत्वाहं तव हर्षविवर्धनः परिद्यूनॊ गमिष्यामि तव शॊकविवर्धनः 3 बृहदश्व उवाच इति बरुवन नलॊ राजा दमयन्तीं पुनः पुनः सान्त्वयाम आस कल्याणीं वाससॊ ऽरधेन संवृताम 4 ताव एकवस्त्रसंवीताव अटमानाव इतस ततः कषुत्पिपासापरिश्रान्तौ सभां कां चिद उपेयतुः 5 तां सभाम उपसंप्राप्य तदा स निषधाधिपः वैदर्भ्या सहितॊ राजा निषसाद महीतले 6 स वै विवस्त्रॊ मलिनॊ विकचः पांसुगुण्ठितः दमयन्त्या सह शरान्तः सुष्वाप धरणीतले 7 दमयन्त्य अपि कल्याणी निद्रयापहृता ततः सहसा दुःखम आसाद्य सुकुमारी तपस्विनी 8 सुप्तायां दमयन्त्यां तु नलॊ राजा विशां पते शॊकॊन्मथितचित्तात्मा न सम शेते यथा पुरा 9 स तद राज्यापहरणं सुहृत्त्यागं च सर्वशः वने च तं परिध्वंसं परेक्ष्य चिन्ताम उपेयिवान 10 किं नु मे सयाद इदं कृत्वा किं नु मे सयाद अकुर्वतः किं नु मे मरणं शरेयः परित्यागॊ जनस्य वा 11 माम इयं हय अनुरक्तेदं दुःखम आप्नॊति मत्कृते मद्विहीना तव इयं गच्छेत कदा चित सवजनं परति 12 मया निःसंशयं दुःखम इयं पराप्स्यत्य अनुत्तमा उत्सर्गे संशयः सयात तु विन्देतापि सुखं कव चित 13 स विनिश्चित्य बहुधा विचार्य च पुनः पुनः उत्सर्गे ऽमन्यत शरेयॊ दमयन्त्या नराधिपः 14 सॊ ऽवस्त्रताम आत्मनश च तस्याश चाप्य एकवस्त्रताम चिन्तयित्वाध्यगाद राजा वस्त्रार्धस्यावकर्तनम 15 कथं वासॊ विकर्तेयं न च बुध्येत मे परिया चिन्त्यैवं नैषधॊ राजा सभां पर्यचरत तदा 16 परिधावन्न अथ नल इतश चेतश च भारत आससाद सभॊद्देशे विकॊशं खड्गम उत्तमम 17 तेनार्धं वाससश छित्त्वा निवस्य च परंतपः सुप्ताम उत्सृज्य वैदर्भीं पराद्रवद गतचेतनः 18 ततॊ निबद्धहृदयः पुनर आगम्य तां सभाम दमयन्तीं तथा दृष्ट्वा रुरॊद निषधाधिपः 19 यां न वायुर न चादित्यः पुरा पश्यति मे परियाम सेयम अद्य सभामध्ये शेते भूमाव अनाथवत 20 इयं वस्त्रावकर्तेन संवीता चारुहासिनी उन्मत्तेव वरारॊहा कथं बुद्ध्वा भविष्यति 21 कथम एका सती भैमी मया विरहिता शुभा चरिष्यति वने घॊरे मृगव्यालनिषेविते 22 गत्वा गत्वा नलॊ राजा पुनर एति सभां मुहुः आकृष्यमाणः कलिना सौहृदेनापकृष्यते 23 दविधेव हृदयं तस्य दुःखितस्याभवत तदा दॊलेव मुहुर आयाति याति चैव सभां मुहुः 24 सॊ ऽपकृष्टस तु कलिना मॊहितः पराद्रवन नलः सुप्ताम उत्सृज्य तां भार्यां विलप्य करुणं बहु 25 नष्टात्मा कलिना सपृष्टस तत तद विगणयन नृपः जगामैव वने शून्ये भार्याम उत्सृज्य दुःखितः |
1
nala uvāca yathā rājyaṃ pitus te tat tathā mama na saṃśayaḥ na tu tatra gamiṣyāmi viṣamasthaḥ kathaṃ cana 2 kathaṃ samṛddho gatvāhaṃ tava harṣavivardhanaḥ paridyūno gamiṣyāmi tava śokavivardhanaḥ 3 bṛhadaśva uvāca iti bruvan nalo rājā damayantīṃ punaḥ punaḥ sāntvayām āsa kalyāṇīṃ vāsaso 'rdhena saṃvṛtām 4 tāv ekavastrasaṃvītāv aṭamānāv itas tataḥ kṣutpipāsāpariśrāntau sabhāṃ kāṃ cid upeyatuḥ 5 tāṃ sabhām upasaṃprāpya tadā sa niṣadhādhipaḥ vaidarbhyā sahito rājā niṣasāda mahītale 6 sa vai vivastro malino vikacaḥ pāṃsuguṇṭhitaḥ damayantyā saha śrāntaḥ suṣvāpa dharaṇītale 7 damayanty api kalyāṇī nidrayāpahṛtā tataḥ sahasā duḥkham āsādya sukumārī tapasvinī 8 suptāyāṃ damayantyāṃ tu nalo rājā viśāṃ pate śokonmathitacittātmā na sma śete yathā purā 9 sa tad rājyāpaharaṇaṃ suhṛttyāgaṃ ca sarvaśaḥ vane ca taṃ paridhvaṃsaṃ prekṣya cintām upeyivān 10 kiṃ nu me syād idaṃ kṛtvā kiṃ nu me syād akurvataḥ kiṃ nu me maraṇaṃ śreyaḥ parityāgo janasya vā 11 mām iyaṃ hy anuraktedaṃ duḥkham āpnoti matkṛte madvihīnā tv iyaṃ gacchet kadā cit svajanaṃ prati 12 mayā niḥsaṃśayaṃ duḥkham iyaṃ prāpsyaty anuttamā utsarge saṃśayaḥ syāt tu vindetāpi sukhaṃ kva cit 13 sa viniścitya bahudhā vicārya ca punaḥ punaḥ utsarge 'manyata śreyo damayantyā narādhipaḥ 14 so 'vastratām ātmanaś ca tasyāś cāpy ekavastratām cintayitvādhyagād rājā vastrārdhasyāvakartanam 15 kathaṃ vāso vikarteyaṃ na ca budhyeta me priyā cintyaivaṃ naiṣadho rājā sabhāṃ paryacarat tadā 16 paridhāvann atha nala itaś cetaś ca bhārata āsasāda sabhoddeśe vikośaṃ khaḍgam uttamam 17 tenārdhaṃ vāsasaś chittvā nivasya ca paraṃtapaḥ suptām utsṛjya vaidarbhīṃ prādravad gatacetanaḥ 18 tato nibaddhahṛdayaḥ punar āgamya tāṃ sabhām damayantīṃ tathā dṛṣṭvā ruroda niṣadhādhipaḥ 19 yāṃ na vāyur na cādityaḥ purā paśyati me priyām seyam adya sabhāmadhye śete bhūmāv anāthavat 20 iyaṃ vastrāvakartena saṃvītā cāruhāsinī unmatteva varārohā kathaṃ buddhvā bhaviṣyati 21 katham ekā satī bhaimī mayā virahitā śubhā cariṣyati vane ghore mṛgavyālaniṣevite 22 gatvā gatvā nalo rājā punar eti sabhāṃ muhuḥ ākṛṣyamāṇaḥ kalinā sauhṛdenāpakṛṣyate 23 dvidheva hṛdayaṃ tasya duḥkhitasyābhavat tadā doleva muhur āyāti yāti caiva sabhāṃ muhuḥ 24 so 'pakṛṣṭas tu kalinā mohitaḥ prādravan nalaḥ suptām utsṛjya tāṃ bhāryāṃ vilapya karuṇaṃ bahu 25 naṣṭātmā kalinā spṛṣṭas tat tad vigaṇayan nṛpaḥ jagāmaiva vane śūnye bhāryām utsṛjya duḥkhitaḥ |
The Mahabharata in Sanskrit
Book 3
Chapter 60
|
1
बृहदश्व उवाच अपक्रान्ते नले राजन दमयन्ती गतक्लमा अबुध्यत वरारॊहा संत्रस्ता विजने वने 2 सापश्यमाना भर्तारं दुःखशॊकसमन्विता पराक्रॊशद उच्चैः संत्रस्ता महाराजेति नैषधम 3 हा नाथ हा महाराज हा सवामिन किं जहासि माम हा हतास्मि विनष्टास्मि भीतास्मि विजने वने 4 ननु नाम महाराज धर्मज्ञः सत्यवाग असि कथम उक्त्वा तथासत्यं सुप्ताम उत्सृज्य मां गतः 5 कथम उत्सृज्य गन्तासि वश्यां भार्याम अनुव्रताम विशेषतॊ ऽनपकृते परेणापकृते सति 6 शक्ष्यसे ता गिरः सत्याः कर्तुं मयि नरेश्वर यास तवया लॊकपालानां संनिधौ कथिताः पुरा 7 पर्याप्तः परिहासॊ ऽयम एतावान पुरुषर्षभ भीताहम अस्मि दुर्धर्ष दर्शयात्मानम ईश्वर 8 दृश्यसे दृश्यसे राजन्न एष तिष्ठसि नैषध आवार्य गुल्मैर आत्मानं किं मां न परतिभाषसे 9 नृशंसं बत राजेन्द्र यन माम एवंगताम इह विलपन्तीं समालिङ्ग्य नाश्वासयसि पार्थिव 10 न शॊचाम्य अहम आत्मानं न चान्यद अपि किं चन कथं नु भवितास्य एक इति तवां नृप शॊचिमि 11 कथं नु राजंस तृषितः कषुधितः शरमकर्शितः सायाह्ने वृक्षमूलेषु माम अपश्यन भविष्यसि 12 ततः सा तीव्रशॊकार्ता परदीप्तेव च मन्युना इतश चेतश च रुदती पर्यधावत दुःखिता 13 मुहुर उत्पतते बाला मुहुः पतति विह्वला मुहुर आलीयते भीता मुहुः करॊशति रॊदिति 14 सा तीव्रशॊकसंतप्ता मुहुर निःश्वस्य विह्वला उवाच भैमी निष्क्रम्य रॊदमाना पतिव्रता 15 यस्याभिशापाद दुःखार्तॊ दुःखं विन्दति नैषधः तस्य भूतस्य तद दुःखाद दुःखम अभ्यधिकं भवेत 16 अपापचेतसं पापॊ य एवं कृतवान नलम तस्माद दुःखतरं पराप्य जीवत्व असुखजीविकाम 17 एवं तु विलपन्ती सा राज्ञॊ भार्या महात्मनः अन्वेषति सम भर्तारं वने शवापदसेविते 18 उन्मत्तवद भीमसुता विलपन्ती ततस ततः हा हा राजन्न इति मुहुर इतश चेतश च धावति 19 तां शुष्यमाणाम अत्यर्थं कुररीम इव वाशतीम करुणं बहु शॊचन्तीं विलपन्तीं मुहुर मुहुः 20 सहसाभ्यागतां भैमीम अभ्याशपरिवर्तिनीम जग्राहाजगरॊ गराहॊ महाकायः कषुधान्वितः 21 सा गरस्यमाना गराहेण शॊकेन च पराजिता नात्मानं शॊचति तथा यथा शॊचति नैषधम 22 हा नाथ माम इह वने गरस्यमानाम अनाथवत गराहेणानेन विपिने किमर्थं नाभिधावसि 23 कथं भविष्यसि पुनर माम अनुस्मृत्य नैषध पापान मुक्तः पुनर लब्ध्वा बुद्धिं चेतॊ धनानि च 24 शरान्तस्य ते कषुधार्तस्य परिग्लानस्य नैषध कः शरमं राजशार्दूल नाशयिष्यति मानद 25 ताम अकस्मान मृगव्याधॊ विचरन गहने वने आक्रन्दतीम उपश्रुत्य जवेनाभिससार ह 26 तां स दृष्ट्वा तथा गरस्ताम उरगेणायतेक्षणाम तवरमाणॊ मृगव्याधः समभिक्रम्य वेगितः 27 मुखतः पातयाम आस शस्त्रेण निशितेन ह निर्विचेष्टं भुजंगं तं विशस्य मृगजीविनः 28 मॊक्षयित्वा च तां वयाधः परक्षाल्य सलिलेन च समाश्वास्य कृताहाराम अथ पप्रच्छ भारत 29 कस्य तवं मृगशावाक्षि कथं चाभ्यागता वनम कथं चेदं महत कृच्छ्रं पराप्तवत्य असि भामिनि 30 दमयन्ती तथा तेन पृच्छ्यमाना विशां पते सर्वम एतद यथावृत्तम आचचक्षे ऽसय भारत 31 ताम अर्धवस्त्रसंवीतां पीनश्रॊणिपयॊधराम सुकुमारानवद्याङ्गीं पूर्णचन्द्रनिभाननाम 32 अरालपक्ष्मनयनां तथा मधुरभाषिणीम लक्षयित्वा मृगव्याधः कामस्य वशम एयिवान 33 ताम अथ शलक्ष्णया वाचा लुब्धकॊ मृदुपुर्वया सान्त्वयाम आस कामार्तस तद अबुध्यत भामिनी 34 दमयन्ती तु तं दुष्टम उपलभ्य पतिव्रता तीव्ररॊषसमाविष्टा परजज्वालेव मन्युना 35 स तु पापमतिः कषुद्रः परधर्षयितुम आतुरः दुर्धर्षां तर्कयाम आस दीप्ताम अग्निशिखाम इव 36 दमयन्ती तु दुःखार्ता पतिराज्यविनाकृता अतीतवाक्पथे काले शशापैनं रुषा किल 37 यथाहं नैषधाद अन्यं मनसापि न चिन्तये तथायं पततां कषुद्रः परासुर मृगजीवनः 38 उक्तमात्रे तु वचने तया स मृगजीवनः वयसुः पपात मेदिन्याम अग्निदग्ध इव दरुमः |
1
bṛhadaśva uvāca apakrānte nale rājan damayantī gataklamā abudhyata varārohā saṃtrastā vijane vane 2 sāpaśyamānā bhartāraṃ duḥkhaśokasamanvitā prākrośad uccaiḥ saṃtrastā mahārājeti naiṣadham 3 hā nātha hā mahārāja hā svāmin kiṃ jahāsi mām hā hatāsmi vinaṣṭāsmi bhītāsmi vijane vane 4 nanu nāma mahārāja dharmajñaḥ satyavāg asi katham uktvā tathāsatyaṃ suptām utsṛjya māṃ gataḥ 5 katham utsṛjya gantāsi vaśyāṃ bhāryām anuvratām viśeṣato 'napakṛte pareṇāpakṛte sati 6 śakṣyase tā giraḥ satyāḥ kartuṃ mayi nareśvara yās tvayā lokapālānāṃ saṃnidhau kathitāḥ purā 7 paryāptaḥ parihāso 'yam etāvān puruṣarṣabha bhītāham asmi durdharṣa darśayātmānam īśvara 8 dṛśyase dṛśyase rājann eṣa tiṣṭhasi naiṣadha āvārya gulmair ātmānaṃ kiṃ māṃ na pratibhāṣase 9 nṛśaṃsaṃ bata rājendra yan mām evaṃgatām iha vilapantīṃ samāliṅgya nāśvāsayasi pārthiva 10 na śocāmy aham ātmānaṃ na cānyad api kiṃ cana kathaṃ nu bhavitāsy eka iti tvāṃ nṛpa śocimi 11 kathaṃ nu rājaṃs tṛṣitaḥ kṣudhitaḥ śramakarśitaḥ sāyāhne vṛkṣamūleṣu mām apaśyan bhaviṣyasi 12 tataḥ sā tīvraśokārtā pradīpteva ca manyunā itaś cetaś ca rudatī paryadhāvata duḥkhitā 13 muhur utpatate bālā muhuḥ patati vihvalā muhur ālīyate bhītā muhuḥ krośati roditi 14 sā tīvraśokasaṃtaptā muhur niḥśvasya vihvalā uvāca bhaimī niṣkramya rodamānā pativratā 15 yasyābhiśāpād duḥkhārto duḥkhaṃ vindati naiṣadhaḥ tasya bhūtasya tad duḥkhād duḥkham abhyadhikaṃ bhavet 16 apāpacetasaṃ pāpo ya evaṃ kṛtavān nalam tasmād duḥkhataraṃ prāpya jīvatv asukhajīvikām 17 evaṃ tu vilapantī sā rājño bhāryā mahātmanaḥ anveṣati sma bhartāraṃ vane śvāpadasevite 18 unmattavad bhīmasutā vilapantī tatas tataḥ hā hā rājann iti muhur itaś cetaś ca dhāvati 19 tāṃ śuṣyamāṇām atyarthaṃ kurarīm iva vāśatīm karuṇaṃ bahu śocantīṃ vilapantīṃ muhur muhuḥ 20 sahasābhyāgatāṃ bhaimīm abhyāśaparivartinīm jagrāhājagaro grāho mahākāyaḥ kṣudhānvitaḥ 21 sā grasyamānā grāheṇa śokena ca parājitā nātmānaṃ śocati tathā yathā śocati naiṣadham 22 hā nātha mām iha vane grasyamānām anāthavat grāheṇānena vipine kimarthaṃ nābhidhāvasi 23 kathaṃ bhaviṣyasi punar mām anusmṛtya naiṣadha pāpān muktaḥ punar labdhvā buddhiṃ ceto dhanāni ca 24 śrāntasya te kṣudhārtasya pariglānasya naiṣadha kaḥ śramaṃ rājaśārdūla nāśayiṣyati mānada 25 tām akasmān mṛgavyādho vicaran gahane vane ākrandatīm upaśrutya javenābhisasāra ha 26 tāṃ sa dṛṣṭvā tathā grastām urageṇāyatekṣaṇām tvaramāṇo mṛgavyādhaḥ samabhikramya vegitaḥ 27 mukhataḥ pātayām āsa śastreṇa niśitena ha nirviceṣṭaṃ bhujaṃgaṃ taṃ viśasya mṛgajīvinaḥ 28 mokṣayitvā ca tāṃ vyādhaḥ prakṣālya salilena ca samāśvāsya kṛtāhārām atha papraccha bhārata 29 kasya tvaṃ mṛgaśāvākṣi kathaṃ cābhyāgatā vanam kathaṃ cedaṃ mahat kṛcchraṃ prāptavaty asi bhāmini 30 damayantī tathā tena pṛcchyamānā viśāṃ pate sarvam etad yathāvṛttam ācacakṣe 'sya bhārata 31 tām ardhavastrasaṃvītāṃ pīnaśroṇipayodharām sukumārānavadyāṅgīṃ pūrṇacandranibhānanām 32 arālapakṣmanayanāṃ tathā madhurabhāṣiṇīm lakṣayitvā mṛgavyādhaḥ kāmasya vaśam eyivān 33 tām atha ślakṣṇayā vācā lubdhako mṛdupurvayā sāntvayām āsa kāmārtas tad abudhyata bhāminī 34 damayantī tu taṃ duṣṭam upalabhya pativratā tīvraroṣasamāviṣṭā prajajvāleva manyunā 35 sa tu pāpamatiḥ kṣudraḥ pradharṣayitum āturaḥ durdharṣāṃ tarkayām āsa dīptām agniśikhām iva 36 damayantī tu duḥkhārtā patirājyavinākṛtā atītavākpathe kāle śaśāpainaṃ ruṣā kila 37 yathāhaṃ naiṣadhād anyaṃ manasāpi na cintaye tathāyaṃ patatāṃ kṣudraḥ parāsur mṛgajīvanaḥ 38 uktamātre tu vacane tayā sa mṛgajīvanaḥ vyasuḥ papāta medinyām agnidagdha iva drumaḥ |
The Mahabharata in Sanskrit
Book 3
Chapter 61
|
1
बृहदश्व उवाच सा निहत्य मृगव्याधं परतस्थे कमलेक्षणा वनं परतिभयं शून्यं झिल्लिकागणनादितम 2 सिंहव्याघ्रवराहर्क्षरुरुद्वीपिनिषेवितम नानापक्षिगणाकीर्णं मलेच्छतस्करसेवितम 3 शालवेणुधवाश्वत्थतिन्दुकेङ्गुदकिंशुकैः अर्जुनारिष्टसंछन्नं चन्दनैश च सशाल्मलैः 4 जम्ब्वाम्रलॊध्रखदिरशाकवेत्रसमाकुलम काश्मर्यामलकप्लक्षकदम्बॊदुम्बरावृतम 5 बदरीबिल्वसंछन्नं नयग्रॊधैश च समाकुलम परियालतालखर्जूरहरीतकबिभीतकैः 6 नानाधातुशतैर नद्धान विविधान अपि चाचलान निकुञ्जान पक्षिसंघुष्टान दरीश चाद्भुतदर्शनाः नदीः सरांसि वापीश च विविधांश च मृगद्विजान 7 सा बहून भीमरूपांश च पिशाचॊरगराक्षसान पल्वलानि तडागानि गिरिकूटानि सर्वशः सरितः सागरांश चैव ददर्शाद्भुतदर्शनान 8 यूथशॊ ददृशे चात्र विदर्भाधिपनन्दिनी महिषान वराहान गॊमायून ऋक्षवानरपन्नगान 9 तेजसा यशसा सथित्या शरिया च परया युता वैदर्भी विचरत्य एका नलम अन्वेषती तदा 10 नाबिभ्यत सा नृपसुता भैमी तत्राथ कस्य चित दारुणाम अटवीं पराप्य भर्तृव्यसनकर्शिता 11 विदर्भतनया राजन विललाप सुदुःखिता भर्तृशॊकपरीताङ्गी शिलातलसमाश्रिता 12 दमयन्त्य उवाच सिंहॊरस्क महाबाहॊ निषधानां जनाधिप कव नु राजन गतॊ ऽसीह तयक्त्वा मां निर्जने वने 13 अश्वमेधादिभिर वीर करतुभिः सवाप्तदक्षिणैः कथम इष्ट्वा नरव्याघ्र मयि मिथ्या परवर्तसे 14 यत तवयॊक्तं नरव्याघ्र मत्समक्षं महाद्युते कर्तुम अर्हसि कल्याण तद ऋतं पार्थिवर्षभ 15 यथॊक्तं विहगैर हंसैः समीपे तव भूमिप मत्सकाशे च तैर उक्तं तद अवेक्षितुम अर्हसि 16 चत्वार एकतॊ वेदाः साङ्गॊपाङ्गाः सविस्तराः सवधीता मानवश्रेष्ठ सत्यम एकं किलैकतः 17 तस्माद अर्हसि शत्रुघ्न सत्यं कर्तुं नरेश्वर उक्तवान असि यद वीर मत्सकाशे पुरा वचः 18 हा वीर ननु नामाहम इष्टा किल तवानघ अस्याम अटव्यां घॊरायां किं मां न परतिभाषसे 19 भर्त्सयत्य एष मां रौद्रॊ वयात्तास्यॊ दारुणाकृतिः अरण्यराट कषुधाविष्टः किं मां न तरातुम अर्हसि 20 न मे तवदन्या सुभगे परिया इत्य अब्रवीस तदा ताम ऋतां कुरु कल्याणपुरॊक्तां भारतीं नृप 21 उन्मत्तां विलपन्तीं मां भार्याम इष्टां नराधिप ईप्सिताम ईप्सितॊ नाथ किं मां न परतिभाषसे 22 कृशां दीनां विवर्णां च मलिनां वसुधाधिप वस्त्रार्धप्रावृताम एकां विलपन्तीम अनाथवत 23 यूथभ्रष्टाम इवैकां मां हरिणीं पृथुलॊचन न मानयसि मानार्ह रुदतीम अरिकर्शन 24 महाराज महारण्ये माम इहैकाकिनीं सतीम आभाषमाणां सवां पत्नीं किं मां न परतिभाषसे 25 कुलशीलॊपसंपन्नं चारुसर्वाङ्गशॊभनम नाद्य तवाम अनुपश्यामि गिराव अस्मिन नरॊत्तम वने चास्मिन महाघॊरे सिंहव्याघ्रनिषेविते 26 शयानम उपविष्टं वा सथितं वा निषधाधिप परस्थितं वा नरश्रेष्ठ मम शॊकविवर्धन 27 कं नु पृच्छामि दुःखार्ता तवदर्थे शॊककर्शिता कच चिद दृष्टस तवयारण्ये संगत्येह नलॊ नृपः 28 कॊ नु मे कथयेद अद्य वने ऽसमिन विष्ठितं नलम अभिरूपं महात्मानं परव्यूहविनाशनम 29 यम अन्वेषसि राजानं नलं पद्मनिभेक्षणम अयं स इति कस्याद्य शरॊष्यामि मधुरां गिरम 30 अरण्यराड अयं शरीमांश चतुर्दंष्ट्रॊ महाहनुः शार्दूलॊ ऽभिमुखः परैति पृच्छाम्य एनम अशङ्किता 31 भवान मृगाणाम अधिपस तवम अस्मिन कानने परभुः विदर्भराजतनयां दमयन्तीति विद्धि माम 32 निषधाधिपतेर भार्यां नलस्यामित्रघातिनः पतिम अन्वेषतीम एकां कृपणां शॊककर्शिताम आश्वासय मृगेन्द्रेह यदि दृष्टस तवया नलः 33 अथ वारण्यनृपते नलं यदि न शंससि माम अदस्व मृगश्रेष्ठ विशॊकां कुरु दुःखिताम 34 शरुत्वारण्ये विलपितं ममैष मृगराट सवयम यात्य एतां मृष्टसलिलाम आपगां सागरंगमाम 35 इमं शिलॊच्चयं पुण्यं शृङ्गैर बहुभिर उच्छ्रितैः विराजद्भिर दिवस्पृग्भिर नैकवर्णैर मनॊरमैः 36 नानाधातुसमाकीर्णं विविधॊपलभूषितम अस्यारण्यस्य महतः केतुभूतम इवॊच्छ्रितम 37 सिंहशार्दूलमातङ्गवराहर्क्षमृगायुतम पतत्रिभिर बहुविधैः समन्ताद अनुनादितम 38 किंशुकाशॊकबकुलपुंनागैर उपशॊभितम सरिद्भिः सविहंगाभिः शिखरैश चॊपशॊभितम गिरिराजम इमं तावत पृच्छामि नृपतिं परति 39 भगवन्न अचलश्रेष्ठ दिव्यदर्शनविश्रुत शरण्य बहुकल्याण नमस ते ऽसतु महीधर 40 परणमे तवाभिगम्याहं राजपुत्रीं निबॊध माम राज्ञः सनुषां राजभार्यां दमयन्तीति विश्रुताम 41 राजा विदर्भाधिपतिः पिता मम महारथः भीमॊ नाम कषितिपतिश चातुर्वर्ण्यस्य रक्षिता 42 राजसूयाश्वमेधानां करतूनां दक्षिणावताम आहर्ता पार्थिवश्रेष्ठः पृथुचार्वञ्चितेक्षणः 43 बरह्मण्यः साधुवृत्तश च सत्यवाग अनसूयकः शीलवान सुसमाचारः पृथुश्रीर धर्मविच छुचिः 44 सम्यग गॊप्ता विदर्भाणां निर्जितारिगणः परभुः तस्य मां विद्धि तनयां भगवंस तवाम उपस्थिताम 45 निषधेषु महाशैल शवशुरॊ मे नृपॊत्तमः सुगृहीतनामा विख्यातॊ वीरसेन इति सम ह 46 तस्य राज्ञः सुतॊ वीरः शरीमान सत्यपराक्रमः करमप्राप्तं पितुः सवं यॊ राज्यं समनुशास्ति ह 47 नलॊ नामारिदमनः पुण्यश्लॊक इति शरुतः बरह्मण्यॊ वेदविद वाग्मी पुण्यकृत सॊमपॊ ऽगनिचित 48 यष्टा दाता च यॊद्धा च सम्यक चैव परशासिता तस्य माम अचलश्रेष्ठ विद्धि भार्याम इहागताम 49 तयक्तश्रियं भर्तृहीनाम अनाथां वयसनान्विताम अन्वेषमाणां भर्तारं तं वै नरवरॊत्तमम 50 खम उल्लिखद्भिर एतैर हि तवया शृङ्गशतैर नृपः कच चिद दृष्टॊ ऽचलश्रेष्ठ वने ऽसमिन दारुणे नलः 51 गजेन्द्रविक्रमॊ धीमान दीर्घबाहुर अमर्षणः विक्रान्तः सत्यवाग धीरॊ भर्ता मम महायशाः निषधानाम अधिपतिः कच चिद दृष्टस तवया नलः 52 किं मां विलपतीम एकां पर्वतश्रेष्ठ दुःखिताम गिरा नाश्वासयस्य अद्य सवां सुताम इव दुःखिताम 53 वीर विक्रान्त धर्मज्ञ सत्यसंध महीपते यद्य अस्य अस्मिन वने राजन दर्शयात्मानम आत्मना 54 कदा नु सनिग्धगम्भीरां जीमूतस्वनसंनिभाम शरॊष्यामि नैषधस्याहं वाचं ताम अमृतॊपमाम 55 वैदर्भीत्य एव कथितां शुभां राज्ञॊ महात्मनः आम्नायसारिणीम ऋद्धां मम शॊकनिबर्हिणीम 56 इति सा तं गिरिश्रेष्ठम उक्त्वा पार्थिवनन्दिनी दमयन्ती ततॊ भूयॊ जगाम दिशम उत्तराम 57 सा गत्वा तरीन अहॊरात्रान ददर्श परमाङ्गना तापसारण्यम अतुलं दिव्यकाननदर्शनम 58 वसिष्ठभृग्वत्रिसमैस तापसैर उपशॊभितम नियतैः संयताहारैर दमशौचसमन्वितैः 59 अब्भक्षैर वायुभक्षैश च पत्राहारैस तथैव च जितेन्द्रियैर महाभागैः सवर्गमार्गदिदृक्षुभिः 60 वल्कलाजिनसंवीतैर मुनिभिः संयतेन्द्रियैः तापसाध्युषितं रम्यं ददर्शाश्रममण्डलम 61 सा दृष्ट्वैवाश्रमपदं नानामृगनिषेवितम शाखामृगगणैश चैव तापसैश च समन्वितम 62 सुभ्रूः सुकेशी सुश्रॊणी सुकुचा सुद्विजानना वर्चस्विनी सुप्रतिष्ठा सवञ्चितॊद्यतगामिनी 63 सा विवेशाश्रमपदं वीरसेनसुतप्रिया यॊषिद्रत्नं महाभागा दमयन्ती मनस्विनी 64 साभिवाद्य तपॊवृद्धान विनयावनता सथिता सवागतं त इति परॊक्ता तैः सर्वैस तापसैश च सा 65 पूजां चास्या यथान्यायं कृत्वा तत्र तपॊधनाः आस्यताम इत्य अथॊचुस ते बरूहि किं करवामहे 66 तान उवाच वरारॊहा कच चिद भवगताम इह तपस्य अग्निषु धर्मेषु मृगपक्षिषु चानघाः कुशलं वॊ महाभागाः सवधर्मचरणेषु च 67 तैर उक्ता कुशलं भद्रे सर्वत्रेति यशस्विनी बरूहि सर्वानवद्याङ्गि का तवं किं च चिकीर्षसि 68 दृष्ट्वैव ते परं रूपं दयुतिं च परमाम इह विस्मयॊ नः समुत्पन्नः समाश्वसिहि मा शुचः 69 अस्यारण्यस्य महती देवता वा महीभृतः अस्या नु नद्याः कल्याणि वद सत्यम अनिन्दिते 70 साब्रवीत तान ऋषीन नाहम अरण्यस्यास्य देवता न चाप्य अस्य गिरेर विप्रा न नद्या देवताप्य अहम 71 मानुषीं मां विजानीत यूयं सर्वे तपॊधनाः विस्तरेणाभिधास्यामि तन मे शृणुत सर्वशः 72 विदर्भेषु महीपालॊ भीमॊ नाम महाद्युतिः तस्य मां तनयां सर्वे जानीत दविजसत्तमाः 73 निषधाधिपतिर धीमान नलॊ नाम महायशाः वीरः संग्रामजिद विद्वान मम भर्ता विशां पतिः 74 देवताभ्यर्चनपरॊ दविजातिजनवत्सलः गॊप्ता निषधवंशस्य महाभागॊ महाद्युतिः 75 सत्यवाग धर्मवित पराज्ञः सत्यसंधॊ ऽरिमर्दनः बरह्मण्यॊ दैवतपरः शरीमान परपुरंजयः 76 नलॊ नाम नृपश्रेष्ठॊ देवराजसमद्युतिः मम भर्ता विशालाक्षः पूर्णेन्दुवदनॊ ऽरिहा 77 आहर्ता करतुमुख्यानां वेदवेदाङ्गपारगः सपत्नानां मृधे हन्ता रविसॊमसमप्रभः 78 स कैश चिन निकृतिप्रज्ञैर अकल्याणैर नराधमैः आहूय पृथिवीपालः सत्यधर्मपरायणः देवने कुशलैर जिह्मैर जितॊ राज्यं वसूनि च 79 तस्य माम अवगच्छध्वं भार्यां राजर्षभस्य वै दमयन्तीति विख्यातां भर्तृदर्शनलालसाम 80 सा वनानि गिरींश चैव सरांसि सरितस तथा पल्वलानि च रम्याणि तथारण्यानि सर्वशः 81 अन्वेषमाणा भर्तारं नलं रणविशारदम महात्मानं कृतास्त्रं च विचरामीह दुःखिता 82 कच चिद भगवतां पुण्यं तपॊवनम इदं नृपः भवेत पराप्तॊ नलॊ नाम निषधानां जनाधिपः 83 यत्कृते ऽहम इदं विप्राः परपन्ना भृशदारुणम वनं परतिभयं घॊरं शार्दूलमृगसेवितम 84 यदि कैश चिद अहॊरात्रैर न दरक्ष्यामि नलं नृपम आत्मानं शरेयसा यॊक्ष्ये देहस्यास्य विमॊचनात 85 कॊ नु मे जीवितेनार्थस तम ऋते पुरुषर्षभम कथं भविष्याम्य अद्याहं भर्तृशॊकाभिपीडिता 86 एवं विलपतीम एकाम अरण्ये भीमनन्दिनीम दमयन्तीम अथॊचुस ते तापसाः सत्यवादिनः 87 उदर्कस तव कल्याणि कल्याणॊ भविता शुभे वयं पश्याम तपसा कषिप्रं दरक्ष्यसि नैषधम 88 निषधानाम अधिपतिं नलं रिपुनिघातिनम भैमि धर्मभृतां शरेष्ठं दरक्ष्यसे विगतज्वरम 89 विमुक्तं सर्वपापेभ्यः सर्वरत्नसमन्वितम तद एव नगरश्रेष्ठं परशासन्तम अरिंदमम 90 दविषतां भयकर्तारं सुहृदां शॊकनाशनम पतिं दरक्ष्यसि कल्याणि कल्याणाभिजनं नृपम 91 एवम उक्त्वा नलस्येष्टां महिषीं पार्थिवात्मजाम अन्तर्हितास तापसास ते साग्निहॊत्राश्रमास तदा 92 सा दृष्ट्वा महद आश्चर्यं विस्मिता अभवत तदा दमयन्त्य अनवद्याङ्गी वीरसेननृपस्नुषा 93 किं नु सवप्नॊ मया दृष्टः कॊ ऽयं विधिर इहाभवत कव नु ते तापसाः सर्वे कव तद आश्रममण्डलम 94 कव सा पुण्यजला रम्या नानाद्विजनिषेविता नदी ते च नगा हृद्याः फलपुष्पॊपशॊभिताः 95 धयात्वा चिरं भीमसुता दमयन्ती शुचिस्मिता भर्तृशॊकपरा दीना विवर्णवदनाभवत 96 सा गत्वाथापरां भूमिं बाष्पसंदिग्धया गिरा विललापाश्रुपूर्णाक्षी दृष्ट्वाशॊकतरुं ततः 97 उपगम्य तरुश्रेष्ठम अशॊकं पुष्पितं तदा पल्लवापीडितं हृद्यं विहंगैर अनुनादितम 98 अहॊ बतायम अगमः शरीमान अस्मिन वनान्तरे आपीडैर बहुभिर भाति शरीमान दरमिडराड इव 99 विशॊकां कुरु मां कषिप्रम अशॊक परियदर्शन वीतशॊकभयाबाधं कच चित तवं दृष्टवान नृपम 100 नलं नामारिदमनं दमयन्त्याः परियं पतिम निषधानाम अधिपतिं दृष्टवान असि मे परियम 101 एकवस्त्रार्धसंवीतं सुकुमारतनुत्वचम वयसनेनार्दितं वीरम अरण्यम इदम आगतम 102 यथा विशॊका गच्छेयम अशॊकनग तत कुरु सत्यनामा भवाशॊक मम शॊकविनाशनात 103 एवं साशॊकवृक्षं तम आर्ता तरिः परिगम्य ह जगाम दारुणतरं देशं भैमी वराङ्गना 104 सा ददर्श नगान नैकान नैकाश च सरितस तथा नैकांश च पर्वतान रम्यान नैकांश च मृगपक्षिणः 105 कन्दरांश च नितम्बांश च नदांश चाद्भुतदर्शनान ददर्श सा भीमसुता पतिम अन्वेषती तदा 106 गत्वा परकृष्टम अध्वानं दमयन्ती शुचिस्मिता ददर्शाथ महासार्थं हस्त्यश्वरथसंकुलम 107 उत्तरन्तं नदीं रम्यां परसन्नसलिलां शुभाम सुशीततॊयां विस्तीर्णां हरदिनीं वेतसैर वृताम 108 परॊद्घुष्टां करौञ्चकुररैश चक्रवाकॊपकूजिताम कूर्मग्राहझषाकीर्णां पुलिनद्वीपशॊभिताम 109 सा दृष्ट्वैव महासार्थं नलपत्नी यशस्विनी उपसर्प्य वरारॊहा जनमध्यं विवेश ह 110 उन्मत्तरूपा शॊकार्ता तथा वस्त्रार्धसंवृता कृशा विवर्णा मलिना पांसुध्वस्तशिरॊरुहा 111 तां दृष्ट्वा तत्र मनुजाः के चिद भीताः परदुद्रुवुः के चिच चिन्तापरास तस्थुः के चित तत्र विचुक्रुशुः 112 परहसन्ति सम तां के चिद अभ्यसूयन्त चापरे चक्रुस तस्यां दयां के चित पप्रच्छुश चापि भारत 113 कासि कस्यासि कल्याणि किं वा मृगयसे वने तवां दृष्ट्वा वयथिताः समेह कच चित तवम असि मानुषी 114 वद सत्यं वनस्यास्य पर्वतस्याथ वा दिशः देवता तवं हि कल्याणि तवां वयं शरणं गताः 115 यक्षी वा राक्षसी वा तवम उताहॊ ऽसि वराङ्गना सर्वथा कुरु नः सवस्ति रक्षस्वास्मान अनिन्दिते 116 यथायं सर्वथा सार्थः कषेमी शीघ्रम इतॊ वरजेत तथा विधत्स्व कल्याणि तवां वयं शरणं गताः 117 परत्युवाच ततः साध्वी भर्तृव्यसनदुःखिता सार्थवाहं च सार्थं च जना ये चात्र के चन 118 मानुषीं मां विजानीत मनुजाधिपतेः सुताम नृपस्नुषां राजभार्यां भर्तृदर्शनलालसाम 119 विदर्भराण मम पिता भर्ता राजा च नैषधः नलॊ नाम महाभागस तं मार्गाम्य अपराजितम 120 यदि जानीत नृपतिं कषिप्रं शंसत मे परियम नलं पार्थिवशार्दूलम अमित्रगणसूदनम 121 ताम उवाचानवद्याङ्गीं सार्थस्य महतः परभुः सार्थवाहः शुचिर नाम शृणु कल्याणि मद्वचः 122 अहं सार्थस्य नेता वै सार्थवाहः शुचिस्मिते मनुष्यं नलनामानं न पश्यामि यशस्विनि 123 कुञ्जरद्वीपिमहिषशार्दूलर्क्षमृगान अपि पश्याम्य अस्मिन वने कष्टे अमनुष्यनिषेविते तथा नॊ यक्षराड अद्य मणिभद्रः परसीदतु 124 साब्रवीद वणिजः सर्वान सार्थवाहं च तं ततः कव नु यास्यसि सार्थॊ ऽयम एतद आख्यातुम अर्हथ 125 सार्थवाह उवाच सार्थॊ ऽयं चेदिराजस्य सुबाहॊर सत्यवादिनः कषिप्रं जनपदं गन्ता लाभाय मनुजात्मजे |
1
bṛhadaśva uvāca sā nihatya mṛgavyādhaṃ pratasthe kamalekṣaṇā vanaṃ pratibhayaṃ śūnyaṃ jhillikāgaṇanāditam 2 siṃhavyāghravarāharkṣarurudvīpiniṣevitam nānāpakṣigaṇākīrṇaṃ mlecchataskarasevitam 3 śālaveṇudhavāśvatthatindukeṅgudakiṃśukaiḥ arjunāriṣṭasaṃchannaṃ candanaiś ca saśālmalaiḥ 4 jambvāmralodhrakhadiraśākavetrasamākulam kāśmaryāmalakaplakṣakadambodumbarāvṛtam 5 badarībilvasaṃchannaṃ nyagrodhaiś ca samākulam priyālatālakharjūraharītakabibhītakaiḥ 6 nānādhātuśatair naddhān vividhān api cācalān nikuñjān pakṣisaṃghuṣṭān darīś cādbhutadarśanāḥ nadīḥ sarāṃsi vāpīś ca vividhāṃś ca mṛgadvijān 7 sā bahūn bhīmarūpāṃś ca piśācoragarākṣasān palvalāni taḍāgāni girikūṭāni sarvaśaḥ saritaḥ sāgarāṃś caiva dadarśādbhutadarśanān 8 yūthaśo dadṛśe cātra vidarbhādhipanandinī mahiṣān varāhān gomāyūn ṛkṣavānarapannagān 9 tejasā yaśasā sthityā śriyā ca parayā yutā vaidarbhī vicaraty ekā nalam anveṣatī tadā 10 nābibhyat sā nṛpasutā bhaimī tatrātha kasya cit dāruṇām aṭavīṃ prāpya bhartṛvyasanakarśitā 11 vidarbhatanayā rājan vilalāpa suduḥkhitā bhartṛśokaparītāṅgī śilātalasamāśritā 12 damayanty uvāca siṃhoraska mahābāho niṣadhānāṃ janādhipa kva nu rājan gato 'sīha tyaktvā māṃ nirjane vane 13 aśvamedhādibhir vīra kratubhiḥ svāptadakṣiṇaiḥ katham iṣṭvā naravyāghra mayi mithyā pravartase 14 yat tvayoktaṃ naravyāghra matsamakṣaṃ mahādyute kartum arhasi kalyāṇa tad ṛtaṃ pārthivarṣabha 15 yathoktaṃ vihagair haṃsaiḥ samīpe tava bhūmipa matsakāśe ca tair uktaṃ tad avekṣitum arhasi 16 catvāra ekato vedāḥ sāṅgopāṅgāḥ savistarāḥ svadhītā mānavaśreṣṭha satyam ekaṃ kilaikataḥ 17 tasmād arhasi śatrughna satyaṃ kartuṃ nareśvara uktavān asi yad vīra matsakāśe purā vacaḥ 18 hā vīra nanu nāmāham iṣṭā kila tavānagha asyām aṭavyāṃ ghorāyāṃ kiṃ māṃ na pratibhāṣase 19 bhartsayaty eṣa māṃ raudro vyāttāsyo dāruṇākṛtiḥ araṇyarāṭ kṣudhāviṣṭaḥ kiṃ māṃ na trātum arhasi 20 na me tvadanyā subhage priyā ity abravīs tadā tām ṛtāṃ kuru kalyāṇapuroktāṃ bhāratīṃ nṛpa 21 unmattāṃ vilapantīṃ māṃ bhāryām iṣṭāṃ narādhipa īpsitām īpsito nātha kiṃ māṃ na pratibhāṣase 22 kṛśāṃ dīnāṃ vivarṇāṃ ca malināṃ vasudhādhipa vastrārdhaprāvṛtām ekāṃ vilapantīm anāthavat 23 yūthabhraṣṭām ivaikāṃ māṃ hariṇīṃ pṛthulocana na mānayasi mānārha rudatīm arikarśana 24 mahārāja mahāraṇye mām ihaikākinīṃ satīm ābhāṣamāṇāṃ svāṃ patnīṃ kiṃ māṃ na pratibhāṣase 25 kulaśīlopasaṃpannaṃ cārusarvāṅgaśobhanam nādya tvām anupaśyāmi girāv asmin narottama vane cāsmin mahāghore siṃhavyāghraniṣevite 26 śayānam upaviṣṭaṃ vā sthitaṃ vā niṣadhādhipa prasthitaṃ vā naraśreṣṭha mama śokavivardhana 27 kaṃ nu pṛcchāmi duḥkhārtā tvadarthe śokakarśitā kac cid dṛṣṭas tvayāraṇye saṃgatyeha nalo nṛpaḥ 28 ko nu me kathayed adya vane 'smin viṣṭhitaṃ nalam abhirūpaṃ mahātmānaṃ paravyūhavināśanam 29 yam anveṣasi rājānaṃ nalaṃ padmanibhekṣaṇam ayaṃ sa iti kasyādya śroṣyāmi madhurāṃ giram 30 araṇyarāḍ ayaṃ śrīmāṃś caturdaṃṣṭro mahāhanuḥ śārdūlo 'bhimukhaḥ praiti pṛcchāmy enam aśaṅkitā 31 bhavān mṛgāṇām adhipas tvam asmin kānane prabhuḥ vidarbharājatanayāṃ damayantīti viddhi mām 32 niṣadhādhipater bhāryāṃ nalasyāmitraghātinaḥ patim anveṣatīm ekāṃ kṛpaṇāṃ śokakarśitām āśvāsaya mṛgendreha yadi dṛṣṭas tvayā nalaḥ 33 atha vāraṇyanṛpate nalaṃ yadi na śaṃsasi mām adasva mṛgaśreṣṭha viśokāṃ kuru duḥkhitām 34 śrutvāraṇye vilapitaṃ mamaiṣa mṛgarāṭ svayam yāty etāṃ mṛṣṭasalilām āpagāṃ sāgaraṃgamām 35 imaṃ śiloccayaṃ puṇyaṃ śṛṅgair bahubhir ucchritaiḥ virājadbhir divaspṛgbhir naikavarṇair manoramaiḥ 36 nānādhātusamākīrṇaṃ vividhopalabhūṣitam asyāraṇyasya mahataḥ ketubhūtam ivocchritam 37 siṃhaśārdūlamātaṅgavarāharkṣamṛgāyutam patatribhir bahuvidhaiḥ samantād anunāditam 38 kiṃśukāśokabakulapuṃnāgair upaśobhitam saridbhiḥ savihaṃgābhiḥ śikharaiś copaśobhitam girirājam imaṃ tāvat pṛcchāmi nṛpatiṃ prati 39 bhagavann acalaśreṣṭha divyadarśanaviśruta śaraṇya bahukalyāṇa namas te 'stu mahīdhara 40 praṇame tvābhigamyāhaṃ rājaputrīṃ nibodha mām rājñaḥ snuṣāṃ rājabhāryāṃ damayantīti viśrutām 41 rājā vidarbhādhipatiḥ pitā mama mahārathaḥ bhīmo nāma kṣitipatiś cāturvarṇyasya rakṣitā 42 rājasūyāśvamedhānāṃ kratūnāṃ dakṣiṇāvatām āhartā pārthivaśreṣṭhaḥ pṛthucārvañcitekṣaṇaḥ 43 brahmaṇyaḥ sādhuvṛttaś ca satyavāg anasūyakaḥ śīlavān susamācāraḥ pṛthuśrīr dharmavic chuciḥ 44 samyag goptā vidarbhāṇāṃ nirjitārigaṇaḥ prabhuḥ tasya māṃ viddhi tanayāṃ bhagavaṃs tvām upasthitām 45 niṣadheṣu mahāśaila śvaśuro me nṛpottamaḥ sugṛhītanāmā vikhyāto vīrasena iti sma ha 46 tasya rājñaḥ suto vīraḥ śrīmān satyaparākramaḥ kramaprāptaṃ pituḥ svaṃ yo rājyaṃ samanuśāsti ha 47 nalo nāmāridamanaḥ puṇyaśloka iti śrutaḥ brahmaṇyo vedavid vāgmī puṇyakṛt somapo 'gnicit 48 yaṣṭā dātā ca yoddhā ca samyak caiva praśāsitā tasya mām acalaśreṣṭha viddhi bhāryām ihāgatām 49 tyaktaśriyaṃ bhartṛhīnām anāthāṃ vyasanānvitām anveṣamāṇāṃ bhartāraṃ taṃ vai naravarottamam 50 kham ullikhadbhir etair hi tvayā śṛṅgaśatair nṛpaḥ kac cid dṛṣṭo 'calaśreṣṭha vane 'smin dāruṇe nalaḥ 51 gajendravikramo dhīmān dīrghabāhur amarṣaṇaḥ vikrāntaḥ satyavāg dhīro bhartā mama mahāyaśāḥ niṣadhānām adhipatiḥ kac cid dṛṣṭas tvayā nalaḥ 52 kiṃ māṃ vilapatīm ekāṃ parvataśreṣṭha duḥkhitām girā nāśvāsayasy adya svāṃ sutām iva duḥkhitām 53 vīra vikrānta dharmajña satyasaṃdha mahīpate yady asy asmin vane rājan darśayātmānam ātmanā 54 kadā nu snigdhagambhīrāṃ jīmūtasvanasaṃnibhām śroṣyāmi naiṣadhasyāhaṃ vācaṃ tām amṛtopamām 55 vaidarbhīty eva kathitāṃ śubhāṃ rājño mahātmanaḥ āmnāyasāriṇīm ṛddhāṃ mama śokanibarhiṇīm 56 iti sā taṃ giriśreṣṭham uktvā pārthivanandinī damayantī tato bhūyo jagāma diśam uttarām 57 sā gatvā trīn ahorātrān dadarśa paramāṅganā tāpasāraṇyam atulaṃ divyakānanadarśanam 58 vasiṣṭhabhṛgvatrisamais tāpasair upaśobhitam niyataiḥ saṃyatāhārair damaśaucasamanvitaiḥ 59 abbhakṣair vāyubhakṣaiś ca patrāhārais tathaiva ca jitendriyair mahābhāgaiḥ svargamārgadidṛkṣubhiḥ 60 valkalājinasaṃvītair munibhiḥ saṃyatendriyaiḥ tāpasādhyuṣitaṃ ramyaṃ dadarśāśramamaṇḍalam 61 sā dṛṣṭvaivāśramapadaṃ nānāmṛganiṣevitam śākhāmṛgagaṇaiś caiva tāpasaiś ca samanvitam 62 subhrūḥ sukeśī suśroṇī sukucā sudvijānanā varcasvinī supratiṣṭhā svañcitodyatagāminī 63 sā viveśāśramapadaṃ vīrasenasutapriyā yoṣidratnaṃ mahābhāgā damayantī manasvinī 64 sābhivādya tapovṛddhān vinayāvanatā sthitā svāgataṃ ta iti proktā taiḥ sarvais tāpasaiś ca sā 65 pūjāṃ cāsyā yathānyāyaṃ kṛtvā tatra tapodhanāḥ āsyatām ity athocus te brūhi kiṃ karavāmahe 66 tān uvāca varārohā kac cid bhavagatām iha tapasy agniṣu dharmeṣu mṛgapakṣiṣu cānaghāḥ kuśalaṃ vo mahābhāgāḥ svadharmacaraṇeṣu ca 67 tair uktā kuśalaṃ bhadre sarvatreti yaśasvinī brūhi sarvānavadyāṅgi kā tvaṃ kiṃ ca cikīrṣasi 68 dṛṣṭvaiva te paraṃ rūpaṃ dyutiṃ ca paramām iha vismayo naḥ samutpannaḥ samāśvasihi mā śucaḥ 69 asyāraṇyasya mahatī devatā vā mahībhṛtaḥ asyā nu nadyāḥ kalyāṇi vada satyam anindite 70 sābravīt tān ṛṣīn nāham araṇyasyāsya devatā na cāpy asya girer viprā na nadyā devatāpy aham 71 mānuṣīṃ māṃ vijānīta yūyaṃ sarve tapodhanāḥ vistareṇābhidhāsyāmi tan me śṛṇuta sarvaśaḥ 72 vidarbheṣu mahīpālo bhīmo nāma mahādyutiḥ tasya māṃ tanayāṃ sarve jānīta dvijasattamāḥ 73 niṣadhādhipatir dhīmān nalo nāma mahāyaśāḥ vīraḥ saṃgrāmajid vidvān mama bhartā viśāṃ patiḥ 74 devatābhyarcanaparo dvijātijanavatsalaḥ goptā niṣadhavaṃśasya mahābhāgo mahādyutiḥ 75 satyavāg dharmavit prājñaḥ satyasaṃdho 'rimardanaḥ brahmaṇyo daivataparaḥ śrīmān parapuraṃjayaḥ 76 nalo nāma nṛpaśreṣṭho devarājasamadyutiḥ mama bhartā viśālākṣaḥ pūrṇenduvadano 'rihā 77 āhartā kratumukhyānāṃ vedavedāṅgapāragaḥ sapatnānāṃ mṛdhe hantā ravisomasamaprabhaḥ 78 sa kaiś cin nikṛtiprajñair akalyāṇair narādhamaiḥ āhūya pṛthivīpālaḥ satyadharmaparāyaṇaḥ devane kuśalair jihmair jito rājyaṃ vasūni ca 79 tasya mām avagacchadhvaṃ bhāryāṃ rājarṣabhasya vai damayantīti vikhyātāṃ bhartṛdarśanalālasām 80 sā vanāni girīṃś caiva sarāṃsi saritas tathā palvalāni ca ramyāṇi tathāraṇyāni sarvaśaḥ 81 anveṣamāṇā bhartāraṃ nalaṃ raṇaviśāradam mahātmānaṃ kṛtāstraṃ ca vicarāmīha duḥkhitā 82 kac cid bhagavatāṃ puṇyaṃ tapovanam idaṃ nṛpaḥ bhavet prāpto nalo nāma niṣadhānāṃ janādhipaḥ 83 yatkṛte 'ham idaṃ viprāḥ prapannā bhṛśadāruṇam vanaṃ pratibhayaṃ ghoraṃ śārdūlamṛgasevitam 84 yadi kaiś cid ahorātrair na drakṣyāmi nalaṃ nṛpam ātmānaṃ śreyasā yokṣye dehasyāsya vimocanāt 85 ko nu me jīvitenārthas tam ṛte puruṣarṣabham kathaṃ bhaviṣyāmy adyāhaṃ bhartṛśokābhipīḍitā 86 evaṃ vilapatīm ekām araṇye bhīmanandinīm damayantīm athocus te tāpasāḥ satyavādinaḥ 87 udarkas tava kalyāṇi kalyāṇo bhavitā śubhe vayaṃ paśyāma tapasā kṣipraṃ drakṣyasi naiṣadham 88 niṣadhānām adhipatiṃ nalaṃ ripunighātinam bhaimi dharmabhṛtāṃ śreṣṭhaṃ drakṣyase vigatajvaram 89 vimuktaṃ sarvapāpebhyaḥ sarvaratnasamanvitam tad eva nagaraśreṣṭhaṃ praśāsantam ariṃdamam 90 dviṣatāṃ bhayakartāraṃ suhṛdāṃ śokanāśanam patiṃ drakṣyasi kalyāṇi kalyāṇābhijanaṃ nṛpam 91 evam uktvā nalasyeṣṭāṃ mahiṣīṃ pārthivātmajām antarhitās tāpasās te sāgnihotrāśramās tadā 92 sā dṛṣṭvā mahad āścaryaṃ vismitā abhavat tadā damayanty anavadyāṅgī vīrasenanṛpasnuṣā 93 kiṃ nu svapno mayā dṛṣṭaḥ ko 'yaṃ vidhir ihābhavat kva nu te tāpasāḥ sarve kva tad āśramamaṇḍalam 94 kva sā puṇyajalā ramyā nānādvijaniṣevitā nadī te ca nagā hṛdyāḥ phalapuṣpopaśobhitāḥ 95 dhyātvā ciraṃ bhīmasutā damayantī śucismitā bhartṛśokaparā dīnā vivarṇavadanābhavat 96 sā gatvāthāparāṃ bhūmiṃ bāṣpasaṃdigdhayā girā vilalāpāśrupūrṇākṣī dṛṣṭvāśokataruṃ tataḥ 97 upagamya taruśreṣṭham aśokaṃ puṣpitaṃ tadā pallavāpīḍitaṃ hṛdyaṃ vihaṃgair anunāditam 98 aho batāyam agamaḥ śrīmān asmin vanāntare āpīḍair bahubhir bhāti śrīmān dramiḍarāḍ iva 99 viśokāṃ kuru māṃ kṣipram aśoka priyadarśana vītaśokabhayābādhaṃ kac cit tvaṃ dṛṣṭavān nṛpam 100 nalaṃ nāmāridamanaṃ damayantyāḥ priyaṃ patim niṣadhānām adhipatiṃ dṛṣṭavān asi me priyam 101 ekavastrārdhasaṃvītaṃ sukumāratanutvacam vyasanenārditaṃ vīram araṇyam idam āgatam 102 yathā viśokā gaccheyam aśokanaga tat kuru satyanāmā bhavāśoka mama śokavināśanāt 103 evaṃ sāśokavṛkṣaṃ tam ārtā triḥ parigamya ha jagāma dāruṇataraṃ deśaṃ bhaimī varāṅganā 104 sā dadarśa nagān naikān naikāś ca saritas tathā naikāṃś ca parvatān ramyān naikāṃś ca mṛgapakṣiṇaḥ 105 kandarāṃś ca nitambāṃś ca nadāṃś cādbhutadarśanān dadarśa sā bhīmasutā patim anveṣatī tadā 106 gatvā prakṛṣṭam adhvānaṃ damayantī śucismitā dadarśātha mahāsārthaṃ hastyaśvarathasaṃkulam 107 uttarantaṃ nadīṃ ramyāṃ prasannasalilāṃ śubhām suśītatoyāṃ vistīrṇāṃ hradinīṃ vetasair vṛtām 108 prodghuṣṭāṃ krauñcakuraraiś cakravākopakūjitām kūrmagrāhajhaṣākīrṇāṃ pulinadvīpaśobhitām 109 sā dṛṣṭvaiva mahāsārthaṃ nalapatnī yaśasvinī upasarpya varārohā janamadhyaṃ viveśa ha 110 unmattarūpā śokārtā tathā vastrārdhasaṃvṛtā kṛśā vivarṇā malinā pāṃsudhvastaśiroruhā 111 tāṃ dṛṣṭvā tatra manujāḥ ke cid bhītāḥ pradudruvuḥ ke cic cintāparās tasthuḥ ke cit tatra vicukruśuḥ 112 prahasanti sma tāṃ ke cid abhyasūyanta cāpare cakrus tasyāṃ dayāṃ ke cit papracchuś cāpi bhārata 113 kāsi kasyāsi kalyāṇi kiṃ vā mṛgayase vane tvāṃ dṛṣṭvā vyathitāḥ smeha kac cit tvam asi mānuṣī 114 vada satyaṃ vanasyāsya parvatasyātha vā diśaḥ devatā tvaṃ hi kalyāṇi tvāṃ vayaṃ śaraṇaṃ gatāḥ 115 yakṣī vā rākṣasī vā tvam utāho 'si varāṅganā sarvathā kuru naḥ svasti rakṣasvāsmān anindite 116 yathāyaṃ sarvathā sārthaḥ kṣemī śīghram ito vrajet tathā vidhatsva kalyāṇi tvāṃ vayaṃ śaraṇaṃ gatāḥ 117 pratyuvāca tataḥ sādhvī bhartṛvyasanaduḥkhitā sārthavāhaṃ ca sārthaṃ ca janā ye cātra ke cana 118 mānuṣīṃ māṃ vijānīta manujādhipateḥ sutām nṛpasnuṣāṃ rājabhāryāṃ bhartṛdarśanalālasām 119 vidarbharāṇ mama pitā bhartā rājā ca naiṣadhaḥ nalo nāma mahābhāgas taṃ mārgāmy aparājitam 120 yadi jānīta nṛpatiṃ kṣipraṃ śaṃsata me priyam nalaṃ pārthivaśārdūlam amitragaṇasūdanam 121 tām uvācānavadyāṅgīṃ sārthasya mahataḥ prabhuḥ sārthavāhaḥ śucir nāma śṛṇu kalyāṇi madvacaḥ 122 ahaṃ sārthasya netā vai sārthavāhaḥ śucismite manuṣyaṃ nalanāmānaṃ na paśyāmi yaśasvini 123 kuñjaradvīpimahiṣaśārdūlarkṣamṛgān api paśyāmy asmin vane kaṣṭe amanuṣyaniṣevite tathā no yakṣarāḍ adya maṇibhadraḥ prasīdatu 124 sābravīd vaṇijaḥ sarvān sārthavāhaṃ ca taṃ tataḥ kva nu yāsyasi sārtho 'yam etad ākhyātum arhatha 125 sārthavāha uvāca sārtho 'yaṃ cedirājasya subāhor satyavādinaḥ kṣipraṃ janapadaṃ gantā lābhāya manujātmaje |
The Mahabharata in Sanskrit
Book 3
Chapter 62
|
1
बृहदश्व उवाच सा तच छरुत्वानवद्याङ्गी सार्थवाहवचस तदा अगच्छत तेन वै सार्धं भर्तृदर्शनलालसा 2 अथ काले बहुतिथे वने महति दारुणे तडागं सर्वतॊभद्रं पद्मसौगन्धिकं महत 3 ददृशुर वणिजॊ रम्यं परभूतयवसेन्धनम बहुमूलफलॊपेतं नानापक्षिगणैर वृतम 4 तं दृष्ट्वा मृष्टसलिलं मनॊहरसुखावहम सुपरिश्रान्तवाहास ते निवेशाय मनॊ दधुः 5 संमते सार्थवाहस्य विविशुर वनम उत्तमम उवास सार्थः सुमहान वेलाम आसाद्य पश्चिमाम 6 अथार्धरात्रसमये निःशब्दस्तिमिते तदा सुप्ते सार्थे परिश्रान्ते हस्तियूथम उपागमत पानीयार्थं गिरिनदीं मदप्रस्रवणाविलाम 7 मार्गं संरुध्य संसुप्तं पद्मिन्याः सार्थम उत्तमम सुप्तं ममर्द सहसा चेष्टमानं महीतले 8 हाहारवं परमुञ्चन्तः सार्थिकाः शरणार्थिनः वनगुल्मांश च धावन्तॊ निद्रान्धा महतॊ भयात के चिद दन्तैः करैः के चित के चित पद्भ्यां हता नराः 9 गॊखरॊष्ट्राश्वबहुलं पदातिजनसंकुलम भयार्तं धावमानं तत परस्परहतं तदा 10 घॊरान नादान विमुञ्चन्तॊ निपेतुर धरणीतले वृक्षेष्व आसज्य संभग्नाः पतिता विषमेषु च तथा तन निहतं सर्वं समृद्धं सार्थमण्डलम 11 अथापरेद्युः संप्राप्ते हतशिष्टा जनास तदा वनगुल्माद विनिष्क्रम्य शॊचन्तॊ वैशसं कृतम भरातरं पितरं पुत्रं सखायं च जनाधिप 12 अशॊचत तत्र वैदर्भी किं नु मे दुष्कृतं कृतम यॊ ऽपि मे निर्जने ऽरण्ये संप्राप्तॊ ऽयं जनार्णवः हतॊ ऽयं हस्तियूथेन मन्दभाग्यान ममैव तु 13 पराप्तव्यं सुचिरं दुःखं मया नूनम असंशयम नाप्राप्तकालॊ मरियते शरुतं वृद्धानुशासनम 14 यन नाहम अद्य मृदिता हस्तियूथेन दुःखिता न हय अदैवकृतं किं चिन नराणाम इह विद्यते 15 न च मे बालभावे ऽपि किं चिद वयपकृतं कृतम कर्मणा मनसा वाचा यद इदं दुःखम आगतम 16 मन्ये सवयंवरकृते लॊकपालाः समागताः परत्याख्याता मया तत्र नलस्यार्थाय देवताः नूनं तेषां परभावेन वियॊगं पराप्तवत्य अहम 17 एवमादीनि दुःखानि सा विलप्य वराङ्गना हतशिष्टैः सह तदा बराह्मणैर वेदपारगैः अगच्छद राजशार्दूल दुःखशॊकपरायणा 18 गच्छन्ती सा चिरात कालात पुरम आसादयन महत सायाह्ने चेदिराजस्य सुबाहॊर सत्यवादिनः वस्त्रार्धकर्तसंवीता परविवेश पुरॊत्तमम 19 तां विवर्णां कृशां दीनां मुक्तकेशीम अमार्जनाम उन्मत्ताम इव गच्छन्तीं ददृशुः पुरवासिनः 20 परविशन्तीं तु तां दृष्ट्वा चेदिराजपुरीं तदा अनुजग्मुस ततॊ बाला गरामिपुत्राः कुतूहलात 21 सा तैः परिवृतागच्छत समीपं राजवेश्मनः तां परासादगतापश्यद राजमाता जनैर वृताम 22 सा जनं वारयित्वा तं परासादतलम उत्तमम आरॊप्य विस्मिता राजन दमयन्तीम अपृच्छत 23 एवम अप्य असुखाविष्टा बिभर्षि परमं वपुः भासि विद्युद इवाभ्रेषु शंस मे कासि कस्य वा 24 न हि ते मानुषं रूपं भूषणैर अपि वर्जितम असहाया नरेभ्यश च नॊद्विजस्य अमरप्रभे 25 तच छरुत्वा वचनं तस्या भैमी वचनम अब्रवीत मानुषीं मां विजानीहि भर्तारं समनुव्रताम 26 सैरन्ध्रीं जातिसंपन्नां भुजिष्यां कामवासिनीम फलमूलाशनाम एकां यत्रसायंप्रतिश्रयाम 27 असंख्येयगुणॊ भर्ता मां च नित्यम अनुव्रतः भर्तारम अपि तं वीरं छायेवानपगा सदा 28 तस्य दैवात परसङ्गॊ ऽभूद अतिमात्रं सम देवने दयूते स निर्जितश चैव वनम एकॊ ऽभयुपेयिवान 29 तम एकवसनं वीरम उन्मत्तम इव विह्वलम आश्वासयन्ती भर्तारम अहम अन्वगमं वनम 30 स कदा चिद वने वीरः कस्मिंश चित कारणान्तरे कषुत्परीतः सुविमनास तद अप्य एकं वयसर्जयत 31 तम एकवसनं नग्नम उन्मत्तं गतचेतसम अनुव्रजन्ती बहुला न सवपामि निशाः सदा 32 ततॊ बहुतिथे काले सुप्ताम उत्सृज्य मां कव चित वाससॊ ऽरधं परिच्छिद्य तयक्तवान माम अनागसम 33 तं मार्गमाणा भर्तारं दह्यमाना दिनक्षपाः न विन्दाम्य अमरप्रख्यं परियं पराणधनेश्वरम 34 ताम अश्रुपरिपूर्णाक्षीं विलपन्तीं तथा बहु राजमाताब्रवीद आर्तां भैमीम आर्ततरा सवयम 35 वसस्व मयि कल्याणि परीतिर मे तवयि वर्तते मृगयिष्यन्ति ते भद्रे भर्तारं पुरुषा मम 36 अथ वा सवयम आगच्छेत परिधावन्न इतस ततः इहैव वसती भद्रे भर्तारम उपलप्स्यसे 37 राजमातुर वचः शरुत्वा दमयन्ती वचॊ ऽबरवीत समयेनॊत्सहे वस्तुं तवयि वीरप्रजायिनि 38 उच्छिष्टं नैव भुञ्जीयां न कुर्यां पादधावनम न चाहं पुरुषान अन्यान संभाषेयं कथं चन 39 परार्थयेद यदि मां कश चिद दण्ड्यस ते स पुमान भवेत भर्तुर अन्वेषणार्थं तु पश्येयं बराह्मणान अहम 40 यद्य एवम इह कर्तव्यं वसाम्य अहम असंशयम अतॊ ऽनयथा न मे वासॊ वर्तते हृदये कव चित 41 तां परहृष्टेन मनसा राजमातेदम अब्रवीत सर्वम एतत करिष्यामि दिष्ट्या ते वरतम ईदृशम 42 एवम उक्त्वा ततॊ भैमीं राजमाता विशां पते उवाचेदं दुहितरं सुनन्दां नाम भारत 43 सैरन्ध्रीम अभिजानीष्व सुनन्दे देवरूपिणीम एतया सह मॊदस्व निरुद्विग्नमनाः सवयम |
1
bṛhadaśva uvāca sā tac chrutvānavadyāṅgī sārthavāhavacas tadā agacchat tena vai sārdhaṃ bhartṛdarśanalālasā 2 atha kāle bahutithe vane mahati dāruṇe taḍāgaṃ sarvatobhadraṃ padmasaugandhikaṃ mahat 3 dadṛśur vaṇijo ramyaṃ prabhūtayavasendhanam bahumūlaphalopetaṃ nānāpakṣigaṇair vṛtam 4 taṃ dṛṣṭvā mṛṣṭasalilaṃ manoharasukhāvaham supariśrāntavāhās te niveśāya mano dadhuḥ 5 saṃmate sārthavāhasya viviśur vanam uttamam uvāsa sārthaḥ sumahān velām āsādya paścimām 6 athārdharātrasamaye niḥśabdastimite tadā supte sārthe pariśrānte hastiyūtham upāgamat pānīyārthaṃ girinadīṃ madaprasravaṇāvilām 7 mārgaṃ saṃrudhya saṃsuptaṃ padminyāḥ sārtham uttamam suptaṃ mamarda sahasā ceṣṭamānaṃ mahītale 8 hāhāravaṃ pramuñcantaḥ sārthikāḥ śaraṇārthinaḥ vanagulmāṃś ca dhāvanto nidrāndhā mahato bhayāt ke cid dantaiḥ karaiḥ ke cit ke cit padbhyāṃ hatā narāḥ 9 gokharoṣṭrāśvabahulaṃ padātijanasaṃkulam bhayārtaṃ dhāvamānaṃ tat parasparahataṃ tadā 10 ghorān nādān vimuñcanto nipetur dharaṇītale vṛkṣeṣv āsajya saṃbhagnāḥ patitā viṣameṣu ca tathā tan nihataṃ sarvaṃ samṛddhaṃ sārthamaṇḍalam 11 athāparedyuḥ saṃprāpte hataśiṣṭā janās tadā vanagulmād viniṣkramya śocanto vaiśasaṃ kṛtam bhrātaraṃ pitaraṃ putraṃ sakhāyaṃ ca janādhipa 12 aśocat tatra vaidarbhī kiṃ nu me duṣkṛtaṃ kṛtam yo 'pi me nirjane 'raṇye saṃprāpto 'yaṃ janārṇavaḥ hato 'yaṃ hastiyūthena mandabhāgyān mamaiva tu 13 prāptavyaṃ suciraṃ duḥkhaṃ mayā nūnam asaṃśayam nāprāptakālo mriyate śrutaṃ vṛddhānuśāsanam 14 yan nāham adya mṛditā hastiyūthena duḥkhitā na hy adaivakṛtaṃ kiṃ cin narāṇām iha vidyate 15 na ca me bālabhāve 'pi kiṃ cid vyapakṛtaṃ kṛtam karmaṇā manasā vācā yad idaṃ duḥkham āgatam 16 manye svayaṃvarakṛte lokapālāḥ samāgatāḥ pratyākhyātā mayā tatra nalasyārthāya devatāḥ nūnaṃ teṣāṃ prabhāvena viyogaṃ prāptavaty aham 17 evamādīni duḥkhāni sā vilapya varāṅganā hataśiṣṭaiḥ saha tadā brāhmaṇair vedapāragaiḥ agacchad rājaśārdūla duḥkhaśokaparāyaṇā 18 gacchantī sā cirāt kālāt puram āsādayan mahat sāyāhne cedirājasya subāhor satyavādinaḥ vastrārdhakartasaṃvītā praviveśa purottamam 19 tāṃ vivarṇāṃ kṛśāṃ dīnāṃ muktakeśīm amārjanām unmattām iva gacchantīṃ dadṛśuḥ puravāsinaḥ 20 praviśantīṃ tu tāṃ dṛṣṭvā cedirājapurīṃ tadā anujagmus tato bālā grāmiputrāḥ kutūhalāt 21 sā taiḥ parivṛtāgacchat samīpaṃ rājaveśmanaḥ tāṃ prāsādagatāpaśyad rājamātā janair vṛtām 22 sā janaṃ vārayitvā taṃ prāsādatalam uttamam āropya vismitā rājan damayantīm apṛcchata 23 evam apy asukhāviṣṭā bibharṣi paramaṃ vapuḥ bhāsi vidyud ivābhreṣu śaṃsa me kāsi kasya vā 24 na hi te mānuṣaṃ rūpaṃ bhūṣaṇair api varjitam asahāyā narebhyaś ca nodvijasy amaraprabhe 25 tac chrutvā vacanaṃ tasyā bhaimī vacanam abravīt mānuṣīṃ māṃ vijānīhi bhartāraṃ samanuvratām 26 sairandhrīṃ jātisaṃpannāṃ bhujiṣyāṃ kāmavāsinīm phalamūlāśanām ekāṃ yatrasāyaṃpratiśrayām 27 asaṃkhyeyaguṇo bhartā māṃ ca nityam anuvrataḥ bhartāram api taṃ vīraṃ chāyevānapagā sadā 28 tasya daivāt prasaṅgo 'bhūd atimātraṃ sma devane dyūte sa nirjitaś caiva vanam eko 'bhyupeyivān 29 tam ekavasanaṃ vīram unmattam iva vihvalam āśvāsayantī bhartāram aham anvagamaṃ vanam 30 sa kadā cid vane vīraḥ kasmiṃś cit kāraṇāntare kṣutparītaḥ suvimanās tad apy ekaṃ vyasarjayat 31 tam ekavasanaṃ nagnam unmattaṃ gatacetasam anuvrajantī bahulā na svapāmi niśāḥ sadā 32 tato bahutithe kāle suptām utsṛjya māṃ kva cit vāsaso 'rdhaṃ paricchidya tyaktavān mām anāgasam 33 taṃ mārgamāṇā bhartāraṃ dahyamānā dinakṣapāḥ na vindāmy amaraprakhyaṃ priyaṃ prāṇadhaneśvaram 34 tām aśruparipūrṇākṣīṃ vilapantīṃ tathā bahu rājamātābravīd ārtāṃ bhaimīm ārtatarā svayam 35 vasasva mayi kalyāṇi prītir me tvayi vartate mṛgayiṣyanti te bhadre bhartāraṃ puruṣā mama 36 atha vā svayam āgacchet paridhāvann itas tataḥ ihaiva vasatī bhadre bhartāram upalapsyase 37 rājamātur vacaḥ śrutvā damayantī vaco 'bravīt samayenotsahe vastuṃ tvayi vīraprajāyini 38 ucchiṣṭaṃ naiva bhuñjīyāṃ na kuryāṃ pādadhāvanam na cāhaṃ puruṣān anyān saṃbhāṣeyaṃ kathaṃ cana 39 prārthayed yadi māṃ kaś cid daṇḍyas te sa pumān bhavet bhartur anveṣaṇārthaṃ tu paśyeyaṃ brāhmaṇān aham 40 yady evam iha kartavyaṃ vasāmy aham asaṃśayam ato 'nyathā na me vāso vartate hṛdaye kva cit 41 tāṃ prahṛṣṭena manasā rājamātedam abravīt sarvam etat kariṣyāmi diṣṭyā te vratam īdṛśam 42 evam uktvā tato bhaimīṃ rājamātā viśāṃ pate uvācedaṃ duhitaraṃ sunandāṃ nāma bhārata 43 sairandhrīm abhijānīṣva sunande devarūpiṇīm etayā saha modasva nirudvignamanāḥ svayam |
The Mahabharata in Sanskrit
Book 3
Chapter 63
|
1
बृहदश्व उवाच उत्सृज्य दमयन्तीं तु नलॊ राजा विशां पते ददर्श दावं दह्यन्तं महान्तं गहने वने 2 तत्र शुश्राव मध्ये ऽगनौ शब्दं भूतस्य कस्य चित अभिधाव नलेत्य उच्चैः पुण्यश्लॊकेति चासकृत 3 मा भैर इति नलश चॊक्त्वा मध्यम अग्नेः परविश्य तम ददर्श नागराजानं शयानं कुण्डलीकृतम 4 स नागः पराञ्जलिर भूत्वा वेपमानॊ नलं तदा उवाच विद्धि मां राजन नागं कर्कॊटकं नृप 5 मया परलब्धॊ बरह्मर्षिर अनागाः सुमहातपाः तेन मन्युपरीतेन शप्तॊ ऽसमि मनुजाधिप 6 तस्य शापान न शक्नॊमि पदाद विचलितुं पदम उपदेक्ष्यामि ते शरेयस तरातुम अर्हति मां भवान 7 सखा च ते भविष्यामि मत्समॊ नास्ति पन्नगः लघुश च ते भविष्यामि शीघ्रम आदाय गच्छ माम 8 एवम उक्त्वा स नागेन्द्रॊ बभूवाङ्गुष्ठमात्रकः तं गृहीत्वा नलः परायाद उद्देशं दाववर्जितम 9 आकाशदेशम आसाद्य विमुक्तं कृष्णवर्त्मना उत्स्रष्टुकामं तं नागः पुनः कर्कॊटकॊ ऽबरवीत 10 पदानि गणयन गच्छ सवानि नैषध कानि चित तत्र ते ऽहं महाराज शरेयॊ धास्यामि यत परम 11 ततः संख्यातुम आरब्धम अदशद दशमे पदे तस्य दष्टस्य तद रूपं कषिप्रम अन्तरधीयत 12 स दृष्ट्वा विस्मितस तस्थाव आत्मानं विकृतं नलः सवरूपधारिणं नागं ददर्श च महीपतिः 13 ततः कर्कॊटकॊ नागः सान्त्वयन नलम अब्रवीत मया ते ऽनतर्हितं रूपं न तवा विद्युर जना इति 14 यत्कृते चासि विकृतॊ दुःखेन महता नल विषेण स मदीयेन तवयि दुःखं निवत्स्यति 15 विषेण संवृतैर गात्रैर यावत तवां न विमॊक्ष्यति तावत तवयि महाराज दुःखं वै स निवत्स्यति 16 अनागा येन निकृतस तवम अनर्हॊ जनाधिप करॊधाद असूययित्वा तं रक्षा मे भवतः कृता 17 न ते भयं नरव्याघ्र दंष्ट्रिभ्यः शत्रुतॊ ऽपि वा बरह्मविद्भ्यश च भविता मत्प्रसादान नराधिप 18 राजन विषनिमित्ता च न ते पीडा भविष्यति संग्रामेषु च राजेन्द्र शश्वज जयम अवाप्स्यति 19 गच्छ राजन्न इतः सूतॊ बाहुकॊ ऽहम इति बरुवन समीपम ऋतुपर्णस्य स हि वेदाक्षनैपुणम अयॊध्यां नगरीं रम्याम अद्यैव निषधेश्वर 20 स ते ऽकषहृदयं दाता राजाश्वहृदयेन वै इक्ष्वाकुकुलजः शरीमान मित्रं चैव भविष्यति 21 भविष्यसि यदाक्षज्ञः शरेयसा यॊक्ष्यसे तदा समेष्यसि च दारैस तवं मा सम शॊके मनः कृथाः राज्येन तनयाभ्यां च सत्यम एतद बरवीमि ते 22 सवरूपं च यदा दरष्टुम इच्छेथास तवं नराधिप संस्मर्तव्यस तदा ते ऽहं वासश चेदं निवासयेः 23 अनेन वाससाछन्नः सवरूपं परतिपत्स्यसे इत्य उक्त्वा परददाव अस्मै दिव्यं वासॊयुगं तदा 24 एवं नलं समादिश्य वासॊ दत्त्वा च कौरव नागराजस ततॊ राजंस तत्रैवान्तरधीयत |
1
bṛhadaśva uvāca utsṛjya damayantīṃ tu nalo rājā viśāṃ pate dadarśa dāvaṃ dahyantaṃ mahāntaṃ gahane vane 2 tatra śuśrāva madhye 'gnau śabdaṃ bhūtasya kasya cit abhidhāva nalety uccaiḥ puṇyaśloketi cāsakṛt 3 mā bhair iti nalaś coktvā madhyam agneḥ praviśya tam dadarśa nāgarājānaṃ śayānaṃ kuṇḍalīkṛtam 4 sa nāgaḥ prāñjalir bhūtvā vepamāno nalaṃ tadā uvāca viddhi māṃ rājan nāgaṃ karkoṭakaṃ nṛpa 5 mayā pralabdho brahmarṣir anāgāḥ sumahātapāḥ tena manyuparītena śapto 'smi manujādhipa 6 tasya śāpān na śaknomi padād vicalituṃ padam upadekṣyāmi te śreyas trātum arhati māṃ bhavān 7 sakhā ca te bhaviṣyāmi matsamo nāsti pannagaḥ laghuś ca te bhaviṣyāmi śīghram ādāya gaccha mām 8 evam uktvā sa nāgendro babhūvāṅguṣṭhamātrakaḥ taṃ gṛhītvā nalaḥ prāyād uddeśaṃ dāvavarjitam 9 ākāśadeśam āsādya vimuktaṃ kṛṣṇavartmanā utsraṣṭukāmaṃ taṃ nāgaḥ punaḥ karkoṭako 'bravīt 10 padāni gaṇayan gaccha svāni naiṣadha kāni cit tatra te 'haṃ mahārāja śreyo dhāsyāmi yat param 11 tataḥ saṃkhyātum ārabdham adaśad daśame pade tasya daṣṭasya tad rūpaṃ kṣipram antaradhīyata 12 sa dṛṣṭvā vismitas tasthāv ātmānaṃ vikṛtaṃ nalaḥ svarūpadhāriṇaṃ nāgaṃ dadarśa ca mahīpatiḥ 13 tataḥ karkoṭako nāgaḥ sāntvayan nalam abravīt mayā te 'ntarhitaṃ rūpaṃ na tvā vidyur janā iti 14 yatkṛte cāsi vikṛto duḥkhena mahatā nala viṣeṇa sa madīyena tvayi duḥkhaṃ nivatsyati 15 viṣeṇa saṃvṛtair gātrair yāvat tvāṃ na vimokṣyati tāvat tvayi mahārāja duḥkhaṃ vai sa nivatsyati 16 anāgā yena nikṛtas tvam anarho janādhipa krodhād asūyayitvā taṃ rakṣā me bhavataḥ kṛtā 17 na te bhayaṃ naravyāghra daṃṣṭribhyaḥ śatruto 'pi vā brahmavidbhyaś ca bhavitā matprasādān narādhipa 18 rājan viṣanimittā ca na te pīḍā bhaviṣyati saṃgrāmeṣu ca rājendra śaśvaj jayam avāpsyati 19 gaccha rājann itaḥ sūto bāhuko 'ham iti bruvan samīpam ṛtuparṇasya sa hi vedākṣanaipuṇam ayodhyāṃ nagarīṃ ramyām adyaiva niṣadheśvara 20 sa te 'kṣahṛdayaṃ dātā rājāśvahṛdayena vai ikṣvākukulajaḥ śrīmān mitraṃ caiva bhaviṣyati 21 bhaviṣyasi yadākṣajñaḥ śreyasā yokṣyase tadā sameṣyasi ca dārais tvaṃ mā sma śoke manaḥ kṛthāḥ rājyena tanayābhyāṃ ca satyam etad bravīmi te 22 svarūpaṃ ca yadā draṣṭum icchethās tvaṃ narādhipa saṃsmartavyas tadā te 'haṃ vāsaś cedaṃ nivāsayeḥ 23 anena vāsasāchannaḥ svarūpaṃ pratipatsyase ity uktvā pradadāv asmai divyaṃ vāsoyugaṃ tadā 24 evaṃ nalaṃ samādiśya vāso dattvā ca kaurava nāgarājas tato rājaṃs tatraivāntaradhīyata |
The Mahabharata in Sanskrit
Book 3
Chapter 64
|
1
बृहदश्व उवाच तस्मिन्न अन्तर्हिते नागे परययौ नैषधॊ नलः ऋतुपर्णस्य नगरं पराविशद दशमे ऽहनि 2 स राजानम उपातिष्ठद बाहुकॊ ऽहम इति बरुवन अश्वानां वाहने युक्तः पृथिव्यां नास्ति मत्समः 3 अर्थकृच्छ्रेषु चैवाहं परष्टव्यॊ नैपुणेषु च अन्नसंस्कारम अपि च जानाम्य अन्यैर विशेषतः 4 यानि शिल्पाणि लॊके ऽसमिन यच चाप्य अन्यत सुदुष्करम सर्वं यतिष्ये तत कर्तुम ऋतुपर्ण भरस्व माम 5 वस बाहुक भद्रं ते सर्वम एतत करिष्यसि शीघ्रयाने सदा बुद्धिर धीयते मे विशेषतः 6 स तवम आतिष्ठ यॊगं तं येन शीघ्रा हया मम भवेयुर अश्वाध्यक्षॊ ऽसि वेतनं ते शतं शताः 7 तवाम उपस्थास्यतश चेमौ नित्यं वार्ष्णेयजीवलौ एताभ्यां रंस्यसे सार्धं वस वै मयि बाहुक 8 एवम उक्तॊ नलस तेन नयवसत तत्र पूजितः ऋतुपर्णस्य नगरे सहवार्ष्णेयजीवलः 9 स तत्र निवसन राजन वैदर्भीम अनुचिन्तयन सायं सायं सदा चेमं शलॊकम एकं जगाद ह 10 कव नु सा कषुत्पिपासार्ता शरान्ता शेते तपस्विनी समरन्ती तस्य मन्दस्य कं वा साद्यॊपतिष्ठति 11 एवं बरुवन्तं राजानं निशायां जीवलॊ ऽबरवीत काम एनां शॊचसे नित्यं शरॊतुम इच्छामि बाहुक 12 तम उवाच नलॊ राजा मन्दप्रज्ञस्य कस्य चित आसीद बहुमता नारी तस्या दृढतरं च सः 13 स वै केन चिद अर्थेन तया मन्दॊ वययुज्यत विप्रयुक्तश च मन्दात्मा भरमत्य असुखपीडितः 14 दह्यमानः स शॊकेन दिवारात्रम अतन्द्रितः निशाकाले समरंस तस्याः शलॊकम एकं सम गायति 15 स वै भरमन महीं सर्वां कव चिद आसाद्य किं चन वसत्य अनर्हस तद्दुःखं भूय एवानुसंस्मरन 16 सा तु तं पुरुषं नारी कृच्छ्रे ऽपय अनुगता वने तयक्ता तेनाल्पपुण्येन दुष्करं यदि जीवति 17 एका बालानभिज्ञा च मार्गाणाम अतथॊचिता कषुत्पिपासापरीता च दुष्करं यदि जीवति 18 शवापदाचरिते नित्यं वने महति दारुणे तयक्ता तेनाल्पपुण्येन मन्दप्रज्ञेन मारिष 19 इत्य एवं नैषधॊ राजा दमयन्तीम अनुस्मरन अज्ञातवासम अवसद राज्ञस तस्य निवेशने |
1
bṛhadaśva uvāca tasminn antarhite nāge prayayau naiṣadho nalaḥ ṛtuparṇasya nagaraṃ prāviśad daśame 'hani 2 sa rājānam upātiṣṭhad bāhuko 'ham iti bruvan aśvānāṃ vāhane yuktaḥ pṛthivyāṃ nāsti matsamaḥ 3 arthakṛcchreṣu caivāhaṃ praṣṭavyo naipuṇeṣu ca annasaṃskāram api ca jānāmy anyair viśeṣataḥ 4 yāni śilpāṇi loke 'smin yac cāpy anyat suduṣkaram sarvaṃ yatiṣye tat kartum ṛtuparṇa bharasva mām 5 vasa bāhuka bhadraṃ te sarvam etat kariṣyasi śīghrayāne sadā buddhir dhīyate me viśeṣataḥ 6 sa tvam ātiṣṭha yogaṃ taṃ yena śīghrā hayā mama bhaveyur aśvādhyakṣo 'si vetanaṃ te śataṃ śatāḥ 7 tvām upasthāsyataś cemau nityaṃ vārṣṇeyajīvalau etābhyāṃ raṃsyase sārdhaṃ vasa vai mayi bāhuka 8 evam ukto nalas tena nyavasat tatra pūjitaḥ ṛtuparṇasya nagare sahavārṣṇeyajīvalaḥ 9 sa tatra nivasan rājan vaidarbhīm anucintayan sāyaṃ sāyaṃ sadā cemaṃ ślokam ekaṃ jagāda ha 10 kva nu sā kṣutpipāsārtā śrāntā śete tapasvinī smarantī tasya mandasya kaṃ vā sādyopatiṣṭhati 11 evaṃ bruvantaṃ rājānaṃ niśāyāṃ jīvalo 'bravīt kām enāṃ śocase nityaṃ śrotum icchāmi bāhuka 12 tam uvāca nalo rājā mandaprajñasya kasya cit āsīd bahumatā nārī tasyā dṛḍhataraṃ ca saḥ 13 sa vai kena cid arthena tayā mando vyayujyata viprayuktaś ca mandātmā bhramaty asukhapīḍitaḥ 14 dahyamānaḥ sa śokena divārātram atandritaḥ niśākāle smaraṃs tasyāḥ ślokam ekaṃ sma gāyati 15 sa vai bhraman mahīṃ sarvāṃ kva cid āsādya kiṃ cana vasaty anarhas tadduḥkhaṃ bhūya evānusaṃsmaran 16 sā tu taṃ puruṣaṃ nārī kṛcchre 'py anugatā vane tyaktā tenālpapuṇyena duṣkaraṃ yadi jīvati 17 ekā bālānabhijñā ca mārgāṇām atathocitā kṣutpipāsāparītā ca duṣkaraṃ yadi jīvati 18 śvāpadācarite nityaṃ vane mahati dāruṇe tyaktā tenālpapuṇyena mandaprajñena māriṣa 19 ity evaṃ naiṣadho rājā damayantīm anusmaran ajñātavāsam avasad rājñas tasya niveśane |
The Mahabharata in Sanskrit
Book 3
Chapter 65
|
1
बृहदश्व उवाच हृतराज्ये नले भीमः सभार्ये परेष्यतां गते दविजान परस्थापयाम आस नलदर्शनकाङ्क्षया 2 संदिदेश च तान भीमॊ वसु दत्त्वा च पुष्कलम मृगयध्वं नलं चैव दमयन्तीं च मे सुताम 3 अस्मिन कर्मणि निष्पन्ने विज्ञाते निषधाधिपे गवां सहस्रं दास्यामि यॊ वस ताव आनयिष्यति अग्रहारं च दास्यामि गरामं नगरसंमितम 4 न चेच छक्याव इहानेतुं दमयन्ती नलॊ ऽपि वा जञातमात्रे ऽपि दास्यामि गवां दशशतं धनम 5 इत्य उक्तास ते ययुर हृष्टा बराह्मणाः सर्वतॊदिशम पुरराष्ट्राणि चिन्वन्तॊ नैषधं सह भार्यया 6 ततश चेदिपुरीं रम्यां सुदेवॊ नाम वै दविजः विचिन्वानॊ ऽथ वैदर्भीम अपश्यद राजवेश्मनि पुण्याहवाचने राज्ञः सुनन्दा सहितां सथिताम 7 मन्दप्रख्यायमानेन रूपेणाप्रतिमेन ताम पिनद्धां धूमजालेन परभाम इव विभावसॊः 8 तां समीक्ष्य विशालाक्षीम अधिकं मलिनां कृशाम तर्कयाम आस भैमीति कारणैर उपपादयन 9 सुदेव उवाच यथेयं मे पुरा दृष्टा तथारूपेयम अङ्गना कृतार्थॊ ऽसम्य अद्य दृष्ट्वेमां लॊककान्ताम इव शरियम 10 पूर्णचन्द्राननां शयामां चारुवृत्तपयॊधराम कुर्वन्तीं परभया देवीं सर्वा वितिमिरा दिशः 11 चारुपद्मपलाशाक्षीं मन्मथस्य रतीम इव इष्टां सर्वस्य जगतः पूर्णचन्द्रप्रभाम इव 12 विदर्भसरसस तस्माद दैवदॊषाद इवॊद्धृताम मलपङ्कानुलिप्ताङ्गीं मृणालीम इव तां भृशम 13 पौर्णमासीम इव निशां राहुग्रस्तनिशाकराम पतिशॊकाकुलां दीनां शुष्कस्रॊतां नदीम इव 14 विध्वस्तपर्णकमलां वित्रासितविहंगमाम हस्तिहस्तपरिक्लिष्टां वयाकुलाम इव पद्मिनीम 15 सुकुमारीं सुजाताङ्गीं रत्नगर्भगृहॊचिताम दह्यमानाम इवॊष्णेन मृणालीम अचिरॊद्धृताम 16 रूपौदर्यगुणॊपेतां मण्डनार्हाम अमण्डिताम चन्द्रलेखाम इव नवां वयॊम्नि नीलाभ्रसंवृताम 17 कामभॊगैः परियैर हीनां हीनां बन्धुजनेन च देहं धारयतीं दीनां भर्तृदर्शनकाङ्क्षया 18 भर्ता नाम परं नार्या भूषणं भूषणैर विना एषा विरहिता तेन शॊभनापि न शॊभते 19 दुष्करं कुरुते ऽतयर्थं हीनॊ यद अनया नलः धारयत्य आत्मनॊ देहं न शॊकेनावसीदति 20 इमाम असितकेशान्तां शतपत्रायतेक्षणाम सुखार्हां दुःखितां दृष्ट्वा ममापि वयथते मनः 21 कदा नु खलु दुःखस्य पारं यास्यति वै शुभा भर्तुः समागमात साध्वी रॊहिणी शशिनॊ यथा 22 अस्या नूनं पुनर लाभान नैषधः परीतिम एष्यति राजा राज्यपरिभ्रष्टः पुनर लब्ध्वेव मेदिनीम 23 तुल्यशीलवयॊयुक्तां तुल्याभिजनसंयुताम नैषधॊ ऽरहति वैदर्भीं तं चेयम असितेक्षणा 24 युक्तं तस्याप्रमेयस्य वीर्यसत्त्ववतॊ मया समाश्वासयितुं भार्यां पतिदर्शनलालसाम 25 अयम आश्वासयाम्य एनां पूर्णचन्द्र निभाननाम अदृष्टपूर्वां दुःखस्य दुःखार्तां धयानतत्पराम 26 बृहदश्व उवाच एवं विमृश्य विविधैः कारणैर लक्षणैश च ताम उपगम्य ततॊ भैमीं सुदेवॊ बराह्मणॊ ऽबरवीत 27 अहं सुदेवॊ वैधर्भि भरातुस ते दयितः सखा भीमस्य वचनाद राज्ञस तवाम अन्वेष्टुम इहागतः 28 कुशली ते पिता राज्ञि जनित्री भरातरश च ते आयुष्मन्तौ कुशलिनौ तत्रस्थौ दारुकौ च ते तवत्कृते बन्धुवर्गाश च गतसत्त्वा इवासते 29 अभिज्ञाय सुदेवं तु दमयन्ती युधिष्ठिर पर्यपृच्छत ततः सर्वान करमेण सुहृदः सवकान 30 रुरॊद च भृशं राजन वैदर्भी शॊककर्शिता दृष्ट्वा सुदेवं सहसा भरातुर इष्टं दविजॊत्तमम 31 ततॊ रुदन्तीं तां दृष्ट्वा सुनन्दा शॊककर्शिताम सुदेवेन सहैकान्ते कथयन्तीं च भारत 32 जनित्र्यै परेषयाम आस सैरन्ध्री रुदते भृशम बराह्मणेन समागम्य तां वेद यदि मन्यसे 33 अथ चेदिपतेर माता राज्ञश चान्तःपुरात तदा जगाम यत्र सा बाला बराह्मणेन सहाभवत 34 ततः सुदेवम आनाय्य राजमाता विशां पते पप्रच्छ भार्या कस्येयं सुता वा कस्य भामिनी 35 कथं च नष्टा जञातिभ्यॊ भर्तुर वा वामलॊचना तवया च विदिता विप्र कथम एवंगता सती 36 एतद इच्छाम्य अहं तवत्तॊ जञातुं सर्वम अशेषतः तत्त्वेन हि ममाचक्ष्व पृच्छन्त्या देवरूपिणीम 37 एवम उक्तस तया राजन सुदेवॊ दविजसत्तमः सुखॊपविष्ट आचष्ट दमयन्त्या यथातथम |
1
bṛhadaśva uvāca hṛtarājye nale bhīmaḥ sabhārye preṣyatāṃ gate dvijān prasthāpayām āsa naladarśanakāṅkṣayā 2 saṃdideśa ca tān bhīmo vasu dattvā ca puṣkalam mṛgayadhvaṃ nalaṃ caiva damayantīṃ ca me sutām 3 asmin karmaṇi niṣpanne vijñāte niṣadhādhipe gavāṃ sahasraṃ dāsyāmi yo vas tāv ānayiṣyati agrahāraṃ ca dāsyāmi grāmaṃ nagarasaṃmitam 4 na cec chakyāv ihānetuṃ damayantī nalo 'pi vā jñātamātre 'pi dāsyāmi gavāṃ daśaśataṃ dhanam 5 ity uktās te yayur hṛṣṭā brāhmaṇāḥ sarvatodiśam purarāṣṭrāṇi cinvanto naiṣadhaṃ saha bhāryayā 6 tataś cedipurīṃ ramyāṃ sudevo nāma vai dvijaḥ vicinvāno 'tha vaidarbhīm apaśyad rājaveśmani puṇyāhavācane rājñaḥ sunandā sahitāṃ sthitām 7 mandaprakhyāyamānena rūpeṇāpratimena tām pinaddhāṃ dhūmajālena prabhām iva vibhāvasoḥ 8 tāṃ samīkṣya viśālākṣīm adhikaṃ malināṃ kṛśām tarkayām āsa bhaimīti kāraṇair upapādayan 9 sudeva uvāca yatheyaṃ me purā dṛṣṭā tathārūpeyam aṅganā kṛtārtho 'smy adya dṛṣṭvemāṃ lokakāntām iva śriyam 10 pūrṇacandrānanāṃ śyāmāṃ cāruvṛttapayodharām kurvantīṃ prabhayā devīṃ sarvā vitimirā diśaḥ 11 cārupadmapalāśākṣīṃ manmathasya ratīm iva iṣṭāṃ sarvasya jagataḥ pūrṇacandraprabhām iva 12 vidarbhasarasas tasmād daivadoṣād ivoddhṛtām malapaṅkānuliptāṅgīṃ mṛṇālīm iva tāṃ bhṛśam 13 paurṇamāsīm iva niśāṃ rāhugrastaniśākarām patiśokākulāṃ dīnāṃ śuṣkasrotāṃ nadīm iva 14 vidhvastaparṇakamalāṃ vitrāsitavihaṃgamām hastihastaparikliṣṭāṃ vyākulām iva padminīm 15 sukumārīṃ sujātāṅgīṃ ratnagarbhagṛhocitām dahyamānām ivoṣṇena mṛṇālīm aciroddhṛtām 16 rūpaudaryaguṇopetāṃ maṇḍanārhām amaṇḍitām candralekhām iva navāṃ vyomni nīlābhrasaṃvṛtām 17 kāmabhogaiḥ priyair hīnāṃ hīnāṃ bandhujanena ca dehaṃ dhārayatīṃ dīnāṃ bhartṛdarśanakāṅkṣayā 18 bhartā nāma paraṃ nāryā bhūṣaṇaṃ bhūṣaṇair vinā eṣā virahitā tena śobhanāpi na śobhate 19 duṣkaraṃ kurute 'tyarthaṃ hīno yad anayā nalaḥ dhārayaty ātmano dehaṃ na śokenāvasīdati 20 imām asitakeśāntāṃ śatapatrāyatekṣaṇām sukhārhāṃ duḥkhitāṃ dṛṣṭvā mamāpi vyathate manaḥ 21 kadā nu khalu duḥkhasya pāraṃ yāsyati vai śubhā bhartuḥ samāgamāt sādhvī rohiṇī śaśino yathā 22 asyā nūnaṃ punar lābhān naiṣadhaḥ prītim eṣyati rājā rājyaparibhraṣṭaḥ punar labdhveva medinīm 23 tulyaśīlavayoyuktāṃ tulyābhijanasaṃyutām naiṣadho 'rhati vaidarbhīṃ taṃ ceyam asitekṣaṇā 24 yuktaṃ tasyāprameyasya vīryasattvavato mayā samāśvāsayituṃ bhāryāṃ patidarśanalālasām 25 ayam āśvāsayāmy enāṃ pūrṇacandra nibhānanām adṛṣṭapūrvāṃ duḥkhasya duḥkhārtāṃ dhyānatatparām 26 bṛhadaśva uvāca evaṃ vimṛśya vividhaiḥ kāraṇair lakṣaṇaiś ca tām upagamya tato bhaimīṃ sudevo brāhmaṇo 'bravīt 27 ahaṃ sudevo vaidharbhi bhrātus te dayitaḥ sakhā bhīmasya vacanād rājñas tvām anveṣṭum ihāgataḥ 28 kuśalī te pitā rājñi janitrī bhrātaraś ca te āyuṣmantau kuśalinau tatrasthau dārukau ca te tvatkṛte bandhuvargāś ca gatasattvā ivāsate 29 abhijñāya sudevaṃ tu damayantī yudhiṣṭhira paryapṛcchat tataḥ sarvān krameṇa suhṛdaḥ svakān 30 ruroda ca bhṛśaṃ rājan vaidarbhī śokakarśitā dṛṣṭvā sudevaṃ sahasā bhrātur iṣṭaṃ dvijottamam 31 tato rudantīṃ tāṃ dṛṣṭvā sunandā śokakarśitām sudevena sahaikānte kathayantīṃ ca bhārata 32 janitryai preṣayām āsa sairandhrī rudate bhṛśam brāhmaṇena samāgamya tāṃ veda yadi manyase 33 atha cedipater mātā rājñaś cāntaḥpurāt tadā jagāma yatra sā bālā brāhmaṇena sahābhavat 34 tataḥ sudevam ānāyya rājamātā viśāṃ pate papraccha bhāryā kasyeyaṃ sutā vā kasya bhāminī 35 kathaṃ ca naṣṭā jñātibhyo bhartur vā vāmalocanā tvayā ca viditā vipra katham evaṃgatā satī 36 etad icchāmy ahaṃ tvatto jñātuṃ sarvam aśeṣataḥ tattvena hi mamācakṣva pṛcchantyā devarūpiṇīm 37 evam uktas tayā rājan sudevo dvijasattamaḥ sukhopaviṣṭa ācaṣṭa damayantyā yathātatham |
The Mahabharata in Sanskrit
Book 3
Chapter 66
|
1
सुदेव उवाच विदर्भराजॊ धर्मात्मा भीमॊ भीमपराक्रमः सुतेयं तस्य कल्याणी दमयन्तीति विश्रुता 2 राजा तु नैषधॊ नाम वीरसेनसुतॊ नलः भार्येयं तस्य कल्याणी पुण्यश्लॊकस्य धीमतः 3 स वै दयूते जितॊ भरात्रा हृतराज्यॊ महीपतिः दमयन्त्या गतः सार्धं न परज्ञायत कर्हि चित 4 ते वयं दमयन्त्यर्थं चरामः पृथिवीम इमाम सेयम आसादिता बाला तव पुत्रनिवेशने 5 अस्या रूपेण सदृशी मानुषी नेह विद्यते अस्याश चैव भरुवॊर मध्ये सहजः पिप्लुर उत्तमः शयामायाः पद्मसंकाशॊ लक्षितॊ ऽनतर्हितॊ मया 6 मलेन संवृतॊ हय अस्यास तन्वभ्रेणेव चन्द्रमाः चिह्नभूतॊ विभूत्यर्थम अयं धात्रा विनिर्मितः 7 परतिपत कलुषेवेन्दॊर लेखा नाति विराजते न चास्या नश्यते रूपं वपुर मलसमाचितम असंस्कृतम अपि वयक्तं भाति काञ्चनसंनिभम 8 अनेन वपुषा बाला पिप्लुनानेन चैव ह लक्षितेयं मया देवी पिहितॊ ऽगनिर इवॊष्मणा 9 बृहदश्व उवाच तच छरुत्वा वचनं तस्य सुदेवस्य विशां पते सुनन्दा शॊधयाम आस पिप्लुप्रच्छादनं मलम 10 स मलेनापकृष्टेन पिप्लुस तस्या वयरॊचत दमयन्त्यास तदा वयभ्रे नभसीव निशाकरः 11 पिप्लुं दृष्ट्वा सुनन्दा च राजमाता च भारत रुदन्त्यौ तां परिष्वज्य मुहूर्तम इव तस्थतुः उत्सृज्य बाष्पं शनकै राजमातेदम अब्रवीत 12 भगिन्या दुहिता मे ऽसि पिप्लुनानेन सूचिता अहं च तव माता च राजन्यस्य महात्मनः सुते दशार्णाधिपतेः सुदाम्नश चारुदर्शने 13 भीमस्य राज्ञः सा दत्ता वीरबाहॊर अहं पुनः तवं तु जाता मया दृष्टा दशार्णेषु पितुर गृहे 14 यथैव ते पितुर गेहं तथेदम अपि भामिनि यथैव हि ममैश्वर्यं दमयन्ति तथा तव 15 तां परहृष्टेन मनसा दमयन्ती विशां पते अभिवाद्य मातुर भगिनीम इदं वचनम अब्रवीत 16 अज्ञायमानापि सती सुखम अस्म्य उषितेह वै सर्वकामैः सुविहिता रक्ष्यमाणा सदा तवया 17 सुखात सुखतरॊ वासॊ भविष्यति न संशयः चिरविप्रॊषितां मातर माम अनुज्ञातुम अर्हसि 18 दारकौ च हि मे नीतौ वसतस तत्र बालकौ पित्रा विहीनौ शॊकार्तौ मया चैव कथं नु तौ 19 यदि चापि परियं किं चिन मयि कर्तुम इहेच्छसि विदर्भान यातुम इच्छामि शीघ्रं मे यानम आदिश 20 बाढम इत्य एव ताम उक्त्वा हृष्टा मातृष्वसा नृप गुप्तां बलेन महता पुत्रस्यानुमते ततः 21 परस्थापयद राजमाता शरीमता नरवाहिना यानेन भरतश्रेष्ठ सवन्नपानपरिच्छदाम 22 ततः सा नचिराद एव विदर्भान अगमच छुभा तां तु बन्धुजनः सर्वः परहृष्टः परत्यपूजयत 23 सर्वान कुशलिनॊ दृष्ट्वा बान्धवान दारकौ च तौ मातरं पितरं चैव सर्वं चैव सखीजनम 24 देवताः पूजयाम आस बराह्मणांश च यशस्विनी विधिना परेण कल्याणी दमयन्ती विशां पते 25 अतर्पयत सुदेवं च गॊसहस्रेण पार्थिवः परीतॊ दृष्ट्वैव तनयां गरामेण दरविणेन च 26 सा वयुष्टा रजनीं तत्र पितुर वेश्मनि भामिनी विश्रान्तां मातरं राजन्न इदं वचनम अब्रवीत |
1
sudeva uvāca vidarbharājo dharmātmā bhīmo bhīmaparākramaḥ suteyaṃ tasya kalyāṇī damayantīti viśrutā 2 rājā tu naiṣadho nāma vīrasenasuto nalaḥ bhāryeyaṃ tasya kalyāṇī puṇyaślokasya dhīmataḥ 3 sa vai dyūte jito bhrātrā hṛtarājyo mahīpatiḥ damayantyā gataḥ sārdhaṃ na prajñāyata karhi cit 4 te vayaṃ damayantyarthaṃ carāmaḥ pṛthivīm imām seyam āsāditā bālā tava putraniveśane 5 asyā rūpeṇa sadṛśī mānuṣī neha vidyate asyāś caiva bhruvor madhye sahajaḥ piplur uttamaḥ śyāmāyāḥ padmasaṃkāśo lakṣito 'ntarhito mayā 6 malena saṃvṛto hy asyās tanvabhreṇeva candramāḥ cihnabhūto vibhūtyartham ayaṃ dhātrā vinirmitaḥ 7 pratipat kaluṣevendor lekhā nāti virājate na cāsyā naśyate rūpaṃ vapur malasamācitam asaṃskṛtam api vyaktaṃ bhāti kāñcanasaṃnibham 8 anena vapuṣā bālā piplunānena caiva ha lakṣiteyaṃ mayā devī pihito 'gnir ivoṣmaṇā 9 bṛhadaśva uvāca tac chrutvā vacanaṃ tasya sudevasya viśāṃ pate sunandā śodhayām āsa piplupracchādanaṃ malam 10 sa malenāpakṛṣṭena piplus tasyā vyarocata damayantyās tadā vyabhre nabhasīva niśākaraḥ 11 pipluṃ dṛṣṭvā sunandā ca rājamātā ca bhārata rudantyau tāṃ pariṣvajya muhūrtam iva tasthatuḥ utsṛjya bāṣpaṃ śanakai rājamātedam abravīt 12 bhaginyā duhitā me 'si piplunānena sūcitā ahaṃ ca tava mātā ca rājanyasya mahātmanaḥ sute daśārṇādhipateḥ sudāmnaś cārudarśane 13 bhīmasya rājñaḥ sā dattā vīrabāhor ahaṃ punaḥ tvaṃ tu jātā mayā dṛṣṭā daśārṇeṣu pitur gṛhe 14 yathaiva te pitur gehaṃ tathedam api bhāmini yathaiva hi mamaiśvaryaṃ damayanti tathā tava 15 tāṃ prahṛṣṭena manasā damayantī viśāṃ pate abhivādya mātur bhaginīm idaṃ vacanam abravīt 16 ajñāyamānāpi satī sukham asmy uṣiteha vai sarvakāmaiḥ suvihitā rakṣyamāṇā sadā tvayā 17 sukhāt sukhataro vāso bhaviṣyati na saṃśayaḥ ciraviproṣitāṃ mātar mām anujñātum arhasi 18 dārakau ca hi me nītau vasatas tatra bālakau pitrā vihīnau śokārtau mayā caiva kathaṃ nu tau 19 yadi cāpi priyaṃ kiṃ cin mayi kartum ihecchasi vidarbhān yātum icchāmi śīghraṃ me yānam ādiśa 20 bāḍham ity eva tām uktvā hṛṣṭā mātṛṣvasā nṛpa guptāṃ balena mahatā putrasyānumate tataḥ 21 prasthāpayad rājamātā śrīmatā naravāhinā yānena bharataśreṣṭha svannapānaparicchadām 22 tataḥ sā nacirād eva vidarbhān agamac chubhā tāṃ tu bandhujanaḥ sarvaḥ prahṛṣṭaḥ pratyapūjayat 23 sarvān kuśalino dṛṣṭvā bāndhavān dārakau ca tau mātaraṃ pitaraṃ caiva sarvaṃ caiva sakhījanam 24 devatāḥ pūjayām āsa brāhmaṇāṃś ca yaśasvinī vidhinā pareṇa kalyāṇī damayantī viśāṃ pate 25 atarpayat sudevaṃ ca gosahasreṇa pārthivaḥ prīto dṛṣṭvaiva tanayāṃ grāmeṇa draviṇena ca 26 sā vyuṣṭā rajanīṃ tatra pitur veśmani bhāminī viśrāntāṃ mātaraṃ rājann idaṃ vacanam abravīt |
The Mahabharata in Sanskrit
Book 3
Chapter 67
|
1
दमयन्त्य उवाच मां चेद इच्छसि जीवन्तीं मातः सत्यं बरवीमि ते नरवीरस्य वै तस्य नलस्यानयने यत 2 बृहदश्व उवाच दमयन्त्या तथॊक्ता तु सा देवी भृशदुःखिता बाष्पेण पिहिता राजन नॊत्तरं किं चिद अब्रवीत 3 तदवस्थां तु तां दृष्ट्वा सर्वम अन्तःपुरं तदा हाहाभूतम अतीवासीद भृशं च पररुरॊद ह 4 ततॊ भीमं महाराज भार्या वचनम अब्रवीत दमयन्ती तव सुता भर्तारम अनुशॊचति 5 अपकृष्य च लज्जां मां सवयम उक्तवती नृप परयतन्तु तव परेष्याः पुण्यश्लॊकस्य दर्शने 6 तया परचॊदितॊ राजा बराह्मणान वशवर्तिनः परास्थापयद दिशः सर्वा यतध्वं नलदर्शने 7 ततॊ विदर्भाधिपतेर नियॊगाद बराह्मणर्षभाः दमयन्तीम अथॊ दृष्ट्वा परस्थिताः समेत्य अथाब्रुवन 8 अथ तान अब्रवीद भैमी सर्वराष्ट्रेष्व इदं वचः बरुवध्वं जनसंसत्सु तत्र तत्र पुनः पुनः 9 कव नु तवं कितव छित्त्वा वस्त्रार्धं परस्थितॊ मम उत्सृज्य विपिने सुप्ताम अनुरक्तां परियां परिय 10 सा वै यथा समादिष्टा तत्रास्ते तवत्प्रतीक्षिणी दह्यमाना भृशं बाला वस्त्रार्धेनाभिसंवृता 11 तस्या रुदन्त्या सततं तेन शॊकेन पार्थिव परसादं कुरु वै वीर परतिवाक्यं ददस्व च 12 एतद अन्यच च वक्तव्यं कृपां कुर्याद यथा मयि वायुना धूयमानॊ हि वनं दहति पावकः 13 भर्तव्या रक्षणीया च पत्नी हि पतिना सदा तन नष्टम उभयं कस्माद धर्मज्ञस्य सतस तव 14 खयातः पराज्ञः कुलीनश च सानुक्रॊशश च तवं सदा संवृत्तॊ निरनुक्रॊशः शङ्के मद्भाग्यसंक्षयात 15 स कुरुष्व महेष्वास दयां मयि नरर्षभ आनृशंस्यं परॊ धर्मस तवत्त एव हि मे शरुतम 16 एवं बरुवाणान यदि वः परतिब्रूयाद धि कश चन स नरः सर्वथा जञेयः कश चासौ कव च वर्तते 17 यच च वॊ वचनं शरुत्वा बरूयात परतिवचॊ नरः तद आदाय वचः कषिप्रं ममावेद्यं दविजॊत्तमाः 18 यथा च वॊ न जानीयाच चरतॊ भीमशासनात पुनरागमनं चैव तथा कार्यम अतन्द्रितैः 19 यदि वासौ समृद्धः सयाद यदि वाप्य अधनॊ भवेत यदि वाप्य अर्थकामः सयाज जञेयम अस्य चिकीर्षितम 20 एवम उक्तास तव अगच्छंस ते बराह्मणाः सर्वतॊदिशम नलं मृगयितुं राजंस तथा वयसनिनं तदा 21 ते पुराणि सराष्ट्राणि गरामान घॊषांस तथाश्रमान अन्वेषन्तॊ नलं राजन नाधिजग्मुर दविजातयः 22 तच च वाक्यं तथा सर्वे तत्र तत्र विशां पते शरावयां चक्रिरे विप्रा दमयन्त्या यथेरितम |
1
damayanty uvāca māṃ ced icchasi jīvantīṃ mātaḥ satyaṃ bravīmi te naravīrasya vai tasya nalasyānayane yata 2 bṛhadaśva uvāca damayantyā tathoktā tu sā devī bhṛśaduḥkhitā bāṣpeṇa pihitā rājan nottaraṃ kiṃ cid abravīt 3 tadavasthāṃ tu tāṃ dṛṣṭvā sarvam antaḥpuraṃ tadā hāhābhūtam atīvāsīd bhṛśaṃ ca praruroda ha 4 tato bhīmaṃ mahārāja bhāryā vacanam abravīt damayantī tava sutā bhartāram anuśocati 5 apakṛṣya ca lajjāṃ māṃ svayam uktavatī nṛpa prayatantu tava preṣyāḥ puṇyaślokasya darśane 6 tayā pracodito rājā brāhmaṇān vaśavartinaḥ prāsthāpayad diśaḥ sarvā yatadhvaṃ naladarśane 7 tato vidarbhādhipater niyogād brāhmaṇarṣabhāḥ damayantīm atho dṛṣṭvā prasthitāḥ smety athābruvan 8 atha tān abravīd bhaimī sarvarāṣṭreṣv idaṃ vacaḥ bruvadhvaṃ janasaṃsatsu tatra tatra punaḥ punaḥ 9 kva nu tvaṃ kitava chittvā vastrārdhaṃ prasthito mama utsṛjya vipine suptām anuraktāṃ priyāṃ priya 10 sā vai yathā samādiṣṭā tatrāste tvatpratīkṣiṇī dahyamānā bhṛśaṃ bālā vastrārdhenābhisaṃvṛtā 11 tasyā rudantyā satataṃ tena śokena pārthiva prasādaṃ kuru vai vīra prativākyaṃ dadasva ca 12 etad anyac ca vaktavyaṃ kṛpāṃ kuryād yathā mayi vāyunā dhūyamāno hi vanaṃ dahati pāvakaḥ 13 bhartavyā rakṣaṇīyā ca patnī hi patinā sadā tan naṣṭam ubhayaṃ kasmād dharmajñasya satas tava 14 khyātaḥ prājñaḥ kulīnaś ca sānukrośaś ca tvaṃ sadā saṃvṛtto niranukrośaḥ śaṅke madbhāgyasaṃkṣayāt 15 sa kuruṣva maheṣvāsa dayāṃ mayi nararṣabha ānṛśaṃsyaṃ paro dharmas tvatta eva hi me śrutam 16 evaṃ bruvāṇān yadi vaḥ pratibrūyād dhi kaś cana sa naraḥ sarvathā jñeyaḥ kaś cāsau kva ca vartate 17 yac ca vo vacanaṃ śrutvā brūyāt prativaco naraḥ tad ādāya vacaḥ kṣipraṃ mamāvedyaṃ dvijottamāḥ 18 yathā ca vo na jānīyāc carato bhīmaśāsanāt punarāgamanaṃ caiva tathā kāryam atandritaiḥ 19 yadi vāsau samṛddhaḥ syād yadi vāpy adhano bhavet yadi vāpy arthakāmaḥ syāj jñeyam asya cikīrṣitam 20 evam uktās tv agacchaṃs te brāhmaṇāḥ sarvatodiśam nalaṃ mṛgayituṃ rājaṃs tathā vyasaninaṃ tadā 21 te purāṇi sarāṣṭrāṇi grāmān ghoṣāṃs tathāśramān anveṣanto nalaṃ rājan nādhijagmur dvijātayaḥ 22 tac ca vākyaṃ tathā sarve tatra tatra viśāṃ pate śrāvayāṃ cakrire viprā damayantyā yatheritam |
The Mahabharata in Sanskrit
Book 3
Chapter 68
|
1
बृहदश्व उवाच अथ दीर्घस्य कालस्य पर्णादॊ नाम वै दविजः परत्येत्य नगरं भैमीम इदं वचनम अब्रवीत 2 नैषधं मृगयानेन दमयन्ति दिवानिशम अयॊध्यां नगरीं गत्वा भाङ्गस्वरिर उपस्थितः 3 शरावितश च मया वाक्यं तवदीयं स महाजने ऋतुपर्णॊ महाभागॊ यथॊक्तं वरवर्णिनि 4 तच छरुत्वा नाब्रवीत किं चिद ऋतुपर्णॊ नराधिपः न च पारिषदः कश चिद भाष्यमाणॊ मयासकृत 5 अनुज्ञातं तु मां राज्ञा विजने कश चिद अब्रवीत ऋतुपर्णस्य पुरुषॊ बाहुकॊ नाम नामतः 6 सूतस तस्य नरेन्द्रस्य विरूपॊ हरस्वबाहुकः शीघ्रयाने सुकुशलॊ मृष्टकर्ता च भॊजने 7 स विनिःश्वस्य बहुशॊ रुदित्वा च मुहुर मुहुः कुशलं चैव मां पृष्ट्वा पश्चाद इदम अभाषत 8 वैषम्यम अपि संप्राप्ता गॊपायन्ति कुलस्त्रियः आत्मानम आत्मना सत्यॊ जितस्वर्गा न संशयः रहिता भर्तृभिश चैव न करुध्यन्ति कदा चन 9 विषमस्थेन मूढेन परिभ्रष्टसुखेन च यत सा तेन परित्यक्ता तत्र न करॊद्धुम अर्हति 10 पराणयात्रां परिप्रेप्सॊः शकुनैर हृतवाससः आधिभिर दह्यमानस्य शयामा न करॊद्धुम अर्हति 11 सत्कृतासत्कृता वापि पतिं दृष्ट्वा तथागतम भरष्टराज्यं शरिया हीनं शयामा न करॊद्धुम अर्हति 12 तस्य तद वचनं शरुत्वा तवरितॊ ऽहम इहागतः शरुत्वा परमाणं भवती राज्ञश चैव निवेदय 13 एतच छरुत्वाश्रुपूर्णाक्षी पर्णादस्य विशां पते दमयन्ती रहॊ ऽभयेत्य मातरं परत्यभाषत 14 अयम अर्थॊ न संवेद्यॊ भीमे मातः कथं चन तवत्संनिधौ समादेक्ष्ये सुदेवं दविजसत्तमम 15 यथा न नृपतिर भीमः परतिपद्येत मे मतम तथा तवया परयत्तव्यं मम चेत परियम इच्छसि 16 यथा चाहं समानीता सुदेवेनाशु बान्धवान तेनैव मङ्गलेनाशु सुदेवॊ यातु माचिरम समानेतुं नलं मातर अयॊध्यां नगरीम इतः 17 विश्रान्तं च ततः पश्चात पर्णादं दविजसत्तमम अर्चयाम आस वैदर्भी धनेनातीव भामिनी 18 नले चेहागते विप्र भूयॊ दास्यामि ते वसु तवया हि मे बहु कृतं यथा नान्यः करिष्यति यद भर्त्राहं समेष्यामि शीघ्रम एव दविजॊत्तम 19 एवम उक्तॊ ऽरचयित्वा ताम आशीर्वादैः सुमङ्गलैः गृहान उपययौ चापि कृतार्थः स महामनाः 20 ततश चानाय्य तं विप्रं दमयन्ती युधिष्ठिर अब्रवीत संनिधौ मातुर दुःखशॊकसमन्विता 21 गत्वा सुदेव नगरीम अयॊध्यावासिनं नृपम ऋतुपर्णं वचॊ बरूहि पतिम अन्यं चिकीर्षती आस्थास्यति पुनर भैमी दमयन्ती सवयंवरम 22 तत्र गच्छन्ति राजानॊ राजपुत्राश च सर्वशः यथा च गणितः कालः शवॊभूते स भविष्यति 23 यदि संभावनीयं ते गच्छ शीघ्रम अरिंदम सूर्यॊदये दवितीयं सा भर्तारं वरयिष्यति न हि स जञायते वीरॊ नलॊ जीवन मृतॊ ऽपि वा 24 एवं तया यथॊक्तं वै गत्वा राजानम अब्रवीत ऋतुपर्णं महाराज सुदेवॊ बराह्मणस तदा |
1
bṛhadaśva uvāca atha dīrghasya kālasya parṇādo nāma vai dvijaḥ pratyetya nagaraṃ bhaimīm idaṃ vacanam abravīt 2 naiṣadhaṃ mṛgayānena damayanti divāniśam ayodhyāṃ nagarīṃ gatvā bhāṅgasvarir upasthitaḥ 3 śrāvitaś ca mayā vākyaṃ tvadīyaṃ sa mahājane ṛtuparṇo mahābhāgo yathoktaṃ varavarṇini 4 tac chrutvā nābravīt kiṃ cid ṛtuparṇo narādhipaḥ na ca pāriṣadaḥ kaś cid bhāṣyamāṇo mayāsakṛt 5 anujñātaṃ tu māṃ rājñā vijane kaś cid abravīt ṛtuparṇasya puruṣo bāhuko nāma nāmataḥ 6 sūtas tasya narendrasya virūpo hrasvabāhukaḥ śīghrayāne sukuśalo mṛṣṭakartā ca bhojane 7 sa viniḥśvasya bahuśo ruditvā ca muhur muhuḥ kuśalaṃ caiva māṃ pṛṣṭvā paścād idam abhāṣata 8 vaiṣamyam api saṃprāptā gopāyanti kulastriyaḥ ātmānam ātmanā satyo jitasvargā na saṃśayaḥ rahitā bhartṛbhiś caiva na krudhyanti kadā cana 9 viṣamasthena mūḍhena paribhraṣṭasukhena ca yat sā tena parityaktā tatra na kroddhum arhati 10 prāṇayātrāṃ pariprepsoḥ śakunair hṛtavāsasaḥ ādhibhir dahyamānasya śyāmā na kroddhum arhati 11 satkṛtāsatkṛtā vāpi patiṃ dṛṣṭvā tathāgatam bhraṣṭarājyaṃ śriyā hīnaṃ śyāmā na kroddhum arhati 12 tasya tad vacanaṃ śrutvā tvarito 'ham ihāgataḥ śrutvā pramāṇaṃ bhavatī rājñaś caiva nivedaya 13 etac chrutvāśrupūrṇākṣī parṇādasya viśāṃ pate damayantī raho 'bhyetya mātaraṃ pratyabhāṣata 14 ayam artho na saṃvedyo bhīme mātaḥ kathaṃ cana tvatsaṃnidhau samādekṣye sudevaṃ dvijasattamam 15 yathā na nṛpatir bhīmaḥ pratipadyeta me matam tathā tvayā prayattavyaṃ mama cet priyam icchasi 16 yathā cāhaṃ samānītā sudevenāśu bāndhavān tenaiva maṅgalenāśu sudevo yātu māciram samānetuṃ nalaṃ mātar ayodhyāṃ nagarīm itaḥ 17 viśrāntaṃ ca tataḥ paścāt parṇādaṃ dvijasattamam arcayām āsa vaidarbhī dhanenātīva bhāminī 18 nale cehāgate vipra bhūyo dāsyāmi te vasu tvayā hi me bahu kṛtaṃ yathā nānyaḥ kariṣyati yad bhartrāhaṃ sameṣyāmi śīghram eva dvijottama 19 evam ukto 'rcayitvā tām āśīrvādaiḥ sumaṅgalaiḥ gṛhān upayayau cāpi kṛtārthaḥ sa mahāmanāḥ 20 tataś cānāyya taṃ vipraṃ damayantī yudhiṣṭhira abravīt saṃnidhau mātur duḥkhaśokasamanvitā 21 gatvā sudeva nagarīm ayodhyāvāsinaṃ nṛpam ṛtuparṇaṃ vaco brūhi patim anyaṃ cikīrṣatī āsthāsyati punar bhaimī damayantī svayaṃvaram 22 tatra gacchanti rājāno rājaputrāś ca sarvaśaḥ yathā ca gaṇitaḥ kālaḥ śvobhūte sa bhaviṣyati 23 yadi saṃbhāvanīyaṃ te gaccha śīghram ariṃdama sūryodaye dvitīyaṃ sā bhartāraṃ varayiṣyati na hi sa jñāyate vīro nalo jīvan mṛto 'pi vā 24 evaṃ tayā yathoktaṃ vai gatvā rājānam abravīt ṛtuparṇaṃ mahārāja sudevo brāhmaṇas tadā |
The Mahabharata in Sanskrit
Book 3
Chapter 69
|
1
बृहदश्व उवाच शरुत्वा वचः सुदेवस्य ऋतुपर्णॊ नराधिपः सान्त्वयञ शलक्ष्णया वाचा बाहुकं परत्यभाषत 2 विदर्भान यातुम इच्छामि दमदन्त्याः सवयंवरम एकाह्ना हयतत्त्वज्ञ मन्यसे यदि बाहुक 3 एवम उक्तस्य कौन्तेय तेन राज्ञा नलस्य ह वयदीर्यत मनॊ दुःखात परदध्यौ च महामनाः 4 दमयन्ती भवेद एतत कुर्याद दुःखेन मॊहिता अस्मदर्थे भवेद वायम उपायश चिन्तितॊ महान 5 नृशंसं बत वैदर्भी कर्तुकामा तपस्विनी मया कषुद्रेण निकृता पापेनाकृतबुद्धिना 6 सत्रीस्वभावश चलॊ लॊके मम दॊषश च दारुणः सयाद एवम अपि कुर्यात सा विवशा गतसौहृदा मम शॊकेन संविग्ना नैराश्यात तनुमध्यमा 7 न चैवं कर्हि चित कुर्यात सापत्या च विशेषतः यद अत्र तथ्यं पथ्यं च गत्वा वेत्स्यामि निश्चयम ऋतुपर्णस्य वै कामम आत्मार्थं च करॊम्य अहम 8 इति निश्चित्य मनसा बाहुकॊ दीनमानसः कृताञ्जलिर उवाचेदम ऋतुपर्णं नराधिपम 9 परतिजानामि ते सत्यं गमिष्यसि नराधिप एकाह्ना पुरुषव्याघ्र विदर्भनगरीं नृप 10 ततः परीक्षाम अश्वानां चक्रे राजन स बाहुकः अश्वशालाम उपागम्य भाङ्गस्वरिनृपाज्ञया 11 स तवर्यमाणॊ बहुश ऋतुपर्णेन बाहुकः अध्यगच्छत कृशान अश्वान समर्थान अध्वनि कषमान 12 तेजॊबलसमायुक्तान कुलशीलसमन्वितान वर्जिताँल लक्षणैर हीनैः पृथुप्रॊथान महाहनून शुद्धान दशभिर आवर्तैः सिन्धुजान वातरंहसः 13 दृष्ट्वा तान अब्रवीद राजा किं चित कॊपसमन्वितः किम इदं परार्थितं कर्तुं परलब्धव्या हि ते वयम 14 कथम अल्पबलप्राणा वक्ष्यन्तीमे हया मम महान अध्वा च तुरगैर गन्तव्यः कथम ईदृशैः 15 बाहुक उवाच एते हया गमिष्यन्ति विदर्भान नात्र संशयः अथान्यान मन्यसे राजन बरूहि कान यॊजयामि ते 16 ऋतुपर्ण उवाच तवम एव हयतत्त्वज्ञः कुशलश चासि बाहुक यान मन्यसे समर्थांस तवं कषिप्रं तान एव यॊजय 17 बृहदश्व उवाच ततः सदश्वांश चतुरः कुलशीलसमन्वितान यॊजयाम आस कुशलॊ जवयुक्तान रथे नरः 18 ततॊ युक्तं रथं राजा समारॊहत तवरान्वितः अथ पर्यपतन भूमौ जानुभिस ते हयॊत्तमाः 19 ततॊ नरवरः शरीमान नलॊ राजा विशां पते सान्त्वयाम आस तान अश्वांस तेजॊबलसमन्वितान 20 रश्मिभिश च समुद्यम्य नलॊ यातुम इयेष सः सूतम आरॊप्य वार्ष्णेयं जवम आस्थाय वै परम 21 ते चॊद्यमाना विधिना बाहुकेन हयॊत्तमाः समुत्पेतुर इवाकाशं रथिनं मॊहयन्न इव 22 तथा तु दृष्ट्वा तान अश्वान वहतॊ वातरंहसः अयॊध्याधिपतिर धीमान विस्मयं परमं ययौ 23 रथघॊषं तु तं शरुत्वा हयसंग्रहणं च तत वार्ष्णेयश चिन्तयाम आस बाहुकस्य हयज्ञताम 24 किं नु सयान मातलिर अयं देवराजस्य सारथिः तथा हि लक्षणं वीरे बाहुके दृश्यते महत 25 शालिहॊत्रॊ ऽथ किं नु सयाद धयानां कुलतत्त्ववित मानुषं समनुप्राप्तॊ वपुः परमशॊभनम 26 उताहॊ सविद भवेद राजा नलः परपुरंजयः सॊ ऽयं नृपतिर आयात इत्य एवं समचिन्तयत 27 अथ वा यां नलॊ वेद विद्यां ताम एव बाहुकः तुल्यं हि लक्षये जञानं बाहुकस्य नलस्य च 28 अपि चेदं वयस तुल्यम अस्य मन्ये नलस्य च नायं नलॊ महावीर्यस तद्विद्यस तु भविष्यति 29 परछन्ना हि महात्मानश चरन्ति पृथिवीम इमाम दैवेन विधिना युक्ताः शास्त्रॊक्तैश च विरूपणैः 30 भवेत तु मतिभेदॊ मे गात्रवैरूप्यतां परति परमाणात परिहीनस तु भवेद इति हि मे मतिः 31 वयःप्रमाणं तत्तुल्यं रूपेण तु विपर्ययः नलं सर्वगुणैर युक्तं मन्ये बाहुकम अन्ततः 32 एवं विचार्य बहुशॊ वार्ष्णेयः पर्यचिन्तयत हृदयेन महाराज पुण्यश्लॊकस्य सारथिः 33 ऋतुपर्णस तु राजेन्द्र बाहुकस्य हयज्ञताम चिन्तयन मुमुदे राजा सहवार्ष्णेयसारथिः 34 बलं वीर्यं तथॊत्साहं हयसंग्रहणं च तत परं यत्नं च संप्रेक्ष्य परां मुदम अवाप ह |
1
bṛhadaśva uvāca śrutvā vacaḥ sudevasya ṛtuparṇo narādhipaḥ sāntvayañ ślakṣṇayā vācā bāhukaṃ pratyabhāṣata 2 vidarbhān yātum icchāmi damadantyāḥ svayaṃvaram ekāhnā hayatattvajña manyase yadi bāhuka 3 evam uktasya kaunteya tena rājñā nalasya ha vyadīryata mano duḥkhāt pradadhyau ca mahāmanāḥ 4 damayantī bhaved etat kuryād duḥkhena mohitā asmadarthe bhaved vāyam upāyaś cintito mahān 5 nṛśaṃsaṃ bata vaidarbhī kartukāmā tapasvinī mayā kṣudreṇa nikṛtā pāpenākṛtabuddhinā 6 strīsvabhāvaś calo loke mama doṣaś ca dāruṇaḥ syād evam api kuryāt sā vivaśā gatasauhṛdā mama śokena saṃvignā nairāśyāt tanumadhyamā 7 na caivaṃ karhi cit kuryāt sāpatyā ca viśeṣataḥ yad atra tathyaṃ pathyaṃ ca gatvā vetsyāmi niścayam ṛtuparṇasya vai kāmam ātmārthaṃ ca karomy aham 8 iti niścitya manasā bāhuko dīnamānasaḥ kṛtāñjalir uvācedam ṛtuparṇaṃ narādhipam 9 pratijānāmi te satyaṃ gamiṣyasi narādhipa ekāhnā puruṣavyāghra vidarbhanagarīṃ nṛpa 10 tataḥ parīkṣām aśvānāṃ cakre rājan sa bāhukaḥ aśvaśālām upāgamya bhāṅgasvarinṛpājñayā 11 sa tvaryamāṇo bahuśa ṛtuparṇena bāhukaḥ adhyagacchat kṛśān aśvān samarthān adhvani kṣamān 12 tejobalasamāyuktān kulaśīlasamanvitān varjitāṁl lakṣaṇair hīnaiḥ pṛthuprothān mahāhanūn śuddhān daśabhir āvartaiḥ sindhujān vātaraṃhasaḥ 13 dṛṣṭvā tān abravīd rājā kiṃ cit kopasamanvitaḥ kim idaṃ prārthitaṃ kartuṃ pralabdhavyā hi te vayam 14 katham alpabalaprāṇā vakṣyantīme hayā mama mahān adhvā ca turagair gantavyaḥ katham īdṛśaiḥ 15 bāhuka uvāca ete hayā gamiṣyanti vidarbhān nātra saṃśayaḥ athānyān manyase rājan brūhi kān yojayāmi te 16 ṛtuparṇa uvāca tvam eva hayatattvajñaḥ kuśalaś cāsi bāhuka yān manyase samarthāṃs tvaṃ kṣipraṃ tān eva yojaya 17 bṛhadaśva uvāca tataḥ sadaśvāṃś caturaḥ kulaśīlasamanvitān yojayām āsa kuśalo javayuktān rathe naraḥ 18 tato yuktaṃ rathaṃ rājā samārohat tvarānvitaḥ atha paryapatan bhūmau jānubhis te hayottamāḥ 19 tato naravaraḥ śrīmān nalo rājā viśāṃ pate sāntvayām āsa tān aśvāṃs tejobalasamanvitān 20 raśmibhiś ca samudyamya nalo yātum iyeṣa saḥ sūtam āropya vārṣṇeyaṃ javam āsthāya vai param 21 te codyamānā vidhinā bāhukena hayottamāḥ samutpetur ivākāśaṃ rathinaṃ mohayann iva 22 tathā tu dṛṣṭvā tān aśvān vahato vātaraṃhasaḥ ayodhyādhipatir dhīmān vismayaṃ paramaṃ yayau 23 rathaghoṣaṃ tu taṃ śrutvā hayasaṃgrahaṇaṃ ca tat vārṣṇeyaś cintayām āsa bāhukasya hayajñatām 24 kiṃ nu syān mātalir ayaṃ devarājasya sārathiḥ tathā hi lakṣaṇaṃ vīre bāhuke dṛśyate mahat 25 śālihotro 'tha kiṃ nu syād dhayānāṃ kulatattvavit mānuṣaṃ samanuprāpto vapuḥ paramaśobhanam 26 utāho svid bhaved rājā nalaḥ parapuraṃjayaḥ so 'yaṃ nṛpatir āyāta ity evaṃ samacintayat 27 atha vā yāṃ nalo veda vidyāṃ tām eva bāhukaḥ tulyaṃ hi lakṣaye jñānaṃ bāhukasya nalasya ca 28 api cedaṃ vayas tulyam asya manye nalasya ca nāyaṃ nalo mahāvīryas tadvidyas tu bhaviṣyati 29 prachannā hi mahātmānaś caranti pṛthivīm imām daivena vidhinā yuktāḥ śāstroktaiś ca virūpaṇaiḥ 30 bhavet tu matibhedo me gātravairūpyatāṃ prati pramāṇāt parihīnas tu bhaved iti hi me matiḥ 31 vayaḥpramāṇaṃ tattulyaṃ rūpeṇa tu viparyayaḥ nalaṃ sarvaguṇair yuktaṃ manye bāhukam antataḥ 32 evaṃ vicārya bahuśo vārṣṇeyaḥ paryacintayat hṛdayena mahārāja puṇyaślokasya sārathiḥ 33 ṛtuparṇas tu rājendra bāhukasya hayajñatām cintayan mumude rājā sahavārṣṇeyasārathiḥ 34 balaṃ vīryaṃ tathotsāhaṃ hayasaṃgrahaṇaṃ ca tat paraṃ yatnaṃ ca saṃprekṣya parāṃ mudam avāpa ha |
The Mahabharata in Sanskrit
Book 3
Chapter 70
|
1
बृहदश्व उवाच स नदीः पर्वतांश चैव वनानि च सरांसि च अचिरेणातिचक्राम खेचरः खे चरन्न इव 2 तथा परयाते तु रथे तदा भाङ्गस्वरिर नृपः उत्तरीयम अथापश्यद भरष्टं परपुरंजयः 3 ततः स तवरमाणस तु पटे निपतिते तदा गरहीष्यामीति तं राजा नलम आह महामनाः 4 निगृह्णीष्व महाबुद्धे हयान एतान महाजवान वार्ष्णेयॊ यावद एतं मे पटम आनयताम इति 5 नलस तं परत्युवाचाथ दूरे भरष्टः पटस तव यॊजनं समतिक्रान्तॊ न स शक्यस तवया पुनः 6 एवम उक्ते नलेनाथ तदा भाङ्गस्वरिर नृपः आससाद वने राजन फलवन्तं बिभीतकम 7 तं दृष्ट्वा बाहुकं राजा तवरमाणॊ ऽभयभाषत ममापि सूत पश्य तवं संख्याने परमं बलम 8 सर्वः सर्वं न जानाति सर्वज्ञॊ नास्ति कश चन नैकत्र परिनिष्ठास्ति जञानस्य पुरुषे कव चित 9 वृक्षे ऽसमिन यानि पर्णानि फलान्य अपि च बाहुक पतितानि च यान्य अत्र तत्रैकम अधिकं शतम एकपत्राधिकं पत्रं फलम एकं च बाहुक 10 पञ्च कॊट्यॊ ऽथ पत्राणां दवयॊर अपि च शाखयॊः परचिनुह्य अस्य शाखे दवे याश चाप्य अन्याः परशाखिकाः आभ्यां फलसहस्रे दवे पञ्चॊनं शतम एव च 11 ततॊ रथाद अवप्लुत्य राजानं बाहुकॊ ऽबरवीत परॊक्षम इव मे राजन कत्थसे शत्रुकर्शन 12 अथ ते गणिते राजन विद्यते न परॊक्षता परत्यक्षं ते महाराज गणयिष्ये बिभीतकम 13 अहं हि नाभिजानामि भवेद एवं न वेति च संख्यास्यामि फलान्य अस्य पश्यतस ते नराधिप मुहूर्तम इव वार्ष्णेयॊ रश्मीन यच्छतु वाजिनाम 14 तम अब्रवीन नृपः सूतं नायं कालॊ विलम्बितुम बाहुकस तव अब्रवीद एनं परं यत्नं समास्थितः 15 परतीक्षस्व मुहूर्तं तवम अथ वा तवरते भवान एष याति शिवः पन्था याहि वार्ष्णेयसारथिः 16 अब्रवीद ऋतुपर्णस तं सान्त्वयन कुरुनन्दन तवम एव यन्ता नान्यॊ ऽसति पृथिव्याम अपि बाहुक 17 तवत्कृते यातुम इच्छामि विदर्भान हयकॊविद शरणं तवां परपन्नॊ ऽसमि न विघ्नं कर्तुम अर्हसि 18 कामं च ते करिष्यामि यन मां वक्ष्यसि बाहुक विदर्भान यदि यात्वाद्य सूर्यं दर्शयितासि मे 19 अथाब्रवीद बाहुकस तं संख्यायेमं बिभीतकम ततॊ विदर्भान यास्यामि कुरुष्वेदं वचॊ मम 20 अकाम इव तं राजा गणयस्वेत्य उवाच ह सॊ ऽवतीर्य रथात तूर्णं शातयाम आस तं दरुमम 21 ततः स विस्मयाविष्टॊ राजानम इदम अब्रवीत गणयित्वा यथॊक्तानि तावन्त्य एव फलानि च 22 अत्यद्भुतम इदं राजन दृष्टवान अस्मि ते बलम शरॊतुम इच्छामि तां विद्यां यथैतज जञायते नृप 23 तम उवाच ततॊ राजा तवरितॊ गमने तदा विद्ध्य अक्षहृदयज्ञं मां संख्याने च विशारदम 24 बाहुकस तम उवाचाथ देहि विद्याम इमां मम मत्तॊ ऽपि चाश्वहृदयं गृहाण पुरुषर्षभ 25 ऋतुपर्णस ततॊ राजा बाहुकं कार्यगौरवात हयज्ञानस्य लॊभाच च तथेत्य एवाब्रवीद वचः 26 यथेष्टं तवं गृहाणेदम अक्षाणां हृदयं परम निक्षेपॊ मे ऽशवहृदयं तवयि तिष्ठतु बाहुक एवम उक्त्वा ददौ विद्याम ऋतुपर्णॊ नलाय वै 27 तस्याक्षहृदयज्ञस्य शरीरान निःसृतः कलिः कर्कॊटकविषं तीक्ष्णं मुखात सततम उद्वमन 28 कलेस तस्य तदार्तस्य शापाग्निः स विनिःसृतः स तेन कर्शितॊ राजा दीर्घकालम अनात्मवान 29 ततॊ विषविमुक्तात्मा सवरूपम अकरॊत कलिः तं शप्तुम ऐच्छत कुपितॊ निषधाधिपतिर नलः 30 तम उवाच कलिर भीतॊ वेपमानः कृताञ्जलिः कॊपं संयच्छ नृपते कीर्तिं दास्यामि ते पराम 31 इन्द्रसेनस्य जननी कुपिता माशपत पुरा यदा तवया परित्यक्ता ततॊ ऽहं भृशपीडितः 32 अवसं तवयि राजेन्द्र सुदुःखम अपराजित विषेण नागराजस्य दह्यमानॊ दिवानिशम 33 ये च तवां मनुजा लॊके कीर्तयिष्यन्त्य अतन्द्रिताः मत्प्रसूतं भयं तेषां न कदा चिद भविष्यति 34 एवम उक्तॊ नलॊ राजा नययच्छत कॊपम आत्मनः ततॊ भीतः कलिः कषिप्रं परविवेश बिभीतकम कलिस तव अन्येन नादृश्यत कथयन नैषधेन वै 35 ततॊ गतज्वरॊ राजा नैषधः परवीरहा संप्रनष्टे कलौ राजन संख्यायाथ फलान्य उत 36 मुदा परमया युक्तस तेजसा च परेण ह रथम आरुह्य तेजस्वी परययौ जवनैर हयैः बिभीतकश चाप्रशष्टः संवृत्तः कलिसंश्रयात 37 हयॊत्तमान उत्पततॊ दविजान इव पुनः पुनः नलः संचॊदयाम आस परहृष्टेनान्तरात्मना 38 विदर्भाभिमुखॊ राजा परययौ स महामनाः नले तु समतिक्रान्ते कलिर अप्य अगमद गृहान 39 ततॊ गतज्वरॊ राजा नलॊ ऽभूत पृथिवीपते विमुक्तः कलिना राजन रूपमात्रवियॊजितः |
1
bṛhadaśva uvāca sa nadīḥ parvatāṃś caiva vanāni ca sarāṃsi ca acireṇāticakrāma khecaraḥ khe carann iva 2 tathā prayāte tu rathe tadā bhāṅgasvarir nṛpaḥ uttarīyam athāpaśyad bhraṣṭaṃ parapuraṃjayaḥ 3 tataḥ sa tvaramāṇas tu paṭe nipatite tadā grahīṣyāmīti taṃ rājā nalam āha mahāmanāḥ 4 nigṛhṇīṣva mahābuddhe hayān etān mahājavān vārṣṇeyo yāvad etaṃ me paṭam ānayatām iti 5 nalas taṃ pratyuvācātha dūre bhraṣṭaḥ paṭas tava yojanaṃ samatikrānto na sa śakyas tvayā punaḥ 6 evam ukte nalenātha tadā bhāṅgasvarir nṛpaḥ āsasāda vane rājan phalavantaṃ bibhītakam 7 taṃ dṛṣṭvā bāhukaṃ rājā tvaramāṇo 'bhyabhāṣata mamāpi sūta paśya tvaṃ saṃkhyāne paramaṃ balam 8 sarvaḥ sarvaṃ na jānāti sarvajño nāsti kaś cana naikatra pariniṣṭhāsti jñānasya puruṣe kva cit 9 vṛkṣe 'smin yāni parṇāni phalāny api ca bāhuka patitāni ca yāny atra tatraikam adhikaṃ śatam ekapatrādhikaṃ patraṃ phalam ekaṃ ca bāhuka 10 pañca koṭyo 'tha patrāṇāṃ dvayor api ca śākhayoḥ pracinuhy asya śākhe dve yāś cāpy anyāḥ praśākhikāḥ ābhyāṃ phalasahasre dve pañconaṃ śatam eva ca 11 tato rathād avaplutya rājānaṃ bāhuko 'bravīt parokṣam iva me rājan katthase śatrukarśana 12 atha te gaṇite rājan vidyate na parokṣatā pratyakṣaṃ te mahārāja gaṇayiṣye bibhītakam 13 ahaṃ hi nābhijānāmi bhaved evaṃ na veti ca saṃkhyāsyāmi phalāny asya paśyatas te narādhipa muhūrtam iva vārṣṇeyo raśmīn yacchatu vājinām 14 tam abravīn nṛpaḥ sūtaṃ nāyaṃ kālo vilambitum bāhukas tv abravīd enaṃ paraṃ yatnaṃ samāsthitaḥ 15 pratīkṣasva muhūrtaṃ tvam atha vā tvarate bhavān eṣa yāti śivaḥ panthā yāhi vārṣṇeyasārathiḥ 16 abravīd ṛtuparṇas taṃ sāntvayan kurunandana tvam eva yantā nānyo 'sti pṛthivyām api bāhuka 17 tvatkṛte yātum icchāmi vidarbhān hayakovida śaraṇaṃ tvāṃ prapanno 'smi na vighnaṃ kartum arhasi 18 kāmaṃ ca te kariṣyāmi yan māṃ vakṣyasi bāhuka vidarbhān yadi yātvādya sūryaṃ darśayitāsi me 19 athābravīd bāhukas taṃ saṃkhyāyemaṃ bibhītakam tato vidarbhān yāsyāmi kuruṣvedaṃ vaco mama 20 akāma iva taṃ rājā gaṇayasvety uvāca ha so 'vatīrya rathāt tūrṇaṃ śātayām āsa taṃ drumam 21 tataḥ sa vismayāviṣṭo rājānam idam abravīt gaṇayitvā yathoktāni tāvanty eva phalāni ca 22 atyadbhutam idaṃ rājan dṛṣṭavān asmi te balam śrotum icchāmi tāṃ vidyāṃ yathaitaj jñāyate nṛpa 23 tam uvāca tato rājā tvarito gamane tadā viddhy akṣahṛdayajñaṃ māṃ saṃkhyāne ca viśāradam 24 bāhukas tam uvācātha dehi vidyām imāṃ mama matto 'pi cāśvahṛdayaṃ gṛhāṇa puruṣarṣabha 25 ṛtuparṇas tato rājā bāhukaṃ kāryagauravāt hayajñānasya lobhāc ca tathety evābravīd vacaḥ 26 yatheṣṭaṃ tvaṃ gṛhāṇedam akṣāṇāṃ hṛdayaṃ param nikṣepo me 'śvahṛdayaṃ tvayi tiṣṭhatu bāhuka evam uktvā dadau vidyām ṛtuparṇo nalāya vai 27 tasyākṣahṛdayajñasya śarīrān niḥsṛtaḥ kaliḥ karkoṭakaviṣaṃ tīkṣṇaṃ mukhāt satatam udvaman 28 kales tasya tadārtasya śāpāgniḥ sa viniḥsṛtaḥ sa tena karśito rājā dīrghakālam anātmavān 29 tato viṣavimuktātmā svarūpam akarot kaliḥ taṃ śaptum aicchat kupito niṣadhādhipatir nalaḥ 30 tam uvāca kalir bhīto vepamānaḥ kṛtāñjaliḥ kopaṃ saṃyaccha nṛpate kīrtiṃ dāsyāmi te parām 31 indrasenasya jananī kupitā māśapat purā yadā tvayā parityaktā tato 'haṃ bhṛśapīḍitaḥ 32 avasaṃ tvayi rājendra suduḥkham aparājita viṣeṇa nāgarājasya dahyamāno divāniśam 33 ye ca tvāṃ manujā loke kīrtayiṣyanty atandritāḥ matprasūtaṃ bhayaṃ teṣāṃ na kadā cid bhaviṣyati 34 evam ukto nalo rājā nyayacchat kopam ātmanaḥ tato bhītaḥ kaliḥ kṣipraṃ praviveśa bibhītakam kalis tv anyena nādṛśyat kathayan naiṣadhena vai 35 tato gatajvaro rājā naiṣadhaḥ paravīrahā saṃpranaṣṭe kalau rājan saṃkhyāyātha phalāny uta 36 mudā paramayā yuktas tejasā ca pareṇa ha ratham āruhya tejasvī prayayau javanair hayaiḥ bibhītakaś cāpraśaṣṭaḥ saṃvṛttaḥ kalisaṃśrayāt 37 hayottamān utpatato dvijān iva punaḥ punaḥ nalaḥ saṃcodayām āsa prahṛṣṭenāntarātmanā 38 vidarbhābhimukho rājā prayayau sa mahāmanāḥ nale tu samatikrānte kalir apy agamad gṛhān 39 tato gatajvaro rājā nalo 'bhūt pṛthivīpate vimuktaḥ kalinā rājan rūpamātraviyojitaḥ |
The Mahabharata in Sanskrit
Book 3
Chapter 71
|
1
बृहदश्व उवाच ततॊ विदर्भान संप्राप्तं सायाह्ने सत्यविक्रमम ऋतुपर्णं जना राज्ञे भीमाय परत्यवेदयन 2 स भीमवचनाद राजा कुण्डिनं पराविशत पुरम नादयन रथघॊषेण सर्वाः सॊपदिशॊ दश 3 ततस तं रथनिर्घॊषं नलाश्वास तत्र शुश्रुवुः शरुत्वा च समहृष्यन्त पुरेव नलसंनिधौ 4 दमयन्ती च शुश्राव रथघॊषं नलस्य तम यथा मेघस्य नदतॊ गम्भीरं जलदागमे 5 नलेन संगृहीतेषु पुरेव नलवाजिषु सदृशं रथनिर्घॊषं मेने भैमी तथा हयाः 6 परासादस्थाश च शिखिनः शालास्थाश चैव वारणाः हयाश च शुश्रुवुस तत्र रथघॊषं महीपतेः 7 ते शरुत्वा रथनिर्घॊषं वारणाः शिखिनस तथा परणेदुर उन्मुखा राजन मेघॊदयम इवेक्ष्य ह 8 दमयन्त्य उवाच यथासौ रथनिर्घॊषः पूरयन्न इव मेदिनीम मम हलादयते चेतॊ नल एष महीपतिः 9 अद्य चन्द्राभवक्त्रं तं न पश्यामि नलं यदि असंख्येयगुणं वीरं विनशिष्याम्य असंशयम 10 यदि वै तस्य वीरस्य बाह्वॊर नाद्याहम अन्तरम परविशामि सुखस्पर्शं विनशिष्याम्य असंशयम 11 यदि मां मेघनिर्घॊषॊ नॊपगच्छति नैषधः अद्य चामीकरप्रख्यॊ विनशिष्याम्य असंशयम 12 यदि मां सिंहविक्रान्तॊ मत्तवारणवारणः नाभिगच्छति राजेन्द्रॊ विनशिष्याम्य असंशयम 13 न समराम्य अनृतं किं चिन न समराम्य अनुपाकृतम न च पर्युषितं वाक्यं सवैरेष्व अपि महात्मनः 14 परभुः कषमावान वीरश च मृदुर दान्तॊ जितेन्द्रियः रहॊऽनीचानुवर्ती च कलीबवन मम नैषधः 15 गुणांस तस्य समरन्त्या मे तत्पराया दिवानिशम हृदयं दीर्यत इदं शॊकात परियविनाकृतम 16 बृहदश्व उवाच एवं विलपमाना सा नष्टसंज्ञेव भारत आरुरॊह महद वेश्म पुण्यश्लॊकदिदृष्कया 17 ततॊ मध्यमकक्षायां ददर्श रथम आस्थितम ऋतुपर्णं महीपालं सहवार्ष्णेयबाहुकम 18 ततॊ ऽवतीर्य वार्ष्णेयॊ बाहुकश च रथॊत्तमात हयांस तान अवमुच्याथ सथापयाम आसतू रथम 19 सॊ ऽवतीर्य रथॊपस्थाद ऋतुपर्णॊ नराधिपः उपतस्थे महाराज भीमं भीमपराक्रमम 20 तं भीमः परतिजग्राह पूजया परया ततः अकस्मात सहसा पराप्तं सत्रीमन्त्रं न सम विन्दति 21 किं कार्यं सवागतं ते ऽसतु राज्ञा पृष्टश च भारत नाभिजज्ञे स नृपतिर दुहित्रर्थे समागतम 22 ऋतुपर्णॊ ऽपि राजा स धीमान सत्यपराक्रमः राजानं राजपुत्रं वा न सम पश्यति कं चन नैव सवयंवरकथां न च विप्रसमागमम 23 ततॊ विगणयन राजा मनसा कॊसलाधिपः आगतॊ ऽसमीत्य उवाचैनं भवन्तम अभिवादकः 24 राजापि च समयन भीमॊ मनसाभिविचिन्तयत अधिकं यॊजनशतं तस्यागमनकारणम 25 गरामान बहून अतिक्रम्य नाध्यगच्छद यथातथम अल्पकार्यं विनिर्दिष्टं तस्यागमनकारणम 26 नैतद एवं स नृपतिस तं सत्कृत्य वयसर्जयत विश्राम्यताम इति वदन कलान्तॊ ऽसीति पुनः पुनः 27 स सत्कृतः परहृष्टात्मा परीतः परीतेन पार्थिवः राजप्रेष्यैर अनुगतॊ दिष्टं वेश्म समाविशत 28 ऋतुपर्णे गते राजन वार्ष्णेयसहिते नृपे बाहुकॊ रथम आस्थाय रथशालाम उपागमत 29 स मॊचयित्वा तान अश्वान परिचार्य च शास्त्रतः सवयं चैतान समाश्वास्य रथॊपस्थ उपाविशत 30 दमयन्ती तु शॊकार्ता दृष्ट्वा भाङ्गस्वरिं नृपम सूतपुत्रं च वार्ष्णेयं बाहुकं च तथाविधम 31 चिन्तयाम आस वैदर्भी कस्यैष रथनिस्वनः नलस्येव महान आसीन न च पश्यामि नैषधम 32 वार्ष्णेयेन भवेन नूनं विद्या सैवॊपशिक्षिता तेनास्य रथनिर्घॊषॊ नलस्येव महान अभूत 33 आहॊ सविद ऋतुपर्णॊ ऽपि यथा राजा नलस तथा ततॊ ऽयं रथनिर्घॊषॊ नैषधस्येव लक्ष्यते 34 एवं वितर्कयित्वा तु दमयन्ती विशां पते दूतीं परस्थापयाम आस नैषधान्वेषणे नृप |
1
bṛhadaśva uvāca tato vidarbhān saṃprāptaṃ sāyāhne satyavikramam ṛtuparṇaṃ janā rājñe bhīmāya pratyavedayan 2 sa bhīmavacanād rājā kuṇḍinaṃ prāviśat puram nādayan rathaghoṣeṇa sarvāḥ sopadiśo daśa 3 tatas taṃ rathanirghoṣaṃ nalāśvās tatra śuśruvuḥ śrutvā ca samahṛṣyanta pureva nalasaṃnidhau 4 damayantī ca śuśrāva rathaghoṣaṃ nalasya tam yathā meghasya nadato gambhīraṃ jaladāgame 5 nalena saṃgṛhīteṣu pureva nalavājiṣu sadṛśaṃ rathanirghoṣaṃ mene bhaimī tathā hayāḥ 6 prāsādasthāś ca śikhinaḥ śālāsthāś caiva vāraṇāḥ hayāś ca śuśruvus tatra rathaghoṣaṃ mahīpateḥ 7 te śrutvā rathanirghoṣaṃ vāraṇāḥ śikhinas tathā praṇedur unmukhā rājan meghodayam ivekṣya ha 8 damayanty uvāca yathāsau rathanirghoṣaḥ pūrayann iva medinīm mama hlādayate ceto nala eṣa mahīpatiḥ 9 adya candrābhavaktraṃ taṃ na paśyāmi nalaṃ yadi asaṃkhyeyaguṇaṃ vīraṃ vinaśiṣyāmy asaṃśayam 10 yadi vai tasya vīrasya bāhvor nādyāham antaram praviśāmi sukhasparśaṃ vinaśiṣyāmy asaṃśayam 11 yadi māṃ meghanirghoṣo nopagacchati naiṣadhaḥ adya cāmīkaraprakhyo vinaśiṣyāmy asaṃśayam 12 yadi māṃ siṃhavikrānto mattavāraṇavāraṇaḥ nābhigacchati rājendro vinaśiṣyāmy asaṃśayam 13 na smarāmy anṛtaṃ kiṃ cin na smarāmy anupākṛtam na ca paryuṣitaṃ vākyaṃ svaireṣv api mahātmanaḥ 14 prabhuḥ kṣamāvān vīraś ca mṛdur dānto jitendriyaḥ raho'nīcānuvartī ca klībavan mama naiṣadhaḥ 15 guṇāṃs tasya smarantyā me tatparāyā divāniśam hṛdayaṃ dīryata idaṃ śokāt priyavinākṛtam 16 bṛhadaśva uvāca evaṃ vilapamānā sā naṣṭasaṃjñeva bhārata āruroha mahad veśma puṇyaślokadidṛṣkayā 17 tato madhyamakakṣāyāṃ dadarśa ratham āsthitam ṛtuparṇaṃ mahīpālaṃ sahavārṣṇeyabāhukam 18 tato 'vatīrya vārṣṇeyo bāhukaś ca rathottamāt hayāṃs tān avamucyātha sthāpayām āsatū ratham 19 so 'vatīrya rathopasthād ṛtuparṇo narādhipaḥ upatasthe mahārāja bhīmaṃ bhīmaparākramam 20 taṃ bhīmaḥ pratijagrāha pūjayā parayā tataḥ akasmāt sahasā prāptaṃ strīmantraṃ na sma vindati 21 kiṃ kāryaṃ svāgataṃ te 'stu rājñā pṛṣṭaś ca bhārata nābhijajñe sa nṛpatir duhitrarthe samāgatam 22 ṛtuparṇo 'pi rājā sa dhīmān satyaparākramaḥ rājānaṃ rājaputraṃ vā na sma paśyati kaṃ cana naiva svayaṃvarakathāṃ na ca viprasamāgamam 23 tato vigaṇayan rājā manasā kosalādhipaḥ āgato 'smīty uvācainaṃ bhavantam abhivādakaḥ 24 rājāpi ca smayan bhīmo manasābhivicintayat adhikaṃ yojanaśataṃ tasyāgamanakāraṇam 25 grāmān bahūn atikramya nādhyagacchad yathātatham alpakāryaṃ vinirdiṣṭaṃ tasyāgamanakāraṇam 26 naitad evaṃ sa nṛpatis taṃ satkṛtya vyasarjayat viśrāmyatām iti vadan klānto 'sīti punaḥ punaḥ 27 sa satkṛtaḥ prahṛṣṭātmā prītaḥ prītena pārthivaḥ rājapreṣyair anugato diṣṭaṃ veśma samāviśat 28 ṛtuparṇe gate rājan vārṣṇeyasahite nṛpe bāhuko ratham āsthāya rathaśālām upāgamat 29 sa mocayitvā tān aśvān paricārya ca śāstrataḥ svayaṃ caitān samāśvāsya rathopastha upāviśat 30 damayantī tu śokārtā dṛṣṭvā bhāṅgasvariṃ nṛpam sūtaputraṃ ca vārṣṇeyaṃ bāhukaṃ ca tathāvidham 31 cintayām āsa vaidarbhī kasyaiṣa rathanisvanaḥ nalasyeva mahān āsīn na ca paśyāmi naiṣadham 32 vārṣṇeyena bhaven nūnaṃ vidyā saivopaśikṣitā tenāsya rathanirghoṣo nalasyeva mahān abhūt 33 āho svid ṛtuparṇo 'pi yathā rājā nalas tathā tato 'yaṃ rathanirghoṣo naiṣadhasyeva lakṣyate 34 evaṃ vitarkayitvā tu damayantī viśāṃ pate dūtīṃ prasthāpayām āsa naiṣadhānveṣaṇe nṛpa |
The Mahabharata in Sanskrit
Book 3
Chapter 72
|
1
दमयन्त्य उवाच गच्छ केशिनि जानीहि क एष रथवाहकः उपविष्टॊ रथॊपस्थे विकृतॊ हरस्वबाहुकः 2 अभ्येत्य कुशलं भद्रे मृदुपूर्वं समाहिता पृच्छेथाः पुरुषं हय एनं यथातत्त्वम अनिन्दिते 3 अत्र मे महती शङ्का भवेद एष नलॊ नृपः तथा च मे मनस्तुष्टिर हृदयस्य च निर्वृतिः 4 बरूयाश चैनं कथान्ते तवं पर्णादवचनं यथा परतिवाक्यं च सुश्रॊणि बुध्येथास तवम अनिन्दिते 5 बृहदश्व उवाच एवं समाहिता गत्वा दूती बाहुकम अब्रवीत दमयन्त्य अपि कल्याणी परासादस्थान्ववैक्षत 6 सवागतं ते मनुष्येन्द्र कुशलं ते बरवीम्य अहम दमयन्त्या वचः साधु निबॊध पुरुषर्षभ 7 कदा वै परस्थिता यूयं किमर्थम इह चागताः तत तवं बरूहि यथान्यायं वैदर्भी शरॊतुम इच्छति 8 बाहुक उवाच शरुतः सवयंवरॊ राज्ञा कौसल्येन यशस्विना दवितीयॊ दमयन्त्या वै शवॊभूत इति भामिनि 9 शरुत्वा तं परस्थितॊ राजा शतयॊजनयायिभिः हयैर वातजवैर मुख्यैर अहम अस्य च सारथिः 10 केशिन्य उवाच अथ यॊ ऽसौ तृतीयॊ वः स कुतः कस्य वा पुनः तवं च कस्य कथं चेदं तवयि कर्म समाहितम 11 बाहुक उवाच पुण्यश्लॊकस्य वै सूतॊ वार्ष्णेय इति विश्रुतः स नले विद्रुते भद्रे भाङ्गस्वरिम उपस्थितः 12 अहम अप्य अश्वकुशलः सूदत्वे च सुनिष्ठितः ऋतुपर्णेन सारथ्ये भॊजने च वृतः सवयम 13 केशिन्य उवाच अथ जानाति वार्ष्णेयः कव नु राजा नलॊ गतः कथं चित तवयि वैतेन कथितं सयात तु बाहुक 14 बाहुक उवाच इहैव पुत्रौ निक्षिप्य नलस्याशुभकर्मणः गतस ततॊ यथाकामं नैष जानाति नैषधम 15 न चान्यः पुरुषः कश चिन नलं वेत्ति यशस्विनि गूढश चरति लॊके ऽसमिन नष्टरूपॊ महीपतिः 16 आत्मैव हि नलं वेत्ति या चास्य तदनन्तरा न हि वै तानि लिङ्गानि नलं शंसन्ति कर्हि चित 17 केशिन्य उवाच यॊ ऽसाव अयॊध्यां परथमं गतवान बराह्मणस तदा 71 इमानि नारीवाक्यानि कथयानः पुनः पुनः 18 कव नु तवं कितव छित्त्वा वस्त्रार्धं परस्थितॊ मम उत्सृज्य विपिने सुप्ताम अनुरक्तां परियां परिय 19 सा वै यथा समादिष्टा तत्रास्ते तवत्प्रतीक्षिणी दह्यमाना दिवारात्रं वस्त्रार्धेनाभिसंवृता 20 तस्या रुदन्त्याः सततं तेन दुःखेन पार्थिव परसादं कुरु वै वीर परतिवाक्यं परयच्छ च 21 तस्यास तत्प्रियम आख्यानं परब्रवीहि महामते तद एव वाक्यं वैदर्भी शरॊतुम इच्छत्य अनिन्दिता 22 एतच छरुत्वा परतिवचस तस्य दत्तं तवया किल यत पुरा तत पुनस तवत्तॊ वैदर्भी शरॊतुम इच्छति 23 बृहदश्व उवाच एवम उक्तस्य केशिन्या नलस्य कुरुनन्दन हृदयं वयथितं चासीद अश्रुपूर्णे च लॊचने 24 स निगृह्यात्मनॊ दुःखं दह्यमानॊ महीपतिः बाष्पसंदिग्धया वाचा पुनर एवेदम अब्रवीत 25 वैषम्यम अपि संप्राप्ता गॊपायन्ति कुलस्त्रियः आत्मानम आत्मना सत्यॊ जितस्वर्गा न संशयः 26 रहिता भर्तृभिश चैव न करुध्यन्ति कदा चन पराणांश चारित्रकवचा धारयन्तीह सत्स्त्रियः 27 पराणयात्रां परिप्रेप्सॊः शकुनैर हृतवाससः आधिभिर दह्यमानस्य शयामा न करॊद्धुम अर्हति 28 सत्कृतासत्कृता वापि पतिं दृष्ट्वा तथागतम भरष्टराज्यं शरिया हीनं कषुधितं वयसनाप्लुतम 29 एवं बरुवाणस तद वाक्यं नलः परमदुःखितः न बाष्पम अशकत सॊढुं पररुरॊद च भारत 30 ततः सा केशिनी गत्वा दमयन्त्यै नयवेदयत तत सर्वं कथितं चैव विकारं चैव तस्य तम |
1
damayanty uvāca gaccha keśini jānīhi ka eṣa rathavāhakaḥ upaviṣṭo rathopasthe vikṛto hrasvabāhukaḥ 2 abhyetya kuśalaṃ bhadre mṛdupūrvaṃ samāhitā pṛcchethāḥ puruṣaṃ hy enaṃ yathātattvam anindite 3 atra me mahatī śaṅkā bhaved eṣa nalo nṛpaḥ tathā ca me manastuṣṭir hṛdayasya ca nirvṛtiḥ 4 brūyāś cainaṃ kathānte tvaṃ parṇādavacanaṃ yathā prativākyaṃ ca suśroṇi budhyethās tvam anindite 5 bṛhadaśva uvāca evaṃ samāhitā gatvā dūtī bāhukam abravīt damayanty api kalyāṇī prāsādasthānvavaikṣata 6 svāgataṃ te manuṣyendra kuśalaṃ te bravīmy aham damayantyā vacaḥ sādhu nibodha puruṣarṣabha 7 kadā vai prasthitā yūyaṃ kimartham iha cāgatāḥ tat tvaṃ brūhi yathānyāyaṃ vaidarbhī śrotum icchati 8 bāhuka uvāca śrutaḥ svayaṃvaro rājñā kausalyena yaśasvinā dvitīyo damayantyā vai śvobhūta iti bhāmini 9 śrutvā taṃ prasthito rājā śatayojanayāyibhiḥ hayair vātajavair mukhyair aham asya ca sārathiḥ 10 keśiny uvāca atha yo 'sau tṛtīyo vaḥ sa kutaḥ kasya vā punaḥ tvaṃ ca kasya kathaṃ cedaṃ tvayi karma samāhitam 11 bāhuka uvāca puṇyaślokasya vai sūto vārṣṇeya iti viśrutaḥ sa nale vidrute bhadre bhāṅgasvarim upasthitaḥ 12 aham apy aśvakuśalaḥ sūdatve ca suniṣṭhitaḥ ṛtuparṇena sārathye bhojane ca vṛtaḥ svayam 13 keśiny uvāca atha jānāti vārṣṇeyaḥ kva nu rājā nalo gataḥ kathaṃ cit tvayi vaitena kathitaṃ syāt tu bāhuka 14 bāhuka uvāca ihaiva putrau nikṣipya nalasyāśubhakarmaṇaḥ gatas tato yathākāmaṃ naiṣa jānāti naiṣadham 15 na cānyaḥ puruṣaḥ kaś cin nalaṃ vetti yaśasvini gūḍhaś carati loke 'smin naṣṭarūpo mahīpatiḥ 16 ātmaiva hi nalaṃ vetti yā cāsya tadanantarā na hi vai tāni liṅgāni nalaṃ śaṃsanti karhi cit 17 keśiny uvāca yo 'sāv ayodhyāṃ prathamaṃ gatavān brāhmaṇas tadā 71 imāni nārīvākyāni kathayānaḥ punaḥ punaḥ 18 kva nu tvaṃ kitava chittvā vastrārdhaṃ prasthito mama utsṛjya vipine suptām anuraktāṃ priyāṃ priya 19 sā vai yathā samādiṣṭā tatrāste tvatpratīkṣiṇī dahyamānā divārātraṃ vastrārdhenābhisaṃvṛtā 20 tasyā rudantyāḥ satataṃ tena duḥkhena pārthiva prasādaṃ kuru vai vīra prativākyaṃ prayaccha ca 21 tasyās tatpriyam ākhyānaṃ prabravīhi mahāmate tad eva vākyaṃ vaidarbhī śrotum icchaty aninditā 22 etac chrutvā prativacas tasya dattaṃ tvayā kila yat purā tat punas tvatto vaidarbhī śrotum icchati 23 bṛhadaśva uvāca evam uktasya keśinyā nalasya kurunandana hṛdayaṃ vyathitaṃ cāsīd aśrupūrṇe ca locane 24 sa nigṛhyātmano duḥkhaṃ dahyamāno mahīpatiḥ bāṣpasaṃdigdhayā vācā punar evedam abravīt 25 vaiṣamyam api saṃprāptā gopāyanti kulastriyaḥ ātmānam ātmanā satyo jitasvargā na saṃśayaḥ 26 rahitā bhartṛbhiś caiva na krudhyanti kadā cana prāṇāṃś cāritrakavacā dhārayantīha satstriyaḥ 27 prāṇayātrāṃ pariprepsoḥ śakunair hṛtavāsasaḥ ādhibhir dahyamānasya śyāmā na kroddhum arhati 28 satkṛtāsatkṛtā vāpi patiṃ dṛṣṭvā tathāgatam bhraṣṭarājyaṃ śriyā hīnaṃ kṣudhitaṃ vyasanāplutam 29 evaṃ bruvāṇas tad vākyaṃ nalaḥ paramaduḥkhitaḥ na bāṣpam aśakat soḍhuṃ praruroda ca bhārata 30 tataḥ sā keśinī gatvā damayantyai nyavedayat tat sarvaṃ kathitaṃ caiva vikāraṃ caiva tasya tam |
The Mahabharata in Sanskrit
Book 3
Chapter 73
|
1
बृहदश्व उवाच दमयन्ती तु तच छरुत्वा भृशं शॊकपरायणा शङ्कमाना नलं तं वै केशिनीम इदम अब्रवीत 2 गच्छ केशिनि भूयस तवं परीक्षां कुरु बाहुके आब्रुवाणा समीपस्था चरितान्य अस्य लक्षय 3 यदा च किं चित कुर्यात स कारणं तत्र भामिनि तत्र संचेष्टमानस्य संलक्ष्यं ते विचेष्टितम 4 न चास्य परतिबन्धेन देयॊ ऽगनिर अपि भामिनि याचते न जलं देयं सम्यग आत्वरमाणया 5 एतत सर्वं समीक्ष्य तवं चरितं मे निवेदय यच चान्यद अपि पश्येथास तच चाख्येयं तवया मम 6 दमयन्त्यैवम उक्ता सा जगामाथाशु केशिनी निशाम्य च हयज्ञस्य लिङ्गानि पुनर आगमत 7 सा तत सर्वं यथावृत्तं दमयन्त्यै नयवेदयत निमित्तं यत तदा दृष्टं बाहुके दिव्यमानुषम 8 केशिन्य उवाच दृढं शुच्युपचारॊ ऽसौ न मया मानुषः कव चित दृष्टपूर्वः शरुतॊ वापि दमयन्ति तथाविधः 9 हरस्वम आसाद्य संचारं नासौ विनमते कव चित तं तु दृष्ट्वा यथासङ्गम उत्सर्पति यथासुखम संकटे ऽपय अस्य सुमहद विवरं जायते ऽधिकम 10 ऋतुपर्णस्य चार्थाय भॊजनीयम अनेकशः परेषितं तत्र राज्ञा च मांसं सुबहु पाशवम 11 तस्य परक्षालनार्थाय कुम्भस तत्रॊपकल्पितः स तेनावेक्षितः कुम्भः पूर्ण एवाभवत तदा 12 ततः परक्षालनं कृत्वा समधिश्रित्य बाहुकः तृणमुष्टिं समादाय आविध्यैनं समादधत 13 अथ परज्वलितस तत्र सहसा हव्यवाहनः तद अद्भुततमं दृष्ट्वा विस्मिताहम इहागता 14 अन्यच च तस्मिन सुमहद आश्चर्यं लक्षितं मया यद अग्निम अपि संस्पृश्य नैव दह्यत्य असौ शुभे 15 छन्देन चॊदकं तस्य वहत्य आवर्जितं दरुतम अतीव चान्यत सुमहद आश्चर्यं दृष्टवत्य अहम 16 यत स पुष्पाण्य उपादाय हस्ताभ्यां ममृदे शनैः मृद्यमानानि पाणिभ्यां तेन पुष्पाणि तान्य अथ 17 भूय एव सुगन्धीनि हृषितानि भवन्ति च एतान्य अद्भुतकल्पानि दृष्ट्वाहं दरुतम आगता 18 बृहदश्व उवाच दमयन्ती तु तच छरुत्वा पुण्यश्लॊकस्य चेष्टितम अमन्यत नलं पराप्तं कर्मचेष्टाभिसूचितम 19 सा शङ्कमाना भर्तारं नलं बाहुकरूपिणम केशिनीं शलक्ष्णया वाचा रुदती पुनर अब्रवीत 20 पुनर गच्छ परमत्तस्य बाहुकस्यॊपसंस्कृतम महानसाच छृतं मांसं समादायैहि भामिनि 21 सा गत्वा बाहुके वयग्रे तन मांसम अपकृष्य च अत्युष्णम एव तवरिता तत्क्षणं परियकारिणी दमयन्त्यै ततः परादात केशिनी कुरुनन्दन 22 सॊचिता नलसिद्धस्य मांसस्य बहुशः पुरा पराश्य मत्वा नलं सूदं पराक्रॊशद भृशदुःखिता 23 वैक्लव्यं च परं गत्वा परक्षाल्य च मुखं ततः मिथुनं परेषयाम आस केशिन्या सह भारत 24 इन्द्रसेनां सह भरात्रा समभिज्ञाय बाहुकः अभिद्रुत्य ततॊ राजपरिष्वज्याङ्कम आनयत 25 बाहुकस तु समासाद्य सुतौ सुरसुतॊपमौ भृशं दुःखपरीतात्मा सस्वरं पररुदॊद ह 26 नैषधॊ दर्शयित्वा तु विकारम असकृत तदा उत्सृज्य सहसा पुत्रौ केशिनीम इदम अब्रवीत 27 इदं सुसदृशं भद्रे मिथुनं मम पुत्रयॊः ततॊ दृष्ट्वैव सहसा बाष्पम उत्सृतवान अहम 28 बहुशः संपतन्तीं तवां जनः शङ्केत दॊषतः वयं च देशातिथयॊ गच्छ भद्रे नमॊ ऽसु ते |
1
bṛhadaśva uvāca damayantī tu tac chrutvā bhṛśaṃ śokaparāyaṇā śaṅkamānā nalaṃ taṃ vai keśinīm idam abravīt 2 gaccha keśini bhūyas tvaṃ parīkṣāṃ kuru bāhuke ābruvāṇā samīpasthā caritāny asya lakṣaya 3 yadā ca kiṃ cit kuryāt sa kāraṇaṃ tatra bhāmini tatra saṃceṣṭamānasya saṃlakṣyaṃ te viceṣṭitam 4 na cāsya pratibandhena deyo 'gnir api bhāmini yācate na jalaṃ deyaṃ samyag ātvaramāṇayā 5 etat sarvaṃ samīkṣya tvaṃ caritaṃ me nivedaya yac cānyad api paśyethās tac cākhyeyaṃ tvayā mama 6 damayantyaivam uktā sā jagāmāthāśu keśinī niśāmya ca hayajñasya liṅgāni punar āgamat 7 sā tat sarvaṃ yathāvṛttaṃ damayantyai nyavedayat nimittaṃ yat tadā dṛṣṭaṃ bāhuke divyamānuṣam 8 keśiny uvāca dṛḍhaṃ śucyupacāro 'sau na mayā mānuṣaḥ kva cit dṛṣṭapūrvaḥ śruto vāpi damayanti tathāvidhaḥ 9 hrasvam āsādya saṃcāraṃ nāsau vinamate kva cit taṃ tu dṛṣṭvā yathāsaṅgam utsarpati yathāsukham saṃkaṭe 'py asya sumahad vivaraṃ jāyate 'dhikam 10 ṛtuparṇasya cārthāya bhojanīyam anekaśaḥ preṣitaṃ tatra rājñā ca māṃsaṃ subahu pāśavam 11 tasya prakṣālanārthāya kumbhas tatropakalpitaḥ sa tenāvekṣitaḥ kumbhaḥ pūrṇa evābhavat tadā 12 tataḥ prakṣālanaṃ kṛtvā samadhiśritya bāhukaḥ tṛṇamuṣṭiṃ samādāya āvidhyainaṃ samādadhat 13 atha prajvalitas tatra sahasā havyavāhanaḥ tad adbhutatamaṃ dṛṣṭvā vismitāham ihāgatā 14 anyac ca tasmin sumahad āścaryaṃ lakṣitaṃ mayā yad agnim api saṃspṛśya naiva dahyaty asau śubhe 15 chandena codakaṃ tasya vahaty āvarjitaṃ drutam atīva cānyat sumahad āścaryaṃ dṛṣṭavaty aham 16 yat sa puṣpāṇy upādāya hastābhyāṃ mamṛde śanaiḥ mṛdyamānāni pāṇibhyāṃ tena puṣpāṇi tāny atha 17 bhūya eva sugandhīni hṛṣitāni bhavanti ca etāny adbhutakalpāni dṛṣṭvāhaṃ drutam āgatā 18 bṛhadaśva uvāca damayantī tu tac chrutvā puṇyaślokasya ceṣṭitam amanyata nalaṃ prāptaṃ karmaceṣṭābhisūcitam 19 sā śaṅkamānā bhartāraṃ nalaṃ bāhukarūpiṇam keśinīṃ ślakṣṇayā vācā rudatī punar abravīt 20 punar gaccha pramattasya bāhukasyopasaṃskṛtam mahānasāc chṛtaṃ māṃsaṃ samādāyaihi bhāmini 21 sā gatvā bāhuke vyagre tan māṃsam apakṛṣya ca atyuṣṇam eva tvaritā tatkṣaṇaṃ priyakāriṇī damayantyai tataḥ prādāt keśinī kurunandana 22 socitā nalasiddhasya māṃsasya bahuśaḥ purā prāśya matvā nalaṃ sūdaṃ prākrośad bhṛśaduḥkhitā 23 vaiklavyaṃ ca paraṃ gatvā prakṣālya ca mukhaṃ tataḥ mithunaṃ preṣayām āsa keśinyā saha bhārata 24 indrasenāṃ saha bhrātrā samabhijñāya bāhukaḥ abhidrutya tato rājapariṣvajyāṅkam ānayat 25 bāhukas tu samāsādya sutau surasutopamau bhṛśaṃ duḥkhaparītātmā sasvaraṃ prarudoda ha 26 naiṣadho darśayitvā tu vikāram asakṛt tadā utsṛjya sahasā putrau keśinīm idam abravīt 27 idaṃ susadṛśaṃ bhadre mithunaṃ mama putrayoḥ tato dṛṣṭvaiva sahasā bāṣpam utsṛtavān aham 28 bahuśaḥ saṃpatantīṃ tvāṃ janaḥ śaṅketa doṣataḥ vayaṃ ca deśātithayo gaccha bhadre namo 'su te |
The Mahabharata in Sanskrit
Book 3
Chapter 74
|
1
बृहदश्व उवाच सर्वं विकारं दृष्ट्वा तु पुण्यश्लॊकस्य धीमतः आगत्य केशिनी कषिप्रं दमयन्त्यै नयवेदयत 2 दमयन्ती ततॊ भूयः परेषयाम आस केशिनीम मातुः सकाशं दुःखार्ता नलशङ्कासमुत्सुका 3 परीक्षितॊ मे बहुशॊ बाहुकॊ नलशङ्कया रूपे मे संशयस तव एकः सवयम इच्छामि वेदितुम 4 स वा परवेश्यतां मातर मां वानुज्ञातुम अर्हसि विदितं वाथ वाज्ञातं पितुर मे संविधीयताम 5 एवम उक्ता तु वैदर्भ्या सा देवी भीमम अब्रवीत दुहितुस तम अभिप्रायम अन्वजानाच च पार्थिवः 6 सा वै पित्राभ्यनुज्ञाता मात्रा च भरतर्षभ नलं परवेशयाम आस यत्र तस्या परतिश्रयः 7 तं तु दृष्ट्वा तथायुक्तं दमयन्ती नलं तदा तीव्रशॊकसमाविष्टा बभूव वरवर्णिनी 8 ततः काषायवसना जटिला मलपङ्किनी दमयन्ती महाराज बाहुकं वाक्यम अब्रवीत 9 दृष्टपूर्वस तवया कश चिद धर्मज्ञॊ नाम बाहुक सुप्ताम उत्सृज्य विपिने गतॊ यः पुरुषः सत्रियम 10 अनागसं परियां भार्यां विजने शरममॊहिताम अपहाय तु कॊ गच्छेत पुण्यश्लॊकम ऋते नलम 11 किं नु तस्य मया कार्यम अपराद्धं महीपतेः यॊ माम उत्सृज्य विपिने गतवान निद्रया हृताम 12 साक्षाद देवान अपाहाय वृतॊ यः स मया पुरा अनुव्रतां साभिकामां पुत्रिणीं तयक्तवान कथम 13 अग्नौ पाणिगृहीतां च हंसानां वचने सथिताम भरिष्यामीति सत्यं च परतिश्रुत्य कव तद गतम 14 दमयन्त्या बरुवन्त्यास तु सर्वम एतद अरिंदम शॊकजं वारि नेत्राभ्याम असुखं परास्रवद बहु 15 अतीव कृष्णताराभ्यां रक्तान्ताभ्यां जलं तु तत परिस्रवन नलॊ दृष्ट्वा शॊकार्त इदम अब्रवीत 16 मम राज्यं परनष्टं यन नाहं तत कृतवान सवयम कलिना तत कृतं भीरु यच च तवाम अहम अत्यजम 17 तवया तु धर्मभृच्छ्रेष्ठे शापेनाभिहतः पुरा वनस्थया दुःखितया शॊचन्त्या मां विवाससम 18 स मच्छरीरे तवच्छापाद दह्यमानॊ ऽवसत कलिः तवच छापदग्धः सततं सॊ ऽगनाव इव समाहितः 19 मम च वयवसायेन तपसा चैव निर्जितः दुःखस्यान्तेन चानेन भवितव्यं हि नौ शुभे 20 विमुच्य मां गतः पापः स ततॊ ऽहम इहागतः तवदर्थं विपुलश्रॊणि न हि मे ऽनयत परयॊजनम 21 कथं नु नारी भर्तारम अनुरक्तम अनुव्रतम उत्सृज्य वरयेद अन्यं यथा तवं भीरु कर्हि चित 22 दूताश चरन्ति पृथिवीं कृत्स्नां नृपतिशासनात भैमी किल सम भर्तारं दवितीयं वरयिष्यति 23 सवैरवृत्ता यथाकामम अनुरूपम इवात्मनाः शरुत्वैव चैवं तवरितॊ भाङ्गस्वरिर उपस्थितः 24 दमयन्ती तु तच छरुत्वा नलस्य परिदेवितम पराञ्जलिर वेपमाना च भीता वचनम अब्रवीत |
1
bṛhadaśva uvāca sarvaṃ vikāraṃ dṛṣṭvā tu puṇyaślokasya dhīmataḥ āgatya keśinī kṣipraṃ damayantyai nyavedayat 2 damayantī tato bhūyaḥ preṣayām āsa keśinīm mātuḥ sakāśaṃ duḥkhārtā nalaśaṅkāsamutsukā 3 parīkṣito me bahuśo bāhuko nalaśaṅkayā rūpe me saṃśayas tv ekaḥ svayam icchāmi veditum 4 sa vā praveśyatāṃ mātar māṃ vānujñātum arhasi viditaṃ vātha vājñātaṃ pitur me saṃvidhīyatām 5 evam uktā tu vaidarbhyā sā devī bhīmam abravīt duhitus tam abhiprāyam anvajānāc ca pārthivaḥ 6 sā vai pitrābhyanujñātā mātrā ca bharatarṣabha nalaṃ praveśayām āsa yatra tasyā pratiśrayaḥ 7 taṃ tu dṛṣṭvā tathāyuktaṃ damayantī nalaṃ tadā tīvraśokasamāviṣṭā babhūva varavarṇinī 8 tataḥ kāṣāyavasanā jaṭilā malapaṅkinī damayantī mahārāja bāhukaṃ vākyam abravīt 9 dṛṣṭapūrvas tvayā kaś cid dharmajño nāma bāhuka suptām utsṛjya vipine gato yaḥ puruṣaḥ striyam 10 anāgasaṃ priyāṃ bhāryāṃ vijane śramamohitām apahāya tu ko gacchet puṇyaślokam ṛte nalam 11 kiṃ nu tasya mayā kāryam aparāddhaṃ mahīpateḥ yo mām utsṛjya vipine gatavān nidrayā hṛtām 12 sākṣād devān apāhāya vṛto yaḥ sa mayā purā anuvratāṃ sābhikāmāṃ putriṇīṃ tyaktavān katham 13 agnau pāṇigṛhītāṃ ca haṃsānāṃ vacane sthitām bhariṣyāmīti satyaṃ ca pratiśrutya kva tad gatam 14 damayantyā bruvantyās tu sarvam etad ariṃdama śokajaṃ vāri netrābhyām asukhaṃ prāsravad bahu 15 atīva kṛṣṇatārābhyāṃ raktāntābhyāṃ jalaṃ tu tat parisravan nalo dṛṣṭvā śokārta idam abravīt 16 mama rājyaṃ pranaṣṭaṃ yan nāhaṃ tat kṛtavān svayam kalinā tat kṛtaṃ bhīru yac ca tvām aham atyajam 17 tvayā tu dharmabhṛcchreṣṭhe śāpenābhihataḥ purā vanasthayā duḥkhitayā śocantyā māṃ vivāsasam 18 sa maccharīre tvacchāpād dahyamāno 'vasat kaliḥ tvac chāpadagdhaḥ satataṃ so 'gnāv iva samāhitaḥ 19 mama ca vyavasāyena tapasā caiva nirjitaḥ duḥkhasyāntena cānena bhavitavyaṃ hi nau śubhe 20 vimucya māṃ gataḥ pāpaḥ sa tato 'ham ihāgataḥ tvadarthaṃ vipulaśroṇi na hi me 'nyat prayojanam 21 kathaṃ nu nārī bhartāram anuraktam anuvratam utsṛjya varayed anyaṃ yathā tvaṃ bhīru karhi cit 22 dūtāś caranti pṛthivīṃ kṛtsnāṃ nṛpatiśāsanāt bhaimī kila sma bhartāraṃ dvitīyaṃ varayiṣyati 23 svairavṛttā yathākāmam anurūpam ivātmanāḥ śrutvaiva caivaṃ tvarito bhāṅgasvarir upasthitaḥ 24 damayantī tu tac chrutvā nalasya paridevitam prāñjalir vepamānā ca bhītā vacanam abravīt |
The Mahabharata in Sanskrit
Book 3
Chapter 75
|
1
दमयन्त्य उवाच न माम अर्हसि कल्याण पापेन परिशङ्कितुम मया हि देवान उत्सृज्य वृतस तवं निषधाधिप 2 तवाभिगमनार्थं तु सर्वतॊ बराह्मणा गताः वाक्यानि मम गाथाभिर गायमाना दिशॊ दश 3 ततस तवां बराह्मणॊ विद्वान पर्णादॊ नाम पार्थिव अभ्यगच्छत कॊसलायाम ऋतुपर्णनिवेशने 4 तेन वाक्ये हृते सम्यक परतिवाक्ये तथाहृते उपायॊ ऽयं मया दृष्टॊ नैषधानयने तव 5 तवाम ऋते न हि लॊके ऽनय एकाह्ना पृथिवीपते समर्थॊ यॊजनशतं गन्तुम अश्वैर नराधिप 6 तथा चेमौ महीपाल भजे ऽहं चरणौ तव यथा नासत्कृतं किं चिन मनसापि चराम्य अहम 7 अयं चरति लॊके ऽसमिन भूतसाक्षी सदागतिः एष मुञ्चतु मे पराणान यदि पापं चराम्य अहम 8 तथा चरति तिग्मांशुः परेण भुवनं सदा स विमुञ्चतु मे पराणान यदि पापं चराम्य अहम 9 चन्द्रमाः सर्वभूतानाम अन्तश चरति साक्षिवत स विमुञ्चतु मे पराणान यदि पापं चराम्य अहम 10 एते देवास तरयः कृत्स्नं तरैलॊक्यं धारयन्ति वै विब्रुवन्तु यथासत्यम एते वाद्य तयजन्तु माम 11 एवम उक्ते ततॊ वायुर अन्तरिक्षाद अभाषत नैषा कृतवती पापं नलं सत्यं बरवीमि ते 12 राजञ शीलनिधिः सफीतॊ दमयन्त्या सुरक्षितः साक्षिणॊ रक्षिणश चास्या वयं तरीन परिवत्सरान 13 उपायॊ विहितश चायं तवदर्थम अतुलॊ ऽनया न हय एकाह्ना शतं गन्ता तवदृते ऽनयः पुमान इह 14 उपपन्ना तवया भैमी तवं च भैम्या महीपते नात्र शङ्का तवया कार्या संगच्छ सह भार्यया 15 तथा बरुवति वायौ तु पुष्पवृष्टिः पपात ह देवदुन्दुभयॊ नेदुर ववौ च पवनः शिवः 16 तद अद्भुततमं दृष्ट्वा नलॊ राजाथ भारत दमयन्त्यां विशङ्कां तां वयपाकर्षद अरिंदम 17 ततस तद वस्त्रम अरजः परावृणॊद वसुधाधिपः संस्मृत्य नागराजानं ततॊ लेभे वपुः सवकम 18 सवरूपिणं तु भर्तारं दृष्ट्वा भीमसुता तदा पराक्रॊशद उच्चैर आलिङ्ग्य पुण्यश्लॊकम अनिन्दिता 19 भैमीम अपि नलॊ राजा भराजमानॊ यथा पुरा सस्वजे सवसुतौ चापि यथावत परत्यनन्दत 20 ततः सवॊरसि विन्यस्य वक्त्रं तस्य शुभानना परीता तेन दुःखेन निशश्वासायतेक्षणा 21 तथैव मलदिग्धाङ्गी परिष्वज्य शुचिस्मिता सुचिरं पुरुषव्याघ्रं तस्थौ साश्रुपरिप्लुता 22 ततः सर्वं यथावृत्तं दमयन्त्या नलस्य च भीमायाकथयत परीत्या वैदर्भ्या जननी नृप 23 ततॊ ऽबरवीन महाराजः कृतशौचम अहं नलम दमयन्त्या सहॊपेतं काल्यं दरष्टा सुखॊषितम 24 ततस तौ सहितौ रात्रिं कथयन्तौ पुरातनम वने विचरितं सर्वम ऊषतुर मुदितौ नृप 25 स चतुर्थे ततॊ वर्षे संगम्य सह भार्यया सर्वकामैः सुसिद्धार्थॊ लब्धवान परमां मुदम 26 दमयन्त्य अपि भर्तारम अवाप्याप्यायिता भृशम अर्धसंजातसस्येव तॊयं पराप्य वसुंधरा 27 सैवं समेत्य वयपनीततन्द्री; शान्तज्वरा हर्षविवृद्धसत्त्वा रराज भैमी समवाप्तकामा; शीतांशुना रात्रिर इवॊदितेन |
1
damayanty uvāca na mām arhasi kalyāṇa pāpena pariśaṅkitum mayā hi devān utsṛjya vṛtas tvaṃ niṣadhādhipa 2 tavābhigamanārthaṃ tu sarvato brāhmaṇā gatāḥ vākyāni mama gāthābhir gāyamānā diśo daśa 3 tatas tvāṃ brāhmaṇo vidvān parṇādo nāma pārthiva abhyagacchat kosalāyām ṛtuparṇaniveśane 4 tena vākye hṛte samyak prativākye tathāhṛte upāyo 'yaṃ mayā dṛṣṭo naiṣadhānayane tava 5 tvām ṛte na hi loke 'nya ekāhnā pṛthivīpate samartho yojanaśataṃ gantum aśvair narādhipa 6 tathā cemau mahīpāla bhaje 'haṃ caraṇau tava yathā nāsatkṛtaṃ kiṃ cin manasāpi carāmy aham 7 ayaṃ carati loke 'smin bhūtasākṣī sadāgatiḥ eṣa muñcatu me prāṇān yadi pāpaṃ carāmy aham 8 tathā carati tigmāṃśuḥ pareṇa bhuvanaṃ sadā sa vimuñcatu me prāṇān yadi pāpaṃ carāmy aham 9 candramāḥ sarvabhūtānām antaś carati sākṣivat sa vimuñcatu me prāṇān yadi pāpaṃ carāmy aham 10 ete devās trayaḥ kṛtsnaṃ trailokyaṃ dhārayanti vai vibruvantu yathāsatyam ete vādya tyajantu mām 11 evam ukte tato vāyur antarikṣād abhāṣata naiṣā kṛtavatī pāpaṃ nalaṃ satyaṃ bravīmi te 12 rājañ śīlanidhiḥ sphīto damayantyā surakṣitaḥ sākṣiṇo rakṣiṇaś cāsyā vayaṃ trīn parivatsarān 13 upāyo vihitaś cāyaṃ tvadartham atulo 'nayā na hy ekāhnā śataṃ gantā tvadṛte 'nyaḥ pumān iha 14 upapannā tvayā bhaimī tvaṃ ca bhaimyā mahīpate nātra śaṅkā tvayā kāryā saṃgaccha saha bhāryayā 15 tathā bruvati vāyau tu puṣpavṛṣṭiḥ papāta ha devadundubhayo nedur vavau ca pavanaḥ śivaḥ 16 tad adbhutatamaṃ dṛṣṭvā nalo rājātha bhārata damayantyāṃ viśaṅkāṃ tāṃ vyapākarṣad ariṃdama 17 tatas tad vastram arajaḥ prāvṛṇod vasudhādhipaḥ saṃsmṛtya nāgarājānaṃ tato lebhe vapuḥ svakam 18 svarūpiṇaṃ tu bhartāraṃ dṛṣṭvā bhīmasutā tadā prākrośad uccair āliṅgya puṇyaślokam aninditā 19 bhaimīm api nalo rājā bhrājamāno yathā purā sasvaje svasutau cāpi yathāvat pratyanandata 20 tataḥ svorasi vinyasya vaktraṃ tasya śubhānanā parītā tena duḥkhena niśaśvāsāyatekṣaṇā 21 tathaiva maladigdhāṅgī pariṣvajya śucismitā suciraṃ puruṣavyāghraṃ tasthau sāśrupariplutā 22 tataḥ sarvaṃ yathāvṛttaṃ damayantyā nalasya ca bhīmāyākathayat prītyā vaidarbhyā jananī nṛpa 23 tato 'bravīn mahārājaḥ kṛtaśaucam ahaṃ nalam damayantyā sahopetaṃ kālyaṃ draṣṭā sukhoṣitam 24 tatas tau sahitau rātriṃ kathayantau purātanam vane vicaritaṃ sarvam ūṣatur muditau nṛpa 25 sa caturthe tato varṣe saṃgamya saha bhāryayā sarvakāmaiḥ susiddhārtho labdhavān paramāṃ mudam 26 damayanty api bhartāram avāpyāpyāyitā bhṛśam ardhasaṃjātasasyeva toyaṃ prāpya vasuṃdharā 27 saivaṃ sametya vyapanītatandrī; śāntajvarā harṣavivṛddhasattvā rarāja bhaimī samavāptakāmā; śītāṃśunā rātrir ivoditena |
The Mahabharata in Sanskrit
Book 3
Chapter 76
|
1
बृहदश्व उवाच अथ तां वयुषितॊ रात्रिं नलॊ राजा सवलंकृतः वैदर्भ्या सहितः काल्यं ददर्श वसुधाधिपम 2 ततॊ ऽभिवादयाम आस परयतः शवशुरं नलः तस्यानु दमयन्ती च ववन्दे पितरं शुभा 3 तं भीमः परतिजग्राह पुत्रवत परया मुदा यथार्हं पूजयित्वा तु समाश्वासयत परभुः नलेन सहितां तत्र दमयन्तीं पतिव्रताम 4 ताम अर्हणां नलॊ राजा परतिगृह्य यथाविधि परिचर्यां सवकां तस्मै यथावत परत्यवेदयत 5 ततॊ बभूव नगरे सुमहान हर्षनिस्वनः जनस्य संप्रहृष्टस्य नलं दृष्ट्वा तथागतम 6 अशॊभयच च नगरं पताकाध्वजमालिनम सिक्तसंमृष्टपुष्पाढ्या राजमार्गाः कृतास तदा 7 दवारि दवारि च पौराणां पुष्पभङ्गः परकल्पितः अर्चितानि च सर्वाणि देवतायतनानि च 8 ऋतुपर्णॊ ऽपि शुश्राव बाहुकछद्मिनं नलम दमयन्त्या समायुक्तं जहृषे च नराधिपः 9 तम आनाय्य नलॊ राजा कषमयाम आस पार्थिवम स च तं कषमयाम आस हेतुभिर बुद्धिसंमतः 10 स सत्कृतॊ महीपालॊ नैषधं विस्मयान्वितः दिष्ट्या समेतॊ दारैः सवैर भवान इत्य अभ्यनन्दत 11 कच चित तु नापराधं ते कृतवान अस्मि नैषध अज्ञातवासं वसतॊ मद्गृहे निषधाधिप 12 यदि वा बुद्धिपूर्वाणि यद्य अबुद्धानि कानि चित मया कृतान्य अकार्याणि तानि मे कषन्तुम अर्हसि 13 नल उवाच न मे ऽपराधं कृतवांस तवं सवल्पम अपि पार्थिव कृते ऽपि च न मे कॊपः कषन्तव्यं हि मया तव 14 पूर्वं हय असि सखा मे ऽसि संबन्धी च नराधिप अत ऊर्ध्वं तु भूयस तवं परीतिम आहर्तुम अर्हसि 15 सर्वकामैः सुविहितः सुखम अस्म्य उषितस तवयि न तथा सवगृहे राजन यथा तव गृहे सदा 16 इदं चैव हयज्ञानं तवदीयं मयि तिष्ठति तद उपाकर्तुम इच्छामि मन्यसे यदि पार्थिव 17 एवम उक्त्वा ददौ विद्याम ऋतुपर्णाय नैषधः स च तां परतिजग्राह विधिदृष्टेन कर्मणा 18 ततॊ गृह्याश्वहृदयं तदा भाङ्गस्वरिर नृपः सूतम अन्यम उपादाय ययौ सवपुरम एव हि 19 ऋतुपर्णे परतिगते नलॊ राजा विशां पते नगरे कुण्डिने कालं नातिदीर्घम इवावसत |
1
bṛhadaśva uvāca atha tāṃ vyuṣito rātriṃ nalo rājā svalaṃkṛtaḥ vaidarbhyā sahitaḥ kālyaṃ dadarśa vasudhādhipam 2 tato 'bhivādayām āsa prayataḥ śvaśuraṃ nalaḥ tasyānu damayantī ca vavande pitaraṃ śubhā 3 taṃ bhīmaḥ pratijagrāha putravat parayā mudā yathārhaṃ pūjayitvā tu samāśvāsayata prabhuḥ nalena sahitāṃ tatra damayantīṃ pativratām 4 tām arhaṇāṃ nalo rājā pratigṛhya yathāvidhi paricaryāṃ svakāṃ tasmai yathāvat pratyavedayat 5 tato babhūva nagare sumahān harṣanisvanaḥ janasya saṃprahṛṣṭasya nalaṃ dṛṣṭvā tathāgatam 6 aśobhayac ca nagaraṃ patākādhvajamālinam siktasaṃmṛṣṭapuṣpāḍhyā rājamārgāḥ kṛtās tadā 7 dvāri dvāri ca paurāṇāṃ puṣpabhaṅgaḥ prakalpitaḥ arcitāni ca sarvāṇi devatāyatanāni ca 8 ṛtuparṇo 'pi śuśrāva bāhukachadminaṃ nalam damayantyā samāyuktaṃ jahṛṣe ca narādhipaḥ 9 tam ānāyya nalo rājā kṣamayām āsa pārthivam sa ca taṃ kṣamayām āsa hetubhir buddhisaṃmataḥ 10 sa satkṛto mahīpālo naiṣadhaṃ vismayānvitaḥ diṣṭyā sameto dāraiḥ svair bhavān ity abhyanandata 11 kac cit tu nāparādhaṃ te kṛtavān asmi naiṣadha ajñātavāsaṃ vasato madgṛhe niṣadhādhipa 12 yadi vā buddhipūrvāṇi yady abuddhāni kāni cit mayā kṛtāny akāryāṇi tāni me kṣantum arhasi 13 nala uvāca na me 'parādhaṃ kṛtavāṃs tvaṃ svalpam api pārthiva kṛte 'pi ca na me kopaḥ kṣantavyaṃ hi mayā tava 14 pūrvaṃ hy asi sakhā me 'si saṃbandhī ca narādhipa ata ūrdhvaṃ tu bhūyas tvaṃ prītim āhartum arhasi 15 sarvakāmaiḥ suvihitaḥ sukham asmy uṣitas tvayi na tathā svagṛhe rājan yathā tava gṛhe sadā 16 idaṃ caiva hayajñānaṃ tvadīyaṃ mayi tiṣṭhati tad upākartum icchāmi manyase yadi pārthiva 17 evam uktvā dadau vidyām ṛtuparṇāya naiṣadhaḥ sa ca tāṃ pratijagrāha vidhidṛṣṭena karmaṇā 18 tato gṛhyāśvahṛdayaṃ tadā bhāṅgasvarir nṛpaḥ sūtam anyam upādāya yayau svapuram eva hi 19 ṛtuparṇe pratigate nalo rājā viśāṃ pate nagare kuṇḍine kālaṃ nātidīrgham ivāvasat |
The Mahabharata in Sanskrit
Book 3
Chapter 77
|
1
बृहदश्व उवाच स मासम उष्य कौन्तेय भीमम आमन्त्र्य नैषधः पुराद अल्पपरीवारॊ जगाम निषधान परति 2 रथेनैकेन शुभ्रेण दन्तिभिः परिषॊडशैः पञ्चाशद्भिर हयैश चैव षट्शतैश च पदातिभिः 3 स कम्पयन्न इव महीं तवरमाणॊ महीपतिः परविवेशातिसंरब्धस तरसैव महामनाः 4 ततः पुष्करम आसाद्य वीरसेनसुतॊ नलः उवाच दीव्याव पुनर बहु वित्तं मयार्जितम 5 दमयन्ती च यच चान्यन मया वसु समर्जितम एष वै मम संन्यासस तव राज्यं तु पुष्कर 6 पुनः परवर्ततां दयूतम इति मे निश्चिता मतिः एकपाणेन भद्रं ते पराणयॊश च पणावहे 7 जित्वा परस्वम आहृत्य राज्यं वा यदि वा वसु परतिपाणः परदातव्यः परं हि धनम उच्यते 8 न चेद वाञ्छसि तद दयूतं युद्धद्यूतं परवर्तताम दवैरथेनास्तु वै शान्तिस तव वा मम वा नृप 9 वंशभॊज्यम इदं राज्यं मार्गितव्यं यथा तथा येन तेनाप्य उपायेन वृद्धानाम इति शासनम 10 दवयॊर एकतरे बुद्धिः करियताम अद्य पुष्कर कैतवेनाक्षवत्यां वा युद्धे वा नम्यतां धनुः 11 नैषधेनैवम उक्तस तु पुष्करः परहसन्न इव धरुवम आत्मजयं मत्वा परत्याह पृथिवीपतिम 12 दिष्ट्या तवयार्जितं वित्तं परतिपाणाय नैषध दिष्ट्या च दुष्कृतं कर्म दमयन्त्याः कषयं गतम दिष्ट्या च धरियसे राजन सदारॊ ऽरिनिबर्हण 13 धनेनानेन वैदर्भी जितेन समलंकृता माम उपस्थास्यति वयक्तं दिवि शक्रम इवाप्सराः 14 नित्यशॊ हि समरामि तवां परतीक्षामि च नैषध देवने च मम परीतिर न भवत्य असुहृद्गणैः 15 जित्वा तव अद्य वरारॊहां दमयन्तीम अनिन्दिताम कृतकृत्यॊ भविष्यामि सा हि मे नित्यशॊ हृदि 16 शरुत्वा तु तस्य ता वाचॊ बह्वबद्धप्रलापिनः इयेष स शिरश छेत्तुं खड्गेन कुपितॊ नलः 17 समयंस तु रॊषताम्राक्षस तम उवाच ततॊ नृपः पणावः किं वयाहरसे जित्वा वै वयाहरिष्यसि 18 ततः परावर्तत दयूतं पुष्करस्य नलस्य च एकपाणेन भद्रं ते नलेन स पराजितः स रत्नकॊशनिचयः पराणेन पणितॊ ऽपि च 19 जित्वा च पुष्करं राजा परहसन्न इदम अब्रवीत मम सर्वम इदं राज्यम अव्यग्रं हतकण्टकम 20 वैदर्भी न तवया शक्या राजापसद वीक्षितुम तस्यास तवं सपरीवारॊ मूढ दासत्वम आगतः 21 न तत तवया कृतं कर्म येनाहं निर्जितः पुरा कलिना तत कृतं कर्म तवं तु मूढ न बुध्यसे नाहं परकृतं दॊषं तवय्य आधास्ये कथं चन 22 यथासुखं तवं जीवस्व पराणान अभ्युत्सृजामि ते तथैव च मम परीतिस तवयि वीर न संशयः 23 सौभ्रात्रं चैव मे तवत्तॊ न कदा चित परहास्यति पुष्कर तवं हि मे भराता संजीवस्व शतं समाः 24 एवं नलः सान्त्वयित्वा भरातरं सत्यविक्रमः सवपुरं परेषयाम आस परिष्वज्य पुनः पुनः 25 सान्त्वितॊ नैषधेनैवं पुष्करः परत्युवाच तम पुण्यश्लॊकं तदा राजन्न अभिवाद्य कृताञ्जलिः 26 कीर्तिर अस्तु तवाक्षय्या जीव वर्षायुतं सुखी यॊ मे वितरसि पराणान अधिष्ठानं च पार्थिव 27 स तथा सत्कृतॊ राज्ञा मासम उष्य तदा नृपः परययौ सवपुरं हृष्टः पुष्करः सवजनावृतः 28 महत्या सेनया राजन विनीतैः परिचारिकैः भराजमान इवादित्यॊ वपुषा पुरुषर्षभ 29 परस्थाप्य पुष्करं राजा वित्तवन्तम अनामयम परविवेश पुरं शरीमान अत्यर्थम उपशॊभितम परविश्य सान्त्वयाम आस पौरांश च निषधाधिपः |
1
bṛhadaśva uvāca sa māsam uṣya kaunteya bhīmam āmantrya naiṣadhaḥ purād alpaparīvāro jagāma niṣadhān prati 2 rathenaikena śubhreṇa dantibhiḥ pariṣoḍaśaiḥ pañcāśadbhir hayaiś caiva ṣaṭśataiś ca padātibhiḥ 3 sa kampayann iva mahīṃ tvaramāṇo mahīpatiḥ praviveśātisaṃrabdhas tarasaiva mahāmanāḥ 4 tataḥ puṣkaram āsādya vīrasenasuto nalaḥ uvāca dīvyāva punar bahu vittaṃ mayārjitam 5 damayantī ca yac cānyan mayā vasu samarjitam eṣa vai mama saṃnyāsas tava rājyaṃ tu puṣkara 6 punaḥ pravartatāṃ dyūtam iti me niścitā matiḥ ekapāṇena bhadraṃ te prāṇayoś ca paṇāvahe 7 jitvā parasvam āhṛtya rājyaṃ vā yadi vā vasu pratipāṇaḥ pradātavyaḥ paraṃ hi dhanam ucyate 8 na ced vāñchasi tad dyūtaṃ yuddhadyūtaṃ pravartatām dvairathenāstu vai śāntis tava vā mama vā nṛpa 9 vaṃśabhojyam idaṃ rājyaṃ mārgitavyaṃ yathā tathā yena tenāpy upāyena vṛddhānām iti śāsanam 10 dvayor ekatare buddhiḥ kriyatām adya puṣkara kaitavenākṣavatyāṃ vā yuddhe vā namyatāṃ dhanuḥ 11 naiṣadhenaivam uktas tu puṣkaraḥ prahasann iva dhruvam ātmajayaṃ matvā pratyāha pṛthivīpatim 12 diṣṭyā tvayārjitaṃ vittaṃ pratipāṇāya naiṣadha diṣṭyā ca duṣkṛtaṃ karma damayantyāḥ kṣayaṃ gatam diṣṭyā ca dhriyase rājan sadāro 'rinibarhaṇa 13 dhanenānena vaidarbhī jitena samalaṃkṛtā mām upasthāsyati vyaktaṃ divi śakram ivāpsarāḥ 14 nityaśo hi smarāmi tvāṃ pratīkṣāmi ca naiṣadha devane ca mama prītir na bhavaty asuhṛdgaṇaiḥ 15 jitvā tv adya varārohāṃ damayantīm aninditām kṛtakṛtyo bhaviṣyāmi sā hi me nityaśo hṛdi 16 śrutvā tu tasya tā vāco bahvabaddhapralāpinaḥ iyeṣa sa śiraś chettuṃ khaḍgena kupito nalaḥ 17 smayaṃs tu roṣatāmrākṣas tam uvāca tato nṛpaḥ paṇāvaḥ kiṃ vyāharase jitvā vai vyāhariṣyasi 18 tataḥ prāvartata dyūtaṃ puṣkarasya nalasya ca ekapāṇena bhadraṃ te nalena sa parājitaḥ sa ratnakośanicayaḥ prāṇena paṇito 'pi ca 19 jitvā ca puṣkaraṃ rājā prahasann idam abravīt mama sarvam idaṃ rājyam avyagraṃ hatakaṇṭakam 20 vaidarbhī na tvayā śakyā rājāpasada vīkṣitum tasyās tvaṃ saparīvāro mūḍha dāsatvam āgataḥ 21 na tat tvayā kṛtaṃ karma yenāhaṃ nirjitaḥ purā kalinā tat kṛtaṃ karma tvaṃ tu mūḍha na budhyase nāhaṃ parakṛtaṃ doṣaṃ tvayy ādhāsye kathaṃ cana 22 yathāsukhaṃ tvaṃ jīvasva prāṇān abhyutsṛjāmi te tathaiva ca mama prītis tvayi vīra na saṃśayaḥ 23 saubhrātraṃ caiva me tvatto na kadā cit prahāsyati puṣkara tvaṃ hi me bhrātā saṃjīvasva śataṃ samāḥ 24 evaṃ nalaḥ sāntvayitvā bhrātaraṃ satyavikramaḥ svapuraṃ preṣayām āsa pariṣvajya punaḥ punaḥ 25 sāntvito naiṣadhenaivaṃ puṣkaraḥ pratyuvāca tam puṇyaślokaṃ tadā rājann abhivādya kṛtāñjaliḥ 26 kīrtir astu tavākṣayyā jīva varṣāyutaṃ sukhī yo me vitarasi prāṇān adhiṣṭhānaṃ ca pārthiva 27 sa tathā satkṛto rājñā māsam uṣya tadā nṛpaḥ prayayau svapuraṃ hṛṣṭaḥ puṣkaraḥ svajanāvṛtaḥ 28 mahatyā senayā rājan vinītaiḥ paricārikaiḥ bhrājamāna ivādityo vapuṣā puruṣarṣabha 29 prasthāpya puṣkaraṃ rājā vittavantam anāmayam praviveśa puraṃ śrīmān atyartham upaśobhitam praviśya sāntvayām āsa paurāṃś ca niṣadhādhipaḥ |
The Mahabharata in Sanskrit
Book 3
Chapter 78
|
1
बृहदश्व उवाच परशान्ते तु पुरे हृष्टे संप्रवृत्ते महॊत्सवे महत्या सेनया राजा दमयन्तीम उपानयत 2 दमयन्तीम अपि पिता सत्कृत्य परवीरहा परस्थापयद अमेयात्मा भीमॊ भीमपराक्रमः 3 आगतायां तु वैदर्भ्यां सपुत्रायां नलॊ नृपः वर्तयाम आस मुदितॊ देवराड इव नन्दने 4 तथा परकाशतां यातॊ जम्बूद्वीपे ऽथ राजसु पुनः सवे चावसद राज्ये परत्याहृत्य महायशाः 5 ईजे च विविधैर यज्ञैर विधिवत सवाप्तदक्षिणैः तथा तवम अपि राजेन्द्र ससुहृद वक्ष्यसे ऽचिरात 6 दुःखम एतादृशं पराप्तॊ नलः परपुरंजयः देवनेन नरश्रेष्ठ सभार्यॊ भरतर्षभ 7 एकाकिनैव सुमहन नलेन पृथिवीपते दुःखम आसादितं घॊरं पराप्तश चाभ्युदयः पुनः 8 तवं पुनर भरातृसहितः कृष्णया चैव पाण्डव रमसे ऽसमिन महारण्ये धर्मम एवानुचिन्तयन 9 बराह्मणैश च महाभागैर वेदवेदाङ्गपारगैः नित्यम अन्वास्यसे राजंस तत्र का परिदेवना 10 इतिहासम इमं चापि कलिनाशनम उच्यते शक्यम आश्वासितुं शरुत्वा तवद्विधेन विशां पते 11 अस्थिरत्वं च संचिन्त्य पुरुषार्थस्य नित्यदा तस्याये च वयये चैव समाश्वसिहि मा शुचः 12 ये चेदं कथयिष्यन्ति नलस्य चरितं महत शरॊष्यन्ति चाप्य अभीक्ष्णं वै नालक्ष्मीस तान भजिष्यति अर्थास तस्यॊपपत्स्यन्ते धन्यतां च गमिष्यति 13 इतिहासम इमं शरुत्वा पुराणं शश्वद उत्तमम पुत्रान पौत्रान पशूंश चैव वेत्स्यते नृषु चाग्र्यताम अरॊगः परीतिमांश चैव भविष्यति न संशयः 14 भयं पश्यसि यच च तवम आह्वयिष्यति मां पुनः अक्षज्ञ इति तत ते ऽहं नाशयिष्यामि पार्थिव 15 वेदाक्षहृदयं कृत्स्नम अहं सत्यपराक्रम उपपद्यस्व कौन्तेय परसन्नॊ ऽहं बरवीमि ते 16 वैशंपायन उवाच ततॊ हृष्टमना राजा बृहदश्वम उवाच ह भगवन्न अक्षहृदयं जञातुम इच्छामि तत्त्वतः 17 ततॊ ऽकषहृदयं परादात पाण्डवाय महात्मने दत्त्वा चाश्वशिरॊ ऽगच्छद उपस्प्रष्टुं महातपः 18 बृहदश्वे गते पार्थम अश्रौषीत सव्यसाचिनम वर्तमानं तपस्य उग्रे वायुभक्षं मनीषिणम 19 बराह्मणेभ्यस तपस्विभ्यः संपतद्भ्यस ततस ततः तीर्थशैलवरेभ्यश च समेतेभ्यॊ दृढव्रतः 20 इति पार्थॊ महाबाहुर दुरापं तप आस्थितः न तथा दृष्टपूर्वॊ ऽनयः कश चिद उग्रतपा इति 21 यथा धनंजयः पार्थस तपस्वी नियतव्रतः मुनिर एकचरः शरीमान धर्मॊ विग्रहवान इव 22 तं शरुत्वा पाण्डवॊ राजंस तप्यमानं महावने अन्वशॊचत कौन्तेयः परियं वै भरातरं जयम 23 दह्यमानेन तु हृदा शरणार्थी महावने बराह्मणान विविधज्ञानान पर्यपृच्छद युधिष्ठिरः |
1
bṛhadaśva uvāca praśānte tu pure hṛṣṭe saṃpravṛtte mahotsave mahatyā senayā rājā damayantīm upānayat 2 damayantīm api pitā satkṛtya paravīrahā prasthāpayad ameyātmā bhīmo bhīmaparākramaḥ 3 āgatāyāṃ tu vaidarbhyāṃ saputrāyāṃ nalo nṛpaḥ vartayām āsa mudito devarāḍ iva nandane 4 tathā prakāśatāṃ yāto jambūdvīpe 'tha rājasu punaḥ sve cāvasad rājye pratyāhṛtya mahāyaśāḥ 5 īje ca vividhair yajñair vidhivat svāptadakṣiṇaiḥ tathā tvam api rājendra sasuhṛd vakṣyase 'cirāt 6 duḥkham etādṛśaṃ prāpto nalaḥ parapuraṃjayaḥ devanena naraśreṣṭha sabhāryo bharatarṣabha 7 ekākinaiva sumahan nalena pṛthivīpate duḥkham āsāditaṃ ghoraṃ prāptaś cābhyudayaḥ punaḥ 8 tvaṃ punar bhrātṛsahitaḥ kṛṣṇayā caiva pāṇḍava ramase 'smin mahāraṇye dharmam evānucintayan 9 brāhmaṇaiś ca mahābhāgair vedavedāṅgapāragaiḥ nityam anvāsyase rājaṃs tatra kā paridevanā 10 itihāsam imaṃ cāpi kalināśanam ucyate śakyam āśvāsituṃ śrutvā tvadvidhena viśāṃ pate 11 asthiratvaṃ ca saṃcintya puruṣārthasya nityadā tasyāye ca vyaye caiva samāśvasihi mā śucaḥ 12 ye cedaṃ kathayiṣyanti nalasya caritaṃ mahat śroṣyanti cāpy abhīkṣṇaṃ vai nālakṣmīs tān bhajiṣyati arthās tasyopapatsyante dhanyatāṃ ca gamiṣyati 13 itihāsam imaṃ śrutvā purāṇaṃ śaśvad uttamam putrān pautrān paśūṃś caiva vetsyate nṛṣu cāgryatām arogaḥ prītimāṃś caiva bhaviṣyati na saṃśayaḥ 14 bhayaṃ paśyasi yac ca tvam āhvayiṣyati māṃ punaḥ akṣajña iti tat te 'haṃ nāśayiṣyāmi pārthiva 15 vedākṣahṛdayaṃ kṛtsnam ahaṃ satyaparākrama upapadyasva kaunteya prasanno 'haṃ bravīmi te 16 vaiśaṃpāyana uvāca tato hṛṣṭamanā rājā bṛhadaśvam uvāca ha bhagavann akṣahṛdayaṃ jñātum icchāmi tattvataḥ 17 tato 'kṣahṛdayaṃ prādāt pāṇḍavāya mahātmane dattvā cāśvaśiro 'gacchad upaspraṣṭuṃ mahātapaḥ 18 bṛhadaśve gate pārtham aśrauṣīt savyasācinam vartamānaṃ tapasy ugre vāyubhakṣaṃ manīṣiṇam 19 brāhmaṇebhyas tapasvibhyaḥ saṃpatadbhyas tatas tataḥ tīrthaśailavarebhyaś ca sametebhyo dṛḍhavrataḥ 20 iti pārtho mahābāhur durāpaṃ tapa āsthitaḥ na tathā dṛṣṭapūrvo 'nyaḥ kaś cid ugratapā iti 21 yathā dhanaṃjayaḥ pārthas tapasvī niyatavrataḥ munir ekacaraḥ śrīmān dharmo vigrahavān iva 22 taṃ śrutvā pāṇḍavo rājaṃs tapyamānaṃ mahāvane anvaśocata kaunteyaḥ priyaṃ vai bhrātaraṃ jayam 23 dahyamānena tu hṛdā śaraṇārthī mahāvane brāhmaṇān vividhajñānān paryapṛcchad yudhiṣṭhiraḥ |
The Mahabharata in Sanskrit
Book 3
Chapter 79
|
1
[ज] भगवन काम्यकात पार्थे गते मे परपिता महे पाण्डवाः किम अकुर्वन्त तम ऋते सव्यसाचिनम 2 स हि तेषां महेष्वासॊ गतिर आसीद अनीकजित आदित्यानां यथा विष्णुस तथैव परतिभाति मे 3 तेनेन्द्र समवीर्येण संग्रामेष्व अनिवर्तिना विना भूता वने वीराः कथम आसन पिता महाः 4 [व] गते तु काम्यकात तात पाण्डवे सव्यसाचिनि बभूवुः कौरवेयास ते दुःखशॊकपरायणाः 5 आक्षिप्त सूत्रा मणयश छिन्नपक्षा इव दविजाः अप्रीत मनसः सर्वे बभूवुर अथ पाण्डवाः 6 वनं च तद अभूत तेन हीनम अक्लिष्टकर्मणा कुवेरेण यथा हीनं वनं चैत्ररथं तथा 7 तम ऋते पुरुषव्याघ्रं पाण्डवा जनमेजय मुदम अप्राप्नुवन्तॊ वै काम्यके नयवसंस तदा 8 बराह्मणार्थे पराक्रान्ताः शुद्धैर बाणैर महारथाः निघ्नन्तॊ भरतश्रेष्ठ मेध्यान बहुविधान मृगान 9 नित्यं हि पुरुषव्याघ्रा वन्याहारम अरिंदमाः विप्रसृत्य समाहृत्य बराह्मणेभ्यॊ नयवेदयन 10 एवं ते नयवसंस तत्र सॊत्कण्ठाः पुरुषर्षभाः अहृष्ट मनसः सर्वे गते राजन धनंजये 11 अथ विप्रॊषितं वीरं पाञ्चाली मध्यमं पतिम समरन्ती पाण्डवश्रेष्ठम इदं वचनम अब्रवीत 12 यॊ ऽरजुनेनार्जुनस तुल्यॊ दविबाहुर बहु बाहुना तम ऋते पाण्डवश्रेष्ठं वनं न परतिभाति मे शून्याम इव च पश्यामि तत्र तत्र महीम इमाम 13 बह्वाश्चर्यम इदं चापि वनं कुसुमितद्रुमम न तथा रमणीयं मे तम ऋते सव्यसाचिनम 14 नीलाम्बुदसमप्रख्यं मत्तमातङ्गविक्रमम तम ऋते पुण्डरीकाक्षं काम्यकं नातिभाति मे 15 यस्य सम धनुषॊ घॊषः शरूयते ऽशनिनिस्वनः न लभे शर्म तं राजन समरन्ती सव्यसाचिनम 16 तथा लालप्यमानां तां निशम्य परवीरहा भीमसेनॊ महाराज दरौपदीम इदम अब्रवीत 17 मनः परीतिकरं भद्रे यद बरवीषि सुमध्यमे तन मे परीणाति हृदयम अमृतप्राशनॊपमम 18 यस्य दीर्घौ समौ पीनौ भुजौ परिघसंनिभौ मौर्वी कृतकिणौ वृत्तौ खड्गायुध गदाधरौ 19 निष्काङ्गदकृतापीडौ पञ्चशीर्षाव इवॊरगौ तम ऋते पुरुषव्याघ्रं नष्टसूर्यम इदं वनम 20 यम आश्रित्य महाबाहुं पाञ्चालाः कुरवस तथा सुराणाम अपि यत्तानां पृतनासु न बिभ्यति 21 यस्य बाहू समाश्रित्य वयं सर्वे महात्मनाः मन्यामहे जितान आजौ परान पराप्तां च मेदिनीम 22 तम ऋते फल्गुनं वीरं न लभे काम्यके धृतिम शून्याम इव च पश्यामि तत्र तत्र महीम इमाम 23 [नकुल] य उदीचीं दिशं गत्वा जित्वा युधि महाबलान गन्धर्वमुख्याञ शतशॊ हयाँल लेभे स वासविः 24 राजंस तित्तिरि कल्माषाञ शरीमान अनिलरंहसः परादाद भरात्रे परियः परेम्ना राजसूये महाक्रतौ 25 तम ऋते भीमधन्वानं भीमाद अवरजं वने कामये काम्यके वासं नेदानीम अमरॊपमम 26 [सहदेव] यॊ धनानि च कन्याश च युधि जित्वा महारथान आजहार पुरा राज्ञे राजसूये महाक्रतौ 27 यः समेतान मृधे जित्वा यादवान अमितद्युतिः सुभद्राम आजहारैकॊ वासुदेवस्य संमते 28 तस्य जिष्णॊर बृसीं दृष्ट्वा शून्याम उपनिवेशने हृदयं मे महाराज न शाम्यति कदा चन 29 वनाद अस्माद विवासं तु रॊचये ऽहम अरिंदम न हि नस तम ऋते वीरं रमणीयम इदं वनम |
1
[j] bhagavan kāmyakāt pārthe gate me prapitā mahe pāṇḍavāḥ kim akurvanta tam ṛte savyasācinam 2 sa hi teṣāṃ maheṣvāso gatir āsīd anīkajit ādityānāṃ yathā viṣṇus tathaiva pratibhāti me 3 tenendra samavīryeṇa saṃgrāmeṣv anivartinā vinā bhūtā vane vīrāḥ katham āsan pitā mahāḥ 4 [v] gate tu kāmyakāt tāta pāṇḍave savyasācini babhūvuḥ kauraveyās te duḥkhaśokaparāyaṇāḥ 5 ākṣipta sūtrā maṇayaś chinnapakṣā iva dvijāḥ aprīta manasaḥ sarve babhūvur atha pāṇḍavāḥ 6 vanaṃ ca tad abhūt tena hīnam akliṣṭakarmaṇā kuvereṇa yathā hīnaṃ vanaṃ caitrarathaṃ tathā 7 tam ṛte puruṣavyāghraṃ pāṇḍavā janamejaya mudam aprāpnuvanto vai kāmyake nyavasaṃs tadā 8 brāhmaṇārthe parākrāntāḥ śuddhair bāṇair mahārathāḥ nighnanto bharataśreṣṭha medhyān bahuvidhān mṛgān 9 nityaṃ hi puruṣavyāghrā vanyāhāram ariṃdamāḥ viprasṛtya samāhṛtya brāhmaṇebhyo nyavedayan 10 evaṃ te nyavasaṃs tatra sotkaṇṭhāḥ puruṣarṣabhāḥ ahṛṣṭa manasaḥ sarve gate rājan dhanaṃjaye 11 atha viproṣitaṃ vīraṃ pāñcālī madhyamaṃ patim smarantī pāṇḍavaśreṣṭham idaṃ vacanam abravīt 12 yo 'rjunenārjunas tulyo dvibāhur bahu bāhunā tam ṛte pāṇḍavaśreṣṭhaṃ vanaṃ na pratibhāti me śūnyām iva ca paśyāmi tatra tatra mahīm imām 13 bahvāścaryam idaṃ cāpi vanaṃ kusumitadrumam na tathā ramaṇīyaṃ me tam ṛte savyasācinam 14 nīlāmbudasamaprakhyaṃ mattamātaṅgavikramam tam ṛte puṇḍarīkākṣaṃ kāmyakaṃ nātibhāti me 15 yasya sma dhanuṣo ghoṣaḥ śrūyate 'śaninisvanaḥ na labhe śarma taṃ rājan smarantī savyasācinam 16 tathā lālapyamānāṃ tāṃ niśamya paravīrahā bhīmaseno mahārāja draupadīm idam abravīt 17 manaḥ prītikaraṃ bhadre yad bravīṣi sumadhyame tan me prīṇāti hṛdayam amṛtaprāśanopamam 18 yasya dīrghau samau pīnau bhujau parighasaṃnibhau maurvī kṛtakiṇau vṛttau khaḍgāyudha gadādharau 19 niṣkāṅgadakṛtāpīḍau pañcaśīrṣāv ivoragau tam ṛte puruṣavyāghraṃ naṣṭasūryam idaṃ vanam 20 yam āśritya mahābāhuṃ pāñcālāḥ kuravas tathā surāṇām api yattānāṃ pṛtanāsu na bibhyati 21 yasya bāhū samāśritya vayaṃ sarve mahātmanāḥ manyāmahe jitān ājau parān prāptāṃ ca medinīm 22 tam ṛte phalgunaṃ vīraṃ na labhe kāmyake dhṛtim śūnyām iva ca paśyāmi tatra tatra mahīm imām 23 [nakula] ya udīcīṃ diśaṃ gatvā jitvā yudhi mahābalān gandharvamukhyāñ śataśo hayāṁl lebhe sa vāsaviḥ 24 rājaṃs tittiri kalmāṣāñ śrīmān anilaraṃhasaḥ prādād bhrātre priyaḥ premnā rājasūye mahākratau 25 tam ṛte bhīmadhanvānaṃ bhīmād avarajaṃ vane kāmaye kāmyake vāsaṃ nedānīm amaropamam 26 [sahadeva] yo dhanāni ca kanyāś ca yudhi jitvā mahārathān ājahāra purā rājñe rājasūye mahākratau 27 yaḥ sametān mṛdhe jitvā yādavān amitadyutiḥ subhadrām ājahāraiko vāsudevasya saṃmate 28 tasya jiṣṇor bṛsīṃ dṛṣṭvā śūnyām upaniveśane hṛdayaṃ me mahārāja na śāmyati kadā cana 29 vanād asmād vivāsaṃ tu rocaye 'ham ariṃdama na hi nas tam ṛte vīraṃ ramaṇīyam idaṃ vanam |
The Mahabharata in Sanskrit
Book 3
Chapter 80
|
1
[व] धनंजयॊत्सुकास ते तु वने तस्मिन महारथाः नयवसन्त महाभागा दरौपद्या सह पाण्डवाः 2 अथापश्यन महात्मानं देवर्षिं तत्र नारदम दीप्यमानं शरिया बराह्म्या दीप्ताग्निसमतेजसम 3 स तैः परिवृतः शरीमान भरातृभिः कुरुसत्तमः विबभाव अतिदीप्तौजॊ देवैर इव शतक्रतुः 4 यथा च वेदान सावित्री याज्ञसेनी तथा सती न जहौ धर्मतः पार्थान मेरुम अर्कप्रभा यथा 5 परतिगृह्य तु तां पूजां नारदॊ भगवान ऋषिः आश्वासयद धर्मसुतं युक्तरूपम इवानघ 6 उवाच च महात्मानं धर्मराजं युधिष्ठिरम बरूहि धर्मभृतां शरेष्ठ केनार्थः किं ददामि ते 7 अथ धर्मसुतॊ राजा परणम्य भरातृभिः सह उवाच पराञ्जलिर वाक्यं नारदं देव संमितम 8 तवयि तुष्टे महाभाग सर्वलॊकाभिपूजिते कृतम इत्य एव मन्ये ऽहं परसादात तव सुव्रत 9 यदि तव अहम अनुग्राह्यॊ भरातृभिः सहितॊ ऽनघ संदेहं मे मुनिश्रेष्ठ हृदिस्थं छेत्तुम अर्हसि 10 परदक्षिणं यः कुरुते पृथिवीं तीर्थतत्परः किं फलं तस्य कार्त्स्न्येन तद बरह्मन वक्तुम अर्हसि 11 [न] शृणु राजन्न अवहितॊ यथा भीष्मेण भारत पुलस्त्यस्य सकाशाद वै सर्वम एतद उपश्रुतम 12 पुरा भागीरथी तीरे भीष्मॊ धर्मभृतां वरः पित्र्यं वरतं समास्थाय नयवसन मुनिवत तदा 13 शुभे देशे महाराज पुण्ये देवर्षिसेविते गङ्गा दवारे महातेजॊ देवगन्धर्वसेविते 14 स पितॄंस तर्पयाम आस देवांश च परमद्युतिः ऋषींश च तॊषयाम आस विधिदृष्टेन कर्मणा 15 कस्य चित तव अथ कालस्य जपन्न एव महातपाः ददर्शाद्भुतसंकाशं पुलस्त्यम ऋषिसत्तमम 16 स तं दृष्ट्वॊग्र तपसं दीप्यमानम इव शरिया परहर्षम अतुलं लेभे विस्मयं च परं ययौ 17 उपस्थितं महाराज पूजयाम आस भारत भीष्मॊ धर्मभृतां शरेष्ठॊ विधिदृष्टेन कर्मणा 18 शिरसा चार्घ्यम आदाय शुचिः परयत मानसः नाम संकीर्तयाम आस तस्मिन बरह्मर्षिसत्तमे 19 भीष्मॊ ऽहम अस्मि भद्रं ते दासॊ ऽसमि तव सुव्रत तव संदर्शनाद एव मुक्तॊ ऽहं सर्वकिल्बिषैः 20 एवम उक्त्वा महाराज भीष्मॊ धर्मभृतां वरः वाग्यतः पराञ्जलिर भूत्वा तूष्णीम आसीद युधिष्ठिर 21 तं दृष्ट्वा नियमेनाथ सवाध्यायाम्नाय कर्शितम भीष्मं कुरु कुलश्रेष्ठं मुनिः परीतमनाभवत 22 [पुलस्त्य] अनेन तव धर्मज्ञ परश्रयेण दमेन च सत्येन च महाभाग तुष्टॊ ऽसमि तव सर्वशः 23 यस्येदृशस ते धर्मॊ ऽयं पितृभक्त्याश्रितॊ ऽनघ तेन पश्यसि मां पुत्र परीतिश चापि मम तवयि 24 अमॊघदर्शी भीष्माहं बरूहि किं करवाणि ते यद वक्ष्यसि कुरुश्रेष्ठ तस्य दातास्मि ते ऽनघ 25 [भ] परीते तवयि महाभाग सर्वलॊकाभिपूजिते कृतम इत्य एव मन्ये ऽहं यद अहं दृष्टवान परभुम 26 यदि तव अहम अनुग्राह्यस तव धर्मभृतां वर वक्ष्यामि हृत्स्थं संदेहं तन मे तवं वक्तुम अर्हसि 27 अस्ति मे भगवन कश चित तीर्थेभ्यॊ धर्मसंशयः तम अहं शरॊतुम इच्छामि पृथक संकीर्तितं तवया 28 परदक्षिणं यः पृथिवीं करॊत्य अमितविक्रम किं फलं तस्य विप्रर्षे तन मे बरूहि तपॊधन 29 [प] हन्त ते ऽहं परवक्ष्यामि यद ऋषीणां परायणम तद एकाग्रमनास तात शृणु तीर्थेषु यत फलम 30 यस्य हस्तौ च पादौ च मनश चैव सुसंयतम विद्या तपश च कीर्तिश च स तीर्थफलम अश्नुते 31 परतिग्रहाद उपावृत्तः संतुष्टॊ नियतः शुचिः अहं कारनिवृत्तिश च स तीर्थफलम अश्नुते 32 अकल्ककॊ निरारम्भॊ लघ्व आहारॊ जितेन्द्रियः विमुक्तः सर्वदॊषैर यः स तीर्थफलम अश्नुते 33 अक्रॊधनश च राजेन्द्र सत्यशीलॊ दृढव्रतः आत्मॊपमश च भूतेषु स तीर्थफलम अश्नुते 34 ऋषिभिः करतवः परॊक्ता वेदेष्व इह यथाक्रमम फलं चैव यथातत्त्वं परेत्य चेह च सर्वशः 35 न ते शक्या दरिद्रेण यज्ञाः पराप्तुं महीपते बहूपकरणा यज्ञा नाना संभारविस्तराः 36 पराप्यन्ते पार्थिवैर एते समृद्धैर वा नरैः कव चित नार्थान्य ऊनॊपकरणैर एकात्मभिर असंहतैः 37 यॊ दरिद्रैर अपि विधिः शक्यः पराप्तुं नरेश्वर तुल्यॊ यज्ञफलैः पुण्यैस तं निबॊध युधां वर 38 ऋषीणां परमं गुह्यम इदं भरतसत्तम तीर्थाभिगमनं पुण्यं यज्ञैर अपि विशिष्यते 39 अनुपॊष्य तरिरात्राणि तीर्थान्य अनभिगम्य च अदत्त्वा काञ्चनं गाश च दरिद्रॊ नाम जायते 40 अग्निष्टॊमादिभिर यज्ञैर इष्ट्वा विपुलदक्षिणैः न तत फलम अवाप्नॊति तीर्थाभिगमनेन यत 41 नृलॊके देवदेवस्य तीर्थं तरैलॊक्यविश्रुतम पुष्करं नाम विख्यातं महाभागः समाविशेत 42 दशकॊटिसहस्राणि तीर्थानां वै महीपते सांनिध्यं पुष्करे येषां तरिसंध्यं कुरुनन्दन 43 आदित्या वसवॊ रुद्राः साध्याश च स मरुद्गणाः गन्धर्वाप्सरसश चैव नित्यं संनिहिता विभॊ 44 यत्र देवास तपस तप्त्वा दैत्या बरह्मर्षयस तथा दिव्ययॊगा महाराज पुण्येन महतान्विताः 45 मनसाप्य अभिकामस्य पुष्कराणि मनस्विनः पूयन्ते सर्वपापानि नाकपृष्ठे च पूज्यते 46 तस्मिंस तीर्थे महाभाग नित्यम एव पिता महः उवास परमप्रीतॊ देवदानव संम्मतः 47 पुष्करेषु महाभाग देवाः सर्षिपुरॊगमाः सिद्धिं समभिसंप्राप्ताः पुण्येन महतान्विताः 48 तत्राभिषेकं यः कुर्यात पितृदेवार्चने रतः अश्वमेधं दशगुणं परवदन्ति मनीषिणः 49 अप्य एकं भॊजयेद विप्रं पुष्करारण्यम आश्रितः तेनासौ कर्मणा भीष्म परेत्य चेह च मॊदते 50 शाकमूलफलैर वापि येन वर्तयते सवयम तद वै दद्याद बराह्मणाय शरद्धावान अनसूयकः तेनैव पराप्नुयात पराज्ञॊ हयमेध फलं नरः 51 बराह्मणः कषत्रियॊ वैश्यः शूद्रॊ वा राजसत्तम न वियॊनिं वरजन्त्य एते सनातास तीर्थे महात्मनः 52 कार्तिक्यां तु विशेषेण यॊ ऽभिगच्छेत पुष्करम फलं तत्राक्षयं तस्य वर्धते भरतर्षभ 53 सायंप्रातः समरेद यस तु पुष्कराणि कृताञ्जलिः उपस्पृष्टं भवेत तेन सर्वतीर्थेषु भारत पराप्नुयाच च नरॊ लॊकान बरह्मणः सदने ऽकषयान 54 जन्मप्रभृति यत पापं सत्रियॊ वा पुरुषस्य वा पुष्करे सनातमात्रस्य सर्वम एव परणश्यति 55 यथा सुराणां सर्वेषाम आदिस तु मधुसूदनः तथैव पुष्करं राजंस तीर्थानाम आदिर उच्यते 56 उष्य दवादश वर्षाणि पुष्करे नियतः शुचिः करतून सर्वान अवाप्नॊति बरह्मलॊकं च गच्छति 57 यस तु वर्षशतं पूर्णम अग्निहॊत्रम उपासते कार्तिकीं वा वसेद एकां पुष्करे समम एव तत 58 पुष्करं पुष्करं गन्तुं दुष्करं पुष्करे तपः दुष्करं पुष्करे दानं वस्तुं चैव सुदुष्करम 59 उष्य दवादश रात्रं तु नियतॊ नियताशनः परदक्षिणम उपावृत्तॊ जम्बू मार्गं समाविशेत 60 जम्बू मार्गं समाविश्य देवर्षिपितृसेवितम अश्वमेधम अवाप्नॊति विष्णुलॊकं च गच्छति 61 तत्रॊष्य रजनीः पञ्च षष्ठ कालक्षमी नरः न दुर्गतिम अवाप्नॊति सिद्धिं पराप्नॊति चॊत्तमाम 62 जम्बू मार्गाद उपावृत्तॊ गच्छेत तण्डुलिकाश्रमम न दुर्गतिम अवाप्नॊति सवर्गलॊके च पूज्यते 63 अगस्य सर आसाद्य पितृदेवार्चने रतः तरिरात्रॊपॊषितॊ राजन्न अग्निष्टॊम फलं लभेत 64 शाकवृत्तिः फलैर वापि कौमारं विन्दते पदम कण्वाश्रमं समासाद्य शरीजुष्टं लॊकपूजितम 65 धर्मारण्यं हि तत पुण्यम आद्यं च भरतर्षभ यत्र परविष्टमात्रॊ वै पापेभ्यॊ विप्रमुच्यते 66 अर्चयित्वा पितॄन देवान नियतॊ नियताशनः सर्वकामसमृद्धस्य यज्ञस्य फलम अश्नुते 67 परदक्षिणं ततः कृत्वा ययाति पतनं वरजेत हयमेधस्य यज्ञस्य फलं पराप्नॊति तत्र वै 68 महाकालं ततॊ गच्छेन नियतॊ नियताशनः कॊटितीर्थम उपस्पृश्य हयमेध फलं लभेत 69 ततॊ गच्छेत धर्मज्ञ पुण्यस्थानम उमापतेः नाम्ना भद्र वटं नाम तरिषु लॊकेषु विश्रुतम 70 तत्राभिगम्य चेशानं गॊसहस्रफलं लभेत महादेव परसादाच च गाणपत्यम अवाप्नुयात 71 नर्मदाम अथ चासाद्य नदीं तरैलॊक्यविश्रुताम तर्पयित्वा पितॄन देवान अग्निष्टॊम फलं लभेत 72 दक्षिणं सिन्धुम आसाद्य बरह्म चारी जितेन्द्रियः अग्निष्टॊमम अवाप्नॊति विमानं चाधिरॊहति 73 चर्मण्वतीं समासाद्य नियतॊ नियताशनः रन्ति देवाभ्यनुज्ञातॊ अग्निष्टॊम फलं लभेत 74 ततॊ गच्छेत धर्मज्ञ हिमवत्सुतम अर्बुदम पृथिव्यां यत्र वै छिद्रं पूर्वम आसीद युधिष्ठिर 75 तत्राश्रमॊ वसिष्ठस्य तरिषु लॊकेषु विश्रुतः तत्रॊष्य रजनीम एकां गॊसहस्रफलं लभेत 76 पिङ्गा तीर्थम उपस्पृश्य बरह्म चारी जितेन्द्रियः कपिलानां नरव्याघ्र शतस्य फलम अश्नुते 77 ततॊ गच्छेत धर्मज्ञ परभासं लॊकविश्रुतम यत्र संनिहितॊ नित्यं सवयम एव हुताशनः देवतानां मुखं वीर अनलॊ ऽनिलसारथिः 78 तस्मिंस तीर्थवरे सनात्वा शुचिः परयत मानसः अग्निष्टॊमातिरात्राभ्यां फलं पराप्नॊति मानवः 79 ततॊ गत्वा सरस्वत्याः सागरस्य च संगमे गॊसहस्रफलं पराप्य सवर्गलॊके महीयते दीप्यमानॊ ऽगनिवन नित्यं परभया भरतर्षभ 80 तरिरात्रम उषितस तत्र तर्पयेत पितृदेवताः परभासते यथा सॊमॊ अश्वमेधं च विन्दति 81 वरदानं ततॊ गच्छेत तीर्थं भरतसत्तम विष्णॊर दुर्वाससा यत्र वरॊ दत्तॊ युधिष्ठिर 82 वरदाने नरः सनात्वा गॊसहस्रफलं लभेत ततॊ दवारवतीं गच्छेन नियतॊ नियताशनः पिण्डारके नरः सनात्वा लभेद बहुसुवर्णकम 83 तस्मिंस तीर्थे महाभाग पद्मलक्षणलक्षिताः अद्यापि मुद्रा दृश्यन्ते तद अद्भुतम अरिंदम 84 तरिशूलाङ्कानि पद्मानि दृश्यन्ते कुरुनन्दन महादेवस्य सांनिध्यं तत्रैव भरतर्षभ 85 सागरस्य च सिन्धॊश च संगमं पराप्य भारत तीर्थे सलिलराजस्य सनात्वा परयत मानसः 86 तर्पयित्वा पितॄन देवान ऋषींश च भरतर्षभ पराप्नॊति वारुणं लॊकं दीप्यमानः सवतेजसा 87 शङ्कुकर्णेश्वरं देवम अर्चयित्वा युधिष्ठिर अश्वमेधं दशगुणं परवदन्ति मनीषिणः 88 परदक्षिणम उपावृत्य गच्छेत भरतर्षभ तीर्थं कुरु वरश्रेष्ठ तरिषु लॊकेषु विश्रुतम दृमीति नाम्ना विख्यातं सर्वपापप्रमॊचनम 89 यत्र बरह्मादयॊ देवा उपासन्ते महेश्वरम तत्र सनात्वार्चयित्वा च रुद्रं देवगणैर वृतम जन्मप्रभृति पापानि कृतानि नुदते नरः 90 दृमी चात्र नरश्रेष्ठ सर्वदेवैर अभिष्टुता तत्र सनात्वा नरव्याघ्र हयमेधम अवाप्नुयात 91 जित्वा यत्र महाप्राज्ञ विष्णुना परभ विष्णुना पुरा शौचं कृतं राजन हत्वा दैवतकण्टकान 92 ततॊ गच्छेत धर्मज्ञ वसॊर धाराम अभिष्टुताम गमनाद एव तस्यां हि हयमेधम अवाप्नुयात 93 सनात्वा कुरु वरश्रेष्ठ परयतात्मा तु मानवः तर्प्य देवान पितॄंश चैव विष्णुलॊके महीयते 94 तीर्थं चात्र परं पुण्यं वसूनां भरतर्षभ तत्र सनात्वा च पीत्वा च वसूनां संमतॊ भवेत 95 सिन्धूत्तमम इति खयातं सर्वपापप्रणाशनम तत्र सनात्वा नरश्रेष्ठ लभेद बहुसुवर्णकम 96 बरह्म तुङ्गं समासाद्य शुचिः परयत मानसः बरह्मलॊकम अवाप्नॊति सुकृती विरजा नरः 97 कुमारिकाणां शक्रस्य तीर्थं सिद्धनिषेवितम तत्र सनात्वा नरः कषिप्रं शक्र लॊकम अवाप्नुयात 98 रेणुकायाश च तत्रैव तीर्थं देव निषेवितम तत्र सनात्वा भवेद विप्रॊ विमलश चन्द्रमा यथा 99 अथ पञ्चनदं गत्वा नियतॊ नियताशनः पञ्च यज्ञान अवाप्नॊति करमशॊ ये ऽनुकीर्तिताः 100 ततॊ गच्छेत धर्मज्ञ भीमायाः सथानम उत्तमम तत्र सनात्वा तु यॊन्यां वै नरॊ भरतसत्तम 101 देव्याः पुत्रॊ भवेद राजंस तप्तकुण्डलविग्रहः गवां शतसहस्रस्य फलं चैवाप्नुयान महत 102 गिरिमुञ्जं समासाद्य तरिषु लॊकेषु विश्रुतम पिता महं नमस्कृत्य गॊसहस्रफलं लभेत 103 ततॊ गच्छेत धर्मज्ञ विमलं तीर्थम उत्तमम अद्यापि यत्र दृश्यन्ते मत्स्याः सौवर्णराजताः 104 तत्र सनात्वा नरश्रेष्ठ वाजपेयम अवाप्नुयात सर्वपापविशुद्धात्मा गच्छेच च परमां गतिम 105 ततॊ गच्छेत मलदां तरिषु लॊकेषु विश्रुताम पश्चिमायां तु संध्यायाम उपस्पृश्य यथाविधि 106 चरुं नरेन्द्र सप्तार्चेर यथाशक्ति निवेदयेत पितॄणाम अक्षयं दानं परवदन्ति मनीषिणः 107 गवां शतसहस्रेण राजसूय शतेन च अश्वमेध सहस्रेण शरेयान सप्तार्चिषश चरुः 108 ततॊ निवृत्तॊ राजेन्द्र वस्त्रा पदम अथाविशेत अभिगम्य महादेवम अश्वमेध फलं लभेत 109 मणिमन्तं समासाद्य बरह्म चारी समाहितः एकरात्रॊषितॊ राजन्न अग्निष्टॊम फलं लभेत 110 अथ गच्छेत राजेन्द्र देविकां लॊकविश्रुताम परसूतिर यत्र विप्राणां शरूयते भरतर्षभ 111 तरिशूलपाणेः सथानं च तरिषु लॊकेषु विश्रुतम देविकायां नरः सनात्वा समभ्यर्च्य महेश्वरम 112 यथाशक्ति चरुं तत्र निवेद्य भरतर्षभ सर्वकामसमृद्धस्य यज्ञस्य लभते फलम 113 कामाख्यं तत्र रुद्रस्य तीर्थं देवर्षिसेवितम तत्र सनात्वा नरः कषिप्रं सिद्धिम आप्नॊति भारत 114 यजनं याजनं गत्वा तथैव बरह्म वालुकाम पुष्पन्यास उपस्पृश्य न शॊचेन मरणं ततः 115 अर्धयॊजनविस्तारां पञ्चयॊजनम आयताम एतावद देविकाम आहुः पुण्यां देवर्षिसेविताम 116 ततॊ गच्छेत धर्मज्ञ दीर्घसत्रं यथाक्रमम यत्र बरह्मादयॊ देवाः सिद्धाश च परमर्षयः दीर्घसत्रम उपासन्ते दक्षिणाभिर यतव्रताः 117 गमनाद एव राजेन्द्र दीर्घसत्रम अरिंदम राजसूयाश्वमेधाभ्यां फलं पराप्नॊति मानवः 118 ततॊ विनशनं गच्छेन नियतॊ नियताशनः गच्छत्य अन्तर्हिता यत्र मरु पृष्ठे सरस्वती चमसे च शिवॊद्भेदे नागॊद्भेदे च दृश्यते 119 सनात्वा च चमसॊद्भेदे अग्निष्टॊम फलं लभेत शिवॊद्भेदे नरः सनात्वा गॊसहस्रफलं लभेत 120 नागॊद्भेदे नरः सनात्वा नागलॊकम अवाप्नुयात शशयानं च राजेन्द्र तीर्थम आसाद्य दुर्लभम शशरूपप्रतिछन्नाः पुष्करा यत्र भारत 121 सरस्वत्यां महाराज अनु संवत्सरं हि ते सनायन्ते भरतश्रेष्ठ वृत्तां वै कार्तिकीं सदा 122 तत्र सनात्वा नरव्याघ्र दयॊतते शशिवत सदा गॊसहस्रपलं चैव पराप्नुयाद भरतर्षभ 123 कुमार कॊटिम आसाद्य नियतः कुरुनन्दन तत्राभिषेकं कुर्वीत पितृदेवार्चने रतः गवामयम अवाप्नॊति कुलं चैव समुद्धरेत 124 ततॊ गच्छेत धर्मज्ञ रुद्र कॊटिं समाहितः पुरा यत्र महाराज ऋषिकॊटिः समाहिता परहर्षेण च संविष्टा देव दर्शनकाङ्क्षया 125 अहं पूर्वम अहं पूर्वं दरक्ष्यामि वृषभध्वजम एवं संप्रस्थिता राजन्न ऋषयः किल भारत 126 ततॊ यॊगेष्वरेणापि यॊगम आस्थाय भूपते तेषां मन्युप्रणाशार्थम ऋषीणां भावितात्मनाम 127 सृष्टा कॊटिस तु रुद्राणाम ऋषीणाम अग्रतः सथिता मया पूर्वतरं दृष्ट इति ते मेनिरे पृथक 128 तेषां तुष्टॊ महादेव ऋषीणाम उग्रतेजसाम भक्त्या परमया राजन वरं तेषां परदिष्टवान अद्य परभृति युष्माकं धर्मवृद्धिर भविष्यति 129 तत्र सनात्वा नरव्याघ्र रुद्र कॊट्यां नरः शुचिः अश्वमेधम अवाप्नॊति कुलं चैव समुद्धरेत 130 ततॊ गच्छेत राजेन्द्र संगमं लॊकविश्रुतम सरस्वत्या महापुण्यम उपासन्ते जनार्दनम 131 यत्र बरह्मादयॊ देवा ऋषयः सिद्धचारणाः अभिगच्छन्ति राजेन्द्र चैत्रशुक्लचतुर्दशीम 132 तत्र सनात्वा नरव्याघ्र विन्देद बहुसुवर्णकम सर्वपापविशुद्धात्मा बरह्मलॊकं च गच्छति 133 ऋषीणां यत्र सत्राणि समाप्तानि नराधिप सत्रावसानम आसाद्य गॊसहस्रफलं लभेत |
1
[v] dhanaṃjayotsukās te tu vane tasmin mahārathāḥ nyavasanta mahābhāgā draupadyā saha pāṇḍavāḥ 2 athāpaśyan mahātmānaṃ devarṣiṃ tatra nāradam dīpyamānaṃ śriyā brāhmyā dīptāgnisamatejasam 3 sa taiḥ parivṛtaḥ śrīmān bhrātṛbhiḥ kurusattamaḥ vibabhāv atidīptaujo devair iva śatakratuḥ 4 yathā ca vedān sāvitrī yājñasenī tathā satī na jahau dharmataḥ pārthān merum arkaprabhā yathā 5 pratigṛhya tu tāṃ pūjāṃ nārado bhagavān ṛṣiḥ āśvāsayad dharmasutaṃ yuktarūpam ivānagha 6 uvāca ca mahātmānaṃ dharmarājaṃ yudhiṣṭhiram brūhi dharmabhṛtāṃ śreṣṭha kenārthaḥ kiṃ dadāmi te 7 atha dharmasuto rājā praṇamya bhrātṛbhiḥ saha uvāca prāñjalir vākyaṃ nāradaṃ deva saṃmitam 8 tvayi tuṣṭe mahābhāga sarvalokābhipūjite kṛtam ity eva manye 'haṃ prasādāt tava suvrata 9 yadi tv aham anugrāhyo bhrātṛbhiḥ sahito 'nagha saṃdehaṃ me muniśreṣṭha hṛdisthaṃ chettum arhasi 10 pradakṣiṇaṃ yaḥ kurute pṛthivīṃ tīrthatatparaḥ kiṃ phalaṃ tasya kārtsnyena tad brahman vaktum arhasi 11 [n] śṛṇu rājann avahito yathā bhīṣmeṇa bhārata pulastyasya sakāśād vai sarvam etad upaśrutam 12 purā bhāgīrathī tīre bhīṣmo dharmabhṛtāṃ varaḥ pitryaṃ vrataṃ samāsthāya nyavasan munivat tadā 13 śubhe deśe mahārāja puṇye devarṣisevite gaṅgā dvāre mahātejo devagandharvasevite 14 sa pitṝṃs tarpayām āsa devāṃś ca paramadyutiḥ ṛṣīṃś ca toṣayām āsa vidhidṛṣṭena karmaṇā 15 kasya cit tv atha kālasya japann eva mahātapāḥ dadarśādbhutasaṃkāśaṃ pulastyam ṛṣisattamam 16 sa taṃ dṛṣṭvogra tapasaṃ dīpyamānam iva śriyā praharṣam atulaṃ lebhe vismayaṃ ca paraṃ yayau 17 upasthitaṃ mahārāja pūjayām āsa bhārata bhīṣmo dharmabhṛtāṃ śreṣṭho vidhidṛṣṭena karmaṇā 18 śirasā cārghyam ādāya śuciḥ prayata mānasaḥ nāma saṃkīrtayām āsa tasmin brahmarṣisattame 19 bhīṣmo 'ham asmi bhadraṃ te dāso 'smi tava suvrata tava saṃdarśanād eva mukto 'haṃ sarvakilbiṣaiḥ 20 evam uktvā mahārāja bhīṣmo dharmabhṛtāṃ varaḥ vāgyataḥ prāñjalir bhūtvā tūṣṇīm āsīd yudhiṣṭhira 21 taṃ dṛṣṭvā niyamenātha svādhyāyāmnāya karśitam bhīṣmaṃ kuru kulaśreṣṭhaṃ muniḥ prītamanābhavat 22 [pulastya] anena tava dharmajña praśrayeṇa damena ca satyena ca mahābhāga tuṣṭo 'smi tava sarvaśaḥ 23 yasyedṛśas te dharmo 'yaṃ pitṛbhaktyāśrito 'nagha tena paśyasi māṃ putra prītiś cāpi mama tvayi 24 amoghadarśī bhīṣmāhaṃ brūhi kiṃ karavāṇi te yad vakṣyasi kuruśreṣṭha tasya dātāsmi te 'nagha 25 [bh] prīte tvayi mahābhāga sarvalokābhipūjite kṛtam ity eva manye 'haṃ yad ahaṃ dṛṣṭavān prabhum 26 yadi tv aham anugrāhyas tava dharmabhṛtāṃ vara vakṣyāmi hṛtsthaṃ saṃdehaṃ tan me tvaṃ vaktum arhasi 27 asti me bhagavan kaś cit tīrthebhyo dharmasaṃśayaḥ tam ahaṃ śrotum icchāmi pṛthak saṃkīrtitaṃ tvayā 28 pradakṣiṇaṃ yaḥ pṛthivīṃ karoty amitavikrama kiṃ phalaṃ tasya viprarṣe tan me brūhi tapodhana 29 [p] hanta te 'haṃ pravakṣyāmi yad ṛṣīṇāṃ parāyaṇam tad ekāgramanās tāta śṛṇu tīrtheṣu yat phalam 30 yasya hastau ca pādau ca manaś caiva susaṃyatam vidyā tapaś ca kīrtiś ca sa tīrthaphalam aśnute 31 pratigrahād upāvṛttaḥ saṃtuṣṭo niyataḥ śuciḥ ahaṃ kāranivṛttiś ca sa tīrthaphalam aśnute 32 akalkako nirārambho laghv āhāro jitendriyaḥ vimuktaḥ sarvadoṣair yaḥ sa tīrthaphalam aśnute 33 akrodhanaś ca rājendra satyaśīlo dṛḍhavrataḥ ātmopamaś ca bhūteṣu sa tīrthaphalam aśnute 34 ṛṣibhiḥ kratavaḥ proktā vedeṣv iha yathākramam phalaṃ caiva yathātattvaṃ pretya ceha ca sarvaśaḥ 35 na te śakyā daridreṇa yajñāḥ prāptuṃ mahīpate bahūpakaraṇā yajñā nānā saṃbhāravistarāḥ 36 prāpyante pārthivair ete samṛddhair vā naraiḥ kva cit nārthāny ūnopakaraṇair ekātmabhir asaṃhataiḥ 37 yo daridrair api vidhiḥ śakyaḥ prāptuṃ nareśvara tulyo yajñaphalaiḥ puṇyais taṃ nibodha yudhāṃ vara 38 ṛṣīṇāṃ paramaṃ guhyam idaṃ bharatasattama tīrthābhigamanaṃ puṇyaṃ yajñair api viśiṣyate 39 anupoṣya trirātrāṇi tīrthāny anabhigamya ca adattvā kāñcanaṃ gāś ca daridro nāma jāyate 40 agniṣṭomādibhir yajñair iṣṭvā vipuladakṣiṇaiḥ na tat phalam avāpnoti tīrthābhigamanena yat 41 nṛloke devadevasya tīrthaṃ trailokyaviśrutam puṣkaraṃ nāma vikhyātaṃ mahābhāgaḥ samāviśet 42 daśakoṭisahasrāṇi tīrthānāṃ vai mahīpate sāṃnidhyaṃ puṣkare yeṣāṃ trisaṃdhyaṃ kurunandana 43 ādityā vasavo rudrāḥ sādhyāś ca sa marudgaṇāḥ gandharvāpsarasaś caiva nityaṃ saṃnihitā vibho 44 yatra devās tapas taptvā daityā brahmarṣayas tathā divyayogā mahārāja puṇyena mahatānvitāḥ 45 manasāpy abhikāmasya puṣkarāṇi manasvinaḥ pūyante sarvapāpāni nākapṛṣṭhe ca pūjyate 46 tasmiṃs tīrthe mahābhāga nityam eva pitā mahaḥ uvāsa paramaprīto devadānava saṃmmataḥ 47 puṣkareṣu mahābhāga devāḥ sarṣipurogamāḥ siddhiṃ samabhisaṃprāptāḥ puṇyena mahatānvitāḥ 48 tatrābhiṣekaṃ yaḥ kuryāt pitṛdevārcane rataḥ aśvamedhaṃ daśaguṇaṃ pravadanti manīṣiṇaḥ 49 apy ekaṃ bhojayed vipraṃ puṣkarāraṇyam āśritaḥ tenāsau karmaṇā bhīṣma pretya ceha ca modate 50 śākamūlaphalair vāpi yena vartayate svayam tad vai dadyād brāhmaṇāya śraddhāvān anasūyakaḥ tenaiva prāpnuyāt prājño hayamedha phalaṃ naraḥ 51 brāhmaṇaḥ kṣatriyo vaiśyaḥ śūdro vā rājasattama na viyoniṃ vrajanty ete snātās tīrthe mahātmanaḥ 52 kārtikyāṃ tu viśeṣeṇa yo 'bhigaccheta puṣkaram phalaṃ tatrākṣayaṃ tasya vardhate bharatarṣabha 53 sāyaṃprātaḥ smared yas tu puṣkarāṇi kṛtāñjaliḥ upaspṛṣṭaṃ bhavet tena sarvatīrtheṣu bhārata prāpnuyāc ca naro lokān brahmaṇaḥ sadane 'kṣayān 54 janmaprabhṛti yat pāpaṃ striyo vā puruṣasya vā puṣkare snātamātrasya sarvam eva praṇaśyati 55 yathā surāṇāṃ sarveṣām ādis tu madhusūdanaḥ tathaiva puṣkaraṃ rājaṃs tīrthānām ādir ucyate 56 uṣya dvādaśa varṣāṇi puṣkare niyataḥ śuciḥ kratūn sarvān avāpnoti brahmalokaṃ ca gacchati 57 yas tu varṣaśataṃ pūrṇam agnihotram upāsate kārtikīṃ vā vased ekāṃ puṣkare samam eva tat 58 puṣkaraṃ puṣkaraṃ gantuṃ duṣkaraṃ puṣkare tapaḥ duṣkaraṃ puṣkare dānaṃ vastuṃ caiva suduṣkaram 59 uṣya dvādaśa rātraṃ tu niyato niyatāśanaḥ pradakṣiṇam upāvṛtto jambū mārgaṃ samāviśet 60 jambū mārgaṃ samāviśya devarṣipitṛsevitam aśvamedham avāpnoti viṣṇulokaṃ ca gacchati 61 tatroṣya rajanīḥ pañca ṣaṣṭha kālakṣamī naraḥ na durgatim avāpnoti siddhiṃ prāpnoti cottamām 62 jambū mārgād upāvṛtto gacchet taṇḍulikāśramam na durgatim avāpnoti svargaloke ca pūjyate 63 agasya sara āsādya pitṛdevārcane rataḥ trirātropoṣito rājann agniṣṭoma phalaṃ labhet 64 śākavṛttiḥ phalair vāpi kaumāraṃ vindate padam kaṇvāśramaṃ samāsādya śrījuṣṭaṃ lokapūjitam 65 dharmāraṇyaṃ hi tat puṇyam ādyaṃ ca bharatarṣabha yatra praviṣṭamātro vai pāpebhyo vipramucyate 66 arcayitvā pitṝn devān niyato niyatāśanaḥ sarvakāmasamṛddhasya yajñasya phalam aśnute 67 pradakṣiṇaṃ tataḥ kṛtvā yayāti patanaṃ vrajet hayamedhasya yajñasya phalaṃ prāpnoti tatra vai 68 mahākālaṃ tato gacchen niyato niyatāśanaḥ koṭitīrtham upaspṛśya hayamedha phalaṃ labhet 69 tato gaccheta dharmajña puṇyasthānam umāpateḥ nāmnā bhadra vaṭaṃ nāma triṣu lokeṣu viśrutam 70 tatrābhigamya ceśānaṃ gosahasraphalaṃ labhet mahādeva prasādāc ca gāṇapatyam avāpnuyāt 71 narmadām atha cāsādya nadīṃ trailokyaviśrutām tarpayitvā pitṝn devān agniṣṭoma phalaṃ labhet 72 dakṣiṇaṃ sindhum āsādya brahma cārī jitendriyaḥ agniṣṭomam avāpnoti vimānaṃ cādhirohati 73 carmaṇvatīṃ samāsādya niyato niyatāśanaḥ ranti devābhyanujñāto agniṣṭoma phalaṃ labhet 74 tato gaccheta dharmajña himavatsutam arbudam pṛthivyāṃ yatra vai chidraṃ pūrvam āsīd yudhiṣṭhira 75 tatrāśramo vasiṣṭhasya triṣu lokeṣu viśrutaḥ tatroṣya rajanīm ekāṃ gosahasraphalaṃ labhet 76 piṅgā tīrtham upaspṛśya brahma cārī jitendriyaḥ kapilānāṃ naravyāghra śatasya phalam aśnute 77 tato gaccheta dharmajña prabhāsaṃ lokaviśrutam yatra saṃnihito nityaṃ svayam eva hutāśanaḥ devatānāṃ mukhaṃ vīra analo 'nilasārathiḥ 78 tasmiṃs tīrthavare snātvā śuciḥ prayata mānasaḥ agniṣṭomātirātrābhyāṃ phalaṃ prāpnoti mānavaḥ 79 tato gatvā sarasvatyāḥ sāgarasya ca saṃgame gosahasraphalaṃ prāpya svargaloke mahīyate dīpyamāno 'gnivan nityaṃ prabhayā bharatarṣabha 80 trirātram uṣitas tatra tarpayet pitṛdevatāḥ prabhāsate yathā somo aśvamedhaṃ ca vindati 81 varadānaṃ tato gacchet tīrthaṃ bharatasattama viṣṇor durvāsasā yatra varo datto yudhiṣṭhira 82 varadāne naraḥ snātvā gosahasraphalaṃ labhet tato dvāravatīṃ gacchen niyato niyatāśanaḥ piṇḍārake naraḥ snātvā labhed bahusuvarṇakam 83 tasmiṃs tīrthe mahābhāga padmalakṣaṇalakṣitāḥ adyāpi mudrā dṛśyante tad adbhutam ariṃdama 84 triśūlāṅkāni padmāni dṛśyante kurunandana mahādevasya sāṃnidhyaṃ tatraiva bharatarṣabha 85 sāgarasya ca sindhoś ca saṃgamaṃ prāpya bhārata tīrthe salilarājasya snātvā prayata mānasaḥ 86 tarpayitvā pitṝn devān ṛṣīṃś ca bharatarṣabha prāpnoti vāruṇaṃ lokaṃ dīpyamānaḥ svatejasā 87 śaṅkukarṇeśvaraṃ devam arcayitvā yudhiṣṭhira aśvamedhaṃ daśaguṇaṃ pravadanti manīṣiṇaḥ 88 pradakṣiṇam upāvṛtya gaccheta bharatarṣabha tīrthaṃ kuru varaśreṣṭha triṣu lokeṣu viśrutam dṛmīti nāmnā vikhyātaṃ sarvapāpapramocanam 89 yatra brahmādayo devā upāsante maheśvaram tatra snātvārcayitvā ca rudraṃ devagaṇair vṛtam janmaprabhṛti pāpāni kṛtāni nudate naraḥ 90 dṛmī cātra naraśreṣṭha sarvadevair abhiṣṭutā tatra snātvā naravyāghra hayamedham avāpnuyāt 91 jitvā yatra mahāprājña viṣṇunā prabha viṣṇunā purā śaucaṃ kṛtaṃ rājan hatvā daivatakaṇṭakān 92 tato gaccheta dharmajña vasor dhārām abhiṣṭutām gamanād eva tasyāṃ hi hayamedham avāpnuyāt 93 snātvā kuru varaśreṣṭha prayatātmā tu mānavaḥ tarpya devān pitṝṃś caiva viṣṇuloke mahīyate 94 tīrthaṃ cātra paraṃ puṇyaṃ vasūnāṃ bharatarṣabha tatra snātvā ca pītvā ca vasūnāṃ saṃmato bhavet 95 sindhūttamam iti khyātaṃ sarvapāpapraṇāśanam tatra snātvā naraśreṣṭha labhed bahusuvarṇakam 96 brahma tuṅgaṃ samāsādya śuciḥ prayata mānasaḥ brahmalokam avāpnoti sukṛtī virajā naraḥ 97 kumārikāṇāṃ śakrasya tīrthaṃ siddhaniṣevitam tatra snātvā naraḥ kṣipraṃ śakra lokam avāpnuyāt 98 reṇukāyāś ca tatraiva tīrthaṃ deva niṣevitam tatra snātvā bhaved vipro vimalaś candramā yathā 99 atha pañcanadaṃ gatvā niyato niyatāśanaḥ pañca yajñān avāpnoti kramaśo ye 'nukīrtitāḥ 100 tato gaccheta dharmajña bhīmāyāḥ sthānam uttamam tatra snātvā tu yonyāṃ vai naro bharatasattama 101 devyāḥ putro bhaved rājaṃs taptakuṇḍalavigrahaḥ gavāṃ śatasahasrasya phalaṃ caivāpnuyān mahat 102 girimuñjaṃ samāsādya triṣu lokeṣu viśrutam pitā mahaṃ namaskṛtya gosahasraphalaṃ labhet 103 tato gaccheta dharmajña vimalaṃ tīrtham uttamam adyāpi yatra dṛśyante matsyāḥ sauvarṇarājatāḥ 104 tatra snātvā naraśreṣṭha vājapeyam avāpnuyāt sarvapāpaviśuddhātmā gacchec ca paramāṃ gatim 105 tato gaccheta maladāṃ triṣu lokeṣu viśrutām paścimāyāṃ tu saṃdhyāyām upaspṛśya yathāvidhi 106 caruṃ narendra saptārcer yathāśakti nivedayet pitṝṇām akṣayaṃ dānaṃ pravadanti manīṣiṇaḥ 107 gavāṃ śatasahasreṇa rājasūya śatena ca aśvamedha sahasreṇa śreyān saptārciṣaś caruḥ 108 tato nivṛtto rājendra vastrā padam athāviśet abhigamya mahādevam aśvamedha phalaṃ labhet 109 maṇimantaṃ samāsādya brahma cārī samāhitaḥ ekarātroṣito rājann agniṣṭoma phalaṃ labhet 110 atha gaccheta rājendra devikāṃ lokaviśrutām prasūtir yatra viprāṇāṃ śrūyate bharatarṣabha 111 triśūlapāṇeḥ sthānaṃ ca triṣu lokeṣu viśrutam devikāyāṃ naraḥ snātvā samabhyarcya maheśvaram 112 yathāśakti caruṃ tatra nivedya bharatarṣabha sarvakāmasamṛddhasya yajñasya labhate phalam 113 kāmākhyaṃ tatra rudrasya tīrthaṃ devarṣisevitam tatra snātvā naraḥ kṣipraṃ siddhim āpnoti bhārata 114 yajanaṃ yājanaṃ gatvā tathaiva brahma vālukām puṣpanyāsa upaspṛśya na śocen maraṇaṃ tataḥ 115 ardhayojanavistārāṃ pañcayojanam āyatām etāvad devikām āhuḥ puṇyāṃ devarṣisevitām 116 tato gaccheta dharmajña dīrghasatraṃ yathākramam yatra brahmādayo devāḥ siddhāś ca paramarṣayaḥ dīrghasatram upāsante dakṣiṇābhir yatavratāḥ 117 gamanād eva rājendra dīrghasatram ariṃdama rājasūyāśvamedhābhyāṃ phalaṃ prāpnoti mānavaḥ 118 tato vinaśanaṃ gacchen niyato niyatāśanaḥ gacchaty antarhitā yatra maru pṛṣṭhe sarasvatī camase ca śivodbhede nāgodbhede ca dṛśyate 119 snātvā ca camasodbhede agniṣṭoma phalaṃ labhet śivodbhede naraḥ snātvā gosahasraphalaṃ labhet 120 nāgodbhede naraḥ snātvā nāgalokam avāpnuyāt śaśayānaṃ ca rājendra tīrtham āsādya durlabham śaśarūpapratichannāḥ puṣkarā yatra bhārata 121 sarasvatyāṃ mahārāja anu saṃvatsaraṃ hi te snāyante bharataśreṣṭha vṛttāṃ vai kārtikīṃ sadā 122 tatra snātvā naravyāghra dyotate śaśivat sadā gosahasrapalaṃ caiva prāpnuyād bharatarṣabha 123 kumāra koṭim āsādya niyataḥ kurunandana tatrābhiṣekaṃ kurvīta pitṛdevārcane rataḥ gavāmayam avāpnoti kulaṃ caiva samuddharet 124 tato gaccheta dharmajña rudra koṭiṃ samāhitaḥ purā yatra mahārāja ṛṣikoṭiḥ samāhitā praharṣeṇa ca saṃviṣṭā deva darśanakāṅkṣayā 125 ahaṃ pūrvam ahaṃ pūrvaṃ drakṣyāmi vṛṣabhadhvajam evaṃ saṃprasthitā rājann ṛṣayaḥ kila bhārata 126 tato yogeṣvareṇāpi yogam āsthāya bhūpate teṣāṃ manyupraṇāśārtham ṛṣīṇāṃ bhāvitātmanām 127 sṛṣṭā koṭis tu rudrāṇām ṛṣīṇām agrataḥ sthitā mayā pūrvataraṃ dṛṣṭa iti te menire pṛthak 128 teṣāṃ tuṣṭo mahādeva ṛṣīṇām ugratejasām bhaktyā paramayā rājan varaṃ teṣāṃ pradiṣṭavān adya prabhṛti yuṣmākaṃ dharmavṛddhir bhaviṣyati 129 tatra snātvā naravyāghra rudra koṭyāṃ naraḥ śuciḥ aśvamedham avāpnoti kulaṃ caiva samuddharet 130 tato gaccheta rājendra saṃgamaṃ lokaviśrutam sarasvatyā mahāpuṇyam upāsante janārdanam 131 yatra brahmādayo devā ṛṣayaḥ siddhacāraṇāḥ abhigacchanti rājendra caitraśuklacaturdaśīm 132 tatra snātvā naravyāghra vinded bahusuvarṇakam sarvapāpaviśuddhātmā brahmalokaṃ ca gacchati 133 ṛṣīṇāṃ yatra satrāṇi samāptāni narādhipa satrāvasānam āsādya gosahasraphalaṃ labhet |
The Mahabharata in Sanskrit
Book 3
Chapter 81
|
1
[पुलस्त्य] ततॊ गच्छेत राजेन्द्र कुरुक्षेत्रम अभिष्टुतम पापेभ्यॊ विप्रमुच्यन्ते तद्गताः सर्वजन्तवः 2 कुरुक्षेत्रं गमिष्यामि कुरुक्षेत्रे वसाम्य अहम य एवं सततं बरूयात सॊ ऽपि पापैः परमुच्यते 3 अत्र मासं वसेद वीर सरस्वत्यां युधिष्ठिर यत्र बरह्मादयॊ देव ऋषयः सिद्धचारणाः 4 गन्धर्वाप्सरसॊ यक्षाः पन्नगाश च महीपते बरह्म कषेत्रं महापुण्यम अभिगच्छन्ति भारत 5 मनसाप्य अभिकामस्य कुरुक्षेत्रं युधिष्ठिर पापाणि विप्रणश्यन्ति बरह्मलॊकं च गच्छति 6 गत्वा हि शरद्धया युक्तः कुरुक्षेत्रं कुरूद्वह राजसूयाश्वमेधाभ्यां फलं पराप्नॊति मानवः 7 ततॊ मचक्रुकं राजन दवारपालं महाबलम यक्षं समभिवाद्यैव गॊसहस्रफलं लभेत 8 ततॊ गच्छेत धर्मज्ञ विष्णॊर सथानम अनुत्तमम सततं नाम राजेन्द्र यत्र संनिहितॊ हरिः 9 तत्र सनात्वार्चयित्वा च तरिलॊकप्रभवं हरिम अश्वमेधम अवाप्नॊति विष्णुलॊकं च गच्छति 10 ततः पारिप्लवं गच्छेत तीर्थं तरैलॊक्यविश्रुतम अग्निष्टॊमातिरात्राभ्यां फलं पराप्नॊति मानवः 11 पृथिव्यास तीर्थम आसाद्य गॊसहस्रफलं लभेत ततः शालूकिनीं गत्वा तीर्थसेवी नराधिप दशाश्वमेधिके सनात्वा तद एव लभते फलम 12 सर्पदर्वीं समासाद्य नागानां तीर्थम उत्तमम अग्निष्टॊमम अवाप्नॊति नागलॊकं च विन्दति 13 ततॊ गच्छेत धर्मज्ञ दवारपालं तरन्तुकम तत्रॊष्य रजनीम एकां गॊसहस्रफलं लभेत 14 ततः पञ्चनदं गत्वा नियतॊ नियताशनः कॊटिकीर्थम उपस्पृश्य हयमेध फलं लभेत अश्विनॊस तीर्थम आसाद्य रूपवान अभिजायते 15 ततॊ गच्छेत धर्मज्ञ वाराहं तीर्थम उत्तमम विष्णुर वाराह रूपेण पूर्वं यत्र सथितॊ ऽभवत तत्र सनात्वा नरव्याघ्र अग्निष्टॊम फलं लभेत 16 ततॊ जयन्त्या राजेन्द्र सॊमतीर्थं समाविशेत सनात्वा फलम अवाप्नॊति राजसूयस्य मानवः 17 एकहंसे नरः सनात्वा गॊसहस्रफलं लभेत कृतशौचं समासाद्य तीर्थसेवी कुरूद्वह पुण्डरीकम अवाप्नॊति कृतशौचॊ भवेन नरः 18 ततॊ मुञ्ज वटं नाम महादेवस्य धीमतः तत्रॊष्य रजनीम एकां गाणपत्यम अवाप्नुयात 19 तत्रैव च महाराज यक्षी लॊकपरिश्रुता तां चाभिगम्य राजेन्द्र पुण्याँल लॊकान अवाप्नुयात 20 कुरुक्षेत्रस्य तद्द्वारं विश्रुतं भरतर्षभ परदक्षिणम उपावृत्य तीर्थसेवी समाहितः 21 संमिते पुष्कराणां च सनात्वार्च्य पितृदेवताः जामदग्न्येन रामेण आहृते वै महात्मना कृतकृत्यॊ भवेद राजन्न अश्वमेधं च विन्दति 22 ततॊ रामह्रदान गच्छेत तीर्थसेवी नराधिप यत्र रामेण राजेन्द्र तरसा दीप्ततेजसा कषत्रम उत्साद्य वीर्येण हरदाः पञ्च निवेशिताः 23 पूरयित्वा नरव्याघ्र रुधिरेणेति नः शरुतम पितरस तर्पिताः सर्वे तथैव च पिता महाः ततस ते पितरः परीता रामम ऊचुर महीपते 24 रम राम महाभाग परीताः सम तव भार्गव अनया पितृभक्त्या च विक्रमेण च ते विभॊ वरं वृणीष्व भद्रं ते किम इच्छसि महाद्युते 25 एवम उक्तः स राजेन्द्र रामः परहरतां वरः अब्रवीत पराञ्जलिर वाक्यं पितॄन स गगने सथितान 26 भवन्तॊ यदि मे परीता यद्य अनुग्राह्यता मयि पितृप्रसादाद इच्छेयं तपसाप्यायनं पुनः 27 यच च रॊषाभिभूतेन कषत्रम उत्सादितं मया ततश च पापान मुच्येयं युष्माकं तेजसा हय अहम हरदाश च तीर्थभूता मे भवेयुर भुवि विश्रुताः 28 एतच छरुत्वा शुभं वाक्यं रामस्य पितरस तदा परत्यूचुः परमप्रीता रामं हर्षसमन्विताः 29 तपस ते वर्धतां भूयः पितृभक्त्या विशेषतः यच च रॊषाभिभूतेन कषत्रम उत्सादितं तवया 30 ततश च पापान मुक्तस तवं कर्मभिस ते च पातिताः हरदाश च तव तीर्थत्वं गमिष्यन्ति न संशयः 31 हरदेष्व एतेषु यः सनात्वा पितॄन संतर्पयिष्यति पितरस तस्य वै परीता दास्यन्ति भुवि दुर्लभम ईप्सितं मनसः कामं सवर्गलॊकं च शाश्वतम 32 एवं दत्त्वा वरान राजन रामस्य पितरस तदा आमन्त्र्य भार्गवं परीतास तत्रैवान्तर दधुस तदा 33 एवं रामह्रदाः पुण्या भार्गवस्य महात्मनाः सनात्वा हरदेषु रामस्य बरह्म चारी शुभव्रतः रामम अभ्यर्च्य राजेन्द्र लभेद बहुसुवर्णकम 34 वंशमूलकम आसाद्य तीर्थसेवी कुरूद्वह सववंशम उद्धरेद राजन सनात्वा वै वंशमूलके 35 कायशॊधनम आसाद्य तीर्थं भरतसत्तम शरीरशुद्धिः सनातस्य तस्मिंस तीर्थे न संशयः शुद्धदेहश च संयाति शुभाँल लॊकान अनुत्तमान 36 ततॊ गच्छेत राजेन्द्र तीर्थं तरैलॊक्यविश्रुतम लॊका यत्रॊद्धृताः पूर्वं विष्णुना परभ विष्णुना 37 लॊकॊद्धारं समासाद्य तीर्थं तरैलॊक्यविश्रुतम सनात्वा तीर्थवरे राजँल लॊकान उद्धरते सवकान शरीतीर्थं च समासाद्य विन्दते शरियम उत्तमाम 38 कपिला तीर्थम आसाद्य बरह्म चारी समाहितः तत्र सनात्वार्चयित्वा च दैवतानि पितॄंस तथा कपिलानां सहस्रस्य फलं विन्दति मानवः 39 सूर्यतीर्थं समासाद्य सनात्वा नियतमानसः अर्चयित्वा पितॄन देवान उपवासपरायणः अग्निष्टॊमम अवाप्नॊति सूर्यलॊकं च गच्छति 40 गमां भवनम आसाद्य तीर्थसेवी यथाक्रमम तत्राभिषेकं कुर्वाणॊ गॊसहस्रफलं लभेत 41 शङ्खिनीं तत्र आसाद्य तीर्थसेवी कुरूद्वह देव्यास तीर्थे नरः सनात्वा लभते रूपम उत्तमम 42 ततॊ गच्छेत राजेन्द्र दवारपालम अरन्तुकम तस्य तीर्थं सरस्वत्यां यक्षेन्द्रस्य महात्मनाः तत्र सनात्वा नरॊ राजन्न अग्निष्टॊम फलं लभेत 43 ततॊ गच्छेत धर्मज्ञ बरह्मावर्तं नराधिप बरह्मावर्ते नरः सनात्वा बरह्मलॊकम अवाप्नुयात 44 ततॊ गच्छेत धर्मज्ञ सुतीर्थकम अनुत्तमम यत्र संनिहिता नित्यं पितरॊ दैवतैः सह 45 तत्राभिषेकं कुर्वीत पितृदेवार्चने रतः अश्वमेधम अवाप्नॊति पितृलॊकं च गच्छति 46 ततॊ ऽमबुवश्यं धर्मज्ञ समासाद्य यथाक्रमम कॊशेश्वरस्य तीर्थेषु सनात्वा भरतसत्तम सर्वव्याधिविनिर्मुक्तॊ बरह्मलॊके महीयते 47 मातृतीर्थं च तत्रैव यत्र सनातस्य भारत परजा विवर्धते राजन्न अनन्तां चाश्नुते शरियम 48 ततः शीतवनं गच्छेन नियतॊ नियताशनः तीर्थं तत्र महाराज महद अन्यत्र दुर्लभम 49 पुनाति दर्शनाद एव दण्डेनैकं नराधिप केशान अभ्युक्ष्य वै तस्मिन पूतॊ भवति भारत 50 तीर्थं तत्र महाराज शवानलॊमापहं समृतम यतविप्रा नरव्याघ्र विद्वांसस तीर्थतत्पराः 51 शवानलॊमापनयने तीर्थे भरतसत्तम पराणायामैर निर्हरन्ति शवलॊमानि दविजॊत्तमाः 52 पूतात्मानश च राजेन्द्र परयान्ति परमां गतिम दशाश्वमेधिकं चैव तस्मिंस तीर्थे महीपते तत्र सनात्वा नरव्याघ्र गच्छेत परमां गतिम 53 ततॊ गच्छेत राजेन्द्र मानुषं लॊकविश्रुतम यत्र कृष्णमृगा राजन वयाधेन परिपीडिताः अवगाह्य तस्मिन सरसि मानुषत्वम उपागताः 54 तस्मिंस तीर्थे नरः सनात्वा बरह्म चारी जितेन्द्रियः सर्वपापविशुद्धात्मा सवर्गलॊके महीयते 55 मानुषस्य तु पूर्वेण करॊशमात्रे महीपते आपगा नाम विख्याता नदी सिद्धनिषेविता 56 शयामाक भॊजनं तत्र यः परयच्छति मानवः देवान पितॄंश च उद्दिश्य तस्य धर्मफलं महत एकस्मिन भॊजिते विप्रे कॊटिर भवति भॊजिता 57 तत्र सनात्वार्चयित्वा च दैवतानि पितॄंस तथा उषित्वा रजनीम एकाम अग्निष्टॊम फलं लभेत 58 ततॊ गच्छेत राजेन्द्र बरह्मणः सथानम उत्तमम बरह्मॊदुम्बरम इत्य एव परकाशं भुवि भारत 59 तत्र सप्तर्षिकुण्डेषु सनातस्य कुरुपुंगव केदारे चैव राजेन्द्र कपिष्ठल महात्मनाः 60 बरह्माणम अभिगम्याथ शुचिः परयत मानसः सर्वपापविशुद्धात्मा बरह्मलॊकं परपद्यते 61 कपिष्ठलस्य केदारं समासाद्य सुदुर्लभम अन्तर्धानम अवाप्नॊति तपसा दग्धकिल्बिषः 62 ततॊ गच्छेत राजेन्द्र सरकं लॊकविश्रुतम कृष्णपक्षे चतुर्दश्याम अभिगम्य वृषध्वजम लभते सर्वकामान हि सवर्गलॊकं च गच्छति 63 तिस्रः कॊट्यस तु तीर्थानां सरके कुरुनन्दन रुद्र कॊटिस तथा कूपे हरदेषु च महीपते इलास्पदं च तत्रैव तीर्थं भरतसत्तम 64 तत्र सनात्वार्चयित्वा च पितॄन देवांश च भारत न दुर्गतिम अवाप्नॊति वाजपेयं च विन्दति 65 किंदाने च नरः सनात्वा किंजप्ये च महीपते अप्रमेयम अवाप्नॊति दानं जप्यं च भारत 66 कलश्यां चाप्य उपस्पृश्य शरद्दधानॊ जितेन्द्रियः अग्निष्टॊमस्य यज्ञस्य फलं पराप्नॊति मानवः 67 सरकस्य तु पूर्वेण नारदस्य महात्मनाः तीर्थं कुरु वरश्रेष्ठ अनाजन्मेति विश्रुतम 68 तत्र तीर्थे नरः सनात्वा पराणांश चॊत्सृज्य भारत नारदेनाभ्यनुज्ञातॊ लॊकान पराप्नॊति दुर्लभान 69 शुक्लपक्षे दशम्यां तु पुण्डरीकं समाविशेत तत्र सनात्वा नरॊ राजन पुण्डरीकफलं लभेत 70 ततस तरिविष्टपं गच्छेत तरिषु लॊकेषु विश्रुतम तत्र वैतरणी पुण्या नदी पापप्रमॊचनी 71 तत्र सनात्वार्चयित्वा च शूलपाणिं वृषध्वजम सर्वपापविशुद्धात्मा गच्छेत परमां गतिम 72 ततॊ गच्छेत राजेन्द्र फलकी वनम उत्तमम यत्र देवाः सदा राजन फलकी वनम आश्रिताः तपश चरन्ति विपुलं बहुवर्षसहस्रकम 73 दृषद्वत्यां नरः सनात्वा तर्पयित्वा च देवताः अग्निष्टॊमातिरात्राभ्यां फलं विन्दति भारत 74 तीर्थे च सर्वदेवानां सनात्वा भरतसत्तम गॊसहस्रस्य राजेन्द्र फलं पराप्नॊति मानवः 75 पाणिखाते नरः सनात्वा तर्पयित्वा च देवताः राजसूयम अवाप्नॊति ऋषिलॊकं च गच्छति 76 ततॊ गच्छेत राजेन्द्र मिश्रकं तीर्थम उत्तमम तत्र तीर्थानि राजेन्द्र मिश्रितानि महात्मना 77 वयासेन नृपशार्दूल दविजार्थम इति नः शरुतम सर्वतीर्थेषु स सनाति मिश्रके सनाति यॊ नरः 78 ततॊ वयास वनं गच्छेन नियतॊ नियताशनः मनॊजवे नरः सनात्वा गॊसहस्रफलं लभेत 79 गत्वा मधु वटीं चापि देव्यास तीर्थं नरः शुचिः तत्र सनात्वार्चयेद देवान पितॄंश च परयतः शुचिः स देव्या समनुज्ञातॊ गॊसहस्रफलं लभेत 80 कौशिक्याः संगमे यस तु दृषद्वत्याश च भारत सनाति वै नियताहारः सर्वपापैः परमुच्यते 81 ततॊ वयास सथली नाम यत्र वयासेन धीमता पुत्रशॊकाभितप्तेन देहत्यागार्थ निश्चयः 82 कृतॊ देवैश च राजेन्द्र पुनर उत्थापितस तदा अभिगम्य सथलीं तस्य गॊसहस्रफलं लभेत 83 किं दत्तं कूपम आसाद्य तिलप्रस्थं परदाय च गच्छेत परमां सिद्धिम ऋणैर मुक्तः कुरूद्वह 84 अहश च सुदिनं चैव दवे तीर्थे च सुदुर्लभे तयॊः सनात्वा नरव्याघ्र सूर्यलॊकम अवाप्नुयात 85 मृगधूमं ततॊ गच्छेत तरिषु लॊकेषु विश्रुतम तत्र गङ्गा हरदे सनात्वा समभ्यर्च्य च मानवः शूलपाणिं महादेवम अश्वमेध फलं लभेत 86 देव तीर्थे नरः सनात्वा गॊसहस्रफलं लभेत अथ वामनकं गच्छेत तरिषु लॊकेषु विश्रुतम 87 तत्र विष्णुपदे सनात्वा अर्चयित्वा च वामनम सर्वपापविशुद्धात्मा विष्णुलॊकम अवाप्नुयात 88 कुलम्पुने नरः सनात्वा पुनाति सवकुलं नरः पवनस्य हरदं गत्वा मरुतां तीर्थम उत्तमम तत्र सनात्वा नरव्याघ्र वायुलॊके महीयते 89 अमराणां हरदे सनात्वा अमरेषु नराधिप अमराणां परभावेन सवर्गलॊके महीयते 90 शालिहॊत्रस्य राजेन्द्र शालिशूर्पे यथाविधि सनात्वा नरवरश्रेष्ठ गॊसहस्रफलं लभेत 91 शरीकुञ्जं च सरस्वत्यां तीर्थं भरतसत्तम तत्र सनात्वा नरॊ राजन्न अग्निष्टॊम फलं लभेत 92 ततॊ नैमिष कुञ्जं च समासाद्य कुरूद्वह ऋषयः किल राजेन्द्र नैमिषेयास तपॊधनाः तीर्थयात्रां पुरस्कृत्य कुरुक्षेत्रं गताः पुरा 93 ततः कुञ्जः सरस्वत्यां कृतॊ भरतसत्तम ऋषीणाम अवकाशः सयाद यथा तुष्टिकरॊ महान 94 तस्मिन कुञ्जे नरः सनात्वा गॊसहस्रफलं लभेत कन्या तीर्थे नरः सनात्वा अग्निष्टॊम फलं लभेत 95 ततॊ गच्छेन नरव्याघ्र बरह्मणः सथानम उत्तमम तत्र वर्णावरः सनात्वा बराह्मण्यं लभते नरः बराह्मणश च विशुद्धात्मा गच्छेत परमां गतिम 96 ततॊ गच्छेन नरश्रेष्ठ सॊमतीर्थम अनुत्तमम तत्र सनात्वा नरॊ राजन सॊमलॊकम अवाप्नुयात 97 सप्त सारस्वतं तीर्थं ततॊ गच्छेन नराधिप यत्र मङ्कणकः सिद्धॊ महर्षिर लॊकविश्रुतः 98 पुरा मङ्कणकॊ राजन कुशाग्रेणेति नः शरुतम कषतः किल करे राजंस तस्य शाकरसॊ ऽसरवत 99 स वै शाकरसं दृष्ट्वा हर्षाविष्टॊ महातपाः परनृत्तः किल विप्रर्षिर विस्मयॊत्फुल्ललॊचनः 100 ततस तस्मिन परनृत्ते वै सथावरं जङ्गमं च यत परनृत्तम उभयं वीर तेजसा तस्य मॊहितम 101 बरह्मादिभिः सुरै राजन्न ऋषिभिश च तपॊधनैः विज्ञप्तॊ वै महादेव ऋषेर अर्थे नराधिप नायं नृत्येद यथा देव तथा तवं कर्तुम अर्हसि 102 ततः परनृत्तम आसाद्य हर्षाविष्टेन चेतसा सुराणां हितकामार्थम ऋषिं देवॊ ऽभयभाषत 103 अहॊ महर्षे धर्मज्ञ किमर्थं नृत्यते भवान हर्षस्थानं किमर्थं वा तवाद्य मुनिपुंगव 104 [रसि] किं न पश्यसि मे देवकराच छाक रसं सरुतम यं दृष्ट्वाहं परनृत्तॊ वै हर्षेण महतान्वितः 105 [पुलस्त्य] तं परहस्याब्रवीद देवॊ मुनिं रागेण मॊहितम अहं वै विस्मयं विप्र न गच्छामीति पश्य माम 106 एवम उक्त्वा नरश्रेष्ठ महादेवेन धीमता अङ्गुल्यग्रेण राजेन्द्र सवाङ्गुष्ठस ताडितॊ ऽनघ 107 ततॊ भस्म कषताद राजन निर्गतं हिमसंनिभम तद दृष्ट्वा वरीडितॊ राजन स मुनिः पादयॊर गतः 108 नान्यं देवम अहं मन्ये रुद्रात परतरं महत सुरासुरस्य जगतॊ गतिस तवम असि शूलधृक 109 तवया सृष्टम इदं विश्वं तरैलॊक्यं स चराचरम तवाम एव भगवन सर्वे परविशन्ति युगक्षये 110 देवैर अपि न शक्यस तवं परिज्ञातुं कुतॊ मया तवयि सर्वे च दृश्यन्ते सुरा बरह्मादयॊ ऽनघ 111 सर्वस तवम असि लॊकानां कर्ता कारयिता च ह तवत्प्रसादात सुराः सर्वे मॊदन्तीहाकुतॊ भयाः एवं सतुत्वा महादेवं स ऋषिः परणतॊ ऽभवत 112 [रसि] तवत्प्रसादान महादेव तपॊ मे न कषरेत वै 113 [पुलस्त्य] ततॊ देवः परहृष्टात्मा बरह्मर्षिम इदम अब्रवीत तपस ते वर्धतां विप्र मत्प्रसादात सहस्रधा 114 आश्रमे चेह वत्स्यामि तवया सार्धं महामुने सप्त सारस्वते सनात्वा अर्चयिष्यन्ति ये तु माम 115 न तेषां दुर्लभं किं चिद इह लॊके परत्र च सारस्वतं च ते लॊकं गमिष्यन्ति न संशयः 116 ततस तव औशनसं गच्छेत तरिषु लॊकेषु विश्रुतम यत्र बरह्मादयॊ देवा ऋषयश च तपॊधनाः 117 कार्तिकेयश च भगवांस तरिसंध्यं किल भारत सांनिध्यम अकरॊत तत्र भार्गव परियकाम्यया 118 कपालमॊचनं तीर्थं सर्वपापप्रमॊचनम तत्र सनात्वा नरव्याघ्र सर्वपापैः परमुच्यते 119 अग्नितीर्थं ततॊ गच्छेत तत्र सनात्वा नरर्षभ अग्निलॊकम अवाप्नॊति कुलं चैव समुद्धरेत 120 विश्वा मित्रस्य तत्रैव तीर्थं भरतसत्तम तत्र सनात्वा महाराज बराह्मण्यम अभिजायते 121 बरह्मयॊनिं समासाद्य शुचिः परयत मानसः तत्र सनात्वा नरव्याघ्र बरह्मलॊकं परपद्यते पुनात्य आ सप्तमं चैव कुलं नास्त्य अत्र संशयः 122 ततॊ गच्छेत राजेन्द्र तीर्थं तरैलॊक्यविश्रुतम पृथूदकम इति खयातं कार्तिकेयस्य वै नृप तत्राभिषेकं कुर्वीत पितृदेवार्चने रतः 123 अज्ञानाज जञानतॊ वापि सत्रिया वा पुरुषेण वा यत किं चिद अशुभं कर्मकृतं मानुषबुद्धिना 124 तत सर्वं नश्यते तस्य सनातमात्रस्य भारत अश्वमेध फलं चापि सवर्गलॊकं च गच्छति 125 पुण्यम आहुः कुरुक्षेत्रं कुरुक्षेत्रात सरस्वतीम सरस्वत्याश च तीर्थानि तीर्थेभ्यश च पृथूदकम 126 उत्तमे सर्वतीर्थानां यस तयजेद आत्मनस तनुम पृथूदके जप्यपरॊ नैनं शवॊ मरणं तपेत 127 गीतं सनत कुमारेण वयासेन च महात्मना वेदे च नियतं राजन अभिगच्छेत पृथूदकम 128 पृथूदकात पुण्यतमं नान्यत तीर्थं नरॊत्तम एतन मेध्यं पवित्रं च पावनं च न संशयः 129 तत्र सनात्वा दिवं यान्ति अपि पापकृतॊ जनाः पृथूदके नरश्रेष्ठ पराहुर एवं मनीषिणः 130 मधुस्रवं च तत्रैव तीर्थं भरतसत्तम तत्र सनात्वा नरॊ राजन गॊसहस्रफलं लभेत 131 ततॊ गच्छेन नरश्रेष्ठ तीर्थं देव्या यथाक्रमम सरस्वत्यारुणायाश च संगमं लॊकविश्रुतम 132 तरिरात्रॊपॊषितः सनात्वा मुच्यते बरह्महत्यया अग्निष्टॊमातिरात्राभ्यां फलं विन्दति मानवः 133 आ सप्तमं कुलं चैव पुनाति भरतर्षभ अवतीर्णं च तत्रैव तीर्थं कुरुकुलॊद्वह विप्राणाम अनुकम्पार्थं दर्भिणा निर्मितं पुरा 134 वरतॊपनयनाभ्यां वा उपवासेन वा दविजः करिया मन्त्रैश च संयुक्तॊ बराह्मणः सयान न संशयः 135 करिया मन्त्रविहीनॊ ऽपि तत्र सनात्वा नरर्षभ चीर्ण वरतॊ भवेद विप्रॊ दृष्टम एतत पुरातने 136 समुद्राश चापि चत्वारः समानीताश च दर्भिणा येषु सनातॊ नरव्याघ्र न दुर्गतिम अवाप्नुयात फलानि गॊसहस्राणां चतुर्णां विन्दते च सः 137 ततॊ गच्छेत राजेन्द्र तीर्थं शतसहस्रकम साहस्रकं च तत्रैव दवे तीर्थे लॊकविश्रुते 138 उभयॊर हि नरः सनात्वा गॊसहस्रफलं भवेत दानं वाप्य उपवासॊ वा सहस्रगुणितं भवेत 139 ततॊ गच्छेत राजेन्द्र रेणुका तीर्थम उत्तमम तत्राभिषेकं कुर्वीत पितृदेवार्चने रतः सरव पापविशुद्धात्मा अग्निष्टॊम फलं लभेत 140 विमॊचनम उपस्पृश्य जितमन्युर जितेन्द्रियः परतिग्रह कृतैर दॊषैर सर्वैः स परिमुच्यते 141 ततः पञ्च वटं गत्वा बरह्म चारी जितेन्द्रियः पुण्येन महता युक्तः सतां लॊके महीयते 142 यत्र यॊगेश्वरः सथाणुः सवयम एव वृषध्वजः तम अर्चयित्वा देवेशं गमनाद एव सिध्यति 143 औजसं वरुणं तीर्थं दीप्यते सवेन तेजसा यत्र बरह्मादिभिर देवैर ऋषिभिश च तपॊधनैः सेनापत्येन देवानाम अभिषिक्तॊ गुहस तदा 144 औजसस्य तु पूर्वेण कुरु तीर्थं कुरूद्वह कुरु तीर्थे नरः सनात्वा बरह्म चारी जितेन्द्रियः सर्वपापविशुद्धात्मा कुरु लॊकं परपद्यते 145 सवर्गद्वारं ततॊ गच्छेन नियतॊ नियताशनः सवर्गलॊकम अवाप्नॊति बरह्मलॊकं च गच्छति 146 ततॊ गच्छेद अनरकं तीर्थसेवी नराधिप तत्र सनात्वा नरॊ राजन न दुर्गतिम इवाप्नुयात 147 तत्र बरह्मा सवयं नित्यं देवैः सह महीपते अन्वास्यते नरश्रेष्ठ नारायण पुरॊगमैः 148 सांनिध्यं चैव राजेन्द्र रुद्र पत्न्याः कुरूद्वह अभिगम्य च तां देवीं न दुर्गतिम अवाप्नुयात 149 तत्रैव च महाराज विश्वेश्वरम उमापतिम अभिगम्य महादेवं मुच्यते सर्वकिल्बिषैः 150 नारायणं चाभिगम्य पद्मनाभम अरिंदमम शॊभमानॊ महाराज विष्णुलॊकं परपद्यते 151 तीर्थे तु सर्वदेवानां सनातः स पुरुषर्षभ सर्वदुःखैः परित्यक्तॊ दयॊतते शशिवत सदा 152 ततः सवस्ति पुरं गच्छेत तीर्थसेवी नराधिप पावनं तीर्थम आसाद्य तर्पयेत पितृदेवताः अग्निष्टॊमस्य यज्ञस्य फलं पराप्नॊति मानवः 153 गङ्गा हरदश च तत्रैव कूपश च भरतर्षभ तिस्रः कॊट्यस तु तीर्थानां तस्मिन कूपे महीपते तत्र सनात्वा नरॊ राजन सवर्गलॊकं परपद्यते 154 आपगायां नरः सनात्वा अर्चयित्वा महेश्वरम गाणपत्यम अवाप्नॊति कुलं चॊद्धरते सवकम 155 ततः सथाणुवटं गच्छेत तरिषु लॊकेषु विश्रुतम तत्र सनात्वा सथितॊ रात्रिं रुद्र लॊकम अवाप्नुयात 156 बदरी पाचनं गच्छेद वसिष्ठस्याश्रमं ततः बदरं भक्षयेत तत्र तरिरात्रॊपॊषितॊ नरः 157 सम्यग दवादश वर्षाणि बदरान भक्षयेत तु यः तरिरात्रॊपॊषितश चैव भवेत तुल्यॊ नराधिप 158 इन्द्र मार्गं समासाद्य तीर्थसेवी नराधिप अहॊरात्रॊपवासेन शक्र लॊके महीयते 159 एकरात्रं समासाद्य एकरात्रॊषितॊ नरः नियतः सत्यवादी च बरह्मलॊके महीयते 160 ततॊ गच्छेत धर्मज्ञ तीर्थं तरैलॊक्यविश्रुतम आदित्यस्याश्रमॊ यत्र तेजॊराशेर महात्मनाः 161 तस्मिंस तीर्थे नरः सनात्वा पूजयित्वा विभावसुम आदित्यलॊकं वरजति कुलं चैव समुद्धरेत 162 सॊमतीर्थे नरः सनात्वा तीर्थसेवी कुरूद्वह सॊमलॊकम अवाप्नॊति नरॊ नास्त्य अत्र संशयः 163 ततॊ गच्छेत धर्मज्ञ दधीचस्य महात्मनाः तीर्थं पुण्यतमं राजन पावनं लॊकविश्रुतम 164 यत्र सारस्वतॊ राजन सॊ ऽङगिरास तपसॊ निधिः तस्मिंस तीर्थे नरः सनात्वा वाजपेयफलं लभेत सारस्वतीं गतिं चैव लभते नात्र संशयः 165 ततः कन्याश्रमं गच्छेन नियतॊ बरह्मचर्यवान तरिरात्रॊपॊषितॊ राजन्न उपवासपरायणः लभेत कन्याशतं दिव्यं बरह्मलॊकं च गच्छति 166 यत्र बरह्मादयॊ देवा ऋषयश च तपॊधनाः मासि मासि समायान्ति पुण्येन महतान्विताः 167 संनिहित्याम उपस्पृश्य राहुग्रस्ते दिवाकरे अश्वमेध शतं तेन इष्टं भवति शाश्वतम 168 पृथिव्यां यानि तीर्थानि अन्तरिक्षचराणि च नद्यॊ नदास तडागाश च सर्वप्रस्रवणानि च 169 उदपानाश च वप्राश च पुण्यान्य आयतनानि च मासि मासि समायान्ति संनिहित्यां न संशयः 170 यत किं चिद दुष्कृतं कर्म सत्रिया वा पुरुषस्य वा सनातमात्रस्य तत सर्वं नश्यते नात्र संशयः पद्मवर्णेन यानेन बरह्मलॊकं स गच्छति 171 अभिवाद्य ततॊ यक्षं दवारपालम अरन्तुकम कॊटिरूपम उपस्पृश्य लभेद बहुसुवर्णकम 172 गङ्गा हरदश च तत्रैव तीर्थं भरतसत्तम तत्र सनातस तु धर्मज्ञ बरह्म चारी समाहितः राजसूयाश्वमेधाभ्यां फलं विन्दति शाश्वतम 173 पृथिव्यां नैमिषं पुण्यम अन्तरिक्षे च पुष्करम तरयाणाम अपि लॊकानां कुरुक्षेत्रं विशिष्यते 174 पांसवॊ ऽपि कुरुक्षेत्रे वायुना समुदीरिताः अपि दुष्कृतकर्माणं नयन्ति परमां गतिम 175 दक्षिणेन सरस्वत्या उत्तरेण दृषद्वतीम ये वसन्ति कुरुक्षेत्रे ते वसन्ति तरिविष्टपे 176 कुरुक्षेत्रं गमिष्यामि कुरुक्षेत्रे वसाम्य अहम अप्य एकां वाचम उत्सृज्य सर्वपापैः परमुच्यते 177 बरह्म वेदी कुरुक्षेत्रं पुण्यं बरह्मर्षिसेवितम तदावसन्ति ये राजन न ते शॊच्याः कथं चन 178 तरन्तुकारन्तुकयॊर यद अन्तरं; रामह्रदानां च मचक्रुकस्य एतत कुरुक्षेत्रसमन्तपञ्चकं; पिता महस्यॊत्तर वेदिर उच्यते |
1
[pulastya] tato gaccheta rājendra kurukṣetram abhiṣṭutam pāpebhyo vipramucyante tadgatāḥ sarvajantavaḥ 2 kurukṣetraṃ gamiṣyāmi kurukṣetre vasāmy aham ya evaṃ satataṃ brūyāt so 'pi pāpaiḥ pramucyate 3 atra māsaṃ vased vīra sarasvatyāṃ yudhiṣṭhira yatra brahmādayo deva ṛṣayaḥ siddhacāraṇāḥ 4 gandharvāpsaraso yakṣāḥ pannagāś ca mahīpate brahma kṣetraṃ mahāpuṇyam abhigacchanti bhārata 5 manasāpy abhikāmasya kurukṣetraṃ yudhiṣṭhira pāpāṇi vipraṇaśyanti brahmalokaṃ ca gacchati 6 gatvā hi śraddhayā yuktaḥ kurukṣetraṃ kurūdvaha rājasūyāśvamedhābhyāṃ phalaṃ prāpnoti mānavaḥ 7 tato macakrukaṃ rājan dvārapālaṃ mahābalam yakṣaṃ samabhivādyaiva gosahasraphalaṃ labhet 8 tato gaccheta dharmajña viṣṇor sthānam anuttamam satataṃ nāma rājendra yatra saṃnihito hariḥ 9 tatra snātvārcayitvā ca trilokaprabhavaṃ harim aśvamedham avāpnoti viṣṇulokaṃ ca gacchati 10 tataḥ pāriplavaṃ gacchet tīrthaṃ trailokyaviśrutam agniṣṭomātirātrābhyāṃ phalaṃ prāpnoti mānavaḥ 11 pṛthivyās tīrtham āsādya gosahasraphalaṃ labhet tataḥ śālūkinīṃ gatvā tīrthasevī narādhipa daśāśvamedhike snātvā tad eva labhate phalam 12 sarpadarvīṃ samāsādya nāgānāṃ tīrtham uttamam agniṣṭomam avāpnoti nāgalokaṃ ca vindati 13 tato gaccheta dharmajña dvārapālaṃ tarantukam tatroṣya rajanīm ekāṃ gosahasraphalaṃ labhet 14 tataḥ pañcanadaṃ gatvā niyato niyatāśanaḥ koṭikīrtham upaspṛśya hayamedha phalaṃ labhet aśvinos tīrtham āsādya rūpavān abhijāyate 15 tato gaccheta dharmajña vārāhaṃ tīrtham uttamam viṣṇur vārāha rūpeṇa pūrvaṃ yatra sthito 'bhavat tatra snātvā naravyāghra agniṣṭoma phalaṃ labhet 16 tato jayantyā rājendra somatīrthaṃ samāviśet snātvā phalam avāpnoti rājasūyasya mānavaḥ 17 ekahaṃse naraḥ snātvā gosahasraphalaṃ labhet kṛtaśaucaṃ samāsādya tīrthasevī kurūdvaha puṇḍarīkam avāpnoti kṛtaśauco bhaven naraḥ 18 tato muñja vaṭaṃ nāma mahādevasya dhīmataḥ tatroṣya rajanīm ekāṃ gāṇapatyam avāpnuyāt 19 tatraiva ca mahārāja yakṣī lokapariśrutā tāṃ cābhigamya rājendra puṇyāṁl lokān avāpnuyāt 20 kurukṣetrasya taddvāraṃ viśrutaṃ bharatarṣabha pradakṣiṇam upāvṛtya tīrthasevī samāhitaḥ 21 saṃmite puṣkarāṇāṃ ca snātvārcya pitṛdevatāḥ jāmadagnyena rāmeṇa āhṛte vai mahātmanā kṛtakṛtyo bhaved rājann aśvamedhaṃ ca vindati 22 tato rāmahradān gacchet tīrthasevī narādhipa yatra rāmeṇa rājendra tarasā dīptatejasā kṣatram utsādya vīryeṇa hradāḥ pañca niveśitāḥ 23 pūrayitvā naravyāghra rudhireṇeti naḥ śrutam pitaras tarpitāḥ sarve tathaiva ca pitā mahāḥ tatas te pitaraḥ prītā rāmam ūcur mahīpate 24 rama rāma mahābhāga prītāḥ sma tava bhārgava anayā pitṛbhaktyā ca vikrameṇa ca te vibho varaṃ vṛṇīṣva bhadraṃ te kim icchasi mahādyute 25 evam uktaḥ sa rājendra rāmaḥ praharatāṃ varaḥ abravīt prāñjalir vākyaṃ pitṝn sa gagane sthitān 26 bhavanto yadi me prītā yady anugrāhyatā mayi pitṛprasādād iccheyaṃ tapasāpyāyanaṃ punaḥ 27 yac ca roṣābhibhūtena kṣatram utsāditaṃ mayā tataś ca pāpān mucyeyaṃ yuṣmākaṃ tejasā hy aham hradāś ca tīrthabhūtā me bhaveyur bhuvi viśrutāḥ 28 etac chrutvā śubhaṃ vākyaṃ rāmasya pitaras tadā pratyūcuḥ paramaprītā rāmaṃ harṣasamanvitāḥ 29 tapas te vardhatāṃ bhūyaḥ pitṛbhaktyā viśeṣataḥ yac ca roṣābhibhūtena kṣatram utsāditaṃ tvayā 30 tataś ca pāpān muktas tvaṃ karmabhis te ca pātitāḥ hradāś ca tava tīrthatvaṃ gamiṣyanti na saṃśayaḥ 31 hradeṣv eteṣu yaḥ snātvā pitṝn saṃtarpayiṣyati pitaras tasya vai prītā dāsyanti bhuvi durlabham īpsitaṃ manasaḥ kāmaṃ svargalokaṃ ca śāśvatam 32 evaṃ dattvā varān rājan rāmasya pitaras tadā āmantrya bhārgavaṃ prītās tatraivāntar dadhus tadā 33 evaṃ rāmahradāḥ puṇyā bhārgavasya mahātmanāḥ snātvā hradeṣu rāmasya brahma cārī śubhavrataḥ rāmam abhyarcya rājendra labhed bahusuvarṇakam 34 vaṃśamūlakam āsādya tīrthasevī kurūdvaha svavaṃśam uddhared rājan snātvā vai vaṃśamūlake 35 kāyaśodhanam āsādya tīrthaṃ bharatasattama śarīraśuddhiḥ snātasya tasmiṃs tīrthe na saṃśayaḥ śuddhadehaś ca saṃyāti śubhāṁl lokān anuttamān 36 tato gaccheta rājendra tīrthaṃ trailokyaviśrutam lokā yatroddhṛtāḥ pūrvaṃ viṣṇunā prabha viṣṇunā 37 lokoddhāraṃ samāsādya tīrthaṃ trailokyaviśrutam snātvā tīrthavare rājaṁl lokān uddharate svakān śrītīrthaṃ ca samāsādya vindate śriyam uttamām 38 kapilā tīrtham āsādya brahma cārī samāhitaḥ tatra snātvārcayitvā ca daivatāni pitṝṃs tathā kapilānāṃ sahasrasya phalaṃ vindati mānavaḥ 39 sūryatīrthaṃ samāsādya snātvā niyatamānasaḥ arcayitvā pitṝn devān upavāsaparāyaṇaḥ agniṣṭomam avāpnoti sūryalokaṃ ca gacchati 40 gamāṃ bhavanam āsādya tīrthasevī yathākramam tatrābhiṣekaṃ kurvāṇo gosahasraphalaṃ labhet 41 śaṅkhinīṃ tatra āsādya tīrthasevī kurūdvaha devyās tīrthe naraḥ snātvā labhate rūpam uttamam 42 tato gaccheta rājendra dvārapālam arantukam tasya tīrthaṃ sarasvatyāṃ yakṣendrasya mahātmanāḥ tatra snātvā naro rājann agniṣṭoma phalaṃ labhet 43 tato gaccheta dharmajña brahmāvartaṃ narādhipa brahmāvarte naraḥ snātvā brahmalokam avāpnuyāt 44 tato gaccheta dharmajña sutīrthakam anuttamam yatra saṃnihitā nityaṃ pitaro daivataiḥ saha 45 tatrābhiṣekaṃ kurvīta pitṛdevārcane rataḥ aśvamedham avāpnoti pitṛlokaṃ ca gacchati 46 tato 'mbuvaśyaṃ dharmajña samāsādya yathākramam kośeśvarasya tīrtheṣu snātvā bharatasattama sarvavyādhivinirmukto brahmaloke mahīyate 47 mātṛtīrthaṃ ca tatraiva yatra snātasya bhārata prajā vivardhate rājann anantāṃ cāśnute śriyam 48 tataḥ śītavanaṃ gacchen niyato niyatāśanaḥ tīrthaṃ tatra mahārāja mahad anyatra durlabham 49 punāti darśanād eva daṇḍenaikaṃ narādhipa keśān abhyukṣya vai tasmin pūto bhavati bhārata 50 tīrthaṃ tatra mahārāja śvānalomāpahaṃ smṛtam yataviprā naravyāghra vidvāṃsas tīrthatatparāḥ 51 śvānalomāpanayane tīrthe bharatasattama prāṇāyāmair nirharanti śvalomāni dvijottamāḥ 52 pūtātmānaś ca rājendra prayānti paramāṃ gatim daśāśvamedhikaṃ caiva tasmiṃs tīrthe mahīpate tatra snātvā naravyāghra gaccheta paramāṃ gatim 53 tato gaccheta rājendra mānuṣaṃ lokaviśrutam yatra kṛṣṇamṛgā rājan vyādhena paripīḍitāḥ avagāhya tasmin sarasi mānuṣatvam upāgatāḥ 54 tasmiṃs tīrthe naraḥ snātvā brahma cārī jitendriyaḥ sarvapāpaviśuddhātmā svargaloke mahīyate 55 mānuṣasya tu pūrveṇa krośamātre mahīpate āpagā nāma vikhyātā nadī siddhaniṣevitā 56 śyāmāka bhojanaṃ tatra yaḥ prayacchati mānavaḥ devān pitṝṃś ca uddiśya tasya dharmaphalaṃ mahat ekasmin bhojite vipre koṭir bhavati bhojitā 57 tatra snātvārcayitvā ca daivatāni pitṝṃs tathā uṣitvā rajanīm ekām agniṣṭoma phalaṃ labhet 58 tato gaccheta rājendra brahmaṇaḥ sthānam uttamam brahmodumbaram ity eva prakāśaṃ bhuvi bhārata 59 tatra saptarṣikuṇḍeṣu snātasya kurupuṃgava kedāre caiva rājendra kapiṣṭhala mahātmanāḥ 60 brahmāṇam abhigamyātha śuciḥ prayata mānasaḥ sarvapāpaviśuddhātmā brahmalokaṃ prapadyate 61 kapiṣṭhalasya kedāraṃ samāsādya sudurlabham antardhānam avāpnoti tapasā dagdhakilbiṣaḥ 62 tato gaccheta rājendra sarakaṃ lokaviśrutam kṛṣṇapakṣe caturdaśyām abhigamya vṛṣadhvajam labhate sarvakāmān hi svargalokaṃ ca gacchati 63 tisraḥ koṭyas tu tīrthānāṃ sarake kurunandana rudra koṭis tathā kūpe hradeṣu ca mahīpate ilāspadaṃ ca tatraiva tīrthaṃ bharatasattama 64 tatra snātvārcayitvā ca pitṝn devāṃś ca bhārata na durgatim avāpnoti vājapeyaṃ ca vindati 65 kiṃdāne ca naraḥ snātvā kiṃjapye ca mahīpate aprameyam avāpnoti dānaṃ japyaṃ ca bhārata 66 kalaśyāṃ cāpy upaspṛśya śraddadhāno jitendriyaḥ agniṣṭomasya yajñasya phalaṃ prāpnoti mānavaḥ 67 sarakasya tu pūrveṇa nāradasya mahātmanāḥ tīrthaṃ kuru varaśreṣṭha anājanmeti viśrutam 68 tatra tīrthe naraḥ snātvā prāṇāṃś cotsṛjya bhārata nāradenābhyanujñāto lokān prāpnoti durlabhān 69 śuklapakṣe daśamyāṃ tu puṇḍarīkaṃ samāviśet tatra snātvā naro rājan puṇḍarīkaphalaṃ labhet 70 tatas triviṣṭapaṃ gacchet triṣu lokeṣu viśrutam tatra vaitaraṇī puṇyā nadī pāpapramocanī 71 tatra snātvārcayitvā ca śūlapāṇiṃ vṛṣadhvajam sarvapāpaviśuddhātmā gaccheta paramāṃ gatim 72 tato gaccheta rājendra phalakī vanam uttamam yatra devāḥ sadā rājan phalakī vanam āśritāḥ tapaś caranti vipulaṃ bahuvarṣasahasrakam 73 dṛṣadvatyāṃ naraḥ snātvā tarpayitvā ca devatāḥ agniṣṭomātirātrābhyāṃ phalaṃ vindati bhārata 74 tīrthe ca sarvadevānāṃ snātvā bharatasattama gosahasrasya rājendra phalaṃ prāpnoti mānavaḥ 75 pāṇikhāte naraḥ snātvā tarpayitvā ca devatāḥ rājasūyam avāpnoti ṛṣilokaṃ ca gacchati 76 tato gaccheta rājendra miśrakaṃ tīrtham uttamam tatra tīrthāni rājendra miśritāni mahātmanā 77 vyāsena nṛpaśārdūla dvijārtham iti naḥ śrutam sarvatīrtheṣu sa snāti miśrake snāti yo naraḥ 78 tato vyāsa vanaṃ gacchen niyato niyatāśanaḥ manojave naraḥ snātvā gosahasraphalaṃ labhet 79 gatvā madhu vaṭīṃ cāpi devyās tīrthaṃ naraḥ śuciḥ tatra snātvārcayed devān pitṝṃś ca prayataḥ śuciḥ sa devyā samanujñāto gosahasraphalaṃ labhet 80 kauśikyāḥ saṃgame yas tu dṛṣadvatyāś ca bhārata snāti vai niyatāhāraḥ sarvapāpaiḥ pramucyate 81 tato vyāsa sthalī nāma yatra vyāsena dhīmatā putraśokābhitaptena dehatyāgārtha niścayaḥ 82 kṛto devaiś ca rājendra punar utthāpitas tadā abhigamya sthalīṃ tasya gosahasraphalaṃ labhet 83 kiṃ dattaṃ kūpam āsādya tilaprasthaṃ pradāya ca gaccheta paramāṃ siddhim ṛṇair muktaḥ kurūdvaha 84 ahaś ca sudinaṃ caiva dve tīrthe ca sudurlabhe tayoḥ snātvā naravyāghra sūryalokam avāpnuyāt 85 mṛgadhūmaṃ tato gacchet triṣu lokeṣu viśrutam tatra gaṅgā hrade snātvā samabhyarcya ca mānavaḥ śūlapāṇiṃ mahādevam aśvamedha phalaṃ labhet 86 deva tīrthe naraḥ snātvā gosahasraphalaṃ labhet atha vāmanakaṃ gacchet triṣu lokeṣu viśrutam 87 tatra viṣṇupade snātvā arcayitvā ca vāmanam sarvapāpaviśuddhātmā viṣṇulokam avāpnuyāt 88 kulampune naraḥ snātvā punāti svakulaṃ naraḥ pavanasya hradaṃ gatvā marutāṃ tīrtham uttamam tatra snātvā naravyāghra vāyuloke mahīyate 89 amarāṇāṃ hrade snātvā amareṣu narādhipa amarāṇāṃ prabhāvena svargaloke mahīyate 90 śālihotrasya rājendra śāliśūrpe yathāvidhi snātvā naravaraśreṣṭha gosahasraphalaṃ labhet 91 śrīkuñjaṃ ca sarasvatyāṃ tīrthaṃ bharatasattama tatra snātvā naro rājann agniṣṭoma phalaṃ labhet 92 tato naimiṣa kuñjaṃ ca samāsādya kurūdvaha ṛṣayaḥ kila rājendra naimiṣeyās tapodhanāḥ tīrthayātrāṃ puraskṛtya kurukṣetraṃ gatāḥ purā 93 tataḥ kuñjaḥ sarasvatyāṃ kṛto bharatasattama ṛṣīṇām avakāśaḥ syād yathā tuṣṭikaro mahān 94 tasmin kuñje naraḥ snātvā gosahasraphalaṃ labhet kanyā tīrthe naraḥ snātvā agniṣṭoma phalaṃ labhet 95 tato gacchen naravyāghra brahmaṇaḥ sthānam uttamam tatra varṇāvaraḥ snātvā brāhmaṇyaṃ labhate naraḥ brāhmaṇaś ca viśuddhātmā gaccheta paramāṃ gatim 96 tato gacchen naraśreṣṭha somatīrtham anuttamam tatra snātvā naro rājan somalokam avāpnuyāt 97 sapta sārasvataṃ tīrthaṃ tato gacchen narādhipa yatra maṅkaṇakaḥ siddho maharṣir lokaviśrutaḥ 98 purā maṅkaṇako rājan kuśāgreṇeti naḥ śrutam kṣataḥ kila kare rājaṃs tasya śākaraso 'sravat 99 sa vai śākarasaṃ dṛṣṭvā harṣāviṣṭo mahātapāḥ pranṛttaḥ kila viprarṣir vismayotphullalocanaḥ 100 tatas tasmin pranṛtte vai sthāvaraṃ jaṅgamaṃ ca yat pranṛttam ubhayaṃ vīra tejasā tasya mohitam 101 brahmādibhiḥ surai rājann ṛṣibhiś ca tapodhanaiḥ vijñapto vai mahādeva ṛṣer arthe narādhipa nāyaṃ nṛtyed yathā deva tathā tvaṃ kartum arhasi 102 tataḥ pranṛttam āsādya harṣāviṣṭena cetasā surāṇāṃ hitakāmārtham ṛṣiṃ devo 'bhyabhāṣata 103 aho maharṣe dharmajña kimarthaṃ nṛtyate bhavān harṣasthānaṃ kimarthaṃ vā tavādya munipuṃgava 104 [rsi] kiṃ na paśyasi me devakarāc chāka rasaṃ srutam yaṃ dṛṣṭvāhaṃ pranṛtto vai harṣeṇa mahatānvitaḥ 105 [pulastya] taṃ prahasyābravīd devo muniṃ rāgeṇa mohitam ahaṃ vai vismayaṃ vipra na gacchāmīti paśya mām 106 evam uktvā naraśreṣṭha mahādevena dhīmatā aṅgulyagreṇa rājendra svāṅguṣṭhas tāḍito 'nagha 107 tato bhasma kṣatād rājan nirgataṃ himasaṃnibham tad dṛṣṭvā vrīḍito rājan sa muniḥ pādayor gataḥ 108 nānyaṃ devam ahaṃ manye rudrāt parataraṃ mahat surāsurasya jagato gatis tvam asi śūladhṛk 109 tvayā sṛṣṭam idaṃ viśvaṃ trailokyaṃ sa carācaram tvām eva bhagavan sarve praviśanti yugakṣaye 110 devair api na śakyas tvaṃ parijñātuṃ kuto mayā tvayi sarve ca dṛśyante surā brahmādayo 'nagha 111 sarvas tvam asi lokānāṃ kartā kārayitā ca ha tvatprasādāt surāḥ sarve modantīhākuto bhayāḥ evaṃ stutvā mahādevaṃ sa ṛṣiḥ praṇato 'bhavat 112 [rsi] tvatprasādān mahādeva tapo me na kṣareta vai 113 [pulastya] tato devaḥ prahṛṣṭātmā brahmarṣim idam abravīt tapas te vardhatāṃ vipra matprasādāt sahasradhā 114 āśrame ceha vatsyāmi tvayā sārdhaṃ mahāmune sapta sārasvate snātvā arcayiṣyanti ye tu mām 115 na teṣāṃ durlabhaṃ kiṃ cid iha loke paratra ca sārasvataṃ ca te lokaṃ gamiṣyanti na saṃśayaḥ 116 tatas tv auśanasaṃ gacchet triṣu lokeṣu viśrutam yatra brahmādayo devā ṛṣayaś ca tapodhanāḥ 117 kārtikeyaś ca bhagavāṃs trisaṃdhyaṃ kila bhārata sāṃnidhyam akarot tatra bhārgava priyakāmyayā 118 kapālamocanaṃ tīrthaṃ sarvapāpapramocanam tatra snātvā naravyāghra sarvapāpaiḥ pramucyate 119 agnitīrthaṃ tato gacchet tatra snātvā nararṣabha agnilokam avāpnoti kulaṃ caiva samuddharet 120 viśvā mitrasya tatraiva tīrthaṃ bharatasattama tatra snātvā mahārāja brāhmaṇyam abhijāyate 121 brahmayoniṃ samāsādya śuciḥ prayata mānasaḥ tatra snātvā naravyāghra brahmalokaṃ prapadyate punāty ā saptamaṃ caiva kulaṃ nāsty atra saṃśayaḥ 122 tato gaccheta rājendra tīrthaṃ trailokyaviśrutam pṛthūdakam iti khyātaṃ kārtikeyasya vai nṛpa tatrābhiṣekaṃ kurvīta pitṛdevārcane rataḥ 123 ajñānāj jñānato vāpi striyā vā puruṣeṇa vā yat kiṃ cid aśubhaṃ karmakṛtaṃ mānuṣabuddhinā 124 tat sarvaṃ naśyate tasya snātamātrasya bhārata aśvamedha phalaṃ cāpi svargalokaṃ ca gacchati 125 puṇyam āhuḥ kurukṣetraṃ kurukṣetrāt sarasvatīm sarasvatyāś ca tīrthāni tīrthebhyaś ca pṛthūdakam 126 uttame sarvatīrthānāṃ yas tyajed ātmanas tanum pṛthūdake japyaparo nainaṃ śvo maraṇaṃ tapet 127 gītaṃ sanat kumāreṇa vyāsena ca mahātmanā vede ca niyataṃ rājan abhigacchet pṛthūdakam 128 pṛthūdakāt puṇyatamaṃ nānyat tīrthaṃ narottama etan medhyaṃ pavitraṃ ca pāvanaṃ ca na saṃśayaḥ 129 tatra snātvā divaṃ yānti api pāpakṛto janāḥ pṛthūdake naraśreṣṭha prāhur evaṃ manīṣiṇaḥ 130 madhusravaṃ ca tatraiva tīrthaṃ bharatasattama tatra snātvā naro rājan gosahasraphalaṃ labhet 131 tato gacchen naraśreṣṭha tīrthaṃ devyā yathākramam sarasvatyāruṇāyāś ca saṃgamaṃ lokaviśrutam 132 trirātropoṣitaḥ snātvā mucyate brahmahatyayā agniṣṭomātirātrābhyāṃ phalaṃ vindati mānavaḥ 133 ā saptamaṃ kulaṃ caiva punāti bharatarṣabha avatīrṇaṃ ca tatraiva tīrthaṃ kurukulodvaha viprāṇām anukampārthaṃ darbhiṇā nirmitaṃ purā 134 vratopanayanābhyāṃ vā upavāsena vā dvijaḥ kriyā mantraiś ca saṃyukto brāhmaṇaḥ syān na saṃśayaḥ 135 kriyā mantravihīno 'pi tatra snātvā nararṣabha cīrṇa vrato bhaved vipro dṛṣṭam etat purātane 136 samudrāś cāpi catvāraḥ samānītāś ca darbhiṇā yeṣu snāto naravyāghra na durgatim avāpnuyāt phalāni gosahasrāṇāṃ caturṇāṃ vindate ca saḥ 137 tato gaccheta rājendra tīrthaṃ śatasahasrakam sāhasrakaṃ ca tatraiva dve tīrthe lokaviśrute 138 ubhayor hi naraḥ snātvā gosahasraphalaṃ bhavet dānaṃ vāpy upavāso vā sahasraguṇitaṃ bhavet 139 tato gaccheta rājendra reṇukā tīrtham uttamam tatrābhiṣekaṃ kurvīta pitṛdevārcane rataḥ srava pāpaviśuddhātmā agniṣṭoma phalaṃ labhet 140 vimocanam upaspṛśya jitamanyur jitendriyaḥ pratigraha kṛtair doṣair sarvaiḥ sa parimucyate 141 tataḥ pañca vaṭaṃ gatvā brahma cārī jitendriyaḥ puṇyena mahatā yuktaḥ satāṃ loke mahīyate 142 yatra yogeśvaraḥ sthāṇuḥ svayam eva vṛṣadhvajaḥ tam arcayitvā deveśaṃ gamanād eva sidhyati 143 aujasaṃ varuṇaṃ tīrthaṃ dīpyate svena tejasā yatra brahmādibhir devair ṛṣibhiś ca tapodhanaiḥ senāpatyena devānām abhiṣikto guhas tadā 144 aujasasya tu pūrveṇa kuru tīrthaṃ kurūdvaha kuru tīrthe naraḥ snātvā brahma cārī jitendriyaḥ sarvapāpaviśuddhātmā kuru lokaṃ prapadyate 145 svargadvāraṃ tato gacchen niyato niyatāśanaḥ svargalokam avāpnoti brahmalokaṃ ca gacchati 146 tato gacched anarakaṃ tīrthasevī narādhipa tatra snātvā naro rājan na durgatim ivāpnuyāt 147 tatra brahmā svayaṃ nityaṃ devaiḥ saha mahīpate anvāsyate naraśreṣṭha nārāyaṇa purogamaiḥ 148 sāṃnidhyaṃ caiva rājendra rudra patnyāḥ kurūdvaha abhigamya ca tāṃ devīṃ na durgatim avāpnuyāt 149 tatraiva ca mahārāja viśveśvaram umāpatim abhigamya mahādevaṃ mucyate sarvakilbiṣaiḥ 150 nārāyaṇaṃ cābhigamya padmanābham ariṃdamam śobhamāno mahārāja viṣṇulokaṃ prapadyate 151 tīrthe tu sarvadevānāṃ snātaḥ sa puruṣarṣabha sarvaduḥkhaiḥ parityakto dyotate śaśivat sadā 152 tataḥ svasti puraṃ gacchet tīrthasevī narādhipa pāvanaṃ tīrtham āsādya tarpayet pitṛdevatāḥ agniṣṭomasya yajñasya phalaṃ prāpnoti mānavaḥ 153 gaṅgā hradaś ca tatraiva kūpaś ca bharatarṣabha tisraḥ koṭyas tu tīrthānāṃ tasmin kūpe mahīpate tatra snātvā naro rājan svargalokaṃ prapadyate 154 āpagāyāṃ naraḥ snātvā arcayitvā maheśvaram gāṇapatyam avāpnoti kulaṃ coddharate svakam 155 tataḥ sthāṇuvaṭaṃ gacchet triṣu lokeṣu viśrutam tatra snātvā sthito rātriṃ rudra lokam avāpnuyāt 156 badarī pācanaṃ gacched vasiṣṭhasyāśramaṃ tataḥ badaraṃ bhakṣayet tatra trirātropoṣito naraḥ 157 samyag dvādaśa varṣāṇi badarān bhakṣayet tu yaḥ trirātropoṣitaś caiva bhavet tulyo narādhipa 158 indra mārgaṃ samāsādya tīrthasevī narādhipa ahorātropavāsena śakra loke mahīyate 159 ekarātraṃ samāsādya ekarātroṣito naraḥ niyataḥ satyavādī ca brahmaloke mahīyate 160 tato gaccheta dharmajña tīrthaṃ trailokyaviśrutam ādityasyāśramo yatra tejorāśer mahātmanāḥ 161 tasmiṃs tīrthe naraḥ snātvā pūjayitvā vibhāvasum ādityalokaṃ vrajati kulaṃ caiva samuddharet 162 somatīrthe naraḥ snātvā tīrthasevī kurūdvaha somalokam avāpnoti naro nāsty atra saṃśayaḥ 163 tato gaccheta dharmajña dadhīcasya mahātmanāḥ tīrthaṃ puṇyatamaṃ rājan pāvanaṃ lokaviśrutam 164 yatra sārasvato rājan so 'ṅgirās tapaso nidhiḥ tasmiṃs tīrthe naraḥ snātvā vājapeyaphalaṃ labhet sārasvatīṃ gatiṃ caiva labhate nātra saṃśayaḥ 165 tataḥ kanyāśramaṃ gacchen niyato brahmacaryavān trirātropoṣito rājann upavāsaparāyaṇaḥ labhet kanyāśataṃ divyaṃ brahmalokaṃ ca gacchati 166 yatra brahmādayo devā ṛṣayaś ca tapodhanāḥ māsi māsi samāyānti puṇyena mahatānvitāḥ 167 saṃnihityām upaspṛśya rāhugraste divākare aśvamedha śataṃ tena iṣṭaṃ bhavati śāśvatam 168 pṛthivyāṃ yāni tīrthāni antarikṣacarāṇi ca nadyo nadās taḍāgāś ca sarvaprasravaṇāni ca 169 udapānāś ca vaprāś ca puṇyāny āyatanāni ca māsi māsi samāyānti saṃnihityāṃ na saṃśayaḥ 170 yat kiṃ cid duṣkṛtaṃ karma striyā vā puruṣasya vā snātamātrasya tat sarvaṃ naśyate nātra saṃśayaḥ padmavarṇena yānena brahmalokaṃ sa gacchati 171 abhivādya tato yakṣaṃ dvārapālam arantukam koṭirūpam upaspṛśya labhed bahusuvarṇakam 172 gaṅgā hradaś ca tatraiva tīrthaṃ bharatasattama tatra snātas tu dharmajña brahma cārī samāhitaḥ rājasūyāśvamedhābhyāṃ phalaṃ vindati śāśvatam 173 pṛthivyāṃ naimiṣaṃ puṇyam antarikṣe ca puṣkaram trayāṇām api lokānāṃ kurukṣetraṃ viśiṣyate 174 pāṃsavo 'pi kurukṣetre vāyunā samudīritāḥ api duṣkṛtakarmāṇaṃ nayanti paramāṃ gatim 175 dakṣiṇena sarasvatyā uttareṇa dṛṣadvatīm ye vasanti kurukṣetre te vasanti triviṣṭape 176 kurukṣetraṃ gamiṣyāmi kurukṣetre vasāmy aham apy ekāṃ vācam utsṛjya sarvapāpaiḥ pramucyate 177 brahma vedī kurukṣetraṃ puṇyaṃ brahmarṣisevitam tadāvasanti ye rājan na te śocyāḥ kathaṃ cana 178 tarantukārantukayor yad antaraṃ; rāmahradānāṃ ca macakrukasya etat kurukṣetrasamantapañcakaṃ; pitā mahasyottara vedir ucyate |
Cite this text
The Mahabharata in Sanskrit, part 1 of 12. . Hermetic Cloud, https://hermeticcloud.com/library/the-mahabharata-in-sanskrit-part-1/. Public-domain text reproduced in full; markup only.