The Mahabharata in Sanskrit. Parallel Devanagari and Romanization.
Book 12
Chapter 210
|
1
[गुरु] न स वेद परं धर्मं यॊ न वेद चतुष्टयम वयक्ताव्यक्ते च यत तत्त्वं संप्राप्तं परमर्षिणा 2 वयक्तं मृत्युमुखं विद्याद अव्यक्तम अमृतं पदम परवृत्ति लक्षणं धर्मम ऋषिर नारायणॊ ऽबरवीत 3 अत्रैवावस्थितं सर्वं तरैलॊक्यं सचराचरम निवृत्ति लक्षणं धर्मम अव्यक्तं बरह्म शाश्वतम 4 परवृत्ति लक्षणं धर्मं परजापतिर अथाब्रवीत परवृत्तिः पुनर आवृत्तिर निवृत्तिः परमा गतिः 5 तां गतिं परमाम एति निवृत्ति परमॊ मुनिः जञानतत्त्वपरॊ नित्यं शुभाशुभनिदर्शकः 6 तद एवम एतौ विज्ञेयाव अव्यक्तपुरुषाव उभौ अव्यक्तपुरुषाभ्यां तु यत सयाद अन्यन महत्तरम 7 तं विशेषम अवेक्षेत विशेषेण विचक्षणः अनाद्य अन्ताव उभाव एताव अलिङ्गौ चाप्य उभाव अपि 8 उभौ नित्यौ सूक्ष्मतरौ महद भयश च महत्तरौ सामान्यम एतद उभयॊर एवं हय अन्यद विशेषणम 9 परकृत्या सर्ग धर्मिण्या तथा तरिविध सत्त्वया विपरीतम अतॊ विद्यात कषेत्रज्ञस्य च लक्षणम 10 परकृतेश च विकाराणां दरष्टारम अगुणान्वितम अग्राह्यौ पुरुषाव एताव अलिङ्गत्वद असंहितौ 11 संयॊगलक्षणॊत्पत्तिः कर्मजा गृह्यते यया करणैः कर्म निर्वृत्तैः कर्ता यद यद विचेष्टते कीर्त्यते शब्दसंज्ञाभिः कॊ ऽहम एषॊ ऽपय असाव इति 12 उष्णीसवान यथा वस्त्रैस तरिभिर भवति संवृतः संवृतॊ ऽयं तथा देही सत्त्वराजस तामसैः 13 तस्माच चतुष्टयं वेद्यम एतैर हेतुभिर आचितम यथा संज्ञॊ हय अयं सम्यग अन्तकाले न मुह्यति 14 शरियं दिव्याम अभिप्रेप्सुर बरह्म वाङ्मनसा शुचिः शारीरैर नियमैर उग्रैश चरेन निष्कल्मषं तपः 15 तरैलॊक्यं तपसा वयाप्तम अन्तर्भूतेन भास्वता सूर्यश च चन्द्रमाश चैव भासतस तपसा दिवि 16 परतापस तपसॊ जञानं लॊके संशब्दितं तपः रजस तमॊ घनं यत कर्म तपसस तत सवलक्षणम 17 बरह्मचर्यम अहिंसा च शारीरं तप उच्यते वाङ्मनॊ नियमः साम्यं मानसं तप उच्यते 18 विधिज्ञेभ्यॊ दविजातिभ्यॊ गराह्यम अन्नं विशिष्यते आहारनियमेनास्य पाप्मा नश्यति राजसः 19 वैमनस्यं च विषये यान्त्य अस्य कवरणानि च तस्मात तन्मात्रम आदद्याद यावद अत्र परयॊजनम 20 अन्तकाले वयॊत्कर्षाच छनैः कुर्याद अनातुरः एवं युक्तेन मनसा जञानं तद उपपद्यते 21 रजसा चाप्य अयं देही देहवाञ शब्दवच चरेत कार्यैर अव्याहत मतिर वैराग्यात परकृतौ सथितः आ देहाद अप्रमादाच च देहान्ताद विप्रमुच्यते 22 हेतुयुक्तः सदॊत्सर्गॊ भूतानां परलयस तथा परप्रत्यय सर्गे तु नियतं नातिवर्तते 23 भवान्त परभव परज्ञा आसते ये विपर्ययम धृत्या देहान धारयन्तॊ बुद्धिसंक्षिप्त मानसाः सथानेभ्यॊ धवंसमानाश च सूक्ष्मत्वात तान उपासते 24 यथागमं च तत सर्वं बुद्ध्या तन नैव बुध्यते देहान्तं कश चिद अन्स्वास्ते भावितात्मा निराश्रयः युक्तॊ धारणया कश चित सत्तां के चिद उपासते 25 अभ्यस्यन्ति परं देवं विद्युत संशब्दिताक्षरम अन्तकाले हय उपासन्नास तपसा दग्धकिल्बिषाः 26 सर्व एते महात्मानॊ गच्छन्ति परमां गतिम सूक्ष्मं विशेषणं तेषाम अवेक्षेच छास्त्र चक्षुषा 27 देहं तु परमं विद्याद विमुक्तम अपरिग्रहम अन्तरिक्षाद अन्यतरं धारणासक्तमानसम 28 मर्त्यलॊकाद विमुच्यन्ते विद्या संयुक्त मानसाः बरह्मभूता विरजसस ततॊ यान्ति परां गतिम 29 कसाय वर्जितं जञानं येषाम उत्पद्यते ऽचलम ते यान्ति परमाँल लॊकान विशुध्यन्तॊ यथाबलम 30 भगवन्तम अजं दिव्यं विष्णुम अव्यक्तसंज्ञितम भावेन यान्ति शुद्धा ये जञानतृप्ता निराशिषः 31 जञात्वात्मस्थं हरिं चैव निवर्तन्ते न ते ऽवययाः पराप्य तत्परमं सथानं मॊदन्ते ऽकषरम अव्ययम 32 एतावद एतद विज्ञानम एतद अस्ति च नास्ति च तृष्णा बद्धं जगत सर्वं चक्रवत परिवर्तते 33 बिस तन्तुर यथैवायम अन्तस्थः सर्वतॊ बिसे तृष्णा तन्तुर अनाद्य अन्तस तथा देहगतः सदा 34 सूच्या सूत्रं यथा वस्त्रे संसारयति वायकः तद्वत संसारसूत्रं हि तृष्णा सूच्या निबध्यते 35 विकारं परकृतिं चैव पुरुषं च सनातनम यॊ यथावद विजानाति स वितृन्सॊ विमुच्यते 36 परकाशं भगवान एतद ऋषिर नारायणॊ ऽमृतम भूतानाम अनुकम्पार्थं जगाद जगतॊ हितम |
1
[guru] na sa veda paraṃ dharmaṃ yo na veda catuṣṭayam vyaktāvyakte ca yat tattvaṃ saṃprāptaṃ paramarṣiṇā 2 vyaktaṃ mṛtyumukhaṃ vidyād avyaktam amṛtaṃ padam pravṛtti lakṣaṇaṃ dharmam ṛṣir nārāyaṇo 'bravīt 3 atraivāvasthitaṃ sarvaṃ trailokyaṃ sacarācaram nivṛtti lakṣaṇaṃ dharmam avyaktaṃ brahma śāśvatam 4 pravṛtti lakṣaṇaṃ dharmaṃ prajāpatir athābravīt pravṛttiḥ punar āvṛttir nivṛttiḥ paramā gatiḥ 5 tāṃ gatiṃ paramām eti nivṛtti paramo muniḥ jñānatattvaparo nityaṃ śubhāśubhanidarśakaḥ 6 tad evam etau vijñeyāv avyaktapuruṣāv ubhau avyaktapuruṣābhyāṃ tu yat syād anyan mahattaram 7 taṃ viśeṣam avekṣeta viśeṣeṇa vicakṣaṇaḥ anādy antāv ubhāv etāv aliṅgau cāpy ubhāv api 8 ubhau nityau sūkṣmatarau mahad bhyaś ca mahattarau sāmānyam etad ubhayor evaṃ hy anyad viśeṣaṇam 9 prakṛtyā sarga dharmiṇyā tathā trividha sattvayā viparītam ato vidyāt kṣetrajñasya ca lakṣaṇam 10 prakṛteś ca vikārāṇāṃ draṣṭāram aguṇānvitam agrāhyau puruṣāv etāv aliṅgatvad asaṃhitau 11 saṃyogalakṣaṇotpattiḥ karmajā gṛhyate yayā karaṇaiḥ karma nirvṛttaiḥ kartā yad yad viceṣṭate kīrtyate śabdasaṃjñābhiḥ ko 'ham eṣo 'py asāv iti 12 uṣṇīsavān yathā vastrais tribhir bhavati saṃvṛtaḥ saṃvṛto 'yaṃ tathā dehī sattvarājasa tāmasaiḥ 13 tasmāc catuṣṭayaṃ vedyam etair hetubhir ācitam yathā saṃjño hy ayaṃ samyag antakāle na muhyati 14 śriyaṃ divyām abhiprepsur brahma vāṅmanasā śuciḥ śārīrair niyamair ugraiś caren niṣkalmaṣaṃ tapaḥ 15 trailokyaṃ tapasā vyāptam antarbhūtena bhāsvatā sūryaś ca candramāś caiva bhāsatas tapasā divi 16 pratāpas tapaso jñānaṃ loke saṃśabditaṃ tapaḥ rajas tamo ghnaṃ yat karma tapasas tat svalakṣaṇam 17 brahmacaryam ahiṃsā ca śārīraṃ tapa ucyate vāṅmano niyamaḥ sāmyaṃ mānasaṃ tapa ucyate 18 vidhijñebhyo dvijātibhyo grāhyam annaṃ viśiṣyate āhāraniyamenāsya pāpmā naśyati rājasaḥ 19 vaimanasyaṃ ca viṣaye yānty asya kvaraṇāni ca tasmāt tanmātram ādadyād yāvad atra prayojanam 20 antakāle vayotkarṣāc chanaiḥ kuryād anāturaḥ evaṃ yuktena manasā jñānaṃ tad upapadyate 21 rajasā cāpy ayaṃ dehī dehavāñ śabdavac caret kāryair avyāhata matir vairāgyāt prakṛtau sthitaḥ ā dehād apramādāc ca dehāntād vipramucyate 22 hetuyuktaḥ sadotsargo bhūtānāṃ pralayas tathā parapratyaya sarge tu niyataṃ nātivartate 23 bhavānta prabhava prajñā āsate ye viparyayam dhṛtyā dehān dhārayanto buddhisaṃkṣipta mānasāḥ sthānebhyo dhvaṃsamānāś ca sūkṣmatvāt tān upāsate 24 yathāgamaṃ ca tat sarvaṃ buddhyā tan naiva budhyate dehāntaṃ kaś cid ansvāste bhāvitātmā nirāśrayaḥ yukto dhāraṇayā kaś cit sattāṃ ke cid upāsate 25 abhyasyanti paraṃ devaṃ vidyut saṃśabditākṣaram antakāle hy upāsannās tapasā dagdhakilbiṣāḥ 26 sarva ete mahātmāno gacchanti paramāṃ gatim sūkṣmaṃ viśeṣaṇaṃ teṣām avekṣec chāstra cakṣuṣā 27 dehaṃ tu paramaṃ vidyād vimuktam aparigraham antarikṣād anyataraṃ dhāraṇāsaktamānasam 28 martyalokād vimucyante vidyā saṃyukta mānasāḥ brahmabhūtā virajasas tato yānti parāṃ gatim 29 kasāya varjitaṃ jñānaṃ yeṣām utpadyate 'calam te yānti paramāṁl lokān viśudhyanto yathābalam 30 bhagavantam ajaṃ divyaṃ viṣṇum avyaktasaṃjñitam bhāvena yānti śuddhā ye jñānatṛptā nirāśiṣaḥ 31 jñātvātmasthaṃ hariṃ caiva nivartante na te 'vyayāḥ prāpya tatparamaṃ sthānaṃ modante 'kṣaram avyayam 32 etāvad etad vijñānam etad asti ca nāsti ca tṛṣṇā baddhaṃ jagat sarvaṃ cakravat parivartate 33 bisa tantur yathaivāyam antasthaḥ sarvato bise tṛṣṇā tantur anādy antas tathā dehagataḥ sadā 34 sūcyā sūtraṃ yathā vastre saṃsārayati vāyakaḥ tadvat saṃsārasūtraṃ hi tṛṣṇā sūcyā nibadhyate 35 vikāraṃ prakṛtiṃ caiva puruṣaṃ ca sanātanam yo yathāvad vijānāti sa vitṛnso vimucyate 36 prakāśaṃ bhagavān etad ṛṣir nārāyaṇo 'mṛtam bhūtānām anukampārthaṃ jagāda jagato hitam |
The Mahabharata in Sanskrit
Book 12
Chapter 211
|
1
[य] केन वृत्तेन वृत्तज्ञॊ जनकॊ मिथिलाधिपः जगाम मॊक्षं धर्मज्ञॊ भॊगान उत्सृज्य मानुषान 2 [भी] अत्राप्य उदाहरन्तीमम इतिहासं पुरातनम येन वृत्तेन वृत्तज्ञः स जगाम महत सुखम 3 जनकॊ जनदेवस तु मिथिलायां जनाधिपः और्ध्व देहिक धर्माणाम आसीद युक्तॊ विचिन्तने 4 तस्य सम शतम आचार्या वसन्ति सततं गृहे दर्शयन्तः पृथग धर्मान नाना पासन्द वादिनः 5 स तेषां परेत्य भावे च परेत्य जातौ विनिश्चये आगमस्थः स भूयिष्ठम आत्मतत्त्वे न तुष्यति 6 तत्र पञ्चशिखॊ नाम कापिलेयॊ महामुनिः परिधावन महीं कृत्स्नां जगाम मिथिलाम अपि 7 सर्वसंन्यासधर्माणां तत्त्वज्ञानविनिश्चये सुपर्यवसितार्थश च निर्द्वन्द्वॊ नष्ट संशयः 8 ऋषीणाम आहुर एकं यं कामाद अवसितं नृषु शाश्वतं सुखम अत्यन्तम अन्विच्छन स सुदुर्लभम 9 यम आहुः कपिलं सांख्याः परमर्षिं परजापतिम स मन्ये तेन रूपेण विस्मापयति हि सवयम 10 आसुरेः परथमं शिष्यं यम आहुश चिरजीविनम पञ्च सरॊतसि यः सत्त्रम आस्ते वर्षसहस्रिकम 11 तं समासीनम आगम्य मन्दलं कापिलं महत पुरुषावस्थम अव्यक्तं परमार्थं निबॊधयत 12 इष्टि सत्त्रेण संसिद्धॊ भूयश च तपसा मुनिः कषेत्रक्षेत्रज्ञयॊर वयक्तिं बुबुधे देव दर्शनः 13 यत तद एकाक्षरं बरह्म नानारूपं परदृश्यते आसुरिर मन्दले तस्मिन परतिपेदे तद अव्ययम 14 तस्य पञ्चशिखः शिष्यॊ मानुष्या पयसा भृतः बराह्मणी कपिला नाम का चिद आसीत कुतुम्बिनी 15 तस्याः पुत्रत्वम आगम्य सत्रियाः स पिबति सतनौ ततः स कापिलेयत्वं लेभे बुद्धिं च नैष्ठिकीम 16 एतन मे भगवान आह कापिलेयाय संभवम तस्य तत कापिलेयत्वं सर्ववित्त्वम अनुत्तमम 17 सामान्यं कपिलॊ जञात्वा धर्मज्ञानाम अनुत्तमम उपेत्य शतम आचार्यान मॊहयामस हेतुभिः 18 जनकस तव अभिसंरक्तः कापिलेयानुदर्शनात उत्सृज्य शतम आचार्यान पृष्ठतॊ ऽनुजगाम तम 19 तस्मै परमकल्पाय परनताय च धर्मतः अब्रवीत परमं मॊक्षं यत तत सांख्यं विधीयते 20 जातिनिर्वेदम उक्त्वा हि कर्म निर्वेदम अब्रवीत कर्म निर्वेदम उक्त्वा च सर्वनिर्वेदम अब्रवीत 21 यदर्थं कर्म संसर्गः कर्मणां च फलॊदयः तद अनाश्वासिकं मॊघं विनाशि चलम अध्रुवम 22 दृश्यमाने विनाशे च परत्यक्षे लॊकसाक्षिके आगमात परम अस्तीति बरुवन्न अपि पराजितः 23 अनात्मा हय आत्मनॊ मृत्युः कलेशॊ मृत्युर जरा मयः आत्मानं मन्यते मॊहात तद असम्यक परं मतम 24 अथ चेद एवम अप्य अस्ति यल लॊके नॊपपद्यते अजरॊ ऽयम अमृत्युश च राजासौ मन्यते तथा 25 अस्ति नास्तीति चाप्य एतत तस्मिन्न असति लक्षणे किम अधिष्ठाय तद बरूयाल लॊकयात्रा विनिश्चयम 26 परत्यक्षं हय एतयॊर मूलं कृतान्तैतिह्ययॊर अपि परत्यक्षॊ हय आगमॊ ऽभिन्नः कृतान्तॊ वा न किं चन 27 यत्र तत्रानुमाने ऽसति कृतं भावयते ऽपि वा अन्यॊ जीवः शरीरस्य नास्तिकानां मते समृतः 28 रेतॊ वत कनीकायां घृतपाकाधिवासनम जातिस्मृतिर अयः कान्तः सूर्यकान्तॊ ऽमबुलक्षणम 29 परेत्य भूतात्ययश चैव देवताभ्युपयाचनम मृते कर्म निवृत्तिश च परमानम इति निश्चयः 30 न तव एते हेतवः सन्ति ये के चिन मूर्ति संस्थिताः अमर्त्यस्य हि मर्त्येन सामान्यं नॊपपद्यते 31 अविद्या कर्म चेष्टानां के चिद आहुः पुनर्भवम कारणं लॊभमॊहौ तु दॊषाणां च निषेवणम 32 अविद्यां कषेत्रम आहुर हि कर्म बीजं तथा कृतम तृष्णा संजननं सनेह एष तेषां पुनर्भवः 33 तस्मिन वयूधे च दग्धे च चित्ते मरणधर्मिणि अन्यॊ ऽनयाज जायते देहस तम आहुः सत्त्वसंक्षयम 34 यदा स रूपतश चान्यॊ जातितः शरुतितॊ ऽरथतः कथम अस्मिन स इत्य एव संबन्धः सयाद असंहितः 35 एवं सति च का परीतिर दानविद्या तपॊबलैः यद अन्याचरितं कर्म सर्वम अन्यः परपद्यते 36 यदा हय अयम इहैवान्यैः पराकृतैर दुःखितॊ भवेत सुखितैर दुःखितैर वापि दृश्यॊ ऽपय अस्य विनिर्नयः 37 तथा हि मुसलैर हन्यः शरीरं तत पुनर्भवेत पृथग जञानं यद अन्यच च येनैतन नॊपलभ्यते 38 ऋतुः संवत्सरस तिथ्यः शीतॊष्णे च परियाप्रिये यथातीतानि पश्यन्ति तादृशः सत्त्वसंक्षयः 39 जरया हि परीतस्य मृत्युना वा विनाशिना दुर्बलं दुर्बलं पूर्वं गृहस्येव विनश्यति 40 इन्द्रियाणि मनॊ वायुः शॊनितं मांसम अस्थि च आनुपूर्व्या विनश्यन्ति सवं धातुम उपयान्ति च 41 लॊकयात्रा विधानं च दानधर्मफलागमः यदर्थं वेद शब्दाश च वयवहाराश च लौकिकाः 42 इति सम्यङ मनस्य एते बहवः सन्ति हेतवः एतद अस्तीदम अस्तीति न किं चित परतिपद्यते 43 तेषां विमृशताम एवं तत तत समभिधावताम कव चिन निविशते बुद्धिस तत्र जीर्यति वृक्षवत 44 एवम अर्थैर अनर्थैश च दुःखिताः सर्वजन्तवः आगमैर अपकृष्यन्ते हस्तिपैर हस्तिनॊ यथा 45 अर्थांस तथात्यन्तसुखावहांश च; लिप्सन्त एते बहवॊ विशुल्काः महत्तरं दुःखम अभिप्रपन्ना; हित्वामिषं मृत्युवशं परयान्ति 46 विनाशिनॊ हय अध्रुव जीवितस्य; किं बन्धुभिर मित्र परिग्रहैश च विहाय यॊ गच्छति सर्वम एव; कषणेन गत्वा न निवर्तते च 47 भूव्यॊम तॊयानल वायवॊ हि; सदा शरीरं परिपालयन्ति इतीदम आलक्ष्य कुतॊ रतिभवेद; विनाशिनॊ हय अस्य न शर्म विद्यते 48 इदम अनुपधि वाक्यम अच्छलं; परमनिरामयम आत्मसाक्षिकम नरपतिर अभिवीक्ष्य विस्मितः; पुनर अनुयॊक्तुम इदं परचक्रमे |
1
[y] kena vṛttena vṛttajño janako mithilādhipaḥ jagāma mokṣaṃ dharmajño bhogān utsṛjya mānuṣān 2 [bhī] atrāpy udāharantīmam itihāsaṃ purātanam yena vṛttena vṛttajñaḥ sa jagāma mahat sukham 3 janako janadevas tu mithilāyāṃ janādhipaḥ aurdhva dehika dharmāṇām āsīd yukto vicintane 4 tasya sma śatam ācāryā vasanti satataṃ gṛhe darśayantaḥ pṛthag dharmān nānā pāsanda vādinaḥ 5 sa teṣāṃ pretya bhāve ca pretya jātau viniścaye āgamasthaḥ sa bhūyiṣṭham ātmatattve na tuṣyati 6 tatra pañcaśikho nāma kāpileyo mahāmuniḥ paridhāvan mahīṃ kṛtsnāṃ jagāma mithilām api 7 sarvasaṃnyāsadharmāṇāṃ tattvajñānaviniścaye suparyavasitārthaś ca nirdvandvo naṣṭa saṃśayaḥ 8 ṛṣīṇām āhur ekaṃ yaṃ kāmād avasitaṃ nṛṣu śāśvataṃ sukham atyantam anvicchan sa sudurlabham 9 yam āhuḥ kapilaṃ sāṃkhyāḥ paramarṣiṃ prajāpatim sa manye tena rūpeṇa vismāpayati hi svayam 10 āsureḥ prathamaṃ śiṣyaṃ yam āhuś cirajīvinam pañca srotasi yaḥ sattram āste varṣasahasrikam 11 taṃ samāsīnam āgamya mandalaṃ kāpilaṃ mahat puruṣāvastham avyaktaṃ paramārthaṃ nibodhayat 12 iṣṭi sattreṇa saṃsiddho bhūyaś ca tapasā muniḥ kṣetrakṣetrajñayor vyaktiṃ bubudhe deva darśanaḥ 13 yat tad ekākṣaraṃ brahma nānārūpaṃ pradṛśyate āsurir mandale tasmin pratipede tad avyayam 14 tasya pañcaśikhaḥ śiṣyo mānuṣyā payasā bhṛtaḥ brāhmaṇī kapilā nāma kā cid āsīt kutumbinī 15 tasyāḥ putratvam āgamya striyāḥ sa pibati stanau tataḥ sa kāpileyatvaṃ lebhe buddhiṃ ca naiṣṭhikīm 16 etan me bhagavān āha kāpileyāya saṃbhavam tasya tat kāpileyatvaṃ sarvavittvam anuttamam 17 sāmānyaṃ kapilo jñātvā dharmajñānām anuttamam upetya śatam ācāryān mohayāmasa hetubhiḥ 18 janakas tv abhisaṃraktaḥ kāpileyānudarśanāt utsṛjya śatam ācāryān pṛṣṭhato 'nujagāma tam 19 tasmai paramakalpāya pranatāya ca dharmataḥ abravīt paramaṃ mokṣaṃ yat tat sāṃkhyaṃ vidhīyate 20 jātinirvedam uktvā hi karma nirvedam abravīt karma nirvedam uktvā ca sarvanirvedam abravīt 21 yadarthaṃ karma saṃsargaḥ karmaṇāṃ ca phalodayaḥ tad anāśvāsikaṃ moghaṃ vināśi calam adhruvam 22 dṛśyamāne vināśe ca pratyakṣe lokasākṣike āgamāt param astīti bruvann api parājitaḥ 23 anātmā hy ātmano mṛtyuḥ kleśo mṛtyur jarā mayaḥ ātmānaṃ manyate mohāt tad asamyak paraṃ matam 24 atha ced evam apy asti yal loke nopapadyate ajaro 'yam amṛtyuś ca rājāsau manyate tathā 25 asti nāstīti cāpy etat tasminn asati lakṣaṇe kim adhiṣṭhāya tad brūyāl lokayātrā viniścayam 26 pratyakṣaṃ hy etayor mūlaṃ kṛtāntaitihyayor api pratyakṣo hy āgamo 'bhinnaḥ kṛtānto vā na kiṃ cana 27 yatra tatrānumāne 'sti kṛtaṃ bhāvayate 'pi vā anyo jīvaḥ śarīrasya nāstikānāṃ mate smṛtaḥ 28 reto vata kanīkāyāṃ ghṛtapākādhivāsanam jātismṛtir ayaḥ kāntaḥ sūryakānto 'mbulakṣaṇam 29 pretya bhūtātyayaś caiva devatābhyupayācanam mṛte karma nivṛttiś ca pramānam iti niścayaḥ 30 na tv ete hetavaḥ santi ye ke cin mūrti saṃsthitāḥ amartyasya hi martyena sāmānyaṃ nopapadyate 31 avidyā karma ceṣṭānāṃ ke cid āhuḥ punarbhavam kāraṇaṃ lobhamohau tu doṣāṇāṃ ca niṣevaṇam 32 avidyāṃ kṣetram āhur hi karma bījaṃ tathā kṛtam tṛṣṇā saṃjananaṃ sneha eṣa teṣāṃ punarbhavaḥ 33 tasmin vyūdhe ca dagdhe ca citte maraṇadharmiṇi anyo 'nyāj jāyate dehas tam āhuḥ sattvasaṃkṣayam 34 yadā sa rūpataś cānyo jātitaḥ śrutito 'rthataḥ katham asmin sa ity eva saṃbandhaḥ syād asaṃhitaḥ 35 evaṃ sati ca kā prītir dānavidyā tapobalaiḥ yad anyācaritaṃ karma sarvam anyaḥ prapadyate 36 yadā hy ayam ihaivānyaiḥ prākṛtair duḥkhito bhavet sukhitair duḥkhitair vāpi dṛśyo 'py asya vinirnayaḥ 37 tathā hi musalair hanyaḥ śarīraṃ tat punarbhavet pṛthag jñānaṃ yad anyac ca yenaitan nopalabhyate 38 ṛtuḥ saṃvatsaras tithyaḥ śītoṣṇe ca priyāpriye yathātītāni paśyanti tādṛśaḥ sattvasaṃkṣayaḥ 39 jarayā hi parītasya mṛtyunā vā vināśinā durbalaṃ durbalaṃ pūrvaṃ gṛhasyeva vinaśyati 40 indriyāṇi mano vāyuḥ śonitaṃ māṃsam asthi ca ānupūrvyā vinaśyanti svaṃ dhātum upayānti ca 41 lokayātrā vidhānaṃ ca dānadharmaphalāgamaḥ yadarthaṃ veda śabdāś ca vyavahārāś ca laukikāḥ 42 iti samyaṅ manasy ete bahavaḥ santi hetavaḥ etad astīdam astīti na kiṃ cit pratipadyate 43 teṣāṃ vimṛśatām evaṃ tat tat samabhidhāvatām kva cin niviśate buddhis tatra jīryati vṛkṣavat 44 evam arthair anarthaiś ca duḥkhitāḥ sarvajantavaḥ āgamair apakṛṣyante hastipair hastino yathā 45 arthāṃs tathātyantasukhāvahāṃś ca; lipsanta ete bahavo viśulkāḥ mahattaraṃ duḥkham abhiprapannā; hitvāmiṣaṃ mṛtyuvaśaṃ prayānti 46 vināśino hy adhruva jīvitasya; kiṃ bandhubhir mitra parigrahaiś ca vihāya yo gacchati sarvam eva; kṣaṇena gatvā na nivartate ca 47 bhūvyoma toyānala vāyavo hi; sadā śarīraṃ paripālayanti itīdam ālakṣya kuto ratibhaved; vināśino hy asya na śarma vidyate 48 idam anupadhi vākyam acchalaṃ; paramanirāmayam ātmasākṣikam narapatir abhivīkṣya vismitaḥ; punar anuyoktum idaṃ pracakrame |
The Mahabharata in Sanskrit
Book 12
Chapter 212
|
1
[भी] जनकॊ जनदेवस तु जञापितः परमर्षिणा पुनर एवानुपप्रच्छ साम्प्रयाये भवाभवौ 2 भगवन यद इदं परेत्य संज्ञा भवति कस्य चित एवं सति किम अज्ञानं जञानं वा किं करिष्यति 3 सर्वम उच्छेद निष्ठं सयात पश्य चैतद दविजॊत्तम अप्रमत्तः परमत्तॊ वा किं विशेषं करिष्यति 4 असंसर्गॊ हि भूतेषु संसर्गॊ वा विनाशिषु कस्मै करियेत कल्पेन निश्चयः कॊ ऽतर तत्त्वतः 5 तमसा हि परतिच्छन्नं विभ्रान्तम इव चातुरम पुनः परशमयन वाक्यैः कविः पञ्चशिखॊ ऽबरवीत 6 उच्छेद निष्ठा नेहास्ति भावनिष्ठा न विद्यते अयं हय अपि समाहारः शरीरेन्द्रिय चेतसाम वर्तते पृथग अन्यॊन्यम अप्य अपाश्रित्य कर्मसु 7 धातवः पञ्चशाखॊ ऽयं खं वायुर जयॊतिर अम्बुभूः ते सवभावेन तिष्ठन्ति वियुज्यन्ते सवभावतः 8 आकाशं वायुर ऊष्मा च सनेहॊ यच चापि पार्थिवम एष पञ्च समाहारः शरीरम इति नैकधा जञानम ऊष्मा च वायुश च तरिविधः कर्मसंग्रहः 9 इन्द्रियाणीन्द्रियार्थाश च सवभावश चेतना मनः पराणापानौ विकारश च धातवश चात्र निःसृताः 10 शरवणं सपर्शनं जिह्वा दृष्टिर नासा तथैव च इन्द्रियाणीति पञ्चैते चित्तपूर्वंगमा गुणाः 11 तत्र विज्ञानसंयुक्ता तरिविधा वेदना धरुवा सुखदुःखेति याम आहुर अदुःखेत्य असुखेति च 12 शब्दः सपर्शश च रूपं च रसॊ गन्धश च मूर्त्य अथ एते हय आमरणात पञ्च सॊ गुणा जञानसिद्धये 13 तेषु कर्म निसर्गश च सर्वतत्त्वार्थ निश्चयः तम आहुः परमं शुक्रं बुद्धिर इत्य अव्ययं महत 14 इमं गुणसमाहारम आत्मभावेन पश्यतः असम्यग दर्शनैर दुःखम अनन्तं नॊपशाम्यति 15 अनात्मेति च यद दृष्टं तेनाहं न ममेत्य अपि वर्तते किम अधिष्ठाना परसक्ता दुःखसंततिः 16 तत्र सम्यङ मनॊ नाम तयागशास्त्रम अनुत्तमम शृणु यत तव मॊक्षाय भास्यमानं भविष्यति 17 तयाग एव हि सर्वेषाम उक्तानाम अपि कर्मणाम नित्यं मिथ्या विनीतानां कलेशॊ दुःखावहॊ मतः 18 दरव्यत्यागे तु कर्माणि भॊगत्यागे वरतान्य अपि सुखत्यागे तपॊयॊगः सर्वत्यागे समापना 19 तस्य मार्गॊ ऽयम अद्वैधः सर्वत्यागस्य दर्शितः विप्रहानाय दुःखस्य दुर्गतिर हय अन्यथा भवेत 20 पञ्च जञानेन्द्रियाण्य उक्त्वा मनः सस्थानि चेतसि मनः सस्थानि वक्ष्यामि पञ्च कर्मेन्द्रियाणि तु 21 हस्तौ कर्मेन्द्रियं जञेयम अथ पादौ गतीन्द्रियम परजनानन्दयॊः शेफॊ विसर्गे पायुर इन्द्रियम 22 वाक तु शब्दविशेषार्थं गतिं पञ्चान्वितां विदुः एवम एकादशैतानि बुद्ध्या तव अवसृजेन मनः 23 कर्णौ शब्दश च चित्तं च तरयः शरवणसंग्रहे तथा सपर्शे तथारूपे तथैव रसगन्धयॊः 24 एवं पञ्च तरिका हय एते गुणास तद उपलब्धये येन यस तरिविधॊ भावः पर्यायात समुपस्थितः 25 सात्त्विकॊ राजसश चैव तामसश चैव ते तरयः तरिविधा वेदना येषु परसूता सर्वसाधना 26 परहर्षः परीतिर आनन्दः सुखं संशान्त चित्तता अकुतश चित कुतश चिद वा चित्ततः सात्त्विकॊ गुणः 27 अतुष्टिः परितापश च शॊकॊ लॊभस तथाक्षमा लिङ्गानि रजसस तानि दृश्यन्ते हेत्वहेतुतः 28 अविवेकस तथा मॊहः परमादः सवप्नतन्द्रिता कथं चिद अपि वर्तन्ते विविधास तामसा गुणाः 29 तत्र यत परीतिसंयुक्तं काये मनसि वा भवेत वर्तते सात्त्विकॊ भाव इत्य अपेक्षेत तत तथा 30 यत तु संतापसंयुक्तम अप्रीतिकरम आत्मनः परवृत्तं रज इत्य एव ततस तद अभिचिन्तयेत 31 अथ यन मॊहसंयुक्तं काये मनसि वा भवेत अप्रतर्क्यम अविज्ञेयं तमस तद उपधारयेत 32 तद धि शरॊत्राश्रयं भूतं शब्दः शरॊत्रं समाश्रितः नॊभयं शब्दविज्ञाने विज्ञानस्येतरस्य वा 33 एवं तवक चक्षुषी जिह्वा नासिका चैव पञ्चमी सपर्शे रूपे रसे गन्धे तानि चेतॊ मनश च तत 34 सवकर्म युगपद भावॊ दशस्व एतेषु तिष्ठति चित्तम एकादशं विद्धि बुद्धिर दवादशमी भवेत 35 तेषाम अयुगपद भावे उच्छेदॊ नास्ति तामसः आस्थितॊ युगपद भावे वयवहारः स लौकिकः 36 इन्द्रियाण्य अवसृज्यापि दृष्ट्वा पूर्वं शरुतागमम चिन्तयन नानुपर्येति तरिभिर एवान्वितॊ गुणैः 37 यत तमॊपहतं चित्तम आशु संचारम अध्रुवम करॊत्य उपरमं काले तद आहुस तामसं सुखम 38 यद यद आगमसंयुक्तं न कृत्स्नम उपशाम्यति अथ तत्राप्य उपादत्ते तमॊ वयक्तम इवानृतम 39 एवम एष परसंख्यातः सवकर्म परत्ययी गुणः कथं चिद वर्तते सम्यक केषां चिद वा न वर्तते 40 एवम आहुः समाहारं कषेत्रम अध्यात्मचिन्तकाः सथितॊ मनसि यॊ भावः स वै कषेत्रज्ञ उच्यते 41 एवं सति क उच्छेदः शाश्वतॊ वाकथं भवेत सवभावाद वर्तमानेषु सर्वभूतेषु हेतुतः 42 यथार्णव गता नद्यॊ वयक्तीर जहति नाम च न च सवतां नियच्छन्ति तादृशः सत्त्वसंक्षयः 43 एवं सति कुतः संज्ञा परेत्य भावे पुनर भवेत परति संमिश्रिते जीवे गृह्यमाणे च मध्यतः 44 इमां तु यॊ वेद विमॊक्षबुद्धिम; आत्मानम अन्विच्छति चाप्रमत्तः न लिप्यते कर्मफलैर अनिष्टैः; पत्त्रं बिसस्येव जलेन सिक्तम 45 दृधैर्श च पाशैर बहुभिर विमुक्तः; परजा निमित्तैर अपि दैवतैश च यदा हय असौ सुखदुःखे जहाति; मुक्तस तदाग्र्यां गतिम एत्य अलिङ्गः शरुतिप्रमानागम मङ्गलैश च; शेते जरामृत्युभयाद अतीतः 46 कषीणे च पुण्ये विगते च पापे; ततॊ निमित्ते च फले विनस्ते अलेपम आकाशम अलिङ्गम एवम; आस्थाय पश्यन्ति महद धयसक्ताः 47 यथॊर्ण नाभिः परिवर्तमानस; तन्तु कषये तिष्ठति पात्यमानः तथा विमुक्तः परजहाति दुःखं; विध्वंसते लॊष्ट इवाद्रिम अर्च्छन 48 यथा रुरुः शृङ्गम अथॊ पुराणं; हित्वा तवचं वाप्य उरगॊ यथावत विहाय गच्छत्य अनवेक्षमाणस; तथा विमुक्तॊ विजहाति दुःखम 49 दरुमं यथा वाप्य उदके पतन्तम; उत्सृज्य पक्षी परपतत्य असक्तः तथा हय असौ सुखदुःखे विहाय; मुक्तः परार्ध्यां गतिम एत्य अलिङ्गः 50 अपि च भवति मैथिलेन गीतं; नरगम उपाहितम अग्निनाभिवीक्ष्य न खलु मम तुषॊ ऽपि दह्यते ऽतर; सवयम इदम आह किल सम भूमिपालः 51 इदम अमृतपदं विदेहराजः; सवयम इह पञ्चशिखेन भास्यमानः निखिलम अभिसमीक्ष्य निश्चितार्थं; परमसुखी विजहार वीतशॊकः 52 इमं हि यः पथति विमॊक्षनिश्चयं; न हीयते सततम अवेक्षते तथा उपद्रवान नानुभवत्य अदुःखितः; परमुच्यते कपिलम इवैत्य मैथिलः |
1
[bhī] janako janadevas tu jñāpitaḥ paramarṣiṇā punar evānupapraccha sāmprayāye bhavābhavau 2 bhagavan yad idaṃ pretya saṃjñā bhavati kasya cit evaṃ sati kim ajñānaṃ jñānaṃ vā kiṃ kariṣyati 3 sarvam uccheda niṣṭhaṃ syāt paśya caitad dvijottama apramattaḥ pramatto vā kiṃ viśeṣaṃ kariṣyati 4 asaṃsargo hi bhūteṣu saṃsargo vā vināśiṣu kasmai kriyeta kalpena niścayaḥ ko 'tra tattvataḥ 5 tamasā hi praticchannaṃ vibhrāntam iva cāturam punaḥ praśamayan vākyaiḥ kaviḥ pañcaśikho 'bravīt 6 uccheda niṣṭhā nehāsti bhāvaniṣṭhā na vidyate ayaṃ hy api samāhāraḥ śarīrendriya cetasām vartate pṛthag anyonyam apy apāśritya karmasu 7 dhātavaḥ pañcaśākho 'yaṃ khaṃ vāyur jyotir ambubhūḥ te svabhāvena tiṣṭhanti viyujyante svabhāvataḥ 8 ākāśaṃ vāyur ūṣmā ca sneho yac cāpi pārthivam eṣa pañca samāhāraḥ śarīram iti naikadhā jñānam ūṣmā ca vāyuś ca trividhaḥ karmasaṃgrahaḥ 9 indriyāṇīndriyārthāś ca svabhāvaś cetanā manaḥ prāṇāpānau vikāraś ca dhātavaś cātra niḥsṛtāḥ 10 śravaṇaṃ sparśanaṃ jihvā dṛṣṭir nāsā tathaiva ca indriyāṇīti pañcaite cittapūrvaṃgamā guṇāḥ 11 tatra vijñānasaṃyuktā trividhā vedanā dhruvā sukhaduḥkheti yām āhur aduḥkhety asukheti ca 12 śabdaḥ sparśaś ca rūpaṃ ca raso gandhaś ca mūrty atha ete hy āmaraṇāt pañca so guṇā jñānasiddhaye 13 teṣu karma nisargaś ca sarvatattvārtha niścayaḥ tam āhuḥ paramaṃ śukraṃ buddhir ity avyayaṃ mahat 14 imaṃ guṇasamāhāram ātmabhāvena paśyataḥ asamyag darśanair duḥkham anantaṃ nopaśāmyati 15 anātmeti ca yad dṛṣṭaṃ tenāhaṃ na mamety api vartate kim adhiṣṭhānā prasaktā duḥkhasaṃtatiḥ 16 tatra samyaṅ mano nāma tyāgaśāstram anuttamam śṛṇu yat tava mokṣāya bhāsyamānaṃ bhaviṣyati 17 tyāga eva hi sarveṣām uktānām api karmaṇām nityaṃ mithyā vinītānāṃ kleśo duḥkhāvaho mataḥ 18 dravyatyāge tu karmāṇi bhogatyāge vratāny api sukhatyāge tapoyogaḥ sarvatyāge samāpanā 19 tasya mārgo 'yam advaidhaḥ sarvatyāgasya darśitaḥ viprahānāya duḥkhasya durgatir hy anyathā bhavet 20 pañca jñānendriyāṇy uktvā manaḥ sasthāni cetasi manaḥ sasthāni vakṣyāmi pañca karmendriyāṇi tu 21 hastau karmendriyaṃ jñeyam atha pādau gatīndriyam prajanānandayoḥ śepho visarge pāyur indriyam 22 vāk tu śabdaviśeṣārthaṃ gatiṃ pañcānvitāṃ viduḥ evam ekādaśaitāni buddhyā tv avasṛjen manaḥ 23 karṇau śabdaś ca cittaṃ ca trayaḥ śravaṇasaṃgrahe tathā sparśe tathārūpe tathaiva rasagandhayoḥ 24 evaṃ pañca trikā hy ete guṇās tad upalabdhaye yena yas trividho bhāvaḥ paryāyāt samupasthitaḥ 25 sāttviko rājasaś caiva tāmasaś caiva te trayaḥ trividhā vedanā yeṣu prasūtā sarvasādhanā 26 praharṣaḥ prītir ānandaḥ sukhaṃ saṃśānta cittatā akutaś cit kutaś cid vā cittataḥ sāttviko guṇaḥ 27 atuṣṭiḥ paritāpaś ca śoko lobhas tathākṣamā liṅgāni rajasas tāni dṛśyante hetvahetutaḥ 28 avivekas tathā mohaḥ pramādaḥ svapnatandritā kathaṃ cid api vartante vividhās tāmasā guṇāḥ 29 tatra yat prītisaṃyuktaṃ kāye manasi vā bhavet vartate sāttviko bhāva ity apekṣeta tat tathā 30 yat tu saṃtāpasaṃyuktam aprītikaram ātmanaḥ pravṛttaṃ raja ity eva tatas tad abhicintayet 31 atha yan mohasaṃyuktaṃ kāye manasi vā bhavet apratarkyam avijñeyaṃ tamas tad upadhārayet 32 tad dhi śrotrāśrayaṃ bhūtaṃ śabdaḥ śrotraṃ samāśritaḥ nobhayaṃ śabdavijñāne vijñānasyetarasya vā 33 evaṃ tvak cakṣuṣī jihvā nāsikā caiva pañcamī sparśe rūpe rase gandhe tāni ceto manaś ca tat 34 svakarma yugapad bhāvo daśasv eteṣu tiṣṭhati cittam ekādaśaṃ viddhi buddhir dvādaśamī bhavet 35 teṣām ayugapad bhāve ucchedo nāsti tāmasaḥ āsthito yugapad bhāve vyavahāraḥ sa laukikaḥ 36 indriyāṇy avasṛjyāpi dṛṣṭvā pūrvaṃ śrutāgamam cintayan nānuparyeti tribhir evānvito guṇaiḥ 37 yat tamopahataṃ cittam āśu saṃcāram adhruvam karoty uparamaṃ kāle tad āhus tāmasaṃ sukham 38 yad yad āgamasaṃyuktaṃ na kṛtsnam upaśāmyati atha tatrāpy upādatte tamo vyaktam ivānṛtam 39 evam eṣa prasaṃkhyātaḥ svakarma pratyayī guṇaḥ kathaṃ cid vartate samyak keṣāṃ cid vā na vartate 40 evam āhuḥ samāhāraṃ kṣetram adhyātmacintakāḥ sthito manasi yo bhāvaḥ sa vai kṣetrajña ucyate 41 evaṃ sati ka ucchedaḥ śāśvato vākathaṃ bhavet svabhāvād vartamāneṣu sarvabhūteṣu hetutaḥ 42 yathārṇava gatā nadyo vyaktīr jahati nāma ca na ca svatāṃ niyacchanti tādṛśaḥ sattvasaṃkṣayaḥ 43 evaṃ sati kutaḥ saṃjñā pretya bhāve punar bhavet prati saṃmiśrite jīve gṛhyamāṇe ca madhyataḥ 44 imāṃ tu yo veda vimokṣabuddhim; ātmānam anvicchati cāpramattaḥ na lipyate karmaphalair aniṣṭaiḥ; pattraṃ bisasyeva jalena siktam 45 dṛdhairś ca pāśair bahubhir vimuktaḥ; prajā nimittair api daivataiś ca yadā hy asau sukhaduḥkhe jahāti; muktas tadāgryāṃ gatim ety aliṅgaḥ śrutipramānāgama maṅgalaiś ca; śete jarāmṛtyubhayād atītaḥ 46 kṣīṇe ca puṇye vigate ca pāpe; tato nimitte ca phale vinaste alepam ākāśam aliṅgam evam; āsthāya paśyanti mahad dhyasaktāḥ 47 yathorṇa nābhiḥ parivartamānas; tantu kṣaye tiṣṭhati pātyamānaḥ tathā vimuktaḥ prajahāti duḥkhaṃ; vidhvaṃsate loṣṭa ivādrim arcchan 48 yathā ruruḥ śṛṅgam atho purāṇaṃ; hitvā tvacaṃ vāpy urago yathāvat vihāya gacchaty anavekṣamāṇas; tathā vimukto vijahāti duḥkham 49 drumaṃ yathā vāpy udake patantam; utsṛjya pakṣī prapataty asaktaḥ tathā hy asau sukhaduḥkhe vihāya; muktaḥ parārdhyāṃ gatim ety aliṅgaḥ 50 api ca bhavati maithilena gītaṃ; naragam upāhitam agninābhivīkṣya na khalu mama tuṣo 'pi dahyate 'tra; svayam idam āha kila sma bhūmipālaḥ 51 idam amṛtapadaṃ videharājaḥ; svayam iha pañcaśikhena bhāsyamānaḥ nikhilam abhisamīkṣya niścitārthaṃ; paramasukhī vijahāra vītaśokaḥ 52 imaṃ hi yaḥ pathati vimokṣaniścayaṃ; na hīyate satatam avekṣate tathā upadravān nānubhavaty aduḥkhitaḥ; pramucyate kapilam ivaitya maithilaḥ |
The Mahabharata in Sanskrit
Book 12
Chapter 213
|
1
[य] किं कुर्वन सुखम आप्नॊति किं कुर्वन दुःखम आप्नुते किं कुर्वन निर्भयॊ लॊके सिद्धश चरति भारत 2 [भी] दमम एव परशंसन्ति वृद्धाः शरुतिसमाधयः सर्वेषाम एव वर्णानां बराह्मणस्य विशेषतः 3 नादान्तस्य करिया सिद्धिर यथावद उपलभ्यते करिया तपश च वेदाश च दमे सर्वं परतिष्ठितम 4 दमस तेजॊ वर्धयति पवित्रं दम उच्यते विपाप्मा निर्भयॊ दान्तः पुरुषॊ विन्दते महत 5 सुखं दान्तः परस्वपिति सुखं च परतिबुध्यते सुखं लॊके विपर्येति मनश चास्य परसीदति 6 तेजॊ दमेन धरियते न तत तीक्ष्णॊ ऽधिगच्छति अमित्रांश च बहून नित्यं पृथग आत्मनि पश्यति 7 करव्याद्भ्य इव भूतानाम अदान्तेभ्यः सदा भयम तेषां विप्रतिषेधार्थं राजा सृष्टः सवयम्भुवा 8 आश्रमेषु च सर्वेषु दम एव विशिष्यते यच च तेषु फलं धर्मे भूयॊ दान्ते तद उच्यते 9 तेषां लिङ्गानि वक्ष्यामि येषां समुदयॊ दमः अकार्पण्यम असंरम्भः संतॊषः शरद्दधानता 10 अक्रॊध आर्जवं नित्यं नातिवादॊ न मानिता गुरु पूजानसूया च दया भूतेष्व अपैशुनम 11 जनवादमृषा वादस्तुति निन्दा विवर्जनम साधु कामश चास्पृहयन्न आयाति परत्ययं नृषु 12 अवैरकृत सूपचारः समॊ निन्दा परशंसयॊः सुवृत्तः शीलसंपन्नः परसन्नात्मात्मवान बुधः पराप्य लॊके च सत्कारं सवर्गं वै परेत्य गच्छति 13 सर्वभूतहिते युक्तॊ न समयाद दवेष्टि वै जनम महाह्रद इवाक्षॊभ्य परज्ञा तृप्तः परसीदति 14 अभयं सर्वभूतेभ्यः सर्वेषाम अभयं यतः नमस्यः सर्वभूतानां दान्तॊ भवति जञानवान 15 न हृष्यति महत्य अर्थे वयसने च न शॊचति स वै परिमित परज्ञः स दान्तॊ दविज उच्यते 16 कर्मभिः शरुतसंपन्नः सद्भिर आचरितैः शुभैः सदैव दमसंयुक्तस तस्य भुङ्क्ते महत फलम 17 अनसूया कषमा शान्तिः संतॊषः परियवादिता सत्यं दानम अनायासॊ नैष मार्गॊ दुरात्मनाम 18 कामक्रॊधौ वशे कृत्वा बरह्मचारी जितेन्द्रियः विक्रम्य घॊरे तपसि बराह्मणः संशितव्रतः कालाकाङ्क्षी चरेल लॊकान निरपाय इवात्मवान |
1
[y] kiṃ kurvan sukham āpnoti kiṃ kurvan duḥkham āpnute kiṃ kurvan nirbhayo loke siddhaś carati bhārata 2 [bhī] damam eva praśaṃsanti vṛddhāḥ śrutisamādhayaḥ sarveṣām eva varṇānāṃ brāhmaṇasya viśeṣataḥ 3 nādāntasya kriyā siddhir yathāvad upalabhyate kriyā tapaś ca vedāś ca dame sarvaṃ pratiṣṭhitam 4 damas tejo vardhayati pavitraṃ dama ucyate vipāpmā nirbhayo dāntaḥ puruṣo vindate mahat 5 sukhaṃ dāntaḥ prasvapiti sukhaṃ ca pratibudhyate sukhaṃ loke viparyeti manaś cāsya prasīdati 6 tejo damena dhriyate na tat tīkṣṇo 'dhigacchati amitrāṃś ca bahūn nityaṃ pṛthag ātmani paśyati 7 kravyādbhya iva bhūtānām adāntebhyaḥ sadā bhayam teṣāṃ vipratiṣedhārthaṃ rājā sṛṣṭaḥ svayambhuvā 8 āśrameṣu ca sarveṣu dama eva viśiṣyate yac ca teṣu phalaṃ dharme bhūyo dānte tad ucyate 9 teṣāṃ liṅgāni vakṣyāmi yeṣāṃ samudayo damaḥ akārpaṇyam asaṃrambhaḥ saṃtoṣaḥ śraddadhānatā 10 akrodha ārjavaṃ nityaṃ nātivādo na mānitā guru pūjānasūyā ca dayā bhūteṣv apaiśunam 11 janavādamṛṣā vādastuti nindā vivarjanam sādhu kāmaś cāspṛhayann āyāti pratyayaṃ nṛṣu 12 avairakṛt sūpacāraḥ samo nindā praśaṃsayoḥ suvṛttaḥ śīlasaṃpannaḥ prasannātmātmavān budhaḥ prāpya loke ca satkāraṃ svargaṃ vai pretya gacchati 13 sarvabhūtahite yukto na smayād dveṣṭi vai janam mahāhrada ivākṣobhya prajñā tṛptaḥ prasīdati 14 abhayaṃ sarvabhūtebhyaḥ sarveṣām abhayaṃ yataḥ namasyaḥ sarvabhūtānāṃ dānto bhavati jñānavān 15 na hṛṣyati mahaty arthe vyasane ca na śocati sa vai parimita prajñaḥ sa dānto dvija ucyate 16 karmabhiḥ śrutasaṃpannaḥ sadbhir ācaritaiḥ śubhaiḥ sadaiva damasaṃyuktas tasya bhuṅkte mahat phalam 17 anasūyā kṣamā śāntiḥ saṃtoṣaḥ priyavāditā satyaṃ dānam anāyāso naiṣa mārgo durātmanām 18 kāmakrodhau vaśe kṛtvā brahmacārī jitendriyaḥ vikramya ghore tapasi brāhmaṇaḥ saṃśitavrataḥ kālākāṅkṣī carel lokān nirapāya ivātmavān |
The Mahabharata in Sanskrit
Book 12
Chapter 214
|
1
[य] दविजातयॊ वरतॊपेता यद इदं भुञ्जते हविः अन्नं बराह्मण कामाय कथम एतत पितामह 2 [भी] अवेदॊक्त वरतॊपेता भुञ्जानाः कार्यकारिणः वेदॊक्तेषु च भुञ्जाना वरतलुप्ता युधिष्ठिर 3 [य] यद इदं तप इत्य आहुर उपवासं पृथग्जनाः एतत तपॊ महाराज उताहॊ किं तपॊ भवेत 4 [भी] मासपक्षॊपवासेन मन्यन्ते यत तपॊ जनाः आत्मतन्त्रॊपघातः स न तपस तत सतां मतम तयागश च सन्नतिश चैव शिष्यते तप उत्तमम 5 सदॊपवासी च भवेद बरह्मचारी सदैव च मुनिश च सयात सदा विप्रॊ दैवतं च सदा भजेत 6 कुतुम्बिकॊ धर्मकामः सदा सवप्नश च भारत अमांसाशी सदा च सयात पवित्रं च सदा जपेत 7 अमृताशी सदा च सयान न च सयाद विषभॊजनः विघसाशी सदा च सयात सदा चैवातिथि परियः 8 [य] कथं सदॊपवासी सयाद बरह्मचारी कथं भवेत विघसाशी कथं च सयात सदा चैवातिथि परियः 9 [भी] अन्तरा परातर आशं च सायम आशं तथैव च सदॊपवासी च भवेद यॊ न भुङ्क्ते कथं चन 10 भार्यां गच्छन बरह्मचारी ऋतौ भवति बराह्मणः ऋतवादी सदा च सयाज जञाननित्यश च यॊ नरः 11 अभक्षयन वृथा मांसम अमांसाशी भवत्य उत दाननित्यः पवित्रश च अस्वप्नश च दिवा सवपन 12 भृत्यातिथिषु यॊ भुङ्क्ते भुक्तवत्सु सदा स ह अमृतं सकलं भुङ्क्त इति विद्धि युधिष्ठिर 13 अभुक्तवत्सु नाश्नानः सततं यस तु वै दविजः अभॊजनेन तेनास्य जितः सवर्गॊ भवत्य उत 14 देवताभ्यः पितृभ्यश च भृत्येभ्यॊ ऽतिथिभिः सह अवशिष्टं तु यॊ ऽशनाति तम आहुर विघसासिनम 15 तेषां लॊका हय अपर्यन्ताः सदने बरह्मणा सह उपस्थिताश चाप्सरॊभिः परियान्ति दिवौकसः 16 देवताभिश च ये सार्धं पितृभिश चॊपभुञ्जते रमन्ते पुत्रपौत्रैश च तेषां गतिर अनुत्तमा |
1
[y] dvijātayo vratopetā yad idaṃ bhuñjate haviḥ annaṃ brāhmaṇa kāmāya katham etat pitāmaha 2 [bhī] avedokta vratopetā bhuñjānāḥ kāryakāriṇaḥ vedokteṣu ca bhuñjānā vrataluptā yudhiṣṭhira 3 [y] yad idaṃ tapa ity āhur upavāsaṃ pṛthagjanāḥ etat tapo mahārāja utāho kiṃ tapo bhavet 4 [bhī] māsapakṣopavāsena manyante yat tapo janāḥ ātmatantropaghātaḥ sa na tapas tat satāṃ matam tyāgaś ca sannatiś caiva śiṣyate tapa uttamam 5 sadopavāsī ca bhaved brahmacārī sadaiva ca muniś ca syāt sadā vipro daivataṃ ca sadā bhajet 6 kutumbiko dharmakāmaḥ sadā svapnaś ca bhārata amāṃsāśī sadā ca syāt pavitraṃ ca sadā japet 7 amṛtāśī sadā ca syān na ca syād viṣabhojanaḥ vighasāśī sadā ca syāt sadā caivātithi priyaḥ 8 [y] kathaṃ sadopavāsī syād brahmacārī kathaṃ bhavet vighasāśī kathaṃ ca syāt sadā caivātithi priyaḥ 9 [bhī] antarā prātar āśaṃ ca sāyam āśaṃ tathaiva ca sadopavāsī ca bhaved yo na bhuṅkte kathaṃ cana 10 bhāryāṃ gacchan brahmacārī ṛtau bhavati brāhmaṇaḥ ṛtavādī sadā ca syāj jñānanityaś ca yo naraḥ 11 abhakṣayan vṛthā māṃsam amāṃsāśī bhavaty uta dānanityaḥ pavitraś ca asvapnaś ca divā svapan 12 bhṛtyātithiṣu yo bhuṅkte bhuktavatsu sadā sa ha amṛtaṃ sakalaṃ bhuṅkta iti viddhi yudhiṣṭhira 13 abhuktavatsu nāśnānaḥ satataṃ yas tu vai dvijaḥ abhojanena tenāsya jitaḥ svargo bhavaty uta 14 devatābhyaḥ pitṛbhyaś ca bhṛtyebhyo 'tithibhiḥ saha avaśiṣṭaṃ tu yo 'śnāti tam āhur vighasāsinam 15 teṣāṃ lokā hy aparyantāḥ sadane brahmaṇā saha upasthitāś cāpsarobhiḥ pariyānti divaukasaḥ 16 devatābhiś ca ye sārdhaṃ pitṛbhiś copabhuñjate ramante putrapautraiś ca teṣāṃ gatir anuttamā |
The Mahabharata in Sanskrit
Book 12
Chapter 215
|
1
[य] यद इदं कर्म लॊके ऽसमिञ शुभं वा यदि वाशुभम पुरुषं यॊजयत्य एव फलयॊगेन भारत 2 कर्ता सवित तस्य पुरुष उताहॊ नेति संशयः एतद इच्छामि तत्त्वेन तवत्तः शरॊतुं पितामह 3 [भी] अत्राप्य उदाहरन्तीमम इतिहासं पुरातनम परह्रादस्य च संवादम इन्द्रस्य च युधिष्ठिर 4 असक्तं धूतपाप्मानं कुले जातं बहुश्रुतम अस्तम्भम अनहंकारं सत्त्वस्थं समये रतम 5 तुल्यनिन्दास्तुतिं दान्तं शून्यागार निवेशनम चराचराणां भूतानां विदितप्रभवाप्ययम 6 अक्रुध्यन्तम अहृष्यन्तम अप्रियेषु परियेषु च काञ्चने वाथ लॊष्टे वा उभयॊः समदर्शनम 7 आत्मनिःश्रेयसज्ञाने धीरं निश्चित निश्चयम परावरज्ञं भूतानां सर्वज्ञं समदर्शनम 8 शक्रः परह्रादम आसीनम एकान्ते संयतेन्द्रियम बुभुत्समानस तत परज्ञाम अभिगम्येदम अब्रवीत 9 यैः कैश्चीत संमतॊ लॊके गुणैः सयात पुरुषॊ नृषु भवत्य अनपगान सर्वांस तान गुणाँल लक्षयामहे 10 अथ ते लक्ष्यते बुद्धिः समा बाल जनैर इह आत्मानं मन्यमानः सञ शरेयः किम इह मन्यसे 11 बद्धः पाशैश चयुतः सथानाद दविषतां वशम आगतः शरिया विहीनः परह्राद शॊचितव्ये न शॊचसि 12 परज्ञा लाभात तु दैतेय उताहॊ धृतिमत्तया परह्राद सवस्थरूपॊ ऽसि पश्यन वयसनम आत्मनः 13 इति संचॊदितस तेन धीरॊ निश्चित निश्चयः उवाच शलक्ष्णया वाचा सवां परज्ञाम अनुवर्णयन 14 परवृत्तिं च निवृत्तिं च भूतानां यॊ न बुध्यते तस्य सतम्भॊ भवेद बाल्यान नास्ति सतम्भॊ ऽनुपश्यतः 15 सवभावात संप्रवर्तन्ते निवर्तन्ते तथैव च सर्वे भावास तथा भावाः पुरुषार्थॊ न विद्यते 16 पुरुषार्थस्य चाभावे नास्ति कश चित सवकारकः सवयं तु कुर्वतस तस्य जातु मानॊ भवेद इह 17 यस तु कर्तारम आत्मानं मन्यते साध्वसाधुनॊः तस्य दॊषवती परज्ञा सवमूर्त्य अज्ञेति मे मतिः 18 यदि सयात पुरुषः कर्ता शक्रात्म शरेयसे धरुवम आरम्भास तस्य सिध्येरन न च जातु पराहवेत 19 अनिष्टस्य हि निर्वृत्तिर अनिवृत्तिः परियस्य च लक्ष्यते यतमानानां पुरुषार्थस ततः कुतः 20 अनिष्टस्याभिनिर्वृत्तिम इष्टसंवृत्तिम एव च अप्रयत्नेन पश्यामः केषां चित तत सवभावतः 21 परतिरूप धराः के चिद दृश्यन्ते बुद्धिसत्तमाः विरूपेभ्यॊ ऽलपबुद्धिभ्यॊ लिप्समाना धनागमम 22 सवभावप्रेरिताः सर्वे निविशन्ते गुणा यदा शुभाशुभास तदा तत्र तस्य किं मानकारणम 23 सवभावाद एव तत सर्वम इति मे निश्चिता मतिः आत्मप्रतिष्ठिता परज्ञा मम नास्ति ततॊ ऽनयथा 24 कर्मजं तव इह मन्ये ऽहं फलयॊगं शुभाशुभम कर्मणां विषयं कृत्स्नम अहं वक्ष्यामि तच छृणु 25 यथा वेदयते कश चिद ओदनं वायसॊ वदन एवं सर्वाणि कर्माणि सवभावस्यैव लक्षणम 26 विकारान एव यॊ वेद न वेद परकृतिं पराम तस्य सतम्भॊ भवेद बाल्यान नास्ति सतम्भॊ ऽनुपश्यतः 27 सवभावभाविनॊ भावान सर्वान एवेह निश्चये बुध्यमानस्य दर्पॊ वा मानॊ वा किं करिष्यति 28 वेद धर्मविधिं कृत्स्नं भूतानां चाप्य अनित्यताम तस्माच छक्र न शॊचामि सर्वं हय एवेदम अन्तवत 29 निर्ममॊ निरहंकारॊ निरीहॊ मुक्तबन्धनः सवस्थॊ ऽवयपेतः पश्यामि भूतानां परभवाप्ययौ 30 कृतप्रज्ञस्य दान्तस्य वितृष्णस्य निराशिषः नायास विद्यते शक्र पश्यतॊ लॊकविद्यया 31 परकृतौ च विकारे च न मे परीतिर न च दविषे दवेष्टारं न च पश्यामि यॊ ममाद्य ममायते 32 नॊर्ध्वं नावान न तिर्यक च न कव चिच छक्र कामये न विज्ञाने न विज्ञेये नाज्ञाने शर्म विद्यते 33 [षक्र] येनैषा लभ्यते परज्ञा येन शान्तिर अवाप्यते परब्रूहि तम उपायं मे सम्यक परह्राद पृच्छते 34 [परह्लाद] आर्जवेनाप्रमादेन परसानेनात्मवत्तया वृद्धशुश्रूसया शक्र पुरुषॊ लभते महत 35 सवभावाल लभते परज्ञां शान्तिम एति सवभावतः सवभावाद एव तत सर्वं यत किं चिद अनुपश्यसि 36 [भी] इत्य उक्तॊ दैत्य पतिना शक्रॊ विस्मयम आगमत परीतिमांश च तदा राजंस तद वाक्यं परत्यपूजयत 37 स तदाभ्यर्च्य दैत्येन्द्रं तरैलॊक्यपतिर ईश्वरः असुरेन्द्रम उपामन्त्य जगाम सवं निवेशनम |
1
[y] yad idaṃ karma loke 'smiñ śubhaṃ vā yadi vāśubham puruṣaṃ yojayaty eva phalayogena bhārata 2 kartā svit tasya puruṣa utāho neti saṃśayaḥ etad icchāmi tattvena tvattaḥ śrotuṃ pitāmaha 3 [bhī] atrāpy udāharantīmam itihāsaṃ purātanam prahrādasya ca saṃvādam indrasya ca yudhiṣṭhira 4 asaktaṃ dhūtapāpmānaṃ kule jātaṃ bahuśrutam astambham anahaṃkāraṃ sattvasthaṃ samaye ratam 5 tulyanindāstutiṃ dāntaṃ śūnyāgāra niveśanam carācarāṇāṃ bhūtānāṃ viditaprabhavāpyayam 6 akrudhyantam ahṛṣyantam apriyeṣu priyeṣu ca kāñcane vātha loṣṭe vā ubhayoḥ samadarśanam 7 ātmaniḥśreyasajñāne dhīraṃ niścita niścayam parāvarajñaṃ bhūtānāṃ sarvajñaṃ samadarśanam 8 śakraḥ prahrādam āsīnam ekānte saṃyatendriyam bubhutsamānas tat prajñām abhigamyedam abravīt 9 yaiḥ kaiścīt saṃmato loke guṇaiḥ syāt puruṣo nṛṣu bhavaty anapagān sarvāṃs tān guṇāṁl lakṣayāmahe 10 atha te lakṣyate buddhiḥ samā bāla janair iha ātmānaṃ manyamānaḥ sañ śreyaḥ kim iha manyase 11 baddhaḥ pāśaiś cyutaḥ sthānād dviṣatāṃ vaśam āgataḥ śriyā vihīnaḥ prahrāda śocitavye na śocasi 12 prajñā lābhāt tu daiteya utāho dhṛtimattayā prahrāda svastharūpo 'si paśyan vyasanam ātmanaḥ 13 iti saṃcoditas tena dhīro niścita niścayaḥ uvāca ślakṣṇayā vācā svāṃ prajñām anuvarṇayan 14 pravṛttiṃ ca nivṛttiṃ ca bhūtānāṃ yo na budhyate tasya stambho bhaved bālyān nāsti stambho 'nupaśyataḥ 15 svabhāvāt saṃpravartante nivartante tathaiva ca sarve bhāvās tathā bhāvāḥ puruṣārtho na vidyate 16 puruṣārthasya cābhāve nāsti kaś cit svakārakaḥ svayaṃ tu kurvatas tasya jātu māno bhaved iha 17 yas tu kartāram ātmānaṃ manyate sādhvasādhunoḥ tasya doṣavatī prajñā svamūrty ajñeti me matiḥ 18 yadi syāt puruṣaḥ kartā śakrātma śreyase dhruvam ārambhās tasya sidhyeran na ca jātu parāhavet 19 aniṣṭasya hi nirvṛttir anivṛttiḥ priyasya ca lakṣyate yatamānānāṃ puruṣārthas tataḥ kutaḥ 20 aniṣṭasyābhinirvṛttim iṣṭasaṃvṛttim eva ca aprayatnena paśyāmaḥ keṣāṃ cit tat svabhāvataḥ 21 pratirūpa dharāḥ ke cid dṛśyante buddhisattamāḥ virūpebhyo 'lpabuddhibhyo lipsamānā dhanāgamam 22 svabhāvapreritāḥ sarve niviśante guṇā yadā śubhāśubhās tadā tatra tasya kiṃ mānakāraṇam 23 svabhāvād eva tat sarvam iti me niścitā matiḥ ātmapratiṣṭhitā prajñā mama nāsti tato 'nyathā 24 karmajaṃ tv iha manye 'haṃ phalayogaṃ śubhāśubham karmaṇāṃ viṣayaṃ kṛtsnam ahaṃ vakṣyāmi tac chṛṇu 25 yathā vedayate kaś cid odanaṃ vāyaso vadan evaṃ sarvāṇi karmāṇi svabhāvasyaiva lakṣaṇam 26 vikārān eva yo veda na veda prakṛtiṃ parām tasya stambho bhaved bālyān nāsti stambho 'nupaśyataḥ 27 svabhāvabhāvino bhāvān sarvān eveha niścaye budhyamānasya darpo vā māno vā kiṃ kariṣyati 28 veda dharmavidhiṃ kṛtsnaṃ bhūtānāṃ cāpy anityatām tasmāc chakra na śocāmi sarvaṃ hy evedam antavat 29 nirmamo nirahaṃkāro nirīho muktabandhanaḥ svastho 'vyapetaḥ paśyāmi bhūtānāṃ prabhavāpyayau 30 kṛtaprajñasya dāntasya vitṛṣṇasya nirāśiṣaḥ nāyāsa vidyate śakra paśyato lokavidyayā 31 prakṛtau ca vikāre ca na me prītir na ca dviṣe dveṣṭāraṃ na ca paśyāmi yo mamādya mamāyate 32 nordhvaṃ nāvān na tiryak ca na kva cic chakra kāmaye na vijñāne na vijñeye nājñāne śarma vidyate 33 [ṣakra] yenaiṣā labhyate prajñā yena śāntir avāpyate prabrūhi tam upāyaṃ me samyak prahrāda pṛcchate 34 [prahlāda] ārjavenāpramādena prasānenātmavattayā vṛddhaśuśrūsayā śakra puruṣo labhate mahat 35 svabhāvāl labhate prajñāṃ śāntim eti svabhāvataḥ svabhāvād eva tat sarvaṃ yat kiṃ cid anupaśyasi 36 [bhī] ity ukto daitya patinā śakro vismayam āgamat prītimāṃś ca tadā rājaṃs tad vākyaṃ pratyapūjayat 37 sa tadābhyarcya daityendraṃ trailokyapatir īśvaraḥ asurendram upāmantya jagāma svaṃ niveśanam |
The Mahabharata in Sanskrit
Book 12
Chapter 216
|
1
[य] यया बुद्ध्या महीपालॊ भरष्ट शरीर विचरेन महीम कालदण्ड विनिष्पिष्टस तन मे बरूहि पितामह 2 [भी] अत्राप्य उदाहरन्तीमम इतिहासं पुरातनम वासवस्य च संवादं बलेर वैरॊचनस्य च 3 पितामहम उपागत्य परनिपत्य कृताञ्जलिः सर्वान एवासुराञ जित्वा बलिं पप्रच्छ वासवः 4 यस्य सम ददतॊ वित्तं न कदा चन हीयते तं बलिं नाधिगच्छामि बरह्मन्न आचक्ष्व मे बलिम 5 स एव हय अस्तम अयते स सम विद्यॊतते दिशः स वर्षति सम वर्षाणि यथाकालम अतन्द्रितः तं बलिं नाधिगच्छामि बरह्मन्न आचक्ष्व मे बलिम 6 स वायुर वरुणश चैव स रविः स च चन्द्रमाः सॊ ऽगनिस तपति भूतानि पृथिवी च भवत्य उत तं बलिं नाधिगच्छामि बरह्मन्न आचक्ष्व मे बलिम 7 [बरह्मा] नैतत ते साधु मघवन यद एतद अनुपृच्छसि पृष्टस तु नानृतं बरूयात तस्माद वक्ष्यामि ते बलिम 8 उष्ट्रेषु यदि वा गॊषु खरेष्व अश्वेषु वा पुनः वरिष्ठॊ भविता जन्तुः शून्यागारे शचीपते 9 [षक्र] यदि सम बलिना बरह्मञ शून्यागारे समेयिवान हन्याम एनं न वा हन्यां तद बरह्मन्न अनुशाधि माम 10 [बरह्मा] मा सम शक्र बलिं हिंसीर न बलिर वधम अर्हति नयायांस तु शक्र परस्तव्यस तवया वासव काम्यया 11 [भी] एवम उक्तॊ भगवता महेन्द्रः पृथिवीं तदा चचारैरावत सकन्धम अधिरुह्य शरिया वृतः 12 ततॊ ददर्श सबलिं खरवेषेण संवृतम यथा खयातं भगवता शून्यागार कृतालयम 13 [षक्र] खरयॊनिम अनुप्राप्तस तुषभक्षॊ ऽसि दानव इयं ते यॊनिर अधमा शॊषस्य आहॊ न शॊचसि 14 अदृष्टं बत पश्यामि दविषतां वशम आगतम शरिया विहीनं मित्रैश च भरष्ट वीर्यपराक्रमम 15 यद यद यानसहस्रेण जञातिभिः परिवारितः लॊकान परतापयन सर्वान यास्य अस्मान अवितर्कयन 16 तवन मुखाश चैव दैतेया वयतिष्ठंस तव शासने अकृष्टपच्या पृथिवी तवैश्वर्ये बभूव ह इदं च ते ऽदय वयसनं शॊचस्य आहॊ न शॊचसि 17 यदातिष्ठः समुद्रस्य पूर्वकूले विलेलिहन जञातिभ्यॊ विभजन वित्तं तदासीत ते मनः कथम 18 यत ते सहस्रसमिता ननृतुर देव यॊषितः बहूनि वर्षपूगानि विहारे दीप्यतः शरिया 19 सर्वाः पुष्कर मालिन्यः सर्वाः काञ्चनसप्रभाः कथम अद्य तदा चैव मनस ते दानवेश्वर 20 छत्त्रं तवासीत सुमहत सौवर्णं मनि भूषितम ननृतुर यत्र गन्धर्वाः सः सहस्राणि सप्तधा 21 यूपस तवासीत सुमहाञ जयतः सर्वकाञ्चनः यत्राददः सहस्राणाम अयुतानि गवां दश 22 यदा तु पृथिवीं सर्वां यजमानॊ ऽनुपर्ययाः शम्याक्षेपेण विधिना तदासीत किं नु ते हृदि 23 न ते पश्यामि भृङ्गारं न छत्त्रं वयजनं न च बरह्मदत्तां च ते मालां न पश्याम्य असुराधिप 24 [बलि] न तवं पश्यसि भृङ्गारं न छत्त्रं वयजनं न च बरह्मदत्तां च मे मालां न तवं दरक्ष्यसि वासव 25 गुहायां निहितानि तवं मम रत्नानि पृच्छसि यदा मे भविता कालस तदा तवं तानि दरक्ष्यसि 26 न तव एतद अनुरूपं ते यशसॊ वा कुलस्य वा समृद्धार्थॊ ऽसमृद्धार्थं यन मां कत्थितुम इच्छसि 27 न हि दुःखेषु शॊचन्ति न परहृष्यन्ति चर्द्धिषु कृतप्रज्ञा जञानतृप्ताः कषान्ताः सन्तॊ मनीसिनः 28 तवं तुप्राकृतया बुद्ध्या पुरन्दर विकत्थसे यदाहम इव भावी तवं तदा नैवं वदिष्यसि |
1
[y] yayā buddhyā mahīpālo bhraṣṭa śrīr vicaren mahīm kāladaṇḍa viniṣpiṣṭas tan me brūhi pitāmaha 2 [bhī] atrāpy udāharantīmam itihāsaṃ purātanam vāsavasya ca saṃvādaṃ baler vairocanasya ca 3 pitāmaham upāgatya pranipatya kṛtāñjaliḥ sarvān evāsurāñ jitvā baliṃ papraccha vāsavaḥ 4 yasya sma dadato vittaṃ na kadā cana hīyate taṃ baliṃ nādhigacchāmi brahmann ācakṣva me balim 5 sa eva hy astam ayate sa sma vidyotate diśaḥ sa varṣati sma varṣāṇi yathākālam atandritaḥ taṃ baliṃ nādhigacchāmi brahmann ācakṣva me balim 6 sa vāyur varuṇaś caiva sa raviḥ sa ca candramāḥ so 'gnis tapati bhūtāni pṛthivī ca bhavaty uta taṃ baliṃ nādhigacchāmi brahmann ācakṣva me balim 7 [brahmā] naitat te sādhu maghavan yad etad anupṛcchasi pṛṣṭas tu nānṛtaṃ brūyāt tasmād vakṣyāmi te balim 8 uṣṭreṣu yadi vā goṣu khareṣv aśveṣu vā punaḥ variṣṭho bhavitā jantuḥ śūnyāgāre śacīpate 9 [ṣakra] yadi sma balinā brahmañ śūnyāgāre sameyivān hanyām enaṃ na vā hanyāṃ tad brahmann anuśādhi mām 10 [brahmā] mā sma śakra baliṃ hiṃsīr na balir vadham arhati nyāyāṃs tu śakra prastavyas tvayā vāsava kāmyayā 11 [bhī] evam ukto bhagavatā mahendraḥ pṛthivīṃ tadā cacārairāvata skandham adhiruhya śriyā vṛtaḥ 12 tato dadarśa sabaliṃ kharaveṣeṇa saṃvṛtam yathā khyātaṃ bhagavatā śūnyāgāra kṛtālayam 13 [ṣakra] kharayonim anuprāptas tuṣabhakṣo 'si dānava iyaṃ te yonir adhamā śoṣasy āho na śocasi 14 adṛṣṭaṃ bata paśyāmi dviṣatāṃ vaśam āgatam śriyā vihīnaṃ mitraiś ca bhraṣṭa vīryaparākramam 15 yad yad yānasahasreṇa jñātibhiḥ parivāritaḥ lokān pratāpayan sarvān yāsy asmān avitarkayan 16 tvan mukhāś caiva daiteyā vyatiṣṭhaṃs tava śāsane akṛṣṭapacyā pṛthivī tavaiśvarye babhūva ha idaṃ ca te 'dya vyasanaṃ śocasy āho na śocasi 17 yadātiṣṭhaḥ samudrasya pūrvakūle vilelihan jñātibhyo vibhajan vittaṃ tadāsīt te manaḥ katham 18 yat te sahasrasamitā nanṛtur deva yoṣitaḥ bahūni varṣapūgāni vihāre dīpyataḥ śriyā 19 sarvāḥ puṣkara mālinyaḥ sarvāḥ kāñcanasaprabhāḥ katham adya tadā caiva manas te dānaveśvara 20 chattraṃ tavāsīt sumahat sauvarṇaṃ mani bhūṣitam nanṛtur yatra gandharvāḥ saḥ sahasrāṇi saptadhā 21 yūpas tavāsīt sumahāñ jayataḥ sarvakāñcanaḥ yatrādadaḥ sahasrāṇām ayutāni gavāṃ daśa 22 yadā tu pṛthivīṃ sarvāṃ yajamāno 'nuparyayāḥ śamyākṣepeṇa vidhinā tadāsīt kiṃ nu te hṛdi 23 na te paśyāmi bhṛṅgāraṃ na chattraṃ vyajanaṃ na ca brahmadattāṃ ca te mālāṃ na paśyāmy asurādhipa 24 [bali] na tvaṃ paśyasi bhṛṅgāraṃ na chattraṃ vyajanaṃ na ca brahmadattāṃ ca me mālāṃ na tvaṃ drakṣyasi vāsava 25 guhāyāṃ nihitāni tvaṃ mama ratnāni pṛcchasi yadā me bhavitā kālas tadā tvaṃ tāni drakṣyasi 26 na tv etad anurūpaṃ te yaśaso vā kulasya vā samṛddhārtho 'samṛddhārthaṃ yan māṃ katthitum icchasi 27 na hi duḥkheṣu śocanti na prahṛṣyanti carddhiṣu kṛtaprajñā jñānatṛptāḥ kṣāntāḥ santo manīsinaḥ 28 tvaṃ tuprākṛtayā buddhyā purandara vikatthase yadāham iva bhāvī tvaṃ tadā naivaṃ vadiṣyasi |
The Mahabharata in Sanskrit
Book 12
Chapter 217
|
1
[भी] पुनर एव तु तं शक्रः परहसन्न इदम अब्रवीत निःश्वसन्तं यथा नागं परव्याहाराय भारत 2 यत तद यानसहस्रेण जञातिभिः परिवारितः लॊकान परतापयन सर्वान यास्य अस्मान अवितर्कयन 3 दृष्ट्वा सुकृपणां चेमाम अवस्थाम आत्मनॊ बले जञातिमित्र परित्यक्तः शॊचस्य आहॊ न शॊचसि 4 परीतिं परात्यातुलां पूर्वं लॊकांश चात्मवशे सथिताम विनिपातम इमं चाद्य शॊचस्य आहॊ न शॊचसि 5 [बलि] अनित्यम उपलक्ष्येदं कालपर्यायम आत्मनः तस्माच छक्र न शॊचामि सर्वं हय एवेदम अन्तवत 6 अन्तवन्त इमे देहा भूतानाम अमराधिप तेन शक्र न शॊचामि नापराधाद इदं मम 7 जीवितं च शरीरं च परेत्य वै सह जायते उभे सह विवर्धेते उभे सह विनश्यतः 8 तद ईदृशम इदं भावम अवशः पराप्य केवलम यद्य एवम अभिजानामि का वयथा मे विजानतः 9 भूतानां निधनं निष्ठा सरॊतसाम इव सागरः नैतत सम्यग विजानन्तॊ नरा मुह्यन्ति वज्रभृत 10 ये तव एवं नाभिजानन्ति रजॊ मॊहपरायनाः ते कृच्छ्रं पराप्य सीदन्ति बुद्धिर येषां परनश्यति 11 बुद्धिलाभे हि पुरुषः सर्वं नुदति किल्बिषम विपाप्मा लभते सत्त्वं सत्त्वस्थः संप्रसीदति 12 ततस तु ये निवर्तन्ते जायन्ते वा पुनः पुनः कृपणाः परितप्यन्ते ते ऽनर्थैर परिचॊदिताः 13 अर्थसिद्धिम अनर्थं च जीवितं मरणं तथा सुखदुःखफलं चैव न दवेष्मि न च कामये 14 हतं हन्ति हतॊ हय एव यॊ नरॊ हन्ति कं चन उभौ तौ न विजानीतॊ यश च हन्ति हतश च यः 15 हत्वा जित्वा च मघवन यः कश चित पुरुषायते अकर्ता हय एव भवति कर्ता तव एव करॊति तत 16 हॊ हि लॊकस्य कुरुते विनाशप्रभवाव उभौ कृतं हि तत कृतेनैव कर्ता तस्यापि चापरः 17 पृथिवी वायुर आकाशम आपॊ जयॊतिश च पञ्चमम एतद्यॊनीनि भूतानि तत्र का परिदेवना 18 महाविद्यॊ ऽलपविद्यश च बलवान दुर्बलश च यः दर्शनीयश विरूपश च सुभगॊ दुर्भगश च यः 19 सर्वं कालः समादत्ते गम्भीरः सवेन तेजसा तस्मिन कालवशं पराप्ते का वयथा मे विजानतः 20 दग्धम एवानुदहति हतम एवानुहन्ति च नश्यते नष्टम एवाग्रे लब्धव्यं लभते नरः 21 नास्य दवीपः कुतः पारं नावारः संप्रदृश्यते नान्तम अस्य परपश्यामि विधेर दिव्यस्य चिन्तयम 22 यदि मे पश्यतः कालॊ भूतानि न विनाशयेत सयान मे हर्शश च दर्पश च करॊधश चैव शचीपते 23 तुषभक्षं तु मां जञात्वा परविविक्त जने गृहे बिभ्रतं गार्दभं रूपम आदिश्य परिगर्हसे 24 इच्छन्न अहं विकुर्यां हि रूपाणि बहुधात्मनः विभीसनानि यानीक्ष्य पलायेथास तवम एव मे 25 कालः सर्वं समादत्ते कालः सर्वं परयच्छति कालेन विधृतं सर्वं मा कृथाः शक्र पौरुषम 26 पुरा सर्वं परव्यथते मयि करुद्धे पुरंदर अवैमि तव अस्य लॊकस्य धर्मं शक्र सनातनम 27 तवम अप्य एवम अपेक्षस्व मात्मना विस्मयं गमः परभवश च परभावश च नात्म संस्थः कदा चन 28 कौमारम एव ते चित्तं तथैवाद्य यथा पुरा समवेक्षस्व मघवन बुद्धिं विन्दस्व नैष्ठिकीम 29 देवा मनुष्याः पितरॊ गन्धर्वॊरगराक्षसाः आसन सर्वे मम वशे तत सर्वं वेत्थ वासव 30 नमस तस्यै दिशे ऽपय अस्तु यस्यां वैरॊचनॊ बलिः इति माम अभ्यपद्यन्त बुद्धिमात्सय मॊहिताः 31 नाहं तद अनुशॊचामि नात्म भरंशं शचीपते एवं मे निश्चिता बुद्धिः शास्तुस तिष्ठाम्य अहं वशे 32 दृश्यते हि कुले जातॊ दर्शनीयः परतापवान दुःखं जीवन सहामात्यॊ भवितव्यं हि तत तथा 33 दौष्कुलेल्यस तथा मूढॊ दुर्जातः शक्र दृश्यते सुखं जीवन सहामात्य भवितव्यं हि तत तथा 34 कल्यानी रूपसंपन्ना दुर्भगा शक्र दृश्यते अलक्षणा विरूपा च सुभगा शक्र दृश्यते 35 नैतद अस्मत कृतं शक्र नैतच छक्र तवया कृतम यत तवम एवंगतॊ वज्रिन यद वाप्य एवंगता वयम 36 न कर्म तव नान्येषां कुतॊ मम शतक्रतॊ ऋद्धिर वाप्य अथ वा नर्द्धिः पर्याय कृतम एव तत 37 पश्यामि तवा विराजन्तं देवराजम अवस्थितम शरीमन्तं दयुतिमन्तं च गर्जन्तं च ममॊपरि 38 एतच चैवं न चेत कालॊ माम आक्रम्य सथितॊ भवेत पातयेयम अहं तवाद्य सवर्जम अपि मुष्टिना 39 न तु विक्रमकालॊ ऽयं कषमा कालॊ ऽयम आगतः कालः सथापयते सर्वं कालः पचति वै तथा 40 मां चेद अभ्यागतः कालॊ दानवेश्वरम ऊर्जितम गर्जन्तं परतपन्तं च कम अन्यं नागमिष्यति 41 दवादशानां हि भवताम आदित्यानां महात्मनाम तेजांस्य एकेन सर्वेषां देवराजहृतानि मे 42 अहम एवॊद्वहाम्य आपॊ विसृजामि च वासव तपामि चैव तरैलॊक्यं विद्यॊताम्य अहम एव च 43 संरक्षामि विलुम्पामि ददाम्य अहम अथाददे संयच्छामि नियच्छामि लॊकेषु परभुर ईश्वरः 44 तद अद्य विनिवृत्तं मे परभुत्वम अमराधिप कालसैन्यावगाधस्य सर्वं न परतिभाति मे 45 नाहं कर्ता न चैव तवं नान्यक कर्ता शचीपते पर्यायेन हि भुज्यन्ते लॊकाः शक्र यदृच्छया 46 मासार्ध मासवेश्मानम अहॊरात्राभिसंवृतम ऋतुद्वारं वर्षमुखम आहुर वेदविदॊ जनाः 47 आहुः सर्वम इदं चिन्त्यं जनाः के चिन मनीसया अस्याः पञ्चैव चिन्तायाः पर्येष्यामि च पञ्चधा 48 गन्भीरं गहनं बरह्म महत तॊयार्णवं यथा अनादि निधनं चाहुर अक्षरं परम एव च 49 सत्त्वेषु लिङ्गम आवेश्य नलिङ्गम अपि तत सवयम मन्यन्ते धरुवम एवैनं ये नरास तत्त्वदर्शिनः 50 भूतानां तु विपर्यासं मन्यते गतवान इति न हय एतावद भवेद गम्यं नयस्मात परकृतेः परः 51 गतिं हि सर्वभूतानाम अगत्वा कव गमिष्यसि यॊ धावता न हातव्यस तिष्ठन्न अपि न हीयते तम इन्द्रियाणि सर्वाणि नानुपश्यन्ति पञ्चधा 52 आहुश चैनं के चिद अग्निं के चिद आहुः परजापतिम ऋतुमासार्ध मामांश च दिवसांस तु कषणांस तथा 53 पूर्वाह्नम अपराह्नं च मध्याह्नम अपि चापरे मुहूर्तम अपि चैवाहुर एकं सन्तम अनेकधा तं कालम अवजानीहि यस्य सर्वम इदं वशे 54 बहुनीन्द्र सहस्राणि समतीतानि वासव बलवीर्यॊपपन्नानि यथैव तवं शचीपते 55 तवाम अप्य अतिबलं शक्रं देवराजं बलॊत्कतम पराप्ते काले महावीर्यः कालः संशमयिष्यति 56 य इदं सर्वम आदत्ते तस्माच छक्र सथिरॊ भव मया तवया च पूर्वैश च न स शक्यॊ ऽतिवर्तितुम 57 याम एतां पराप्य जानीसे राजश्रियम अनुत्तमाम सथिता मयीति तन मिथ्या नैषा हय एकत्र तिष्ठति 58 सथिता हीन्द्र सहस्रेषु तवद विशिष्टतमेष्व इयम मां च लॊला परित्यज्य तवाम अगाद विबुधाधिप 59 मैवं शक्र पुनः कार्षीः शान्तॊ भवितुम अर्हसि तवाम अप्य एवंगतं तयक्त्वा कषिप्रम अन्यं गमिष्यति |
1
[bhī] punar eva tu taṃ śakraḥ prahasann idam abravīt niḥśvasantaṃ yathā nāgaṃ pravyāhārāya bhārata 2 yat tad yānasahasreṇa jñātibhiḥ parivāritaḥ lokān pratāpayan sarvān yāsy asmān avitarkayan 3 dṛṣṭvā sukṛpaṇāṃ cemām avasthām ātmano bale jñātimitra parityaktaḥ śocasy āho na śocasi 4 prītiṃ prātyātulāṃ pūrvaṃ lokāṃś cātmavaśe sthitām vinipātam imaṃ cādya śocasy āho na śocasi 5 [bali] anityam upalakṣyedaṃ kālaparyāyam ātmanaḥ tasmāc chakra na śocāmi sarvaṃ hy evedam antavat 6 antavanta ime dehā bhūtānām amarādhipa tena śakra na śocāmi nāparādhād idaṃ mama 7 jīvitaṃ ca śarīraṃ ca pretya vai saha jāyate ubhe saha vivardhete ubhe saha vinaśyataḥ 8 tad īdṛśam idaṃ bhāvam avaśaḥ prāpya kevalam yady evam abhijānāmi kā vyathā me vijānataḥ 9 bhūtānāṃ nidhanaṃ niṣṭhā srotasām iva sāgaraḥ naitat samyag vijānanto narā muhyanti vajrabhṛt 10 ye tv evaṃ nābhijānanti rajo mohaparāyanāḥ te kṛcchraṃ prāpya sīdanti buddhir yeṣāṃ pranaśyati 11 buddhilābhe hi puruṣaḥ sarvaṃ nudati kilbiṣam vipāpmā labhate sattvaṃ sattvasthaḥ saṃprasīdati 12 tatas tu ye nivartante jāyante vā punaḥ punaḥ kṛpaṇāḥ paritapyante te 'narthair paricoditāḥ 13 arthasiddhim anarthaṃ ca jīvitaṃ maraṇaṃ tathā sukhaduḥkhaphalaṃ caiva na dveṣmi na ca kāmaye 14 hataṃ hanti hato hy eva yo naro hanti kaṃ cana ubhau tau na vijānīto yaś ca hanti hataś ca yaḥ 15 hatvā jitvā ca maghavan yaḥ kaś cit puruṣāyate akartā hy eva bhavati kartā tv eva karoti tat 16 ho hi lokasya kurute vināśaprabhavāv ubhau kṛtaṃ hi tat kṛtenaiva kartā tasyāpi cāparaḥ 17 pṛthivī vāyur ākāśam āpo jyotiś ca pañcamam etadyonīni bhūtāni tatra kā paridevanā 18 mahāvidyo 'lpavidyaś ca balavān durbalaś ca yaḥ darśanīyaś virūpaś ca subhago durbhagaś ca yaḥ 19 sarvaṃ kālaḥ samādatte gambhīraḥ svena tejasā tasmin kālavaśaṃ prāpte kā vyathā me vijānataḥ 20 dagdham evānudahati hatam evānuhanti ca naśyate naṣṭam evāgre labdhavyaṃ labhate naraḥ 21 nāsya dvīpaḥ kutaḥ pāraṃ nāvāraḥ saṃpradṛśyate nāntam asya prapaśyāmi vidher divyasya cintayam 22 yadi me paśyataḥ kālo bhūtāni na vināśayet syān me harśaś ca darpaś ca krodhaś caiva śacīpate 23 tuṣabhakṣaṃ tu māṃ jñātvā pravivikta jane gṛhe bibhrataṃ gārdabhaṃ rūpam ādiśya parigarhase 24 icchann ahaṃ vikuryāṃ hi rūpāṇi bahudhātmanaḥ vibhīsanāni yānīkṣya palāyethās tvam eva me 25 kālaḥ sarvaṃ samādatte kālaḥ sarvaṃ prayacchati kālena vidhṛtaṃ sarvaṃ mā kṛthāḥ śakra pauruṣam 26 purā sarvaṃ pravyathate mayi kruddhe puraṃdara avaimi tv asya lokasya dharmaṃ śakra sanātanam 27 tvam apy evam apekṣasva mātmanā vismayaṃ gamaḥ prabhavaś ca prabhāvaś ca nātma saṃsthaḥ kadā cana 28 kaumāram eva te cittaṃ tathaivādya yathā purā samavekṣasva maghavan buddhiṃ vindasva naiṣṭhikīm 29 devā manuṣyāḥ pitaro gandharvoragarākṣasāḥ āsan sarve mama vaśe tat sarvaṃ vettha vāsava 30 namas tasyai diśe 'py astu yasyāṃ vairocano baliḥ iti mām abhyapadyanta buddhimātsaya mohitāḥ 31 nāhaṃ tad anuśocāmi nātma bhraṃśaṃ śacīpate evaṃ me niścitā buddhiḥ śāstus tiṣṭhāmy ahaṃ vaśe 32 dṛśyate hi kule jāto darśanīyaḥ pratāpavān duḥkhaṃ jīvan sahāmātyo bhavitavyaṃ hi tat tathā 33 dauṣkulelyas tathā mūḍho durjātaḥ śakra dṛśyate sukhaṃ jīvan sahāmātya bhavitavyaṃ hi tat tathā 34 kalyānī rūpasaṃpannā durbhagā śakra dṛśyate alakṣaṇā virūpā ca subhagā śakra dṛśyate 35 naitad asmat kṛtaṃ śakra naitac chakra tvayā kṛtam yat tvam evaṃgato vajrin yad vāpy evaṃgatā vayam 36 na karma tava nānyeṣāṃ kuto mama śatakrato ṛddhir vāpy atha vā narddhiḥ paryāya kṛtam eva tat 37 paśyāmi tvā virājantaṃ devarājam avasthitam śrīmantaṃ dyutimantaṃ ca garjantaṃ ca mamopari 38 etac caivaṃ na cet kālo mām ākramya sthito bhavet pātayeyam ahaṃ tvādya savarjam api muṣṭinā 39 na tu vikramakālo 'yaṃ kṣamā kālo 'yam āgataḥ kālaḥ sthāpayate sarvaṃ kālaḥ pacati vai tathā 40 māṃ ced abhyāgataḥ kālo dānaveśvaram ūrjitam garjantaṃ pratapantaṃ ca kam anyaṃ nāgamiṣyati 41 dvādaśānāṃ hi bhavatām ādityānāṃ mahātmanām tejāṃsy ekena sarveṣāṃ devarājahṛtāni me 42 aham evodvahāmy āpo visṛjāmi ca vāsava tapāmi caiva trailokyaṃ vidyotāmy aham eva ca 43 saṃrakṣāmi vilumpāmi dadāmy aham athādade saṃyacchāmi niyacchāmi lokeṣu prabhur īśvaraḥ 44 tad adya vinivṛttaṃ me prabhutvam amarādhipa kālasainyāvagādhasya sarvaṃ na pratibhāti me 45 nāhaṃ kartā na caiva tvaṃ nānyak kartā śacīpate paryāyena hi bhujyante lokāḥ śakra yadṛcchayā 46 māsārdha māsaveśmānam ahorātrābhisaṃvṛtam ṛtudvāraṃ varṣamukham āhur vedavido janāḥ 47 āhuḥ sarvam idaṃ cintyaṃ janāḥ ke cin manīsayā asyāḥ pañcaiva cintāyāḥ paryeṣyāmi ca pañcadhā 48 ganbhīraṃ gahanaṃ brahma mahat toyārṇavaṃ yathā anādi nidhanaṃ cāhur akṣaraṃ param eva ca 49 sattveṣu liṅgam āveśya naliṅgam api tat svayam manyante dhruvam evainaṃ ye narās tattvadarśinaḥ 50 bhūtānāṃ tu viparyāsaṃ manyate gatavān iti na hy etāvad bhaved gamyaṃ nayasmāt prakṛteḥ paraḥ 51 gatiṃ hi sarvabhūtānām agatvā kva gamiṣyasi yo dhāvatā na hātavyas tiṣṭhann api na hīyate tam indriyāṇi sarvāṇi nānupaśyanti pañcadhā 52 āhuś cainaṃ ke cid agniṃ ke cid āhuḥ prajāpatim ṛtumāsārdha māmāṃś ca divasāṃs tu kṣaṇāṃs tathā 53 pūrvāhnam aparāhnaṃ ca madhyāhnam api cāpare muhūrtam api caivāhur ekaṃ santam anekadhā taṃ kālam avajānīhi yasya sarvam idaṃ vaśe 54 bahunīndra sahasrāṇi samatītāni vāsava balavīryopapannāni yathaiva tvaṃ śacīpate 55 tvām apy atibalaṃ śakraṃ devarājaṃ balotkatam prāpte kāle mahāvīryaḥ kālaḥ saṃśamayiṣyati 56 ya idaṃ sarvam ādatte tasmāc chakra sthiro bhava mayā tvayā ca pūrvaiś ca na sa śakyo 'tivartitum 57 yām etāṃ prāpya jānīse rājaśriyam anuttamām sthitā mayīti tan mithyā naiṣā hy ekatra tiṣṭhati 58 sthitā hīndra sahasreṣu tvad viśiṣṭatameṣv iyam māṃ ca lolā parityajya tvām agād vibudhādhipa 59 maivaṃ śakra punaḥ kārṣīḥ śānto bhavitum arhasi tvām apy evaṃgataṃ tyaktvā kṣipram anyaṃ gamiṣyati |
The Mahabharata in Sanskrit
Book 12
Chapter 218
|
1
[भी] शतक्रतुर अथापश्यद बलेर दीप्तां महात्मनः सवरूपिणीं शरीराद धि तदा निष्क्रामतीं शरियम 2 तां दीप्तां परभया दृष्ट्वा भगवान पाकशासनः विस्मयॊत्फुल्लनयनॊ बलिं पप्रच्छ वासवः 3 बले केयम अपक्रान्ता रॊचमाना शिखन्दिनी तवत्तः सथिता सकेयूरा दीप्यमाना सवतेजसा 4 [बलि] न हीमाम आसुरीं वेद्मि न दैवीं न च मानुषीम तवम एवैनां पृच्छ मा वा यथेष्टं कुरु वासव 5 [षक्र] का तवं बलेर अपक्रान्ता रॊचमाना शिखन्दिनी अजानतॊ ममाचक्ष्व नामधेयं शुचिस्मिते 6 का तवं तिष्ठसि मायेव दीप्यमाना सवतेजसा हित्वा दैत्येश्वरं सुभ्रु तन ममाचक्ष्व तत्त्वतः 7 [षरी] न मा विरॊचनॊ वेद न मा वैरॊचनॊ बलिः आहुर मां दुःसहेत्य एवं विधित्सेति च मां विदुः 8 भूतिर लक्ष्मीति माम आहुः शरीर इत्य एवं च वासव तवं मां शक्र न जानीसे सर्वे देवा न मां विदुः 9 [षक्र] किम इदं तवं मम कृते उताहॊ बलिनः कृते दुःसहे विजहास्य एनं चिरसंवासिनी सती 10 [षरी] न धाता न विधाता मां विदधाति कथं चन कालस तु शक्र पर्यायान मैनं शक्रावमन्यथाः 11 [षक्र] कथं तवया बलिस तयक्तः किमर्थं वा शिखन्दिनि कथं च मां न जह्यास तवं तन मे बरूहि शुचिस्मिते 12 [षरी] सत्ये सथितास्मि दाने च वरते तपसि चैव हि पराक्रमे च धर्मे च पराचीनस ततॊ बलिः 13 बरह्मण्यॊ ऽयं सदा भूत्वा सत्यवादी जितेन्द्रियः अभ्यसूयद बराह्मणान वै उच्छिष्टश चास्पृशद घृतम 14 यज्ञशीलः पुरा भूत्वा माम एव यजतेत्य अयम परॊवाच लॊकान मूढात्मा कालेनॊपनिपीदितः 15 अपाकृता ततः शक्र तवयि वत्स्यामि वासव अप्रमत्तेन धार्यास्मि तपसा विक्रमेण च 16 [षक्र] अस्ति देवमनुष्येषु सर्वभूतेषु वा पुमान यस तवाम एकॊ विषहितुं शक्नुयात कमलालये 17 [षरी] नैव देवॊ न गन्धर्वॊ नासुरॊ न च राक्षसः यॊ माम एकॊ विषहितुं शक्तः कश चित पुरंदर 18 [षक्र] तिष्ठेथा मयि नित्यं तवं यथा तद बरूहि मे शुभे तत करिष्यामि ते वाक्यम ऋतं तवं वक्तुम अर्हसि 19 [षरी] सथास्यामि नित्यं देवेन्द्र यथा तवयि निबॊध तत विधिना वेद दृष्टेन चतुर्धा विभजस्व माम 20 [षक्र] अहं वै तवा निधास्यामि यथाशक्ति यथाबलम न तु मे ऽतिक्रमः सयाद वै सदा लक्ष्मितवान्तिके 21 भूमिर एव मनुष्येषु धारणी भूतभाविनी सा ते पादं तितिक्षेत समहा हीति मे मतिः 22 [षरी] एष मे निहितः पादॊ यॊ ऽयं भूमौ परतिष्ठितः दवितीयं शक्र पादं मे तस्मात सुनिहितं कुरु 23 [षक्र] आप एव मनुष्येषु दरवन्त्यः परिचारिकाः तास ते पादं तितिक्षन्ताम अलम आपस तितिक्षितुम 24 [षरी] एष मे निहितः पादॊ यॊ ऽयम अप्सु परतिष्ठितः तृतीयं शक्र पादं मे तस्मात सुनिहितं कुरु 25 [षक्र] यस्मिन देवाश च यज्ञाश च यस्मिन वेदाः परतिष्ठिताः तृतीयं पादम अग्निस ते सुधृतं धारयिष्यति 26 [षरी] एष मे निहितं पादॊ यॊ ऽयम अग्नौ परतिष्ठितः चतुर्थं शक्र पादं मे तस्मात सुनिहितं कुरु 27 [षक्र] ये वै सन्तॊ मनुष्येषु बरह्मण्याः सत्यवादिनः ते ते पादं तितिक्षन्ताम अलं सन्तस तितिक्षितुम 28 [षरी] एष मे निहितः पादॊ यॊ ऽयं सत्सु परतिष्ठितम एवं विनिहितां शक्र भूतेषु परिधत्स्व माम 29 [षक्र] भूतानाम इह वै यस तवा मया विनिहितां सतीम उपहन्यात स मे दविष्यात तथा शृण्वन्तु मे वचः 30 [भी] ततस तयक्तः शरिया राजा दैत्यानां बलिर अब्रवीत यावत पुरस्तात परतपेत तावद वै दक्षिणां दिशम 31 पश्चिमां तावद एवापि तथॊदीचीं दिवाकरः तथा मध्यंदिने सूर्यॊ अस्तम एति यदा तदा पुनर देवासुरं युद्धं भावि जेतास्मि वस तदा 32 सर्वाँल लॊकान यदादित्य एकस्थस तापयिष्यति तदा देवासुरे युद्धे जेताहं तवां शतक्रतॊ 33 [षक्र] बरह्मणास्मि समादिष्टॊ न हन्तव्यॊ भवान इति तेन ते ऽहं बले वज्रं न विमुञ्चामि मूर्धनि 34 यथेष्टं गच्छ दैत्येन्द्र सवस्ति ते ऽसतु महासुर आदित्यॊ नावतपिता कदा चिन मध्यतः सथितः 35 सथापितॊ हय अस्य समयः पूर्वम एव सवयम्भुवा अजस्रं परियात्य एष सत्येनावतपन परजाः 36 अयनं तस्य षण मासा उत्तरं दक्षिणं तथा येन संयाति लॊकेषु शीतॊष्णे विसृजन रविः 37 [भी] एवम उक्तस तु दैत्येन्द्रॊ बलिर इन्द्रेण भारत जगाम अदक्षिणाम आशाम उदीचीं तु पुरंदरः 38 इत्य एतद बलिना गीतम अनहंकार संज्ञितम वाक्यं शरुत्वा सहस्राक्षः खम एवारुरुहे तदा |
1
[bhī] śatakratur athāpaśyad baler dīptāṃ mahātmanaḥ svarūpiṇīṃ śarīrād dhi tadā niṣkrāmatīṃ śriyam 2 tāṃ dīptāṃ prabhayā dṛṣṭvā bhagavān pākaśāsanaḥ vismayotphullanayano baliṃ papraccha vāsavaḥ 3 bale keyam apakrāntā rocamānā śikhandinī tvattaḥ sthitā sakeyūrā dīpyamānā svatejasā 4 [bali] na hīmām āsurīṃ vedmi na daivīṃ na ca mānuṣīm tvam evaināṃ pṛccha mā vā yatheṣṭaṃ kuru vāsava 5 [ṣakra] kā tvaṃ baler apakrāntā rocamānā śikhandinī ajānato mamācakṣva nāmadheyaṃ śucismite 6 kā tvaṃ tiṣṭhasi māyeva dīpyamānā svatejasā hitvā daityeśvaraṃ subhru tan mamācakṣva tattvataḥ 7 [ṣrī] na mā virocano veda na mā vairocano baliḥ āhur māṃ duḥsahety evaṃ vidhitseti ca māṃ viduḥ 8 bhūtir lakṣmīti mām āhuḥ śrīr ity evaṃ ca vāsava tvaṃ māṃ śakra na jānīse sarve devā na māṃ viduḥ 9 [ṣakra] kim idaṃ tvaṃ mama kṛte utāho balinaḥ kṛte duḥsahe vijahāsy enaṃ cirasaṃvāsinī satī 10 [ṣrī] na dhātā na vidhātā māṃ vidadhāti kathaṃ cana kālas tu śakra paryāyān mainaṃ śakrāvamanyathāḥ 11 [ṣakra] kathaṃ tvayā balis tyaktaḥ kimarthaṃ vā śikhandini kathaṃ ca māṃ na jahyās tvaṃ tan me brūhi śucismite 12 [ṣrī] satye sthitāsmi dāne ca vrate tapasi caiva hi parākrame ca dharme ca parācīnas tato baliḥ 13 brahmaṇyo 'yaṃ sadā bhūtvā satyavādī jitendriyaḥ abhyasūyad brāhmaṇān vai ucchiṣṭaś cāspṛśad ghṛtam 14 yajñaśīlaḥ purā bhūtvā mām eva yajatety ayam provāca lokān mūḍhātmā kālenopanipīditaḥ 15 apākṛtā tataḥ śakra tvayi vatsyāmi vāsava apramattena dhāryāsmi tapasā vikrameṇa ca 16 [ṣakra] asti devamanuṣyeṣu sarvabhūteṣu vā pumān yas tvām eko viṣahituṃ śaknuyāt kamalālaye 17 [ṣrī] naiva devo na gandharvo nāsuro na ca rākṣasaḥ yo mām eko viṣahituṃ śaktaḥ kaś cit puraṃdara 18 [ṣakra] tiṣṭhethā mayi nityaṃ tvaṃ yathā tad brūhi me śubhe tat kariṣyāmi te vākyam ṛtaṃ tvaṃ vaktum arhasi 19 [ṣrī] sthāsyāmi nityaṃ devendra yathā tvayi nibodha tat vidhinā veda dṛṣṭena caturdhā vibhajasva mām 20 [ṣakra] ahaṃ vai tvā nidhāsyāmi yathāśakti yathābalam na tu me 'tikramaḥ syād vai sadā lakṣmitavāntike 21 bhūmir eva manuṣyeṣu dhāraṇī bhūtabhāvinī sā te pādaṃ titikṣeta samahā hīti me matiḥ 22 [ṣrī] eṣa me nihitaḥ pādo yo 'yaṃ bhūmau pratiṣṭhitaḥ dvitīyaṃ śakra pādaṃ me tasmāt sunihitaṃ kuru 23 [ṣakra] āpa eva manuṣyeṣu dravantyaḥ paricārikāḥ tās te pādaṃ titikṣantām alam āpas titikṣitum 24 [ṣrī] eṣa me nihitaḥ pādo yo 'yam apsu pratiṣṭhitaḥ tṛtīyaṃ śakra pādaṃ me tasmāt sunihitaṃ kuru 25 [ṣakra] yasmin devāś ca yajñāś ca yasmin vedāḥ pratiṣṭhitāḥ tṛtīyaṃ pādam agnis te sudhṛtaṃ dhārayiṣyati 26 [ṣrī] eṣa me nihitaṃ pādo yo 'yam agnau pratiṣṭhitaḥ caturthaṃ śakra pādaṃ me tasmāt sunihitaṃ kuru 27 [ṣakra] ye vai santo manuṣyeṣu brahmaṇyāḥ satyavādinaḥ te te pādaṃ titikṣantām alaṃ santas titikṣitum 28 [ṣrī] eṣa me nihitaḥ pādo yo 'yaṃ satsu pratiṣṭhitam evaṃ vinihitāṃ śakra bhūteṣu paridhatsva mām 29 [ṣakra] bhūtānām iha vai yas tvā mayā vinihitāṃ satīm upahanyāt sa me dviṣyāt tathā śṛṇvantu me vacaḥ 30 [bhī] tatas tyaktaḥ śriyā rājā daityānāṃ balir abravīt yāvat purastāt pratapet tāvad vai dakṣiṇāṃ diśam 31 paścimāṃ tāvad evāpi tathodīcīṃ divākaraḥ tathā madhyaṃdine sūryo astam eti yadā tadā punar devāsuraṃ yuddhaṃ bhāvi jetāsmi vas tadā 32 sarvāṁl lokān yadāditya ekasthas tāpayiṣyati tadā devāsure yuddhe jetāhaṃ tvāṃ śatakrato 33 [ṣakra] brahmaṇāsmi samādiṣṭo na hantavyo bhavān iti tena te 'haṃ bale vajraṃ na vimuñcāmi mūrdhani 34 yatheṣṭaṃ gaccha daityendra svasti te 'stu mahāsura ādityo nāvatapitā kadā cin madhyataḥ sthitaḥ 35 sthāpito hy asya samayaḥ pūrvam eva svayambhuvā ajasraṃ pariyāty eṣa satyenāvatapan prajāḥ 36 ayanaṃ tasya ṣaṇ māsā uttaraṃ dakṣiṇaṃ tathā yena saṃyāti lokeṣu śītoṣṇe visṛjan raviḥ 37 [bhī] evam uktas tu daityendro balir indreṇa bhārata jagām adakṣiṇām āśām udīcīṃ tu puraṃdaraḥ 38 ity etad balinā gītam anahaṃkāra saṃjñitam vākyaṃ śrutvā sahasrākṣaḥ kham evāruruhe tadā |
The Mahabharata in Sanskrit
Book 12
Chapter 219
|
1
[भी] अत्रैवॊदाहरन्तीमम इतिहासं पुरातनम शतक्रतॊश च संवादं नमुचेश च युधिष्ठिर 2 शरिया विहीनम आसीनम अक्षॊभ्यम इव सागरम भवाभवज्ञं भूतानाम इत्य उवाच पुरन्दरः 3 बद्धः पाशैश चयुतः सथानाद दविषतां वशम आगतः शरिया विहीनॊ नमुचे शॊचस्य आहॊ न शॊचसि 4 [नमुचि] अनवाप्यं च शॊकेन शरीरं चॊपतप्यते अमित्राश च परहृष्यन्ति नास्ति शॊके सहायता 5 तस्माच छक्र न शॊचामि सर्वं हय एवेदम अन्तवत संतापाद भरश्यते रूपं धर्मश चैव सुरेश्वर 6 विनीय खलु तद्दुःखम आगतां वैमनस्यजम धयातव्यं मनसा हृद्यं कल्यानं संविजानता 7 यथा यथा हि पुरुषः कल्याने कुरुते मनः तदैवास्य परसीदन्ति सर्वार्था नात्र संशयः 8 एकः शास्ता न दवितीयॊ ऽसति शास्ता; गर्भे शयानं पुरुषं शास्ति शास्ता तेनानुशिष्टः परवनाद इवॊदकं; यथा नियुक्तॊ ऽसमि तथा वहामि 9 भावाभावाव अभिजानन गरीयॊ; जानामि शरेयॊ न तु तत करॊमि आशासु धर्म्याः सुहृदां सुकुर्वन; यथा नियुक्तॊ ऽसमि तथा वहामि 10 यथा यथास्य पराप्तव्यं पराप्नॊत्य एव तथा तथा भवितव्यं यथा यच च भवत्य एव तथा तथा 11 यत्र यत्रैव संयुक्ते धाता गर्भं पुनः पुनः तत्र तत्रैव वसति न यत्र सवयम इच्छति 12 भावॊ यॊ ऽयम अनुप्राप्तॊ भवितव्यम इदं मम इति यस्य सदा भावॊ न स मुह्येत कदा चन 13 पर्यायैर हन्यमानानाम अभियॊक्ता न विद्यते दुःखम एतत तु यद दवेष्टा कर्ताहम इति मन्यते 14 ऋषींश च देवांश च महासुरांश च; तरैविद्य वृद्धांश च वने मुनींश च कान नापदॊ नॊपनमन्ति लॊके; परावरज्ञास तु न संभ्रमन्ति 15 न पण्डितः करुध्यति नापि सज्जते; न चापि संसीदति न हृष्यति न चार्थकृच्छ्रव्यसनेषु शॊचति; सथितः परकृत्या हिमवान इवाचलः 16 यम अर्थसिद्धिः परमा न हर्षयेत; तथैव काले वयसनं न मॊहयेत सुखं च दुःखं च तथैव मध्यमं; निषेवते यः स धुरंधरॊ नरः 17 यां याम अवस्थां पुरुषॊ ऽधिगच्छेत; तस्यां रमेतापरितप्यमानः एवं परवृद्धं परनुदेन मनॊजं; संतापम आयास करं शरीरात 18 तत सदः स परिषत सभासदः; पराप्य यॊ न कुरुते सभा भयम धर्मतत्त्वम अवगह्य बुद्धिमान; यॊ ऽभयुपैति स पुमान धुरंधरः 19 पराज्ञस्य कर्माणि दुरन्वयानि; न वै पराज्ञॊ मुह्यति मॊहकाले सथनाच चयुतश चेन न मुमॊह गौतमस; तावत कृच्छ्राम आपदं पराप्य वृद्धः 20 न मन्त्रबलवीर्येण परज्ञया पौरुषेण वा अलभ्यं लभते मर्त्यस तत्र का परिदेवना 21 यद एवम अनुजातस्य धातारॊ विदधुः पुरा तद एवानुभविष्यामि किं मे मृत्युः करिष्यति 22 लब्धव्यान्य एव लभते गन्तव्यान्य एव गच्छति पराप्तव्यान्य एव पराप्नॊति दुःखानि च सुखानि च 23 एतद विदित्वा कार्त्स्न्येन यॊ न मुह्यति मानवः कुशलः सुखदुःखेषु स वै सर्वधनेश्वरः |
1
[bhī] atraivodāharantīmam itihāsaṃ purātanam śatakratoś ca saṃvādaṃ namuceś ca yudhiṣṭhira 2 śriyā vihīnam āsīnam akṣobhyam iva sāgaram bhavābhavajñaṃ bhūtānām ity uvāca purandaraḥ 3 baddhaḥ pāśaiś cyutaḥ sthānād dviṣatāṃ vaśam āgataḥ śriyā vihīno namuce śocasy āho na śocasi 4 [namuci] anavāpyaṃ ca śokena śarīraṃ copatapyate amitrāś ca prahṛṣyanti nāsti śoke sahāyatā 5 tasmāc chakra na śocāmi sarvaṃ hy evedam antavat saṃtāpād bhraśyate rūpaṃ dharmaś caiva sureśvara 6 vinīya khalu tadduḥkham āgatāṃ vaimanasyajam dhyātavyaṃ manasā hṛdyaṃ kalyānaṃ saṃvijānatā 7 yathā yathā hi puruṣaḥ kalyāne kurute manaḥ tadaivāsya prasīdanti sarvārthā nātra saṃśayaḥ 8 ekaḥ śāstā na dvitīyo 'sti śāstā; garbhe śayānaṃ puruṣaṃ śāsti śāstā tenānuśiṣṭaḥ pravanād ivodakaṃ; yathā niyukto 'smi tathā vahāmi 9 bhāvābhāvāv abhijānan garīyo; jānāmi śreyo na tu tat karomi āśāsu dharmyāḥ suhṛdāṃ sukurvan; yathā niyukto 'smi tathā vahāmi 10 yathā yathāsya prāptavyaṃ prāpnoty eva tathā tathā bhavitavyaṃ yathā yac ca bhavaty eva tathā tathā 11 yatra yatraiva saṃyukte dhātā garbhaṃ punaḥ punaḥ tatra tatraiva vasati na yatra svayam icchati 12 bhāvo yo 'yam anuprāpto bhavitavyam idaṃ mama iti yasya sadā bhāvo na sa muhyet kadā cana 13 paryāyair hanyamānānām abhiyoktā na vidyate duḥkham etat tu yad dveṣṭā kartāham iti manyate 14 ṛṣīṃś ca devāṃś ca mahāsurāṃś ca; traividya vṛddhāṃś ca vane munīṃś ca kān nāpado nopanamanti loke; parāvarajñās tu na saṃbhramanti 15 na paṇḍitaḥ krudhyati nāpi sajjate; na cāpi saṃsīdati na hṛṣyati na cārthakṛcchravyasaneṣu śocati; sthitaḥ prakṛtyā himavān ivācalaḥ 16 yam arthasiddhiḥ paramā na harṣayet; tathaiva kāle vyasanaṃ na mohayet sukhaṃ ca duḥkhaṃ ca tathaiva madhyamaṃ; niṣevate yaḥ sa dhuraṃdharo naraḥ 17 yāṃ yām avasthāṃ puruṣo 'dhigacchet; tasyāṃ rametāparitapyamānaḥ evaṃ pravṛddhaṃ pranuden manojaṃ; saṃtāpam āyāsa karaṃ śarīrāt 18 tat sadaḥ sa pariṣat sabhāsadaḥ; prāpya yo na kurute sabhā bhayam dharmatattvam avagahya buddhimān; yo 'bhyupaiti sa pumān dhuraṃdharaḥ 19 prājñasya karmāṇi duranvayāni; na vai prājño muhyati mohakāle sthanāc cyutaś cen na mumoha gautamas; tāvat kṛcchrām āpadaṃ prāpya vṛddhaḥ 20 na mantrabalavīryeṇa prajñayā pauruṣeṇa vā alabhyaṃ labhate martyas tatra kā paridevanā 21 yad evam anujātasya dhātāro vidadhuḥ purā tad evānubhaviṣyāmi kiṃ me mṛtyuḥ kariṣyati 22 labdhavyāny eva labhate gantavyāny eva gacchati prāptavyāny eva prāpnoti duḥkhāni ca sukhāni ca 23 etad viditvā kārtsnyena yo na muhyati mānavaḥ kuśalaḥ sukhaduḥkheṣu sa vai sarvadhaneśvaraḥ |
The Mahabharata in Sanskrit
Book 12
Chapter 220
|
1
[य] मग्नस्य वयसने कृच्छ्रे किं शरेयः पुरुषस्य हि बन्धुनाशे महीपाल राज्यनाने ऽपि वा पुनः 2 तवं हि नः परमॊ वक्ता लॊके ऽसमिन भरतर्षभ एतद भवन्तं पृच्छामि तन मे वक्तुम इहार्हसि 3 [भी] पुत्रदारैः सुखैश चैव वियुक्तस्य धनेन च मग्नस्य वयसने कृच्छ्रे धृतिः शरेयः करी नृप 4 धैर्येण युक्तस्य सतः शरीरं न विशीर्यते आरॊग्याच च शरीरस्य स पुनर विन्दते शरियम 5 यस्य राज्ञॊ नरास तात सात्त्विकीं वृत्तिम आस्थिताः तस्य सथैर्यं च धर्यं च वयवसायश च कर्मसु 6 अत्रैवॊदाहरन्तीमम इतिहासं पुरातनम बलिवासव संवादं पुनर एव युधिष्ठिर 7 वृत्ते देवासुरे युद्धे दैत्यदानव संक्षये विष्णुक्रान्तेषु लॊकेषु देवराजे शतक्रतौ 8 इज्यमानेषु देवेषु चातुर्वर्ण्ये वयवस्थिते समृध्यमाने तरैलॊक्ये परीतियुक्ते सवयम्भुवि 9 रुद्रैर वसुभिर आदित्यैर अश्विभ्याम अपि चर्षिभिः गन्धर्वैर भुजगेन्द्रैश च सिद्धैर्श चान्यैर वृतः परभुः 10 चतुर्दन्तं सुदान्तं च वारणेन्द्रं शरिया वृतम आरुह्यैरावतं शक्रस तरैलॊक्यम अनुसंययौ 11 स कदा चित समुद्रान्ते कस्मिंश चिद गिरिगह्वरे बलिं वैरॊचनिं वज्ञी ददर्शॊपससर्प च 12 तम ऐरावत मूर्धस्थं परेक्ष्य देवगणैर वृतम सुरेन्द्रम इन्द्रं दैत्येन्द्रॊ न शुशॊच न विव्यथे 13 दृष्ट्वा तम अविकारस्थं तिष्ठन्तं निर्भयं बलिम अधिरूढॊ दविपश्रेष्ठम इत्य उवाच शतक्रतुः 14 दैत्य न वयथसे शैर्याद अथ वा वृद्धसेवया तपसा भावितत्वाद वा सर्वथैतत सुदुष्करम 15 शत्रुभिर वशम आनीतॊ हीनः सथानाद अनुत्तमात वैरॊचने किम आश्रित्य शॊचितव्ये न शॊचसि 16 शरैष्ठ्यं पराप्य सवजातीनां भुक्त्वा भॊगान अनुत्तमान हृतस्वबलराज्यस तवं बरूहि तस्मान न शॊचसि 17 ईश्वरॊ हि पुरा भूत्वा पितृपैतमहे पदे तत्त्वम अद्य हृतं दृष्ट्वा सपत्नैः किं न शॊचसि 18 बद्धश च वारुणैः पाशैर वज्रेण च समाहतः हृतदारॊ हृतधनॊ बरूहि कस्मान न शॊचसि 19 भरष्ट शरीर विभव भरष्टॊ यन न शॊचसि दुष्करम तरैलॊक्यराज्यनाशे हि कॊ ऽनयॊ जीवितुम उत्सहेत 20 एतच चान्यच च परुषं बरुवन्तं परिभूय तम शरुत्वा सुखम असंभ्रान्तॊ बलिर वैरॊचनॊ ऽबरवीत 21 निगृहीते मयि भृशं शक्र किं कत्थितेन ते वज्रम उद्यम्य तिष्ठन्तं पश्यामि तवां पुरंदर 22 अशक्तः पूर्वम आसीस तवं कथं चिच छक्ततां गतः कस तवदन्य इमा वाचः सुक्रूरा वक्तुम अर्हति 23 यस तु शत्रॊर वशस्थस्य शक्तॊ ऽपि कुरुते दयाम हस्तप्राप्तस्य वीरस्य तं चैव पुरुषं विदुः 24 अनिश्चयॊ हि युद्धेषु दवयॊर विवदमानयॊः एकः पराप्नॊति विजयम एकश चैव पराभवम 25 मा च ते भूत सवभावॊ ऽयं मया दैवतपुंगव ईश्वरः सर्वभूतानां विक्रमेण जितॊ बलात 26 नैतद अस्मत कृतं शक्र नैतच छक्र तवया कृतम यत तवम एवंगतॊ वज्रिन यद वाप्य एवंगता वयम 27 अहम आसं यथाद्य तवं भविता तवं यथा वयम मावमन्स्था मया कर्म दुष्कृतं कृतम इत्य उत 28 सुखदुःखे हि पुरुषः पर्यायेनाधिगच्छति पर्यायेनासि शक्रत्वं पराप्तः शक्र न कर्मणा 29 कालः काले नयति मां तवां च कालॊ नयत्य अयम तेनाहं तवं यथा नाद्य तवं चापि न यथा वयम 30 न मातृपितृशुश्रूसा न च दैवतपूजनम नान्यॊ गुणसमाचारः पुरुषस्य सुखावहः 31 न विद्या न तपॊ दानं न मित्राणि न बन्धवाः शक्नुवन्ति परित्रातुं नरं कालेन पीडितम 32 नागामिनम अनर्थं हि परतिघात शतैर अपि शक्नुवन्ति परतिव्यॊधुम ऋते बुद्धिबलान नरः 33 पर्यायैर हन्यमानानां परित्राता न विद्यते इदं तु दुःखं यच्च छक्र कर्ताहम इति मन्यते 34 यदि कर्ता भवेत कर्ता न करियेत कदा चन यस्मात तु करियते कर्ता तस्मात कर्ताप्य अनीश्वरः 35 कालेन तवाहम अजयं कालेनाहं जितस तवया गन्ता गतिमतां कालः कालः कलयति परजाः 36 इन्द्र पराकृतया बुद्ध्या परलपन नावबुध्यसे के चित तवां बहु मन्यन्ते शरैष्ठ्यं पराप्तं सवकर्मणा 37 कथम अस्मद्विधॊ नाम जानँल लॊकप्रवृत्तयः कालेनाभ्याहतः शॊचेन मुह्येद वाप्य अर्थसंभ्रमे 38 नित्यं कालपरीतस्य मम वा मद्विधस्य वा बुद्धिर वयसनम आसाद्य भिन्ना नौर इव सीदति 39 अहं च तवं च ये चान्ये भविष्यन्ति सुराधिपाः ते सर्वे शक्र यास्यन्ति मार्गम इन्द्र शतैर गतम 40 तवाम अप्य एवं सुदुर्धर्षं जवलन्तं परया शरिया काले परिनते कालः कालयिष्यति माम इव 41 बहूनीन्द्र सहस्राणि दैतेयानां युगे युगे अभ्यतीतानि कालेन कालॊ हि दुरतिक्रमः 42 इदं तु लब्ध्वा तवं सथानम आत्मानं बहु मन्यसे सर्वभूतभवं देवं बरह्माणम इव शाश्वतम 43 न चेदम अचलं सथानम अनन्तं वापि कस्य चित तवं तु बालिशया बुद्ध्या ममेदम इति मन्यसे 44 अविश्वास्ये विश्वसिषि मन्यसे चाध्रुवं धरुवम ममेयम इति मॊहात तवं राजश्रियम अभीप्ससि 45 नेयं तव न चास्माकं न चान्येषां सथिरा मता अतिक्रम्य बहून अन्यांस तवयि तावद इयं सथिता 46 कं चित कालम इयं सथित्वा तवयि वासव चञ्चला गौर निपानम इवॊत्सृज्य पुनर अन्यं गमिष्यति 47 राजलॊका हय अतिक्रान्ता यान न संख्यातुम उत्सहे तवत्तॊ बहुतराश चान्ये भविष्यन्ति पुरंदर 48 सवृक्षौषधि रत्रेयं ससरित पर्वताकरा तान इदानीं न पश्यामि यैर भुक्तेयं पुरा मही 49 पृथुर ऐलॊ मयॊ भौमॊ नरकः शम्बरस तथा अश्वग्रीवः पुलॊमा च सवर्भानुर अमितध्वजः 50 परह्रादॊ नमुचिर दक्षॊ विप्रचित्तिर विरॊचनः हरीनिषेधः सुहॊत्रश च भूरिहा पुष्पवान वृषः 51 सत्येषुर ऋषभॊ राहुः कपिलाश्वॊ विरूपकः बानः कार्तस्वरॊ वह्निर विश्वदंस्त्रॊ ऽथ नैरृतः 52 रित्थाहुत्थौ वीर ताम्रौ वराहाश्वॊ रुचिः परभुः विश्वजित परतिशौरिश च वृषाण्डॊ विष्करॊ मधुः 53 हिरण्यकशिपुश चैव कैतभश चैव दानवः दैत्याश च कालखञ्जाश च सर्वे ते नैरृतैः सह 54 एते चान्ये च बहवः पूर्वे पूर्वतराश च ये दैत्येन्द्रा दानवेन्द्राश च यांश चान्यान अनुशुश्रुम 55 बहवः पूर्वदैत्येन्द्राः संत्यज्य पृथिवीं गताः कालेनाभ्याहताः सर्वे कालॊ हि बलवत्तरः 56 सर्वैः करतुशतैर इष्टं न तवम एकः शतक्रतुः सर्वे धर्मपराश चासन सर्वे सततसत्त्रिणः 57 अन्तरिक्षचराः सर्वे सर्वे ऽभिमुखयॊधिनः सर्वे संहननॊपेताः सर्वे परिघबाहवः 58 सर्वे माया शतधराः सर्वे ते कामचारिणः सर्वे समरम आसाद्य न शरूयन्ते पराजिताः 59 सर्वे सत्यव्रतपराः सर्वे कामविहारिणः सर्वे वेद वरतपराः सर्वे चासन बहुश्रुताः 60 सर्वे संहतम ऐश्वर्यम ईश्वराः परतिपेदिरे न चैश्वर्यं मदस तेषां भूतपूर्वॊ महात्मनाम 61 सर्वे यथार्थदातारः सर्वे विगतमत्सराः सर्वे सर्वेषु भूतेषु यथावत परतिपेदिरे 62 सर्वे दाक्षायणी पुत्राः पराजापत्या महाबलाः जवलन्तः परतपन्तश च कालेन परतिसंहृताः 63 तवं चैवेमा यदा भुक्त्वा पृथिवीं तयक्ष्यसे पुनः न शक्ष्यसि तदा शक्र नियन्तुं शॊकम आत्मनः 64 मुञ्चेच्छां कामभॊगेषु मुञ्चेमं शरीभवं मदम एवं सवराज्यनाशे तवं शॊकं संप्रसहिष्यसि 65 शॊककाले शुचॊ मा तवं हर्षकाले च मा हृषः अतीतानागते हित्वा परत्युत्पन्नेन वर्तय 66 मां चेद अभ्यागतः कालः सदा युक्तम अतन्द्रितम कषमस्व नचिराद इन्द्र तवाम अप्य उपगमिष्यति 67 तरासयन्न इव देवेन्द्र वाग्भिर तक्षसि माम इह संयते मयि नूनं तवम आत्मानं बहु मन्यसे 68 कालः परथमम आयान मां पश्चात तवम अनुधावति तेन गर्जसि देवेन्द्र पूर्वं कालहते मयि 69 कॊ हि सथातुम अलं लॊके करुद्धस्य मम संयुगे कालस तु बलवान पराप्तस तेन तिष्ठसि वासव 70 यत तद वर्षसहस्रान्तं पूर्णं भवितुम अर्हति यथा मे सर्वगात्राणि न सवस्थानि हतौजसः 71 अहम ऐन्द्रच चयुतः सथानात तवम इन्द्रः परकृतॊ दिवि सुचित्रे जीवलॊके ऽसमिन्न उपास्यः कालपर्ययात 72 किं हि कृत्वा तवम इन्द्राद्य किं हि कृत्वा चयुता वयम कालः कर्ता विकर्ता च सर्वम अन्यद अकारणम 73 नाशं विनाशम ऐश्वर्यं सुखदुःखे भवाभवौ विप्रान पराप्यैवम अत्यर्थं न परहृष्येन न च वयथेत 74 तवम एव हीन्द्र वेत्थास्मान वेदाहं तवां च वासव विकत्थसे मां किं बद्धं कालेन निरपत्रप 75 तवम एव हि पुरा वेत्थ यत तदा पौरुषं मम समरेषु च विक्रान्तं पर्याप्तं तन्निदर्शनम 76 आदित्याश चैव रुद्राश च साध्याश च वसुभिः सह मया विनिर्जिताः सर्वे मरुतश च शचीपते 77 तवम एव शक्र जानासि देवासुरसमागमे समेता विबुधा भग्नास तरसा समरे मया 78 पर्वताश चासकृत कषिप्ताः सवनाः सवनौकसः सतङ्क शिखरा घॊराः समरे मूर्ध्नि ते मया 79 किं नु शक्यं मया कर्तुं यत कालॊ दुरतिक्रमः न हि तवां नॊत्सहे हन्तुं सवज्रम अपि मुष्टिना 80 न तु विक्रमकालॊ ऽयं कषमा कालॊ ऽयम आगतः तेन तवा मर्षये शक्र दुर्मर्षणतरस तवया 81 तवं मा परिनते काले परीतं कालवह्निना नियतं कालपाशेन बद्धं शक्र विकत्थसे 82 अयं स पुरुषः शयामॊ लॊकस्य दुरतिक्रमः बद्ध्वा तिष्ठति मां रौद्रः पशुं रशनया यथा 83 लाभालाभौ सुखं दुःखं कामक्रॊधौ भवाभवौ वधॊ बन्धः परमॊक्षश च सर्वं कालेन लभ्यते 84 नाहं कर्ता न कर्ता तवं कर्ता यस तु सदा परभुः सॊ ऽयं पचति कालॊ मां वृक्षे फलम इवागतम 85 यान्य एव पुरुषः कुर्वन सुखैः कालेन युज्यते पुनस तान्य एव कुर्वाणॊ दुःखैः कालेन युज्यते 86 न च कालेन कालज्ञः सपृष्टः शॊचितुम अर्हति तेन शक्र न शॊचामि नास्ति शॊके सहायता 87 यदा हि शॊचतां शॊकॊ वयसनं नापकर्षति सामर्थ्यं शॊचतॊ नास्ति नाद्य शॊचाम्य अहं ततः 88 एवम उक्तः सहस्राक्षॊ भगवान पाकशासनः परतिसंहृत्य संरम्भम इत्य उवाच शतक्रतुः 89 सवज्रम उद्यतं बाहुं दृष्ट्वा पाशांश च वारुणान कस्येह न वयथेद बुद्धिर मृत्यॊर अपि जिघांसतः 90 सा ते न वयथते बुद्धिर अचला तत्त्वदर्शिनी बरुवन न वयथसे स तवं वाक्यं सत्यपराक्रम 91 हॊ हि विश्वासम अर्थेषु शरीरे वा शरीरभृत कर्तुम उत्सहते लॊके दृष्ट्वा संप्रस्थितं जगत 92 अहम अप्य एवम एवैनं लॊकं जानामि शाश्वतम कालाग्नाव आहितं घॊरे गुह्ये सततगे ऽकषरे 93 न चात्र परिहारॊ ऽसति कालस्पृष्टस्य कस्य चित सूक्ष्माणां महतां चैव भूतानां परिपच्यताम 94 अनीशस्याप्रमत्तस्य भूतानि पचतः सदा अनिवृत्तस्य कालस्य कषयं पराप्तॊ न मुच्यते 95 अप्रमत्तः परमत्तेषु कालॊ जागर्ति देहिषु परयत्नेनाप्य अतिक्रान्तॊ दृष्टपूर्वॊ न केन चित 96 पुराणः शाश्वतॊ धर्मः सर्वप्राणभृतां समः कालॊ न परिहार्यश च न चास्यास्ति वयतिक्रमः 97 अहॊरात्रांश च मासांश च कषणान काष्ठाः कला लवान संपिन्दयति नः कालॊ बुद्धिं वार्धुषिकॊ यथा 98 इदम अद्य करिष्यामि शवः कर्तास्मीति वादिनम कालॊ हरति संप्राप्तॊ नदीवेग इवॊदुपम 99 इदानीं तावद एवासौ मया दृष्टः कथं मृतः इति कालेन हरियतां परलापः शरूयते नृणाम 100 नश्यन्त्य अर्थास तथा भॊगाः सथानम ऐश्वर्यम एव च अनित्यम अध्रुवं सर्वं वयवसायॊ हि दुष्करः उच्छ्राया विनिपातान्ता भावाभावस्थ एव च 101 सा ते न वयथते बुद्धिर अचला तत्त्वदर्शिनी अहम आसं पुरा चेति मनसापि न बुध्यसे 102 कालेनाक्रम्य लॊके ऽसमिन पच्यमाने बलीयसा अज्येष्ठम अकनिष्ठं च कषिप्यमाणॊ न बुध्यसे 103 ईर्ष्याभिमान लॊभेषु कामक्रॊधभयेषु च सपृहा मॊहाभिमानेषु लॊकः सक्तॊ विमुह्यति 104 भवांस तु भावतत्त्वज्ञॊ विद्वाञ जञानतपॊ ऽनवितः कालं पश्यति सुव्यक्तं पानाव आमलकं यथा 105 कालचारित्रतत्त्वज्ञः सर्वशास्त्रविशारदः वैरॊचने कृतात्मासि सपृहणीयॊ विजानताम 106 सर्वलॊकॊ हय अयं मन्ये बुद्ध्या परिगतस तवया विहरन सर्वतॊ मुक्तॊ न कव चित परिषज्जसे 107 रजश च हि तमश च तवा सपृशतॊ न जितेन्द्रियम निष्प्रीतिं नष्ट संतापं तवम आत्मानम उपाससे 108 सुहृदं सर्वभूतानां निर्वैरं शान्तमानसम दृष्ट्वा तवां मम संजाता तवय्य अनुक्रॊशनी मतिः 109 नाहम एतादृशं बुद्धिं हन्तुम इच्छामि बन्धने आनृशंस्यं परॊ धर्मॊ अनुक्रॊशस तथा तवयि 110 मॊक्ष्यन्ते वारुणाः पाशास तवेमे कालपर्ययात परजानाम अपचारेण सवस्ति ते ऽसतु महासुर 111 यदा शवश्रूं सनुषा वृद्धां परिचारेण यॊक्ष्यते पुत्रश च पितरं मॊहात परेषयिष्यति कर्मसु 112 बराह्मणैः कारयिष्यन्ति वृषलाः पादधावनम शूद्राश च बराह्मणीं भर्याम उपयास्यन्ति निर्भयाः 113 वियॊनिषु च बीजानि मॊक्ष्यन्ते पुरुषा यदा संकरं कांस्यभान्दैश च बलिं चापि कुपात्रकैः 114 चातुर्वर्ण्यं यदा कृत्स्नम उन्मर्यादं भविष्यति एकैकस ते तदा पाशः करमशः परतिमॊक्ष्यते 115 अस्मत्तस ते भयं नास्ति समयं परतिपालय सुखी भव निराबाधः सवस्थचेता निरामयः 116 तम एवम उक्त्वा भगवाञ शतक्रतुः; परतिप्रयातॊ गजराजवाहनः विजित्य सर्वान असुरान सुराधिपॊ; ननन्द हर्षेण बभूव चैकराट 117 महर्षयस तुष्टुवुर अञ्जसा च तं; वृषाकपिं सर्वचराचरेश्वरम हिमापहॊ हव्यम उदावहंस तवरंस; तथामृतं चार्पितम ईश्वराय ह 118 दविजॊत्तमैः सर्वगतैर अभिष्टुतॊ; विदीप्त तेजा गतमन्युर ईश्वरः परशान्तचेता मुदितः सवम आलयं; तरिविष्टपं पराप्य मुमॊद वासवः |
1
[y] magnasya vyasane kṛcchre kiṃ śreyaḥ puruṣasya hi bandhunāśe mahīpāla rājyanāne 'pi vā punaḥ 2 tvaṃ hi naḥ paramo vaktā loke 'smin bharatarṣabha etad bhavantaṃ pṛcchāmi tan me vaktum ihārhasi 3 [bhī] putradāraiḥ sukhaiś caiva viyuktasya dhanena ca magnasya vyasane kṛcchre dhṛtiḥ śreyaḥ karī nṛpa 4 dhairyeṇa yuktasya sataḥ śarīraṃ na viśīryate ārogyāc ca śarīrasya sa punar vindate śriyam 5 yasya rājño narās tāta sāttvikīṃ vṛttim āsthitāḥ tasya sthairyaṃ ca dharyaṃ ca vyavasāyaś ca karmasu 6 atraivodāharantīmam itihāsaṃ purātanam balivāsava saṃvādaṃ punar eva yudhiṣṭhira 7 vṛtte devāsure yuddhe daityadānava saṃkṣaye viṣṇukrānteṣu lokeṣu devarāje śatakratau 8 ijyamāneṣu deveṣu cāturvarṇye vyavasthite samṛdhyamāne trailokye prītiyukte svayambhuvi 9 rudrair vasubhir ādityair aśvibhyām api carṣibhiḥ gandharvair bhujagendraiś ca siddhairś cānyair vṛtaḥ prabhuḥ 10 caturdantaṃ sudāntaṃ ca vāraṇendraṃ śriyā vṛtam āruhyairāvataṃ śakras trailokyam anusaṃyayau 11 sa kadā cit samudrānte kasmiṃś cid girigahvare baliṃ vairocaniṃ vajñī dadarśopasasarpa ca 12 tam airāvata mūrdhasthaṃ prekṣya devagaṇair vṛtam surendram indraṃ daityendro na śuśoca na vivyathe 13 dṛṣṭvā tam avikārasthaṃ tiṣṭhantaṃ nirbhayaṃ balim adhirūḍho dvipaśreṣṭham ity uvāca śatakratuḥ 14 daitya na vyathase śairyād atha vā vṛddhasevayā tapasā bhāvitatvād vā sarvathaitat suduṣkaram 15 śatrubhir vaśam ānīto hīnaḥ sthānād anuttamāt vairocane kim āśritya śocitavye na śocasi 16 śraiṣṭhyaṃ prāpya svajātīnāṃ bhuktvā bhogān anuttamān hṛtasvabalarājyas tvaṃ brūhi tasmān na śocasi 17 īśvaro hi purā bhūtvā pitṛpaitamahe pade tattvam adya hṛtaṃ dṛṣṭvā sapatnaiḥ kiṃ na śocasi 18 baddhaś ca vāruṇaiḥ pāśair vajreṇa ca samāhataḥ hṛtadāro hṛtadhano brūhi kasmān na śocasi 19 bhraṣṭa śrīr vibhava bhraṣṭo yan na śocasi duṣkaram trailokyarājyanāśe hi ko 'nyo jīvitum utsahet 20 etac cānyac ca paruṣaṃ bruvantaṃ paribhūya tam śrutvā sukham asaṃbhrānto balir vairocano 'bravīt 21 nigṛhīte mayi bhṛśaṃ śakra kiṃ katthitena te vajram udyamya tiṣṭhantaṃ paśyāmi tvāṃ puraṃdara 22 aśaktaḥ pūrvam āsīs tvaṃ kathaṃ cic chaktatāṃ gataḥ kas tvadanya imā vācaḥ sukrūrā vaktum arhati 23 yas tu śatror vaśasthasya śakto 'pi kurute dayām hastaprāptasya vīrasya taṃ caiva puruṣaṃ viduḥ 24 aniścayo hi yuddheṣu dvayor vivadamānayoḥ ekaḥ prāpnoti vijayam ekaś caiva parābhavam 25 mā ca te bhūt svabhāvo 'yaṃ mayā daivatapuṃgava īśvaraḥ sarvabhūtānāṃ vikrameṇa jito balāt 26 naitad asmat kṛtaṃ śakra naitac chakra tvayā kṛtam yat tvam evaṃgato vajrin yad vāpy evaṃgatā vayam 27 aham āsaṃ yathādya tvaṃ bhavitā tvaṃ yathā vayam māvamansthā mayā karma duṣkṛtaṃ kṛtam ity uta 28 sukhaduḥkhe hi puruṣaḥ paryāyenādhigacchati paryāyenāsi śakratvaṃ prāptaḥ śakra na karmaṇā 29 kālaḥ kāle nayati māṃ tvāṃ ca kālo nayaty ayam tenāhaṃ tvaṃ yathā nādya tvaṃ cāpi na yathā vayam 30 na mātṛpitṛśuśrūsā na ca daivatapūjanam nānyo guṇasamācāraḥ puruṣasya sukhāvahaḥ 31 na vidyā na tapo dānaṃ na mitrāṇi na bandhavāḥ śaknuvanti paritrātuṃ naraṃ kālena pīḍitam 32 nāgāminam anarthaṃ hi pratighāta śatair api śaknuvanti prativyodhum ṛte buddhibalān naraḥ 33 paryāyair hanyamānānāṃ paritrātā na vidyate idaṃ tu duḥkhaṃ yacc chakra kartāham iti manyate 34 yadi kartā bhavet kartā na kriyeta kadā cana yasmāt tu kriyate kartā tasmāt kartāpy anīśvaraḥ 35 kālena tvāham ajayaṃ kālenāhaṃ jitas tvayā gantā gatimatāṃ kālaḥ kālaḥ kalayati prajāḥ 36 indra prākṛtayā buddhyā pralapan nāvabudhyase ke cit tvāṃ bahu manyante śraiṣṭhyaṃ prāptaṃ svakarmaṇā 37 katham asmadvidho nāma jānaṁl lokapravṛttayaḥ kālenābhyāhataḥ śocen muhyed vāpy arthasaṃbhrame 38 nityaṃ kālaparītasya mama vā madvidhasya vā buddhir vyasanam āsādya bhinnā naur iva sīdati 39 ahaṃ ca tvaṃ ca ye cānye bhaviṣyanti surādhipāḥ te sarve śakra yāsyanti mārgam indra śatair gatam 40 tvām apy evaṃ sudurdharṣaṃ jvalantaṃ parayā śriyā kāle parinate kālaḥ kālayiṣyati mām iva 41 bahūnīndra sahasrāṇi daiteyānāṃ yuge yuge abhyatītāni kālena kālo hi duratikramaḥ 42 idaṃ tu labdhvā tvaṃ sthānam ātmānaṃ bahu manyase sarvabhūtabhavaṃ devaṃ brahmāṇam iva śāśvatam 43 na cedam acalaṃ sthānam anantaṃ vāpi kasya cit tvaṃ tu bāliśayā buddhyā mamedam iti manyase 44 aviśvāsye viśvasiṣi manyase cādhruvaṃ dhruvam mameyam iti mohāt tvaṃ rājaśriyam abhīpsasi 45 neyaṃ tava na cāsmākaṃ na cānyeṣāṃ sthirā matā atikramya bahūn anyāṃs tvayi tāvad iyaṃ sthitā 46 kaṃ cit kālam iyaṃ sthitvā tvayi vāsava cañcalā gaur nipānam ivotsṛjya punar anyaṃ gamiṣyati 47 rājalokā hy atikrāntā yān na saṃkhyātum utsahe tvatto bahutarāś cānye bhaviṣyanti puraṃdara 48 savṛkṣauṣadhi ratreyaṃ sasarit parvatākarā tān idānīṃ na paśyāmi yair bhukteyaṃ purā mahī 49 pṛthur ailo mayo bhaumo narakaḥ śambaras tathā aśvagrīvaḥ pulomā ca svarbhānur amitadhvajaḥ 50 prahrādo namucir dakṣo vipracittir virocanaḥ hrīniṣedhaḥ suhotraś ca bhūrihā puṣpavān vṛṣaḥ 51 satyeṣur ṛṣabho rāhuḥ kapilāśvo virūpakaḥ bānaḥ kārtasvaro vahnir viśvadaṃstro 'tha nairṛtaḥ 52 ritthāhutthau vīra tāmrau varāhāśvo ruciḥ prabhuḥ viśvajit pratiśauriś ca vṛṣāṇḍo viṣkaro madhuḥ 53 hiraṇyakaśipuś caiva kaitabhaś caiva dānavaḥ daityāś ca kālakhañjāś ca sarve te nairṛtaiḥ saha 54 ete cānye ca bahavaḥ pūrve pūrvatarāś ca ye daityendrā dānavendrāś ca yāṃś cānyān anuśuśruma 55 bahavaḥ pūrvadaityendrāḥ saṃtyajya pṛthivīṃ gatāḥ kālenābhyāhatāḥ sarve kālo hi balavattaraḥ 56 sarvaiḥ kratuśatair iṣṭaṃ na tvam ekaḥ śatakratuḥ sarve dharmaparāś cāsan sarve satatasattriṇaḥ 57 antarikṣacarāḥ sarve sarve 'bhimukhayodhinaḥ sarve saṃhananopetāḥ sarve parighabāhavaḥ 58 sarve māyā śatadharāḥ sarve te kāmacāriṇaḥ sarve samaram āsādya na śrūyante parājitāḥ 59 sarve satyavrataparāḥ sarve kāmavihāriṇaḥ sarve veda vrataparāḥ sarve cāsan bahuśrutāḥ 60 sarve saṃhatam aiśvaryam īśvarāḥ pratipedire na caiśvaryaṃ madas teṣāṃ bhūtapūrvo mahātmanām 61 sarve yathārthadātāraḥ sarve vigatamatsarāḥ sarve sarveṣu bhūteṣu yathāvat pratipedire 62 sarve dākṣāyaṇī putrāḥ prājāpatyā mahābalāḥ jvalantaḥ pratapantaś ca kālena pratisaṃhṛtāḥ 63 tvaṃ caivemā yadā bhuktvā pṛthivīṃ tyakṣyase punaḥ na śakṣyasi tadā śakra niyantuṃ śokam ātmanaḥ 64 muñcecchāṃ kāmabhogeṣu muñcemaṃ śrībhavaṃ madam evaṃ svarājyanāśe tvaṃ śokaṃ saṃprasahiṣyasi 65 śokakāle śuco mā tvaṃ harṣakāle ca mā hṛṣaḥ atītānāgate hitvā pratyutpannena vartaya 66 māṃ ced abhyāgataḥ kālaḥ sadā yuktam atandritam kṣamasva nacirād indra tvām apy upagamiṣyati 67 trāsayann iva devendra vāgbhir takṣasi mām iha saṃyate mayi nūnaṃ tvam ātmānaṃ bahu manyase 68 kālaḥ prathamam āyān māṃ paścāt tvam anudhāvati tena garjasi devendra pūrvaṃ kālahate mayi 69 ko hi sthātum alaṃ loke kruddhasya mama saṃyuge kālas tu balavān prāptas tena tiṣṭhasi vāsava 70 yat tad varṣasahasrāntaṃ pūrṇaṃ bhavitum arhati yathā me sarvagātrāṇi na svasthāni hataujasaḥ 71 aham aindrac cyutaḥ sthānāt tvam indraḥ prakṛto divi sucitre jīvaloke 'sminn upāsyaḥ kālaparyayāt 72 kiṃ hi kṛtvā tvam indrādya kiṃ hi kṛtvā cyutā vayam kālaḥ kartā vikartā ca sarvam anyad akāraṇam 73 nāśaṃ vināśam aiśvaryaṃ sukhaduḥkhe bhavābhavau viprān prāpyaivam atyarthaṃ na prahṛṣyen na ca vyathet 74 tvam eva hīndra vetthāsmān vedāhaṃ tvāṃ ca vāsava vikatthase māṃ kiṃ baddhaṃ kālena nirapatrapa 75 tvam eva hi purā vettha yat tadā pauruṣaṃ mama samareṣu ca vikrāntaṃ paryāptaṃ tannidarśanam 76 ādityāś caiva rudrāś ca sādhyāś ca vasubhiḥ saha mayā vinirjitāḥ sarve marutaś ca śacīpate 77 tvam eva śakra jānāsi devāsurasamāgame sametā vibudhā bhagnās tarasā samare mayā 78 parvatāś cāsakṛt kṣiptāḥ savanāḥ savanaukasaḥ sataṅka śikharā ghorāḥ samare mūrdhni te mayā 79 kiṃ nu śakyaṃ mayā kartuṃ yat kālo duratikramaḥ na hi tvāṃ notsahe hantuṃ savajram api muṣṭinā 80 na tu vikramakālo 'yaṃ kṣamā kālo 'yam āgataḥ tena tvā marṣaye śakra durmarṣaṇataras tvayā 81 tvaṃ mā parinate kāle parītaṃ kālavahninā niyataṃ kālapāśena baddhaṃ śakra vikatthase 82 ayaṃ sa puruṣaḥ śyāmo lokasya duratikramaḥ baddhvā tiṣṭhati māṃ raudraḥ paśuṃ raśanayā yathā 83 lābhālābhau sukhaṃ duḥkhaṃ kāmakrodhau bhavābhavau vadho bandhaḥ pramokṣaś ca sarvaṃ kālena labhyate 84 nāhaṃ kartā na kartā tvaṃ kartā yas tu sadā prabhuḥ so 'yaṃ pacati kālo māṃ vṛkṣe phalam ivāgatam 85 yāny eva puruṣaḥ kurvan sukhaiḥ kālena yujyate punas tāny eva kurvāṇo duḥkhaiḥ kālena yujyate 86 na ca kālena kālajñaḥ spṛṣṭaḥ śocitum arhati tena śakra na śocāmi nāsti śoke sahāyatā 87 yadā hi śocatāṃ śoko vyasanaṃ nāpakarṣati sāmarthyaṃ śocato nāsti nādya śocāmy ahaṃ tataḥ 88 evam uktaḥ sahasrākṣo bhagavān pākaśāsanaḥ pratisaṃhṛtya saṃrambham ity uvāca śatakratuḥ 89 savajram udyataṃ bāhuṃ dṛṣṭvā pāśāṃś ca vāruṇān kasyeha na vyathed buddhir mṛtyor api jighāṃsataḥ 90 sā te na vyathate buddhir acalā tattvadarśinī bruvan na vyathase sa tvaṃ vākyaṃ satyaparākrama 91 ho hi viśvāsam artheṣu śarīre vā śarīrabhṛt kartum utsahate loke dṛṣṭvā saṃprasthitaṃ jagat 92 aham apy evam evainaṃ lokaṃ jānāmi śāśvatam kālāgnāv āhitaṃ ghore guhye satatage 'kṣare 93 na cātra parihāro 'sti kālaspṛṣṭasya kasya cit sūkṣmāṇāṃ mahatāṃ caiva bhūtānāṃ paripacyatām 94 anīśasyāpramattasya bhūtāni pacataḥ sadā anivṛttasya kālasya kṣayaṃ prāpto na mucyate 95 apramattaḥ pramatteṣu kālo jāgarti dehiṣu prayatnenāpy atikrānto dṛṣṭapūrvo na kena cit 96 purāṇaḥ śāśvato dharmaḥ sarvaprāṇabhṛtāṃ samaḥ kālo na parihāryaś ca na cāsyāsti vyatikramaḥ 97 ahorātrāṃś ca māsāṃś ca kṣaṇān kāṣṭhāḥ kalā lavān saṃpindayati naḥ kālo buddhiṃ vārdhuṣiko yathā 98 idam adya kariṣyāmi śvaḥ kartāsmīti vādinam kālo harati saṃprāpto nadīvega ivodupam 99 idānīṃ tāvad evāsau mayā dṛṣṭaḥ kathaṃ mṛtaḥ iti kālena hriyatāṃ pralāpaḥ śrūyate nṛṇām 100 naśyanty arthās tathā bhogāḥ sthānam aiśvaryam eva ca anityam adhruvaṃ sarvaṃ vyavasāyo hi duṣkaraḥ ucchrāyā vinipātāntā bhāvābhāvastha eva ca 101 sā te na vyathate buddhir acalā tattvadarśinī aham āsaṃ purā ceti manasāpi na budhyase 102 kālenākramya loke 'smin pacyamāne balīyasā ajyeṣṭham akaniṣṭhaṃ ca kṣipyamāṇo na budhyase 103 īrṣyābhimāna lobheṣu kāmakrodhabhayeṣu ca spṛhā mohābhimāneṣu lokaḥ sakto vimuhyati 104 bhavāṃs tu bhāvatattvajño vidvāñ jñānatapo 'nvitaḥ kālaṃ paśyati suvyaktaṃ pānāv āmalakaṃ yathā 105 kālacāritratattvajñaḥ sarvaśāstraviśāradaḥ vairocane kṛtātmāsi spṛhaṇīyo vijānatām 106 sarvaloko hy ayaṃ manye buddhyā parigatas tvayā viharan sarvato mukto na kva cit pariṣajjase 107 rajaś ca hi tamaś ca tvā spṛśato na jitendriyam niṣprītiṃ naṣṭa saṃtāpaṃ tvam ātmānam upāsase 108 suhṛdaṃ sarvabhūtānāṃ nirvairaṃ śāntamānasam dṛṣṭvā tvāṃ mama saṃjātā tvayy anukrośanī matiḥ 109 nāham etādṛśaṃ buddhiṃ hantum icchāmi bandhane ānṛśaṃsyaṃ paro dharmo anukrośas tathā tvayi 110 mokṣyante vāruṇāḥ pāśās taveme kālaparyayāt prajānām apacāreṇa svasti te 'stu mahāsura 111 yadā śvaśrūṃ snuṣā vṛddhāṃ paricāreṇa yokṣyate putraś ca pitaraṃ mohāt preṣayiṣyati karmasu 112 brāhmaṇaiḥ kārayiṣyanti vṛṣalāḥ pādadhāvanam śūdrāś ca brāhmaṇīṃ bharyām upayāsyanti nirbhayāḥ 113 viyoniṣu ca bījāni mokṣyante puruṣā yadā saṃkaraṃ kāṃsyabhāndaiś ca baliṃ cāpi kupātrakaiḥ 114 cāturvarṇyaṃ yadā kṛtsnam unmaryādaṃ bhaviṣyati ekaikas te tadā pāśaḥ kramaśaḥ pratimokṣyate 115 asmattas te bhayaṃ nāsti samayaṃ pratipālaya sukhī bhava nirābādhaḥ svasthacetā nirāmayaḥ 116 tam evam uktvā bhagavāñ śatakratuḥ; pratiprayāto gajarājavāhanaḥ vijitya sarvān asurān surādhipo; nananda harṣeṇa babhūva caikarāṭ 117 maharṣayas tuṣṭuvur añjasā ca taṃ; vṛṣākapiṃ sarvacarācareśvaram himāpaho havyam udāvahaṃs tvaraṃs; tathāmṛtaṃ cārpitam īśvarāya ha 118 dvijottamaiḥ sarvagatair abhiṣṭuto; vidīpta tejā gatamanyur īśvaraḥ praśāntacetā muditaḥ svam ālayaṃ; triviṣṭapaṃ prāpya mumoda vāsavaḥ |
The Mahabharata in Sanskrit
Book 12
Chapter 221
|
1
[य] पूर्वरूपाणि मे राजन पुरुषस्य भविष्यतः पराभविष्यतश चैव तवं मे बरूहि पितामह 2 [भी] मन एव मनुष्यस्य पूर्वरूपाणि शंसति भविष्यतश च भद्रं ते तथैव न भविष्यतः 3 अत्राप्य उदाहरन्तीमम इतिहासं पुरातनम शरिया शक्रस्य संवादं तन निबॊध युधिष्ठिर 4 महतस तपसॊ वयुष्ट्या पश्यँल लॊकौ परावरौ सामान्यम ऋषिभिर गत्वा बरह्मलॊकनिवासिभिः 5 बरह्मैवामित दीप्तौजाः शान्तपाप्मा महातपाः विचचार यथाकामं तरिषु लॊकेषु नारदः 6 कदा चित परातर उत्थाय पिस्पृक्षुः सलिलं शुचि धरुवद्वार भवां गङ्गां जगामावततार च 7 सहस्रनयनश चापि वज्री शम्बर पाकहा तस्या देवर्षिजुष्टायास तीरम अभ्याजगाम ह 8 ताव आप्लुत्य यतात्मानौ कृतजप्यौ समासतुः नद्याः पुलिनम आसाद्य सूक्ष्मकाञ्चनवालिकम 9 पुण्यकर्मभिर आख्याता देवर्षिकथिताः कथाः चक्रतुस तौ कथाशीलौ शुचि संहृष्टमानसौ पूर्ववृत्तव्यपेतानि कथयन्तौ समाहितौ 10 अथ भास्करम उद्यन्तं रश्मिजालपुरस्कृतम पूर्णमन्दलम आलॊक्य ताव उत्थायॊपतस्थतुः 11 अभितस तूदयन्तं तम अर्कम अर्कम इवापरम आकाशे ददृशे जयॊतिर उद्यतार्चिः समप्रभम 12 तयॊः समीपं संप्राप्तं परत्यदृश्यत भारत तत सुपर्णार्क चरितम आस्थितं वैष्नवं पदम भाभिर अप्रतिमं भाति तरैलॊक्यम अवभासयत 13 दिव्याभिरूप शॊभाभिर अप्सरॊभिः पुरस्कृताम बृहतीम अंशुमत परख्यां बृहद भानॊर इवार्चिषम 14 नक्षत्रकल्पाभरणां तारा भक्तिसमस्रजम शरियं ददृशतुः पद्मां साक्षात पद्मतलस्थिताम 15 सावरुह्य विमानाग्राद अङ्गनानाम अनुत्तमा अभ्यगच्छत तरिलॊकेशं शक्रं चर्षिं च नारदम 16 नारदानुगतः साक्षान मघवांस ताम उपागमत कृताञ्जलिपुतॊ देवीं निवेद्यात्मानम आत्मना 17 चक्रे चानुपमां पूजां तस्याश चापि स सर्ववित देवराजः शरियं राजन वाक्यं चेदम उवाच ह 18 का तवं केन च कार्येण संप्राप्ता चारुहासिनि कुतश चागम्यते सुभ्रु गन्तव्यं कव च ते शुभे 19 [षरी] पुण्येषु तरिषु लॊकेषु सर्वे सथावरजङ्गमः ममात्मभावम इच्छन्तॊ यतन्ते परमात्मना 20 साहं वै पङ्कजे जाता सूर्यरश्मि विबॊधिते भूत्यर्थं सर्वभूतानां पद्मा शरीः पद्ममालिनी 21 अहं लक्ष्मीर अहं भूतिः शरीश चाहं बलसूदन अहं शरद्धा च मेधा च सन्नतिर विजितिः सथितिः 22 अहं धृतिर अहं सिद्धिर अहं तविड भूतिर एव च अहं सवाहा सवधा चैव संस्तुतिर नियतिः कृतिः 23 राज्ञां विजयमानानां सेनाग्रेषु धवजेषु च निवासे धर्मशीलानां विषयेषु पुरेषु च 24 जितकाशिनि शूरे च संग्रामेष्व अनिवर्तिनि निवसामि मनुष्येन्द्रे सदैव बलसूदलन 25 धर्मनित्ये महाबुद्धौ बरह्मण्ये सत्यवादिनि परश्रिते दानशीले च सदैव निवसाम्य अहम 26 असुरेष्व अवसंस पूर्वं सत्यधर्मनिबन्धना विपारीतांस तु तान बुद्ध्वा तवयि वासम अरॊचयम 27 [षक्र] कथं वृत्तेषु दैत्येषु तवम अवात्सीर वरानने दृष्ट्वा च किम इहागास तवं हित्वा दैतेय दानवान 28 [षरी] सवधर्मम अनुतिष्ठत्सु धैर्याद अचलितेषु च सवर्गमार्गाभिरामेषु सत्त्वेषु निरता हय अहम 29 दानाध्ययनयज्ञेज्या गुरु दैवतपूजनम विप्राणाम अतिथीनां च तेषां नित्यम अवर्तत 30 सुसंमृष्ट गृहाश चासञ जितस्त्रीका हुताग्नयः गुरु शुश्रूसवॊ दान्ता बरह्मण्याः सत्यवादिनः 31 शरद्दधाना जितक्रॊधा दानशीलानसूयकाः भृतपुत्रा भृतामात्या भृतदारा हय अनीर्षवः 32 अमर्षणा न चान्यॊन्यं सपृहयन्ति कदा चन न च जातूपतप्यन्ते धीराः परसमृद्धिभिः 33 दातारः संगृहीतार आर्याः करुणवेदिनः महाप्रसादा ऋजवॊ दृध भक्ता जितेन्द्रियाः 34 संतुष्टभृत्यसचिवाः कृतज्ञाः परियवादिनः यथार्थमानार्थ करा हरीनिषेधा यतव्रताः 35 नित्यं पर्वसु सुस्नाताः सवनुलिप्ताः सवलंकृताः उपवासतपः शीलाः परतीता बरह्मवादिनः 36 नैनान अभ्युदियात सूर्यॊ न चाप्य आसन परगेनिशाः रात्रौ दधि च सक्तूंश च नित्यम एव वयवर्जयन 37 काल्यं घृतं चान्ववेक्षन परयता बरह्मचारिणः मङ्गलान अपि चापश्यन बराह्मणांश चाप्य अपूजयन 38 सदा हि ददतां धर्मः सदा चाप्रतिगृह्णताम अर्धं च रात्र्याः सवपतां दिवा चास्वपतां तथा 39 कृपणानाथ वृद्धानां दुर्बलातुर यॊषिताम दायं च संविभागं च नित्यम एवानुमॊदताम 40 विषण्णं तरस्तम उद्विग्नं भयार्तं वयाधिपीडितम हृतस्वं वयसनार्तं च नित्यम आश्वासयन्ति ते 41 धर्मम एवान्ववर्तन्त न हिंसन्ति परस्परम अनुकूलांश च कार्येषु गुरु वृद्धॊपसेविनः 42 पितृदेवातिथींश चैव यथावत ते ऽभयपूजयन अवशेषाणि चाश्नन्ति नित्यं सत्यतपॊ रताः 43 नैके ऽशनन्ति सुसंपन्नं न गच्छन्ति परस्त्रियम सर्वभूतेष्व अवर्तन्त यथात्मनि दयां परति 44 नैवाकाशे न पशुषु नायॊनौ न च पर्वसु इन्द्रियस्य विसर्गं ते ऽरॊचयन्त कदा चन 45 नित्यं दानं तथा दाक्ष्यम आर्जवं चैव नित्यदा उत्साहश चानहंकारः परमं सौहृदं कषमा 46 सत्यं दानं तपः शौचं कारुण्यं वाग अनिष्ठुरा मित्रेषु चानभिद्रॊहः सर्वं तेष्व अभवत परभॊ 47 निद्रा तन्द्री रसं परीतिर असूया चानवेक्षिता अरतिश च विषादश च न सपृहा चाविशन्त ता 48 साहम एवंगुणेष्व एव दानवेष्व अवसं पुरा परजा सर्गम उपादाय नैकं युगविपर्यमम 49 ततः कालविपर्यासे तेषां गुणविपर्ययात अपश्यं विगतं धर्मं कामक्रॊधवशात्मनाम 50 सभा सदां ते वृद्धानां सत्याः कथयतां कथाः पराहसन्न अभ्यसूयंश च सर्ववृद्धान गुणावराः 51 यूनः सह समासीनान वृद्धान अभिगतान सतः नाभ्युत्थानाभिवादाभ्यां यथापूर्वम अपूजयन 52 वर्तयन्त्य एव पितरि पुत्राः परभवतात्मनः अमित्रभृत्यतां पराप्य खयापयन्तॊ ऽनपत्रपाः 53 तथा धर्माद अपेतेन कर्मणा गर्हितेन ये महतः पराप्नुवन्त्य अर्थांस तेष्व एषाम अभवत सपृहा 54 उच्छैश चाप्य अवदन रात्रौ नीचैस तत्राग्निर अज्वलत पुत्राः पितॄन अभ्यवदन भार्याश चाभ्यवदन पतीन 55 मातरं पितरं वृद्धम आचार्यम अतिथिं गुरुम गुरुवन नाभ्यनन्दन्त कुमारान नान्वपालयन 56 भिक्षां बलिम अदत्त्वा च सवयम अन्नानि भुञ्जते अनिष्ट्वा संविभज्याथ पितृदेवातिथीन गुरून 57 न शौचम अनुरुध्यन्त तेषां सूदजनास तथा मनसा कर्मणा वाचा भकम आसीद अनावृतम 58 विप्रकीर्णानि धान्यानि काकमूषक भॊजनम अपावृतं पयॊ ऽतिष्ठद उच्छिष्टाश चास्पृशन घृतम 59 कुद्दाल पाती पतकं परकीर्णं कांस्यभाजनम दरव्यॊपकरणं सर्वं नान्ववैक्षत कुतुम्बिनी 60 पराकारागार विध्वंसान न सम ते परतिकुर्वते नाद्रियन्ते पशून बद्ध्वा यवसेनॊदकेन च 61 बालानां परेक्षमाणानां सवयं भक्षान अभक्षयन तथा भृत्यजनं सर्वं पर्यश्नन्ति च दानवाः 62 पायसं कृसरं मांसम अपूपान अथ शस्कुलीः अपाचयन्न आत्मनॊ ऽरथे वृथा मांसान्य अभक्षयन 63 उत्सूर्य शायिनश चासन सर्वे चासन परगेनिशाः अवर्तन कलहाश चात्र दिवारात्रं गृहे गृहे 64 अनार्याश चार्यम आसीनं पर्युपासन न तत्र ह आश्रमस्थान विकर्मस्थाः परद्विषन्ति परस्परम संकराश चाप्य अवर्तन्त न च शौचम अवर्तत 65 ये च वेद विदॊ विप्रा विस्पष्टम अनृचश च ये निरन्तरविशेषास ते बहुमानावमानयॊः 66 हावम आभरणं वेषं गतिं सथितिम अवेक्षितुम असेवन्त भुजिष्या वै दुर्जनाचरितं विधिम 67 सत्रियः पुरुषवेषेण पुंसः सत्री वेषधारिणः करीदा रतिविहारेषु परां मुदम अवाप्नुवन 68 परभवद्भिः पुरा दायान अर्हेभ्यः परतिपादितान नाभ्यवर्तन्त नास्तिक्याद वर्तन्तः संभवेष्व अपि 69 मित्रेणाभ्यर्थितं मित्रम अर्थे संशयिते कव चित बाल कॊत्य अग्रमात्रेण सवार्थेनाघ्नत तद वसु 70 परस्वादान रुचयॊ विपन्य वयवहारिणः अदृश्यन्तार्य वर्णेषु शूद्राश चापि तपॊधनाः 71 अधीयन्ते ऽवरताः के चिद वृथा वरतम अथापरे अशुश्रूसुर गुरॊः शिष्यः कश चिच छिष्य सखॊ गुरुः 72 पिता चैव जनित्री च शरान्तौ वृत्तॊत्सवाव इव अप्रभुत्वे सथितौ वृत्थाव अन्नं परार्थयतः सुतान 73 तत्र वेद विदः पराज्ञा गाम्भीर्ये सगरॊपमाः कृष्यादिष्व अभवन सक्ता मूर्खाः शराद्धान्य अभुञ्जत 74 परातः परातर च सुप्रश्नं कल्पनं परेषण करियाः शिष्यानुप्रहितास तस्मिन्न अकुर्वन गुरवश च ह 75 शवश्रू शवशुरयॊर अग्रे वधूः परेष्यान अशासत अन्वशासच च भर्तारं समाहूयाभिजल्पती 76 परयत्नेनापि चारक्षच चित्तं पुत्रस्य वै पिता वयभजंश चापि संरम्भाद दुःखवासं तथावसन 77 अग्निदाहेन चॊरैर वा राजभिर वा हृतं धनम दृष्ट्वा दवेषात पराहसन्त सुहृत संभाविता हय अपि 78 कृतघ्ना नास्तिकाः पापा गुरु दाराभिमर्शिनः अभक्ष्य भक्षण रता निर्मर्यादा हतत्विषः 79 तेष्व एवमादीन आचारान आचरत्सु विपर्यये नाहं देवेन्द्र वत्स्यामि दानवेष्व इति मे मतिः 80 तां मां सवयम अनुप्राप्ताम अभिनन्द शचीपते तवयार्चितां मां देवेश पुरॊधास्यन्ति देवताः 81 यत्राहं तत्र मत कान्ता मद्विशिष्टा मदर्पणाः सप्त देव्यॊ मयास्तम्यॊ वसं चेष्यन्ति मे ऽसतधा 82 आशा शरद्धा धृतिः कान्तिर विजितिः सन्नतिः कषमा अस्तमी वृत्तिर एतासां पुरॊगा पाकशासन 83 ताश चाहं चासुरांस तयक्त्वा युष्मद विषयम आगता तरिदशेषु निवत्स्यामॊ धर्मनिष्ठान्तर आत्मसु 84 [भी] इत्य उक्तवचनां देवीम अत्यर्थं तौ ननन्दतुः नारदश च तरिलॊकर्षिर वृत्र हन्ता च वासवः 85 ततॊ ऽनल सखॊ वायुः परववौ देव वेश्मसु इष्टगन्धः सुखस्पर्शः सर्वेन्द्रियसुखावहः 86 शुचौ चाभ्यर्चिते देशे तरिदशाः परायशः सथिताः लक्ष्म्या सहितम आसीनं मघवन्तं दिदृक्षवः 87 ततॊ दिवं पराप्य सहस्रलॊचनः; शरियॊपपन्नः सुहृदा सुरर्षिणा रथेन हर्यश्वयुजा सुरर्षभः; सदः सुराणाम अभिसत्कृतॊ ययौ 88 अथेङ्गितं वज्रधरस्य नारदः; शरियाश च देव्या मनसा विचारयन शरियै शशंसामर दृष्टपौरुषः; शिवेन तत्रागमनं महर्द्धिमत 89 ततॊ ऽमृतं दयौः परववर्ष भास्वती; पितामहस्यायतने सवयम्भुवः अनाहत दुन्दुभयश च नेदिरे; तथा परसन्नाश च दिशश चकाशिरे 90 यथर्तु सस्येषु ववर्ष वासवॊ; न धर्ममार्गाद विचचाल कश चन अनेकरत्राकर भूसना च भूः; सुघॊषघॊषा भुवनौकसां जये 91 करियाभिरामा मनुजा यशस्विनॊ; बभुः शुभे पुण्यकृतां पथि सथिताः नरामराः किंनरयक्षराक्षसाः; समृद्धिमन्तः सुखिनॊ यशस्विनः 92 न जात्व अकाले कुसुमं कुतः फलं; पपात वृक्षात पवनेरिताद अपि रसप्रदाः कामदुघाश च धेनवॊ; न दारुणा वाग विचचार कस्य चित 93 इमां सपर्यां सह सर्वकामदैः; शरियां च शक्र परमुखैश च दैवतैः पथन्ति ये विप्रसदः समागमे; समृद्धकामाः शरियम आप्नुवन्ति ते 94 तवया कुरूणां वरयत परचॊदितं; भवाभवस्येह परं निदर्शनम तद अद्य सर्वं परिकीर्तितं मया; परीक्ष्य तत्त्वं परिगन्तुम अर्हसि |
1
[y] pūrvarūpāṇi me rājan puruṣasya bhaviṣyataḥ parābhaviṣyataś caiva tvaṃ me brūhi pitāmaha 2 [bhī] mana eva manuṣyasya pūrvarūpāṇi śaṃsati bhaviṣyataś ca bhadraṃ te tathaiva na bhaviṣyataḥ 3 atrāpy udāharantīmam itihāsaṃ purātanam śriyā śakrasya saṃvādaṃ tan nibodha yudhiṣṭhira 4 mahatas tapaso vyuṣṭyā paśyaṁl lokau parāvarau sāmānyam ṛṣibhir gatvā brahmalokanivāsibhiḥ 5 brahmaivāmita dīptaujāḥ śāntapāpmā mahātapāḥ vicacāra yathākāmaṃ triṣu lokeṣu nāradaḥ 6 kadā cit prātar utthāya pispṛkṣuḥ salilaṃ śuci dhruvadvāra bhavāṃ gaṅgāṃ jagāmāvatatāra ca 7 sahasranayanaś cāpi vajrī śambara pākahā tasyā devarṣijuṣṭāyās tīram abhyājagāma ha 8 tāv āplutya yatātmānau kṛtajapyau samāsatuḥ nadyāḥ pulinam āsādya sūkṣmakāñcanavālikam 9 puṇyakarmabhir ākhyātā devarṣikathitāḥ kathāḥ cakratus tau kathāśīlau śuci saṃhṛṣṭamānasau pūrvavṛttavyapetāni kathayantau samāhitau 10 atha bhāskaram udyantaṃ raśmijālapuraskṛtam pūrṇamandalam ālokya tāv utthāyopatasthatuḥ 11 abhitas tūdayantaṃ tam arkam arkam ivāparam ākāśe dadṛśe jyotir udyatārciḥ samaprabham 12 tayoḥ samīpaṃ saṃprāptaṃ pratyadṛśyata bhārata tat suparṇārka caritam āsthitaṃ vaiṣnavaṃ padam bhābhir apratimaṃ bhāti trailokyam avabhāsayat 13 divyābhirūpa śobhābhir apsarobhiḥ puraskṛtām bṛhatīm aṃśumat prakhyāṃ bṛhad bhānor ivārciṣam 14 nakṣatrakalpābharaṇāṃ tārā bhaktisamasrajam śriyaṃ dadṛśatuḥ padmāṃ sākṣāt padmatalasthitām 15 sāvaruhya vimānāgrād aṅganānām anuttamā abhyagacchat trilokeśaṃ śakraṃ carṣiṃ ca nāradam 16 nāradānugataḥ sākṣān maghavāṃs tām upāgamat kṛtāñjaliputo devīṃ nivedyātmānam ātmanā 17 cakre cānupamāṃ pūjāṃ tasyāś cāpi sa sarvavit devarājaḥ śriyaṃ rājan vākyaṃ cedam uvāca ha 18 kā tvaṃ kena ca kāryeṇa saṃprāptā cāruhāsini kutaś cāgamyate subhru gantavyaṃ kva ca te śubhe 19 [ṣrī] puṇyeṣu triṣu lokeṣu sarve sthāvarajaṅgamaḥ mamātmabhāvam icchanto yatante paramātmanā 20 sāhaṃ vai paṅkaje jātā sūryaraśmi vibodhite bhūtyarthaṃ sarvabhūtānāṃ padmā śrīḥ padmamālinī 21 ahaṃ lakṣmīr ahaṃ bhūtiḥ śrīś cāhaṃ balasūdana ahaṃ śraddhā ca medhā ca sannatir vijitiḥ sthitiḥ 22 ahaṃ dhṛtir ahaṃ siddhir ahaṃ tviḍ bhūtir eva ca ahaṃ svāhā svadhā caiva saṃstutir niyatiḥ kṛtiḥ 23 rājñāṃ vijayamānānāṃ senāgreṣu dhvajeṣu ca nivāse dharmaśīlānāṃ viṣayeṣu pureṣu ca 24 jitakāśini śūre ca saṃgrāmeṣv anivartini nivasāmi manuṣyendre sadaiva balasūdalan 25 dharmanitye mahābuddhau brahmaṇye satyavādini praśrite dānaśīle ca sadaiva nivasāmy aham 26 asureṣv avasaṃs pūrvaṃ satyadharmanibandhanā vipārītāṃs tu tān buddhvā tvayi vāsam arocayam 27 [ṣakra] kathaṃ vṛtteṣu daityeṣu tvam avātsīr varānane dṛṣṭvā ca kim ihāgās tvaṃ hitvā daiteya dānavān 28 [ṣrī] svadharmam anutiṣṭhatsu dhairyād acaliteṣu ca svargamārgābhirāmeṣu sattveṣu niratā hy aham 29 dānādhyayanayajñejyā guru daivatapūjanam viprāṇām atithīnāṃ ca teṣāṃ nityam avartata 30 susaṃmṛṣṭa gṛhāś cāsañ jitastrīkā hutāgnayaḥ guru śuśrūsavo dāntā brahmaṇyāḥ satyavādinaḥ 31 śraddadhānā jitakrodhā dānaśīlānasūyakāḥ bhṛtaputrā bhṛtāmātyā bhṛtadārā hy anīrṣavaḥ 32 amarṣaṇā na cānyonyaṃ spṛhayanti kadā cana na ca jātūpatapyante dhīrāḥ parasamṛddhibhiḥ 33 dātāraḥ saṃgṛhītāra āryāḥ karuṇavedinaḥ mahāprasādā ṛjavo dṛdha bhaktā jitendriyāḥ 34 saṃtuṣṭabhṛtyasacivāḥ kṛtajñāḥ priyavādinaḥ yathārthamānārtha karā hrīniṣedhā yatavratāḥ 35 nityaṃ parvasu susnātāḥ svanuliptāḥ svalaṃkṛtāḥ upavāsatapaḥ śīlāḥ pratītā brahmavādinaḥ 36 nainān abhyudiyāt sūryo na cāpy āsan prageniśāḥ rātrau dadhi ca saktūṃś ca nityam eva vyavarjayan 37 kālyaṃ ghṛtaṃ cānvavekṣan prayatā brahmacāriṇaḥ maṅgalān api cāpaśyan brāhmaṇāṃś cāpy apūjayan 38 sadā hi dadatāṃ dharmaḥ sadā cāpratigṛhṇatām ardhaṃ ca rātryāḥ svapatāṃ divā cāsvapatāṃ tathā 39 kṛpaṇānātha vṛddhānāṃ durbalātura yoṣitām dāyaṃ ca saṃvibhāgaṃ ca nityam evānumodatām 40 viṣaṇṇaṃ trastam udvignaṃ bhayārtaṃ vyādhipīḍitam hṛtasvaṃ vyasanārtaṃ ca nityam āśvāsayanti te 41 dharmam evānvavartanta na hiṃsanti parasparam anukūlāṃś ca kāryeṣu guru vṛddhopasevinaḥ 42 pitṛdevātithīṃś caiva yathāvat te 'bhyapūjayan avaśeṣāṇi cāśnanti nityaṃ satyatapo ratāḥ 43 naike 'śnanti susaṃpannaṃ na gacchanti parastriyam sarvabhūteṣv avartanta yathātmani dayāṃ prati 44 naivākāśe na paśuṣu nāyonau na ca parvasu indriyasya visargaṃ te 'rocayanta kadā cana 45 nityaṃ dānaṃ tathā dākṣyam ārjavaṃ caiva nityadā utsāhaś cānahaṃkāraḥ paramaṃ sauhṛdaṃ kṣamā 46 satyaṃ dānaṃ tapaḥ śaucaṃ kāruṇyaṃ vāg aniṣṭhurā mitreṣu cānabhidrohaḥ sarvaṃ teṣv abhavat prabho 47 nidrā tandrī rasaṃ prītir asūyā cānavekṣitā aratiś ca viṣādaś ca na spṛhā cāviśanta tā 48 sāham evaṃguṇeṣv eva dānaveṣv avasaṃ purā prajā sargam upādāya naikaṃ yugaviparyamam 49 tataḥ kālaviparyāse teṣāṃ guṇaviparyayāt apaśyaṃ vigataṃ dharmaṃ kāmakrodhavaśātmanām 50 sabhā sadāṃ te vṛddhānāṃ satyāḥ kathayatāṃ kathāḥ prāhasann abhyasūyaṃś ca sarvavṛddhān guṇāvarāḥ 51 yūnaḥ saha samāsīnān vṛddhān abhigatān sataḥ nābhyutthānābhivādābhyāṃ yathāpūrvam apūjayan 52 vartayanty eva pitari putrāḥ prabhavatātmanaḥ amitrabhṛtyatāṃ prāpya khyāpayanto 'napatrapāḥ 53 tathā dharmād apetena karmaṇā garhitena ye mahataḥ prāpnuvanty arthāṃs teṣv eṣām abhavat spṛhā 54 ucchaiś cāpy avadan rātrau nīcais tatrāgnir ajvalat putrāḥ pitṝn abhyavadan bhāryāś cābhyavadan patīn 55 mātaraṃ pitaraṃ vṛddham ācāryam atithiṃ gurum guruvan nābhyanandanta kumārān nānvapālayan 56 bhikṣāṃ balim adattvā ca svayam annāni bhuñjate aniṣṭvā saṃvibhajyātha pitṛdevātithīn gurūn 57 na śaucam anurudhyanta teṣāṃ sūdajanās tathā manasā karmaṇā vācā bhakam āsīd anāvṛtam 58 viprakīrṇāni dhānyāni kākamūṣaka bhojanam apāvṛtaṃ payo 'tiṣṭhad ucchiṣṭāś cāspṛśan ghṛtam 59 kuddāla pātī patakaṃ prakīrṇaṃ kāṃsyabhājanam dravyopakaraṇaṃ sarvaṃ nānvavaikṣat kutumbinī 60 prākārāgāra vidhvaṃsān na sma te pratikurvate nādriyante paśūn baddhvā yavasenodakena ca 61 bālānāṃ prekṣamāṇānāṃ svayaṃ bhakṣān abhakṣayan tathā bhṛtyajanaṃ sarvaṃ paryaśnanti ca dānavāḥ 62 pāyasaṃ kṛsaraṃ māṃsam apūpān atha śaskulīḥ apācayann ātmano 'rthe vṛthā māṃsāny abhakṣayan 63 utsūrya śāyinaś cāsan sarve cāsan prageniśāḥ avartan kalahāś cātra divārātraṃ gṛhe gṛhe 64 anāryāś cāryam āsīnaṃ paryupāsan na tatra ha āśramasthān vikarmasthāḥ pradviṣanti parasparam saṃkarāś cāpy avartanta na ca śaucam avartata 65 ye ca veda vido viprā vispaṣṭam anṛcaś ca ye nirantaraviśeṣās te bahumānāvamānayoḥ 66 hāvam ābharaṇaṃ veṣaṃ gatiṃ sthitim avekṣitum asevanta bhujiṣyā vai durjanācaritaṃ vidhim 67 striyaḥ puruṣaveṣeṇa puṃsaḥ strī veṣadhāriṇaḥ krīdā rativihāreṣu parāṃ mudam avāpnuvan 68 prabhavadbhiḥ purā dāyān arhebhyaḥ pratipāditān nābhyavartanta nāstikyād vartantaḥ saṃbhaveṣv api 69 mitreṇābhyarthitaṃ mitram arthe saṃśayite kva cit bāla koty agramātreṇa svārthenāghnata tad vasu 70 parasvādāna rucayo vipanya vyavahāriṇaḥ adṛśyantārya varṇeṣu śūdrāś cāpi tapodhanāḥ 71 adhīyante 'vratāḥ ke cid vṛthā vratam athāpare aśuśrūsur guroḥ śiṣyaḥ kaś cic chiṣya sakho guruḥ 72 pitā caiva janitrī ca śrāntau vṛttotsavāv iva aprabhutve sthitau vṛtthāv annaṃ prārthayataḥ sutān 73 tatra veda vidaḥ prājñā gāmbhīrye sagaropamāḥ kṛṣyādiṣv abhavan saktā mūrkhāḥ śrāddhāny abhuñjata 74 prātaḥ prātar ca supraśnaṃ kalpanaṃ preṣaṇa kriyāḥ śiṣyānuprahitās tasminn akurvan guravaś ca ha 75 śvaśrū śvaśurayor agre vadhūḥ preṣyān aśāsata anvaśāsac ca bhartāraṃ samāhūyābhijalpatī 76 prayatnenāpi cārakṣac cittaṃ putrasya vai pitā vyabhajaṃś cāpi saṃrambhād duḥkhavāsaṃ tathāvasan 77 agnidāhena corair vā rājabhir vā hṛtaṃ dhanam dṛṣṭvā dveṣāt prāhasanta suhṛt saṃbhāvitā hy api 78 kṛtaghnā nāstikāḥ pāpā guru dārābhimarśinaḥ abhakṣya bhakṣaṇa ratā nirmaryādā hatatviṣaḥ 79 teṣv evamādīn ācārān ācaratsu viparyaye nāhaṃ devendra vatsyāmi dānaveṣv iti me matiḥ 80 tāṃ māṃ svayam anuprāptām abhinanda śacīpate tvayārcitāṃ māṃ deveśa purodhāsyanti devatāḥ 81 yatrāhaṃ tatra mat kāntā madviśiṣṭā madarpaṇāḥ sapta devyo mayāstamyo vasaṃ ceṣyanti me 'stadhā 82 āśā śraddhā dhṛtiḥ kāntir vijitiḥ sannatiḥ kṣamā astamī vṛttir etāsāṃ purogā pākaśāsana 83 tāś cāhaṃ cāsurāṃs tyaktvā yuṣmad viṣayam āgatā tridaśeṣu nivatsyāmo dharmaniṣṭhāntar ātmasu 84 [bhī] ity uktavacanāṃ devīm atyarthaṃ tau nanandatuḥ nāradaś ca trilokarṣir vṛtra hantā ca vāsavaḥ 85 tato 'nala sakho vāyuḥ pravavau deva veśmasu iṣṭagandhaḥ sukhasparśaḥ sarvendriyasukhāvahaḥ 86 śucau cābhyarcite deśe tridaśāḥ prāyaśaḥ sthitāḥ lakṣmyā sahitam āsīnaṃ maghavantaṃ didṛkṣavaḥ 87 tato divaṃ prāpya sahasralocanaḥ; śriyopapannaḥ suhṛdā surarṣiṇā rathena haryaśvayujā surarṣabhaḥ; sadaḥ surāṇām abhisatkṛto yayau 88 atheṅgitaṃ vajradharasya nāradaḥ; śriyāś ca devyā manasā vicārayan śriyai śaśaṃsāmara dṛṣṭapauruṣaḥ; śivena tatrāgamanaṃ maharddhimat 89 tato 'mṛtaṃ dyauḥ pravavarṣa bhāsvatī; pitāmahasyāyatane svayambhuvaḥ anāhata dundubhayaś ca nedire; tathā prasannāś ca diśaś cakāśire 90 yathartu sasyeṣu vavarṣa vāsavo; na dharmamārgād vicacāla kaś cana anekaratrākara bhūsanā ca bhūḥ; sughoṣaghoṣā bhuvanaukasāṃ jaye 91 kriyābhirāmā manujā yaśasvino; babhuḥ śubhe puṇyakṛtāṃ pathi sthitāḥ narāmarāḥ kiṃnarayakṣarākṣasāḥ; samṛddhimantaḥ sukhino yaśasvinaḥ 92 na jātv akāle kusumaṃ kutaḥ phalaṃ; papāta vṛkṣāt pavaneritād api rasapradāḥ kāmadughāś ca dhenavo; na dāruṇā vāg vicacāra kasya cit 93 imāṃ saparyāṃ saha sarvakāmadaiḥ; śriyāṃ ca śakra pramukhaiś ca daivataiḥ pathanti ye viprasadaḥ samāgame; samṛddhakāmāḥ śriyam āpnuvanti te 94 tvayā kurūṇāṃ varayat pracoditaṃ; bhavābhavasyeha paraṃ nidarśanam tad adya sarvaṃ parikīrtitaṃ mayā; parīkṣya tattvaṃ parigantum arhasi |
The Mahabharata in Sanskrit
Book 12
Chapter 222
|
1
[य] किं शीलः किं समाचारः किं विद्यः किं परायनः पराप्नॊति बरह्मणः सथानं यत परं परकृतेर धरुवम 2 [भी] मॊक्षधर्मेषु नियतॊ लघ्व आहारॊ जितेन्द्रियः पराप्नॊति बरह्मणः सथानं यत परं परकृतेर धरुवम 3 अत्राप्य उदाहरन्तीमम इतिहासं पुरातनम जैगीसव्यस्य संवादम असितस्य च भारत 4 जैगीसव्यं महाप्राज्ञं धर्माणाम आगतागमम अक्रुध्यन्तम अहृष्यन्तम असितॊ देवलॊ ऽबरवीत 5 न परीयसे वन्द्यमानॊ निन्द्यमानॊ न कुप्यसि का ते परज्ञा कुतश चैषा किं चैतस्याः परायनम 6 इति तेनानुयुक्तः स तम उवाच महातपाः महद वाक्यम असंदिग्धं पुष्करार्थ पदं शुचि 7 या गतिर या परा निष्ठा या शान्तिः पुण्यकर्मणाम तां ते ऽहं संप्रवक्ष्यामि यन मां पृच्छसि वै दविज 8 निन्दत्सु च समॊ नित्यं परशंसत्सु च देवल निह्नुवन्ति च ये तेषां समयं सुकृतं च ये 9 उक्ताश च न विवक्षन्ति वक्तारम अहिते रतम परतिहन्तुं न चेच्छन्ति हन्तारं वै मनीषिणः 10 नाप्राप्तम अनुशॊचन्ति पराप्तकालानि कुर्वते न चातीतानि शॊचन्ति न चैनान परतिजानते 11 संप्राप्तानां च पूज्यानां कामाद अर्थेषु देवल यथॊपपत्तिं कुर्वन्ति शक्तिमन्तः कृतव्रताः 12 पक्वविद्या महाप्राज्ञा जितक्रॊधा जितेन्द्रियाः मनसा कर्मणा वाचा नापराध्यन्ति कस्य चित 13 अनीर्षवॊ न चान्यॊन्यं विहिंसन्ति कदा चन न च जातूपतप्यन्ते धीराः परसमृद्धिभिः 14 निन्दा परशंसे चार्त्यर्थं न वदन्ति परस्य ये न च निन्दा परशंसाभ्यां विक्रियन्ते कदा चन 15 सर्वतश च परशान्ता ये सर्वभूतहिते रताः न करुध्यन्ति न हृष्यन्ति नापराध्यन्ति कस्य चित विमुच्य हृदयग्रन्थींश चङ्कम्यन्ते यथासुखम 16 न येषां बान्धवाः सन्ति ये चान्येषां न बान्धवाः अमित्राश च न सन्त्य एषां ये चामित्रा न कस्य चित 17 य एवं कुर्वते मर्त्याः सुखं जीवन्ति सर्वदा धर्मम एवानुवर्तन्ते धर्मज्ञा दविजसत्तम ये हय अतॊ विच्युता मार्गात ते हृष्यन्त्य उद्विजन्ति च 18 आस्थितस तम अहं मार्गम असूयिष्यामि कं कथम निन्द्यमानः परशन्स्तॊ वा हृष्येयं केन हेतुना 19 यद यद इच्छन्ति तन मार्गम अभिगच्छन्ति मानवाः न मे निन्दा परशंसाभ्यां हरास वृद्धी भविष्यतः 20 अमृतस्येव संतृप्येद अवमानस्य तत्त्ववित विषस्येवॊद्विजेन नित्यं संमानस्य विचक्षणः 21 अवज्ञातः सुखं शेते इह चामुत्र चॊभयॊः विमुक्तः सर्वपापेभ्यॊ यॊ ऽवमन्ता स बध्यते 22 परां गतिं च ये के चित परार्थयन्ति मनीषिणः एतद वरतं समाश्रित्य सुखम एधन्ति ते जनाः 23 सर्वतश च समाहृत्य करतून सर्वाञ जितेन्द्रियः पराप्नॊति बरह्मणः सथानं यत परं परकृतेर धरुवम 24 नास्य देवा न गन्धर्वा न पिशाचा न राक्षसाः पदम अन्ववरॊहन्ति पराप्तस्य परमां गतिम |
1
[y] kiṃ śīlaḥ kiṃ samācāraḥ kiṃ vidyaḥ kiṃ parāyanaḥ prāpnoti brahmaṇaḥ sthānaṃ yat paraṃ prakṛter dhruvam 2 [bhī] mokṣadharmeṣu niyato laghv āhāro jitendriyaḥ prāpnoti brahmaṇaḥ sthānaṃ yat paraṃ prakṛter dhruvam 3 atrāpy udāharantīmam itihāsaṃ purātanam jaigīsavyasya saṃvādam asitasya ca bhārata 4 jaigīsavyaṃ mahāprājñaṃ dharmāṇām āgatāgamam akrudhyantam ahṛṣyantam asito devalo 'bravīt 5 na prīyase vandyamāno nindyamāno na kupyasi kā te prajñā kutaś caiṣā kiṃ caitasyāḥ parāyanam 6 iti tenānuyuktaḥ sa tam uvāca mahātapāḥ mahad vākyam asaṃdigdhaṃ puṣkarārtha padaṃ śuci 7 yā gatir yā parā niṣṭhā yā śāntiḥ puṇyakarmaṇām tāṃ te 'haṃ saṃpravakṣyāmi yan māṃ pṛcchasi vai dvija 8 nindatsu ca samo nityaṃ praśaṃsatsu ca devala nihnuvanti ca ye teṣāṃ samayaṃ sukṛtaṃ ca ye 9 uktāś ca na vivakṣanti vaktāram ahite ratam pratihantuṃ na cecchanti hantāraṃ vai manīṣiṇaḥ 10 nāprāptam anuśocanti prāptakālāni kurvate na cātītāni śocanti na cainān pratijānate 11 saṃprāptānāṃ ca pūjyānāṃ kāmād artheṣu devala yathopapattiṃ kurvanti śaktimantaḥ kṛtavratāḥ 12 pakvavidyā mahāprājñā jitakrodhā jitendriyāḥ manasā karmaṇā vācā nāparādhyanti kasya cit 13 anīrṣavo na cānyonyaṃ vihiṃsanti kadā cana na ca jātūpatapyante dhīrāḥ parasamṛddhibhiḥ 14 nindā praśaṃse cārtyarthaṃ na vadanti parasya ye na ca nindā praśaṃsābhyāṃ vikriyante kadā cana 15 sarvataś ca praśāntā ye sarvabhūtahite ratāḥ na krudhyanti na hṛṣyanti nāparādhyanti kasya cit vimucya hṛdayagranthīṃś caṅkamyante yathāsukham 16 na yeṣāṃ bāndhavāḥ santi ye cānyeṣāṃ na bāndhavāḥ amitrāś ca na santy eṣāṃ ye cāmitrā na kasya cit 17 ya evaṃ kurvate martyāḥ sukhaṃ jīvanti sarvadā dharmam evānuvartante dharmajñā dvijasattama ye hy ato vicyutā mārgāt te hṛṣyanty udvijanti ca 18 āsthitas tam ahaṃ mārgam asūyiṣyāmi kaṃ katham nindyamānaḥ praśansto vā hṛṣyeyaṃ kena hetunā 19 yad yad icchanti tan mārgam abhigacchanti mānavāḥ na me nindā praśaṃsābhyāṃ hrāsa vṛddhī bhaviṣyataḥ 20 amṛtasyeva saṃtṛpyed avamānasya tattvavit viṣasyevodvijen nityaṃ saṃmānasya vicakṣaṇaḥ 21 avajñātaḥ sukhaṃ śete iha cāmutra cobhayoḥ vimuktaḥ sarvapāpebhyo yo 'vamantā sa badhyate 22 parāṃ gatiṃ ca ye ke cit prārthayanti manīṣiṇaḥ etad vrataṃ samāśritya sukham edhanti te janāḥ 23 sarvataś ca samāhṛtya kratūn sarvāñ jitendriyaḥ prāpnoti brahmaṇaḥ sthānaṃ yat paraṃ prakṛter dhruvam 24 nāsya devā na gandharvā na piśācā na rākṣasāḥ padam anvavarohanti prāptasya paramāṃ gatim |
The Mahabharata in Sanskrit
Book 12
Chapter 223
|
1
[य] परियः सर्वस्य लॊकस्य सर्वसत्त्वाभिनन्दिता गुणैः सर्वैर उपेतश च कॊ नव अस्ति भुवि मानवः 2 [भी] अत्र ते वर्तयिष्यामि पृच्छतॊ भरतर्षभ उग्रसेनस्य संवादं नारदे केशवस्य च 3 [उग्रसेन] पश्य संकल्पते लॊकॊ नारदस्य परकीर्तने मन्ये स गुणसंपन्नॊ बरूहि तन मम पृच्छतः 4 [वासुदेव] कुकुराधिप यान मन्ये शृणु तान मे विवक्षतः नारदस्य गुणान साधून संक्षेपेण नराधिप 5 न चारित्रनिमित्तॊ ऽसयाहंकारॊ देहपातनः अभिन्न शरुतचारित्रस तस्मात सर्वत्र पूजितः 6 तपस्वी नारदॊ बाधं वाचि नास्य वयतिक्रमः कामद वा यदि वा लॊभात तस्मात सर्वत्र पूजितः 7 अध्यात्मविधितत्त्वज्ञः कषान्तः शक्तॊ जितेन्द्रियः ऋजुश च सत्यवादी च तस्मात सर्वत्र पूजितः 8 तेजसा यशसा बुद्ध्या नयेन विनयेन च जन्मना तपसा वृद्धस तस्मात सर्वत्र पूजितः 9 सुखशीलः सुसंभॊगः सुभॊज्यः सवादरः शुचिः सुवाक्यश चाप्य अनीर्ष्यश च तस्मात सर्वत्र पूजितः 10 कल्यानं कुरुते बाधं पापम अस्मिन न विद्यते न परीयते परान अर्थैस तस्मात सर्वत्र पूजितः 11 वेदश्रुतिभिर आख्यानैर अर्थान अभिजिगीसते तितिक्षुर अनवज्ञश च तस्मात सर्वत्र पूजितः 12 समत्वाद धि परियॊ नास्ति नाप्रियश च कथं चन मनॊ ऽनुकूल वादी च तस्मात सर्वत्र पूजितः 13 बहुश्रुतश चैत्रकथः पण्डितॊ ऽनलसॊ ऽशथः अदीनॊ ऽकरॊधनॊ ऽलुब्धस तस्मात सर्वत्र पूजितः 14 नार्थे न धर्मे कामे वा भूतपूर्वॊ ऽसय विग्रहः दॊषाश चास्य समुच्छिन्नास तस्मात सर्वत्र पूजितः 15 दृध भक्तिर अनिन्द्यात्मा शरुतवान अनृशंसवान वीतसंमॊह दॊषश च तस्मात सर्वत्र पूजितः 16 असक्तः सर्वसङ्गेषु सक्तात्मेव च लक्ष्यते अदीर्घसंशयॊ वाग्मी तस्मात सर्वत्र पूजितः 17 समाधिर नास्य मानार्थे नात्मानं सतौति कर्हि चित अनीर्ष्युर दृध संभासस तस्मात सर्वत्र पूजितः 18 लॊकस्य विविधं वृत्तं परकृतेश चाप्य अकुत्सयन संसर्गविद्या कुशलस तस्मात सर्वत्र पूजितः 19 नासूयत्य आगमं कं चित सवं तपॊ नॊपजीवति अवन्ध्य कालॊ वश्यात्मा तस्मात सर्वत्र पूजितः 20 कृतश्रमः कृतप्रज्ञॊ न च तृप्तः समाधितः नियमस्थॊ ऽपरमत्तश च तस्मात सर्वत्र पूजितः 21 सापत्रपश च युक्तश च सुनेयः शरेयसे परैः अभेत्ता परगुह्यानां तस्मात सर्वत्र पूजितः 22 न हृष्यत्य अर्थलाभेषु नालाभेषु वयथत्य अपि सथिरबुद्धिर असक्तात्मा तस्मात सर्वत्र पूजितः 23 तं सर्वगुण संपन्नं दक्षं शुचिम अकातरम कालज्ञं च नयज्ञं च कः परियं न करिष्यति |
1
[y] priyaḥ sarvasya lokasya sarvasattvābhinanditā guṇaiḥ sarvair upetaś ca ko nv asti bhuvi mānavaḥ 2 [bhī] atra te vartayiṣyāmi pṛcchato bharatarṣabha ugrasenasya saṃvādaṃ nārade keśavasya ca 3 [ugrasena] paśya saṃkalpate loko nāradasya prakīrtane manye sa guṇasaṃpanno brūhi tan mama pṛcchataḥ 4 [vāsudeva] kukurādhipa yān manye śṛṇu tān me vivakṣataḥ nāradasya guṇān sādhūn saṃkṣepeṇa narādhipa 5 na cāritranimitto 'syāhaṃkāro dehapātanaḥ abhinna śrutacāritras tasmāt sarvatra pūjitaḥ 6 tapasvī nārado bādhaṃ vāci nāsya vyatikramaḥ kāmad vā yadi vā lobhāt tasmāt sarvatra pūjitaḥ 7 adhyātmavidhitattvajñaḥ kṣāntaḥ śakto jitendriyaḥ ṛjuś ca satyavādī ca tasmāt sarvatra pūjitaḥ 8 tejasā yaśasā buddhyā nayena vinayena ca janmanā tapasā vṛddhas tasmāt sarvatra pūjitaḥ 9 sukhaśīlaḥ susaṃbhogaḥ subhojyaḥ svādaraḥ śuciḥ suvākyaś cāpy anīrṣyaś ca tasmāt sarvatra pūjitaḥ 10 kalyānaṃ kurute bādhaṃ pāpam asmin na vidyate na prīyate parān arthais tasmāt sarvatra pūjitaḥ 11 vedaśrutibhir ākhyānair arthān abhijigīsate titikṣur anavajñaś ca tasmāt sarvatra pūjitaḥ 12 samatvād dhi priyo nāsti nāpriyaś ca kathaṃ cana mano 'nukūla vādī ca tasmāt sarvatra pūjitaḥ 13 bahuśrutaś caitrakathaḥ paṇḍito 'nalaso 'śathaḥ adīno 'krodhano 'lubdhas tasmāt sarvatra pūjitaḥ 14 nārthe na dharme kāme vā bhūtapūrvo 'sya vigrahaḥ doṣāś cāsya samucchinnās tasmāt sarvatra pūjitaḥ 15 dṛdha bhaktir anindyātmā śrutavān anṛśaṃsavān vītasaṃmoha doṣaś ca tasmāt sarvatra pūjitaḥ 16 asaktaḥ sarvasaṅgeṣu saktātmeva ca lakṣyate adīrghasaṃśayo vāgmī tasmāt sarvatra pūjitaḥ 17 samādhir nāsya mānārthe nātmānaṃ stauti karhi cit anīrṣyur dṛdha saṃbhāsas tasmāt sarvatra pūjitaḥ 18 lokasya vividhaṃ vṛttaṃ prakṛteś cāpy akutsayan saṃsargavidyā kuśalas tasmāt sarvatra pūjitaḥ 19 nāsūyaty āgamaṃ kaṃ cit svaṃ tapo nopajīvati avandhya kālo vaśyātmā tasmāt sarvatra pūjitaḥ 20 kṛtaśramaḥ kṛtaprajño na ca tṛptaḥ samādhitaḥ niyamastho 'pramattaś ca tasmāt sarvatra pūjitaḥ 21 sāpatrapaś ca yuktaś ca suneyaḥ śreyase paraiḥ abhettā paraguhyānāṃ tasmāt sarvatra pūjitaḥ 22 na hṛṣyaty arthalābheṣu nālābheṣu vyathaty api sthirabuddhir asaktātmā tasmāt sarvatra pūjitaḥ 23 taṃ sarvaguṇa saṃpannaṃ dakṣaṃ śucim akātaram kālajñaṃ ca nayajñaṃ ca kaḥ priyaṃ na kariṣyati |
The Mahabharata in Sanskrit
Book 12
Chapter 224
|
1
[य] आद्यन्तं सर्वभूतानां शरॊतुम इच्छामि कौरव धयानं कर्म च कालं च तथैवायुर युगे युगे 2 लॊकतत्त्वं च कार्त्स्न्येन भूतानाम आगतिं गतिम सर्गश च निधनं चैव कुत एतत परवर्तते 3 यदि ते ऽनुग्रहे बुद्धिर अस्मास्व इह सतां वर एतद भवन्तं पृच्छामि तद भवान परब्रवीतु मे 4 पूर्वं हि कथितं शरुत्वा भृगुभासितम उत्तमम भरद्वाजस्य विप्रर्षेस ततॊ मे बुद्धिर उत्तमा 5 जाता परमधर्मिष्ठा दिव्यसंस्थान संस्थिता ततॊ भूयस तु पृच्छामि तद भवान वक्तुम अर्हति 6 [भी] अत्र ते वर्तयिष्ये ऽहम इतिहासं पुरातनम जगौ यद भगवान वयासः पुत्राय परिपृच्छते 7 अधीत्य वेदान अखिलान साङ्गॊपनिषदस तथा अन्विच्छन नैष्ठिकं कर्म धर्मनैपुन दर्शनात 8 कृष्णद्वैपायनं वयासं पुत्रॊ वैयासकिः शुकः पप्रच्छ संदेहम इमं छिन्नधर्मार्थसंशयम 9 भूतग्रामस्य कर्तारं कालज्ञाने च निश्चयम बराह्मणस्य च यत्कृत्यं तद भवान वक्तुम अर्हति 10 तस्मै परॊवाच तत सर्वं पिता पुत्राय पृच्छते अतीतानागते विद्वान सर्वज्ञः सर्वधर्मवित 11 अनाद्य अन्तम अजं दिव्यम अजरं धरुवम अव्ययम अप्रतर्क्यम अविज्ञेयं बरह्माग्रे समवर्तत 12 कास्था निमेषा दश पञ्च चैव; तरिशत तु कास्था गणयेत कलां ताम तरिंशत कलाश चापि भवेन मुहूर्तॊ; भागः कलाया दशमश च यः सयात 13 तरिंशन मुहूर्तश च भवेद अहश च; रात्रिश च संख्या मुनिभिः परनीता मासः समृतॊ रात्र्यहनी च तरिंशत; संवत्सरॊ दवादशमास उक्तः संवत्सरं दवे अयने वदन्ति; संख्याविदॊ दक्षिणम उत्तरं च 14 अहॊरात्रे विभजते सूर्यॊ मानुषलौकिके रात्रिः सवप्नाय भूतानां चेष्टायै कर्मणाम अहर 15 पित्र्ये रात्र्यहनी मासः परविभागस तयॊः पुनः कृष्णॊ ऽहः कर्म चेष्टायां शुक्लः सवप्नाय शर्वरी 16 दैवे रात्र्यहनी वर्षं परविभागस तयॊः पुनः अहस तत्रॊदग अयनं रात्रिः सयाद दक्षिणायनम 17 ये ते रात्र्यहनी पूर्वे कीर्तिते दैवलौकिके तयॊः संख्याय वर्षाग्रं बराह्मे वक्ष्याम्य अहः कषपे 18 तेषां संवत्सराग्राणि परवक्ष्याम्य अनुपूर्वशः कृते तरेतायुगे चैव दवापरे च कलौ तथा 19 चत्वार्य आहुः सहस्राणि वर्षाणां तत कृतं युगम तस्य तावच छती संध्या संध्यांशश च तथाविधः 20 इतरेषु ससंध्येषु ससंध्यांशेषु च तरिषु एकापायेन संयान्ति सहस्राणि शतानि च 21 एतानि शाश्वताँल लॊकान धारयन्ति सनातनान एतद बरह्मविदां तात विदितं बरह्म शाश्वतम 22 चतुर्पात सकलॊ धर्मः सत्यं चैव कृते युगे नाधर्मेणागमः कश चित परस तस्य परवर्तते 23 इतरेष्व आगमाद धर्मः पदशस तव अवरॊप्यते चौरिकानृत मायाभिर अधर्मश चॊपचीयते 24 अरॊगाः सर्वसिद्धार्थाश चतुर्वर्ष शतायुषः कृते तरेतादिष्व एतेषां पादशॊ हरसते वयः 25 वेदवादाश चानुयुगं हरसन्तीति च नः शरुतम आयूंसि चाशिषश चैव वेदस्यैव च यत फलम 26 अन्ये कृतयुगे धर्मास तरेतायां दवापरे ऽपरे अन्ये कलियुगे धर्मा यथाशक्ति कृता इव 27 तपः परं कृतयुगे तरेतायां जञानम उत्तमम दवापरे यज्ञम एवाहुर दानम एव कलौ युगे 28 एतां दवादश साहस्रीं युगाख्यां कवयॊ विदुः सहस्रं परिवृत्तं तद बराह्मं दिवसम उच्यते 29 रात्रिस तावत तिथी बराह्मी तद आदौ विश्वम ईश्वरः परलये ऽधयात्मम आविश्य सुप्त्वा सॊ ऽनते विबुध्यते 30 सहस्रयुगपर्यन्तम अहर यद बरह्मणॊ विदुः रात्रिं युगसहस्रान्तां ते ऽहॊरात्रविदॊ जनाः 31 परतिबुद्धॊ विकुरुते बरह्माक्षय्यं कषपाक्षये सृजते च महद भूतं तस्माद वयक्तात्मकं मनः 32 बरह्मतेजॊमयं शुक्रं यस्य सर्वम इदं जगत एकस्य भूतं भूतस्य दवयं सथावरजङ्गमम 33 अहर मुखे विबुद्धः सन सृजते विद्यया जगत अग्र एव महाभूतम आशु वयक्तात्मकं मनः 34 अभिभूयेह चार्चिष्मद वयसृजत सप्त मानसान दूरगं बहुधागामि परार्थना संशयात्मकम 35 मनः सृष्टिं विकुरुते चॊद्यमानं सिसृक्षया आकाशं जायते तस्मात तस्य शब्दॊ गुणॊ मतः 36 आकाशात तु विकुर्वाणात सर्वगन्धवहः शुचिः बलवाञ जायते वायुस तस्य सपर्शॊ गुणॊ मतः 37 वायॊर अपि विकुर्वाणाज जयॊतिर भूतं तमॊनुदम रॊचिष्णु जायते तत्र तद रूपगुणम उच्यते 38 जयॊतिषॊ ऽपि विकुर्वाणाद भवन्त्य आपॊ रसात्मिकाः अद्भ्यॊ गन्धगुणा भूमिः पूर्वैषा सृष्टिर उच्यते 39 गुणाः पूर्वस्य पूर्वस्य पराप्नुवन्त्य उत्तरॊत्तरम तेषां यावत तिथं यद यत तत तत तावद गुणं समृतम 40 उपलभ्याप्सु चेद गन्धं के चिद बरूयुर अनैपुणात पृथिव्याम एव तं विद्याद आपॊ वायुं च संश्रितम 41 एते तु सप्त पुरुषा नाना विर्याः पृथक पृथक नाशक्नुवन परजाः सरष्टुम असमागम्य सर्वतः 42 ते समेत्य महात्मानम अन्यॊन्यम अभिसंश्रिताः शरीराश्रयणं पराप्तास ततः पुरुष उच्यते 43 शरयणाच छरीरं भवति मूर्तिमत सॊदशात्मकम तद आविशन्ति भूतानि महान्ति सह कर्मणा 44 सर्वभूतानि चादाय तपसश चरणाय च आदिकर्ता महाभूतं तम एवाहुः परजापतिम 45 स वै सृजति भूतानि स एव पुरुषः परः अजॊ जनयते बरह्मा देवर्षिपितृमानवान 46 लॊकान नदीः समुद्रांश च दिशः शैलान वनस्पतीन नरकिंनर रक्षांसि वयः पशुमृगॊरगान अव्ययं च वययं चैव दवयं सथावरजङ्गमम 47 तेषां ये यानि कर्माणि पराक सृष्ट्यां परतिपेदिरे तान्य एव परतिपद्यन्ते सृज्यमानाः पुनः पुनः 48 हिंस्राहिंस्रे मृदु करूरे धर्माधर्मे ऋतानृते अतॊ यन मन्यते धाता तस्मात तत तस्य रॊचते 49 महाभूतेषु नानात्वम इन्द्रियार्थेषु मूर्तिषु विनियॊगं च भूतानां धातैव विदधात्य उत 50 के चित पुरुषकारं तु पराहुः कर्मविदॊ जनाः दैवम इत्य अपरे विप्राः सवभावं भूतचिन्तकाः 51 पौरुषं कर्म दैवं च फलवृत्ति सवभावतः तरय एते ऽपृथग बूता नविवेकं तु के चन 52 एवम एतच च नैवं च यद भूतं सृजते जगत कर्मस्था विषमं बरूयुः सत्त्वस्थाः समदर्शिनः 53 तपॊ निःश्रेयसं जन्तॊस तस्य मूलं दमः शमः तेन सर्वान अवाप्नॊति यान कामान मनसेच्छति 54 तपसा तद अवाप्नॊति यद भूतं सृजते जगत स तद भूतश च सर्वेषां भूतानां भवति परभुः 55 ऋषयस तपसा वेदान अध्यैषन्त दिवानिशम अनादि निधना नित्या वाग उत्सृष्टा सवयम्भुवा 56 ऋषीणां नामधेयानि याश च वेदेषु सृष्टयः शर्वर्य अन्तेषु जातानां तान्य एवैभ्यॊ ददाति सः 57 नाम भेदस तपः कर्म यज्ञाख्या लॊकसिद्धयः आत्मसिद्धिस तु वेदेषु परॊच्यते दशभिः करमैः 58 यद उक्तं वेदवादेषु गहनं वेद दृष्टिभिः तद अन्तेषु यथा युक्तं करमयॊगेन लक्ष्यते 59 कर्मजॊ ऽयं पृथग्भावॊ दवन्द्वयुक्तॊ वियॊगिनः आत्मसिद्धिस तु विज्ञाता जहाति परायशॊ बलम 60 दवे बरह्मणी वेदितव्ये शब्दब्रह्म परं च यत शब्दब्रह्मणि निष्णातः परं बरह्माधिगच्छति 61 आरम्भ यज्ञाः कषत्रस्य हविर यज्ञा विशस तथा परिचारयज्ञाः शूद्रास तु तपॊयज्ञा दविजातयः 62 तरेतायुगे विधिस तव एषां यज्ञानां न कृते युगे दवापरे विप्लवं यान्ति यज्ञाः कलियुगे तथा 63 अपृथग धर्मिणॊ मर्त्या ऋक सामानि यजूंसि च काम्यां पुष्टिं पृथग दृष्ट्वा तपॊभिस तप एव च 64 तरेतायां तु समस्तास ते परादुरासन महाबलाः संयन्तारः सथावराणां जङ्गमानां च सर्वशः 65 तरेतायां संहता हय एते यज्ञा वर्णास तथैव च संरॊधाद आयुषस तव एते वयस्यन्ते दवापरे युगे 66 दृश्यन्ते नापि दृश्यन्ते वेदाः कलियुगे ऽखिलाः उत्सीदन्ते सयज्ञाश च केवला धर्मसेतवः 67 कृते युगे यस तु धर्मॊ बराह्मणेषु परदृश्यते आत्मवत्सु तपॊवत्सु शरुतवत्सु परतिष्ठितः 68 अधर्मव्रतसंयॊगं यथा धर्मं युगे युगे विक्रियन्ते सवधर्मस्था वेदवादा यथा युगम 69 यथा विश्वानि भूतानि वृष्ट्या भूयांसि परावृषि सृज्यन्ते जङ्गमस्थानि तथा धर्मा युगे युगे 70 यथर्तुष्व ऋतुलिङ्गानि नानारूपाणि पर्यये दृश्यन्ते तानि तान्य एव तथा बरह्माह रात्रिषु 71 विहितं कालनानात्वम अनादि निधनं तथा कीर्तितं यत पुरस्तात ते तत सूते चात्ति च परजाः 72 दधाति परभवे सथानं भूतानां संयमॊ यमः सवभावेनैव वर्तन्ते दवन्द्वयुक्तानि भूरिशः 73 सर्गः कालः करिया वेदाः कर्ता कार्यं करियाफलम परॊक्तं ते पुत्र सर्वं वै यन मां तवं परिपृच्छसि 74 परत्याहारं तु वक्ष्यामि शर्वर्य आदौ गते ऽहनि यथेदं कुरुते ऽधयात्मं सुसूक्ष्मं विश्वम ईश्वरः 75 दिवि सूर्यास तथा सप्त दहन्ति शिखिनॊ ऽरचिषा सर्वम एतत तदार्चिर्भिः पूर्णं जाज्वल्यते जगत |
1
[y] ādyantaṃ sarvabhūtānāṃ śrotum icchāmi kaurava dhyānaṃ karma ca kālaṃ ca tathaivāyur yuge yuge 2 lokatattvaṃ ca kārtsnyena bhūtānām āgatiṃ gatim sargaś ca nidhanaṃ caiva kuta etat pravartate 3 yadi te 'nugrahe buddhir asmāsv iha satāṃ vara etad bhavantaṃ pṛcchāmi tad bhavān prabravītu me 4 pūrvaṃ hi kathitaṃ śrutvā bhṛgubhāsitam uttamam bharadvājasya viprarṣes tato me buddhir uttamā 5 jātā paramadharmiṣṭhā divyasaṃsthāna saṃsthitā tato bhūyas tu pṛcchāmi tad bhavān vaktum arhati 6 [bhī] atra te vartayiṣye 'ham itihāsaṃ purātanam jagau yad bhagavān vyāsaḥ putrāya paripṛcchate 7 adhītya vedān akhilān sāṅgopaniṣadas tathā anvicchan naiṣṭhikaṃ karma dharmanaipuna darśanāt 8 kṛṣṇadvaipāyanaṃ vyāsaṃ putro vaiyāsakiḥ śukaḥ papraccha saṃdeham imaṃ chinnadharmārthasaṃśayam 9 bhūtagrāmasya kartāraṃ kālajñāne ca niścayam brāhmaṇasya ca yatkṛtyaṃ tad bhavān vaktum arhati 10 tasmai provāca tat sarvaṃ pitā putrāya pṛcchate atītānāgate vidvān sarvajñaḥ sarvadharmavit 11 anādy antam ajaṃ divyam ajaraṃ dhruvam avyayam apratarkyam avijñeyaṃ brahmāgre samavartata 12 kāsthā nimeṣā daśa pañca caiva; triśat tu kāsthā gaṇayet kalāṃ tām triṃśat kalāś cāpi bhaven muhūrto; bhāgaḥ kalāyā daśamaś ca yaḥ syāt 13 triṃśan muhūrtaś ca bhaved ahaś ca; rātriś ca saṃkhyā munibhiḥ pranītā māsaḥ smṛto rātryahanī ca triṃśat; saṃvatsaro dvādaśamāsa uktaḥ saṃvatsaraṃ dve ayane vadanti; saṃkhyāvido dakṣiṇam uttaraṃ ca 14 ahorātre vibhajate sūryo mānuṣalaukike rātriḥ svapnāya bhūtānāṃ ceṣṭāyai karmaṇām ahar 15 pitrye rātryahanī māsaḥ pravibhāgas tayoḥ punaḥ kṛṣṇo 'haḥ karma ceṣṭāyāṃ śuklaḥ svapnāya śarvarī 16 daive rātryahanī varṣaṃ pravibhāgas tayoḥ punaḥ ahas tatrodag ayanaṃ rātriḥ syād dakṣiṇāyanam 17 ye te rātryahanī pūrve kīrtite daivalaukike tayoḥ saṃkhyāya varṣāgraṃ brāhme vakṣyāmy ahaḥ kṣape 18 teṣāṃ saṃvatsarāgrāṇi pravakṣyāmy anupūrvaśaḥ kṛte tretāyuge caiva dvāpare ca kalau tathā 19 catvāry āhuḥ sahasrāṇi varṣāṇāṃ tat kṛtaṃ yugam tasya tāvac chatī saṃdhyā saṃdhyāṃśaś ca tathāvidhaḥ 20 itareṣu sasaṃdhyeṣu sasaṃdhyāṃśeṣu ca triṣu ekāpāyena saṃyānti sahasrāṇi śatāni ca 21 etāni śāśvatāṁl lokān dhārayanti sanātanān etad brahmavidāṃ tāta viditaṃ brahma śāśvatam 22 caturpāt sakalo dharmaḥ satyaṃ caiva kṛte yuge nādharmeṇāgamaḥ kaś cit paras tasya pravartate 23 itareṣv āgamād dharmaḥ padaśas tv avaropyate caurikānṛta māyābhir adharmaś copacīyate 24 arogāḥ sarvasiddhārthāś caturvarṣa śatāyuṣaḥ kṛte tretādiṣv eteṣāṃ pādaśo hrasate vayaḥ 25 vedavādāś cānuyugaṃ hrasantīti ca naḥ śrutam āyūṃsi cāśiṣaś caiva vedasyaiva ca yat phalam 26 anye kṛtayuge dharmās tretāyāṃ dvāpare 'pare anye kaliyuge dharmā yathāśakti kṛtā iva 27 tapaḥ paraṃ kṛtayuge tretāyāṃ jñānam uttamam dvāpare yajñam evāhur dānam eva kalau yuge 28 etāṃ dvādaśa sāhasrīṃ yugākhyāṃ kavayo viduḥ sahasraṃ parivṛttaṃ tad brāhmaṃ divasam ucyate 29 rātris tāvat tithī brāhmī tad ādau viśvam īśvaraḥ pralaye 'dhyātmam āviśya suptvā so 'nte vibudhyate 30 sahasrayugaparyantam ahar yad brahmaṇo viduḥ rātriṃ yugasahasrāntāṃ te 'horātravido janāḥ 31 pratibuddho vikurute brahmākṣayyaṃ kṣapākṣaye sṛjate ca mahad bhūtaṃ tasmād vyaktātmakaṃ manaḥ 32 brahmatejomayaṃ śukraṃ yasya sarvam idaṃ jagat ekasya bhūtaṃ bhūtasya dvayaṃ sthāvarajaṅgamam 33 ahar mukhe vibuddhaḥ san sṛjate vidyayā jagat agra eva mahābhūtam āśu vyaktātmakaṃ manaḥ 34 abhibhūyeha cārciṣmad vyasṛjat sapta mānasān dūragaṃ bahudhāgāmi prārthanā saṃśayātmakam 35 manaḥ sṛṣṭiṃ vikurute codyamānaṃ sisṛkṣayā ākāśaṃ jāyate tasmāt tasya śabdo guṇo mataḥ 36 ākāśāt tu vikurvāṇāt sarvagandhavahaḥ śuciḥ balavāñ jāyate vāyus tasya sparśo guṇo mataḥ 37 vāyor api vikurvāṇāj jyotir bhūtaṃ tamonudam rociṣṇu jāyate tatra tad rūpaguṇam ucyate 38 jyotiṣo 'pi vikurvāṇād bhavanty āpo rasātmikāḥ adbhyo gandhaguṇā bhūmiḥ pūrvaiṣā sṛṣṭir ucyate 39 guṇāḥ pūrvasya pūrvasya prāpnuvanty uttarottaram teṣāṃ yāvat tithaṃ yad yat tat tat tāvad guṇaṃ smṛtam 40 upalabhyāpsu ced gandhaṃ ke cid brūyur anaipuṇāt pṛthivyām eva taṃ vidyād āpo vāyuṃ ca saṃśritam 41 ete tu sapta puruṣā nānā viryāḥ pṛthak pṛthak nāśaknuvan prajāḥ sraṣṭum asamāgamya sarvataḥ 42 te sametya mahātmānam anyonyam abhisaṃśritāḥ śarīrāśrayaṇaṃ prāptās tataḥ puruṣa ucyate 43 śrayaṇāc charīraṃ bhavati mūrtimat sodaśātmakam tad āviśanti bhūtāni mahānti saha karmaṇā 44 sarvabhūtāni cādāya tapasaś caraṇāya ca ādikartā mahābhūtaṃ tam evāhuḥ prajāpatim 45 sa vai sṛjati bhūtāni sa eva puruṣaḥ paraḥ ajo janayate brahmā devarṣipitṛmānavān 46 lokān nadīḥ samudrāṃś ca diśaḥ śailān vanaspatīn narakiṃnara rakṣāṃsi vayaḥ paśumṛgoragān avyayaṃ ca vyayaṃ caiva dvayaṃ sthāvarajaṅgamam 47 teṣāṃ ye yāni karmāṇi prāk sṛṣṭyāṃ pratipedire tāny eva pratipadyante sṛjyamānāḥ punaḥ punaḥ 48 hiṃsrāhiṃsre mṛdu krūre dharmādharme ṛtānṛte ato yan manyate dhātā tasmāt tat tasya rocate 49 mahābhūteṣu nānātvam indriyārtheṣu mūrtiṣu viniyogaṃ ca bhūtānāṃ dhātaiva vidadhāty uta 50 ke cit puruṣakāraṃ tu prāhuḥ karmavido janāḥ daivam ity apare viprāḥ svabhāvaṃ bhūtacintakāḥ 51 pauruṣaṃ karma daivaṃ ca phalavṛtti svabhāvataḥ traya ete 'pṛthag būtā navivekaṃ tu ke cana 52 evam etac ca naivaṃ ca yad bhūtaṃ sṛjate jagat karmasthā viṣamaṃ brūyuḥ sattvasthāḥ samadarśinaḥ 53 tapo niḥśreyasaṃ jantos tasya mūlaṃ damaḥ śamaḥ tena sarvān avāpnoti yān kāmān manasecchati 54 tapasā tad avāpnoti yad bhūtaṃ sṛjate jagat sa tad bhūtaś ca sarveṣāṃ bhūtānāṃ bhavati prabhuḥ 55 ṛṣayas tapasā vedān adhyaiṣanta divāniśam anādi nidhanā nityā vāg utsṛṣṭā svayambhuvā 56 ṛṣīṇāṃ nāmadheyāni yāś ca vedeṣu sṛṣṭayaḥ śarvary anteṣu jātānāṃ tāny evaibhyo dadāti saḥ 57 nāma bhedas tapaḥ karma yajñākhyā lokasiddhayaḥ ātmasiddhis tu vedeṣu procyate daśabhiḥ kramaiḥ 58 yad uktaṃ vedavādeṣu gahanaṃ veda dṛṣṭibhiḥ tad anteṣu yathā yuktaṃ kramayogena lakṣyate 59 karmajo 'yaṃ pṛthagbhāvo dvandvayukto viyoginaḥ ātmasiddhis tu vijñātā jahāti prāyaśo balam 60 dve brahmaṇī veditavye śabdabrahma paraṃ ca yat śabdabrahmaṇi niṣṇātaḥ paraṃ brahmādhigacchati 61 ārambha yajñāḥ kṣatrasya havir yajñā viśas tathā paricārayajñāḥ śūdrās tu tapoyajñā dvijātayaḥ 62 tretāyuge vidhis tv eṣāṃ yajñānāṃ na kṛte yuge dvāpare viplavaṃ yānti yajñāḥ kaliyuge tathā 63 apṛthag dharmiṇo martyā ṛk sāmāni yajūṃsi ca kāmyāṃ puṣṭiṃ pṛthag dṛṣṭvā tapobhis tapa eva ca 64 tretāyāṃ tu samastās te prādurāsan mahābalāḥ saṃyantāraḥ sthāvarāṇāṃ jaṅgamānāṃ ca sarvaśaḥ 65 tretāyāṃ saṃhatā hy ete yajñā varṇās tathaiva ca saṃrodhād āyuṣas tv ete vyasyante dvāpare yuge 66 dṛśyante nāpi dṛśyante vedāḥ kaliyuge 'khilāḥ utsīdante sayajñāś ca kevalā dharmasetavaḥ 67 kṛte yuge yas tu dharmo brāhmaṇeṣu pradṛśyate ātmavatsu tapovatsu śrutavatsu pratiṣṭhitaḥ 68 adharmavratasaṃyogaṃ yathā dharmaṃ yuge yuge vikriyante svadharmasthā vedavādā yathā yugam 69 yathā viśvāni bhūtāni vṛṣṭyā bhūyāṃsi prāvṛṣi sṛjyante jaṅgamasthāni tathā dharmā yuge yuge 70 yathartuṣv ṛtuliṅgāni nānārūpāṇi paryaye dṛśyante tāni tāny eva tathā brahmāha rātriṣu 71 vihitaṃ kālanānātvam anādi nidhanaṃ tathā kīrtitaṃ yat purastāt te tat sūte cātti ca prajāḥ 72 dadhāti prabhave sthānaṃ bhūtānāṃ saṃyamo yamaḥ svabhāvenaiva vartante dvandvayuktāni bhūriśaḥ 73 sargaḥ kālaḥ kriyā vedāḥ kartā kāryaṃ kriyāphalam proktaṃ te putra sarvaṃ vai yan māṃ tvaṃ paripṛcchasi 74 pratyāhāraṃ tu vakṣyāmi śarvary ādau gate 'hani yathedaṃ kurute 'dhyātmaṃ susūkṣmaṃ viśvam īśvaraḥ 75 divi sūryās tathā sapta dahanti śikhino 'rciṣā sarvam etat tadārcirbhiḥ pūrṇaṃ jājvalyate jagat |
The Mahabharata in Sanskrit
Book 12
Chapter 225
|
1
[वयास] पृथिव्यां यानि भूतानि जङ्गमानि धरुवाणि च तान्य एवाग्रे परलीयन्ते भूमित्वम उपयान्ति च 2 ततः परलीने सर्वस्मिन सथावरे जङ्गमे तथा अकाष्ठा निस्तृणा भूमिर दृश्यते कूर्मपृष्ठवत 3 भूमेर अपि गुणं गन्धम आप आददते यदा आत्तगन्धा तदा भूमिः परलयत्वाय कल्पते 4 आपस ततः परतिष्ठन्ति ऊर्मिमत्यॊ महास्वनाः सर्वम एवेदम आपूर्य तिष्ठन्ति च चरन्ति च 5 अपाम अपि गुणांस तात जयॊतिर आददते यदा आपस तदा आत्तगुणा जयॊतिष्य उपरमन्ति च 6 यदादित्यं सथितं मध्ये गूहन्ति शिखिनॊ ऽरचिषः सर्वम एवेदम अर्चिर्भिः पूर्णं जाज्वल्यते नभः 7 जयॊतिषॊ ऽपि गुणं रूपं वायुर आददते यदा परशाम्यति तदा जयॊतिर वायुर दॊधूयते महान 8 ततस तु मूलम आसाद्य वायुः संभवम आत्मनः अधश चॊर्ध्वं च तिर्यक च दॊधवीति दिशॊ दश 9 वाय्यॊर अपि गुणं सपर्शम आकाशं गरसते यदा परशाम्यति तदा वायुः खं तु तिष्ठति नानदत 10 आकाशस्य गुणं शब्दम अभिव्यक्तात्मकं मनः मनसॊ वयक्तम अव्यक्तं बराह्मः स परतिसंचरः 11 तद आत्मगुणम आविश्य मनॊ गरसति चन्द्रमः मनस्य उपरते ऽधयात्मा चन्द्रमस्य अवतिष्ठते 12 तं तु कालेन महता संकल्पः कुरुते वशे चित्तं गरसति संकल्पस तच च जञानम अनुत्तमम 13 कालॊ गिरति विज्ञानं कालॊ बलम इति शरुतिः बलं कालॊ गरसति तु तं विद्वान कुरुते वशे 14 आकाशस्य तदा घॊषं तं विद्वान कुरुत आत्मनि तद अव्यक्तं परं बरह्म तच छाश्वतम अनुत्तमम एवं सर्वाणि भूतानि बरह्मैव परतिसंचरः 15 यथावत कीर्तितं सम्यग एवम एतद असंशयम बॊध्यं विद्यामयं दृष्ट्वा यॊगिभिः परमात्मभिः 16 एवं विस्तार संक्षेपौ बरह्माव्यक्ते पुनः पुनः युगसाहस्रयॊर आदाव अह्नॊ रात्र्यास तथैव च |
1
[vyāsa] pṛthivyāṃ yāni bhūtāni jaṅgamāni dhruvāṇi ca tāny evāgre pralīyante bhūmitvam upayānti ca 2 tataḥ pralīne sarvasmin sthāvare jaṅgame tathā akāṣṭhā nistṛṇā bhūmir dṛśyate kūrmapṛṣṭhavat 3 bhūmer api guṇaṃ gandham āpa ādadate yadā āttagandhā tadā bhūmiḥ pralayatvāya kalpate 4 āpas tataḥ pratiṣṭhanti ūrmimatyo mahāsvanāḥ sarvam evedam āpūrya tiṣṭhanti ca caranti ca 5 apām api guṇāṃs tāta jyotir ādadate yadā āpas tadā āttaguṇā jyotiṣy uparamanti ca 6 yadādityaṃ sthitaṃ madhye gūhanti śikhino 'rciṣaḥ sarvam evedam arcirbhiḥ pūrṇaṃ jājvalyate nabhaḥ 7 jyotiṣo 'pi guṇaṃ rūpaṃ vāyur ādadate yadā praśāmyati tadā jyotir vāyur dodhūyate mahān 8 tatas tu mūlam āsādya vāyuḥ saṃbhavam ātmanaḥ adhaś cordhvaṃ ca tiryak ca dodhavīti diśo daśa 9 vāyyor api guṇaṃ sparśam ākāśaṃ grasate yadā praśāmyati tadā vāyuḥ khaṃ tu tiṣṭhati nānadat 10 ākāśasya guṇaṃ śabdam abhivyaktātmakaṃ manaḥ manaso vyaktam avyaktaṃ brāhmaḥ sa pratisaṃcaraḥ 11 tad ātmaguṇam āviśya mano grasati candramaḥ manasy uparate 'dhyātmā candramasy avatiṣṭhate 12 taṃ tu kālena mahatā saṃkalpaḥ kurute vaśe cittaṃ grasati saṃkalpas tac ca jñānam anuttamam 13 kālo girati vijñānaṃ kālo balam iti śrutiḥ balaṃ kālo grasati tu taṃ vidvān kurute vaśe 14 ākāśasya tadā ghoṣaṃ taṃ vidvān kuruta ātmani tad avyaktaṃ paraṃ brahma tac chāśvatam anuttamam evaṃ sarvāṇi bhūtāni brahmaiva pratisaṃcaraḥ 15 yathāvat kīrtitaṃ samyag evam etad asaṃśayam bodhyaṃ vidyāmayaṃ dṛṣṭvā yogibhiḥ paramātmabhiḥ 16 evaṃ vistāra saṃkṣepau brahmāvyakte punaḥ punaḥ yugasāhasrayor ādāv ahno rātryās tathaiva ca |
The Mahabharata in Sanskrit
Book 12
Chapter 226
|
1
[वयास] भूतग्रामे नियुक्तं यत तद एतत कीर्तितं मया बराह्मणस्य तु यत्कृत्यं तत ते वक्ष्यामि पृच्छते 2 जातकर्मप्रभृत्य अस्य कर्मणां दक्षिणावताम करिया सयाद आ समावृत्तेर आचार्ये वेदपारगे 3 अधीत्य वेदान अखिलान गुरु शुश्रूसने रतः गुरूणाम अनृणॊ भूत्वा समावर्तेत यज्ञवित 4 आचार्येणाभ्यनुज्ञातश चतुर्णाम एकम आश्रमम आ विमॊक्षाच छरीरस्य सॊ ऽनुतिष्ठेद यथाविधि 5 परजा सर्गेण दारैश च बरह्मचर्येण वा पुनः वने गुरु सकाशे वा यति धर्मेण वा पुनः 6 गृहस्थस तव एव सर्वेषां चतुर्णां मूलम उच्यते तत्र पक्वकसायॊ हि दन्तः सर्वत्र सिध्यति 7 परजावाञ शरॊत्रियॊ यज्वा मुक्तॊ दिव्यैस तरिभिर ऋणैः अथान्यान आश्रमान पश्चात पूतॊ गच्छति कर्मभिः 8 यत पृथिव्यां पुण्यतमं विद्या सथानं तदावसेत यतेत तस्मिन परामान्यं गन्तुं यशसि चॊत्तमे 9 तपसा वा सुमहता विद्यानां पारणेन वा इज्यया वा परदानैर वा विप्राणां वर्धते यशः 10 यावद अस्य भवत्य अस्मिँल लॊके कीर्तिर यशस्करी तावत पुण्यकृताँल लॊकान अनन्तान पुरुषाश्नुते 11 अध्यापयेद अधीयीत याजयेत यजेत च न वृथा परतिगृह्णीयान न च दद्यात कथंचनन 12 याज्यतः शिष्यतॊ वापि कन्यया वा धनं महत यद्य आगच्छेद यजेद दद्यान नैकॊ ऽशनीयात कथं चन 13 गृहम आवसतॊ हय अस्य नान्यत तीर्थं परतिग्रहात देवर्षिपितृगुर्व अर्थं वृद्धातुल बुभुक्षताम 14 अन्तर्हिताभिप्तप्तानां यथाशक्ति बुभूसताम दरव्याणाम अतिशक्त्यापि देयम एषां कृताद अपि 15 अर्हताम अनुरूपाणां नादेयं हय अस्ति किं चन उच्चैःश्रवसम अप्य अश्वं परापनीयं सतां विदुः 16 अनुनीय तथा काव्यः सत्यसंधॊ महाव्रतः सवैः पराणैर बराह्मण परानान परित्राय दिवं गतः 17 रन्ति देवश च सांकृत्यॊ वसिष्ठाय महात्मने अपः परदाय शीतॊष्णा नाकपृष्ठे महीयते 18 आत्रेयश चन्द्र दमयॊर अर्हतॊर विविधं धनम दत्त्वा लॊकान ययौ धीमान अनन्तान स महीपतिः 19 शिबिरौशीनरॊ ऽङगानि सुतं च परियम औरसम बराह्मणार्थम उपाकृत्य नाकपृष्ठम इतॊ गतः 20 परतर्दनः काशिपतिः परदाय नयने सवके बराह्मणायातुलां कीर्तिम इह चामुत्र चाश्नुते 21 दिव्यं मृष्टशलाकं तु सौवर्णं परमर्द्धिमत छत्रं देवावृधॊ दत्त्वा सरास्त्रॊ ऽभयपतद दिवम 22 सांकृतिश च तथात्रेयः शिष्येभ्यॊ बरह्म निर्गुणम उपदिश्य महातेजा गतॊ लॊकान अनुत्तमान 23 अम्बरीसॊ गवां दत्त्वा बराह्मणेभ्यः परतापवान अर्बुदानि दशैकं च सरास्त्रॊ ऽभयपतद दिवम 24 सावित्री कुन्दले दिव्ये शरीरं जनमेजयः बराह्मणार्थे परित्यज्य जग्मतुर लॊकम उत्तमम 25 सर्वरत्नं वृषादर्भॊ युवनाश्वः परियाः सत्रियः रम्यम आवसथं चैव दत्त्वामुं लॊकम आस्थितः 26 निमी रास्थं च वैदेहॊ जामदग्न्यॊ वसुंधराम बराह्मणेभ्यॊ ददौ चापि गयश चॊर्वीं सपत्तनाम 27 अवर्षति च पर्जन्ये सर्वभूतानि चासकृत वसिष्ठॊ जीवयाम आस परजापतिर इव परजाः 28 करंधमस्य पुत्रस तु मरुत्तॊ नृपतिस तथा कन्याम अङ्गिरसे दत्त्वा दिवम आशु जगाम ह 29 बरह्मदत्तश च पाञ्चाल्यॊ राजा बुद्धिमतां वरः निधिं शङ्खं दविजाग्र्येभ्यॊ दत्त्वा लॊकान अवाप्तवान 30 राजा मित्रसहश चापि वसिष्ठाय महात्मने मदयन्तीं परियां दत्त्वा तया सह दिवं गतः 31 सहस्रजिच च राजर्षिः परानान इष्टान महायशः बराह्मणार्थे परित्यज्य गतॊ लॊकान अनुत्तमान 32 सर्वकामैश च संपूर्णं दत्त्वा वेश्म हिरन मयम मुद्गलाय गतः सवर्गं शतद्युम्नॊ महीपतिः 33 नाम्ना च दयुतिमान नाम शाल्वराजः परतापवान दत्त्वा राज्यम ऋचीकाय गतॊ लॊकान अनुत्तमान 34 मदिराश्वश च राजर्षिर दत्त्वा कन्यां सुमध्यमाम हिरण्यहस्ताय गतॊ लॊकान देवैर अभिष्टुतान 35 लॊमपादश च राजर्षिः शान्तां दत्त्वा सुतां परभुः ऋश्यशृङ्गाय विपुलैः सर्वकामैर अयुज्यत 36 दत्त्वा शतसहस्रं तु गवां राजा परसेनजित सवत्सानां महातेजा गतॊ लॊकान अनुत्तमान 37 एते चान्ये च बहवॊ दानेन तपसा च ह महात्मानॊ गताः सवर्गं शिष्टात्मानॊ जितेन्द्रियाः 38 तेषां परतिष्ठिता कीर्तिर यावत सथास्यति मेदिनी दानयज्ञप्रजा सर्गैर एते हि दिवम आप्नुवन |
1
[vyāsa] bhūtagrāme niyuktaṃ yat tad etat kīrtitaṃ mayā brāhmaṇasya tu yatkṛtyaṃ tat te vakṣyāmi pṛcchate 2 jātakarmaprabhṛty asya karmaṇāṃ dakṣiṇāvatām kriyā syād ā samāvṛtter ācārye vedapārage 3 adhītya vedān akhilān guru śuśrūsane rataḥ gurūṇām anṛṇo bhūtvā samāvarteta yajñavit 4 ācāryeṇābhyanujñātaś caturṇām ekam āśramam ā vimokṣāc charīrasya so 'nutiṣṭhed yathāvidhi 5 prajā sargeṇa dāraiś ca brahmacaryeṇa vā punaḥ vane guru sakāśe vā yati dharmeṇa vā punaḥ 6 gṛhasthas tv eva sarveṣāṃ caturṇāṃ mūlam ucyate tatra pakvakasāyo hi dantaḥ sarvatra sidhyati 7 prajāvāñ śrotriyo yajvā mukto divyais tribhir ṛṇaiḥ athānyān āśramān paścāt pūto gacchati karmabhiḥ 8 yat pṛthivyāṃ puṇyatamaṃ vidyā sthānaṃ tadāvaset yateta tasmin prāmānyaṃ gantuṃ yaśasi cottame 9 tapasā vā sumahatā vidyānāṃ pāraṇena vā ijyayā vā pradānair vā viprāṇāṃ vardhate yaśaḥ 10 yāvad asya bhavaty asmiṁl loke kīrtir yaśaskarī tāvat puṇyakṛtāṁl lokān anantān puruṣāśnute 11 adhyāpayed adhīyīta yājayeta yajeta ca na vṛthā pratigṛhṇīyān na ca dadyāt kathaṃcanan 12 yājyataḥ śiṣyato vāpi kanyayā vā dhanaṃ mahat yady āgacched yajed dadyān naiko 'śnīyāt kathaṃ cana 13 gṛham āvasato hy asya nānyat tīrthaṃ pratigrahāt devarṣipitṛgurv arthaṃ vṛddhātula bubhukṣatām 14 antarhitābhiptaptānāṃ yathāśakti bubhūsatām dravyāṇām atiśaktyāpi deyam eṣāṃ kṛtād api 15 arhatām anurūpāṇāṃ nādeyaṃ hy asti kiṃ cana uccaiḥśravasam apy aśvaṃ prāpanīyaṃ satāṃ viduḥ 16 anunīya tathā kāvyaḥ satyasaṃdho mahāvrataḥ svaiḥ prāṇair brāhmaṇa prānān paritrāya divaṃ gataḥ 17 ranti devaś ca sāṃkṛtyo vasiṣṭhāya mahātmane apaḥ pradāya śītoṣṇā nākapṛṣṭhe mahīyate 18 ātreyaś candra damayor arhator vividhaṃ dhanam dattvā lokān yayau dhīmān anantān sa mahīpatiḥ 19 śibirauśīnaro 'ṅgāni sutaṃ ca priyam aurasam brāhmaṇārtham upākṛtya nākapṛṣṭham ito gataḥ 20 pratardanaḥ kāśipatiḥ pradāya nayane svake brāhmaṇāyātulāṃ kīrtim iha cāmutra cāśnute 21 divyaṃ mṛṣṭaśalākaṃ tu sauvarṇaṃ paramarddhimat chatraṃ devāvṛdho dattvā sarāstro 'bhyapatad divam 22 sāṃkṛtiś ca tathātreyaḥ śiṣyebhyo brahma nirguṇam upadiśya mahātejā gato lokān anuttamān 23 ambarīso gavāṃ dattvā brāhmaṇebhyaḥ pratāpavān arbudāni daśaikaṃ ca sarāstro 'bhyapatad divam 24 sāvitrī kundale divye śarīraṃ janamejayaḥ brāhmaṇārthe parityajya jagmatur lokam uttamam 25 sarvaratnaṃ vṛṣādarbho yuvanāśvaḥ priyāḥ striyaḥ ramyam āvasathaṃ caiva dattvāmuṃ lokam āsthitaḥ 26 nimī rāsthaṃ ca vaideho jāmadagnyo vasuṃdharām brāhmaṇebhyo dadau cāpi gayaś corvīṃ sapattanām 27 avarṣati ca parjanye sarvabhūtāni cāsakṛt vasiṣṭho jīvayām āsa prajāpatir iva prajāḥ 28 karaṃdhamasya putras tu marutto nṛpatis tathā kanyām aṅgirase dattvā divam āśu jagāma ha 29 brahmadattaś ca pāñcālyo rājā buddhimatāṃ varaḥ nidhiṃ śaṅkhaṃ dvijāgryebhyo dattvā lokān avāptavān 30 rājā mitrasahaś cāpi vasiṣṭhāya mahātmane madayantīṃ priyāṃ dattvā tayā saha divaṃ gataḥ 31 sahasrajic ca rājarṣiḥ prānān iṣṭān mahāyaśaḥ brāhmaṇārthe parityajya gato lokān anuttamān 32 sarvakāmaiś ca saṃpūrṇaṃ dattvā veśma hiran mayam mudgalāya gataḥ svargaṃ śatadyumno mahīpatiḥ 33 nāmnā ca dyutimān nāma śālvarājaḥ pratāpavān dattvā rājyam ṛcīkāya gato lokān anuttamān 34 madirāśvaś ca rājarṣir dattvā kanyāṃ sumadhyamām hiraṇyahastāya gato lokān devair abhiṣṭutān 35 lomapādaś ca rājarṣiḥ śāntāṃ dattvā sutāṃ prabhuḥ ṛśyaśṛṅgāya vipulaiḥ sarvakāmair ayujyata 36 dattvā śatasahasraṃ tu gavāṃ rājā prasenajit savatsānāṃ mahātejā gato lokān anuttamān 37 ete cānye ca bahavo dānena tapasā ca ha mahātmāno gatāḥ svargaṃ śiṣṭātmāno jitendriyāḥ 38 teṣāṃ pratiṣṭhitā kīrtir yāvat sthāsyati medinī dānayajñaprajā sargair ete hi divam āpnuvan |
The Mahabharata in Sanskrit
Book 12
Chapter 227
|
1
[वयास] तरयी विद्याम अवेक्षेत वेदेषूक्ताम अथाङ्गतः ऋक साम वर्णाक्षरतॊ यजुषॊ ऽथर्वणस तथा 2 वेदवादेषु कुशला हय अध्यात्मकुशलाश च ये सत्त्ववन्तॊ महाभागाः पश्यन्ति परभवाप्ययौ 3 एवं धर्मेण वर्तेत करियाः शिष्टवद आचरेत असंरॊधेन भूतानां वृत्तिं लिप्सेत वै दविजः 4 सद्भ्य आगतविज्ञानः शिष्टः शास्त्रविचक्षणः सवधर्मेण करिया लॊके कुर्वाणः सत्यसंगरः 5 तिष्ठत्य एतेषु गृहवान सः सुकर्मसु स दविजः पञ्चभिः सततं यज्ञैः शरद्दधानॊ यजेत च 6 धृतिमान अप्रमत्तश च दान्तॊ धर्मविद आत्मवान वीतहर्षभयक्रॊधॊ बराह्मणॊ नावसीदति 7 दानम अध्ययनं यज्ञस तपॊ हरीर आर्जवं दमः एतैर वर्धयते तेजः पाप्मानं चापकर्षति 8 धूतपाप्मा तु मेधावी लघ्व आहारॊ जितेन्द्रियः कामक्रॊधौ वशे कृत्वा निनीसेद बरह्मणः पदम 9 अग्नींश च बराह्मणांश चार्चेद देवताः परनमेत च वर्जयेद रुषतीं वाचं हिंसां चाधर्मसंहिताम 10 एषा पूर्वतरा वृत्तिर बराह्मणस्य विधीयते जञानागमेन कर्माणि कुर्वन कर्मसु सिध्यति 11 पञ्चेन्द्रिय जलां घॊरां लॊभकूलां सुदुस्तराम मन्युपङ्काम अनाधृष्यां नदीं तरति बुद्धिमान 12 माक मन्यूद्धतं यत सयान नित्यम अत्यन्तमॊहितम महता विधिदृष्टेन बलेनाप्रतिघातिना सवभावस्रॊतसा वृत्तम उह्यते सततं जगत 13 कालॊदकेन महता वर्षावर्तेन संततम मासॊर्मिणर्तु वेगेन पक्षॊलप तृणेन च 14 निमेषॊन्मेष फेनेन अहॊरात्र जवेन च कामग्राहेण घॊरेण वेद यज्ञप्लवेन च 15 धर्मद्वीपेन भूतानां चार्थकामरवेण च ऋतसॊपानतीरेण विहिंसा तरुवाहिना 16 युगह्रदौघमध्येन बरह्म परायभवेन च धात्रा सृष्टानि भूतानि कृष्यन्ते यमसादनम 17 एतत परज्ञामयैर धीरा निस्तरन्ति मनीषिणः पलवैर अप्लववन्तॊ हि किं करिष्यन्त्य अचेतसः 18 उपपन्नं हि यत पराज्ञॊ निस्तरेन नेतरॊ जनः दूरतॊ गुणदॊषौ हि पराज्ञः सर्वत्र पश्यति 19 संशयात्मा स कामात्मा चलचित्तॊ ऽलपचेतनः अप्राज्ञॊ न तरत्य एव यॊ हय आस्ते न स गच्छति 20 अप्लवॊ हि महादॊषम उह्यमानॊ ऽधिगच्छति कामग्राहगृहीतस्य जञानम अप्य अस्य न पलवः 21 तस्माद उन्मज्जनस्यार्थे परयतेत विचक्षणः एतद उन्मज्जनं तस्य यद अयं बराह्मणॊ भवेत 22 तर्यवदाते कुले जातस तरिसंदेहस तरिकर्मकृत तस्माद उन्मज्जनस तिष्ठेन निस्तरेत परज्ञया यथा 23 संस्कृतस्य हि दान्तस्य नियतस्य कृतात्मनः पराज्यस्यानन्तरा सिद्धिर इह लॊके परत्र च 24 वर्तते तेषु गृहवान अक्रुध्यन्न अनसूयकः पञ्चभिः सततं यज्ञैर विघसाशी यजेत च 25 सतां वृत्तेन वर्तेत करियाः शिष्टवद आचरेत असंरॊधेन धर्मस्य वृत्तिं लिप्सेद अगर्हिताम 26 शरुतिविज्ञानतत्त्वज्ञः शिष्टाचारॊ विचक्षणः सवधर्मेण करियावांश च कर्मणा सॊ ऽपय असंकरः 27 करियावाञ शरद्दधानश च दाता पराज्ञॊ ऽनसूयकः धर्माधर्मविशेषज्ञः सर्वं तरति दुस्तरम 28 धृतिमान अप्रमत्तश च दान्तॊ धर्मविद आत्मवान वीतहर्षभयक्रॊधॊ बराह्मणॊ नावसीदति 29 एषा पूर्वतरा वृत्तिर बराह्मणस्य विधीयते जञानवित्त्वेन कर्माणि कुर्वन सर्वत्र सिध्यति 30 अधर्मं धर्मकामॊ हि करॊतीहाविचक्षणः धर्मं चाधर्मसंकाशं शॊचन्न इव करॊति सः 31 धर्मं करॊमीति करॊत्य अधर्मम; अधर्मकामश च करॊति धर्मम उभे बालः कर्मणी न परजानन; स जायते मरियते चापि देही |
1
[vyāsa] trayī vidyām avekṣeta vedeṣūktām athāṅgataḥ ṛk sāma varṇākṣarato yajuṣo 'tharvaṇas tathā 2 vedavādeṣu kuśalā hy adhyātmakuśalāś ca ye sattvavanto mahābhāgāḥ paśyanti prabhavāpyayau 3 evaṃ dharmeṇa varteta kriyāḥ śiṣṭavad ācaret asaṃrodhena bhūtānāṃ vṛttiṃ lipseta vai dvijaḥ 4 sadbhya āgatavijñānaḥ śiṣṭaḥ śāstravicakṣaṇaḥ svadharmeṇa kriyā loke kurvāṇaḥ satyasaṃgaraḥ 5 tiṣṭhaty eteṣu gṛhavān saḥ sukarmasu sa dvijaḥ pañcabhiḥ satataṃ yajñaiḥ śraddadhāno yajeta ca 6 dhṛtimān apramattaś ca dānto dharmavid ātmavān vītaharṣabhayakrodho brāhmaṇo nāvasīdati 7 dānam adhyayanaṃ yajñas tapo hrīr ārjavaṃ damaḥ etair vardhayate tejaḥ pāpmānaṃ cāpakarṣati 8 dhūtapāpmā tu medhāvī laghv āhāro jitendriyaḥ kāmakrodhau vaśe kṛtvā ninīsed brahmaṇaḥ padam 9 agnīṃś ca brāhmaṇāṃś cārced devatāḥ pranameta ca varjayed ruṣatīṃ vācaṃ hiṃsāṃ cādharmasaṃhitām 10 eṣā pūrvatarā vṛttir brāhmaṇasya vidhīyate jñānāgamena karmāṇi kurvan karmasu sidhyati 11 pañcendriya jalāṃ ghorāṃ lobhakūlāṃ sudustarām manyupaṅkām anādhṛṣyāṃ nadīṃ tarati buddhimān 12 māka manyūddhataṃ yat syān nityam atyantamohitam mahatā vidhidṛṣṭena balenāpratighātinā svabhāvasrotasā vṛttam uhyate satataṃ jagat 13 kālodakena mahatā varṣāvartena saṃtatam māsormiṇartu vegena pakṣolapa tṛṇena ca 14 nimeṣonmeṣa phenena ahorātra javena ca kāmagrāheṇa ghoreṇa veda yajñaplavena ca 15 dharmadvīpena bhūtānāṃ cārthakāmaraveṇa ca ṛtasopānatīreṇa vihiṃsā taruvāhinā 16 yugahradaughamadhyena brahma prāyabhavena ca dhātrā sṛṣṭāni bhūtāni kṛṣyante yamasādanam 17 etat prajñāmayair dhīrā nistaranti manīṣiṇaḥ plavair aplavavanto hi kiṃ kariṣyanty acetasaḥ 18 upapannaṃ hi yat prājño nistaren netaro janaḥ dūrato guṇadoṣau hi prājñaḥ sarvatra paśyati 19 saṃśayātmā sa kāmātmā calacitto 'lpacetanaḥ aprājño na taraty eva yo hy āste na sa gacchati 20 aplavo hi mahādoṣam uhyamāno 'dhigacchati kāmagrāhagṛhītasya jñānam apy asya na plavaḥ 21 tasmād unmajjanasyārthe prayateta vicakṣaṇaḥ etad unmajjanaṃ tasya yad ayaṃ brāhmaṇo bhavet 22 tryavadāte kule jātas trisaṃdehas trikarmakṛt tasmād unmajjanas tiṣṭhen nistaret prajñayā yathā 23 saṃskṛtasya hi dāntasya niyatasya kṛtātmanaḥ prājyasyānantarā siddhir iha loke paratra ca 24 vartate teṣu gṛhavān akrudhyann anasūyakaḥ pañcabhiḥ satataṃ yajñair vighasāśī yajeta ca 25 satāṃ vṛttena varteta kriyāḥ śiṣṭavad ācaret asaṃrodhena dharmasya vṛttiṃ lipsed agarhitām 26 śrutivijñānatattvajñaḥ śiṣṭācāro vicakṣaṇaḥ svadharmeṇa kriyāvāṃś ca karmaṇā so 'py asaṃkaraḥ 27 kriyāvāñ śraddadhānaś ca dātā prājño 'nasūyakaḥ dharmādharmaviśeṣajñaḥ sarvaṃ tarati dustaram 28 dhṛtimān apramattaś ca dānto dharmavid ātmavān vītaharṣabhayakrodho brāhmaṇo nāvasīdati 29 eṣā pūrvatarā vṛttir brāhmaṇasya vidhīyate jñānavittvena karmāṇi kurvan sarvatra sidhyati 30 adharmaṃ dharmakāmo hi karotīhāvicakṣaṇaḥ dharmaṃ cādharmasaṃkāśaṃ śocann iva karoti saḥ 31 dharmaṃ karomīti karoty adharmam; adharmakāmaś ca karoti dharmam ubhe bālaḥ karmaṇī na prajānan; sa jāyate mriyate cāpi dehī |
The Mahabharata in Sanskrit
Book 12
Chapter 228
|
1
[वयास] अथ चेद रॊचयेद एतद दरुह्येत मनसा तथा उन्मज्जंश च निमज्जंश च जञानवान पलववान भवेत 2 परज्ञया निर्मितैर धीरास तारयन्त्य अबुधान पलवैः नाबुधास तारयन्त्य अन्यान आत्मानं वा कथं चन 3 छिन्नदॊषॊ मुनिर यॊगान युक्तॊ युञ्जीत दवादश दश कर्म सुखान अर्थान उपायापाय निर्भयः 4 चक्रुर आचारवित पराज्ञॊ मनसा दर्शनेन च यच्छेद वान मनसी बुद्ध्या य इच्छेज जञानम उत्तमम जञानेन यच्छेद आत्मानं य इच्छेच छान्तिम आत्मनः 5 एतेषां चेद अनुद्रस्ता पुरुषापि सुदारुणः यदि वा सर्ववेदज्ञॊ यदि वाप्य अनृचॊ ऽजपः 6 यदि वा धार्मिकॊ यज्वा यदि वा पापकृत्तमः यदि वा पुरुषव्याघ्रॊ यदि वा कलैव्य धारिता 7 तरत्य एव महादुर्गं जरामरणसागरम एवं हय एतेन यॊगेन युञ्जानॊ ऽपय एकम अन्ततः अपि जिज्ञासमानॊ हि शब्दब्रह्मातिवर्तते 8 धर्मॊपस्थॊ हरीवरूथ उपायापाय कूवरः अपानाक्षः पराण युगः परज्ञायुर जीव बन्धनः 9 चेतना बन्धुरश चारुर आचार गरहनेमिवान दर्शनस्पर्शन वहॊ घराणश्रवण वाहनः 10 परज्ञा नाभिः सर्वतन्त्र परतॊदॊ जञानसारथिः कषेत्रज्ञाधिष्ठितॊ धीरः शरद्धा दमपुरःसरः 11 तयागवर्त्मानुगः कषेम्यः शौचगॊ धयानगॊचरः जीव युक्तॊ रथॊ दिव्यॊ बरह्मलॊके विराजते 12 अथ संत्वरमाणस्य रथम एतं युयुक्षतः अक्षरं गन्तुमनसॊ विधिं वक्ष्यामि शीघ्रगम 13 सप्त यॊ धारणाः कृत्स्ना वाग्यतः परतिपद्यते पृष्ठतः पार्श्वतश चान्या यावत्यस ताः परधारणाः 14 करमशः पार्थिवं यच च वायव्यं खं तथा पयः जयॊतिषॊ यत तद ऐश्वर्यम अहंकारस्य बुद्धितः 15 अव्यक्तस्य तथैश्वर्यं करमशः परतिपद्यते विक्रमाश चापि यस्यैत तथा युङ्क्ते स यॊगतः 16 अथास्य यॊगयुक्तस्य सिद्धिम आत्मनि पश्यतः निर्मथ्यमानः सूक्ष्मत्वाद रूपाणीमानि दर्शयेत 17 शैशिरस तु यथा धूमः सूक्ष्मः संश्रयते नभः तथा देहाद विमुक्तस्य पूर्वरूपं भवत्य उत 18 अथ धूमस्य विरमे दवितीयं रूपदर्शनम जलरूपम इवाकाशे तत्रैवात्मनि पश्यति 19 अपां वयतिक्रमे चापि वह्नि रूपं परकाशते तस्मिन्न उपरते चास्य पीतवस्त्रवद इष्यते ऊर्णा रूपसवर्णं च तस्य रूपं परकाशते 20 अथ शवेतां गतिं गत्वा वायव्यं सूक्ष्मम अप्य अजः अशुक्लं चेतसः सौक्ष्म्यम अव्यक्तं बरह्मणॊ ऽसय वै 21 एतेष्व अपि हि जातेषु फलजातानि मे शृणु जातस्य पार्थिवैश्वर्ये सृष्टिर इष्टा विधीयते 22 परजापतिर इवाक्षॊभ्यः शरीरात सृजति परजाः अङ्गुल्य अङ्गुष्ठ मात्रेण हस्तपादेन वा तथा 23 पृथिवीं कम्पयत्य एकॊ गुणॊ वायॊर इति समृतः आकाशभूतश चाकाशे सवर्णत्वात परनश्यति 24 वर्णतॊ गृह्यते चापि कामात पिबति चाशयान न चास्य तेजसा रूपं दृश्यते शाम्यते तथा 25 अहंकारस्य विजितेर पञ्चैते सयुर वशानुगाः सन्नाम आत्मनि बुद्धौ च जितायां परभवत्य अथ 26 निर्दॊषा परतिभा हय एनं कृत्स्ना समभिवर्तते तथैव वयक्तम आत्मानम अव्यक्तं परतिपद्यते 27 यतॊ निःसरते लॊकॊ भवति वयक्तसंज्ञकः तत्राव्यक्तमयीं वयाख्यां शृणु तवं विस्तरेण मे तथा वयक्तमयीं चैव संख्यां पूर्वं निबॊध मे 28 पञ्चविंशति तत्त्वानि तुल्यान्य उभयतः समम यॊगे सांख्ये ऽपि च तथा विशेषांस तत्र मे शृणु 29 परॊक्तं तद वयक्तम इत्य एव जायते वर्धते च यत जीर्यते मरियते चैव चतुर्भिर लक्षणैर युतम 30 विपरीतम अतॊ यत तु तद अब्व्यक्तम उदाहृतम दवाव आत्मानौ च वेदेषु सिधान्तेष्व अप्य उदाहृतौ 31 चतुर्लक्षणजं तव अन्यं चतु वर्गं परचक्षते वयक्तम अव्यक्तजं चैव तथा बुद्धम अथेतरत सत्त्वं कषेत्रज्ञ इत्य एतद दवयम अप्य अनुदर्शितम 32 दवाव आत्मनौ च वेदेषु विषयेषु च रज्यतः विषयात परतिसंहारः सांख्यानां सिद्धिलक्षणम 33 निर्ममश चानहंकारॊ निर्द्वन्द्वश छिन्नसंशयः नैव करुध्यति न दवेष्टि नानृता भासते गिरः 34 आक्रुष्टस तादितश चैव मित्रेण धयाति नाशुभम वाग दन्द कर्म मनसां तरयाणां च निवर्तकः 35 समः सर्वेषु भूतेषु बरह्माणम अभिवर्तते नैवेच्छति न चानिच्छॊ यात्रा मात्रव्यवस्थितः 36 अलॊलुपॊ ऽवयथॊ दान्तॊ न कृती न निराकृतिः नास्येन्द्रियम अनेकाग्रं नातिक्षिप्त मनॊरथः अहिंस्रः सर्वभूतानाम ईदृक सांख्यॊ विमुच्यते 37 अथ यॊगाद विमुच्यन्ते कारणैर यैर निबॊध मे यॊगैश्वर्यम अतिक्रान्तॊ यॊ ऽतिक्रामति मुच्यते 38 इत्य एषा भावजा बुद्धिः कथिता ते न संशयः एवं भवति निर्द्वन्द्वॊ बरह्माणं चाधिगच्छति |
1
[vyāsa] atha ced rocayed etad druhyeta manasā tathā unmajjaṃś ca nimajjaṃś ca jñānavān plavavān bhavet 2 prajñayā nirmitair dhīrās tārayanty abudhān plavaiḥ nābudhās tārayanty anyān ātmānaṃ vā kathaṃ cana 3 chinnadoṣo munir yogān yukto yuñjīta dvādaśa daśa karma sukhān arthān upāyāpāya nirbhayaḥ 4 cakrur ācāravit prājño manasā darśanena ca yacched vān manasī buddhyā ya icchej jñānam uttamam jñānena yacched ātmānaṃ ya icchec chāntim ātmanaḥ 5 eteṣāṃ ced anudrastā puruṣāpi sudāruṇaḥ yadi vā sarvavedajño yadi vāpy anṛco 'japaḥ 6 yadi vā dhārmiko yajvā yadi vā pāpakṛttamaḥ yadi vā puruṣavyāghro yadi vā klaivya dhāritā 7 taraty eva mahādurgaṃ jarāmaraṇasāgaram evaṃ hy etena yogena yuñjāno 'py ekam antataḥ api jijñāsamāno hi śabdabrahmātivartate 8 dharmopastho hrīvarūtha upāyāpāya kūvaraḥ apānākṣaḥ prāṇa yugaḥ prajñāyur jīva bandhanaḥ 9 cetanā bandhuraś cārur ācāra grahanemivān darśanasparśana vaho ghrāṇaśravaṇa vāhanaḥ 10 prajñā nābhiḥ sarvatantra pratodo jñānasārathiḥ kṣetrajñādhiṣṭhito dhīraḥ śraddhā damapuraḥsaraḥ 11 tyāgavartmānugaḥ kṣemyaḥ śaucago dhyānagocaraḥ jīva yukto ratho divyo brahmaloke virājate 12 atha saṃtvaramāṇasya ratham etaṃ yuyukṣataḥ akṣaraṃ gantumanaso vidhiṃ vakṣyāmi śīghragam 13 sapta yo dhāraṇāḥ kṛtsnā vāgyataḥ pratipadyate pṛṣṭhataḥ pārśvataś cānyā yāvatyas tāḥ pradhāraṇāḥ 14 kramaśaḥ pārthivaṃ yac ca vāyavyaṃ khaṃ tathā payaḥ jyotiṣo yat tad aiśvaryam ahaṃkārasya buddhitaḥ 15 avyaktasya tathaiśvaryaṃ kramaśaḥ pratipadyate vikramāś cāpi yasyaita tathā yuṅkte sa yogataḥ 16 athāsya yogayuktasya siddhim ātmani paśyataḥ nirmathyamānaḥ sūkṣmatvād rūpāṇīmāni darśayet 17 śaiśiras tu yathā dhūmaḥ sūkṣmaḥ saṃśrayate nabhaḥ tathā dehād vimuktasya pūrvarūpaṃ bhavaty uta 18 atha dhūmasya virame dvitīyaṃ rūpadarśanam jalarūpam ivākāśe tatraivātmani paśyati 19 apāṃ vyatikrame cāpi vahni rūpaṃ prakāśate tasminn uparate cāsya pītavastravad iṣyate ūrṇā rūpasavarṇaṃ ca tasya rūpaṃ prakāśate 20 atha śvetāṃ gatiṃ gatvā vāyavyaṃ sūkṣmam apy ajaḥ aśuklaṃ cetasaḥ saukṣmyam avyaktaṃ brahmaṇo 'sya vai 21 eteṣv api hi jāteṣu phalajātāni me śṛṇu jātasya pārthivaiśvarye sṛṣṭir iṣṭā vidhīyate 22 prajāpatir ivākṣobhyaḥ śarīrāt sṛjati prajāḥ aṅguly aṅguṣṭha mātreṇa hastapādena vā tathā 23 pṛthivīṃ kampayaty eko guṇo vāyor iti smṛtaḥ ākāśabhūtaś cākāśe savarṇatvāt pranaśyati 24 varṇato gṛhyate cāpi kāmāt pibati cāśayān na cāsya tejasā rūpaṃ dṛśyate śāmyate tathā 25 ahaṃkārasya vijiter pañcaite syur vaśānugāḥ sannām ātmani buddhau ca jitāyāṃ prabhavaty atha 26 nirdoṣā pratibhā hy enaṃ kṛtsnā samabhivartate tathaiva vyaktam ātmānam avyaktaṃ pratipadyate 27 yato niḥsarate loko bhavati vyaktasaṃjñakaḥ tatrāvyaktamayīṃ vyākhyāṃ śṛṇu tvaṃ vistareṇa me tathā vyaktamayīṃ caiva saṃkhyāṃ pūrvaṃ nibodha me 28 pañcaviṃśati tattvāni tulyāny ubhayataḥ samam yoge sāṃkhye 'pi ca tathā viśeṣāṃs tatra me śṛṇu 29 proktaṃ tad vyaktam ity eva jāyate vardhate ca yat jīryate mriyate caiva caturbhir lakṣaṇair yutam 30 viparītam ato yat tu tad abvyaktam udāhṛtam dvāv ātmānau ca vedeṣu sidhānteṣv apy udāhṛtau 31 caturlakṣaṇajaṃ tv anyaṃ catu vargaṃ pracakṣate vyaktam avyaktajaṃ caiva tathā buddham athetarat sattvaṃ kṣetrajña ity etad dvayam apy anudarśitam 32 dvāv ātmanau ca vedeṣu viṣayeṣu ca rajyataḥ viṣayāt pratisaṃhāraḥ sāṃkhyānāṃ siddhilakṣaṇam 33 nirmamaś cānahaṃkāro nirdvandvaś chinnasaṃśayaḥ naiva krudhyati na dveṣṭi nānṛtā bhāsate giraḥ 34 ākruṣṭas tāditaś caiva mitreṇa dhyāti nāśubham vāg danda karma manasāṃ trayāṇāṃ ca nivartakaḥ 35 samaḥ sarveṣu bhūteṣu brahmāṇam abhivartate naivecchati na cāniccho yātrā mātravyavasthitaḥ 36 alolupo 'vyatho dānto na kṛtī na nirākṛtiḥ nāsyendriyam anekāgraṃ nātikṣipta manorathaḥ ahiṃsraḥ sarvabhūtānām īdṛk sāṃkhyo vimucyate 37 atha yogād vimucyante kāraṇair yair nibodha me yogaiśvaryam atikrānto yo 'tikrāmati mucyate 38 ity eṣā bhāvajā buddhiḥ kathitā te na saṃśayaḥ evaṃ bhavati nirdvandvo brahmāṇaṃ cādhigacchati |
The Mahabharata in Sanskrit
Book 12
Chapter 229
|
1
[वयास] अथ जञानप्लवं धीरॊ गृहीत्वा शान्तिम आस्थितः उन्मज्जंश च निमज्जंश च जञानम एवाभिसंश्रयेत 2 [षुक्र] किं तज जञानम अथॊ विद्या यया निस्तरति दवयम परवृत्ति लक्षणॊ धर्मॊ निवृत्तिर इति चैव हि 3 [वयास] यस तु पश्येत सवभावेन विनाभवम अचेतनः पुष्यते च पुनः सर्वान परज्ञया मुक्तहेतुकः 4 येषां चैकान्त भावेन सवभवः कारणं मतम पूत्वा तृणबुसीकां वै ते लभन्ते न किं चन 5 ये चैनं पक्षम आश्रित्य वर्तयन्त्य अल्पचेतसः सवभावं कारणं जञात्वा न शरेयः पराप्नुवन्ति ते 6 सवभावॊ हि विनाशाय मॊहकर्म मनॊ भवः निरुक्तम एतयॊर एतत सवभावपरभावयॊः 7 कृष्यादीनि हि कर्माणि सस्यसंहरणानि च परज्ञावद्भिः परकॢप्तानि यानासनगृहाणि च 8 आक्रीदानां गृहाणां च गदानाम अगदस्य च परज्ञावन्तः परवक्तारॊ जञानवद्भिर अनुष्ठिताः 9 परज्ञा संयॊजयत्य अर्थैः परज्ञा शरेयॊ ऽधिगच्छति राजानॊ भुञ्जते राज्यं परज्ञया तुल्यलक्षणाः 10 पारावर्यं तु भूतानां जञानेनैवॊपलभ्यते विद्यया तात सृष्टानां विद्यैव परमा गतिः 11 भूतानां जन्म सर्वेषां विविधानां चतुर्विधम जरय्व अन्दम अथॊद्भेदं सवेदं चाप्य उपलक्षयेत 12 सथावरेभ्यॊ विशिष्टानि जङ्गमान्य उपलक्षयेत उपपन्नं हि यच चेष्टा विशिष्येत विशेष्ययॊः 13 आहुर दविबहु पादानि जङ्गमानि दवयानि च बहु पाद्भ्यॊ विशिष्टानि दविपादानि बहून्य अपि 14 दविपदानि दवयान्य आहुः पार्थिवानीतराणि च पार्थिवानि विशिष्टानि तानि हय अन्नानि भुञ्जते 15 पार्थिवानि दवयान्य आहुर मध्यमान्य उत्तमानि च मध्यमानि विशिष्टानि जातिधर्मॊपधारणात 16 मध्यमानि दवयान्य आहुर धर्मज्ञानीतराणि च धर्मज्ञानि विशिष्टानि कार्याकार्यॊपधारणात 17 धर्मज्ञानि दवयान्य आहुर वेदज्ञानीतराणि च वेदज्ञानि विशिष्टानि वेदॊ हय एषु परतिष्ठितः 18 वेदज्ञानि दवयान्य आहुः परवक्तॄणीतराणि च परवक्तॄणि विशिष्टानि सर्वधर्मॊपधारणात 19 विज्ञायन्ते हि यैर वेदाः सर्वधर्मक्रिया फलाः सयज्ञाः सखिला वेदाः परवक्तृभ्यॊ विनिःसृताः 20 परवक्तॄणि दवयान्य आहुर आत्मज्ञानीतराणि च आत्मज्ञानि विशिष्टानि जन्माजन्मॊपधारणात 21 धर्मद्वयं हि यॊ वेद स सर्वः सर्वधर्मविद स तयागी सत्यसंकल्पः स तु कषान्तः स ईश्वरः 22 धर्मज्ञानप्रतिष्ठं हि तं देवा बराह्मणं विदुः शब्दब्रह्मणि निष्णातं परे च कृतनिश्चयम 23 अन्तःस्थं च बहिष्ठं च ये ऽधियज्ञाधिवैवतम जानन्ति तान नमस्यामस ते देवास तात ते दविजाः 24 तेषु विश्वम इदं भूतं साग्रं च जगद आहितम तेषां माहात्म्यभावस्य सदृशं नास्ति किं चन 25 आदिं ते निधनं चैव कर्म चातीत्य सर्वशः चतुर्विधस्य भूतस्य सर्वस्येशाः सवयम्भुवः |
1
[vyāsa] atha jñānaplavaṃ dhīro gṛhītvā śāntim āsthitaḥ unmajjaṃś ca nimajjaṃś ca jñānam evābhisaṃśrayet 2 [ṣukra] kiṃ taj jñānam atho vidyā yayā nistarati dvayam pravṛtti lakṣaṇo dharmo nivṛttir iti caiva hi 3 [vyāsa] yas tu paśyet svabhāvena vinābhavam acetanaḥ puṣyate ca punaḥ sarvān prajñayā muktahetukaḥ 4 yeṣāṃ caikānta bhāvena svabhavaḥ kāraṇaṃ matam pūtvā tṛṇabusīkāṃ vai te labhante na kiṃ cana 5 ye cainaṃ pakṣam āśritya vartayanty alpacetasaḥ svabhāvaṃ kāraṇaṃ jñātvā na śreyaḥ prāpnuvanti te 6 svabhāvo hi vināśāya mohakarma mano bhavaḥ niruktam etayor etat svabhāvaparabhāvayoḥ 7 kṛṣyādīni hi karmāṇi sasyasaṃharaṇāni ca prajñāvadbhiḥ prakḷptāni yānāsanagṛhāṇi ca 8 ākrīdānāṃ gṛhāṇāṃ ca gadānām agadasya ca prajñāvantaḥ pravaktāro jñānavadbhir anuṣṭhitāḥ 9 prajñā saṃyojayaty arthaiḥ prajñā śreyo 'dhigacchati rājāno bhuñjate rājyaṃ prajñayā tulyalakṣaṇāḥ 10 pārāvaryaṃ tu bhūtānāṃ jñānenaivopalabhyate vidyayā tāta sṛṣṭānāṃ vidyaiva paramā gatiḥ 11 bhūtānāṃ janma sarveṣāṃ vividhānāṃ caturvidham jarayv andam athodbhedaṃ svedaṃ cāpy upalakṣayet 12 sthāvarebhyo viśiṣṭāni jaṅgamāny upalakṣayet upapannaṃ hi yac ceṣṭā viśiṣyeta viśeṣyayoḥ 13 āhur dvibahu pādāni jaṅgamāni dvayāni ca bahu pādbhyo viśiṣṭāni dvipādāni bahūny api 14 dvipadāni dvayāny āhuḥ pārthivānītarāṇi ca pārthivāni viśiṣṭāni tāni hy annāni bhuñjate 15 pārthivāni dvayāny āhur madhyamāny uttamāni ca madhyamāni viśiṣṭāni jātidharmopadhāraṇāt 16 madhyamāni dvayāny āhur dharmajñānītarāṇi ca dharmajñāni viśiṣṭāni kāryākāryopadhāraṇāt 17 dharmajñāni dvayāny āhur vedajñānītarāṇi ca vedajñāni viśiṣṭāni vedo hy eṣu pratiṣṭhitaḥ 18 vedajñāni dvayāny āhuḥ pravaktṝṇītarāṇi ca pravaktṝṇi viśiṣṭāni sarvadharmopadhāraṇāt 19 vijñāyante hi yair vedāḥ sarvadharmakriyā phalāḥ sayajñāḥ sakhilā vedāḥ pravaktṛbhyo viniḥsṛtāḥ 20 pravaktṝṇi dvayāny āhur ātmajñānītarāṇi ca ātmajñāni viśiṣṭāni janmājanmopadhāraṇāt 21 dharmadvayaṃ hi yo veda sa sarvaḥ sarvadharmavid sa tyāgī satyasaṃkalpaḥ sa tu kṣāntaḥ sa īśvaraḥ 22 dharmajñānapratiṣṭhaṃ hi taṃ devā brāhmaṇaṃ viduḥ śabdabrahmaṇi niṣṇātaṃ pare ca kṛtaniścayam 23 antaḥsthaṃ ca bahiṣṭhaṃ ca ye 'dhiyajñādhivaivatam jānanti tān namasyāmas te devās tāta te dvijāḥ 24 teṣu viśvam idaṃ bhūtaṃ sāgraṃ ca jagad āhitam teṣāṃ māhātmyabhāvasya sadṛśaṃ nāsti kiṃ cana 25 ādiṃ te nidhanaṃ caiva karma cātītya sarvaśaḥ caturvidhasya bhūtasya sarvasyeśāḥ svayambhuvaḥ |
The Mahabharata in Sanskrit
Book 12
Chapter 230
|
1
[वयास] एषा पूर्वतरा वृत्तिर बराह्मणस्य विधीयते जञानवान एव कर्माणि कुर्वन सर्वत्र सिध्यति 2 तत्र चेन न भवेद एवं संशयः कर्म निश्चये किं नु कर्म सवभावॊ ऽयं जञानं कर्मेति वा पुनः 3 तत्र चेह विवित्सा सयाज जञानं चेत पुरुषं परति उपपत्त्युपलब्धिभ्यां वर्णयिष्यामि तच छृणु 4 पौरुषं कारणं के चिद आहुः कर्मसु मानवाः दैवम एके परशंसन्ति सवभावं चापरे जनाः 5 पौरुषं कर्म दैवं च फलवृत्ति सवभावतः तरयम एतत पृथग भूतम अविवेकं तु के चन 6 एवम एतन न चाप्य एवम उभे चापि न चाप्य उभे कर्मस्थां विषमं बरूयुः सत्त्वस्थाः समदर्शिनः 7 तरेतायां दवापरे चैव कलिजाश च ससंशयाः तपस्विनः परशान्ताश च सत्त्वस्थाश च कृते युगे 8 अपृथग दर्शिनः सर्वे ऋक सामसु यजुःसुच कामद्वेषौ पृथग दृष्ट्वा तपः कृत उपासते 9 तपॊ धर्मेण संयुक्तस तपॊनित्यः सुसंशितः तेन सर्वान अवाप्नॊति कामान यान मनसेच्छति 10 तपसा तद अवाप्नॊति यद भूत्वा सृजते जगत तद भूतश च ततः सर्वॊ भूतानां भवति परभुः 11 तद उक्तं वेदवादेषु गहनं वेद दर्शिभिः वेदान्तेषु पुनर वयक्तं करमयॊगेन लक्ष्यते 12 आरम्भ यज्ञाः कषत्रस्य हविर यज्ञा विशः समृताः परिचारयज्ञाः शूद्राश च जपयज्ञा दविजातयः 13 परिनिष्ठित कार्यॊ हि सवाध्यायेन दविजॊ भवेत कुर्याद अन्यन न वा कुर्यान मैत्रॊ बराह्मण उच्यते 14 तरेतादौ सकला वेदा यज्ञा वर्णाश्रमास तथा संरॊधाद आयुषस तव एते वयस्यन्ते दवापरे युगे 15 दवापरे विप्लवं यान्ति वेदाः कलियुगे तथा दृश्यन्ते नापि दृश्यन्ते कलेर अन्ते पुनः पुनः 16 उत्सीदन्ति सवधर्माश च तत्राधर्मेण पीडिताः गवां भूमेश च ये चापाम ओषधीनां च ये रसाः 17 अधर्मान्तर्हिता वेदा वेद धर्मास तथाश्रमाः विक्रियन्ते सवधर्मस्था सथावराणि चराणि च 18 यथा सर्वाणि भूतानि वृष्टिर भौमानि वर्षति सृजते सर्वतॊ ऽङगानि तथा वेदा युगे युगे 19 विसृतं कालनानात्वम अनादि निधनं च यत कीर्तितं तत पुरस्तान मे यतः संयान्ति यान्ति च 20 धातेदं परभव सथानं भूतानां संयमॊ यमः सवभावेन परवर्तन्ते दवन्द्वसृष्टानि भूरिशः 21 सर्गः कालॊ धृतिर वेदाः कर्ता कार्यं करियाफलम एतत ते कथितं तात यन मां तवं परिपृच्छसि |
1
[vyāsa] eṣā pūrvatarā vṛttir brāhmaṇasya vidhīyate jñānavān eva karmāṇi kurvan sarvatra sidhyati 2 tatra cen na bhaved evaṃ saṃśayaḥ karma niścaye kiṃ nu karma svabhāvo 'yaṃ jñānaṃ karmeti vā punaḥ 3 tatra ceha vivitsā syāj jñānaṃ cet puruṣaṃ prati upapattyupalabdhibhyāṃ varṇayiṣyāmi tac chṛṇu 4 pauruṣaṃ kāraṇaṃ ke cid āhuḥ karmasu mānavāḥ daivam eke praśaṃsanti svabhāvaṃ cāpare janāḥ 5 pauruṣaṃ karma daivaṃ ca phalavṛtti svabhāvataḥ trayam etat pṛthag bhūtam avivekaṃ tu ke cana 6 evam etan na cāpy evam ubhe cāpi na cāpy ubhe karmasthāṃ viṣamaṃ brūyuḥ sattvasthāḥ samadarśinaḥ 7 tretāyāṃ dvāpare caiva kalijāś ca sasaṃśayāḥ tapasvinaḥ praśāntāś ca sattvasthāś ca kṛte yuge 8 apṛthag darśinaḥ sarve ṛk sāmasu yajuḥsuca kāmadveṣau pṛthag dṛṣṭvā tapaḥ kṛta upāsate 9 tapo dharmeṇa saṃyuktas taponityaḥ susaṃśitaḥ tena sarvān avāpnoti kāmān yān manasecchati 10 tapasā tad avāpnoti yad bhūtvā sṛjate jagat tad bhūtaś ca tataḥ sarvo bhūtānāṃ bhavati prabhuḥ 11 tad uktaṃ vedavādeṣu gahanaṃ veda darśibhiḥ vedānteṣu punar vyaktaṃ kramayogena lakṣyate 12 ārambha yajñāḥ kṣatrasya havir yajñā viśaḥ smṛtāḥ paricārayajñāḥ śūdrāś ca japayajñā dvijātayaḥ 13 pariniṣṭhita kāryo hi svādhyāyena dvijo bhavet kuryād anyan na vā kuryān maitro brāhmaṇa ucyate 14 tretādau sakalā vedā yajñā varṇāśramās tathā saṃrodhād āyuṣas tv ete vyasyante dvāpare yuge 15 dvāpare viplavaṃ yānti vedāḥ kaliyuge tathā dṛśyante nāpi dṛśyante kaler ante punaḥ punaḥ 16 utsīdanti svadharmāś ca tatrādharmeṇa pīḍitāḥ gavāṃ bhūmeś ca ye cāpām oṣadhīnāṃ ca ye rasāḥ 17 adharmāntarhitā vedā veda dharmās tathāśramāḥ vikriyante svadharmasthā sthāvarāṇi carāṇi ca 18 yathā sarvāṇi bhūtāni vṛṣṭir bhaumāni varṣati sṛjate sarvato 'ṅgāni tathā vedā yuge yuge 19 visṛtaṃ kālanānātvam anādi nidhanaṃ ca yat kīrtitaṃ tat purastān me yataḥ saṃyānti yānti ca 20 dhātedaṃ prabhava sthānaṃ bhūtānāṃ saṃyamo yamaḥ svabhāvena pravartante dvandvasṛṣṭāni bhūriśaḥ 21 sargaḥ kālo dhṛtir vedāḥ kartā kāryaṃ kriyāphalam etat te kathitaṃ tāta yan māṃ tvaṃ paripṛcchasi |
The Mahabharata in Sanskrit
Book 12
Chapter 231
|
1
[भी] इत्य उक्तॊ ऽभिप्रशस्यैतत परमर्षेस तु शासनम मॊक्षधर्मार्थसंयुक्तम इदं परस्तुं परचक्रमे 2 [षुक] परजावाञ शरॊत्रियॊ यज्वा वृद्धः परज्ञॊ ऽनसूयकः अनागतम अनैतिह्यं कथं बरह्माधिगच्छति 3 तपसा बरह्मचर्येण सर्वत्यागेन मेधया सांख्ये वा यदि वा यॊगे एतत पृष्टॊ ऽभिधत्स्व मे 4 मनसश चेन्द्रियाणां चाप्य ऐकाग्र्यं समवाप्यते येनॊपायेन पुरुषैस तच च वयाख्यातुम अर्हसि 5 [वयास] नान्यत्र विद्या तपसॊर नान्यत्रेन्द्रिय निग्रहात नान्यत्र सर्वसंत्यागात सिद्धिं विन्दति कश चन 6 महाभूतानि सर्वाणि पूर्वसृष्टिः सवयम्भुवः भूयिष्ठं पराण भृद गरामे निविष्टानि शरीरिषु 7 भूमेर देहॊ जलात सारॊ जयॊतिषश चक्षुषी समृते पराणापानाश्रयॊ वायुः खेष्व आकाशं शरीरिणाम 8 करान्ते विष्णुर बले शक्रः कॊष्ठे ऽगनिर भुक्तम अर्छति कर्णयॊः परदिशः शरॊत्रे जिह्वायां वाक सरस्वती 9 कर्णौ तवक चक्षुषी जिह्वा नासिका चैव पञ्चमी दर्शनानीन्द्रियॊक्तानि दवाराण्य आहारसिद्धये 10 शब्दं सपर्शं तथारूपं रसं गन्धं च पञ्चमम इन्द्रियाणि पृथक तव अर्थान मनसॊ दर्शयन्त्य उत 11 इन्द्रियाणि मनॊ युङ्क्ते वश्यान यन्तेव वाजिनः मनश चापि सदा युङ्क्ते भूतात्मा हृदयाश्रितः 12 इन्द्रियाणां तथैवैषां सर्वेषाम ईश्वरं मनः नियमे च विसर्गे च भूतात्मा मनसस तथा 13 इन्द्रियाणीन्द्रियार्थाश च सवभावश चेतना मनः पराणापानौ च जीवश च नित्यं देहेषु देहिनाम 14 आश्रयॊ नास्ति सत्त्वस्य गुणशब्दॊ न चेतना सत्त्वं हि तेजः सृजति न गुणान वै कदा चन 15 एवं सप्त दशं देहे वृतं सॊदशभिर गुणैः मनीसी मनसा विप्रः पश्यत्य आत्मानम आत्मनि 16 न हय अयं चक्षुषा दृश्यॊ न च सर्वैर अपीन्द्रियैः मनसा संप्रदीप्तेन महान आत्मा परकाशते 17 अशब्द सपर्शरूपं तद अरसागन्धम अव्ययम अशरीरं शरीरे सवे निरीक्षेत निरिन्द्रियम 18 अव्यक्तं वयक्तदेहेषु मर्त्येष्व अमरम आश्रितम यॊ ऽनुपश्यति स परेत्य कल्पते बरह्मभूयसे 19 विद्याभिजन संपन्ने बराह्मणे गवि हस्तिनि शुनि चैव शवपाके च पण्डिताः समदर्शिनः 20 स हि सर्वेषु भूतेषु जङ्गमेषु धरुवेषु च वसत्य एकॊ महान आत्मा येन सर्वम इदं ततम 21 सर्वभूतेषु चात्मानं सर्वभूतानि चात्मनि यदा पश्यति भूतात्मा बरह्म संपद्यते तदा 22 यावान आत्मनि वेदात्मा तावान आत्मा परात्मनि य एवं सततं वेद सॊ ऽमृतत्वाय कल्पते 23 सर्वभूतात्म भूतस्य सर्वभूतहितस्य च देवापि मार्गे मुह्यन्ति अपदस्य पदैषिणः 24 शकुनीनाम इवाकाशे जले वारि चरस्य वा यथागतिर न दृश्येत तथैव सुमहात्मनः 25 कालः पचति भूतानि सर्वाण्य एवात्मनात्मनि यस्मिंस तु पच्यते कालस तं न वेदेह कश्चनन 26 न तद ऊर्ध्वं न तिर्यक च नाधॊ न च तिरः पुनः न मध्ये परतिगृह्णीते नैव कश चित कुतश चन 27 सर्वे ऽनतःस्था इमे लॊका बाह्यम एषां न किं चन यः सहस्रं समागच्छेद यथा बानॊ गुणच्युतः 28 नैवान्तं कारणस्येयाद यद्य अपि सत्या मनॊजवः तस्मात सूक्ष्मात सूक्ष्मतरं नास्ति सथूलतरं ततः 29 सर्वतः पनि पादान्तं सर्वतॊ ऽकषिशिरॊमुखम सर्वतः शरुतिमल लॊके सर्वम आवृत्य तिष्ठति 30 तद एवानॊर अनुतरं तन महद भयॊ महत्तरम तद अन्तः सर्वभूतानां धरुवं तिष्ठन न दृश्यते 31 अक्षरं च कषरं चैव दवैधी भावॊ ऽयम आत्मनः कषरः सर्वेषु भूतेषु दिव्यं हय अमृतम अक्षरम 32 नवद्वारं पुरं गत्व हंसॊ हि नियतॊ वशी ईशः सर्वस्य भूतस्य सथावरस्य चरस्य च 33 हानि भङ्गविकल्पानां नवानां संश्रयेण च शरीराणाम अजस्याहुर हंसत्वं पारदर्शिनः 34 हंसॊक्तं चाक्षरं चैव कूतस्थं यत तद अक्षरम तद विद्वान अक्षरं पराप्य जहाति पराण जन्मनी |
1
[bhī] ity ukto 'bhipraśasyaitat paramarṣes tu śāsanam mokṣadharmārthasaṃyuktam idaṃ prastuṃ pracakrame 2 [ṣuka] prajāvāñ śrotriyo yajvā vṛddhaḥ prajño 'nasūyakaḥ anāgatam anaitihyaṃ kathaṃ brahmādhigacchati 3 tapasā brahmacaryeṇa sarvatyāgena medhayā sāṃkhye vā yadi vā yoge etat pṛṣṭo 'bhidhatsva me 4 manasaś cendriyāṇāṃ cāpy aikāgryaṃ samavāpyate yenopāyena puruṣais tac ca vyākhyātum arhasi 5 [vyāsa] nānyatra vidyā tapasor nānyatrendriya nigrahāt nānyatra sarvasaṃtyāgāt siddhiṃ vindati kaś cana 6 mahābhūtāni sarvāṇi pūrvasṛṣṭiḥ svayambhuvaḥ bhūyiṣṭhaṃ prāṇa bhṛd grāme niviṣṭāni śarīriṣu 7 bhūmer deho jalāt sāro jyotiṣaś cakṣuṣī smṛte prāṇāpānāśrayo vāyuḥ kheṣv ākāśaṃ śarīriṇām 8 krānte viṣṇur bale śakraḥ koṣṭhe 'gnir bhuktam archati karṇayoḥ pradiśaḥ śrotre jihvāyāṃ vāk sarasvatī 9 karṇau tvak cakṣuṣī jihvā nāsikā caiva pañcamī darśanānīndriyoktāni dvārāṇy āhārasiddhaye 10 śabdaṃ sparśaṃ tathārūpaṃ rasaṃ gandhaṃ ca pañcamam indriyāṇi pṛthak tv arthān manaso darśayanty uta 11 indriyāṇi mano yuṅkte vaśyān yanteva vājinaḥ manaś cāpi sadā yuṅkte bhūtātmā hṛdayāśritaḥ 12 indriyāṇāṃ tathaivaiṣāṃ sarveṣām īśvaraṃ manaḥ niyame ca visarge ca bhūtātmā manasas tathā 13 indriyāṇīndriyārthāś ca svabhāvaś cetanā manaḥ prāṇāpānau ca jīvaś ca nityaṃ deheṣu dehinām 14 āśrayo nāsti sattvasya guṇaśabdo na cetanā sattvaṃ hi tejaḥ sṛjati na guṇān vai kadā cana 15 evaṃ sapta daśaṃ dehe vṛtaṃ sodaśabhir guṇaiḥ manīsī manasā vipraḥ paśyaty ātmānam ātmani 16 na hy ayaṃ cakṣuṣā dṛśyo na ca sarvair apīndriyaiḥ manasā saṃpradīptena mahān ātmā prakāśate 17 aśabda sparśarūpaṃ tad arasāgandham avyayam aśarīraṃ śarīre sve nirīkṣeta nirindriyam 18 avyaktaṃ vyaktadeheṣu martyeṣv amaram āśritam yo 'nupaśyati sa pretya kalpate brahmabhūyase 19 vidyābhijana saṃpanne brāhmaṇe gavi hastini śuni caiva śvapāke ca paṇḍitāḥ samadarśinaḥ 20 sa hi sarveṣu bhūteṣu jaṅgameṣu dhruveṣu ca vasaty eko mahān ātmā yena sarvam idaṃ tatam 21 sarvabhūteṣu cātmānaṃ sarvabhūtāni cātmani yadā paśyati bhūtātmā brahma saṃpadyate tadā 22 yāvān ātmani vedātmā tāvān ātmā parātmani ya evaṃ satataṃ veda so 'mṛtatvāya kalpate 23 sarvabhūtātma bhūtasya sarvabhūtahitasya ca devāpi mārge muhyanti apadasya padaiṣiṇaḥ 24 śakunīnām ivākāśe jale vāri carasya vā yathāgatir na dṛśyeta tathaiva sumahātmanaḥ 25 kālaḥ pacati bhūtāni sarvāṇy evātmanātmani yasmiṃs tu pacyate kālas taṃ na vedeha kaścanan 26 na tad ūrdhvaṃ na tiryak ca nādho na ca tiraḥ punaḥ na madhye pratigṛhṇīte naiva kaś cit kutaś cana 27 sarve 'ntaḥsthā ime lokā bāhyam eṣāṃ na kiṃ cana yaḥ sahasraṃ samāgacched yathā bāno guṇacyutaḥ 28 naivāntaṃ kāraṇasyeyād yady api styā manojavaḥ tasmāt sūkṣmāt sūkṣmataraṃ nāsti sthūlataraṃ tataḥ 29 sarvataḥ pani pādāntaṃ sarvato 'kṣiśiromukham sarvataḥ śrutimal loke sarvam āvṛtya tiṣṭhati 30 tad evānor anutaraṃ tan mahad bhyo mahattaram tad antaḥ sarvabhūtānāṃ dhruvaṃ tiṣṭhan na dṛśyate 31 akṣaraṃ ca kṣaraṃ caiva dvaidhī bhāvo 'yam ātmanaḥ kṣaraḥ sarveṣu bhūteṣu divyaṃ hy amṛtam akṣaram 32 navadvāraṃ puraṃ gatva haṃso hi niyato vaśī īśaḥ sarvasya bhūtasya sthāvarasya carasya ca 33 hāni bhaṅgavikalpānāṃ navānāṃ saṃśrayeṇa ca śarīrāṇām ajasyāhur haṃsatvaṃ pāradarśinaḥ 34 haṃsoktaṃ cākṣaraṃ caiva kūtasthaṃ yat tad akṣaram tad vidvān akṣaraṃ prāpya jahāti prāṇa janmanī |
The Mahabharata in Sanskrit
Book 12
Chapter 232
|
1
[वयास] पृच्छतस तव सत पुत्र यथावद इह तत्त्वतः सांख्यन्यायेन संयुक्तं यद एतत कीर्तितं मया 2 यॊगकृत्यं तु ते कृत्स्नं वर्तयिष्यामि तच छृणु एकत्वं बुद्धिमनसॊर इन्द्रियाणां च सर्वशः आत्मनॊ धयायिनस तात जञानम एतद अनुत्तमम 3 तद एतद उपशान्तेन दान्तेनाध्यात्म शीलिना आत्मारामेण बुद्धेन बॊद्धव्यं शुचि कर्मणा 4 यॊगदॊषान समुच्छिद्य पञ्च यान कवयॊ विदुः कामं करॊधं च लॊभं च भयं सवप्नं च पञ्चमम 5 करॊधं शमेन जयति कामं संकल्पवर्जनात सत्त्वसंसेवनाद धीरॊ निद्राम उच्छेत्तुम अर्हति 6 धृत्या शिश्नॊदरं रक्षेत पाणि पादं च चक्षुषा चक्षुः शरॊत्रे च मनसा मनॊ वाचं च कर्मणा 7 अप्रमादाद भयं जह्याल लॊभं पराज्ञॊपसेवनात एवम एतान यॊगदॊषाञ जयेन नित्यम अतन्द्रितः 8 अग्नींश च बराह्मणांश चार्चेद देवताः परनमेत च वर्जयेद रुषितां वाचं हिंसा युक्तां मनॊऽनुगाम 9 बरह्मतेजॊमयं शुक्रं यस्य सर्वम इदं रसः एकस्य भूतं भूतस्य दवयं सथावरजङ्गमम 10 धयानम अध्ययनं दानं सत्यं हरीर आर्जवं कषमा शौचम आहारसंशुद्धिर इन्द्रियाणां च निग्रहः 11 एतैर विवर्धते तेजः पाप्मानं चापकर्षति सिध्यन्ति चास्य सर्वार्था विज्ञानं च परवर्तते 12 समः सर्वेषु भूतेषु लब्धालब्धेन वर्तयन धूतपाप्मा तु तेजस्वी लघ्व आहारॊ जितेन्द्रियः कामक्रॊधौ वशे कृत्वा निनीसेद बरह्मणः पदम 13 मनसश चेन्द्रियाणां च कृत्वैकाग्र्यं समाहितः पराग रात्रापररात्रेषु धारयेन मन आत्मना 14 जन्तॊः पञ्चेन्द्रियस्यास्य यद एकं छिद्रम इन्द्रियम ततॊ ऽसय सरवति परज्ञा दृतेः पादाद इवॊदकम 15 मनस तु पूर्वम आदद्यात कुमीनान इव मत्स्यहा ततः शरॊत्रं ततश चक्षुर जिह्वां घराणं च यॊगवित 16 तत एतानि संयम्य मनसि सथापयेद यतिः तथैवापॊह्य संकल्पान मनॊ हय आत्मनि धारयेत 17 पञ्च जञानेन संधाय मनसि सथापयेद यतिः यदैतान्य अवतिष्ठन्ते मनः सस्थानि चात्मनि परसीदन्ति च संस्थाय तदा बरह्म परकाशते 18 विधूम इव दीप्तार्चिर आदित्य इव दीप्तिमान वैद्युतॊ ऽगनिर इवाकाशे पश्यत्य आत्मानम आत्मना सर्वं च तत्र सर्वत्र वयापकत्वाच च दृश्यते 19 तं पश्यन्ति महात्मानॊ बराह्मणा ये मनीषिणः धृतिमन्तॊ महाप्राज्ञाः सर्वभूतहिते रताः 20 एवं परिमितं कालम आचरन संशितव्रतः आसीनॊ हि रहस्य एकॊ गच्छेद अक्षरसात्म्यताम 21 परमॊहॊ भरम आवर्तॊ घराणश्रवण दर्शने अद्भुतानि रसस्पर्शे शीतॊष्णे मारुताकृतिः 22 परतिभाम उपसर्गांश चाप्य उपसंगृह्य यॊगतः तांस तत्त्वविद अनादृत्य सवात्मनैव निवर्तयेत 23 कुर्यात परिचयं यॊगे तैकाल्यं नियतॊ मुनिः गिरिशृङ्गे तथा चैत्ये वृक्षाग्रेषु च यॊजजेत 24 संनियम्येन्द्रियग्राहं गॊष्ठे भान्द मना इव एकाग्रश चिन्तयेन नित्यं यॊगान नॊद्वेजयेन मनः 25 येनॊपायेन शक्येत संनियन्तुं चलं मनः तं तं युक्तॊ निषेवेत न चैव विचलेत ततः 26 शून्या गिरिगुहाश चैव देवतायतनानि च शून्यागाराणि चैकाग्रॊ निवासार्थम उपक्रमेत 27 नाभिष्वजेत परं वाचा कर्मणा मनसापि वा उपेक्षकॊ यताहारॊ लब्धालब्धे समॊ भवेत 28 यश चैनम अभिनन्देत यश चैनम अपवादयेत समस तयॊश चाप्य उभयॊर नाभिध्यायेच छुभाशुभम 29 न परहृष्येत लाभेषु नालाभेषु च चिन्तयेत समः सर्वेषु भूतेषु सधर्मा मातरिश्वनः 30 एवं सर्वात्मनः साधॊः सर्वत्र समदर्शिनः सॊ मासान नित्ययुक्तस्य शब्दव्रह्मातिवर्तते 31 वेदनार्ताः परजा दृष्ट्वा समलॊक्षाश्म काञ्चनः एतस्मिन निरतॊ मार्गे विरमेन न विमॊहितः 32 अपि वर्णाव अकृष्टस तु नारी वा धर्मकाङ्क्षिणी ताव अप्य एतेन मार्गेण गच्छेतां परमां गतिम 33 अजं पुराणम अजरं सनातनं; यद इन्द्रियैर उपलभते नरॊ ऽचलः अनॊर अनीयॊ महतॊ महत्तरं; तदात्मना पश्यति युक्तात्मवान 34 इदं महर्षेर वचनं महात्मनॊ; यथावद उक्तं मनसानुदृश्य च अवेक्ष्य चेयात परमेष्ठि सात्म्यतां; परयान्ति यां भूतगतिं मनीषिणः |
1
[vyāsa] pṛcchatas tava sat putra yathāvad iha tattvataḥ sāṃkhyanyāyena saṃyuktaṃ yad etat kīrtitaṃ mayā 2 yogakṛtyaṃ tu te kṛtsnaṃ vartayiṣyāmi tac chṛṇu ekatvaṃ buddhimanasor indriyāṇāṃ ca sarvaśaḥ ātmano dhyāyinas tāta jñānam etad anuttamam 3 tad etad upaśāntena dāntenādhyātma śīlinā ātmārāmeṇa buddhena boddhavyaṃ śuci karmaṇā 4 yogadoṣān samucchidya pañca yān kavayo viduḥ kāmaṃ krodhaṃ ca lobhaṃ ca bhayaṃ svapnaṃ ca pañcamam 5 krodhaṃ śamena jayati kāmaṃ saṃkalpavarjanāt sattvasaṃsevanād dhīro nidrām ucchettum arhati 6 dhṛtyā śiśnodaraṃ rakṣet pāṇi pādaṃ ca cakṣuṣā cakṣuḥ śrotre ca manasā mano vācaṃ ca karmaṇā 7 apramādād bhayaṃ jahyāl lobhaṃ prājñopasevanāt evam etān yogadoṣāñ jayen nityam atandritaḥ 8 agnīṃś ca brāhmaṇāṃś cārced devatāḥ pranameta ca varjayed ruṣitāṃ vācaṃ hiṃsā yuktāṃ mano'nugām 9 brahmatejomayaṃ śukraṃ yasya sarvam idaṃ rasaḥ ekasya bhūtaṃ bhūtasya dvayaṃ sthāvarajaṅgamam 10 dhyānam adhyayanaṃ dānaṃ satyaṃ hrīr ārjavaṃ kṣamā śaucam āhārasaṃśuddhir indriyāṇāṃ ca nigrahaḥ 11 etair vivardhate tejaḥ pāpmānaṃ cāpakarṣati sidhyanti cāsya sarvārthā vijñānaṃ ca pravartate 12 samaḥ sarveṣu bhūteṣu labdhālabdhena vartayan dhūtapāpmā tu tejasvī laghv āhāro jitendriyaḥ kāmakrodhau vaśe kṛtvā ninīsed brahmaṇaḥ padam 13 manasaś cendriyāṇāṃ ca kṛtvaikāgryaṃ samāhitaḥ prāg rātrāpararātreṣu dhārayen mana ātmanā 14 jantoḥ pañcendriyasyāsya yad ekaṃ chidram indriyam tato 'sya sravati prajñā dṛteḥ pādād ivodakam 15 manas tu pūrvam ādadyāt kumīnān iva matsyahā tataḥ śrotraṃ tataś cakṣur jihvāṃ ghrāṇaṃ ca yogavit 16 tata etāni saṃyamya manasi sthāpayed yatiḥ tathaivāpohya saṃkalpān mano hy ātmani dhārayet 17 pañca jñānena saṃdhāya manasi sthāpayed yatiḥ yadaitāny avatiṣṭhante manaḥ sasthāni cātmani prasīdanti ca saṃsthāya tadā brahma prakāśate 18 vidhūma iva dīptārcir āditya iva dīptimān vaidyuto 'gnir ivākāśe paśyaty ātmānam ātmanā sarvaṃ ca tatra sarvatra vyāpakatvāc ca dṛśyate 19 taṃ paśyanti mahātmāno brāhmaṇā ye manīṣiṇaḥ dhṛtimanto mahāprājñāḥ sarvabhūtahite ratāḥ 20 evaṃ parimitaṃ kālam ācaran saṃśitavrataḥ āsīno hi rahasy eko gacched akṣarasātmyatām 21 pramoho bhrama āvarto ghrāṇaśravaṇa darśane adbhutāni rasasparśe śītoṣṇe mārutākṛtiḥ 22 pratibhām upasargāṃś cāpy upasaṃgṛhya yogataḥ tāṃs tattvavid anādṛtya svātmanaiva nivartayet 23 kuryāt paricayaṃ yoge taikālyaṃ niyato muniḥ giriśṛṅge tathā caitye vṛkṣāgreṣu ca yojajet 24 saṃniyamyendriyagrāhaṃ goṣṭhe bhānda manā iva ekāgraś cintayen nityaṃ yogān nodvejayen manaḥ 25 yenopāyena śakyeta saṃniyantuṃ calaṃ manaḥ taṃ taṃ yukto niṣeveta na caiva vicalet tataḥ 26 śūnyā giriguhāś caiva devatāyatanāni ca śūnyāgārāṇi caikāgro nivāsārtham upakramet 27 nābhiṣvajet paraṃ vācā karmaṇā manasāpi vā upekṣako yatāhāro labdhālabdhe samo bhavet 28 yaś cainam abhinandeta yaś cainam apavādayet samas tayoś cāpy ubhayor nābhidhyāyec chubhāśubham 29 na prahṛṣyeta lābheṣu nālābheṣu ca cintayet samaḥ sarveṣu bhūteṣu sadharmā mātariśvanaḥ 30 evaṃ sarvātmanaḥ sādhoḥ sarvatra samadarśinaḥ so māsān nityayuktasya śabdavrahmātivartate 31 vedanārtāḥ prajā dṛṣṭvā samalokṣāśma kāñcanaḥ etasmin nirato mārge viramen na vimohitaḥ 32 api varṇāv akṛṣṭas tu nārī vā dharmakāṅkṣiṇī tāv apy etena mārgeṇa gacchetāṃ paramāṃ gatim 33 ajaṃ purāṇam ajaraṃ sanātanaṃ; yad indriyair upalabhate naro 'calaḥ anor anīyo mahato mahattaraṃ; tadātmanā paśyati yuktātmavān 34 idaṃ maharṣer vacanaṃ mahātmano; yathāvad uktaṃ manasānudṛśya ca avekṣya ceyāt parameṣṭhi sātmyatāṃ; prayānti yāṃ bhūtagatiṃ manīṣiṇaḥ |
The Mahabharata in Sanskrit
Book 12
Chapter 233
|
1
[षुक्र] यद इदं वेद वचनं कुरु कर्म तयजेति च कां दिशं विद्यया यान्ति कां च गच्छन्ति कर्मणा 2 एतद वै शरॊतुम इच्छामि तद भवान परब्रवीतु मे एतत तव अन्यॊन्यवैरूप्ये वर्तते परतिकूलतः 3 [भी] इत्य उक्तः परत्युवाचेदं पराशर सुतः सुतम कर्म विद्यामयाव एतौ वयाख्यास्यामि कषराक्षरौ 4 यां दिशं विद्यया यान्ति यां च गच्छन्ति कर्मणा शृणुष्वैक मनाः पुत्र गह्वरं हय एतद अन्तरम 5 अस्ति धर्म इति परॊक्तं नास्तीत्य अत्रैव यॊ वदेत तस्य पक्षस्य सदृशम इदं मम भवेद अथ 6 दवाव इमाव अथ पन्थानौ यत्र वेदाः परतिष्ठिताः परवृत्ति लक्षणॊ धर्मॊ निवृत्तौ च सुभासितः 7 कर्मणा बध्यते तन्तुर विद्यया तु परमुच्यते तस्मात कर्म न कुर्वन्ति यतयः पारदर्शिनः 8 कर्मणा जायते परेत्य मूर्तिमान सॊदशात्मकः विद्यया जायते नित्यम अव्ययॊ हय अव्ययात्मकः 9 कर्म तव एके परशंसन्ति सवल्प बुद्धितरा नराः तेन ते देहजालानि रमयन्त उपासते 10 ये तु बुद्धिं परां पराप्ता धर्मनैपुण्य दर्शिनः न ते कर्म परशंसन्ति कूपं नद्यां पिबन्न इव 11 कर्मणः फलम आप्नॊति सुखदुःखे भवाभवौ विद्यया तद अवाप्नॊति यत्र गत्वा न शॊचति 12 यत्र गत्वा न मरियते यत्र गत्वा न जायते न जीर्यते यत्र गत्वा यत्र गत्वा न वर्धते 13 यत्र तद बरह्म परमम अव्यक्तम अजरं धरुवम अव्याहतम अनायासम अमृतं चावियॊगि च 14 दवन्द्वैर यत्र न बाध्यन्ते मानसेन च कर्मणा समाः सर्वत्र मैत्राश च सर्वभूतहिते रताः 15 विद्यामयॊ ऽनयः पुरुषस तात कर्ममयॊ ऽपरः विद्धि चन्द्रमसं दर्शे सूक्ष्मया कलया सथितम 16 तद एतद ऋषिणा परॊक्तं विस्तरेणानुमीयते नवजं शशिनं दृष्ट्वा वक्रं तन्तुम इवाम्बरे 17 एकादश विकारात्मा कला संभारसंभृतः मूर्तिमान इति तं विद्धि तात कर्म गुणात्मकम 18 देवॊ यः संश्रितस तस्मिन्न अब्बिन्दुर इव पुष्करे कषेत्रज्ञं तं विजानीयान नित्यं तयागजितात्मकम 19 तमॊ रजश च सत्त्वं च विद्धि जीव गुणान इमान जीवम आत्मगुणं विद्याद आत्मानं परमात्मनः 20 सचेतनं जीव गुणं वदन्ति; स चेष्टते चेष्टयते च सर्वम ततः परं कषेत्रविदॊ वदन्ति; परावर्तयद यॊ भुवनानि सप्त |
1
[ṣukra] yad idaṃ veda vacanaṃ kuru karma tyajeti ca kāṃ diśaṃ vidyayā yānti kāṃ ca gacchanti karmaṇā 2 etad vai śrotum icchāmi tad bhavān prabravītu me etat tv anyonyavairūpye vartate pratikūlataḥ 3 [bhī] ity uktaḥ pratyuvācedaṃ parāśara sutaḥ sutam karma vidyāmayāv etau vyākhyāsyāmi kṣarākṣarau 4 yāṃ diśaṃ vidyayā yānti yāṃ ca gacchanti karmaṇā śṛṇuṣvaika manāḥ putra gahvaraṃ hy etad antaram 5 asti dharma iti proktaṃ nāstīty atraiva yo vadet tasya pakṣasya sadṛśam idaṃ mama bhaved atha 6 dvāv imāv atha panthānau yatra vedāḥ pratiṣṭhitāḥ pravṛtti lakṣaṇo dharmo nivṛttau ca subhāsitaḥ 7 karmaṇā badhyate tantur vidyayā tu pramucyate tasmāt karma na kurvanti yatayaḥ pāradarśinaḥ 8 karmaṇā jāyate pretya mūrtimān sodaśātmakaḥ vidyayā jāyate nityam avyayo hy avyayātmakaḥ 9 karma tv eke praśaṃsanti svalpa buddhitarā narāḥ tena te dehajālāni ramayanta upāsate 10 ye tu buddhiṃ parāṃ prāptā dharmanaipuṇya darśinaḥ na te karma praśaṃsanti kūpaṃ nadyāṃ pibann iva 11 karmaṇaḥ phalam āpnoti sukhaduḥkhe bhavābhavau vidyayā tad avāpnoti yatra gatvā na śocati 12 yatra gatvā na mriyate yatra gatvā na jāyate na jīryate yatra gatvā yatra gatvā na vardhate 13 yatra tad brahma paramam avyaktam ajaraṃ dhruvam avyāhatam anāyāsam amṛtaṃ cāviyogi ca 14 dvandvair yatra na bādhyante mānasena ca karmaṇā samāḥ sarvatra maitrāś ca sarvabhūtahite ratāḥ 15 vidyāmayo 'nyaḥ puruṣas tāta karmamayo 'paraḥ viddhi candramasaṃ darśe sūkṣmayā kalayā sthitam 16 tad etad ṛṣiṇā proktaṃ vistareṇānumīyate navajaṃ śaśinaṃ dṛṣṭvā vakraṃ tantum ivāmbare 17 ekādaśa vikārātmā kalā saṃbhārasaṃbhṛtaḥ mūrtimān iti taṃ viddhi tāta karma guṇātmakam 18 devo yaḥ saṃśritas tasminn abbindur iva puṣkare kṣetrajñaṃ taṃ vijānīyān nityaṃ tyāgajitātmakam 19 tamo rajaś ca sattvaṃ ca viddhi jīva guṇān imān jīvam ātmaguṇaṃ vidyād ātmānaṃ paramātmanaḥ 20 sacetanaṃ jīva guṇaṃ vadanti; sa ceṣṭate ceṣṭayate ca sarvam tataḥ paraṃ kṣetravido vadanti; prāvartayad yo bhuvanāni sapta |
The Mahabharata in Sanskrit
Book 12
Chapter 234
|
1
[षुक्र] कषरात परभृति यः सर्गः सगुणानीन्द्रियाणि च बुद्ध्यैश्वर्याभिसर्गार्थं यद धयानं चात्मनः शुभम 2 भूय एव तु लॊके ऽसमिन सद्वृत्तिं वृत्ति हैतुकीम यया सन्तः परवर्तन्ते तद इच्छाम्य अनुवर्णितम 3 वेदे वचनम उक्तं तु कुरु कर्म तयजेति च कथम एतद विजानीयां तच च वयाख्यातुम अर्हसि 4 लॊकवृत्तान्ततत्त्वज्ञः पूतॊ ऽहं गुरु शासनात कृत्वा बुद्धिं वियुक्तात्मा तयक्ष्याम्य आत्मानम अव्यथः 5 [वयास] यैषा वै विहिता वृत्तिः पुरस्ताद बरह्मणा सवयम एषा पूर्वतरैः सद्भिर आचीर्णा परमर्षिभिः 6 बरह्मचर्येण वै लॊकाञ जयन्ति परमर्षयः आत्मनश च हृदि शरेयस तव अन्विच्छ मनसात्मनि 7 वने मूलफलाशी च तप्यन सुविपुलं तपः पुण्यायतन चारी च भूतानाम अविहिंसकः 8 विधूमे सन्नमुसले वानप्रस्थप्रतिश्रये काले पराप्ते चरन भैक्षं कल्पते बरह्मभूयसे 9 निःस्तुतिर निर्नमस्कारः परित्यज्य शुभाशुभे अरण्ये विचरैकाकी येन केन चिद आशितः 10 [षुक] यद इदं वेद वचनं लॊकवादे विरुध्यते परमाने चाप्रमाने च विरुद्धे शास्त्रता कुतः 11 इत्य एतच छरॊतुम इच्छामि भगवान परब्रवीतु मे कर्मणाम अविरॊधेन कथम एतत परवर्तते 12 [भी] इत्य उक्तः परत्युवाचेदं गन्धवत्याः सुतः सुतम ऋषिस तत पूजयन वाक्यं पुत्रस्यामित तेजसः 13 गृहस्थॊ बरह्मचारी च वानप्रस्थॊ ऽथ भिक्षुकः यथॊक्तकारिणः सर्वे गच्छन्ति परमां गतिम 14 एकॊ य आश्रमान एतान अनुतिष्ठेद यथाविधि अकाम दवेषसंयुक्तः स परत्र महीयते 15 चतुर्पदॊ हि निःश्रेणी बरह्मण्य एषा परतिष्ठिता एताम आश्रित्य निःश्रेणीं बरह्मलॊके महीयते 16 आयुषस तु चतुर्भागं बरह्मचार्यनसूयकः गुरौ वा गुरुपुत्रे वा वसेद धर्मार्थकॊविदः 17 कर्मातिरेकेण गुरॊर अध्येतव्यं बुभूसता दक्षिणॊ नापवादी सयाद आहूतॊ गुरुम आश्रयेत 18 जघन्यशायी पूर्वं सयाद उत्थायी गुरु वेश्मनि यच च शिष्येण कर्तव्यं कार्यं दासेन वा पुनः 19 कृतम इत्य एव तत सर्वं कृत्वा तिष्ठेत पार्श्वतः किंकरः सर्वकारी च सर्वकर्मसु कॊविदः 20 शुचिर दक्षॊ गुणॊपेतॊ बरूयाद इषुर इवात्वरः चक्षुषा गुरुम अव्यग्रॊ निरीक्षेत जितेन्द्रियः 21 नाभुक्तवति चाश्नीयाद अपीतवति नॊ पिबेत न तिष्ठति तथासीत नासुप्ते परस्वपेत च 22 उत्तानाभ्यां च पानिभ्यां पादाव अस्य मृदु सपृचेत दक्षिणं दक्षिणेनैव सव्यं सव्येन पीडयेत 23 अभिवाद्य गुरुं बरूयाद अधीस्व भगवन्न इति इदं करिष्ये भगवन्न इदं चापि कृतं मया 24 इति सर्वम अनुज्ञाप्य निवेद्य गुरवे धनम कुर्यात कृत्वा च तत सर्वम आख्येयं गुरवे पुनः 25 यांस तु गन्धान रसान वापि बरह्मचारी न सेवते सेवेत तान समावृत्त इति धर्मेषु निश्चयः 26 ये के चिद विस्तरेणॊक्ता नियमा बरह्मचारिणः तान सर्वान अनुगृह्णीयाद भवेच चानपगॊ गुरॊः 27 स एवं गुरवे परीतिम उपहृत्य यथाबलम आश्रमेष्व आश्रमेष्व एवं शिष्यॊ वर्तेत कर्मणा 28 वेद वरतॊपवासेन चतुर्थे चायुषॊ गते गुरवे दक्षिणां दत्त्वा समावर्तेद यथाविधि 29 धर्मलब्धैर युतॊ दारैर अग्नीन उत्पाद्य धर्मतः दवितीयम आयुषॊ भागं गृहमेधि वरती भवेत |
1
[ṣukra] kṣarāt prabhṛti yaḥ sargaḥ saguṇānīndriyāṇi ca buddhyaiśvaryābhisargārthaṃ yad dhyānaṃ cātmanaḥ śubham 2 bhūya eva tu loke 'smin sadvṛttiṃ vṛtti haitukīm yayā santaḥ pravartante tad icchāmy anuvarṇitam 3 vede vacanam uktaṃ tu kuru karma tyajeti ca katham etad vijānīyāṃ tac ca vyākhyātum arhasi 4 lokavṛttāntatattvajñaḥ pūto 'haṃ guru śāsanāt kṛtvā buddhiṃ viyuktātmā tyakṣyāmy ātmānam avyathaḥ 5 [vyāsa] yaiṣā vai vihitā vṛttiḥ purastād brahmaṇā svayam eṣā pūrvataraiḥ sadbhir ācīrṇā paramarṣibhiḥ 6 brahmacaryeṇa vai lokāñ jayanti paramarṣayaḥ ātmanaś ca hṛdi śreyas tv anviccha manasātmani 7 vane mūlaphalāśī ca tapyan suvipulaṃ tapaḥ puṇyāyatana cārī ca bhūtānām avihiṃsakaḥ 8 vidhūme sannamusale vānaprasthapratiśraye kāle prāpte caran bhaikṣaṃ kalpate brahmabhūyase 9 niḥstutir nirnamaskāraḥ parityajya śubhāśubhe araṇye vicaraikākī yena kena cid āśitaḥ 10 [ṣuka] yad idaṃ veda vacanaṃ lokavāde virudhyate pramāne cāpramāne ca viruddhe śāstratā kutaḥ 11 ity etac chrotum icchāmi bhagavān prabravītu me karmaṇām avirodhena katham etat pravartate 12 [bhī] ity uktaḥ pratyuvācedaṃ gandhavatyāḥ sutaḥ sutam ṛṣis tat pūjayan vākyaṃ putrasyāmita tejasaḥ 13 gṛhastho brahmacārī ca vānaprastho 'tha bhikṣukaḥ yathoktakāriṇaḥ sarve gacchanti paramāṃ gatim 14 eko ya āśramān etān anutiṣṭhed yathāvidhi akāma dveṣasaṃyuktaḥ sa paratra mahīyate 15 caturpado hi niḥśreṇī brahmaṇy eṣā pratiṣṭhitā etām āśritya niḥśreṇīṃ brahmaloke mahīyate 16 āyuṣas tu caturbhāgaṃ brahmacāryanasūyakaḥ gurau vā guruputre vā vased dharmārthakovidaḥ 17 karmātirekeṇa guror adhyetavyaṃ bubhūsatā dakṣiṇo nāpavādī syād āhūto gurum āśrayet 18 jaghanyaśāyī pūrvaṃ syād utthāyī guru veśmani yac ca śiṣyeṇa kartavyaṃ kāryaṃ dāsena vā punaḥ 19 kṛtam ity eva tat sarvaṃ kṛtvā tiṣṭheta pārśvataḥ kiṃkaraḥ sarvakārī ca sarvakarmasu kovidaḥ 20 śucir dakṣo guṇopeto brūyād iṣur ivātvaraḥ cakṣuṣā gurum avyagro nirīkṣeta jitendriyaḥ 21 nābhuktavati cāśnīyād apītavati no pibet na tiṣṭhati tathāsīta nāsupte prasvapeta ca 22 uttānābhyāṃ ca pānibhyāṃ pādāv asya mṛdu spṛcet dakṣiṇaṃ dakṣiṇenaiva savyaṃ savyena pīḍayet 23 abhivādya guruṃ brūyād adhīsva bhagavann iti idaṃ kariṣye bhagavann idaṃ cāpi kṛtaṃ mayā 24 iti sarvam anujñāpya nivedya gurave dhanam kuryāt kṛtvā ca tat sarvam ākhyeyaṃ gurave punaḥ 25 yāṃs tu gandhān rasān vāpi brahmacārī na sevate seveta tān samāvṛtta iti dharmeṣu niścayaḥ 26 ye ke cid vistareṇoktā niyamā brahmacāriṇaḥ tān sarvān anugṛhṇīyād bhavec cānapago guroḥ 27 sa evaṃ gurave prītim upahṛtya yathābalam āśrameṣv āśrameṣv evaṃ śiṣyo varteta karmaṇā 28 veda vratopavāsena caturthe cāyuṣo gate gurave dakṣiṇāṃ dattvā samāvarted yathāvidhi 29 dharmalabdhair yuto dārair agnīn utpādya dharmataḥ dvitīyam āyuṣo bhāgaṃ gṛhamedhi vratī bhavet |
The Mahabharata in Sanskrit
Book 12
Chapter 235
|
1
[वयास] दवितीयम आयुषॊ भागं गृहमेधी गृहे वसेत धर्मलब्धैर युतॊ दारैर अग्नीन उत्पाद्य सुव्रतः 2 गृहस्थ वृत्तयश चैव चतस्रः कविभिः समृताः कुसूल धान्यः परथमः कुम्भी धान्यस तव अनन्तरम 3 अश्वस्तनॊ ऽथ कापॊतीम आश्रितॊ वृत्तिम आहरेत तेषां परः परॊ जयायान धर्मतॊ लॊकजित्तमः 4 सः कमा वर्तयत्य एकस तरिभिर अन्यः परवर्तते दवाभ्याम एकश चतुर्थस तु बरह्म सत्त्रे वयवस्थितः गृहमेधि वरतान्य अत्र महान्तीह परचक्षते 5 नात्मार्थं पाचयेद अन्नं न वृथा घातयेत पशून परानी वा यदि वाप्रानी संस्कारं यजुषार्हति 6 न दिवा परस्वपेज जातु न पूर्वापररात्रयॊः न भुञ्जीतान्तराकाले नानृताव आह्वयेत सत्रियम 7 नास्यानश्नन वसेद विप्रॊ गृहे कश चिद अपूजितः तथास्यातिथयः पूज्या हव्यकव्य वहाः सदा 8 वेद विद्याव्रतस्नाताः शरॊत्रिया वेदपारगाः सवधर्मजीविनॊ दान्ताः करियावन्तस तपस्विनः तेषां हव्यं च कव्यं चाप्य अर्हणार्थं विधीयते 9 न खरैः संप्रयातस्य सवधर्माज्ञानकस्य च अपविद्धाग्निहॊत्रस्य गुरॊर वालीक कारिणः 10 संविहागॊ ऽतर भूतानां सर्वेषाम एव शिष्यते तथैवापचमानेभ्यः परदेयं गृहमेधिना 11 विघसाशी भवेन नित्यं नित्यं चामृतभॊजनः अमृतं यज्ञशेषं सयाद भॊजनं हविषा समम भृत्यशेषं तु यॊ ऽशनाति तम आहुर विघसाशिनम 12 सवदारनिरतॊ दान्तॊ हय अनसूयुर जितेन्द्रियः ऋत्विक पुरॊहिताचार्यैर मातुलातिथि संश्रितैः 13 वृद्धबालातुरैर वैद्यैर जञातिसंबन्धिबान्धवैः माता पितृभ्यां जामीभिर भरात्रा पुत्रेण भार्यया 14 दुहित्रा दासवर्गेण विवादं न समाचरेत एतान विमुच्य संवादान सर्वपापैः परमुच्यते 15 एतैर जितैस तु जयति सर्वाँल लॊकान न संशयः आचार्यॊ बरह्मलॊकेशः पराजापत्ये पिता परभुः 16 अतिथिस तव इन्द्रलॊकेशॊ देवलॊकस्य चर्त्विजः जामयॊ ऽपसरसां लॊके वैश्वदेवे तु जञातयः 17 संबन्धिबान्धवा दिक्षु पृथिव्यां मातृमातुलौ वृद्धबालातुर कृशास तवाकाशे परभविष्णयः 18 भराता जयेष्ठः समः पित्रा भार्या पुत्रः सवका तनुः छाया सवा दाशवर्गस तु दुहिता कृपणं परम 19 तस्माद एतैर अधिक्षिप्तः सहेन नित्यम असंज्वरः गृहधर्मरतॊ विद्वान धर्मनित्यॊ जितक्लमः 20 न चार्थबद्धः कर्माणि धर्मं वा कं चिद आचरेत गृहस्थ वृत्तयस तिस्रस तासां निःश्रेयसं परम 21 परस्परं तथैवाहुश चातुराश्रम्यम एव तत ये चॊक्ता नियमास तेषां सर्वं कार्यं बुभूसता 22 कुम्भी धान्यैर उञ्छशिलैः कापॊतीं चास्थितैस तथा यस्मिंश चैते वसन्त्य अर्हास तद रास्त्रम अभिवर्धते 23 दश पूर्वान दश परान पुनाति च पितामहान गृहस्थ वृत्तयस तव एता वर्तयेद यॊ गतव्यथः 24 सचक्रचर लॊकानां सदृशीं पराप्नुयाद गतिम यतेन्द्रियाणाम अथ वा गतिर एषा विधीयते 25 सवर्गलॊकॊ गृहस्थानाम उदारमनसां हितः सवर्गॊ विमानसंयुक्तॊ वेद दृष्टः सुपुष्पितः 26 सवर्गलॊके गृहस्थानां परतिष्ठा नियतात्मनाम बरह्मणा विहिता शरेणिर एषा यस्मात परमुच्यते दवितीयं करमशः पराप्य सवर्गलॊके महीयते 27 अतः परं परमम उदारम आश्रमं; तृतीयम आहुस तयजतां कलेवरम वनौकसां गृहपतिनाम अनुत्तमं; शृणुष्वैतत कलिष्टशरीरकारिणाम |
1
[vyāsa] dvitīyam āyuṣo bhāgaṃ gṛhamedhī gṛhe vaset dharmalabdhair yuto dārair agnīn utpādya suvrataḥ 2 gṛhastha vṛttayaś caiva catasraḥ kavibhiḥ smṛtāḥ kusūla dhānyaḥ prathamaḥ kumbhī dhānyas tv anantaram 3 aśvastano 'tha kāpotīm āśrito vṛttim āharet teṣāṃ paraḥ paro jyāyān dharmato lokajittamaḥ 4 saḥ kamā vartayaty ekas tribhir anyaḥ pravartate dvābhyām ekaś caturthas tu brahma sattre vyavasthitaḥ gṛhamedhi vratāny atra mahāntīha pracakṣate 5 nātmārthaṃ pācayed annaṃ na vṛthā ghātayet paśūn prānī vā yadi vāprānī saṃskāraṃ yajuṣārhati 6 na divā prasvapej jātu na pūrvāpararātrayoḥ na bhuñjītāntarākāle nānṛtāv āhvayet striyam 7 nāsyānaśnan vased vipro gṛhe kaś cid apūjitaḥ tathāsyātithayaḥ pūjyā havyakavya vahāḥ sadā 8 veda vidyāvratasnātāḥ śrotriyā vedapāragāḥ svadharmajīvino dāntāḥ kriyāvantas tapasvinaḥ teṣāṃ havyaṃ ca kavyaṃ cāpy arhaṇārthaṃ vidhīyate 9 na kharaiḥ saṃprayātasya svadharmājñānakasya ca apaviddhāgnihotrasya guror vālīka kāriṇaḥ 10 saṃvihāgo 'tra bhūtānāṃ sarveṣām eva śiṣyate tathaivāpacamānebhyaḥ pradeyaṃ gṛhamedhinā 11 vighasāśī bhaven nityaṃ nityaṃ cāmṛtabhojanaḥ amṛtaṃ yajñaśeṣaṃ syād bhojanaṃ haviṣā samam bhṛtyaśeṣaṃ tu yo 'śnāti tam āhur vighasāśinam 12 svadāranirato dānto hy anasūyur jitendriyaḥ ṛtvik purohitācāryair mātulātithi saṃśritaiḥ 13 vṛddhabālāturair vaidyair jñātisaṃbandhibāndhavaiḥ mātā pitṛbhyāṃ jāmībhir bhrātrā putreṇa bhāryayā 14 duhitrā dāsavargeṇa vivādaṃ na samācaret etān vimucya saṃvādān sarvapāpaiḥ pramucyate 15 etair jitais tu jayati sarvāṁl lokān na saṃśayaḥ ācāryo brahmalokeśaḥ prājāpatye pitā prabhuḥ 16 atithis tv indralokeśo devalokasya cartvijaḥ jāmayo 'psarasāṃ loke vaiśvadeve tu jñātayaḥ 17 saṃbandhibāndhavā dikṣu pṛthivyāṃ mātṛmātulau vṛddhabālātura kṛśās tvākāśe prabhaviṣṇayaḥ 18 bhrātā jyeṣṭhaḥ samaḥ pitrā bhāryā putraḥ svakā tanuḥ chāyā svā dāśavargas tu duhitā kṛpaṇaṃ param 19 tasmād etair adhikṣiptaḥ sahen nityam asaṃjvaraḥ gṛhadharmarato vidvān dharmanityo jitaklamaḥ 20 na cārthabaddhaḥ karmāṇi dharmaṃ vā kaṃ cid ācaret gṛhastha vṛttayas tisras tāsāṃ niḥśreyasaṃ param 21 parasparaṃ tathaivāhuś cāturāśramyam eva tat ye coktā niyamās teṣāṃ sarvaṃ kāryaṃ bubhūsatā 22 kumbhī dhānyair uñchaśilaiḥ kāpotīṃ cāsthitais tathā yasmiṃś caite vasanty arhās tad rāstram abhivardhate 23 daśa pūrvān daśa parān punāti ca pitāmahān gṛhastha vṛttayas tv etā vartayed yo gatavyathaḥ 24 sacakracara lokānāṃ sadṛśīṃ prāpnuyād gatim yatendriyāṇām atha vā gatir eṣā vidhīyate 25 svargaloko gṛhasthānām udāramanasāṃ hitaḥ svargo vimānasaṃyukto veda dṛṣṭaḥ supuṣpitaḥ 26 svargaloke gṛhasthānāṃ pratiṣṭhā niyatātmanām brahmaṇā vihitā śreṇir eṣā yasmāt pramucyate dvitīyaṃ kramaśaḥ prāpya svargaloke mahīyate 27 ataḥ paraṃ paramam udāram āśramaṃ; tṛtīyam āhus tyajatāṃ kalevaram vanaukasāṃ gṛhapatinām anuttamaṃ; śṛṇuṣvaitat kliṣṭaśarīrakāriṇām |
The Mahabharata in Sanskrit
Book 12
Chapter 236
|
1
[भी] परॊक्ता गृहस्थ वृत्तिस ते विहिता या मनीसिनाम तदनन्तरम उक्तं यत तन निबॊध युधिष्ठिर 2 करमशस तव अवधूयैनां तृतीयां वृत्तिम उत्तमाम संयॊगव्रतखिन्नानां वानप्रस्थाश्रमौकसाम 3 शरूयतां पार्थ भद्रं ते सर्वलॊकाश्रयात्मनाम परेक्षापूर्वं परवृत्तानां पुण्यदेशनिवासिनाम 4 [व] गृहस्थस तु यदा पश्येद वली पलितम आत्मनः अपत्यस्यैव चापत्यं वनम एव तदाश्रयेत 5 तृतीयम आयुषॊ भागं वानप्रस्थाश्रमे वसेत तान एवाग्नीन परिचरेद यजमानॊ दिवौकसः 6 नियतॊ नियताहारः सस्थ भक्तॊ ऽपरमादवान तद अग्निहॊत्रं ता गावॊ यज्ञाङ्गानि च सर्वशः 7 अकृष्टं वै वरीहि यवं नीवारं विघसानि च हवींसि संप्रयच्छेत मखेष्व अत्रापि पञ्चसु 8 वानप्रस्थाश्रमे ऽपय एताश चतस्रॊ वृत्तयः समृताः सद्यः परक्षालकाः के चित के चिन मासिक संचयाः 9 वार्षिकं संचयं के चित के चिद दवादश वार्षिकम कुर्वन्त्य अतिथिपूजार्थं यज्ञतन्त्रार्थ सिद्धये 10 अभ्रावकाशा वर्षासु हेमन्ते जलसंश्रयाः गरीस्मे च पञ्चतपसः शश्वच च मित भॊजनाः 11 भूमौ विपरिवर्तन्ते तिष्ठेद वा परपदैर अपि सथानासनैर वर्तयन्ति सवनेष्व अभिषिञ्चते 12 दन्तॊलूखलिनः के चिद अश्मकुत्तास तथापरे शुक्लपक्षे पिबन्त्य एके यवागूं कवथितां सकृत 13 कृष्णपक्षे पिबन्त्य एके भुञ्जते च यथाक्रमम मूलैर एके फलैर एके पुष्पैर एके दृध वरताः 14 वर्तयन्ति यथान्यायं वैखानस मतं शरिताः एताश चान्याश च विविधा दिक्षास तेषां मनीसिनाम 15 चतुर्थश चौपनिषदॊ धर्मः साधारणः समृतः वानप्रस्थॊ गृहस्थश च ततॊ ऽनयः संप्रवर्तते 16 अस्मिन्न एव युगे तात विप्रैः सर्वार्थदर्शिभिः अगस्त्यः सप्त ऋषयॊ मधुच्छन्दॊ ऽघमर्षणः 17 सांकृतिः सुदिवा तन्दिर यवान्नॊ ऽथ कृतश्रमः अहॊवीर्यस तथा कव्यास तान्द्यॊ मेधातिथिर बुधः 18 शलॊ वाकश च निर्वाकः शून्यपालः कृतश्रमः एवं धर्मसु विद्वांसस ततः सवर्गम उपागमन 19 तात परत्यक्षधर्माणस तथा यायावरा गणाः ऋषीणाम उग्रतपसां धर्मनैपुन दर्शिनाम 20 अव्याच्यापरिमेयाश च बराह्मणा वनम आश्रिताः वैखानसा वालखिल्याः सिकताश च तथापरे 21 कर्मभिस ते निरानन्दा धर्मनित्या जितेन्द्रियाः गताः परत्यक्षधर्माणस ते सर्वे वनम आश्रिताः अनक्षत्रा अनाधृष्या दृश्यन्ते जयॊतिषां गणाः 22 जरया च परिद्यूनॊ वयाधिना च परपीदितः चतुर्थे चायुषः शेषे वानप्रस्थाश्रमं तयजेत सद्यस्कारां निरूप्येष्टिं सर्ववेद सदक्षिणाम 23 आत्मयाजी सॊ ऽऽतमरतिर आत्मक्रीतात्म संश्रयः आत्मन्य अग्नीन समारॊप्य तयक्त्वा सर्वपरिग्रहान 24 सद्यस्क्रांश च यजेद यज्ञान इष्टीश चैवेह सर्वदा सदैव याजिनां यज्ञाद आत्मनीझ्या निवर्तते 25 तरींश चैवाग्नीन यजेत सम्यग आत्मन्य एवात्म मॊक्षणात पराणेभ्यॊ यजुषा पञ्च सः पराश्नीयाद अकुत्सयन 26 केशलॊम नखान वाप्य वानप्रस्थॊ मुनिस ततः आश्रमाद आश्रमं सद्यः पूतॊ गच्छति कर्मभिः 27 अभयं सर्वभूतेभ्यॊ यॊ दत्त्वा परव्रजेद दविजः लॊकास तेजॊमयास तस्य परेत्य चानन्त्यम अश्नुते 28 सुशील वृत्तॊ वयपनीतकल्मषॊ; न चेह नामुत्र च कर्तुम ईहते अरॊष मॊहॊ गतसंधि विग्रहॊ; भवेद उदासीनवद आत्मविन नरः 29 यमेषु चैवात्म गतेषु न वयथेत; सवशास्त्रसूत्राहुति मन्त्रविक्रमः भवेद यथेष्टा गतिर आत्मयाजिनॊ; न संशयॊ धर्मपरे जीतेन्द्रिये 30 ततः परं शरेष्ठम अतीव सद्गुणैर; अधिष्ठितं तरीन अधिवृत्तम उत्तमम चतुर्थम उक्तं परमाश्रमं शृणु; परकीर्त्यमानं परमं परायनम |
1
[bhī] proktā gṛhastha vṛttis te vihitā yā manīsinām tadanantaram uktaṃ yat tan nibodha yudhiṣṭhira 2 kramaśas tv avadhūyaināṃ tṛtīyāṃ vṛttim uttamām saṃyogavratakhinnānāṃ vānaprasthāśramaukasām 3 śrūyatāṃ pārtha bhadraṃ te sarvalokāśrayātmanām prekṣāpūrvaṃ pravṛttānāṃ puṇyadeśanivāsinām 4 [v] gṛhasthas tu yadā paśyed valī palitam ātmanaḥ apatyasyaiva cāpatyaṃ vanam eva tadāśrayet 5 tṛtīyam āyuṣo bhāgaṃ vānaprasthāśrame vaset tān evāgnīn paricared yajamāno divaukasaḥ 6 niyato niyatāhāraḥ sastha bhakto 'pramādavān tad agnihotraṃ tā gāvo yajñāṅgāni ca sarvaśaḥ 7 akṛṣṭaṃ vai vrīhi yavaṃ nīvāraṃ vighasāni ca havīṃsi saṃprayaccheta makheṣv atrāpi pañcasu 8 vānaprasthāśrame 'py etāś catasro vṛttayaḥ smṛtāḥ sadyaḥ prakṣālakāḥ ke cit ke cin māsika saṃcayāḥ 9 vārṣikaṃ saṃcayaṃ ke cit ke cid dvādaśa vārṣikam kurvanty atithipūjārthaṃ yajñatantrārtha siddhaye 10 abhrāvakāśā varṣāsu hemante jalasaṃśrayāḥ grīsme ca pañcatapasaḥ śaśvac ca mita bhojanāḥ 11 bhūmau viparivartante tiṣṭhed vā prapadair api sthānāsanair vartayanti savaneṣv abhiṣiñcate 12 dantolūkhalinaḥ ke cid aśmakuttās tathāpare śuklapakṣe pibanty eke yavāgūṃ kvathitāṃ sakṛt 13 kṛṣṇapakṣe pibanty eke bhuñjate ca yathākramam mūlair eke phalair eke puṣpair eke dṛdha vratāḥ 14 vartayanti yathānyāyaṃ vaikhānasa mataṃ śritāḥ etāś cānyāś ca vividhā dikṣās teṣāṃ manīsinām 15 caturthaś caupaniṣado dharmaḥ sādhāraṇaḥ smṛtaḥ vānaprastho gṛhasthaś ca tato 'nyaḥ saṃpravartate 16 asminn eva yuge tāta vipraiḥ sarvārthadarśibhiḥ agastyaḥ sapta ṛṣayo madhucchando 'ghamarṣaṇaḥ 17 sāṃkṛtiḥ sudivā tandir yavānno 'tha kṛtaśramaḥ ahovīryas tathā kavyās tāndyo medhātithir budhaḥ 18 śalo vākaś ca nirvākaḥ śūnyapālaḥ kṛtaśramaḥ evaṃ dharmasu vidvāṃsas tataḥ svargam upāgaman 19 tāta pratyakṣadharmāṇas tathā yāyāvarā gaṇāḥ ṛṣīṇām ugratapasāṃ dharmanaipuna darśinām 20 avyācyāparimeyāś ca brāhmaṇā vanam āśritāḥ vaikhānasā vālakhilyāḥ sikatāś ca tathāpare 21 karmabhis te nirānandā dharmanityā jitendriyāḥ gatāḥ pratyakṣadharmāṇas te sarve vanam āśritāḥ anakṣatrā anādhṛṣyā dṛśyante jyotiṣāṃ gaṇāḥ 22 jarayā ca paridyūno vyādhinā ca prapīditaḥ caturthe cāyuṣaḥ śeṣe vānaprasthāśramaṃ tyajet sadyaskārāṃ nirūpyeṣṭiṃ sarvaveda sadakṣiṇām 23 ātmayājī so ''tmaratir ātmakrītātma saṃśrayaḥ ātmany agnīn samāropya tyaktvā sarvaparigrahān 24 sadyaskrāṃś ca yajed yajñān iṣṭīś caiveha sarvadā sadaiva yājināṃ yajñād ātmanījhyā nivartate 25 trīṃś caivāgnīn yajet samyag ātmany evātma mokṣaṇāt prāṇebhyo yajuṣā pañca saḥ prāśnīyād akutsayan 26 keśaloma nakhān vāpya vānaprastho munis tataḥ āśramād āśramaṃ sadyaḥ pūto gacchati karmabhiḥ 27 abhayaṃ sarvabhūtebhyo yo dattvā pravrajed dvijaḥ lokās tejomayās tasya pretya cānantyam aśnute 28 suśīla vṛtto vyapanītakalmaṣo; na ceha nāmutra ca kartum īhate aroṣa moho gatasaṃdhi vigraho; bhaved udāsīnavad ātmavin naraḥ 29 yameṣu caivātma gateṣu na vyathet; svaśāstrasūtrāhuti mantravikramaḥ bhaved yatheṣṭā gatir ātmayājino; na saṃśayo dharmapare jītendriye 30 tataḥ paraṃ śreṣṭham atīva sadguṇair; adhiṣṭhitaṃ trīn adhivṛttam uttamam caturtham uktaṃ paramāśramaṃ śṛṇu; prakīrtyamānaṃ paramaṃ parāyanam |
The Mahabharata in Sanskrit
Book 12
Chapter 237
|
1
[षुक्र] वर्तमानस तथैवात्र वानप्रस्थाश्रमे यथा यॊक्तव्यॊ ऽऽतमा यथाशक्त्या परं वै काङ्क्षता पदम 2 [वयास] पराप्य संस्कारम एताभ्याम आश्रमाभ्यां ततः परम यत कार्यं परमार्थार्थं तद इहैकमनाः शृणु 3 कसायं पाचयित्वा तु शरेणि सथानेषु च तरिषु परव्रजेच च परं सथानं परिव्रज्याम अनुत्तमाम 4 तद भवान एवम अभ्यस्य वर्ततां शरूयतां तथा एक एव चरेन नित्यं सिद्ध्यर्थम असहायवान 5 एकश चरति यः पश्यन न जहाति न हीयते अनग्निर अनिकेतः सयाद गरामम अन्नार्थम आश्रयेत 6 अश्वस्तन विधानः सयान मुनिर भावसमन्वितः लघ्वाशी नियताहारः सकृद अन्ननिषेविता 7 कपालं वृक्षमूलानि कुचेलम असहायता उपेक्षा सर्वभूतानाम एतावद भिक्ष लक्षणम 8 यस्मिन वाचः परविशन्ति कूपे पराप्ताः शिला इव न वक्तारं पुनर यान्ति स कैवल्याश्रमे वसेत 9 नैव पश्येन न शृणुयाद अवाच्यं जातु कस्य चित बराह्मणानां विशेषेण नैव बरूयात कथंचनन 10 यद बराह्मणस्य कुशलं तद एव सततं वदेत तूस्नीम आसीत निन्दायां कुर्वन भेषजम आत्मनः 11 येन पूर्णम इवाकाशं भवत्य एकेन सर्वदा शून्यं येन जनाकीर्णं तं देवा बराह्मणं विदुः 12 येन केन चिद आछन्नॊ येन केन चिद आशितः यत्रक्व चन शायी च तं देवा पराभमं विदुः 13 अहेर इव गणाद भीतः सौहित्यान नरकाद इव कुनपाद इव स सत्रीभ्यस तं देवा बराह्मणं विदुः 14 न करुध्येन न परहृष्येच च मानितॊ ऽमानितश च यः सर्वभूतेष्व अभयदस तं देवा बराह्मणं विदुः 15 नाभिनन्देत मरणं नाभिनन्देत जीवितम कालम एव परतीक्षेत निदेशं भृतकॊ यथा 16 अनभ्याहत चित्तः सयाद अनभ्याहत वाक तथा निर्मुक्तः सर्वपापेभ्यॊ निरमित्रस्य किं भयम 17 अभयं सर्वभूतेभ्यॊ भूतानाम अभयं यतः तस्य देहाद विमुक्तस्य भयं नास्ति कुतश्चनन 18 यथा नागपदे ऽनयानि पदानि पदगामिनाम सर्वाण्य एवापिधीयन्ते पदजातानि कौञ्चरे 19 एवं सर्वम अहिंसायां धर्मार्थम अपिधीयते अमृतः सनित्यं वसति यॊ ऽहिंसां परतिपद्यते 20 अहिंसकः समः सत्यॊ धृतिमान नियतेन्द्रियः शरण्यः सर्वभूतानां गतिम आप्नॊत्य अनुत्तमाम 21 एवं परज्ञान तृप्तस्य निर्भयस्य मनीषिणः न मृत्युर अतिगॊ भावः स मृत्युम अधिगच्छति 22 विमुक्तं सर्वसङ्गेभ्यॊ मुनिम आकाशवत सथितम अस्वम एकचरं शान्तं तं देवा बराह्मणं विदुः 23 जीवितं यस्य धर्मार्थं धर्मॊ ऽरत्य अर्थम एव च अहॊरात्राश च पुण्यार्थं तं देवा बराह्मणं विदुः 24 निराशिषम अनारम्भं निर्नमस्कारम अस्तुतिम अक्षीण कषीणकर्माणं तं देवा बराह्मणं विदुः 25 सर्वाणि भूतानि सुखे रमन्ते; सर्वाणि दुःखस्य भृशं तरसन्ति तेषां भयॊत्पादन जातखेदः; कुर्यान न कर्माणि हि शरद्दधानः 26 दानं हि भूताभय दक्षिणायाः; सर्वाणि दानान्य अधितिष्ठतीह तीक्ष्णां तनुं यः परथमं जहाति; सॊ ऽनन्तम आप्नॊत्य अभयं परजाभ्यः 27 उत्तान आस्येन हविर जुहॊति; लॊकस्य नाभिर जगतः परतिष्ठा तस्याङ्गम अङ्गानि कृताकृतं च; वैश्वानरः सर्वम एव परपेदे 28 परादेश मात्रे हृदि निश्रितं यत; तस्मिन परानान आत्मयाजी जुहॊति तस्याग्निहॊत्रं हुतम आत्मसंस्थं; सर्वेषु लॊकेषु सदैव तेषु 29 दैवं तरिधातुं तरिवृतं सुपर्णं; ये विद्युर अग्र्यं परमार्थतां च ते सर्वलॊकेषु महीयमाना; देवाः समर्थाः सुकृतं वरजन्ति 30 वेदांश च वेद्यं च विधिं च कृत्स्नम; अथॊ निरुक्तं परमार्थतां च सर्वं शरीरात्मनि यः परवेद; तस्मै सम देवाः सपृहयन्ति नित्यम 31 भूमाव असक्तं दिवि चाप्रमेयं; हिरन मयं यॊ ऽनदजम अन्दमध्ये पतत्रिणं पक्षिणम अन्तरिक्षे; यॊ वेद भॊग्यात्मनि दीप्तरश्मिः 32 आवर्तमाम अजरं विवर्तनं; सॊ नेमिकं दवादशारं सुपर्व यस्येदम आस्ये परियाति विश्वं; तत कालचक्रं निहितं गुहायाम 33 यः संप्रसादं जगतः शरीरं; सर्वान स लॊकान अधिगच्छतीह तस्मिन हुतं तर्पयतीह देवांस; ते वै तृप्तास तर्पयन्त्य आस्यम अस्य 34 तेजॊमयॊ नित्यतनुः पुराणॊ; लॊकान अनन्तान अभयान उपैति भूतानि यस्मान न तरसन्ते कदा चित; स भूतेभ्यॊ न तरसते कदा चित 35 अगर्हणीयॊ न च गर्हते ऽनयान; स वै विप्रः परमात्मानम ईक्षेत विनीतमॊहॊ वयपनीतकल्मषॊ; न चेह नामुत्र च ये ऽरथम ऋच्छति 36 अरॊष मॊहः सम लॊष्ट काञ्चनः; परहीन शॊकॊ गतसंधि विग्रहः अपेतनिन्दास्तुतिर अप्रियाप्रियश; चरन्न उदासीनवद एष भिक्षुकः |
1
[ṣukra] vartamānas tathaivātra vānaprasthāśrame yathā yoktavyo ''tmā yathāśaktyā paraṃ vai kāṅkṣatā padam 2 [vyāsa] prāpya saṃskāram etābhyām āśramābhyāṃ tataḥ param yat kāryaṃ paramārthārthaṃ tad ihaikamanāḥ śṛṇu 3 kasāyaṃ pācayitvā tu śreṇi sthāneṣu ca triṣu pravrajec ca paraṃ sthānaṃ parivrajyām anuttamām 4 tad bhavān evam abhyasya vartatāṃ śrūyatāṃ tathā eka eva caren nityaṃ siddhyartham asahāyavān 5 ekaś carati yaḥ paśyan na jahāti na hīyate anagnir aniketaḥ syād grāmam annārtham āśrayet 6 aśvastana vidhānaḥ syān munir bhāvasamanvitaḥ laghvāśī niyatāhāraḥ sakṛd annaniṣevitā 7 kapālaṃ vṛkṣamūlāni kucelam asahāyatā upekṣā sarvabhūtānām etāvad bhikṣa lakṣaṇam 8 yasmin vācaḥ praviśanti kūpe prāptāḥ śilā iva na vaktāraṃ punar yānti sa kaivalyāśrame vaset 9 naiva paśyen na śṛṇuyād avācyaṃ jātu kasya cit brāhmaṇānāṃ viśeṣeṇa naiva brūyāt kathaṃcanan 10 yad brāhmaṇasya kuśalaṃ tad eva satataṃ vadet tūsnīm āsīta nindāyāṃ kurvan bheṣajam ātmanaḥ 11 yena pūrṇam ivākāśaṃ bhavaty ekena sarvadā śūnyaṃ yena janākīrṇaṃ taṃ devā brāhmaṇaṃ viduḥ 12 yena kena cid āchanno yena kena cid āśitaḥ yatrakva cana śāyī ca taṃ devā prābhamaṃ viduḥ 13 aher iva gaṇād bhītaḥ sauhityān narakād iva kunapād iva sa strībhyas taṃ devā brāhmaṇaṃ viduḥ 14 na krudhyen na prahṛṣyec ca mānito 'mānitaś ca yaḥ sarvabhūteṣv abhayadas taṃ devā brāhmaṇaṃ viduḥ 15 nābhinandeta maraṇaṃ nābhinandeta jīvitam kālam eva pratīkṣeta nideśaṃ bhṛtako yathā 16 anabhyāhata cittaḥ syād anabhyāhata vāk tathā nirmuktaḥ sarvapāpebhyo niramitrasya kiṃ bhayam 17 abhayaṃ sarvabhūtebhyo bhūtānām abhayaṃ yataḥ tasya dehād vimuktasya bhayaṃ nāsti kutaścanan 18 yathā nāgapade 'nyāni padāni padagāminām sarvāṇy evāpidhīyante padajātāni kauñcare 19 evaṃ sarvam ahiṃsāyāṃ dharmārtham apidhīyate amṛtaḥ sanityaṃ vasati yo 'hiṃsāṃ pratipadyate 20 ahiṃsakaḥ samaḥ satyo dhṛtimān niyatendriyaḥ śaraṇyaḥ sarvabhūtānāṃ gatim āpnoty anuttamām 21 evaṃ prajñāna tṛptasya nirbhayasya manīṣiṇaḥ na mṛtyur atigo bhāvaḥ sa mṛtyum adhigacchati 22 vimuktaṃ sarvasaṅgebhyo munim ākāśavat sthitam asvam ekacaraṃ śāntaṃ taṃ devā brāhmaṇaṃ viduḥ 23 jīvitaṃ yasya dharmārthaṃ dharmo 'raty artham eva ca ahorātrāś ca puṇyārthaṃ taṃ devā brāhmaṇaṃ viduḥ 24 nirāśiṣam anārambhaṃ nirnamaskāram astutim akṣīṇa kṣīṇakarmāṇaṃ taṃ devā brāhmaṇaṃ viduḥ 25 sarvāṇi bhūtāni sukhe ramante; sarvāṇi duḥkhasya bhṛśaṃ trasanti teṣāṃ bhayotpādana jātakhedaḥ; kuryān na karmāṇi hi śraddadhānaḥ 26 dānaṃ hi bhūtābhaya dakṣiṇāyāḥ; sarvāṇi dānāny adhitiṣṭhatīha tīkṣṇāṃ tanuṃ yaḥ prathamaṃ jahāti; so 'nantam āpnoty abhayaṃ prajābhyaḥ 27 uttāna āsyena havir juhoti; lokasya nābhir jagataḥ pratiṣṭhā tasyāṅgam aṅgāni kṛtākṛtaṃ ca; vaiśvānaraḥ sarvam eva prapede 28 prādeśa mātre hṛdi niśritaṃ yat; tasmin prānān ātmayājī juhoti tasyāgnihotraṃ hutam ātmasaṃsthaṃ; sarveṣu lokeṣu sadaiva teṣu 29 daivaṃ tridhātuṃ trivṛtaṃ suparṇaṃ; ye vidyur agryaṃ paramārthatāṃ ca te sarvalokeṣu mahīyamānā; devāḥ samarthāḥ sukṛtaṃ vrajanti 30 vedāṃś ca vedyaṃ ca vidhiṃ ca kṛtsnam; atho niruktaṃ paramārthatāṃ ca sarvaṃ śarīrātmani yaḥ praveda; tasmai sma devāḥ spṛhayanti nityam 31 bhūmāv asaktaṃ divi cāprameyaṃ; hiran mayaṃ yo 'ndajam andamadhye patatriṇaṃ pakṣiṇam antarikṣe; yo veda bhogyātmani dīptaraśmiḥ 32 āvartamām ajaraṃ vivartanaṃ; so nemikaṃ dvādaśāraṃ suparva yasyedam āsye pariyāti viśvaṃ; tat kālacakraṃ nihitaṃ guhāyām 33 yaḥ saṃprasādaṃ jagataḥ śarīraṃ; sarvān sa lokān adhigacchatīha tasmin hutaṃ tarpayatīha devāṃs; te vai tṛptās tarpayanty āsyam asya 34 tejomayo nityatanuḥ purāṇo; lokān anantān abhayān upaiti bhūtāni yasmān na trasante kadā cit; sa bhūtebhyo na trasate kadā cit 35 agarhaṇīyo na ca garhate 'nyān; sa vai vipraḥ paramātmānam īkṣet vinītamoho vyapanītakalmaṣo; na ceha nāmutra ca ye 'rtham ṛcchati 36 aroṣa mohaḥ sma loṣṭa kāñcanaḥ; prahīna śoko gatasaṃdhi vigrahaḥ apetanindāstutir apriyāpriyaś; carann udāsīnavad eṣa bhikṣukaḥ |
The Mahabharata in Sanskrit
Book 12
Chapter 238
|
1
[वयास] परकृतेस तु विकारा ये कषेत्रज्ञस तैः परिश्रितः ते चैनं न परजानन्ति स तु जानाति तान अपि 2 तैश चैष कुरुते कार्यं मनः सस्थैर इहेन्द्रियैः सुदान्तैर इव संयन्ता दृधैः परमवाजिभिः 3 इन्द्रियेभ्यॊ परा हय अर्था अर्थेभ्यः परमं मनः मनसस तु परा बुद्धिर बुद्धेर आत्मा महान परः 4 महतः परम अव्यक्तम अव्यक्तात परतॊ ऽमृतम अमृतान न परं किं चित सा काष्ठा सा परा गतिः 5 एवं सर्वेषु भूतेषु गूढॊ ऽऽतमा न परकाशते दृश्यते तवाग्र्यया बुद्ध्या सूक्ष्मया तत्त्वदर्शिभिः 6 अन्तरात्मनि संलीयमनः सस्थानि मेधया इन्द्रियाणीन्द्रियार्थांश च बहु चिन्त्यमचिन्तयन 7 धयानॊपरमणं कृत्वा विद्या संपादितं मनः अनीश्वरः परशान्तात्म ततॊ ऽरछत्य अमृतं पदम 8 इन्द्रियाणां तु सर्वेषां वश्यात्मा चलितस्मृतिः आत्मनः संप्रदानेन मर्त्यॊ मृत्युम उपाश्नुते 9 हित्वा तु सर्वसंकल्पान सत्त्वे चित्तं निवेशयेत सत्त्वे चित्तं समावेश्य ततः कालंजरॊ भवेत 10 चित्तप्रसादेन यतिर जहाति हि शुभाशुभम परसन्नात्मात्मनि सथित्वा सुखम आनन्त्यम अश्नुते 11 लक्षणं तु परसादस्य यथा तृप्तः सुखं सवपेत निवाते वा यथा दीपॊ दीप्यमानॊ न कम्पते 12 एवं पूर्वापरे रात्रे युञ्जन्न आत्मानम आत्मना सत्त्वाहार विशुद्धात्मा पश्यत्य आत्मानम आत्मनि 13 रहस्यं सर्ववेदानाम अनैतिह्यम अनागमम आत्मप्रत्ययिकं शास्त्रम इदं पुत्रानुशासनम 14 धर्माख्यानेषु सर्वेषु सत्याख्यानेषु यद वसु दशेदम ऋक सहस्राणि निर्मथ्यामृतम उद्धृतम 15 नव नीतं यथा दध्नः काष्ठाद अग्निर यथैव च तथैव विदुषां जञानं पुत्र हेतॊः समुद्धृतम सनातकानाम इदं शास्त्रं वाच्यं पुत्रानुशासनम 16 तद इदं नाप्रशान्ताय नादान्तायातपस्विने नावेद विदुषे वाच्यं तथा नानुगताय च 17 नासूयकायानृजवे न चानिर्दिष्ट कारिणे न तर्क शास्त्रदग्धाय तथैव पिशुनाय च 18 शलाघते शलाघनीयाय परशान्ताय तपस्विने इदं परियाय पुत्राय शिष्यायानुगताय च रहस्यधर्मं वक्तव्यं नान्यस्मै तु कथंचनन 19 यद्य अप्य अस्य महीं दद्याद रत्नपूर्णाम इमां नरः इदम एव ततः शरेय इति मन्येत तत्त्ववित 20 अतॊ गुह्यतरार्थं तद अध्यात्मम अतिमानुषम यत तन महर्षिभिर दृष्टं वेदान्तेषु च गीयते तत ते ऽहं संप्रवक्ष्यामि यन मां तवं परिपृच्छसि |
1
[vyāsa] prakṛtes tu vikārā ye kṣetrajñas taiḥ pariśritaḥ te cainaṃ na prajānanti sa tu jānāti tān api 2 taiś caiṣa kurute kāryaṃ manaḥ sasthair ihendriyaiḥ sudāntair iva saṃyantā dṛdhaiḥ paramavājibhiḥ 3 indriyebhyo parā hy arthā arthebhyaḥ paramaṃ manaḥ manasas tu parā buddhir buddher ātmā mahān paraḥ 4 mahataḥ param avyaktam avyaktāt parato 'mṛtam amṛtān na paraṃ kiṃ cit sā kāṣṭhā sā parā gatiḥ 5 evaṃ sarveṣu bhūteṣu gūḍho ''tmā na prakāśate dṛśyate tvāgryayā buddhyā sūkṣmayā tattvadarśibhiḥ 6 antarātmani saṃlīyamanaḥ sasthāni medhayā indriyāṇīndriyārthāṃś ca bahu cintyamacintayan 7 dhyānoparamaṇaṃ kṛtvā vidyā saṃpāditaṃ manaḥ anīśvaraḥ praśāntātma tato 'rchaty amṛtaṃ padam 8 indriyāṇāṃ tu sarveṣāṃ vaśyātmā calitasmṛtiḥ ātmanaḥ saṃpradānena martyo mṛtyum upāśnute 9 hitvā tu sarvasaṃkalpān sattve cittaṃ niveśayet sattve cittaṃ samāveśya tataḥ kālaṃjaro bhavet 10 cittaprasādena yatir jahāti hi śubhāśubham prasannātmātmani sthitvā sukham ānantyam aśnute 11 lakṣaṇaṃ tu prasādasya yathā tṛptaḥ sukhaṃ svapet nivāte vā yathā dīpo dīpyamāno na kampate 12 evaṃ pūrvāpare rātre yuñjann ātmānam ātmanā sattvāhāra viśuddhātmā paśyaty ātmānam ātmani 13 rahasyaṃ sarvavedānām anaitihyam anāgamam ātmapratyayikaṃ śāstram idaṃ putrānuśāsanam 14 dharmākhyāneṣu sarveṣu satyākhyāneṣu yad vasu daśedam ṛk sahasrāṇi nirmathyāmṛtam uddhṛtam 15 nava nītaṃ yathā dadhnaḥ kāṣṭhād agnir yathaiva ca tathaiva viduṣāṃ jñānaṃ putra hetoḥ samuddhṛtam snātakānām idaṃ śāstraṃ vācyaṃ putrānuśāsanam 16 tad idaṃ nāpraśāntāya nādāntāyātapasvine nāveda viduṣe vācyaṃ tathā nānugatāya ca 17 nāsūyakāyānṛjave na cānirdiṣṭa kāriṇe na tarka śāstradagdhāya tathaiva piśunāya ca 18 ślāghate ślāghanīyāya praśāntāya tapasvine idaṃ priyāya putrāya śiṣyāyānugatāya ca rahasyadharmaṃ vaktavyaṃ nānyasmai tu kathaṃcanan 19 yady apy asya mahīṃ dadyād ratnapūrṇām imāṃ naraḥ idam eva tataḥ śreya iti manyeta tattvavit 20 ato guhyatarārthaṃ tad adhyātmam atimānuṣam yat tan maharṣibhir dṛṣṭaṃ vedānteṣu ca gīyate tat te 'haṃ saṃpravakṣyāmi yan māṃ tvaṃ paripṛcchasi |
The Mahabharata in Sanskrit
Book 12
Chapter 239
|
1
[षुक्र] अध्यात्मं विस्तरेणेह पुनर एव वदस्व मे यद अध्यात्मं यथा चेदं भगवन्न ऋषिसत्तम 2 [वयास] अध्यात्मं यद इदं तात पुरुषस्येह विद्यते तत ते ऽहं संप्रवक्ष्यामि तस्य वयाख्याम इमां शृणु 3 भूमिर आपस तथा जयॊतिर वायुर आकाशम एव च महाभूतानि भूतानां सागरस्यॊर्मयॊ यथा 4 परसार्येह यथाङ्गानि कूर्मः संहरते पुनः तद्वन महान्ति भूतानि यवीयःसु विकुर्वते 5 इति तन्मयम एवेदं सर्वं सथावरजङ्गमम सर्गे च परलये चैव तस्मान निर्दिश्यते तथा 6 महाभूतानि पञ्चैव सर्वभूतेषु भूतकृत अकरॊत तात वैषम्यं यस्मिन यद अनुपश्यति 7 [षुक] अकरॊद यच छरीरेषु कथं तद उपलक्षयेत इन्द्रियाणि गुणाः के चित कथं तान उपलक्षयेत 8 [वयास] एतत ते वर्तयिष्यामि यथावद इह दर्शनम शृणु तत्त्वम इहैकाग्रॊ यथातत्त्वं यथा च तत 9 शब्दः शरॊत्रं तथा खानि तरयम आकाशसंभवम पराणश चेष्टा तथा सपर्श एते वायुगुणास तरयः 10 रूपं चक्षुर विपाकश च तरिधा जयॊतिर विधीयते रसॊ ऽथ रसनं सनेहॊ गुणास तव एते तरयॊ ऽमभसाम 11 घरेयं घराणं शरीरं च भूमेर एते गुणास तरयः एतावान इन्द्रियग्रामॊ वयाख्यातः पाञ्चभौतिकः 12 वायॊः सपर्शॊ रसॊ ऽदभ्यश च जयॊतिषॊ रूपम उच्यते आकाशप्रभवः शब्दॊ गन्धॊ भूमिगुणः समृतः 13 मनॊ बुद्धिश च भावश च तरय एते ऽऽतमयॊनिजाः न गुणान अतिवर्तन्ते गुणेभ्यः परमा मताः 14 इन्द्रियाणि नरे पञ्च सस्थं तु मन उच्यते सप्तमीं बुद्धिम एवाहुः कषेत्रज्ञं पुनर अस्तमम 15 चक्षुर आलॊचनायैव संशयं कुरुते मनः बुद्धिर अध्यवसानाय साक्षी कषेत्रज्ञ उच्यते 16 रजस तमश च सत्त्वं च तरय एते सवयॊनिजाः समाः सर्वेषु भूतेषु तद गुणेषूपलक्षयेत 17 यथा कूर्म इहाङ्गानि परसार्य विनियच्छति एवम एवेन्द्रिय गरामं बुद्धिः सृष्ट्वा नियच्छति 18 यद ऊर्ध्वं पादतलयॊर अवाङ्मूर्ध्नश च पश्यति एतस्मिन्न एव कृत्ये वै वर्तते बुद्धिर उत्तमा 19 गुणान नेनीयते बुद्धिर बुद्धिर एवेन्द्रियाण्य अपि मनः सस्थानि सर्वाणि बुद्ध्यभावे कुतॊ गुणाः 20 तत्र यत परीतिसंयुक्तं किं चिद आत्मनि लक्षयेत परशान्तम इव संशुद्धं सत्त्वं तद उपधारयेत 21 यत तु संतापसंयुक्तं काये मनसि वा भवेत रजः परवर्तकं तत सयात सततं हारि देहिनाम 22 यत तु संमॊह संयुक्तम अव्यक्तविषयं भवेत अप्रतर्क्यम अविज्ञेयं तमस तद उपधार्यताम 23 परहर्षः परीतिर आनन्दः साम्यं सवस्थात्म चित्तता अकस्माद यदि वा कस्माद वर्तते सात्त्विकॊ गुणः 24 अभिमानॊ मृषावादॊ लॊभॊ मॊहस तथाक्षमा लिङ्गानि रजसस तानि वर्तन्ते हेत्वहेतुतः 25 तथा मॊहः परमादश च तन्द्री निद्रा परबॊधिता कथं चिद अभिवर्तन्ते विज्ञेयास तामसा गुणाः |
1
[ṣukra] adhyātmaṃ vistareṇeha punar eva vadasva me yad adhyātmaṃ yathā cedaṃ bhagavann ṛṣisattama 2 [vyāsa] adhyātmaṃ yad idaṃ tāta puruṣasyeha vidyate tat te 'haṃ saṃpravakṣyāmi tasya vyākhyām imāṃ śṛṇu 3 bhūmir āpas tathā jyotir vāyur ākāśam eva ca mahābhūtāni bhūtānāṃ sāgarasyormayo yathā 4 prasāryeha yathāṅgāni kūrmaḥ saṃharate punaḥ tadvan mahānti bhūtāni yavīyaḥsu vikurvate 5 iti tanmayam evedaṃ sarvaṃ sthāvarajaṅgamam sarge ca pralaye caiva tasmān nirdiśyate tathā 6 mahābhūtāni pañcaiva sarvabhūteṣu bhūtakṛt akarot tāta vaiṣamyaṃ yasmin yad anupaśyati 7 [ṣuka] akarod yac charīreṣu kathaṃ tad upalakṣayet indriyāṇi guṇāḥ ke cit kathaṃ tān upalakṣayet 8 [vyāsa] etat te vartayiṣyāmi yathāvad iha darśanam śṛṇu tattvam ihaikāgro yathātattvaṃ yathā ca tat 9 śabdaḥ śrotraṃ tathā khāni trayam ākāśasaṃbhavam prāṇaś ceṣṭā tathā sparśa ete vāyuguṇās trayaḥ 10 rūpaṃ cakṣur vipākaś ca tridhā jyotir vidhīyate raso 'tha rasanaṃ sneho guṇās tv ete trayo 'mbhasām 11 ghreyaṃ ghrāṇaṃ śarīraṃ ca bhūmer ete guṇās trayaḥ etāvān indriyagrāmo vyākhyātaḥ pāñcabhautikaḥ 12 vāyoḥ sparśo raso 'dbhyaś ca jyotiṣo rūpam ucyate ākāśaprabhavaḥ śabdo gandho bhūmiguṇaḥ smṛtaḥ 13 mano buddhiś ca bhāvaś ca traya ete ''tmayonijāḥ na guṇān ativartante guṇebhyaḥ paramā matāḥ 14 indriyāṇi nare pañca sasthaṃ tu mana ucyate saptamīṃ buddhim evāhuḥ kṣetrajñaṃ punar astamam 15 cakṣur ālocanāyaiva saṃśayaṃ kurute manaḥ buddhir adhyavasānāya sākṣī kṣetrajña ucyate 16 rajas tamaś ca sattvaṃ ca traya ete svayonijāḥ samāḥ sarveṣu bhūteṣu tad guṇeṣūpalakṣayet 17 yathā kūrma ihāṅgāni prasārya viniyacchati evam evendriya grāmaṃ buddhiḥ sṛṣṭvā niyacchati 18 yad ūrdhvaṃ pādatalayor avāṅmūrdhnaś ca paśyati etasminn eva kṛtye vai vartate buddhir uttamā 19 guṇān nenīyate buddhir buddhir evendriyāṇy api manaḥ sasthāni sarvāṇi buddhyabhāve kuto guṇāḥ 20 tatra yat prītisaṃyuktaṃ kiṃ cid ātmani lakṣayet praśāntam iva saṃśuddhaṃ sattvaṃ tad upadhārayet 21 yat tu saṃtāpasaṃyuktaṃ kāye manasi vā bhavet rajaḥ pravartakaṃ tat syāt satataṃ hāri dehinām 22 yat tu saṃmoha saṃyuktam avyaktaviṣayaṃ bhavet apratarkyam avijñeyaṃ tamas tad upadhāryatām 23 praharṣaḥ prītir ānandaḥ sāmyaṃ svasthātma cittatā akasmād yadi vā kasmād vartate sāttviko guṇaḥ 24 abhimāno mṛṣāvādo lobho mohas tathākṣamā liṅgāni rajasas tāni vartante hetvahetutaḥ 25 tathā mohaḥ pramādaś ca tandrī nidrā prabodhitā kathaṃ cid abhivartante vijñeyās tāmasā guṇāḥ |
The Mahabharata in Sanskrit
Book 12
Chapter 240
|
1
[वयास] मनः परसृजते भावं बुद्धिर अध्यवसायिनी हृदयं परियाप्रिये वेद तरिविधा कर्मचॊदना 2 इन्द्रियेभ्यः परा हय अर्था अर्थेभ्यः परमं मनः मनसस तु परा बुद्धिर बुद्धेर आत्मा परॊ मतः 3 बुद्धिर आत्मा मनुष्यस्य बुद्धिर एवात्मनॊ ऽऽतमिका यदा विकुरुते भावं तदा भवति सा मनः 4 इन्द्रियाणां पृथग्भावाद बुद्धिर विक्रियते हय अनु शृण्वती भवति शरॊतं सपृशती सपर्श उच्यते 5 पश्यन्ती भवते दृष्टी रसती रसनं भवेत जिघ्रती भवति घराणं बुद्धिविक्रियते पृथक 6 इन्द्रियाणीति तान्य आहुस तेष्व अदृश्याधितिष्ठति तिष्ठती पुरुषे बुद्धिस तरिषु भावेषु वर्तते 7 कदा चिल लभते परीतिं कदा चिद अपि शॊचते न सुखेन न दुःखेन कदा चिद इह युज्यते 8 सेयं भावात्मिका भावांस तरीन एतान अतिवर्तते सरितां सागरॊ भर्ता महावेलाम इवॊर्मिमान 9 यदा परार्थयते किं चित तदा भवति सा मनः अधिष्ठानानि वै बुद्ध्या पृथग एतानि संस्मरेत इन्द्रियाण्य एव मेध्यानि विजेतव्यानि कृत्स्नशः 10 सर्वाण्य एवानुपूर्व्येण यद यन नानुविधीयते अविभाग गता बुद्धिर भावे मनसि वर्तते परवर्तमानं तु रजः सत्त्वम अप्य अनुवर्तते 11 ये चैव भावा वर्तन्ते सर्व एष्व एव ते तरिषु अन्वर्थाः संप्रवर्तन्ते रथनेमिम अरा इव 12 परदीपार्थं नरः कुर्याद इन्द्रियैर बुद्धिसत्तमैः निश्चरद्भिर यथायॊगम उदासीनैर यदृच्छया 13 एवं सवभावम एवेदम इति विद्वान न मुह्यति अशॊचन्न अप्रहृष्यंश च नित्यं विगतमत्सरः 14 न हय आत्मा शक्यते दरष्टुम इन्द्रियैः कामगॊचरैः परवर्तमानैर अनये दुर्धरैर अकृतात्मभिः 15 तेषां तु मनसा रश्मीन यदा सम्यङ नियच्छति तदा परकाशते हय आत्मा घते दीप इव जवजन सर्वेषाम एव भूतानां तमस्य अपगते यथा 16 यथा वारि चरः पक्षी न लिप्यति जले चरन एवम एव कृतप्रज्ञॊ न दॊषैर विषयांश चरन असज्जमानः सर्वेषु न कथं चन लिप्यते 17 तयक्त्वा पूर्वकृतं कर्म रतिर यस्य सदात्मनि सर्वभूतात्मभूतस्य गुणमार्गेष्व असज्जतः 18 सत्त्वम आत्मा परसवति गुणान वापि कदा चन न गुणा विदुर आत्मानं गुणान वेद स सर्वदा 19 परिद्रस्ता गुणानां स सरष्टा चैव यथातथम सत्त्वक्षेत्रज्ञयॊर एतद अन्तरं विद्धि सूक्ष्मयॊः 20 सृजते तु गुणान एक एकॊ न सृजते गुणान पृथग भूतौ परकृत्या तौ संप्रयुक्तौ च सर्वदा 21 यथामत्स्यॊ ऽदभिर अन्यः सन संप्रयुक्तौ तथैव तौ मशकॊदुम्बरौ चापि संप्रयुक्तौ यथा सह 22 इषीका वा यथा मुञ्जे पृथक च सह चैव च तथैव सहिताव एताव अन्यॊन्यस्मिन परतिष्ठितौ |
1
[vyāsa] manaḥ prasṛjate bhāvaṃ buddhir adhyavasāyinī hṛdayaṃ priyāpriye veda trividhā karmacodanā 2 indriyebhyaḥ parā hy arthā arthebhyaḥ paramaṃ manaḥ manasas tu parā buddhir buddher ātmā paro mataḥ 3 buddhir ātmā manuṣyasya buddhir evātmano ''tmikā yadā vikurute bhāvaṃ tadā bhavati sā manaḥ 4 indriyāṇāṃ pṛthagbhāvād buddhir vikriyate hy anu śṛṇvatī bhavati śrotaṃ spṛśatī sparśa ucyate 5 paśyantī bhavate dṛṣṭī rasatī rasanaṃ bhavet jighratī bhavati ghrāṇaṃ buddhivikriyate pṛthak 6 indriyāṇīti tāny āhus teṣv adṛśyādhitiṣṭhati tiṣṭhatī puruṣe buddhis triṣu bhāveṣu vartate 7 kadā cil labhate prītiṃ kadā cid api śocate na sukhena na duḥkhena kadā cid iha yujyate 8 seyaṃ bhāvātmikā bhāvāṃs trīn etān ativartate saritāṃ sāgaro bhartā mahāvelām ivormimān 9 yadā prārthayate kiṃ cit tadā bhavati sā manaḥ adhiṣṭhānāni vai buddhyā pṛthag etāni saṃsmaret indriyāṇy eva medhyāni vijetavyāni kṛtsnaśaḥ 10 sarvāṇy evānupūrvyeṇa yad yan nānuvidhīyate avibhāga gatā buddhir bhāve manasi vartate pravartamānaṃ tu rajaḥ sattvam apy anuvartate 11 ye caiva bhāvā vartante sarva eṣv eva te triṣu anvarthāḥ saṃpravartante rathanemim arā iva 12 pradīpārthaṃ naraḥ kuryād indriyair buddhisattamaiḥ niścaradbhir yathāyogam udāsīnair yadṛcchayā 13 evaṃ svabhāvam evedam iti vidvān na muhyati aśocann aprahṛṣyaṃś ca nityaṃ vigatamatsaraḥ 14 na hy ātmā śakyate draṣṭum indriyaiḥ kāmagocaraiḥ pravartamānair anaye durdharair akṛtātmabhiḥ 15 teṣāṃ tu manasā raśmīn yadā samyaṅ niyacchati tadā prakāśate hy ātmā ghate dīpa iva jvajan sarveṣām eva bhūtānāṃ tamasy apagate yathā 16 yathā vāri caraḥ pakṣī na lipyati jale caran evam eva kṛtaprajño na doṣair viṣayāṃś caran asajjamānaḥ sarveṣu na kathaṃ cana lipyate 17 tyaktvā pūrvakṛtaṃ karma ratir yasya sadātmani sarvabhūtātmabhūtasya guṇamārgeṣv asajjataḥ 18 sattvam ātmā prasavati guṇān vāpi kadā cana na guṇā vidur ātmānaṃ guṇān veda sa sarvadā 19 paridrastā guṇānāṃ sa sraṣṭā caiva yathātatham sattvakṣetrajñayor etad antaraṃ viddhi sūkṣmayoḥ 20 sṛjate tu guṇān eka eko na sṛjate guṇān pṛthag bhūtau prakṛtyā tau saṃprayuktau ca sarvadā 21 yathāmatsyo 'dbhir anyaḥ san saṃprayuktau tathaiva tau maśakodumbarau cāpi saṃprayuktau yathā saha 22 iṣīkā vā yathā muñje pṛthak ca saha caiva ca tathaiva sahitāv etāv anyonyasmin pratiṣṭhitau |
The Mahabharata in Sanskrit
Book 12
Chapter 241
|
1
[वयास] सृजते तु गुणान सत्त्वं कषेत्रज्ञस तव अनुतिष्ठति गुणान विक्रियतः सर्वान उदासीनवद ईश्वरः 2 सवभावयुक्तं तत सर्वं यद इमां सृजते गुणान ऊर्ण नाभिर यथा सूत्रं सृजते तन्तुवद गुणान 3 परध्वस्ता न निवर्तन्ते परवृत्तिर नॊपलभ्यते एवम एके वयवस्यन्ति निवृत्तिर इति चापरे 4 उभयं संप्रधार्यैतद अध्यवस्येद यथामति अनेनैव विधानेन भवेद गर्भशयॊ महान 5 अनादि निधनं नित्यम आसाद्य विचरेन नरः अक्रुध्यन्न अप्रहृष्यंश च नित्यं विगतमत्सरः 6 इत्य एवं हृदयग्रन्थिं बुद्धिचिन्तामयं दृधम अतीत्य सुखम आसीत अशॊचंश छिन्नसंशयः 7 तप्येयुः परच्युताः पृथ्व्या यथा पूर्णां नदीं नराः अवगाधा हय अविद्वांसॊ विद्धि लॊकम इमं तथा 8 न तु ताम्यति वै विद्वान सथले चरति तत्त्ववित एवं यॊ विन्दते ऽऽतमानं केवलं जञानम आत्मनः 9 एवं बुद्ध्वा नरः सर्वां भूतानाम आगतिं गतिम समवेक्ष्य शनैः सम्यग लभते शमम उत्तमम 10 एतद वै जन्म सामर्थ्यं बराह्मणस्य विशेषतः आत्मज्ञानं शमश चैव पर्याप्तं तत्परायनम 11 एतद बुद्ध्वा भवेद बुद्धः किम अन्यद बुद्ध लक्षणम विज्ञायैतद विमुच्यन्ते कृतकृत्या मनीषिणः 12 न भवति विदुषां महद भयं; यद अविदुषां सुमहद भयं भवेत न हि गतिर अधिकास्ति कस्य चिद; भवति हि या विदुषः सनातनी 13 लॊकमातुरम असूयते जनस; तत तद एव च निरीक्ष्य शॊचते तत्र पश्य कुशलान अशॊचतॊ; ये विदुस तद उभयं कृताकृतम 14 यत करॊत्य अनभिसंधि पूर्वकं; तच च निर्नुदति यत पुरा कृतम न परियं तद उभयं न चाप्रियं; तस्य तज जनयतीह कुर्वतः |
1
[vyāsa] sṛjate tu guṇān sattvaṃ kṣetrajñas tv anutiṣṭhati guṇān vikriyataḥ sarvān udāsīnavad īśvaraḥ 2 svabhāvayuktaṃ tat sarvaṃ yad imāṃ sṛjate guṇān ūrṇa nābhir yathā sūtraṃ sṛjate tantuvad guṇān 3 pradhvastā na nivartante pravṛttir nopalabhyate evam eke vyavasyanti nivṛttir iti cāpare 4 ubhayaṃ saṃpradhāryaitad adhyavasyed yathāmati anenaiva vidhānena bhaved garbhaśayo mahān 5 anādi nidhanaṃ nityam āsādya vicaren naraḥ akrudhyann aprahṛṣyaṃś ca nityaṃ vigatamatsaraḥ 6 ity evaṃ hṛdayagranthiṃ buddhicintāmayaṃ dṛdham atītya sukham āsīta aśocaṃś chinnasaṃśayaḥ 7 tapyeyuḥ pracyutāḥ pṛthvyā yathā pūrṇāṃ nadīṃ narāḥ avagādhā hy avidvāṃso viddhi lokam imaṃ tathā 8 na tu tāmyati vai vidvān sthale carati tattvavit evaṃ yo vindate ''tmānaṃ kevalaṃ jñānam ātmanaḥ 9 evaṃ buddhvā naraḥ sarvāṃ bhūtānām āgatiṃ gatim samavekṣya śanaiḥ samyag labhate śamam uttamam 10 etad vai janma sāmarthyaṃ brāhmaṇasya viśeṣataḥ ātmajñānaṃ śamaś caiva paryāptaṃ tatparāyanam 11 etad buddhvā bhaved buddhaḥ kim anyad buddha lakṣaṇam vijñāyaitad vimucyante kṛtakṛtyā manīṣiṇaḥ 12 na bhavati viduṣāṃ mahad bhayaṃ; yad aviduṣāṃ sumahad bhayaṃ bhavet na hi gatir adhikāsti kasya cid; bhavati hi yā viduṣaḥ sanātanī 13 lokamāturam asūyate janas; tat tad eva ca nirīkṣya śocate tatra paśya kuśalān aśocato; ye vidus tad ubhayaṃ kṛtākṛtam 14 yat karoty anabhisaṃdhi pūrvakaṃ; tac ca nirnudati yat purā kṛtam na priyaṃ tad ubhayaṃ na cāpriyaṃ; tasya taj janayatīha kurvataḥ |
The Mahabharata in Sanskrit
Book 12
Chapter 242
|
1
[षुक्र] यस्माद धर्मात परॊ धर्मॊ विद्यते नेह कश चन यॊ विशिष्टश च धर्मेभ्यस तं भवान परब्रवीतु मे 2 [वयास] धर्मं ते संप्रवक्ष्यामि पुराणम ऋषिसंस्तुतम विशिष्टं सर्वधर्मेभ्यस तम इहैकमनाः शृणु 3 इन्द्रियाणि परमाथीनि बुद्ध्या संयम्य यत्नतः सर्वतॊ निष्पतिष्णूनि पिता बालान इवात्मजान 4 मनसश चेन्द्रियाणां च हय ऐकाग्र्यं परमं तपः तज जयायः सर्वधर्मेभ्यः स धर्मः पर उच्यते 5 तानि सर्वाणि संधाय मनः सस्थानि मेधया आत्मतृप्त इवासीत बहु चिन्त्यम अचिन्तयन 6 गॊचरेभ्यॊ निवृत्तानि यदा सथास्यन्ति वेश्मनि तदा तवम आत्मनात्मानं परं दरक्ष्यसि शाश्वतम 7 सर्वात्मानं महात्मानं विधूमम इव पावकम तं पश्यन्ति महात्मानॊ बराह्मणा ये मनीषिणः 8 यथा पुष्प फलॊपेतॊ बहुशाखॊ महाद्रुमः आत्मनॊ नाभिजानीते कव मे पुष्पं कव मे फलम 9 एवम आत्मा न जानीते कव गमिष्ये कुतॊ नव अहम अन्यॊ हय अत्रान्तर आत्मास्ति यः सर्वम अनुपश्यति 10 जञानदीपेन दीप्तेन पश्यत्य आत्मानम आत्मना दृष्ट्वा तवम आत्मनात्मानं निरात्मा भव सर्ववित 11 विमुक्तः सर्वपापेभ्यॊ मुक्तत्वच इवॊरगः परां बुद्धिम अवाप्येह विपाप्मा विगतज्वरः 12 सर्वतः सरॊतसं घॊरां नदीं लॊकप्रवाहिनीम पञ्चेन्द्रिय गराहवतीं मनःसंकल्परॊधसम 13 लॊभमॊहतृणछन्नां कामक्रॊधसरीसृपाम सत्यतीर्थानृत कषॊभां करॊधपङ्कां सरिद वराम 14 अव्यक्तप्रभवां शीघ्रां दुस्तराम अकृतात्मभिः परतरस्व नदीं बुद्ध्या कामग्राहसमाकुलाम 15 संसारसागर गमां यॊनिपाताल दुस्तराम आत्मजन्मॊद्भवां तात जिह्वावर्तां दुरासदाम 16 यां तरन्ति कृतप्रज्ञा धृतिमन्तॊ मनीषिणः तां तीर्णः सर्वतॊ मुक्तॊ विपूतात्मात्मविच छुचिः 17 उत्तमां बुद्धिम आस्थाय बरह्मभूयं गमिष्यसि संतीर्णः सर्वसंक्लेशान परसन्नात्मा विकल्मसः 18 भूमिष्ठानीव भूतानि पर्वतस्थॊ निशामय अक्रुध्यन्न अप्रहृष्यंश च ननृशंस मतिस तथा ततॊ दरक्ष्यसि भूतानां सर्वेषां परभवाप्ययौ 19 एवं वै सर्वधर्मेभ्यॊ विशिष्टं मेनिरे बुधाः धर्मं धर्मभृतां शरेष्ठ मुनयस तत्त्वदर्शिनः 20 आत्मनॊ ऽवययिनॊ जञात्वा इदं पुत्रानुशासनम परयताय परवक्तव्यं हितायानुगताय च 21 आत्मज्ञानम इदं गुह्यं सर्वगुह्यतमं महत अब्रुवं यद अहं तात आत्मसाक्षिकम अञ्जसा 22 नैव सत्री न पुमान एतन नैव चेदं नपुंसकम अदुःखम असुखं बरह्मभूतभव्य भवात्मकम 23 नैतज जञात्वा पुमान सत्री वा पुनर्भवम अवाप्नुयात अभव परतिपत्त्यर्थम एतद वर्त्म विधीयते 24 अथा मतानि सर्वाणि न चैतानि यथा यथा कथितानि मया पुत्र भवन्ति न भवन्ति च 25 तत परीतियुक्तेन गुणान्वितेन; पुत्रेण सत पुत्रगुणान्वितेन पृष्टॊ हीदं परीतिमता हितार्थं; बरूयात सुतस्येह यद उक्तम एतत |
1
[ṣukra] yasmād dharmāt paro dharmo vidyate neha kaś cana yo viśiṣṭaś ca dharmebhyas taṃ bhavān prabravītu me 2 [vyāsa] dharmaṃ te saṃpravakṣyāmi purāṇam ṛṣisaṃstutam viśiṣṭaṃ sarvadharmebhyas tam ihaikamanāḥ śṛṇu 3 indriyāṇi pramāthīni buddhyā saṃyamya yatnataḥ sarvato niṣpatiṣṇūni pitā bālān ivātmajān 4 manasaś cendriyāṇāṃ ca hy aikāgryaṃ paramaṃ tapaḥ taj jyāyaḥ sarvadharmebhyaḥ sa dharmaḥ para ucyate 5 tāni sarvāṇi saṃdhāya manaḥ sasthāni medhayā ātmatṛpta ivāsīta bahu cintyam acintayan 6 gocarebhyo nivṛttāni yadā sthāsyanti veśmani tadā tvam ātmanātmānaṃ paraṃ drakṣyasi śāśvatam 7 sarvātmānaṃ mahātmānaṃ vidhūmam iva pāvakam taṃ paśyanti mahātmāno brāhmaṇā ye manīṣiṇaḥ 8 yathā puṣpa phalopeto bahuśākho mahādrumaḥ ātmano nābhijānīte kva me puṣpaṃ kva me phalam 9 evam ātmā na jānīte kva gamiṣye kuto nv aham anyo hy atrāntar ātmāsti yaḥ sarvam anupaśyati 10 jñānadīpena dīptena paśyaty ātmānam ātmanā dṛṣṭvā tvam ātmanātmānaṃ nirātmā bhava sarvavit 11 vimuktaḥ sarvapāpebhyo muktatvaca ivoragaḥ parāṃ buddhim avāpyeha vipāpmā vigatajvaraḥ 12 sarvataḥ srotasaṃ ghorāṃ nadīṃ lokapravāhinīm pañcendriya grāhavatīṃ manaḥsaṃkalparodhasam 13 lobhamohatṛṇachannāṃ kāmakrodhasarīsṛpām satyatīrthānṛta kṣobhāṃ krodhapaṅkāṃ sarid varām 14 avyaktaprabhavāṃ śīghrāṃ dustarām akṛtātmabhiḥ pratarasva nadīṃ buddhyā kāmagrāhasamākulām 15 saṃsārasāgara gamāṃ yonipātāla dustarām ātmajanmodbhavāṃ tāta jihvāvartāṃ durāsadām 16 yāṃ taranti kṛtaprajñā dhṛtimanto manīṣiṇaḥ tāṃ tīrṇaḥ sarvato mukto vipūtātmātmavic chuciḥ 17 uttamāṃ buddhim āsthāya brahmabhūyaṃ gamiṣyasi saṃtīrṇaḥ sarvasaṃkleśān prasannātmā vikalmasaḥ 18 bhūmiṣṭhānīva bhūtāni parvatastho niśāmaya akrudhyann aprahṛṣyaṃś ca nanṛśaṃsa matis tathā tato drakṣyasi bhūtānāṃ sarveṣāṃ prabhavāpyayau 19 evaṃ vai sarvadharmebhyo viśiṣṭaṃ menire budhāḥ dharmaṃ dharmabhṛtāṃ śreṣṭha munayas tattvadarśinaḥ 20 ātmano 'vyayino jñātvā idaṃ putrānuśāsanam prayatāya pravaktavyaṃ hitāyānugatāya ca 21 ātmajñānam idaṃ guhyaṃ sarvaguhyatamaṃ mahat abruvaṃ yad ahaṃ tāta ātmasākṣikam añjasā 22 naiva strī na pumān etan naiva cedaṃ napuṃsakam aduḥkham asukhaṃ brahmabhūtabhavya bhavātmakam 23 naitaj jñātvā pumān strī vā punarbhavam avāpnuyāt abhava pratipattyartham etad vartma vidhīyate 24 athā matāni sarvāṇi na caitāni yathā yathā kathitāni mayā putra bhavanti na bhavanti ca 25 tat prītiyuktena guṇānvitena; putreṇa sat putraguṇānvitena pṛṣṭo hīdaṃ prītimatā hitārthaṃ; brūyāt sutasyeha yad uktam etat |
The Mahabharata in Sanskrit
Book 12
Chapter 243
|
1
[वयास] गन्धान रसान नानुरुन्ध्यात सुखं वा; नालंकारांश चाप्नुयात तस्य तस्य मानं च कीर्तिं च यशश च नेच्छेत; स वै परचारः पश्यतॊ बराह्मणस्य 2 सर्वान वेदान अधीयीत शुश्रूसुर बरह्मचर्यवान ऋचॊ यजूंसि सामानि न तेन न स बराह्मणः 3 जञातिवत सर्वभूतानां सर्ववित सर्ववेदवित नाकामॊ मरियते जातु न तेन न च बराह्मणः 4 इष्टीश च विविधाः पराप्य करतूंश चैवाप्तदक्षिणान नैव पराप्नॊति बराह्मण्यम अभिध्यानात कथं चन 5 यदा चायं न बिभेति यदा चास्मान न बिभ्यति यदा नेच्छति न दवेष्टि बरह्म संपद्यते तदा 6 यदा न कुरुते भावं सर्वभूतेषु पापकम कर्मणा मनसा वाचा बरह्म संपद्यते तदा 7 कामबन्धनम एवैकं नान्यद अस्तीह बन्धनम कामबन्धन मुक्तॊ हि बरह्मभूयाय कल्पते 8 कामतॊ मुच्यमानस तु धूम्राभ्राद इव चन्द्रमः विरजाः कामम आकाङ्क्षन धीरॊ धैर्येण वर्तते 9 आपूर्यमाणम अचलप्रतिष्ठं; समुद्रम आपः परविशन्ति यद्वत स कामकान्तॊ न तु कामकामः; स वै लॊकात सवर्गम उपैति देही 10 वेदस्यॊपनिषत सत्यं सत्यस्यॊपनिषद दमः दमस्यॊपनिषद दानं दानस्यॊपनिषत तपः 11 तपसॊपनिषत तयागस तयागस्यॊपनिषत सुखम सुखस्यॊपनिषत सवर्गः सवर्गस्यॊपनिषच छमः 12 कलेदनं शॊकमनसॊः संतापं तृष्णया सह सत्त्वम इच्छसि संतॊषाच छान्ति लक्षणम उत्तमम 13 विशॊकॊ निर्ममः शान्तः परसन्नात्मात्मवित्तमः सॊ भिर लक्षणवान एतैः समग्रः पुनर एष्यति 14 सॊ भिः सत्त्वगुणॊपेतैः पराज्ञैर अधिकमन्त्रिभिः ये विदुः परेत्य चात्मानम इहस्थांस तांस तथा विदुः 15 अकृत्रिमम असंहार्यं पराकृतं निरुपस्कृतम अध्यात्मं सुकृतप्रज्ञः सुखम अव्ययम अश्नुते 16 निष्प्रचारं मनः कृत्वा परतिष्ठाप्य च सर्वतः याम अयं लभते तुष्टिं सा न शक्यम अतॊ ऽनयथा 17 येन तृप्यत्य अभुञ्जानॊ येन तुष्यत्य अवित्तवान येनास्नेहॊ बलं धत्ते यस तं वेद स वेदवित 18 संगॊप्य हय आत्मनॊ दवाराण्य अपिधाय विचिन्तयन यॊ हय आस्ते बराह्मणः शिष्टः स आत्मरतिर उच्यते 19 समाहितं परे तत्त्वे कषीणकामम अवस्थितम सर्वतः सुखम अन्वेति वपुश चान्द्रमसं यथा 20 सविशेषाणि भूतानि गुणांश चाभजतॊ मुनेः सुखेनापॊह्यते दुःखं भास्करेण तमॊ यथा 21 तम अतिक्रान्त कर्माणम अतिक्रान्त गुणक्षयम बराह्मणं विषयाश्लिष्टं जरामृत्यू न विन्दतः 22 स यदा सर्वतॊ मुक्तः समः पर्यवतिष्ठते इन्द्रियाणीन्द्रियार्थांश च शरीरस्थॊ ऽतिवर्तते 23 कारणं परमं पराप्य अतिक्रान्तस्य कार्यताम पुनरावर्तनं नास्ति संप्राप्तस्य परात परम |
1
[vyāsa] gandhān rasān nānurundhyāt sukhaṃ vā; nālaṃkārāṃś cāpnuyāt tasya tasya mānaṃ ca kīrtiṃ ca yaśaś ca necchet; sa vai pracāraḥ paśyato brāhmaṇasya 2 sarvān vedān adhīyīta śuśrūsur brahmacaryavān ṛco yajūṃsi sāmāni na tena na sa brāhmaṇaḥ 3 jñātivat sarvabhūtānāṃ sarvavit sarvavedavit nākāmo mriyate jātu na tena na ca brāhmaṇaḥ 4 iṣṭīś ca vividhāḥ prāpya kratūṃś caivāptadakṣiṇān naiva prāpnoti brāhmaṇyam abhidhyānāt kathaṃ cana 5 yadā cāyaṃ na bibheti yadā cāsmān na bibhyati yadā necchati na dveṣṭi brahma saṃpadyate tadā 6 yadā na kurute bhāvaṃ sarvabhūteṣu pāpakam karmaṇā manasā vācā brahma saṃpadyate tadā 7 kāmabandhanam evaikaṃ nānyad astīha bandhanam kāmabandhana mukto hi brahmabhūyāya kalpate 8 kāmato mucyamānas tu dhūmrābhrād iva candramaḥ virajāḥ kāmam ākāṅkṣan dhīro dhairyeṇa vartate 9 āpūryamāṇam acalapratiṣṭhaṃ; samudram āpaḥ praviśanti yadvat sa kāmakānto na tu kāmakāmaḥ; sa vai lokāt svargam upaiti dehī 10 vedasyopaniṣat satyaṃ satyasyopaniṣad damaḥ damasyopaniṣad dānaṃ dānasyopaniṣat tapaḥ 11 tapasopaniṣat tyāgas tyāgasyopaniṣat sukham sukhasyopaniṣat svargaḥ svargasyopaniṣac chamaḥ 12 kledanaṃ śokamanasoḥ saṃtāpaṃ tṛṣṇayā saha sattvam icchasi saṃtoṣāc chānti lakṣaṇam uttamam 13 viśoko nirmamaḥ śāntaḥ prasannātmātmavittamaḥ so bhir lakṣaṇavān etaiḥ samagraḥ punar eṣyati 14 so bhiḥ sattvaguṇopetaiḥ prājñair adhikamantribhiḥ ye viduḥ pretya cātmānam ihasthāṃs tāṃs tathā viduḥ 15 akṛtrimam asaṃhāryaṃ prākṛtaṃ nirupaskṛtam adhyātmaṃ sukṛtaprajñaḥ sukham avyayam aśnute 16 niṣpracāraṃ manaḥ kṛtvā pratiṣṭhāpya ca sarvataḥ yām ayaṃ labhate tuṣṭiṃ sā na śakyam ato 'nyathā 17 yena tṛpyaty abhuñjāno yena tuṣyaty avittavān yenāsneho balaṃ dhatte yas taṃ veda sa vedavit 18 saṃgopya hy ātmano dvārāṇy apidhāya vicintayan yo hy āste brāhmaṇaḥ śiṣṭaḥ sa ātmaratir ucyate 19 samāhitaṃ pare tattve kṣīṇakāmam avasthitam sarvataḥ sukham anveti vapuś cāndramasaṃ yathā 20 saviśeṣāṇi bhūtāni guṇāṃś cābhajato muneḥ sukhenāpohyate duḥkhaṃ bhāskareṇa tamo yathā 21 tam atikrānta karmāṇam atikrānta guṇakṣayam brāhmaṇaṃ viṣayāśliṣṭaṃ jarāmṛtyū na vindataḥ 22 sa yadā sarvato muktaḥ samaḥ paryavatiṣṭhate indriyāṇīndriyārthāṃś ca śarīrastho 'tivartate 23 kāraṇaṃ paramaṃ prāpya atikrāntasya kāryatām punarāvartanaṃ nāsti saṃprāptasya parāt param |
The Mahabharata in Sanskrit
Book 12
Chapter 244
|
1
[वयास] दवन्द्वानि मॊक्षजिज्ञासुर अर्थधर्माव अनुष्ठितः वक्त्रा गुणवता शिष्यः शराव्यः पूर्वम इदं महत 2 आकाशं मारुतॊ जयॊतिर आपः पृथ्वी च पञ्चमी भावाभावौ च कालश च सर्वभूतेषु पञ्चसु 3 अन्तरात्मकम आकाशं तन्मयं शरॊत्रम इन्द्रियम तस्य शब्दं गुणं विद्यान मूर्ति शास्त्रविधानवित 4 चरणं मारुतात्मेति पराणापानौ च तन्मयौ सपर्शनं चेन्द्रियं विद्यात तथा सपर्शं च तन्मयम 5 ततः पाकः परकाशश च जयॊतिश चक्षुश च तन्मयम तस्य रूपं गुणं विद्यात तमॊ ऽनववसितात्मकम 6 परक्लेदः कषुद्रता सनेह इत्य आपॊ हय उपदिश्यते रसनं चेन्द्रियं जिह्वा रसश चापां गुणॊ मतः 7 संघातः पार्थिवॊ धातुर अस्थि दन्तनखानि च शमश्रुलॊम च केशाश च सिराः सनायु च चर्म च 8 इन्द्रियं घराणसंज्ञानं नासिकेत्य अभिधीयते गन्धश चैवेन्द्रियारॊ ऽयं विज्ञेयः पृथिवीमयः 9 उत्तरेषु गुणाः सन्ति सर्वे सर्वेषु चॊत्तराः पञ्चानां भूतसंघानां संततिं मुनयॊ विदुः 10 मनॊ नवमम एषां तु बुद्धिस तु दशमी समृता एकादशॊ ऽनतरात्मा च सर्वतः पर उच्यते 11 वयवसायात्मिका बुद्धिर मनॊ वयाकरणात्मकम कर्मानुमानाद विज्ञेयः स जीवः कषेत्रसंज्ञकः 12 एभिः कालास्तमैर भावैर यः सर्वैः सर्वम अन्वितम पश्यत्य अकलुषं पराज्ञः स मॊहं नानुवर्तते |
1
[vyāsa] dvandvāni mokṣajijñāsur arthadharmāv anuṣṭhitaḥ vaktrā guṇavatā śiṣyaḥ śrāvyaḥ pūrvam idaṃ mahat 2 ākāśaṃ māruto jyotir āpaḥ pṛthvī ca pañcamī bhāvābhāvau ca kālaś ca sarvabhūteṣu pañcasu 3 antarātmakam ākāśaṃ tanmayaṃ śrotram indriyam tasya śabdaṃ guṇaṃ vidyān mūrti śāstravidhānavit 4 caraṇaṃ mārutātmeti prāṇāpānau ca tanmayau sparśanaṃ cendriyaṃ vidyāt tathā sparśaṃ ca tanmayam 5 tataḥ pākaḥ prakāśaś ca jyotiś cakṣuś ca tanmayam tasya rūpaṃ guṇaṃ vidyāt tamo 'nvavasitātmakam 6 prakledaḥ kṣudratā sneha ity āpo hy upadiśyate rasanaṃ cendriyaṃ jihvā rasaś cāpāṃ guṇo mataḥ 7 saṃghātaḥ pārthivo dhātur asthi dantanakhāni ca śmaśruloma ca keśāś ca sirāḥ snāyu ca carma ca 8 indriyaṃ ghrāṇasaṃjñānaṃ nāsikety abhidhīyate gandhaś caivendriyāro 'yaṃ vijñeyaḥ pṛthivīmayaḥ 9 uttareṣu guṇāḥ santi sarve sarveṣu cottarāḥ pañcānāṃ bhūtasaṃghānāṃ saṃtatiṃ munayo viduḥ 10 mano navamam eṣāṃ tu buddhis tu daśamī smṛtā ekādaśo 'ntarātmā ca sarvataḥ para ucyate 11 vyavasāyātmikā buddhir mano vyākaraṇātmakam karmānumānād vijñeyaḥ sa jīvaḥ kṣetrasaṃjñakaḥ 12 ebhiḥ kālāstamair bhāvair yaḥ sarvaiḥ sarvam anvitam paśyaty akaluṣaṃ prājñaḥ sa mohaṃ nānuvartate |
The Mahabharata in Sanskrit
Book 12
Chapter 245
|
1
[वयास] शरीराद विप्रमुक्तं हि सूक्ष्मभूतं शरीरिणम कर्मभिः परिपश्यन्ति शास्त्रॊक्तैः शास्त्रचेतसः 2 यथा मरीच्यः सहिताश चरन्ति; गच्छन्ति तिष्ठन्ति च दृश्यमानाः देहैर विमुक्ता विचरन्ति लॊकांस; तथैव सत्त्वान्य अतिमानुषाणि 3 परतिरूपं यथैवाप्सु तापः सूर्यस्य लक्ष्यते सत्त्ववांस तु तथा सत्त्वं परतिरूपं परपश्यति 4 तानि सूक्ष्माणि सत्त्वस्था विमुक्तानि शरीरतः सवेन तत्त्वेन तत्त्वज्ञाः पश्यन्ति नियतेन्द्रियाः 5 सवपतां जाग्रतां चैव सर्वेषाम आत्मचिन्तितम परधानद्वैध युक्तानां जहतां कर्मजं रजः 6 यथाहनि तथा रात्रौ यथा रात्रौ तथाहनि वशे तिष्ठति सत्त्वात्मा सततं यॊगयॊगिनाम 7 तेषां नित्यं सदा नित्यॊ भूतात्मा सततं गुणैः सप्तभिस तव अन्वितः सूक्ष्मैश चरिष्णुर अजरामरः 8 मनॊ बुद्धिपराभूतः सवदेहपरदेहवित सवप्नेष्व अपि भवत्य एष विज्ञाता सुखदुःखयॊः 9 तत्रापि लभते दुःखं तत्रापि लभते सुखम करॊधलॊभौ तु तत्रापि कृत्वा वयसनम अर्छति 10 परीणितश चापि भवति महतॊ ऽरथान अवाप्य च करॊति पुण्यं तत्रापि जाग्रन्न इव च पश्यति 11 तम एवम अतितेजॊ ऽंशं भूतात्मानं हृदि सथितम तमॊ रजॊ भयाम आविष्टा नानुपश्यन्ति मूर्तिषु 12 शास्त्रयॊगपरा भूत्वा सवम आत्मानं परीप्सवः अनुच्छ्वासान्य अमूर्तीनि यानि वज्रॊपमान्य अपि 13 पृथग भूतेषु सृष्टेषु चतुर्ष्व आश्रमकर्मसु समाधौ यॊगम एवैतच छान्दिल्यः शमम अब्रवीत 14 विदित्वा सप्त सूक्ष्माणि षडङ्गं च महेश्वरम परधानविनियॊगस्थः परं बरह्माधिगच्छति |
1
[vyāsa] śarīrād vipramuktaṃ hi sūkṣmabhūtaṃ śarīriṇam karmabhiḥ paripaśyanti śāstroktaiḥ śāstracetasaḥ 2 yathā marīcyaḥ sahitāś caranti; gacchanti tiṣṭhanti ca dṛśyamānāḥ dehair vimuktā vicaranti lokāṃs; tathaiva sattvāny atimānuṣāṇi 3 pratirūpaṃ yathaivāpsu tāpaḥ sūryasya lakṣyate sattvavāṃs tu tathā sattvaṃ pratirūpaṃ prapaśyati 4 tāni sūkṣmāṇi sattvasthā vimuktāni śarīrataḥ svena tattvena tattvajñāḥ paśyanti niyatendriyāḥ 5 svapatāṃ jāgratāṃ caiva sarveṣām ātmacintitam pradhānadvaidha yuktānāṃ jahatāṃ karmajaṃ rajaḥ 6 yathāhani tathā rātrau yathā rātrau tathāhani vaśe tiṣṭhati sattvātmā satataṃ yogayoginām 7 teṣāṃ nityaṃ sadā nityo bhūtātmā satataṃ guṇaiḥ saptabhis tv anvitaḥ sūkṣmaiś cariṣṇur ajarāmaraḥ 8 mano buddhiparābhūtaḥ svadehaparadehavit svapneṣv api bhavaty eṣa vijñātā sukhaduḥkhayoḥ 9 tatrāpi labhate duḥkhaṃ tatrāpi labhate sukham krodhalobhau tu tatrāpi kṛtvā vyasanam archati 10 prīṇitaś cāpi bhavati mahato 'rthān avāpya ca karoti puṇyaṃ tatrāpi jāgrann iva ca paśyati 11 tam evam atitejo 'ṃśaṃ bhūtātmānaṃ hṛdi sthitam tamo rajo bhyām āviṣṭā nānupaśyanti mūrtiṣu 12 śāstrayogaparā bhūtvā svam ātmānaṃ parīpsavaḥ anucchvāsāny amūrtīni yāni vajropamāny api 13 pṛthag bhūteṣu sṛṣṭeṣu caturṣv āśramakarmasu samādhau yogam evaitac chāndilyaḥ śamam abravīt 14 viditvā sapta sūkṣmāṇi ṣaḍaṅgaṃ ca maheśvaram pradhānaviniyogasthaḥ paraṃ brahmādhigacchati |
The Mahabharata in Sanskrit
Book 12
Chapter 246
|
1
[वयास] हृदि कामद्रुमश चित्रॊ मॊहसंचय संभवः करॊधमानमहास्कन्धॊ विवित्सा परिमॊचनः 2 तस्य चाज्ञानम आधारः परमादः परिषेचनम सॊ ऽभयसूया पलाशॊ हि पुरादुष्कृत सारवान 3 संमॊह चिन्ता वितपः शॊकशाखॊ भयंकरः मॊहनीभिः पिपासाभिर लताभिः परिवेष्टितः 4 उपासते महावृक्षं सुलुब्धास तं फलेप्सवः आयासैः संयतः पाशैः फलानि परिवेष्टयन 5 यस तान पाशान वशे कृत्वा तं वृक्षम अपकर्षति गतः स दुःखयॊर अन्तं यतमानस तयॊर दवयॊः 6 संरॊहत्य अकृतप्रज्ञः संतापेन हि पादपम स तम एव ततॊ हन्ति विषं गरसम इवातुरम 7 तस्यानुशय मूलस्य मूलम उद्ध्रियते बलात तयागाप्रमादाकृतिना साम्येन परमासिना 8 एवं यॊ वेद कामस्य केवलं परिकर्षणम वधं वै कामशास्त्रस्य स दुःखान्य अतिवर्तते 9 शरीरं पुरम इत्य आहुः सवामिनी बुद्धिर इष्यते तत्र बुद्धेः शरीरस्थं मनॊ नामार्थ चिन्तकम 10 इन्द्रियाणि जनाः पौरास तदर्थं तु परा कृतिः तत्र दवौ दारुणौ दॊषौ तमॊ नाम रजस तथा 11 यदर्थम उपजीवन्ति पौराः सह पुरेश्वराः अद्वारेण तम एवार्थं दवौ दॊषाव उपजीवतः 12 तत्र बुद्धिर हि दुर्धर्षा मनः साधर्म्यम उच्यते पौराश चापि मनस तरस्तास तेषाम अपि चला सथितिः 13 यदर्थं बुद्धिर अध्यास्ते न सॊ ऽरथः परिषीदति यदर्थं पृथग अध्यास्ते मनस तत्परिषीदति 14 पृथग भूतं यदा बुद्ध्या मनॊ भवति केवलम तत्रैवं विवृतं शून्यं रजः पर्यवतिष्ठते 15 तन्मनः कुरुते सख्यं रजसा सह संगतम तं चादाय जनं पौरं रजसे संप्रयच्छति |
1
[vyāsa] hṛdi kāmadrumaś citro mohasaṃcaya saṃbhavaḥ krodhamānamahāskandho vivitsā parimocanaḥ 2 tasya cājñānam ādhāraḥ pramādaḥ pariṣecanam so 'bhyasūyā palāśo hi purāduṣkṛta sāravān 3 saṃmoha cintā vitapaḥ śokaśākho bhayaṃkaraḥ mohanībhiḥ pipāsābhir latābhiḥ pariveṣṭitaḥ 4 upāsate mahāvṛkṣaṃ sulubdhās taṃ phalepsavaḥ āyāsaiḥ saṃyataḥ pāśaiḥ phalāni pariveṣṭayan 5 yas tān pāśān vaśe kṛtvā taṃ vṛkṣam apakarṣati gataḥ sa duḥkhayor antaṃ yatamānas tayor dvayoḥ 6 saṃrohaty akṛtaprajñaḥ saṃtāpena hi pādapam sa tam eva tato hanti viṣaṃ grasam ivāturam 7 tasyānuśaya mūlasya mūlam uddhriyate balāt tyāgāpramādākṛtinā sāmyena paramāsinā 8 evaṃ yo veda kāmasya kevalaṃ parikarṣaṇam vadhaṃ vai kāmaśāstrasya sa duḥkhāny ativartate 9 śarīraṃ puram ity āhuḥ svāminī buddhir iṣyate tatra buddheḥ śarīrasthaṃ mano nāmārtha cintakam 10 indriyāṇi janāḥ paurās tadarthaṃ tu parā kṛtiḥ tatra dvau dāruṇau doṣau tamo nāma rajas tathā 11 yadartham upajīvanti paurāḥ saha pureśvarāḥ advāreṇa tam evārthaṃ dvau doṣāv upajīvataḥ 12 tatra buddhir hi durdharṣā manaḥ sādharmyam ucyate paurāś cāpi manas trastās teṣām api calā sthitiḥ 13 yadarthaṃ buddhir adhyāste na so 'rthaḥ pariṣīdati yadarthaṃ pṛthag adhyāste manas tatpariṣīdati 14 pṛthag bhūtaṃ yadā buddhyā mano bhavati kevalam tatraivaṃ vivṛtaṃ śūnyaṃ rajaḥ paryavatiṣṭhate 15 tanmanaḥ kurute sakhyaṃ rajasā saha saṃgatam taṃ cādāya janaṃ pauraṃ rajase saṃprayacchati |
The Mahabharata in Sanskrit
Book 12
Chapter 247
|
1
[भी] भूतानां गुणसंख्यानं भूयः पुत्र निशामय दवैपायन मुखाद भरष्टं शलाघया परयानघ 2 दीप्तानलनिभः पराह भगवान धूम्रवर्चसे ततॊ ऽहम अपि वक्ष्यामि भूयः पुत्र निदर्शनम 3 भूमेः सथैर्यं पृथुत्वं च काथिन्यं परसवात्मता गन्धॊ गुरुत्वं शक्तिश च संघातः सथापना धृतिः 4 अपां शैत्यं रसः कलेदॊ दरवत्वं सनेहसौम्यता जिह्वा विष्यन्दिनी चैव भौमाप्यास्रवणं तथा 5 अग्नेर दुर्धर्षता तेजस तापः पाकः परकाशनम शौचं रागॊ लघुस तैक्ष्ण्यं दशमं चॊर्ध्वभागिता 6 वायॊर अनियमः सपर्शॊ वादस्थानं सवतन्त्रता बलं शैघ्र्यं च मॊहश च चेष्टा कर्मकृता भवः 7 आकाशस्य गुणः शब्दॊ वयापित्वं छिद्रतापि च अनाश्रयम अनालम्बम अव्यक्तम अविकारिता 8 अप्रतीघातता चैव भूतत्वं विकृतानि च गुणाः पञ्चा शतं परॊक्ताः पञ्च भूतात्मभाविताः 9 चलॊपपत्तिर वयक्तिश च विसर्गः कल्पना कषमा सद असच चाशुता चैव मनसॊ नव वै गुणाः 10 इष्टानिष्ट विकल्पश च वयवसायः समाधिता संशयः परतिपत्तिश च बुद्धौ पञ्चेह ये गुणाः 11 [य] कथं पञ्च गुणा बुद्धिः कथं पञ्चेन्द्रिया गुणाः एतन मे सर्वम आचक्ष्व सूक्ष्मज्ञानं पितामह 12 [भी] आहुः षष्टिं भूतगुणान वै; भूतविशिष्टा नित्यविषक्ताः भूतविषक्ताश चाक्षरसृष्टाः; पुत्र न नित्यं तद इह वदन्ति 13 तत पुत्र चिन्ता कलितं यद उक्तम; अनागतं वै तव संप्रतीह भूतार्थ तत्त्वं तद अवाप्य सर्वं; भूतप्रभावाद भव शान्तबुद्धिः |
1
[bhī] bhūtānāṃ guṇasaṃkhyānaṃ bhūyaḥ putra niśāmaya dvaipāyana mukhād bhraṣṭaṃ ślāghayā parayānagha 2 dīptānalanibhaḥ prāha bhagavān dhūmravarcase tato 'ham api vakṣyāmi bhūyaḥ putra nidarśanam 3 bhūmeḥ sthairyaṃ pṛthutvaṃ ca kāthinyaṃ prasavātmatā gandho gurutvaṃ śaktiś ca saṃghātaḥ sthāpanā dhṛtiḥ 4 apāṃ śaityaṃ rasaḥ kledo dravatvaṃ snehasaumyatā jihvā viṣyandinī caiva bhaumāpyāsravaṇaṃ tathā 5 agner durdharṣatā tejas tāpaḥ pākaḥ prakāśanam śaucaṃ rāgo laghus taikṣṇyaṃ daśamaṃ cordhvabhāgitā 6 vāyor aniyamaḥ sparśo vādasthānaṃ svatantratā balaṃ śaighryaṃ ca mohaś ca ceṣṭā karmakṛtā bhavaḥ 7 ākāśasya guṇaḥ śabdo vyāpitvaṃ chidratāpi ca anāśrayam anālambam avyaktam avikāritā 8 apratīghātatā caiva bhūtatvaṃ vikṛtāni ca guṇāḥ pañcā śataṃ proktāḥ pañca bhūtātmabhāvitāḥ 9 calopapattir vyaktiś ca visargaḥ kalpanā kṣamā sad asac cāśutā caiva manaso nava vai guṇāḥ 10 iṣṭāniṣṭa vikalpaś ca vyavasāyaḥ samādhitā saṃśayaḥ pratipattiś ca buddhau pañceha ye guṇāḥ 11 [y] kathaṃ pañca guṇā buddhiḥ kathaṃ pañcendriyā guṇāḥ etan me sarvam ācakṣva sūkṣmajñānaṃ pitāmaha 12 [bhī] āhuḥ ṣaṣṭiṃ bhūtaguṇān vai; bhūtaviśiṣṭā nityaviṣaktāḥ bhūtaviṣaktāś cākṣarasṛṣṭāḥ; putra na nityaṃ tad iha vadanti 13 tat putra cintā kalitaṃ yad uktam; anāgataṃ vai tava saṃpratīha bhūtārtha tattvaṃ tad avāpya sarvaṃ; bhūtaprabhāvād bhava śāntabuddhiḥ |
The Mahabharata in Sanskrit
Book 12
Chapter 248
|
1
[य] य इमे पृथिवीपालाः शेरते पृथिवीतले पृतना मध्य एते हि गतसत्त्वा महाबलाः 2 एकैकशॊ भीमबला नागायुत बलास तथा एते हि निहताः संख्ये तुल्यतेजॊबलैर नरैः 3 नैषां पश्यामि हन्तारं परानिनां संयुगे पुरा विक्रमेणॊपसंपन्नास तेजॊबलसमन्विताः 4 अथ चेमे महाप्राज्ञ शेरते हि गतासवः मृता इति च शब्दॊ ऽयं वर्तत्य एषु गतासुषु 5 इमे मृता नृपतयः परायशॊ भीमविक्रमाः तत्र मे संशयॊ जातः कुतः संज्ञा मृता इति 6 कस्य मृत्युः कुतॊ मृत्युः केन मृत्युर इह परजाः हरत्य अमरसंकाश तन मे बरूहि पितामह 7 [भी] पुरा कृतयुगे तात राजासीद अविकम्पकः स शत्रुवशम आपन्नः संग्रामे कषीणवाहनः 8 तत्र पुत्रॊ हरिर नाम नारायण समॊ बले स शत्रुभिर हतः संख्ये सबलः सपदानुगः 9 स राजा शत्रुवशगः पुत्रशॊकसमन्वितः यदृच्छयाशान्ति परॊ ददर्श भुवि नारदम 10 स तस्मै सर्वम आचस्त यथावृत्तं जनेश्वरः शत्रुभिर गरहणं संख्ये पुत्रस्य मरणं तथा 11 तस्य तद वचनं शरुत्वा नारदाथ तपॊधनः आख्यानम इदम आचस्त पुत्रशॊकापहं तदा 12 राजञ शृणु समाख्यानम अद्येदं बहुविस्तरम यथावृत्तं शरुतं चैव मयापि वसुधाधिप 13 परजाः सृष्ट्वा महातेजाः परजा सर्गे पितामहः अतीव वृद्धा बहुला नामृष्यत पुनः परजाः 14 न हय अन्तरम अभूत किं चित कव चिज जन्तुभिर अच्युत निरुच्छ्वासम इवॊन्नद्धं तरैलॊक्यम अभवन नृप 15 तस्य चिन्ता समुत्पन्न संहारं परति भूपते चिन्तयन नाध्यगच्छच च संहारे हेतुकारणम 16 तस्य रॊषान महाराज खेभ्यॊ ऽगनिर उदतिष्ठत तेन सर्वदिशॊ राजन ददाह स पितामहः 17 ततॊ दिवं भुवं खं च जगच च सचराचरम ददाह पावकॊ राजन भगवत कॊपसंभवः 18 तत्रादह्यन्त भूतानि जङ्गमानि धरुवाणि च महता कॊपवेगेन कुपिते परपितामहे 19 ततॊ हरि जतः सथानुर वेदाध्वर पतिः शिवः जगाद शरणं देवॊ बराह्मणं परवीरहा 20 तस्मिन्न अभिगते सथानौ परजानां हितकाम्यया अब्रवीद वरदॊ देवॊ जवलन्न इव तदा शिवम 21 करवाण्य अद्य कं कामं वरार्हॊ ऽसि मतॊ मम कर्ता हय अस्मि परियं शम्भॊ तव यद धृदि वर्तते |
1
[y] ya ime pṛthivīpālāḥ śerate pṛthivītale pṛtanā madhya ete hi gatasattvā mahābalāḥ 2 ekaikaśo bhīmabalā nāgāyuta balās tathā ete hi nihatāḥ saṃkhye tulyatejobalair naraiḥ 3 naiṣāṃ paśyāmi hantāraṃ prānināṃ saṃyuge purā vikrameṇopasaṃpannās tejobalasamanvitāḥ 4 atha ceme mahāprājña śerate hi gatāsavaḥ mṛtā iti ca śabdo 'yaṃ vartaty eṣu gatāsuṣu 5 ime mṛtā nṛpatayaḥ prāyaśo bhīmavikramāḥ tatra me saṃśayo jātaḥ kutaḥ saṃjñā mṛtā iti 6 kasya mṛtyuḥ kuto mṛtyuḥ kena mṛtyur iha prajāḥ haraty amarasaṃkāśa tan me brūhi pitāmaha 7 [bhī] purā kṛtayuge tāta rājāsīd avikampakaḥ sa śatruvaśam āpannaḥ saṃgrāme kṣīṇavāhanaḥ 8 tatra putro harir nāma nārāyaṇa samo bale sa śatrubhir hataḥ saṃkhye sabalaḥ sapadānugaḥ 9 sa rājā śatruvaśagaḥ putraśokasamanvitaḥ yadṛcchayāśānti paro dadarśa bhuvi nāradam 10 sa tasmai sarvam ācasta yathāvṛttaṃ janeśvaraḥ śatrubhir grahaṇaṃ saṃkhye putrasya maraṇaṃ tathā 11 tasya tad vacanaṃ śrutvā nāradātha tapodhanaḥ ākhyānam idam ācasta putraśokāpahaṃ tadā 12 rājañ śṛṇu samākhyānam adyedaṃ bahuvistaram yathāvṛttaṃ śrutaṃ caiva mayāpi vasudhādhipa 13 prajāḥ sṛṣṭvā mahātejāḥ prajā sarge pitāmahaḥ atīva vṛddhā bahulā nāmṛṣyata punaḥ prajāḥ 14 na hy antaram abhūt kiṃ cit kva cij jantubhir acyuta nirucchvāsam ivonnaddhaṃ trailokyam abhavan nṛpa 15 tasya cintā samutpanna saṃhāraṃ prati bhūpate cintayan nādhyagacchac ca saṃhāre hetukāraṇam 16 tasya roṣān mahārāja khebhyo 'gnir udatiṣṭhata tena sarvadiśo rājan dadāha sa pitāmahaḥ 17 tato divaṃ bhuvaṃ khaṃ ca jagac ca sacarācaram dadāha pāvako rājan bhagavat kopasaṃbhavaḥ 18 tatrādahyanta bhūtāni jaṅgamāni dhruvāṇi ca mahatā kopavegena kupite prapitāmahe 19 tato hari jataḥ sthānur vedādhvara patiḥ śivaḥ jagāda śaraṇaṃ devo brāhmaṇaṃ paravīrahā 20 tasminn abhigate sthānau prajānāṃ hitakāmyayā abravīd varado devo jvalann iva tadā śivam 21 karavāṇy adya kaṃ kāmaṃ varārho 'si mato mama kartā hy asmi priyaṃ śambho tava yad dhṛdi vartate |
The Mahabharata in Sanskrit
Book 12
Chapter 249
|
1
[सथाणु] परजा सर्ग निमित्तं मे कार्यवत्ताम इमां परभॊ विद्धि सृष्टास तवया हीमा मा कुप्यासां पितामह 2 तव तेजॊ ऽगनिना देव परजा दह्यन्ति सर्वशः ता दृष्ट्वा मम कारुण्यं मा कुप्यासां जगत परभॊ 3 [परजापति] न कुप्ये न च मे कामॊ न भवेरन परजा इति लाघवार्थं धरण्यास तु ततः संहार इष्यते 4 इयं हि मां सदा देवी भारार्ता समचॊदयत संहारार्थं महादेव भारेणाप्सु निमज्जति 5 यदाहं नाधिगच्छामि बुद्ध्या बहु विचारयन संहारम आसां वृद्धानां ततॊ मां करॊध आविशत 6 [सथाणु] संहारान्तं परसीदस्व मा करुधस तरिदशेश्वर मा परजाः सथावरं वैच जङ्गमं च विनीनशः 7 पल्वलानि च सर्वाणि सर्वं चैव तृणॊलपम सथावरं जङ्गमं चैव भूतग्रामं चतुर्विधम 8 तद एतद भस्मसाद भूतं जगत सर्वम उपप्लुतम परसीद भगवन साधॊ वर एष वृतॊ मया 9 नष्टा न पुनर एष्यन्ति परजा हय एताः कथं चन तस्मान निवर्त्यताम एतत तेजः सवेनैव तेजसा 10 उपायम अन्यं संपश्य परजानां हितकाम्यया यथेमे जन्तवः सर्वे निवर्तेरन परंतप 11 अभावम अभिगच्छेयुर उत्सन्नप्रजना परजाः अधिदैव नियुक्तॊ ऽसमि तवया लॊकेष्व इहेश्वर 12 तवद भवं हि जगन नाथ जगत सथावरजङ्गमम परसाद्य तवां महादेव याचाम्य आवृत्तिजाः परजाः 13 [नारद] शरुत्वा तु वचनं देवः सथानॊर नियतवाङ्मनः तेजस तत सवं निजग्राह पुनर एवान्तर आत्मना 14 ततॊ ऽगनिम उपसंगृह्य भगवाँल लॊकपूजितः परवृत्तिं च निवृत्तिं च कल्पयाम आस वै परभुः 15 उपसंहरतस तस्य तम अग्निं रॊषजं तदा परादुर्बभूव विश्वेभ्यः खेभ्यॊ नारी महात्मनः 16 कृष्णा रक्ताम्बरधरा रक्तनेत्र तलान्तरा दिव्यकुन्दल संपन्ना दिव्याभरणभीसिता 17 सा विनिःसृत्य वै खेभ्यॊ दक्षिणाम आश्रिता दिशम ददृशाते ऽथ तौ कन्यादेवौ विश्वेश्वराव उभौ 18 ताम आहूय तदा देवॊ लॊकानाम आदिर ईश्वरः मृत्यॊ इति महीपाल जहि चेमाः परजा इति 19 तवं हि संहार बुद्ध्या मे चिन्तिता रुषितेन च तस्मात संहर सर्वास तवं परजाः सजद पण्डिताः 20 अविशेषेण चैव तवं परजाः संहर भामिनि मम तवं हि नियॊगेन शरेयः परम अवाप्स्यसि 21 एवम उक्ता तु सा देवी मृत्युः कमलमालिनी परदध्यौ दुःखिता बाला साश्रुपातम अतीव हि 22 पानिभ्यां चैव जग्राह तान्य अश्रूणि जनेश्वरः मानवानां हितार्थाय ययाचे पुनर एव च |
1
[sthāṇu] prajā sarga nimittaṃ me kāryavattām imāṃ prabho viddhi sṛṣṭās tvayā hīmā mā kupyāsāṃ pitāmaha 2 tava tejo 'gninā deva prajā dahyanti sarvaśaḥ tā dṛṣṭvā mama kāruṇyaṃ mā kupyāsāṃ jagat prabho 3 [prajāpati] na kupye na ca me kāmo na bhaveran prajā iti lāghavārthaṃ dharaṇyās tu tataḥ saṃhāra iṣyate 4 iyaṃ hi māṃ sadā devī bhārārtā samacodayat saṃhārārthaṃ mahādeva bhāreṇāpsu nimajjati 5 yadāhaṃ nādhigacchāmi buddhyā bahu vicārayan saṃhāram āsāṃ vṛddhānāṃ tato māṃ krodha āviśat 6 [sthāṇu] saṃhārāntaṃ prasīdasva mā krudhas tridaśeśvara mā prajāḥ sthāvaraṃ vaica jaṅgamaṃ ca vinīnaśaḥ 7 palvalāni ca sarvāṇi sarvaṃ caiva tṛṇolapam sthāvaraṃ jaṅgamaṃ caiva bhūtagrāmaṃ caturvidham 8 tad etad bhasmasād bhūtaṃ jagat sarvam upaplutam prasīda bhagavan sādho vara eṣa vṛto mayā 9 naṣṭā na punar eṣyanti prajā hy etāḥ kathaṃ cana tasmān nivartyatām etat tejaḥ svenaiva tejasā 10 upāyam anyaṃ saṃpaśya prajānāṃ hitakāmyayā yatheme jantavaḥ sarve nivarteran paraṃtapa 11 abhāvam abhigaccheyur utsannaprajanā prajāḥ adhidaiva niyukto 'smi tvayā lokeṣv iheśvara 12 tvad bhavaṃ hi jagan nātha jagat sthāvarajaṅgamam prasādya tvāṃ mahādeva yācāmy āvṛttijāḥ prajāḥ 13 [nārada] śrutvā tu vacanaṃ devaḥ sthānor niyatavāṅmanaḥ tejas tat svaṃ nijagrāha punar evāntar ātmanā 14 tato 'gnim upasaṃgṛhya bhagavāṁl lokapūjitaḥ pravṛttiṃ ca nivṛttiṃ ca kalpayām āsa vai prabhuḥ 15 upasaṃharatas tasya tam agniṃ roṣajaṃ tadā prādurbabhūva viśvebhyaḥ khebhyo nārī mahātmanaḥ 16 kṛṣṇā raktāmbaradharā raktanetra talāntarā divyakundala saṃpannā divyābharaṇabhīsitā 17 sā viniḥsṛtya vai khebhyo dakṣiṇām āśritā diśam dadṛśāte 'tha tau kanyādevau viśveśvarāv ubhau 18 tām āhūya tadā devo lokānām ādir īśvaraḥ mṛtyo iti mahīpāla jahi cemāḥ prajā iti 19 tvaṃ hi saṃhāra buddhyā me cintitā ruṣitena ca tasmāt saṃhara sarvās tvaṃ prajāḥ sajada paṇḍitāḥ 20 aviśeṣeṇa caiva tvaṃ prajāḥ saṃhara bhāmini mama tvaṃ hi niyogena śreyaḥ param avāpsyasi 21 evam uktā tu sā devī mṛtyuḥ kamalamālinī pradadhyau duḥkhitā bālā sāśrupātam atīva hi 22 pānibhyāṃ caiva jagrāha tāny aśrūṇi janeśvaraḥ mānavānāṃ hitārthāya yayāce punar eva ca |
The Mahabharata in Sanskrit
Book 12
Chapter 250
|
1
[नारद] विनीय दुःखम अबला सा तव अतीवायतेक्षणा उवाच पराञ्जलिर भूत्वा लतेवावर्जिता तदा 2 तवया सृष्टा कथं नारी मादृशी वदतां वर रौद्रकर्माभिजायेत सर्वप्रानि भयंकरी 3 बिभेम्य अहम अधर्मस्य धर्म्यम आदिश कर्म मे तवं मां भीताम अवेक्षस्व शिवेनेश्वर चक्षुषा 4 बालान वृद्धान वयः सथांश च न हरेयम अनागसः परानिनः परानिनाम ईश नमस ते ऽभिप्रसीद मे 5 परियान पुत्रान वयस्यांश च भरातॄन मातॄः पितॄन अपि अपध्यास्यन्ति यद देव मृतांस तेषां बिभेम्य अहम 6 कृपणाश्रु परिक्लेदॊ दहेन मां शाश्वतीः समाः तेभ्यॊ ऽहं बलवद भीता शरमं तवाम उपागता 7 यमस्य भवने देव यात्य अन्ते पापकर्मिणः परसादये तवा वरद परसादं कुरु मे परभॊ 8 एतम इच्छाम्य अहं कामं तवत्तॊ लॊकपितामह इच्छेयं तवत्प्रसादाच च तपस तप्तुं सुरेश्वर 9 [पितामह] मृत्यॊ संकल्पिता मे तवं परजा संहार हेतुना गच्छ संहर सर्वास तवं परजा मा च विचारय 10 एतद एवम अवश्यं हि भविता नैतद अन्यथा करियताम अनवद्याङ्गि यथॊक्तं मद्वचॊ ऽनघे 11 [नारद] एवम उक्ता महाबाहॊ मृत्युः परपुरंजय न वयाजहार तस्थौ च परह्वा भगवद उन्मुखी 12 पुनः पुनर अथॊक्ता सा गतसत्त्वेव भामिनी तूस्नीम आसीत ततॊ देवॊ देवानाम ईश्वरेश्वरः 13 परससाद किल बरह्मा सवयम एवात्मनात्मवान समयमानश च लॊकेशॊ लॊकान सर्वान अवैक्षत 14 निवृत्तरॊषे तस्मिंस तु भगवत्य अपराजिते सा कन्यापजगामास्य समीपाद इति नः शरुतम 15 अपसृत्याप्रतिश्रुत्य परजासंहरणं तदा तवरमाणेव राजेन्द्र मृत्युर धेनुकम अभ्ययात 16 सा तत्र परमं देवी तपॊ ऽचरत दुश्चरम समा हय एकपदे तस्थौ दशपद्मानि पञ्च च 17 तां तथा कुर्वतीं तत्र तपः परमदुश्चरम पुनर एव महातेजा बरह्मा वचनम अब्रवीत 18 कुरुष्व मे वचॊ मृत्यॊ तद अनादृत्य सत्वरा तथैवैक पदे तात पुनर अन्यानि सप्त सा 19 तस्थौ पद्मानि सश चैव पञ्च दवे चैव मानद भूयः पद्मायुतं तात मृगैः सह चचार सा 20 पुनर गत्वा ततॊ राजन मौनम आतिष्ठद उत्तमम अप्सु वर्षसहस्राणि सप्त चैवं च पार्थिव 21 ततॊ जगाम सा कन्या कौशिकीं भरतर्षभ तत्र वायुजलाहारा चचार नियमं पुनः 22 ततॊ ययौ महाभागा गङ्गां मेरुं च केवलम तस्थौ दार्व इव निश्चेष्टा भूतानां हितकाम्यया 23 ततॊ हिमवतॊ मूर्ध्नि यत्र देवाः समीजिरे तत्राङ्गुष्ठेन राजेन्द्र निखर्वम अपरं ततः तस्थौ पितामहं चैव तॊषयामाय यत्नतः 24 ततस ताम अब्रवीत तत्र लॊकानां परभवाप्ययः किम इदं वर्तते पुत्रि करियतां तद वचॊ मम 25 ततॊ ऽबरवीत पुनर मृत्युर भगवन्तं पितामहम न हरेयं परजा देव पुनस तवाहं परसादये 26 ताम अधर्मभयत्रस्तां पुनर एव च याचतीम तदाब्रवीद देवदेवॊ निगृह्येदं वचस ततः 27 अधर्मॊ नास्ति ते मृत्यॊ संयच्छेमाः परजाः शुभे मया हय उक्तं मृषा भद्रे भविता नेह किं चन 28 धर्मः सनातनश च तवाम इहैवानुप्रवेक्ष्यते अहं च विबुधाश चैव तवद्धिते निरताः सदा 29 इमम अन्यं च ते कामं ददामि मनसेप्सितम न तवा दॊषेण यास्यन्ति वयाधिसंपीडिताः परजाः 30 पुरुषेषु च रूपेण पुरुषस तवं भविष्यसि सत्रीषु सत्रीरूपिणी चैव तृतीयेषु नपुंसकम 31 सैवम उक्ता महाराज कृताञ्जलिर उवाच ह पुनर एव महात्मानं नेति देवेशम अव्ययम 32 ताम अब्रवीत तदा देवॊ मृत्यॊ संहर मानवान अधर्मस ते न भविता तथा धयास्याम्य अहं शुभे 33 यान अश्रुबिन्दून पतितान अपश्यं; ये पानिभ्यां धारितास ते पुरस्तात ते वयाधयॊ मानवान घॊररूपाः; पराप्ते काले पीडयिष्यन्ति मृत्यॊ 34 सर्वेषां तवं परानिनाम अन्तकाले; कामक्रॊधौ सहितौ यॊजयेथाः एवं धर्मस तवाम उपैष्यत्य अमेयॊ; न चाधर्मं लप्स्यसे तुल्यवृत्तिः 35 एवं धर्मं पालयिष्यस्य अथॊक्तं; न चात्मानं मज्जयिष्यस्य अधर्मे तस्मात कामं रॊचयाभ्यागतं तवं; संयॊग्याथॊ संहरस्वेह जन्तून 36 सा वै तदा मृत्युसंज्ञापदेशाच; छापाद भीता बाधम इत्य अब्रवीत तम अथॊ परानान परानिनाम अन्तकाले; कामक्रॊधौ पराप्य निर्मॊह्य हन्ति 37 मृत्यॊ ये ते वयाधयश चाश्रुपाता; मनुष्याणां रुज्यते यैः शरीरम सर्वेषां वै परानिनां पराणनान्ते; तस्माच छॊकं मा कृथा बुध्य बुद्ध्या 38 सर्वे देवाः परानिनां पराणनान्ते; गत्वा वृत्ताः संनिवृत्तास तथैव एवं सर्वे मानवाः पराणनान्ते; गत्वावृत्ता देववद राजसिंह 39 वायुर भीमॊ भीमनादॊ महौजाः; सर्वेषां च परानिनां पराण भूतः नाना वृत्तिर देहिनां देहभेदे; तस्माद वायुर देवदेवॊ विशिष्टः 40 सर्वे देवा मर्त्यसंज्ञा विशिष्टाः; सर्वे मर्त्या देव संज्ञा विशिष्टाः तस्मात पुत्रं मा शुचॊ राजसिंह; पुत्रः सवर्गं पराप्य ते मॊदते ह 41 एवं मृत्युर देव सृष्टा परजानां; पराप्ते काले संहरन्ती यथावति तस्याश चैव वयाधयस ते ऽशरुपाताः; पराप्ते काले संहरन्तीह जन्तून |
1
[nārada] vinīya duḥkham abalā sā tv atīvāyatekṣaṇā uvāca prāñjalir bhūtvā latevāvarjitā tadā 2 tvayā sṛṣṭā kathaṃ nārī mādṛśī vadatāṃ vara raudrakarmābhijāyeta sarvaprāni bhayaṃkarī 3 bibhemy aham adharmasya dharmyam ādiśa karma me tvaṃ māṃ bhītām avekṣasva śiveneśvara cakṣuṣā 4 bālān vṛddhān vayaḥ sthāṃś ca na hareyam anāgasaḥ prāninaḥ prāninām īśa namas te 'bhiprasīda me 5 priyān putrān vayasyāṃś ca bhrātṝn mātṝḥ pitṝn api apadhyāsyanti yad deva mṛtāṃs teṣāṃ bibhemy aham 6 kṛpaṇāśru parikledo dahen māṃ śāśvatīḥ samāḥ tebhyo 'haṃ balavad bhītā śaramaṃ tvām upāgatā 7 yamasya bhavane deva yāty ante pāpakarmiṇaḥ prasādaye tvā varada prasādaṃ kuru me prabho 8 etam icchāmy ahaṃ kāmaṃ tvatto lokapitāmaha iccheyaṃ tvatprasādāc ca tapas taptuṃ sureśvara 9 [pitāmaha] mṛtyo saṃkalpitā me tvaṃ prajā saṃhāra hetunā gaccha saṃhara sarvās tvaṃ prajā mā ca vicāraya 10 etad evam avaśyaṃ hi bhavitā naitad anyathā kriyatām anavadyāṅgi yathoktaṃ madvaco 'naghe 11 [nārada] evam uktā mahābāho mṛtyuḥ parapuraṃjaya na vyājahāra tasthau ca prahvā bhagavad unmukhī 12 punaḥ punar athoktā sā gatasattveva bhāminī tūsnīm āsīt tato devo devānām īśvareśvaraḥ 13 prasasāda kila brahmā svayam evātmanātmavān smayamānaś ca lokeśo lokān sarvān avaikṣata 14 nivṛttaroṣe tasmiṃs tu bhagavaty aparājite sā kanyāpajagāmāsya samīpād iti naḥ śrutam 15 apasṛtyāpratiśrutya prajāsaṃharaṇaṃ tadā tvaramāṇeva rājendra mṛtyur dhenukam abhyayāt 16 sā tatra paramaṃ devī tapo 'carata duścaram samā hy ekapade tasthau daśapadmāni pañca ca 17 tāṃ tathā kurvatīṃ tatra tapaḥ paramaduścaram punar eva mahātejā brahmā vacanam abravīt 18 kuruṣva me vaco mṛtyo tad anādṛtya satvarā tathaivaika pade tāta punar anyāni sapta sā 19 tasthau padmāni saś caiva pañca dve caiva mānada bhūyaḥ padmāyutaṃ tāta mṛgaiḥ saha cacāra sā 20 punar gatvā tato rājan maunam ātiṣṭhad uttamam apsu varṣasahasrāṇi sapta caivaṃ ca pārthiva 21 tato jagāma sā kanyā kauśikīṃ bharatarṣabha tatra vāyujalāhārā cacāra niyamaṃ punaḥ 22 tato yayau mahābhāgā gaṅgāṃ meruṃ ca kevalam tasthau dārv iva niśceṣṭā bhūtānāṃ hitakāmyayā 23 tato himavato mūrdhni yatra devāḥ samījire tatrāṅguṣṭhena rājendra nikharvam aparaṃ tataḥ tasthau pitāmahaṃ caiva toṣayāmāya yatnataḥ 24 tatas tām abravīt tatra lokānāṃ prabhavāpyayaḥ kim idaṃ vartate putri kriyatāṃ tad vaco mama 25 tato 'bravīt punar mṛtyur bhagavantaṃ pitāmaham na hareyaṃ prajā deva punas tvāhaṃ prasādaye 26 tām adharmabhayatrastāṃ punar eva ca yācatīm tadābravīd devadevo nigṛhyedaṃ vacas tataḥ 27 adharmo nāsti te mṛtyo saṃyacchemāḥ prajāḥ śubhe mayā hy uktaṃ mṛṣā bhadre bhavitā neha kiṃ cana 28 dharmaḥ sanātanaś ca tvām ihaivānupravekṣyate ahaṃ ca vibudhāś caiva tvaddhite niratāḥ sadā 29 imam anyaṃ ca te kāmaṃ dadāmi manasepsitam na tvā doṣeṇa yāsyanti vyādhisaṃpīḍitāḥ prajāḥ 30 puruṣeṣu ca rūpeṇa puruṣas tvaṃ bhaviṣyasi strīṣu strīrūpiṇī caiva tṛtīyeṣu napuṃsakam 31 saivam uktā mahārāja kṛtāñjalir uvāca ha punar eva mahātmānaṃ neti deveśam avyayam 32 tām abravīt tadā devo mṛtyo saṃhara mānavān adharmas te na bhavitā tathā dhyāsyāmy ahaṃ śubhe 33 yān aśrubindūn patitān apaśyaṃ; ye pānibhyāṃ dhāritās te purastāt te vyādhayo mānavān ghorarūpāḥ; prāpte kāle pīḍayiṣyanti mṛtyo 34 sarveṣāṃ tvaṃ prāninām antakāle; kāmakrodhau sahitau yojayethāḥ evaṃ dharmas tvām upaiṣyaty ameyo; na cādharmaṃ lapsyase tulyavṛttiḥ 35 evaṃ dharmaṃ pālayiṣyasy athoktaṃ; na cātmānaṃ majjayiṣyasy adharme tasmāt kāmaṃ rocayābhyāgataṃ tvaṃ; saṃyogyātho saṃharasveha jantūn 36 sā vai tadā mṛtyusaṃjñāpadeśāc; chāpād bhītā bādham ity abravīt tam atho prānān prāninām antakāle; kāmakrodhau prāpya nirmohya hanti 37 mṛtyo ye te vyādhayaś cāśrupātā; manuṣyāṇāṃ rujyate yaiḥ śarīram sarveṣāṃ vai prānināṃ prāṇanānte; tasmāc chokaṃ mā kṛthā budhya buddhyā 38 sarve devāḥ prānināṃ prāṇanānte; gatvā vṛttāḥ saṃnivṛttās tathaiva evaṃ sarve mānavāḥ prāṇanānte; gatvāvṛttā devavad rājasiṃha 39 vāyur bhīmo bhīmanādo mahaujāḥ; sarveṣāṃ ca prānināṃ prāṇa bhūtaḥ nānā vṛttir dehināṃ dehabhede; tasmād vāyur devadevo viśiṣṭaḥ 40 sarve devā martyasaṃjñā viśiṣṭāḥ; sarve martyā deva saṃjñā viśiṣṭāḥ tasmāt putraṃ mā śuco rājasiṃha; putraḥ svargaṃ prāpya te modate ha 41 evaṃ mṛtyur deva sṛṣṭā prajānāṃ; prāpte kāle saṃharantī yathāvati tasyāś caiva vyādhayas te 'śrupātāḥ; prāpte kāle saṃharantīha jantūn |
The Mahabharata in Sanskrit
Book 12
Chapter 251
|
1
[य] इमे वै मानवाः सर्वे धर्मं परति विशङ्किताः कॊ ऽयं धर्मः कुतॊ धर्मस तन मे बरूहि पितामह 2 धर्मॊ नव अयम इहार्थः किम अमुत्रार्थॊ ऽपि वा भवेत उभयार्थॊ ऽपि वा धर्मस तन मे बरूहि पितामह 3 [भीस्म] सद आचारः समृतिर वेदास तरिविधं धर्मलक्षणम चतुर्थम अर्थम इत्य आहुः कवयॊ धर्मलक्षणम 4 अपि हय उक्तानि कर्माणि वयवस्यन्त्य उत्तरावरे लॊकयात्रार्थम एवेह धर्मस्य नियमः कृतः उभयत्र सुखॊदर्क इह चैव परत्र च 5 अलब्ध्वा निपुनं धर्मं पापः पापे परसज्जति न च पापकृतः पापान मुच्यन्ते के चिद आपदि 6 अपापवादी भवति यदा भवति धर्मवित धर्मस्य निष्ठा सवाचारस तम एवाश्रित्य भॊत्स्यसे 7 यदाधर्मसमाविष्टॊ धनं गृह्णाति तस्करः रमते निर्हरन सतेनः परवित्तम अराजके 8 यदास्य तद धरन्त्य अन्ये तदा राजानम इच्छति तदा तेषां सपृहयते ये वै तुष्टाः सवकैर धनैः 9 अभीतः शुचिर अभ्येति राजद्वारम अशङ्कितः न हि दुश्चरितं किं चिद अन्तरात्मनि पश्यति 10 सत्यस्य वचनं साधु न सत्याद विद्यते परम सत्येन विधृतं सर्वं सर्वं सत्ये परतिष्ठितम 11 अपि पापकृतॊ रौद्राः सत्यं कृत्वा पृथक पृथक अद्रॊहम अविसंवादं परवर्तन्ते तदाश्रयाः ते चेन मिथॊ ऽधृतिं कुर्युर विनश्येयुर असंशयम 12 न हर्तव्यं परधनम इति धर्मः सनातनः मन्यन्ते बलवन्तस तं दुर्बलैः संप्रवर्तितम यदा नियति दौर्बल्यम अथैषाम एव रॊचते 13 न हय अत्यन्तं बलयुता भवन्ति सुखिनॊ ऽपि वा तस्माद अनार्जवे बुद्धिर न कार्या ते कथं चन 14 असाधुभ्यॊ ऽसय न भयं न चॊरेभ्यॊ न राजतः न किं चित कस्य चित कुर्वन निर्भयः शुचिर आवसेत 15 सर्वतः शङ्कते सतेनॊ मृगॊ गरामम इवेयिवान बहुधाचरितं पापम अन्यत्रैवानुपश्यति 16 मुदितः शुचिर अभ्येति सर्वतॊ निर्भयः सदा न हि दुश्चरितं किं चिद आत्मनॊ ऽनयेषु पश्यति 17 दातव्यम इत्य अयं धर्म उक्तॊ भूतहिते रतैः तं मन्यन्ते धनयुताः कृपणैः संप्रवर्तितम 18 यदा नियति कार्पण्यम अथैषाम एव रॊचते न हय अत्यन्तं धनवन्तॊ भवन्ति सुखिनॊ ऽपि वा 19 यद अन्यैर विहितं नेच्छेद आत्मनः कर्म पूरुषः न तत्परेषु कुर्वीत जानन्न अप्रियम आत्मनः 20 यॊ ऽनयस्य सयाद उपपतिः स कं किं वक्तुम अर्हति यद अन्यस तस्य तत कुर्यान न मृष्येद इति मे मतिः 21 जीवितुं यः सवयं चेच्छेत कथं सॊ ऽनयं परघातयेत यद यद आत्मन इच्छेत तत्परस्यापि चिन्तयेत 22 अतिरिक्तैः संविभजेद भॊगैर अन्यान अकिंचनान एतस्मात कारणाद धात्रा कुसीदं संप्रवर्तितम 23 यस्मिंस तु देवाः समये संतिष्ठेरंस तथा भवेत अथ चेल लाभसमये सथितिर धर्मे ऽपि शॊभना 24 सर्वं परियाभ्युपगतं धर्मम आहुर मनीषिणः पश्यैतं लक्षणॊद्देशं धर्माधर्मे युधिष्ठिर 25 लॊकसंग्रह संयुक्तं विधात्रा विहितं पुरा सूक्ष्मधर्मार्थनियतं सतां चरितम उत्तमम 26 धर्मलक्षणम आख्यातम एतत ते कुरुसत्तम तस्माद अनार्जवे बुद्धिर न कार्या ते कथं चन |
1
[y] ime vai mānavāḥ sarve dharmaṃ prati viśaṅkitāḥ ko 'yaṃ dharmaḥ kuto dharmas tan me brūhi pitāmaha 2 dharmo nv ayam ihārthaḥ kim amutrārtho 'pi vā bhavet ubhayārtho 'pi vā dharmas tan me brūhi pitāmaha 3 [bhīsma] sad ācāraḥ smṛtir vedās trividhaṃ dharmalakṣaṇam caturtham artham ity āhuḥ kavayo dharmalakṣaṇam 4 api hy uktāni karmāṇi vyavasyanty uttarāvare lokayātrārtham eveha dharmasya niyamaḥ kṛtaḥ ubhayatra sukhodarka iha caiva paratra ca 5 alabdhvā nipunaṃ dharmaṃ pāpaḥ pāpe prasajjati na ca pāpakṛtaḥ pāpān mucyante ke cid āpadi 6 apāpavādī bhavati yadā bhavati dharmavit dharmasya niṣṭhā svācāras tam evāśritya bhotsyase 7 yadādharmasamāviṣṭo dhanaṃ gṛhṇāti taskaraḥ ramate nirharan stenaḥ paravittam arājake 8 yadāsya tad dharanty anye tadā rājānam icchati tadā teṣāṃ spṛhayate ye vai tuṣṭāḥ svakair dhanaiḥ 9 abhītaḥ śucir abhyeti rājadvāram aśaṅkitaḥ na hi duścaritaṃ kiṃ cid antarātmani paśyati 10 satyasya vacanaṃ sādhu na satyād vidyate param satyena vidhṛtaṃ sarvaṃ sarvaṃ satye pratiṣṭhitam 11 api pāpakṛto raudrāḥ satyaṃ kṛtvā pṛthak pṛthak adroham avisaṃvādaṃ pravartante tadāśrayāḥ te cen mitho 'dhṛtiṃ kuryur vinaśyeyur asaṃśayam 12 na hartavyaṃ paradhanam iti dharmaḥ sanātanaḥ manyante balavantas taṃ durbalaiḥ saṃpravartitam yadā niyati daurbalyam athaiṣām eva rocate 13 na hy atyantaṃ balayutā bhavanti sukhino 'pi vā tasmād anārjave buddhir na kāryā te kathaṃ cana 14 asādhubhyo 'sya na bhayaṃ na corebhyo na rājataḥ na kiṃ cit kasya cit kurvan nirbhayaḥ śucir āvaset 15 sarvataḥ śaṅkate steno mṛgo grāmam iveyivān bahudhācaritaṃ pāpam anyatraivānupaśyati 16 muditaḥ śucir abhyeti sarvato nirbhayaḥ sadā na hi duścaritaṃ kiṃ cid ātmano 'nyeṣu paśyati 17 dātavyam ity ayaṃ dharma ukto bhūtahite rataiḥ taṃ manyante dhanayutāḥ kṛpaṇaiḥ saṃpravartitam 18 yadā niyati kārpaṇyam athaiṣām eva rocate na hy atyantaṃ dhanavanto bhavanti sukhino 'pi vā 19 yad anyair vihitaṃ necched ātmanaḥ karma pūruṣaḥ na tatpareṣu kurvīta jānann apriyam ātmanaḥ 20 yo 'nyasya syād upapatiḥ sa kaṃ kiṃ vaktum arhati yad anyas tasya tat kuryān na mṛṣyed iti me matiḥ 21 jīvituṃ yaḥ svayaṃ cecchet kathaṃ so 'nyaṃ praghātayet yad yad ātmana iccheta tatparasyāpi cintayet 22 atiriktaiḥ saṃvibhajed bhogair anyān akiṃcanān etasmāt kāraṇād dhātrā kusīdaṃ saṃpravartitam 23 yasmiṃs tu devāḥ samaye saṃtiṣṭheraṃs tathā bhavet atha cel lābhasamaye sthitir dharme 'pi śobhanā 24 sarvaṃ priyābhyupagataṃ dharmam āhur manīṣiṇaḥ paśyaitaṃ lakṣaṇoddeśaṃ dharmādharme yudhiṣṭhira 25 lokasaṃgraha saṃyuktaṃ vidhātrā vihitaṃ purā sūkṣmadharmārthaniyataṃ satāṃ caritam uttamam 26 dharmalakṣaṇam ākhyātam etat te kurusattama tasmād anārjave buddhir na kāryā te kathaṃ cana |
The Mahabharata in Sanskrit
Book 12
Chapter 252
|
1
[य] सूक्ष्मं साधु समादिष्टं भवता धर्मलक्षणम परतिभा तव अस्ति मे का चित तां बरूयाम अनुमानतः 2 भूयांसॊ हृदये ये मे परश्नास ते वयाहृतास तवया इमम अन्यं परवक्ष्यामि न राजन विग्रहाद इव 3 इमानि हि परापयन्ति सृजन्त्य उत्तारयन्ति च न धर्मः परिपाथेन शक्यॊ भारत वेदितुम 4 अन्यॊ धर्मः समस्थस्य विषमस्थस्य चापरः आपदस तु कथं शक्याः परिपाठेन वेदितुम 5 सद आचारॊ मतॊ धर्मः सन्तस तव आचार लक्षणाः साध्यासाध्यं कथं शक्यं सद आचारॊ हय अलक्षणम 6 दृश्यते धर्मरूपेण अधर्मं पराकृतश चरन धर्मं चाधर्मरूपेण कश चिद अप्राकृतश चरन 7 पुनर अस्य परमानं हि निर्दिष्टं शास्त्रकॊविदैः वेदवादाश चानुयुगं हरसन्तीति ह नः शरुतम 8 अन्ये कृतयुगे धर्मास तरेतायां दवापरे ऽपरे अन्ये कलियुगे धर्मा यथाशक्ति कृता इव 9 आम्नायवचनं सत्यम इत्य अयं लॊकसंग्रहः आम्नायेभ्यः परं वेदाः परसृता विश्वतॊमुखाः 10 ते चेत सर्वे परमानं वै परमानं तन न विद्यते परमाने चाप्रमाने च विरुद्धे शास्त्रता कुतः 11 धर्मस्य हरियमाणस्य बलवद्भिर दुरात्मभिः या या विक्रियते संस्था ततः सापि परनश्यति 12 विद्म चैवं न वा विद्म शक्यं वा वेदितुं न वा अनीयान कषुर धाराया गरीयान पर्वताद अपि 13 गन्धर्वनगराकारः परथमं संप्रदृश्यते अन्वीक्ष्यमाणः कविभिः पुनर गच्छत्य अदर्शनम 14 निपानानीव गॊऽभयाशे कषेत्रे कुल्येव भारत समृतॊ ऽपि शाश्वतॊ धर्मॊ विप्रहीनॊ न दृश्यते 15 कामाद अन्ये कषयाद अन्ये कारणैर अपरैस तथा असन्तॊ हि वृथाचारं भजन्ते बहवॊ ऽपरे 16 धर्मॊ भवति स कषिप्रं विलीनस तव एव साधुषु अन्ये तान आहुर उन्मत्तान अपि चावहसन्त्य उत 17 महाजना हय उपावृत्ता राजधर्मं समाश्रिताः न हि सर्वहितः कश चिद आचारः संप्रदृश्यते 18 तेनैवान्यः परभवति सॊ ऽपरं बाधते पुनः दृश्यते चैव स पुनस तुल्यरूपॊ यदृच्छया 19 येनैवान्यः परभवति सॊ ऽपरान अपि बाधते आचाराणाम अनैकाग्र्यं सर्वेषाम एव लक्षयेत 20 चिराभिपन्नः कविभिः पूर्वं धर्म उदाहृतः तेनाचारेण पूर्वेण संस्था भवति शाश्वती |
1
[y] sūkṣmaṃ sādhu samādiṣṭaṃ bhavatā dharmalakṣaṇam pratibhā tv asti me kā cit tāṃ brūyām anumānataḥ 2 bhūyāṃso hṛdaye ye me praśnās te vyāhṛtās tvayā imam anyaṃ pravakṣyāmi na rājan vigrahād iva 3 imāni hi prāpayanti sṛjanty uttārayanti ca na dharmaḥ paripāthena śakyo bhārata veditum 4 anyo dharmaḥ samasthasya viṣamasthasya cāparaḥ āpadas tu kathaṃ śakyāḥ paripāṭhena veditum 5 sad ācāro mato dharmaḥ santas tv ācāra lakṣaṇāḥ sādhyāsādhyaṃ kathaṃ śakyaṃ sad ācāro hy alakṣaṇam 6 dṛśyate dharmarūpeṇa adharmaṃ prākṛtaś caran dharmaṃ cādharmarūpeṇa kaś cid aprākṛtaś caran 7 punar asya pramānaṃ hi nirdiṣṭaṃ śāstrakovidaiḥ vedavādāś cānuyugaṃ hrasantīti ha naḥ śrutam 8 anye kṛtayuge dharmās tretāyāṃ dvāpare 'pare anye kaliyuge dharmā yathāśakti kṛtā iva 9 āmnāyavacanaṃ satyam ity ayaṃ lokasaṃgrahaḥ āmnāyebhyaḥ paraṃ vedāḥ prasṛtā viśvatomukhāḥ 10 te cet sarve pramānaṃ vai pramānaṃ tan na vidyate pramāne cāpramāne ca viruddhe śāstratā kutaḥ 11 dharmasya hriyamāṇasya balavadbhir durātmabhiḥ yā yā vikriyate saṃsthā tataḥ sāpi pranaśyati 12 vidma caivaṃ na vā vidma śakyaṃ vā vedituṃ na vā anīyān kṣura dhārāyā garīyān parvatād api 13 gandharvanagarākāraḥ prathamaṃ saṃpradṛśyate anvīkṣyamāṇaḥ kavibhiḥ punar gacchaty adarśanam 14 nipānānīva go'bhyāśe kṣetre kulyeva bhārata smṛto 'pi śāśvato dharmo viprahīno na dṛśyate 15 kāmād anye kṣayād anye kāraṇair aparais tathā asanto hi vṛthācāraṃ bhajante bahavo 'pare 16 dharmo bhavati sa kṣipraṃ vilīnas tv eva sādhuṣu anye tān āhur unmattān api cāvahasanty uta 17 mahājanā hy upāvṛttā rājadharmaṃ samāśritāḥ na hi sarvahitaḥ kaś cid ācāraḥ saṃpradṛśyate 18 tenaivānyaḥ prabhavati so 'paraṃ bādhate punaḥ dṛśyate caiva sa punas tulyarūpo yadṛcchayā 19 yenaivānyaḥ prabhavati so 'parān api bādhate ācārāṇām anaikāgryaṃ sarveṣām eva lakṣayet 20 cirābhipannaḥ kavibhiḥ pūrvaṃ dharma udāhṛtaḥ tenācāreṇa pūrveṇa saṃsthā bhavati śāśvatī |
The Mahabharata in Sanskrit
Book 12
Chapter 253
|
1
[भी] अत्राप्य उदाहरन्तीमम इतिहासं पुरातनम तुलाधारस्य वाक्यानि धर्मे जाजलिना सह 2 वने वनचरः कश चिज जाजलिर नाम वै दविजः सागरॊद्देशम आगम्य तपस तेपे महातपः 3 नियतॊ नियताहारश चीराजिनजता धरः मलपङ्क धरॊ धीमान बहून वर्षगणान मुनिः 4 स कदा चिन महातेजा जलवासॊ महीपते चचार लॊकान विप्रर्षिः परेक्षमाणॊ मनॊजवः 5 स चिन्तयाम आस मुनिर जलमध्ये कदा चन विप्रेक्ष्य सागरान्तां वै महीं सवनकाननाम 6 न मया सदृशॊ ऽसतीह लॊके सथावरजङ्गमे अप्सु वैहायसं गच्छेन मया यॊ ऽनयः सहेति वै 7 स दृश्यमानॊ रक्षॊभिर जलमध्ये ऽवदत ततः अब्रुवंश च पिशाचास तं नैवं तवं वक्तुम अर्हसि 8 तुला धारॊ वणिग्धर्मा वाराणस्यां महायशः सॊ ऽपय एवं नार्हते वक्तुं यथा तवं दविजसत्तम 9 इत्य उक्तॊ जाजलिर भूतैः परत्युवाच महातपः पश्येयं तम अहं पराज्ञं तुलाधारं यशस्विनम 10 इति बरुवाणं तम ऋषिं रक्षांस्य उद्धृत्य सागरात अब्रुवन गच्छ पन्थानम आस्थायेमं दविजॊत्तम 11 इत्य उक्तॊ जाजलिर भूतैर जगाम विमनास तदा वाराणस्यां तुलाधारं समासाद्याब्रवीद वचः 12 [य] किं कृतं सुकृतं कर्म तात जाजलिना पुरा येन सिद्धिं परां पराप्तस तन नॊ वयाख्यातुम अर्हसि 13 [भी] अतीव तपसा युक्तॊ घॊरेण स बभूव ह नद्य उपस्पर्शन रतः सायंप्रातर महातपः 14 अग्नीन परिचरन सम्यक सवाध्यायपरमॊ दविजः वानप्रस्थविधानज्ञॊ जाजलिर जवलितः शरिया 15 सत्ये तपसि तिष्ठन स न च धर्मम अवैक्षत वर्षास्व आकाशशायी स हेमन्ते जलसंश्रयः 16 वतातप सहॊ गरीस्मे न च धर्मम अविन्दत दुःखशय्याश च विविधा भूमौ च परिवर्तनम 17 ततः कदा चित स मुनिर वर्षास्व आकाशम आस्थितः अन्तरिक्षाज जलं मूर्ध्ना परत्यगृह्णान मुहुर मुहुर 18 अथ तस्य जताः कलिन्ना बभूवुर गरथिताः परभॊ अरण्यगमनान नित्यं मलिनॊ मलसंयुताः 19 स कदा चिन निराहारॊ वायुभक्षॊ महातपः तस्थौ काष्ठवद अव्यग्रॊ न चचाल च कर्हि चित 20 तस्य सम सथानु भूतस्य निर्विचेष्टस्य भारत कुलिङ्ग शकुनौ राजन नीदं शिरसि चक्रतुः 21 स तौ दयावान विप्रर्षिर उपप्रैक्षत दम्पती कुर्वाणं नीदकं तत्र जतासु तृणतन्तुभिः 22 यदा स न चलत्य एव सथानु भूतॊ महातपः ततस तौ परिविश्वस्तौ सुखं तत्रॊसतुस तदा 23 अतीतास्व अथ वर्षासु शरत्काल उपस्थिते पराजापत्येन विधिना विश्वानात काममॊहितौ 24 तत्रापातयतां राजञ शिरस्य अन्दानि खेचरौ तान्य अबुध्यत तेजस्वी स विप्रः संशितव्रतः 25 बुद्ध्वा च स महातेजा न चचालैव जाजलिः धर्मे धृतमना नित्यं नाधर्मं स तव अरॊचयत 26 अहन्य अहनि चागम्य ततस तौ तस्य मूर्धनि आश्वासितौ वै वसतः संप्रहृष्टौ तदा विभॊ 27 अन्देभ्यस तव अथ पुष्टेभ्यः परजायन्त शकुन्तकाः वयवर्थन्त च तत्रैव न चाकम्पत जाजलिः 28 स रक्षमाणस तव अन्दानि कुलिङ्गानां यतव्रतः तथैव तस्थौ धर्मात्मा निर्वेचेष्टः समाहितः 29 ततस तु कालसमये बभूवुस ते ऽथ पक्षिणः बुबुधे तांश च स मुनिर जातपक्षाञ शकुन्तकान 30 ततः कदा चित तांस तत्र पश्यन पक्षीन यतव्रतः बभूव परमप्रीतस तदा मतिमतां वरः 31 तथा तान अभिसंवृद्धान दृष्ट्वा चाप्नुवतां मुदम शकुनौ निर्भयौ तत्र ऊसतुश चात्मजैः सह 32 जातपक्षांश च सॊ ऽपश्यद उद्दीनान पुनरागतान सायं सायं दविजान विप्रॊ न चाकम्पत जाजलिः 33 कदा चित पुनर अभ्येत्य पुनर गच्छन्ति संततम तयक्ता मातृपितृभ्यां ते न चाकम्पत जाजलिः 34 अथ ते दिवसं चारीं गत्वा सायं पुनर नृप उपावर्तन्त तत्रैव निवासार्थं शकुन्तकाः 35 कदा चिद दिवसान पञ्च समुत्पत्य विहंगमाः सस्थे ऽहनि समाजग्मुर न चाकम्पत जाजलिः 36 करमेण च पुनः सर्वे दिवसानि बहून्य अपि नॊपावर्तन्त शकुना जातप्रानाः सम ते यदा 37 कदा चिन मासमात्रेण समुत्पत्य विहङ्गमाः नैवागच्छंस ततॊ राजन परातिष्ठत स जाजलिः 38 ततस तेषु परलीनेषु जाजलिर जातविस्मयः सिद्धॊ ऽसमीति मतिं चक्रे ततस तं मान आविशत 39 स तथा निर्गतान दृष्ट्वा शकुन्तान नियतव्रतः संभावितात्मा संभाव्य भृशं परीतस तदाभवन 40 स नद्यां समुपस्पृश्य तर्पयित्वा हुताशनम उदयन्तम अथादित्यम अभ्यगच्छन महातपः 41 संभाव्य चतकान मूर्ध्नि जाजलिर जपतां वरः आस्फॊतयत तद आकाशे धर्मः पराप्तॊ मयेति वै 42 अथान्तरिक्षे वाग आसीत तां स शुश्राव जाजलिः धर्मेण न समस तवं वै तुलाधारस्य जाजले 43 वाराणस्यां महाप्राज्ञस तुलाधारः परतिष्ठितः सॊ ऽपय एवं नार्हते वक्तुं यथा तवं भाससे दविज 44 सॊ ऽमर्षवशम आपन्नस तुलाधर दिदृक्षया पृथिवीम अचरद राजन यत्रसायं गृहॊ मुनिः 45 कालेन महतागच्छत स तु वाराणसीं पुरीम विक्रीणन्तं च पन्यानि तुला धारं ददर्श सः 46 सॊ ऽपि दृष्ट्वैव तं विप्रम आयान्तं भान्द जीविनः समुत्थाय सुसंहृष्टः सवागतेनाभ्यपूजयत 47 [तुला] आयान एवासि विदितॊ मम बरह्मन न संशयः बरवीमि यत तु वचनं तच छृणुष्व दविजॊत्तम 48 सागरानूपम आश्रित्य तपस तप्तं तवया महत न च धर्मस्य संज्ञां तवं पुरा वेत्थ कथं चन 49 ततः सिद्धस्य तपसा तव विप्र शकुन्तकाः कषिप्रं शिरस्य अजायन्त ते च संभावितास तवया 50 जातपक्षा यदा ते च गताश चारीम इतस ततः मन्यमानस ततॊ धर्मं चटक परभवं दविज खे वाचं तवम अथाश्रौषीर मां परति दविजसत्तम 51 अमर्षवशम आपन्नस ततः पराप्तॊ भवान इह करवाणि परियं किं ते तद बरूहि दविजसत्तम |
1
[bhī] atrāpy udāharantīmam itihāsaṃ purātanam tulādhārasya vākyāni dharme jājalinā saha 2 vane vanacaraḥ kaś cij jājalir nāma vai dvijaḥ sāgaroddeśam āgamya tapas tepe mahātapaḥ 3 niyato niyatāhāraś cīrājinajatā dharaḥ malapaṅka dharo dhīmān bahūn varṣagaṇān muniḥ 4 sa kadā cin mahātejā jalavāso mahīpate cacāra lokān viprarṣiḥ prekṣamāṇo manojavaḥ 5 sa cintayām āsa munir jalamadhye kadā cana viprekṣya sāgarāntāṃ vai mahīṃ savanakānanām 6 na mayā sadṛśo 'stīha loke sthāvarajaṅgame apsu vaihāyasaṃ gacchen mayā yo 'nyaḥ saheti vai 7 sa dṛśyamāno rakṣobhir jalamadhye 'vadat tataḥ abruvaṃś ca piśācās taṃ naivaṃ tvaṃ vaktum arhasi 8 tulā dhāro vaṇigdharmā vārāṇasyāṃ mahāyaśaḥ so 'py evaṃ nārhate vaktuṃ yathā tvaṃ dvijasattama 9 ity ukto jājalir bhūtaiḥ pratyuvāca mahātapaḥ paśyeyaṃ tam ahaṃ prājñaṃ tulādhāraṃ yaśasvinam 10 iti bruvāṇaṃ tam ṛṣiṃ rakṣāṃsy uddhṛtya sāgarāt abruvan gaccha panthānam āsthāyemaṃ dvijottama 11 ity ukto jājalir bhūtair jagāma vimanās tadā vārāṇasyāṃ tulādhāraṃ samāsādyābravīd vacaḥ 12 [y] kiṃ kṛtaṃ sukṛtaṃ karma tāta jājalinā purā yena siddhiṃ parāṃ prāptas tan no vyākhyātum arhasi 13 [bhī] atīva tapasā yukto ghoreṇa sa babhūva ha nady upasparśana rataḥ sāyaṃprātar mahātapaḥ 14 agnīn paricaran samyak svādhyāyaparamo dvijaḥ vānaprasthavidhānajño jājalir jvalitaḥ śriyā 15 satye tapasi tiṣṭhan sa na ca dharmam avaikṣata varṣāsv ākāśaśāyī sa hemante jalasaṃśrayaḥ 16 vatātapa saho grīsme na ca dharmam avindata duḥkhaśayyāś ca vividhā bhūmau ca parivartanam 17 tataḥ kadā cit sa munir varṣāsv ākāśam āsthitaḥ antarikṣāj jalaṃ mūrdhnā pratyagṛhṇān muhur muhur 18 atha tasya jatāḥ klinnā babhūvur grathitāḥ prabho araṇyagamanān nityaṃ malino malasaṃyutāḥ 19 sa kadā cin nirāhāro vāyubhakṣo mahātapaḥ tasthau kāṣṭhavad avyagro na cacāla ca karhi cit 20 tasya sma sthānu bhūtasya nirviceṣṭasya bhārata kuliṅga śakunau rājan nīdaṃ śirasi cakratuḥ 21 sa tau dayāvān viprarṣir upapraikṣata dampatī kurvāṇaṃ nīdakaṃ tatra jatāsu tṛṇatantubhiḥ 22 yadā sa na calaty eva sthānu bhūto mahātapaḥ tatas tau pariviśvastau sukhaṃ tatrosatus tadā 23 atītāsv atha varṣāsu śaratkāla upasthite prājāpatyena vidhinā viśvānāt kāmamohitau 24 tatrāpātayatāṃ rājañ śirasy andāni khecarau tāny abudhyata tejasvī sa vipraḥ saṃśitavrataḥ 25 buddhvā ca sa mahātejā na cacālaiva jājaliḥ dharme dhṛtamanā nityaṃ nādharmaṃ sa tv arocayat 26 ahany ahani cāgamya tatas tau tasya mūrdhani āśvāsitau vai vasataḥ saṃprahṛṣṭau tadā vibho 27 andebhyas tv atha puṣṭebhyaḥ prajāyanta śakuntakāḥ vyavarthanta ca tatraiva na cākampata jājaliḥ 28 sa rakṣamāṇas tv andāni kuliṅgānāṃ yatavrataḥ tathaiva tasthau dharmātmā nirveceṣṭaḥ samāhitaḥ 29 tatas tu kālasamaye babhūvus te 'tha pakṣiṇaḥ bubudhe tāṃś ca sa munir jātapakṣāñ śakuntakān 30 tataḥ kadā cit tāṃs tatra paśyan pakṣīn yatavrataḥ babhūva paramaprītas tadā matimatāṃ varaḥ 31 tathā tān abhisaṃvṛddhān dṛṣṭvā cāpnuvatāṃ mudam śakunau nirbhayau tatra ūsatuś cātmajaiḥ saha 32 jātapakṣāṃś ca so 'paśyad uddīnān punarāgatān sāyaṃ sāyaṃ dvijān vipro na cākampata jājaliḥ 33 kadā cit punar abhyetya punar gacchanti saṃtatam tyaktā mātṛpitṛbhyāṃ te na cākampata jājaliḥ 34 atha te divasaṃ cārīṃ gatvā sāyaṃ punar nṛpa upāvartanta tatraiva nivāsārthaṃ śakuntakāḥ 35 kadā cid divasān pañca samutpatya vihaṃgamāḥ sasthe 'hani samājagmur na cākampata jājaliḥ 36 krameṇa ca punaḥ sarve divasāni bahūny api nopāvartanta śakunā jātaprānāḥ sma te yadā 37 kadā cin māsamātreṇa samutpatya vihaṅgamāḥ naivāgacchaṃs tato rājan prātiṣṭhata sa jājaliḥ 38 tatas teṣu pralīneṣu jājalir jātavismayaḥ siddho 'smīti matiṃ cakre tatas taṃ māna āviśat 39 sa tathā nirgatān dṛṣṭvā śakuntān niyatavrataḥ saṃbhāvitātmā saṃbhāvya bhṛśaṃ prītas tadābhavan 40 sa nadyāṃ samupaspṛśya tarpayitvā hutāśanam udayantam athādityam abhyagacchan mahātapaḥ 41 saṃbhāvya catakān mūrdhni jājalir japatāṃ varaḥ āsphotayat tad ākāśe dharmaḥ prāpto mayeti vai 42 athāntarikṣe vāg āsīt tāṃ sa śuśrāva jājaliḥ dharmeṇa na samas tvaṃ vai tulādhārasya jājale 43 vārāṇasyāṃ mahāprājñas tulādhāraḥ pratiṣṭhitaḥ so 'py evaṃ nārhate vaktuṃ yathā tvaṃ bhāsase dvija 44 so 'marṣavaśam āpannas tulādhara didṛkṣayā pṛthivīm acarad rājan yatrasāyaṃ gṛho muniḥ 45 kālena mahatāgacchat sa tu vārāṇasīṃ purīm vikrīṇantaṃ ca panyāni tulā dhāraṃ dadarśa saḥ 46 so 'pi dṛṣṭvaiva taṃ vipram āyāntaṃ bhānda jīvinaḥ samutthāya susaṃhṛṣṭaḥ svāgatenābhyapūjayat 47 [tulā] āyān evāsi vidito mama brahman na saṃśayaḥ bravīmi yat tu vacanaṃ tac chṛṇuṣva dvijottama 48 sāgarānūpam āśritya tapas taptaṃ tvayā mahat na ca dharmasya saṃjñāṃ tvaṃ purā vettha kathaṃ cana 49 tataḥ siddhasya tapasā tava vipra śakuntakāḥ kṣipraṃ śirasy ajāyanta te ca saṃbhāvitās tvayā 50 jātapakṣā yadā te ca gatāś cārīm itas tataḥ manyamānas tato dharmaṃ caṭaka prabhavaṃ dvija khe vācaṃ tvam athāśrauṣīr māṃ prati dvijasattama 51 amarṣavaśam āpannas tataḥ prāpto bhavān iha karavāṇi priyaṃ kiṃ te tad brūhi dvijasattama |
The Mahabharata in Sanskrit
Book 12
Chapter 254
|
1
[भी] इत्य उक्तः स तदा तेन तुलाधारेण धीमता परॊवाच वचनं धीमाञ जाजलिर जपतां वरः 2 विक्रीणानः सर्वरसान सर्वगन्धांश च वानिज वनस्पतीन ओषधीश च तेषां मूलफलानि च 3 अध्यगा नैष्ठिकीं बुद्धिं कुतस तवाम इदम आगतम एतद आचक्ष्व मे सर्वं निखिलेन महामते 4 एवम उक्तस तुलाधारॊ बराह्मणेन यशस्विना उवाच धर्मसूक्ष्माणि वैश्यॊ धर्मार्थतत्त्ववित जाजलिं कस्त तपसं जञानतृप्तस तदा नृप 5 वेदाहं जाजले धर्मं सरहस्यं सनातनम सर्वभूतहितं मैत्रं पुराणं यं जना विदुः 6 अद्रॊहेणैव भूतानाम अल्पद्रॊहेण वा पुनः या वृत्तिः स परॊ धर्मस तेन जीवामि जाजले 7 परिच्छिन्नैः काष्ठ तृणैर मयेदं शरणं कृतम अलक्तं पद्मकं तुङ्गं गन्धांश चॊच्चावचांस तथा 8 रसांश च तांस तान विप्रर्षे मद्य्य वर्जान अहं बहून करीत्वा वै परतिविक्रीणे परहस्ताद अमायया 9 सर्वेषां यः सुहृन नित्यं सर्वेषां च हिते रतः कर्मणा मनसा वाचा स धर्मं वेद जाजले 10 नाहं परेषां कर्माणि परशंसामि शपामि वा आकाशस्येव विप्रर्षे पश्यँल लॊकस्य चित्रताम 11 नानुरुध्ये विरुध्ये वा न दवेष्मि न च कामये समॊ ऽसमि सर्वभूतेषु पश्य मे जाजले वरतम 12 इष्टानिष्ट विमुक्तस्य परीतिरागबहिष्कृतः तुला मे सर्वभूतेषु समा तिष्ठति जाजले 13 इति मां तवं विजानीहि सर्वलॊकस्य जाजले समं मतिमतां शरेष्ठ समलॊष्टाश्म काञ्चनम 14 यथान्ध बधिरॊन्मत्ता उच्छ्वासपरमाः सदा देवैर अपिहित दवाराः सॊपमा पश्यतॊ मम 15 यथा वृद्धातुर कृशा निःस्पृहा विषयान परति तथार्थ कामभॊगेषु ममापि विगता सपृहा 16 यदा चायं न बिभेति यदा चास्मान न बिभ्यति यदा नेच्छति न दवेष्टि तदा सिध्यति वै दविजः 17 यदा न कुरुते भावं सर्वभूतेषु पापकम कर्मणा मनसा वाचा बरह्म संपद्यते तदा 18 न भूतॊ न भविष्यश च न च धर्मॊ ऽसति कश चन यॊ ऽभयः सर्वभूतानां स पराप्नॊत्य अभयं पदम 19 यस्माद उद्विजते लॊकः सर्वॊ मृत्युमुखाद इव वाक करूराद दण्ड पारुष्यात स पराप्नॊति महद भयम 20 यथावद वर्तमानानां वृद्धानां पुत्रपौत्रिणाम अनुवर्तामहे वृत्तम अहिंस्राणां महात्मनाम 21 परनस्तः शाश्वतॊ धर्मः सद आचारेण मॊहितः तेन वैद्यस तपस्वी वा बलवान वा विमॊह्यते 22 आचाराञ जाजले पराज्ञः कषिप्रं धर्मम अवाप्नुयात एवं यः साधुभिर दान्तश चरेद अद्रॊह चेतसा 23 नद्यां यथा चेह काष्ठम उह्यमानं यदृच्छया यदृच्छयैव काष्ठेन संधिं गच्छेत केन चित 24 तत्राप्ररानि दारूणि संसृज्यन्ते ततस ततः तृणकाष्ठ करीसानि कदाचिन्न असमीक्षया एवम एवायम आचारः परादुर्भूतॊ यतस ततः 25 यस्मान नॊद्विजते भूतं जातु किं चित कथं चन अभयं सर्वभूतेभ्यः स पराप्नॊति सदा मुने 26 यस्माद उद्जिवते विद्वन सर्वलॊकॊ वृकाद इव करॊशतस तीरम आसाद्य यथा सर्वे जले चराः 27 सहायवान दरव्यवान यः सुभगॊ ऽनयॊ ऽपरस तथा ततस तान एव कवयः शास्त्रेषु परवदन्त्य उत कीर्त्यर्थम अल्पहृल्लेखाः पततः कृत्स्ननिर्नयाः 28 तपॊ भॊर यज्ञदानैश च वाक्यैः परज्ञाश्रितैस तथा पराप्नॊत्य अभयदानस्य यद यत फलम इहाश्नुते 29 लॊके यः सर्वभूतेभ्यॊ ददात्य अभयदक्षिणाम स सर्वयज्ञैर ईजानः पराप्नॊत्य अभयदक्षिणाम न भूतानाम अहिंसाया जयायान धर्मॊ ऽसति कश चन 30 यस्मान नॊद्विजते भूतं जातु किं चित कथं चन ते ऽभयं सर्वभूतेभ्यः संप्राप्नॊति महामुने 31 यस्माद उद्विजते लॊकः सर्पाद वेश्म गताद इव न स धर्मम अवाप्नॊति इह लॊके परत्र च 32 सर्वभूतात्मभूतस्य सम्यग भूतानि पश्यतः देवापि मार्गे मुह्यन्ति अपदस्य पदैषिणः 33 दानं भूताभयस्याहुः सर्वदानेभ्य उत्तमम बरवीमि ते सत्यम इदं शरद्दधस्व च जाजले 34 स एव सुभगॊ भूत्वा पुनर भवति दुर्भगः वयापत्तिं कर्मणा दृष्ट्वा जुगुप्सन्ति जनाः सदा 35 अकारणॊ हि नेहास्ति धर्मः सूक्ष्मॊ ऽपि जाजले भूतभव्यार्थम एवेह धर्मप्रवचनं कृतम 36 सूक्ष्मत्वान न स विज्ञातुं शक्यते बहु निह्नवः उपलभ्यान्तरा चान्यान आचारान अवबुध्यते 37 ये च छिन्दन्ति वृषणान ये च भिन्दन्ति नस्तकान वहन्ति महतॊ भारान बध्नन्ति दमयन्ति च 38 हत्वा सत्त्वानि खादन्ति तान कथं न विगर्हसे मानुषा मानुषान एव दासभॊगेन बुञ्जते 39 वधबन्धविरॊधेन कारयन्ति दिवानिशम आत्मना चापि जानासि यद दुःखं वधतादने 40 पञ्चेन्द्रियेषु भूतेषु सर्वं वसति दैवतम आदित्यश चन्द्रमा वायुर बरह्मा पराणः करतुर यमः 41 तानि जीवानि विक्रीय का मृतेषु विचारणा का तैले का घृते बरह्मन मधुन्य अप्स्व औषधेषु वा 42 अदंश मशके देशे सुखं संवर्थितान पशून तांश च मातुः परियाञ जानन्न आक्रम्य बहुधा नराः बहु दंश कुशान देशान नयन्ति बहु कर्दमान 43 वाहसंपीडिता धुर्याः सीदन्त्य अविधिनापरे न मन्ये भरूण हत्यापि विशिष्टा तेन कर्मणा 44 कृषिं साध्व इति मन्यन्ते सा च वृत्तिः सुदारुणा भूमिं भूमिशयांश चैव हन्ति काष्ठम अयॊमुखम तथैवानदुहॊ युक्तान समवेक्षस्व जाजले 45 अघ्न्या इति गवां नाम क एनान हन्तुम अर्हति महच चकाराकुशलं पृषध्रॊ गालभन्न इव 46 ऋषयॊ यतयॊ हय एतन नहुषे परत्यवेदयन गां मातरं चाप्य अवधीर वृषभं च परजापतिम अकार्यं नहुषाकार्षीर लप्स्यामस तवत्कृते भयम 47 शतं चैकं च रॊगाणां सर्वभूतेष्व अपातयन ऋषयस तु महाभागाः परजास्व एव हि जाजले भरूणहं नहुषं तव आहुर न ते हॊष्यामहे हविः 48 इत्य उक्त्वा ते महात्मानः सर्वे तत्त्वार्थ दर्शिनः ऋषयॊ यतयः शान्तास तरसा परत्यवेदयन 49 ईदृशान अशिवान घॊरान आचारान इह जाजले केवलाचरितत्वात तु निपुनान नावबुध्यसे 50 कारणाद धर्मम अन्विच्छेन न लॊकचरितं चरेत यॊ हन्याद यश च मां सतौति तत्रापि शृणु जाजले 51 समौ ताव अपि मे सयातां न हि मे सतः परियाप्रिये एतद ईदृशकं धर्मं परशंसन्ति मनीषिणः 52 उपपत्त्या हि संपन्नॊ यतिभिश चैव सेव्यते सततं धर्मशीलैश च नैपुण्येनॊपलक्षितः |
1
[bhī] ity uktaḥ sa tadā tena tulādhāreṇa dhīmatā provāca vacanaṃ dhīmāñ jājalir japatāṃ varaḥ 2 vikrīṇānaḥ sarvarasān sarvagandhāṃś ca vānija vanaspatīn oṣadhīś ca teṣāṃ mūlaphalāni ca 3 adhyagā naiṣṭhikīṃ buddhiṃ kutas tvām idam āgatam etad ācakṣva me sarvaṃ nikhilena mahāmate 4 evam uktas tulādhāro brāhmaṇena yaśasvinā uvāca dharmasūkṣmāṇi vaiśyo dharmārthatattvavit jājaliṃ kasta tapasaṃ jñānatṛptas tadā nṛpa 5 vedāhaṃ jājale dharmaṃ sarahasyaṃ sanātanam sarvabhūtahitaṃ maitraṃ purāṇaṃ yaṃ janā viduḥ 6 adroheṇaiva bhūtānām alpadroheṇa vā punaḥ yā vṛttiḥ sa paro dharmas tena jīvāmi jājale 7 paricchinnaiḥ kāṣṭha tṛṇair mayedaṃ śaraṇaṃ kṛtam alaktaṃ padmakaṃ tuṅgaṃ gandhāṃś coccāvacāṃs tathā 8 rasāṃś ca tāṃs tān viprarṣe madyya varjān ahaṃ bahūn krītvā vai prativikrīṇe parahastād amāyayā 9 sarveṣāṃ yaḥ suhṛn nityaṃ sarveṣāṃ ca hite rataḥ karmaṇā manasā vācā sa dharmaṃ veda jājale 10 nāhaṃ pareṣāṃ karmāṇi praśaṃsāmi śapāmi vā ākāśasyeva viprarṣe paśyaṁl lokasya citratām 11 nānurudhye virudhye vā na dveṣmi na ca kāmaye samo 'smi sarvabhūteṣu paśya me jājale vratam 12 iṣṭāniṣṭa vimuktasya prītirāgabahiṣkṛtaḥ tulā me sarvabhūteṣu samā tiṣṭhati jājale 13 iti māṃ tvaṃ vijānīhi sarvalokasya jājale samaṃ matimatāṃ śreṣṭha samaloṣṭāśma kāñcanam 14 yathāndha badhironmattā ucchvāsaparamāḥ sadā devair apihita dvārāḥ sopamā paśyato mama 15 yathā vṛddhātura kṛśā niḥspṛhā viṣayān prati tathārtha kāmabhogeṣu mamāpi vigatā spṛhā 16 yadā cāyaṃ na bibheti yadā cāsmān na bibhyati yadā necchati na dveṣṭi tadā sidhyati vai dvijaḥ 17 yadā na kurute bhāvaṃ sarvabhūteṣu pāpakam karmaṇā manasā vācā brahma saṃpadyate tadā 18 na bhūto na bhaviṣyaś ca na ca dharmo 'sti kaś cana yo 'bhayaḥ sarvabhūtānāṃ sa prāpnoty abhayaṃ padam 19 yasmād udvijate lokaḥ sarvo mṛtyumukhād iva vāk krūrād daṇḍa pāruṣyāt sa prāpnoti mahad bhayam 20 yathāvad vartamānānāṃ vṛddhānāṃ putrapautriṇām anuvartāmahe vṛttam ahiṃsrāṇāṃ mahātmanām 21 pranastaḥ śāśvato dharmaḥ sad ācāreṇa mohitaḥ tena vaidyas tapasvī vā balavān vā vimohyate 22 ācārāñ jājale prājñaḥ kṣipraṃ dharmam avāpnuyāt evaṃ yaḥ sādhubhir dāntaś cared adroha cetasā 23 nadyāṃ yathā ceha kāṣṭham uhyamānaṃ yadṛcchayā yadṛcchayaiva kāṣṭhena saṃdhiṃ gaccheta kena cit 24 tatrāprarāni dārūṇi saṃsṛjyante tatas tataḥ tṛṇakāṣṭha karīsāni kadācinn asamīkṣayā evam evāyam ācāraḥ prādurbhūto yatas tataḥ 25 yasmān nodvijate bhūtaṃ jātu kiṃ cit kathaṃ cana abhayaṃ sarvabhūtebhyaḥ sa prāpnoti sadā mune 26 yasmād udjivate vidvan sarvaloko vṛkād iva krośatas tīram āsādya yathā sarve jale carāḥ 27 sahāyavān dravyavān yaḥ subhago 'nyo 'paras tathā tatas tān eva kavayaḥ śāstreṣu pravadanty uta kīrtyartham alpahṛllekhāḥ patataḥ kṛtsnanirnayāḥ 28 tapo bhor yajñadānaiś ca vākyaiḥ prajñāśritais tathā prāpnoty abhayadānasya yad yat phalam ihāśnute 29 loke yaḥ sarvabhūtebhyo dadāty abhayadakṣiṇām sa sarvayajñair ījānaḥ prāpnoty abhayadakṣiṇām na bhūtānām ahiṃsāyā jyāyān dharmo 'sti kaś cana 30 yasmān nodvijate bhūtaṃ jātu kiṃ cit kathaṃ cana te 'bhayaṃ sarvabhūtebhyaḥ saṃprāpnoti mahāmune 31 yasmād udvijate lokaḥ sarpād veśma gatād iva na sa dharmam avāpnoti iha loke paratra ca 32 sarvabhūtātmabhūtasya samyag bhūtāni paśyataḥ devāpi mārge muhyanti apadasya padaiṣiṇaḥ 33 dānaṃ bhūtābhayasyāhuḥ sarvadānebhya uttamam bravīmi te satyam idaṃ śraddadhasva ca jājale 34 sa eva subhago bhūtvā punar bhavati durbhagaḥ vyāpattiṃ karmaṇā dṛṣṭvā jugupsanti janāḥ sadā 35 akāraṇo hi nehāsti dharmaḥ sūkṣmo 'pi jājale bhūtabhavyārtham eveha dharmapravacanaṃ kṛtam 36 sūkṣmatvān na sa vijñātuṃ śakyate bahu nihnavaḥ upalabhyāntarā cānyān ācārān avabudhyate 37 ye ca chindanti vṛṣaṇān ye ca bhindanti nastakān vahanti mahato bhārān badhnanti damayanti ca 38 hatvā sattvāni khādanti tān kathaṃ na vigarhase mānuṣā mānuṣān eva dāsabhogena buñjate 39 vadhabandhavirodhena kārayanti divāniśam ātmanā cāpi jānāsi yad duḥkhaṃ vadhatādane 40 pañcendriyeṣu bhūteṣu sarvaṃ vasati daivatam ādityaś candramā vāyur brahmā prāṇaḥ kratur yamaḥ 41 tāni jīvāni vikrīya kā mṛteṣu vicāraṇā kā taile kā ghṛte brahman madhuny apsv auṣadheṣu vā 42 adaṃśa maśake deśe sukhaṃ saṃvarthitān paśūn tāṃś ca mātuḥ priyāñ jānann ākramya bahudhā narāḥ bahu daṃśa kuśān deśān nayanti bahu kardamān 43 vāhasaṃpīḍitā dhuryāḥ sīdanty avidhināpare na manye bhrūṇa hatyāpi viśiṣṭā tena karmaṇā 44 kṛṣiṃ sādhv iti manyante sā ca vṛttiḥ sudāruṇā bhūmiṃ bhūmiśayāṃś caiva hanti kāṣṭham ayomukham tathaivānaduho yuktān samavekṣasva jājale 45 aghnyā iti gavāṃ nāma ka enān hantum arhati mahac cakārākuśalaṃ pṛṣadhro gālabhann iva 46 ṛṣayo yatayo hy etan nahuṣe pratyavedayan gāṃ mātaraṃ cāpy avadhīr vṛṣabhaṃ ca prajāpatim akāryaṃ nahuṣākārṣīr lapsyāmas tvatkṛte bhayam 47 śataṃ caikaṃ ca rogāṇāṃ sarvabhūteṣv apātayan ṛṣayas tu mahābhāgāḥ prajāsv eva hi jājale bhrūṇahaṃ nahuṣaṃ tv āhur na te hoṣyāmahe haviḥ 48 ity uktvā te mahātmānaḥ sarve tattvārtha darśinaḥ ṛṣayo yatayaḥ śāntās tarasā pratyavedayan 49 īdṛśān aśivān ghorān ācārān iha jājale kevalācaritatvāt tu nipunān nāvabudhyase 50 kāraṇād dharmam anvicchen na lokacaritaṃ caret yo hanyād yaś ca māṃ stauti tatrāpi śṛṇu jājale 51 samau tāv api me syātāṃ na hi me staḥ priyāpriye etad īdṛśakaṃ dharmaṃ praśaṃsanti manīṣiṇaḥ 52 upapattyā hi saṃpanno yatibhiś caiva sevyate satataṃ dharmaśīlaiś ca naipuṇyenopalakṣitaḥ |
The Mahabharata in Sanskrit
Book 12
Chapter 255
|
1
[जाजलि] यथा परवर्तितॊ धर्मस तुलां धारयता तवया सवर्गद्वारं च वृत्तिं च भूतानाम अवरॊत्स्यते 2 कृष्या हय अन्नं परभवति ततस तवम अपि जीवसि पशुभिश चौषधीभिश च मर्त्या जीवन्ति वानिज 3 यतॊ यज्ञः परभवति नास्तिक्यम अपि जल्पसि न हि वर्तेद अयं लॊकॊ वार्ताम उत्सृज्य केवलम 4 [तुला] वक्ष्यामि जाजले वृत्तिं नास्मि बराह्मण नास्तिकः न च यज्ञं विनिन्दामि यज्ञवित तु सुदुर्लभः 5 नमॊ बराह्मण यज्ञाय ये च यज्ञविदॊ जनाः सवयज्ञं बराह्मणा हित्वा कषात्रं यज्ञम इहास्थिताः 6 लुब्धैर वित्तपरैर बरह्मन नास्तिकैः संप्रवर्तितम वेदवादान अविज्ञाय सत्याभासम इवानृतम 7 इदं देयम इदं देयम इति नान्तं चिकीर्षति अतः सतैन्यं परभवति विकर्माणि च जाजले तद एव सुकृतं हव्यं येन तुष्यन्ति देवताः 8 नमः कारेण हविषा सवाध्यायैर औषधैस तथा पूजा सयाद देवतानां हि यथाशास्त्रनिदर्शनम 9 इष्टापूर्ताद असाधूनां विषमा जायते परजा लुब्धेभ्यॊ जायते लुब्धः समेभ्यॊ जायते समः 10 यजमानॊ यथात्मानम ऋत्विजश च तथा परजाः यज्ञात परजा परभवति नभसॊ ऽमभ इवामलम 11 अग्नौ परास्ताहुतिर बरह्मन्न आदित्यम उपतिष्ठति आदित्याज जायते वृष्टिर वृष्टेर अन्नं ततः परजाः 12 तस्मात सवनुष्ठितात पूर्वे सर्वान कामांश च लेभिरे अकृष्टपच्या पृथिविय आशिर्भिर वीरुधॊ भवन न ते यज्ञेष्व आत्मसु वा फलं पश्यन्ति किं चन 13 शङ्कमानाः फलं यज्ञे ये यजेरन कथं चन जायन्ते ऽसाधवॊ धूर्ता लुब्धा वित्तप्रयॊजनाः 14 स सम पापकृतां लॊकान गच्छेद अशुभ कर्मणा परमानम अप्रमानेन यः कुर्याद अशुभं नरः पापात्मा सॊ ऽकृतप्रज्ञः सदैवेह दविजॊत्तम 15 कर्तव्यम इति कर्तव्यं वेत्ति यॊ बराह्मणॊभयम बरह्मैव वर्तते लॊके नैति कर्तव्यतां पुनः 16 विगुणं च पुनः कर्म जयाय इत्य अनुशुश्रुम सर्वभूतॊपघातश च फलभावे च संयमः 17 सत्ययज्ञा दमयज्ञा अलुब्धाश चात्मतृप्तयः उत्पन्न तयागिनः सर्वे जना आसन्न मत्सराः 18 कषेत्रक्षेत्रज्ञतत्त्वज्ञाः सवयज्ञपरिनिष्ठिताः बराह्मं वेदम अधीयन्तस तॊषयन्त्य अमरान अपि 19 अखिलं दैवतं सर्वं बरह्म बराह्मण संश्रितम तृप्यन्ति तृप्यतॊ देवास तृप्तास तृप्तस्य जाजले 20 यथा सर्वरसैस तृप्तॊ नाभिनन्दन्ति किं चन तथा परज्ञान तृप्तस्त्य नित्यं तृप्तिः सुखॊदया 21 धर्मारामा धर्मसुखाः कृत्स्नव्यवसितास तथा अस्ति नस तत्त्वतॊ भूय इति परज्ञा गवेषिणः 22 जञानविज्ञानिनः के चित परं पारं तितीर्षवः अतीव तत सदा पुण्यं पुण्याभिजन संहितम 23 यत्र गत्वा न शॊचन्ति न चयवन्ति वयथन्ति च ते तु तद बरह्मणः सथानं पराप्नुवन्तीह सात्त्विकाः 24 नैव ते सवर्गम इच्छन्ति न यजन्ति यशॊ धनैः सतां वर्त्मानुवर्तन्ते यथाबलम अहिंसया 25 वनस्पतीन ओषधीश च फलमूलं च ते विदुः न चैतान ऋत्विजॊ लुब्धा याजयन्ति धनार्थिनः 26 सवम एव चार्थं कुर्वाणा यज्ञं चक्रुः पुनर दविजाः परिनिष्ठित कर्माणः परजानुग्रह काम्यया 27 परापयेयुः परजाः सवर्गं सवधर्मचरणेन वै इति मे वर्तते बुद्धिः समा सर्वत्र जाजले 28 परयुञ्जते यानि यज्ञे सदा पराज्ञा दविजर्षभ तेन ते देव यानेन पथा यान्ति महामुने 29 आवृत्तिस तत्र चैकस्य नास्त्य आवृत्तिर मनीसिनाम उभौ तौ देव यानेन गच्छतॊ जाजले पथा 30 सवयं चैषाम अनदुहॊ युज्यन्ति च वहन्ति च सवयम उस्राश च दुह्यन्ते मनःसंकल्पसिद्धिभिः 31 सवयं यूपान उपादाय यजन्ते सवाप्तदक्षिणैः यस तथा भावितात्मा सयात स गाम आलब्धुम अर्हति 32 ओषधीभिस तथा बरह्मन यजेरंस ते न तादृशः बुद्धित्यागं पुरस्कृत्य तादृशं परब्रवीमि ते 33 निराशिषम अनारम्भं निर्नमस्कारम अस्तुतिम अक्षीणं कषीणकर्माणं तं देवा बराह्मणं विदुः 34 नाश्रावयन न च यजन न ददद बराह्मणेषु च गराम्यां वृत्तिं लिप्समानः कां गतिं याति जाजले इदं तु दैवतं कृत्वा यथा यज्ञम अवाप्नुयात 35 [जा] न वै मुनीनां शृणुमः सम तत्त्वं; पृच्छामि तवा वानिज कस्तम एतत पूर्वे पूर्वे चास्य नावेक्षमाणा; नातः परं तम ऋषयः सथापयन्ति 36 अस्मिन्न एवात्म तीर्थे न पशवः पराप्नुयुः सुखम अथ सवकर्मणा केन वाजिन पराप्नुयात सुखम शंस मे तन महाप्राज्ञ भृशं वै शरद्दधामि ते 37 [तुला] उत यज्ञा उतायज्ञा मखं नार्हन्ति ते कव चित आज्येन पयसा दध्ना पूर्णाहुत्या विशेषतः वालैः शृङ्गेन पादेन संभवत्य एव गौर्मखम 38 पत्नीं चानेन विधिना परकरॊति नियॊजयन पुरॊदाशॊ हि सर्वेषां पशूनां मेध्य उच्यते 39 सर्वा नद्यः सरस्वत्यः सर्वे पुण्याः शिलॊच्चयाः जाजले तीर्थम आत्मैव मा सम देशातिथिर भव 40 एतान ईदृशकान धर्मान आचरन्न इह जाजले कारणैर धर्मम अन्विच्छन्न न लॊकान आप्नुते शुभान 41 [भी] एतान ईदृशकान धर्मांस तुलाधारः परशंसति उपपत्त्या हि संपन्नान नित्यं सद भिर निषेवितान |
1
[jājali] yathā pravartito dharmas tulāṃ dhārayatā tvayā svargadvāraṃ ca vṛttiṃ ca bhūtānām avarotsyate 2 kṛṣyā hy annaṃ prabhavati tatas tvam api jīvasi paśubhiś cauṣadhībhiś ca martyā jīvanti vānija 3 yato yajñaḥ prabhavati nāstikyam api jalpasi na hi varted ayaṃ loko vārtām utsṛjya kevalam 4 [tulā] vakṣyāmi jājale vṛttiṃ nāsmi brāhmaṇa nāstikaḥ na ca yajñaṃ vinindāmi yajñavit tu sudurlabhaḥ 5 namo brāhmaṇa yajñāya ye ca yajñavido janāḥ svayajñaṃ brāhmaṇā hitvā kṣātraṃ yajñam ihāsthitāḥ 6 lubdhair vittaparair brahman nāstikaiḥ saṃpravartitam vedavādān avijñāya satyābhāsam ivānṛtam 7 idaṃ deyam idaṃ deyam iti nāntaṃ cikīrṣati ataḥ stainyaṃ prabhavati vikarmāṇi ca jājale tad eva sukṛtaṃ havyaṃ yena tuṣyanti devatāḥ 8 namaḥ kāreṇa haviṣā svādhyāyair auṣadhais tathā pūjā syād devatānāṃ hi yathāśāstranidarśanam 9 iṣṭāpūrtād asādhūnāṃ viṣamā jāyate prajā lubdhebhyo jāyate lubdhaḥ samebhyo jāyate samaḥ 10 yajamāno yathātmānam ṛtvijaś ca tathā prajāḥ yajñāt prajā prabhavati nabhaso 'mbha ivāmalam 11 agnau prāstāhutir brahmann ādityam upatiṣṭhati ādityāj jāyate vṛṣṭir vṛṣṭer annaṃ tataḥ prajāḥ 12 tasmāt svanuṣṭhitāt pūrve sarvān kāmāṃś ca lebhire akṛṣṭapacyā pṛthiviy āśirbhir vīrudho bhavan na te yajñeṣv ātmasu vā phalaṃ paśyanti kiṃ cana 13 śaṅkamānāḥ phalaṃ yajñe ye yajeran kathaṃ cana jāyante 'sādhavo dhūrtā lubdhā vittaprayojanāḥ 14 sa sma pāpakṛtāṃ lokān gacched aśubha karmaṇā pramānam apramānena yaḥ kuryād aśubhaṃ naraḥ pāpātmā so 'kṛtaprajñaḥ sadaiveha dvijottama 15 kartavyam iti kartavyaṃ vetti yo brāhmaṇobhayam brahmaiva vartate loke naiti kartavyatāṃ punaḥ 16 viguṇaṃ ca punaḥ karma jyāya ity anuśuśruma sarvabhūtopaghātaś ca phalabhāve ca saṃyamaḥ 17 satyayajñā damayajñā alubdhāś cātmatṛptayaḥ utpanna tyāginaḥ sarve janā āsanna matsarāḥ 18 kṣetrakṣetrajñatattvajñāḥ svayajñapariniṣṭhitāḥ brāhmaṃ vedam adhīyantas toṣayanty amarān api 19 akhilaṃ daivataṃ sarvaṃ brahma brāhmaṇa saṃśritam tṛpyanti tṛpyato devās tṛptās tṛptasya jājale 20 yathā sarvarasais tṛpto nābhinandanti kiṃ cana tathā prajñāna tṛptastya nityaṃ tṛptiḥ sukhodayā 21 dharmārāmā dharmasukhāḥ kṛtsnavyavasitās tathā asti nas tattvato bhūya iti prajñā gaveṣiṇaḥ 22 jñānavijñāninaḥ ke cit paraṃ pāraṃ titīrṣavaḥ atīva tat sadā puṇyaṃ puṇyābhijana saṃhitam 23 yatra gatvā na śocanti na cyavanti vyathanti ca te tu tad brahmaṇaḥ sthānaṃ prāpnuvantīha sāttvikāḥ 24 naiva te svargam icchanti na yajanti yaśo dhanaiḥ satāṃ vartmānuvartante yathābalam ahiṃsayā 25 vanaspatīn oṣadhīś ca phalamūlaṃ ca te viduḥ na caitān ṛtvijo lubdhā yājayanti dhanārthinaḥ 26 svam eva cārthaṃ kurvāṇā yajñaṃ cakruḥ punar dvijāḥ pariniṣṭhita karmāṇaḥ prajānugraha kāmyayā 27 prāpayeyuḥ prajāḥ svargaṃ svadharmacaraṇena vai iti me vartate buddhiḥ samā sarvatra jājale 28 prayuñjate yāni yajñe sadā prājñā dvijarṣabha tena te deva yānena pathā yānti mahāmune 29 āvṛttis tatra caikasya nāsty āvṛttir manīsinām ubhau tau deva yānena gacchato jājale pathā 30 svayaṃ caiṣām anaduho yujyanti ca vahanti ca svayam usrāś ca duhyante manaḥsaṃkalpasiddhibhiḥ 31 svayaṃ yūpān upādāya yajante svāptadakṣiṇaiḥ yas tathā bhāvitātmā syāt sa gām ālabdhum arhati 32 oṣadhībhis tathā brahman yajeraṃs te na tādṛśaḥ buddhityāgaṃ puraskṛtya tādṛśaṃ prabravīmi te 33 nirāśiṣam anārambhaṃ nirnamaskāram astutim akṣīṇaṃ kṣīṇakarmāṇaṃ taṃ devā brāhmaṇaṃ viduḥ 34 nāśrāvayan na ca yajan na dadad brāhmaṇeṣu ca grāmyāṃ vṛttiṃ lipsamānaḥ kāṃ gatiṃ yāti jājale idaṃ tu daivataṃ kṛtvā yathā yajñam avāpnuyāt 35 [jā] na vai munīnāṃ śṛṇumaḥ sma tattvaṃ; pṛcchāmi tvā vānija kastam etat pūrve pūrve cāsya nāvekṣamāṇā; nātaḥ paraṃ tam ṛṣayaḥ sthāpayanti 36 asminn evātma tīrthe na paśavaḥ prāpnuyuḥ sukham atha svakarmaṇā kena vājina prāpnuyāt sukham śaṃsa me tan mahāprājña bhṛśaṃ vai śraddadhāmi te 37 [tulā] uta yajñā utāyajñā makhaṃ nārhanti te kva cit ājyena payasā dadhnā pūrṇāhutyā viśeṣataḥ vālaiḥ śṛṅgena pādena saṃbhavaty eva gaurmakham 38 patnīṃ cānena vidhinā prakaroti niyojayan purodāśo hi sarveṣāṃ paśūnāṃ medhya ucyate 39 sarvā nadyaḥ sarasvatyaḥ sarve puṇyāḥ śiloccayāḥ jājale tīrtham ātmaiva mā sma deśātithir bhava 40 etān īdṛśakān dharmān ācarann iha jājale kāraṇair dharmam anvicchann na lokān āpnute śubhān 41 [bhī] etān īdṛśakān dharmāṃs tulādhāraḥ praśaṃsati upapattyā hi saṃpannān nityaṃ sad bhir niṣevitān |
The Mahabharata in Sanskrit
Book 12
Chapter 256
|
1
[तुलाधार] सद्भिर वा यदि वासद्भिर अयं पन्थाः समाश्रितः परत्यक्षं करियतां साधु ततॊ जञास्यसि तद यथा 2 एते शकुन्ता बहवः समन्ताद विचरन्ति हि तवॊत्तमाङ्गे संभूताः शयेनाश चान्याश च जातयः 3 आह्वयैनान महाब्रह्मन विशमानांस ततस ततः पश्येमान हस्तपादेषु शलिष्टान देहे च सर्वशः 4 संभावयन्ति पितरं तवया संभाविताः खगाः असंशयं पिता च तवं पुत्रान आह्वय जाजले 5 [भी] ततॊ जाजलिना तेन समाहूता पतत्रिणः वाचम उच्चारयन दिव्यां धर्मस्य वचनात किल 6 अहिंसादि कृतं कर्म इह चैव परत्र च सपर्धा निहन्ति वै बरह्मन सा हता हन्ति तं नरम 7 शरद्धा वृद्धं वाङ्मनसी न यज्ञस तरातुम अर्हति अत्र गाथा बरह्म गीताः कीर्तयन्ति पुरा विदः 8 शुचेर अश्रद्दधानस्य शरद्दधानस्य चाशुचेः देवाश चित्तम अमन्यन्त सशृशं यज्ञकर्मणि 9 शरॊत्रियस्य कदर्यस्य वदान्यस्य च वार्धुषेः मीमांसित्वॊभयं देवाः समम अन्नम अकल्पयन 10 परजापतिस तान उवाच विषमं कृतम इत्य उत शरद्धा पूतं वदान्यस्य हतम अश्रद्धयेतरत भॊज्यम अन्नं वदान्यस्य कदर्यस्य न वार्धुषेः 11 अश्रद्दधान एवैकॊ देवानां नार्हते हविः तस्यैवान्नं न भॊक्तव्यम इति धर्मविदॊ विदुः 12 अश्रद्धा परमं पापं शरद्धा पापप्रमॊचिनी जहाति पापं शरद्धावान सर्पॊ जीर्णाम इव तवचम 13 जयायसी यापवित्राणां निवृत्तिः शरद्धया सह निवृत्तशीलदॊषॊ यः शरद्धावान पूत एव सः 14 किं तस्य तपसा कार्यं किं वृत्तेन किम आत्मना शरद्धामयॊ ऽयं पुरुषॊ यॊ यच्छ्रद्धः स एव सः 15 इति धर्मः समाख्यातः सद्भिर धर्मार्थदर्शिभिः वयं जिज्ञासमानास तवा संप्राप्ता धर्मदर्शनात 16 सपर्धां जहि महाप्राज्ञ ततः पराप्स्यसि यत परम शरद्धावाञ शरद्दधानश च धर्मांश चैवेह वानिजः सववर्त्मनि सथितश चैव गरीयान एष जाजले 17 एवं बहुमतार्थं च तुलाधारेण भासितम सम्यक चैवम उपालब्धॊ धर्मश चॊक्तः सनातनः 18 तस्य विख्यातवीर्यस्य शरुत्वा वाक्यानि स दविजः तुलाधारस्य कौन्तेय शान्तिम एवान्वपद्यत 19 ततॊ ऽचिरेण कालेन तुलाधारः स एव च दिवं गत्वा महाप्राज्ञौ विहरेतां यथासुखम सवं सवं सथानम उपागम्य सवकर्मफलनिर्जितम 20 समानां शरद्दधानानां संयतानां सुचेतसाम कुर्वतां यज्ञ इत्य एव न यज्ञॊ जातु नेष्यते 21 शरद्धा वै सात्त्विकी देवी सूर्यस्य दुहिता नृप सावित्री परसवित्री च जीव विश्वासिनी तथा 22 वाग वृद्धं तरायते शरद्धा मनॊ वृद्धं च भारत यथौपम्यॊपदेशेन किं भूयः शरॊतुम इच्छसि |
1
[tulādhāra] sadbhir vā yadi vāsadbhir ayaṃ panthāḥ samāśritaḥ pratyakṣaṃ kriyatāṃ sādhu tato jñāsyasi tad yathā 2 ete śakuntā bahavaḥ samantād vicaranti hi tavottamāṅge saṃbhūtāḥ śyenāś cānyāś ca jātayaḥ 3 āhvayainān mahābrahman viśamānāṃs tatas tataḥ paśyemān hastapādeṣu śliṣṭān dehe ca sarvaśaḥ 4 saṃbhāvayanti pitaraṃ tvayā saṃbhāvitāḥ khagāḥ asaṃśayaṃ pitā ca tvaṃ putrān āhvaya jājale 5 [bhī] tato jājalinā tena samāhūtā patatriṇaḥ vācam uccārayan divyāṃ dharmasya vacanāt kila 6 ahiṃsādi kṛtaṃ karma iha caiva paratra ca spardhā nihanti vai brahman sā hatā hanti taṃ naram 7 śraddhā vṛddhaṃ vāṅmanasī na yajñas trātum arhati atra gāthā brahma gītāḥ kīrtayanti purā vidaḥ 8 śucer aśraddadhānasya śraddadhānasya cāśuceḥ devāś cittam amanyanta saśṛśaṃ yajñakarmaṇi 9 śrotriyasya kadaryasya vadānyasya ca vārdhuṣeḥ mīmāṃsitvobhayaṃ devāḥ samam annam akalpayan 10 prajāpatis tān uvāca viṣamaṃ kṛtam ity uta śraddhā pūtaṃ vadānyasya hatam aśraddhayetarat bhojyam annaṃ vadānyasya kadaryasya na vārdhuṣeḥ 11 aśraddadhāna evaiko devānāṃ nārhate haviḥ tasyaivānnaṃ na bhoktavyam iti dharmavido viduḥ 12 aśraddhā paramaṃ pāpaṃ śraddhā pāpapramocinī jahāti pāpaṃ śraddhāvān sarpo jīrṇām iva tvacam 13 jyāyasī yāpavitrāṇāṃ nivṛttiḥ śraddhayā saha nivṛttaśīladoṣo yaḥ śraddhāvān pūta eva saḥ 14 kiṃ tasya tapasā kāryaṃ kiṃ vṛttena kim ātmanā śraddhāmayo 'yaṃ puruṣo yo yacchraddhaḥ sa eva saḥ 15 iti dharmaḥ samākhyātaḥ sadbhir dharmārthadarśibhiḥ vayaṃ jijñāsamānās tvā saṃprāptā dharmadarśanāt 16 spardhāṃ jahi mahāprājña tataḥ prāpsyasi yat param śraddhāvāñ śraddadhānaś ca dharmāṃś caiveha vānijaḥ svavartmani sthitaś caiva garīyān eṣa jājale 17 evaṃ bahumatārthaṃ ca tulādhāreṇa bhāsitam samyak caivam upālabdho dharmaś coktaḥ sanātanaḥ 18 tasya vikhyātavīryasya śrutvā vākyāni sa dvijaḥ tulādhārasya kaunteya śāntim evānvapadyata 19 tato 'cireṇa kālena tulādhāraḥ sa eva ca divaṃ gatvā mahāprājñau viharetāṃ yathāsukham svaṃ svaṃ sthānam upāgamya svakarmaphalanirjitam 20 samānāṃ śraddadhānānāṃ saṃyatānāṃ sucetasām kurvatāṃ yajña ity eva na yajño jātu neṣyate 21 śraddhā vai sāttvikī devī sūryasya duhitā nṛpa sāvitrī prasavitrī ca jīva viśvāsinī tathā 22 vāg vṛddhaṃ trāyate śraddhā mano vṛddhaṃ ca bhārata yathaupamyopadeśena kiṃ bhūyaḥ śrotum icchasi |
The Mahabharata in Sanskrit
Book 12
Chapter 257
|
1
[भी] अत्राप्य उदाहरन्तीमम इतिहासं पुरातनम परजानाम अनुकम्पार्थं गीतं राज्ञा विचख्नुना 2 छिन्नस्थूनं वृषं दृष्ट्वा विरावं च गवां भृशम गॊग्रहे यज्ञवातस्य परेक्षमाणः स पार्थिवः 3 सवस्ति गॊभ्यॊ ऽसतु लॊकेषु ततॊ निर्वचनं कृतम हिंसायां हि परवृत्तायाम आशीर एषानुकल्पिता 4 अव्यवस्थित मर्यादैर विमूढैर नास्तिकैर नरैः संशयात्मभिर अव्यक्तैर हिंसा समनुकीर्तिता 5 सर्वकर्म सवहिंसा हि धर्मात्मा मनुर अब्रवीत कामरागाद विहिंसन्ति बहिर वेद्यां पशून नराः 6 तस्मात परमानतः कार्यॊ धर्मः सूक्ष्मॊ विजानता अहिंसैव हि सर्वेभ्यॊ धर्मेभ्यॊ जयायसी मता 7 उपॊष्य संशितॊ भूत्वा हित्वा वेद कृताः शरुतीः आचार इत्य अनाचाराः कृपणाः फलहेतवः 8 यदि यज्ञांश च वृक्षांश च यूपांश चॊद्धिश्य मानवाः वृथा मांसानि खादन्ति नैष धर्मः परशस्यते 9 मांसं मधु सुरा मत्स्या आसवं कृसरौदनम धूर्तैः परवर्तितं हय एतन नैतद वेदेषु कल्पितम 10 कामान मॊहाच च लॊभाच च लौल्यम एतत परवर्तितम विष्णुम एवाभिजानन्ति सर्वयज्ञेषु बराह्मणाः पायसैः सुमनॊभिश च तस्यापि यजनं समृतम 11 यज्ञियाश चैव ये वृक्षा वेदेषु परिकल्पिताः यच चापि किं चित कर्तव्यम अन्यच चॊक्षैः सुसंस्कृतम महासत्त्वैः शुद्धभावैः सर्वं देवार्हम एव तत 12 [य] शरीरम आपदश चापि विवदन्त्य अविहिंसतः कथं यात्रा शरीरस्य निरारम्भस्य सेत्स्यति 13 [भी] यथा शरीरं न गलायेन नेयान मृत्युवशं यथा तथा कर्मसु वर्तेत समर्थॊ धर्मम आचरेत |
1
[bhī] atrāpy udāharantīmam itihāsaṃ purātanam prajānām anukampārthaṃ gītaṃ rājñā vicakhnunā 2 chinnasthūnaṃ vṛṣaṃ dṛṣṭvā virāvaṃ ca gavāṃ bhṛśam gograhe yajñavātasya prekṣamāṇaḥ sa pārthivaḥ 3 svasti gobhyo 'stu lokeṣu tato nirvacanaṃ kṛtam hiṃsāyāṃ hi pravṛttāyām āśīr eṣānukalpitā 4 avyavasthita maryādair vimūḍhair nāstikair naraiḥ saṃśayātmabhir avyaktair hiṃsā samanukīrtitā 5 sarvakarma svahiṃsā hi dharmātmā manur abravīt kāmarāgād vihiṃsanti bahir vedyāṃ paśūn narāḥ 6 tasmāt pramānataḥ kāryo dharmaḥ sūkṣmo vijānatā ahiṃsaiva hi sarvebhyo dharmebhyo jyāyasī matā 7 upoṣya saṃśito bhūtvā hitvā veda kṛtāḥ śrutīḥ ācāra ity anācārāḥ kṛpaṇāḥ phalahetavaḥ 8 yadi yajñāṃś ca vṛkṣāṃś ca yūpāṃś coddhiśya mānavāḥ vṛthā māṃsāni khādanti naiṣa dharmaḥ praśasyate 9 māṃsaṃ madhu surā matsyā āsavaṃ kṛsaraudanam dhūrtaiḥ pravartitaṃ hy etan naitad vedeṣu kalpitam 10 kāmān mohāc ca lobhāc ca laulyam etat pravartitam viṣṇum evābhijānanti sarvayajñeṣu brāhmaṇāḥ pāyasaiḥ sumanobhiś ca tasyāpi yajanaṃ smṛtam 11 yajñiyāś caiva ye vṛkṣā vedeṣu parikalpitāḥ yac cāpi kiṃ cit kartavyam anyac cokṣaiḥ susaṃskṛtam mahāsattvaiḥ śuddhabhāvaiḥ sarvaṃ devārham eva tat 12 [y] śarīram āpadaś cāpi vivadanty avihiṃsataḥ kathaṃ yātrā śarīrasya nirārambhasya setsyati 13 [bhī] yathā śarīraṃ na glāyen neyān mṛtyuvaśaṃ yathā tathā karmasu varteta samartho dharmam ācaret |
The Mahabharata in Sanskrit
Book 12
Chapter 258
|
1
[य] कथं कार्यं परीक्षेत शीघ्रं वाथ चिरेण वा सर्वथा कार्यदुर्गे ऽसमिन भवान नः परमॊ गुरुः 2 [भी] अत्राप्य उदाहरन्तीमम इतिहासं पुरातनम चिरकारेस तु यत पूर्वं वृत्तम आङ्गिरसे कुले 3 चिरकारिक भद्रं ते भद्रं ते चिरकारिक चिरकारी हि मेधावी नापराध्यति कर्मसु 4 चिरकारी महाप्राज्ञॊ गौतमस्याभवत सुतः चिरं हि सर्वकार्याणि समेक्षावान परपद्यते 5 चिरं संचिन्तयन्न अर्थांश चिरं जाग्रच चिरं सवपन चिरकार्याभिसंपत्तेश चिरकारी तथॊच्यते 6 अलस गरहणं पराप्तॊ दुर्मेधावी तथॊच्यते बुद्धिलाघव युक्तेन जनेनादीर्घ दर्शिना 7 वयभिचारे तु कस्मिंश चिद वयतिक्रम्यापरान सुतान पित्रॊक्तः कुपितेनाथ जहीमां जननीम इति 8 स तथेति चिरेणॊक्त्वा सवभावाच चिरकारिकः विमृश्य चिरकारित्वाच चिन्तयाम आस वै चिरम 9 पितुर आज्ञां कथं कुर्यां न हन्यां मातरं कथम कथं धर्मछले नास्मिन्न इमं जेयम असाधुवत 10 पितुर आज्ञा परॊ धर्मः सवधर्मॊ मातृरक्षणम अस्वतन्त्रं च पुत्रत्वं किं नु मां नात्र पीडयेत 11 सत्रियं हत्वा मातरं च कॊ हि जातु सुखी भवेत पितारं चाप्य अवज्ञाय कः परतिष्ठाम अवाप्नुयात 12 अनवज्ञा पितुर युक्ता धारणं मातृरक्षणम युक्तक्षमाव उभाव एतौ नातिवर्तेतमां कथम 13 पिता हय आत्मानम आधत्ते जायायां जज्ञियाम इति शीलचारित्रगॊत्रस्य धारणार्थं कुलस्य च 14 सॊ ऽहम आत्मा सवयं पित्रा पुत्रत्वे परकृतः पुनः विज्ञानं मे कथं न सयाद बुबुधे चात्मसंभवम 15 जातकर्मणि यत पराह पिता यच चॊपकर्मणि परत्याप्तः स दृधी कारः पितुर गौरवनिश्चये 16 गुरुर अग्र्यः परॊ धर्मः पॊषणाध्ययनाद धितः पिता यद आह धर्मः स वेदेष्व अपि सुनिश्चितः 17 परीतिमात्रं पितुः पुत्रः सर्वं पुत्रस्य वै पिता शरीरादीनि देयानि पिता तव एकः परयच्छति 18 तस्मात पितुर वचः कार्यं न विचार्यं कथं चन पातकान्य अपि पूयन्ते पितुर वचनकारिणः 19 भॊगे भाग्ये परसवने सर्वलॊकनिदर्शने भर्त्रा चैव समायॊगे सीमन्तॊन्नयने तथा 20 पिता सवर्गः पिता धर्मः पिता परमकं तपः पितरि परीतिम आपन्ने सर्वाः परीयन्ति देवताः 21 आशिषस ता भजन्त्य एनं पुरुषं पराह याः पिता निष्कृतिः सर्वपापानां पिता यद अभिनन्दति 22 मुच्यते बन्धनात पुष्पं फलं वृन्तात परमुच्यते कलिश्यन्न अपि सुतस्नेहैः पिता सनेहं न मुञ्चति 23 एतद विचिन्तितं तावत पुत्रस्य पितृगौरवम पिता हय अल्पतरं सथानं चिन्तयिष्यामि मातरम 24 यॊ हय अयं मयि संघातॊ मर्त्यत्वे पाञ्चभौतिकः अस्य मे जननी हेतुः पावकस्य यथारणिः माता देहारणिः पुंसां सर्वस्यार्तस्य निर्वृतिः 25 न च शॊचति नाप्य एनं सथाविर यम अपकर्षति सत्रिया हीनॊ ऽपि यॊ गेहे अम्बेति परतिपद्यते 26 पुत्रपौत्र समाकीर्णॊ जननीं यः समाश्रितः अपि वर्षशतस्यान्ते स दविहायनवच चरेत 27 समर्थं वासमर्थं वा कृशं वाप्य अकृशं तथा रक्षत्य एव सुतं माता नान्यः पॊष्टा विधानतः 28 तदा स वृद्धॊ भवति यदा भवति दुःखितः तदा शून्यं जगत तस्य तदा मात्रा वियुज्यते 29 नास्ति मातृसमा छाया नास्ति मातृसमा गतिः नास्ति मातृसमं तराणं नास्ति मातृसमा परपा 30 कुक्षि संधारणाद धात्री जननाज जननी समृता अङ्गानां वर्धनाद अम्बा वीर सूत्वेन वीरसूः 31 शिशॊः शुश्रूसनाच छुश्रूर माता देहम अनन्तरम चेतनावान नरॊ हन्याद यस्य नासुषिरं शिरः 32 दम्पत्यॊः पराण संश्लेषे यॊ ऽभिसंधिः कृतः किल तं माता वा पिता वेद भूतार्थॊ मातरि सथितः 33 माता जानाति यद गॊत्रं माता जानाति यस्य सः मातुर भरण मात्रेण परीतिः सनेहः पितुः परजाः 34 पानि बन्धं सवयं कृत्वा सहधर्मम उपेत्य च यदि याप्यन्ति पुरुषाः सत्रियॊ नार्हन्ति याप्यताम 35 भरणाद धि सत्रियॊ भर्ता पात्याच चैव सत्रियाः पतिः गुणस्यास्य निवृत्तौ तु न भर्ता न पतिः पतिः 36 एवं सत्री नापराध्नॊति नर एवापराध्यति वयुच्चरंश च महादॊषं नर एवापराध्यति 37 सत्रिया हि परमॊ भर्ता दैवतं परमं समृतम तस्यात्मना तु सदृशम आत्मानं परमं ददौ सर्वकार्यापराध्यत्वान नापराध्यन्ति चाङ्गनाः 38 यश्चनॊक्तॊ हि निर्देशः सत्रिया मैथुन तृप्तये तस्य समारयतॊ वयक्तम अधर्मॊ नात्र संशयः 39 यावन नारीं मातरं च गौरवे चाधिके सथिताम अवध्यां तु विजानीयुः पशवॊ ऽपय अविचक्षणाः 40 देवतानां समावायम एकस्थं पितरं विदुः मर्त्यानां देवतानां च सनेहाद अभ्येति मातरम 41 एवं विमृशतस तस्य चिरकारितया बहु दीर्घः कालॊ वयतिक्रान्तस ततस तस्यागमत पिता 42 मेधातिथिर महाप्राज्ञॊ गौतमस तपसि सथितः विमृश्य तेन कालेन पत्न्याः संस्था वयतिक्रमम 43 सॊ ऽबरवीद दुःखसंतप्तॊ भृशम अश्रूणि वर्तयन शरुतधैर्य परसादेन पश्चात तापम उपागतः 44 आश्रमं मम संप्राप्तस तरिलॊकेशः पुरंदरः अतिथिव्रतम आस्थाय बराह्मणं रूपम आस्थितः 45 समया सान्त्वितॊ वाग्भिः सवागतेनाभिपूजितः अर्घ्यं पाद्यं च नयायेन तयाभिप्रतिपादितः 46 परवत्य अस्मि चाप्य उक्तः परनयिष्ये नयेन च अत्र चाकुशले जाते सत्रियॊ नास्ति वयतिक्रमः 47 एवं न सत्री न चैवाहं नाध्वगस तरिदशेश्वरः अपराध्यति धर्मस्य परमादस तव अपराध्यति 48 ईर्ष्याजं वयसनं पराहुस तेन चैवॊर्ध्व रेतसः ईर्ष्यया तव अहम आक्षिप्तॊ मग्नॊ दुष्कृत सागरे 49 हत्वा साध्वीं च नारीं च वयसनित्वाच च शासिताम भर्तव्यत्वेन भार्यां च कॊ नु मां तारयिष्यति 50 अन्तरेण मयाज्ञप्तश चिरकारी हय उदारधीः यद्य अद्य चिरकारी सयात स मां तरायेत पातकात 51 चिरकारिक भद्रं ते भद्रं ते चिरकारिक यद्य अद्य चिरकारी तवं ततॊ ऽसि चिरकारिकः 52 तराहि मां मातरं चैव तपॊ यच चार्जितं मया आत्मानं पातकेभ्यश च भवाद्य चिरकारिकः 53 सहजं चिरकारित्वं चिरप्राज्ञतया तव सखलं तत तवाद्यास्तु भवाद्य चिरकारिकः 54 चिरम आशंसितॊ मात्रा चिरं गर्भेण धारितम सफलं चिरकारित्वं कुरु तवं चिरकारिक 55 चिरायते च संतापाच चिरं सवपिति वारितः आवयॊश चिरसंतापाद अवेक्ष्य चिरकारिक 56 एवं स दुःखितॊ राजन महर्षिर गौतमस तदा चिरकारिं ददर्शाथ पुत्रं सथितम अथान्तिके 57 चिरकारी तु पितरं दृष्ट्वा परमदुःखितः शस्त्रं तयक्त्वा ततॊ मूर्ध्ना परसादायॊपचक्रमे 58 गौतमस तु सुतं दृष्ट्वा शिरसा पतितं भुवि पत्नीं चैव निराकारां पराम अभ्यगमन मुदम 59 न हि सा तेन संभेदं पत्नी नीता महात्मना विजने चाश्रमस्थेन पुत्रश चापि समाहितः 60 हन्यात तव अनपवादेन शस्त्रपानौ सुते सथिते विनीतं परश्नयित्वा च वयवस्येद आत्मकर्मसु 61 बुद्धिश चासीत सुतं दृष्ट्वा पितुश चरणयॊर नतम शस्त्रग्रहणचापल्यं संवृणॊति भयाद इति 62 ततः पित्रा चिरं सतुत्वा चिरं चाघ्राय मूर्धनि चिरं दॊर्भ्यां परिष्वज्य चिरं जीवेत्य उदाहृतः 63 एवं स गौतमः पुत्रं परीतिहर्षसमन्वितः अभिनन्द्य महाप्राज्ञ इदं वचनम अब्रवीत 64 चिरकारिक भद्रं ते चिरकारी चिरं भव चिरायमाणे तवयि च चिरम अस्मि सुदुःखितः 65 गाथाश चाप्य अब्रवीद विद्वान गौतमॊ मुनिसत्तमः चिरकारिषु घॊरेषु गुणॊद्देश समाश्रयात 66 चिरेण मित्रं बध्नीयाच चिरेण च कृतं तयजेत चिरेण हि कृतं मित्रं चिरं धारणम अर्हति 67 रागे दर्पे च माने च दरॊहे पापे च कर्मणि अप्रिये चैव कर्तव्ये चिरकारी परशस्यते 68 बन्धूनां सुहृदां चैव भृत्यानां सत्रीजनस्य च अव्यक्तेष्व अपराधेषु चिरकारी परशस्यते 69 एवं स गौतमस तस्य परीतः पुत्रस्य भारत कर्मणा तेन कौरव्य चिरकारितया तया 70 एवं सर्वेषु कार्येषु विमृश्य पुरुषस ततः चिरेण निश्चयं कृत्वा चिरं न परितप्यते 71 चिरं धारयते रॊषं चिरं कर्म नियच्छति पश्चात तापकरं कर्म न किं चिद उपपद्यते 72 चिरं वृद्धान उपासीत चिरम अन्वास्य पूजयेत चिरं धर्मान निषेवेत कुर्याच चान्वेषणं चिरम 73 चिरम अन्वास्य विदुषश चिरं शिष्टान निषेव्य च चिरं विनीय चात्मानं चिरं यात्य अनवज्ञताम 74 बरुवतश च परस्यापि वाक्यं धर्मॊपसंहितम चिरं पृच्छेच चिरं बरूयाच चिरं न परिभूयते 75 उपास्य बहुलास तस्मिन्न आश्रमे सुमहातपः समाः सवर्गं गतॊ विप्रः पुत्रेण सहितस तदा |
1
[y] kathaṃ kāryaṃ parīkṣeta śīghraṃ vātha cireṇa vā sarvathā kāryadurge 'smin bhavān naḥ paramo guruḥ 2 [bhī] atrāpy udāharantīmam itihāsaṃ purātanam cirakāres tu yat pūrvaṃ vṛttam āṅgirase kule 3 cirakārika bhadraṃ te bhadraṃ te cirakārika cirakārī hi medhāvī nāparādhyati karmasu 4 cirakārī mahāprājño gautamasyābhavat sutaḥ ciraṃ hi sarvakāryāṇi samekṣāvān prapadyate 5 ciraṃ saṃcintayann arthāṃś ciraṃ jāgrac ciraṃ svapan cirakāryābhisaṃpatteś cirakārī tathocyate 6 alasa grahaṇaṃ prāpto durmedhāvī tathocyate buddhilāghava yuktena janenādīrgha darśinā 7 vyabhicāre tu kasmiṃś cid vyatikramyāparān sutān pitroktaḥ kupitenātha jahīmāṃ jananīm iti 8 sa tatheti cireṇoktvā svabhāvāc cirakārikaḥ vimṛśya cirakāritvāc cintayām āsa vai ciram 9 pitur ājñāṃ kathaṃ kuryāṃ na hanyāṃ mātaraṃ katham kathaṃ dharmachale nāsminn imaṃ jeyam asādhuvat 10 pitur ājñā paro dharmaḥ svadharmo mātṛrakṣaṇam asvatantraṃ ca putratvaṃ kiṃ nu māṃ nātra pīḍayet 11 striyaṃ hatvā mātaraṃ ca ko hi jātu sukhī bhavet pitāraṃ cāpy avajñāya kaḥ pratiṣṭhām avāpnuyāt 12 anavajñā pitur yuktā dhāraṇaṃ mātṛrakṣaṇam yuktakṣamāv ubhāv etau nātivartetamāṃ katham 13 pitā hy ātmānam ādhatte jāyāyāṃ jajñiyām iti śīlacāritragotrasya dhāraṇārthaṃ kulasya ca 14 so 'ham ātmā svayaṃ pitrā putratve prakṛtaḥ punaḥ vijñānaṃ me kathaṃ na syād bubudhe cātmasaṃbhavam 15 jātakarmaṇi yat prāha pitā yac copakarmaṇi pratyāptaḥ sa dṛdhī kāraḥ pitur gauravaniścaye 16 gurur agryaḥ paro dharmaḥ poṣaṇādhyayanād dhitaḥ pitā yad āha dharmaḥ sa vedeṣv api suniścitaḥ 17 prītimātraṃ pituḥ putraḥ sarvaṃ putrasya vai pitā śarīrādīni deyāni pitā tv ekaḥ prayacchati 18 tasmāt pitur vacaḥ kāryaṃ na vicāryaṃ kathaṃ cana pātakāny api pūyante pitur vacanakāriṇaḥ 19 bhoge bhāgye prasavane sarvalokanidarśane bhartrā caiva samāyoge sīmantonnayane tathā 20 pitā svargaḥ pitā dharmaḥ pitā paramakaṃ tapaḥ pitari prītim āpanne sarvāḥ prīyanti devatāḥ 21 āśiṣas tā bhajanty enaṃ puruṣaṃ prāha yāḥ pitā niṣkṛtiḥ sarvapāpānāṃ pitā yad abhinandati 22 mucyate bandhanāt puṣpaṃ phalaṃ vṛntāt pramucyate kliśyann api sutasnehaiḥ pitā snehaṃ na muñcati 23 etad vicintitaṃ tāvat putrasya pitṛgauravam pitā hy alpataraṃ sthānaṃ cintayiṣyāmi mātaram 24 yo hy ayaṃ mayi saṃghāto martyatve pāñcabhautikaḥ asya me jananī hetuḥ pāvakasya yathāraṇiḥ mātā dehāraṇiḥ puṃsāṃ sarvasyārtasya nirvṛtiḥ 25 na ca śocati nāpy enaṃ sthāvir yam apakarṣati striyā hīno 'pi yo gehe ambeti pratipadyate 26 putrapautra samākīrṇo jananīṃ yaḥ samāśritaḥ api varṣaśatasyānte sa dvihāyanavac caret 27 samarthaṃ vāsamarthaṃ vā kṛśaṃ vāpy akṛśaṃ tathā rakṣaty eva sutaṃ mātā nānyaḥ poṣṭā vidhānataḥ 28 tadā sa vṛddho bhavati yadā bhavati duḥkhitaḥ tadā śūnyaṃ jagat tasya tadā mātrā viyujyate 29 nāsti mātṛsamā chāyā nāsti mātṛsamā gatiḥ nāsti mātṛsamaṃ trāṇaṃ nāsti mātṛsamā prapā 30 kukṣi saṃdhāraṇād dhātrī jananāj jananī smṛtā aṅgānāṃ vardhanād ambā vīra sūtvena vīrasūḥ 31 śiśoḥ śuśrūsanāc chuśrūr mātā deham anantaram cetanāvān naro hanyād yasya nāsuṣiraṃ śiraḥ 32 dampatyoḥ prāṇa saṃśleṣe yo 'bhisaṃdhiḥ kṛtaḥ kila taṃ mātā vā pitā veda bhūtārtho mātari sthitaḥ 33 mātā jānāti yad gotraṃ mātā jānāti yasya saḥ mātur bharaṇa mātreṇa prītiḥ snehaḥ pituḥ prajāḥ 34 pāni bandhaṃ svayaṃ kṛtvā sahadharmam upetya ca yadi yāpyanti puruṣāḥ striyo nārhanti yāpyatām 35 bharaṇād dhi striyo bhartā pātyāc caiva striyāḥ patiḥ guṇasyāsya nivṛttau tu na bhartā na patiḥ patiḥ 36 evaṃ strī nāparādhnoti nara evāparādhyati vyuccaraṃś ca mahādoṣaṃ nara evāparādhyati 37 striyā hi paramo bhartā daivataṃ paramaṃ smṛtam tasyātmanā tu sadṛśam ātmānaṃ paramaṃ dadau sarvakāryāparādhyatvān nāparādhyanti cāṅganāḥ 38 yaścanokto hi nirdeśaḥ striyā maithuna tṛptaye tasya smārayato vyaktam adharmo nātra saṃśayaḥ 39 yāvan nārīṃ mātaraṃ ca gaurave cādhike sthitām avadhyāṃ tu vijānīyuḥ paśavo 'py avicakṣaṇāḥ 40 devatānāṃ samāvāyam ekasthaṃ pitaraṃ viduḥ martyānāṃ devatānāṃ ca snehād abhyeti mātaram 41 evaṃ vimṛśatas tasya cirakāritayā bahu dīrghaḥ kālo vyatikrāntas tatas tasyāgamat pitā 42 medhātithir mahāprājño gautamas tapasi sthitaḥ vimṛśya tena kālena patnyāḥ saṃsthā vyatikramam 43 so 'bravīd duḥkhasaṃtapto bhṛśam aśrūṇi vartayan śrutadhairya prasādena paścāt tāpam upāgataḥ 44 āśramaṃ mama saṃprāptas trilokeśaḥ puraṃdaraḥ atithivratam āsthāya brāhmaṇaṃ rūpam āsthitaḥ 45 samayā sāntvito vāgbhiḥ svāgatenābhipūjitaḥ arghyaṃ pādyaṃ ca nyāyena tayābhipratipāditaḥ 46 paravaty asmi cāpy uktaḥ pranayiṣye nayena ca atra cākuśale jāte striyo nāsti vyatikramaḥ 47 evaṃ na strī na caivāhaṃ nādhvagas tridaśeśvaraḥ aparādhyati dharmasya pramādas tv aparādhyati 48 īrṣyājaṃ vyasanaṃ prāhus tena caivordhva retasaḥ īrṣyayā tv aham ākṣipto magno duṣkṛta sāgare 49 hatvā sādhvīṃ ca nārīṃ ca vyasanitvāc ca śāsitām bhartavyatvena bhāryāṃ ca ko nu māṃ tārayiṣyati 50 antareṇa mayājñaptaś cirakārī hy udāradhīḥ yady adya cirakārī syāt sa māṃ trāyeta pātakāt 51 cirakārika bhadraṃ te bhadraṃ te cirakārika yady adya cirakārī tvaṃ tato 'si cirakārikaḥ 52 trāhi māṃ mātaraṃ caiva tapo yac cārjitaṃ mayā ātmānaṃ pātakebhyaś ca bhavādya cirakārikaḥ 53 sahajaṃ cirakāritvaṃ ciraprājñatayā tava sakhalaṃ tat tavādyāstu bhavādya cirakārikaḥ 54 ciram āśaṃsito mātrā ciraṃ garbheṇa dhāritam saphalaṃ cirakāritvaṃ kuru tvaṃ cirakārika 55 cirāyate ca saṃtāpāc ciraṃ svapiti vāritaḥ āvayoś cirasaṃtāpād avekṣya cirakārika 56 evaṃ sa duḥkhito rājan maharṣir gautamas tadā cirakāriṃ dadarśātha putraṃ sthitam athāntike 57 cirakārī tu pitaraṃ dṛṣṭvā paramaduḥkhitaḥ śastraṃ tyaktvā tato mūrdhnā prasādāyopacakrame 58 gautamas tu sutaṃ dṛṣṭvā śirasā patitaṃ bhuvi patnīṃ caiva nirākārāṃ parām abhyagaman mudam 59 na hi sā tena saṃbhedaṃ patnī nītā mahātmanā vijane cāśramasthena putraś cāpi samāhitaḥ 60 hanyāt tv anapavādena śastrapānau sute sthite vinītaṃ praśnayitvā ca vyavasyed ātmakarmasu 61 buddhiś cāsīt sutaṃ dṛṣṭvā pituś caraṇayor natam śastragrahaṇacāpalyaṃ saṃvṛṇoti bhayād iti 62 tataḥ pitrā ciraṃ stutvā ciraṃ cāghrāya mūrdhani ciraṃ dorbhyāṃ pariṣvajya ciraṃ jīvety udāhṛtaḥ 63 evaṃ sa gautamaḥ putraṃ prītiharṣasamanvitaḥ abhinandya mahāprājña idaṃ vacanam abravīt 64 cirakārika bhadraṃ te cirakārī ciraṃ bhava cirāyamāṇe tvayi ca ciram asmi suduḥkhitaḥ 65 gāthāś cāpy abravīd vidvān gautamo munisattamaḥ cirakāriṣu ghoreṣu guṇoddeśa samāśrayāt 66 cireṇa mitraṃ badhnīyāc cireṇa ca kṛtaṃ tyajet cireṇa hi kṛtaṃ mitraṃ ciraṃ dhāraṇam arhati 67 rāge darpe ca māne ca drohe pāpe ca karmaṇi apriye caiva kartavye cirakārī praśasyate 68 bandhūnāṃ suhṛdāṃ caiva bhṛtyānāṃ strījanasya ca avyakteṣv aparādheṣu cirakārī praśasyate 69 evaṃ sa gautamas tasya prītaḥ putrasya bhārata karmaṇā tena kauravya cirakāritayā tayā 70 evaṃ sarveṣu kāryeṣu vimṛśya puruṣas tataḥ cireṇa niścayaṃ kṛtvā ciraṃ na paritapyate 71 ciraṃ dhārayate roṣaṃ ciraṃ karma niyacchati paścāt tāpakaraṃ karma na kiṃ cid upapadyate 72 ciraṃ vṛddhān upāsīta ciram anvāsya pūjayet ciraṃ dharmān niṣeveta kuryāc cānveṣaṇaṃ ciram 73 ciram anvāsya viduṣaś ciraṃ śiṣṭān niṣevya ca ciraṃ vinīya cātmānaṃ ciraṃ yāty anavajñatām 74 bruvataś ca parasyāpi vākyaṃ dharmopasaṃhitam ciraṃ pṛcchec ciraṃ brūyāc ciraṃ na paribhūyate 75 upāsya bahulās tasminn āśrame sumahātapaḥ samāḥ svargaṃ gato vipraḥ putreṇa sahitas tadā |
The Mahabharata in Sanskrit
Book 12
Chapter 259
|
1
[य] कथं राजा परजा रक्षेन न च किं चित परतापयेत पृच्छामि तवां सतां शरेष्ठ तन मे बरूहि पितामह 2 [भी] अत्राप्य उदाहरन्तीमम इतिहासं पुरातनम दयुमत्सेनस्य संवादं राज्ञा सत्यवता सह 3 अव्याहृतं वयाजहार सत्यवान इति नः शरुतम वधाय नीयमानेषु पितुर एवानुशासनात 4 अधर्मतां याति धर्मॊ यात्य अधर्मश च धर्मताम वधॊ नाम भवेद धर्मॊ नैतद भवितुम अर्हति 5 [दयुमत्सेन] अथ चेद अवधॊ धर्मॊ धर्मः कॊ जातुचिद भवेत दस्ययश चेन न हन्येरन सत्यवन संकरॊ भवेत 6 ममेदम इति नास्यैतत परवर्तेत कलौ युगे लॊकयात्रा न चैव सयाद अथ चेद वेत्थ शंस नः 7 [सत्यवत] सर्व एव तरयॊ वर्णाः कार्या बराह्मण बन्धनाः धर्मपाशनिबद्धानाम अल्पॊ वयपचरिष्यति 8 यॊ यस तेषाम अपचरेत तम आचक्षीत वै दविजः अयं मे न शृणॊतीति तस्मिन राजा परधारयेत 9 तत्वाभेदेन यच छास्त्रं तत कार्यं नान्यथा वधः असमीक्ष्यैव कर्माणि नीतिशास्त्रं यथाविधि 10 दस्यून हिनस्ति वै राजा भूयसॊ वाप्य अनागसः भार्या माता पिता पुत्रॊ हन्यते पुरुषे हते परेणापकृते राजा तस्मात सम्यक परधारयेत 11 असाधॊश चैव पुरुषॊ लभते शीलम एकदा साधॊश चापि हय असाधुभ्यॊ जायते ऽशॊभना परजा 12 न मूलघातः कर्तव्यॊ नैष धर्मः सनातनः अपि खल्व अवधेनैव परायश्चित्तं विधीयते 13 उद्वेजनेन बन्धेन विरूपकरणेन च वधदन्देन ते कलेश्या न पुरॊ ऽहितसंपदा 14 यदा पुरॊहितं वा ते पर्येयुः शरणैषिणः करिष्यामः पुनर बरह्मन न पापम इति वादिनः 15 तदा विसर्गम अर्हाः सयुर इतीदं नृपशासनम विभ्रद दण्डाजिनं मुन्दॊ बराह्मणॊ ऽरहति वाससम 16 गरीयांसॊ गरीयांसम अपराधे पुनः पुनः तथा विसर्गम अर्हन्ति न यथा परथमे तथा 17 [दयुमत्सेन] यत्र यत्रैव शक्येरन संयन्तुं समये परजाः स तावत परॊच्यते धर्मॊ यावन न परतिलङ्घ्यते 18 अहन्यमानेषु पुनः सर्वम एव पराभवेत पूर्वे पूर्वतरे चैव सुशास्या अभवञ जनाः 19 मृदवः सत्यभूयिष्ठा अल्पद्रॊहाल्प मन्यवः पुरा धिग दन्द एवासीद वाग दन्दस तदनन्तरम 20 आसीद आदान दण्डॊ ऽपि वधदण्डॊ ऽदय वर्तते वधेनापि न शक्यन्ते नियन्तुम अपरे जनाः 21 नैव दस्युर मनुष्याणां न देवानाम इति शरुतिः न गन्धर्वपितॄणां च कः कस्येह न कश्चनन 22 पद्मं शमशानाद आदत्ते पिशाचाच चापि दैवतम तेषु यः समयं कुर्याद अज्ञेषु हतबुद्धिषु 23 [सत्यवत] तान न शक्नॊषि चेत साधून परित्रातुम अहिंसया कस्य चिद भूतभव्यस्य लाभेनान्तं तथा कुरु 24 [दयुमत्सेन] राजानॊ लॊकयात्रार्थं तप्यन्ते परमं तपः अपत्रपन्ति तादृग्भ्यस तथा वृत्ता भवन्ति च 25 वित्रास्यमानाः सुकृतॊ न कामाद घनन्ति दुष्कृतीन सुकृतेनैव राजानॊ भूयिष्ठं शासते परजाः 26 शरेयसः शरेयसीम एवंवृत्तिं लॊकॊ ऽनुवर्तते सदैव हि गुरॊर वृत्तम अनुवर्तन्ति मानवाः 27 आत्मानम असमाधाय समाधित्सति यः परान विषयेष्व इन्द्रियवशं मानवाः परहसन्ति तम 28 यॊ राज्ञॊ दम्भमॊहेन किं चित कुर्याद असांप्रतम सर्वॊपायैर नियम्यः स तथा पापान निवर्तते 29 आत्मैवादौ नियन्तव्यॊ दुष्कृतं समियच्छता दन्दयेच च महादन्तैर अपि बन्धून अनन्तरान 30 यत्र वै पापकृत कलेश्यॊ न महद दुःखम अर्छति वर्धन्ते तत्र पापानि धर्मॊ हरसति च धरुवम इति कारुण्यशीलस तु विद्वान वै बराह्मणॊ ऽनवशात 31 इति चैवानुशिष्टॊ ऽसमि पूर्वैस तात पितामहैः आश्वासयद्भिः सुभृशम अनुक्रॊशात तथैव च 32 एतत परथमकल्पेन राजा कृतयुगे ऽभजत पादॊ ऽनेनापि धर्मेण गच्छेत तरेतायुगे तथा दवापरे तु दविपादेन पादेन तव अपरे युगे 33 तथा कलियुगे पराप्ते राज्ञां दुश्चरितेन ह भवेत कालविशेषेण कला धर्मस्य सॊदशी 34 अथ परथमकल्पेन सत्यवन संकरॊ भवेत आयुः शक्तिं च कालं च निर्दिश्य तप आदिशेत 35 सत्याय हि यथा नेह जह्याद धर्मफलं महत भूतानाम अनुकम्पार्थं मनुः सवायम्भुवॊ ऽबरवीत |
1
[y] kathaṃ rājā prajā rakṣen na ca kiṃ cit pratāpayet pṛcchāmi tvāṃ satāṃ śreṣṭha tan me brūhi pitāmaha 2 [bhī] atrāpy udāharantīmam itihāsaṃ purātanam dyumatsenasya saṃvādaṃ rājñā satyavatā saha 3 avyāhṛtaṃ vyājahāra satyavān iti naḥ śrutam vadhāya nīyamāneṣu pitur evānuśāsanāt 4 adharmatāṃ yāti dharmo yāty adharmaś ca dharmatām vadho nāma bhaved dharmo naitad bhavitum arhati 5 [dyumatsena] atha ced avadho dharmo dharmaḥ ko jātucid bhavet dasyayaś cen na hanyeran satyavan saṃkaro bhavet 6 mamedam iti nāsyaitat pravarteta kalau yuge lokayātrā na caiva syād atha ced vettha śaṃsa naḥ 7 [satyavat] sarva eva trayo varṇāḥ kāryā brāhmaṇa bandhanāḥ dharmapāśanibaddhānām alpo vyapacariṣyati 8 yo yas teṣām apacaret tam ācakṣīta vai dvijaḥ ayaṃ me na śṛṇotīti tasmin rājā pradhārayet 9 tatvābhedena yac chāstraṃ tat kāryaṃ nānyathā vadhaḥ asamīkṣyaiva karmāṇi nītiśāstraṃ yathāvidhi 10 dasyūn hinasti vai rājā bhūyaso vāpy anāgasaḥ bhāryā mātā pitā putro hanyate puruṣe hate pareṇāpakṛte rājā tasmāt samyak pradhārayet 11 asādhoś caiva puruṣo labhate śīlam ekadā sādhoś cāpi hy asādhubhyo jāyate 'śobhanā prajā 12 na mūlaghātaḥ kartavyo naiṣa dharmaḥ sanātanaḥ api khalv avadhenaiva prāyaścittaṃ vidhīyate 13 udvejanena bandhena virūpakaraṇena ca vadhadandena te kleśyā na puro 'hitasaṃpadā 14 yadā purohitaṃ vā te paryeyuḥ śaraṇaiṣiṇaḥ kariṣyāmaḥ punar brahman na pāpam iti vādinaḥ 15 tadā visargam arhāḥ syur itīdaṃ nṛpaśāsanam vibhrad daṇḍājinaṃ mundo brāhmaṇo 'rhati vāsasam 16 garīyāṃso garīyāṃsam aparādhe punaḥ punaḥ tathā visargam arhanti na yathā prathame tathā 17 [dyumatsena] yatra yatraiva śakyeran saṃyantuṃ samaye prajāḥ sa tāvat procyate dharmo yāvan na pratilaṅghyate 18 ahanyamāneṣu punaḥ sarvam eva parābhavet pūrve pūrvatare caiva suśāsyā abhavañ janāḥ 19 mṛdavaḥ satyabhūyiṣṭhā alpadrohālpa manyavaḥ purā dhig danda evāsīd vāg dandas tadanantaram 20 āsīd ādāna daṇḍo 'pi vadhadaṇḍo 'dya vartate vadhenāpi na śakyante niyantum apare janāḥ 21 naiva dasyur manuṣyāṇāṃ na devānām iti śrutiḥ na gandharvapitṝṇāṃ ca kaḥ kasyeha na kaścanan 22 padmaṃ śmaśānād ādatte piśācāc cāpi daivatam teṣu yaḥ samayaṃ kuryād ajñeṣu hatabuddhiṣu 23 [satyavat] tān na śaknoṣi cet sādhūn paritrātum ahiṃsayā kasya cid bhūtabhavyasya lābhenāntaṃ tathā kuru 24 [dyumatsena] rājāno lokayātrārthaṃ tapyante paramaṃ tapaḥ apatrapanti tādṛgbhyas tathā vṛttā bhavanti ca 25 vitrāsyamānāḥ sukṛto na kāmād ghnanti duṣkṛtīn sukṛtenaiva rājāno bhūyiṣṭhaṃ śāsate prajāḥ 26 śreyasaḥ śreyasīm evaṃvṛttiṃ loko 'nuvartate sadaiva hi guror vṛttam anuvartanti mānavāḥ 27 ātmānam asamādhāya samādhitsati yaḥ parān viṣayeṣv indriyavaśaṃ mānavāḥ prahasanti tam 28 yo rājño dambhamohena kiṃ cit kuryād asāṃpratam sarvopāyair niyamyaḥ sa tathā pāpān nivartate 29 ātmaivādau niyantavyo duṣkṛtaṃ samiyacchatā dandayec ca mahādantair api bandhūn anantarān 30 yatra vai pāpakṛt kleśyo na mahad duḥkham archati vardhante tatra pāpāni dharmo hrasati ca dhruvam iti kāruṇyaśīlas tu vidvān vai brāhmaṇo 'nvaśāt 31 iti caivānuśiṣṭo 'smi pūrvais tāta pitāmahaiḥ āśvāsayadbhiḥ subhṛśam anukrośāt tathaiva ca 32 etat prathamakalpena rājā kṛtayuge 'bhajat pādo 'nenāpi dharmeṇa gacchet tretāyuge tathā dvāpare tu dvipādena pādena tv apare yuge 33 tathā kaliyuge prāpte rājñāṃ duścaritena ha bhavet kālaviśeṣeṇa kalā dharmasya sodaśī 34 atha prathamakalpena satyavan saṃkaro bhavet āyuḥ śaktiṃ ca kālaṃ ca nirdiśya tapa ādiśet 35 satyāya hi yathā neha jahyād dharmaphalaṃ mahat bhūtānām anukampārthaṃ manuḥ svāyambhuvo 'bravīt |
The Mahabharata in Sanskrit
Book 12
Chapter 260
|
1
[य] अविरॊधेन भूतानां तयागः षाद्गुण्यकारकः यः सयाद उभय भाग्धर्मस तन मे बरूहि पितामह 2 गार्हस्थ्यस्य च धर्मस्य तयागधर्मस्य चॊभयॊः अदूरसंप्रस्थितयॊः किं सविच छरेयः पितामह 3 [भी] उभौ धर्मौ महाभागाव उभौ परमदुश्चरौ उभौ महाफलौ तात सद्भिर आचरिताव उभौ 4 अत्र ते वर्तयिष्यामि परामान्यम उभयॊस तयॊः शृणुष्वैक मनाः पार्थ छिन्नधर्मार्थसंशयम 5 अत्राप्य उदाहरन्तीमम इतिहासं पुरातनम कपिलस्य गॊश च संवादं तन निबॊध युधिष्ठिर 6 आम्नायम अनुपश्यन हि पुराणं शाश्वतं धरुवम नहुषः पूर्वम आलेभे तवस्तुर गाम इतिनः शरुतम 7 तां नियुक्ताम अदीनात्मा सत्त्वस्थः समये रतः जञानवान नियताहारॊ ददर्श पलिलस तदा 8 स बुद्धिम उत्तमां पराप्तॊ नैष्ठिकीम अकुतॊभयाम समरामि शिथिलं सत्यं वेदा इत्य अब्रवीत सकृत 9 तां गाम ऋषिः सयूम रश्मिः परविश्य यतिम अब्रवीत हंहॊ वेदा यदि मता धर्माः केनापरे मताः 10 तपस्विनॊ धृतिमतः शरुतिविज्ञानचक्षुषः सर्वम आर्षं हि मन्यन्ते वयाहृतं विदितात्मनः 11 तस्यैवं गततृष्णस्य विज्वरस्य निराशिषः का विवक्षास्ति वेदेषु निरारम्भस्य सर्वशः 12 [कपिल] नाहं वेदान विनिन्दामि न विवक्षामि कर्हि चित पृथग आश्रमिणां कर्माण्य एकार्थानीति नः शरुतम 13 गच्छत्य एव परित्यागी वानप्रस्थश च गच्छति गृहस्थॊ बरह्मचारी च उभौ ताव अपि गच्छतः 14 देव याना हि पन्थानश चत्वारः शाश्वता मताः तेषां जयायः कनीयस्त्वं फलेषूक्तं बलाबलम 15 एवं विदित्वा सर्वार्थान आरभेद इति वैदिकम नारभेद इति चान्यत्र नैष्ठिकी शरूयते शरुतिः 16 अनारम्भे हय अदॊषः सयाद आरम्भे ऽदॊष उत्तमः एवं सथितस्य शास्त्रस्य दुर्विज्ञेयं बलाबलम 17 यद्य अत्र किं चित परत्यक्षम अहिंसायाः परं मतम ऋते तव आगमशास्त्रेभ्यॊ बरूहि तद यदि पश्यसि 18 [सयूमरष्मि] सवर्गकामॊ यजेतेति सततं शरूयते शरुतिः फलं परकल्प्य पूर्वं हि ततॊ यज्ञः परतायते 19 अजश चाश्वश च मेषश च गौश च पक्षिगणाश च ये गराम्यारण्या ओषधयः पराणस्यान्नम इति शरुतिः 20 तथैवान्नं हय अहर अहः सायं परातर्निरुप्यते पशवश चाथ धान्यं च यज्ञस्याङ्गम इति शरुतिः 21 एतानि सहयज्ञेन परजापतिर अकल्पयत तेन परजापतिर देवान यज्ञेनायजत परभुः 22 ते समान्यॊन्यं चराः सर्वे परानिनः सप्त सप्त च यज्ञेषूपाकृतं विश्वं पराहुर उत्तमसंज्ञितम 23 एतच चैवाभ्यनुज्ञातं पूर्वैः पूर्वतरैस तथा कॊ जातु न विचिन्वीत विद्वान सवां शक्तिम आत्मनः 24 पशवश च मनुष्याश च दरुमाश चौषधिभिः सह सवर्गम एवाभिकाङ्क्षन्ते न च सवर्गस तव ऋते मखम 25 ओषध्यः पशवॊ वृक्षा वीरुदाज्यं पयॊ दधि हविर भूमिर दिशः शरद्धा कालश चैतानि दवादश 26 ऋचॊ यजूंसि सामानि यजमानश च सॊदशः अग्निर जञेयॊ गृहपतिः स सप्तदश उच्यते अङ्गान्य एतानि यज्ञस्य यज्ञॊ मूलम इति शरुतिः 27 आज्येन पयसा दध्ना शकृद आमिक्षया तवचा वालैः शृङ्गेन पादेन संभवत्य एव गौर्मखम एवं परत्येकशः सर्वं यद यद अस्य विधीयते 28 यज्ञं वहन्ति संभूय सहर्त्विग्भिः सदक्षिणैः संहत्यैतानि सर्वाणि यज्ञं निर्वर्तयन्त्य उत 29 यज्ञार्थानि हि सृष्टानि यथा वै शरूयते शरुतिः एवं पूर्वे पूर्वतराः परवृत्ताश चैव मानवाः 30 न हिनस्ति हय आरभते नाभिद्रुह्यति किं चन यज्ञॊ यस्तव्य इत्य एव यॊ यजत्य अफलेप्सया 31 यज्ञाङ्गान्य अपि चैतानि यथॊक्तानि न संशयः विधिना विधियुक्तानि तारयन्ति परस्परम 32 आम्नायम आर्षं पश्यामि यस्मिन वेदाः परतिष्ठिताः तं विद्वांसॊ ऽनुपश्यन्ति बराह्मणस्यानुदर्शनात 33 बराह्मण परभवॊ यज्ञॊ बराह्मणार्पण एव च अनु यज्ञं जगत सर्वं यज्ञश चानु जगत सदा 34 ओम इति बरह्मणॊ यॊनिर नमः सवाहा सवधा वसत यस्यैतानि परयुज्यन्ते यथाशक्ति कृतान्य अपि 35 न तस्य तरिषु लॊकेषु परलॊकभयं विदुः इति वेदा वदन्तीह सिद्धाश च परमर्षयः 36 रिचॊ यजूंसि सामानि सतॊभाश च विधिचॊदिताः यस्मिन्न एतानि सर्वाणि बहिर एव स वै दविजः 37 अग्न्याधेये यद भवति यच च सॊमे सुते दविज यच चेतरैर महायज्ञैर्वेद तद भगवान सवतः 38 तस्माद बरह्मन यजेतैव याजयेच चाविचारयन यजतः सवर्गविधिना परेत्य सवर्गफलं महत 39 नायं लॊकॊ ऽसत्य अयज्ञानां परश चेति विनिश्चयः वेदवादविदश चैव परमानम उभयं तदा |
1
[y] avirodhena bhūtānāṃ tyāgaḥ ṣādguṇyakārakaḥ yaḥ syād ubhaya bhāgdharmas tan me brūhi pitāmaha 2 gārhasthyasya ca dharmasya tyāgadharmasya cobhayoḥ adūrasaṃprasthitayoḥ kiṃ svic chreyaḥ pitāmaha 3 [bhī] ubhau dharmau mahābhāgāv ubhau paramaduścarau ubhau mahāphalau tāta sadbhir ācaritāv ubhau 4 atra te vartayiṣyāmi prāmānyam ubhayos tayoḥ śṛṇuṣvaika manāḥ pārtha chinnadharmārthasaṃśayam 5 atrāpy udāharantīmam itihāsaṃ purātanam kapilasya goś ca saṃvādaṃ tan nibodha yudhiṣṭhira 6 āmnāyam anupaśyan hi purāṇaṃ śāśvataṃ dhruvam nahuṣaḥ pūrvam ālebhe tvastur gām itinaḥ śrutam 7 tāṃ niyuktām adīnātmā sattvasthaḥ samaye rataḥ jñānavān niyatāhāro dadarśa palilas tadā 8 sa buddhim uttamāṃ prāpto naiṣṭhikīm akutobhayām smarāmi śithilaṃ satyaṃ vedā ity abravīt sakṛt 9 tāṃ gām ṛṣiḥ syūma raśmiḥ praviśya yatim abravīt haṃho vedā yadi matā dharmāḥ kenāpare matāḥ 10 tapasvino dhṛtimataḥ śrutivijñānacakṣuṣaḥ sarvam ārṣaṃ hi manyante vyāhṛtaṃ viditātmanaḥ 11 tasyaivaṃ gatatṛṣṇasya vijvarasya nirāśiṣaḥ kā vivakṣāsti vedeṣu nirārambhasya sarvaśaḥ 12 [kapila] nāhaṃ vedān vinindāmi na vivakṣāmi karhi cit pṛthag āśramiṇāṃ karmāṇy ekārthānīti naḥ śrutam 13 gacchaty eva parityāgī vānaprasthaś ca gacchati gṛhastho brahmacārī ca ubhau tāv api gacchataḥ 14 deva yānā hi panthānaś catvāraḥ śāśvatā matāḥ teṣāṃ jyāyaḥ kanīyastvaṃ phaleṣūktaṃ balābalam 15 evaṃ viditvā sarvārthān ārabhed iti vaidikam nārabhed iti cānyatra naiṣṭhikī śrūyate śrutiḥ 16 anārambhe hy adoṣaḥ syād ārambhe 'doṣa uttamaḥ evaṃ sthitasya śāstrasya durvijñeyaṃ balābalam 17 yady atra kiṃ cit pratyakṣam ahiṃsāyāḥ paraṃ matam ṛte tv āgamaśāstrebhyo brūhi tad yadi paśyasi 18 [syūmaraṣmi] svargakāmo yajeteti satataṃ śrūyate śrutiḥ phalaṃ prakalpya pūrvaṃ hi tato yajñaḥ pratāyate 19 ajaś cāśvaś ca meṣaś ca gauś ca pakṣigaṇāś ca ye grāmyāraṇyā oṣadhayaḥ prāṇasyānnam iti śrutiḥ 20 tathaivānnaṃ hy ahar ahaḥ sāyaṃ prātarnirupyate paśavaś cātha dhānyaṃ ca yajñasyāṅgam iti śrutiḥ 21 etāni sahayajñena prajāpatir akalpayat tena prajāpatir devān yajñenāyajata prabhuḥ 22 te smānyonyaṃ carāḥ sarve prāninaḥ sapta sapta ca yajñeṣūpākṛtaṃ viśvaṃ prāhur uttamasaṃjñitam 23 etac caivābhyanujñātaṃ pūrvaiḥ pūrvatarais tathā ko jātu na vicinvīta vidvān svāṃ śaktim ātmanaḥ 24 paśavaś ca manuṣyāś ca drumāś cauṣadhibhiḥ saha svargam evābhikāṅkṣante na ca svargas tv ṛte makham 25 oṣadhyaḥ paśavo vṛkṣā vīrudājyaṃ payo dadhi havir bhūmir diśaḥ śraddhā kālaś caitāni dvādaśa 26 ṛco yajūṃsi sāmāni yajamānaś ca sodaśaḥ agnir jñeyo gṛhapatiḥ sa saptadaśa ucyate aṅgāny etāni yajñasya yajño mūlam iti śrutiḥ 27 ājyena payasā dadhnā śakṛd āmikṣayā tvacā vālaiḥ śṛṅgena pādena saṃbhavaty eva gaurmakham evaṃ pratyekaśaḥ sarvaṃ yad yad asya vidhīyate 28 yajñaṃ vahanti saṃbhūya sahartvigbhiḥ sadakṣiṇaiḥ saṃhatyaitāni sarvāṇi yajñaṃ nirvartayanty uta 29 yajñārthāni hi sṛṣṭāni yathā vai śrūyate śrutiḥ evaṃ pūrve pūrvatarāḥ pravṛttāś caiva mānavāḥ 30 na hinasti hy ārabhate nābhidruhyati kiṃ cana yajño yastavya ity eva yo yajaty aphalepsayā 31 yajñāṅgāny api caitāni yathoktāni na saṃśayaḥ vidhinā vidhiyuktāni tārayanti parasparam 32 āmnāyam ārṣaṃ paśyāmi yasmin vedāḥ pratiṣṭhitāḥ taṃ vidvāṃso 'nupaśyanti brāhmaṇasyānudarśanāt 33 brāhmaṇa prabhavo yajño brāhmaṇārpaṇa eva ca anu yajñaṃ jagat sarvaṃ yajñaś cānu jagat sadā 34 om iti brahmaṇo yonir namaḥ svāhā svadhā vasat yasyaitāni prayujyante yathāśakti kṛtāny api 35 na tasya triṣu lokeṣu paralokabhayaṃ viduḥ iti vedā vadantīha siddhāś ca paramarṣayaḥ 36 rico yajūṃsi sāmāni stobhāś ca vidhicoditāḥ yasminn etāni sarvāṇi bahir eva sa vai dvijaḥ 37 agnyādheye yad bhavati yac ca some sute dvija yac cetarair mahāyajñairveda tad bhagavān svataḥ 38 tasmād brahman yajetaiva yājayec cāvicārayan yajataḥ svargavidhinā pretya svargaphalaṃ mahat 39 nāyaṃ loko 'sty ayajñānāṃ paraś ceti viniścayaḥ vedavādavidaś caiva pramānam ubhayaṃ tadā |
The Mahabharata in Sanskrit
Book 12
Chapter 261
|
1
[कपिल] एतावद अनुपश्यन्तॊ यतयॊ यान्ति मार्गगाः नैषां सर्वेषु लॊकेषु कश चिद अस्ति वयतिक्रमः 2 निर्द्वन्द्वा निर्नमस्कारा निराशिर बन्धना बुधाः विमुक्ताः सर्वपापेभ्यश चरन्ति शुचयॊ ऽमलाः 3 अपवर्गे ऽथ संत्यागे बुद्धौ च कृतनिश्चयाः बरह्मिष्ठा बरह्मभूताश च बरह्मण्य एव कृतालयाः 4 विशॊका नष्ट रजसस तेषां लॊकाः सनातनाः तेषां गतिं परां पराप्य गार्हस्थ्ये किं परयॊजनम 5 [षयू] यद्य एषा परमा निष्ठा यद्य एषा परमा गतिः गृहस्थान अव्यपाश्रित्य नाश्रमॊ ऽनयः परवर्तते 6 यथा मातरम आश्रित्य सर्वे जीवन्ति जन्तवः एवं गृहस्थम आश्रित्य वर्तन्त इतरे ऽऽशरमाः 7 गृहस्थ एव यजते गृहस्थस तप्यते तपः गार्हस्त्यम अस्य धर्मस्य मूलं यत किं चिद एजते 8 परजनाद धयभिनिर्वृत्ताः सर्वे पराण भृतॊ मुने परजनं चाप्य उतान्यत्र न कथं चन विद्यते 9 यास ताः सयुर बहिर ओषध्यॊ बह्व अरण्यास तथा दविज ओषधिभ्यॊ बहिर यस्मात परानी कश चिन न विद्यते कस्यैषा वाग भवेत सत्या मॊक्षॊ नास्ति गृहाद इति 10 अश्रद्दधानैर अप्राज्ञैः सूक्ष्मदर्शनवर्जितैः निराशैर अलसैः शरान्तैस तप्यमानैः सवकर्मभिः शरमस्यॊपरमॊ दृष्टः परव्रज्या नाम पण्डितैः 11 तरैलॊक्यस्यैव हेतुर हि मर्यादा शाश्वती धरुवा बराह्मणॊ नाम भगवाञ जन्मप्रभृति पूज्यते 12 पराग गर्भाधानान मन्त्रा हि परवर्तन्ते दविजातिषु अविश्रम्भेषु वर्तन्ते विश्रम्भेष्व अप्य असंशयम 13 दाहः पुनः संश्रयणे संस्थिते पात्रभॊजनम दानं गवां पशूनां वा पिन्दानां चाप्सु मज्जनम 14 अर्चिष्मन्तॊ बर्हिषदः करव्यादाः पितरः समृताः मृतस्याप्य अनुमन्यन्ते मन्त्रा मन्त्राश च कारणम 15 एवं करॊशत्सु वेदेषु कुतॊ मॊक्षॊ ऽसति कस्य चित ऋणवन्तॊ यदा मर्त्याः पितृदेवद्विजातिषु 16 शरिया विहीनैर अलसैः पण्डितैर अपलापितम वेदवादापरिज्ञानं सत्याभासम इवानृतम 17 न वै पापैर हरियते कृष्यते वा; यॊ बराह्मणॊ यजते वेद शास्त्रैः ऊर्ध्वं यज्ञः पशुभिः सार्धम एति; संतर्पितस तर्पयते च कामैः 18 न वेदानां परिभवान न शाथ्येन न मायया महत पराप्नॊति पुरुषॊ बरह्म बरह्मणि विन्दति 19 [कपिल] दर्शं च पौर्णमासं च अग्निहॊत्रं च धीमताम चातुर्मस्यानि चैवासंस तेषु यज्ञः सनातनः 20 अनारम्भाः सुधृतयः शुचयॊ बरह्म संश्रिताः बरह्मणैव सम ते देवांस तर्पयन्त्य अमृतैषिणः 21 सर्वभूतात्मभूतस्य सर्वभूतानि पश्यतः देवापि मार्गे मुह्यन्ति अपदस्य पदैषिणः 22 चतुर्द्वारं पुरुषं चतुर्मुखं; चतुर्धा चैनम उपयान्ति निन्दा बाहुभ्यां वाच उदराद उपस्थात; तेषां दवारं दवारपालॊ बुभूसेत 23 नाक्षैर दीव्येन नाददीतान्य वित्तं; न वायॊनीयस्य शृतं परगृह्णेत करुद्धॊ न चैव परहरेत धीमांस; तथास्य तत पानि पादं सुगुप्तम 24 नाक्रॊशम अर्छेन न मृषा वदेच च; न पैशुनं जनवादं च कुर्यात सत्यव्रतॊ मित भासॊ ऽपरमत्तस; तथास्य वाग दवारम अथॊ सुगुप्तम 25 नानाशनः सयान न महाशनः सयाद; अलॊलुपः साधुभिर आगतः सयात यात्रार्थम आहारम इहाददीत; तथास्य सयाज जाथरी दवारगुप्तिः 26 न वीर पत्नीं विहरेत नारीं; न चापि नारीम अनृताव आह्वयीत भार्या वरतं हय आत्मनि धारयीत; तथास्य पस्थ दवारगुप्तिर भवेत 27 दवाराणि यस्य सर्वाणि सुगुप्तानि मनीषिणः उपस्थम उदरं बाहू वाक चतुर्थी स वै दविजः 28 मॊघान्य अगुप्त दवारस्य सर्वाण्य एव भवन्त्य उत किं तस्य तपसा कार्यं किं यज्ञेन किम आत्मना 29 अनुत्तरीय वसनम अनुपस्तीर्ण शायिनम बाहूपधानं शाम्यन्तं तं देवा बराह्मणं विदुः 30 दवन्द्वारामेषु सर्वेषु य एकॊ रमते मुनिः परेषाम अननुध्यायंस तं देवा बराह्मणं विदुः 31 येन सर्वम इदं बुद्धं परकृतिर विकृतिश च या गतिज्ञः सर्वभूतानां तं देवा बराह्मणं विदुः 32 अभयं सर्वभूतेभ्यः सर्वेषाम अभयं यतः सर्वभूतात्मभूतॊ यस तं देवा बराह्मणं विदुः 33 नान्तरेनानुजानन्ति वेदानां यत करियाफलम अनुज्ञाय च तत सर्वम अन्यद रॊचयते ऽफलम 34 फलवन्ति च कर्माणि वयुष्टिमन्ति धरुवाणि च विगुणानि च पश्यन्ति तथानैकान्तिकानि च 35 गुणाश चात्र सुदुर्ज्ञेया जञाताश चापि सुदुष्कराः अनुष्ठिताश चान्तवन्त इति तवम अनुपश्यसि 36 [सयू] यथा च वेद परामान्यं तयागश च सफलॊ यथा तौ पन्थानाव उभौ वयक्तौ भगवंस तद बरवीहि मे 37 [कपिल] परत्यक्षम इह पश्यन्ति भवन्तः सत्पथे सथिताः परत्यक्षं तु किम अत्रास्ति यद भवन्त उपासते 38 [सयू] सयूमरश्मिर अहं बरह्मञ जिज्ञासार्थम इहागतः शरेयः कामः परत्यवॊचम आर्जवान न विवक्षया इमं च संशयं घॊरं भगवान परब्रवीतु मे 39 परत्यक्षम इह पश्यन्तॊ भवन्तः सत्पथे सथिताः किम अत्र परत्यक्षतमं भवन्तॊ यद उपासते अन्यत्र तर्क शास्त्रेभ्य आगमाच च यथागमम 40 आगमॊ वेदवादस तु तर्क शास्त्राणि चागमः यथागमम उपासीत आगमस तत्र सिध्यति सिद्धिः परत्यक्षरूपा च दृश्यत्य आगमनिश्चयात 41 नौर वावीव निबद्धा हि सरॊतसा सनिबन्धना हरियमाणा कथं विप्र कुबुद्धींस तारयिष्यति एतद बरवीतु भगवान उपपन्नॊ ऽसम्य अधीहि भॊः 42 नैव तयागी न संतुष्टॊ नाशॊकॊ न निरामयः न निर्विवित्सॊ नावृत्तस्नापवृत्तॊ ऽसति कश चन 43 भवन्तॊ ऽपि च हृष्यन्ति शॊचन्ति च यथा वयम इन्द्रियार्थाश च भवतां समानाः सर्वजन्तुषु 44 एवं चतुर्णां वर्णानाम आश्रमाणां परवृत्तिषु एकम आलम्बमानानां निर्नये किं निरामयम 45 [कपिल] यद यद आचरते शास्त्रम अथ सर्वप्रवृत्तिषु यस्य यत्र हय अनुष्ठानं तत्र तत्र निरामयम 46 सर्वं पावयते जञानं यॊ जञानं हय अनुवर्तते जञानाद अपेत्य या वृत्तिः सा विनाशयति परजाः 47 भवन्तॊ जञानिनॊ नित्यं सर्वतश च निरागमाः ऐकात्म्यं नाम कश चिद धि कदा चिद अभिपद्यते 48 शास्त्रं हय अबुद्ध्वा तत्त्वेन के चिद वादबला जनाः कामद्वेषाभिभूतत्वाद अहंकारवशं गताः 49 याथातथ्यम अविज्ञाय शास्त्राणां शास्त्रदस्यवः बरह्म सतेना निरारम्भा अपक्व मतयॊ ऽशिवाः 50 वैगुण्यम एव पश्यन्ति न गुणान अनुयुञ्जते तेषां तमः शरीराणां तम एव परायनम 51 यॊ यथा परकृतिर जन्तुः परकृतेः सयाद वशानुगः तस्य दवेषश च कामश च करॊधॊ दम्भॊ ऽनृतं मदः नित्यम एवाभिवर्तन्ते गुणाः परकृतिसंभवाः 52 एतद बुद्ध्यानुपश्यन्तः संत्यजेयुः शुभाशुभम परां गतिम अभीप्सन्तॊ यतयः संयमे रताः 53 [षयू] सर्वम एतन मया बरह्मञ शास्त्रतः परिकीर्तितम न हय अविज्ञाय शात्रार्थं परवर्तन्ते परवृत्तयः 54 यः कश चिन नयाय्य आचारः सर्वं शास्त्रम इति शरुतिः यद अन्याय्यम अशास्त्रं तद इत्य एषा शरूयते शरुतिः 55 न परवृत्तिर ऋते शास्त्रात का चिद अस्तीति निश्चयः यद अन्यद वेदवादेभ्यस तद अशास्त्रम इति शरुतिः 56 शास्त्राद अपेतं पश्यन्ति बहवॊ वयक्तमानिनः शास्त्रदॊषान न पश्यन्ति इह चामुत्र चापरे अविज्ञान हतप्रज्ञा हीनप्रज्ञास तमॊवृताः 57 शक्यं तव एकेन मुक्तेन कृतकृत्येन सर्वशः पिण्ड मात्रं वयपाश्रित्य चरितुं सर्वतॊदिशम वेदवादं वयपाश्रित्य मॊक्षॊ ऽसतीति परभासितुम 58 इदं तु दुष्करं कर्म कुटुम्बम अभिसंश्रितम दानम अध्ययनं यज्ञः परजा संतानम आर्जवम 59 यद्य एतद एवं कृत्वापि न विमॊक्षॊ ऽसति कस्य चित धिक कर्तारं च कार्यं च शरमश चायं निरर्थकः 60 नास्तिक्यम अन्यथा च सयाद वेदानां पृष्ठतः करिया एतस्यानन्त्यम इच्छामि भगवञ शरॊतुम अञ्जसा 61 तथ्यं वदस्व मे बरह्मन्न उपसन्नॊ ऽसम्य अधीहि भॊः यथा ते विदितॊ मॊक्षस तथेच्छाम्य उपशिक्षितुम |
1
[kapila] etāvad anupaśyanto yatayo yānti mārgagāḥ naiṣāṃ sarveṣu lokeṣu kaś cid asti vyatikramaḥ 2 nirdvandvā nirnamaskārā nirāśir bandhanā budhāḥ vimuktāḥ sarvapāpebhyaś caranti śucayo 'malāḥ 3 apavarge 'tha saṃtyāge buddhau ca kṛtaniścayāḥ brahmiṣṭhā brahmabhūtāś ca brahmaṇy eva kṛtālayāḥ 4 viśokā naṣṭa rajasas teṣāṃ lokāḥ sanātanāḥ teṣāṃ gatiṃ parāṃ prāpya gārhasthye kiṃ prayojanam 5 [ṣyū] yady eṣā paramā niṣṭhā yady eṣā paramā gatiḥ gṛhasthān avyapāśritya nāśramo 'nyaḥ pravartate 6 yathā mātaram āśritya sarve jīvanti jantavaḥ evaṃ gṛhastham āśritya vartanta itare ''śramāḥ 7 gṛhastha eva yajate gṛhasthas tapyate tapaḥ gārhastyam asya dharmasya mūlaṃ yat kiṃ cid ejate 8 prajanād dhyabhinirvṛttāḥ sarve prāṇa bhṛto mune prajanaṃ cāpy utānyatra na kathaṃ cana vidyate 9 yās tāḥ syur bahir oṣadhyo bahv araṇyās tathā dvija oṣadhibhyo bahir yasmāt prānī kaś cin na vidyate kasyaiṣā vāg bhavet satyā mokṣo nāsti gṛhād iti 10 aśraddadhānair aprājñaiḥ sūkṣmadarśanavarjitaiḥ nirāśair alasaiḥ śrāntais tapyamānaiḥ svakarmabhiḥ śramasyoparamo dṛṣṭaḥ pravrajyā nāma paṇḍitaiḥ 11 trailokyasyaiva hetur hi maryādā śāśvatī dhruvā brāhmaṇo nāma bhagavāñ janmaprabhṛti pūjyate 12 prāg garbhādhānān mantrā hi pravartante dvijātiṣu aviśrambheṣu vartante viśrambheṣv apy asaṃśayam 13 dāhaḥ punaḥ saṃśrayaṇe saṃsthite pātrabhojanam dānaṃ gavāṃ paśūnāṃ vā pindānāṃ cāpsu majjanam 14 arciṣmanto barhiṣadaḥ kravyādāḥ pitaraḥ smṛtāḥ mṛtasyāpy anumanyante mantrā mantrāś ca kāraṇam 15 evaṃ krośatsu vedeṣu kuto mokṣo 'sti kasya cit ṛṇavanto yadā martyāḥ pitṛdevadvijātiṣu 16 śriyā vihīnair alasaiḥ paṇḍitair apalāpitam vedavādāparijñānaṃ satyābhāsam ivānṛtam 17 na vai pāpair hriyate kṛṣyate vā; yo brāhmaṇo yajate veda śāstraiḥ ūrdhvaṃ yajñaḥ paśubhiḥ sārdham eti; saṃtarpitas tarpayate ca kāmaiḥ 18 na vedānāṃ paribhavān na śāthyena na māyayā mahat prāpnoti puruṣo brahma brahmaṇi vindati 19 [kapila] darśaṃ ca paurṇamāsaṃ ca agnihotraṃ ca dhīmatām cāturmasyāni caivāsaṃs teṣu yajñaḥ sanātanaḥ 20 anārambhāḥ sudhṛtayaḥ śucayo brahma saṃśritāḥ brahmaṇaiva sma te devāṃs tarpayanty amṛtaiṣiṇaḥ 21 sarvabhūtātmabhūtasya sarvabhūtāni paśyataḥ devāpi mārge muhyanti apadasya padaiṣiṇaḥ 22 caturdvāraṃ puruṣaṃ caturmukhaṃ; caturdhā cainam upayānti nindā bāhubhyāṃ vāca udarād upasthāt; teṣāṃ dvāraṃ dvārapālo bubhūset 23 nākṣair dīvyen nādadītānya vittaṃ; na vāyonīyasya śṛtaṃ pragṛhṇet kruddho na caiva prahareta dhīmāṃs; tathāsya tat pāni pādaṃ suguptam 24 nākrośam archen na mṛṣā vadec ca; na paiśunaṃ janavādaṃ ca kuryāt satyavrato mita bhāso 'pramattas; tathāsya vāg dvāram atho suguptam 25 nānāśanaḥ syān na mahāśanaḥ syād; alolupaḥ sādhubhir āgataḥ syāt yātrārtham āhāram ihādadīta; tathāsya syāj jātharī dvāraguptiḥ 26 na vīra patnīṃ vihareta nārīṃ; na cāpi nārīm anṛtāv āhvayīta bhāryā vrataṃ hy ātmani dhārayīta; tathāsya pastha dvāraguptir bhavet 27 dvārāṇi yasya sarvāṇi suguptāni manīṣiṇaḥ upastham udaraṃ bāhū vāk caturthī sa vai dvijaḥ 28 moghāny agupta dvārasya sarvāṇy eva bhavanty uta kiṃ tasya tapasā kāryaṃ kiṃ yajñena kim ātmanā 29 anuttarīya vasanam anupastīrṇa śāyinam bāhūpadhānaṃ śāmyantaṃ taṃ devā brāhmaṇaṃ viduḥ 30 dvandvārāmeṣu sarveṣu ya eko ramate muniḥ pareṣām ananudhyāyaṃs taṃ devā brāhmaṇaṃ viduḥ 31 yena sarvam idaṃ buddhaṃ prakṛtir vikṛtiś ca yā gatijñaḥ sarvabhūtānāṃ taṃ devā brāhmaṇaṃ viduḥ 32 abhayaṃ sarvabhūtebhyaḥ sarveṣām abhayaṃ yataḥ sarvabhūtātmabhūto yas taṃ devā brāhmaṇaṃ viduḥ 33 nāntarenānujānanti vedānāṃ yat kriyāphalam anujñāya ca tat sarvam anyad rocayate 'phalam 34 phalavanti ca karmāṇi vyuṣṭimanti dhruvāṇi ca viguṇāni ca paśyanti tathānaikāntikāni ca 35 guṇāś cātra sudurjñeyā jñātāś cāpi suduṣkarāḥ anuṣṭhitāś cāntavanta iti tvam anupaśyasi 36 [syū] yathā ca veda prāmānyaṃ tyāgaś ca saphalo yathā tau panthānāv ubhau vyaktau bhagavaṃs tad bravīhi me 37 [kapila] pratyakṣam iha paśyanti bhavantaḥ satpathe sthitāḥ pratyakṣaṃ tu kim atrāsti yad bhavanta upāsate 38 [syū] syūmaraśmir ahaṃ brahmañ jijñāsārtham ihāgataḥ śreyaḥ kāmaḥ pratyavocam ārjavān na vivakṣayā imaṃ ca saṃśayaṃ ghoraṃ bhagavān prabravītu me 39 pratyakṣam iha paśyanto bhavantaḥ satpathe sthitāḥ kim atra pratyakṣatamaṃ bhavanto yad upāsate anyatra tarka śāstrebhya āgamāc ca yathāgamam 40 āgamo vedavādas tu tarka śāstrāṇi cāgamaḥ yathāgamam upāsīta āgamas tatra sidhyati siddhiḥ pratyakṣarūpā ca dṛśyaty āgamaniścayāt 41 naur vāvīva nibaddhā hi srotasā sanibandhanā hriyamāṇā kathaṃ vipra kubuddhīṃs tārayiṣyati etad bravītu bhagavān upapanno 'smy adhīhi bhoḥ 42 naiva tyāgī na saṃtuṣṭo nāśoko na nirāmayaḥ na nirvivitso nāvṛttasnāpavṛtto 'sti kaś cana 43 bhavanto 'pi ca hṛṣyanti śocanti ca yathā vayam indriyārthāś ca bhavatāṃ samānāḥ sarvajantuṣu 44 evaṃ caturṇāṃ varṇānām āśramāṇāṃ pravṛttiṣu ekam ālambamānānāṃ nirnaye kiṃ nirāmayam 45 [kapila] yad yad ācarate śāstram atha sarvapravṛttiṣu yasya yatra hy anuṣṭhānaṃ tatra tatra nirāmayam 46 sarvaṃ pāvayate jñānaṃ yo jñānaṃ hy anuvartate jñānād apetya yā vṛttiḥ sā vināśayati prajāḥ 47 bhavanto jñānino nityaṃ sarvataś ca nirāgamāḥ aikātmyaṃ nāma kaś cid dhi kadā cid abhipadyate 48 śāstraṃ hy abuddhvā tattvena ke cid vādabalā janāḥ kāmadveṣābhibhūtatvād ahaṃkāravaśaṃ gatāḥ 49 yāthātathyam avijñāya śāstrāṇāṃ śāstradasyavaḥ brahma stenā nirārambhā apakva matayo 'śivāḥ 50 vaiguṇyam eva paśyanti na guṇān anuyuñjate teṣāṃ tamaḥ śarīrāṇāṃ tama eva parāyanam 51 yo yathā prakṛtir jantuḥ prakṛteḥ syād vaśānugaḥ tasya dveṣaś ca kāmaś ca krodho dambho 'nṛtaṃ madaḥ nityam evābhivartante guṇāḥ prakṛtisaṃbhavāḥ 52 etad buddhyānupaśyantaḥ saṃtyajeyuḥ śubhāśubham parāṃ gatim abhīpsanto yatayaḥ saṃyame ratāḥ 53 [ṣyū] sarvam etan mayā brahmañ śāstrataḥ parikīrtitam na hy avijñāya śātrārthaṃ pravartante pravṛttayaḥ 54 yaḥ kaś cin nyāyya ācāraḥ sarvaṃ śāstram iti śrutiḥ yad anyāyyam aśāstraṃ tad ity eṣā śrūyate śrutiḥ 55 na pravṛttir ṛte śāstrāt kā cid astīti niścayaḥ yad anyad vedavādebhyas tad aśāstram iti śrutiḥ 56 śāstrād apetaṃ paśyanti bahavo vyaktamāninaḥ śāstradoṣān na paśyanti iha cāmutra cāpare avijñāna hataprajñā hīnaprajñās tamovṛtāḥ 57 śakyaṃ tv ekena muktena kṛtakṛtyena sarvaśaḥ piṇḍa mātraṃ vyapāśritya carituṃ sarvatodiśam vedavādaṃ vyapāśritya mokṣo 'stīti prabhāsitum 58 idaṃ tu duṣkaraṃ karma kuṭumbam abhisaṃśritam dānam adhyayanaṃ yajñaḥ prajā saṃtānam ārjavam 59 yady etad evaṃ kṛtvāpi na vimokṣo 'sti kasya cit dhik kartāraṃ ca kāryaṃ ca śramaś cāyaṃ nirarthakaḥ 60 nāstikyam anyathā ca syād vedānāṃ pṛṣṭhataḥ kriyā etasyānantyam icchāmi bhagavañ śrotum añjasā 61 tathyaṃ vadasva me brahmann upasanno 'smy adhīhi bhoḥ yathā te vidito mokṣas tathecchāmy upaśikṣitum |
The Mahabharata in Sanskrit
Book 12
Chapter 262
|
1
[कपिल] वेदाः परमानं लॊकानां न वेदाः पृष्ठतः कृताः दवे बरह्मणी वेदितव्ये शब्दब्रह्म परं च यत शब्दब्रह्मणि निष्णातः परं बरह्माधिगच्छति 2 शरीरम एतत कुरुते यद वेदे कुरुते तनुम कृतशुद्ध शरीरॊ हि पात्रं भवति बराह्मणः 3 आनन्त्यम अनुयुक्न्ते यः कर्मणा तद बरवीमि ते निरागमम अनैतिह्यं परत्यक्षं लॊकसाक्षिकम 4 धर्म इत्य एव ये यज्ञान वितन्वन्ति निराशिषः उत्पन्न तयागिनॊ ऽलुब्धाः कृपासूयाव इवार्जिताः धनानाम एष वै पन्थास तीर्थेषु परतिपादनम 5 अनाश्रिताः पापकृत्याः कदा चित कर्म यॊनितः मनःसंकल्पसंसिद्धा विशुद्धज्ञाननिश्चयाः 6 अक्रुध्यन्तॊ ऽनसूयन्तॊ निरहंकार मत्सराः जञाननिष्ठास तरिशुक्लाश च सर्वभूतहिते रताः 7 आसन गृहस्था भूयिष्ठम अव्युत्क्रान्ताः सवकर्मसु राजानश च तथायुक्ता बराह्मणाश च यथाविधि 8 समा हय आर्जवसंपन्नाः संतुष्टा जञाननिश्चयाः परत्यक्षधर्माः शुचयः शरद्दधानाः परावरे 9 पुरस्ताद भावितात्मानॊ यथावच चरितव्रताः चरन्ति धर्मं कृच्छ्रे ऽपि दुर्गे चैवाधिसंहताः 10 संहत्य धर्मं चरतां पुरासीत सुखम एव तत तेषां नासीद विधातव्यं परायश्चित्तं कदा चन 11 सत्यं हि धर्मम आस्थाय दुराधर्षतमा मताः न मात्राम अनुरुध्यन्ते न धर्मछलम अन्ततः 12 य एव परथमः कल्पस तम एवाभ्याचरन सह अस्यां सथितौ सथितानां हि परायश्चित्तं न विद्यते दुर्बलात्मन उत्पन्नं परायश्चित्तम इति शरुतिः 13 यत एवंविधा विप्राः पुराणा यज्ञवाहनाः तरैविद्य वृद्धाः शुचयॊ वृत्तवन्तॊ यशस्विनः यजन्तॊ ऽहर अहर यज्ञैर निराशीर बन्धना बुधाः 14 तेषां यज्ञाश च वेदाश च कर्माणि च यथागमम आगमाश च यथाकालं संकल्पाश च यथा वरतम 15 अपेतकामक्रॊधानां परकृत्या संशितात्मनाम ऋजूनां शम नित्यानां सथितानां सवेषु कर्मसु सर्वम आनन्त्यम एवासीद इति नः शाश्वती शरुतिः 16 तेषाम अदीनसत्त्वानां दुश्चराचार कर्मणाम सवकर्मभिः संवृतानां तपॊ घॊरत्वम आगतम 17 तं सद आचारम आश्वर्यं पुराणं शाश्वतं धरुवम अशक्नुवद्भिश चरितुं किं चिद धर्मेषु सूचितम 18 निरापद धर्म आचारस तव अप्रमादॊ ऽपराभवः सर्ववर्णेषु यत तेषु नासीत कश चिद वयतिक्रमः 19 धर्मम एकं चतुष्पादम आश्रितास ते नरर्षभाः तं सन्तॊ विधिवत पराप्य गच्छन्ति परमां गतिम 20 गृहेभ्य एव निष्क्रम्य वनम अन्ये समाश्रिताः गृहम एवाभिसंश्रित्य ततॊ ऽनये बरह्मचारिणः 21 धर्मम एतं चतुष्पादम आश्रमं बराह्मणा विदुः आनन्त्यं बरह्मणः सथानं बराह्मणा नाम निश्चयः 22 अत एवंविधा विप्राः पुराणा धर्मचारिणः त एते दिवि दृश्यन्ते जयॊतिर भूता दविजातयः 23 नक्षत्राणीव धिष्न्येषु बहवस तारका गणाः आनन्त्यम उपसंप्राप्ताः संतॊषाद इति वैदिकम 24 यद्य आगच्छन्ति संसारं पुनर यिनिषु तादृशाः न लिप्यन्ते पापकृत्यैः कदा चित कर्म यॊनितः 25 एवं युक्तॊ बराह्मणः सयाद अन्यॊ बराह्मणकॊ भवेत कर्मैव पुरुषस्याह शुभं वा यदि वाशुभम 26 एवं पक्वकसायानाम आनन्त्येन शरुतेन च सर्वम आनन्त्यम एवासीद एवं नः शाश्वती शरुतिः 27 तेषाम अपेततृष्णानां निर्निक्तानां शुभात्मनाम चतुर्थ औपनिषदॊ धर्मः साधारणः समृतः 28 स सिद्धैः साध्यते नित्यं बराह्मणैर नियतात्मभिः संतॊष मूलस तयागात्मा जञानाधिष्ठानम उच्यते 29 अपवर्ग गतिर नित्यॊ यति धर्मः सनातनः साधारणः केवलॊ वा यथाबलम उपास्यते 30 गच्छतॊ गच्छतः कषेमं दुर्बलॊ ऽतरावसीदति बरह्मणः पदम अन्विच्छन संसारान मुच्यते शुचिः 31 [सयू] ये भुञ्जते ये ददते यजन्ते ऽधीयते च ये मात्राभिर धर्मलब्धाभिर ये वा तयागं समाश्रिताः 32 एतेषां परेत्य भावे तु कतमः सवर्गजित्तमः एतद आचक्ष्व मे बरह्मन यथातथ्येन पृच्छतः 33 [कप] परिग्रहाः शुभाः सर्वे गुणतॊ ऽभयुदयाश च ये न तु तयागसुखं पराप्ता एतत तवम अपि पश्यसि 34 [सयू] भवन्तॊ जञाननिष्ठा वै गृहस्थाः कर्म निश्चयाः आश्रमाणां च सर्वेषां निष्ठायाम ऐक्यम उच्यते 35 एकत्वे च पृथक्त्वे च विशेषॊ नान्य उच्यते तद यथावद यथान्यायं भगवान परब्रवीतु मे 36 [कप] शरीरपक्तिः कर्माणि जञानं तु परमा गतिः पक्वे कसाये वमनै रसज्ञाने न तिष्ठति 37 आनृशंस्यं कषमा शान्तिर अहिंसा सत्यम आर्जवम अद्रॊहॊ नाभिमानश च हरीस तितिक्षा शमस तथा 38 पन्थानॊ बरह्मणस तव एते एतैः पराप्नॊति यत परम तद विद्वान अनुबुध्येत मनसा कर्म निश्चयम 39 यां विप्राः सर्वतः शान्ता विशुद्धा जञाननिश्चयाः गतिं गच्छन्ति संतुष्टास ताम आहुः परमां गतिम 40 वेदांश च वेदितव्यं च विदित्वा चयथा सथिति एवं वेदविद इत्य आहुर अतॊ ऽनयॊ वातरेतकः 41 सर्वं विदुर वेदविदॊ वेदे सर्वं परतिष्ठितम वेदे हि निष्ठा सर्वस्य यद यद अस्ति च नास्ति च 42 एषैव निष्ठा सर्वस्य यद यद अस्ति चनास्ति च एतद अन्तं च मध्यं च सच चासच च विजानतः 43 समस्त तयाग इत्य एवं शम इत्य एव निष्ठितः संतॊष इत्य अत्र शुभम अपवर्गे परतिष्ठितम 44 ऋतं सत्यं विदितं वेदितव्यं; सर्वस्यात्मा जङ्गमं सथावरं च सर्वं सुखं यच छिवम उत्तमं च; बरह्माव्यक्तं परभवश चाव्ययश च 45 तेजः कषमा शान्तिर अनामयं शुभं; तथाविधं वयॊम सनातनं धरुवम एतैः शब्दैर गम्यते बुद्धिनेत्रैस; तस्मै नमॊ बरह्मणे बराह्मणाय |
1
[kapila] vedāḥ pramānaṃ lokānāṃ na vedāḥ pṛṣṭhataḥ kṛtāḥ dve brahmaṇī veditavye śabdabrahma paraṃ ca yat śabdabrahmaṇi niṣṇātaḥ paraṃ brahmādhigacchati 2 śarīram etat kurute yad vede kurute tanum kṛtaśuddha śarīro hi pātraṃ bhavati brāhmaṇaḥ 3 ānantyam anuyuknte yaḥ karmaṇā tad bravīmi te nirāgamam anaitihyaṃ pratyakṣaṃ lokasākṣikam 4 dharma ity eva ye yajñān vitanvanti nirāśiṣaḥ utpanna tyāgino 'lubdhāḥ kṛpāsūyāv ivārjitāḥ dhanānām eṣa vai panthās tīrtheṣu pratipādanam 5 anāśritāḥ pāpakṛtyāḥ kadā cit karma yonitaḥ manaḥsaṃkalpasaṃsiddhā viśuddhajñānaniścayāḥ 6 akrudhyanto 'nasūyanto nirahaṃkāra matsarāḥ jñānaniṣṭhās triśuklāś ca sarvabhūtahite ratāḥ 7 āsan gṛhasthā bhūyiṣṭham avyutkrāntāḥ svakarmasu rājānaś ca tathāyuktā brāhmaṇāś ca yathāvidhi 8 samā hy ārjavasaṃpannāḥ saṃtuṣṭā jñānaniścayāḥ pratyakṣadharmāḥ śucayaḥ śraddadhānāḥ parāvare 9 purastād bhāvitātmāno yathāvac caritavratāḥ caranti dharmaṃ kṛcchre 'pi durge caivādhisaṃhatāḥ 10 saṃhatya dharmaṃ caratāṃ purāsīt sukham eva tat teṣāṃ nāsīd vidhātavyaṃ prāyaścittaṃ kadā cana 11 satyaṃ hi dharmam āsthāya durādharṣatamā matāḥ na mātrām anurudhyante na dharmachalam antataḥ 12 ya eva prathamaḥ kalpas tam evābhyācaran saha asyāṃ sthitau sthitānāṃ hi prāyaścittaṃ na vidyate durbalātmana utpannaṃ prāyaścittam iti śrutiḥ 13 yata evaṃvidhā viprāḥ purāṇā yajñavāhanāḥ traividya vṛddhāḥ śucayo vṛttavanto yaśasvinaḥ yajanto 'har ahar yajñair nirāśīr bandhanā budhāḥ 14 teṣāṃ yajñāś ca vedāś ca karmāṇi ca yathāgamam āgamāś ca yathākālaṃ saṃkalpāś ca yathā vratam 15 apetakāmakrodhānāṃ prakṛtyā saṃśitātmanām ṛjūnāṃ śama nityānāṃ sthitānāṃ sveṣu karmasu sarvam ānantyam evāsīd iti naḥ śāśvatī śrutiḥ 16 teṣām adīnasattvānāṃ duścarācāra karmaṇām svakarmabhiḥ saṃvṛtānāṃ tapo ghoratvam āgatam 17 taṃ sad ācāram āśvaryaṃ purāṇaṃ śāśvataṃ dhruvam aśaknuvadbhiś carituṃ kiṃ cid dharmeṣu sūcitam 18 nirāpad dharma ācāras tv apramādo 'parābhavaḥ sarvavarṇeṣu yat teṣu nāsīt kaś cid vyatikramaḥ 19 dharmam ekaṃ catuṣpādam āśritās te nararṣabhāḥ taṃ santo vidhivat prāpya gacchanti paramāṃ gatim 20 gṛhebhya eva niṣkramya vanam anye samāśritāḥ gṛham evābhisaṃśritya tato 'nye brahmacāriṇaḥ 21 dharmam etaṃ catuṣpādam āśramaṃ brāhmaṇā viduḥ ānantyaṃ brahmaṇaḥ sthānaṃ brāhmaṇā nāma niścayaḥ 22 ata evaṃvidhā viprāḥ purāṇā dharmacāriṇaḥ ta ete divi dṛśyante jyotir bhūtā dvijātayaḥ 23 nakṣatrāṇīva dhiṣnyeṣu bahavas tārakā gaṇāḥ ānantyam upasaṃprāptāḥ saṃtoṣād iti vaidikam 24 yady āgacchanti saṃsāraṃ punar yiniṣu tādṛśāḥ na lipyante pāpakṛtyaiḥ kadā cit karma yonitaḥ 25 evaṃ yukto brāhmaṇaḥ syād anyo brāhmaṇako bhavet karmaiva puruṣasyāha śubhaṃ vā yadi vāśubham 26 evaṃ pakvakasāyānām ānantyena śrutena ca sarvam ānantyam evāsīd evaṃ naḥ śāśvatī śrutiḥ 27 teṣām apetatṛṣṇānāṃ nirniktānāṃ śubhātmanām caturtha aupaniṣado dharmaḥ sādhāraṇaḥ smṛtaḥ 28 sa siddhaiḥ sādhyate nityaṃ brāhmaṇair niyatātmabhiḥ saṃtoṣa mūlas tyāgātmā jñānādhiṣṭhānam ucyate 29 apavarga gatir nityo yati dharmaḥ sanātanaḥ sādhāraṇaḥ kevalo vā yathābalam upāsyate 30 gacchato gacchataḥ kṣemaṃ durbalo 'trāvasīdati brahmaṇaḥ padam anvicchan saṃsārān mucyate śuciḥ 31 [syū] ye bhuñjate ye dadate yajante 'dhīyate ca ye mātrābhir dharmalabdhābhir ye vā tyāgaṃ samāśritāḥ 32 eteṣāṃ pretya bhāve tu katamaḥ svargajittamaḥ etad ācakṣva me brahman yathātathyena pṛcchataḥ 33 [kap] parigrahāḥ śubhāḥ sarve guṇato 'bhyudayāś ca ye na tu tyāgasukhaṃ prāptā etat tvam api paśyasi 34 [syū] bhavanto jñānaniṣṭhā vai gṛhasthāḥ karma niścayāḥ āśramāṇāṃ ca sarveṣāṃ niṣṭhāyām aikyam ucyate 35 ekatve ca pṛthaktve ca viśeṣo nānya ucyate tad yathāvad yathānyāyaṃ bhagavān prabravītu me 36 [kap] śarīrapaktiḥ karmāṇi jñānaṃ tu paramā gatiḥ pakve kasāye vamanai rasajñāne na tiṣṭhati 37 ānṛśaṃsyaṃ kṣamā śāntir ahiṃsā satyam ārjavam adroho nābhimānaś ca hrīs titikṣā śamas tathā 38 panthāno brahmaṇas tv ete etaiḥ prāpnoti yat param tad vidvān anubudhyeta manasā karma niścayam 39 yāṃ viprāḥ sarvataḥ śāntā viśuddhā jñānaniścayāḥ gatiṃ gacchanti saṃtuṣṭās tām āhuḥ paramāṃ gatim 40 vedāṃś ca veditavyaṃ ca viditvā cayathā sthiti evaṃ vedavid ity āhur ato 'nyo vātaretakaḥ 41 sarvaṃ vidur vedavido vede sarvaṃ pratiṣṭhitam vede hi niṣṭhā sarvasya yad yad asti ca nāsti ca 42 eṣaiva niṣṭhā sarvasya yad yad asti canāsti ca etad antaṃ ca madhyaṃ ca sac cāsac ca vijānataḥ 43 samasta tyāga ity evaṃ śama ity eva niṣṭhitaḥ saṃtoṣa ity atra śubham apavarge pratiṣṭhitam 44 ṛtaṃ satyaṃ viditaṃ veditavyaṃ; sarvasyātmā jaṅgamaṃ sthāvaraṃ ca sarvaṃ sukhaṃ yac chivam uttamaṃ ca; brahmāvyaktaṃ prabhavaś cāvyayaś ca 45 tejaḥ kṣamā śāntir anāmayaṃ śubhaṃ; tathāvidhaṃ vyoma sanātanaṃ dhruvam etaiḥ śabdair gamyate buddhinetrais; tasmai namo brahmaṇe brāhmaṇāya |
The Mahabharata in Sanskrit
Book 12
Chapter 263
|
1
[य] धर्मम अर्थं च कामं च वेदाः शंसन्ति भारत कस्य लाभॊ विशिष्टॊ ऽतर तन मे बरूहि पितामह 2 [भी] अत्र ते वर्तयिष्यामि इतिहासं पुरातनम कुण्ड धारेण यत परीत्या भक्तायॊपकृतं पुरा 3 अधनॊ बराह्मणः कश चित कामाद धर्मम अवैक्षत यज्ञार्थं स ततॊ ऽरथार्थी तपॊ ऽतप्यत दारुणम 4 स निश्चयम अथॊ कृत्वा पूजयाम आस देवताः भक्त्या न चैवाध्यगच्छद धनं संपूज्य देवताः 5 ततश चिन्तां पुनः पराप्तः कतमद दैवतं नु तत यन मे दरुतं परसीदेत मानुषैर अजदी कृतम 6 अथ सौम्येन वपुषा देवानुचरम अन्तिके परत्यपश्यज जलधरं कुन्दधारम अवस्थितम 7 दृष्ट्वैव तं महात्मानं तस्य भक्तिर अजायत अयं मे धास्यति शरेयॊ वपुर एतद धि तादृशम 8 संनिकृष्टश च देवस्य न चान्यैर मानुषैर वृतः एष मे दास्यति धनं परभूतं शीघ्रम एव च 9 ततॊ धूपैश च गन्धैश च माल्यैर उच्चावचैर अपि बलिभिर विविधैश चापि पूजयाम आस तं दविजः 10 ततः सवल्पेन कालेन तुष्टॊ जलधरस तदा तस्यॊपकारे नियताम इमां वाचम उवाच ह 11 बरह्मघ्ने च सुरापे च चॊरे भग्नव्रते तथा निष्कृतिर विहिता सद भिः कृतघ्ने नास्ति निष्कृतिः 12 आशायास तनयॊ ऽधर्मः करॊधॊ ऽसूया सुतः समृतः पुत्रॊ लॊभॊ निकृत्यास तु कृतघ्नॊ नार्हति परजाम 13 ततः स बराह्मणः सवप्ने कुन्दधारस्य तेजसा अपश्यत सर्वभूतानि कुशेषु शयितस तदा 14 शमेन तपसा चैव भक्त्या च निरुपस्कृतः शुद्धात्मा बराह्मणॊ रात्रौ निदर्शनम अपश्यत 15 मनिभद्रं स तत्रस्थं देवतानां महाद्युतिम अपश्यत महात्मानं वयादिशन्तं युधिष्ठिर 16 तत्र देवाः परयच्छन्ति राज्यानि च धनानि च शुभैः कर्मभिर आरब्धाः परच्छिदन्त्य अशुभेषु च 17 पश्यताम अथ यक्षाणां कुन्दधारॊ महाद्युतिः निष्पत्य पतितॊ भूमौ देवानां भरतर्षभ 18 ततस तु देववचनान मनिभद्रॊ महायशः उवाच पतितं भूमौ कुन्दधार किम इष्यते 19 [कुन्दधर] यदि परसन्ना देवा मे भक्तॊ ऽयं बराह्मणॊ मम अस्यानुग्रहम इच्छामि कृतं किं चित सुखॊदयम 20 [भी] ततस तं मनिभद्रस तु पुनर वचनम अब्रवीत देवानाम एव वचनात कुन्दधारं महाद्युतिम 21 उत्तिष्ठॊत्तिष्ठ भद्रं ते कृतकार्यः सुखी भव यावद धनं परार्थयते बराह्मणॊ ऽयं सखा तव देवानां शासनात तावद असंख्येयं ददाम्य अहम 22 विचार्य कुन्दधारस तु मानुष्यं चलम अध्रुवम तपसे मतिम आधत्त बराह्मणस्य यशस्विनः 23 [कु] नाहं धनानि याचामि बराह्मणाय धनप्रद अन्यम एवाहम इच्छामि भक्तायानुग्रहं कृतम 24 पृथिवीं रत्र पूर्णां वा महद वा धनसंचयम भक्ताय नाहम इच्छामि भवेद एष तु धार्मिकः 25 धर्मे ऽसय रमतां बुद्धिर धर्मं चैवॊपजीवतु धर्मप्रधानॊ भवतु ममैषॊ ऽनुग्रहॊ मतः 26 [मणिभद्र] यदा धर्मफलं राज्यं सुखानि विविधानि च फलान्य एवायम अश्नातु कायक्लेशविवर्जितः 27 [भी] ततस तद एव बहुशः कुन्दधारॊ महायशः अभ्यासम अकरॊद धर्मे ततस तुष्टास्य देवताः 28 [मणि] परीतास ते देवताः सर्वा दविजस्यास्य तथैव च भविष्यत्य एष धर्मात्मा धर्मे चाधास्यते मतिः 29 [भी] ततः परीतॊ जलधरः कृतकार्यॊ युधिष्ठिर ईप्सितं मनसॊ लब्ध्वा वरम अन्यैः सुदुर्लभम 30 ततॊ ऽपश्यत चीराणि सूक्ष्माणि दविजसत्तमः पार्श्वतॊ ऽभयागतॊ नयस्तान्य अथ निर्वेदम आगतः 31 [बरा] अयं न सुकृतं वेत्ति कॊ नव अन्यॊ वेत्स्यते कृतम गच्छामि वनम एवाहं वरं धर्मेण जीवितुम 32 [भी] निर्वेदाद देवतानां च परसादात स दविजॊत्तमः वनं परविश्य सुमहत तप आरब्धवांस तदा 33 देवतातिथिशेषेण फलमूलाशनॊ दविजः धर्मे चापि महाराज रतिर अस्याभ्यजायत 34 तयक्त्वा मूलफलं सर्वं पर्णाहारॊ ऽभवद दविजः पर्णं तयक्त्वा जलाहारस तदासीद दविजसत्तमः 35 वायुभक्षस ततः पश्चाद बहून वर्षगणान अभूत न चास्य कषीयते पराणस तद अद्भुतम इवाभवत 36 धर्मे च शरद्दधानस्य तपस्य उग्रे च वर्ततः कालेन महता तस्य दिव्या दृष्टिर अजायत 37 तस्य बुद्धिः परादुरासीद यदि दद्यां महद धनम तुष्टः कस्मै चिद एवाहं न मिथ्या वाग भवेन मम 38 ततः परहृष्टवदनॊ भूय आरब्धवांस तपः भूयश चाचिन्तयत सिद्धॊ यत परं सॊ ऽभयपद्यत 39 यदि दद्याम अहं राज्यं तुष्टॊ वै यस्य कस्य चित स भवेद अचिराद राजा न मित्या वाग भवेन मम 40 तस्य साक्षात कुन्दधारॊ दर्शयाम आस भारत बराह्मणस्य तपॊयॊगात सौहृदेनाभिचॊदितः 41 समागम्य स तेनाथ पूजां चक्रे यथाविधि बराह्मणः कुन्दधारस्य विस्मितश चाभवन नृप 42 ततॊ ऽबरवीत कुन्दधारॊ दिव्यं ते चक्षुर उत्तमम पश्य राज्ञां गतिं विप्र लॊकांश चावेक्ष चक्षुषा 43 ततॊ राज्ञां सहस्राणि मग्नानि निरये तदा दूराद अपश्यद विप्रः स दिव्ययुक्तेन चक्षुषा 44 [कु] मां पूजयित्वा भावेन यदि तवं दुःखम आप्नुयाः कृतं मया भवेत किं ते कश च ते ऽनुग्रहॊ भवेत 45 पश्य पश्य च भूयस तवं कामान इच्छेत कथं नरः सवर्गद्वारं हि संरुद्धं मानुषेषु विशेषतः 46 [भी] ततॊ ऽपश्यत स कामं च करॊधं लॊभं भयं मदम निद्रां तन्द्रीं तथालस्यम आवृत्य पुरुषान सथितान 47 [कु] एतैर लॊकाः सुसंरुद्धा देवानां मानुषाद भयम तथैव देववचनाद विघ्नं कुर्वन्ति सर्वशः 48 न देवैर अननुज्ञातः कश चिद भवति धार्मिकः एष शक्तॊ ऽसि तपसा राज्यं दातुं धनानि च 49 [भी] ततः पपात शिरसा बराह्मणस तॊयधारिणे उवाच चैनं धर्मात्मा माहान मे ऽनुग्रहः कृतः 50 कामलॊभानुबन्धेन पुरा ते यद असूयितम मया सनेहम अविज्ञाय तत्र मे कषन्तुम अर्हसि 51 कषान्तम एव मयेत्य उक्त्वा कुन्दधारॊ दविजर्षभम संपरिष्वज्य बाहुभ्यां तत्रैवान्तरधीयत 52 ततः सर्वान इमाँल लॊकान बराह्मणॊ ऽनुचचार ह कुन्दधार परसादेन तपसा यॊजितः पुरा 53 विहायसा च गमनं तथा संकल्पितार्थता धर्माच छक्त्या तथा यॊगाद या चैव परमा गतिः 54 देवता बराह्मणाः सन्तॊ यक्षा मानुषचारणाः धार्मिकान पूजयन्तीह न धनाध्यान न कामिनः 55 सुप्रसन्ना हि ते देवा यत ते धर्मे रता मतिः धने सुखकला का चिद धर्मे तु परमं सुखम |
1
[y] dharmam arthaṃ ca kāmaṃ ca vedāḥ śaṃsanti bhārata kasya lābho viśiṣṭo 'tra tan me brūhi pitāmaha 2 [bhī] atra te vartayiṣyāmi itihāsaṃ purātanam kuṇḍa dhāreṇa yat prītyā bhaktāyopakṛtaṃ purā 3 adhano brāhmaṇaḥ kaś cit kāmād dharmam avaikṣata yajñārthaṃ sa tato 'rthārthī tapo 'tapyata dāruṇam 4 sa niścayam atho kṛtvā pūjayām āsa devatāḥ bhaktyā na caivādhyagacchad dhanaṃ saṃpūjya devatāḥ 5 tataś cintāṃ punaḥ prāptaḥ katamad daivataṃ nu tat yan me drutaṃ prasīdeta mānuṣair ajadī kṛtam 6 atha saumyena vapuṣā devānucaram antike pratyapaśyaj jaladharaṃ kundadhāram avasthitam 7 dṛṣṭvaiva taṃ mahātmānaṃ tasya bhaktir ajāyata ayaṃ me dhāsyati śreyo vapur etad dhi tādṛśam 8 saṃnikṛṣṭaś ca devasya na cānyair mānuṣair vṛtaḥ eṣa me dāsyati dhanaṃ prabhūtaṃ śīghram eva ca 9 tato dhūpaiś ca gandhaiś ca mālyair uccāvacair api balibhir vividhaiś cāpi pūjayām āsa taṃ dvijaḥ 10 tataḥ svalpena kālena tuṣṭo jaladharas tadā tasyopakāre niyatām imāṃ vācam uvāca ha 11 brahmaghne ca surāpe ca core bhagnavrate tathā niṣkṛtir vihitā sad bhiḥ kṛtaghne nāsti niṣkṛtiḥ 12 āśāyās tanayo 'dharmaḥ krodho 'sūyā sutaḥ smṛtaḥ putro lobho nikṛtyās tu kṛtaghno nārhati prajām 13 tataḥ sa brāhmaṇaḥ svapne kundadhārasya tejasā apaśyat sarvabhūtāni kuśeṣu śayitas tadā 14 śamena tapasā caiva bhaktyā ca nirupaskṛtaḥ śuddhātmā brāhmaṇo rātrau nidarśanam apaśyata 15 manibhadraṃ sa tatrasthaṃ devatānāṃ mahādyutim apaśyata mahātmānaṃ vyādiśantaṃ yudhiṣṭhira 16 tatra devāḥ prayacchanti rājyāni ca dhanāni ca śubhaiḥ karmabhir ārabdhāḥ pracchidanty aśubheṣu ca 17 paśyatām atha yakṣāṇāṃ kundadhāro mahādyutiḥ niṣpatya patito bhūmau devānāṃ bharatarṣabha 18 tatas tu devavacanān manibhadro mahāyaśaḥ uvāca patitaṃ bhūmau kundadhāra kim iṣyate 19 [kundadhara] yadi prasannā devā me bhakto 'yaṃ brāhmaṇo mama asyānugraham icchāmi kṛtaṃ kiṃ cit sukhodayam 20 [bhī] tatas taṃ manibhadras tu punar vacanam abravīt devānām eva vacanāt kundadhāraṃ mahādyutim 21 uttiṣṭhottiṣṭha bhadraṃ te kṛtakāryaḥ sukhī bhava yāvad dhanaṃ prārthayate brāhmaṇo 'yaṃ sakhā tava devānāṃ śāsanāt tāvad asaṃkhyeyaṃ dadāmy aham 22 vicārya kundadhāras tu mānuṣyaṃ calam adhruvam tapase matim ādhatta brāhmaṇasya yaśasvinaḥ 23 [ku] nāhaṃ dhanāni yācāmi brāhmaṇāya dhanaprada anyam evāham icchāmi bhaktāyānugrahaṃ kṛtam 24 pṛthivīṃ ratra pūrṇāṃ vā mahad vā dhanasaṃcayam bhaktāya nāham icchāmi bhaved eṣa tu dhārmikaḥ 25 dharme 'sya ramatāṃ buddhir dharmaṃ caivopajīvatu dharmapradhāno bhavatu mamaiṣo 'nugraho mataḥ 26 [maṇibhadra] yadā dharmaphalaṃ rājyaṃ sukhāni vividhāni ca phalāny evāyam aśnātu kāyakleśavivarjitaḥ 27 [bhī] tatas tad eva bahuśaḥ kundadhāro mahāyaśaḥ abhyāsam akarod dharme tatas tuṣṭāsya devatāḥ 28 [maṇi] prītās te devatāḥ sarvā dvijasyāsya tathaiva ca bhaviṣyaty eṣa dharmātmā dharme cādhāsyate matiḥ 29 [bhī] tataḥ prīto jaladharaḥ kṛtakāryo yudhiṣṭhira īpsitaṃ manaso labdhvā varam anyaiḥ sudurlabham 30 tato 'paśyata cīrāṇi sūkṣmāṇi dvijasattamaḥ pārśvato 'bhyāgato nyastāny atha nirvedam āgataḥ 31 [brā] ayaṃ na sukṛtaṃ vetti ko nv anyo vetsyate kṛtam gacchāmi vanam evāhaṃ varaṃ dharmeṇa jīvitum 32 [bhī] nirvedād devatānāṃ ca prasādāt sa dvijottamaḥ vanaṃ praviśya sumahat tapa ārabdhavāṃs tadā 33 devatātithiśeṣeṇa phalamūlāśano dvijaḥ dharme cāpi mahārāja ratir asyābhyajāyata 34 tyaktvā mūlaphalaṃ sarvaṃ parṇāhāro 'bhavad dvijaḥ parṇaṃ tyaktvā jalāhāras tadāsīd dvijasattamaḥ 35 vāyubhakṣas tataḥ paścād bahūn varṣagaṇān abhūt na cāsya kṣīyate prāṇas tad adbhutam ivābhavat 36 dharme ca śraddadhānasya tapasy ugre ca vartataḥ kālena mahatā tasya divyā dṛṣṭir ajāyata 37 tasya buddhiḥ prādurāsīd yadi dadyāṃ mahad dhanam tuṣṭaḥ kasmai cid evāhaṃ na mithyā vāg bhaven mama 38 tataḥ prahṛṣṭavadano bhūya ārabdhavāṃs tapaḥ bhūyaś cācintayat siddho yat paraṃ so 'bhyapadyata 39 yadi dadyām ahaṃ rājyaṃ tuṣṭo vai yasya kasya cit sa bhaved acirād rājā na mityā vāg bhaven mama 40 tasya sākṣāt kundadhāro darśayām āsa bhārata brāhmaṇasya tapoyogāt sauhṛdenābhicoditaḥ 41 samāgamya sa tenātha pūjāṃ cakre yathāvidhi brāhmaṇaḥ kundadhārasya vismitaś cābhavan nṛpa 42 tato 'bravīt kundadhāro divyaṃ te cakṣur uttamam paśya rājñāṃ gatiṃ vipra lokāṃś cāvekṣa cakṣuṣā 43 tato rājñāṃ sahasrāṇi magnāni niraye tadā dūrād apaśyad vipraḥ sa divyayuktena cakṣuṣā 44 [ku] māṃ pūjayitvā bhāvena yadi tvaṃ duḥkham āpnuyāḥ kṛtaṃ mayā bhavet kiṃ te kaś ca te 'nugraho bhavet 45 paśya paśya ca bhūyas tvaṃ kāmān icchet kathaṃ naraḥ svargadvāraṃ hi saṃruddhaṃ mānuṣeṣu viśeṣataḥ 46 [bhī] tato 'paśyat sa kāmaṃ ca krodhaṃ lobhaṃ bhayaṃ madam nidrāṃ tandrīṃ tathālasyam āvṛtya puruṣān sthitān 47 [ku] etair lokāḥ susaṃruddhā devānāṃ mānuṣād bhayam tathaiva devavacanād vighnaṃ kurvanti sarvaśaḥ 48 na devair ananujñātaḥ kaś cid bhavati dhārmikaḥ eṣa śakto 'si tapasā rājyaṃ dātuṃ dhanāni ca 49 [bhī] tataḥ papāta śirasā brāhmaṇas toyadhāriṇe uvāca cainaṃ dharmātmā māhān me 'nugrahaḥ kṛtaḥ 50 kāmalobhānubandhena purā te yad asūyitam mayā sneham avijñāya tatra me kṣantum arhasi 51 kṣāntam eva mayety uktvā kundadhāro dvijarṣabham saṃpariṣvajya bāhubhyāṃ tatraivāntaradhīyata 52 tataḥ sarvān imāṁl lokān brāhmaṇo 'nucacāra ha kundadhāra prasādena tapasā yojitaḥ purā 53 vihāyasā ca gamanaṃ tathā saṃkalpitārthatā dharmāc chaktyā tathā yogād yā caiva paramā gatiḥ 54 devatā brāhmaṇāḥ santo yakṣā mānuṣacāraṇāḥ dhārmikān pūjayantīha na dhanādhyān na kāminaḥ 55 suprasannā hi te devā yat te dharme ratā matiḥ dhane sukhakalā kā cid dharme tu paramaṃ sukham |
The Mahabharata in Sanskrit
Book 12
Chapter 264
|
1
[य] बहूनां यज्ञतपसाम एकार्थानां पितामह धर्मार्थं न सुखार्थार्थं कथं यज्ञः समाहितः 2 [भी] अत्र ते वर्तयिष्यामि नारदेनानुकीर्तितम उञ्छवृत्तेः पुरावृत्तं यज्ञार्थे बराह्मणस्य ह 3 रास्त्रे धर्मॊत्तरे शरेष्ठे विदर्भेष्व अभवद दविजः उञ्छवृत्तिर ऋषिः कश चिद यज्ञे यज्ञं समादधे 4 शयामाकम अशनं तत्र सूर्यपत्नी सुवर्चला तिक्तं च विरसं शाकं तपसा सवादुतां गतम 5 उपगम्य वने पृथ्वीं सर्वभूतविहिंसया अपि मूलफलैर इज्यॊ यज्ञः सवर्ग्यः परंतप 6 तस्य भार्या वरतकृशा शुचिः पुष्कर चारिणी यज्ञपत्नीत्वम आनीता सत्येनानुविधीयते सा तु शापपरित्रस्ता न सवभावानुवर्तिनी 7 मयूरजीर्ण पर्णानां वस्त्रं तस्याश च पर्णिनाम अकामायाः कृतं तत्र यज्ञे हॊत्रानुमार्गतः 8 शुक्रस्य पुनर आजातिर अपध्यानाद अधर्मवित तस्मिन वने समीपस्थॊ मृगॊ ऽभूत सहचारिकः वचॊ भिर अब्रवीत सत्यं तवया दुष्कृतकं कृतम 9 यदि मन्त्राङ्गहीनॊ ऽयं यज्ञॊ भवति वैकृतः मां भॊः परक्षिप हॊत्रे तवं गच्छ सवर्गम अतन्द्रितः 10 ततस तु यज्ञे सावित्री साक्षात तं संन्यमन्त्रयत निमन्त्रयन्ती परत्युक्ता न हन्यां सहवासिनम 11 एवम उक्ता निवृत्ता सा परविष्टा यज्ञपावकम किं नु दुश्चरितं यज्ञे दिदृक्षुः सा रसातलम 12 सा तु बद्धाञ्जलिं सत्यम अयाचद धरिणं पुनः सत्येन संपरिष्वज्य संदिष्टॊ गम्यताम इति 13 ततः स हरिणॊ गत्वा पदान्य अस्तौ नयवर्तत साधु हिंसय मां सत्यहतॊ यास्यामि सद गतिम 14 पश्य हय अप्सरसॊ दिव्या मया दत्तेन चक्षुषा विमानानि विचित्राणि गन्धर्वाणां महात्मनाम 15 ततः सुरुचिरं दृष्ट्वा सपृहा लग्नेन चक्षुषा मृगम आलॊक्य हिंसायां सवर्गवासं समर्थयत 16 स तु धर्मॊ मृगॊ भूत्वा बहुवर्षॊषितॊ वने तस्य निष्कृतिम आधत्त न हय असौ यज्ञसंविधिः 17 तस्य तेन तु भावेन मृगहिंसात्मनस तदा तपॊ महत समुच्छिन्नं तस्माद धिंसा न यज्ञिया 18 ततस तं भगवान धर्मॊ यज्ञं याजयत सवयम समाधानं च भार्याया लेभे स तपसा परम 19 अहिंसा सकलॊ धर्मॊ हिंसा यज्ञे ऽसमाहिता सत्यं ते ऽहं परवक्ष्यामि यॊ धर्मः सत्यवादिनाम |
1
[y] bahūnāṃ yajñatapasām ekārthānāṃ pitāmaha dharmārthaṃ na sukhārthārthaṃ kathaṃ yajñaḥ samāhitaḥ 2 [bhī] atra te vartayiṣyāmi nāradenānukīrtitam uñchavṛtteḥ purāvṛttaṃ yajñārthe brāhmaṇasya ha 3 rāstre dharmottare śreṣṭhe vidarbheṣv abhavad dvijaḥ uñchavṛttir ṛṣiḥ kaś cid yajñe yajñaṃ samādadhe 4 śyāmākam aśanaṃ tatra sūryapatnī suvarcalā tiktaṃ ca virasaṃ śākaṃ tapasā svādutāṃ gatam 5 upagamya vane pṛthvīṃ sarvabhūtavihiṃsayā api mūlaphalair ijyo yajñaḥ svargyaḥ paraṃtapa 6 tasya bhāryā vratakṛśā śuciḥ puṣkara cāriṇī yajñapatnītvam ānītā satyenānuvidhīyate sā tu śāpaparitrastā na svabhāvānuvartinī 7 mayūrajīrṇa parṇānāṃ vastraṃ tasyāś ca parṇinām akāmāyāḥ kṛtaṃ tatra yajñe hotrānumārgataḥ 8 śukrasya punar ājātir apadhyānād adharmavit tasmin vane samīpastho mṛgo 'bhūt sahacārikaḥ vaco bhir abravīt satyaṃ tvayā duṣkṛtakaṃ kṛtam 9 yadi mantrāṅgahīno 'yaṃ yajño bhavati vaikṛtaḥ māṃ bhoḥ prakṣipa hotre tvaṃ gaccha svargam atandritaḥ 10 tatas tu yajñe sāvitrī sākṣāt taṃ saṃnyamantrayat nimantrayantī pratyuktā na hanyāṃ sahavāsinam 11 evam uktā nivṛttā sā praviṣṭā yajñapāvakam kiṃ nu duścaritaṃ yajñe didṛkṣuḥ sā rasātalam 12 sā tu baddhāñjaliṃ satyam ayācad dhariṇaṃ punaḥ satyena saṃpariṣvajya saṃdiṣṭo gamyatām iti 13 tataḥ sa hariṇo gatvā padāny astau nyavartata sādhu hiṃsaya māṃ satyahato yāsyāmi sad gatim 14 paśya hy apsaraso divyā mayā dattena cakṣuṣā vimānāni vicitrāṇi gandharvāṇāṃ mahātmanām 15 tataḥ suruciraṃ dṛṣṭvā spṛhā lagnena cakṣuṣā mṛgam ālokya hiṃsāyāṃ svargavāsaṃ samarthayat 16 sa tu dharmo mṛgo bhūtvā bahuvarṣoṣito vane tasya niṣkṛtim ādhatta na hy asau yajñasaṃvidhiḥ 17 tasya tena tu bhāvena mṛgahiṃsātmanas tadā tapo mahat samucchinnaṃ tasmād dhiṃsā na yajñiyā 18 tatas taṃ bhagavān dharmo yajñaṃ yājayata svayam samādhānaṃ ca bhāryāyā lebhe sa tapasā param 19 ahiṃsā sakalo dharmo hiṃsā yajñe 'samāhitā satyaṃ te 'haṃ pravakṣyāmi yo dharmaḥ satyavādinām |
The Mahabharata in Sanskrit
Book 12
Chapter 265
|
1
[य] कथं भवति पापात्मा कथं धर्मं करॊति वा केन निर्वेदम आदत्ते मॊक्षं वा केन गच्छति 2 [भी] विदिताः सर्वधर्मास ते सथित्य अर्थम अनुपृच्छसि शृणु मॊक्षं सनिर्वेदं पापं धर्मं च मूलतः 3 विज्ञानार्थं हि पञ्चानाम इच्छा पूर्वं परवर्तते पराप्य ताञ जायते कामॊ दवेषॊ वा भरतर्षभ 4 ततस तदर्थं यतते कर्म चारभते पुनः इष्टानां रूपगन्धानाम अभ्यासं च चिकीर्षति 5 ततॊ रागः परभवति दवेषश च तदनन्तरम ततॊ लॊभः परभवति मॊहश च तदनन्तरम 6 लॊभमॊहाभिभूतस्य रागद्वेषान्वितस्य च न धर्मे जायते बुद्धिर वयाजाद धर्मं करॊति च 7 वयाजेन चरतॊ धर्मम अर्थव्याजॊ ऽपि रॊचते वयाजेन सिध्यमानेषु धनेषु कुरुनन्दन 8 तत्रैव कुरुते बुद्धिं ततः पापं चिकीर्षति सुहृद्भिर वार्यमाणॊ ऽपि पण्डितैश चापि भारत 9 उत्तरं नयायसंबद्धं बरवीति विधियॊजितम अधर्मस तरिविधस तस्य वर्धते रागमॊहजः 10 पापं चिन्तयते चैव परब्रवीति करॊति च तस्याधर्मप्रवृत्तस्य दॊषान पश्यन्ति साधवः 11 एकशीलाश च मित्रत्वं भजन्ते पापकर्मिणः स नेह सुखम आप्नॊति कुत एव परत्र वै 12 एवं भवति पापात्मा धर्मात्मानं तु मे शृणु यथा कुशलधर्मा स कुशलं परतिपद्यते 13 य एतान परज्ञया दॊषान पूर्वम एवानुपश्यति कुशलः सुखदुःखानां साधूंश चाप्य उपसेवते 14 तस्य साधु समाचाराद अभ्यासाच चैव वर्धते परज्ञा धर्मे च रमते धर्मं चैवॊपजीवति 15 सॊ ऽथ धर्माद अवाप्तेषु धनेषु कुरुते मनः तस्यैव सिञ्चते मूलं गुणान पश्यति यत्र वै 16 धर्मात्मा भवति हय एवं मित्रं च लभते शुभम स मित्र धनलाभात तु परेत्य चेह च नन्दति 17 शब्दे सपर्शे तथारूपे रसे गन्धे च भारत परभुत्वं लभते जन्तुर धर्मस्यैतत फलं विदुः 18 स धर्मस्य फलं लब्ध्वा न तृप्यति युधिष्ठिर अतृप्यमाणॊ निर्वेदम आदत्ते जञानचक्षुषा 19 परज्ञा चक्षुर यदा कामे दॊषम एवानुपश्यति विरज्यते तदा कामान न च धर्मं विमुञ्चति 20 सर्वत्यागे च यतते दृष्ट्वा लॊकं कषयात्मकम ततॊ मॊक्षाय यतते नानुपायाद उपायतः 21 शनैर निर्वेदम आदत्ते पापं कर्म जहाति च धर्मात्मा चैव भवति मॊक्षं च लभते परम 22 एतत ते कथितं तात यन मां तवं परिपृच्छसि पापं धर्मं तथा मॊक्षं निर्वेदं चैव भारत 23 तस्माद धर्मे परवर्तेथाः सर्वावस्थं युधिष्ठिर धर्मे सथितानां कौन्तेय सिद्धिर भवति शाश्वती |
1
[y] kathaṃ bhavati pāpātmā kathaṃ dharmaṃ karoti vā kena nirvedam ādatte mokṣaṃ vā kena gacchati 2 [bhī] viditāḥ sarvadharmās te sthity artham anupṛcchasi śṛṇu mokṣaṃ sanirvedaṃ pāpaṃ dharmaṃ ca mūlataḥ 3 vijñānārthaṃ hi pañcānām icchā pūrvaṃ pravartate prāpya tāñ jāyate kāmo dveṣo vā bharatarṣabha 4 tatas tadarthaṃ yatate karma cārabhate punaḥ iṣṭānāṃ rūpagandhānām abhyāsaṃ ca cikīrṣati 5 tato rāgaḥ prabhavati dveṣaś ca tadanantaram tato lobhaḥ prabhavati mohaś ca tadanantaram 6 lobhamohābhibhūtasya rāgadveṣānvitasya ca na dharme jāyate buddhir vyājād dharmaṃ karoti ca 7 vyājena carato dharmam arthavyājo 'pi rocate vyājena sidhyamāneṣu dhaneṣu kurunandana 8 tatraiva kurute buddhiṃ tataḥ pāpaṃ cikīrṣati suhṛdbhir vāryamāṇo 'pi paṇḍitaiś cāpi bhārata 9 uttaraṃ nyāyasaṃbaddhaṃ bravīti vidhiyojitam adharmas trividhas tasya vardhate rāgamohajaḥ 10 pāpaṃ cintayate caiva prabravīti karoti ca tasyādharmapravṛttasya doṣān paśyanti sādhavaḥ 11 ekaśīlāś ca mitratvaṃ bhajante pāpakarmiṇaḥ sa neha sukham āpnoti kuta eva paratra vai 12 evaṃ bhavati pāpātmā dharmātmānaṃ tu me śṛṇu yathā kuśaladharmā sa kuśalaṃ pratipadyate 13 ya etān prajñayā doṣān pūrvam evānupaśyati kuśalaḥ sukhaduḥkhānāṃ sādhūṃś cāpy upasevate 14 tasya sādhu samācārād abhyāsāc caiva vardhate prajñā dharme ca ramate dharmaṃ caivopajīvati 15 so 'tha dharmād avāpteṣu dhaneṣu kurute manaḥ tasyaiva siñcate mūlaṃ guṇān paśyati yatra vai 16 dharmātmā bhavati hy evaṃ mitraṃ ca labhate śubham sa mitra dhanalābhāt tu pretya ceha ca nandati 17 śabde sparśe tathārūpe rase gandhe ca bhārata prabhutvaṃ labhate jantur dharmasyaitat phalaṃ viduḥ 18 sa dharmasya phalaṃ labdhvā na tṛpyati yudhiṣṭhira atṛpyamāṇo nirvedam ādatte jñānacakṣuṣā 19 prajñā cakṣur yadā kāme doṣam evānupaśyati virajyate tadā kāmān na ca dharmaṃ vimuñcati 20 sarvatyāge ca yatate dṛṣṭvā lokaṃ kṣayātmakam tato mokṣāya yatate nānupāyād upāyataḥ 21 śanair nirvedam ādatte pāpaṃ karma jahāti ca dharmātmā caiva bhavati mokṣaṃ ca labhate param 22 etat te kathitaṃ tāta yan māṃ tvaṃ paripṛcchasi pāpaṃ dharmaṃ tathā mokṣaṃ nirvedaṃ caiva bhārata 23 tasmād dharme pravartethāḥ sarvāvasthaṃ yudhiṣṭhira dharme sthitānāṃ kaunteya siddhir bhavati śāśvatī |
The Mahabharata in Sanskrit
Book 12
Chapter 266
|
1
[य] मॊक्षः पितामहेनॊक्त उपायान नानुपायतः तम उपायं यथान्यायं शरॊतुम इच्छामि भारत 2 [भी] तवय्य एवैतन महाप्राज्ञ युक्तं निपुन दर्शनम यद उपायेन सर्वार्थान नित्यं मृगयसे ऽनघ 3 करणे घतस्य या बुद्धिर घतॊत्पत्तौ न सानघ एवं धर्माभ्युपायेषु नान्यद धर्मेषु कारणम 4 पूर्वे समुद्रे यः पन्था न स गच्छति पश्चिमम एकः पन्था हि मॊक्षस्य तन मे विस्तरतः शृणु 5 कषमया करॊधम उच्छिन्द्यात कामं संकल्पवर्जनात सत्त्वसंसेवनाद धीरॊ निद्राम उच्छेतुम अर्हति 6 अप्रमादाद भयं रक्षेच छवासं कषेत्रज्ञशीलनात इच्छां दवेषं च कामं च धैर्येण विनिवर्तयेत 7 भरमं परमॊहम आवर्तम अभ्यासाद विनिवर्तयेत निद्रां च परतिभां चैव जञानाभ्यास न तत्त्ववित 8 उपद्रवांस तथा रॊगान हितजीर्ण मिताशनात लॊभं मॊहं च संतॊषाद विषयांस तत्त्वदर्शनात 9 अनुक्रॊषाद अधर्मं च जयेद धर्मम उपेक्षया आयत्या च जयेद आशाम अर्थं सङ्गविवर्जनात 10 अनित्यत्वेन च सनेहं कषुधं यॊगेन पण्डितः कारुण्येनात्मनॊ मानं तृष्णां च परितॊषतः 11 उत्थानेन जयेत तन्द्रीं वितर्कं निश्चयाज जयेत मौनेन बहु भास्यं च शौर्येण च भयं जयेत 12 यच्छेद वाङ्मनसी बुद्ध्या तां यच्छेज जञानचक्षुषा जञानम आत्मा महान यच्छेत तं यच्छेच छान्तिर आत्मनः 13 तद एतद उपशान्तेन बॊद्धव्यं शुचि कर्मणा यॊगदॊषान समुच्छिद्य पञ्च यान कवयॊ विदुः 14 कामं करॊधं च लॊभं च भयं सवप्नं च पञ्चमम परित्यज्य निषेवेत तथेमान यॊगसाधनान 15 धयानम अध्ययनं दानं सत्यं हरीर आर्जवं कषमा शौचम आहारतः शुद्धिर इन्द्रियाणां च संयमः 16 एतैर विवर्धते तेजः पाप्मानम अपहन्ति च सिध्यन्ति चास्य संकल्पा विज्ञानं च परवर्तते 17 धूतपापः स तेजस्वी लघ्व आहारॊ जितेन्द्रियः कामक्रॊधौ वशे कृत्वा निनीसेद बरह्मणः पदम 18 अमूढत्वम असङ्गित्वं कामक्रॊधविवर्जनम अदैन्यम अनुदीर्णत्वम अनुद्वेगॊ वयवस्थितिः 19 एष मार्गॊ हि मॊक्षस्य परसन्नॊ विमलः शुचिः तथा वाक्कायमनसां नियमः कामतॊ ऽनयथा |
1
[y] mokṣaḥ pitāmahenokta upāyān nānupāyataḥ tam upāyaṃ yathānyāyaṃ śrotum icchāmi bhārata 2 [bhī] tvayy evaitan mahāprājña yuktaṃ nipuna darśanam yad upāyena sarvārthān nityaṃ mṛgayase 'nagha 3 karaṇe ghatasya yā buddhir ghatotpattau na sānagha evaṃ dharmābhyupāyeṣu nānyad dharmeṣu kāraṇam 4 pūrve samudre yaḥ panthā na sa gacchati paścimam ekaḥ panthā hi mokṣasya tan me vistarataḥ śṛṇu 5 kṣamayā krodham ucchindyāt kāmaṃ saṃkalpavarjanāt sattvasaṃsevanād dhīro nidrām ucchetum arhati 6 apramādād bhayaṃ rakṣec chvāsaṃ kṣetrajñaśīlanāt icchāṃ dveṣaṃ ca kāmaṃ ca dhairyeṇa vinivartayet 7 bhramaṃ pramoham āvartam abhyāsād vinivartayet nidrāṃ ca pratibhāṃ caiva jñānābhyāsa na tattvavit 8 upadravāṃs tathā rogān hitajīrṇa mitāśanāt lobhaṃ mohaṃ ca saṃtoṣād viṣayāṃs tattvadarśanāt 9 anukroṣād adharmaṃ ca jayed dharmam upekṣayā āyatyā ca jayed āśām arthaṃ saṅgavivarjanāt 10 anityatvena ca snehaṃ kṣudhaṃ yogena paṇḍitaḥ kāruṇyenātmano mānaṃ tṛṣṇāṃ ca paritoṣataḥ 11 utthānena jayet tandrīṃ vitarkaṃ niścayāj jayet maunena bahu bhāsyaṃ ca śauryeṇa ca bhayaṃ jayet 12 yacched vāṅmanasī buddhyā tāṃ yacchej jñānacakṣuṣā jñānam ātmā mahān yacchet taṃ yacchec chāntir ātmanaḥ 13 tad etad upaśāntena boddhavyaṃ śuci karmaṇā yogadoṣān samucchidya pañca yān kavayo viduḥ 14 kāmaṃ krodhaṃ ca lobhaṃ ca bhayaṃ svapnaṃ ca pañcamam parityajya niṣeveta tathemān yogasādhanān 15 dhyānam adhyayanaṃ dānaṃ satyaṃ hrīr ārjavaṃ kṣamā śaucam āhārataḥ śuddhir indriyāṇāṃ ca saṃyamaḥ 16 etair vivardhate tejaḥ pāpmānam apahanti ca sidhyanti cāsya saṃkalpā vijñānaṃ ca pravartate 17 dhūtapāpaḥ sa tejasvī laghv āhāro jitendriyaḥ kāmakrodhau vaśe kṛtvā ninīsed brahmaṇaḥ padam 18 amūḍhatvam asaṅgitvaṃ kāmakrodhavivarjanam adainyam anudīrṇatvam anudvego vyavasthitiḥ 19 eṣa mārgo hi mokṣasya prasanno vimalaḥ śuciḥ tathā vākkāyamanasāṃ niyamaḥ kāmato 'nyathā |
The Mahabharata in Sanskrit
Book 12
Chapter 267
|
1
[भी] अत्रैवॊदाहरन्तीमम इतिहासं पुरातनम नारदस्य च संवादं देवलस्यासितस्य च 2 आसीनं देवलं वृद्धं बुद्ध्वा बुद्धिमतां वरः नारदः परिपप्रच्छ भूतानां परभवाभ्ययम 3 कुतः सृष्टम इदं विश्वं बरह्मन सथावरजङ्गमम परलये च कम अभ्येति तद भवान परब्रवीतु मे 4 [असित] येभ्यः सृजति भूतानि कालॊ भावप्रचॊदितः महाभूतानि पञ्चेति तान्य आहुर भूतचिन्तकाः 5 तेभ्यः सृजति भूतानि काल आत्मप्रचॊदितः एतेभ्यॊ यः परं बरूयाद असद बरूयाद असंशयम 6 विद्धि नारद पञ्चैताञ शाश्वतान अचलान धरुवान महतस तेजसॊ राशीन कालषष्ठान सवभावतः 7 आपश चैवान्तरिक्षं च पृथिवी वायुपावकौ असिद्धिः परम एतेभ्यॊ भूतेभ्यॊ मुक्तसंशयम 8 नॊपपत्त्या न वा युक्त्या तव असद बरूयाद असंशयम वेत्थ तान अभिनिर्वृत्तान स एते यस्य राशयः 9 पञ्चैव तानि कालश च भावाभावौ च केवलौ अस्तौ भूतानि भूतानां शाश्वतानि भवाप्ययौ 10 अभावाद भावितेष्व एव तेभ्यश च परभवन्त्य अपि विनस्तॊ ऽपि च तान्य एव जन्तुर भवति पञ्चधा 11 तस्य भूमिमयॊ देहः शरॊत्रम आकाशसंभवम सूर्यश चक्षुर असुर वायुर अद्भ्यस तु खलु शॊनितम 12 चक्षुषी नासिका कर्णौ तवग जिह्वेति च पञ्चमी इन्द्रियाणीन्द्रियार्थानां जञानानि कवयॊ विदुः 13 दर्शनं शरवणं घराणं सपर्शनं रसनं तथा उपपत्त्या गुणान विद्धि पञ्च पञ्चसु पञ्चधा 14 रूपं गन्धॊ रसः सपर्शः शब्दश चैवाथ तद गुणाः इन्द्रियैर उपलभ्यन्ते पञ्चधा पञ्च पञ्चभिः 15 रूपं गन्धं रसं सपर्शं शब्दं चैतांस तु तद गुणान इन्द्रियाणि न बुध्यन्ते कषेत्रज्ञस तैस तु बुध्यते 16 चित्तम इन्द्रियसंघातात परं तस्मात परं मनः मनसस तु परा बुद्धिः कषेत्रज्ञॊ बुद्धितः परम 17 पूर्वं चेतयते जन्तुर इन्द्रियैर विषयान पृथक विचार्य मनसा पश्चाद अथ बुद्ध्या वयवस्यति इन्द्रियौर उपलब्धार्थान सर्वान यस तव अध्यवस्यति 18 चित्तम इन्द्रियसंघातं मनॊ बुद्धिं तथास्तमीम अस्तौ जञानेन्द्रियाण्य आहुर एतान्य अध्यात्मचिन्तकाः 19 पानि पादं च पायुश च मेहनं पञ्चमं मुखम इति संशब्द्यमानानि शृणु कर्मेन्द्रियाण्य अपि 20 जल्पनाभ्यवहारार्थं मुखम इन्द्रियम उच्यते गमनेन्द्रियं तथा पादौ कर्मणः करणे करौ 21 पायूपस्थौ विसर्गार्थम इन्द्रिये तुल्यकर्मणी विसर्गे च पुरीसस्य विसर्गे चाभिकामिके 22 बलं सस्थं स एतानि वाचा सम्यग यथागमम जञानचेष्टेन्द्रिय गुणाः सर्वे संशब्दिता मया 23 इन्द्रियाणां सवकर्मभ्यः शरमाद उपरमॊ यदा भवतीन्द्रिय संन्यासाद अथ सवपिति वै नरः 24 इन्द्रियाणां वयुपरमे मनॊ ऽनुपरतं यदि सेवते विषयान एव तद्विद्यात सवप्नदर्शनात 25 सात्त्विकाश चैव ये भावास तथा राजस तामसाः कर्म युक्तान परशंसन्ति सात्त्विकान इतरांस तथा 26 आनन्दः कर्मणां सिद्धिः परतिपत्तिः परा गतिः सात्त्विकस्य निमित्तानि भावान संश्रयते समृतिः 27 जन्तुष्व एकतमेष्व एवं भावा ये विधिम आस्थिताः भावयॊर ईप्सितं नित्यं परत्यक्षगमनं दवयॊः 28 इन्द्रियाणि च भावाश च गुणाः सप्तदश समृताः तेषाम अस्तादशॊ देही यः शरीरे स शाश्वतः 29 अथ वा सशरीरास ते गुणाः सर्वे शरीरिणाम संश्रितास तद वियॊगे हि सशरीरा न सन्ति ते 30 अथ वा संनिपातॊ ऽयं शरीरं पाञ्चभौतिकम एतश च दश चास्तौ च गुणाः सह शरीरिणाम ऊष्मना सह विंशॊ वा संघातः पाञ्चभौतिकः 31 महान संधारयत्य एतच छरीरं वायुना सह तस्यास्य भावयुक्तस्य निमित्तं देहभेदने 32 यथैवॊत्पद्यते किं चित पञ्चत्वं गच्छते तथा पुण्यपापविनाशान्ते पुण्यपापसमीरितम देहं विशति कालेन ततॊ ऽयं कर्म संभवम 33 हित्वा हित्वा हय अयं परैति देहाद देहं कृताश्रयः कालसंचॊदितः कषेत्री विशीर्णाद वा गृहाद गृहम 34 तत्र नैवानुतप्यन्ते पराज्ञा निश्चित निश्चयाः कृपणास तव अनुतप्यन्ते जनाः संबन्धिमानिनः 35 न हय अयं कस्य चित कश चिन नास्य कश चन विद्यते भवत्य एकॊ हय अयं नित्यं शरीरे सुखदुःखभाज 36 नैव संजायते जन्तुर न च जातु विपद्यते याति देहम अयं भुक्त्वा कदा चित परमां गतिम 37 पुण्यपापमयं देहं कषपयन कर्म संचयात कषीणदेहः पुनर देही बरह्मत्वम उपगच्छति 38 पुण्यपापक्षयार्थं च सांख्यं जञानं विधीयते तत कषये हय अस्य पश्यन्ति बरह्म भावे परां गतिम |
1
[bhī] atraivodāharantīmam itihāsaṃ purātanam nāradasya ca saṃvādaṃ devalasyāsitasya ca 2 āsīnaṃ devalaṃ vṛddhaṃ buddhvā buddhimatāṃ varaḥ nāradaḥ paripapraccha bhūtānāṃ prabhavābhyayam 3 kutaḥ sṛṣṭam idaṃ viśvaṃ brahman sthāvarajaṅgamam pralaye ca kam abhyeti tad bhavān prabravītu me 4 [asita] yebhyaḥ sṛjati bhūtāni kālo bhāvapracoditaḥ mahābhūtāni pañceti tāny āhur bhūtacintakāḥ 5 tebhyaḥ sṛjati bhūtāni kāla ātmapracoditaḥ etebhyo yaḥ paraṃ brūyād asad brūyād asaṃśayam 6 viddhi nārada pañcaitāñ śāśvatān acalān dhruvān mahatas tejaso rāśīn kālaṣaṣṭhān svabhāvataḥ 7 āpaś caivāntarikṣaṃ ca pṛthivī vāyupāvakau asiddhiḥ param etebhyo bhūtebhyo muktasaṃśayam 8 nopapattyā na vā yuktyā tv asad brūyād asaṃśayam vettha tān abhinirvṛttān sa ete yasya rāśayaḥ 9 pañcaiva tāni kālaś ca bhāvābhāvau ca kevalau astau bhūtāni bhūtānāṃ śāśvatāni bhavāpyayau 10 abhāvād bhāviteṣv eva tebhyaś ca prabhavanty api vinasto 'pi ca tāny eva jantur bhavati pañcadhā 11 tasya bhūmimayo dehaḥ śrotram ākāśasaṃbhavam sūryaś cakṣur asur vāyur adbhyas tu khalu śonitam 12 cakṣuṣī nāsikā karṇau tvag jihveti ca pañcamī indriyāṇīndriyārthānāṃ jñānāni kavayo viduḥ 13 darśanaṃ śravaṇaṃ ghrāṇaṃ sparśanaṃ rasanaṃ tathā upapattyā guṇān viddhi pañca pañcasu pañcadhā 14 rūpaṃ gandho rasaḥ sparśaḥ śabdaś caivātha tad guṇāḥ indriyair upalabhyante pañcadhā pañca pañcabhiḥ 15 rūpaṃ gandhaṃ rasaṃ sparśaṃ śabdaṃ caitāṃs tu tad guṇān indriyāṇi na budhyante kṣetrajñas tais tu budhyate 16 cittam indriyasaṃghātāt paraṃ tasmāt paraṃ manaḥ manasas tu parā buddhiḥ kṣetrajño buddhitaḥ param 17 pūrvaṃ cetayate jantur indriyair viṣayān pṛthak vicārya manasā paścād atha buddhyā vyavasyati indriyaur upalabdhārthān sarvān yas tv adhyavasyati 18 cittam indriyasaṃghātaṃ mano buddhiṃ tathāstamīm astau jñānendriyāṇy āhur etāny adhyātmacintakāḥ 19 pāni pādaṃ ca pāyuś ca mehanaṃ pañcamaṃ mukham iti saṃśabdyamānāni śṛṇu karmendriyāṇy api 20 jalpanābhyavahārārthaṃ mukham indriyam ucyate gamanendriyaṃ tathā pādau karmaṇaḥ karaṇe karau 21 pāyūpasthau visargārtham indriye tulyakarmaṇī visarge ca purīsasya visarge cābhikāmike 22 balaṃ sasthaṃ sa etāni vācā samyag yathāgamam jñānaceṣṭendriya guṇāḥ sarve saṃśabditā mayā 23 indriyāṇāṃ svakarmabhyaḥ śramād uparamo yadā bhavatīndriya saṃnyāsād atha svapiti vai naraḥ 24 indriyāṇāṃ vyuparame mano 'nuparataṃ yadi sevate viṣayān eva tadvidyāt svapnadarśanāt 25 sāttvikāś caiva ye bhāvās tathā rājasa tāmasāḥ karma yuktān praśaṃsanti sāttvikān itarāṃs tathā 26 ānandaḥ karmaṇāṃ siddhiḥ pratipattiḥ parā gatiḥ sāttvikasya nimittāni bhāvān saṃśrayate smṛtiḥ 27 jantuṣv ekatameṣv evaṃ bhāvā ye vidhim āsthitāḥ bhāvayor īpsitaṃ nityaṃ pratyakṣagamanaṃ dvayoḥ 28 indriyāṇi ca bhāvāś ca guṇāḥ saptadaśa smṛtāḥ teṣām astādaśo dehī yaḥ śarīre sa śāśvataḥ 29 atha vā saśarīrās te guṇāḥ sarve śarīriṇām saṃśritās tad viyoge hi saśarīrā na santi te 30 atha vā saṃnipāto 'yaṃ śarīraṃ pāñcabhautikam etaś ca daśa cāstau ca guṇāḥ saha śarīriṇām ūṣmanā saha viṃśo vā saṃghātaḥ pāñcabhautikaḥ 31 mahān saṃdhārayaty etac charīraṃ vāyunā saha tasyāsya bhāvayuktasya nimittaṃ dehabhedane 32 yathaivotpadyate kiṃ cit pañcatvaṃ gacchate tathā puṇyapāpavināśānte puṇyapāpasamīritam dehaṃ viśati kālena tato 'yaṃ karma saṃbhavam 33 hitvā hitvā hy ayaṃ praiti dehād dehaṃ kṛtāśrayaḥ kālasaṃcoditaḥ kṣetrī viśīrṇād vā gṛhād gṛham 34 tatra naivānutapyante prājñā niścita niścayāḥ kṛpaṇās tv anutapyante janāḥ saṃbandhimāninaḥ 35 na hy ayaṃ kasya cit kaś cin nāsya kaś cana vidyate bhavaty eko hy ayaṃ nityaṃ śarīre sukhaduḥkhabhāj 36 naiva saṃjāyate jantur na ca jātu vipadyate yāti deham ayaṃ bhuktvā kadā cit paramāṃ gatim 37 puṇyapāpamayaṃ dehaṃ kṣapayan karma saṃcayāt kṣīṇadehaḥ punar dehī brahmatvam upagacchati 38 puṇyapāpakṣayārthaṃ ca sāṃkhyaṃ jñānaṃ vidhīyate tat kṣaye hy asya paśyanti brahma bhāve parāṃ gatim |
The Mahabharata in Sanskrit
Book 12
Chapter 268
|
1
[य] भरातरः पितरा पुत्रा जञातयः सुहृदस तथा अर्थहेतॊर हताः करूरैर अस्माभिः पापबुद्धिभिः 2 येयम अर्थॊद्भवा तृष्णा कथम एतां पितामह निवर्तयेम पापं हि तृष्णया कारिता वयम 3 [भी] अत्राप्य उदाहरन्तीमम इतिहासं पुरातनम गीतं विदेहराजेन मान्दव्यायानुपृच्छते 4 सुसुखं बत जीवामि यस्य मे नास्ति किं चन मिथिलायां परदीप्तायां न मे दह्यति किं चन 5 अर्थाः खलु समृद्धा हि बाधं दुःखं विजानताम असमृद्धास तव अपि सदा मॊहयन्त्य अविचक्षणान 6 यच च कामसुखं लॊके यच च दिव्यं महत सुखम तृष्णा कषयसुखस्यैते नार्हतः सॊदशीं कलाम 7 यथैव शृङ्गं गॊः काले वर्धमानस्य वर्धते तथैव तृष्णा वित्तेन वर्धमानेन वर्धते 8 किं चिद एव ममत्वेन यदा भवति कल्पितम तद एव परितापाय नाशे संपद्यते पुनः 9 न कामान अनुरुध्येत दुःखं कामेषु वै रतिः पराप्यार्थम उपयुञ्जीत धर्मे कामं विवर्जयेत 10 विद्वान सर्वेषु भूतेषु वयाघ्रमांसॊपमॊ भवेत कृतकृत्यॊ विशुद्धात्मा सर्वं तयजति वै सह 11 उभे सत्यानृते तयक्त्वा शॊकानन्दौ परियाप्रियौ भयाभये च संत्यज्य संप्रशान्तॊ निरामयः 12 या दुस्त्यजा दुर्मतिभिर या न जीर्यति जीर्यतः यॊ ऽसौ पराणान्तिकॊ रॊगस तां तृष्णां तयजतः सुखम 13 चारित्रम आत्मनः पश्यंश चन्द्र शुद्धम अनामयम धर्मात्मा लभते कीर्तिं परेत्य चेह यथासुखम 14 राज्ञस तद वचनं शरुत्वा परीतिमान अभवद दविजः पूजयित्वा च तद वाक्यं मान्दव्यॊ मॊक्षम आश्रितः |
1
[y] bhrātaraḥ pitarā putrā jñātayaḥ suhṛdas tathā arthahetor hatāḥ krūrair asmābhiḥ pāpabuddhibhiḥ 2 yeyam arthodbhavā tṛṣṇā katham etāṃ pitāmaha nivartayema pāpaṃ hi tṛṣṇayā kāritā vayam 3 [bhī] atrāpy udāharantīmam itihāsaṃ purātanam gītaṃ videharājena māndavyāyānupṛcchate 4 susukhaṃ bata jīvāmi yasya me nāsti kiṃ cana mithilāyāṃ pradīptāyāṃ na me dahyati kiṃ cana 5 arthāḥ khalu samṛddhā hi bādhaṃ duḥkhaṃ vijānatām asamṛddhās tv api sadā mohayanty avicakṣaṇān 6 yac ca kāmasukhaṃ loke yac ca divyaṃ mahat sukham tṛṣṇā kṣayasukhasyaite nārhataḥ sodaśīṃ kalām 7 yathaiva śṛṅgaṃ goḥ kāle vardhamānasya vardhate tathaiva tṛṣṇā vittena vardhamānena vardhate 8 kiṃ cid eva mamatvena yadā bhavati kalpitam tad eva paritāpāya nāśe saṃpadyate punaḥ 9 na kāmān anurudhyeta duḥkhaṃ kāmeṣu vai ratiḥ prāpyārtham upayuñjīta dharme kāmaṃ vivarjayet 10 vidvān sarveṣu bhūteṣu vyāghramāṃsopamo bhavet kṛtakṛtyo viśuddhātmā sarvaṃ tyajati vai saha 11 ubhe satyānṛte tyaktvā śokānandau priyāpriyau bhayābhaye ca saṃtyajya saṃpraśānto nirāmayaḥ 12 yā dustyajā durmatibhir yā na jīryati jīryataḥ yo 'sau prāṇāntiko rogas tāṃ tṛṣṇāṃ tyajataḥ sukham 13 cāritram ātmanaḥ paśyaṃś candra śuddham anāmayam dharmātmā labhate kīrtiṃ pretya ceha yathāsukham 14 rājñas tad vacanaṃ śrutvā prītimān abhavad dvijaḥ pūjayitvā ca tad vākyaṃ māndavyo mokṣam āśritaḥ |
The Mahabharata in Sanskrit
Book 12
Chapter 269
|
1
[य] किं शीलः किं समाचारः किं विद्यः किं परायनः पराप्नॊति बरह्मणः सथानं यत परं परकृतेर धरुवम 2 [भी] मॊक्षधर्मेषु निरतॊ लघ्व आहारॊ जितेन्द्रियः पराप्नॊति परमं सथानं यत परं परकृतेर धरुवम 3 सवगृहाद अभिनिःसृत्य लाभालाभे समॊ मुनिः समुपॊधेषु कामेषु निरपेक्षः परिव्रजेत 4 न चक्षुषा न मनसा न वाचा दूसयेद अपि न परत्यक्षं परॊक्षं वा दूसनं वयाहरेत कव चित 5 न हिंस्यात सर्वभूतानि मैत्रायण गतिश चरेत नेदं जीवितम आसाद्य वैरं कुर्वीत केन चित 6 अतिवादांस तितिक्षेत नाभिमन्येत कथं चन करॊध्यमानः परियं बरूयाद आक्रुष्टः कुशलं वदेत 7 परदक्षिणं परसव्यं च गराममध्ये न चाचरेत भैक्ष चर्याम अनापन्नॊ न गच्छेत पूर्वकेतितः 8 अविकीर्णः सुगुप्तश च न वाचा हय अप्रियं वदेत मृदुः सयाद अप्रतिक्रूरॊ विस्रब्धः सयाद अरॊषणः 9 विधूमे नयस्तमुसले वयङ्गारे भुक्तवज जने अतीते पात्रसंचारे भिक्षां लिप्सेत वै मुनिः 10 अनुयात्रिकम अर्थस्य मात्रा लाभेष्व अनादृतः अलाभे न विहन्येत लाभश चैनं न हर्षयेत 11 लाभं साधारणं नेच्छेन न भुञ्जीताभिपूजितः अभिपूजित लाभं हि जुगुप्सेतैव तादृशः 12 न चान्न दॊषान निन्देत न गुणान अभिपूजयेत शयासने विविक्ते च नित्यम एवाभिपूजयेत 13 शून्यागरं वृक्षमूलम अरण्यम अथ वा गुहाम अज्ञातचर्यां गत्वान्यां ततॊ ऽनयत्रैव संविशेत 14 अनुरॊध विरॊधाभ्यां समः सयाद अचलॊ धरुवः सुकृतं दुष्कृतं चॊभे नानुरुध्येत कर्मणि 15 वाचॊ वेगं मनसः करॊधवेगं; विवित्सा वेगम उदरॊपस्थ वेगम एतान वेगान विनयेद वै तपस्वी; निन्दा चास्य हृदयं नॊपहन्यात 16 मध्यस्थ एव तिष्ठेत परशंसा निन्दयॊः समः एतत पवित्रं परमं परिव्राजक आश्रमे 17 महात्मा सुव्रतॊ दान्तः सर्वत्रैवानपाश्रितः अपूर्व चारकः सौम्यॊ अनिकेतः समाहितः 18 वान परस्थगृहस्थाभ्यां न संसृज्येत कर्हि चित अज्ञातलिप्सां लिप्सेत न चैनं हर्ष आविशेत 19 विजानतां मॊक्ष एष शरमः सयाद अविजानताम मॊक्षयानम इदं कृत्स्नं विदुषां हारितॊ ऽबरवीत 20 अभयं सर्वभूतेभ्यॊ दत्त्वा यः परव्रजेद गृहात लॊकास तेजॊमयास तस्य तथानन्त्याय कल्पते |
1
[y] kiṃ śīlaḥ kiṃ samācāraḥ kiṃ vidyaḥ kiṃ parāyanaḥ prāpnoti brahmaṇaḥ sthānaṃ yat paraṃ prakṛter dhruvam 2 [bhī] mokṣadharmeṣu nirato laghv āhāro jitendriyaḥ prāpnoti paramaṃ sthānaṃ yat paraṃ prakṛter dhruvam 3 svagṛhād abhiniḥsṛtya lābhālābhe samo muniḥ samupodheṣu kāmeṣu nirapekṣaḥ parivrajet 4 na cakṣuṣā na manasā na vācā dūsayed api na pratyakṣaṃ parokṣaṃ vā dūsanaṃ vyāharet kva cit 5 na hiṃsyāt sarvabhūtāni maitrāyaṇa gatiś caret nedaṃ jīvitam āsādya vairaṃ kurvīta kena cit 6 ativādāṃs titikṣeta nābhimanyet kathaṃ cana krodhyamānaḥ priyaṃ brūyād ākruṣṭaḥ kuśalaṃ vadet 7 pradakṣiṇaṃ prasavyaṃ ca grāmamadhye na cācaret bhaikṣa caryām anāpanno na gacchet pūrvaketitaḥ 8 avikīrṇaḥ suguptaś ca na vācā hy apriyaṃ vadet mṛduḥ syād apratikrūro visrabdhaḥ syād aroṣaṇaḥ 9 vidhūme nyastamusale vyaṅgāre bhuktavaj jane atīte pātrasaṃcāre bhikṣāṃ lipseta vai muniḥ 10 anuyātrikam arthasya mātrā lābheṣv anādṛtaḥ alābhe na vihanyeta lābhaś cainaṃ na harṣayet 11 lābhaṃ sādhāraṇaṃ necchen na bhuñjītābhipūjitaḥ abhipūjita lābhaṃ hi jugupsetaiva tādṛśaḥ 12 na cānna doṣān nindeta na guṇān abhipūjayet śayāsane vivikte ca nityam evābhipūjayet 13 śūnyāgaraṃ vṛkṣamūlam araṇyam atha vā guhām ajñātacaryāṃ gatvānyāṃ tato 'nyatraiva saṃviśet 14 anurodha virodhābhyāṃ samaḥ syād acalo dhruvaḥ sukṛtaṃ duṣkṛtaṃ cobhe nānurudhyeta karmaṇi 15 vāco vegaṃ manasaḥ krodhavegaṃ; vivitsā vegam udaropastha vegam etān vegān vinayed vai tapasvī; nindā cāsya hṛdayaṃ nopahanyāt 16 madhyastha eva tiṣṭheta praśaṃsā nindayoḥ samaḥ etat pavitraṃ paramaṃ parivrājaka āśrame 17 mahātmā suvrato dāntaḥ sarvatraivānapāśritaḥ apūrva cārakaḥ saumyo aniketaḥ samāhitaḥ 18 vāna prasthagṛhasthābhyāṃ na saṃsṛjyeta karhi cit ajñātalipsāṃ lipseta na cainaṃ harṣa āviśet 19 vijānatāṃ mokṣa eṣa śramaḥ syād avijānatām mokṣayānam idaṃ kṛtsnaṃ viduṣāṃ hārito 'bravīt 20 abhayaṃ sarvabhūtebhyo dattvā yaḥ pravrajed gṛhāt lokās tejomayās tasya tathānantyāya kalpate |
The Mahabharata in Sanskrit
Book 12
Chapter 270
|
1
[य] धन्या धन्या इति जनाः सर्वे ऽसमान परवदन्त्य उत न दुःखिततरः कश चित पुमान अस्माभिर अस्ति ह 2 लॊकसंभावितैर दुःखं यत पराप्तं कुरुसत्तम पराप्य जातिं मनुष्येषु देवैर अपि पितामह 3 कदा वयं करिष्यामः संन्यासं दुःखसंज्ञकम दुःखम एतच छरीराणां धारणं कुरुसत्तम 4 विमुक्ताः सप्तदशभिर हेतुभूतैश च पञ्चभिः इन्द्रियार्थैर गुणैश चैव अस्ताभिः परपितामह 5 न गच्छन्ति पुनर्भावं मुनयः संशितव्रताः कदा वयं भविष्यामॊ राज्यं हित्वा परंतप 6 [भी] नास्त्य अनन्तं महाराज सर्वं संख्यान गॊचरम पुनर्भावॊ ऽपि संख्यातॊ नास्ति किं चिद इहाचलम 7 न चापि गम्यते राजन नैष दॊषः परसङ्गतः उद्यॊगाद एव धर्मज्ञ कालेनैव गमिष्यथ 8 ईशॊ ऽयं सततं देही नृपते पुण्यपापयॊः तत एव समुत्थेन तमसा रुध्यते ऽपि च 9 यथाञ्जन मयॊ वायुः पुनर मानः शिलं रजः अनुप्रविश्य तद्वर्णॊ दृश्यते रञ्जयन दिशः 10 तथा कर्मफलैर देही रञ्जितस तमसावृतः विवर्णॊ वर्मम आश्रित्य देहेषु परिवर्तते 11 जञानेन हि यदा जन्तुर अज्ञानप्रभवं तमः वयपॊहति तदा बरह्म परकाशेत सनातनम 12 अयत्न साध्यं मुनयॊ वदन्ति; ये चापि मुक्तास त उपासितव्याः तवया च लॊकेन च सामरेण; तस्मान न शाम्यन्ति महर्षिसंघाः 13 अस्मिन्न अर्थे पुरा गीतं शृणुष्वैक मना नृप यथा दैत्येन वृत्रेण भरष्टैश्वर्येण चेष्टितम 14 निर्जितेनासहायेन हृतराज्येन भारत अशॊचता शत्रुमध्ये बुद्धिम आस्थाय केवलाम 15 भरष्टैश्वर्यं पुरा वृत्रम उशना वाक्यम अब्रवीत कच चित पराजितस्याद्य न वयथा ते ऽसति दानव 16 [वृत्र] सत्येन तपसा चैव विदित्वा संक्षयं हय अहम न शॊचामि न हृष्यामि भूतानाम आगतिं गतिम 17 कालसंचॊदिता जीवा मज्जन्ति नरके ऽवशाः परिदृष्टानि सर्वाणि दिव्यान्य आहुर मनीषिणः 18 कषपयित्वा तु तं कालं गणितं कालचॊदिताः सावशेषेण कालेन संभवन्ति पुनः पुनः 19 तिर्यग्यॊनिसहस्राणि गत्वा नरकम एव च निर्गच्छन्त्य अवशा जीवाः कालबन्धन बन्धनाः 20 एवं संसरमाणानि जीवान्य अहम अदृष्टवान यथा कर्म तथा लाभ इति शास्त्रनिदर्शनम 21 तिर्यग गच्छन्ति नरकं मानुष्यं दैवम एव च सुखदुःखे परियद्वेष्ये चरित्वा पूर्वम एव च 22 कृतान्तविधिसंयुक्तं सर्वलॊकः परपद्यते गतं गच्छन्ति चाध्वानं सर्वभूतानि सर्वदा 23 [भी] कालसंख्यान संख्यातं सृष्टि सथिति परायनम तं भासमानं भगवान उशनाः परत्यभासत भीमान दुष्टप्रलापांस तवं तात कस्मात परभाससे 24 [वृत्र] परत्यक्षम एतद भवतस तथान्येषां मनीसिनाम मया यज जय लुब्धेन पुरा तप्तं महत तपः 25 गन्धान आदाय भूतानां रसांश च विविधान अपि अवर्धं तरीन समाक्रम्य लॊकान वै सवेन तेजसा 26 जवालामाला परिक्षिप्तॊ वैहायसचरस तथा अजेयः सर्वभूतानाम आसं नित्यम अपेतभीः 27 ऐश्वर्यं तपसा पराप्तं भरष्टं तच च सवकर्मभिः धृतिम आस्थाय भगवन न शॊचामि ततस तव अहम 28 युयुत्सता महेन्द्रेण पुरा सार्धं महात्मना ततॊ मे भगवान दृष्टॊ हरिर नारायणः परभुः 29 वैकुण्ठः पुरुषॊ विष्णुः शुक्लॊ ऽनन्तः सनातनः मुञ्जकेशॊ हरिश्मश्रुः सर्वभूतपितामहः 30 नूनं तु तस्य तपसः सावशेषं ममास्ति वै यद अहं परस्तुम इच्छामि भवन्तं कर्मणः फलम 31 ऐश्वर्यं वै महद बरह्मन कस्मिन वर्णे परतिष्ठितम निवर्तते चापि पुनः कथम ऐश्वर्यम उत्तमम 32 कस्माद भूतानि जीवन्ति परवर्तन्ते ऽथ वा पुनः किं वा फलं परं पराप्य जीवस तिष्ठति शाश्वतः 33 केन वा कर्मणा शक्यम अथ जञानेन केन वा बरह्मर्षे तत फलं पराप्तुं तन मे वयाख्यातुम अर्हसि 34 इतीदम उक्तः स मुनिस तदानीं; परत्याह यत तच छृणु राजसिंह मयॊच्यमानं पुरुषर्षभ तवम; अनन्यचित्तः सह सॊदरीयैः |
1
[y] dhanyā dhanyā iti janāḥ sarve 'smān pravadanty uta na duḥkhitataraḥ kaś cit pumān asmābhir asti ha 2 lokasaṃbhāvitair duḥkhaṃ yat prāptaṃ kurusattama prāpya jātiṃ manuṣyeṣu devair api pitāmaha 3 kadā vayaṃ kariṣyāmaḥ saṃnyāsaṃ duḥkhasaṃjñakam duḥkham etac charīrāṇāṃ dhāraṇaṃ kurusattama 4 vimuktāḥ saptadaśabhir hetubhūtaiś ca pañcabhiḥ indriyārthair guṇaiś caiva astābhiḥ prapitāmaha 5 na gacchanti punarbhāvaṃ munayaḥ saṃśitavratāḥ kadā vayaṃ bhaviṣyāmo rājyaṃ hitvā paraṃtapa 6 [bhī] nāsty anantaṃ mahārāja sarvaṃ saṃkhyāna gocaram punarbhāvo 'pi saṃkhyāto nāsti kiṃ cid ihācalam 7 na cāpi gamyate rājan naiṣa doṣaḥ prasaṅgataḥ udyogād eva dharmajña kālenaiva gamiṣyatha 8 īśo 'yaṃ satataṃ dehī nṛpate puṇyapāpayoḥ tata eva samutthena tamasā rudhyate 'pi ca 9 yathāñjana mayo vāyuḥ punar mānaḥ śilaṃ rajaḥ anupraviśya tadvarṇo dṛśyate rañjayan diśaḥ 10 tathā karmaphalair dehī rañjitas tamasāvṛtaḥ vivarṇo varmam āśritya deheṣu parivartate 11 jñānena hi yadā jantur ajñānaprabhavaṃ tamaḥ vyapohati tadā brahma prakāśeta sanātanam 12 ayatna sādhyaṃ munayo vadanti; ye cāpi muktās ta upāsitavyāḥ tvayā ca lokena ca sāmareṇa; tasmān na śāmyanti maharṣisaṃghāḥ 13 asminn arthe purā gītaṃ śṛṇuṣvaika manā nṛpa yathā daityena vṛtreṇa bhraṣṭaiśvaryeṇa ceṣṭitam 14 nirjitenāsahāyena hṛtarājyena bhārata aśocatā śatrumadhye buddhim āsthāya kevalām 15 bhraṣṭaiśvaryaṃ purā vṛtram uśanā vākyam abravīt kac cit parājitasyādya na vyathā te 'sti dānava 16 [vṛtra] satyena tapasā caiva viditvā saṃkṣayaṃ hy aham na śocāmi na hṛṣyāmi bhūtānām āgatiṃ gatim 17 kālasaṃcoditā jīvā majjanti narake 'vaśāḥ paridṛṣṭāni sarvāṇi divyāny āhur manīṣiṇaḥ 18 kṣapayitvā tu taṃ kālaṃ gaṇitaṃ kālacoditāḥ sāvaśeṣeṇa kālena saṃbhavanti punaḥ punaḥ 19 tiryagyonisahasrāṇi gatvā narakam eva ca nirgacchanty avaśā jīvāḥ kālabandhana bandhanāḥ 20 evaṃ saṃsaramāṇāni jīvāny aham adṛṣṭavān yathā karma tathā lābha iti śāstranidarśanam 21 tiryag gacchanti narakaṃ mānuṣyaṃ daivam eva ca sukhaduḥkhe priyadveṣye caritvā pūrvam eva ca 22 kṛtāntavidhisaṃyuktaṃ sarvalokaḥ prapadyate gataṃ gacchanti cādhvānaṃ sarvabhūtāni sarvadā 23 [bhī] kālasaṃkhyāna saṃkhyātaṃ sṛṣṭi sthiti parāyanam taṃ bhāsamānaṃ bhagavān uśanāḥ pratyabhāsata bhīmān duṣṭapralāpāṃs tvaṃ tāta kasmāt prabhāsase 24 [vṛtra] pratyakṣam etad bhavatas tathānyeṣāṃ manīsinām mayā yaj jaya lubdhena purā taptaṃ mahat tapaḥ 25 gandhān ādāya bhūtānāṃ rasāṃś ca vividhān api avardhaṃ trīn samākramya lokān vai svena tejasā 26 jvālāmālā parikṣipto vaihāyasacaras tathā ajeyaḥ sarvabhūtānām āsaṃ nityam apetabhīḥ 27 aiśvaryaṃ tapasā prāptaṃ bhraṣṭaṃ tac ca svakarmabhiḥ dhṛtim āsthāya bhagavan na śocāmi tatas tv aham 28 yuyutsatā mahendreṇa purā sārdhaṃ mahātmanā tato me bhagavān dṛṣṭo harir nārāyaṇaḥ prabhuḥ 29 vaikuṇṭhaḥ puruṣo viṣṇuḥ śuklo 'nantaḥ sanātanaḥ muñjakeśo hariśmaśruḥ sarvabhūtapitāmahaḥ 30 nūnaṃ tu tasya tapasaḥ sāvaśeṣaṃ mamāsti vai yad ahaṃ prastum icchāmi bhavantaṃ karmaṇaḥ phalam 31 aiśvaryaṃ vai mahad brahman kasmin varṇe pratiṣṭhitam nivartate cāpi punaḥ katham aiśvaryam uttamam 32 kasmād bhūtāni jīvanti pravartante 'tha vā punaḥ kiṃ vā phalaṃ paraṃ prāpya jīvas tiṣṭhati śāśvataḥ 33 kena vā karmaṇā śakyam atha jñānena kena vā brahmarṣe tat phalaṃ prāptuṃ tan me vyākhyātum arhasi 34 itīdam uktaḥ sa munis tadānīṃ; pratyāha yat tac chṛṇu rājasiṃha mayocyamānaṃ puruṣarṣabha tvam; ananyacittaḥ saha sodarīyaiḥ |
The Mahabharata in Sanskrit
Book 12
Chapter 271
|
1
[उषनस] नमस तस्मै भगवते देवाय परभविष्णवे यस्य पृथ्वी तलं तात साकाशं बाहुगॊचरम 2 मूर्धा यस्य तव अनन्तं च सथानं दानव सत्तम तस्याहं ते परवक्ष्यामि विष्णॊर माहात्म्यम उत्तमम 3 [भी] तयॊः संवदतॊर एवम आजगाम महामुनिः सनत्कुमारॊ धर्मात्मा संशय छेदनाय वै 4 स पूजितॊ ऽसुरेन्द्रेण मुनिनॊशनसा तथा निषसादासने राजन महार्हे मुनिपुंगवः 5 तम आसीनं महाप्राज्ञम उशना वाक्यम अब्रवीत बरूह्य अस्मै दानवेन्द्राय विन्सॊर माहात्म्यम उत्तमम 6 सनत्कुमारस तु ततः शरुत्वा पराह वचॊ ऽरथवत विष्णॊर माहात्म्य संयुक्तं दानवेन्द्राय धीमते 7 शृणु सर्वम इदं दैत्य विन्सॊर माहात्म्यम उत्तमम विष्णौ जगत सथितं सर्वम इति विद्धि परंतप 8 सृजत्य एष महाबाहॊ भूतग्रामं चराचरम एष चाक्षिपते काले काले विसृजते पुनः अस्मिन गच्छन्ति विलयम अस्माच च परभवन्त्य उत 9 नैष दानवता शक्यस तपसा नैव चेज्यया संप्राप्तुम इन्द्रियाणां तु संयमेनैव शक्यते 10 बाह्ये चाभ्यन्तरे चैव कर्मणा मनसि सथितः निर्मली कुरुते बुद्ध्या सॊ ऽमुत्रानन्त्यम अश्नुते 11 यथा हिरण्यकर्ता वै रूप्यम अग्नौ विशॊधयेत बहुशॊ ऽतिप्रयत्नेन महतात्म कृतेन ह 12 तद्वज जातिशतैर जीवः शुध्यते ऽलपेन कर्मणा यत्नेन महता चैवाप्य एकजातौ विशुध्यते 13 लीलयाल्पं यथा गात्रात परमृज्याद आत्मनॊ रजः बहु यत्नेन महता दॊषनिर्हरनं तथा 14 यथा चाल्पेन माल्येन वासितं तिलसर्षपम न मुञ्चति सवकं गन्धं तद्वत सूक्ष्मस्य दर्शनम 15 तद एव बहुभिर माल्यैर वास्यमानं पुनः पुनः विमुञ्चति सवकं गन्धं माल्यगन्धे ऽवतिष्ठति 16 एवं जातिशतैर युक्तॊ गुणैर एव परसङ्गिषु बुद्ध्या निवर्तते दॊषॊ यत्नेनाभ्यासजेन वै 17 कर्मणा सवेन रक्तानि विरक्तानि च दानव यथा कर्मविशेषांश च पराप्नुवन्ति तथा शृणु 18 यथा च संप्रवर्तन्ते यस्मिंस तिष्ठन्ति वा विभॊ तत ते ऽनुपूर्व्या वयाख्यास्ये तद इहैकमनाः शृणु 19 अनादि निधनं शरीमान हरिर नारायणः परभुः स वै सृजति भूतानि सथावराणि चराणि च 20 एष सर्वेषु भूतेषु कषरश चाक्षर एव च एकादश विकारात्मा जगत पिबति रश्मिभिः 21 पादौ तस्य महीं विद्धि मूर्धानं दिवम एव च बाहवस तु दिशॊ दैत्य शरॊत्रम आकाशम एव च 22 तस्य तेजॊमयः सूर्यॊ मनश चन्द्रमसि सथितम बुद्धिर जञानगता नित्यं रसस तवाप्सु परवर्तते 23 भरुवॊर अनन्तरास तस्य गरहा दानव सत्तम नक्षत्रचक्रं नेत्राभ्यां पादयॊर भूश च दानव 24 रजस तमश च सत्त्वं च विद्धि नारायणात्मकम सॊ ऽऽशरमाणां मुखं तात कर्मणस तत फलं विदुः 25 अकर्मणः फलं चैव स एव परम अव्ययः छन्दांसि तस्य रॊमाणि अक्षरं च सरस्वती 26 बह्व आश्रयॊ बहु मुखॊ धर्मॊ हृदि समाश्रितः स बरह्म परमॊ धर्मस तपश च सद असच च सः 27 शरुतिशास्त्रग्रहॊपेतः षॊडशर्त्विक्क्रतुश च सः पितामहश च विष्णुश च सॊ ऽशविनौ स पुरंदरः 28 मित्रश च वरुणश चैव यमॊ ऽथ धनदस तथा ते पृथग दर्शनास तस्य संविदन्ति तथैकताम एकस्य विद्धि देवस्य सर्वं जगद इदं वशे 29 नाना भूतस्य दैत्येन्द्र तस्यैकत्वं वदत्य अयम जन्तुः पश्यति जञानेन ततः सत्त्वं परकाशते 30 संहार विक्षेपसहस्रकॊतीस; तिष्ठन्ति जीवाः परचरन्ति चान्ये परजा विसर्गस्य च पारिमाण्यं; वापी सहस्राणि बहूनि दैत्य 31 वाप्यः पुनर यॊजनविस्तृतास ताः; करॊशं च गम्भीरतयावगाधाः आयामतः पञ्चशताश च सर्वाः; परत्येकशॊ यॊजनतः परवृत्थाः 32 वाप्या जलं कषिप्यति वालकॊत्या; तव अह्ना सकृच चाप्य अथ न दवितीयम तासां कषये विद्धि कृतं विसर्गं; संहारम एकं च तथा परजानाम 33 सॊ जीव वर्गाः परमं परमाणं; कृष्णॊ धूम्रॊ नीलम अथास्य मध्यम रक्तं पुनः सह्यतरं सुखं तु; हारिद्र वर्णं सुसुखं च शुक्लम 34 परं तु शुक्लं विमलं विशॊकं; गतक्लमं सिध्यति दानवेन्द्र गत्वा तु यॊनिप्रभवानि दैत्य; सहस्रशः सिद्धिम उपैति जीवः 35 गतिं च यां दर्शनम आह देवॊ; गत्वा शुभं दर्शनम एव चाह गतिः पुनर वर्णकृता परजानां; वर्णस तथा कालकृतॊ ऽसुरेन्द्र 36 शतं सहस्राणि चतुर्दशेह; परा गतिर जीव गुणस्य दैत्य आरॊहणं तत कृतम एव विद्धि; सथानं तथा निःसरणं च तेषाम 37 कृष्णस्य वर्णस्य गतिर निकृष्टा; स मज्जते नरके पच्यमानः सथानं तथा दुर्गतिभिस तु तस्य; परजा विसर्गान सुबहून वदन्ति 38 शतं सहस्राणि ततश चरित्वा; पराप्नॊति वर्णं हरितं तु पश्चात स चैव तस्मिन निवसत्य अनीशॊ; युगक्षये तमसा संवृतात्मा 39 स वै यदा सत्त्वगुणेन युक्तस; तमॊ वयपॊहन घतते सवबुद्ध्या स लॊहितं वर्णम उपैति नीलॊ; मनुष्यलॊके परिवर्तते च 40 स तत्र संहार विसर्गम एव; सवकर्मजैर बन्धनैः कलिश्यमानः ततः स हारिद्रम उपैति वर्णं; संहार विक्षेपशते वयतीते 41 हारिद्र वर्णस तु परजा विसर्गान; सहस्रशस तिष्ठति संचरन वै अविप्रमुक्तॊ निरये च दैत्य; ततः सहस्राणि दशापरानि 42 गतीः सहस्राणि च पञ्च तस्य; चत्वारि संवर्तकृतानि चैव विमुक्तम एनं निरयाच च विद्धि; सर्वेषु चान्येषु च संभवेषु 43 स देवलॊके विहरत्य अभीक्ष्णं; ततश चयुतॊ मानुषताम उपैति संहार विक्षेपशतानि चाष्टौ; मर्त्येषु तिष्ठन्न अमृतत्वम एति 44 सॊ ऽसमाद अथ भरश्यति कालयॊगात; कृष्णे तले तिष्ठति सर्वकस्ते यथा तव अयं सिध्यति जीवलॊकस; तत ते ऽभिधास्याम्य असुरप्रवीर 45 दैवानि स वयूह शतानि सप्त; रक्तॊ हरिद्रॊ ऽथ तथैव शुक्लः संश्रित्य संधावति शुक्लम एतम; अस्तापरान अर्च्यतमान स लॊकान 46 अष्टौ च षष्टिं च शतानि यानि; मनॊ विरुद्धानि महाद्युतीनाम शुक्लस्य वर्णस्य परा गतिर या; तरीण्य एव रुद्धानि महानुभाव 47 संहार विक्षेपम अनिष्टम एकं; चत्वारि चान्यानि वसत्य अनीशः सस्थस्य वर्णस्य परा गतिर या; सिद्धा विशिष्टस्य गतक्लमस्य 48 सप्तॊत्तरं तेषु वसत्य अनीशः; संहार विक्षेपशतं सशेषम तस्माद उपावृत्य मनुष्यलॊके; ततॊ महान मानुषताम उपैति 49 तस्माद उपावृत्य ततः करमेण; सॊ ऽगरे सम संतिष्ठति भूतसर्गम स सप्तकृत्वश च परैति लॊकान; संहार विक्षेपकृतप्रवासः 50 सप्तैव संहारम उपप्लवानि; संभाव्य संतिष्ठति सिद्धलॊके ततॊ ऽवययं सथानम अनन्तम एति; देवस्य विष्णॊर अथ बरह्मणश च शेषस्य चैवाथ नरस्य चैव; देवस्य विष्णॊः परमस्य चैव 51 संहार काले परिदग्ध काया; बरह्माणम आयान्ति सदा परजा हि चेष्टात्मनॊ देवगणाश च सर्वे; ये बरह्मलॊकाद अमराः सम ते ऽपि 52 परजा विसर्गं तु सशेषकालं; सथानानि सवान्य एव सरन्ति जीवाः निःशेषाणां तत पदं यान्ति चान्ते; सर्वापदा ये सदृशा मनुष्याः 53 ये तु चयुताः सिद्धलॊकात करमेण; तेषां गतिं यान्ति तथानुपूर्व्या जीवाः परे तद बलवेषरूपा; विधिं सवकं यान्ति विपर्ययेन 54 स यावद एवास्ति सशेषभुक्ते; परजाश च देवौ च तथैव शुक्ले तावत तदा तेषु विशुद्धभावः; संयम्य पञ्चेन्द्रिय रूपम एतत 55 शुद्धां गतिं तां परमां परैति; शुद्धेन नित्यं मनसा विचिन्वन ततॊ ऽवययं सथानुम उपैति बरह्म; दुष्प्रापम अभ्येति स शाश्वतं वै इत्य एतद आख्यातम अहीनसत्त्व; नारायणस्येह बलं मया ते 56 [वृत्र] एवंगते मे न विषादॊ ऽसति कश चित; सम्यक च पश्यामि वचस तवैतत शरुत्वा च ते वाचम अदीनसत्त्व; विकल्मषॊ ऽसम्य अद्य तथा विपाप्मा 57 परवृत्तम एतद भगवन महर्षे; महाद्युतेश चक्रम अनन्व वीर्यम विष्णॊर अनन्तस्य सनातनं तत; सथानं सर्गा यत्र सर्वे परवृत्ताः स वै महात्मा पुरुषॊत्तमॊ वै; तस्मिञ जगत सर्वम इदं परतिष्ठितम 58 [भी] एवम उक्त्वा स कौन्तेय वृत्रः परानान अवासृजत यॊजयित्वा तथात्मानं परं सथानम अवाप्तवान 59 [य] अयं स भगवान देवः पितामह जनार्दनः सनत्कुमारॊ वृत्राय यत तद आख्यातवान पुरा 60 [भी] मूलस्थायी स भगवान सवेनानन्तेन तेजसा तत्स्थः सृजति तान भावान नानारूपान महातपः 61 तुरीयार्धेन तस्येमं विद्धि केशवम अच्युतम तुरीयार्धेन लॊकांस तरीन भावयत्य एष बुद्धिमान 62 अर्वाक सथितस तु यः सथायी कल्पान्ते परिवर्तते स शेते भगवान अप्सु यॊ ऽसाव अतिबलः परभुः तान विधाता परसन्नात्मा लॊकांश चरति शाश्वतान 63 सर्वाण्य अशून्यानि करॊत्य अनन्तः; सनत्कुमारः संचरते च लॊकान स चानिरुद्धः सृजते महात्मा; तत्स्थं जगत सर्वम इदं विचित्रम 64 [य] वृत्रेण परमार्थज्ञ दृष्टा मन्ये ऽऽतमनॊ गतिः शुभा तस्मात स सुखितॊ न शॊचति पितामह 65 शुक्लः शुक्लाभिजातीयः साध्यॊ नावर्तते ऽनघ तिर्यग्गतेश च निर्मुक्तॊ निरयाच च पितामह 66 हारिद्र वर्णे रक्ते वा वर्तमानस तु पार्थिव तिर्यग एवानुपश्येत कर्मभिस तामसैर वृतः 67 वयं तु भृशम आपन्ना रक्ताः कस्त मुखे ऽसुखे कां गतिं परतिपत्स्यामॊ नीलां कृष्णाधमाम अथ 68 [भी] शुद्धाभिजनसंपन्नाः पाण्डवाः संशितव्रताः विहृत्य देवलॊकेषु पुनर मानुष्यम एष्यथ 69 परजा विसर्गं च सुखेन काले; परत्येत्य देवेषु सुखानि भुक्त्वा सुखेन संयास्यथ सिद्धसंख्यां; मा वॊ भयं भूद विमलाः सथ सर्वे |
1
[uṣanas] namas tasmai bhagavate devāya prabhaviṣṇave yasya pṛthvī talaṃ tāta sākāśaṃ bāhugocaram 2 mūrdhā yasya tv anantaṃ ca sthānaṃ dānava sattama tasyāhaṃ te pravakṣyāmi viṣṇor māhātmyam uttamam 3 [bhī] tayoḥ saṃvadator evam ājagāma mahāmuniḥ sanatkumāro dharmātmā saṃśaya chedanāya vai 4 sa pūjito 'surendreṇa muninośanasā tathā niṣasādāsane rājan mahārhe munipuṃgavaḥ 5 tam āsīnaṃ mahāprājñam uśanā vākyam abravīt brūhy asmai dānavendrāya vinsor māhātmyam uttamam 6 sanatkumāras tu tataḥ śrutvā prāha vaco 'rthavat viṣṇor māhātmya saṃyuktaṃ dānavendrāya dhīmate 7 śṛṇu sarvam idaṃ daitya vinsor māhātmyam uttamam viṣṇau jagat sthitaṃ sarvam iti viddhi paraṃtapa 8 sṛjaty eṣa mahābāho bhūtagrāmaṃ carācaram eṣa cākṣipate kāle kāle visṛjate punaḥ asmin gacchanti vilayam asmāc ca prabhavanty uta 9 naiṣa dānavatā śakyas tapasā naiva cejyayā saṃprāptum indriyāṇāṃ tu saṃyamenaiva śakyate 10 bāhye cābhyantare caiva karmaṇā manasi sthitaḥ nirmalī kurute buddhyā so 'mutrānantyam aśnute 11 yathā hiraṇyakartā vai rūpyam agnau viśodhayet bahuśo 'tiprayatnena mahatātma kṛtena ha 12 tadvaj jātiśatair jīvaḥ śudhyate 'lpena karmaṇā yatnena mahatā caivāpy ekajātau viśudhyate 13 līlayālpaṃ yathā gātrāt pramṛjyād ātmano rajaḥ bahu yatnena mahatā doṣanirharanaṃ tathā 14 yathā cālpena mālyena vāsitaṃ tilasarṣapam na muñcati svakaṃ gandhaṃ tadvat sūkṣmasya darśanam 15 tad eva bahubhir mālyair vāsyamānaṃ punaḥ punaḥ vimuñcati svakaṃ gandhaṃ mālyagandhe 'vatiṣṭhati 16 evaṃ jātiśatair yukto guṇair eva prasaṅgiṣu buddhyā nivartate doṣo yatnenābhyāsajena vai 17 karmaṇā svena raktāni viraktāni ca dānava yathā karmaviśeṣāṃś ca prāpnuvanti tathā śṛṇu 18 yathā ca saṃpravartante yasmiṃs tiṣṭhanti vā vibho tat te 'nupūrvyā vyākhyāsye tad ihaikamanāḥ śṛṇu 19 anādi nidhanaṃ śrīmān harir nārāyaṇaḥ prabhuḥ sa vai sṛjati bhūtāni sthāvarāṇi carāṇi ca 20 eṣa sarveṣu bhūteṣu kṣaraś cākṣara eva ca ekādaśa vikārātmā jagat pibati raśmibhiḥ 21 pādau tasya mahīṃ viddhi mūrdhānaṃ divam eva ca bāhavas tu diśo daitya śrotram ākāśam eva ca 22 tasya tejomayaḥ sūryo manaś candramasi sthitam buddhir jñānagatā nityaṃ rasas tvāpsu pravartate 23 bhruvor anantarās tasya grahā dānava sattama nakṣatracakraṃ netrābhyāṃ pādayor bhūś ca dānava 24 rajas tamaś ca sattvaṃ ca viddhi nārāyaṇātmakam so ''śramāṇāṃ mukhaṃ tāta karmaṇas tat phalaṃ viduḥ 25 akarmaṇaḥ phalaṃ caiva sa eva param avyayaḥ chandāṃsi tasya romāṇi akṣaraṃ ca sarasvatī 26 bahv āśrayo bahu mukho dharmo hṛdi samāśritaḥ sa brahma paramo dharmas tapaś ca sad asac ca saḥ 27 śrutiśāstragrahopetaḥ ṣoḍaśartvikkratuś ca saḥ pitāmahaś ca viṣṇuś ca so 'śvinau sa puraṃdaraḥ 28 mitraś ca varuṇaś caiva yamo 'tha dhanadas tathā te pṛthag darśanās tasya saṃvidanti tathaikatām ekasya viddhi devasya sarvaṃ jagad idaṃ vaśe 29 nānā bhūtasya daityendra tasyaikatvaṃ vadaty ayam jantuḥ paśyati jñānena tataḥ sattvaṃ prakāśate 30 saṃhāra vikṣepasahasrakotīs; tiṣṭhanti jīvāḥ pracaranti cānye prajā visargasya ca pārimāṇyaṃ; vāpī sahasrāṇi bahūni daitya 31 vāpyaḥ punar yojanavistṛtās tāḥ; krośaṃ ca gambhīratayāvagādhāḥ āyāmataḥ pañcaśatāś ca sarvāḥ; pratyekaśo yojanataḥ pravṛtthāḥ 32 vāpyā jalaṃ kṣipyati vālakotyā; tv ahnā sakṛc cāpy atha na dvitīyam tāsāṃ kṣaye viddhi kṛtaṃ visargaṃ; saṃhāram ekaṃ ca tathā prajānām 33 so jīva vargāḥ paramaṃ pramāṇaṃ; kṛṣṇo dhūmro nīlam athāsya madhyam raktaṃ punaḥ sahyataraṃ sukhaṃ tu; hāridra varṇaṃ susukhaṃ ca śuklam 34 paraṃ tu śuklaṃ vimalaṃ viśokaṃ; gataklamaṃ sidhyati dānavendra gatvā tu yoniprabhavāni daitya; sahasraśaḥ siddhim upaiti jīvaḥ 35 gatiṃ ca yāṃ darśanam āha devo; gatvā śubhaṃ darśanam eva cāha gatiḥ punar varṇakṛtā prajānāṃ; varṇas tathā kālakṛto 'surendra 36 śataṃ sahasrāṇi caturdaśeha; parā gatir jīva guṇasya daitya ārohaṇaṃ tat kṛtam eva viddhi; sthānaṃ tathā niḥsaraṇaṃ ca teṣām 37 kṛṣṇasya varṇasya gatir nikṛṣṭā; sa majjate narake pacyamānaḥ sthānaṃ tathā durgatibhis tu tasya; prajā visargān subahūn vadanti 38 śataṃ sahasrāṇi tataś caritvā; prāpnoti varṇaṃ haritaṃ tu paścāt sa caiva tasmin nivasaty anīśo; yugakṣaye tamasā saṃvṛtātmā 39 sa vai yadā sattvaguṇena yuktas; tamo vyapohan ghatate svabuddhyā sa lohitaṃ varṇam upaiti nīlo; manuṣyaloke parivartate ca 40 sa tatra saṃhāra visargam eva; svakarmajair bandhanaiḥ kliśyamānaḥ tataḥ sa hāridram upaiti varṇaṃ; saṃhāra vikṣepaśate vyatīte 41 hāridra varṇas tu prajā visargān; sahasraśas tiṣṭhati saṃcaran vai avipramukto niraye ca daitya; tataḥ sahasrāṇi daśāparāni 42 gatīḥ sahasrāṇi ca pañca tasya; catvāri saṃvartakṛtāni caiva vimuktam enaṃ nirayāc ca viddhi; sarveṣu cānyeṣu ca saṃbhaveṣu 43 sa devaloke viharaty abhīkṣṇaṃ; tataś cyuto mānuṣatām upaiti saṃhāra vikṣepaśatāni cāṣṭau; martyeṣu tiṣṭhann amṛtatvam eti 44 so 'smād atha bhraśyati kālayogāt; kṛṣṇe tale tiṣṭhati sarvakaste yathā tv ayaṃ sidhyati jīvalokas; tat te 'bhidhāsyāmy asurapravīra 45 daivāni sa vyūha śatāni sapta; rakto haridro 'tha tathaiva śuklaḥ saṃśritya saṃdhāvati śuklam etam; astāparān arcyatamān sa lokān 46 aṣṭau ca ṣaṣṭiṃ ca śatāni yāni; mano viruddhāni mahādyutīnām śuklasya varṇasya parā gatir yā; trīṇy eva ruddhāni mahānubhāva 47 saṃhāra vikṣepam aniṣṭam ekaṃ; catvāri cānyāni vasaty anīśaḥ sasthasya varṇasya parā gatir yā; siddhā viśiṣṭasya gataklamasya 48 saptottaraṃ teṣu vasaty anīśaḥ; saṃhāra vikṣepaśataṃ saśeṣam tasmād upāvṛtya manuṣyaloke; tato mahān mānuṣatām upaiti 49 tasmād upāvṛtya tataḥ krameṇa; so 'gre sma saṃtiṣṭhati bhūtasargam sa saptakṛtvaś ca paraiti lokān; saṃhāra vikṣepakṛtapravāsaḥ 50 saptaiva saṃhāram upaplavāni; saṃbhāvya saṃtiṣṭhati siddhaloke tato 'vyayaṃ sthānam anantam eti; devasya viṣṇor atha brahmaṇaś ca śeṣasya caivātha narasya caiva; devasya viṣṇoḥ paramasya caiva 51 saṃhāra kāle paridagdha kāyā; brahmāṇam āyānti sadā prajā hi ceṣṭātmano devagaṇāś ca sarve; ye brahmalokād amarāḥ sma te 'pi 52 prajā visargaṃ tu saśeṣakālaṃ; sthānāni svāny eva saranti jīvāḥ niḥśeṣāṇāṃ tat padaṃ yānti cānte; sarvāpadā ye sadṛśā manuṣyāḥ 53 ye tu cyutāḥ siddhalokāt krameṇa; teṣāṃ gatiṃ yānti tathānupūrvyā jīvāḥ pare tad balaveṣarūpā; vidhiṃ svakaṃ yānti viparyayena 54 sa yāvad evāsti saśeṣabhukte; prajāś ca devau ca tathaiva śukle tāvat tadā teṣu viśuddhabhāvaḥ; saṃyamya pañcendriya rūpam etat 55 śuddhāṃ gatiṃ tāṃ paramāṃ paraiti; śuddhena nityaṃ manasā vicinvan tato 'vyayaṃ sthānum upaiti brahma; duṣprāpam abhyeti sa śāśvataṃ vai ity etad ākhyātam ahīnasattva; nārāyaṇasyeha balaṃ mayā te 56 [vṛtra] evaṃgate me na viṣādo 'sti kaś cit; samyak ca paśyāmi vacas tavaitat śrutvā ca te vācam adīnasattva; vikalmaṣo 'smy adya tathā vipāpmā 57 pravṛttam etad bhagavan maharṣe; mahādyuteś cakram ananva vīryam viṣṇor anantasya sanātanaṃ tat; sthānaṃ sargā yatra sarve pravṛttāḥ sa vai mahātmā puruṣottamo vai; tasmiñ jagat sarvam idaṃ pratiṣṭhitam 58 [bhī] evam uktvā sa kaunteya vṛtraḥ prānān avāsṛjat yojayitvā tathātmānaṃ paraṃ sthānam avāptavān 59 [y] ayaṃ sa bhagavān devaḥ pitāmaha janārdanaḥ sanatkumāro vṛtrāya yat tad ākhyātavān purā 60 [bhī] mūlasthāyī sa bhagavān svenānantena tejasā tatsthaḥ sṛjati tān bhāvān nānārūpān mahātapaḥ 61 turīyārdhena tasyemaṃ viddhi keśavam acyutam turīyārdhena lokāṃs trīn bhāvayaty eṣa buddhimān 62 arvāk sthitas tu yaḥ sthāyī kalpānte parivartate sa śete bhagavān apsu yo 'sāv atibalaḥ prabhuḥ tān vidhātā prasannātmā lokāṃś carati śāśvatān 63 sarvāṇy aśūnyāni karoty anantaḥ; sanatkumāraḥ saṃcarate ca lokān sa cāniruddhaḥ sṛjate mahātmā; tatsthaṃ jagat sarvam idaṃ vicitram 64 [y] vṛtreṇa paramārthajña dṛṣṭā manye ''tmano gatiḥ śubhā tasmāt sa sukhito na śocati pitāmaha 65 śuklaḥ śuklābhijātīyaḥ sādhyo nāvartate 'nagha tiryaggateś ca nirmukto nirayāc ca pitāmaha 66 hāridra varṇe rakte vā vartamānas tu pārthiva tiryag evānupaśyeta karmabhis tāmasair vṛtaḥ 67 vayaṃ tu bhṛśam āpannā raktāḥ kasta mukhe 'sukhe kāṃ gatiṃ pratipatsyāmo nīlāṃ kṛṣṇādhamām atha 68 [bhī] śuddhābhijanasaṃpannāḥ pāṇḍavāḥ saṃśitavratāḥ vihṛtya devalokeṣu punar mānuṣyam eṣyatha 69 prajā visargaṃ ca sukhena kāle; pratyetya deveṣu sukhāni bhuktvā sukhena saṃyāsyatha siddhasaṃkhyāṃ; mā vo bhayaṃ bhūd vimalāḥ stha sarve |
The Mahabharata in Sanskrit
Book 12
Chapter 272
|
1
[य] अहॊ धर्मिष्ठता तात वृत्रस्यामिततेजसः यस्य विज्ञानम अतुलं विष्णॊर भक्तिश च तादृशी 2 दुर्विज्ञेयम इदं तात विष्णॊर अमिततेजसः कथं वा राजशार्दूल पदं तज्ज्ञातवान असौ 3 भवता कथितं हय एतच छरद्दधे चाहम अच्युत भूयस तु मे समुत्पन्ना बुद्धिर अव्यक्तदर्शनात 4 कथं विनिहतॊ वृत्रः शक्रेण भरतर्षभ धर्मिष्ठॊ विष्णुभक्तश च तत्त्वज्ञश च पदान्वये 5 एतन मे संशयं बरूहि पृच्छतॊ भरतर्षभ वृत्रस तु राजशार्दूल यथा शक्रेण निर्जितः 6 यथा चैवाभवद युद्धं तच चाचक्ष्व पितामह विस्तरेण महाबाहॊ परं कौतूहलं हि मे 7 [भी] रथेनेन्द्रः परयातॊ वै सार्धं सुरगणैः पुरा ददर्शाथाग्रतॊ वृत्रं विष्ठितं पर्वतॊपमम 8 यॊजनानां शतान्य ऊर्ध्वं पञ्चॊच्छ्रितम अरिंदम शतानि विस्तरेणाथ तरीण्य एवाभ्यधिकानि तु 9 तत परेक्ष्य तादृशं रूपं तरैलॊक्येनापि दुर्जयम वृत्रस्य देवाः संत्रस्ता न शान्तिम उपलेभिरे 10 शक्रस्य तु तदा राजन्न ऊरुस्तम्भॊ वयजायत भयाद वृत्रस्य सहसा दृष्ट्वा तद रूपम उत्तमम 11 ततॊ नादः समभवद वादित्राणां च निस्वनः देवासुराणां सर्वेषां तस्मिन युद्ध उपस्थिते 12 अथ वृत्रस्य कौरव्य दृष्ट्वा शक्रम उपस्थितम न संभ्रमॊ न भीः का चिद आस्था वा समजायत 13 ततः समभवद युद्धं तरैलॊक्यस्य भयंकरम शक्रस्य च सुरेन्द्रस्य वृत्रस्य च महात्मनः 14 असिभिः पत्तिशैः शूलैः शक्तितॊमरम उद्गरैः शिलाभिर विविधाभिश च कार्मुकैश च महास्वनैः 15 अस्त्रैश च विविधैर दिव्यैः पावकॊल्काभिर एव च देवासुरैस ततः सैन्यैः सर्वम आसीत समाकुलम 16 पितामहपुरॊगाश च सर्वे देवगणास तथा ऋषयश च महाभागास तद युद्धं दरष्टुम आगमन 17 विमानाग्र्यैर महाराज सिद्धाश च भरतर्षभ गन्धर्वाश च विमानाग्र्यैर अप्सरॊभिः समागमन 18 ततॊ ऽतरिक्षम आवृत्य वृत्रॊ धर्मभृतां वरः अश्मवर्षेण देवेन्द्रं पर्वतात समवाकिरत 19 ततॊ देवगणाः करुद्धाः सर्वतः शस्त्रवृष्टिभिः अश्मवर्षम अपॊहन्त वृत्रप्रेरितम आहवे 20 वृत्रश च कुरुशार्दूल महामायॊ महाबलः मॊहयाम आस देवेन्द्रं मायायुद्धेन सर्वतः 21 तस्य वृत्रार्दितस्याथ मॊह आसीच छतक्रतॊः रथंतरेण तं तत्र वसिष्ठः समबॊधयत 22 [वसिस्ठ] देवश्रेष्ठॊ ऽसि देवेन्द्र सुरारिविनिबर्हण तरैलॊक्यबलसंयुक्तः कस्माच छक्र विषीदसि 23 एष बरह्मा च विष्णुश च शिवश चैव जगत्प्रभुः सॊमश च भगवान देवः सर्वे च परमर्षयः 24 मा कार्षीः कश्मलं शक्र कश चिद एवेतरॊ यथा आर्यां युद्धे मतिं कृत्वा जहि शत्रुं सुरेश्वर 25 एष लॊकगुरुस तर्यक्षः सर्वलॊकनमस्कृतः निरीक्षते तवां भगवांस तयज मॊहं सुरेश्वर 26 एते बरह्मर्षयश चैव बृहस्पतिपुरॊगमाः सतवेन शक्र दिव्येन सतुवन्ति तवां जयाय वै 27 [भी] एवं संबॊध्यमानस्य वसिष्ठेन महात्मना अतीव वासवस्यासीद बलम उत्तमतेजसः 28 ततॊ बुद्धिम उपागम्य भगवान पाकशासनः यॊगेन महता युक्तस तां मायां वयपकर्षत 29 ततॊ ऽङगिरः सुतः शरीमांस ते चैव परमर्षयः दृष्ट्वा वृत्रस्य विक्रान्तम उपगम्य महेश्वरम ऊचुर वृत्र विनाशार्थं लॊकानां हितकाम्यया 30 ततॊ भगवतस तेजॊ जवरॊ भूत्वा जगत्पतेः समाविशन महारौद्रं वृत्रं दैत्यवरं तदा 31 विष्णुश च भगवान देवः सर्वलॊकाभिपूजितः ऐन्द्रं समाविशद वज्रं लॊकसंरक्षणे रतः 32 ततॊ बृहस्पतिर धीमान उपागम्य शतक्रतुम वसिष्ठश च महातेजाः सर्वे च परमर्षयः 33 ते समासाद्य वरदं वासवं लॊकपूजितम ऊचुर एकाग्रमनसॊ जहि वृत्रम इति परभॊ 34 [महेष्वर] एष वृत्रॊ महाञ शक्र बलेन महता वृतः विश्वात्मा सर्वगश चैव बहुमायश च विश्रुतः 35 तद एनम असुरश्रेष्ठं तरैलॊक्येनापि दुर्जयम जहि तवं यॊगम आस्थाय मावमंस्थाः सुरेश्वर 36 अनेन हि तपस्तप्तं बलार्थम अमराधिप षष्टिं वर्षसहस्राणि बरह्मा चास्मै वरं ददौ 37 महत्त्वं यॊगिनां चैव महामायत्वम एव च महाबलत्वं च तथा तेजश चाग्र्यं सुरेश्वर 38 एतद वै मामकं तेजः समाविशति वासव वृत्रम एनं तवम अप्य एवं जहि वज्रेण दानवम 39 [षक्र] भगवंस तवत्प्रसादेन दितिजं सुदुरासदम वज्रेण निहनिष्यामि पश्यतस ते सुरर्षभ 40 [भी] आविश्यमाने दैत्ये तु जवरेणाथ महासुरे देवतानाम ऋषीणां च हर्षान नादॊ महान अभूत 41 ततॊ दुन्दुभयश चैव शङ्खाश च सुमहास्वनाः मुरजा डिण्डिमाश चैव परावाद्यन्त सहस्रशः 42 असुराणां तु सर्वेषां समृतिलॊपॊ ऽभवन महान परज्ञानाशश च बलवान कषणेन समपद्यत 43 तम आविष्टम अथॊ जञात्वा ऋषयॊ देवतास तथा सतुवन्तः शक्रम ईशानं तथा पराचॊदयन्न अपि 44 रथस्थस्य हि शक्रस्य युद्धकाले महात्मनः ऋषिभिः सतूयमानस्य रूपम आसीत सुदुर्दृशम |
1
[y] aho dharmiṣṭhatā tāta vṛtrasyāmitatejasaḥ yasya vijñānam atulaṃ viṣṇor bhaktiś ca tādṛśī 2 durvijñeyam idaṃ tāta viṣṇor amitatejasaḥ kathaṃ vā rājaśārdūla padaṃ tajjñātavān asau 3 bhavatā kathitaṃ hy etac chraddadhe cāham acyuta bhūyas tu me samutpannā buddhir avyaktadarśanāt 4 kathaṃ vinihato vṛtraḥ śakreṇa bharatarṣabha dharmiṣṭho viṣṇubhaktaś ca tattvajñaś ca padānvaye 5 etan me saṃśayaṃ brūhi pṛcchato bharatarṣabha vṛtras tu rājaśārdūla yathā śakreṇa nirjitaḥ 6 yathā caivābhavad yuddhaṃ tac cācakṣva pitāmaha vistareṇa mahābāho paraṃ kautūhalaṃ hi me 7 [bhī] rathenendraḥ prayāto vai sārdhaṃ suragaṇaiḥ purā dadarśāthāgrato vṛtraṃ viṣṭhitaṃ parvatopamam 8 yojanānāṃ śatāny ūrdhvaṃ pañcocchritam ariṃdama śatāni vistareṇātha trīṇy evābhyadhikāni tu 9 tat prekṣya tādṛśaṃ rūpaṃ trailokyenāpi durjayam vṛtrasya devāḥ saṃtrastā na śāntim upalebhire 10 śakrasya tu tadā rājann ūrustambho vyajāyata bhayād vṛtrasya sahasā dṛṣṭvā tad rūpam uttamam 11 tato nādaḥ samabhavad vāditrāṇāṃ ca nisvanaḥ devāsurāṇāṃ sarveṣāṃ tasmin yuddha upasthite 12 atha vṛtrasya kauravya dṛṣṭvā śakram upasthitam na saṃbhramo na bhīḥ kā cid āsthā vā samajāyata 13 tataḥ samabhavad yuddhaṃ trailokyasya bhayaṃkaram śakrasya ca surendrasya vṛtrasya ca mahātmanaḥ 14 asibhiḥ pattiśaiḥ śūlaiḥ śaktitomaram udgaraiḥ śilābhir vividhābhiś ca kārmukaiś ca mahāsvanaiḥ 15 astraiś ca vividhair divyaiḥ pāvakolkābhir eva ca devāsurais tataḥ sainyaiḥ sarvam āsīt samākulam 16 pitāmahapurogāś ca sarve devagaṇās tathā ṛṣayaś ca mahābhāgās tad yuddhaṃ draṣṭum āgaman 17 vimānāgryair mahārāja siddhāś ca bharatarṣabha gandharvāś ca vimānāgryair apsarobhiḥ samāgaman 18 tato 'tarikṣam āvṛtya vṛtro dharmabhṛtāṃ varaḥ aśmavarṣeṇa devendraṃ parvatāt samavākirat 19 tato devagaṇāḥ kruddhāḥ sarvataḥ śastravṛṣṭibhiḥ aśmavarṣam apohanta vṛtrapreritam āhave 20 vṛtraś ca kuruśārdūla mahāmāyo mahābalaḥ mohayām āsa devendraṃ māyāyuddhena sarvataḥ 21 tasya vṛtrārditasyātha moha āsīc chatakratoḥ rathaṃtareṇa taṃ tatra vasiṣṭhaḥ samabodhayat 22 [vasisṭha] devaśreṣṭho 'si devendra surārivinibarhaṇa trailokyabalasaṃyuktaḥ kasmāc chakra viṣīdasi 23 eṣa brahmā ca viṣṇuś ca śivaś caiva jagatprabhuḥ somaś ca bhagavān devaḥ sarve ca paramarṣayaḥ 24 mā kārṣīḥ kaśmalaṃ śakra kaś cid evetaro yathā āryāṃ yuddhe matiṃ kṛtvā jahi śatruṃ sureśvara 25 eṣa lokagurus tryakṣaḥ sarvalokanamaskṛtaḥ nirīkṣate tvāṃ bhagavāṃs tyaja mohaṃ sureśvara 26 ete brahmarṣayaś caiva bṛhaspatipurogamāḥ stavena śakra divyena stuvanti tvāṃ jayāya vai 27 [bhī] evaṃ saṃbodhyamānasya vasiṣṭhena mahātmanā atīva vāsavasyāsīd balam uttamatejasaḥ 28 tato buddhim upāgamya bhagavān pākaśāsanaḥ yogena mahatā yuktas tāṃ māyāṃ vyapakarṣata 29 tato 'ṅgiraḥ sutaḥ śrīmāṃs te caiva paramarṣayaḥ dṛṣṭvā vṛtrasya vikrāntam upagamya maheśvaram ūcur vṛtra vināśārthaṃ lokānāṃ hitakāmyayā 30 tato bhagavatas tejo jvaro bhūtvā jagatpateḥ samāviśan mahāraudraṃ vṛtraṃ daityavaraṃ tadā 31 viṣṇuś ca bhagavān devaḥ sarvalokābhipūjitaḥ aindraṃ samāviśad vajraṃ lokasaṃrakṣaṇe rataḥ 32 tato bṛhaspatir dhīmān upāgamya śatakratum vasiṣṭhaś ca mahātejāḥ sarve ca paramarṣayaḥ 33 te samāsādya varadaṃ vāsavaṃ lokapūjitam ūcur ekāgramanaso jahi vṛtram iti prabho 34 [maheṣvara] eṣa vṛtro mahāñ śakra balena mahatā vṛtaḥ viśvātmā sarvagaś caiva bahumāyaś ca viśrutaḥ 35 tad enam asuraśreṣṭhaṃ trailokyenāpi durjayam jahi tvaṃ yogam āsthāya māvamaṃsthāḥ sureśvara 36 anena hi tapastaptaṃ balārtham amarādhipa ṣaṣṭiṃ varṣasahasrāṇi brahmā cāsmai varaṃ dadau 37 mahattvaṃ yogināṃ caiva mahāmāyatvam eva ca mahābalatvaṃ ca tathā tejaś cāgryaṃ sureśvara 38 etad vai māmakaṃ tejaḥ samāviśati vāsava vṛtram enaṃ tvam apy evaṃ jahi vajreṇa dānavam 39 [ṣakra] bhagavaṃs tvatprasādena ditijaṃ sudurāsadam vajreṇa nihaniṣyāmi paśyatas te surarṣabha 40 [bhī] āviśyamāne daitye tu jvareṇātha mahāsure devatānām ṛṣīṇāṃ ca harṣān nādo mahān abhūt 41 tato dundubhayaś caiva śaṅkhāś ca sumahāsvanāḥ murajā ḍiṇḍimāś caiva prāvādyanta sahasraśaḥ 42 asurāṇāṃ tu sarveṣāṃ smṛtilopo 'bhavan mahān prajñānāśaś ca balavān kṣaṇena samapadyata 43 tam āviṣṭam atho jñātvā ṛṣayo devatās tathā stuvantaḥ śakram īśānaṃ tathā prācodayann api 44 rathasthasya hi śakrasya yuddhakāle mahātmanaḥ ṛṣibhiḥ stūyamānasya rūpam āsīt sudurdṛśam |
The Mahabharata in Sanskrit
Book 12
Chapter 273
|
1
[भी] वृत्रस्य तु महाराज जवराविष्टस्य सर्वशः अभवन यानि लिङ्गानि शरीरे तानि मे शृणु 2 जवलितास्यॊ ऽभवद घॊरॊ वैवर्ण्यं चागमत परम गात्रकम्पश च सुमहाञ शवासश चाप्य अभवन महान रॊमहर्शश च तीव्रॊ ऽभून निःश्वासश च महान नृप 3 शिवा चाशिव संकाशा तस्य वक्त्रात सुदारुणा निष्पपात महाघॊरा समृतिः सा तस्य भारत उल्काश च जवलितास तस्य दीप्ताः पार्श्वे परपेदिरे 4 गृध्रकङ्कवडाश चैव वाचॊ ऽमुञ्चन सुदारुणाः वृत्रस्यॊपरि संहृष्टाश चक्रवत परिबभ्रमुः 5 ततस तं रथम आस्थाय देवाप्यायितम आहवे वज्रॊद्यत करः शक्रस तं दैत्यं परत्यवैक्षत 6 अमानुषम अथॊ नादं स मुमॊच महासुरः वयजृम्भत च राजेन्द्र तीव्रज्वरसमन्वितः अथास्य जृम्भतः शक्रस ततॊ वज्रम अवासृजत 7 सवज्रः सुमहातेजाः कालाग्निसदृशॊपमः कषिप्रम एव महाकायं वृत्रं दैत्यम अपातयत 8 ततॊ नादः समभवत पुनर एव समन्ततः वृत्रं विनिहतं दृष्ट्वा देवानां भरतर्षभ 9 वृत्रं तु हत्वा भगवान दानवारिर महायशः वज्रेण विष्णुयुक्तेन दिवम एव समाविशत 10 अथ वृत्रस्य कौरव्य शरीराद अभिनिःसृता बरह्महत्या महाघॊरा रौद्रा लॊकभयावहा 11 करालवदना भीमा विकृता कृष्णपिङ्गला परकीर्णमूर्धजा चैव घॊरनेत्रा च भारत 12 कपालमालिनी चैव कृशा च भरतर्षभ रुधिरार्द्रा च धर्मज्ञ चीरवस्त्रनिवासिनी 13 साभिनिष्क्रम्य राजेन्द्र तादृग्रूपा भयावहा वज्रिणं मृगयाम आस तदा भरतसत्तम 14 कस्य चित तव अथ कालस्य वृत्रहा कुरुनन्दन सवर्गायाभिमुखः परायाल लॊकानां हितकाम्यया 15 बिसान निःसरमाणं तु दृष्ट्वा शक्रं महौजसम कण्ठे जग्राह देवेन्द्रं सुलग्ना चाभवत तदा 16 स हि तस्मिन समुत्पन्ने बरह्महत्या कृते भये नलिन्यां बिसमध्यस्थॊ बभूवाब्द गणान बहून 17 अनुसृत्य तु यत्नात स तया वै बरह्महत्यया तदा गृहीतः कौरव्य निश्चेष्टः समपद्यत 18 तस्या वयपॊहने शक्रः परं यत्नं चकार ह न चाशकत तां देवेन्द्रॊ बरह्महत्यां वयपॊहितुम 19 गृहीत एव तु तया देवेन्द्रॊ भरतर्षभ पितामहम उपागम्य शिरसा परत्यपूजयत 20 जञात्वा गृहीतं शक्रं तु दविजप्रवहहत्यया बरह्मा संचिन्तयाम आस तदा भरतसत्तम 21 ताम उवाच महाबाहॊ बरह्महत्यां पितामहः सवरेण मधुरेणाथ सान्त्वयन्न इव भारत 22 मुच्यतां तरिदशेन्द्रॊ ऽयं मत्प्रियं कुरु भामिनि बरूहि किं ते करॊम्य अद्य कामं कं तवम इहेच्छसि 23 [बरह्महत्या] तरिलॊकपूजिते देवे परीते तरैलॊक्यकर्तरि कृतम एवेह मन्ये ऽहं निवासं तु विधत्स्व मे 24 तवया कृतेयं मर्यादा लॊकसंरक्षणार्थिना सथापना वै सुमहती तवया देवप्रवर्तिता 25 परीते तु तवयि धर्मज्ञ सर्वलॊकेश्वरे परभॊ शक्राद अपगमिष्यामि निवासं तु विधत्स्व मे 26 [भी] तथेति तां पराह तदा बरह्महत्यां पितामहः उपायतः स शक्रस्य बरह्महत्यां वयपॊहत 27 ततः सवयम्भुवा धयातस तत्र वह्निर महात्मना बरह्माणम उपसंगम्य ततॊ वचनम अब्रवीत 28 पराप्तॊ ऽसमि भगवन देव तवत्सकाशम अरिंदम यत कर्तव्यं मया देव तद भवान वक्तुम अर्हति 29 [बरह्मा] बहुधा विभजिष्यामि बरह्महत्याम इमाम अहम शक्रस्याद्य विमॊक्षार्थं चतुर्भागं परतीच्छ मे 30 [अग्नि] मम मॊक्षस्य कॊ ऽनतॊ वै बरह्मन धयायस्स्व वै परभॊ एतद इच्छामि विज्ञातुं तत्त्वतॊ लॊकपूजितः 31 [बरह्मा] यस तवां जवलन्तम आसाद्य सवयं वै मानवः कव चित बीजौषधि रसैर बह्ने न यक्ष्यति तमॊवृतः 32 तम एषा यास्यति कषिप्रं तत्रैव च निवत्स्यति बरह्महत्या हव्यवाहव्येतु ते मानसज्वरः 33 [भी] इत्य उक्तः परतिजग्राह तद वचॊ हव्यकव्य भुक पितामहस्य भगवांस तथाच तद अभूत परभॊ 34 ततॊ वृक्षौषधि तृणं समाहूय पितामहः इमम अर्थं महाराज वक्तुं समुपचक्रमे 35 ततॊ वृक्षौषधि तृणं तथैवॊक्तं यथातथम वयथितं वह्निवद राजन बरह्माणम इदम अब्रवीत 36 अस्माकं बरह्महत्यातॊ कॊ ऽनयॊ लॊकपितामह सवभावनिहतान अस्मान न पुनर हन्तुम अर्हसि 37 वयम अग्निं तथा शीतं वर्षं च पवनेरितम सहामः सततं देव तथा छेदन भेदनम 38 बरह्महत्याम इमाम अद्य भवतः शासनाद वयम गरहीष्यामस तरिलॊकेश मॊक्षं चिन्तयतां भवान 39 [बरह्मा] पर्वकाले तु संप्राप्ते यॊ वै छेदन भेदनम करिष्यति नरॊ मॊहात तम एषानुगमिष्यति 40 [भी] ततॊ वृक्षौषधि तृणम एवम उक्तं महात्मना बरह्माणम अभिसंपूज्य जगामाशु यथागतम 41 आहूयाप्रसरॊ देवस ततॊ लॊकपितामहः वाचा मधुरया पराह सान्त्वयन्न इव भारत 42 इयम इन्द्राद अनुप्राप्ता बरह्महत्या वराङ्गनाः चतुर्थम अस्या भागं हि मयॊक्ताः संप्रतीच्छत 43 [अप्सरस] गरहणे कृतबुद्धीनां देवेश तव शासनात मॊक्षं समयतॊ ऽसमाकं चिन्तयस्व पितामह 44 [बरह्मा] रजस्वलासु नारीषु यॊ वै मैथुनम आचरेत तम एषा यास्यति कषिप्रं वयेतु वॊ मानसॊ जवरः 45 [भी] तथेति हृष्टमनस उक्त्वाथाप्सरसां गणाः सवानि सथानानि संप्राप्य रेमिरे भरतर्षभ 46 ततस तरिलॊककृद देवः पुनर एव महातपः अपः संचिन्तयाम आस धयातास ताश चाप्य अथागमन 47 तास तु सर्वाः समागम्य बरह्माणम अमितौजसम इदम ऊचुर वचॊ राजन परनिपत्य पितामहम 48 इमा सम देव संप्राप्तास तवत्सकाशम अरिंदम शासनात तव देवेश समाज्ञापय नॊ विभॊ 49 [बरह्मा] इयं वृत्राद अनुप्राप्ता पुरुहूतं महाभया बरह्महत्या चतुर्थांशम अस्या यूयं परतिच्छत 50 [आपह] एवं भवतु लॊकेश यथा वदसि नः परभॊ मॊक्षं समयतॊ ऽसमाकं संचिन्तयितुम अर्हसि 51 तवं हि देवेश सर्वस्य जगतः परमॊ गुरुः कॊ ऽनयः परसादॊ हि भवेद यः कृच्छ्रान्नः समुद्धरेत 52 [बरह्मा] अल्पा इति मतिं कृत्वा यॊ नरॊ बुद्धिमॊहितः शलेष्म मूत्र पुरीषाणि युष्मासु परतिमॊक्ष्यति 53 तम एषा यास्यति कषिप्रं तत्रैव च निवत्स्यति तथा वॊ भविता मॊक्ष इति सत्यं बरवीमि वः 54 [भी] ततॊ विमुच्य देवेन्द्रं बरह्महत्या युधिष्ठिर यथा निसृष्टं तं देशम अगच्छद देवशासनात 55 एवं शक्रेण संप्राप्ता बरह्महत्या जनाधिप पितामहम अनुज्ञाप्य सॊ ऽशवमेधम अकल्पयत 56 शरूयते हि महाराज संप्राप्ता वासवेन वै बरह्महत्या ततः शुद्धिं हयमेधेन लब्धवान 57 समवाप्य शरियं देवॊ हत्वारींश च सहस्रशः परहर्षम अतुलं लेभे वासवः पृथिवीपते 58 वृत्रस्य रुधिराच चैव खुखुन्दाः पार्थ जज्ञिरे दविजातिभिर अभक्ष्यास ते दीक्षितैश च तपॊधनैः 59 सर्वावस्थं तवम अप्य एषां दविजातीनां परियं कुरु इमे हि भूतले देवाः परथिताः कुरुनन्दन 60 एवं शक्रेण कौरव्य बुद्धिसौक्ष्म्यान महासुरः उपायपूर्वं निहतॊ वृत्रॊ ऽथामित तेजसा 61 एवं तवम अपि कौरव्य पृथिव्याम अपराजितः भविष्यसि यथा देवः शतक्रतुर अमित्रहा 62 ये तु शक्र कथां दिव्याम इमां पर्वसु पर्वसु विप्रमध्ये पथिष्यन्ति न ते पराप्स्यन्ति किल्बिषम 63 इत्य एतद वृत्रम आश्रित्य शक्रस्यात्यद्भुतं महत कथितं कर्म ते तात किं भूयः शरॊतुम इच्छसि |
1
[bhī] vṛtrasya tu mahārāja jvarāviṣṭasya sarvaśaḥ abhavan yāni liṅgāni śarīre tāni me śṛṇu 2 jvalitāsyo 'bhavad ghoro vaivarṇyaṃ cāgamat param gātrakampaś ca sumahāñ śvāsaś cāpy abhavan mahān romaharśaś ca tīvro 'bhūn niḥśvāsaś ca mahān nṛpa 3 śivā cāśiva saṃkāśā tasya vaktrāt sudāruṇā niṣpapāta mahāghorā smṛtiḥ sā tasya bhārata ulkāś ca jvalitās tasya dīptāḥ pārśve prapedire 4 gṛdhrakaṅkavaḍāś caiva vāco 'muñcan sudāruṇāḥ vṛtrasyopari saṃhṛṣṭāś cakravat paribabhramuḥ 5 tatas taṃ ratham āsthāya devāpyāyitam āhave vajrodyata karaḥ śakras taṃ daityaṃ pratyavaikṣata 6 amānuṣam atho nādaṃ sa mumoca mahāsuraḥ vyajṛmbhata ca rājendra tīvrajvarasamanvitaḥ athāsya jṛmbhataḥ śakras tato vajram avāsṛjat 7 savajraḥ sumahātejāḥ kālāgnisadṛśopamaḥ kṣipram eva mahākāyaṃ vṛtraṃ daityam apātayat 8 tato nādaḥ samabhavat punar eva samantataḥ vṛtraṃ vinihataṃ dṛṣṭvā devānāṃ bharatarṣabha 9 vṛtraṃ tu hatvā bhagavān dānavārir mahāyaśaḥ vajreṇa viṣṇuyuktena divam eva samāviśat 10 atha vṛtrasya kauravya śarīrād abhiniḥsṛtā brahmahatyā mahāghorā raudrā lokabhayāvahā 11 karālavadanā bhīmā vikṛtā kṛṣṇapiṅgalā prakīrṇamūrdhajā caiva ghoranetrā ca bhārata 12 kapālamālinī caiva kṛśā ca bharatarṣabha rudhirārdrā ca dharmajña cīravastranivāsinī 13 sābhiniṣkramya rājendra tādṛgrūpā bhayāvahā vajriṇaṃ mṛgayām āsa tadā bharatasattama 14 kasya cit tv atha kālasya vṛtrahā kurunandana svargāyābhimukhaḥ prāyāl lokānāṃ hitakāmyayā 15 bisān niḥsaramāṇaṃ tu dṛṣṭvā śakraṃ mahaujasam kaṇṭhe jagrāha devendraṃ sulagnā cābhavat tadā 16 sa hi tasmin samutpanne brahmahatyā kṛte bhaye nalinyāṃ bisamadhyastho babhūvābda gaṇān bahūn 17 anusṛtya tu yatnāt sa tayā vai brahmahatyayā tadā gṛhītaḥ kauravya niśceṣṭaḥ samapadyata 18 tasyā vyapohane śakraḥ paraṃ yatnaṃ cakāra ha na cāśakat tāṃ devendro brahmahatyāṃ vyapohitum 19 gṛhīta eva tu tayā devendro bharatarṣabha pitāmaham upāgamya śirasā pratyapūjayat 20 jñātvā gṛhītaṃ śakraṃ tu dvijapravahahatyayā brahmā saṃcintayām āsa tadā bharatasattama 21 tām uvāca mahābāho brahmahatyāṃ pitāmahaḥ svareṇa madhureṇātha sāntvayann iva bhārata 22 mucyatāṃ tridaśendro 'yaṃ matpriyaṃ kuru bhāmini brūhi kiṃ te karomy adya kāmaṃ kaṃ tvam ihecchasi 23 [brahmahatyā] trilokapūjite deve prīte trailokyakartari kṛtam eveha manye 'haṃ nivāsaṃ tu vidhatsva me 24 tvayā kṛteyaṃ maryādā lokasaṃrakṣaṇārthinā sthāpanā vai sumahatī tvayā devapravartitā 25 prīte tu tvayi dharmajña sarvalokeśvare prabho śakrād apagamiṣyāmi nivāsaṃ tu vidhatsva me 26 [bhī] tatheti tāṃ prāha tadā brahmahatyāṃ pitāmahaḥ upāyataḥ sa śakrasya brahmahatyāṃ vyapohata 27 tataḥ svayambhuvā dhyātas tatra vahnir mahātmanā brahmāṇam upasaṃgamya tato vacanam abravīt 28 prāpto 'smi bhagavan deva tvatsakāśam ariṃdama yat kartavyaṃ mayā deva tad bhavān vaktum arhati 29 [brahmā] bahudhā vibhajiṣyāmi brahmahatyām imām aham śakrasyādya vimokṣārthaṃ caturbhāgaṃ pratīccha me 30 [agni] mama mokṣasya ko 'nto vai brahman dhyāyassva vai prabho etad icchāmi vijñātuṃ tattvato lokapūjitaḥ 31 [brahmā] yas tvāṃ jvalantam āsādya svayaṃ vai mānavaḥ kva cit bījauṣadhi rasair bahne na yakṣyati tamovṛtaḥ 32 tam eṣā yāsyati kṣipraṃ tatraiva ca nivatsyati brahmahatyā havyavāhavyetu te mānasajvaraḥ 33 [bhī] ity uktaḥ pratijagrāha tad vaco havyakavya bhuk pitāmahasya bhagavāṃs tathāca tad abhūt prabho 34 tato vṛkṣauṣadhi tṛṇaṃ samāhūya pitāmahaḥ imam arthaṃ mahārāja vaktuṃ samupacakrame 35 tato vṛkṣauṣadhi tṛṇaṃ tathaivoktaṃ yathātatham vyathitaṃ vahnivad rājan brahmāṇam idam abravīt 36 asmākaṃ brahmahatyāto ko 'nyo lokapitāmaha svabhāvanihatān asmān na punar hantum arhasi 37 vayam agniṃ tathā śītaṃ varṣaṃ ca pavaneritam sahāmaḥ satataṃ deva tathā chedana bhedanam 38 brahmahatyām imām adya bhavataḥ śāsanād vayam grahīṣyāmas trilokeśa mokṣaṃ cintayatāṃ bhavān 39 [brahmā] parvakāle tu saṃprāpte yo vai chedana bhedanam kariṣyati naro mohāt tam eṣānugamiṣyati 40 [bhī] tato vṛkṣauṣadhi tṛṇam evam uktaṃ mahātmanā brahmāṇam abhisaṃpūjya jagāmāśu yathāgatam 41 āhūyāprasaro devas tato lokapitāmahaḥ vācā madhurayā prāha sāntvayann iva bhārata 42 iyam indrād anuprāptā brahmahatyā varāṅganāḥ caturtham asyā bhāgaṃ hi mayoktāḥ saṃpratīcchata 43 [apsarasa] grahaṇe kṛtabuddhīnāṃ deveśa tava śāsanāt mokṣaṃ samayato 'smākaṃ cintayasva pitāmaha 44 [brahmā] rajasvalāsu nārīṣu yo vai maithunam ācaret tam eṣā yāsyati kṣipraṃ vyetu vo mānaso jvaraḥ 45 [bhī] tatheti hṛṣṭamanasa uktvāthāpsarasāṃ gaṇāḥ svāni sthānāni saṃprāpya remire bharatarṣabha 46 tatas trilokakṛd devaḥ punar eva mahātapaḥ apaḥ saṃcintayām āsa dhyātās tāś cāpy athāgaman 47 tās tu sarvāḥ samāgamya brahmāṇam amitaujasam idam ūcur vaco rājan pranipatya pitāmaham 48 imā sma deva saṃprāptās tvatsakāśam ariṃdama śāsanāt tava deveśa samājñāpaya no vibho 49 [brahmā] iyaṃ vṛtrād anuprāptā puruhūtaṃ mahābhayā brahmahatyā caturthāṃśam asyā yūyaṃ praticchata 50 [āpah] evaṃ bhavatu lokeśa yathā vadasi naḥ prabho mokṣaṃ samayato 'smākaṃ saṃcintayitum arhasi 51 tvaṃ hi deveśa sarvasya jagataḥ paramo guruḥ ko 'nyaḥ prasādo hi bhaved yaḥ kṛcchrānnaḥ samuddharet 52 [brahmā] alpā iti matiṃ kṛtvā yo naro buddhimohitaḥ śleṣma mūtra purīṣāṇi yuṣmāsu pratimokṣyati 53 tam eṣā yāsyati kṣipraṃ tatraiva ca nivatsyati tathā vo bhavitā mokṣa iti satyaṃ bravīmi vaḥ 54 [bhī] tato vimucya devendraṃ brahmahatyā yudhiṣṭhira yathā nisṛṣṭaṃ taṃ deśam agacchad devaśāsanāt 55 evaṃ śakreṇa saṃprāptā brahmahatyā janādhipa pitāmaham anujñāpya so 'śvamedham akalpayat 56 śrūyate hi mahārāja saṃprāptā vāsavena vai brahmahatyā tataḥ śuddhiṃ hayamedhena labdhavān 57 samavāpya śriyaṃ devo hatvārīṃś ca sahasraśaḥ praharṣam atulaṃ lebhe vāsavaḥ pṛthivīpate 58 vṛtrasya rudhirāc caiva khukhundāḥ pārtha jajñire dvijātibhir abhakṣyās te dīkṣitaiś ca tapodhanaiḥ 59 sarvāvasthaṃ tvam apy eṣāṃ dvijātīnāṃ priyaṃ kuru ime hi bhūtale devāḥ prathitāḥ kurunandana 60 evaṃ śakreṇa kauravya buddhisaukṣmyān mahāsuraḥ upāyapūrvaṃ nihato vṛtro 'thāmita tejasā 61 evaṃ tvam api kauravya pṛthivyām aparājitaḥ bhaviṣyasi yathā devaḥ śatakratur amitrahā 62 ye tu śakra kathāṃ divyām imāṃ parvasu parvasu vipramadhye pathiṣyanti na te prāpsyanti kilbiṣam 63 ity etad vṛtram āśritya śakrasyātyadbhutaṃ mahat kathitaṃ karma te tāta kiṃ bhūyaḥ śrotum icchasi |
The Mahabharata in Sanskrit
Book 12
Chapter 274
|
1
[य] पितामह महाप्राज्ञ सर्वशास्त्रविशारद अस्ति वृत्रवधाद एव विवक्षा मम जायते 2 जवरेण मॊहितॊ वृत्रः कथितस ते जनाधिप निहतॊ वासवेनेह वज्रेणेति ममानघ 3 कथम एष महाप्राज्ञ जवरः परादुरभूत कुतः जवरॊत्पत्तिं निपुनतः शरॊतुम इच्छाम्य अहं परभॊ 4 [भी] शृणु राजञ जवरस्येह संभवं लॊकविश्रुतम विस्तरं चास्य वक्ष्यामि यादृशं चैव भारत 5 पुरा मेरॊर महाराज शृङ्गं तरैलॊक्यविश्रुतम जयॊतिष्कं नाम सावित्रं सर्वरत्नविभूसितम अप्रमेयम अनाधृष्यं सर्वलॊकेषु भारत 6 तत्र देवॊ गिरितते हेमधातुविभूसिते पर्यङ्क इव विभ्राजन्न उपविष्टॊ बभूव ह 7 शैलराजसुता चास्य नित्यं पार्श्वे सथिता बभौ तथा देवा महात्मानॊ वसवश च महौजसः 8 तथैव च महात्मानाव अश्विनौ भिषजां वरौ तथा वैश्वरणॊ राजा गुह्यकैर अभिसंवृतः 9 यक्षाणाम अधिपः शरीमान कैलासनिलयः परभुः अङ्गिरः परमुखाश चैव तथा देवर्षयॊ ऽपरे 10 विश्वावसुश च गन्धर्वस तथा नारद पर्वतौ अप्सरॊगणसंघाश च समाजग्मुर अनेकशः 11 ववौ शिवः सुखॊ वायुर नाना गन्धवहः शुचिः सर्वर्तुकुसुमॊपेताः पुष्पवन्तॊ महाद्रुमाः 12 तथा विद्याधराश चैव सिद्धाश चैव तपॊधनाः महादेवं पशुपतिं पर्युपासन्त भारत 13 भूतानि च महाराज नानारूपधराण्य अथ राक्षसाश च महारौद्राः पिशाचाश च महाबलाः 14 बहुरूपधरा हृष्टा नाना परहरनॊद्यताः देवस्यानुचरास तत्र तस्थिरे चानलॊपमाः 15 नन्दी च भगवांस तत्र देवस्यानुमते सथितः परगृह्य जवलितं शूलं दीप्यमानं सवतेजसा 16 गङ्गा च सरितां शरेष्ठा सर्वतीर्थजलॊद्भवा पर्युपासत तं देवं रूपिणी कुरुनन्दन 17 एवं स भगवांस तत्र पूज्यमानः सुरर्षिभिः देवैश च सुमहाभागैर महादेवॊ वयतिष्ठत 18 कस्य चित तव अथ कालस्य दक्षॊ नाम परजापतिः पूर्वॊक्तेन विधानेन यक्ष्यमाणॊ ऽनवपद्यत 19 ततस तस्य मखं देवाः सर्वे शक्रपुरॊगमाः गमनाय समागम्य बुद्धिम आपेदिरे तदा 20 ते विमानैर महात्मानॊ जवलितैर जवलनप्रभाः देवस्यानुमते ऽगच्छन गङ्गा दवारम इति शरुतिः 21 परस्थिता देवता दृष्ट्वा शैलराजसुता तदा उवाच वचनं साध्वी देवं पशुपतिं पतिम 22 भगवन कव नु यान्त्य एते देवाः शक्रपुरॊगमाः बरूहि तत्त्वेन तत्त्वज्ञ संशयॊ मे महान अयम 23 [महेष्वर] दक्षॊ नाम महाभागे परजानां पतिर उत्तमः हयमेधेन यजते तत्र यान्ति दिवौकसः 24 [उमा] यज्ञम एतं महाभाग किमर्थं नाभिगच्छसि केन व परतिषेधेन गमनं ते न विद्यते 25 [महेष्वर] सुरैर एव महाभागे सर्वम एतद अनुष्ठितम यज्ञेषु सर्वेषु मम न भाग उपकल्पितः 26 पूर्वॊपायॊपपन्नेन मार्गेण वरवर्णिनि न मे सुराः परयच्छन्ति भागं यज्ञस्य धर्मतः 27 [उमा] भगवन सर्वभूतेषु परभवाभ्यधिकॊ गुणैः अजेयश चाप्रधृष्यश च तेजसा यशसा शरिया 28 अनेन ते महाभाग परतिषेधेन भागतः अतीव दुःखम उत्पन्नं वेपथुश च ममानघ 29 [भी] एवम उक्त्वा तु सा देवी देवं पशुपतिं पतिम तूस्नीं भूताभवद राजन दह्यमानेन चेतसा 30 अथ देव्या मतं जञात्वा हृद्गतं यच चिकीर्षितम स समाज्ञापयाम आस तिष्ठ तवम इति नन्दिनम 31 ततॊ यॊगबलं कृत्वा सर्वयॊगेश्वरेश्वरः तं यज्ञं सुमहातेजा भीमैर अनुचरैस तदा सहसा घातयाम आस देवदेवः पिनाक धृक 32 के चिन नादान अमुञ्चन्त के चिद धासांश च चक्रिरे रुधिरेणापरे राजंस तत्राग्निं समवाकिरन 33 के चिद यूपान समुत्पात्य बभ्रमुर विकृताननाः आस्यैर अन्ये चाग्रसन्त तथैव परिचारकान 34 ततः स यज्ञॊ नृपते वध्यमानः समन्ततः आस्थाय मृगरूपं वै खम एवाभ्यपतत तदा 35 तं तु यज्ञं तथारूपं गच्छन्तम उपलभ्य सः धनुर आदाय बानं च तदान्वसरत परभुः 36 ततस तस्य सुरेशस्य करॊधाद अमिततेजसः ललाताल परसृतॊ घॊरः सवेदबिन्दुर बभूव ह 37 तस्मिन पतितमात्रे तु सवेदबिन्दौ तथा भुवि परादुर्बभूव सुमहान अग्निः कालानलॊपमः 38 तत्र चाजायत तदा पुरुषः पुरुषर्षभ हरस्वॊ ऽतिमात्ररक्ताक्षॊ हरि शमश्रुर विभीसनः 39 ऊर्ध्वकेशॊ ऽतिलॊमाङ्गः शयेनॊलूकस तथैव च करालः कृष्ण वर्णश च रक्तवासास तथैव च 40 तं यज्ञं स महासत्त्वॊ ऽदहत कक्षम इवानलः देवाश चाप्य अद्रवन सर्वे ततॊ भीता दिशॊ दश 41 तेन तस्मिन विचरता पुरुषेण विशां पते पृथिवी वयचलद राजन्न अतीव भरतर्षभ 42 हाहाभूते परवृत्ते तु नादे लॊकभयंकरे पितामहॊ महादेवं दर्शयन परत्यभासत 43 भवतॊ ऽपि सुराः सर्वे भागं दास्यन्ति वै परभॊ करियतां परतिसंहारः सर्वदेवेश्वर तवया 44 इमा हि देवताः सर्वा ऋषयश च परंतप तव करॊधान महादेव न शान्तिम उपलेभिरे 45 यश चैष पुरुषॊ जातः सवेदात ते विबुधॊत्तम जवरॊ नामैष धर्मज्ञ लॊकेषु परचरिष्यति 46 एकीभूतस्य न हय अस्य धारणे तेजसः परभॊ समर्था सकला पृथ्वी बहुधा सृज्यताम अयम 47 इत्य उक्तॊ बरह्मणा देवॊ भागे चापि परकल्पिते भगवन्तं तथेत्य आह बरह्माणम अमितौजसम 48 परां च परीतिम अगमद उत्स्मयंश च पिनाक धृक अवाप च तदा भागं यथॊक्तं बरह्मणा भवः 49 जवरं च सर्वधर्मज्ञॊ बहुधा वयसृजत तदा शान्त्य अर्थं सर्वभूतानां शृणु तच चापि पुत्रक 50 शीर्षाभितापॊ नागानां पर्वतानां शिला जतुः अपां तु नीलिकां विद्यान निर्मॊकं भुजगेषु च 51 खॊरकः सौरभेयाणाम ऊसरं पृथिवीतले पशूनाम अपि धर्मज्ञ दृष्टिप्रत्यवरॊधनम 52 रन्ध्रागतम अथाश्वानां शिखॊद्भेदश च बर्हिणम नेत्ररॊगः कॊकिलानां जवरः परॊक्तॊ महात्मना 53 अब्जानां पित्त भेदश च सर्वेषाम इति नः शरुतम शुकानाम अपि सर्वेषां हिक्किका परॊच्यते जवरः 54 शार्दूलेष्व अथ धर्मज्ञ शरमॊ जवर इहॊच्यते मानुषेषु तु धर्मज्ञ जवरॊ नामैष विश्रुतः मरणे जन्मनि तथा मध्ये चाविशते नरम 55 एतन माहेश्वरं तेजॊ जवरॊ नाम सुदारुणः नमस्यश चैव मान्यश च सर्वप्रानिभिर ईश्वरः 56 अनेन हि समाविष्टॊ वृत्रॊ धर्मभृतां वरः वयजृम्भत ततः शक्रस तस्मै वज्रम अवासृजत 57 परविश्य वज्रॊ वृत्रं तु दारयाम आस भारत दारितश च सवज्रेण महायॊगी महासुरः जगाम परमस्थानं विष्णॊर अमिततेजसः 58 विष्णुभक्त्या हि तेनेदं जगद वयाप्तम अभूत पुरा तस्माच च निहतॊ युद्धे विष्णॊ सथानम अवाप्तवान 59 इत्य एष वृत्रम आश्रित्य जवरस्य महतॊ मया विस्तरः कथितः पुत्र किम अन्यत परब्रवीमि ते 60 इमां जवरॊत्पत्तिम अदीनमानसः; पथेत सदा यः सुसमाहितॊ नरः विमुक्तरॊगः स सुखी मुदा युतॊ; लभेत कामान स यथा मनीसितान |
1
[y] pitāmaha mahāprājña sarvaśāstraviśārada asti vṛtravadhād eva vivakṣā mama jāyate 2 jvareṇa mohito vṛtraḥ kathitas te janādhipa nihato vāsaveneha vajreṇeti mamānagha 3 katham eṣa mahāprājña jvaraḥ prādurabhūt kutaḥ jvarotpattiṃ nipunataḥ śrotum icchāmy ahaṃ prabho 4 [bhī] śṛṇu rājañ jvarasyeha saṃbhavaṃ lokaviśrutam vistaraṃ cāsya vakṣyāmi yādṛśaṃ caiva bhārata 5 purā meror mahārāja śṛṅgaṃ trailokyaviśrutam jyotiṣkaṃ nāma sāvitraṃ sarvaratnavibhūsitam aprameyam anādhṛṣyaṃ sarvalokeṣu bhārata 6 tatra devo giritate hemadhātuvibhūsite paryaṅka iva vibhrājann upaviṣṭo babhūva ha 7 śailarājasutā cāsya nityaṃ pārśve sthitā babhau tathā devā mahātmāno vasavaś ca mahaujasaḥ 8 tathaiva ca mahātmānāv aśvinau bhiṣajāṃ varau tathā vaiśvaraṇo rājā guhyakair abhisaṃvṛtaḥ 9 yakṣāṇām adhipaḥ śrīmān kailāsanilayaḥ prabhuḥ aṅgiraḥ pramukhāś caiva tathā devarṣayo 'pare 10 viśvāvasuś ca gandharvas tathā nārada parvatau apsarogaṇasaṃghāś ca samājagmur anekaśaḥ 11 vavau śivaḥ sukho vāyur nānā gandhavahaḥ śuciḥ sarvartukusumopetāḥ puṣpavanto mahādrumāḥ 12 tathā vidyādharāś caiva siddhāś caiva tapodhanāḥ mahādevaṃ paśupatiṃ paryupāsanta bhārata 13 bhūtāni ca mahārāja nānārūpadharāṇy atha rākṣasāś ca mahāraudrāḥ piśācāś ca mahābalāḥ 14 bahurūpadharā hṛṣṭā nānā praharanodyatāḥ devasyānucarās tatra tasthire cānalopamāḥ 15 nandī ca bhagavāṃs tatra devasyānumate sthitaḥ pragṛhya jvalitaṃ śūlaṃ dīpyamānaṃ svatejasā 16 gaṅgā ca saritāṃ śreṣṭhā sarvatīrthajalodbhavā paryupāsata taṃ devaṃ rūpiṇī kurunandana 17 evaṃ sa bhagavāṃs tatra pūjyamānaḥ surarṣibhiḥ devaiś ca sumahābhāgair mahādevo vyatiṣṭhata 18 kasya cit tv atha kālasya dakṣo nāma prajāpatiḥ pūrvoktena vidhānena yakṣyamāṇo 'nvapadyata 19 tatas tasya makhaṃ devāḥ sarve śakrapurogamāḥ gamanāya samāgamya buddhim āpedire tadā 20 te vimānair mahātmāno jvalitair jvalanaprabhāḥ devasyānumate 'gacchan gaṅgā dvāram iti śrutiḥ 21 prasthitā devatā dṛṣṭvā śailarājasutā tadā uvāca vacanaṃ sādhvī devaṃ paśupatiṃ patim 22 bhagavan kva nu yānty ete devāḥ śakrapurogamāḥ brūhi tattvena tattvajña saṃśayo me mahān ayam 23 [maheṣvara] dakṣo nāma mahābhāge prajānāṃ patir uttamaḥ hayamedhena yajate tatra yānti divaukasaḥ 24 [umā] yajñam etaṃ mahābhāga kimarthaṃ nābhigacchasi kena va pratiṣedhena gamanaṃ te na vidyate 25 [maheṣvara] surair eva mahābhāge sarvam etad anuṣṭhitam yajñeṣu sarveṣu mama na bhāga upakalpitaḥ 26 pūrvopāyopapannena mārgeṇa varavarṇini na me surāḥ prayacchanti bhāgaṃ yajñasya dharmataḥ 27 [umā] bhagavan sarvabhūteṣu prabhavābhyadhiko guṇaiḥ ajeyaś cāpradhṛṣyaś ca tejasā yaśasā śriyā 28 anena te mahābhāga pratiṣedhena bhāgataḥ atīva duḥkham utpannaṃ vepathuś ca mamānagha 29 [bhī] evam uktvā tu sā devī devaṃ paśupatiṃ patim tūsnīṃ bhūtābhavad rājan dahyamānena cetasā 30 atha devyā mataṃ jñātvā hṛdgataṃ yac cikīrṣitam sa samājñāpayām āsa tiṣṭha tvam iti nandinam 31 tato yogabalaṃ kṛtvā sarvayogeśvareśvaraḥ taṃ yajñaṃ sumahātejā bhīmair anucarais tadā sahasā ghātayām āsa devadevaḥ pināka dhṛk 32 ke cin nādān amuñcanta ke cid dhāsāṃś ca cakrire rudhireṇāpare rājaṃs tatrāgniṃ samavākiran 33 ke cid yūpān samutpātya babhramur vikṛtānanāḥ āsyair anye cāgrasanta tathaiva paricārakān 34 tataḥ sa yajño nṛpate vadhyamānaḥ samantataḥ āsthāya mṛgarūpaṃ vai kham evābhyapatat tadā 35 taṃ tu yajñaṃ tathārūpaṃ gacchantam upalabhya saḥ dhanur ādāya bānaṃ ca tadānvasarata prabhuḥ 36 tatas tasya sureśasya krodhād amitatejasaḥ lalātāl prasṛto ghoraḥ svedabindur babhūva ha 37 tasmin patitamātre tu svedabindau tathā bhuvi prādurbabhūva sumahān agniḥ kālānalopamaḥ 38 tatra cājāyata tadā puruṣaḥ puruṣarṣabha hrasvo 'timātraraktākṣo hari śmaśrur vibhīsanaḥ 39 ūrdhvakeśo 'tilomāṅgaḥ śyenolūkas tathaiva ca karālaḥ kṛṣṇa varṇaś ca raktavāsās tathaiva ca 40 taṃ yajñaṃ sa mahāsattvo 'dahat kakṣam ivānalaḥ devāś cāpy adravan sarve tato bhītā diśo daśa 41 tena tasmin vicaratā puruṣeṇa viśāṃ pate pṛthivī vyacalad rājann atīva bharatarṣabha 42 hāhābhūte pravṛtte tu nāde lokabhayaṃkare pitāmaho mahādevaṃ darśayan pratyabhāsata 43 bhavato 'pi surāḥ sarve bhāgaṃ dāsyanti vai prabho kriyatāṃ pratisaṃhāraḥ sarvadeveśvara tvayā 44 imā hi devatāḥ sarvā ṛṣayaś ca paraṃtapa tava krodhān mahādeva na śāntim upalebhire 45 yaś caiṣa puruṣo jātaḥ svedāt te vibudhottama jvaro nāmaiṣa dharmajña lokeṣu pracariṣyati 46 ekībhūtasya na hy asya dhāraṇe tejasaḥ prabho samarthā sakalā pṛthvī bahudhā sṛjyatām ayam 47 ity ukto brahmaṇā devo bhāge cāpi prakalpite bhagavantaṃ tathety āha brahmāṇam amitaujasam 48 parāṃ ca prītim agamad utsmayaṃś ca pināka dhṛk avāpa ca tadā bhāgaṃ yathoktaṃ brahmaṇā bhavaḥ 49 jvaraṃ ca sarvadharmajño bahudhā vyasṛjat tadā śānty arthaṃ sarvabhūtānāṃ śṛṇu tac cāpi putraka 50 śīrṣābhitāpo nāgānāṃ parvatānāṃ śilā jatuḥ apāṃ tu nīlikāṃ vidyān nirmokaṃ bhujageṣu ca 51 khorakaḥ saurabheyāṇām ūsaraṃ pṛthivītale paśūnām api dharmajña dṛṣṭipratyavarodhanam 52 randhrāgatam athāśvānāṃ śikhodbhedaś ca barhiṇam netrarogaḥ kokilānāṃ jvaraḥ prokto mahātmanā 53 abjānāṃ pitta bhedaś ca sarveṣām iti naḥ śrutam śukānām api sarveṣāṃ hikkikā procyate jvaraḥ 54 śārdūleṣv atha dharmajña śramo jvara ihocyate mānuṣeṣu tu dharmajña jvaro nāmaiṣa viśrutaḥ maraṇe janmani tathā madhye cāviśate naram 55 etan māheśvaraṃ tejo jvaro nāma sudāruṇaḥ namasyaś caiva mānyaś ca sarvaprānibhir īśvaraḥ 56 anena hi samāviṣṭo vṛtro dharmabhṛtāṃ varaḥ vyajṛmbhata tataḥ śakras tasmai vajram avāsṛjat 57 praviśya vajro vṛtraṃ tu dārayām āsa bhārata dāritaś ca savajreṇa mahāyogī mahāsuraḥ jagāma paramasthānaṃ viṣṇor amitatejasaḥ 58 viṣṇubhaktyā hi tenedaṃ jagad vyāptam abhūt purā tasmāc ca nihato yuddhe viṣṇo sthānam avāptavān 59 ity eṣa vṛtram āśritya jvarasya mahato mayā vistaraḥ kathitaḥ putra kim anyat prabravīmi te 60 imāṃ jvarotpattim adīnamānasaḥ; pathet sadā yaḥ susamāhito naraḥ vimuktarogaḥ sa sukhī mudā yuto; labheta kāmān sa yathā manīsitān |
The Mahabharata in Sanskrit
Book 12
Chapter 275
|
1
[य] शॊकाद दुःखाच च मृत्यॊश च तरस्यन्ति परानिनः सदा उभयं मे यथा न सयात तन मे बरूहि पितामह 2 [भी] अत्रैवॊदाहरन्तीमम इतिहासं पुरातनम नारदस्य च संवादं समङ्गस्य च भारत 3 [नारद] उरसेव परनमसे बाहुभ्यां तरसीव च संप्रहृष्टमना नित्यं विशॊक इव लक्ष्यसे 4 उद्वेगं नेह ते किं चित सुसूक्ष्मम अपि लक्षये नित्यतृप्त इव सवस्थॊ बालवच च विचेष्टसे 5 [समन्ग] भूतं भव्यं भविष्यच च सर्वं सत्त्वेषु मानद तेषां तत्त्वानि जानामि ततॊ न विमना हय अहम 6 उपक्रमान अहं वेद पुनर एव फलॊदयान लॊके फलानि चित्राणि ततॊ न विमना हय अहम 7 अगाधाश चाप्रतिष्ठाश च गतिमन्तश च नारद अन्धा जदाश च जीवन्ति पश्यास्मान अपि जीवतः 8 विहितेनैव जीवन्ति अरॊगाङ्गा दिवौकसः बलवन्तॊ ऽबलाश चैव तद्वद अस्मान सभाजय 9 सहस्रिणश च जीवन्ति जीवन्ति शतिनस तथा शाकेन चान्ये जीवन्ति पश्यास्मान अपि जीवतः 10 यदा न शॊचेमहि किं नु न सयाद; धर्मेण वा नारद कर्मणा वा कृतान्तवश्यानि यदा सुखानि; दुःखानि वा यन न विधर्षयन्ति 11 यस्मै परज्ञां कथयन्ते मनुष्याः; परज्ञा मूलॊ हीन्द्रियाणां परसादः मुह्यन्ति शॊचन्ति यदेन्द्रियाणि; परज्ञा लाभॊ नास्ति मूढेन्द्रियस्य 12 मूढस्य दर्पः स पुनर मॊह एव; मूढस्य नायं न परॊ ऽसति लॊकः न हय एव दुःखानि सदा भवन्ति; सुखस्य वा नित्यशॊ लाभ एव 13 भावात्मकं संपरिवर्तमानं; न मादृशः संज्वरं जातु कुर्यात इष्टान भॊगान नानुरुध्येत सुखं वा; न चिन्तयेद दुःखम अभ्यागतं वा 14 समाहितॊ न सपृहयेत परेषां; नाना गतं नाभिनन्देत लाभम न चापि हृष्येद विपुले ऽरथलाभे; तथार्थ नाशे च न वै विषीदेत 15 न बान्धवा न च वित्तं न कौली; न च शरुतं न च मन्त्रा न वीर्यम दुःखात तरातुं सर्व एवॊत्सहन्ते; परत्र शीले न तु यान्ति शान्तिम 16 नास्ति बुद्धिर अयुक्तस्य नायॊगाद विद्यते सुखम धृतिश च दुःखत्यागश चाप्य उभयं नः सुखॊदयम 17 परियं हि हर्षजननं हर्ष उत्सेकवर्धनः उत्सेकॊ नरकायैव तस्मात तं संत्यजाम्य अहम 18 एताञ शॊकभयॊत्सेकान मॊहनान सुखदुःखयॊः पश्यामि साक्षिवल लॊके देहस्यास्य विचेष्टनात 19 अर्थकामौ परित्यज्य विशॊकॊ विगतज्वरः तृष्णा मॊहौ तु संत्यज्य चरामि पृथिवीम इमाम 20 न मृत्युतॊ न चाधर्मान न लॊभान न कुतश चन पीतामृतस्येवात्यन्तम इह चामुत्र वाभयम 21 एतद बरह्मन विजानामि महत कृत्वा तपॊ ऽवययम तेन नारद संप्राप्तॊ न मां शॊकः परबाधते |
1
[y] śokād duḥkhāc ca mṛtyoś ca trasyanti prāninaḥ sadā ubhayaṃ me yathā na syāt tan me brūhi pitāmaha 2 [bhī] atraivodāharantīmam itihāsaṃ purātanam nāradasya ca saṃvādaṃ samaṅgasya ca bhārata 3 [nārada] uraseva pranamase bāhubhyāṃ tarasīva ca saṃprahṛṣṭamanā nityaṃ viśoka iva lakṣyase 4 udvegaṃ neha te kiṃ cit susūkṣmam api lakṣaye nityatṛpta iva svastho bālavac ca viceṣṭase 5 [samanga] bhūtaṃ bhavyaṃ bhaviṣyac ca sarvaṃ sattveṣu mānada teṣāṃ tattvāni jānāmi tato na vimanā hy aham 6 upakramān ahaṃ veda punar eva phalodayān loke phalāni citrāṇi tato na vimanā hy aham 7 agādhāś cāpratiṣṭhāś ca gatimantaś ca nārada andhā jadāś ca jīvanti paśyāsmān api jīvataḥ 8 vihitenaiva jīvanti arogāṅgā divaukasaḥ balavanto 'balāś caiva tadvad asmān sabhājaya 9 sahasriṇaś ca jīvanti jīvanti śatinas tathā śākena cānye jīvanti paśyāsmān api jīvataḥ 10 yadā na śocemahi kiṃ nu na syād; dharmeṇa vā nārada karmaṇā vā kṛtāntavaśyāni yadā sukhāni; duḥkhāni vā yan na vidharṣayanti 11 yasmai prajñāṃ kathayante manuṣyāḥ; prajñā mūlo hīndriyāṇāṃ prasādaḥ muhyanti śocanti yadendriyāṇi; prajñā lābho nāsti mūḍhendriyasya 12 mūḍhasya darpaḥ sa punar moha eva; mūḍhasya nāyaṃ na paro 'sti lokaḥ na hy eva duḥkhāni sadā bhavanti; sukhasya vā nityaśo lābha eva 13 bhāvātmakaṃ saṃparivartamānaṃ; na mādṛśaḥ saṃjvaraṃ jātu kuryāt iṣṭān bhogān nānurudhyet sukhaṃ vā; na cintayed duḥkham abhyāgataṃ vā 14 samāhito na spṛhayet pareṣāṃ; nānā gataṃ nābhinandeta lābham na cāpi hṛṣyed vipule 'rthalābhe; tathārtha nāśe ca na vai viṣīdet 15 na bāndhavā na ca vittaṃ na kaulī; na ca śrutaṃ na ca mantrā na vīryam duḥkhāt trātuṃ sarva evotsahante; paratra śīle na tu yānti śāntim 16 nāsti buddhir ayuktasya nāyogād vidyate sukham dhṛtiś ca duḥkhatyāgaś cāpy ubhayaṃ naḥ sukhodayam 17 priyaṃ hi harṣajananaṃ harṣa utsekavardhanaḥ utseko narakāyaiva tasmāt taṃ saṃtyajāmy aham 18 etāñ śokabhayotsekān mohanān sukhaduḥkhayoḥ paśyāmi sākṣival loke dehasyāsya viceṣṭanāt 19 arthakāmau parityajya viśoko vigatajvaraḥ tṛṣṇā mohau tu saṃtyajya carāmi pṛthivīm imām 20 na mṛtyuto na cādharmān na lobhān na kutaś cana pītāmṛtasyevātyantam iha cāmutra vābhayam 21 etad brahman vijānāmi mahat kṛtvā tapo 'vyayam tena nārada saṃprāpto na māṃ śokaḥ prabādhate |
The Mahabharata in Sanskrit
Book 12
Chapter 276
|
1
[य] अतत्त्वज्ञस्य शास्त्राणां सततं संशयात्मनः अकृतव्यवसायस्य शरेयॊ बरूहि पितामह 2 [भी] गुरु पूजा च सततं वृद्धानां पर्युपासनम शरवणं चैव विद्यानां कूतस्थं शरेय उच्यते 3 अत्राप्य उदाहरन्तीमम इतिहासं पुरातनम गालवस्य च संवादं देवर्षेर नारदस्य च 4 वीतमॊहक्लमं विप्रं जञानतृप्तं जितेन्द्रियम शरेयः कामं जितात्मानं नारदं गालवॊ ऽबरवीत 5 यैः कैश्चैत संमतॊ लॊके गुणैस तु पुरुषॊ नृषु भवत्य अनपगान सर्वांस तान गुणाँल लक्षयाम्य अहम 6 भवान एवंविधॊ ऽसमाकं संशयं छेत्तुम अर्हति अमूढश चिरमूढानां लॊकतत्त्वम अजानताम 7 जञाने हय एवं परवृत्तिः सयात कार्याकार्ये विजानतः यत कार्यं न वयवस्यामस तद भवान वक्तुम अर्हति 8 भगवन नाश्रमाः सर्वे पृथग आचार दर्शिनः इदं शरेय इदं शरेय इति नाना परधाविनः 9 तांस तु विप्रस्थितान दृष्ट्वा शास्त्रैः शास्त्राभिनन्दिनः सवशास्त्रैः परितुष्टांश च शरेयॊ नॊपलभामहे 10 शास्त्रं यदि भवेद एकं वयक्तं शरेयॊ भवेत तदा शास्त्रैश च बहुभिर भूयः शरेयॊ गुह्यं परवेशितम 11 एतस्मात कारणाच छरेयः कलिलं परतिभाति माम बरवीतु भगवांस तन मे उपसन्नॊ ऽसम्य अधीहि भॊः 12 [नारद] आश्रमास तात चत्वारॊ यथा संकल्पिताः पृथक तान सर्वान अनुपश्य तवं समाश्रित्यैव गालव 13 तेषां तेषां तथाहि तवम आश्रमाणां ततस ततः नानारूपगुणॊद्देशं पश्य विप्रस्थितं पृथक नयन्ति चैव ते सम्यग अभिप्रेतम असंशयम 14 ऋजु पश्यंस तथा सम्यग आश्रमाणां परां गतिम यत तु निःश्रेयसं सम्यक तच चैवासंशयात्मकम 15 अनुग्रहं च मित्राणाम अमित्राणां च निग्रहम संग्रहं च तरिवर्गस्य शरेय आहुर मनीषिणः 16 निवृत्तिः कर्मणः पापात सततं पुण्यशीलता सद्भिश च समुदाचारः शरेय एतद असंशयम 17 मार्दवं सर्वभूतेषु वयवहारेषु चार्जवम वाक चैव मधुरा परॊक्ता शरेय एतद असंशयम 18 देवताभ्यः पितृभ्यश च संविभागॊ ऽतिथिष्व अपि असंत्यागश च भृत्यानां शरेय एतद असंशयम 19 सत्यस्य वचनं शरेयः सत्यज्ञानं तु दुष्करम यद भूतहितम अत्यन्तम एतत सत्यं बरवीम्य अहम 20 अहंकारस्य च तयागः परनयस्य च निग्रहः संतॊषश चैकचर्या च कूतस्थं शरेय उच्यते 21 धर्मेण वेदाध्ययनं वेदाङ्गानां तथैव च विद्यार्थानां च जिज्ञासा शरेय एतद असंशयम 22 शब्दरूपरसस्पर्शान सह गन्धेन केवलान नात्यर्थम उपसेवेत शरेयसॊ ऽरथी परंतप 23 नक्तंचर्या दिवा सवप्नम आलस्यं पैशुनं मदम अतियॊगम अयॊगं च शरेयसॊ ऽरथी परित्यजेत 24 कर्मॊत्कर्षं न मार्गेत मरेषां परिनिन्दया सवगुणैर एव मार्गेत विप्रकर्षं पृथग्जनात 25 निर्गुणास तव एव भूयिष्ठम आत्मसंभाविनॊ नराः दॊषैर अन्यान गुणवतः कषिपन्त्य आत्मगुण कषयात 26 अनुच्यमानाश च पुनस ते मन्यन्ते महाजनात गुणवत्तरम आत्मानं सवेन मानेन दर्पिताः 27 अब्रुवन कस्य चिन निन्दाम आत्मपूजाम अवर्णयन विपश्चिद गुणसंपन्नः पराप्नॊत्य एव महद यशः 28 अब्रुवन वाति सुरभिर गन्धः सुमनसां शुचिः तथैवाव्याहरन भाति विमलॊ भानुर अम्बरे 29 एवमादीनि चान्यानि परित्यक्तानि मेधया जवलन्ति यशसा लॊके यानि न वयाहरन्ति च 30 न लॊके दीप्यते मूर्खः केवतात्म परशंसया अपि चापिहितः शवभ्रे कृतविद्यः परकाशते 31 असन्न उच्चैर अपि परॊक्तः शब्दः समुपशाम्यति दीप्यते तव एव लॊकेषु शनैर अपि सुभासितम 32 मूढानाम अवलिप्तानाम असारं भासितं बहु दर्शयत्य अन्तरात्मानं दिवा रूपम इवांशुमान 33 एतस्मात कारणात परज्ञां मृगयन्ते पृथग्विधाम परज्ञा लाभॊ हि भूतानाम उत्तमः परतिभाति माम 34 नापृष्टः कस्य चिद बरूयान न चान्यायेन पृच्छतः जञानवान अपि मेधावी जदवल लॊकम आचरेत 35 ततॊ वासं परीक्षेत धर्मनित्येषु साधुषु मनुष्येषु वदान्येषु सवधर्मनिरतेषु च 36 चतुर्णां यत्र वर्णानां धर्मव्यतिकरॊ भवेत न तत्र वासं कुर्वीत शरेयॊ ऽरथी वै कथं चन 37 निरारम्भॊ ऽपय अयम इह यथा लब्धॊपजीविनः पुण्यं पुण्येषु विमलं पापं पापेषु चाप्नुयात 38 अपाम अग्नेस तथेन्दॊश च सपर्शं वेदयते यथा तथा पश्यामहे सपर्शम उभयॊः पापपुण्ययॊः 39 अपश्यन्तॊ ऽननविषयं भुञ्जते विघसाशिनः भुज्ञानं चान्न विषयान विषयं विद्धि कर्मणां 40 यत्रागमयमानानाम असत्कारेण पृच्छताम परब्रूयाद बरह्मणॊ धर्मं तयजेत तं देशम आत्मवान 41 शिष्यॊपाध्यायिका वृत्तिर यत्र सयात सुसमाहिता यथावच छास्त्र संपन्ना कस तं देशं परित्यजेत 42 आकाशस्था धरुवं यत्र दॊषं बरूयुर विपश्चितम आत्मपूजाभिकामा वै कॊ वसेत तत्र पण्डितः 43 यत्र संलॊदिता लुब्धैः परायशॊ धर्मसेतवः परदीप्तम इव शैलान्तं कस तं देशं न संत्यजेत 44 यत्र धर्मम अनाशङ्काश चरेयुर वीतमत्सराः चरेत तत्र वसेच चैव पुण्यशीलेषु साधुषु 45 धर्मम अर्थनिमित्तं तु चरेयुर यत्र मानवाः न तान अनुवसेज जातु ते हि पापकृतॊ जनाः 46 कर्मणा यत्र पापेन वर्तन्ते जीवितेस्पवः वयवधावेत ततस तूर्णं ससर्पाच छरणाद इव 47 येन खत्वां समारूढः कर्मणानुशयी भवेत आदितस तन न कर्तव्यम इच्छता भवम आत्मनः 48 यत्र राजा च राज्ञश च पुरुषाः परत्यनन्तराः कुतुम्बिनाम अग्रभुजस तयजेत तद रास्त्रम आत्मवान 49 शरॊत्रियास तव अग्रभॊक्तारॊ धर्मनित्याः सनातनाः याजनाध्यापने युक्ता यत्र तद रास्त्रम आवसेत 50 सवाहा सवधा वसत्कारा यत्र सम्यग अनुष्ठिताः अजस्रं चैव वर्तन्ते वसेत तत्राविचारयन 51 अशुचीन्य अत्र पश्येत बराह्मणान वृत्ति कर्शितान तयजेत तद रास्त्रम आसन्नम उपसृष्टम इवामिषम 52 परीयमाणा नरा यत्र परयच्छेयुर अयाचिताः सवस्थचित्तॊ वसेत तत्र कृतकृत्य इवात्मवान 53 दण्डॊ यत्राविनीतेषु सत्कारश च कृतात्मसु चरेत तत्र वसेच चैव पुण्यशीलेषु साधुषु 54 उपसृष्टेष्व अदान्तेषु दुराचारेष्व असाधुषु अविनीतेषु लुब्धेषु सुमहद दन्द धारणम 55 यत्र राजा धर्मनित्यॊ राज्यं वै पर्युपासिता अपास्य कामान कामेशॊ वसेत तत्राविचारयन 56 तथा शीला हि राजानः सर्वान विषयवासिनः शरेयसा यॊजयन्त्य आशु शरेयसि परत्युपस्थिते 57 पृच्छतस ते मया तात शरेय एतद उदाहृतम न हि शक्यं परधानेन शरेयः संख्यातुम आत्मनः 58 एवं परवर्तमानस्य वृत्तिं परनिहितात्मनः तपसैवेह बहुलं शरेयॊ वयक्तं भविष्यति |
1
[y] atattvajñasya śāstrāṇāṃ satataṃ saṃśayātmanaḥ akṛtavyavasāyasya śreyo brūhi pitāmaha 2 [bhī] guru pūjā ca satataṃ vṛddhānāṃ paryupāsanam śravaṇaṃ caiva vidyānāṃ kūtasthaṃ śreya ucyate 3 atrāpy udāharantīmam itihāsaṃ purātanam gālavasya ca saṃvādaṃ devarṣer nāradasya ca 4 vītamohaklamaṃ vipraṃ jñānatṛptaṃ jitendriyam śreyaḥ kāmaṃ jitātmānaṃ nāradaṃ gālavo 'bravīt 5 yaiḥ kaiścait saṃmato loke guṇais tu puruṣo nṛṣu bhavaty anapagān sarvāṃs tān guṇāṁl lakṣayāmy aham 6 bhavān evaṃvidho 'smākaṃ saṃśayaṃ chettum arhati amūḍhaś ciramūḍhānāṃ lokatattvam ajānatām 7 jñāne hy evaṃ pravṛttiḥ syāt kāryākārye vijānataḥ yat kāryaṃ na vyavasyāmas tad bhavān vaktum arhati 8 bhagavan nāśramāḥ sarve pṛthag ācāra darśinaḥ idaṃ śreya idaṃ śreya iti nānā pradhāvinaḥ 9 tāṃs tu viprasthitān dṛṣṭvā śāstraiḥ śāstrābhinandinaḥ svaśāstraiḥ parituṣṭāṃś ca śreyo nopalabhāmahe 10 śāstraṃ yadi bhaved ekaṃ vyaktaṃ śreyo bhavet tadā śāstraiś ca bahubhir bhūyaḥ śreyo guhyaṃ praveśitam 11 etasmāt kāraṇāc chreyaḥ kalilaṃ pratibhāti mām bravītu bhagavāṃs tan me upasanno 'smy adhīhi bhoḥ 12 [nārada] āśramās tāta catvāro yathā saṃkalpitāḥ pṛthak tān sarvān anupaśya tvaṃ samāśrityaiva gālava 13 teṣāṃ teṣāṃ tathāhi tvam āśramāṇāṃ tatas tataḥ nānārūpaguṇoddeśaṃ paśya viprasthitaṃ pṛthak nayanti caiva te samyag abhipretam asaṃśayam 14 ṛju paśyaṃs tathā samyag āśramāṇāṃ parāṃ gatim yat tu niḥśreyasaṃ samyak tac caivāsaṃśayātmakam 15 anugrahaṃ ca mitrāṇām amitrāṇāṃ ca nigraham saṃgrahaṃ ca trivargasya śreya āhur manīṣiṇaḥ 16 nivṛttiḥ karmaṇaḥ pāpāt satataṃ puṇyaśīlatā sadbhiś ca samudācāraḥ śreya etad asaṃśayam 17 mārdavaṃ sarvabhūteṣu vyavahāreṣu cārjavam vāk caiva madhurā proktā śreya etad asaṃśayam 18 devatābhyaḥ pitṛbhyaś ca saṃvibhāgo 'tithiṣv api asaṃtyāgaś ca bhṛtyānāṃ śreya etad asaṃśayam 19 satyasya vacanaṃ śreyaḥ satyajñānaṃ tu duṣkaram yad bhūtahitam atyantam etat satyaṃ bravīmy aham 20 ahaṃkārasya ca tyāgaḥ pranayasya ca nigrahaḥ saṃtoṣaś caikacaryā ca kūtasthaṃ śreya ucyate 21 dharmeṇa vedādhyayanaṃ vedāṅgānāṃ tathaiva ca vidyārthānāṃ ca jijñāsā śreya etad asaṃśayam 22 śabdarūparasasparśān saha gandhena kevalān nātyartham upaseveta śreyaso 'rthī paraṃtapa 23 naktaṃcaryā divā svapnam ālasyaṃ paiśunaṃ madam atiyogam ayogaṃ ca śreyaso 'rthī parityajet 24 karmotkarṣaṃ na mārgeta mareṣāṃ parinindayā svaguṇair eva mārgeta viprakarṣaṃ pṛthagjanāt 25 nirguṇās tv eva bhūyiṣṭham ātmasaṃbhāvino narāḥ doṣair anyān guṇavataḥ kṣipanty ātmaguṇa kṣayāt 26 anucyamānāś ca punas te manyante mahājanāt guṇavattaram ātmānaṃ svena mānena darpitāḥ 27 abruvan kasya cin nindām ātmapūjām avarṇayan vipaścid guṇasaṃpannaḥ prāpnoty eva mahad yaśaḥ 28 abruvan vāti surabhir gandhaḥ sumanasāṃ śuciḥ tathaivāvyāharan bhāti vimalo bhānur ambare 29 evamādīni cānyāni parityaktāni medhayā jvalanti yaśasā loke yāni na vyāharanti ca 30 na loke dīpyate mūrkhaḥ kevatātma praśaṃsayā api cāpihitaḥ śvabhre kṛtavidyaḥ prakāśate 31 asann uccair api proktaḥ śabdaḥ samupaśāmyati dīpyate tv eva lokeṣu śanair api subhāsitam 32 mūḍhānām avaliptānām asāraṃ bhāsitaṃ bahu darśayaty antarātmānaṃ divā rūpam ivāṃśumān 33 etasmāt kāraṇāt prajñāṃ mṛgayante pṛthagvidhām prajñā lābho hi bhūtānām uttamaḥ pratibhāti mām 34 nāpṛṣṭaḥ kasya cid brūyān na cānyāyena pṛcchataḥ jñānavān api medhāvī jadaval lokam ācaret 35 tato vāsaṃ parīkṣeta dharmanityeṣu sādhuṣu manuṣyeṣu vadānyeṣu svadharmanirateṣu ca 36 caturṇāṃ yatra varṇānāṃ dharmavyatikaro bhavet na tatra vāsaṃ kurvīta śreyo 'rthī vai kathaṃ cana 37 nirārambho 'py ayam iha yathā labdhopajīvinaḥ puṇyaṃ puṇyeṣu vimalaṃ pāpaṃ pāpeṣu cāpnuyāt 38 apām agnes tathendoś ca sparśaṃ vedayate yathā tathā paśyāmahe sparśam ubhayoḥ pāpapuṇyayoḥ 39 apaśyanto 'nnaviṣayaṃ bhuñjate vighasāśinaḥ bhujñānaṃ cānna viṣayān viṣayaṃ viddhi karmaṇāṃ 40 yatrāgamayamānānām asatkāreṇa pṛcchatām prabrūyād brahmaṇo dharmaṃ tyajet taṃ deśam ātmavān 41 śiṣyopādhyāyikā vṛttir yatra syāt susamāhitā yathāvac chāstra saṃpannā kas taṃ deśaṃ parityajet 42 ākāśasthā dhruvaṃ yatra doṣaṃ brūyur vipaścitam ātmapūjābhikāmā vai ko vaset tatra paṇḍitaḥ 43 yatra saṃloditā lubdhaiḥ prāyaśo dharmasetavaḥ pradīptam iva śailāntaṃ kas taṃ deśaṃ na saṃtyajet 44 yatra dharmam anāśaṅkāś careyur vītamatsarāḥ caret tatra vasec caiva puṇyaśīleṣu sādhuṣu 45 dharmam arthanimittaṃ tu careyur yatra mānavāḥ na tān anuvasej jātu te hi pāpakṛto janāḥ 46 karmaṇā yatra pāpena vartante jīvitespavaḥ vyavadhāvet tatas tūrṇaṃ sasarpāc charaṇād iva 47 yena khatvāṃ samārūḍhaḥ karmaṇānuśayī bhavet āditas tan na kartavyam icchatā bhavam ātmanaḥ 48 yatra rājā ca rājñaś ca puruṣāḥ pratyanantarāḥ kutumbinām agrabhujas tyajet tad rāstram ātmavān 49 śrotriyās tv agrabhoktāro dharmanityāḥ sanātanāḥ yājanādhyāpane yuktā yatra tad rāstram āvaset 50 svāhā svadhā vasatkārā yatra samyag anuṣṭhitāḥ ajasraṃ caiva vartante vaset tatrāvicārayan 51 aśucīny atra paśyeta brāhmaṇān vṛtti karśitān tyajet tad rāstram āsannam upasṛṣṭam ivāmiṣam 52 prīyamāṇā narā yatra prayaccheyur ayācitāḥ svasthacitto vaset tatra kṛtakṛtya ivātmavān 53 daṇḍo yatrāvinīteṣu satkāraś ca kṛtātmasu caret tatra vasec caiva puṇyaśīleṣu sādhuṣu 54 upasṛṣṭeṣv adānteṣu durācāreṣv asādhuṣu avinīteṣu lubdheṣu sumahad danda dhāraṇam 55 yatra rājā dharmanityo rājyaṃ vai paryupāsitā apāsya kāmān kāmeśo vaset tatrāvicārayan 56 tathā śīlā hi rājānaḥ sarvān viṣayavāsinaḥ śreyasā yojayanty āśu śreyasi pratyupasthite 57 pṛcchatas te mayā tāta śreya etad udāhṛtam na hi śakyaṃ pradhānena śreyaḥ saṃkhyātum ātmanaḥ 58 evaṃ pravartamānasya vṛttiṃ pranihitātmanaḥ tapasaiveha bahulaṃ śreyo vyaktaṃ bhaviṣyati |
The Mahabharata in Sanskrit
Book 12
Chapter 277
|
1
[य] कथं नु मुक्तः पृथिवीं चरेद अस्मद्विधॊ नृपः नित्यं कैश च गुणैर युक्तः सङ्गपाशाद विमुच्यते 2 [भी] अत्र ते वर्तयिष्यामि इतिहासं पुरातनम अरिष्टनेमिना परॊक्तं सगरायानुपृच्छते 3 [सगर] किं शरेयः परमं बरह्मन कृत्वेह सुखम अश्नुते कथं न शॊचेन न कषुभ्येद एतद इच्छामि वेदितुम 4 [भी] एवम उक्तस तदा तार्क्ष्यः सर्वशास्त्रविशारदः विबुध्य संपदं चाग्र्यां सद वाक्यम इदम अब्रवीत 5 सुखं मॊक्षसुखं लॊके न च लॊकॊ ऽवगच्छति परसक्तः पुत्रपशुषु धनधान्य समाकुलः 6 सक्तबुद्धिर अशान्तात्मा न स शक्यश चिकित्सितुम सनेहपाशसितॊ मूढॊ न स मॊक्षाय कल्पते 7 सनेहजान इह ते पाशान वक्ष्यामि शृणु तान मम सकर्णकेन शिरसा शक्याश छेत्तुं विजानता 8 संभाव्य पुत्रान कालेन यौवनस्थान निवेश्य च समर्थाञ जीवने जञात्वा मुक्तश चर यथासुखम 9 भार्यां पुत्रवतीं वृद्धां लालितां पुत्रवत्सलाम जञात्वा परजहि काले तवं परार्थम अनुदृश्य च 10 सापत्यॊ निरपत्यॊ वा मुक्तश चर यथासुखम इन्द्रियैर इन्द्रियार्थांस तवम अनुभूय यथाविधि 11 कृतकौतूहलस तेषु मुक्तश चर यथासुखम उपपत्त्यॊपलब्धेषु लाभेषु च समॊ भव 12 एष तावत समासेन तव संकीर्तितॊ मया मॊक्षार्थॊ विस्तरेणापि भूयॊ वक्ष्यामि तच छृणु 13 मुक्ता वीतभया लॊके चरन्ति सुखिनॊ नराः सक्तभावा विनश्यन्ति नरास तत्र न संशयः 14 आहारसंचयाश चैव तथा कीत पिपीलिकाः असक्ताः सुखिनॊ लॊके सक्ताश चैव विनाशिनः 15 सवजने न च ते चिन्ता कर्तव्या मॊक्षबुद्धिना इमे मया विना भूता भविष्यन्ति कथं तव इति 16 सवयम उत्पद्यते जन्तुः सवयम एव विवर्धते सुखदुःखे तथा मृत्युं सवयम एवाधिगच्छति 17 भॊजनाच छादने चैव मात्रा पित्रा च संग्रहम सवकृतेनाधिगच्छन्ति लॊके नास्त्य अकृतं पुरा 18 धात्रा विहित भक्ष्याणि सर्वभूतानि मेदिनीम लॊके विपरिधावन्ति रक्षितानि सवकर्मभिः 19 सवयं मृत पिण्ड भूतस्य परतन्त्रस्य सर्वदा कॊ हेतुः सवजनं पॊष्टुं रक्षितुं वादृधात्मनः 20 सवजनं हि यदा मृत्युर हन्त्य एव तव पश्यतः कृते ऽपि यत्ने महति तत्र बॊद्धव्यम आत्मना 21 जीवन्तम अपि चैवैनं भरणे रक्षणे तथा असमाप्ते परित्यज्य पश्चाद अपि मरिष्यसि 22 यदा मृतश च सवजनं न जञास्यसि कथं चन सुखितं दुःखितं वापि ननु बॊद्धव्यम आत्मना 23 मृते वा तवयि जीवे वा यदि भॊक्ष्यति वै जनः सवकृतं ननु बुद्ध्वैवं कर्तव्यं हितम आत्मनः 24 एवं विजानँल लॊके ऽसमिन कः कस्येत्य अभिनिश्चितः मॊक्षे निवेशय मनॊ भूयश चाप्य उपधारय 25 कषुत्पिपासादयॊ भावा जिता यस्येह देहिनः करॊधॊ लॊभस तथा मॊहः सत्त्ववान मुक्त एव सः 26 दयूते पाने तथा सत्रीषु मृगयायां च यॊ नरः न परमाद्यति संमॊहात सततं मुक्त एव सः 27 दिवसे दिवसे नाम रात्रौ रात्रौ सदा सदा भॊक्तव्यम इति यः खिन्नॊ दॊषबुद्धिः स उच्यते 28 आत्मभावं तथा सत्रीषु मुक्तम एव पुनः पुनः यः पश्यति सदा युक्तॊ यथावन मुक्त एव सः 29 संभवं च विनाशं च भूतानां चेष्टितं तथा यस तत्त्वतॊ विजानाति लॊके ऽसमिन मुक्त एव सः 30 परस्थं वाहसहस्रेषु यात्रार्थं चैव कॊतिषु परासादे मञ्चक सथानं यः पश्यति स मुच्यते 31 मृत्युनाभ्याहतं लॊकं वयाधिभिश चॊपपीदितम अवृत्ति कर्शितं चैव यः पश्यति स मुच्यते 32 यः पश्यति सुखीतुष्टॊ नपश्यंश च विहन्यते यश चाप्य अल्पेन संतुष्टॊ लॊके ऽसमिन मुक्त एव सः 33 अग्नीसॊमाव इदं सर्वम इतियश चानुपश्यति न च संस्पृश्यते भावैर अद्भुतैर मुक्त एव सः 34 पर्यङ्क शय्या भूमिश च समाने यस्य देहिनः शालयश च कदन्नं च यस्य सयान मुक्त एव सः 35 कषौमं च कुशचीरं च कौशेयं वल्कलानि च आविकं चर्म च समं यस्य सयान मुक्त एव सः 36 पञ्च भूतसमुद्भूतं लॊकं यश चानुपश्यति तथा च वर्तते दृष्ट्वा लॊके ऽसमिन मुक्त एव सः 37 सुखदुःखे समे यस्य लाभालाभौ यजाजयौ इच्छा दवेषौ भयॊद्वेगौ सर्वथा मुक्त एव सः 38 रक्तमूत्र पुरीसानां दॊषाणां संचयं तथा शरीरं दॊषबहुलं दृष्ट्वा चेदं विमुच्यते 39 वली पलित संयॊगं कार्श्यं वैवर्ण्यम एव च कुब्ज भावं च जरया यः पश्यति स मुच्यते 40 पुंस्त्वॊपघातं कालेन दर्शनॊपरमं तथा बाधिर्यं पराण मन्तत्वं यः पश्यति स मुच्यते 41 गतान ऋषींस तथा देवान असुरांश च तथागतान लॊकाद अस्मात परं लॊकं यः पश्यति स मुच्यते 42 परभावैर अन्वितास तैस तैः पार्थिवेन्द्राः सहस्रशः ये गताः पृथिवीं तयक्त्वा इति जञात्वा विमुच्यते 43 अर्थांश च दुर्लभाँल लॊके कलेशांश च सुलभांस तथा दुःखं चैव कुतुम्बार्थे यः पश्यति स मुच्यते 44 अपत्यानां च वैगुण्यं जनं विगुणम एव च पश्यन भूयिष्ठशॊ लॊके कॊ मॊक्षं नाभिपूजयेत 45 शास्त्राल लॊकाच च यॊ बुद्धः सर्वं पश्यति मानवः असारम इव मानुष्यं सर्वथा मुक्त एव सः 46 एतच छरुत्वा मम वचॊ भवांश चरतु मुक्तवत गार्हस्थ्ये यदि ते मॊक्षे कृता बुद्धिर अविक्लवा 47 तत तस्य वचनं शरुत्वा सम्यक स पृथिवीपतिः मॊक्षजैश च गुणैर युक्तः पालयाम आस च परजाः |
1
[y] kathaṃ nu muktaḥ pṛthivīṃ cared asmadvidho nṛpaḥ nityaṃ kaiś ca guṇair yuktaḥ saṅgapāśād vimucyate 2 [bhī] atra te vartayiṣyāmi itihāsaṃ purātanam ariṣṭaneminā proktaṃ sagarāyānupṛcchate 3 [sagara] kiṃ śreyaḥ paramaṃ brahman kṛtveha sukham aśnute kathaṃ na śocen na kṣubhyed etad icchāmi veditum 4 [bhī] evam uktas tadā tārkṣyaḥ sarvaśāstraviśāradaḥ vibudhya saṃpadaṃ cāgryāṃ sad vākyam idam abravīt 5 sukhaṃ mokṣasukhaṃ loke na ca loko 'vagacchati prasaktaḥ putrapaśuṣu dhanadhānya samākulaḥ 6 saktabuddhir aśāntātmā na sa śakyaś cikitsitum snehapāśasito mūḍho na sa mokṣāya kalpate 7 snehajān iha te pāśān vakṣyāmi śṛṇu tān mama sakarṇakena śirasā śakyāś chettuṃ vijānatā 8 saṃbhāvya putrān kālena yauvanasthān niveśya ca samarthāñ jīvane jñātvā muktaś cara yathāsukham 9 bhāryāṃ putravatīṃ vṛddhāṃ lālitāṃ putravatsalām jñātvā prajahi kāle tvaṃ parārtham anudṛśya ca 10 sāpatyo nirapatyo vā muktaś cara yathāsukham indriyair indriyārthāṃs tvam anubhūya yathāvidhi 11 kṛtakautūhalas teṣu muktaś cara yathāsukham upapattyopalabdheṣu lābheṣu ca samo bhava 12 eṣa tāvat samāsena tava saṃkīrtito mayā mokṣārtho vistareṇāpi bhūyo vakṣyāmi tac chṛṇu 13 muktā vītabhayā loke caranti sukhino narāḥ saktabhāvā vinaśyanti narās tatra na saṃśayaḥ 14 āhārasaṃcayāś caiva tathā kīta pipīlikāḥ asaktāḥ sukhino loke saktāś caiva vināśinaḥ 15 svajane na ca te cintā kartavyā mokṣabuddhinā ime mayā vinā bhūtā bhaviṣyanti kathaṃ tv iti 16 svayam utpadyate jantuḥ svayam eva vivardhate sukhaduḥkhe tathā mṛtyuṃ svayam evādhigacchati 17 bhojanāc chādane caiva mātrā pitrā ca saṃgraham svakṛtenādhigacchanti loke nāsty akṛtaṃ purā 18 dhātrā vihita bhakṣyāṇi sarvabhūtāni medinīm loke viparidhāvanti rakṣitāni svakarmabhiḥ 19 svayaṃ mṛt piṇḍa bhūtasya paratantrasya sarvadā ko hetuḥ svajanaṃ poṣṭuṃ rakṣituṃ vādṛdhātmanaḥ 20 svajanaṃ hi yadā mṛtyur hanty eva tava paśyataḥ kṛte 'pi yatne mahati tatra boddhavyam ātmanā 21 jīvantam api caivainaṃ bharaṇe rakṣaṇe tathā asamāpte parityajya paścād api mariṣyasi 22 yadā mṛtaś ca svajanaṃ na jñāsyasi kathaṃ cana sukhitaṃ duḥkhitaṃ vāpi nanu boddhavyam ātmanā 23 mṛte vā tvayi jīve vā yadi bhokṣyati vai janaḥ svakṛtaṃ nanu buddhvaivaṃ kartavyaṃ hitam ātmanaḥ 24 evaṃ vijānaṁl loke 'smin kaḥ kasyety abhiniścitaḥ mokṣe niveśaya mano bhūyaś cāpy upadhāraya 25 kṣutpipāsādayo bhāvā jitā yasyeha dehinaḥ krodho lobhas tathā mohaḥ sattvavān mukta eva saḥ 26 dyūte pāne tathā strīṣu mṛgayāyāṃ ca yo naraḥ na pramādyati saṃmohāt satataṃ mukta eva saḥ 27 divase divase nāma rātrau rātrau sadā sadā bhoktavyam iti yaḥ khinno doṣabuddhiḥ sa ucyate 28 ātmabhāvaṃ tathā strīṣu muktam eva punaḥ punaḥ yaḥ paśyati sadā yukto yathāvan mukta eva saḥ 29 saṃbhavaṃ ca vināśaṃ ca bhūtānāṃ ceṣṭitaṃ tathā yas tattvato vijānāti loke 'smin mukta eva saḥ 30 prasthaṃ vāhasahasreṣu yātrārthaṃ caiva kotiṣu prāsāde mañcaka sthānaṃ yaḥ paśyati sa mucyate 31 mṛtyunābhyāhataṃ lokaṃ vyādhibhiś copapīditam avṛtti karśitaṃ caiva yaḥ paśyati sa mucyate 32 yaḥ paśyati sukhītuṣṭo napaśyaṃś ca vihanyate yaś cāpy alpena saṃtuṣṭo loke 'smin mukta eva saḥ 33 agnīsomāv idaṃ sarvam itiyaś cānupaśyati na ca saṃspṛśyate bhāvair adbhutair mukta eva saḥ 34 paryaṅka śayyā bhūmiś ca samāne yasya dehinaḥ śālayaś ca kadannaṃ ca yasya syān mukta eva saḥ 35 kṣaumaṃ ca kuśacīraṃ ca kauśeyaṃ valkalāni ca āvikaṃ carma ca samaṃ yasya syān mukta eva saḥ 36 pañca bhūtasamudbhūtaṃ lokaṃ yaś cānupaśyati tathā ca vartate dṛṣṭvā loke 'smin mukta eva saḥ 37 sukhaduḥkhe same yasya lābhālābhau yajājayau icchā dveṣau bhayodvegau sarvathā mukta eva saḥ 38 raktamūtra purīsānāṃ doṣāṇāṃ saṃcayaṃ tathā śarīraṃ doṣabahulaṃ dṛṣṭvā cedaṃ vimucyate 39 valī palita saṃyogaṃ kārśyaṃ vaivarṇyam eva ca kubja bhāvaṃ ca jarayā yaḥ paśyati sa mucyate 40 puṃstvopaghātaṃ kālena darśanoparamaṃ tathā bādhiryaṃ prāṇa mantatvaṃ yaḥ paśyati sa mucyate 41 gatān ṛṣīṃs tathā devān asurāṃś ca tathāgatān lokād asmāt paraṃ lokaṃ yaḥ paśyati sa mucyate 42 prabhāvair anvitās tais taiḥ pārthivendrāḥ sahasraśaḥ ye gatāḥ pṛthivīṃ tyaktvā iti jñātvā vimucyate 43 arthāṃś ca durlabhāṁl loke kleśāṃś ca sulabhāṃs tathā duḥkhaṃ caiva kutumbārthe yaḥ paśyati sa mucyate 44 apatyānāṃ ca vaiguṇyaṃ janaṃ viguṇam eva ca paśyan bhūyiṣṭhaśo loke ko mokṣaṃ nābhipūjayet 45 śāstrāl lokāc ca yo buddhaḥ sarvaṃ paśyati mānavaḥ asāram iva mānuṣyaṃ sarvathā mukta eva saḥ 46 etac chrutvā mama vaco bhavāṃś caratu muktavat gārhasthye yadi te mokṣe kṛtā buddhir aviklavā 47 tat tasya vacanaṃ śrutvā samyak sa pṛthivīpatiḥ mokṣajaiś ca guṇair yuktaḥ pālayām āsa ca prajāḥ |
The Mahabharata in Sanskrit
Book 12
Chapter 278
|
1
[य] तिष्ठते मे सदा तात कौतूहलम इदं हृदि तद अहं शरॊतुम इच्छामि तवत्तः कुरुपितामह 2 कथं देवर्षिर उशना सदा काव्यॊ महामतिः असुराणां परियकरः सुराणाम अप्रिये रतः 3 वर्धयाम आस तेजश च किमर्थम अमितौजसाम नित्यं वैरनिबद्धाश च दानवाः सुरसत्तमैः 4 कथं चाप्य उशना पराप शुक्रत्वम अमर दयुतिः ऋद्धिं च स कथं पराप्तः सर्वम एतद बरवीहि मे 5 न यानि च स तेजस्वी मध्येन नभसः कथम एतद इच्छामि विज्ञातुं निखिलेन पितामह 6 [भी] शृणु राजन्न अवहितः सर्वम एतद यथातथम यथामतियथा चैतच छरुत पूर्वं मयानघ 7 एष भार्गव दायादॊ मुनिः सत्यॊ दृध वरतः असुराणां परियकरॊ निमित्ते करुणात्मके 8 इन्द्रॊ ऽथ धनदॊ राजा यक्षरक्षॊऽधिपः स च परभविष्णुश च कॊशस्य जगतश च तथा परभुः 9 तस्यात्मानम अथाविश्य यॊगसिद्धॊ महामुनिः रुद्ध्वा धनपतिं देवं यॊगेन हृतवान वसु 10 हृते धने ततः शर्म न लेभे धनदस तथा आपन्न मन्युः संविग्नः सॊ ऽभयगात सुरसत्तमम 11 निवेदयाम आस तदा शिवायामित तेजसे देव शरेष्ठाय रुद्राय सौम्याय बहुरूपिणे 12 [कुबेर] यॊगात्मकेनॊशनसा रुद्ध्वा मम हृतं वसु यॊगेनात्म गतिं कृत्वा निःसृतश च महातपः 13 [भी] एतच छरुत्वा ततः करुद्धॊ महायॊगी महेश्वरः संरक्तनयनॊ राजञ शूलम आदाय तस्थिवान 14 कवास्वौ कवासाव इति पराह गृहीत्वा परमायुधम उशना दूरतस तस्य बभौ जञात्वा चिकीर्षितम 15 स महायॊगिनॊ बुद्ध्वा तं रॊषं वै महात्मनः गतिम आगमनं वेत्ति सथानं वेत्ति ततः परभुः 16 संचिन्त्यॊग्रेण तपसा महात्मानं महेश्वरम उशना यॊगसिद्धात्मा शूलाग्रे परत्यदृश्यत 17 विज्ञात रूपः स तदा तपःसिद्धेन धन्विना जञात्वा शूलं च देवेशः पानिना समनामयत 18 आनतेनाथ शूलेन पानिनामित तेजसा पिनाकम इति चॊवाच शूलम उग्रायुधः परभुः 19 पानिमध्यगतं दृष्ट्वा भार्गवं तम उमापतिः आस्यं विवृत्य ककुदी पानिं संप्राक्षिपच छनैः 20 स तु परविष्ट उशना कॊष्ठं माहेश्वरं परभुः वयचरच चापि तत्रासौ महात्मा भृगुनन्दनः 21 [य] किमर्थं वयचरद राजन्न उशना तस्य धीमतः जथरे देवदेवस्य किं चाकार्षीन महाद्युतिः 22 [भी] पुरा सॊ ऽनतर्जलगतः सथानु भूतॊ महाव्रतः वर्षाणाम अभवद राजन परयुतान्य अर्बुदानि च 23 उदतिष्ठत तपस तप्त्वा दुश्चरं स महाह्रदात ततॊ देवातिदेवस तं बरह्मा समुपसर्पत 24 तपॊवृद्धिम अपृच्छच च कुशलं चैनम अव्ययम तपः सुचीर्णम इति च परॊवाच वृषभध्वजः 25 तत संयॊगेन वृद्धिं चाप्य अपश्यत स तु शंकरः महामतिर अचिन्त्यात्मा सत्यधर्मरतः सदा 26 स तेनाध्यॊ महायॊगी तपसा च धनेन च वयराजत महाराज तरिषु लॊकेषु वीर्यवान 27 ततः पिनाकी यॊगात्मा धयानयॊगं समाविशत उशना तु समुद्विग्नॊ निलिल्ये जथरे ततः 28 तुष्टाव च महायॊगी देवं तत्रस्थ एव च निःसारं काङ्क्षमाणस तु तेजसा परत्यहन्यत 29 उशना तु तदॊवाच जथरस्थॊ महामुनिः परसादं मे कुरुष्वेति पुनः पुनर अरिंदम 30 तम उवाच महादेवॊ गच्छ शिश्नेन मॊक्षणम इति सरॊतांसि सर्वाणि रुद्ध्वा तरिदशपुंगवः 31 अपश्यमानः स दवारं सर्वतः पिहितॊ मुनिः पर्यक्रामद दह्यमान इतश चेतश च तेजसा 32 स विनिष्क्रम्य शिश्नेन शुक्रत्वम अभिपेदिवान कार्येण तेन नभसॊ नागच्छत च मध्यतः 33 निष्क्रान्तम अथ तं दृष्ट्वा जवलन्तम इव तेजसा भवॊ रॊषसमाविष्टः शूलॊद्यतकरः सथितः 34 नयवारयत तं देवी करुद्धं पशुपतिं पतिम पुत्रत्वम अगमद देव्या वारिते शङ्करे च सः 35 [देवी] हिंसनीयस तवया नैष मम पुत्रत्वम आगतः न हि देवॊदरात कश चिन निःसृतॊ नाशम अर्छति 36 [भी] ततः परीतॊ ऽभवद देव्याः परहसंश चेदम अब्रवीत गच्छत्य एष यथाकामम इति राजन पुनः पुनः 37 ततः परनम्य वरदं देवं देवीम उमां तथा उशना पराप तद धीमान गतिम इष्टां महामुनिः 38 एतत ते कथितं तात भार्गवस्य महात्मनः चरितं भरतश्रेष्ठ यन मां तवं परिपृच्छसि |
1
[y] tiṣṭhate me sadā tāta kautūhalam idaṃ hṛdi tad ahaṃ śrotum icchāmi tvattaḥ kurupitāmaha 2 kathaṃ devarṣir uśanā sadā kāvyo mahāmatiḥ asurāṇāṃ priyakaraḥ surāṇām apriye rataḥ 3 vardhayām āsa tejaś ca kimartham amitaujasām nityaṃ vairanibaddhāś ca dānavāḥ surasattamaiḥ 4 kathaṃ cāpy uśanā prāpa śukratvam amara dyutiḥ ṛddhiṃ ca sa kathaṃ prāptaḥ sarvam etad bravīhi me 5 na yāni ca sa tejasvī madhyena nabhasaḥ katham etad icchāmi vijñātuṃ nikhilena pitāmaha 6 [bhī] śṛṇu rājann avahitaḥ sarvam etad yathātatham yathāmatiyathā caitac chruta pūrvaṃ mayānagha 7 eṣa bhārgava dāyādo muniḥ satyo dṛdha vrataḥ asurāṇāṃ priyakaro nimitte karuṇātmake 8 indro 'tha dhanado rājā yakṣarakṣo'dhipaḥ sa ca prabhaviṣṇuś ca kośasya jagataś ca tathā prabhuḥ 9 tasyātmānam athāviśya yogasiddho mahāmuniḥ ruddhvā dhanapatiṃ devaṃ yogena hṛtavān vasu 10 hṛte dhane tataḥ śarma na lebhe dhanadas tathā āpanna manyuḥ saṃvignaḥ so 'bhyagāt surasattamam 11 nivedayām āsa tadā śivāyāmita tejase deva śreṣṭhāya rudrāya saumyāya bahurūpiṇe 12 [kubera] yogātmakenośanasā ruddhvā mama hṛtaṃ vasu yogenātma gatiṃ kṛtvā niḥsṛtaś ca mahātapaḥ 13 [bhī] etac chrutvā tataḥ kruddho mahāyogī maheśvaraḥ saṃraktanayano rājañ śūlam ādāya tasthivān 14 kvāsvau kvāsāv iti prāha gṛhītvā paramāyudham uśanā dūratas tasya babhau jñātvā cikīrṣitam 15 sa mahāyogino buddhvā taṃ roṣaṃ vai mahātmanaḥ gatim āgamanaṃ vetti sthānaṃ vetti tataḥ prabhuḥ 16 saṃcintyogreṇa tapasā mahātmānaṃ maheśvaram uśanā yogasiddhātmā śūlāgre pratyadṛśyata 17 vijñāta rūpaḥ sa tadā tapaḥsiddhena dhanvinā jñātvā śūlaṃ ca deveśaḥ pāninā samanāmayat 18 ānatenātha śūlena pānināmita tejasā pinākam iti covāca śūlam ugrāyudhaḥ prabhuḥ 19 pānimadhyagataṃ dṛṣṭvā bhārgavaṃ tam umāpatiḥ āsyaṃ vivṛtya kakudī pāniṃ saṃprākṣipac chanaiḥ 20 sa tu praviṣṭa uśanā koṣṭhaṃ māheśvaraṃ prabhuḥ vyacarac cāpi tatrāsau mahātmā bhṛgunandanaḥ 21 [y] kimarthaṃ vyacarad rājann uśanā tasya dhīmataḥ jathare devadevasya kiṃ cākārṣīn mahādyutiḥ 22 [bhī] purā so 'ntarjalagataḥ sthānu bhūto mahāvrataḥ varṣāṇām abhavad rājan prayutāny arbudāni ca 23 udatiṣṭhat tapas taptvā duścaraṃ sa mahāhradāt tato devātidevas taṃ brahmā samupasarpata 24 tapovṛddhim apṛcchac ca kuśalaṃ cainam avyayam tapaḥ sucīrṇam iti ca provāca vṛṣabhadhvajaḥ 25 tat saṃyogena vṛddhiṃ cāpy apaśyat sa tu śaṃkaraḥ mahāmatir acintyātmā satyadharmarataḥ sadā 26 sa tenādhyo mahāyogī tapasā ca dhanena ca vyarājata mahārāja triṣu lokeṣu vīryavān 27 tataḥ pinākī yogātmā dhyānayogaṃ samāviśat uśanā tu samudvigno nililye jathare tataḥ 28 tuṣṭāva ca mahāyogī devaṃ tatrastha eva ca niḥsāraṃ kāṅkṣamāṇas tu tejasā pratyahanyata 29 uśanā tu tadovāca jatharastho mahāmuniḥ prasādaṃ me kuruṣveti punaḥ punar ariṃdama 30 tam uvāca mahādevo gaccha śiśnena mokṣaṇam iti srotāṃsi sarvāṇi ruddhvā tridaśapuṃgavaḥ 31 apaśyamānaḥ sa dvāraṃ sarvataḥ pihito muniḥ paryakrāmad dahyamāna itaś cetaś ca tejasā 32 sa viniṣkramya śiśnena śukratvam abhipedivān kāryeṇa tena nabhaso nāgacchata ca madhyataḥ 33 niṣkrāntam atha taṃ dṛṣṭvā jvalantam iva tejasā bhavo roṣasamāviṣṭaḥ śūlodyatakaraḥ sthitaḥ 34 nyavārayata taṃ devī kruddhaṃ paśupatiṃ patim putratvam agamad devyā vārite śaṅkare ca saḥ 35 [devī] hiṃsanīyas tvayā naiṣa mama putratvam āgataḥ na hi devodarāt kaś cin niḥsṛto nāśam archati 36 [bhī] tataḥ prīto 'bhavad devyāḥ prahasaṃś cedam abravīt gacchaty eṣa yathākāmam iti rājan punaḥ punaḥ 37 tataḥ pranamya varadaṃ devaṃ devīm umāṃ tathā uśanā prāpa tad dhīmān gatim iṣṭāṃ mahāmuniḥ 38 etat te kathitaṃ tāta bhārgavasya mahātmanaḥ caritaṃ bharataśreṣṭha yan māṃ tvaṃ paripṛcchasi |
The Mahabharata in Sanskrit
Book 12
Chapter 279
|
1
[य] अतः परं महाबाहॊ यच छरेयस तद वदस्व मे न तृप्याम्य अमृतस्येव वससस ते पितामह 2 किं कर्म पुरुषः कृत्वा शुभं पुरुषसत्तम शरेयः परम अवाप्नॊति परेत्य चेह च तद वद 3 [भी] अत्र ते वर्तयिष्यामि यथापूर्वं महायशः पराशरं महात्मानं पप्रच्छ जनकॊ नृपः 4 किं शरेयः सर्वभूतानाम अस्मिँल लॊके परत्र च यद भवेत परतिपत्तव्यं तद भवान परब्रवीतु मे 5 ततः स तपसा युक्तः सर्वधर्माविधानवित नृपायानुग्रह मना मुनिर वाक्यम अथाब्रवीत 6 धर्म एव कृतः शरेयान इह लॊके परत्र च तस्माद धि परमं नास्ति यथा पराहुर मनीषिणः 7 परतिपद्य नरॊ धर्मं सवर्गलॊके महीयते धर्मात्मकः कर्म विधिर देहिनां नृपसत्तम तस्मिन्न आश्रमिणः सन्तः सवकर्माणीह कुर्वते 8 चतुर्विधा हि लॊकस्य यात्रा तात विधीयते मर्त्या यत्रावतिष्ठन्ते सा च कामात परवर्तते 9 सुकृतासुकृतं कर्म निषेव्य विविधैः करमैः दशार्ध परविभक्तानां भूतानां बहुधा गतिः 10 सौवर्णं राजतं वापि यथा भान्दं निषिच्यते तथा निषिच्यते जन्तुः पूर्वकर्म वशानुगः 11 नाबीजाज जायते किं चिन नाकृत्वा सुखम एधते सुकृती विन्दति सुखं पराप्य देहक्षयं नरः 12 दैवं तात न पश्यामि नास्ति दैवस्य साधनम सवभावतॊ हि संसिद्धा देवगन्धर्वदानवाः 13 परेत्य जातिकृतं कर्म न समरन्ति सदा जनाः ते वै तस्य फलप्राप्तौ कर्म चापि चतुर्विधम 14 लॊकयात्राश्रयश चैव शब्दॊ वेदाश्रयः कृतः शान्त्य अर्थं मनसस तात नैतद वृद्धानुशासनम 15 चक्षुषा मनसा वाचा कर्मणा च चतुर्विधम कुरुते यादृशं कर्म तादृशं परतिपद्यते 16 निरन्तरं च मिश्रं च फलते कर्म पार्थिव कल्यानं यदि वा पापं न तु नाशॊ ऽसय विद्यते 17 कदा चित सुकृतं तात कूतस्थम इव तिष्ठति मज्जमानस्य संसारे यावद दुःखाद विमुच्यते 18 ततॊ दुःखक्षयं कृत्वा सुकृतं कर्म सेवते सुकृतक्षयाद दुष्कृतं च तद विद्धि मनुजाधिप 19 दमः कषमा धृतिस तेजः संतॊषः सत्यवादिता हरीर अहिंसाव्यसनिता दाक्ष्यं चेति सुखावहाः 20 दुष्कृते सुकृते वापि न जन्तुर अयतॊ भवेत नित्यं मनः समाधाने परयतेत विचक्षणः 21 नायं परस्य सुकृतं दुष्कृतं वापि सेवते करॊति यादृशं कर्म तादृशं परतिपद्यते 22 सुखदुःखे समाधाय पुमान अन्येन गच्छति अन्येनैव जनः सर्वः संगतॊ यश च पार्थिव 23 परेषां यद असूयेत न तत कुर्यात सवयं नरः यॊ हय असूयुस तथायुक्तः सॊ ऽवहासं नियच्छति 24 भीरू राजन्यॊ बराह्मणः सर्वभक्षॊ; वैश्यॊ ऽनीहावान हीनवर्णॊ ऽलसश च विद्वांश चाशीलॊ वृत्तहीनः कुलीनः; सत्याद भरष्टॊ बराह्मणः सत्री च दुष्टा 25 रागी मुक्तः पचमानॊ ऽऽतमहेतॊर; मूर्खॊ वक्ता नृप हीनं च रास्त्रम एते सर्वे शॊच्यतां यान्ति राजन; यश चायुक्तः सनेहहीनः परजासु |
1
[y] ataḥ paraṃ mahābāho yac chreyas tad vadasva me na tṛpyāmy amṛtasyeva vasasas te pitāmaha 2 kiṃ karma puruṣaḥ kṛtvā śubhaṃ puruṣasattama śreyaḥ param avāpnoti pretya ceha ca tad vada 3 [bhī] atra te vartayiṣyāmi yathāpūrvaṃ mahāyaśaḥ parāśaraṃ mahātmānaṃ papraccha janako nṛpaḥ 4 kiṃ śreyaḥ sarvabhūtānām asmiṁl loke paratra ca yad bhavet pratipattavyaṃ tad bhavān prabravītu me 5 tataḥ sa tapasā yuktaḥ sarvadharmāvidhānavit nṛpāyānugraha manā munir vākyam athābravīt 6 dharma eva kṛtaḥ śreyān iha loke paratra ca tasmād dhi paramaṃ nāsti yathā prāhur manīṣiṇaḥ 7 pratipadya naro dharmaṃ svargaloke mahīyate dharmātmakaḥ karma vidhir dehināṃ nṛpasattama tasminn āśramiṇaḥ santaḥ svakarmāṇīha kurvate 8 caturvidhā hi lokasya yātrā tāta vidhīyate martyā yatrāvatiṣṭhante sā ca kāmāt pravartate 9 sukṛtāsukṛtaṃ karma niṣevya vividhaiḥ kramaiḥ daśārdha pravibhaktānāṃ bhūtānāṃ bahudhā gatiḥ 10 sauvarṇaṃ rājataṃ vāpi yathā bhāndaṃ niṣicyate tathā niṣicyate jantuḥ pūrvakarma vaśānugaḥ 11 nābījāj jāyate kiṃ cin nākṛtvā sukham edhate sukṛtī vindati sukhaṃ prāpya dehakṣayaṃ naraḥ 12 daivaṃ tāta na paśyāmi nāsti daivasya sādhanam svabhāvato hi saṃsiddhā devagandharvadānavāḥ 13 pretya jātikṛtaṃ karma na smaranti sadā janāḥ te vai tasya phalaprāptau karma cāpi caturvidham 14 lokayātrāśrayaś caiva śabdo vedāśrayaḥ kṛtaḥ śānty arthaṃ manasas tāta naitad vṛddhānuśāsanam 15 cakṣuṣā manasā vācā karmaṇā ca caturvidham kurute yādṛśaṃ karma tādṛśaṃ pratipadyate 16 nirantaraṃ ca miśraṃ ca phalate karma pārthiva kalyānaṃ yadi vā pāpaṃ na tu nāśo 'sya vidyate 17 kadā cit sukṛtaṃ tāta kūtastham iva tiṣṭhati majjamānasya saṃsāre yāvad duḥkhād vimucyate 18 tato duḥkhakṣayaṃ kṛtvā sukṛtaṃ karma sevate sukṛtakṣayād duṣkṛtaṃ ca tad viddhi manujādhipa 19 damaḥ kṣamā dhṛtis tejaḥ saṃtoṣaḥ satyavāditā hrīr ahiṃsāvyasanitā dākṣyaṃ ceti sukhāvahāḥ 20 duṣkṛte sukṛte vāpi na jantur ayato bhavet nityaṃ manaḥ samādhāne prayateta vicakṣaṇaḥ 21 nāyaṃ parasya sukṛtaṃ duṣkṛtaṃ vāpi sevate karoti yādṛśaṃ karma tādṛśaṃ pratipadyate 22 sukhaduḥkhe samādhāya pumān anyena gacchati anyenaiva janaḥ sarvaḥ saṃgato yaś ca pārthiva 23 pareṣāṃ yad asūyeta na tat kuryāt svayaṃ naraḥ yo hy asūyus tathāyuktaḥ so 'vahāsaṃ niyacchati 24 bhīrū rājanyo brāhmaṇaḥ sarvabhakṣo; vaiśyo 'nīhāvān hīnavarṇo 'lasaś ca vidvāṃś cāśīlo vṛttahīnaḥ kulīnaḥ; satyād bhraṣṭo brāhmaṇaḥ strī ca duṣṭā 25 rāgī muktaḥ pacamāno ''tmahetor; mūrkho vaktā nṛpa hīnaṃ ca rāstram ete sarve śocyatāṃ yānti rājan; yaś cāyuktaḥ snehahīnaḥ prajāsu |
The Mahabharata in Sanskrit
Book 12
Chapter 280
|
1
[पराषर] मनॊरथरथं पराप्य इन्द्रियार्थ हयं नरः रश्मिभिर जञानसंभूतैर यॊ गच्छति स बुद्धिमान 2 सेवाश्रितेन मनसा वृत्ति हीनस्य शस्यते दविजातिहस्तान निर्वृत्ता न तु तुल्यात परस्परम 3 आयुर नसुलभं लब्ध्वा नावकर्षेद विशां पते उत्कर्षार्थं परयतते नरः पुण्येन कर्मणा 4 वर्णेभ्यॊ ऽपि परिभ्रष्टः स वै संमानम अर्हति न तु यः सत्क्रियां पराप्य राजसं कर्म सेवते 5 वर्णॊत्कर्षम अवाप्नॊति नरः पुण्येन कर्मणा दुर्लभं तम अलब्धा हि हन्यात पापेन कर्मणा 6 अज्ञानाद धि कृतं पापं तपसैवाभिनिर्नुदेत पापं हि कर्मफलति पापम एव सवयं कृतम तस्मात पापं न सेवेत कर्म दुःखफलॊदयम 7 पापानुबन्धं यत कर्म यद्य अपि सयान महाफलम न तत सेवेत मेधावी शुचिः कुसलिलं यथा 8 किं कस्तम अनुपश्यामि फलं पापस्य कर्मणः परत्यापन्नस्य हि सतॊ नात्मा तावद विरॊचते 9 परत्यापत्तिश च यस्येह बालिशस्य न जायते तस्यापि सुमहांस तापः परस्थितस्यॊपजायते 10 विरक्तं शॊध्यते वस्त्रं न तु कृष्णॊपसंहितम परयत्नेन मनुष्येन्द्र पापम एवं निबॊध मे 11 सवयं कृत्वा तु यः पापं शुभम एवानुतिष्ठति परायश्चित्तं नरः कर्तुम उभयं सॊ ऽशनुते पृथक 12 अजानात तु कृतां हिंसाम अहिंसा वयपकर्षति बराह्मणाः शास्त्रनिर्देशाद इत्य आहुर बरह्मवादिनः 13 कथा कामकृतं चास्य विहिंसैवापकर्षति इत्य आहुर धर्मशास्त्रज्ञा बराह्मणा वेदपारगाः 14 अहं तु तावत पश्यामि कर्म यद वर्तते कृतम गुणयुक्तं परकाशं च पापेनानुपसंहितम 15 यथा सूक्ष्माणि कर्माणि फलन्तीह यथातथम बुद्धियुक्तानि तानीह कृतानि मनसा सह 16 भवत्य अल्पफलं कर्म सेवितं नित्यम उल्बनम अबुद्धिपूर्वं धर्मज्ञ कृतम उग्रेण कर्मणा 17 कृतानि यानि कर्माणि दैवतैर मुनिभिस तथा नाचरेत तानि धर्मात्मा शरुत्वा चापि न कुत्सयेत 18 संचिन्त्य मनसा राजन विदित्वा शक्तिम आत्मनः करॊति यः शुभं कर्म स वै भद्राणि पश्यति 19 नवे कपाले सलिलं संन्यस्तं हीयते यथा नवेतरे तथा भावं पराप्नॊति सुखभावितम 20 सतॊये ऽनयत तु यत तॊयं तस्मिन्न एव परसिच्यते वृद्धे वृद्धिम अवाप्नॊति सलिले सलिलं यथा 21 एवं कर्माणि यानीह बुद्धियुक्तानि भूपते नसमानीह हीनानि तानि पुण्यतमान्य अपि 22 राज्ञा जेतव्याः सायुधाश चॊन्नताश च; सम्यक कर्तव्यं पालनं च परजानाम अग्निश चेयॊ बहुभिश चापि यज्ञैर; अन्ते मध्ये वा वनम आश्रित्य सथेयम 23 दमान्वितः पुरुषॊ धर्मशीलॊ; भूतानि चात्मानम इवानुपश्येत गरीयसः पूजयेद आत्मशक्त्या; सत्येन शीलेन सुखं नरेन्द्र |
1
[parāṣara] manoratharathaṃ prāpya indriyārtha hayaṃ naraḥ raśmibhir jñānasaṃbhūtair yo gacchati sa buddhimān 2 sevāśritena manasā vṛtti hīnasya śasyate dvijātihastān nirvṛttā na tu tulyāt parasparam 3 āyur nasulabhaṃ labdhvā nāvakarṣed viśāṃ pate utkarṣārthaṃ prayatate naraḥ puṇyena karmaṇā 4 varṇebhyo 'pi paribhraṣṭaḥ sa vai saṃmānam arhati na tu yaḥ satkriyāṃ prāpya rājasaṃ karma sevate 5 varṇotkarṣam avāpnoti naraḥ puṇyena karmaṇā durlabhaṃ tam alabdhā hi hanyāt pāpena karmaṇā 6 ajñānād dhi kṛtaṃ pāpaṃ tapasaivābhinirnudet pāpaṃ hi karmaphalati pāpam eva svayaṃ kṛtam tasmāt pāpaṃ na seveta karma duḥkhaphalodayam 7 pāpānubandhaṃ yat karma yady api syān mahāphalam na tat seveta medhāvī śuciḥ kusalilaṃ yathā 8 kiṃ kastam anupaśyāmi phalaṃ pāpasya karmaṇaḥ pratyāpannasya hi sato nātmā tāvad virocate 9 pratyāpattiś ca yasyeha bāliśasya na jāyate tasyāpi sumahāṃs tāpaḥ prasthitasyopajāyate 10 viraktaṃ śodhyate vastraṃ na tu kṛṣṇopasaṃhitam prayatnena manuṣyendra pāpam evaṃ nibodha me 11 svayaṃ kṛtvā tu yaḥ pāpaṃ śubham evānutiṣṭhati prāyaścittaṃ naraḥ kartum ubhayaṃ so 'śnute pṛthak 12 ajānāt tu kṛtāṃ hiṃsām ahiṃsā vyapakarṣati brāhmaṇāḥ śāstranirdeśād ity āhur brahmavādinaḥ 13 kathā kāmakṛtaṃ cāsya vihiṃsaivāpakarṣati ity āhur dharmaśāstrajñā brāhmaṇā vedapāragāḥ 14 ahaṃ tu tāvat paśyāmi karma yad vartate kṛtam guṇayuktaṃ prakāśaṃ ca pāpenānupasaṃhitam 15 yathā sūkṣmāṇi karmāṇi phalantīha yathātatham buddhiyuktāni tānīha kṛtāni manasā saha 16 bhavaty alpaphalaṃ karma sevitaṃ nityam ulbanam abuddhipūrvaṃ dharmajña kṛtam ugreṇa karmaṇā 17 kṛtāni yāni karmāṇi daivatair munibhis tathā nācaret tāni dharmātmā śrutvā cāpi na kutsayet 18 saṃcintya manasā rājan viditvā śaktim ātmanaḥ karoti yaḥ śubhaṃ karma sa vai bhadrāṇi paśyati 19 nave kapāle salilaṃ saṃnyastaṃ hīyate yathā navetare tathā bhāvaṃ prāpnoti sukhabhāvitam 20 satoye 'nyat tu yat toyaṃ tasminn eva prasicyate vṛddhe vṛddhim avāpnoti salile salilaṃ yathā 21 evaṃ karmāṇi yānīha buddhiyuktāni bhūpate nasamānīha hīnāni tāni puṇyatamāny api 22 rājñā jetavyāḥ sāyudhāś connatāś ca; samyak kartavyaṃ pālanaṃ ca prajānām agniś ceyo bahubhiś cāpi yajñair; ante madhye vā vanam āśritya stheyam 23 damānvitaḥ puruṣo dharmaśīlo; bhūtāni cātmānam ivānupaśyet garīyasaḥ pūjayed ātmaśaktyā; satyena śīlena sukhaṃ narendra |
The Mahabharata in Sanskrit
Book 12
Chapter 281
|
1
[पराषर] कः कस्य चॊपकुरुते कश च कस्मै परयच्छति परानी करॊत्य अयं कर्म सर्वम आत्मार्थम आत्मना 2 गौरवेण परित्यक्तं निःस्नेहं परिवर्जयेत सॊदर्यं भरातरम अपि किम उतान्यं पृथग्जनम 3 विशिष्टस्य विशिष्टाच च तुल्यौ दानप्रतिग्रहौ तयॊः पुण्यतरं दानं तद दविजस्य परयच्छतः 4 नयायागतं धनं वर्णैर नयायेनैव विवर्धितम संरक्ष्यं यत्नम आस्थाय धर्मार्थम इति निश्चयः 5 न धर्मार्थी नृशंसेन कर्मणा धनम अर्जयेत शक्तितः सर्वकार्याणि कुर्यान नर्द्धिम अनुस्मरेत 6 अपॊ हि परयतः शीतास तापिता जवलनेन वा शक्तितॊ ऽतिथये दत्त्वा कषुधार्तायाश्नुते फलम 7 रन्तिदेवेन लॊकेष्टा सिद्धिः पराप्ता महात्मना फलपत्रैर अथॊ मूलैर मुनीन अर्चितवान असौ 8 तैर एव फलपत्रैश च स माथरम अतॊषयत तस्माल लेभे परं सथानं शैब्यॊ ऽपि पृथिवीपतिः 9 देवतातिथिभृत्येभ्यः पितृभ्यॊ ऽथात्मनस तथा ऋणवाञ जायते मर्त्यस तस्माद अनृणतां वरजेत 10 सवाध्यायेन महर्षिभ्यॊ देवेभ्यॊ यज्ञकर्मणा पितृभ्यः शराद्धदानेन नृणाम अभ्यर्चनेन च 11 वाचः शेषावहार्येण पालनेनात्मनॊ ऽपि च यथावद धृत्य वर्गस्य चिकीर्षेद धर्मम आदितः 12 परयत्नेन च संसिद्धा धनैर अपि विवर्जिताः सम्यग घुत्वा हुतवहं मुनयः सिद्धिम आगताः 13 विश्वामित्रस्य पुत्रत्वम ऋचीक तनयॊ ऽगमत ऋग्भिः सतुत्वा महाभागॊ देवान वै यज्ञभागिनः 14 गतः शुक्रत्वम उशना देवदेव परसादनात देवीं सतुत्वा तु गगने मॊदते तेजसा वृतः 15 असितॊ देवलश चैव तथा नारद पर्तवौ कक्षीवाञ जामदग्न्यश च रामस तान्द्यस तथांशुमान 16 वसिष्ठॊ जमदग्निश च विश्वामित्रॊ ऽतरिर एव च भरद्वाजॊ हरिश्मश्रुः कुन्दधारः शरुतश्रवाः 17 एते महर्षयः सतुत्वा विष्णुम ऋग्भिः समाहिताः लेभिरे तपसा सिद्धिं परसादात तस्य धीमतः 18 अनर्हाश चार्हतां पराप्ताः सन्तः सतुत्वा तम एव ह न तु वृद्धिम इहान्विच्छेत कर्मकृत्वा जुगुप्सितम 19 ये ऽरथा धर्मेण ते सत्या ये ऽधर्मेण धिग अस्तु तान धर्मं वै शाश्वतं लॊके न जह्याद धनकाङ्क्षया 20 आहिताग्निर हि धर्मात्मा यः स पुण्यकृद उत्तमः वेदा हि सर्वे राजेन्द्र सथितास तरिष्व अग्निषु परभॊ 21 स चाप्य अग्न्याहितॊ विप्रः करिया यस्य न हीयते शरेयॊ हय अनाहिताग्नित्वम अग्निहॊत्रं न निष्क्रियम 22 अग्निर आत्मा च माता च पिता जनयिता तथा गुरुश च नरशार्दूल परिचर्या यथातथम 23 मानं तयक्त्वा यॊ नरॊ वृद्धसेवी; विद्वान कलीबः पश्यति परीतियॊगात दाक्ष्येणाहीनॊ धर्मयुक्तॊ नदान्तॊ; लॊके ऽसमिन वै पूज्यते सद्भिर आर्यः |
1
[parāṣara] kaḥ kasya copakurute kaś ca kasmai prayacchati prānī karoty ayaṃ karma sarvam ātmārtham ātmanā 2 gauraveṇa parityaktaṃ niḥsnehaṃ parivarjayet sodaryaṃ bhrātaram api kim utānyaṃ pṛthagjanam 3 viśiṣṭasya viśiṣṭāc ca tulyau dānapratigrahau tayoḥ puṇyataraṃ dānaṃ tad dvijasya prayacchataḥ 4 nyāyāgataṃ dhanaṃ varṇair nyāyenaiva vivardhitam saṃrakṣyaṃ yatnam āsthāya dharmārtham iti niścayaḥ 5 na dharmārthī nṛśaṃsena karmaṇā dhanam arjayet śaktitaḥ sarvakāryāṇi kuryān narddhim anusmaret 6 apo hi prayataḥ śītās tāpitā jvalanena vā śaktito 'tithaye dattvā kṣudhārtāyāśnute phalam 7 rantidevena lokeṣṭā siddhiḥ prāptā mahātmanā phalapatrair atho mūlair munīn arcitavān asau 8 tair eva phalapatraiś ca sa mātharam atoṣayat tasmāl lebhe paraṃ sthānaṃ śaibyo 'pi pṛthivīpatiḥ 9 devatātithibhṛtyebhyaḥ pitṛbhyo 'thātmanas tathā ṛṇavāñ jāyate martyas tasmād anṛṇatāṃ vrajet 10 svādhyāyena maharṣibhyo devebhyo yajñakarmaṇā pitṛbhyaḥ śrāddhadānena nṛṇām abhyarcanena ca 11 vācaḥ śeṣāvahāryeṇa pālanenātmano 'pi ca yathāvad dhṛtya vargasya cikīrṣed dharmam āditaḥ 12 prayatnena ca saṃsiddhā dhanair api vivarjitāḥ samyag ghutvā hutavahaṃ munayaḥ siddhim āgatāḥ 13 viśvāmitrasya putratvam ṛcīka tanayo 'gamat ṛgbhiḥ stutvā mahābhāgo devān vai yajñabhāginaḥ 14 gataḥ śukratvam uśanā devadeva prasādanāt devīṃ stutvā tu gagane modate tejasā vṛtaḥ 15 asito devalaś caiva tathā nārada partavau kakṣīvāñ jāmadagnyaś ca rāmas tāndyas tathāṃśumān 16 vasiṣṭho jamadagniś ca viśvāmitro 'trir eva ca bharadvājo hariśmaśruḥ kundadhāraḥ śrutaśravāḥ 17 ete maharṣayaḥ stutvā viṣṇum ṛgbhiḥ samāhitāḥ lebhire tapasā siddhiṃ prasādāt tasya dhīmataḥ 18 anarhāś cārhatāṃ prāptāḥ santaḥ stutvā tam eva ha na tu vṛddhim ihānvicchet karmakṛtvā jugupsitam 19 ye 'rthā dharmeṇa te satyā ye 'dharmeṇa dhig astu tān dharmaṃ vai śāśvataṃ loke na jahyād dhanakāṅkṣayā 20 āhitāgnir hi dharmātmā yaḥ sa puṇyakṛd uttamaḥ vedā hi sarve rājendra sthitās triṣv agniṣu prabho 21 sa cāpy agnyāhito vipraḥ kriyā yasya na hīyate śreyo hy anāhitāgnitvam agnihotraṃ na niṣkriyam 22 agnir ātmā ca mātā ca pitā janayitā tathā guruś ca naraśārdūla paricaryā yathātatham 23 mānaṃ tyaktvā yo naro vṛddhasevī; vidvān klībaḥ paśyati prītiyogāt dākṣyeṇāhīno dharmayukto nadānto; loke 'smin vai pūjyate sadbhir āryaḥ |
The Mahabharata in Sanskrit
Book 12
Chapter 282
|
1
[पराषर] वृत्तिः सकाशाद वर्णेभ्यस तरिभ्यॊ हीनस्य शॊभना परीत्यॊपनीता निर्दिष्टा धर्मिष्ठान कुरुते सदा 2 वृत्तिश चेन नास्ति शूद्रस्य पितृपैतामही धरुवा न वृत्तिं परतॊ मार्गेच छुश्रूसां तु परयॊजयेत 3 सद्भिस तु सह संसर्गः शॊभते धर्मदर्शिभिः नित्यं सर्वास्व अवस्थासु नासद्भिर इति मे मतिः 4 यथॊदय गिरौ दरव्यं संनिकर्षेण दीप्यते तथा सत संनिकर्षेण हीनवर्णॊ ऽपि दीप्यते 5 यादृशेन हि वर्णेन भाव्यते शुक्लम अम्बरम तादृशं कुरुते रूपम एतद एवम अवैहि मे 6 तस्माद गुणेषु रज्येथा मा दॊषेषु कदा चन अनित्यम इह मर्त्यानां जीवितं हि चलाचलम 7 सुखे वा यदि वा दुःखे वर्तमानॊ विचक्षणः यश चिनॊति शुभान्य एव स भद्राणीह पश्यति 8 धर्माद अपेतं यत कर्म यद्य अपि सयान महाफलम न तत सेवेत मेधावी न तद धितम इहॊच्यते 9 यॊ हृत्वा गॊसहस्राणि नृपॊ दद्याद अरक्षिता स शब्दमात्रफलभाग राजा भवति तस्करः 10 सवयम्भूर असृजच चाग्रे धातारं लॊकपूजितम धातासृजत पुत्रम एकं परजानां धारणे रतम 11 तम अर्चयित्वा वैश्यस तु कुर्याद अत्यर्थम ऋद्धिमत रक्षितव्यं तु राजन्यैर उपयॊज्यं दविजातिभिः 12 अजिह्मैर अशथ करॊधैर हव्यकव्य परयॊक्तृभिः शूद्रैर निर्मार्जनं कार्यम एवं धर्मॊ न नश्यति 13 अप्रनस्ते ततॊ धर्मे भवन्ति सुखिताः परजाः सुखेन तासां राजेन्द्र मॊदन्ते दिवि देवताः 14 तस्माद यॊ रक्षति नृपः स धर्मेणाभिपूज्यते अधीते चापि यॊ विप्रॊ वैश्यॊ यश चार्जने रतः 15 यश च शुश्रूसते शूद्रः सततं नियतेन्द्रियः अतॊ ऽनयथा मनुष्येन्द्र सवधर्मात परिहीयते 16 पराण संतापनिर्दिष्टाः काकिन्यॊ ऽपि महाफलाः नयायेनॊपार्जिता दत्ताः किम उतान्याः सहस्रशः 17 सत्कृत्य तु दविजातिभ्यॊ यॊ ददाति नराधिप यादृशं तादृशं नित्यम अश्नाति फलम ऊर्जितम 18 अभिगम्य दत्तं तुष्ट्या यद धन्यम आहुर अभिष्टुतम याचितेन तु यद दत्तं तद आहुर्मध्यमं बुधाः 19 अवज्ञया दीयते यत तथैवाश्रद्धयापि च तद आहुर अधमं दानं मुनयः सत्यवादिनः 20 अतिक्रमे मज्जमानॊ विविधेन नरः सदा तथा परयत्नं कुर्वीत यथा मुच्येत संशयात 21 दमेन शॊभते विप्रः कषत्रियॊ विजयेन तु धनेन वैश्यः शूद्रस तु नित्यं दाक्ष्येण शॊभते |
1
[parāṣara] vṛttiḥ sakāśād varṇebhyas tribhyo hīnasya śobhanā prītyopanītā nirdiṣṭā dharmiṣṭhān kurute sadā 2 vṛttiś cen nāsti śūdrasya pitṛpaitāmahī dhruvā na vṛttiṃ parato mārgec chuśrūsāṃ tu prayojayet 3 sadbhis tu saha saṃsargaḥ śobhate dharmadarśibhiḥ nityaṃ sarvāsv avasthāsu nāsadbhir iti me matiḥ 4 yathodaya girau dravyaṃ saṃnikarṣeṇa dīpyate tathā sat saṃnikarṣeṇa hīnavarṇo 'pi dīpyate 5 yādṛśena hi varṇena bhāvyate śuklam ambaram tādṛśaṃ kurute rūpam etad evam avaihi me 6 tasmād guṇeṣu rajyethā mā doṣeṣu kadā cana anityam iha martyānāṃ jīvitaṃ hi calācalam 7 sukhe vā yadi vā duḥkhe vartamāno vicakṣaṇaḥ yaś cinoti śubhāny eva sa bhadrāṇīha paśyati 8 dharmād apetaṃ yat karma yady api syān mahāphalam na tat seveta medhāvī na tad dhitam ihocyate 9 yo hṛtvā gosahasrāṇi nṛpo dadyād arakṣitā sa śabdamātraphalabhāg rājā bhavati taskaraḥ 10 svayambhūr asṛjac cāgre dhātāraṃ lokapūjitam dhātāsṛjat putram ekaṃ prajānāṃ dhāraṇe ratam 11 tam arcayitvā vaiśyas tu kuryād atyartham ṛddhimat rakṣitavyaṃ tu rājanyair upayojyaṃ dvijātibhiḥ 12 ajihmair aśatha krodhair havyakavya prayoktṛbhiḥ śūdrair nirmārjanaṃ kāryam evaṃ dharmo na naśyati 13 apranaste tato dharme bhavanti sukhitāḥ prajāḥ sukhena tāsāṃ rājendra modante divi devatāḥ 14 tasmād yo rakṣati nṛpaḥ sa dharmeṇābhipūjyate adhīte cāpi yo vipro vaiśyo yaś cārjane rataḥ 15 yaś ca śuśrūsate śūdraḥ satataṃ niyatendriyaḥ ato 'nyathā manuṣyendra svadharmāt parihīyate 16 prāṇa saṃtāpanirdiṣṭāḥ kākinyo 'pi mahāphalāḥ nyāyenopārjitā dattāḥ kim utānyāḥ sahasraśaḥ 17 satkṛtya tu dvijātibhyo yo dadāti narādhipa yādṛśaṃ tādṛśaṃ nityam aśnāti phalam ūrjitam 18 abhigamya dattaṃ tuṣṭyā yad dhanyam āhur abhiṣṭutam yācitena tu yad dattaṃ tad āhurmadhyamaṃ budhāḥ 19 avajñayā dīyate yat tathaivāśraddhayāpi ca tad āhur adhamaṃ dānaṃ munayaḥ satyavādinaḥ 20 atikrame majjamāno vividhena naraḥ sadā tathā prayatnaṃ kurvīta yathā mucyeta saṃśayāt 21 damena śobhate vipraḥ kṣatriyo vijayena tu dhanena vaiśyaḥ śūdras tu nityaṃ dākṣyeṇa śobhate |
The Mahabharata in Sanskrit
Book 12
Chapter 283
|
1
[पराषर] परतिग्रहागता विप्रे कषत्रिये शस्त्रनिर्जिताः वैश्ये नयायार्जिताश चैव शूद्रे शुश्रूसयार्जिताः सवलाप्य अर्थाः परशस्यन्ते धर्मस्यार्थे महाफलाः 2 नित्यं तरयाणां वर्णानां शूद्रः शुश्रूसुर उच्यते कषत्रधर्मा वैश्य धर्मा नावृत्तिः पतति दविजः शूद्र कर्मा यदा तु सयात तदा पतति वै दविजः 3 वानिज्यं पाशुपाल्यं च तथा शिल्पॊपजीवनम शूद्रस्यापि विधीयन्ते यदा वृत्तिर न जायते 4 रङ्गावतरणं चैव तथारूपॊपजीवनम मद्य मांसॊपजीव्यं च विक्रयॊ लॊहचर्मणॊः 5 अपूर्विणा न कर्तव्यं कर्म लॊके विगर्हितम कृतपूर्विणस तु तयजतॊ महान धर्म इति शरुतिः 6 संसिद्धिः पुरुषॊ लॊके यद आचरति पापकम मदेनाभिप्लुत मनास तच च न गराह्यम उच्यते 7 शरूयन्ते हि पुराणे वै परजा धिग दन्द शासनाः दान्ता धर्मप्रधानाश च नयायधर्मानुवर्तकाः 8 धर्म एव सदा नॄणाम इह राजन परशस्यते धर्मवृद्धा गुणान एव सेवन्ते हि नरा भुवि 9 तं धर्मम असुरास तात नामृष्यन्त जनाधिप विवर्धमानाः करमशस तत्र ते ऽनवाविशन परजाः 10 तेषां दर्पः समभवत परजानां धर्मनाशनः दर्पात्मनां ततः करॊधः पुनस तेषाम अजायत 11 ततः करॊधाभिभूतानां वृत्तं लज्जा समन्वितम हरीश चैवाप्य अनशद राजंस ततॊ मॊहॊ वयजायत 12 ततॊ मॊहपरीतास ते नापश्यन्त यथा पुरा परस्पराव अमर्देन वर्तयन्ति यथासुखम 13 तान पराप्य तु स धिग दण्डॊ न कारणम अतॊ ऽभवत ततॊ ऽभयगच्छन देवांश च बराह्मणांश चावमन्य ह 14 एतस्मिन्न एव काले तु देवा देववरं शिवम अगच्छञ शरणं वीरं बहुरूपं गणाधिपम 15 तेन सम ते गगनगाः सपुराः पातिताः कषितौ तिस्रॊ ऽपय एकेन बानेन देवाप्यायित तेजसा 16 तेषाम अधिपतिस तव आसीद भीमॊ भीमपराक्रमः देवतानां भयकरः स हतः शूलपाणिना 17 तस्मिन हते ऽथ सवं भावं परत्यपद्यन्त मानवाः परावर्तन्त च वेदा वै शास्त्राणि च यथा पुरा 18 ततॊ ऽभयसिञ्चन राज्येन देवानां दिवि वासवम सप्तर्षयश चान्वयुञ्जन नराणां दन्द धारणे 19 सप्तर्षीणाम अथॊर्ध्वं च विपृथुर नाम पार्थिवः राजानः कषत्रियाश चैव मन्दलेषु पृथक पृथक 20 महाकुलेषु ये जाता वृत्ताः पूर्वतराश च ये तेषाम अथासुरॊ भावॊ हृदयान नापसर्पति 21 तस्मात तेनैव भावेन सानुषङ्गेन पार्थिवाः आसुराण्य एव कर्माणि नयसेवन भीमविक्रमाः 22 परत्यतिष्ठंश च तेष्व एव तान्य एव सथापयन्ति च भजन्ते तानि चाद्यापि ये बालिशतमा नराः 23 तस्माद अहं बरवीमि तवां राजन संचिन्त्य शास्त्रतः संसिद्धाधिगमं कुर्यात कर्म हिंसात्मकं तयजेत 24 न संकरेण दरविणं विचिन्वीत विचक्षणः धर्मार्थं नयायम उत्सृज्य न तत कल्यानम उच्यते 25 स तवम एवंविधॊ दान्तः कषत्रियः परियबान्धवः परजा भृत्यांश च पुत्रांश च सवधर्मेणानुपालय 26 इष्टानिष्ट समायॊगॊ वैरं सौहार्दम एव च अथ जातिसहस्राणि बहूनि परिवर्तते 27 तस्माद गुणेषु रज्येथा मा दॊषेषु कदा चन निर्गुणॊ यॊ हि दुर्बुद्धिर आत्मनः सॊ ऽरिर उच्यते 28 मानुषेषु महाराज धर्माधर्मौ परवर्ततः न तथान्येषु भूतेषु मनुष्यरहितेष्व इह 29 धर्मशीलॊ नरॊ विद्वान ईहकॊ ऽनीहकॊ ऽपि वा आत्मभूतः सदा लॊके चरेद भूतान्य अहिंसयन 30 यदा वयपेतद धृल लेखं मनॊ भवति तस्य वै नानृतं चैव भवति तदा कल्यानम ऋच्छति |
1
[parāṣara] pratigrahāgatā vipre kṣatriye śastranirjitāḥ vaiśye nyāyārjitāś caiva śūdre śuśrūsayārjitāḥ svalāpy arthāḥ praśasyante dharmasyārthe mahāphalāḥ 2 nityaṃ trayāṇāṃ varṇānāṃ śūdraḥ śuśrūsur ucyate kṣatradharmā vaiśya dharmā nāvṛttiḥ patati dvijaḥ śūdra karmā yadā tu syāt tadā patati vai dvijaḥ 3 vānijyaṃ pāśupālyaṃ ca tathā śilpopajīvanam śūdrasyāpi vidhīyante yadā vṛttir na jāyate 4 raṅgāvataraṇaṃ caiva tathārūpopajīvanam madya māṃsopajīvyaṃ ca vikrayo lohacarmaṇoḥ 5 apūrviṇā na kartavyaṃ karma loke vigarhitam kṛtapūrviṇas tu tyajato mahān dharma iti śrutiḥ 6 saṃsiddhiḥ puruṣo loke yad ācarati pāpakam madenābhipluta manās tac ca na grāhyam ucyate 7 śrūyante hi purāṇe vai prajā dhig danda śāsanāḥ dāntā dharmapradhānāś ca nyāyadharmānuvartakāḥ 8 dharma eva sadā nṝṇām iha rājan praśasyate dharmavṛddhā guṇān eva sevante hi narā bhuvi 9 taṃ dharmam asurās tāta nāmṛṣyanta janādhipa vivardhamānāḥ kramaśas tatra te 'nvāviśan prajāḥ 10 teṣāṃ darpaḥ samabhavat prajānāṃ dharmanāśanaḥ darpātmanāṃ tataḥ krodhaḥ punas teṣām ajāyata 11 tataḥ krodhābhibhūtānāṃ vṛttaṃ lajjā samanvitam hrīś caivāpy anaśad rājaṃs tato moho vyajāyata 12 tato mohaparītās te nāpaśyanta yathā purā parasparāv amardena vartayanti yathāsukham 13 tān prāpya tu sa dhig daṇḍo na kāraṇam ato 'bhavat tato 'bhyagacchan devāṃś ca brāhmaṇāṃś cāvamanya ha 14 etasminn eva kāle tu devā devavaraṃ śivam agacchañ śaraṇaṃ vīraṃ bahurūpaṃ gaṇādhipam 15 tena sma te gaganagāḥ sapurāḥ pātitāḥ kṣitau tisro 'py ekena bānena devāpyāyita tejasā 16 teṣām adhipatis tv āsīd bhīmo bhīmaparākramaḥ devatānāṃ bhayakaraḥ sa hataḥ śūlapāṇinā 17 tasmin hate 'tha svaṃ bhāvaṃ pratyapadyanta mānavāḥ prāvartanta ca vedā vai śāstrāṇi ca yathā purā 18 tato 'bhyasiñcan rājyena devānāṃ divi vāsavam saptarṣayaś cānvayuñjan narāṇāṃ danda dhāraṇe 19 saptarṣīṇām athordhvaṃ ca vipṛthur nāma pārthivaḥ rājānaḥ kṣatriyāś caiva mandaleṣu pṛthak pṛthak 20 mahākuleṣu ye jātā vṛttāḥ pūrvatarāś ca ye teṣām athāsuro bhāvo hṛdayān nāpasarpati 21 tasmāt tenaiva bhāvena sānuṣaṅgena pārthivāḥ āsurāṇy eva karmāṇi nyasevan bhīmavikramāḥ 22 pratyatiṣṭhaṃś ca teṣv eva tāny eva sthāpayanti ca bhajante tāni cādyāpi ye bāliśatamā narāḥ 23 tasmād ahaṃ bravīmi tvāṃ rājan saṃcintya śāstrataḥ saṃsiddhādhigamaṃ kuryāt karma hiṃsātmakaṃ tyajet 24 na saṃkareṇa draviṇaṃ vicinvīta vicakṣaṇaḥ dharmārthaṃ nyāyam utsṛjya na tat kalyānam ucyate 25 sa tvam evaṃvidho dāntaḥ kṣatriyaḥ priyabāndhavaḥ prajā bhṛtyāṃś ca putrāṃś ca svadharmeṇānupālaya 26 iṣṭāniṣṭa samāyogo vairaṃ sauhārdam eva ca atha jātisahasrāṇi bahūni parivartate 27 tasmād guṇeṣu rajyethā mā doṣeṣu kadā cana nirguṇo yo hi durbuddhir ātmanaḥ so 'rir ucyate 28 mānuṣeṣu mahārāja dharmādharmau pravartataḥ na tathānyeṣu bhūteṣu manuṣyarahiteṣv iha 29 dharmaśīlo naro vidvān īhako 'nīhako 'pi vā ātmabhūtaḥ sadā loke cared bhūtāny ahiṃsayan 30 yadā vyapetad dhṛl lekhaṃ mano bhavati tasya vai nānṛtaṃ caiva bhavati tadā kalyānam ṛcchati |
The Mahabharata in Sanskrit
Book 12
Chapter 284
|
1
[पराषर] एष धर्मविधिस तात गृहस्थस्य परकीर्तितः तपस्विधिं तु वक्ष्यामि तन मे निगदतः शृणु 2 परायेन हि गृहस्थस्य ममत्वं नाम जायते सङ्गागतं नरश्रेष्ठ भावैस तामसराजसैः 3 गृहाण्य आश्रित्य गावश च कषेत्राणि च धनानि च दाराः पुत्राश च भृत्याश च भवन्तीह नरस्य वै 4 एवं तस्य परवृत्तस्य नित्यम एवानुपश्यतः रागद्वेषौ विवर्धेते हय अनित्यत्वम अपश्यतः 5 रागद्वेषाभिभूतं च नरं दरव्यवशानुगम मॊहजाता रतिर नाम समुपैति नराधिप 6 कृतार्थॊ भॊगतॊ भूत्वा स वै रतिपरायनः लाभं गराम्यसुखाद अन्यं रतितॊ नानुपश्यति 7 ततॊ लॊभाभिभूतात्मा सङ्गाद वर्धयते जनम पुष्ट्य अर्थं चैव तस्येह जनस्यार्थं चिकीर्षति 8 स जानन्न अपि चाकार्यम अर्थार्थं सेवते नरः बाल सनेहपरीतात्मा तत कषयाच चानुतप्यते 9 ततॊ मानेन संपन्नॊ रक्षन्न आत्मपराजयम करॊति येन भॊगी सयाम इति तस्माद विनश्यति 10 तपॊ हि बुद्धियुक्तानां शाश्वतं बरह्म दर्शनम अन्विच्छतां शुभं कर्म नराणां तयजतां सुखम 11 सनेहायतन नाशाच च धननाशाच च पार्थिव आधिव्याधि परतापाच च निर्वेदम उपगच्छति 12 निर्वेदाद आत्मसंबॊधः संबॊधाच छास्त्र दर्शनम शास्त्रार्थदर्शनाद राजंस तप एवानुपश्यति 13 दुर्लभॊ हि मनुष्येन्द्र नरः परत्यवमर्शवान यॊ वै परिय सुखे कषीणे तपः कर्तुं वयवस्यति 14 तपः सर्वगतं तात हीनस्यापि विधीयते जितेन्द्रियस्य दान्तस्य सवर्गमार्गप्रदेशकम 15 परजापतिः परजाः पूर्वम असृजत तपसा विभुः कव चित कव चिद वरतपरॊ वरतान्य आस्थाय पार्थिव 16 आदित्या वसवॊ रुद्रास तथैवाग्न्य अश्विमारुताः विश्वेदेवास तथा साध्याः पितरॊ ऽथ मरुद्गणाः 17 यक्षराक्षस गन्धर्वाः सिद्धाश चान्ये दिवौकसः संसिद्धास तपसा तात ये चान्ये सवर्गवासिनः 18 ये चादौ बरह्मणा सृष्टा बराह्मणास तपसा पुरा ते भावयन्तः पृथिवीं विचरन्ति दिवं तथा 19 मर्त्यलॊके च राजानॊ ये चान्ये गृहमेधिनः महाकुलेषु दृश्यन्ते तत सर्वं तपसः फलम 20 कौशिकानि च वस्त्राणि शुभान्य आभरणानि च वाहनासन यानानि सर्वं तत तपसः फलम 21 मनॊ ऽनुकूलाः परमदा रूपवत्यः सहस्रशः वासः परासादपृष्ठे च तत सर्वं तपसः फलम 22 शयनानि च मुख्यानि भॊज्यानि विविधानि च अभिप्रेतानि सर्वाणि भवन्ति कृतकर्मणाम 23 नाप्राप्यं तपसा किं चित तरैलॊक्ये ऽसमिन परंतप उपभॊग परित्यागः फलान्य अकृतकर्मणाम 24 सुखितॊ दुःखितॊ वापि नरॊ लॊभं परित्यजेत अवेक्ष्य मनसा शास्त्रं बुद्ध्या च नृपसत्तम 25 असंतॊषॊ ऽसुखायैव लॊभाद इन्द्रियविभ्रमः ततॊ ऽसय नश्यति परज्ञा विद्येवाभ्यास वर्जिता 26 नष्ट परज्ञॊ यदा भवति तदा नयायं न पश्यति तस्मात सुखक्षये पराप्ते पुमान उग्रं तपश चरेत 27 यद इष्टं तत सुखं पराहुर दवेष्यं दुःखम इहॊच्यते कृताकृतस्य तपसः फलं पश्यस्व यादृशम 28 नित्यं भद्राणि पश्यन्ति विषयांश चॊपभुञ्जते पराकाश्यं चैव गच्छन्ति कृत्वा निष्कल्मषं तपः 29 अप्रियाण्य अवमानांश च दुःखं बहुविधात्मकम फलार्थी तत पथत्यक्तः पराप्नॊति विषयात्मकम 30 धर्मे तपसि दाने च विचिकित्सास्य जायते स कृत्वा पापकान्य एव निरयं परतिपद्यते 31 सुखे तु वर्तमानॊ वै दुःखे वापि नरॊत्तम सववृत्ताद यॊ न चलति शास्त्रचक्षुः स मानवः 32 इषुप्रपात मात्रं हि सपर्शयॊगे रतिः समृता रसने दर्शने घराणे शरवणे च विशां पते 33 ततॊ ऽसय जायते तीव्रा वेदना तत कषयात पुनः बुधा येन परशंसन्ति मॊक्षं सुखम अनुत्तमम 34 ततः फलार्थं चरति भवन्ति जयायसॊ गुणाः धर्मवृत्त्या च सततं कामार्थाभ्यां न हीयते 35 अप्रयत्नागताः सेव्या गृहस्थैर विषयाः सदा परयत्नेनॊपगम्यश च सवधर्म इति मे मतिः 36 मानिनां कुलजातानां नित्यं शास्त्रार्थचक्षुषाम धर्मक्रिया वियुक्तानाम अशक्त्या संवृतात्मनाम 37 करियमाणं यदा कर्म नाशं गच्छति मानुषम तेषां नान्यद ऋते लॊके तपसः कर्म विद्यते 38 सर्वात्मना तु कुर्वीत गृहस्थः कर्म निश्चयम दाक्ष्येण हव्यकव्यार्थं सवधर्मं विचरेन नृप 39 यथा नदीनदाः सर्वे सागरे यान्ति संस्थितम एवम आश्रमिणः सर्वे गृहस्थे यान्ति संस्थितम |
1
[parāṣara] eṣa dharmavidhis tāta gṛhasthasya prakīrtitaḥ tapasvidhiṃ tu vakṣyāmi tan me nigadataḥ śṛṇu 2 prāyena hi gṛhasthasya mamatvaṃ nāma jāyate saṅgāgataṃ naraśreṣṭha bhāvais tāmasarājasaiḥ 3 gṛhāṇy āśritya gāvaś ca kṣetrāṇi ca dhanāni ca dārāḥ putrāś ca bhṛtyāś ca bhavantīha narasya vai 4 evaṃ tasya pravṛttasya nityam evānupaśyataḥ rāgadveṣau vivardhete hy anityatvam apaśyataḥ 5 rāgadveṣābhibhūtaṃ ca naraṃ dravyavaśānugam mohajātā ratir nāma samupaiti narādhipa 6 kṛtārtho bhogato bhūtvā sa vai ratiparāyanaḥ lābhaṃ grāmyasukhād anyaṃ ratito nānupaśyati 7 tato lobhābhibhūtātmā saṅgād vardhayate janam puṣṭy arthaṃ caiva tasyeha janasyārthaṃ cikīrṣati 8 sa jānann api cākāryam arthārthaṃ sevate naraḥ bāla snehaparītātmā tat kṣayāc cānutapyate 9 tato mānena saṃpanno rakṣann ātmaparājayam karoti yena bhogī syām iti tasmād vinaśyati 10 tapo hi buddhiyuktānāṃ śāśvataṃ brahma darśanam anvicchatāṃ śubhaṃ karma narāṇāṃ tyajatāṃ sukham 11 snehāyatana nāśāc ca dhananāśāc ca pārthiva ādhivyādhi pratāpāc ca nirvedam upagacchati 12 nirvedād ātmasaṃbodhaḥ saṃbodhāc chāstra darśanam śāstrārthadarśanād rājaṃs tapa evānupaśyati 13 durlabho hi manuṣyendra naraḥ pratyavamarśavān yo vai priya sukhe kṣīṇe tapaḥ kartuṃ vyavasyati 14 tapaḥ sarvagataṃ tāta hīnasyāpi vidhīyate jitendriyasya dāntasya svargamārgapradeśakam 15 prajāpatiḥ prajāḥ pūrvam asṛjat tapasā vibhuḥ kva cit kva cid vrataparo vratāny āsthāya pārthiva 16 ādityā vasavo rudrās tathaivāgny aśvimārutāḥ viśvedevās tathā sādhyāḥ pitaro 'tha marudgaṇāḥ 17 yakṣarākṣasa gandharvāḥ siddhāś cānye divaukasaḥ saṃsiddhās tapasā tāta ye cānye svargavāsinaḥ 18 ye cādau brahmaṇā sṛṣṭā brāhmaṇās tapasā purā te bhāvayantaḥ pṛthivīṃ vicaranti divaṃ tathā 19 martyaloke ca rājāno ye cānye gṛhamedhinaḥ mahākuleṣu dṛśyante tat sarvaṃ tapasaḥ phalam 20 kauśikāni ca vastrāṇi śubhāny ābharaṇāni ca vāhanāsana yānāni sarvaṃ tat tapasaḥ phalam 21 mano 'nukūlāḥ pramadā rūpavatyaḥ sahasraśaḥ vāsaḥ prāsādapṛṣṭhe ca tat sarvaṃ tapasaḥ phalam 22 śayanāni ca mukhyāni bhojyāni vividhāni ca abhipretāni sarvāṇi bhavanti kṛtakarmaṇām 23 nāprāpyaṃ tapasā kiṃ cit trailokye 'smin paraṃtapa upabhoga parityāgaḥ phalāny akṛtakarmaṇām 24 sukhito duḥkhito vāpi naro lobhaṃ parityajet avekṣya manasā śāstraṃ buddhyā ca nṛpasattama 25 asaṃtoṣo 'sukhāyaiva lobhād indriyavibhramaḥ tato 'sya naśyati prajñā vidyevābhyāsa varjitā 26 naṣṭa prajño yadā bhavati tadā nyāyaṃ na paśyati tasmāt sukhakṣaye prāpte pumān ugraṃ tapaś caret 27 yad iṣṭaṃ tat sukhaṃ prāhur dveṣyaṃ duḥkham ihocyate kṛtākṛtasya tapasaḥ phalaṃ paśyasva yādṛśam 28 nityaṃ bhadrāṇi paśyanti viṣayāṃś copabhuñjate prākāśyaṃ caiva gacchanti kṛtvā niṣkalmaṣaṃ tapaḥ 29 apriyāṇy avamānāṃś ca duḥkhaṃ bahuvidhātmakam phalārthī tat pathatyaktaḥ prāpnoti viṣayātmakam 30 dharme tapasi dāne ca vicikitsāsya jāyate sa kṛtvā pāpakāny eva nirayaṃ pratipadyate 31 sukhe tu vartamāno vai duḥkhe vāpi narottama svavṛttād yo na calati śāstracakṣuḥ sa mānavaḥ 32 iṣuprapāta mātraṃ hi sparśayoge ratiḥ smṛtā rasane darśane ghrāṇe śravaṇe ca viśāṃ pate 33 tato 'sya jāyate tīvrā vedanā tat kṣayāt punaḥ budhā yena praśaṃsanti mokṣaṃ sukham anuttamam 34 tataḥ phalārthaṃ carati bhavanti jyāyaso guṇāḥ dharmavṛttyā ca satataṃ kāmārthābhyāṃ na hīyate 35 aprayatnāgatāḥ sevyā gṛhasthair viṣayāḥ sadā prayatnenopagamyaś ca svadharma iti me matiḥ 36 mānināṃ kulajātānāṃ nityaṃ śāstrārthacakṣuṣām dharmakriyā viyuktānām aśaktyā saṃvṛtātmanām 37 kriyamāṇaṃ yadā karma nāśaṃ gacchati mānuṣam teṣāṃ nānyad ṛte loke tapasaḥ karma vidyate 38 sarvātmanā tu kurvīta gṛhasthaḥ karma niścayam dākṣyeṇa havyakavyārthaṃ svadharmaṃ vicaren nṛpa 39 yathā nadīnadāḥ sarve sāgare yānti saṃsthitam evam āśramiṇaḥ sarve gṛhasthe yānti saṃsthitam |
The Mahabharata in Sanskrit
Book 12
Chapter 285
|
1
[जनक] वर्णॊ विशेषवर्णानां महर्षे केन जायते एतद इच्छाम्य अहं शरॊतुं तद बरूहि वदतां वर 2 यद एतज जायते ऽपत्यं स एवायम इति शरुतिः कथं बराह्मणतॊ जातॊ विशेषग्रहणं गतः 3 [पराषर] एवम एतन महाराज येन जातः स एव सः तपसस तव अपकर्षेण जातिग्रहणतां गतः 4 सुक्षेत्राच च सुबीजाच च पुण्यॊ भवति संभवः अतॊ ऽनयतरतॊ हीनाद अवरॊ नाम जायते 5 वक्राद भुजाभ्याम ऊरुभ्यां पद्भ्यां चैवाथ जज्ञिरे सृजतः परजापतेर लॊकान इति धर्मविदॊ विदुः 6 मुखजा बराह्मणास तात बाहुजाः कषत्रबन्धवः ऊरुजा धनिनॊ राजन पादजाः परिचारकाः 7 चतुर्णाम एव वर्णानाम आगमः पुरुषर्षभ अतॊ ऽनये तव अतिरिक्ता ये ते वै संकरजाः समृताः 8 कषत्रजातिर अथाम्बस्था उग्रा वैदेहकास तथा शवपाकाः पुल्कसाः सतेना निषादाः सूतमागधाः 9 आयॊगाः करणा वरात्याश चन्दालाश च नराधिप एते चतुर्भ्यॊ वर्णेभ्यॊ जायन्ते वै परस्परम 10 [जनक] बरह्मणैकेन जातानां नानात्वं गॊत्रतः कथम बहूनीह हि लॊके वै गॊत्राणि मुनिसत्तम 11 यत्र तत्र कथं जाताः सवयॊनिं मुनयॊ गताः शूद्रयॊनौ समुत्पन्ना वियॊनौ च तथापरे 12 [पराषर] राजन्न एतद भवेद गराह्यम अपकृष्टेन जन्मना महात्मानं समुत्पत्तिस तपसा भावितात्मनाम 13 उत्पाद्य पुत्रान मुनयॊ नृपतौ यत्र तत्र ह सवेनैव तपसा तेषाम ऋषित्वं विदधुः पुनः 14 पितामहश च मे पूर्वम ऋश्यशृङ्गश च काश्यपः वतस तान्द्यः कृपश चैव कक्षीवान कमथादयः 15 यवक्रीतश च नृपते दरॊणश च वदतां वरः आयुर मतङ्गॊ दत्तश च दरुपदॊ मत्स्य एव च 16 एते सवां परकृतिं पराप्ता वैदेह तपसॊ ऽऽशरयात परतिष्ठिता वेदविदॊ दमे तपसि चैव हि 17 मूलगॊत्राणि चत्वारि समुत्पन्नानि पार्थिव अङ्गिराः कश्यपश चैव वसिष्ठॊ भृगुर एव च 18 कर्मतॊ ऽनयानि गॊत्राणि समुत्पन्नानि पार्थिव नामधेयानि तपसा तानि च गरहणं सताम 19 [जनक] विशेषधर्मान वर्णानां परब्रूहि भगवन मम तथा सामान्य धर्मांश च सर्वत्र कुशलॊ हय असि 20 [परा] परतिग्रहॊ याजनं च तथैवाध्यापनं नृप विशेषधर्मॊ विप्राणां रक्षा कषत्रस्य शॊभना 21 कृषिश च पाशुपाल्यं च वानिज्यं च विशाम अपि दविजानां परिचर्या च शूत्र कर्म नराधिप 22 विशेषधर्मा नृपते वर्णानां परिकीर्तिताः धर्मान साधारणांस तात विस्तरेण शृणुष्व मे 23 आनृशंस्यम अहिंसा चाप्रमादः संविभागिता शराद्धकर्मातिथेयं च सत्यम अक्रॊध एव च 24 सवेषु दारेषु संतॊषः शौचं नित्यानसूयता आत्मज्ञानं तितिक्षा च धर्माः साधारणा नृप 25 बराह्मणाः कषत्रिया वैश्यास तरयॊ वर्णा दविजातयः अत्र तेषाम अधीकारॊ धर्मेषु दविपदां वर 26 विकर्मावस्थिता वर्णाः पतन्ति नृपते तरयः उन्नमन्ति यथा सन्तम आश्रित्येह सवकर्मसु 27 न चापि शूद्रः पततीति निश्चयॊ; न चापि संस्कारम इहार्हतीति वा शरुतिप्रवृत्तं न च धर्मम आप्नुते; न चास्य धर्मे परतिषेधनं कृतम 28 वैदेहकं शूद्रम उदाहरन्ति; दविजा महाराज शरुतॊपपन्नाः अहं हि पश्यामि नरेन्द्र देवं; विश्वस्य विष्णुं जगतः परधानम 29 सतां वृत्तम अनुष्ठाय निहीना उज्जिहीर्षवः मन्त्रवर्जं न दुष्यन्ति कुर्वाणाः पौष्टिकीः करियाः 30 यथा यथा हि सद्वृत्तम आलम्बन्तीतरे जनाः तथा तथा सुखं पराप्य परेत्य चेह च शेरते 31 [ज] किं कर्म दूसयत्य एनम अथ जातिर महामुने संदेहॊ मे समुत्पन्नस तन मे वयाख्यातुम अर्हसि 32 [परा] असंशयं महाराज उभयं दॊषकारकम कर्म चैव हि जातिश च विशेषं तु निशामय 33 जात्या च कर्मणा चैव दुष्टं कर्म निषेवते जात्या दुष्टश च यः पापं न करॊति स पूरुषः 34 जात्या परधानं पुरुषं कुर्वाणं कर्म धिक्कृतम कर्म तद दूसयत्य एनं तस्मात कर्म न शॊभनम 35 [ज] कानि कर्माणि धर्म्याणि लॊके ऽसमिन दविजसत्तम न हिंसन्तीह भूतानि करियमाणानि सर्वदा 36 [परा] शृणु मे ऽतर महाराज यन मां तवं परिपृच्छसि यानि कर्माण्य अहिंस्राणि नरं तरायन्ति सर्वदा 37 संन्यस्याग्नीन उपासीनाः पश्यन्ति विगतज्वराः नैःश्रेयसं धर्मपथं समारुह्य यथाक्रमम 38 परश्रिता विनयॊपेता दमनित्याः सुसंशिताः परयान्ति सथानम अजरं सर्वकर्म विवर्जिताः 39 सर्वे वर्णा धर्मकार्याणि सम्यक; कृत्वा राजन सत्यवाक्यानि चॊक्त्वा तयक्त्वाधर्मं दारुणं जीवलॊके; यान्ति सवर्गं नात्र कार्यॊ विचारः |
1
[janaka] varṇo viśeṣavarṇānāṃ maharṣe kena jāyate etad icchāmy ahaṃ śrotuṃ tad brūhi vadatāṃ vara 2 yad etaj jāyate 'patyaṃ sa evāyam iti śrutiḥ kathaṃ brāhmaṇato jāto viśeṣagrahaṇaṃ gataḥ 3 [parāṣara] evam etan mahārāja yena jātaḥ sa eva saḥ tapasas tv apakarṣeṇa jātigrahaṇatāṃ gataḥ 4 sukṣetrāc ca subījāc ca puṇyo bhavati saṃbhavaḥ ato 'nyatarato hīnād avaro nāma jāyate 5 vakrād bhujābhyām ūrubhyāṃ padbhyāṃ caivātha jajñire sṛjataḥ prajāpater lokān iti dharmavido viduḥ 6 mukhajā brāhmaṇās tāta bāhujāḥ kṣatrabandhavaḥ ūrujā dhanino rājan pādajāḥ paricārakāḥ 7 caturṇām eva varṇānām āgamaḥ puruṣarṣabha ato 'nye tv atiriktā ye te vai saṃkarajāḥ smṛtāḥ 8 kṣatrajātir athāmbasthā ugrā vaidehakās tathā śvapākāḥ pulkasāḥ stenā niṣādāḥ sūtamāgadhāḥ 9 āyogāḥ karaṇā vrātyāś candālāś ca narādhipa ete caturbhyo varṇebhyo jāyante vai parasparam 10 [janaka] brahmaṇaikena jātānāṃ nānātvaṃ gotrataḥ katham bahūnīha hi loke vai gotrāṇi munisattama 11 yatra tatra kathaṃ jātāḥ svayoniṃ munayo gatāḥ śūdrayonau samutpannā viyonau ca tathāpare 12 [parāṣara] rājann etad bhaved grāhyam apakṛṣṭena janmanā mahātmānaṃ samutpattis tapasā bhāvitātmanām 13 utpādya putrān munayo nṛpatau yatra tatra ha svenaiva tapasā teṣām ṛṣitvaṃ vidadhuḥ punaḥ 14 pitāmahaś ca me pūrvam ṛśyaśṛṅgaś ca kāśyapaḥ vatas tāndyaḥ kṛpaś caiva kakṣīvān kamathādayaḥ 15 yavakrītaś ca nṛpate droṇaś ca vadatāṃ varaḥ āyur mataṅgo dattaś ca drupado matsya eva ca 16 ete svāṃ prakṛtiṃ prāptā vaideha tapaso ''śrayāt pratiṣṭhitā vedavido dame tapasi caiva hi 17 mūlagotrāṇi catvāri samutpannāni pārthiva aṅgirāḥ kaśyapaś caiva vasiṣṭho bhṛgur eva ca 18 karmato 'nyāni gotrāṇi samutpannāni pārthiva nāmadheyāni tapasā tāni ca grahaṇaṃ satām 19 [janaka] viśeṣadharmān varṇānāṃ prabrūhi bhagavan mama tathā sāmānya dharmāṃś ca sarvatra kuśalo hy asi 20 [parā] pratigraho yājanaṃ ca tathaivādhyāpanaṃ nṛpa viśeṣadharmo viprāṇāṃ rakṣā kṣatrasya śobhanā 21 kṛṣiś ca pāśupālyaṃ ca vānijyaṃ ca viśām api dvijānāṃ paricaryā ca śūtra karma narādhipa 22 viśeṣadharmā nṛpate varṇānāṃ parikīrtitāḥ dharmān sādhāraṇāṃs tāta vistareṇa śṛṇuṣva me 23 ānṛśaṃsyam ahiṃsā cāpramādaḥ saṃvibhāgitā śrāddhakarmātitheyaṃ ca satyam akrodha eva ca 24 sveṣu dāreṣu saṃtoṣaḥ śaucaṃ nityānasūyatā ātmajñānaṃ titikṣā ca dharmāḥ sādhāraṇā nṛpa 25 brāhmaṇāḥ kṣatriyā vaiśyās trayo varṇā dvijātayaḥ atra teṣām adhīkāro dharmeṣu dvipadāṃ vara 26 vikarmāvasthitā varṇāḥ patanti nṛpate trayaḥ unnamanti yathā santam āśrityeha svakarmasu 27 na cāpi śūdraḥ patatīti niścayo; na cāpi saṃskāram ihārhatīti vā śrutipravṛttaṃ na ca dharmam āpnute; na cāsya dharme pratiṣedhanaṃ kṛtam 28 vaidehakaṃ śūdram udāharanti; dvijā mahārāja śrutopapannāḥ ahaṃ hi paśyāmi narendra devaṃ; viśvasya viṣṇuṃ jagataḥ pradhānam 29 satāṃ vṛttam anuṣṭhāya nihīnā ujjihīrṣavaḥ mantravarjaṃ na duṣyanti kurvāṇāḥ pauṣṭikīḥ kriyāḥ 30 yathā yathā hi sadvṛttam ālambantītare janāḥ tathā tathā sukhaṃ prāpya pretya ceha ca śerate 31 [ja] kiṃ karma dūsayaty enam atha jātir mahāmune saṃdeho me samutpannas tan me vyākhyātum arhasi 32 [parā] asaṃśayaṃ mahārāja ubhayaṃ doṣakārakam karma caiva hi jātiś ca viśeṣaṃ tu niśāmaya 33 jātyā ca karmaṇā caiva duṣṭaṃ karma niṣevate jātyā duṣṭaś ca yaḥ pāpaṃ na karoti sa pūruṣaḥ 34 jātyā pradhānaṃ puruṣaṃ kurvāṇaṃ karma dhikkṛtam karma tad dūsayaty enaṃ tasmāt karma na śobhanam 35 [ja] kāni karmāṇi dharmyāṇi loke 'smin dvijasattama na hiṃsantīha bhūtāni kriyamāṇāni sarvadā 36 [parā] śṛṇu me 'tra mahārāja yan māṃ tvaṃ paripṛcchasi yāni karmāṇy ahiṃsrāṇi naraṃ trāyanti sarvadā 37 saṃnyasyāgnīn upāsīnāḥ paśyanti vigatajvarāḥ naiḥśreyasaṃ dharmapathaṃ samāruhya yathākramam 38 praśritā vinayopetā damanityāḥ susaṃśitāḥ prayānti sthānam ajaraṃ sarvakarma vivarjitāḥ 39 sarve varṇā dharmakāryāṇi samyak; kṛtvā rājan satyavākyāni coktvā tyaktvādharmaṃ dāruṇaṃ jīvaloke; yānti svargaṃ nātra kāryo vicāraḥ |
The Mahabharata in Sanskrit
Book 12
Chapter 286
|
1
[पराषर] पिता सुखायॊ गुरवः सत्रियश च; न निर्गुणा नाम भवन्ति लॊके अनन्यभक्ताः परियवादिनश च; हिताश च वश्याश च तथैव राजन 2 पिता परं दैवतं मानवानां; मातुर विशिष्टं पितरं वदन्ति जञानस्य लाभं परमं वदन्ति; जितेन्द्रियार्थाः परम आप्नुवन्ति 3 रणाजिरे यत्र शराग्निसंस्तरे; नृपात्मजॊ घातम अवाप्य दह्यते परयाति लॊकान अमरैः सुदुर्लभान; निषेवते सवर्गफलं यथासुखम 4 शरान्तं भीतं भरष्ट शस्त्रं रुदन्तं; पराङ्मुखं परिबर्हैश च हीनम अनुद्यतं रॊगिणं याचमानं; न वै हिंस्याद बालवृद्धौ च राजन 5 परिबर्हैः सुसंपन्नम उद्यतं तुल्यतां गतम अतिक्रमेत नृपतिः संग्रामे कषत्रियात्मजम 6 तुल्याद इह वधः शरेयान विशिष्टाच चेति निश्चयः निहीनात कातराच चैव नृपाणां गर्हितॊ वधः 7 पापात पापसमाचारान निहीनाच च नराधिप पाप एव वधः परॊक्तॊ नरकायेति निश्चयः 8 न कश चित तराति वै राजन दिष्टान्त वशम आगतम सावशेषायुषं चापि कश चिद एवापकर्षति 9 सनिग्धैश च करियमाणानि कर्माणीह निवर्तयेत हिंसात्मकानि कर्माणि नायुर इच्छेत परायुषा 10 गृहस्थानां तु सर्वेषां विनाशम अभिकाङ्क्षिताम निधनं शॊभनं तात पुलिनेषु करियावताम 11 आयुषि कषयम आपन्ने पञ्चत्वम उपगच्छति नाकारणात तद भवति कारणैर उपपादितम 12 तथा शरीरं भवति देहाद येनॊपपादितम अध्वानं गतकश चायं पराप्तश चायं गृहाद गृहम 13 दवितीयं कारणं तत्र नान्यत किं चन विद्यते तद देहं देहिनां युक्तं मॊक्षभूतेषु वर्तते 14 सिरा सनाय्व अस्थि संघातं बीभत्सा मेध्य संकुलम भूतानाम इन्द्रियाणां च गुणानां च समागतम 15 तवग अन्तं देहम इत्य आहुर विद्वांसॊ ऽधयात्मचिन्तकाः पुनैर अपि परिक्षीणं शरीरं मर्त्यतां गतम 16 शरीरिणा परित्यक्तं निश्चेष्टं गतचेतनम भूतैः परकृतम आपन्नैस ततॊ भूमौ निमज्जति 17 भावितं कर्मयॊगेन जायते तत्र तत्र ह इदं शरीरं वैदेह मरियते यत्र तत्र ह तत सवभावॊ ऽपरॊ दृष्टॊ विसर्गः कर्मणस तथा 18 न जायते तु नृपते कं चित कालमयं पुनः परिभ्रमति भूतात्मा दयाम इवाम्बुधरॊ महान 19 स पुनर जायते राजन पराप्येहायतनं नृप मनसः परमॊ हय आत्मा इन्द्रियेभ्यः परं मनः 20 दविविधानां च भूतानां जङ्गमाः परमा नृप जङ्गमानाम अपि तथा दविपदाः परमा मताः दविपदानाम अपि तथा दविजा वै परमाः समृताः 21 दविजानाम अपि राजेन्द्र परज्ञावन्तः परा मताः पराज्ञानाम आत्मसंबुद्धाः संबुद्धानाम अमानिनः 22 जातम अन्वेति मरणं नृणाम इति विनिश्चयः अन्तवन्ति हि कर्माणि सेवन्ते गुणतः परजाः 23 आपन्ने तूत्तरां काष्ठां सूर्ये यॊ निधनं वरजेत नक्षत्रे च मुहूर्ते च पुण्ये राजन स पुण्यकृत 24 अयॊजयित्वा कलेशेन जनं पलाव्य च दुष्कृतम मृत्युनाप्राकृतेनेह कर्मकृत्वात्मशक्तितः 25 विषम उद्बन्धनं दाहॊ दस्यु हस्तात तथा वधः दंस्त्रिभ्यश च पशुभ्यश च पराकृतॊ वध उच्यते 26 न चैभिः पुण्यकर्माणॊ युज्यन्ते नाभिसंधिजैः एवंविधैश च बहुभिर अपरैः पराकृतैर अपि 27 ऊर्ध्वं हित्वा परतिष्ठन्ते परानाः पुण्यकृतां नृप मध्यतॊ मध्यपुण्यानाम अधॊ दुष्कृत कर्मणाम 28 एकः शत्रुर न दवितीयॊ ऽसति शत्रुर; अज्ञानतुल्यः पुरुषस्य राजन येनावृतः कुरुते संप्रयुक्तॊ; घॊराणि कर्माणि सुदारुणानि 29 परबॊधनार्थं शरुतिधर्मयुक्तं; वृद्द्धान उपास्यं च भवेत यस्य परयत्नसाध्यॊ हि स राजपुत्र; परज्ञाशरेणॊन्मथितः परैति 30 अधीत्य वेदांस तपसा बरह्मचारी; यज्ञाञ शक्त्या संनिसृज्येह पञ्च वनं गच्छेत पुरुषॊ धर्मकामः; शरेयश चित्वा सथापयित्वा सववंशम 31 उपभॊगैर अपि तयक्तं नात्मानम अवसादयेत चन्दालत्वे ऽपि मानुष्यं सर्वथा तात दुर्लभम 32 इयं हि यॊनिः परथमा यां पराप्य जगतीपते आत्मा वै शक्यते तरातुं कर्मभिः शुभलक्षणैः 33 कथं न विप्रनश्येम यॊनीतॊ ऽसया इति परभॊ कुर्वन्ति धर्मं मनुजाः शरुतिप्रामान्य दर्शनात 34 यॊ दुर्लभतरं पराप्य मानुष्यम इह वै नरः धर्मावमन्ता कामात्मा भवेत स खलु वञ्च्यते 35 यस तु परीतिपुरॊगेण चक्षुषा तात पश्यति दीपॊपमानि भूतानि यावद अर्चिर न नश्यति 36 सान्त्वेनानुप्रदानेन परियवादेन चाप्य उत समदुःखसुखॊ भूत्वा स परत्र महीयते 37 दानं तयागः शॊभना मूर्तिर अद्भ्यॊ; भूयः पलाव्यं तपसा वै शरीरम सरस्वती नैमिषपुष्करेषु; ये चाप्य अन्ये पुण्यदेशाः पृथिव्याम 38 गृहेषु येषाम असवः पतन्ति; तेषाम अथॊ निर्हरनं परशस्तम यानेन वै परापनं च शमशाने; शौचेन नूनं विधिना चैव दाहः 39 इष्टिः पुष्टिर यजनं याजनं च; दानं पुण्यानां कर्मणां च परयॊगः शक्त्या पित्र्यं यच च किं चित परशस्तं; सर्वाण्य आत्मार्थे मानवॊ यः करॊति 40 धर्मशास्त्राणि वेदाश च षडङ्गानि नराधिप शरेयसॊ ऽरथे विधीयन्ते नरस्याक्लिष्ट कर्मणः 41 [भी] एवद वै सर्वम आख्यातं मुनिना सुमहात्मना विदेहराजाय पुरा शरेयसॊ ऽरथे नराधिप |
1
[parāṣara] pitā sukhāyo guravaḥ striyaś ca; na nirguṇā nāma bhavanti loke ananyabhaktāḥ priyavādinaś ca; hitāś ca vaśyāś ca tathaiva rājan 2 pitā paraṃ daivataṃ mānavānāṃ; mātur viśiṣṭaṃ pitaraṃ vadanti jñānasya lābhaṃ paramaṃ vadanti; jitendriyārthāḥ param āpnuvanti 3 raṇājire yatra śarāgnisaṃstare; nṛpātmajo ghātam avāpya dahyate prayāti lokān amaraiḥ sudurlabhān; niṣevate svargaphalaṃ yathāsukham 4 śrāntaṃ bhītaṃ bhraṣṭa śastraṃ rudantaṃ; parāṅmukhaṃ paribarhaiś ca hīnam anudyataṃ rogiṇaṃ yācamānaṃ; na vai hiṃsyād bālavṛddhau ca rājan 5 paribarhaiḥ susaṃpannam udyataṃ tulyatāṃ gatam atikrameta nṛpatiḥ saṃgrāme kṣatriyātmajam 6 tulyād iha vadhaḥ śreyān viśiṣṭāc ceti niścayaḥ nihīnāt kātarāc caiva nṛpāṇāṃ garhito vadhaḥ 7 pāpāt pāpasamācārān nihīnāc ca narādhipa pāpa eva vadhaḥ prokto narakāyeti niścayaḥ 8 na kaś cit trāti vai rājan diṣṭānta vaśam āgatam sāvaśeṣāyuṣaṃ cāpi kaś cid evāpakarṣati 9 snigdhaiś ca kriyamāṇāni karmāṇīha nivartayet hiṃsātmakāni karmāṇi nāyur icchet parāyuṣā 10 gṛhasthānāṃ tu sarveṣāṃ vināśam abhikāṅkṣitām nidhanaṃ śobhanaṃ tāta pulineṣu kriyāvatām 11 āyuṣi kṣayam āpanne pañcatvam upagacchati nākāraṇāt tad bhavati kāraṇair upapāditam 12 tathā śarīraṃ bhavati dehād yenopapāditam adhvānaṃ gatakaś cāyaṃ prāptaś cāyaṃ gṛhād gṛham 13 dvitīyaṃ kāraṇaṃ tatra nānyat kiṃ cana vidyate tad dehaṃ dehināṃ yuktaṃ mokṣabhūteṣu vartate 14 sirā snāyv asthi saṃghātaṃ bībhatsā medhya saṃkulam bhūtānām indriyāṇāṃ ca guṇānāṃ ca samāgatam 15 tvag antaṃ deham ity āhur vidvāṃso 'dhyātmacintakāḥ punair api parikṣīṇaṃ śarīraṃ martyatāṃ gatam 16 śarīriṇā parityaktaṃ niśceṣṭaṃ gatacetanam bhūtaiḥ prakṛtam āpannais tato bhūmau nimajjati 17 bhāvitaṃ karmayogena jāyate tatra tatra ha idaṃ śarīraṃ vaideha mriyate yatra tatra ha tat svabhāvo 'paro dṛṣṭo visargaḥ karmaṇas tathā 18 na jāyate tu nṛpate kaṃ cit kālamayaṃ punaḥ paribhramati bhūtātmā dyām ivāmbudharo mahān 19 sa punar jāyate rājan prāpyehāyatanaṃ nṛpa manasaḥ paramo hy ātmā indriyebhyaḥ paraṃ manaḥ 20 dvividhānāṃ ca bhūtānāṃ jaṅgamāḥ paramā nṛpa jaṅgamānām api tathā dvipadāḥ paramā matāḥ dvipadānām api tathā dvijā vai paramāḥ smṛtāḥ 21 dvijānām api rājendra prajñāvantaḥ parā matāḥ prājñānām ātmasaṃbuddhāḥ saṃbuddhānām amāninaḥ 22 jātam anveti maraṇaṃ nṛṇām iti viniścayaḥ antavanti hi karmāṇi sevante guṇataḥ prajāḥ 23 āpanne tūttarāṃ kāṣṭhāṃ sūrye yo nidhanaṃ vrajet nakṣatre ca muhūrte ca puṇye rājan sa puṇyakṛt 24 ayojayitvā kleśena janaṃ plāvya ca duṣkṛtam mṛtyunāprākṛteneha karmakṛtvātmaśaktitaḥ 25 viṣam udbandhanaṃ dāho dasyu hastāt tathā vadhaḥ daṃstribhyaś ca paśubhyaś ca prākṛto vadha ucyate 26 na caibhiḥ puṇyakarmāṇo yujyante nābhisaṃdhijaiḥ evaṃvidhaiś ca bahubhir aparaiḥ prākṛtair api 27 ūrdhvaṃ hitvā pratiṣṭhante prānāḥ puṇyakṛtāṃ nṛpa madhyato madhyapuṇyānām adho duṣkṛta karmaṇām 28 ekaḥ śatrur na dvitīyo 'sti śatrur; ajñānatulyaḥ puruṣasya rājan yenāvṛtaḥ kurute saṃprayukto; ghorāṇi karmāṇi sudāruṇāni 29 prabodhanārthaṃ śrutidharmayuktaṃ; vṛdddhān upāsyaṃ ca bhaveta yasya prayatnasādhyo hi sa rājaputra; prajñāśareṇonmathitaḥ paraiti 30 adhītya vedāṃs tapasā brahmacārī; yajñāñ śaktyā saṃnisṛjyeha pañca vanaṃ gacchet puruṣo dharmakāmaḥ; śreyaś citvā sthāpayitvā svavaṃśam 31 upabhogair api tyaktaṃ nātmānam avasādayet candālatve 'pi mānuṣyaṃ sarvathā tāta durlabham 32 iyaṃ hi yoniḥ prathamā yāṃ prāpya jagatīpate ātmā vai śakyate trātuṃ karmabhiḥ śubhalakṣaṇaiḥ 33 kathaṃ na vipranaśyema yonīto 'syā iti prabho kurvanti dharmaṃ manujāḥ śrutiprāmānya darśanāt 34 yo durlabhataraṃ prāpya mānuṣyam iha vai naraḥ dharmāvamantā kāmātmā bhavet sa khalu vañcyate 35 yas tu prītipurogeṇa cakṣuṣā tāta paśyati dīpopamāni bhūtāni yāvad arcir na naśyati 36 sāntvenānupradānena priyavādena cāpy uta samaduḥkhasukho bhūtvā sa paratra mahīyate 37 dānaṃ tyāgaḥ śobhanā mūrtir adbhyo; bhūyaḥ plāvyaṃ tapasā vai śarīram sarasvatī naimiṣapuṣkareṣu; ye cāpy anye puṇyadeśāḥ pṛthivyām 38 gṛheṣu yeṣām asavaḥ patanti; teṣām atho nirharanaṃ praśastam yānena vai prāpanaṃ ca śmaśāne; śaucena nūnaṃ vidhinā caiva dāhaḥ 39 iṣṭiḥ puṣṭir yajanaṃ yājanaṃ ca; dānaṃ puṇyānāṃ karmaṇāṃ ca prayogaḥ śaktyā pitryaṃ yac ca kiṃ cit praśastaṃ; sarvāṇy ātmārthe mānavo yaḥ karoti 40 dharmaśāstrāṇi vedāś ca ṣaḍaṅgāni narādhipa śreyaso 'rthe vidhīyante narasyākliṣṭa karmaṇaḥ 41 [bhī] evad vai sarvam ākhyātaṃ muninā sumahātmanā videharājāya purā śreyaso 'rthe narādhipa |
The Mahabharata in Sanskrit
Book 12
Chapter 287
|
1
[भी] पुनर एव तु पप्रच्छ जनकॊ मिथिलाधिपः पराशरं महात्मानं धर्मे परमनिश्चयम 2 किं शरेयः का गतिर बरह्मन किं कृतं न विनश्यति कव गतॊ न निवर्तेत तन मे बरूहि महामुने 3 [परा] असङ्गः शरेयसॊ मूलं जञानं जञानगतिः परा चीर्णं तपॊ न परनश्येद वापः कषेत्रे न नश्यति 4 छित्त्वाधर्ममयं पाशं यदा धर्मे ऽभिरज्यते दत्त्वाभय कृतं दानं तदा सिद्धिम अवाप्नुयात 5 यॊ ददाति सहस्राणि गवाम अश्वशतानि च अभयं सर्वभूतेभ्यस तद दानम अतिवर्तते 6 वसन विषयमध्ये ऽपि न वसत्य एव बुद्धिमान संवसत्य एव दुर्बुद्धिर असत्सु विषयेष्व अपि 7 नाधर्मः शलिष्यते पराज्ञम आपः पुष्कर पर्णवत अप्राज्ञम अधिकं पापं शलिष्यते जतु काष्ठवत 8 नाधर्मः कारणापेक्षी कर्तारम अभिमुञ्चति कर्ता खलु यथाकालं तत सर्वम अभिपद्यते न भिद्यन्ते कृतात्मान आत्मप्रत्यय दर्शिनः 9 बुद्धिकर्मेन्द्रियाणां हि परमत्तॊ यॊ न बुध्यते शुभाशुभेषु सक्तात्मा पराप्नॊति सुमहद भयम 10 वीतरागॊ जितक्रॊधः सम्यग भवति यः सदा विषये वर्तमानॊ ऽपि न स पापेन युज्यते 11 मर्यादायां धर्मसेतुर निबद्धॊ नैव सीदति पुष्टस्रॊत इवायत्तः सफीतॊ भवति संचयः 12 यथा भानुगतं तेजॊ मनिः शुद्धः समाधिना आदत्ते राजशार्दूल तथा यॊगः परवर्तते 13 यथा तिलानाम इह पुष्पसंश्रयात; पृथक्पृथग यानि गुणॊ ऽतिसौम्यताम तथा नराणां भुवि भावितात्मनां; यथाश्रयं सत्त्वगुणः परवर्तते 14 जहाति दारान इहते न संपदः; सदश्वयानं विविधाश च याः करियाः तरिविष्टपे जातमतिर यदा नरस; तदास्य बुद्धिर विषयेषु भिद्यते 15 परसक्तबुद्धिर विषयेषु यॊ नरॊ; यॊ बुध्यते हय आत्महितं कदा चन स सर्वभावानुगतेन चेतसा; नृपामिषेणेव झषॊ विकृष्यते 16 संघातवान मर्त्यलॊकः परस्परम अपाश्रितः कदली गर्भनिःसारॊ नौर इवाप्सु निमज्जति 17 न धर्मकालः पुरुषस्य निश्चितॊ; नापि मृत्युः पुरुषं परतीक्षते करिया हि धर्मस्य सदैव शॊभना; यदा नरॊ मृत्युमुखे ऽभिवर्तते 18 यथान्धः सवगृहे युक्तॊ हय अभ्यासाद एव गच्छति तथायुक्तेन मनसा पराज्ञॊ गच्छति तां गतिम 19 मरणं जन्मनि परॊक्तं जन्म वै मरणाश्रितम अविद्वान मॊक्षधर्मेषु बद्धॊभ्रमति चक्रवत 20 यथा मृणालॊ ऽनुगतम आशु मुञ्चति कर्दमम तथात्मा पुरुषस्येह मनसा परिमुच्यते मनः परनयते ऽऽतमानं स एनम अभियुञ्जति 21 परार्थे वर्तमानस तु सवकार्यं यॊ ऽभिमन्यते इन्द्रियार्थेषु सक्तः सन सवकार्यात परिहीयते 22 अधस तिर्यग्गतिं चैव सवर्गे चैव परां गतिम पराप्नॊति सवकृतैर आत्मा पराज्ञस्येहेतरस्य च 23 मृन मये भाजने पक्वे यथा वै नयस्यते दरवः तथा शरीरं तपसा तप्तं विषयम अश्नुते 24 विषयान अश्नुते यस तु न स भॊक्ष्यत्य असंशयम यस तु भॊगांस तयजेद आत्मा स वै भॊक्तुं वयवस्यति 25 नीहारेण हि संवीतः शिश्नॊदर परायनः जात्यन्ध इव पन्थानम आवृतात्मा न बुध्यते 26 वणिग यथा समुद्राद वै यथार्थं लभते धनम तथा मर्त्यार्णवे जन्तॊः कर्म विज्ञानतॊ गतिः 27 अहॊरात्र मये लॊके जरा रूपेण संचरन मृत्युर गरसति भूतानि पवनं पन्नगॊ यथा 28 सवयं कृतानि कर्माणि जातॊ जन्तुः परपद्यते नाकृतं लभते कश चित किं चिद अत्र परियाप्रियम 29 शयानं यान्तम आसीनं परवृत्तं विषयेषु च शुभाशुभानि कर्माणि परपद्यन्ते नरं सदा 30 न हय अन्यत तीरम आसाद्य पुनस तर्तुं वयवस्यति दुर्लभॊ दृश्यते हय अस्य विनिपातॊ महार्णवे 31 यथा भारावसक्ता हि नौर महाम्भसि तन्तुना तथा मनॊ ऽभियॊगाद वै शरीरं परतिकर्षति 32 यथा समुद्रम अभितः संस्यूताः सरितॊ ऽपराः तथाद्या परकृतिर यॊगाद अभिसंस्यूयते सदा 33 सनेहपाशैर बहुविभैर आसक्तमनसॊ नराः परकृतिष्ठा विषीदन्ति जले सैकत वेश्मवत 34 शरीरगृह संस्थस्य शौचतीर्थस्य देहिनः बुद्धिमार्ग परयातस्य सुखं तव इह परत्र च 35 विस्तराः कलेशसंयुक्ताः संक्षेपास तु सुखावहाः परार्थं विस्तराः सर्वे तयागम आत्महितं विदुः 36 संकल्पजॊ मित्रवर्गॊ जञातयः कारणात्मकाः भार्या दासाश च पुत्राश च सवम अर्थम अनुयुञ्जते 37 न माता न पिता किं चित कस्य चित परतिपद्यते दानपथ्यॊदनॊ जन्तुः सवकर्मफलम अश्नुते 38 मातापुत्रः पिता भराता भार्या मित्र जनस तथा अष्टापद पदस्थाने तव अक्षमुद्रेव नयस्यते 39 सर्वाणि कर्माणि पुरा कृतानि; शुभाशुभान्य आत्मनॊ यान्ति जन्तॊर उपस्थितं कर्मफलं विदित्वा; बुद्धिं तथा चॊदयते ऽनतरात्मा 40 वयवसायं समाश्रित्य सहायान यॊ ऽधिगच्छति न तस्य कश चिद आरम्भः कदा चिद अवसीदति 41 अद्वैध मनसं युक्तं शूरं धीरं विपश्चितम न शरीः संत्यजते नित्यम आदित्यम इव रश्मयः 42 आस्तिक्य वयवसायाभ्याम उपायाद विस्मयाद धिया यम आरभत्य अनिन्द्यात्मा न सॊ ऽरथः परिषीदति 43 सर्वैः सवानि शुभाशुभानि नियतं कर्माणि जन्तुः सवयं; गर्भात संप्प्रतिपद्यते तद उभयं यत तेन पूर्वं कृतम मृत्युश चापरिहारवान समगतिः कालेन विच्छेदिता; दारॊश चूर्णम इवाश्मसारविहितं कर्मान्तिकं परापयेत 44 सवरूपताम आत्मकृतं च विस्तरं; कुलान्वयं दरव्यसमृद्धि संचयम नरॊ हि सर्वॊ लभते यथाकृतं; शुभशुभेनात्म कृतेन कर्मणा 45 [भी] इत्य उक्तॊ जनकॊ राजन यथातथ्यं मनीसिना शरुत्वा धर्मविदां शरेष्ठः परां मुदम अवाप ह |
1
[bhī] punar eva tu papraccha janako mithilādhipaḥ parāśaraṃ mahātmānaṃ dharme paramaniścayam 2 kiṃ śreyaḥ kā gatir brahman kiṃ kṛtaṃ na vinaśyati kva gato na nivarteta tan me brūhi mahāmune 3 [parā] asaṅgaḥ śreyaso mūlaṃ jñānaṃ jñānagatiḥ parā cīrṇaṃ tapo na pranaśyed vāpaḥ kṣetre na naśyati 4 chittvādharmamayaṃ pāśaṃ yadā dharme 'bhirajyate dattvābhaya kṛtaṃ dānaṃ tadā siddhim avāpnuyāt 5 yo dadāti sahasrāṇi gavām aśvaśatāni ca abhayaṃ sarvabhūtebhyas tad dānam ativartate 6 vasan viṣayamadhye 'pi na vasaty eva buddhimān saṃvasaty eva durbuddhir asatsu viṣayeṣv api 7 nādharmaḥ śliṣyate prājñam āpaḥ puṣkara parṇavat aprājñam adhikaṃ pāpaṃ śliṣyate jatu kāṣṭhavat 8 nādharmaḥ kāraṇāpekṣī kartāram abhimuñcati kartā khalu yathākālaṃ tat sarvam abhipadyate na bhidyante kṛtātmāna ātmapratyaya darśinaḥ 9 buddhikarmendriyāṇāṃ hi pramatto yo na budhyate śubhāśubheṣu saktātmā prāpnoti sumahad bhayam 10 vītarāgo jitakrodhaḥ samyag bhavati yaḥ sadā viṣaye vartamāno 'pi na sa pāpena yujyate 11 maryādāyāṃ dharmasetur nibaddho naiva sīdati puṣṭasrota ivāyattaḥ sphīto bhavati saṃcayaḥ 12 yathā bhānugataṃ tejo maniḥ śuddhaḥ samādhinā ādatte rājaśārdūla tathā yogaḥ pravartate 13 yathā tilānām iha puṣpasaṃśrayāt; pṛthakpṛthag yāni guṇo 'tisaumyatām tathā narāṇāṃ bhuvi bhāvitātmanāṃ; yathāśrayaṃ sattvaguṇaḥ pravartate 14 jahāti dārān ihate na saṃpadaḥ; sadaśvayānaṃ vividhāś ca yāḥ kriyāḥ triviṣṭape jātamatir yadā naras; tadāsya buddhir viṣayeṣu bhidyate 15 prasaktabuddhir viṣayeṣu yo naro; yo budhyate hy ātmahitaṃ kadā cana sa sarvabhāvānugatena cetasā; nṛpāmiṣeṇeva jhaṣo vikṛṣyate 16 saṃghātavān martyalokaḥ parasparam apāśritaḥ kadalī garbhaniḥsāro naur ivāpsu nimajjati 17 na dharmakālaḥ puruṣasya niścito; nāpi mṛtyuḥ puruṣaṃ pratīkṣate kriyā hi dharmasya sadaiva śobhanā; yadā naro mṛtyumukhe 'bhivartate 18 yathāndhaḥ svagṛhe yukto hy abhyāsād eva gacchati tathāyuktena manasā prājño gacchati tāṃ gatim 19 maraṇaṃ janmani proktaṃ janma vai maraṇāśritam avidvān mokṣadharmeṣu baddhobhramati cakravat 20 yathā mṛṇālo 'nugatam āśu muñcati kardamam tathātmā puruṣasyeha manasā parimucyate manaḥ pranayate ''tmānaṃ sa enam abhiyuñjati 21 parārthe vartamānas tu svakāryaṃ yo 'bhimanyate indriyārtheṣu saktaḥ san svakāryāt parihīyate 22 adhas tiryaggatiṃ caiva svarge caiva parāṃ gatim prāpnoti svakṛtair ātmā prājñasyehetarasya ca 23 mṛn maye bhājane pakve yathā vai nyasyate dravaḥ tathā śarīraṃ tapasā taptaṃ viṣayam aśnute 24 viṣayān aśnute yas tu na sa bhokṣyaty asaṃśayam yas tu bhogāṃs tyajed ātmā sa vai bhoktuṃ vyavasyati 25 nīhāreṇa hi saṃvītaḥ śiśnodara parāyanaḥ jātyandha iva panthānam āvṛtātmā na budhyate 26 vaṇig yathā samudrād vai yathārthaṃ labhate dhanam tathā martyārṇave jantoḥ karma vijñānato gatiḥ 27 ahorātra maye loke jarā rūpeṇa saṃcaran mṛtyur grasati bhūtāni pavanaṃ pannago yathā 28 svayaṃ kṛtāni karmāṇi jāto jantuḥ prapadyate nākṛtaṃ labhate kaś cit kiṃ cid atra priyāpriyam 29 śayānaṃ yāntam āsīnaṃ pravṛttaṃ viṣayeṣu ca śubhāśubhāni karmāṇi prapadyante naraṃ sadā 30 na hy anyat tīram āsādya punas tartuṃ vyavasyati durlabho dṛśyate hy asya vinipāto mahārṇave 31 yathā bhārāvasaktā hi naur mahāmbhasi tantunā tathā mano 'bhiyogād vai śarīraṃ pratikarṣati 32 yathā samudram abhitaḥ saṃsyūtāḥ sarito 'parāḥ tathādyā prakṛtir yogād abhisaṃsyūyate sadā 33 snehapāśair bahuvibhair āsaktamanaso narāḥ prakṛtiṣṭhā viṣīdanti jale saikata veśmavat 34 śarīragṛha saṃsthasya śaucatīrthasya dehinaḥ buddhimārga prayātasya sukhaṃ tv iha paratra ca 35 vistarāḥ kleśasaṃyuktāḥ saṃkṣepās tu sukhāvahāḥ parārthaṃ vistarāḥ sarve tyāgam ātmahitaṃ viduḥ 36 saṃkalpajo mitravargo jñātayaḥ kāraṇātmakāḥ bhāryā dāsāś ca putrāś ca svam artham anuyuñjate 37 na mātā na pitā kiṃ cit kasya cit pratipadyate dānapathyodano jantuḥ svakarmaphalam aśnute 38 mātāputraḥ pitā bhrātā bhāryā mitra janas tathā aṣṭāpada padasthāne tv akṣamudreva nyasyate 39 sarvāṇi karmāṇi purā kṛtāni; śubhāśubhāny ātmano yānti jantor upasthitaṃ karmaphalaṃ viditvā; buddhiṃ tathā codayate 'ntarātmā 40 vyavasāyaṃ samāśritya sahāyān yo 'dhigacchati na tasya kaś cid ārambhaḥ kadā cid avasīdati 41 advaidha manasaṃ yuktaṃ śūraṃ dhīraṃ vipaścitam na śrīḥ saṃtyajate nityam ādityam iva raśmayaḥ 42 āstikya vyavasāyābhyām upāyād vismayād dhiyā yam ārabhaty anindyātmā na so 'rthaḥ pariṣīdati 43 sarvaiḥ svāni śubhāśubhāni niyataṃ karmāṇi jantuḥ svayaṃ; garbhāt saṃppratipadyate tad ubhayaṃ yat tena pūrvaṃ kṛtam mṛtyuś cāparihāravān samagatiḥ kālena viccheditā; dāroś cūrṇam ivāśmasāravihitaṃ karmāntikaṃ prāpayet 44 svarūpatām ātmakṛtaṃ ca vistaraṃ; kulānvayaṃ dravyasamṛddhi saṃcayam naro hi sarvo labhate yathākṛtaṃ; śubhaśubhenātma kṛtena karmaṇā 45 [bhī] ity ukto janako rājan yathātathyaṃ manīsinā śrutvā dharmavidāṃ śreṣṭhaḥ parāṃ mudam avāpa ha |
The Mahabharata in Sanskrit
Book 12
Chapter 288
|
1
[य] सत्यं कषमां दमं परज्ञां परशंसन्ति पितामह विद्वांसॊ मनुजा लॊके कथम एतन मतं तव 2 [भी] अत्र ते वर्तयिष्ये ऽहम इतिहासं पुरातनम साध्यानाम इह संवादं हंसस्य च युधिष्ठिर 3 हंसॊ भूत्वाथ सौवर्णस तव अजॊ नित्यः परजापतिः स वै पर्येति लॊकांस तरीन अथ साध्यान उपागमत 4 [साध्या] शकुने वयं सम देवा वै साध्यास तवाम अनुयुज्महे पृच्छामस तवां मॊक्षधर्मं भवंश च किल मॊक्षवित 5 शरुतॊ ऽसि नः पण्डितॊ धीरवादी; साधु शब्दः पतते ते पतत्रिन किं मन्यसे शरेष्ठतमं दविज तवं; कस्मिन मनस ते रमते महात्मन 6 तन नः कार्यं पक्षिवरप्रशाधि; यत कार्याणां मन्यसे शरेष्ठम एकम यत्कृत्वा वै पुरुषः सर्वबन्धैर; विमुच्यते विहगेन्द्रेह शीघ्रम 7 [हम्स] इदं कार्यम अमृताशाः शृणॊमि; तपॊ दमः सत्यम आत्माभिगुप्तिः गरन्थीन विमुच्य हृदयस्य सर्वान; परियाप्रिये सवं वशम आनयीत 8 नारुन्तुदः सयान न नृशंसवादी; न हीनतः परम अभ्याददीत ययास्य वाचा पर उद्विजेत; न तां वदेद रुशतीं पापलॊक्याम 9 वाक सायका वदनान निष्पतन्ति; यैर आहतः शॊचति रात्र्यहानि परस्य नामर्मसु ते पतन्ति; तान पण्डितॊ नावसृजेत परेषु 10 परश चेद एनम अतिवाद बानैर; भृशं विध्येच छम एवेह कार्यः संरॊष्यमाणः परतिमृष्यते यः; स आदत्ते सुकृतं वै परस्य 11 कषेपाभिमानाद अभिषङ्ग वयलीकं; निगृह्णाति जवलितं यश च मन्युम अदुष्टचेतॊ मुदितॊ ऽनसूयुः; स आदत्ते सुकृतं वै परेषाम 12 आक्रुश्यमानॊ न वदामि किं चित; कषमाम्य अहं ताद्यमानश च नित्यम शरेष्ठं हय एतत कषमम अप्य आहुर आर्याः; सत्यं तथैवार्जवम आनृशंस्यम 13 वेदस्यॊपनिषत सत्यं सत्यस्यॊपनिषद दमः दमस्यॊपनिषन मॊक्ष एतत सर्वानुशासनम 14 वाचॊ वेगं मनसः करॊधवेगं; विवित्सा वेगम उदरॊपस्थ वेगम एतान वेगान यॊ विषहत्य उदीर्णांस; तं मन्ये ऽहं बराह्मणं वै मुनिं च 15 अक्रॊधनः करुध्यतां वै विशिष्टस; तथा तितिक्षुर अतितिक्षॊर विशिष्टः अमानुषान मानुषॊ वै विशिष्टस; तथाज्ञानाज जञानवान वै परधानः 16 आक्रुश्यमानॊ नाक्रॊशेन मन्युर एव तितिक्षतः आक्रॊष्टारं निर्दहति सुकृतं चास्य विन्दते 17 यॊ नात्युक्तः पराह रूक्षं परियं वा; यॊ वा हतॊ न परतिहन्ति धैर्यात पापं च यॊ नेच्छति तस्य हन्तुस; तस्मै देवाः सपृहयन्ते सदैव 18 पापीयसः कषमेतैव शरेयसः सदृशस्य च विमानितॊ हतॊ ऽऽकरुष्ट एवं सिद्धिं गमिष्यति 19 सदाहम आर्यान निभृतॊ ऽपय उपासे; न मे विवित्सा न चमे ऽसति रॊषः न चाप्य अहं लिप्समानः परैमि; न चैव किं चिद विषमेण यामि 20 नाहं शप्तः परतिशपामि किं चिद; दमं दवारं हय अमृतस्येह वेद्मि गुह्यं बरह्म तद इदं वॊ बरवीमि; न मानुषाच छरेष्ठतरं हि किं चित 21 विमुच्यमानः पापेभ्यॊ धनेभ्य इव चन्द्रमः विरजः कालम आकाङ्क्षन धीरॊ धैर्येण सिध्यति 22 यः सर्वेषां भवति हय अर्चनीय; उत्सेचने सतम्भ इवाभिजातः यस्मै वाचं सुप्रशस्तां वदन्ति; स वै देवान गच्छति संयतात्मा 23 न तथा वक्तुम इच्छन्ति कल्यानान पुरुषे गुणान यथैषां वक्तुम इच्छन्ति नैर्गुण्यम अनुयुज्ञकाः 24 यस्य वाङ्मनसी गुप्ते सम्यक परनिहिते सदा वेदास तपश च तयागश च स इदं सर्वम आप्नुयात 25 आक्रॊशनावमानाभ्याम अबुधाद वर्धते बुधः तस्मान न वर्धयेद अन्यं न चात्मानं विमिंसयेत 26 अमृतस्येव संतृप्येद अवमानस्य वै दविजः सुखं हय अवमतः शेते यॊ ऽवमन्ता स नश्यति 27 यत करॊधनॊ यजते यद ददाति; यद वा तपस तप्यति यज जुहॊति वैवस्वतस तद धरते ऽसय सर्वं; मॊघः शरमॊ भवति करॊधनस्य 28 चत्वारि यस्य दवाराणि सुगुप्तान्य अमरॊत्तमाः उपस्थम उदरं हस्तौ वाक चतुर्थी स धर्मवित 29 सत्यं दमं हय आर्जवम आनृशंस्यं; धृतिं तितिक्षाम अभिसेवमानः सवाध्यायनित्यॊ ऽसपृहयन परेषाम; एकान्तशील्य ऊर्ध्वगतिर भवेत सः 30 सर्वान एतान अनुचरन वत्सवच चतुरः सतनान न पावनतमं किं चित सत्याद अध्यगमं कव चित 31 आचक्षाहं मनुष्येभ्यॊ देवेभ्यः परतिसंचरन सत्यं सवर्गस्य सॊपानं पारावारस्य नौर इव 32 यादृशैः संनिवसति यादृशांश चॊपसेवते यादृग इच्छेच च भवितुं तादृग भवति पूरुषः 33 यदि सन्तं सेवते यद्य असन्तं; तपस्विनं यदि वा सतेनम एव वासॊ यथा रङ्ग वशं परयाति; तथा स तेषां वशम अभ्युपैति 34 सदा देवाः साधुभिः संवदन्ते; न मानुषं विषयं यान्ति दरष्टुम नेन्दुः समः सयाद असमॊ हि वायुर; उच्चावचं विषयं यः स वेद 35 अदुष्टं वर्तमाने तु हृदयान्तर पूरुषे तेनैव देवाः परीयन्ते सतां मार्गस्थितेन वै 36 शिश्नॊदरे ये ऽभिरताः सदैव; सतेना नरा वाक परुषाश च नित्यम अपेद दॊषान इति तान विदित्वा; दूराद देवाः संपरिवर्जयन्ति 37 न वै देवा हीनसत्त्वेन तॊष्याः; सर्वाशिना दुष्कृत कर्मणा वा सत्यव्रता ये तु नराः कृतज्ञा; धर्मे रतास तैः सह संभजन्ते 38 अव्याहृतं वयाकृताच छरेय आहुः; सत्यं वदेद वयाहृतं तद दवितीयम धर्मं वदेद वयाहृतं तत तृतीयं; परियंवदेद वयाहृतं तच चतुर्थम 39 [साध्या] केनायम आवृतॊ लॊकः केन वा न परकाशते केन तयजति मित्राणि केन सवर्गं न गच्छति 40 [हम्स] अनानेनावृतॊ लॊकॊ मात्सर्यान न परकाशते लॊभात तयजति मित्राणि सङ्गात सवर्गं न गच्छति 41 [साध्याह] कः सविद एकॊ रमते बराह्मणानां; कः सविद एकॊ बहुभिर जॊषम आस्ते कः सविद एकॊ बलवान दुर्बलॊ ऽपि; कः सविद एषां कलहं नान्ववैति 42 [हम्स] पराज्ञ एकॊ रमते बराह्मणानां; पराज्ञ एकॊ बहुभिर जॊषम आस्ते पराज्ञ एकॊ बलवान दुर्बलॊ ऽपि; पराज्ञ एषां कलहं नान्ववैति 43 [साध्याह] किं बराह्मणानां देवत्वं किं च साधुत्वम उच्यते असाधुत्वं च किं तेषां किम एषां मानुषं मतम 44 [हम्स] सवाध्याय एषां देवत्वं वरतं साधुत्वम उच्यते असाधुत्वं परीवादॊ मृत्युर मानुषम उच्यते 45 [भी] संवाद इत्य अयं शरेष्ठः साध्यानां परिकीर्तितः कषेत्रं वै कर्मणां यॊनिः सद्भावः सत्यम उच्यते |
1
[y] satyaṃ kṣamāṃ damaṃ prajñāṃ praśaṃsanti pitāmaha vidvāṃso manujā loke katham etan mataṃ tava 2 [bhī] atra te vartayiṣye 'ham itihāsaṃ purātanam sādhyānām iha saṃvādaṃ haṃsasya ca yudhiṣṭhira 3 haṃso bhūtvātha sauvarṇas tv ajo nityaḥ prajāpatiḥ sa vai paryeti lokāṃs trīn atha sādhyān upāgamat 4 [sādhyā] śakune vayaṃ sma devā vai sādhyās tvām anuyujmahe pṛcchāmas tvāṃ mokṣadharmaṃ bhavaṃś ca kila mokṣavit 5 śruto 'si naḥ paṇḍito dhīravādī; sādhu śabdaḥ patate te patatrin kiṃ manyase śreṣṭhatamaṃ dvija tvaṃ; kasmin manas te ramate mahātman 6 tan naḥ kāryaṃ pakṣivarapraśādhi; yat kāryāṇāṃ manyase śreṣṭham ekam yatkṛtvā vai puruṣaḥ sarvabandhair; vimucyate vihagendreha śīghram 7 [hamsa] idaṃ kāryam amṛtāśāḥ śṛṇomi; tapo damaḥ satyam ātmābhiguptiḥ granthīn vimucya hṛdayasya sarvān; priyāpriye svaṃ vaśam ānayīta 8 nāruntudaḥ syān na nṛśaṃsavādī; na hīnataḥ param abhyādadīta yayāsya vācā para udvijeta; na tāṃ vaded ruśatīṃ pāpalokyām 9 vāk sāyakā vadanān niṣpatanti; yair āhataḥ śocati rātryahāni parasya nāmarmasu te patanti; tān paṇḍito nāvasṛjet pareṣu 10 paraś ced enam ativāda bānair; bhṛśaṃ vidhyec chama eveha kāryaḥ saṃroṣyamāṇaḥ pratimṛṣyate yaḥ; sa ādatte sukṛtaṃ vai parasya 11 kṣepābhimānād abhiṣaṅga vyalīkaṃ; nigṛhṇāti jvalitaṃ yaś ca manyum aduṣṭaceto mudito 'nasūyuḥ; sa ādatte sukṛtaṃ vai pareṣām 12 ākruśyamāno na vadāmi kiṃ cit; kṣamāmy ahaṃ tādyamānaś ca nityam śreṣṭhaṃ hy etat kṣamam apy āhur āryāḥ; satyaṃ tathaivārjavam ānṛśaṃsyam 13 vedasyopaniṣat satyaṃ satyasyopaniṣad damaḥ damasyopaniṣan mokṣa etat sarvānuśāsanam 14 vāco vegaṃ manasaḥ krodhavegaṃ; vivitsā vegam udaropastha vegam etān vegān yo viṣahaty udīrṇāṃs; taṃ manye 'haṃ brāhmaṇaṃ vai muniṃ ca 15 akrodhanaḥ krudhyatāṃ vai viśiṣṭas; tathā titikṣur atitikṣor viśiṣṭaḥ amānuṣān mānuṣo vai viśiṣṭas; tathājñānāj jñānavān vai pradhānaḥ 16 ākruśyamāno nākrośen manyur eva titikṣataḥ ākroṣṭāraṃ nirdahati sukṛtaṃ cāsya vindate 17 yo nātyuktaḥ prāha rūkṣaṃ priyaṃ vā; yo vā hato na pratihanti dhairyāt pāpaṃ ca yo necchati tasya hantus; tasmai devāḥ spṛhayante sadaiva 18 pāpīyasaḥ kṣametaiva śreyasaḥ sadṛśasya ca vimānito hato ''kruṣṭa evaṃ siddhiṃ gamiṣyati 19 sadāham āryān nibhṛto 'py upāse; na me vivitsā na came 'sti roṣaḥ na cāpy ahaṃ lipsamānaḥ paraimi; na caiva kiṃ cid viṣameṇa yāmi 20 nāhaṃ śaptaḥ pratiśapāmi kiṃ cid; damaṃ dvāraṃ hy amṛtasyeha vedmi guhyaṃ brahma tad idaṃ vo bravīmi; na mānuṣāc chreṣṭhataraṃ hi kiṃ cit 21 vimucyamānaḥ pāpebhyo dhanebhya iva candramaḥ virajaḥ kālam ākāṅkṣan dhīro dhairyeṇa sidhyati 22 yaḥ sarveṣāṃ bhavati hy arcanīya; utsecane stambha ivābhijātaḥ yasmai vācaṃ supraśastāṃ vadanti; sa vai devān gacchati saṃyatātmā 23 na tathā vaktum icchanti kalyānān puruṣe guṇān yathaiṣāṃ vaktum icchanti nairguṇyam anuyujñakāḥ 24 yasya vāṅmanasī gupte samyak pranihite sadā vedās tapaś ca tyāgaś ca sa idaṃ sarvam āpnuyāt 25 ākrośanāvamānābhyām abudhād vardhate budhaḥ tasmān na vardhayed anyaṃ na cātmānaṃ vimiṃsayet 26 amṛtasyeva saṃtṛpyed avamānasya vai dvijaḥ sukhaṃ hy avamataḥ śete yo 'vamantā sa naśyati 27 yat krodhano yajate yad dadāti; yad vā tapas tapyati yaj juhoti vaivasvatas tad dharate 'sya sarvaṃ; moghaḥ śramo bhavati krodhanasya 28 catvāri yasya dvārāṇi suguptāny amarottamāḥ upastham udaraṃ hastau vāk caturthī sa dharmavit 29 satyaṃ damaṃ hy ārjavam ānṛśaṃsyaṃ; dhṛtiṃ titikṣām abhisevamānaḥ svādhyāyanityo 'spṛhayan pareṣām; ekāntaśīly ūrdhvagatir bhavet saḥ 30 sarvān etān anucaran vatsavac caturaḥ stanān na pāvanatamaṃ kiṃ cit satyād adhyagamaṃ kva cit 31 ācakṣāhaṃ manuṣyebhyo devebhyaḥ pratisaṃcaran satyaṃ svargasya sopānaṃ pārāvārasya naur iva 32 yādṛśaiḥ saṃnivasati yādṛśāṃś copasevate yādṛg icchec ca bhavituṃ tādṛg bhavati pūruṣaḥ 33 yadi santaṃ sevate yady asantaṃ; tapasvinaṃ yadi vā stenam eva vāso yathā raṅga vaśaṃ prayāti; tathā sa teṣāṃ vaśam abhyupaiti 34 sadā devāḥ sādhubhiḥ saṃvadante; na mānuṣaṃ viṣayaṃ yānti draṣṭum nenduḥ samaḥ syād asamo hi vāyur; uccāvacaṃ viṣayaṃ yaḥ sa veda 35 aduṣṭaṃ vartamāne tu hṛdayāntara pūruṣe tenaiva devāḥ prīyante satāṃ mārgasthitena vai 36 śiśnodare ye 'bhiratāḥ sadaiva; stenā narā vāk paruṣāś ca nityam apeda doṣān iti tān viditvā; dūrād devāḥ saṃparivarjayanti 37 na vai devā hīnasattvena toṣyāḥ; sarvāśinā duṣkṛta karmaṇā vā satyavratā ye tu narāḥ kṛtajñā; dharme ratās taiḥ saha saṃbhajante 38 avyāhṛtaṃ vyākṛtāc chreya āhuḥ; satyaṃ vaded vyāhṛtaṃ tad dvitīyam dharmaṃ vaded vyāhṛtaṃ tat tṛtīyaṃ; priyaṃvaded vyāhṛtaṃ tac caturtham 39 [sādhyā] kenāyam āvṛto lokaḥ kena vā na prakāśate kena tyajati mitrāṇi kena svargaṃ na gacchati 40 [hamsa] anānenāvṛto loko mātsaryān na prakāśate lobhāt tyajati mitrāṇi saṅgāt svargaṃ na gacchati 41 [sādhyāh] kaḥ svid eko ramate brāhmaṇānāṃ; kaḥ svid eko bahubhir joṣam āste kaḥ svid eko balavān durbalo 'pi; kaḥ svid eṣāṃ kalahaṃ nānvavaiti 42 [hamsa] prājña eko ramate brāhmaṇānāṃ; prājña eko bahubhir joṣam āste prājña eko balavān durbalo 'pi; prājña eṣāṃ kalahaṃ nānvavaiti 43 [sādhyāh] kiṃ brāhmaṇānāṃ devatvaṃ kiṃ ca sādhutvam ucyate asādhutvaṃ ca kiṃ teṣāṃ kim eṣāṃ mānuṣaṃ matam 44 [hamsa] svādhyāya eṣāṃ devatvaṃ vrataṃ sādhutvam ucyate asādhutvaṃ parīvādo mṛtyur mānuṣam ucyate 45 [bhī] saṃvāda ity ayaṃ śreṣṭhaḥ sādhyānāṃ parikīrtitaḥ kṣetraṃ vai karmaṇāṃ yoniḥ sadbhāvaḥ satyam ucyate |
The Mahabharata in Sanskrit
Book 12
Chapter 289
|
1
[य] सांख्ये यॊगे च मे तात विशेषं वक्तुम अर्हसि तव सर्वज्ञ सर्वं हि विदितं कुरुसत्तम 2 [भी] सांख्याः सांख्यं परशंसन्ति यॊगा यॊगं दविजातयः वदन्ति कारणैः शरैष्ठ्यं सवपक्षॊद्भावनाय वै 3 अनीश्वरः कथं मुच्येद इत्य एवं शत्रुकर्शन वदन्ति करणैः शरैष्ठ्यं यॊगाः सम्यङ मनीषिणः 4 वदन्ति कारणं चेदं सांख्याः सम्यग दविजातयः विज्ञायेह गतीः सर्वा विरक्तॊ विषयेषु यः 5 ऊर्ध्वं स देहात सुव्यक्तं विमुच्येद इति नान्यथा एतद आहुर महाप्राज्ञाः सांख्यं वै मॊक्षदर्शनम 6 सवपक्षे कारणं गराह्यं समर्थं वचनं हितम शिष्टानां हि मतं गराह्यं तवद्विधैः शिष्टसंमतैः 7 परत्यक्षहेतवॊ यॊगाः सांख्याः शास्त्रविनिश्चयाः उभे चैते मते तत्त्वे मम तात युधिष्ठिर 8 उभे चैते मते जञाने नृपते शिष्टसंमते अनुष्ठिते यथाशास्त्रं नयेतां परमां गतिम 9 तुल्यं शौचं तयॊर युक्तं दया भूतेषु चानघ वरतानां धारणं तुल्यं दर्शनं न समं तयॊः 10 [य] यदि तुल्यं वरतं शौचं दया चात्र पितामह तुल्यं न दर्शनं कस्मात तन मे बरूहि पितामह 11 [भी] रागं मॊहं तथा सनेहं कामक्रॊधं च केवलम यॊगाच छित्त्वादितॊ दॊषान पञ्चैतान पराप्नुवन्ति तत 12 यथा चानिमिषाः सथूला जालं छित्त्वा पुनर जलम पराप्नुवन्ति तथा यॊगास तत पदं वीतकल्मसाः 13 तथैव वागुरां छित्त्वा बलवन्तॊ यथा मृगाः पराप्नुयुर विमलं मार्गं विमुक्ताः सर्वबन्धनैः 14 लॊभजानि तथा राजन बन्धनानि बलान्विताः छित्त्वा यॊगाः परं मार्गं गच्छन्ति विमलाः शिवम 15 अबलाश च मृगा राजन वागुरासु तथापरे विनश्यति न संदेहस तद्वद यॊगबलाद ऋते 16 बलहीनाश च कौन्तेय यथा जालगता झषाः अन्तं गच्छन्ति राजेन्द्र तथा यॊगाः सुदुर्बलाः 17 यथा च शकुनाः सूक्ष्मं पराप्य जालम अरिंदम तत्र सक्ता विपद्यन्ते मुच्यन्ते च बलान्विताः 18 कर्मजैर बन्धनैर बद्धास तद्वद यॊगाः परंतप अबला वै विनश्यन्ति मुच्यन्ते च बलान्विताः 19 अल्पकश च यथा राजन वह्निः शाम्यति दुर्बलः आक्रान्त इन्धनैः सथूलैस तद्वद यॊगॊ ऽबलः परभॊ 20 स एव च यदा राजन वह्निर जातबलः पुनः समीरण युतः कृत्स्नां दहेत कषिप्रं महीम अपि 21 तद्वज जातबलॊ यॊनी दीप्ततेजा महाबलः अन्तकाल इवादित्यः कृत्स्नं संशॊषयेज जगत 22 दुर्बलश च यथा राजन सरॊतसा हरियते नरः बलहीनस तथा यॊगॊ विषयैर हरियते ऽवशः 23 तद एव च यथा सरॊतॊ विष्टम्भयति वारुणः तद्वद यॊगबलं लब्ध्वा वयूहते विषयान बहून 24 विशन्ति चावशाः पार्थ यॊगा यॊगबलान्विताः परजापतीन ऋषीन देवान महाभूतानि चेश्वराः 25 न यमॊ नान्तकः करुद्धॊ न मृत्युर भीमविक्रमः ईशते नृपते सर्वे यॊगस्यामित तेजसः 26 आत्मनां च सहस्राणि बहूनि भरतर्षभ यॊगः कुर्याद बलं पराप्य तैश च सर्वैर महीं चरेत 27 पराप्नुयाद विषयांश चैव पुनश चॊग्रं तपश चरेत संक्षिपेच च पुनः पार्थ सूर्यस तेजॊ गुणान इव 28 बलस्थस्य हि यॊगस्य बन्धनेशस्य पार्थिव विमॊक्षप्रभविष्णुत्वम उपपन्नम असंशयम 29 बलानि यॊगे परॊक्तानि मयैतानि विशां पते निदर्शनार्थं सूक्ष्माणि वक्ष्यामि च पुनस तव 30 आत्मनश च समाधाने धारणां परति चाभिभॊ निदर्शनानि सूक्ष्माणि शृणु मे भरतर्षभ 31 अप्रमत्तॊ यथा धन्वी लक्ष्यं हन्ति समाहितः युक्तः सम्यक तथा यॊगी मॊक्षं पराप्नॊत्य असंशयम 32 सनेहपूर्णे यथा पात्रे मन आधाय निश्चलम पुरुषॊ यत्त आरॊहेत सॊपानं युक्तमानसः 33 युक्त्वा तथायम आत्मानं यॊगः पार्थिव निश्चलम करॊत्य अमलम आत्मानं भास्करॊपम दर्शनम 34 यथा च नावं कौन्तेय कर्णधारः समाहितः महार्णव गतां शीघ्रं नयेत पार्थिव पत्तनम 35 तद्वद आत्मसमाधानं युक्त्वा यॊगेन तत्त्ववित दुर्गमं सथानम आप्नॊति हित्वा देहम इमं नृप 36 सारथिश च यथा युक्त्वा सदश्वान सुसमाहितः देशम इष्टं नयत्य आशु धन्विनं पुरुषर्षभ 37 तथैव नृपते यॊगी धारणासु समाहितः पराप्नॊत्य आशु परं सथानं लक्षं मुक्त इवाशुगः 38 आवेश्यात्मनि चात्मानं यॊगी तिष्ठति यॊ ऽचलः पापं हन्तेव मीनानां पदम आप्नॊति सॊ ऽजरम 39 नाभ्यां कन्थे च शीर्षे च हृदि वक्षसि पार्श्वयॊः दर्शने सपर्शने चापि घराणे चामितविक्रम 40 सथानेष्व एतेषु यॊ यॊगी महाव्रतसमाहितः आत्मना सूक्ष्मम आत्मानं युङ्क्ते सम्यग विशां पतौ 41 स शीघ्रम अमलप्रज्ञः कर्म दग्ध्वा शुभाशुभम उत्तमं यॊगम आस्थाय यदीच्छति विमुच्यते 42 [य] आहारान कीदृशान कृत्वा कानि जित्वा च भारत यॊगी बलम अवाप्नॊति तद भवान वक्तुम अर्हति 43 [भी] कनानां भक्षणे युक्तः पिन्याकस्य च भक्षणे सनेहानां वर्जने युक्तॊ यॊगी बलम अवाप्नुयात 44 भुज्ञानॊ यावकं रूक्षं दीर्घकालम अरिंदम एकारामॊ विशुद्धात्मा यॊगी बलम अवाप्नुयात 45 पक्षान मासान ऋतूंश चित्रान संचरंश च गुहास तथा अपः पीत्वा पयॊ मिश्रा यॊगी बलम अवाप्नुयात 46 अखन्दम अपि वा मासं सततं मनुजेश्वर उपॊष्य सम्यक शुद्धात्मा यॊगी बलम अवाप्नुयात 47 कामं जित्वा तथा करॊधं शीतॊष्णे वर्षम एव च भयं निद्रां तथा शवासं पौरुषं विषयांस तथा 48 अरतिं दुर्जयां चैव घॊरां तृष्णां च पार्थिव सपर्शान सर्वांस तथा तन्द्रीं दुर्जयां नृपसत्तम 49 दीपयन्ति महात्मानः सूक्ष्मम आत्मानम आत्मना वीतरागा महाप्राज्ञा धयानाध्ययन संपदा 50 दुर्गस तव एष मतः पन्था बराह्मणानां विपश्चिताम न कश चिद वरजति हय अस्मिन कषेमेण भरतर्षभ 51 यथा कश चिद वनं घॊरं बहु सर्पसरीसृपम शवभ्रवत तॊयहीनं च दुर्गमं बहु कन्तकम 52 अभक्तम अतवी परायं दावदग्धमहीरुहम पन्थानं तस्कराकीर्णं कषेमेणाभिपतेद युवा 53 यॊगमार्गं तथासाद्य यः कश चिद भजते दविजः कषेमेणॊपरमेन मार्गाद बहुदॊषॊ हि स समृतः 54 सुष्ठेयं कषुर धारासु निशितासु महीपते धारणासु तु यॊगस्य दुःस्थेयम अकृतात्मभिः 55 विपन्ना धारणास तात नयन्ति न शुभां गतिम नेतृहीना यथा नावः पुरुषान अर्णवे नृप 56 यस तु तिष्ठति कौन्तेय धारणासु यथाविधि मरणं जन्म दुःखं च सुखं च स विमुञ्चति 57 नाना शास्त्रेषु निष्पन्नं यॊगेष्व इदम उदाहृतम परं यॊगं तु यत्कृत्स्नं निश्चितं तद दविजातिषु 58 परं हि तद बरह्म महन महात्मन; बरह्माणम ईशं वरदं च विष्णुम भवं च धर्मं च षडाननं च; सॊ बरह्मपुत्रांश च महानुभावान 59 तमश च कस्तं सुमहद रजश च; सत्त्वं च शुद्धं परकृतिं परां च सिद्धिं च देवीं वरुणस्य पत्नीं; तेजश च कृत्स्नं सुमहच च धैर्यम 60 नराधिपं वै विमलं सतारं; विश्वांश च देवान उरगान पितॄंश च शैलांश च कृत्स्नान उदधींश च घॊरान; नदीश च सर्वाः सवनन घनांश च 61 नागान नगान यक्षगणान दिशश; च गन्धर्वसंघान पुरुषान सत्रियश च परस्परं पराप्य महान महात्मा; विशेत यॊगी नचिराद विमुक्तः 62 कथा च येयं नृपते परसक्ता; देवे महावीर्यमतौ सुभा यम यॊगान स सर्वान अभिभूय मर्त्यान; नारायणात्मा कुरुते महात्मा |
1
[y] sāṃkhye yoge ca me tāta viśeṣaṃ vaktum arhasi tava sarvajña sarvaṃ hi viditaṃ kurusattama 2 [bhī] sāṃkhyāḥ sāṃkhyaṃ praśaṃsanti yogā yogaṃ dvijātayaḥ vadanti kāraṇaiḥ śraiṣṭhyaṃ svapakṣodbhāvanāya vai 3 anīśvaraḥ kathaṃ mucyed ity evaṃ śatrukarśana vadanti karaṇaiḥ śraiṣṭhyaṃ yogāḥ samyaṅ manīṣiṇaḥ 4 vadanti kāraṇaṃ cedaṃ sāṃkhyāḥ samyag dvijātayaḥ vijñāyeha gatīḥ sarvā virakto viṣayeṣu yaḥ 5 ūrdhvaṃ sa dehāt suvyaktaṃ vimucyed iti nānyathā etad āhur mahāprājñāḥ sāṃkhyaṃ vai mokṣadarśanam 6 svapakṣe kāraṇaṃ grāhyaṃ samarthaṃ vacanaṃ hitam śiṣṭānāṃ hi mataṃ grāhyaṃ tvadvidhaiḥ śiṣṭasaṃmataiḥ 7 pratyakṣahetavo yogāḥ sāṃkhyāḥ śāstraviniścayāḥ ubhe caite mate tattve mama tāta yudhiṣṭhira 8 ubhe caite mate jñāne nṛpate śiṣṭasaṃmate anuṣṭhite yathāśāstraṃ nayetāṃ paramāṃ gatim 9 tulyaṃ śaucaṃ tayor yuktaṃ dayā bhūteṣu cānagha vratānāṃ dhāraṇaṃ tulyaṃ darśanaṃ na samaṃ tayoḥ 10 [y] yadi tulyaṃ vrataṃ śaucaṃ dayā cātra pitāmaha tulyaṃ na darśanaṃ kasmāt tan me brūhi pitāmaha 11 [bhī] rāgaṃ mohaṃ tathā snehaṃ kāmakrodhaṃ ca kevalam yogāc chittvādito doṣān pañcaitān prāpnuvanti tat 12 yathā cānimiṣāḥ sthūlā jālaṃ chittvā punar jalam prāpnuvanti tathā yogās tat padaṃ vītakalmasāḥ 13 tathaiva vāgurāṃ chittvā balavanto yathā mṛgāḥ prāpnuyur vimalaṃ mārgaṃ vimuktāḥ sarvabandhanaiḥ 14 lobhajāni tathā rājan bandhanāni balānvitāḥ chittvā yogāḥ paraṃ mārgaṃ gacchanti vimalāḥ śivam 15 abalāś ca mṛgā rājan vāgurāsu tathāpare vinaśyati na saṃdehas tadvad yogabalād ṛte 16 balahīnāś ca kaunteya yathā jālagatā jhaṣāḥ antaṃ gacchanti rājendra tathā yogāḥ sudurbalāḥ 17 yathā ca śakunāḥ sūkṣmaṃ prāpya jālam ariṃdama tatra saktā vipadyante mucyante ca balānvitāḥ 18 karmajair bandhanair baddhās tadvad yogāḥ paraṃtapa abalā vai vinaśyanti mucyante ca balānvitāḥ 19 alpakaś ca yathā rājan vahniḥ śāmyati durbalaḥ ākrānta indhanaiḥ sthūlais tadvad yogo 'balaḥ prabho 20 sa eva ca yadā rājan vahnir jātabalaḥ punaḥ samīraṇa yutaḥ kṛtsnāṃ dahet kṣipraṃ mahīm api 21 tadvaj jātabalo yonī dīptatejā mahābalaḥ antakāla ivādityaḥ kṛtsnaṃ saṃśoṣayej jagat 22 durbalaś ca yathā rājan srotasā hriyate naraḥ balahīnas tathā yogo viṣayair hriyate 'vaśaḥ 23 tad eva ca yathā sroto viṣṭambhayati vāruṇaḥ tadvad yogabalaṃ labdhvā vyūhate viṣayān bahūn 24 viśanti cāvaśāḥ pārtha yogā yogabalānvitāḥ prajāpatīn ṛṣīn devān mahābhūtāni ceśvarāḥ 25 na yamo nāntakaḥ kruddho na mṛtyur bhīmavikramaḥ īśate nṛpate sarve yogasyāmita tejasaḥ 26 ātmanāṃ ca sahasrāṇi bahūni bharatarṣabha yogaḥ kuryād balaṃ prāpya taiś ca sarvair mahīṃ caret 27 prāpnuyād viṣayāṃś caiva punaś cograṃ tapaś caret saṃkṣipec ca punaḥ pārtha sūryas tejo guṇān iva 28 balasthasya hi yogasya bandhaneśasya pārthiva vimokṣaprabhaviṣṇutvam upapannam asaṃśayam 29 balāni yoge proktāni mayaitāni viśāṃ pate nidarśanārthaṃ sūkṣmāṇi vakṣyāmi ca punas tava 30 ātmanaś ca samādhāne dhāraṇāṃ prati cābhibho nidarśanāni sūkṣmāṇi śṛṇu me bharatarṣabha 31 apramatto yathā dhanvī lakṣyaṃ hanti samāhitaḥ yuktaḥ samyak tathā yogī mokṣaṃ prāpnoty asaṃśayam 32 snehapūrṇe yathā pātre mana ādhāya niścalam puruṣo yatta ārohet sopānaṃ yuktamānasaḥ 33 yuktvā tathāyam ātmānaṃ yogaḥ pārthiva niścalam karoty amalam ātmānaṃ bhāskaropama darśanam 34 yathā ca nāvaṃ kaunteya karṇadhāraḥ samāhitaḥ mahārṇava gatāṃ śīghraṃ nayet pārthiva pattanam 35 tadvad ātmasamādhānaṃ yuktvā yogena tattvavit durgamaṃ sthānam āpnoti hitvā deham imaṃ nṛpa 36 sārathiś ca yathā yuktvā sadaśvān susamāhitaḥ deśam iṣṭaṃ nayaty āśu dhanvinaṃ puruṣarṣabha 37 tathaiva nṛpate yogī dhāraṇāsu samāhitaḥ prāpnoty āśu paraṃ sthānaṃ lakṣaṃ mukta ivāśugaḥ 38 āveśyātmani cātmānaṃ yogī tiṣṭhati yo 'calaḥ pāpaṃ hanteva mīnānāṃ padam āpnoti so 'jaram 39 nābhyāṃ kanthe ca śīrṣe ca hṛdi vakṣasi pārśvayoḥ darśane sparśane cāpi ghrāṇe cāmitavikrama 40 sthāneṣv eteṣu yo yogī mahāvratasamāhitaḥ ātmanā sūkṣmam ātmānaṃ yuṅkte samyag viśāṃ patau 41 sa śīghram amalaprajñaḥ karma dagdhvā śubhāśubham uttamaṃ yogam āsthāya yadīcchati vimucyate 42 [y] āhārān kīdṛśān kṛtvā kāni jitvā ca bhārata yogī balam avāpnoti tad bhavān vaktum arhati 43 [bhī] kanānāṃ bhakṣaṇe yuktaḥ pinyākasya ca bhakṣaṇe snehānāṃ varjane yukto yogī balam avāpnuyāt 44 bhujñāno yāvakaṃ rūkṣaṃ dīrghakālam ariṃdama ekārāmo viśuddhātmā yogī balam avāpnuyāt 45 pakṣān māsān ṛtūṃś citrān saṃcaraṃś ca guhās tathā apaḥ pītvā payo miśrā yogī balam avāpnuyāt 46 akhandam api vā māsaṃ satataṃ manujeśvara upoṣya samyak śuddhātmā yogī balam avāpnuyāt 47 kāmaṃ jitvā tathā krodhaṃ śītoṣṇe varṣam eva ca bhayaṃ nidrāṃ tathā śvāsaṃ pauruṣaṃ viṣayāṃs tathā 48 aratiṃ durjayāṃ caiva ghorāṃ tṛṣṇāṃ ca pārthiva sparśān sarvāṃs tathā tandrīṃ durjayāṃ nṛpasattama 49 dīpayanti mahātmānaḥ sūkṣmam ātmānam ātmanā vītarāgā mahāprājñā dhyānādhyayana saṃpadā 50 durgas tv eṣa mataḥ panthā brāhmaṇānāṃ vipaścitām na kaś cid vrajati hy asmin kṣemeṇa bharatarṣabha 51 yathā kaś cid vanaṃ ghoraṃ bahu sarpasarīsṛpam śvabhravat toyahīnaṃ ca durgamaṃ bahu kantakam 52 abhaktam atavī prāyaṃ dāvadagdhamahīruham panthānaṃ taskarākīrṇaṃ kṣemeṇābhipated yuvā 53 yogamārgaṃ tathāsādya yaḥ kaś cid bhajate dvijaḥ kṣemeṇoparamen mārgād bahudoṣo hi sa smṛtaḥ 54 suṣṭheyaṃ kṣura dhārāsu niśitāsu mahīpate dhāraṇāsu tu yogasya duḥstheyam akṛtātmabhiḥ 55 vipannā dhāraṇās tāta nayanti na śubhāṃ gatim netṛhīnā yathā nāvaḥ puruṣān arṇave nṛpa 56 yas tu tiṣṭhati kaunteya dhāraṇāsu yathāvidhi maraṇaṃ janma duḥkhaṃ ca sukhaṃ ca sa vimuñcati 57 nānā śāstreṣu niṣpannaṃ yogeṣv idam udāhṛtam paraṃ yogaṃ tu yatkṛtsnaṃ niścitaṃ tad dvijātiṣu 58 paraṃ hi tad brahma mahan mahātman; brahmāṇam īśaṃ varadaṃ ca viṣṇum bhavaṃ ca dharmaṃ ca ṣaḍānanaṃ ca; so brahmaputrāṃś ca mahānubhāvān 59 tamaś ca kastaṃ sumahad rajaś ca; sattvaṃ ca śuddhaṃ prakṛtiṃ parāṃ ca siddhiṃ ca devīṃ varuṇasya patnīṃ; tejaś ca kṛtsnaṃ sumahac ca dhairyam 60 narādhipaṃ vai vimalaṃ satāraṃ; viśvāṃś ca devān uragān pitṝṃś ca śailāṃś ca kṛtsnān udadhīṃś ca ghorān; nadīś ca sarvāḥ savanan ghanāṃś ca 61 nāgān nagān yakṣagaṇān diśaś; ca gandharvasaṃghān puruṣān striyaś ca parasparaṃ prāpya mahān mahātmā; viśeta yogī nacirād vimuktaḥ 62 kathā ca yeyaṃ nṛpate prasaktā; deve mahāvīryamatau subhā yam yogān sa sarvān abhibhūya martyān; nārāyaṇātmā kurute mahātmā |
The Mahabharata in Sanskrit
Book 12
Chapter 290
|
1
[य] सम्यक तवयायं नृपते वर्णितः शिष्टसंमतः यॊगमार्गॊ यथान्यायं शिष्यायेह हितैषिणा 2 सांख्ये तवेदानीं कार्त्स्न्येन विधिं परब्रूहि पृच्छते तरिषु लॊकेषु यज जञानं सर्वं तद वितिदं हि ते 3 [भी] शृणु मे तवम इदं शुद्धं सांख्यानां विदितात्मनाम विहितं यतिभिर बुद्धैः कपिलादिभिर ईश्वरैः 4 यस्मिन न विभ्रमाः के चिद दृश्यन्ते मनुजर्षभ गुणाश च यस्मिन बहवॊ दॊषहानिश च केवला 5 जञानेन परिसंख्याय सदॊषान विषयान नृप मानुषान दुर्जयान कृत्स्नान पैशाचान विषयांस तथा 6 राक्षसान विषयाञ जञात्वा यक्षाणां विषयांस तथा विषयान औरगाञ जञात्वा गान्धर्वविषयांस तथा 7 पितॄणां विषयाञ जञात्वा तिर्यक्षु चरतां नृप सुपर्णविषयाञ जञात्वा मरुतां विषयांस तथा 8 राजर्षिविषयाञ जञात्वा बरह्मर्षिविषयांस तथा आसुरान विषयाञ जञात्वा वैश्वदेवांस तथैव च 9 देवर्षिविषयाञ जञात्वा यॊगानान अपि चेश्वरान विषयांश च परजेशानां बरह्मणॊ विषयांस तथा 10 आयुषश च परं कालं लॊके विज्ञाय तत्त्वतः सुखस्य च परं तत्त्वं विज्ञाय वदतां वर 11 पराप्ते काले च यद दुःखं पततां विषयैषिणाम तिर्यक च पततां दुःख्म पततां नरके च यत 12 सवर्गस्य च गुणान कृत्स्नान दॊषान सर्वांश च भारत वेदवादे च ये दॊषा गुणा ये चापि वैदिकाः 13 जञानयॊगे च ये दॊषा गुणा यॊगे च ये नृप सांख्यज्ञाने च ये दॊषास तथैव च गुणा नृप 14 सत्त्वं दशगुणं जञात्वा रजॊ नव गुणं तथा तमश चास्त गुणं जञात्वा बुद्धिं सप्त गुणां तथा 15 सॊ गुणं च नभॊ जञात्वा मनः पञ्च गुणं तथा बुद्धिं चतुर्गुणां जञात्वा तमश च तरिगुणं महत 16 दविगुणं च रजॊ जञात्वा सत्त्वम एकगुणं पुनः मार्गं विज्ञाय तत्त्वेन परलये परेक्षणं तथा 17 जञानविज्ञानसंपन्नाः कारणैर भाविताः शुभैः पराप्नुवन्ति शुभं मॊक्षं सूक्ष्मा इह नभः परम 18 रूपेण दृष्टिं संयुक्तां घराणं गन्धगुणेन च शब्दे सक्तं तथा शरॊत्रं जिह्वां रसगुणेषु च 19 तनुं सपर्शे तथा सक्तां वायुं नभसि चाश्रितम मॊहं तमसि संसक्तं लॊभम अर्थेषु संश्रितम 20 विष्णुं करान्ते बले शक्रं कॊष्ठे सक्तं तथानलम अप्सु देवीं तथा सक्ताम अपस तेजसि चाश्रिताः 21 तेजॊ वायौ तु संसक्तं वायुं नभसि चाश्रितम नभॊ महति संयुक्तं महद बुद्धौ च संश्रितम 22 बुद्धिं तमसि संसक्तां तमॊ रजसि चाश्रितम रजः सत्त्वे तथा सक्तं सत्त्वं सक्तं तथात्मनि 23 सक्तम आत्मानम ईशे च देवे नारायणे तथा देवं मॊक्षे च संसक्तं मॊक्षं सक्तं तु न कव चित 24 जञात्वा सत्त्वयुतं देहं वृतं सॊदशभिर गुणैः सवभावं चेतनां चैव जञात्वा वै देहम आश्रिते 25 मध्यस्थम एकम आत्मानं पापं यस्मिन न विद्यते दवितीयं कर्म विज्ञाय नृपतौ विषयैषिणाम 26 इन्द्रियाणीन्द्रियार्थाश च सर्वान आत्मनि संशृतान पराणापानौ समानं च वयानॊदानौ च तत्त्वतः 27 अवाक्चैवानिलं जञात्वा परवहं चानिलं पुनः सप्त वातांस तथा शेषान सप्तधा विधिवत पुनः 28 परजापतीन ऋषींश चैव मार्गांश च सुबहून वरान सप्तर्षींश च बहूञ जञात्वा राजर्षींश च परंतप 29 सुरर्षीन महतश चान्यान महर्षीन सूर्यसंनिभान ऐश्वर्याच चयाविताञ जञात्वा कालेन महता नृप 30 महतां भूतसंघानां शरुत्वा नाशं च पार्थिव गतिं चाप्य अशुभां जञात्वा नृपते पापकर्मणाम 31 वैतरण्यां च यद दुःखं पतितानां यमक्षये यॊनीषु च विचित्रासु संसारान अशुभांस तथा 32 जथरे चाशुभे वासं शॊनितॊदक भाजने शलेष्म मूत्र पुरीषे च तीव्रगन्धसमन्विते 33 शुक्रशॊनित संघाते मज्जास्नायुपरिग्रहे सिरा शतसमाकीर्णे नवद्वारे पुरे ऽशुचौ 34 विज्ञायाहितम आत्मानं यॊगांश च विविधान नृप तामसानां च जन्तूनां रमणीयावृतात्मनाम 35 सात्त्विकानां च जन्तूनां कुत्सितं भरतर्षभ गर्हितं महताम अर्थे सांख्यानां विदितात्मनाम 36 उपप्लवांस तथा घॊराञ शशिनस तेजसस तथा ताराणां पतनं दृष्ट्वा नक्षत्राणां च पर्ययम 37 दवन्द्वानां विप्रयॊगं च विज्ञाय कृपणं नृप अन्यॊन्यभक्षणं दृष्ट्वा भूतानाम अपि चाशुभम 38 बाल्ये मॊहं च विज्ञाय कषयं देहस्य चाशुभम रागे मॊहे च संप्राप्ते कव चित सत्त्वं समाश्रितम 39 सहस्रेषु नरः कश चिन मॊक्षबुद्धिं समाश्रितः दुर्लभत्वं च मॊक्षस्य विज्ञाय शरुतिपूर्वकम 40 बहुमानम अलब्धेषु लब्धे मध्यस्थतां पुनः विषयाणां च दौरात्म्यं विज्ञाय नृपते पुनः 41 गतासूनां च कौन्तेय देहान दृष्ट्वा तथाशुभान वासं कुलेषु जन्तूनां दुःखं विज्ञाय भारत 42 बरह्मघ्नानां गतिं जञात्वा पतितानां सुदारुणाम सुरा पाने च सक्तानां बराह्मणानां दुरात्मनाम गुरु दारप्रसक्तानां गतिं विज्ञाय चाशुभाम 43 जननीषु च वर्तन्ते ये न सम्यग युधिष्ठिर सदेवकेषु लॊकेषु ये न वर्तन्ति मानवाः 44 तेन जञानेन विज्ञाय गतिं चाशुभ कर्मणाम तिर्यग्यॊनिगतानां च विज्ञाय गतयः पृथक 45 वेदवादांस तथा चित्रान ऋतूनां पर्ययांस तथा कषयं संवत्सराणां च मासानां परक्षयं तथा 46 पक्षक्षयं तथा दृष्ट्वा दिवसानां च संक्षयम कषयं वृद्धिं च चन्द्रस्य दृष्ट्वा परत्यक्षतस तथा 47 वृद्धिं दृष्ट्वा समुद्राणां कषयं तेषां तथा पुनः कषयं धनानां च तथा पुनर वृद्धिं तथैव च 48 समॊगानां कषयं दृष्ट्वा युगानां च विशेषतः कषयं च दृष्ट्वा शैलानां कषयं च सरितां तथा 49 वर्णानां च कषयं दृष्ट्वा कषयान्तं च पुनः पुनः जरामृत्युं तथा जन्म दृष्ट्वा दुःखानि चैव ह 50 देहदॊषांस तथा जञात्वा तेषां दुःखं च तत्त्वतः देव विक्लवतां चैव सम्यग विज्ञाय भारत 51 आत्मदॊषांश च विज्ञाय सर्वान आत्मनि संश्रितान सवदेहाद उत्थितान गन्धांस तथा विज्ञाय चाशुभम 52 [य] कान सवगात्रॊद्भवान दॊषान पश्यस्य अमितविक्रम एतन मे संशयं कृत्स्नं वक्तुम अर्हसि तत्त्वतः 53 [भी] पञ्च दॊषान परभॊ देहे परवदन्ति मनीषिणः मार्गज्ञाः कापिलाः सांख्याः शृणु तान अरिसूदन 54 कामक्रॊधौ भयं निद्रा पञ्चमः शवास उच्यते एते दॊषाः शरीरेषु दृश्यन्ते सर्वदेहिनाम 55 छिन्दन्ति कषमया करॊधं कामं संकल्पवर्जनात सत्त्वसंशीलनान निद्राम अप्रमादाद भयं तथा छिन्दन्ति पञ्चमं शवासं लघ्व आहारतया नृप 56 गुणान गुणशतैर जञात्वा दॊषान दॊषशतैर अपि हेतून हेतुशतैश चित्रैश चित्रान विज्ञाय तत्त्वतः 57 अपां फेनॊपमं लॊकं विष्णॊर माया शतैर वृतम चित्तभित्ति परतीकाशं नल सारम अनर्थकम 58 तमः शवभ्र निभं दृष्ट्वा वर्षबुद्बुद संनिभम नाश परायं सुखाद धीनं नाशॊत्तरम अभावगम रजस तमसि संमग्नं पङ्के दविपम इवावशम 59 सांख्या राजन महाप्राज्ञास तयक्त्वा देहं परजा कृतम जञानज्ञेयेन सांख्येन वयापिना महता नृप 60 राजसान अशुभान गन्धांस तामसांश च तथाविधान पुण्यांश च सात्त्विकान गन्धान सपर्शजान देहसंश्रितान छित्त्वाशु जञानशस्त्रेण तपॊ दन्देन भारत 61 ततॊ दुःखॊदकं घॊरं चिन्ताशॊकमहाह्रदम वयाधिमृत्युमहाग्राहं महाभयमहॊरगम 62 तमः कूर्मं रजॊ मीनं परज्ञया संतरन्त्य उत सनेहपङ्कं जरा दुर्गं सपर्शद्वीपम अरिंदम 63 कर्मागाधं सत्यतीरं सथितव्रतम इदं नृप हिंसा शीघ्रमहावेगं नाना रसमहाकरम 64 नाना परीतिमहारत्नं दुःखज्वर समीरणम शॊकतृष्णा महावर्तं तीस्क्न वयाधिमहागजम 65 अस्थि संघातसंघातं शलेष्म फेनम अरिंदम दानम उक्ताकरं भीमं शॊनित हरद विद्रुतम 66 हसितॊत्क्रुष्ट निर्घॊषं नाना जञानसुदुस्तरम रॊदनाश्रु मलक्षारं सङ्गत्यागपरायनम 67 पुनर आ जन्म लॊकौघं पुत्र बान्धवपत्तनम अहिंसा सत्यमर्यादं पराण तयागमहॊर्मिणम 68 वेदान्तगमन दवीपं सर्वभूतदयॊदधिम मॊक्षदुष्प्राप विषयं वदवा मुखसागरम 69 तरन्ति मुनयः सिद्धा जञानयॊगेन भारत तीर्त्वा च दुस्तरं जन्म विशन्ति विमलं नभः 70 ततस तान सुकृतीन सांख्यान सूर्यॊ वहति रश्मिभिः पद्मतन्तुवद आविश्य परवहन विषयान नृप 71 तत्र तान परवहॊ वायुः परतिगृह्णाति भारत वीतरागान यतीन सिद्धान वीर्ययुक्तांस तपॊधनान 72 सूक्ष्मः शीतः सुगन्धी च सुखस्पर्शश च भारत सप्तानां मरुतां शरेष्ठॊ लॊकान गच्छति यः शुभान स तान वहति कौन्तेय नभसः परमां गतिम 73 नभॊ वहति लॊकेश रजसः परमां गतिम रजॊ वहति राजेन्द्र सत्त्वस्य परमां गतिम 74 सत्त्वं वहति शुद्धात्मन परं नारायणं परभुम परभुर वहति शुद्धात्मा परमात्मानम आत्मना 75 परमात्मानम आसाद्य तद भूतायतनामलाः अमृतत्वाय कल्पन्ते न निवर्तन्ति चाभिभॊ परमा सा गतिः पार्थ निर्द्वन्द्वानां महात्मनाम 76 [य] सथानम उत्तमम आसाद्य भगवन्तं सथिरव्रताः आजन्म मरणं वा ते समरन्त्य उप न वानघ 77 यद अत्र तथ्यं तन मे तवं यथावद वक्तुम अर्हसि तवदृते मानवं नान्यं परस्तुम अर्हामि कौरव 78 मॊक्षदॊषॊ महान एष पराप्य सिद्धिं गतान ऋषीन यदि तत्रैव विज्ञाने वर्तन्ते यतयः परे 79 परवृत्ति लक्षणं धर्मं पश्यामि परमं नृप मग्नस्य हि परे जञाने किं नु दुःखतरं भवेत 80 [भी] यथान्यायं तवया तात परश्नः पृष्टः सुसंकटः बुद्धानाम अपि संमॊहः परश्ने ऽसमिन भरतर्षभ अत्रापि तत्त्वं परमं शृणु सम्यग भयेरितम 81 बुद्धिश च परमा यत्र कापिलानां महात्मनाम इन्द्रियाण्य अपि बुध्यन्ते सवदेहं देहिनॊ नृप कारणाय आत्मनस तानि सूक्ष्मः पश्यति तैस तु सः 82 आत्मना विप्रहीनानि काष्ठ कुन्द्य समानि तु विनश्यन्ति न संदेहः फेना इव महार्णवे 83 इन्द्रियैः सह सुप्तस्य देहिनः शत्रुतापन सूक्ष्मश चरति सर्वत्र नभसीव समीरणः 84 स पश्यति यथान्यायं सपर्शान सपृशति चाभिभॊ बुध्यमानॊ यथापूर्वम अखिलेनेह भारत 85 इन्द्रियाणीह सर्वाणि सवे सवे सथाने यथाविधि अनीशत्वात परलीयन्ते सर्पा हतविषा इव 86 इन्द्रियाणां तु सर्वेषां सवस्थानेष्व एव सर्वशः आक्रम्य गतयः सूक्ष्माश चरत्य आत्मा न संशयः 87 सत्त्वस्य च गुणान कृत्स्नान रजसश च गुणान पुनः गुणांश च तमसः सर्वान गुणान बुद्धेश च भारत 88 गुणांश च मनसस तद्वन नभसश च गुणांस तथा गुणान वायॊश च धर्मात्मंस तेजसश च गुणान पुनः 89 अपां गुणांस तथा पार्थ पार्थिवांश च गुणान अपि सर्वात्मना गुणैर वयाप्य कषेत्रज्ञः स युधिष्ठिर 90 आत्मा च याति कषेत्रज्ञं कर्मणी च शुभाशुभे शिष्या इव महात्मानम इन्द्रियाणि च तं विभॊ 91 परकृतिं चाप्य अतिक्रम्य गच्छत्य आत्मानम अव्ययम परं नारायणात्मानं निर्द्वन्द्वं परकृतेः परम 92 विमुक्तः पुण्यपापेभ्यः परविष्टस तम अनामयम परमात्मानम अगुणं न निवर्तति भारत 93 शिष्टं तव अत्र मनस तात इन्द्रियाणि च भारत आगच्छन्ति यथाकालं गुरॊः संदेशकारिणः 94 शक्यं चाल्पेन कालेन शान्तिं पराप्तुं गुणार्थिना एवं युक्तेन कौन्तेय युक्तज्ञानेन मॊक्षिणा 95 सांख्या राजन महाप्राज्ञा गच्छन्ति परमां गतिम जञानेनानेन कौन्तेय तुल्यं जञानं न विद्यते 96 अत्र ते संशयॊ मा भूज जञानं सांख्यं परं मतम अक्षरं धरुवम अव्यक्तं पूर्वं बरह्म सनातनम 97 अनादिमध्यनिधनं निर्द्वन्द्वं कर्तृ शाश्वतम कूतस्थं चैव नित्यं च यद वदन्ति शमात्मकाः 98 यतः सर्वाः परवर्तन्ते सर्ग परलय विक्रियाः यच च शंसन्ति शास्त्रेषु वदन्ति परमर्षयः 99 सर्वे विप्राश च देवाश च तथागमविदॊ जनाः बरह्मण्यं परमं देवम अनन्तं परतॊ ऽचयुतम 100 परार्थयन्तश च तं विप्रा वदन्ति गुणबुद्दयः सम्यग युक्तास तथा यॊगाः सांख्याश चामितदर्शनाः 101 अमूर्तेस तस्य कौन्तेय सांख्यं मूर्तिर इति शरुतिः अभिज्ञानानि तस्याहुर मतं हि भरतर्षभ 102 दविविधानीह भूतानि पृथिव्यां पृथिवीपते जङ्गमागम संज्ञानि जङ्गमं तु विशिष्यते 103 जञानं महद यद धि महत्सु राजन; वेदेषु सांख्येषु तथैव यॊगे यच चापि दृष्टं विविधं पुराणं; सांख्यागतं तन निखिलं नरेन्द्र 104 यच चेतिहासेषु महत्सु दृष्टं; यच चार्थशास्त्रे नृप शिष्टजुष्टे जञानं च लॊके यद इहास्ति किं चित; सांख्यागतं तच च महन महात्मन 105 शमश च दृष्टः परमं बलं च; जञानं च सूक्ष्मं च यथावद उक्तम तपांसि सूक्ष्माणि सुखानि चैव; सांख्ये यथावद विहितानि राजन 106 विपर्यये तस्य हि पार्थ देवान; गच्छन्ति सांख्याः सततं सुखेन तांश चानुसंचार्य ततः कृतार्थाः; पतन्ति विप्रेषु यतेषु भूयः 107 हित्वा च देहं परविशन्ति मॊक्षं; दिवौकसॊ दयाम इव पार्थ सांख्याः ततॊ ऽधिकं ते ऽभिरता महार्हे; सांख्ये दविजाः पार्थिव शिष्टजुष्टे 108 तेषां न तिर्यग गमनं हि दृष्टं; नावाग गतिः पापकृतां निवासः न चाबुधानाम अपि ते दविजातयॊ; ये जञानम एतन नृपते ऽनुरक्ताः 109 सांक्यं विशालं परमं पुराणं; महार्णवं विमलम उदारकान्तम कृत्स्नं च सांख्यं नृपते महात्मा; नारायणॊ धारयते ऽपरमेयम 110 एतन मयॊक्तं नरदेव तत्त्वं; नारायणॊ विश्वम इदं पुराणम स सर्ग काले च करॊति सर्गं; संहार काले च तद अत्ति भूयः |
1
[y] samyak tvayāyaṃ nṛpate varṇitaḥ śiṣṭasaṃmataḥ yogamārgo yathānyāyaṃ śiṣyāyeha hitaiṣiṇā 2 sāṃkhye tvedānīṃ kārtsnyena vidhiṃ prabrūhi pṛcchate triṣu lokeṣu yaj jñānaṃ sarvaṃ tad vitidaṃ hi te 3 [bhī] śṛṇu me tvam idaṃ śuddhaṃ sāṃkhyānāṃ viditātmanām vihitaṃ yatibhir buddhaiḥ kapilādibhir īśvaraiḥ 4 yasmin na vibhramāḥ ke cid dṛśyante manujarṣabha guṇāś ca yasmin bahavo doṣahāniś ca kevalā 5 jñānena parisaṃkhyāya sadoṣān viṣayān nṛpa mānuṣān durjayān kṛtsnān paiśācān viṣayāṃs tathā 6 rākṣasān viṣayāñ jñātvā yakṣāṇāṃ viṣayāṃs tathā viṣayān auragāñ jñātvā gāndharvaviṣayāṃs tathā 7 pitṝṇāṃ viṣayāñ jñātvā tiryakṣu caratāṃ nṛpa suparṇaviṣayāñ jñātvā marutāṃ viṣayāṃs tathā 8 rājarṣiviṣayāñ jñātvā brahmarṣiviṣayāṃs tathā āsurān viṣayāñ jñātvā vaiśvadevāṃs tathaiva ca 9 devarṣiviṣayāñ jñātvā yogānān api ceśvarān viṣayāṃś ca prajeśānāṃ brahmaṇo viṣayāṃs tathā 10 āyuṣaś ca paraṃ kālaṃ loke vijñāya tattvataḥ sukhasya ca paraṃ tattvaṃ vijñāya vadatāṃ vara 11 prāpte kāle ca yad duḥkhaṃ patatāṃ viṣayaiṣiṇām tiryak ca patatāṃ duḥkhma patatāṃ narake ca yat 12 svargasya ca guṇān kṛtsnān doṣān sarvāṃś ca bhārata vedavāde ca ye doṣā guṇā ye cāpi vaidikāḥ 13 jñānayoge ca ye doṣā guṇā yoge ca ye nṛpa sāṃkhyajñāne ca ye doṣās tathaiva ca guṇā nṛpa 14 sattvaṃ daśaguṇaṃ jñātvā rajo nava guṇaṃ tathā tamaś cāsta guṇaṃ jñātvā buddhiṃ sapta guṇāṃ tathā 15 so guṇaṃ ca nabho jñātvā manaḥ pañca guṇaṃ tathā buddhiṃ caturguṇāṃ jñātvā tamaś ca triguṇaṃ mahat 16 dviguṇaṃ ca rajo jñātvā sattvam ekaguṇaṃ punaḥ mārgaṃ vijñāya tattvena pralaye prekṣaṇaṃ tathā 17 jñānavijñānasaṃpannāḥ kāraṇair bhāvitāḥ śubhaiḥ prāpnuvanti śubhaṃ mokṣaṃ sūkṣmā iha nabhaḥ param 18 rūpeṇa dṛṣṭiṃ saṃyuktāṃ ghrāṇaṃ gandhaguṇena ca śabde saktaṃ tathā śrotraṃ jihvāṃ rasaguṇeṣu ca 19 tanuṃ sparśe tathā saktāṃ vāyuṃ nabhasi cāśritam mohaṃ tamasi saṃsaktaṃ lobham artheṣu saṃśritam 20 viṣṇuṃ krānte bale śakraṃ koṣṭhe saktaṃ tathānalam apsu devīṃ tathā saktām apas tejasi cāśritāḥ 21 tejo vāyau tu saṃsaktaṃ vāyuṃ nabhasi cāśritam nabho mahati saṃyuktaṃ mahad buddhau ca saṃśritam 22 buddhiṃ tamasi saṃsaktāṃ tamo rajasi cāśritam rajaḥ sattve tathā saktaṃ sattvaṃ saktaṃ tathātmani 23 saktam ātmānam īśe ca deve nārāyaṇe tathā devaṃ mokṣe ca saṃsaktaṃ mokṣaṃ saktaṃ tu na kva cit 24 jñātvā sattvayutaṃ dehaṃ vṛtaṃ sodaśabhir guṇaiḥ svabhāvaṃ cetanāṃ caiva jñātvā vai deham āśrite 25 madhyastham ekam ātmānaṃ pāpaṃ yasmin na vidyate dvitīyaṃ karma vijñāya nṛpatau viṣayaiṣiṇām 26 indriyāṇīndriyārthāś ca sarvān ātmani saṃśṛtān prāṇāpānau samānaṃ ca vyānodānau ca tattvataḥ 27 avākcaivānilaṃ jñātvā pravahaṃ cānilaṃ punaḥ sapta vātāṃs tathā śeṣān saptadhā vidhivat punaḥ 28 prajāpatīn ṛṣīṃś caiva mārgāṃś ca subahūn varān saptarṣīṃś ca bahūñ jñātvā rājarṣīṃś ca paraṃtapa 29 surarṣīn mahataś cānyān maharṣīn sūryasaṃnibhān aiśvaryāc cyāvitāñ jñātvā kālena mahatā nṛpa 30 mahatāṃ bhūtasaṃghānāṃ śrutvā nāśaṃ ca pārthiva gatiṃ cāpy aśubhāṃ jñātvā nṛpate pāpakarmaṇām 31 vaitaraṇyāṃ ca yad duḥkhaṃ patitānāṃ yamakṣaye yonīṣu ca vicitrāsu saṃsārān aśubhāṃs tathā 32 jathare cāśubhe vāsaṃ śonitodaka bhājane śleṣma mūtra purīṣe ca tīvragandhasamanvite 33 śukraśonita saṃghāte majjāsnāyuparigrahe sirā śatasamākīrṇe navadvāre pure 'śucau 34 vijñāyāhitam ātmānaṃ yogāṃś ca vividhān nṛpa tāmasānāṃ ca jantūnāṃ ramaṇīyāvṛtātmanām 35 sāttvikānāṃ ca jantūnāṃ kutsitaṃ bharatarṣabha garhitaṃ mahatām arthe sāṃkhyānāṃ viditātmanām 36 upaplavāṃs tathā ghorāñ śaśinas tejasas tathā tārāṇāṃ patanaṃ dṛṣṭvā nakṣatrāṇāṃ ca paryayam 37 dvandvānāṃ viprayogaṃ ca vijñāya kṛpaṇaṃ nṛpa anyonyabhakṣaṇaṃ dṛṣṭvā bhūtānām api cāśubham 38 bālye mohaṃ ca vijñāya kṣayaṃ dehasya cāśubham rāge mohe ca saṃprāpte kva cit sattvaṃ samāśritam 39 sahasreṣu naraḥ kaś cin mokṣabuddhiṃ samāśritaḥ durlabhatvaṃ ca mokṣasya vijñāya śrutipūrvakam 40 bahumānam alabdheṣu labdhe madhyasthatāṃ punaḥ viṣayāṇāṃ ca daurātmyaṃ vijñāya nṛpate punaḥ 41 gatāsūnāṃ ca kaunteya dehān dṛṣṭvā tathāśubhān vāsaṃ kuleṣu jantūnāṃ duḥkhaṃ vijñāya bhārata 42 brahmaghnānāṃ gatiṃ jñātvā patitānāṃ sudāruṇām surā pāne ca saktānāṃ brāhmaṇānāṃ durātmanām guru dāraprasaktānāṃ gatiṃ vijñāya cāśubhām 43 jananīṣu ca vartante ye na samyag yudhiṣṭhira sadevakeṣu lokeṣu ye na vartanti mānavāḥ 44 tena jñānena vijñāya gatiṃ cāśubha karmaṇām tiryagyonigatānāṃ ca vijñāya gatayaḥ pṛthak 45 vedavādāṃs tathā citrān ṛtūnāṃ paryayāṃs tathā kṣayaṃ saṃvatsarāṇāṃ ca māsānāṃ prakṣayaṃ tathā 46 pakṣakṣayaṃ tathā dṛṣṭvā divasānāṃ ca saṃkṣayam kṣayaṃ vṛddhiṃ ca candrasya dṛṣṭvā pratyakṣatas tathā 47 vṛddhiṃ dṛṣṭvā samudrāṇāṃ kṣayaṃ teṣāṃ tathā punaḥ kṣayaṃ dhanānāṃ ca tathā punar vṛddhiṃ tathaiva ca 48 samogānāṃ kṣayaṃ dṛṣṭvā yugānāṃ ca viśeṣataḥ kṣayaṃ ca dṛṣṭvā śailānāṃ kṣayaṃ ca saritāṃ tathā 49 varṇānāṃ ca kṣayaṃ dṛṣṭvā kṣayāntaṃ ca punaḥ punaḥ jarāmṛtyuṃ tathā janma dṛṣṭvā duḥkhāni caiva ha 50 dehadoṣāṃs tathā jñātvā teṣāṃ duḥkhaṃ ca tattvataḥ deva viklavatāṃ caiva samyag vijñāya bhārata 51 ātmadoṣāṃś ca vijñāya sarvān ātmani saṃśritān svadehād utthitān gandhāṃs tathā vijñāya cāśubham 52 [y] kān svagātrodbhavān doṣān paśyasy amitavikrama etan me saṃśayaṃ kṛtsnaṃ vaktum arhasi tattvataḥ 53 [bhī] pañca doṣān prabho dehe pravadanti manīṣiṇaḥ mārgajñāḥ kāpilāḥ sāṃkhyāḥ śṛṇu tān arisūdana 54 kāmakrodhau bhayaṃ nidrā pañcamaḥ śvāsa ucyate ete doṣāḥ śarīreṣu dṛśyante sarvadehinām 55 chindanti kṣamayā krodhaṃ kāmaṃ saṃkalpavarjanāt sattvasaṃśīlanān nidrām apramādād bhayaṃ tathā chindanti pañcamaṃ śvāsaṃ laghv āhāratayā nṛpa 56 guṇān guṇaśatair jñātvā doṣān doṣaśatair api hetūn hetuśataiś citraiś citrān vijñāya tattvataḥ 57 apāṃ phenopamaṃ lokaṃ viṣṇor māyā śatair vṛtam cittabhitti pratīkāśaṃ nala sāram anarthakam 58 tamaḥ śvabhra nibhaṃ dṛṣṭvā varṣabudbuda saṃnibham nāśa prāyaṃ sukhād dhīnaṃ nāśottaram abhāvagam rajas tamasi saṃmagnaṃ paṅke dvipam ivāvaśam 59 sāṃkhyā rājan mahāprājñās tyaktvā dehaṃ prajā kṛtam jñānajñeyena sāṃkhyena vyāpinā mahatā nṛpa 60 rājasān aśubhān gandhāṃs tāmasāṃś ca tathāvidhān puṇyāṃś ca sāttvikān gandhān sparśajān dehasaṃśritān chittvāśu jñānaśastreṇa tapo dandena bhārata 61 tato duḥkhodakaṃ ghoraṃ cintāśokamahāhradam vyādhimṛtyumahāgrāhaṃ mahābhayamahoragam 62 tamaḥ kūrmaṃ rajo mīnaṃ prajñayā saṃtaranty uta snehapaṅkaṃ jarā durgaṃ sparśadvīpam ariṃdama 63 karmāgādhaṃ satyatīraṃ sthitavratam idaṃ nṛpa hiṃsā śīghramahāvegaṃ nānā rasamahākaram 64 nānā prītimahāratnaṃ duḥkhajvara samīraṇam śokatṛṣṇā mahāvartaṃ tīskna vyādhimahāgajam 65 asthi saṃghātasaṃghātaṃ śleṣma phenam ariṃdama dānam uktākaraṃ bhīmaṃ śonita hrada vidrutam 66 hasitotkruṣṭa nirghoṣaṃ nānā jñānasudustaram rodanāśru malakṣāraṃ saṅgatyāgaparāyanam 67 punar ā janma lokaughaṃ putra bāndhavapattanam ahiṃsā satyamaryādaṃ prāṇa tyāgamahormiṇam 68 vedāntagamana dvīpaṃ sarvabhūtadayodadhim mokṣaduṣprāpa viṣayaṃ vadavā mukhasāgaram 69 taranti munayaḥ siddhā jñānayogena bhārata tīrtvā ca dustaraṃ janma viśanti vimalaṃ nabhaḥ 70 tatas tān sukṛtīn sāṃkhyān sūryo vahati raśmibhiḥ padmatantuvad āviśya pravahan viṣayān nṛpa 71 tatra tān pravaho vāyuḥ pratigṛhṇāti bhārata vītarāgān yatīn siddhān vīryayuktāṃs tapodhanān 72 sūkṣmaḥ śītaḥ sugandhī ca sukhasparśaś ca bhārata saptānāṃ marutāṃ śreṣṭho lokān gacchati yaḥ śubhān sa tān vahati kaunteya nabhasaḥ paramāṃ gatim 73 nabho vahati lokeśa rajasaḥ paramāṃ gatim rajo vahati rājendra sattvasya paramāṃ gatim 74 sattvaṃ vahati śuddhātman paraṃ nārāyaṇaṃ prabhum prabhur vahati śuddhātmā paramātmānam ātmanā 75 paramātmānam āsādya tad bhūtāyatanāmalāḥ amṛtatvāya kalpante na nivartanti cābhibho paramā sā gatiḥ pārtha nirdvandvānāṃ mahātmanām 76 [y] sthānam uttamam āsādya bhagavantaṃ sthiravratāḥ ājanma maraṇaṃ vā te smaranty upa na vānagha 77 yad atra tathyaṃ tan me tvaṃ yathāvad vaktum arhasi tvadṛte mānavaṃ nānyaṃ prastum arhāmi kaurava 78 mokṣadoṣo mahān eṣa prāpya siddhiṃ gatān ṛṣīn yadi tatraiva vijñāne vartante yatayaḥ pare 79 pravṛtti lakṣaṇaṃ dharmaṃ paśyāmi paramaṃ nṛpa magnasya hi pare jñāne kiṃ nu duḥkhataraṃ bhavet 80 [bhī] yathānyāyaṃ tvayā tāta praśnaḥ pṛṣṭaḥ susaṃkaṭaḥ buddhānām api saṃmohaḥ praśne 'smin bharatarṣabha atrāpi tattvaṃ paramaṃ śṛṇu samyag bhayeritam 81 buddhiś ca paramā yatra kāpilānāṃ mahātmanām indriyāṇy api budhyante svadehaṃ dehino nṛpa kāraṇāy ātmanas tāni sūkṣmaḥ paśyati tais tu saḥ 82 ātmanā viprahīnāni kāṣṭha kundya samāni tu vinaśyanti na saṃdehaḥ phenā iva mahārṇave 83 indriyaiḥ saha suptasya dehinaḥ śatrutāpana sūkṣmaś carati sarvatra nabhasīva samīraṇaḥ 84 sa paśyati yathānyāyaṃ sparśān spṛśati cābhibho budhyamāno yathāpūrvam akhileneha bhārata 85 indriyāṇīha sarvāṇi sve sve sthāne yathāvidhi anīśatvāt pralīyante sarpā hataviṣā iva 86 indriyāṇāṃ tu sarveṣāṃ svasthāneṣv eva sarvaśaḥ ākramya gatayaḥ sūkṣmāś caraty ātmā na saṃśayaḥ 87 sattvasya ca guṇān kṛtsnān rajasaś ca guṇān punaḥ guṇāṃś ca tamasaḥ sarvān guṇān buddheś ca bhārata 88 guṇāṃś ca manasas tadvan nabhasaś ca guṇāṃs tathā guṇān vāyoś ca dharmātmaṃs tejasaś ca guṇān punaḥ 89 apāṃ guṇāṃs tathā pārtha pārthivāṃś ca guṇān api sarvātmanā guṇair vyāpya kṣetrajñaḥ sa yudhiṣṭhira 90 ātmā ca yāti kṣetrajñaṃ karmaṇī ca śubhāśubhe śiṣyā iva mahātmānam indriyāṇi ca taṃ vibho 91 prakṛtiṃ cāpy atikramya gacchaty ātmānam avyayam paraṃ nārāyaṇātmānaṃ nirdvandvaṃ prakṛteḥ param 92 vimuktaḥ puṇyapāpebhyaḥ praviṣṭas tam anāmayam paramātmānam aguṇaṃ na nivartati bhārata 93 śiṣṭaṃ tv atra manas tāta indriyāṇi ca bhārata āgacchanti yathākālaṃ guroḥ saṃdeśakāriṇaḥ 94 śakyaṃ cālpena kālena śāntiṃ prāptuṃ guṇārthinā evaṃ yuktena kaunteya yuktajñānena mokṣiṇā 95 sāṃkhyā rājan mahāprājñā gacchanti paramāṃ gatim jñānenānena kaunteya tulyaṃ jñānaṃ na vidyate 96 atra te saṃśayo mā bhūj jñānaṃ sāṃkhyaṃ paraṃ matam akṣaraṃ dhruvam avyaktaṃ pūrvaṃ brahma sanātanam 97 anādimadhyanidhanaṃ nirdvandvaṃ kartṛ śāśvatam kūtasthaṃ caiva nityaṃ ca yad vadanti śamātmakāḥ 98 yataḥ sarvāḥ pravartante sarga pralaya vikriyāḥ yac ca śaṃsanti śāstreṣu vadanti paramarṣayaḥ 99 sarve viprāś ca devāś ca tathāgamavido janāḥ brahmaṇyaṃ paramaṃ devam anantaṃ parato 'cyutam 100 prārthayantaś ca taṃ viprā vadanti guṇabuddayaḥ samyag yuktās tathā yogāḥ sāṃkhyāś cāmitadarśanāḥ 101 amūrtes tasya kaunteya sāṃkhyaṃ mūrtir iti śrutiḥ abhijñānāni tasyāhur mataṃ hi bharatarṣabha 102 dvividhānīha bhūtāni pṛthivyāṃ pṛthivīpate jaṅgamāgama saṃjñāni jaṅgamaṃ tu viśiṣyate 103 jñānaṃ mahad yad dhi mahatsu rājan; vedeṣu sāṃkhyeṣu tathaiva yoge yac cāpi dṛṣṭaṃ vividhaṃ purāṇaṃ; sāṃkhyāgataṃ tan nikhilaṃ narendra 104 yac cetihāseṣu mahatsu dṛṣṭaṃ; yac cārthaśāstre nṛpa śiṣṭajuṣṭe jñānaṃ ca loke yad ihāsti kiṃ cit; sāṃkhyāgataṃ tac ca mahan mahātman 105 śamaś ca dṛṣṭaḥ paramaṃ balaṃ ca; jñānaṃ ca sūkṣmaṃ ca yathāvad uktam tapāṃsi sūkṣmāṇi sukhāni caiva; sāṃkhye yathāvad vihitāni rājan 106 viparyaye tasya hi pārtha devān; gacchanti sāṃkhyāḥ satataṃ sukhena tāṃś cānusaṃcārya tataḥ kṛtārthāḥ; patanti vipreṣu yateṣu bhūyaḥ 107 hitvā ca dehaṃ praviśanti mokṣaṃ; divaukaso dyām iva pārtha sāṃkhyāḥ tato 'dhikaṃ te 'bhiratā mahārhe; sāṃkhye dvijāḥ pārthiva śiṣṭajuṣṭe 108 teṣāṃ na tiryag gamanaṃ hi dṛṣṭaṃ; nāvāg gatiḥ pāpakṛtāṃ nivāsaḥ na cābudhānām api te dvijātayo; ye jñānam etan nṛpate 'nuraktāḥ 109 sāṃkyaṃ viśālaṃ paramaṃ purāṇaṃ; mahārṇavaṃ vimalam udārakāntam kṛtsnaṃ ca sāṃkhyaṃ nṛpate mahātmā; nārāyaṇo dhārayate 'prameyam 110 etan mayoktaṃ naradeva tattvaṃ; nārāyaṇo viśvam idaṃ purāṇam sa sarga kāle ca karoti sargaṃ; saṃhāra kāle ca tad atti bhūyaḥ |
The Mahabharata in Sanskrit
Book 12
Chapter 291
|
1
[य] किं तद अक्षरम इत्य उक्तं यस्मान नावार्तते पुनः किं च तत कषरम इत्य उक्तं यस्माद आवर्तते पुनः 2 अक्षरक्षरयॊर वयक्तिम इच्छाम्य अरिनिषूदन उपलब्धुं महाबाहॊ तत्त्वेन कुरुनन्दन 3 तवं हि जञाननिधिर विप्रैर उच्यसे वेदपारगैः ऋषिभिश च महाभागैर यतिभिश च महात्मभिः 4 शेषम अल्पं दिनानां ते दक्षिणायन भास्करे आवृत्ते भगवत्य अर्के गन्तासि परमां गतिम 5 तवयि परतिगते शरेयः कुतः शरॊष्यामहे वयम कुरुवंशप्रदीपस तवं जञानद्रव्येण दीप्यसे 6 तद एतच छरॊतुम इच्छामि तवत्तः कुरुकुलॊद्वह न तृप्यामीह राजेन्द्र शृण्वन्न अमृतम ईदृशम 7 [भी] अत्र ते वर्तयिष्ये ऽहम इतिहासं पुरातनम वसिष्ठस्य च संवादं कराल जनकस्य च 8 वसिष्ठं शरेष्ठम आसीनम ऋषीणां भास्करद्युतिम पप्रच्छ जनकॊ राजा जञानं नैःश्रेयसं परम 9 परम अध्यात्मकुशलम अध्यात्मगतिनिश्चयम मैत्रावरुणिम आसीनम अभिवाद्य कृताञ्जलिः 10 सवक्षरं परश्रितं वाक्यं मधुरं चाप्य अनुल्बनम पप्रच्छर्षिवरं राजान कराल जनकः पुरा 11 भगवञ शरॊतुम इच्छामि परं बरह्म सनातनम यस्मान न पुनर आवृत्तिम आप्नुवन्ति मनीषिणः 12 यच च तत कषरम इत्य उक्तं यत्रेदं कषरते जगत यच चाक्षरम इति परॊक्तं शिवं कषेम्यम अनामयम 13 [वसिस्ठ] शरूयतां पृथिवीपाल कषरतीदं यथा जगत यन न कषरति पूर्वेण यावत कालेन चाप्य अथ 14 युगं दवादश साहस्रं कल्पं विद्धि चतुर्गुणम दश कल्पशतावृत्तं तद आहर बराह्मम उच्यते रात्रिश चैतावती राजन यस्यान्ते परतिबुध्यते 15 सृजत्य अनन्त कर्माणं महान्तं भूतम अग्रजम मूर्तिमन्तम अमूर्तात्मा विश्वं शम्भुः सवयम्भुवः अनिमा लघिमा पराप्तिर ईशानं जयॊतिर अव्ययम 16 सर्वतः पानि पादान्तं सर्वतॊ ऽकषिशिरॊमुखम सर्वतः शरुतिमल लॊके सर्वम आवृत्य तिष्ठति 17 हिरण्यगर्भॊ भगवान एष बुद्धिर इति समृतः महान इति च यॊगेषु विरिञ्च इति चाप्य उत 18 सांख्ये च पथ्यते शास्त्रे नामभिर बहुधात्मकः विचित्ररूपॊ विश्वात्मा एकाक्षर इति समृतः 19 वृतं नैकात्मकं येन कृत्स्नं तरैलॊक्यम आत्मना तथैव बहुरूपत्वाद विश्वरूप इति समृतः 20 एष वै विक्रियापन्नः सृजत्य आत्मानम आत्मना अहंकारं महातेजाः परजापतिम अहंकृतम 21 अव्यक्ताद वयक्तम उत्पन्नं विद्या सर्गं वदन्ति तम महान्तं चाप्य अहंकारम अविद्या सर्गम एव च 22 अविधिश च विधिश चैव समुत्पन्नौ तथैकतः विद्याविद्येति विख्याते शरुतिशास्त्रार्थ चिन्तकैः 23 भूतसर्गम अहंकारात तृतीयं विद्धि पार्थिव अहंकारेषु भूतेषु चतुर्थं विद्धि वैकृतम 24 वायुर जयॊतिर अथाकाशम आपॊ ऽथ पृथिवी तथा शब्दः सपर्शश च रूपं च रसॊ गन्धस तथैव च 25 एवं युगपद उत्पन्नं दशवर्गम असंशयम पञ्चमं विद्धि राजेन्द्र भौतिकं सर्गम अर्थवत 26 शरॊत्रं तवक चक्षुषी जिह्वा घराणम एव च पञ्चमम वाक च हस्तौ च पादौ च पायुर मेध्रं तथैव च 27 बुद्धीन्द्रियाणि चैतानि तथा कर्मेन्द्रियाणि च संभूतानीह युगपन मनसा सह पार्थिव 28 एषा तत्त्वचतुर्विंशा सर्वाकृतिषु वर्तते यां जञात्वा नाभिशॊचन्ति बराह्मणास तत्त्वदर्शिनः 29 एतद देहं समाख्यातं तरैलॊक्ये सर्वदेहिषु वेदितव्यं नरश्रेष्ठ सदेवनरदानवे 30 सयक्षभूतगन्धर्वे सकिंनरमहॊरगे सचारण पिशाचे व सदेवर्षिनिशाचरे 31 सदंश कीत मशके सपूति कृमिमूषके शुनि शवपाके वैनेये सचन्दाले सपुल्कसे 32 हस्त्यश्वखरशार्दूले सवृक्षे गवि चैव ह यच च मूर्तिमयं किं चित सर्वत्रैतन निदर्शनम 33 जले भुवि तथाकाशे नान्यत्रेति विनिश्चयः सथानं देहवताम अस्ति इत्य एवम अनुशुश्रुम 34 कृत्स्नम एतावतस तात कषरते वयक्तसंज्ञकम अहन्य अहनि भूतात्मा ततः कषर इति समृतः 35 एतद अक्षरम इत्य उक्तं कषरतीदं यथा जगत जगन मॊहात्मकं पराहुर अव्यक्तं वयक्तसंज्ञकम 36 महांश चैवाग्रजॊ नित्यम एतत कषर निदर्शनम कथितं ते महाराज यस्मान नावर्तते पुनः 37 पञ्चविंशतिमॊ विष्णुर निस्तत्त्वस तत्त्वसंज्ञकः तत्त्वसंश्रयणाद एतत तत्त्वम आहुर मनीषिणः 38 यद अमूर्त्य असृजद वयक्तं तत तन मूर्त्य अधितिष्ठति चतुर्विंशतिमॊ वयक्तॊ हय अमूर्तः पञ्चविंशकः 39 स एव हृदि सर्वासु मूर्तिष्व आतिष्ठते ऽऽतमवान चेतयंश चेतनॊ नित्यः सर्वमूर्तिर अमूर्तिमान 40 सर्ग परलय धर्मिण्या असर्ग परलयात्मकः गॊचरे वर्तते नित्यं निर्गुणॊ गुणसंज्ञकः 41 एवम एष महान आत्मा सर्ग परलय कॊविदः विकुर्वाणः परकृतिमान अभिमन्यत्य अबुद्धिमान 42 तमः सत्त्वरजॊ युक्तस तासु तास्व इह यॊनिषु लीयते ऽपरतिबुद्धत्वाद अबुद्ध जनसेवनात 43 सह वासॊ निवासात्मा नान्यॊ ऽहम इति मन्यते यॊ ऽहं सॊ ऽहम इति हय उक्त्वा गुणान अनु निवर्तते 44 तमसा तामसान भावान विविधान परतिपद्यते रजसा राजसांश चैव सात्त्विकान सत्त्वसंश्रयात 45 शुक्ललॊहित कृष्णानि रूपाण्य एतानि तरीणि तु सर्वाण्य एतानि रूपाणि जानीहि पराकृतानि वै 46 तामसा निरयं यान्ति राजसा मानुषांस तथा सात्त्विका देवलॊकाय गच्छन्ति सुखभागिनः 47 निष्कैवल्येन पापेन तिर्यग्यॊनिम अवाप्नुयात पुण्यपापेन मानुष्यं पुण्येनैकेन देवताः 48 एवम अव्यक्तविषयं कषरम आहुर मनीषिणः पञ्चविंशतिमॊ यॊ ऽयं जञानाद एव परवर्तते |
1
[y] kiṃ tad akṣaram ity uktaṃ yasmān nāvārtate punaḥ kiṃ ca tat kṣaram ity uktaṃ yasmād āvartate punaḥ 2 akṣarakṣarayor vyaktim icchāmy ariniṣūdana upalabdhuṃ mahābāho tattvena kurunandana 3 tvaṃ hi jñānanidhir viprair ucyase vedapāragaiḥ ṛṣibhiś ca mahābhāgair yatibhiś ca mahātmabhiḥ 4 śeṣam alpaṃ dinānāṃ te dakṣiṇāyana bhāskare āvṛtte bhagavaty arke gantāsi paramāṃ gatim 5 tvayi pratigate śreyaḥ kutaḥ śroṣyāmahe vayam kuruvaṃśapradīpas tvaṃ jñānadravyeṇa dīpyase 6 tad etac chrotum icchāmi tvattaḥ kurukulodvaha na tṛpyāmīha rājendra śṛṇvann amṛtam īdṛśam 7 [bhī] atra te vartayiṣye 'ham itihāsaṃ purātanam vasiṣṭhasya ca saṃvādaṃ karāla janakasya ca 8 vasiṣṭhaṃ śreṣṭham āsīnam ṛṣīṇāṃ bhāskaradyutim papraccha janako rājā jñānaṃ naiḥśreyasaṃ param 9 param adhyātmakuśalam adhyātmagatiniścayam maitrāvaruṇim āsīnam abhivādya kṛtāñjaliḥ 10 svakṣaraṃ praśritaṃ vākyaṃ madhuraṃ cāpy anulbanam papraccharṣivaraṃ rājān karāla janakaḥ purā 11 bhagavañ śrotum icchāmi paraṃ brahma sanātanam yasmān na punar āvṛttim āpnuvanti manīṣiṇaḥ 12 yac ca tat kṣaram ity uktaṃ yatredaṃ kṣarate jagat yac cākṣaram iti proktaṃ śivaṃ kṣemyam anāmayam 13 [vasisṭha] śrūyatāṃ pṛthivīpāla kṣaratīdaṃ yathā jagat yan na kṣarati pūrveṇa yāvat kālena cāpy atha 14 yugaṃ dvādaśa sāhasraṃ kalpaṃ viddhi caturguṇam daśa kalpaśatāvṛttaṃ tad āhar brāhmam ucyate rātriś caitāvatī rājan yasyānte pratibudhyate 15 sṛjaty ananta karmāṇaṃ mahāntaṃ bhūtam agrajam mūrtimantam amūrtātmā viśvaṃ śambhuḥ svayambhuvaḥ animā laghimā prāptir īśānaṃ jyotir avyayam 16 sarvataḥ pāni pādāntaṃ sarvato 'kṣiśiromukham sarvataḥ śrutimal loke sarvam āvṛtya tiṣṭhati 17 hiraṇyagarbho bhagavān eṣa buddhir iti smṛtaḥ mahān iti ca yogeṣu viriñca iti cāpy uta 18 sāṃkhye ca pathyate śāstre nāmabhir bahudhātmakaḥ vicitrarūpo viśvātmā ekākṣara iti smṛtaḥ 19 vṛtaṃ naikātmakaṃ yena kṛtsnaṃ trailokyam ātmanā tathaiva bahurūpatvād viśvarūpa iti smṛtaḥ 20 eṣa vai vikriyāpannaḥ sṛjaty ātmānam ātmanā ahaṃkāraṃ mahātejāḥ prajāpatim ahaṃkṛtam 21 avyaktād vyaktam utpannaṃ vidyā sargaṃ vadanti tam mahāntaṃ cāpy ahaṃkāram avidyā sargam eva ca 22 avidhiś ca vidhiś caiva samutpannau tathaikataḥ vidyāvidyeti vikhyāte śrutiśāstrārtha cintakaiḥ 23 bhūtasargam ahaṃkārāt tṛtīyaṃ viddhi pārthiva ahaṃkāreṣu bhūteṣu caturthaṃ viddhi vaikṛtam 24 vāyur jyotir athākāśam āpo 'tha pṛthivī tathā śabdaḥ sparśaś ca rūpaṃ ca raso gandhas tathaiva ca 25 evaṃ yugapad utpannaṃ daśavargam asaṃśayam pañcamaṃ viddhi rājendra bhautikaṃ sargam arthavat 26 śrotraṃ tvak cakṣuṣī jihvā ghrāṇam eva ca pañcamam vāk ca hastau ca pādau ca pāyur medhraṃ tathaiva ca 27 buddhīndriyāṇi caitāni tathā karmendriyāṇi ca saṃbhūtānīha yugapan manasā saha pārthiva 28 eṣā tattvacaturviṃśā sarvākṛtiṣu vartate yāṃ jñātvā nābhiśocanti brāhmaṇās tattvadarśinaḥ 29 etad dehaṃ samākhyātaṃ trailokye sarvadehiṣu veditavyaṃ naraśreṣṭha sadevanaradānave 30 sayakṣabhūtagandharve sakiṃnaramahorage sacāraṇa piśāce va sadevarṣiniśācare 31 sadaṃśa kīta maśake sapūti kṛmimūṣake śuni śvapāke vaineye sacandāle sapulkase 32 hastyaśvakharaśārdūle savṛkṣe gavi caiva ha yac ca mūrtimayaṃ kiṃ cit sarvatraitan nidarśanam 33 jale bhuvi tathākāśe nānyatreti viniścayaḥ sthānaṃ dehavatām asti ity evam anuśuśruma 34 kṛtsnam etāvatas tāta kṣarate vyaktasaṃjñakam ahany ahani bhūtātmā tataḥ kṣara iti smṛtaḥ 35 etad akṣaram ity uktaṃ kṣaratīdaṃ yathā jagat jagan mohātmakaṃ prāhur avyaktaṃ vyaktasaṃjñakam 36 mahāṃś caivāgrajo nityam etat kṣara nidarśanam kathitaṃ te mahārāja yasmān nāvartate punaḥ 37 pañcaviṃśatimo viṣṇur nistattvas tattvasaṃjñakaḥ tattvasaṃśrayaṇād etat tattvam āhur manīṣiṇaḥ 38 yad amūrty asṛjad vyaktaṃ tat tan mūrty adhitiṣṭhati caturviṃśatimo vyakto hy amūrtaḥ pañcaviṃśakaḥ 39 sa eva hṛdi sarvāsu mūrtiṣv ātiṣṭhate ''tmavān cetayaṃś cetano nityaḥ sarvamūrtir amūrtimān 40 sarga pralaya dharmiṇyā asarga pralayātmakaḥ gocare vartate nityaṃ nirguṇo guṇasaṃjñakaḥ 41 evam eṣa mahān ātmā sarga pralaya kovidaḥ vikurvāṇaḥ prakṛtimān abhimanyaty abuddhimān 42 tamaḥ sattvarajo yuktas tāsu tāsv iha yoniṣu līyate 'pratibuddhatvād abuddha janasevanāt 43 saha vāso nivāsātmā nānyo 'ham iti manyate yo 'haṃ so 'ham iti hy uktvā guṇān anu nivartate 44 tamasā tāmasān bhāvān vividhān pratipadyate rajasā rājasāṃś caiva sāttvikān sattvasaṃśrayāt 45 śuklalohita kṛṣṇāni rūpāṇy etāni trīṇi tu sarvāṇy etāni rūpāṇi jānīhi prākṛtāni vai 46 tāmasā nirayaṃ yānti rājasā mānuṣāṃs tathā sāttvikā devalokāya gacchanti sukhabhāginaḥ 47 niṣkaivalyena pāpena tiryagyonim avāpnuyāt puṇyapāpena mānuṣyaṃ puṇyenaikena devatāḥ 48 evam avyaktaviṣayaṃ kṣaram āhur manīṣiṇaḥ pañcaviṃśatimo yo 'yaṃ jñānād eva pravartate |
The Mahabharata in Sanskrit
Book 12
Chapter 292
|
1
[वसिस्ठ] एवम अप्रतिबुद्धत्वाद अबुद्धम अनुवर्तते देहाद देहसहस्राणि तथा समभिपद्यते 2 तिर्यग्यॊनिसहस्रेषु कदा चिद देवतास्व अपि उपपद्यति संयॊगाद गुणैः सह गुणक्षयात 3 मानुषत्वाद दिवं याति दिवॊ मानुष्यम एव च मानुष्यान निरयस्थानम आनन्त्यं परतिपद्यते 4 कॊशकारॊ यथात्मानं कीतः समनुरुन्धति सूत्रतन्तु गुणैर नित्यं तथायम अगुणॊ गुणैः 5 दवन्द्वम एति च निर्द्वन्द्वस तासु तास्व इह यॊनिषु शीर्ष रॊगे ऽकषिरॊगे च दन्तशूले गल गरहे 6 जलॊदरे ऽरशसां रॊगे जवर गन्द विषूचिके शवित्रे कुष्ठे ऽगनिदाहे च सिध्माप समारयॊर अपि 7 यानि चान्यानि दवन्द्वानि पराकृतानि शरीरिषु उत्पद्यन्ते विचित्राणि तान्य एषाप्य अभिमन्यते अभिमन्यत्य अभीमानात तथैव सुकृतान्य अपि 8 एकवासाश च दुर्वासाः शायी नित्यम अधस तथा मन्दूक शायी च तथा वीरासन गतस तथा 9 चीरधारणम आकाशे शयनं सथानम एव च इष्टका परस्तरे चैव कन्तक परस्तरे तथा 10 भस्म परस्तरशायी च भूमिशय्यानुलेपनः वीर सथानाम्बुपङ्के च शयनं फलकेषु च 11 विविधासु च शय्यासु फलगृद्ध्यान्वितॊ ऽफलः मुञ्ज मेखल नग्नत्वं कषौमकृष्णाजिनानि च 12 शानी वालपरीधानॊ वयाघ्रचर्म परिच्छदः सिंहचर्म परीधानः पत्त वासास तथैव च 13 कीतका वसनश चैव चीरवासास तथैव च वस्त्राणि चान्यानि बहून्य अभिमन्यत्य अबुद्धिमान 14 भॊजनानि विचित्राणि रत्नानि विविधानि च एकवस्त्रान्तर आशित्वम एककालिक भॊजनम 15 चतुर्थास्तम कालश च सस्थ कालिक एव च सॊ रात्रभॊजनश चैव तथैवास्ताह भॊजनः 16 सप्तरात्रदशाहारॊ दवादशाहार एव च मासॊपवासी मूलाशी फलाहारस तथैव च 17 वायुभक्षॊ ऽमबुपिन्याक गॊमयादन एव च गॊमूत्र भॊजनश चैव शाकपुष्पाद एव च 18 शैवाल भॊजनश चैव तथाचामेन वर्तयन वर्तयञ शीर्णपर्णैश च परकीर्ण फलभॊजनः 19 विविधानि च कृच्छ्राणि सेवते सुखकाङ्क्षया चान्द्रायणानि विधिवल लिङ्गानि विविधानि च 20 चातुराश्रम्य पन्थानम आश्रयत्य आश्रमान अपि उपासीनश च पासन्दान गुहाः शैलांस तथैव च 21 विविक्ताश च शिला छायास तथा परस्रवणानि च विविधानि च जप्यानि विविधानि वरतानि च 22 नियमान सुविचित्रांश च विविधानि तपांसि च यज्ञांश च विविधाकारान विधींश च विविधांस तथा 23 वनिक पथं दविज कषत्रं वैश्यशूद्रं तथैव च दानं च विविधाकारं दीनान्ध कृपणेष्व अपि 24 अभिमन्यत्य असंबॊधात तथैव तरिविधान गुणान सत्त्वं रजस तमश चैव धर्मार्थौ काम एव च परकृत्यात्मानम एवात्मा एवं परविभजत्य उत 25 सवधाकार वसत कारौ सवाहाकारनमस्क्रियाः याजन धयापनं दानं तथैवाहुः परतिग्रहम यजनाध्ययने चैव यच चान्यद अपि किं चन 26 जन्ममृत्युविवादे च तथा विशसने ऽपि च शुभाशुभमयं सर्वम एतद आहुः करिया पथम 27 परकृतिः कुरुते देवी महाप्रलयम एव च दिवसान्ते गुणान एतान अभ्येत्यैकॊ ऽवतिष्ठति 28 रश्मिजालम इवादित्यस तत कालेन नियच्छति एवम एषॊ ऽसकृत सर्वं करीदार्थम अहिमन्यते 29 आत्मरूप गुणान एतान विविधान हृदयप्रियान एवम एव विकुर्वाणः सर्ग परलय कर्मणी 30 करियाक्रिया पथे रक्तस तरिगुणस तरिगुणातिगः करियाक्रिया पथॊपेतस तथा तद इति मन्यते 31 एवं दवन्द्वान्य अथैतानि वर्तन्ते मम नित्यशः ममैवैतानि जायन्ते बाधन्ते तानि माम इति 32 निस्तर्तव्यान्य अथैतानि सर्वाणीति नराधिप मन्यते ऽयं हय अबुद्धित्वात तथैव सुकृतान्य अपि 33 भॊक्तव्यानि मयैतानि देवलॊकगतेन वै इहैव चैनं भॊक्ष्यामि शुभाशुभफलॊदयम 34 सुखम एव च कर्तव्यं सकृत कृत्वा सुखं मम यावदन्तं च मे सौख्यं जात्यां जात्यां भविष्यति 35 भविष्यति च मे दुःखं कृतेनेहाप्य अनन्तकम महद दुःखं हि मानुष्यं निरये चापि मज्जनम 36 निरयाच चापि मानुष्यं कालेनैष्याम्य अहं पुनः मनुष्यत्वाच च देवत्वं देवत्वात पौरुषं पुनः मनुष्यत्वाच च निरयं पर्यायेनॊपगच्छति 37 य एवं वेत्ति वै नित्यं निरात्मात्म गुणैर वृतः तेन देवमनुष्येषु निरये चॊपपद्यते 38 ममत्वेनावृतॊ नित्यं तत्रैव परिवर्तते सर्ग कॊति सहस्राणि मरणान्तासु मूर्तिषु 39 य एवं कुरुते कर्म शुभाशुभफलात्मकम स एव फलम अश्नाति तरिषु लॊकेषु मूर्तिमान 40 परकृतिः कुरुते कर्म शुभाशुभफलात्मकम परकृतिश च तद अश्नाति तरिषु लॊकेषु कामगा 41 तिर्यग्यॊनौ मनुष्यत्वे देवलॊके तथैव च तरीणि सथानानि चैतानि जानीयात पराकृतानि ह 42 अलिङ्गां परकृतिं तव आहुर लिङ्गैर अनुमिमीमहे तथैव पौरुषं लिङ्गम अनुमानाद धि पश्यति 43 स लिङ्गान्तरम आसाद्य पराकृतं लिङ्गम अव्रणम वरणद्वाराण्य अधिष्ठाय कर्माण्य आत्मनि मन्यते 44 शरॊत्रादीनि तु सर्वाणि पञ्च कर्मेन्द्रियाणि च वाग आदीनि परवर्तन्ते गुणेष्व एव गुणैः सह अहम एतानि वै कुर्वन ममैतानीन्द्रियाणि च 45 निरिन्द्रियॊ ऽभिमन्येत वरणवान अस्मि निर्व्रनः अलिङ्गॊ लिङ्गम आत्मानम अकालः कालम आत्मनः 46 असत्त्वं सत्त्वम आत्मानम अतत्त्वं तत्त्वम आत्मनः अमृत्युर मृत्युम आत्मानम अचरश चरम आत्मनः 47 अक्षेत्रः कषेत्रम आत्मानम असर्गः सर्गम आत्मनः अतपास तप आत्मानम अगतिर गतिम आत्मनः 48 अभवॊ भवम आत्मानम अभयॊ भयम आत्मनः अक्षरः कषरम आत्मानम अबुद्धिस तव अभिमन्यते |
1
[vasisṭha] evam apratibuddhatvād abuddham anuvartate dehād dehasahasrāṇi tathā samabhipadyate 2 tiryagyonisahasreṣu kadā cid devatāsv api upapadyati saṃyogād guṇaiḥ saha guṇakṣayāt 3 mānuṣatvād divaṃ yāti divo mānuṣyam eva ca mānuṣyān nirayasthānam ānantyaṃ pratipadyate 4 kośakāro yathātmānaṃ kītaḥ samanurundhati sūtratantu guṇair nityaṃ tathāyam aguṇo guṇaiḥ 5 dvandvam eti ca nirdvandvas tāsu tāsv iha yoniṣu śīrṣa roge 'kṣiroge ca dantaśūle gala grahe 6 jalodare 'rśasāṃ roge jvara ganda viṣūcike śvitre kuṣṭhe 'gnidāhe ca sidhmāpa smārayor api 7 yāni cānyāni dvandvāni prākṛtāni śarīriṣu utpadyante vicitrāṇi tāny eṣāpy abhimanyate abhimanyaty abhīmānāt tathaiva sukṛtāny api 8 ekavāsāś ca durvāsāḥ śāyī nityam adhas tathā mandūka śāyī ca tathā vīrāsana gatas tathā 9 cīradhāraṇam ākāśe śayanaṃ sthānam eva ca iṣṭakā prastare caiva kantaka prastare tathā 10 bhasma prastaraśāyī ca bhūmiśayyānulepanaḥ vīra sthānāmbupaṅke ca śayanaṃ phalakeṣu ca 11 vividhāsu ca śayyāsu phalagṛddhyānvito 'phalaḥ muñja mekhala nagnatvaṃ kṣaumakṛṣṇājināni ca 12 śānī vālaparīdhāno vyāghracarma paricchadaḥ siṃhacarma parīdhānaḥ patta vāsās tathaiva ca 13 kītakā vasanaś caiva cīravāsās tathaiva ca vastrāṇi cānyāni bahūny abhimanyaty abuddhimān 14 bhojanāni vicitrāṇi ratnāni vividhāni ca ekavastrāntar āśitvam ekakālika bhojanam 15 caturthāstama kālaś ca sastha kālika eva ca so rātrabhojanaś caiva tathaivāstāha bhojanaḥ 16 saptarātradaśāhāro dvādaśāhāra eva ca māsopavāsī mūlāśī phalāhāras tathaiva ca 17 vāyubhakṣo 'mbupinyāka gomayādana eva ca gomūtra bhojanaś caiva śākapuṣpāda eva ca 18 śaivāla bhojanaś caiva tathācāmena vartayan vartayañ śīrṇaparṇaiś ca prakīrṇa phalabhojanaḥ 19 vividhāni ca kṛcchrāṇi sevate sukhakāṅkṣayā cāndrāyaṇāni vidhival liṅgāni vividhāni ca 20 cāturāśramya panthānam āśrayaty āśramān api upāsīnaś ca pāsandān guhāḥ śailāṃs tathaiva ca 21 viviktāś ca śilā chāyās tathā prasravaṇāni ca vividhāni ca japyāni vividhāni vratāni ca 22 niyamān suvicitrāṃś ca vividhāni tapāṃsi ca yajñāṃś ca vividhākārān vidhīṃś ca vividhāṃs tathā 23 vanik pathaṃ dvija kṣatraṃ vaiśyaśūdraṃ tathaiva ca dānaṃ ca vividhākāraṃ dīnāndha kṛpaṇeṣv api 24 abhimanyaty asaṃbodhāt tathaiva trividhān guṇān sattvaṃ rajas tamaś caiva dharmārthau kāma eva ca prakṛtyātmānam evātmā evaṃ pravibhajaty uta 25 svadhākāra vasat kārau svāhākāranamaskriyāḥ yājana dhyāpanaṃ dānaṃ tathaivāhuḥ pratigraham yajanādhyayane caiva yac cānyad api kiṃ cana 26 janmamṛtyuvivāde ca tathā viśasane 'pi ca śubhāśubhamayaṃ sarvam etad āhuḥ kriyā patham 27 prakṛtiḥ kurute devī mahāpralayam eva ca divasānte guṇān etān abhyetyaiko 'vatiṣṭhati 28 raśmijālam ivādityas tat kālena niyacchati evam eṣo 'sakṛt sarvaṃ krīdārtham ahimanyate 29 ātmarūpa guṇān etān vividhān hṛdayapriyān evam eva vikurvāṇaḥ sarga pralaya karmaṇī 30 kriyākriyā pathe raktas triguṇas triguṇātigaḥ kriyākriyā pathopetas tathā tad iti manyate 31 evaṃ dvandvāny athaitāni vartante mama nityaśaḥ mamaivaitāni jāyante bādhante tāni mām iti 32 nistartavyāny athaitāni sarvāṇīti narādhipa manyate 'yaṃ hy abuddhitvāt tathaiva sukṛtāny api 33 bhoktavyāni mayaitāni devalokagatena vai ihaiva cainaṃ bhokṣyāmi śubhāśubhaphalodayam 34 sukham eva ca kartavyaṃ sakṛt kṛtvā sukhaṃ mama yāvadantaṃ ca me saukhyaṃ jātyāṃ jātyāṃ bhaviṣyati 35 bhaviṣyati ca me duḥkhaṃ kṛtenehāpy anantakam mahad duḥkhaṃ hi mānuṣyaṃ niraye cāpi majjanam 36 nirayāc cāpi mānuṣyaṃ kālenaiṣyāmy ahaṃ punaḥ manuṣyatvāc ca devatvaṃ devatvāt pauruṣaṃ punaḥ manuṣyatvāc ca nirayaṃ paryāyenopagacchati 37 ya evaṃ vetti vai nityaṃ nirātmātma guṇair vṛtaḥ tena devamanuṣyeṣu niraye copapadyate 38 mamatvenāvṛto nityaṃ tatraiva parivartate sarga koti sahasrāṇi maraṇāntāsu mūrtiṣu 39 ya evaṃ kurute karma śubhāśubhaphalātmakam sa eva phalam aśnāti triṣu lokeṣu mūrtimān 40 prakṛtiḥ kurute karma śubhāśubhaphalātmakam prakṛtiś ca tad aśnāti triṣu lokeṣu kāmagā 41 tiryagyonau manuṣyatve devaloke tathaiva ca trīṇi sthānāni caitāni jānīyāt prākṛtāni ha 42 aliṅgāṃ prakṛtiṃ tv āhur liṅgair anumimīmahe tathaiva pauruṣaṃ liṅgam anumānād dhi paśyati 43 sa liṅgāntaram āsādya prākṛtaṃ liṅgam avraṇam vraṇadvārāṇy adhiṣṭhāya karmāṇy ātmani manyate 44 śrotrādīni tu sarvāṇi pañca karmendriyāṇi ca vāg ādīni pravartante guṇeṣv eva guṇaiḥ saha aham etāni vai kurvan mamaitānīndriyāṇi ca 45 nirindriyo 'bhimanyeta vraṇavān asmi nirvranaḥ aliṅgo liṅgam ātmānam akālaḥ kālam ātmanaḥ 46 asattvaṃ sattvam ātmānam atattvaṃ tattvam ātmanaḥ amṛtyur mṛtyum ātmānam acaraś caram ātmanaḥ 47 akṣetraḥ kṣetram ātmānam asargaḥ sargam ātmanaḥ atapās tapa ātmānam agatir gatim ātmanaḥ 48 abhavo bhavam ātmānam abhayo bhayam ātmanaḥ akṣaraḥ kṣaram ātmānam abuddhis tv abhimanyate |
The Mahabharata in Sanskrit
Book 12
Chapter 293
|
1
[वसिस्ठ] एवम अप्रतिबुद्धत्वाद अबुद्ध जनसेवनात सर्ग कॊति सहस्राणि पतनान्तानि गच्छति 2 धाम्ना धाम सहस्राणि मरणान्तानि गच्छति तिर्यग्यॊनौ मनुष्यत्वे देवलॊके तथैव च 3 चन्द्रमा इव कॊशानां पुनस तत्र सहस्रशः लीयते ऽपरतिबुद्धत्वाद एवम एष हय अबुद्धिमान 4 कलाः पञ्चदशा यॊनिस तद धाम इति पथ्यते नित्यम एतद विजानीहि सॊमः सॊदशमी कला 5 कलायां जायते ऽजस्रं पुनः पुनर अबुद्धिमान धाम तस्य पयुञ्जन्ति भूय एव तु जायते 6 सॊदशी तु कला सूक्ष्मा स सॊम उपधार्यताम न तूपयुज्यते देवैर देवान उपयुनक्ति सा 7 एवं तां कषपयित्वा हि जायते नृपसत्तम सा हय अस्य परकृतिर दृष्टा तत कषयान मॊक्ष उच्यते 8 तद एवं सॊदश कलं देहम अव्यक्तसंज्ञकम ममायम इति मन्वानस तत्रैव परिवर्तते 9 पञ्चविंशस तथैवात्मा तस्यैवा परतिबॊधनात विमलस्य वुशुद्धस्य शुद्धानिल निषेवनात 10 अशुद्ध एव शुद्धात्मा तादृग भवति पार्थिव अबुद्ध सेवनाच चापि बुद्धॊ ऽपय अबुधतां वरजेत 11 तथैवाप्रतिबुद्धॊ ऽपि जञेयॊ नृपतिसत्तम परकृतेस तरिगुणायास तु सेवनात पराकृतॊ भवेत 12 [करालजनक] अक्षरक्षरयॊर एष दवयॊः संबन्ध इष्यते सत्रीपुंसॊर वापि भगवन संबन्धस तद्वद उच्यते 13 ऋते न पुरुषेणेह सत्री गर्भं धारयत्य उत ऋते सत्रियं न पुरुषॊ रूपं निर्वर्तयेत तथा 14 अन्यॊन्यस्याभिसंबन्धाद अन्यॊन्यगुणसंश्रयात रूपं निर्वर्तयत्य एतद एवं सर्वासु यॊनिषु 15 रत्यर्थम अभिसंरॊधाद अन्यॊन्यगुणसंश्रयात ऋतौ निर्वर्तते रूपं तद वक्ष्यामि निदर्शनम 16 ये गुणाः पुरुषस्येह ये च मातृगुणास तथा अस्थि सनायु च मज्जा च जानीमः पितृजॊ दविज 17 तवङ मांसं शॊनितं चैव मातृजान्य अपि शुश्रुम एवम एतद दविजश्रेष्ठ वेद शास्त्रेषु पथ्यते 18 परमाणं यच च वेदॊक्तं शास्त्रॊक्तं यच च पथ्यते वेद शास्त्रप्रमाणं च परमाणं त सनातनम 19 एवम एवाभिसंबद्धौ नित्यं परकृतिपूरुषौ पश्यामि भगवंस तस्मान मॊक्षधर्मन न विद्यते 20 अथ नानन्तर कृतं किं चिद एव निदर्शनम तन ममाचक्ष्व तत्त्वेन परत्यक्षॊ हय असि सर्वथा 21 मॊक्षकामां वयं चापि काङ्क्षामॊ यद अनामयम अदेहम अजरं दिव्यम अतीन्द्रियम अनीश्वरम 22 [वस] यद एतद उक्तं भवता वेद शास्त्रनिदर्शनम एवम एतद यथा चैतन न गृह्णाति तथा भवान 23 धार्यते हि तवया गरन्थ उभयॊर वेद शास्त्रयॊः न तु गरन्थस्य तत्त्वज्ञॊ यथावत तवं नरेश्वर 24 यॊ हि वेदे च शास्त्रे च गरन्थ धारण तत्परः न च गरन्थार्थ तत्त्वज्ञस तस्य तद धारणं वृथा 25 भारं स वहते तस्य गरन्थस्यार्थं न वेत्ति यः यस तु गरन्थार्थ तत्त्वज्ञॊ नास्य गरन्थागमॊ वृथा 26 गरन्थस्यार्थं च पृष्टः संस तादृशॊ वक्तुम अर्हति यथातत्त्वाभिगमनाद अर्थं तस्य स विन्दति 27 यस तु संसत्सु कथयेद गरन्थार्थं सथूलबुद्धिमान स कथं मन्दविज्ञानॊ गरन्थं वक्ष्यति निर्नयात 28 निर्नयं चापि छिद्रात्मा न तं वक्ष्यति तत्त्वतः सॊपहासात्मताम एति यस्माच चैवात्मवान अपि 29 तस्मात तवं शृणु राजेन्द्र यथैतद अनुदृश्यते याथातथ्येन सांख्येषु यॊगेषु च महात्मसु 30 यद एव यॊगाः पश्यन्ति सांख्यैस तद अनुगम्यते एकं सांख्यं च यॊगं च यः पश्यति स बुद्धिमान 31 तवन मांसं रुधिरं मेदः पित्तं मज्जास्थि सनायु च एतद ऐन्द्रियकं तात यद भवान इदम आह वै 32 दरव्याद दरव्यस्य निष्पत्तिर इन्द्रियाद इन्द्रियं तथा देहाद देहम अवाप्नॊति बीजाद बीजं तथैव च 33 निरिन्द्रियस्याबीलस्य निर्द्रव्यस्यास्य देहिनः कथं गुणा भविष्यन्ति निर्गुणत्वान महात्मनः 34 गुणा गुणेषु जायन्ते तत्रैव निविशन्ति च एवंगुणाः परकृतितॊ जायन्ते च न सन्ति च 35 तवन मांसं रुधिरं मेदः पित्तं मज्जास्थि सनायु च अस्तौ तान्य अथ शुक्रेण जानीहि पराकृतानि वै 36 पुमांश चैवापुमांश चैव तरैलिङ्ग्यं पराकृतं समृतम नैव पुमान पुमांश चैव स लिङ्गीत्य अभिधीयते 37 अलिङ्गा परकृतिर लिङ्गैर उपलभ्यति सात्मजैः यथा पुष्प फलैर नित्यम ऋतवॊ मूर्तयस तथा 38 एवम अप्य अनुमानेन हय अलिङ्गम उपलभ्यते पञ्चविंशतिमस तात लिङ्गेष्व अनियतात्मकः 39 अनादि निधनॊ ऽनन्तः सर्वदर्शी निरामयः केवलं तव अभिमानित्वाद गुणेष्व अगुण उच्यते 40 गुणा गुणवतः सन्ति निर्गुणस्य कुतॊ गुणाः तस्माद एवं विजानन्ति ये जना गुणदर्शिनः 41 यदा तवैष गुणान सर्वान पराकृतान अभिमन्यते तदा स गुणवान एव परमेणानुपश्यति 42 यत तद बुद्धेः परं पराहुः सांख्या यॊगाश च सर्वशः बुध्यमानं महाप्राज्ञम अबुद्ध परिवर्जनात 43 अप्रबुद्धम अथाव्यक्तं सगुणं पराहुर ईश्वरम निर्गुणं चेश्वरं नित्यम अधिष्ठातारम एव च 44 परकृतेश च गुणानां च पञ्चविंशतिकं बुधाः सांख्ययॊगे च कुशला बुध्यन्ते परमैषिणः 45 यदा परबुद्धास तव अव्यक्तम अवस्था जन्म भीरवः बुध्यमानं परबुध्यन्ति गमयन्ति समं तदा 46 एतन निदर्शनं सम्यग असम्यग अनुदर्शनम बुध्यमानाप्रबुद्धाभ्यां पृथक्पृथग अरिंदम 47 परस्परेणैतद उक्तं कषराक्षर निदर्शनम एकत्वम अक्षरं पराहुर नानात्वं कषरम उच्यते 48 पञ्चविंशति निष्ठॊ ऽयं यदासम्यक परवर्तते एकत्वं दर्शनं चास्य नानात्वं चाप्य अदर्शनम 49 तत्त्वनिस्तत्त्वयॊर एतत पृथग एव निदर्शनम पञ्चविंशति सर्गं तु तत्त्वम आहुर मनीषिणः 50 निस्तत्त्वं पञ्चविंशस्य परम आहुर निदर्शनम वर्गस्य वर्गम आचारं तत्त्वं तत्त्वात सनातनम |
1
[vasisṭha] evam apratibuddhatvād abuddha janasevanāt sarga koti sahasrāṇi patanāntāni gacchati 2 dhāmnā dhāma sahasrāṇi maraṇāntāni gacchati tiryagyonau manuṣyatve devaloke tathaiva ca 3 candramā iva kośānāṃ punas tatra sahasraśaḥ līyate 'pratibuddhatvād evam eṣa hy abuddhimān 4 kalāḥ pañcadaśā yonis tad dhāma iti pathyate nityam etad vijānīhi somaḥ sodaśamī kalā 5 kalāyāṃ jāyate 'jasraṃ punaḥ punar abuddhimān dhāma tasya payuñjanti bhūya eva tu jāyate 6 sodaśī tu kalā sūkṣmā sa soma upadhāryatām na tūpayujyate devair devān upayunakti sā 7 evaṃ tāṃ kṣapayitvā hi jāyate nṛpasattama sā hy asya prakṛtir dṛṣṭā tat kṣayān mokṣa ucyate 8 tad evaṃ sodaśa kalaṃ deham avyaktasaṃjñakam mamāyam iti manvānas tatraiva parivartate 9 pañcaviṃśas tathaivātmā tasyaivā pratibodhanāt vimalasya vuśuddhasya śuddhānila niṣevanāt 10 aśuddha eva śuddhātmā tādṛg bhavati pārthiva abuddha sevanāc cāpi buddho 'py abudhatāṃ vrajet 11 tathaivāpratibuddho 'pi jñeyo nṛpatisattama prakṛtes triguṇāyās tu sevanāt prākṛto bhavet 12 [karālajanaka] akṣarakṣarayor eṣa dvayoḥ saṃbandha iṣyate strīpuṃsor vāpi bhagavan saṃbandhas tadvad ucyate 13 ṛte na puruṣeṇeha strī garbhaṃ dhārayaty uta ṛte striyaṃ na puruṣo rūpaṃ nirvartayet tathā 14 anyonyasyābhisaṃbandhād anyonyaguṇasaṃśrayāt rūpaṃ nirvartayaty etad evaṃ sarvāsu yoniṣu 15 ratyartham abhisaṃrodhād anyonyaguṇasaṃśrayāt ṛtau nirvartate rūpaṃ tad vakṣyāmi nidarśanam 16 ye guṇāḥ puruṣasyeha ye ca mātṛguṇās tathā asthi snāyu ca majjā ca jānīmaḥ pitṛjo dvija 17 tvaṅ māṃsaṃ śonitaṃ caiva mātṛjāny api śuśruma evam etad dvijaśreṣṭha veda śāstreṣu pathyate 18 pramāṇaṃ yac ca vedoktaṃ śāstroktaṃ yac ca pathyate veda śāstrapramāṇaṃ ca pramāṇaṃ ta sanātanam 19 evam evābhisaṃbaddhau nityaṃ prakṛtipūruṣau paśyāmi bhagavaṃs tasmān mokṣadharman na vidyate 20 atha nānantara kṛtaṃ kiṃ cid eva nidarśanam tan mamācakṣva tattvena pratyakṣo hy asi sarvathā 21 mokṣakāmāṃ vayaṃ cāpi kāṅkṣāmo yad anāmayam adeham ajaraṃ divyam atīndriyam anīśvaram 22 [vas] yad etad uktaṃ bhavatā veda śāstranidarśanam evam etad yathā caitan na gṛhṇāti tathā bhavān 23 dhāryate hi tvayā grantha ubhayor veda śāstrayoḥ na tu granthasya tattvajño yathāvat tvaṃ nareśvara 24 yo hi vede ca śāstre ca grantha dhāraṇa tatparaḥ na ca granthārtha tattvajñas tasya tad dhāraṇaṃ vṛthā 25 bhāraṃ sa vahate tasya granthasyārthaṃ na vetti yaḥ yas tu granthārtha tattvajño nāsya granthāgamo vṛthā 26 granthasyārthaṃ ca pṛṣṭaḥ saṃs tādṛśo vaktum arhati yathātattvābhigamanād arthaṃ tasya sa vindati 27 yas tu saṃsatsu kathayed granthārthaṃ sthūlabuddhimān sa kathaṃ mandavijñāno granthaṃ vakṣyati nirnayāt 28 nirnayaṃ cāpi chidrātmā na taṃ vakṣyati tattvataḥ sopahāsātmatām eti yasmāc caivātmavān api 29 tasmāt tvaṃ śṛṇu rājendra yathaitad anudṛśyate yāthātathyena sāṃkhyeṣu yogeṣu ca mahātmasu 30 yad eva yogāḥ paśyanti sāṃkhyais tad anugamyate ekaṃ sāṃkhyaṃ ca yogaṃ ca yaḥ paśyati sa buddhimān 31 tvan māṃsaṃ rudhiraṃ medaḥ pittaṃ majjāsthi snāyu ca etad aindriyakaṃ tāta yad bhavān idam āha vai 32 dravyād dravyasya niṣpattir indriyād indriyaṃ tathā dehād deham avāpnoti bījād bījaṃ tathaiva ca 33 nirindriyasyābīlasya nirdravyasyāsya dehinaḥ kathaṃ guṇā bhaviṣyanti nirguṇatvān mahātmanaḥ 34 guṇā guṇeṣu jāyante tatraiva niviśanti ca evaṃguṇāḥ prakṛtito jāyante ca na santi ca 35 tvan māṃsaṃ rudhiraṃ medaḥ pittaṃ majjāsthi snāyu ca astau tāny atha śukreṇa jānīhi prākṛtāni vai 36 pumāṃś caivāpumāṃś caiva trailiṅgyaṃ prākṛtaṃ smṛtam naiva pumān pumāṃś caiva sa liṅgīty abhidhīyate 37 aliṅgā prakṛtir liṅgair upalabhyati sātmajaiḥ yathā puṣpa phalair nityam ṛtavo mūrtayas tathā 38 evam apy anumānena hy aliṅgam upalabhyate pañcaviṃśatimas tāta liṅgeṣv aniyatātmakaḥ 39 anādi nidhano 'nantaḥ sarvadarśī nirāmayaḥ kevalaṃ tv abhimānitvād guṇeṣv aguṇa ucyate 40 guṇā guṇavataḥ santi nirguṇasya kuto guṇāḥ tasmād evaṃ vijānanti ye janā guṇadarśinaḥ 41 yadā tvaiṣa guṇān sarvān prākṛtān abhimanyate tadā sa guṇavān eva parameṇānupaśyati 42 yat tad buddheḥ paraṃ prāhuḥ sāṃkhyā yogāś ca sarvaśaḥ budhyamānaṃ mahāprājñam abuddha parivarjanāt 43 aprabuddham athāvyaktaṃ saguṇaṃ prāhur īśvaram nirguṇaṃ ceśvaraṃ nityam adhiṣṭhātāram eva ca 44 prakṛteś ca guṇānāṃ ca pañcaviṃśatikaṃ budhāḥ sāṃkhyayoge ca kuśalā budhyante paramaiṣiṇaḥ 45 yadā prabuddhās tv avyaktam avasthā janma bhīravaḥ budhyamānaṃ prabudhyanti gamayanti samaṃ tadā 46 etan nidarśanaṃ samyag asamyag anudarśanam budhyamānāprabuddhābhyāṃ pṛthakpṛthag ariṃdama 47 paraspareṇaitad uktaṃ kṣarākṣara nidarśanam ekatvam akṣaraṃ prāhur nānātvaṃ kṣaram ucyate 48 pañcaviṃśati niṣṭho 'yaṃ yadāsamyak pravartate ekatvaṃ darśanaṃ cāsya nānātvaṃ cāpy adarśanam 49 tattvanistattvayor etat pṛthag eva nidarśanam pañcaviṃśati sargaṃ tu tattvam āhur manīṣiṇaḥ 50 nistattvaṃ pañcaviṃśasya param āhur nidarśanam vargasya vargam ācāraṃ tattvaṃ tattvāt sanātanam |
The Mahabharata in Sanskrit
Book 12
Chapter 294
|
1
[करालजनक] नानात्वैकत्वम इत्य उक्तं तवयैतद ऋषिसत्तम पश्यामि चाभिसंदिग्धम एतयॊर वै निदर्शनम 2 तथाप्रबुद्ध बुद्धाभ्यां बुध्यमानस्य चानघ सथूलबुद्ध्या न पश्यामि तत्त्वम एतन न संशयः 3 अक्षरक्षरयॊर उक्तं तवया यद अपि कारणम तद अप्य अस्थिरबुद्धित्वात परनस्तम इव मे ऽनघ 4 तद एतच छरॊतुम इच्छामि नानात्वैकत्व दर्शनम बुद्धम अप्रतिबुद्धं च बुध्यमानं च तत्त्वतः 5 विद्याविद्ये च भगवन्न अक्षरं कषरम एव च सांख्यं यॊगं च कार्त्स्न्येन पृथक चैवापृथक च ह 6 [वस] हन्त ते संप्रवक्ष्यामि यद एतद अनुपृच्छसि यॊगकृत्यं महाराज पृथग एव शृणुष्व मे 7 यॊगकृत्यं तु यॊगानां धयानम एव परं बलम तच चापि दविविधं धयानम आहुर वेदविदॊ जनाः 8 एकाग्रता च मनसः पराणायामस तथैव च पराणायामस तु सगुणॊ निर्गुणॊ मनसस तथा 9 मूत्रॊत्सर्गे पुरीसे च हॊजने च नराधिप तरिकालं नाभियुज्ञीत शेषं युञ्जीत तत्परः 10 इन्द्रियाणीन्द्रियार्थेभ्यॊ निवर्त्य मनसा मुनिः दश दवादशभिर वापि चतुर्विंशात परं ततः 11 तं चॊदनाभिर मतिमान आत्मानं चॊदयेद अथ तिष्ठन्तम अजरं तं तु यत तद उक्तं मनीसिभिः 12 तैश चात्मा सततं जञेय इत्य एवम अनुशुश्रुम दरव्यं हय अहीन मनसॊ नान्यथेति विनिश्चयः 13 विमुक्तः सर्वसङ्गेभ्यॊ लघ्व आहारॊ जितेन्द्रियः पूर्वरात्रे परे चैव धारयेत मनॊ ऽऽतमनि 14 सथिरी कृत्येन्द्रिय गरामं मनसा मिथिलेश्वर मनॊ बुद्ध्या सथिरं कृत्वा पासान इव निश्चलः 15 सथानुवच चाप्य अकम्पः सयाद गिरिवच चापि निश्चलः बुधा विधिविधानज्ञास तदा युक्तं परचक्षते 16 न शृणॊति न चाघ्राति न रस्यति न पश्यति न च सपर्शं विजानाति न संकल्पयते मनः 17 न चाभिमन्यते किं चिन न च बुध्यति काष्ठवत तदा परकृतिम आपन्नं युक्तम आहुर मनीषिणः 18 निवाते च यथा दीप्यन दीपस तद्वत स दृश्यते निरिङ्गश चाचलश चॊर्ध्वं न तिर्यग्गतिम आप्नुयात 19 तदा तम अनुपश्येत यस्मिन दृष्टे तु कथ्यते हृदयस्थॊ ऽनतरात्मेति जञेयॊ जञस तात मद्विधैः 20 विधूम इव सप्तार्चिर आदित्य इव रश्मिमान वैद्युतॊ ऽगनिर इवाकाशे दृश्यते ऽऽतमा तथात्मनि 21 यं पश्यन्ति महात्मानॊ धृतिमन्तॊ मनीषिणः बराह्मणा बरह्मयॊनिष्ठा हय अयॊनिम अमृतात्मकम 22 तद एवाहुर अनुभ्यॊ ऽनु तन महद भयॊ महत्तरम तद अन्तः सर्वभूतेषु धरुवं तिष्ठन न दृश्यते 23 बुद्धिद्रव्येण दृश्येत मनॊ दीपेन लॊककृत महतस तमसस तात पारे तिष्ठन्न अतामसः 24 स तमॊनुद इत्य उक्तस तत्त्वज्ञैर वेदपारगैः विमलॊ वितमस्कश च निर्लिङ्गॊ ऽलिङ्ग संज्ञितः 25 यॊगम एतद धि यॊगानां मन्ये यॊगस्य लक्षणम एवं पश्यं परपश्यन्ति आत्मानम अजरं परम 26 यॊगदर्शनम एतावद उक्तं ते तत्त्वतॊ मया सांख्यज्ञानं परवक्ष्यामि परिसंख्या निदर्शनम 27 अव्यक्तम आहुः परकृतिं परां परकृतिवादिनः तस्मान महत समुत्पन्नं दवितीयं राजसत्तम 28 अहंकारस तु महतस तृतीयम इति नः शरुतम पञ्च भूतान्य अहंकाराद आहुः सांख्या निदर्शिनः 29 एताः परकृतयस तवास्तौ विकाराश चापि सॊदश पञ्च चैव विशेषा वै तथा पञ्चेन्द्रियाणि च 30 एतावद एव तत्त्वानां सांख्यम आहुर मनीषिणः सांख्ये विधिविधानज्ञा नित्यं सांख्यपथे रताः 31 यस्माद यद अभिजायेत तत तत्रैव परलीयते लीयन्ते परतिलॊमानि सृज्यन्ते चान्तर आत्मना 32 अनुलॊमेन जायन्ते लीयन्ते परतिलॊमतः गुणा गुणेषु सततं सागरस्यॊर्मयॊ यथा 33 सर्वप्रलय एतावान परकृतेर नृपसत्तम एकत्वं परलये चास्य बहुत्वं च यदासृजत एवम एव च राजेन्द्र विज्ञेयं जञेय चिन्तकैः 34 अधिष्ठातारम अव्यक्तम अस्याप्य एतन निदर्शनम एकत्वं च बहुत्वं च परकृतेर अनु तत्त्ववान एकत्वं परलये चास्य बहुत्वं च परवर्तनात 35 बहुधात्मा परकुर्वीत परकृतिं परसवात्मिकाम तच च कषेत्रं महान आत्मा पञ्चविंशॊ ऽधितिष्ठति 36 अधिष्ठातेति राजेन्द्र परॊच्यते यति सत्तमैः अधिष्ठानाद अधिष्ठाता कषेत्राणाम इति नः शरुतम 37 कषेत्रं जानाति चाव्यक्तं कषेत्रज्ञ इति चॊच्यते अव्यक्तिके पुरे शेते पुरुषश चेति कथ्यते 38 अन्यद एव च कषेत्रं सयाद अन्यः कषेत्रज्ञ उच्यते कषेत्रम अव्यक्तम इत्य उक्तं जञाता वै पञ्चविंशकः 39 अन्यद एव च जञानं सयाद अन्यज जञेयं तद उच्यते जञानम अव्यक्तम इत्य उक्तं जञेयॊ वै पञ्चविंशकः 40 अव्यक्तं कषेत्रम इत्य उक्तं तथा सत्त्वं तथेश्वरम अनीश्वरम अतत्त्वं च तत्त्वं तत पञ्चविंशकम 41 सांख्यदर्शनम एतावत परिसंख्यान दर्शनम सांख्यं परकुरुते चैव परकृतिं च परचक्षते 42 तत्त्वानि च चतुर्विंशत परिसंख्याय तत्त्वतः सांख्याः सह परकृत्या तु निस्तत्त्वः पञ्चविंशकः 43 पञ्चविंशॊ ऽपरबुद्धात्मा बुध्यमान इति समृतः यदा तु बुध्यते ऽऽतमानं तदा भवति केवलः 44 सम्यग दर्शनम एतावद भासितं तव तत्त्वतः एवम एतद विजानन्तः साम्यतां परतियान्त्य उत 45 सम्यङ निदर्शनं नाम परत्यक्षं परकृतेस तथा गुणतत्त्वान्य अथैतानि निर्गुणॊ ऽनयस तथा भवेत 46 न तवैवं वर्तमानानाम आवृत्तिर विद्यते पुनः विद्यते ऽकषरभावत्वाद अपरः परम अव्ययम 47 पश्येरन्न एकमतयॊ न सम्यक तेषु दर्शनम ते ऽवयक्तं परतिपद्यन्ते पुनः पुनर अरिंदम 48 सर्वम एतद विजानन्तॊ न सर्वस्य परबॊधनात वयक्ती भूता भविष्यन्ति वयक्तस्य वशवर्तिनः 49 सर्वम अव्यक्तम इत्य उक्तम असर्वः पञ्चविंशकः य एनम अभिजानन्ति न भयं तेषु विद्यते |
1
[
nānātvaikatvam ity uktaṃ tvayaitad ṛṣisattama paśyāmi cābhisaṃdigdham etayor vai nidarśanam 2 tathāprabuddha buddhābhyāṃ budhyamānasya cānagha sthūlabuddhyā na paśyāmi tattvam etan na saṃśayaḥ 3 akṣarakṣarayor uktaṃ tvayā yad api kāraṇam tad apy asthirabuddhitvāt pranastam iva me 'nagha 4 tad etac chrotum icchāmi nānātvaikatva darśanam buddham apratibuddhaṃ ca budhyamānaṃ ca tattvataḥ 5 vidyāvidye ca bhagavann akṣaraṃ kṣaram eva ca sāṃkhyaṃ yogaṃ ca kārtsnyena pṛthak caivāpṛthak ca ha 6 [vas] hanta te saṃpravakṣyāmi yad etad anupṛcchasi yogakṛtyaṃ mahārāja pṛthag eva śṛṇuṣva me 7 yogakṛtyaṃ tu yogānāṃ dhyānam eva paraṃ balam tac cāpi dvividhaṃ dhyānam āhur vedavido janāḥ 8 ekāgratā ca manasaḥ prāṇāyāmas tathaiva ca prāṇāyāmas tu saguṇo nirguṇo manasas tathā 9 mūtrotsarge purīse ca hojane ca narādhipa trikālaṃ nābhiyujñīta śeṣaṃ yuñjīta tatparaḥ 10 indriyāṇīndriyārthebhyo nivartya manasā muniḥ daśa dvādaśabhir vāpi caturviṃśāt paraṃ tataḥ 11 taṃ codanābhir matimān ātmānaṃ codayed atha tiṣṭhantam ajaraṃ taṃ tu yat tad uktaṃ manīsibhiḥ 12 taiś cātmā satataṃ jñeya ity evam anuśuśruma dravyaṃ hy ahīna manaso nānyatheti viniścayaḥ 13 vimuktaḥ sarvasaṅgebhyo laghv āhāro jitendriyaḥ pūrvarātre pare caiva dhārayeta mano ''tmani 14 sthirī kṛtyendriya grāmaṃ manasā mithileśvara mano buddhyā sthiraṃ kṛtvā pāsāna iva niścalaḥ 15 sthānuvac cāpy akampaḥ syād girivac cāpi niścalaḥ budhā vidhividhānajñās tadā yuktaṃ pracakṣate 16 na śṛṇoti na cāghrāti na rasyati na paśyati na ca sparśaṃ vijānāti na saṃkalpayate manaḥ 17 na cābhimanyate kiṃ cin na ca budhyati kāṣṭhavat tadā prakṛtim āpannaṃ yuktam āhur manīṣiṇaḥ 18 nivāte ca yathā dīpyan dīpas tadvat sa dṛśyate niriṅgaś cācalaś cordhvaṃ na tiryaggatim āpnuyāt 19 tadā tam anupaśyeta yasmin dṛṣṭe tu kathyate hṛdayastho 'ntarātmeti jñeyo jñas tāta madvidhaiḥ 20 vidhūma iva saptārcir āditya iva raśmimān vaidyuto 'gnir ivākāśe dṛśyate ''tmā tathātmani 21 yaṃ paśyanti mahātmāno dhṛtimanto manīṣiṇaḥ brāhmaṇā brahmayoniṣṭhā hy ayonim amṛtātmakam 22 tad evāhur anubhyo 'nu tan mahad bhyo mahattaram tad antaḥ sarvabhūteṣu dhruvaṃ tiṣṭhan na dṛśyate 23 buddhidravyeṇa dṛśyeta mano dīpena lokakṛt mahatas tamasas tāta pāre tiṣṭhann atāmasaḥ 24 sa tamonuda ity uktas tattvajñair vedapāragaiḥ vimalo vitamaskaś ca nirliṅgo 'liṅga saṃjñitaḥ 25 yogam etad dhi yogānāṃ manye yogasya lakṣaṇam evaṃ paśyaṃ prapaśyanti ātmānam ajaraṃ param 26 yogadarśanam etāvad uktaṃ te tattvato mayā sāṃkhyajñānaṃ pravakṣyāmi parisaṃkhyā nidarśanam 27 avyaktam āhuḥ prakṛtiṃ parāṃ prakṛtivādinaḥ tasmān mahat samutpannaṃ dvitīyaṃ rājasattama 28 ahaṃkāras tu mahatas tṛtīyam iti naḥ śrutam pañca bhūtāny ahaṃkārād āhuḥ sāṃkhyā nidarśinaḥ 29 etāḥ prakṛtayas tvāstau vikārāś cāpi sodaśa pañca caiva viśeṣā vai tathā pañcendriyāṇi ca 30 etāvad eva tattvānāṃ sāṃkhyam āhur manīṣiṇaḥ sāṃkhye vidhividhānajñā nityaṃ sāṃkhyapathe ratāḥ 31 yasmād yad abhijāyeta tat tatraiva pralīyate līyante pratilomāni sṛjyante cāntar ātmanā 32 anulomena jāyante līyante pratilomataḥ guṇā guṇeṣu satataṃ sāgarasyormayo yathā 33 sarvapralaya etāvān prakṛter nṛpasattama ekatvaṃ pralaye cāsya bahutvaṃ ca yadāsṛjat evam eva ca rājendra vijñeyaṃ jñeya cintakaiḥ 34 adhiṣṭhātāram avyaktam asyāpy etan nidarśanam ekatvaṃ ca bahutvaṃ ca prakṛter anu tattvavān ekatvaṃ pralaye cāsya bahutvaṃ ca pravartanāt 35 bahudhātmā prakurvīta prakṛtiṃ prasavātmikām tac ca kṣetraṃ mahān ātmā pañcaviṃśo 'dhitiṣṭhati 36 adhiṣṭhāteti rājendra procyate yati sattamaiḥ adhiṣṭhānād adhiṣṭhātā kṣetrāṇām iti naḥ śrutam 37 kṣetraṃ jānāti cāvyaktaṃ kṣetrajña iti cocyate avyaktike pure śete puruṣaś ceti kathyate 38 anyad eva ca kṣetraṃ syād anyaḥ kṣetrajña ucyate kṣetram avyaktam ity uktaṃ jñātā vai pañcaviṃśakaḥ 39 anyad eva ca jñānaṃ syād anyaj jñeyaṃ tad ucyate jñānam avyaktam ity uktaṃ jñeyo vai pañcaviṃśakaḥ 40 avyaktaṃ kṣetram ity uktaṃ tathā sattvaṃ tatheśvaram anīśvaram atattvaṃ ca tattvaṃ tat pañcaviṃśakam 41 sāṃkhyadarśanam etāvat parisaṃkhyāna darśanam sāṃkhyaṃ prakurute caiva prakṛtiṃ ca pracakṣate 42 tattvāni ca caturviṃśat parisaṃkhyāya tattvataḥ sāṃkhyāḥ saha prakṛtyā tu nistattvaḥ pañcaviṃśakaḥ 43 pañcaviṃśo 'prabuddhātmā budhyamāna iti smṛtaḥ yadā tu budhyate ''tmānaṃ tadā bhavati kevalaḥ 44 samyag darśanam etāvad bhāsitaṃ tava tattvataḥ evam etad vijānantaḥ sāmyatāṃ pratiyānty uta 45 samyaṅ nidarśanaṃ nāma pratyakṣaṃ prakṛtes tathā guṇatattvāny athaitāni nirguṇo 'nyas tathā bhavet 46 na tvaivaṃ vartamānānām āvṛttir vidyate punaḥ vidyate 'kṣarabhāvatvād aparaḥ param avyayam 47 paśyerann ekamatayo na samyak teṣu darśanam te 'vyaktaṃ pratipadyante punaḥ punar ariṃdama 48 sarvam etad vijānanto na sarvasya prabodhanāt vyaktī bhūtā bhaviṣyanti vyaktasya vaśavartinaḥ 49 sarvam avyaktam ity uktam asarvaḥ pañcaviṃśakaḥ ya enam abhijānanti na bhayaṃ teṣu vidyate |
The Mahabharata in Sanskrit
Book 12
Chapter 295
|
1
[वसिस्ठ] सांख्यदर्शनम एतावद उक्तं ते नृपसत्तम विद्याविद्ये तव इदानीं मे तवं निबॊधानुपूर्वशः 2 अव्यद्याम आहुर अव्यक्तं सर्ग परलय धर्मि वै सर्ग परलय निर्मुक्तं विद्यां वै पञ्चविंशकम 3 परस्परम अविद्यां वै तन निबॊधानुपूर्वशः यथॊक्तम ऋषिभिस तात सांख्यस्यास्य निदर्शनम 4 कर्मेन्द्रियाणां सर्वेषां विद्या बुद्धीन्द्रियं समृतम बुद्धीन्द्रियाणां च तथा विशेषा इति नः शरुतम 5 विशेषाणां मनस तेषां विद्याम आहुर मनीषिणः मनसः पञ्च भूतानि विद्या इत्य अभिचक्षते 6 अहंकारस तु भूतानां पञ्चानां नात्र संशयः अहंकारस्य च तथा बुद्धिर विद्या नरेश्वर 7 बुद्धेः परकृतिर अव्यक्तं तत्त्वानां परमेश्वरम विद्या जञेया नरश्रेष्ठ विधिश च परमः समृतः 8 अव्यक्तस्य परं पराहुर विद्यां वै पञ्चविंशकम सर्वस्य सर्वम इत्य उक्तं जञेयं जञानस्य पार्थिव 9 जञानम अव्यक्तम इत्य उक्तं जञेयं वै पञ्चविंशकम तथैव जञानम अव्यक्तं विज्ञाता पञ्चविंशकः 10 विद्याविद्यार्थ तत्त्वेन मयॊक्तं ते विशेषतः अक्षरं च कषरं चैव यद उक्तं तन निबॊध मे 11 उभाव एतौ कषराव उक्ताव उभाव एतौ च नश्वरौ कारणं तु परवक्ष्यामि यथा खयातौ तु तत्त्वतः 12 अनादि निधनाव एताव उभाव एवेश्वरौ मतौ तत्त्वसंज्ञाव उभाव एतौ परॊच्येते जञानचिन्तकैः 13 सर्ग परलय धर्मित्वाद अव्यक्तं पराहुर अक्षरम तद एतद गुणसर्गाय विकुर्वाणं पुनः पुनः 14 गुणानां महद आदीनाम उत्पद्यति परस्परम अधिष्ठानात कषेत्रम आहुर एतत तत पञ्चविंशकम 15 यदा तु गुणजालं तद अव्यक्तात्मनि संक्षिपेत तदा सह गुणैस तैस तु पञ्चविंशॊ विलीयते 16 गुणा गुणेषु लीयन्ते तदैका परकृतिर भवेत कषेत्रज्ञॊ ऽपि यदा तात तत कषेत्रे संप्रलीयते 17 तदाक्षरत्वं परकृतिर गच्छते गुणसंज्ञिता निर्गुणत्वं च वैदेह गुणेषु परतिवर्तनात 18 एवम एव च कषेत्रज्ञः कषेत्रज्ञानपरिक्षये परकृत्या निर्गुणस तव एष इत्य एवम अनुशुश्रुम 19 कषरॊ भवत्य एष यदा तदा गुणवतीम अथ परकृतिं तव अभिजानाति निर्गुणत्वं तथात्मनः 20 तदा विशुद्धॊ भवति परकृतेः परिवर्जनात अन्यॊ ऽहम अन्येयम इति यदा बुध्यति बुद्धिमान 21 तदैषॊ ऽनयत्वताम एति न च मिश्रत्वम आव्रजेत परकृत्या चैव राजेन्द्र न मिश्रॊ ऽनयश च दृश्यते 22 यदा तु गुणजालं तत पराकृतं विजुगुप्सते पश्यते चापरं पश्यं तदा पश्यन न संज्वरेत 23 किं मया कृतम एतावद यॊ ऽहं कालम इमं जनम मत्स्यॊ जालं हय अविज्ञानाद अनुवर्तितवांस तथा 24 अहम एव हि संमॊहाद अन्यम अन्यं जनाञ जनम मत्स्यॊ यथॊदक जञानाद अनुवर्तितवान इह 25 मत्स्यॊ ऽनयत्वं यथाज्ञानाद उदकान नाभिमन्यते आत्मानं तद्वद अज्ञानाद अन्यत्वं चैव वेद्म्य अहम 26 ममास्तु धिग अबुद्धस्य यॊ ऽहं मग्नम इमं पुनः अनुवर्तितवान मॊहाद अन्यम अन्यं जनाज जनम 27 अयम अत्र भवेद बन्धुर अनेन सह मॊक्षणम साम्यम एकत्वम आयातॊ यादृशस तादृशस तव अहम 28 तुल्यताम इह पश्यामि सदृशॊ ऽहम अनेन वै अयं हि विमलॊ वयक्तम अहम ईदृशकस तथा 29 यॊ ऽहम अज्ञानसंमॊहाद अज्ञया संप्रवृत्तवान ससङ्गयाहं निःसङ्गः सथितः कालम इमं तव अहम 30 अनयाहं वशीभूतः कालम एतं न बुद्धवान उच्चमध्यमनीचानां ताम अहं कथम आवसे 31 समानयानया चेह सह वासम अहं कथम गच्छाम्य अबुद्ध भावत्वाद एषेदानीं सथिरॊ भवे 32 सह वासं न यास्यामि कालम एतद धि वञ्चनात वञ्चितॊ ऽसम्य अनया यद धि निर्विकारॊ विकारया 33 न चायम अपराधॊ ऽसया अपराधॊ हय अयं मम यॊ ऽहम अत्राभवं सक्तः पराङ्मुखम उपस्थितः 34 ततॊ ऽसमि बहुरूपासु सथितॊ मूर्तिष्व अमूर्तिमान अमूर्तश चापि मूर्तात्मा ममत्वेन परधर्षितः 35 परकृतेर अनयत्वेन तासु तास्व इह यॊनिषु निर्ममस्य ममत्वेन किं कृतं तासु तासु च यॊनीषु वर्तमानेन नष्ट संज्ञेन चेतसा 36 न ममात्रानया कार्यम अहंकारकृतात्मया आत्मानं बहुधा कृत्वा येयं भूयॊ युनक्ति माम इदानीम एष बुद्धॊ ऽसमि निर्ममॊ निरहंकृतः 37 ममत्वम अनया नित्यम अहंकारकृतात्मकम अपेत्याहम इमां हित्वा संश्रयिष्ये निरामयम 38 अनेन साम्यं यास्यामि नानयाहम अचेतसा कषमं मम सहानेन नैकत्वम अनया सह एवं परमसंबॊधात पञ्चविंशॊ ऽनुबुद्धवान 39 अक्षरत्वं नियच्छेत तयक्त्वा कषरम अनामयम अव्यक्तं वयक्तधर्माणं सगुणं निर्गुणं तथा निर्गुणं परथमं दृष्ट्वा तादृग भवति मैथिल 40 अक्षरक्षरयॊर एतद उक्तं तव निदर्शनम महेह जञानसंपन्नं यथा शरुतिनिदर्शनात 41 निःसंदिग्धं च सूक्ष्मं च विबुद्धं विमलं तथा परवक्ष्यामि तु ते भूयस तन निबॊध यथा शरुतम 42 सांख्ययॊगौ मया परॊक्तौ शास्त्रद्वयनिदर्शनात यद एव शास्त्रं सांख्यॊक्तं यॊगदर्शनम एव तत 43 परबॊधनकरं जञानं सांख्यानाम अवनी पते विस्पष्टं परॊच्यते तत्र शिष्याणां हितकाम्यया 44 बृहच चैव हि तच छास्त्रम इत्य आहुः कुशला जनाः अस्मिंश च शास्त्रे यॊगानां पुनर दधि पुनः शरः 45 पञ्चविंशत परं तत्त्वं न पश्यति नराधिप सांख्यानां तु परं तत्र यथावद अनुवर्णितम 46 बुद्धम अप्रतिबुद्धं च बुध्यमानं च तत्त्वतः बुध्यमानं च बुद्धं च पराहुर यॊगनिदर्शनम |
1
[vasisṭha] sāṃkhyadarśanam etāvad uktaṃ te nṛpasattama vidyāvidye tv idānīṃ me tvaṃ nibodhānupūrvaśaḥ 2 avyadyām āhur avyaktaṃ sarga pralaya dharmi vai sarga pralaya nirmuktaṃ vidyāṃ vai pañcaviṃśakam 3 parasparam avidyāṃ vai tan nibodhānupūrvaśaḥ yathoktam ṛṣibhis tāta sāṃkhyasyāsya nidarśanam 4 karmendriyāṇāṃ sarveṣāṃ vidyā buddhīndriyaṃ smṛtam buddhīndriyāṇāṃ ca tathā viśeṣā iti naḥ śrutam 5 viśeṣāṇāṃ manas teṣāṃ vidyām āhur manīṣiṇaḥ manasaḥ pañca bhūtāni vidyā ity abhicakṣate 6 ahaṃkāras tu bhūtānāṃ pañcānāṃ nātra saṃśayaḥ ahaṃkārasya ca tathā buddhir vidyā nareśvara 7 buddheḥ prakṛtir avyaktaṃ tattvānāṃ parameśvaram vidyā jñeyā naraśreṣṭha vidhiś ca paramaḥ smṛtaḥ 8 avyaktasya paraṃ prāhur vidyāṃ vai pañcaviṃśakam sarvasya sarvam ity uktaṃ jñeyaṃ jñānasya pārthiva 9 jñānam avyaktam ity uktaṃ jñeyaṃ vai pañcaviṃśakam tathaiva jñānam avyaktaṃ vijñātā pañcaviṃśakaḥ 10 vidyāvidyārtha tattvena mayoktaṃ te viśeṣataḥ akṣaraṃ ca kṣaraṃ caiva yad uktaṃ tan nibodha me 11 ubhāv etau kṣarāv uktāv ubhāv etau ca naśvarau kāraṇaṃ tu pravakṣyāmi yathā khyātau tu tattvataḥ 12 anādi nidhanāv etāv ubhāv eveśvarau matau tattvasaṃjñāv ubhāv etau procyete jñānacintakaiḥ 13 sarga pralaya dharmitvād avyaktaṃ prāhur akṣaram tad etad guṇasargāya vikurvāṇaṃ punaḥ punaḥ 14 guṇānāṃ mahad ādīnām utpadyati parasparam adhiṣṭhānāt kṣetram āhur etat tat pañcaviṃśakam 15 yadā tu guṇajālaṃ tad avyaktātmani saṃkṣipet tadā saha guṇais tais tu pañcaviṃśo vilīyate 16 guṇā guṇeṣu līyante tadaikā prakṛtir bhavet kṣetrajño 'pi yadā tāta tat kṣetre saṃpralīyate 17 tadākṣaratvaṃ prakṛtir gacchate guṇasaṃjñitā nirguṇatvaṃ ca vaideha guṇeṣu prativartanāt 18 evam eva ca kṣetrajñaḥ kṣetrajñānaparikṣaye prakṛtyā nirguṇas tv eṣa ity evam anuśuśruma 19 kṣaro bhavaty eṣa yadā tadā guṇavatīm atha prakṛtiṃ tv abhijānāti nirguṇatvaṃ tathātmanaḥ 20 tadā viśuddho bhavati prakṛteḥ parivarjanāt anyo 'ham anyeyam iti yadā budhyati buddhimān 21 tadaiṣo 'nyatvatām eti na ca miśratvam āvrajet prakṛtyā caiva rājendra na miśro 'nyaś ca dṛśyate 22 yadā tu guṇajālaṃ tat prākṛtaṃ vijugupsate paśyate cāparaṃ paśyaṃ tadā paśyan na saṃjvaret 23 kiṃ mayā kṛtam etāvad yo 'haṃ kālam imaṃ janam matsyo jālaṃ hy avijñānād anuvartitavāṃs tathā 24 aham eva hi saṃmohād anyam anyaṃ janāñ janam matsyo yathodaka jñānād anuvartitavān iha 25 matsyo 'nyatvaṃ yathājñānād udakān nābhimanyate ātmānaṃ tadvad ajñānād anyatvaṃ caiva vedmy aham 26 mamāstu dhig abuddhasya yo 'haṃ magnam imaṃ punaḥ anuvartitavān mohād anyam anyaṃ janāj janam 27 ayam atra bhaved bandhur anena saha mokṣaṇam sāmyam ekatvam āyāto yādṛśas tādṛśas tv aham 28 tulyatām iha paśyāmi sadṛśo 'ham anena vai ayaṃ hi vimalo vyaktam aham īdṛśakas tathā 29 yo 'ham ajñānasaṃmohād ajñayā saṃpravṛttavān sasaṅgayāhaṃ niḥsaṅgaḥ sthitaḥ kālam imaṃ tv aham 30 anayāhaṃ vaśībhūtaḥ kālam etaṃ na buddhavān uccamadhyamanīcānāṃ tām ahaṃ katham āvase 31 samānayānayā ceha saha vāsam ahaṃ katham gacchāmy abuddha bhāvatvād eṣedānīṃ sthiro bhave 32 saha vāsaṃ na yāsyāmi kālam etad dhi vañcanāt vañcito 'smy anayā yad dhi nirvikāro vikārayā 33 na cāyam aparādho 'syā aparādho hy ayaṃ mama yo 'ham atrābhavaṃ saktaḥ parāṅmukham upasthitaḥ 34 tato 'smi bahurūpāsu sthito mūrtiṣv amūrtimān amūrtaś cāpi mūrtātmā mamatvena pradharṣitaḥ 35 prakṛter anayatvena tāsu tāsv iha yoniṣu nirmamasya mamatvena kiṃ kṛtaṃ tāsu tāsu ca yonīṣu vartamānena naṣṭa saṃjñena cetasā 36 na mamātrānayā kāryam ahaṃkārakṛtātmayā ātmānaṃ bahudhā kṛtvā yeyaṃ bhūyo yunakti mām idānīm eṣa buddho 'smi nirmamo nirahaṃkṛtaḥ 37 mamatvam anayā nityam ahaṃkārakṛtātmakam apetyāham imāṃ hitvā saṃśrayiṣye nirāmayam 38 anena sāmyaṃ yāsyāmi nānayāham acetasā kṣamaṃ mama sahānena naikatvam anayā saha evaṃ paramasaṃbodhāt pañcaviṃśo 'nubuddhavān 39 akṣaratvaṃ niyaccheta tyaktvā kṣaram anāmayam avyaktaṃ vyaktadharmāṇaṃ saguṇaṃ nirguṇaṃ tathā nirguṇaṃ prathamaṃ dṛṣṭvā tādṛg bhavati maithila 40 akṣarakṣarayor etad uktaṃ tava nidarśanam maheha jñānasaṃpannaṃ yathā śrutinidarśanāt 41 niḥsaṃdigdhaṃ ca sūkṣmaṃ ca vibuddhaṃ vimalaṃ tathā pravakṣyāmi tu te bhūyas tan nibodha yathā śrutam 42 sāṃkhyayogau mayā proktau śāstradvayanidarśanāt yad eva śāstraṃ sāṃkhyoktaṃ yogadarśanam eva tat 43 prabodhanakaraṃ jñānaṃ sāṃkhyānām avanī pate vispaṣṭaṃ procyate tatra śiṣyāṇāṃ hitakāmyayā 44 bṛhac caiva hi tac chāstram ity āhuḥ kuśalā janāḥ asmiṃś ca śāstre yogānāṃ punar dadhi punaḥ śaraḥ 45 pañcaviṃśat paraṃ tattvaṃ na paśyati narādhipa sāṃkhyānāṃ tu paraṃ tatra yathāvad anuvarṇitam 46 buddham apratibuddhaṃ ca budhyamānaṃ ca tattvataḥ budhyamānaṃ ca buddhaṃ ca prāhur yoganidarśanam |
The Mahabharata in Sanskrit
Book 12
Chapter 296
|
1
[वसिस्ठ] अप्रबुद्धम अथाव्यक्तम इमं गुणविधिं शृणु गुणान धारयते हय एषा सृजत्य आक्षिपते तथा 2 अजस्रं तव इह करीदार्थं विकुर्वन्ती नराधिप आत्मानं बहुधा कृत्वा तान्य एव च विचक्षते 3 एतद एवं विकुर्वाणां बुध्यमानॊ न बुध्यते अव्यक्तबॊधनाच चैव बुध्यमानं वदन्त्य अपि 4 न तव एव बुध्यते ऽवयक्तं सगुणं वाथ निर्गुणम कदा चित तव एव खल्व एतद आहुर अप्रति बुद्धकम 5 बुध्यते यदि वाव्यक्तम एतद वै पञ्चविंशकम बुध्यमानॊ भवत्य एष सङ्गात्मक इति शरुतिः 6 अनेनाप्रतिबुद्धेति वदन्त्य अव्यक्तम अच्युतम अव्यक्तबॊधनाच चैव बुध्यमानं वदन्त्य उप 7 पञ्चविंशं महात्मानं न चासाव अपि बुध्यते सद्विंशं विमलं बुद्धम अप्रमेयं सनातनम 8 सततं पञ्चविंसं च चतुर्विंशं च बुध्यते दृश्यादृश्ये हय अनुगतम उभाव एव महाद्युती 9 अव्यक्तं न तु तद बरह्म बुध्यते तात केवलम केवलं पञ्चविंशं च चतुर्विंशं न पश्यति 10 बुध्यमानॊ यदात्मानम अन्यॊ ऽहम इति मन्यते तदा परकृतिमान एष भवत्य अव्यक्तलॊचनः 11 बुध्यते च परां बुद्धिं विशुद्धाम अमलां यदा सद्विंशॊ राजशार्दूल तदा बुद्धत्वम आव्रजेत 12 ततस तयजति सॊ ऽवयक्तं सर्ग परलय धर्मिणम निर्गुणः परकृतिं वेद गुणयुक्ताम अचेतनाम 13 ततः केवलधर्मासौ भवत्य अव्यक्तदर्शनात केवलेन समागम्य विमुक्तॊ ऽऽतमानम आप्नुयात 14 एतत तत तत्त्वम इत्य आहुर निस्तत्त्वम अजरामरम तत्त्वसंश्रयणाद एतत तत्त्ववन न च मानद पञ्चविंशति तत्त्वानि परवदन्ति मनीषिणः 15 न चैष तत्त्ववांस तात निस्तत्त्वस तव एष बुद्धिमान एष मुञ्चति तत्त्वं हि कषिप्रं बुद्धस्य लक्षणम 16 सद्विंशॊ ऽहम इति पराज्ञॊ गृह्यमाणॊ ऽजरामरः केवलेन बलेनैव समतां यात्य असंशयम 17 सद्विंशेन परबुद्धेन बुध्यमानॊ ऽपय अबुद्धिमान एतन नानात्वम इत्य उक्तं सांख्यश्रुतिनिदर्शनात 18 चेतनेन समेतस्य पञ्चविंशतिकस्य च एकत्वं वै भवत्य अस्य यदा बुद्ध्या न बुध्यते 19 बुध्यमानॊ ऽपरबुद्धेन समतां याति मैथिल सङ्गधर्मा भवत्य एष निःसङ्गात्मा नराधिप 20 निःसङ्गात्मानम आसाद्य सद्विंशकम अजं विदुः विभुस तयजति चाव्यक्तं यदा तव एतद विबुध्यते चतुर्विंशम अगाधं च सद्विंशस्य परबॊधनात 21 एष हय अप्रतिबुद्धश च बुध्यमानश च ते ऽनघ परॊक्तॊ बुद्धश च तत्त्वेन यथा शरुतिनिदर्शनात नानात्वैकत्वम एतावद दरष्टव्यं शास्त्रदृष्टिभिः 22 मशकॊदुम्बरे यद्वद अन्यत्वं तद्वद एतयॊः मत्स्यॊ ऽमभसि यथा तद्वद अन्यत्वम उपलभ्यते 23 एवम एवावगन्तव्यं नानात्वैकत्वम एतयॊः एतद विमॊक्ष इत्य उक्तम अव्यक्तज्ञानसंहितम 24 पञ्चविंशतिकस्यास्य यॊ ऽयं देहेषु वर्तते एष मॊक्षयितव्येति पराहुर अव्यक्तगॊचरात 25 सॊ ऽयम एवं विमुच्येत नान्यथेति विनिश्चयः परेण परधर्मा च भवत्य एष समेत्य वै 26 विशुद्धधर्मा शुद्धेन बुद्धेन च स बुद्धिमान विमुक्तधर्मा मुक्तेन समेत्य पुरुषर्षभ 27 नियॊग धर्मिणा चैव नियॊगात्मा भवत्य अपि विमॊक्षिणा विमॊक्षश च समेत्येह तथा भवेत 28 शुचि कर्मा शुचिश चैव भवत्य अमितदीप्तिमान विमलात्मा च भवति समेत्य विमलात्मना 29 केवलात्मा तथा चैव केवलेन समेत्य वै सवतन्त्रश च सवतन्त्रेण सवतन्त्रत्वम अवाप्नुते 30 एतावद एतत कथितं मया ते; तथ्यं महाराज यथार्थतत्त्वम अमत्सरत्वं परतिगृह्य चार्थं; सनातनं बरह्म विशुद्धम आद्यम 31 न वेद निष्ठस्य जनस्य राजन; परदेयम एतत परमं तवया भवेत विवित्समानाय विबॊध कारकं; परबॊध हेतॊः परनतस्य शासनम 32 न देयम एतच च तथानृतात्मने; शठाय कलीबाय न जिह्मबुद्धये न पण्डित जञानपर उपतापिने; देयं तवयेदं विनिबॊध यादृशे 33 शरद्धान्वितायाथ गुणान्विताय; परापवादाद विरताय नित्यम विशुद्धयॊगाय बुध्याय चैव; करियावते ऽथ कषमिणे हिताय 34 विविक्तशीलाय विधिप्रियाय; विवादहीनाय बहुश्रुताय विजानते चैव न चाहितक्षमे; दमे च शक्ताय शमे च देहिनाम 35 एतैर गुणैर हीनतमे न देयम; एत परं बरह्म विशुद्धम आहुः न शरेयसा यॊक्ष्यते तादृशे कृतं; धर्मप्रवक्तारम अपात्र दानात 36 पृथिवीम इमां यद्य अपि रत्र पूर्णां; दद्यान न देयं तव इदम अव्रताय जितेन्द्रियायैतद असंशयं ते; भवेत परदेयं परमं नरेन्द्र 37 कराल मा ते भयम अस्तु किं चिद; एतच छरुतं बरह्म परं तवयाद्य यथावद उक्तं परमं पवित्रं; निःशॊकम अत्यन्तम अनादिमध्यम 38 अगाध जन्मामरणं च राजन; निरामयं वीतभयं शिवं च समीक्ष्य मॊहं तयज चाद्य सर्वं; जञानस्य तत्त्वार्थम इदं विदित्वा 39 अवाप्तम एतद धि पुरा सनातनाद; धिरण्यगर्भाद गदतॊ नराधिप परसाद्य यत्नेन तमूग्रतेजसं; सनातनं बरह्म यथा दय वै तवया 40 पृष्ठस तवया चास्मि यथा नरेन्द्र; तथा मयेदं तवयि चॊक्तम अद्य तथावाप्तं बरह्मणॊ मे नरेन्द्र; महज जञानं मॊक्षविदां पुराणम 41 [भी] एतद उक्तं परं बरह्म यस्मान नावर्तते पुनः पञ्चविंशॊ महाराज परमर्षिनिदर्शनात 42 पुनर आवृत्तिम आप्नॊति परं जञानम अवाप्य च नावबुध्यति तत्त्वेन बुध्यमानॊ ऽजरामरः 43 एतन निःश्रेयसकरं जञानानां ते परं मया कथितं तत्त्वतस तात शरुत्वा देवर्षितॊ नृप 44 हिरण्यगर्भाद ऋषिणा वसिष्ठेन महात्मना वसिष्ठाद ऋषिशार्दूलान नारदॊ ऽवाप्तवान इदम 45 नारदाद विदितं मह्यम एतद बरह्म सनातनम मा शुचः कौरवेन्द्र तवं शरुत्वैतत परमं पदम 46 येन कषराक्षरे वित्ते न भयं तस्य विद्यते विद्यते तु भयं तस्य यॊ नैतद वेत्ति पार्थिव 47 अविज्ञानाच च मूढात्मा पुनः पुनर उपद्रवन परेत्य जातिसहस्राणि मरणान्तान्य उपाश्नुते 48 देवलॊकं तथा तिर्यङ मानुष्यम अपि चाश्नुते यदि शुध्यति कालेन तस्माद अज्ञानसागरात 49 अज्ञानसागरॊ घॊरॊ हय अव्यक्तॊ ऽगाध उच्यते अहन्य अहनि मज्जन्ति यत्र भूतानि भारत 50 यस्माद अगाधाद अव्यक्ताद उत्तीर्णस तवं सनातनात तस्मात तवं विरजाश चैव वितमस्कश च पार्थिव |
1
[vasisṭha] aprabuddham athāvyaktam imaṃ guṇavidhiṃ śṛṇu guṇān dhārayate hy eṣā sṛjaty ākṣipate tathā 2 ajasraṃ tv iha krīdārthaṃ vikurvantī narādhipa ātmānaṃ bahudhā kṛtvā tāny eva ca vicakṣate 3 etad evaṃ vikurvāṇāṃ budhyamāno na budhyate avyaktabodhanāc caiva budhyamānaṃ vadanty api 4 na tv eva budhyate 'vyaktaṃ saguṇaṃ vātha nirguṇam kadā cit tv eva khalv etad āhur aprati buddhakam 5 budhyate yadi vāvyaktam etad vai pañcaviṃśakam budhyamāno bhavaty eṣa saṅgātmaka iti śrutiḥ 6 anenāpratibuddheti vadanty avyaktam acyutam avyaktabodhanāc caiva budhyamānaṃ vadanty upa 7 pañcaviṃśaṃ mahātmānaṃ na cāsāv api budhyate sadviṃśaṃ vimalaṃ buddham aprameyaṃ sanātanam 8 satataṃ pañcaviṃsaṃ ca caturviṃśaṃ ca budhyate dṛśyādṛśye hy anugatam ubhāv eva mahādyutī 9 avyaktaṃ na tu tad brahma budhyate tāta kevalam kevalaṃ pañcaviṃśaṃ ca caturviṃśaṃ na paśyati 10 budhyamāno yadātmānam anyo 'ham iti manyate tadā prakṛtimān eṣa bhavaty avyaktalocanaḥ 11 budhyate ca parāṃ buddhiṃ viśuddhām amalāṃ yadā sadviṃśo rājaśārdūla tadā buddhatvam āvrajet 12 tatas tyajati so 'vyaktaṃ sarga pralaya dharmiṇam nirguṇaḥ prakṛtiṃ veda guṇayuktām acetanām 13 tataḥ kevaladharmāsau bhavaty avyaktadarśanāt kevalena samāgamya vimukto ''tmānam āpnuyāt 14 etat tat tattvam ity āhur nistattvam ajarāmaram tattvasaṃśrayaṇād etat tattvavan na ca mānada pañcaviṃśati tattvāni pravadanti manīṣiṇaḥ 15 na caiṣa tattvavāṃs tāta nistattvas tv eṣa buddhimān eṣa muñcati tattvaṃ hi kṣipraṃ buddhasya lakṣaṇam 16 sadviṃśo 'ham iti prājño gṛhyamāṇo 'jarāmaraḥ kevalena balenaiva samatāṃ yāty asaṃśayam 17 sadviṃśena prabuddhena budhyamāno 'py abuddhimān etan nānātvam ity uktaṃ sāṃkhyaśrutinidarśanāt 18 cetanena sametasya pañcaviṃśatikasya ca ekatvaṃ vai bhavaty asya yadā buddhyā na budhyate 19 budhyamāno 'prabuddhena samatāṃ yāti maithila saṅgadharmā bhavaty eṣa niḥsaṅgātmā narādhipa 20 niḥsaṅgātmānam āsādya sadviṃśakam ajaṃ viduḥ vibhus tyajati cāvyaktaṃ yadā tv etad vibudhyate caturviṃśam agādhaṃ ca sadviṃśasya prabodhanāt 21 eṣa hy apratibuddhaś ca budhyamānaś ca te 'nagha prokto buddhaś ca tattvena yathā śrutinidarśanāt nānātvaikatvam etāvad draṣṭavyaṃ śāstradṛṣṭibhiḥ 22 maśakodumbare yadvad anyatvaṃ tadvad etayoḥ matsyo 'mbhasi yathā tadvad anyatvam upalabhyate 23 evam evāvagantavyaṃ nānātvaikatvam etayoḥ etad vimokṣa ity uktam avyaktajñānasaṃhitam 24 pañcaviṃśatikasyāsya yo 'yaṃ deheṣu vartate eṣa mokṣayitavyeti prāhur avyaktagocarāt 25 so 'yam evaṃ vimucyeta nānyatheti viniścayaḥ pareṇa paradharmā ca bhavaty eṣa sametya vai 26 viśuddhadharmā śuddhena buddhena ca sa buddhimān vimuktadharmā muktena sametya puruṣarṣabha 27 niyoga dharmiṇā caiva niyogātmā bhavaty api vimokṣiṇā vimokṣaś ca sametyeha tathā bhavet 28 śuci karmā śuciś caiva bhavaty amitadīptimān vimalātmā ca bhavati sametya vimalātmanā 29 kevalātmā tathā caiva kevalena sametya vai svatantraś ca svatantreṇa svatantratvam avāpnute 30 etāvad etat kathitaṃ mayā te; tathyaṃ mahārāja yathārthatattvam amatsaratvaṃ pratigṛhya cārthaṃ; sanātanaṃ brahma viśuddham ādyam 31 na veda niṣṭhasya janasya rājan; pradeyam etat paramaṃ tvayā bhavet vivitsamānāya vibodha kārakaṃ; prabodha hetoḥ pranatasya śāsanam 32 na deyam etac ca tathānṛtātmane; śaṭhāya klībāya na jihmabuddhaye na paṇḍita jñānapar upatāpine; deyaṃ tvayedaṃ vinibodha yādṛśe 33 śraddhānvitāyātha guṇānvitāya; parāpavādād viratāya nityam viśuddhayogāya budhyāya caiva; kriyāvate 'tha kṣamiṇe hitāya 34 viviktaśīlāya vidhipriyāya; vivādahīnāya bahuśrutāya vijānate caiva na cāhitakṣame; dame ca śaktāya śame ca dehinām 35 etair guṇair hīnatame na deyam; eta paraṃ brahma viśuddham āhuḥ na śreyasā yokṣyate tādṛśe kṛtaṃ; dharmapravaktāram apātra dānāt 36 pṛthivīm imāṃ yady api ratra pūrṇāṃ; dadyān na deyaṃ tv idam avratāya jitendriyāyaitad asaṃśayaṃ te; bhavet pradeyaṃ paramaṃ narendra 37 karāla mā te bhayam astu kiṃ cid; etac chrutaṃ brahma paraṃ tvayādya yathāvad uktaṃ paramaṃ pavitraṃ; niḥśokam atyantam anādimadhyam 38 agādha janmāmaraṇaṃ ca rājan; nirāmayaṃ vītabhayaṃ śivaṃ ca samīkṣya mohaṃ tyaja cādya sarvaṃ; jñānasya tattvārtham idaṃ viditvā 39 avāptam etad dhi purā sanātanād; dhiraṇyagarbhād gadato narādhipa prasādya yatnena tamūgratejasaṃ; sanātanaṃ brahma yathā dya vai tvayā 40 pṛṣṭhas tvayā cāsmi yathā narendra; tathā mayedaṃ tvayi coktam adya tathāvāptaṃ brahmaṇo me narendra; mahaj jñānaṃ mokṣavidāṃ purāṇam 41 [bhī] etad uktaṃ paraṃ brahma yasmān nāvartate punaḥ pañcaviṃśo mahārāja paramarṣinidarśanāt 42 punar āvṛttim āpnoti paraṃ jñānam avāpya ca nāvabudhyati tattvena budhyamāno 'jarāmaraḥ 43 etan niḥśreyasakaraṃ jñānānāṃ te paraṃ mayā kathitaṃ tattvatas tāta śrutvā devarṣito nṛpa 44 hiraṇyagarbhād ṛṣiṇā vasiṣṭhena mahātmanā vasiṣṭhād ṛṣiśārdūlān nārado 'vāptavān idam 45 nāradād viditaṃ mahyam etad brahma sanātanam mā śucaḥ kauravendra tvaṃ śrutvaitat paramaṃ padam 46 yena kṣarākṣare vitte na bhayaṃ tasya vidyate vidyate tu bhayaṃ tasya yo naitad vetti pārthiva 47 avijñānāc ca mūḍhātmā punaḥ punar upadravan pretya jātisahasrāṇi maraṇāntāny upāśnute 48 devalokaṃ tathā tiryaṅ mānuṣyam api cāśnute yadi śudhyati kālena tasmād ajñānasāgarāt 49 ajñānasāgaro ghoro hy avyakto 'gādha ucyate ahany ahani majjanti yatra bhūtāni bhārata 50 yasmād agādhād avyaktād uttīrṇas tvaṃ sanātanāt tasmāt tvaṃ virajāś caiva vitamaskaś ca pārthiva |
The Mahabharata in Sanskrit
Book 12
Chapter 297
|
1
[भी] मृगयां विचरन कश चिद विजने जनकात्मजः वने ददर्श विप्रेन्द्रम ऋषिं वंशधरं भृगॊः 2 तम आसीनम उपासीनः परनम्य शिरसा मुनिम पश्चाद अनुमतस तेन पप्रच्छ वसुमान इदम 3 भगवन किम इदं शरेयः परेत्य वापीह वा भवेत पुरुषस्याध्रुवे देहे कामस्य वशवर्तिनः 4 सत्कृत्य परिपृष्टः सन सुमहात्मा महातपः निजगाद ततस तस्मै शरेयस्करम इदं वचः 5 मनसॊ ऽपरतिकूलानि परेत्य चेह च वाञ्छसि भूतानां परतिकूलेभ्यॊ निर्वर्तस्व यतेन्द्रियः 6 धर्मः सतां हितः पुंसां धर्मश चैवाश्रयः सताम धर्माल लॊकास तरयस तात परवृत्ताः सचराचराः 7 सवादु कामुक कामानां वैतृष्ण्यं किं न गच्छसि मधु पश्यसि दुर्बुद्धे परपातं नानुपश्यसि 8 यथा जञाने परिचयः कर्तव्यस तत फलार्थिना तथा धर्मे परिचयः कर्तव्यस तत फलार्थिना 9 असता धर्मकामेन विशुद्धं कर्म दुष्करम सता तु धर्मकामेन सुकरं कर्म दुष्करम 10 वने गराम्यसुखाचारॊ यथा गराम्यस तथैव सः गरामे वनसुखाचारॊ यथा वनचरस तथा 11 मनॊ वाक कर्मके धर्मे कुरु शरद्धां समाहितः निवृत्तौ वा परवृत्तौ वा संप्रधार्य गुणागुणान 12 नित्यं च बहु दातव्यं साधुभ्यश चानसूयता परार्थितं वरतशौचाभ्यां सत्कृतं देशकालयॊः 13 शुभेन विधिना लब्धम अर्हाय परतिपादयेत करॊधम उत्सृज्य दत्त्वा च नानुतप्येन न कीर्तयेत 14 अनृशंसः शुचिर दान्तः सत्यवाग आर्जवे सथितः यॊनिकर्म विशुद्धश च पात्रं सयाद वेदविद दविजः 15 सत्कृता चैकपत्नी च जात्या यॊनिर इहेश्यते ऋद यजुः सामगॊ विद्वान सः कर्मा पात्रम उच्यते 16 स एव धर्मः सॊ ऽधर्मस तं तं परतिनरं भवेत पात्रकर्म विशेषेण देशकालाव अवेक्ष्य च 17 लीलयालं यथा गात्रात परमृज्याद रजसः पुमान बहु यत्नेन महता पापनिर्हरनं तथा 18 विरक्तस्य यथा सम्यग घृतं भवति भेषजम तथा निर्हृत दॊषस्य परेत्य धर्मः सुखावहः 19 मानसं सर्वभूतेषु वर्तते वै शुभाशुभे अशुभेभ्यः समाक्षिप्य शुभेष्व एवावतारयेत 20 सर्वं सर्वेण सर्वत्र करियमाणं च पूजय सवधर्मे यत्र रागस ते कामं धर्मॊ विधीयताम 21 अधृतात्मन धृतौ तिष्ठ दुर्बुद्धे बुद्धिमान भव अप्रशान्त परशाम्य तवम अप्राज्ञ पराज्ञवच चर 22 तेजसा शक्यते पराप्तुम उपायसह चारिणा इह च परेत्य च शरेयस तस्य मूलं धृतिः परा 23 राजर्षिर अधृतिः सवर्गात पतितॊ हि महाभिषः ययाति कषीणपुण्यश च धृत्या लॊकान अवाप्तवान 24 तपस्विनां धर्मवतां विदुषां चॊपसेवनात पराप्स्यसे विपुलां बुद्धिं तथा शरेयॊ ऽभिपत्स्यसे 25 स तु सवभावसंपन्नस तच छरुत्वा मुनिभासितम विनिवर्त्य मनः कामाद धर्मे बुद्धिं चकार ह |
1
[bhī] mṛgayāṃ vicaran kaś cid vijane janakātmajaḥ vane dadarśa viprendram ṛṣiṃ vaṃśadharaṃ bhṛgoḥ 2 tam āsīnam upāsīnaḥ pranamya śirasā munim paścād anumatas tena papraccha vasumān idam 3 bhagavan kim idaṃ śreyaḥ pretya vāpīha vā bhavet puruṣasyādhruve dehe kāmasya vaśavartinaḥ 4 satkṛtya paripṛṣṭaḥ san sumahātmā mahātapaḥ nijagāda tatas tasmai śreyaskaram idaṃ vacaḥ 5 manaso 'pratikūlāni pretya ceha ca vāñchasi bhūtānāṃ pratikūlebhyo nirvartasva yatendriyaḥ 6 dharmaḥ satāṃ hitaḥ puṃsāṃ dharmaś caivāśrayaḥ satām dharmāl lokās trayas tāta pravṛttāḥ sacarācarāḥ 7 svādu kāmuka kāmānāṃ vaitṛṣṇyaṃ kiṃ na gacchasi madhu paśyasi durbuddhe prapātaṃ nānupaśyasi 8 yathā jñāne paricayaḥ kartavyas tat phalārthinā tathā dharme paricayaḥ kartavyas tat phalārthinā 9 asatā dharmakāmena viśuddhaṃ karma duṣkaram satā tu dharmakāmena sukaraṃ karma duṣkaram 10 vane grāmyasukhācāro yathā grāmyas tathaiva saḥ grāme vanasukhācāro yathā vanacaras tathā 11 mano vāk karmake dharme kuru śraddhāṃ samāhitaḥ nivṛttau vā pravṛttau vā saṃpradhārya guṇāguṇān 12 nityaṃ ca bahu dātavyaṃ sādhubhyaś cānasūyatā prārthitaṃ vrataśaucābhyāṃ satkṛtaṃ deśakālayoḥ 13 śubhena vidhinā labdham arhāya pratipādayet krodham utsṛjya dattvā ca nānutapyen na kīrtayet 14 anṛśaṃsaḥ śucir dāntaḥ satyavāg ārjave sthitaḥ yonikarma viśuddhaś ca pātraṃ syād vedavid dvijaḥ 15 satkṛtā caikapatnī ca jātyā yonir iheśyate ṛd yajuḥ sāmago vidvān saḥ karmā pātram ucyate 16 sa eva dharmaḥ so 'dharmas taṃ taṃ pratinaraṃ bhavet pātrakarma viśeṣeṇa deśakālāv avekṣya ca 17 līlayālaṃ yathā gātrāt pramṛjyād rajasaḥ pumān bahu yatnena mahatā pāpanirharanaṃ tathā 18 viraktasya yathā samyag ghṛtaṃ bhavati bheṣajam tathā nirhṛta doṣasya pretya dharmaḥ sukhāvahaḥ 19 mānasaṃ sarvabhūteṣu vartate vai śubhāśubhe aśubhebhyaḥ samākṣipya śubheṣv evāvatārayet 20 sarvaṃ sarveṇa sarvatra kriyamāṇaṃ ca pūjaya svadharme yatra rāgas te kāmaṃ dharmo vidhīyatām 21 adhṛtātman dhṛtau tiṣṭha durbuddhe buddhimān bhava apraśānta praśāmya tvam aprājña prājñavac cara 22 tejasā śakyate prāptum upāyasaha cāriṇā iha ca pretya ca śreyas tasya mūlaṃ dhṛtiḥ parā 23 rājarṣir adhṛtiḥ svargāt patito hi mahābhiṣaḥ yayāti kṣīṇapuṇyaś ca dhṛtyā lokān avāptavān 24 tapasvināṃ dharmavatāṃ viduṣāṃ copasevanāt prāpsyase vipulāṃ buddhiṃ tathā śreyo 'bhipatsyase 25 sa tu svabhāvasaṃpannas tac chrutvā munibhāsitam vinivartya manaḥ kāmād dharme buddhiṃ cakāra ha |
The Mahabharata in Sanskrit
Book 12
Chapter 298
|
1
[य] धर्माधर्मविमुक्तं यद विमुक्तं सर्वसंश्रयात जन्ममृत्युविमुक्तं च विमुक्तं पुण्यपापयॊः 2 यच छिवं नित्यम अभयं नित्यं चाक्षरम अव्ययम शुचि नित्यम अनायासं तद भवान वक्तुम अर्हति 3 [भी] अत्र ते वर्तयिष्ये ऽहम इतिहासं पुरातनम याज्ञवल्क्यस्य संवादं जनकस्य च भारत 4 याज्ञवल्क्यम ऋषिश्रेष्ठं दैवरातिर मया यशः पप्रच्छ जनकॊ राजा परश्नं परश्नविदां वरः 5 कतीन्द्रियाणि विप्रर्षे कति परकृतयः समृताः किम अव्यक्तं परं बरह्म तस्माच च परतस तु किम 6 परभवं चाप्ययं चैव कालसंख्यां तथैव च वक्तुम अर्हसि विप्रेन्द्र तवद अनुग्रह काङ्क्षिणः 7 अज्ञानात परिपृच्छामि तवं हि जञानमयॊ निधिः तद अहं शरॊतुम इच्छामि सर्वम एतद असंशयम 8 [या] शरूयताम अवनी पाल यद एतद अनुपृच्छसि यॊगानां परमं जञानं सांख्यानां च विशेषतः 9 न तवाविदितं किं चिन मां तु जिज्ञासते भवान पृष्टेन चापि वक्तव्यम एष धर्मः सनातनः 10 अस्तौ परकृतयः परॊक्ता विकाराश चापि सॊदश अथ सप्त तु वयक्तानि पराहुर अध्यात्मचिन्तकाः 11 अव्यक्तं च महांश चैव तथाहंकार एव च पृथिवी वायुर आकाशम आपॊ जयॊतिश च पञ्चमम 12 एताः परकृतयस तव अस्तौ विकारान अपि मे शृणु शरॊत्रं तवक चैव चक्षुश च जिह्वा घराणं च पञ्चमम 13 शब्दस्पर्शौ च रूपं च रसॊ गन्धस तथैव च वाक च हस्तौ च पादौ च पायुर मेध्रं तथैव च 14 एते विशेषा राजेन्द्र महाभूतेषु पञ्चसु बुद्धीन्द्रियाण्य अथैतानि सविशेषाणि मैथिल 15 मनः सॊदशकं पराहुर अध्यात्मगतिचिन्तकाः तवं चैवान्ये च विद्वांसस तत्त्वबुद्धिविशारदाः 16 अव्यक्ताच च महान आत्मा समुत्पद्यति पार्तिव परथमं सर्गम इत्य एतद आहुः पराधानिकं बुधाः 17 महतश चाप्य अहंकार उत्पद्यति नराधिप दवितीयं सर्गम इत्य आहुर एतद बुद्ध्यात्मकं समृतम 18 अहंकाराच च संभूतं मनॊ भूतगुणात्मकम तृतीयः सर्ग इत्य एष आहंकारिक उच्यते 19 मनसस तु समुद्भूता महाभूता नराधिप चतुर्थं सर्गम इत्य एतन मानसं परिचक्षते 20 शब्दः सपर्शश च रूपं च रसॊ गन्धस तथैव च पञ्चमं सर्गम इत्य आहुर भौतिकं भूतचिन्तकाः 21 शरॊत्रं तवक चैव चक्षुश च जिह्वा घराणं च पञ्चमम सर्गं तु सस्थम इत्य आहुर बहु चिन्तात्मकं समृतम 22 अधः शरॊत्रेन्द्रिय गराम उत्पद्यति नराधिप सप्तमं सर्गम इत्य आहुर एतद ऐन्द्रियकं समृतम 23 ऊर्ध्वस्रॊतस तथा तिर्यग उत्पद्यति नराधिप अस्तमं सर्गम इत्य आहुर एतद आर्जवकं बुधाः 24 तिर्यक सरॊतस तव अधः सरॊत उत्पद्यति नराधिप नवमं सर्गम इत्य आहुर एतद आर्जवकं बुधाः 25 एतानि नव सर्गाणि तत्त्वानि च नराधिप चतुर्विंशतिर उक्तानि यथा शरुतिनिदर्शनात 26 अत ऊर्ध्वं महाराज गुणस्यैतस्य तत्त्वतः महात्मभिर अनुप्रॊक्तां कालसंख्यां निबॊध मे |
1
[y] dharmādharmavimuktaṃ yad vimuktaṃ sarvasaṃśrayāt janmamṛtyuvimuktaṃ ca vimuktaṃ puṇyapāpayoḥ 2 yac chivaṃ nityam abhayaṃ nityaṃ cākṣaram avyayam śuci nityam anāyāsaṃ tad bhavān vaktum arhati 3 [bhī] atra te vartayiṣye 'ham itihāsaṃ purātanam yājñavalkyasya saṃvādaṃ janakasya ca bhārata 4 yājñavalkyam ṛṣiśreṣṭhaṃ daivarātir mayā yaśaḥ papraccha janako rājā praśnaṃ praśnavidāṃ varaḥ 5 katīndriyāṇi viprarṣe kati prakṛtayaḥ smṛtāḥ kim avyaktaṃ paraṃ brahma tasmāc ca paratas tu kim 6 prabhavaṃ cāpyayaṃ caiva kālasaṃkhyāṃ tathaiva ca vaktum arhasi viprendra tvad anugraha kāṅkṣiṇaḥ 7 ajñānāt paripṛcchāmi tvaṃ hi jñānamayo nidhiḥ tad ahaṃ śrotum icchāmi sarvam etad asaṃśayam 8 [yā] śrūyatām avanī pāla yad etad anupṛcchasi yogānāṃ paramaṃ jñānaṃ sāṃkhyānāṃ ca viśeṣataḥ 9 na tavāviditaṃ kiṃ cin māṃ tu jijñāsate bhavān pṛṣṭena cāpi vaktavyam eṣa dharmaḥ sanātanaḥ 10 astau prakṛtayaḥ proktā vikārāś cāpi sodaśa atha sapta tu vyaktāni prāhur adhyātmacintakāḥ 11 avyaktaṃ ca mahāṃś caiva tathāhaṃkāra eva ca pṛthivī vāyur ākāśam āpo jyotiś ca pañcamam 12 etāḥ prakṛtayas tv astau vikārān api me śṛṇu śrotraṃ tvak caiva cakṣuś ca jihvā ghrāṇaṃ ca pañcamam 13 śabdasparśau ca rūpaṃ ca raso gandhas tathaiva ca vāk ca hastau ca pādau ca pāyur medhraṃ tathaiva ca 14 ete viśeṣā rājendra mahābhūteṣu pañcasu buddhīndriyāṇy athaitāni saviśeṣāṇi maithila 15 manaḥ sodaśakaṃ prāhur adhyātmagaticintakāḥ tvaṃ caivānye ca vidvāṃsas tattvabuddhiviśāradāḥ 16 avyaktāc ca mahān ātmā samutpadyati pārtiva prathamaṃ sargam ity etad āhuḥ prādhānikaṃ budhāḥ 17 mahataś cāpy ahaṃkāra utpadyati narādhipa dvitīyaṃ sargam ity āhur etad buddhyātmakaṃ smṛtam 18 ahaṃkārāc ca saṃbhūtaṃ mano bhūtaguṇātmakam tṛtīyaḥ sarga ity eṣa āhaṃkārika ucyate 19 manasas tu samudbhūtā mahābhūtā narādhipa caturthaṃ sargam ity etan mānasaṃ paricakṣate 20 śabdaḥ sparśaś ca rūpaṃ ca raso gandhas tathaiva ca pañcamaṃ sargam ity āhur bhautikaṃ bhūtacintakāḥ 21 śrotraṃ tvak caiva cakṣuś ca jihvā ghrāṇaṃ ca pañcamam sargaṃ tu sastham ity āhur bahu cintātmakaṃ smṛtam 22 adhaḥ śrotrendriya grāma utpadyati narādhipa saptamaṃ sargam ity āhur etad aindriyakaṃ smṛtam 23 ūrdhvasrotas tathā tiryag utpadyati narādhipa astamaṃ sargam ity āhur etad ārjavakaṃ budhāḥ 24 tiryak srotas tv adhaḥ srota utpadyati narādhipa navamaṃ sargam ity āhur etad ārjavakaṃ budhāḥ 25 etāni nava sargāṇi tattvāni ca narādhipa caturviṃśatir uktāni yathā śrutinidarśanāt 26 ata ūrdhvaṃ mahārāja guṇasyaitasya tattvataḥ mahātmabhir anuproktāṃ kālasaṃkhyāṃ nibodha me |
The Mahabharata in Sanskrit
Book 12
Chapter 299
|
1
[याज्नवल्क्य] अव्यक्तस्य नरश्रेष्ठ कालसंख्यां निबॊध मे पञ्च कल्पसहस्राणि दविगुणान्य अहर उच्यते 2 रात्रिर एतावती चास्य परतिबुद्धॊ नराधिप सृजत्य ओषधिम एवाग्रे जीवनं सर्वदेहिनाम 3 ततॊ बरह्माणम असृजद धैरण्यान्द समुद्भवम सा मूर्तिः सर्वभूतानाम इत्य एवम अनुशुश्रुम 4 संवत्सरम उषित्वान्दे निष्क्रम्य च महामुनिः संदधे ऽरधं महीं कृत्स्नां दिवम अर्धं परजापतिः 5 दयावापृथिव्यॊर इत्य एष राजन वेदेषु पथ्यते तयॊः शकलयॊर मध्यमाकाशम अकरॊत परभुः 6 एतस्यापि च संख्यानं वेदवेदाङ्गपारगैः दश कल्पसहस्राणि पादॊनान्य अहर उच्यते रात्रिम एतावतीं चास्य पराहुर अध्यात्मचिन्तकाः 7 सृजत्य अहंकारम ऋषिर भूतं दिव्यात्मकं तथा चतुरश चापरान पुत्रान देहात पूर्वं महान ऋषिः ते वै पितृभ्यः पितरः शरूयन्ते राजसत्तम 8 देवाः पितॄणां च सुता देवैर लॊकाः समावृताः चराचरा नरश्रेष्ठ इत्य एवम अनुशुश्रुम 9 परमेष्ठी तव अहंकारॊ ऽसृजद भूतानि पञ्चधा पृथिवी वायुर आकाशम आपॊ जयॊतिश च पञ्चमम 10 एतस्यापि निशाम आहुस तृतीयम इह कुर्वतः पञ्च कल्पसहस्राणि तावद एवाहर उच्यते 11 शब्दः सपर्शश च रूपं च रसॊ गन्धश च पञ्चमः एते विशेषा राजेन्द्र महाभूतेषु पञ्चसु यैर आविष्टानि भूतानि अहन्य अहनि पार्थिव 12 अन्यॊन्यं सपृहयन्त्य एते अन्यॊन्यस्य हिते रताः अन्यॊन्यम अभिमन्यन्ते अन्यॊन्यस्पर्धिनस तथा 13 ते वध्यमाना अन्यॊन्यं गुणैर हारिभिर अव्ययाः इहैव परिवर्तन्ते तिर्यग्यॊनिप्रवेशिनः 14 तरीणि कल्पसहस्राणि एतेषाम अहर उच्यते रत्रिर एतावती चैव मनसश च नराधिप 15 मनश चरति राजेन्द्र चरितं सर्वम इन्द्रियैः न चेन्द्रियाणि पश्यन्ति मन एवात्र पश्यति 16 चक्षुः पश्यति रूपाणि मनसा तु न चक्षुषा मनसि वयाकुले चक्षुः पश्यन्न अपि न पश्यति तथेन्द्रियाणि सर्वाणि पश्यन्तीत्य अभिचक्षते 17 मनस्य उपरते राजन्न इन्द्रियॊपरमॊ भवेत न चेन्द्रियव्युपरमे मनस्य उपरमॊ भवेत एवं मनः परधानानि इन्द्रियाणि विभावयेत 18 इन्द्रियाणां हि सर्वेषाम ईश्वरं मन उच्यते एतद विशन्ति भूतानि सर्वाणीह महायशः |
1
[yājnavalkya] avyaktasya naraśreṣṭha kālasaṃkhyāṃ nibodha me pañca kalpasahasrāṇi dviguṇāny ahar ucyate 2 rātrir etāvatī cāsya pratibuddho narādhipa sṛjaty oṣadhim evāgre jīvanaṃ sarvadehinām 3 tato brahmāṇam asṛjad dhairaṇyānda samudbhavam sā mūrtiḥ sarvabhūtānām ity evam anuśuśruma 4 saṃvatsaram uṣitvānde niṣkramya ca mahāmuniḥ saṃdadhe 'rdhaṃ mahīṃ kṛtsnāṃ divam ardhaṃ prajāpatiḥ 5 dyāvāpṛthivyor ity eṣa rājan vedeṣu pathyate tayoḥ śakalayor madhyamākāśam akarot prabhuḥ 6 etasyāpi ca saṃkhyānaṃ vedavedāṅgapāragaiḥ daśa kalpasahasrāṇi pādonāny ahar ucyate rātrim etāvatīṃ cāsya prāhur adhyātmacintakāḥ 7 sṛjaty ahaṃkāram ṛṣir bhūtaṃ divyātmakaṃ tathā caturaś cāparān putrān dehāt pūrvaṃ mahān ṛṣiḥ te vai pitṛbhyaḥ pitaraḥ śrūyante rājasattama 8 devāḥ pitṝṇāṃ ca sutā devair lokāḥ samāvṛtāḥ carācarā naraśreṣṭha ity evam anuśuśruma 9 parameṣṭhī tv ahaṃkāro 'sṛjad bhūtāni pañcadhā pṛthivī vāyur ākāśam āpo jyotiś ca pañcamam 10 etasyāpi niśām āhus tṛtīyam iha kurvataḥ pañca kalpasahasrāṇi tāvad evāhar ucyate 11 śabdaḥ sparśaś ca rūpaṃ ca raso gandhaś ca pañcamaḥ ete viśeṣā rājendra mahābhūteṣu pañcasu yair āviṣṭāni bhūtāni ahany ahani pārthiva 12 anyonyaṃ spṛhayanty ete anyonyasya hite ratāḥ anyonyam abhimanyante anyonyaspardhinas tathā 13 te vadhyamānā anyonyaṃ guṇair hāribhir avyayāḥ ihaiva parivartante tiryagyonipraveśinaḥ 14 trīṇi kalpasahasrāṇi eteṣām ahar ucyate ratrir etāvatī caiva manasaś ca narādhipa 15 manaś carati rājendra caritaṃ sarvam indriyaiḥ na cendriyāṇi paśyanti mana evātra paśyati 16 cakṣuḥ paśyati rūpāṇi manasā tu na cakṣuṣā manasi vyākule cakṣuḥ paśyann api na paśyati tathendriyāṇi sarvāṇi paśyantīty abhicakṣate 17 manasy uparate rājann indriyoparamo bhavet na cendriyavyuparame manasy uparamo bhavet evaṃ manaḥ pradhānāni indriyāṇi vibhāvayet 18 indriyāṇāṃ hi sarveṣām īśvaraṃ mana ucyate etad viśanti bhūtāni sarvāṇīha mahāyaśaḥ |
The Mahabharata in Sanskrit
Book 12
Chapter 300
|
1
[या] तत्त्वानां सर्ग संख्या च कालसंख्या तथैव च मया परॊक्तानुपूर्व्येण संहारम अपि मे शृणु 2 यथा संहरते जन्तून ससर्ज च पुनः पुनः अनादिनिधनॊ बरह्मा नित्यश चाक्षर एव च 3 अहः कषयम अथॊ बुद्ध्वा निशि सवप्नमनास तथा चॊदयाम आस भवगान अव्यक्तॊ ऽहं कृतं नरम 4 ततः शतसहस्रांशुर अव्यक्तेनाभिचॊदितः कृत्वा दवादशधात्मानम आदित्यॊ जवलद अग्निवत 5 चतुर्विधं परजा जालं निर्दहत्य आशु तेजसा जराय्व अन्द सवेदजातम उद्भिज्जं च नराधिप 6 एतद उन्मेष मात्रेण विनिष्टं सथानु जङ्गमम कूर्मपृष्ठसमा भूमिर भवत्य अथ समन्ततः 7 जगद दग्ध्वामित बलः केवलं जगतीं ततः अम्भसा बलिना कषिप्रम आपूर्यत समन्ततः 8 ततः कालाग्निम आसाद्य तद अम्भॊ याति संक्षयम विनस्ते ऽमभसि राजेन्द्र जाज्वलीत्य अनलॊ महा 9 तम अप्रमेयॊ ऽतिबलं जवलमानं विभावसुम ऊष्मानं सर्वभूतानां सप्तार्चिषम अथाञ्जसा 10 भक्षयाम आस बलवान वायुर अस्तात्मकॊ बली विचरन्न अमितप्राणस तिर्यग ऊर्ध्वम अधस तथा 11 तम अप्रतिबलं भीमम आकाशं गरसते ऽऽतमना आकाशम अप्य अतिनदन मनॊ गरसति चारिकम 12 मनॊ गरसति सर्वात्मा सॊ ऽहंकारः परजापतिः अहंकारं महान आत्मा भूतभव्य भविष्यवित 13 तम अप्य अनुपमात्मानं विश्वं शम्भः परजापतिः अनिमा लघिमा पराप्तिर ईशानॊ जयॊतिर अव्ययः 14 सर्वतः पानि पादान्तः सर्वतॊ ऽकषिशिरॊमुखः सर्वतः शरुतिमाँल लॊके सर्वम आवृत्य तिष्ठति 15 हृदयं सर्वभूतानां पर्वणॊ ऽङगुष्ठ मात्रकः अनुग्रसत्य अनन्तं हि महात्मा विश्वम ईश्वरः 16 ततः समभवत सर्वम अक्षयाव्ययम अव्रणम भूतभव्य मनुष्याणां सरष्टारम अनघं तथा 17 एषॊ ऽपययस ते राजेन्द्र यथावत परिभासितः अध्यात्मम अधिभूतं च अधिदैवं च शरूयताम |
1
[yā] tattvānāṃ sarga saṃkhyā ca kālasaṃkhyā tathaiva ca mayā proktānupūrvyeṇa saṃhāram api me śṛṇu 2 yathā saṃharate jantūn sasarja ca punaḥ punaḥ anādinidhano brahmā nityaś cākṣara eva ca 3 ahaḥ kṣayam atho buddhvā niśi svapnamanās tathā codayām āsa bhavagān avyakto 'haṃ kṛtaṃ naram 4 tataḥ śatasahasrāṃśur avyaktenābhicoditaḥ kṛtvā dvādaśadhātmānam ādityo jvalad agnivat 5 caturvidhaṃ prajā jālaṃ nirdahaty āśu tejasā jarāyv anda svedajātam udbhijjaṃ ca narādhipa 6 etad unmeṣa mātreṇa viniṣṭaṃ sthānu jaṅgamam kūrmapṛṣṭhasamā bhūmir bhavaty atha samantataḥ 7 jagad dagdhvāmita balaḥ kevalaṃ jagatīṃ tataḥ ambhasā balinā kṣipram āpūryata samantataḥ 8 tataḥ kālāgnim āsādya tad ambho yāti saṃkṣayam vinaste 'mbhasi rājendra jājvalīty analo mahā 9 tam aprameyo 'tibalaṃ jvalamānaṃ vibhāvasum ūṣmānaṃ sarvabhūtānāṃ saptārciṣam athāñjasā 10 bhakṣayām āsa balavān vāyur astātmako balī vicarann amitaprāṇas tiryag ūrdhvam adhas tathā 11 tam apratibalaṃ bhīmam ākāśaṃ grasate ''tmanā ākāśam apy atinadan mano grasati cārikam 12 mano grasati sarvātmā so 'haṃkāraḥ prajāpatiḥ ahaṃkāraṃ mahān ātmā bhūtabhavya bhaviṣyavit 13 tam apy anupamātmānaṃ viśvaṃ śambhaḥ prajāpatiḥ animā laghimā prāptir īśāno jyotir avyayaḥ 14 sarvataḥ pāni pādāntaḥ sarvato 'kṣiśiromukhaḥ sarvataḥ śrutimāṁl loke sarvam āvṛtya tiṣṭhati 15 hṛdayaṃ sarvabhūtānāṃ parvaṇo 'ṅguṣṭha mātrakaḥ anugrasaty anantaṃ hi mahātmā viśvam īśvaraḥ 16 tataḥ samabhavat sarvam akṣayāvyayam avraṇam bhūtabhavya manuṣyāṇāṃ sraṣṭāram anaghaṃ tathā 17 eṣo 'pyayas te rājendra yathāvat paribhāsitaḥ adhyātmam adhibhūtaṃ ca adhidaivaṃ ca śrūyatām |
The Mahabharata in Sanskrit
Book 12
Chapter 301
|
1
[या] पादाव अध्यात्मम इत्य आहुर बराह्मणास तत्त्वदर्शिनः गन्तव्यम अधिभूतं च विष्णुस तत्राधिदैवतम 2 पायुर अध्यात्मम इत्य आहुर यथातत्त्वार्थ दर्शिनः विसर्गम अधिभूतं च मित्रस तत्राधिदैवतम 3 उपस्थॊ ऽधयात्मम इत्य आहुर यथायॊगनिदर्शनम अधिभूतं तथानन्दॊ दैवतं च परजापतिः 4 हस्ताव अध्यात्मम इत्य आहुर यथा सांख्यनिदर्शनम कर्तव्यम अधिभूतं तु इन्द्रस तत्राधिदैवतम 5 वाग अध्यात्मम इति पराहुर यथा शरुतिनिदर्शनम वक्तव्यम अधिभूतं तु वह्निस तत्राधिदैवतम 6 चक्षुर अध्यात्मम इत्य आहुर यथा शरुतिनिदर्शनम रूपम अत्राधिभूतं तु सूर्यस तत्राधिदैवतम 7 शरॊत्रम अध्यात्मम इत्य आहुर यथा शरुतिनिदर्शनम शब्दस तत्राधिभूतं तु दिशस तत्राधिदैवतम 8 जिह्वाम अध्यात्मम इत्य आहुर यथातत्त्वनिदर्शनम रस एवाधिभूतं तु आपस तत्राधिदैवतम 9 घराणम अध्यात्मम इत्य आहुर यथा शरुतिनिदर्शनम गन्ध एवाधिभूतं तु पृथिवी चाधिदैवतम 10 तवग अध्यात्मम इति पराहुस तत्त्वबुद्धिविशारदाः सपर्श एवाधिभूतं तु पवनश चाधिदैवतम 11 मनॊ ऽधयात्मम इति पराहुर यथा शरुतिनिदर्शनम मन्तव्यम अधिभूतं तु चन्द्रमाश चाधिदैवतम 12 अहंकारिकम अध्यात्मम आहुस तत्त्वनिदर्शनम अभिमानॊ ऽधिबूतं तु भवस तत्राधिदैवतम 13 बुद्धिर अध्यात्मम इत्य आहुर यथा वेद निदर्शनम बॊद्धव्यम अधिभूतं तु कषेत्रज्ञॊ ऽतराधिदैवतम 14 एषा ते वयक्ततॊ राजन विभूतिर अनुवर्णिता आदौ मध्ये तथा चान्ते यथातत्त्वेन तत्त्ववित 15 परकृतिर गुणान विकुरुते सवच्छन्देनात्म काम्यया करीदार्थं तु महाराज शतशॊ ऽथ सहस्रशः 16 यथा दीपसहस्राणि दीपान मर्थाय परकुर्वते परकृतिस तथा विकुरुते पुरुषस्य गुणान बहून 17 सत्त्वम आनन्द उद्रेकः परीतिः पराकाश्यम एव च सुखं शुद्धित्वम आरॊग्यं संतॊषः शरद्दधानता 18 अकार्पण्यम असंरम्भः कषमा धृतिर अहिंसता समता सत्यम आनृण्यं मार्दवं हरीर अचापलम 19 शौचम आर्जवम आचारम अलौल्यं हृद्य संभ्रमः इष्टानिष्ट वियॊगानां कृतानाम अविकत्थनम 20 दानेन चानुग्रहणम अस्पृहार्थे परार्थता सर्वभूतदया चैव सत्त्वस्यैते गुणाः समृताः 21 रजॊगुणानां संघातॊ रूपम ऐश्वर्यविग्रहे अत्याशित्वम अकारुण्यं सुखदुःखॊपसेवनम 22 परापवादेषु रतिर विवादानां च सेवनम अहंकारस तव असत्कारश चैन्ता वैरॊपसेवनम 23 परितापॊ ऽपहरणं हरीनाशॊ ऽनार्जवं तथा भेदः परुषता चैव कामक्रॊधौ मदस तथा दर्पॊ दवेषॊ ऽतिवादश च एते परॊक्ता रजॊगुणाः 24 तामसानां तु संघातं परवक्ष्याम्य उपधार्यताम मॊहॊ ऽपरकाशस तामिस्रम अन्धतामिस्र संज्ञितम 25 मरणं चान्धतामिस्रं तामिस्रं करॊध उच्यते तमसॊ लक्षणानीह भक्षाणाम अभिरॊचनम 26 भॊजनानान अपर्याप्तिस तथा पेयेष्व अतृप्तता गन्धवासॊ विहारेषु शयनेष्व आसनेषु च 27 दिवा सवप्ने विवादे च परमादेषु च वै रतिः नृत्यवादित्रगीतानाम अज्ञानाच छरद्दधानता दवेषॊ धर्मविशेषाणाम एते वै तामसा गुणाः |
1
[yā] pādāv adhyātmam ity āhur brāhmaṇās tattvadarśinaḥ gantavyam adhibhūtaṃ ca viṣṇus tatrādhidaivatam 2 pāyur adhyātmam ity āhur yathātattvārtha darśinaḥ visargam adhibhūtaṃ ca mitras tatrādhidaivatam 3 upastho 'dhyātmam ity āhur yathāyoganidarśanam adhibhūtaṃ tathānando daivataṃ ca prajāpatiḥ 4 hastāv adhyātmam ity āhur yathā sāṃkhyanidarśanam kartavyam adhibhūtaṃ tu indras tatrādhidaivatam 5 vāg adhyātmam iti prāhur yathā śrutinidarśanam vaktavyam adhibhūtaṃ tu vahnis tatrādhidaivatam 6 cakṣur adhyātmam ity āhur yathā śrutinidarśanam rūpam atrādhibhūtaṃ tu sūryas tatrādhidaivatam 7 śrotram adhyātmam ity āhur yathā śrutinidarśanam śabdas tatrādhibhūtaṃ tu diśas tatrādhidaivatam 8 jihvām adhyātmam ity āhur yathātattvanidarśanam rasa evādhibhūtaṃ tu āpas tatrādhidaivatam 9 ghrāṇam adhyātmam ity āhur yathā śrutinidarśanam gandha evādhibhūtaṃ tu pṛthivī cādhidaivatam 10 tvag adhyātmam iti prāhus tattvabuddhiviśāradāḥ sparśa evādhibhūtaṃ tu pavanaś cādhidaivatam 11 mano 'dhyātmam iti prāhur yathā śrutinidarśanam mantavyam adhibhūtaṃ tu candramāś cādhidaivatam 12 ahaṃkārikam adhyātmam āhus tattvanidarśanam abhimāno 'dhibūtaṃ tu bhavas tatrādhidaivatam 13 buddhir adhyātmam ity āhur yathā veda nidarśanam boddhavyam adhibhūtaṃ tu kṣetrajño 'trādhidaivatam 14 eṣā te vyaktato rājan vibhūtir anuvarṇitā ādau madhye tathā cānte yathātattvena tattvavit 15 prakṛtir guṇān vikurute svacchandenātma kāmyayā krīdārthaṃ tu mahārāja śataśo 'tha sahasraśaḥ 16 yathā dīpasahasrāṇi dīpān marthāy prakurvate prakṛtis tathā vikurute puruṣasya guṇān bahūn 17 sattvam ānanda udrekaḥ prītiḥ prākāśyam eva ca sukhaṃ śuddhitvam ārogyaṃ saṃtoṣaḥ śraddadhānatā 18 akārpaṇyam asaṃrambhaḥ kṣamā dhṛtir ahiṃsatā samatā satyam ānṛṇyaṃ mārdavaṃ hrīr acāpalam 19 śaucam ārjavam ācāram alaulyaṃ hṛdya saṃbhramaḥ iṣṭāniṣṭa viyogānāṃ kṛtānām avikatthanam 20 dānena cānugrahaṇam aspṛhārthe parārthatā sarvabhūtadayā caiva sattvasyaite guṇāḥ smṛtāḥ 21 rajoguṇānāṃ saṃghāto rūpam aiśvaryavigrahe atyāśitvam akāruṇyaṃ sukhaduḥkhopasevanam 22 parāpavādeṣu ratir vivādānāṃ ca sevanam ahaṃkāras tv asatkāraś caintā vairopasevanam 23 paritāpo 'paharaṇaṃ hrīnāśo 'nārjavaṃ tathā bhedaḥ paruṣatā caiva kāmakrodhau madas tathā darpo dveṣo 'tivādaś ca ete proktā rajoguṇāḥ 24 tāmasānāṃ tu saṃghātaṃ pravakṣyāmy upadhāryatām moho 'prakāśas tāmisram andhatāmisra saṃjñitam 25 maraṇaṃ cāndhatāmisraṃ tāmisraṃ krodha ucyate tamaso lakṣaṇānīha bhakṣāṇām abhirocanam 26 bhojanānān aparyāptis tathā peyeṣv atṛptatā gandhavāso vihāreṣu śayaneṣv āsaneṣu ca 27 divā svapne vivāde ca pramādeṣu ca vai ratiḥ nṛtyavāditragītānām ajñānāc chraddadhānatā dveṣo dharmaviśeṣāṇām ete vai tāmasā guṇāḥ |
The Mahabharata in Sanskrit
Book 12
Chapter 302
|
1
[या] एते परधानस्य गुणास तरयः पुरुषसत्तम कृत्स्नस्य चैव जगतस तिष्ठन्त्य अनपगाः सदा 2 शतधा सहस्रधा चैव तथा शतसहस्रधा कॊतिशश च करॊत्य एष परत्यगात्मानम आत्मना 3 सात्त्विकस्यॊत्तमं सथानं राजसस्येह मध्यमम तामसस्याधमं सथानं पराहुर अध्यात्मचिन्तकाः 4 केलवेनेह पुण्येन गतिम ऊर्ध्वाम अवाप्नुयात पुण्यपापेन अमानुष्यम अधर्मेणाप्य अधॊ गतिम 5 दवन्द्वम एषां तरयाणां तु संनिपातं च तत्त्वतः सत्त्वस्य रजसश चैव तमसश च शृणुष्व मे 6 सत्त्वस्य तु रजॊ दृष्टं रजसश च तमस तथा तमसश च तथा सत्त्वं सत्त्वस्याव्यक्तम एव च 7 अव्यक्तसत्त्वसंयुक्तॊ देवलॊकम अवाप्नुयात रजः सत्त्वसमायुक्तॊ मनुष्येषूपपद्यते 8 रजस तमॊ भयां संयुक्तस तिर्यग्यॊनिषु जायते रजस तामससत्त्वैश च युक्तॊ मानुष्यम आप्नुयात 9 पुण्यपापवियुक्तानां सथानम आहुर मनीसिनाम शास्वतं चाव्ययं चैव अक्षरं चाभयं च यत 10 जञानिनां संभवं शरेष्ठं सथानम अव्रणम अच्युतम अतीन्द्रियम अबीलं च जन्ममृत्युतमॊ नुदम 11 अव्यक्तस्थं परं यत तत पृष्ठस ते ऽहं नराधिप स एष परकृतिष्ठॊ हि तस्थुर इत्य अभिधीयते 12 अचेतनश चैष मतः परकृतिष्ठश च पार्थिव एतेनाधिष्ठितश चैव सृजते संहरत्य अपि 13 [जनक] अनादिनिधनाव एताव उभाव एव महामुने अमूर्तिमन्ताव अचलाव अप्रकम्प्यौ च निर्व्रनौ 14 अग्राह्याव ऋषिशार्दूल कथम एकॊ हय अचेतनः चेतनावांस तथा चैकः कषेत्रज्ञ इति भासितः 15 तवं हि विप्रेन्द्र कार्त्स्न्येन मॊक्षधर्मम उपाससे साकल्यं मॊक्षधर्मस्य शरॊतुम इच्छामि तत्त्वतः 16 अस्तित्वं केवलत्वं च विना भावं तथैव च तथैवॊत्क्रमण सथानं देहिनॊ ऽपि वियुज्यतः 17 कालेन यद्धि पराप्नॊति सथानं तद बरूहि मे दविज सांख्यज्ञानं च तत्त्वेन पृथ यॊगं तथैव च 18 अरिष्टानि च तत्त्वेन वक्तुम अर्हसि सत्तम विदितं सर्वम एतत ते पानाव आमलकं यथा |
1
[yā] ete pradhānasya guṇās trayaḥ puruṣasattama kṛtsnasya caiva jagatas tiṣṭhanty anapagāḥ sadā 2 śatadhā sahasradhā caiva tathā śatasahasradhā kotiśaś ca karoty eṣa pratyagātmānam ātmanā 3 sāttvikasyottamaṃ sthānaṃ rājasasyeha madhyamam tāmasasyādhamaṃ sthānaṃ prāhur adhyātmacintakāḥ 4 kelaveneha puṇyena gatim ūrdhvām avāpnuyāt puṇyapāpen amānuṣyam adharmeṇāpy adho gatim 5 dvandvam eṣāṃ trayāṇāṃ tu saṃnipātaṃ ca tattvataḥ sattvasya rajasaś caiva tamasaś ca śṛṇuṣva me 6 sattvasya tu rajo dṛṣṭaṃ rajasaś ca tamas tathā tamasaś ca tathā sattvaṃ sattvasyāvyaktam eva ca 7 avyaktasattvasaṃyukto devalokam avāpnuyāt rajaḥ sattvasamāyukto manuṣyeṣūpapadyate 8 rajas tamo bhyāṃ saṃyuktas tiryagyoniṣu jāyate rajas tāmasasattvaiś ca yukto mānuṣyam āpnuyāt 9 puṇyapāpaviyuktānāṃ sthānam āhur manīsinām śāsvataṃ cāvyayaṃ caiva akṣaraṃ cābhayaṃ ca yat 10 jñānināṃ saṃbhavaṃ śreṣṭhaṃ sthānam avraṇam acyutam atīndriyam abīlaṃ ca janmamṛtyutamo nudam 11 avyaktasthaṃ paraṃ yat tat pṛṣṭhas te 'haṃ narādhipa sa eṣa prakṛtiṣṭho hi tasthur ity abhidhīyate 12 acetanaś caiṣa mataḥ prakṛtiṣṭhaś ca pārthiva etenādhiṣṭhitaś caiva sṛjate saṃharaty api 13 [janaka] anādinidhanāv etāv ubhāv eva mahāmune amūrtimantāv acalāv aprakampyau ca nirvranau 14 agrāhyāv ṛṣiśārdūla katham eko hy acetanaḥ cetanāvāṃs tathā caikaḥ kṣetrajña iti bhāsitaḥ 15 tvaṃ hi viprendra kārtsnyena mokṣadharmam upāsase sākalyaṃ mokṣadharmasya śrotum icchāmi tattvataḥ 16 astitvaṃ kevalatvaṃ ca vinā bhāvaṃ tathaiva ca tathaivotkramaṇa sthānaṃ dehino 'pi viyujyataḥ 17 kālena yaddhi prāpnoti sthānaṃ tad brūhi me dvija sāṃkhyajñānaṃ ca tattvena pṛtha yogaṃ tathaiva ca 18 ariṣṭāni ca tattvena vaktum arhasi sattama viditaṃ sarvam etat te pānāv āmalakaṃ yathā |
The Mahabharata in Sanskrit
Book 12
Chapter 303
|
1
[या] न शक्यॊ निर्गुणस तात गुणी कर्तुं विशां पते गुणवांश चाप्य अगुणवान यथातत्त्वं निबॊध मे 2 गुणैर हि गुणवान एव निर्गुणश चागुणस तथा पराहुर एवं महात्मानॊ मुनयस तत्त्वदर्शिनः 3 गुणस्वभावस तव अव्यक्तॊ गुणान एवाभिवर्तते उपयुङ्क्ते च तान एव स चैवाज्ञः सवभावतः 4 अव्यक्तस तु न जानीते पुरुषॊ जञः सवभावतः न मत्तः परम अस्तीति नित्यम एवाभिमन्यते 5 अनेन कारणेनैतद अव्यक्तं सयाद अचेतनम नित्यत्वाद अक्षरत्वाच च कषराणां तत्त्वतॊ ऽनयथा 6 यदाज्ञानेन कुर्वीत गुणसर्गं पुनः पुनः यदात्मानं न जानीते तदाव्यक्तम इहॊच्यते 7 कर्तृत्वाच चापि तत्त्वानां तत्त्वधर्मी तथॊच्यते कर्तृत्वाच चैव यॊनीनां यॊनिधर्मा तथॊच्यते 8 कर्तृत्वात परकृतीनां तु तथा परकृतिधर्मिता कर्तृत्वाच चापि बीजानां बीजधर्मी तथॊच्यते 9 गुणानां परसवत्वाच च तथा परसव धर्मवान कर्तृत्वात परलयानां च तथा परलय धर्मिता 10 बीलत्वात परकृतित्वाच च परलयत्वात तथैव च उपेक्षकत्वाद अन्यत्वाद अभिमानाच च केवलम 11 मन्यन्ते यतयः शुद्धा अध्यात्मविगतज्वराः अनित्यं नित्यम अव्यक्तम एवम एतद धि शुश्रुम 12 अव्यक्तैकत्वम इत्य आहुर नानात्वं पुरुषस तथा सर्वभूतदयावन्तः केवलं जञानम आस्थिताः 13 अन्यः स पुरुषॊ ऽवयक्तस तव अध्रुवॊ धरुवसंज्ञिकः यथा मुञ्ज इषीकायास तथैवैतद धि जायते 14 अन्यं च मशकं विद्याद अन्यच चॊदुम्बरं तथा न चॊदुम्बर संयॊगैर मशकस तत्र लिप्यते 15 अन्य एव तथा मत्स्यस तथान्यद उदकं समृतम न चॊदकस्य सपर्शेन मत्स्यॊ लिप्यति सर्वशः 16 अन्यॊ हय अग्निर उखाप्य अन्या नित्यम एवम अवैहि भॊः न चॊपलिप्यते सॊ ऽगनिर उखा संस्पर्शनेन वै 17 पुष्करं तव अन्यद एवात्र तथान्यद उदकं समृतम न चॊदकस्य सपर्शेन लिप्यते तत्र पुष्करम 18 एतेषां सह संवासं विवासं चैव नित्यशः यथातथैनं पश्यन्ति न नित्यं पराकृता जनाः 19 ये तव अन्यथैव पश्यन्ति न सम्यक तेषु दर्शनम ते वयक्तं निरयं घॊरं परविशन्ति पुनः पुनः 20 सांख्यदर्शनम एतत ते परिसंख्यातम उत्तमम एवं हि परिसंख्याय सांख्याः केवलतां गताः 21 ये तव अन्ये तत्त्वकुशलास तेषाम एतन निदर्शनम अतः परं परवक्ष्यामि यॊगानाम अपि दर्शनम |
1
[yā] na śakyo nirguṇas tāta guṇī kartuṃ viśāṃ pate guṇavāṃś cāpy aguṇavān yathātattvaṃ nibodha me 2 guṇair hi guṇavān eva nirguṇaś cāguṇas tathā prāhur evaṃ mahātmāno munayas tattvadarśinaḥ 3 guṇasvabhāvas tv avyakto guṇān evābhivartate upayuṅkte ca tān eva sa caivājñaḥ svabhāvataḥ 4 avyaktas tu na jānīte puruṣo jñaḥ svabhāvataḥ na mattaḥ param astīti nityam evābhimanyate 5 anena kāraṇenaitad avyaktaṃ syād acetanam nityatvād akṣaratvāc ca kṣarāṇāṃ tattvato 'nyathā 6 yadājñānena kurvīta guṇasargaṃ punaḥ punaḥ yadātmānaṃ na jānīte tadāvyaktam ihocyate 7 kartṛtvāc cāpi tattvānāṃ tattvadharmī tathocyate kartṛtvāc caiva yonīnāṃ yonidharmā tathocyate 8 kartṛtvāt prakṛtīnāṃ tu tathā prakṛtidharmitā kartṛtvāc cāpi bījānāṃ bījadharmī tathocyate 9 guṇānāṃ prasavatvāc ca tathā prasava dharmavān kartṛtvāt pralayānāṃ ca tathā pralaya dharmitā 10 bīlatvāt prakṛtitvāc ca pralayatvāt tathaiva ca upekṣakatvād anyatvād abhimānāc ca kevalam 11 manyante yatayaḥ śuddhā adhyātmavigatajvarāḥ anityaṃ nityam avyaktam evam etad dhi śuśruma 12 avyaktaikatvam ity āhur nānātvaṃ puruṣas tathā sarvabhūtadayāvantaḥ kevalaṃ jñānam āsthitāḥ 13 anyaḥ sa puruṣo 'vyaktas tv adhruvo dhruvasaṃjñikaḥ yathā muñja iṣīkāyās tathaivaitad dhi jāyate 14 anyaṃ ca maśakaṃ vidyād anyac codumbaraṃ tathā na codumbara saṃyogair maśakas tatra lipyate 15 anya eva tathā matsyas tathānyad udakaṃ smṛtam na codakasya sparśena matsyo lipyati sarvaśaḥ 16 anyo hy agnir ukhāpy anyā nityam evam avaihi bhoḥ na copalipyate so 'gnir ukhā saṃsparśanena vai 17 puṣkaraṃ tv anyad evātra tathānyad udakaṃ smṛtam na codakasya sparśena lipyate tatra puṣkaram 18 eteṣāṃ saha saṃvāsaṃ vivāsaṃ caiva nityaśaḥ yathātathainaṃ paśyanti na nityaṃ prākṛtā janāḥ 19 ye tv anyathaiva paśyanti na samyak teṣu darśanam te vyaktaṃ nirayaṃ ghoraṃ praviśanti punaḥ punaḥ 20 sāṃkhyadarśanam etat te parisaṃkhyātam uttamam evaṃ hi parisaṃkhyāya sāṃkhyāḥ kevalatāṃ gatāḥ 21 ye tv anye tattvakuśalās teṣām etan nidarśanam ataḥ paraṃ pravakṣyāmi yogānām api darśanam |
The Mahabharata in Sanskrit
Book 12
Chapter 304
|
1
[या] सांख्यज्ञानं मया परॊक्तं यॊगज्ञानं निबॊध मे यथा शरुतं यथादृष्टं तत्त्वेन नृपसत्तम 2 नास्ति सांक्य समं जञानं नास्ति यॊगसमं बलम ताव उभाव एकचर्यौ तु उभाव अनिधनौ समृतौ 3 पृथक पृथक तु पश्यन्ति ये ऽलपबुद्धिरता नराः वयं तु राजन पश्याम एकम एव तु निश्चयात 4 यद एव यॊगाः पश्यन्ति तत सांख्यैर अपि दृश्यते एकं सांक्यं च यॊगं च यः पश्यति स तत्त्ववित 5 रुद्र परधानान अपरान विद्धि यॊगान परंतप तेनैव चाथ देहेन विचरन्ति दिशॊ दश 6 यावद धि परलयस तात सूक्ष्मेणास्त गुणेन वै यॊगेन लॊकान विचरन सुखं संन्यस्य चानघ 7 वेदेषु चास्त गुणितं यॊगम आहुर मनीषिणः सूक्ष्मम अस्तगुणं पराहुर नेतरं नृपसत्तम 8 दविगुणं यॊगकृत्यं तु यॊगानां पराहुर उत्तमम सगुणं निर्गुणं चैव यथाशास्त्रनिदर्शनम 9 धारणा चैव मनसः पराणायामश च पार्थिव पराणायामॊ हि सगुणॊ निर्गुणं धारणं मनः 10 यत्र दृश्येत मुञ्चन वै पराणान मैथिल सत्तम वाताधिक्यं भवत्य एव तस्माद धि न समाचरेत 11 निशायाः परथमे यामे चॊदना दवादश समृताः मध्ये सुप्त्वा परे यामे दवादशैव तु चॊदनाः 12 तद एवम उपशान्तेन दान्तेनैकान्त शीलना आत्मारामेण बुद्धेन यॊक्तव्यॊ ऽऽतमा न संशयः 13 पञ्चानाम इन्द्रियाणां तु दॊषान आक्षिप्य पञ्चधा शब्दं सपर्शं तथारूपं रसं गन्धं तथैव च 14 परतिभाम अपवर्गं च परतिसंहृत्य मैथिल इन्द्रियग्रामम अखिलं मनस्य अभिनिवेश्य ह 15 मनस तथैवाहंकारे परतिष्ठाप्य नराधिप अहंकारं तथा बुद्धौ बुद्धिं च परकृताव अपि 16 एवं हि परिसंख्याय ततॊ धयायेत केवलम विरजस्क मलं नित्यम अनन्तं शुद्धम अव्रणम 17 तस्थुषं पुरुषं सत्त्वम अभेद्यम अजरामरम शाश्वतं चाव्ययं चैव ईशानं बरह्म चाव्ययम 18 युक्तस्य तु महाराज लक्षणान्य उपधारयेत लक्षणं तु परसादस्य यथा तृप्तः सुखं सवपेत 19 निवाते तु यथा दीपॊ जवलेत सनेहसमन्वितः निश्चलॊर्ध्व शिखस तद्वद युक्तम आहुर मनीषिणः 20 पाषाण इव मेघॊत्थैर यथा बिन्दुभिर आहतः नालं चालयितुं शक्यस तथायुक्तस्य लक्षणम 21 शङ्खदुन्दुभिनिर्घॊषैर विविधैर गीतवादितैः करियमाणैर न कम्पेत युक्तस्यैतन निदर्शनम 22 तैलपात्रं यथा पूर्णं कराभ्यां गृह्य पूरुषः सॊपानम आरुहेद भीतस तर्ज्यमानॊ ऽसि पानिभिः 23 संयतात्मा भयात तेषां न पात्राद बिन्दुम उत्सृजेत तथैवॊत्तरमाणस्य एकाग्रमनसस तथा 24 सथिरत्वाद इन्द्रियाणां तु निश्चलत्वात तथैव च एवं युक्तस्य तु मुनेर लक्षणान्य उपधारयेत 25 स युक्तः पश्यति बरह्म यत तत्परमम अव्ययम महतस तमसॊ मध्ये सथितं जवलनसंनिभम 26 एतेन केवलं याति तयक्त्वा देहम असाक्षिकम कालेन महता राजञ शरुतिर एषा सनातनी 27 एतद धि यॊगं यॊगानां किम अन्यद यॊगलक्षणम विज्ञाय तद धि मन्यन्ते कृतकृत्या मनीषिणः |
1
[yā] sāṃkhyajñānaṃ mayā proktaṃ yogajñānaṃ nibodha me yathā śrutaṃ yathādṛṣṭaṃ tattvena nṛpasattama 2 nāsti sāṃkya samaṃ jñānaṃ nāsti yogasamaṃ balam tāv ubhāv ekacaryau tu ubhāv anidhanau smṛtau 3 pṛthak pṛthak tu paśyanti ye 'lpabuddhiratā narāḥ vayaṃ tu rājan paśyāma ekam eva tu niścayāt 4 yad eva yogāḥ paśyanti tat sāṃkhyair api dṛśyate ekaṃ sāṃkyaṃ ca yogaṃ ca yaḥ paśyati sa tattvavit 5 rudra pradhānān aparān viddhi yogān paraṃtapa tenaiva cātha dehena vicaranti diśo daśa 6 yāvad dhi pralayas tāta sūkṣmeṇāsta guṇena vai yogena lokān vicaran sukhaṃ saṃnyasya cānagha 7 vedeṣu cāsta guṇitaṃ yogam āhur manīṣiṇaḥ sūkṣmam astaguṇaṃ prāhur netaraṃ nṛpasattama 8 dviguṇaṃ yogakṛtyaṃ tu yogānāṃ prāhur uttamam saguṇaṃ nirguṇaṃ caiva yathāśāstranidarśanam 9 dhāraṇā caiva manasaḥ prāṇāyāmaś ca pārthiva prāṇāyāmo hi saguṇo nirguṇaṃ dhāraṇaṃ manaḥ 10 yatra dṛśyeta muñcan vai prāṇān maithila sattama vātādhikyaṃ bhavaty eva tasmād dhi na samācaret 11 niśāyāḥ prathame yāme codanā dvādaśa smṛtāḥ madhye suptvā pare yāme dvādaśaiva tu codanāḥ 12 tad evam upaśāntena dāntenaikānta śīlanā ātmārāmeṇa buddhena yoktavyo ''tmā na saṃśayaḥ 13 pañcānām indriyāṇāṃ tu doṣān ākṣipya pañcadhā śabdaṃ sparśaṃ tathārūpaṃ rasaṃ gandhaṃ tathaiva ca 14 pratibhām apavargaṃ ca pratisaṃhṛtya maithila indriyagrāmam akhilaṃ manasy abhiniveśya ha 15 manas tathaivāhaṃkāre pratiṣṭhāpya narādhipa ahaṃkāraṃ tathā buddhau buddhiṃ ca prakṛtāv api 16 evaṃ hi parisaṃkhyāya tato dhyāyeta kevalam virajaska malaṃ nityam anantaṃ śuddham avraṇam 17 tasthuṣaṃ puruṣaṃ sattvam abhedyam ajarāmaram śāśvataṃ cāvyayaṃ caiva īśānaṃ brahma cāvyayam 18 yuktasya tu mahārāja lakṣaṇāny upadhārayet lakṣaṇaṃ tu prasādasya yathā tṛptaḥ sukhaṃ svapet 19 nivāte tu yathā dīpo jvalet snehasamanvitaḥ niścalordhva śikhas tadvad yuktam āhur manīṣiṇaḥ 20 pāṣāṇa iva meghotthair yathā bindubhir āhataḥ nālaṃ cālayituṃ śakyas tathāyuktasya lakṣaṇam 21 śaṅkhadundubhinirghoṣair vividhair gītavāditaiḥ kriyamāṇair na kampeta yuktasyaitan nidarśanam 22 tailapātraṃ yathā pūrṇaṃ karābhyāṃ gṛhya pūruṣaḥ sopānam āruhed bhītas tarjyamāno 'si pānibhiḥ 23 saṃyatātmā bhayāt teṣāṃ na pātrād bindum utsṛjet tathaivottaramāṇasya ekāgramanasas tathā 24 sthiratvād indriyāṇāṃ tu niścalatvāt tathaiva ca evaṃ yuktasya tu muner lakṣaṇāny upadhārayet 25 sa yuktaḥ paśyati brahma yat tatparamam avyayam mahatas tamaso madhye sthitaṃ jvalanasaṃnibham 26 etena kevalaṃ yāti tyaktvā deham asākṣikam kālena mahatā rājañ śrutir eṣā sanātanī 27 etad dhi yogaṃ yogānāṃ kim anyad yogalakṣaṇam vijñāya tad dhi manyante kṛtakṛtyā manīṣiṇaḥ |
The Mahabharata in Sanskrit
Book 12
Chapter 305
|
1
[या] तथैवॊत्क्रममाणं तु शृणुष्वावहितॊ नृप पद्भ्याम उत्क्रममाणस्य वैष्नवं सथानम उच्यते 2 जङ्घाभ्यां तु वसून देवान आप्नुयाद इति नः शरुतम जानुभ्यां च महाभागान देवान साध्यान अवाप्नुयात 3 पायुनॊत्क्रममाणस तु मैत्रं सथानम अवाप्नुयात पृथिवीं जघनेनाथ ऊरुभ्यां तु परजापतिम 4 पार्श्वाभ्यां मरुतॊ देवान नासाभ्याम इन्दुम एव च बाहुभ्याम इन्द्रम इत्य आहुर उरसा रुद्रम एव च 5 गरीवायास तम ऋषिश्रेष्ठं नरम आप्नॊत्य अनुत्तमम विश्वे देवान मुखेनाथ दिशः शरॊत्रेण चाप्नुयात 6 घराणेन गन्धवहनं नेत्राभ्यां सूर्यम एव च भरूभ्यां चैवाश्विनौ देवौ ललातेन पितॄन अथ 7 बरह्माणम आप्नॊति विभुं मूर्ध्ना देवाग्रजं तथा एतान्य उत्क्रमण सथानान्य उक्तानि मिथिलेश्वर 8 अरिष्टानि तु वक्ष्यामि विहितानि मनीसिभिः संवत्सरवियॊगस्य संभवेयुः शरीरिणः 9 यॊ ऽरुन्धतीं न पश्येत दृष्टपूर्वां कदा चन तथैव धरुवम इत्य आहुः पूर्णेन्दुं दीपम एव च खण्डाभासं दक्षिणतस ते ऽपि संवत्सरायुषः 10 परचक्षुषि चात्मानं ये न पश्यन्ति पार्थिव आत्मछाया कृती भूतं ते ऽपि संवत्सरायुषः 11 अतिद्युतिर अतिप्रज्ञा अप्रज्ञा चाद्युतिस तथा परकृतेर विक्रियापत्तिः सॊ मासान मृत्युलक्षणम 12 दैवतान्य अवजानाति बराह्मणैश च विरुध्यते कृष्ण शयाव छवि छायः सॊ मासान मृत्युलक्षणम 13 शीर्णनाभि यथा चक्रं छिद्रं सॊमं परपश्यति तथैव च सहस्रांशुं सप्तरात्रेण मृत्युभाज 14 शवगन्धम उपाघ्राति सुरभिं पराप्य यॊ नरः देवतायतनस्थस तु सॊ रात्रेण स मृत्युभाज 15 कर्णनासावनमनं दन्तदृष्टिविरागिता संज्ञा लॊपॊ निरूस्मत्वं सद्यॊ मृत्युनिदर्शनम 16 अकस्माच च सरवेद्यस्य वामम अक्षिनराधिप मूर्धतश चॊत्पतेद धूमः सद्यॊ मृत्युनिदर्शनम 17 एतावन्ति तव अरिष्टानि विदित्वा मानवॊ ऽऽतमवान निशि चाहनि चात्मानं यॊजयेत परमात्मनि 18 परतीक्षमाणस तत कालं यत कालं परति तद भवेत अथास्य नेष्टं मरणं सथातुम इच्छेद इमां करियाम 19 सर्वगन्धान रसांश चैव धारयेत समाहितः तथा हि मृत्युं जयति तत्परेणान्तर आत्मना 20 ससांख्य धारणं चैव विदित्वा मनुजर्षभ जयेच च मृत्युं यॊगेन तत्परेणान्तर आत्मना 21 गच्छेत पराप्याक्षयं कृत्स्नम अजन्म शिवम अव्ययम शाश्वतं सथानम अचलं दुष्प्रापम अकृतात्मभिः |
1
[yā] tathaivotkramamāṇaṃ tu śṛṇuṣvāvahito nṛpa padbhyām utkramamāṇasya vaiṣnavaṃ sthānam ucyate 2 jaṅghābhyāṃ tu vasūn devān āpnuyād iti naḥ śrutam jānubhyāṃ ca mahābhāgān devān sādhyān avāpnuyāt 3 pāyunotkramamāṇas tu maitraṃ sthānam avāpnuyāt pṛthivīṃ jaghanenātha ūrubhyāṃ tu prajāpatim 4 pārśvābhyāṃ maruto devān nāsābhyām indum eva ca bāhubhyām indram ity āhur urasā rudram eva ca 5 grīvāyās tam ṛṣiśreṣṭhaṃ naram āpnoty anuttamam viśve devān mukhenātha diśaḥ śrotreṇa cāpnuyāt 6 ghrāṇena gandhavahanaṃ netrābhyāṃ sūryam eva ca bhrūbhyāṃ caivāśvinau devau lalātena pitṝn atha 7 brahmāṇam āpnoti vibhuṃ mūrdhnā devāgrajaṃ tathā etāny utkramaṇa sthānāny uktāni mithileśvara 8 ariṣṭāni tu vakṣyāmi vihitāni manīsibhiḥ saṃvatsaraviyogasya saṃbhaveyuḥ śarīriṇaḥ 9 yo 'rundhatīṃ na paśyeta dṛṣṭapūrvāṃ kadā cana tathaiva dhruvam ity āhuḥ pūrṇenduṃ dīpam eva ca khaṇḍābhāsaṃ dakṣiṇatas te 'pi saṃvatsarāyuṣaḥ 10 paracakṣuṣi cātmānaṃ ye na paśyanti pārthiva ātmachāyā kṛtī bhūtaṃ te 'pi saṃvatsarāyuṣaḥ 11 atidyutir atiprajñā aprajñā cādyutis tathā prakṛter vikriyāpattiḥ so māsān mṛtyulakṣaṇam 12 daivatāny avajānāti brāhmaṇaiś ca virudhyate kṛṣṇa śyāva chavi chāyaḥ so māsān mṛtyulakṣaṇam 13 śīrṇanābhi yathā cakraṃ chidraṃ somaṃ prapaśyati tathaiva ca sahasrāṃśuṃ saptarātreṇa mṛtyubhāj 14 śavagandham upāghrāti surabhiṃ prāpya yo naraḥ devatāyatanasthas tu so rātreṇa sa mṛtyubhāj 15 karṇanāsāvanamanaṃ dantadṛṣṭivirāgitā saṃjñā lopo nirūsmatvaṃ sadyo mṛtyunidarśanam 16 akasmāc ca sravedyasya vāmam akṣinarādhipa mūrdhataś cotpated dhūmaḥ sadyo mṛtyunidarśanam 17 etāvanti tv ariṣṭāni viditvā mānavo ''tmavān niśi cāhani cātmānaṃ yojayet paramātmani 18 pratīkṣamāṇas tat kālaṃ yat kālaṃ prati tad bhavet athāsya neṣṭaṃ maraṇaṃ sthātum icched imāṃ kriyām 19 sarvagandhān rasāṃś caiva dhārayeta samāhitaḥ tathā hi mṛtyuṃ jayati tatpareṇāntar ātmanā 20 sasāṃkhya dhāraṇaṃ caiva viditvā manujarṣabha jayec ca mṛtyuṃ yogena tatpareṇāntar ātmanā 21 gacchet prāpyākṣayaṃ kṛtsnam ajanma śivam avyayam śāśvataṃ sthānam acalaṃ duṣprāpam akṛtātmabhiḥ |
The Mahabharata in Sanskrit
Book 12
Chapter 306
|
1
[या] अव्यक्तस्थं परं यत तत पृष्टस ते ऽहं नराधिप परं गुह्यम इमं परश्नं शृणुष्वावहितॊ नृप 2 यथार्षेणेह विधिना चरतावमतेन ह मयादित्याद अवाप्तानि यजूंसि मिथिलाधिप 3 महता तपसा देवस तपिष्ठः सेवितॊ मया परीतेन चाहं विभुना सूर्येणॊक्तस तदानघ 4 वरं वृणीष्व विप्रर्षे यद इष्टं ते सुदुर्लभम तत ते दास्यामि परीतात्मा मत्प्रसादॊ हि दुर्लभः 5 ततः परनम्य शिरसा मयॊक्तस तपतां वरः यजूंसि नॊपयुक्तानि कषिप्रम इच्छामि वेदितुम 6 ततॊ मां भगवान आह वितरिष्यामि ते दविज सरस्वतीह वाग भूता शरीरं ते परवेक्ष्यति 7 ततॊ माम आह भगवान आस्यं सवं विवृतं कुरु विवृतं च ततॊ मे ऽऽसयं परविष्टा च सरस्वती 8 ततॊ विदह्यमानॊ ऽहं परविष्टॊ ऽमभस तदानघ अविज्ञानाद अमर्षाच च भास्करस्य महात्मनः 9 ततॊ विदह्यमानं माम उवाच भगवान रविः मुहूर्तं सह्यतां दाहस ततः शीती भविष्यति 10 शीती भूतं च मां दृष्ट्वा भगवान आह भास्करः परतिष्ठास्यति ते वेदः सॊत्तरः सखिलॊ दविज 11 कृत्स्नं शतपथं चैव परणेष्यसि दविजर्षभ तस्यान्ते चापुनर्भावे बुद्धिस तव भविष्यति 12 पराप्स्यसे च यद इष्टं तत सांक्य यॊगेप्सितं पदम एतावद उक्त्वा भगवान अस्तम एवाभ्यवर्तत 13 ततॊ ऽनुव्याहृतं शरुत्वा गते देवे विभावसौ गृहम आगत्य संहृष्टॊ ऽचिन्तयं वै सरस्वतीम 14 ततः परवृत्तातिशुभा सवरव्यञ्जन भूषिता ओंकारम आदितः कृत्वा मम देवी सरस्वती 15 ततॊ ऽहम अर्घ्यं विधिवत सरस्वत्यै नयवेदयम तपतां च वरिष्ठाय निषण्णस तत्परायनः 16 ततः शतपथं कृत्स्नं सहरस्य ससंग्रहम चक्रे सपरिशेषं च हर्षेण परमेण ह 17 कृत्वा चाध्ययनं तेषां शिष्याणां शतम उत्तमम विप्रियार्थं सशिष्यस्य मातुलल्स्य महात्मनः 18 ततः सशिष्येण मया सूर्येणेव गभस्तिभिः वयाप्तॊ यज्ञॊ महाराज पितुस तव महात्मनः 19 मिषतॊ देवलस्यापि ततॊ ऽरधं हृतवान अहम सववेद दक्षिणायाथ विमर्दे मातुलेन ह 20 सुमन्तु नाथ पैलेन तथ जैमिनिना च वै पित्रा ते मुनिभिश चैव ततॊ ऽहम अनुमानितः 21 दश पञ्च च पराप्तानि यजूंस्य अर्कान मयानघ तथैव लॊमहर्षाच च पुराणम अवधारितम 22 बीजम एतत पुरस्कृत्य देवीं चैव सरस्वतीम सूर्यस्य चानुभावेन परवृत्तॊ ऽहं नराधिप 23 कर्तुं शतपथं वेदम अपूर्वं कारितं च मे यथाभिलसितं मार्थं तथा तच चॊपपादितम 24 शिष्याणाम अखिलं कृत्स्नम अनुज्ञातं ससंग्रहम सर्वे च शिष्याः शुचयॊ गताः परमहर्षिताः 25 शाखाः पञ्चदशेमास तु विद्या भास्करदर्शिताः परतिष्ठाप्य यथाकामं वेद्यं तद अनुचिन्तयम 26 किम अत्र बरह्मण्यम ऋतं किं च वेद्यम अनुत्तमम चिन्तये तत्र चागत्य गन्धर्वॊ माम अपृच्छत 27 विश्वावसुस ततॊ राजन वेदान्तज्ञानकॊविदः चतुर्विंशतिकान परश्नान पृष्ट्वा वेदस्य पार्थिव पञ्चविंशतिमं परश्नं पप्रच्छान्विक्षिकीं तथा 28 विश्वा विश्वं तथाश्वाश्वं मित्रं वरुणम एव च जञानं जञेयं तथाज्ञॊ ऽजञः कस तपा अपता तथा सूर्यादः सूर्य इति च विद्याविद्ये तथैव च 29 वेद्यावेद्यं तथा राजन्न अचलं चलम एव च अपूर्वम अक्षयं कषय्यम एतत परश्नम अनुत्तमम 30 अथॊक्तश च मया राजन राजा गन्धर्वसत्तमः पृष्टवान अनुपूर्वेण परश्नम उत्तमम अर्थवत 31 मुहूर्तं मृष्यतां तावद यावद एनं विचिन्तये बाधम इत्य एव कृत्वा स तूस्नीं गन्धर्व आस्थितः 32 ततॊ ऽनवचिन्तयम अहं भूयॊ देवीं सरस्वतीम मनसा स च मे परश्नॊ दध्नॊ घृतम इवॊद्धृतम 33 तत्रॊपनिषदं चैव परिशेषं च पार्थिव मघ्नामि मनसा तात दृष्ट्वा चान्वीक्षिकीं पराम 34 चतुर्थी राजशार्दूल विद्यैषा साम्परायिकी उदीरिता मया तुभ्यं पञ्चविंशे ऽधि धिष्ठिता 35 अथॊतस तु मया राजन राजा विश्वावसुस तदा शरूयतां यद भवान अस्मान परश्नं संपृष्टवान इह 36 विश्वा विश्वेति यद इदं गन्धर्वेन्द्रानुपृच्छसि विश्वाव्यक्तं परं विद्याद भूतभव्य भयंकरम 37 तरिगुणं गुणकर्तृत्वाद अशिश्वॊ निष्कलस तथा अश्वस तथैव मिथुनम एवम एवानुदृश्यते 38 अव्यक्तं परकृतिं पराहुः पुरुषेति च निर्गुणम तथैव मित्रं पुरुषं वरुणं परकृतिं तथा 39 जञानं तु परकृतिं पराहुर जञेयं निष्कलम एव च अज्ञश च जञश च पुरुषस तस्मान निष्कल उच्यते 40 कस तपा अतपाः परॊक्ताः कॊ ऽसौ पुरुष उच्यते तपाः परकृतिर इत्य आहुर अतपा निष्कलः समृतः 41 तथैवावेद्यम अव्यक्तं वेधः पुरुष उच्यते चलाचलम इति परॊक्तं तवया तद अपि मे शृणु 42 चलां तु परकृतिं पराहुः कारणं कषेप सर्गयॊः अक्षेप सर्गयॊः कर्ता निश्चलः पुरुषः समृतः 43 अजाव उभाव अप्रजनुचाक्षयौ चाप्य उभाव अपि अजौनित्याव उभौ पराहुर अध्यात्मगतिनिश्चयाः 44 अक्षयत्वात परजनने अजम अत्राहुर अव्ययम अक्षयं पुरुषं पराहुः कषयॊ हय अस्य न विद्यते 45 गुणक्षयत्वात परकृतिः कर्तृत्वाद अक्षयं बुधाः एषा ते ऽऽनवीक्षिकी विद्या चतुर्थी साम्परायिकी 46 विद्यॊपेतं धनं कृत्वा कर्मणा नित्यकर्मणि एकान्तदर्शना वेदाः सर्वे विश्वावसॊ समृताः 47 जायन्ते च मरियन्ते च यस्मिन्न एते यतश चयुताः वेदार्थं ये न जानन्ति वेद्यं गन्धर्वसत्तम 48 साङ्गॊपाङ्गान अपि यदि पञ्च वेदान अधीयते वेद वेद्यं न जानीते वेद भारवहॊ हि सः 49 यॊ घृतार्थी खरी कषीरं मथेद गन्धर्वसत्तम विष्ठां तत्रानुपश्येत न मन्दं नापि वा घृतम 50 तथा वेद्यम अवेद्यं च वेद विद्यॊ न विन्दति स केवलं मूढ मतिर जञानभार वहः समृतः 51 दरष्टव्यौ नित्यम एवैतौ तत्परेणान्तर आत्मना यथास्य जन्म निधने न भवेतां पुनः पुनः 52 अजस्रं जन्म निधनं चिन्तयित्वा तरयीम इमाम परित्यज्य कषयम इह अक्षयं धर्मम आस्थितः 53 यदा तु पश्यते ऽतयन्तम अहन्य अहनि काश्यप तदा स केवली भूतः सद्विंसम अनुपश्यति 54 अन्यश च शश्वद अव्यक्तस तथान्यः पञ्चविंशकः तस्य दवाव अनुपश्येत तम एकम इति साधवः 55 तेनैतन नाभिजानन्ति पञ्चविंशकम अच्युतम जन्ममृत्युभयाद यॊगाः सांख्याश च परमैषिणः 56 [विष्वावसु] पञ्चविंशं यद एतत ते परॊक्तं बराह्मणसत्तम तथा तन न तथा वेति तद भवान वक्तुम अर्हति 57 जैगीसव्यस्यासितस्य देवलस्य च मे शरुतम पराशरस्य विप्रर्षेर वार्षगण्यस्य धीमतः 58 भिक्षॊः पञ्चशिखस्याथ कपिलस्य शुकस्य च गौतमस्यार्ष्टिषेणस्य गर्गस्य च महात्मनः 59 नारदस्यासुरेश चैव पुलस्त्यस्य च धीमतः सनत्कुमारस्य ततः शुक्रस्य च महात्मनः 60 कश्यपस्य पितुश चैव पूर्वम एव मया शरुतम तदनन्तरं च रुद्रस्य विश्वरूपस्य धीमतः 61 दैवतेभ्यः पितृभ्यश च दैत्येभ्यश च ततस ततः पराप्तम एतन मया कृत्स्नं वेद्यं नित्यं वदन्त्य उत 62 तस्मात तद वै भवद बुद्ध्या शरॊतुम इच्छामि बराह्मण भवान परवर्हः शास्त्राणां परगल्भश चातिबुद्धिमान 63 न तवाविदितं किं चिद भवाञ शरुतिनिधिः समृतः कथ्यते देवलॊके च पितृलॊके च बराह्मण 64 बरह्मलॊकगताश चैव कथयन्ति महर्षयः पतिश च तपतां शश्वद आदित्यस तव भासते 65 सांख्यज्ञानं तवया बरह्मन्न अवाप्तं कृत्स्नम एव च तथैव यॊगज्ञानं च याज्ञवल्क्य विशेषतः 66 निःसंदिग्धं परबुद्धस तवं बुध्यमानश चराचरम शरॊतुम इच्छामि तज जञानं घृतं मन्दमयं यथा 67 [या] कृत्स्नधारिणम एव तवां मन्ये गन्धर्वसत्तम जिज्ञाससि च मां राजंस तन निबॊध यथा शरुतम 68 अबुध्यमानां परकृतिं बुध्यते पञ्चविंशकः न तु बुध्यति गन्धर्व परकृतिः पञ्चविंशकम 69 अनेनाप्रतिबॊधेन परधानं परवदन्ति तम सांख्ययॊगाश च तत्त्वज्ञा यथा शरुतिनिदर्शनात 70 पश्यंस तथैवापश्यंश च पश्यत्य अन्यस तथानघ सद्विंशः पञ्चविंशं च चतुर्विंशं च पश्यति न तु पश्यति पश्यंस तु यश चैनम अनुपश्यति 71 पञ्चविंशॊ ऽभिमन्येत नान्यॊ ऽसति परमॊ मम न चतुर्विंशकॊ ऽगराह्यॊ मनुजैर जञानदर्शिभिः 72 मत्स्येवॊदकम अन्वेति परवर्तति परवर्तनात यथैव बुध्यते मत्स्यस तथैषॊ ऽपय अनुबुध्यते सस्नेहः सह वासाच च साभिमानश चनित्यशः 73 स निमज्जति कालस्य यदैकत्वं न बुध्यते उन्मज्जति हि कालस्य ममत्वेनाभिसंवृतः 74 यदा तु मन्यते ऽनयॊ ऽहम अन्य एष इति दविजः तदा स केवली भूतः सद्विंशम अनुपश्यति 75 अन्यश च राजन्न अवरस तथान्यः पञ्चविंशकः तत्स्थत्वाद अनुपश्यन्ति एक एवेति साधवः 76 तेनैतन नाभिनन्दन्ति पञ्चविंशकम अच्युतम जन्ममृत्युभयाद भीता यॊगाः सांख्याश च काश्यप सद्विंसम अनुपश्यन्ति शुचयस तत्परायनाः 77 यदा स केवली भूतः सद्विंशम अनुपश्यति तदा स सर्वविद विद्वान न पुनर्जन्म विन्दति 78 एवम अप्रतिबुद्धश च बुध्यमानश च ते ऽनघ बुद्धश चॊक्तॊ यथातत्त्वं मया शरुतिनिदर्शनात 79 पश्यापश्यं यॊ ऽनुपश्येत कषेमं तत्त्वं च काश्यप केवलाकेवलं चाद्यं पञ्चविंशात परं च यत 80 [विष्वावसु] तथ्यं शुभं चैतद उक्तं तवया भॊः; सम्यक कषेम्यं देवताद्यं यथावत सवस्त्य कषयं भवतश चास्तु नित्यं; बुद्ध्या सदा बुधि युक्तं नमस ते 81 [या] एवम उक्त्वा संप्रयातॊ दिवं स; विभ्राजन वै शरीमत दर्शनेन तुष्टश च तुष्ट्या परयाभिनन्द्य; परदक्षिणं मम कृत्वा महात्मा 82 बरह्मादीनां खेचराणां कषितौ च; ये चाधस्तात संवसन्ते नरेन्द्र तत्रैव तद दर्शनं दर्शयन वै; सम्यक कषेम्यं ये पथं संश्रिता वै 83 सांख्याः सर्वे सांख्यधर्मे रताश च; तद्वद यॊगा यॊगधर्मे रताश च ये चाप्य अन्ये मॊक्षकामा मनुष्यास; तेषाम एतद दर्शनंज्ञान दृष्टम 84 जञानान मॊक्षॊ जायते पूरुषानां; नास्त्य अज्ञानाद एवम आहुर नरेन्द्र तस्माज जञानं तत्त्वतॊ ऽनवेषितव्यं; येनात्मानं मॊक्षयेज जन्ममृत्यॊः 85 पराप्य जञानं बराह्मणात कषत्रियाद वा; वैश्याच छूद्राद अपि नीचाद अभीक्ष्णम शरद्धातव्यं शरद्दधानेन नित्यं; न शरद्धिनं जन्ममृत्यू विशेताम 86 सर्वे वर्णा बराह्मणा बरह्मजाश च; सर्वे नित्यं वयाहरन्ते च बरह्म तत्त्वं शास्त्रं बरह्म बुद्ध्या बरवीमि; सर्वं विश्वं बरह्म चैतत समस्तम 87 बरह्मास्यतॊ बराह्मणाः संप्रसूता; बाहुभ्यां वै कषत्रियाः संप्रसूताः नाभ्यां वैश्याः पादतश चापि शूद्राः; सर्वे वर्णा नान्यथा वेदितव्याः 88 अज्ञानतः कर्म यॊनिं भजन्ते; तां तां राजंस ते यथा यान्त्य अभावम तथा वर्णा जञानहीनाः पतन्ते; घॊराद अज्ञानात पराकृतं यॊनिजालम 89 तस्माज जञानं सर्वतॊ मार्गितव्यं; सर्वत्रस्थ चैतद उक्तं मया ते तस्थौ बरह्मा तस्थिवांश चापरॊ यस; तस्मै नित्यं मॊक्षम आहुर दविजेन्द्राः 90 यत ते पृष्ठं तन मया चॊपदिष्टं; याथातथ्यं तद विशॊकॊ भवस्व राजन गच्छस्वैतद अर्थस्य पारं; सम्यक परॊक्तं सवस्ति ते ऽसत्व अत्र नित्यम 91 [भी] स एवम अनुशास्तस तु याज्ञवल्क्येन धीमता परीतिमान अभवद राजा मिथिलाधिपतिस तदा 92 गते मुनिवरे तस्मिन कृते चापि परदक्षिणे दैवरातिर नरपतिर आसीनस तत्र मॊक्षवित 93 गॊकॊतिं सपर्शयाम आस हिरण्यस्य तथैव च रत्नाञ्जलिम अथैकं च बराह्मणेभ्यॊ ददौ तदा 94 विदेहराज्यं च तथा परतिष्ठाप्य सुतस्य वै यति धर्मम उपासंश चाप्य अवसन मिथिलाधिपः 95 सांख्यज्ञानम अधीयानॊ यॊगशास्त्रं च कृत्स्नशः धर्माधर्मौ च राजेन्द्र पराकृतं परिगर्हयन 96 अनन्तम इति कृत्वा स नित्यं केवलम एव च धर्माधर्मौ पुण्यपापे सत्यासत्ये तथैव च 97 जन्ममृत्यू च राजेन्द्र पराकृतं तद अचिन्तयत बरह्माव्यक्तस्य कर्मेदम इति नित्यं नराधिप 98 पश्यन्ति यॊगाः सांख्याश च सवशास्त्रकृतलक्षणाः इष्टानिष्ट वियुक्तं हि तस्थौ बरह्म परात परम नित्यं तम आहुर विद्वांसः शुचिस तस्माच छुचिर भव 99 दीयते यच च लभते दत्तं यच चानुमन्यते ददाति च नरश्रेष्ठ परतिगृह्णाति यच च ह ददात्य अव्यक्तम एवैतत परतिगृह्णाति तच च वै 100 आत्मा हय एवात्मनॊ हय एकः कॊ ऽनयस तवत्तॊ ऽधिकॊ भवेत एवं मन्यस्व सततम अन्यथा मा विचिन्तय 101 यस्याव्यक्तं न विदितं सगुणं निर्गुणं पुनः तेन तीर्थानि यज्ञाश च सेवितव्याविपश्चिता 102 न सवाध्यायैस तपॊभिर वा यज्ञैर वा कुरुनन्दन लभते ऽवयक्तसंस्थानं जञात्वाव्यक्तं महीपते 103 तथैव महतः सथानम आहंकारिकम एव च अहंकारात परं चापि सथानानि समवाप्नुयात 104 ये तव अव्यक्तात परं नित्यं जानते शास्त्रतत्पराः जन्ममृत्युवियुक्तं च वियुक्तं सद असच च यत 105 एतन मयाप्तं जनकात पुरस्तात; तेनापि चाप्तं नृप याज्ञवल्क्यात जञानं विशिष्टं न तथा हि यज्ञा; जञानेन दुर्गं तरते न यज्ञैः 106 दुर्गं जन्म निधनं चापि राजन; न भूतिकं जञानविदॊ वदन्ति यज्ञैस तपॊभिर नियमैर वरतैश च; दिवं समासाद्य पतन्ति भूमौ 107 तस्माद उपासस्व परं महच छुचि; शिवं विमॊक्षं विमलं पवित्रम कषेत्रज्ञवित पार्थिव जञानयज्ञम; उपास्य वै तत्त्वम ऋषिर भविष्यसि 108 उपनिषदम उपाकरॊत तदा वै जनक नृपस्य पुरा हि याज्ञवल्क्यः यद उपगणितशाश्वताव्ययं तच; छुभम अमृतत्वम अशॊकम ऋच्छतीति |
1
[yā] avyaktasthaṃ paraṃ yat tat pṛṣṭas te 'haṃ narādhipa paraṃ guhyam imaṃ praśnaṃ śṛṇuṣvāvahito nṛpa 2 yathārṣeṇeha vidhinā caratāvamatena ha mayādityād avāptāni yajūṃsi mithilādhipa 3 mahatā tapasā devas tapiṣṭhaḥ sevito mayā prītena cāhaṃ vibhunā sūryeṇoktas tadānagha 4 varaṃ vṛṇīṣva viprarṣe yad iṣṭaṃ te sudurlabham tat te dāsyāmi prītātmā matprasādo hi durlabhaḥ 5 tataḥ pranamya śirasā mayoktas tapatāṃ varaḥ yajūṃsi nopayuktāni kṣipram icchāmi veditum 6 tato māṃ bhagavān āha vitariṣyāmi te dvija sarasvatīha vāg bhūtā śarīraṃ te pravekṣyati 7 tato mām āha bhagavān āsyaṃ svaṃ vivṛtaṃ kuru vivṛtaṃ ca tato me ''syaṃ praviṣṭā ca sarasvatī 8 tato vidahyamāno 'haṃ praviṣṭo 'mbhas tadānagha avijñānād amarṣāc ca bhāskarasya mahātmanaḥ 9 tato vidahyamānaṃ mām uvāca bhagavān raviḥ muhūrtaṃ sahyatāṃ dāhas tataḥ śītī bhaviṣyati 10 śītī bhūtaṃ ca māṃ dṛṣṭvā bhagavān āha bhāskaraḥ pratiṣṭhāsyati te vedaḥ sottaraḥ sakhilo dvija 11 kṛtsnaṃ śatapathaṃ caiva praṇeṣyasi dvijarṣabha tasyānte cāpunarbhāve buddhis tava bhaviṣyati 12 prāpsyase ca yad iṣṭaṃ tat sāṃkya yogepsitaṃ padam etāvad uktvā bhagavān astam evābhyavartata 13 tato 'nuvyāhṛtaṃ śrutvā gate deve vibhāvasau gṛham āgatya saṃhṛṣṭo 'cintayaṃ vai sarasvatīm 14 tataḥ pravṛttātiśubhā svaravyañjana bhūṣitā oṃkāram āditaḥ kṛtvā mama devī sarasvatī 15 tato 'ham arghyaṃ vidhivat sarasvatyai nyavedayam tapatāṃ ca variṣṭhāya niṣaṇṇas tatparāyanaḥ 16 tataḥ śatapathaṃ kṛtsnaṃ saharasya sasaṃgraham cakre sapariśeṣaṃ ca harṣeṇa parameṇa ha 17 kṛtvā cādhyayanaṃ teṣāṃ śiṣyāṇāṃ śatam uttamam vipriyārthaṃ saśiṣyasya mātulalsya mahātmanaḥ 18 tataḥ saśiṣyeṇa mayā sūryeṇeva gabhastibhiḥ vyāpto yajño mahārāja pitus tava mahātmanaḥ 19 miṣato devalasyāpi tato 'rdhaṃ hṛtavān aham svaveda dakṣiṇāyātha vimarde mātulena ha 20 sumantu nātha pailena tatha jaimininā ca vai pitrā te munibhiś caiva tato 'ham anumānitaḥ 21 daśa pañca ca prāptāni yajūṃsy arkān mayānagha tathaiva lomaharṣāc ca purāṇam avadhāritam 22 bījam etat puraskṛtya devīṃ caiva sarasvatīm sūryasya cānubhāvena pravṛtto 'haṃ narādhipa 23 kartuṃ śatapathaṃ vedam apūrvaṃ kāritaṃ ca me yathābhilasitaṃ mārthaṃ tathā tac copapāditam 24 śiṣyāṇām akhilaṃ kṛtsnam anujñātaṃ sasaṃgraham sarve ca śiṣyāḥ śucayo gatāḥ paramaharṣitāḥ 25 śākhāḥ pañcadaśemās tu vidyā bhāskaradarśitāḥ pratiṣṭhāpya yathākāmaṃ vedyaṃ tad anucintayam 26 kim atra brahmaṇyam ṛtaṃ kiṃ ca vedyam anuttamam cintaye tatra cāgatya gandharvo mām apṛcchata 27 viśvāvasus tato rājan vedāntajñānakovidaḥ caturviṃśatikān praśnān pṛṣṭvā vedasya pārthiva pañcaviṃśatimaṃ praśnaṃ papracchānvikṣikīṃ tathā 28 viśvā viśvaṃ tathāśvāśvaṃ mitraṃ varuṇam eva ca jñānaṃ jñeyaṃ tathājño 'jñaḥ kas tapā apatā tathā sūryādaḥ sūrya iti ca vidyāvidye tathaiva ca 29 vedyāvedyaṃ tathā rājann acalaṃ calam eva ca apūrvam akṣayaṃ kṣayyam etat praśnam anuttamam 30 athoktaś ca mayā rājan rājā gandharvasattamaḥ pṛṣṭavān anupūrveṇa praśnam uttamam arthavat 31 muhūrtaṃ mṛṣyatāṃ tāvad yāvad enaṃ vicintaye bādham ity eva kṛtvā sa tūsnīṃ gandharva āsthitaḥ 32 tato 'nvacintayam ahaṃ bhūyo devīṃ sarasvatīm manasā sa ca me praśno dadhno ghṛtam ivoddhṛtam 33 tatropaniṣadaṃ caiva pariśeṣaṃ ca pārthiva maghnāmi manasā tāta dṛṣṭvā cānvīkṣikīṃ parām 34 caturthī rājaśārdūla vidyaiṣā sāmparāyikī udīritā mayā tubhyaṃ pañcaviṃśe 'dhi dhiṣṭhitā 35 athotas tu mayā rājan rājā viśvāvasus tadā śrūyatāṃ yad bhavān asmān praśnaṃ saṃpṛṣṭavān iha 36 viśvā viśveti yad idaṃ gandharvendrānupṛcchasi viśvāvyaktaṃ paraṃ vidyād bhūtabhavya bhayaṃkaram 37 triguṇaṃ guṇakartṛtvād aśiśvo niṣkalas tathā aśvas tathaiva mithunam evam evānudṛśyate 38 avyaktaṃ prakṛtiṃ prāhuḥ puruṣeti ca nirguṇam tathaiva mitraṃ puruṣaṃ varuṇaṃ prakṛtiṃ tathā 39 jñānaṃ tu prakṛtiṃ prāhur jñeyaṃ niṣkalam eva ca ajñaś ca jñaś ca puruṣas tasmān niṣkala ucyate 40 kas tapā atapāḥ proktāḥ ko 'sau puruṣa ucyate tapāḥ prakṛtir ity āhur atapā niṣkalaḥ smṛtaḥ 41 tathaivāvedyam avyaktaṃ vedhaḥ puruṣa ucyate calācalam iti proktaṃ tvayā tad api me śṛṇu 42 calāṃ tu prakṛtiṃ prāhuḥ kāraṇaṃ kṣepa sargayoḥ akṣepa sargayoḥ kartā niścalaḥ puruṣaḥ smṛtaḥ 43 ajāv ubhāv aprajanucākṣayau cāpy ubhāv api ajaunityāv ubhau prāhur adhyātmagatiniścayāḥ 44 akṣayatvāt prajanane ajam atrāhur avyayam akṣayaṃ puruṣaṃ prāhuḥ kṣayo hy asya na vidyate 45 guṇakṣayatvāt prakṛtiḥ kartṛtvād akṣayaṃ budhāḥ eṣā te ''nvīkṣikī vidyā caturthī sāmparāyikī 46 vidyopetaṃ dhanaṃ kṛtvā karmaṇā nityakarmaṇi ekāntadarśanā vedāḥ sarve viśvāvaso smṛtāḥ 47 jāyante ca mriyante ca yasminn ete yataś cyutāḥ vedārthaṃ ye na jānanti vedyaṃ gandharvasattama 48 sāṅgopāṅgān api yadi pañca vedān adhīyate veda vedyaṃ na jānīte veda bhāravaho hi saḥ 49 yo ghṛtārthī kharī kṣīraṃ mathed gandharvasattama viṣṭhāṃ tatrānupaśyeta na mandaṃ nāpi vā ghṛtam 50 tathā vedyam avedyaṃ ca veda vidyo na vindati sa kevalaṃ mūḍha matir jñānabhāra vahaḥ smṛtaḥ 51 draṣṭavyau nityam evaitau tatpareṇāntar ātmanā yathāsya janma nidhane na bhavetāṃ punaḥ punaḥ 52 ajasraṃ janma nidhanaṃ cintayitvā trayīm imām parityajya kṣayam iha akṣayaṃ dharmam āsthitaḥ 53 yadā tu paśyate 'tyantam ahany ahani kāśyapa tadā sa kevalī bhūtaḥ sadviṃsam anupaśyati 54 anyaś ca śaśvad avyaktas tathānyaḥ pañcaviṃśakaḥ tasya dvāv anupaśyeta tam ekam iti sādhavaḥ 55 tenaitan nābhijānanti pañcaviṃśakam acyutam janmamṛtyubhayād yogāḥ sāṃkhyāś ca paramaiṣiṇaḥ 56 [viṣvāvasu] pañcaviṃśaṃ yad etat te proktaṃ brāhmaṇasattama tathā tan na tathā veti tad bhavān vaktum arhati 57 jaigīsavyasyāsitasya devalasya ca me śrutam parāśarasya viprarṣer vārṣagaṇyasya dhīmataḥ 58 bhikṣoḥ pañcaśikhasyātha kapilasya śukasya ca gautamasyārṣṭiṣeṇasya gargasya ca mahātmanaḥ 59 nāradasyāsureś caiva pulastyasya ca dhīmataḥ sanatkumārasya tataḥ śukrasya ca mahātmanaḥ 60 kaśyapasya pituś caiva pūrvam eva mayā śrutam tadanantaraṃ ca rudrasya viśvarūpasya dhīmataḥ 61 daivatebhyaḥ pitṛbhyaś ca daityebhyaś ca tatas tataḥ prāptam etan mayā kṛtsnaṃ vedyaṃ nityaṃ vadanty uta 62 tasmāt tad vai bhavad buddhyā śrotum icchāmi brāhmaṇa bhavān pravarhaḥ śāstrāṇāṃ pragalbhaś cātibuddhimān 63 na tavāviditaṃ kiṃ cid bhavāñ śrutinidhiḥ smṛtaḥ kathyate devaloke ca pitṛloke ca brāhmaṇa 64 brahmalokagatāś caiva kathayanti maharṣayaḥ patiś ca tapatāṃ śaśvad ādityas tava bhāsate 65 sāṃkhyajñānaṃ tvayā brahmann avāptaṃ kṛtsnam eva ca tathaiva yogajñānaṃ ca yājñavalkya viśeṣataḥ 66 niḥsaṃdigdhaṃ prabuddhas tvaṃ budhyamānaś carācaram śrotum icchāmi taj jñānaṃ ghṛtaṃ mandamayaṃ yathā 67 [yā] kṛtsnadhāriṇam eva tvāṃ manye gandharvasattama jijñāsasi ca māṃ rājaṃs tan nibodha yathā śrutam 68 abudhyamānāṃ prakṛtiṃ budhyate pañcaviṃśakaḥ na tu budhyati gandharva prakṛtiḥ pañcaviṃśakam 69 anenāpratibodhena pradhānaṃ pravadanti tam sāṃkhyayogāś ca tattvajñā yathā śrutinidarśanāt 70 paśyaṃs tathaivāpaśyaṃś ca paśyaty anyas tathānagha sadviṃśaḥ pañcaviṃśaṃ ca caturviṃśaṃ ca paśyati na tu paśyati paśyaṃs tu yaś cainam anupaśyati 71 pañcaviṃśo 'bhimanyeta nānyo 'sti paramo mama na caturviṃśako 'grāhyo manujair jñānadarśibhiḥ 72 matsyevodakam anveti pravartati pravartanāt yathaiva budhyate matsyas tathaiṣo 'py anubudhyate sasnehaḥ saha vāsāc ca sābhimānaś canityaśaḥ 73 sa nimajjati kālasya yadaikatvaṃ na budhyate unmajjati hi kālasya mamatvenābhisaṃvṛtaḥ 74 yadā tu manyate 'nyo 'ham anya eṣa iti dvijaḥ tadā sa kevalī bhūtaḥ sadviṃśam anupaśyati 75 anyaś ca rājann avaras tathānyaḥ pañcaviṃśakaḥ tatsthatvād anupaśyanti eka eveti sādhavaḥ 76 tenaitan nābhinandanti pañcaviṃśakam acyutam janmamṛtyubhayād bhītā yogāḥ sāṃkhyāś ca kāśyapa sadviṃsam anupaśyanti śucayas tatparāyanāḥ 77 yadā sa kevalī bhūtaḥ sadviṃśam anupaśyati tadā sa sarvavid vidvān na punarjanma vindati 78 evam apratibuddhaś ca budhyamānaś ca te 'nagha buddhaś cokto yathātattvaṃ mayā śrutinidarśanāt 79 paśyāpaśyaṃ yo 'nupaśyet kṣemaṃ tattvaṃ ca kāśyapa kevalākevalaṃ cādyaṃ pañcaviṃśāt paraṃ ca yat 80 [viṣvāvasu] tathyaṃ śubhaṃ caitad uktaṃ tvayā bhoḥ; samyak kṣemyaṃ devatādyaṃ yathāvat svastya kṣayaṃ bhavataś cāstu nityaṃ; buddhyā sadā budhi yuktaṃ namas te 81 [yā] evam uktvā saṃprayāto divaṃ sa; vibhrājan vai śrīmata darśanena tuṣṭaś ca tuṣṭyā parayābhinandya; pradakṣiṇaṃ mama kṛtvā mahātmā 82 brahmādīnāṃ khecarāṇāṃ kṣitau ca; ye cādhastāt saṃvasante narendra tatraiva tad darśanaṃ darśayan vai; samyak kṣemyaṃ ye pathaṃ saṃśritā vai 83 sāṃkhyāḥ sarve sāṃkhyadharme ratāś ca; tadvad yogā yogadharme ratāś ca ye cāpy anye mokṣakāmā manuṣyās; teṣām etad darśanaṃjñāna dṛṣṭam 84 jñānān mokṣo jāyate pūruṣānāṃ; nāsty ajñānād evam āhur narendra tasmāj jñānaṃ tattvato 'nveṣitavyaṃ; yenātmānaṃ mokṣayej janmamṛtyoḥ 85 prāpya jñānaṃ brāhmaṇāt kṣatriyād vā; vaiśyāc chūdrād api nīcād abhīkṣṇam śraddhātavyaṃ śraddadhānena nityaṃ; na śraddhinaṃ janmamṛtyū viśetām 86 sarve varṇā brāhmaṇā brahmajāś ca; sarve nityaṃ vyāharante ca brahma tattvaṃ śāstraṃ brahma buddhyā bravīmi; sarvaṃ viśvaṃ brahma caitat samastam 87 brahmāsyato brāhmaṇāḥ saṃprasūtā; bāhubhyāṃ vai kṣatriyāḥ saṃprasūtāḥ nābhyāṃ vaiśyāḥ pādataś cāpi śūdrāḥ; sarve varṇā nānyathā veditavyāḥ 88 ajñānataḥ karma yoniṃ bhajante; tāṃ tāṃ rājaṃs te yathā yānty abhāvam tathā varṇā jñānahīnāḥ patante; ghorād ajñānāt prākṛtaṃ yonijālam 89 tasmāj jñānaṃ sarvato mārgitavyaṃ; sarvatrastha caitad uktaṃ mayā te tasthau brahmā tasthivāṃś cāparo yas; tasmai nityaṃ mokṣam āhur dvijendrāḥ 90 yat te pṛṣṭhaṃ tan mayā copadiṣṭaṃ; yāthātathyaṃ tad viśoko bhavasva rājan gacchasvaitad arthasya pāraṃ; samyak proktaṃ svasti te 'stv atra nityam 91 [bhī] sa evam anuśāstas tu yājñavalkyena dhīmatā prītimān abhavad rājā mithilādhipatis tadā 92 gate munivare tasmin kṛte cāpi pradakṣiṇe daivarātir narapatir āsīnas tatra mokṣavit 93 gokotiṃ sparśayām āsa hiraṇyasya tathaiva ca ratnāñjalim athaikaṃ ca brāhmaṇebhyo dadau tadā 94 videharājyaṃ ca tathā pratiṣṭhāpya sutasya vai yati dharmam upāsaṃś cāpy avasan mithilādhipaḥ 95 sāṃkhyajñānam adhīyāno yogaśāstraṃ ca kṛtsnaśaḥ dharmādharmau ca rājendra prākṛtaṃ parigarhayan 96 anantam iti kṛtvā sa nityaṃ kevalam eva ca dharmādharmau puṇyapāpe satyāsatye tathaiva ca 97 janmamṛtyū ca rājendra prākṛtaṃ tad acintayat brahmāvyaktasya karmedam iti nityaṃ narādhipa 98 paśyanti yogāḥ sāṃkhyāś ca svaśāstrakṛtalakṣaṇāḥ iṣṭāniṣṭa viyuktaṃ hi tasthau brahma parāt param nityaṃ tam āhur vidvāṃsaḥ śucis tasmāc chucir bhava 99 dīyate yac ca labhate dattaṃ yac cānumanyate dadāti ca naraśreṣṭha pratigṛhṇāti yac ca ha dadāty avyaktam evaitat pratigṛhṇāti tac ca vai 100 ātmā hy evātmano hy ekaḥ ko 'nyas tvatto 'dhiko bhavet evaṃ manyasva satatam anyathā mā vicintaya 101 yasyāvyaktaṃ na viditaṃ saguṇaṃ nirguṇaṃ punaḥ tena tīrthāni yajñāś ca sevitavyāvipaścitā 102 na svādhyāyais tapobhir vā yajñair vā kurunandana labhate 'vyaktasaṃsthānaṃ jñātvāvyaktaṃ mahīpate 103 tathaiva mahataḥ sthānam āhaṃkārikam eva ca ahaṃkārāt paraṃ cāpi sthānāni samavāpnuyāt 104 ye tv avyaktāt paraṃ nityaṃ jānate śāstratatparāḥ janmamṛtyuviyuktaṃ ca viyuktaṃ sad asac ca yat 105 etan mayāptaṃ janakāt purastāt; tenāpi cāptaṃ nṛpa yājñavalkyāt jñānaṃ viśiṣṭaṃ na tathā hi yajñā; jñānena durgaṃ tarate na yajñaiḥ 106 durgaṃ janma nidhanaṃ cāpi rājan; na bhūtikaṃ jñānavido vadanti yajñais tapobhir niyamair vrataiś ca; divaṃ samāsādya patanti bhūmau 107 tasmād upāsasva paraṃ mahac chuci; śivaṃ vimokṣaṃ vimalaṃ pavitram kṣetrajñavit pārthiva jñānayajñam; upāsya vai tattvam ṛṣir bhaviṣyasi 108 upaniṣadam upākarot tadā vai janaka nṛpasya purā hi yājñavalkyaḥ yad upagaṇitaśāśvatāvyayaṃ tac; chubham amṛtatvam aśokam ṛcchatīti |
The Mahabharata in Sanskrit
Book 12
Chapter 307
|
1
[य] ऐश्वर्यं वा महत पराप्य धनं वा भरतर्षभ दीर्घम आयुर अवाप्याथ कथं मृत्युम अतिक्रमेत 2 तपसा वा सुमहता कर्मणा वा शरुतेन वा रसायन परयॊगैर वा कैर नॊपैति जरान्तकौ 3 [भी] अत्राप्य उदाहरन्तीमम इतिहासं पुरातनम भिक्षॊः पञ्चशिखस्येह संवादं जनकस्य च 4 वैदेहॊ जनकॊ राजा महर्षिं वेद वित्तमम पर्यपृच्छत पञ्चशिखं छिन्नधर्मार्थसंशयम 5 केन वृत्तेन भगवन्न अतिक्रामेज जरान्तकौ तपसा वाथ बुद्ध्या वा कर्मणा वा शरुतेन वा 6 एवम उक्तः स वैदेहं परत्युवाच परॊक्षवित निवृत्तिर नैतयॊर अस्ति नानिवृत्तिः कथं चन 7 न हय अहानि निवर्तन्ते न मासा न पुनः कषपाः सॊ ऽयं परपद्यते ऽधवानं चिराय धरुवम अध्रुवः 8 सर्वभूतसमुच्छेदः सरॊतसेवॊह्यते सदा उह्यमानं निमज्जन्तम अप्लवे कालसागरे जरामृत्युमहाग्राहे न कश चिद अभिपद्यते 9 नैवास्य भविता कश चिन नासौ भवति कस्य चित पथि संगतम एवेदं दारैर अन्यैश च बन्धुभिः नायम अत्यन्तसंवासॊ लब्धपूर्वॊ हि केन चित 10 कषिप्यन्ते तेन तेनैव निष्टनन्तः पुनः पुनः कालेन जाता जाता हि वायुनेवाभ्र संचयाः 11 जरा मृयू हि भूतानां खादितारौ वृकाव इव बलिनां दुर्बलानां च हरस्वानां महताम अपि 12 एवं भूतेषु भूतेषु नित्यभूताध्रुवेषु च कथं हृष्येत जातेषु मृतेषु च कथं जवरेत 13 कुतॊ ऽहम आगतः कॊ ऽसमि कव गमिष्यामि कस्य वा कस्मिन सथितः कव भविता कस्मात किम अनुशॊचसि 14 दरष्टा सवर्गस्य न हय अस्ति तथैव नरकस्य च आगमांस तव अनतिक्रम्य दद्याच चैव यजेत च |
1
[y] aiśvaryaṃ vā mahat prāpya dhanaṃ vā bharatarṣabha dīrgham āyur avāpyātha kathaṃ mṛtyum atikramet 2 tapasā vā sumahatā karmaṇā vā śrutena vā rasāyana prayogair vā kair nopaiti jarāntakau 3 [bhī] atrāpy udāharantīmam itihāsaṃ purātanam bhikṣoḥ pañcaśikhasyeha saṃvādaṃ janakasya ca 4 vaideho janako rājā maharṣiṃ veda vittamam paryapṛcchat pañcaśikhaṃ chinnadharmārthasaṃśayam 5 kena vṛttena bhagavann atikrāmej jarāntakau tapasā vātha buddhyā vā karmaṇā vā śrutena vā 6 evam uktaḥ sa vaidehaṃ pratyuvāca parokṣavit nivṛttir naitayor asti nānivṛttiḥ kathaṃ cana 7 na hy ahāni nivartante na māsā na punaḥ kṣapāḥ so 'yaṃ prapadyate 'dhvānaṃ cirāya dhruvam adhruvaḥ 8 sarvabhūtasamucchedaḥ srotasevohyate sadā uhyamānaṃ nimajjantam aplave kālasāgare jarāmṛtyumahāgrāhe na kaś cid abhipadyate 9 naivāsya bhavitā kaś cin nāsau bhavati kasya cit pathi saṃgatam evedaṃ dārair anyaiś ca bandhubhiḥ nāyam atyantasaṃvāso labdhapūrvo hi kena cit 10 kṣipyante tena tenaiva niṣṭanantaḥ punaḥ punaḥ kālena jātā jātā hi vāyunevābhra saṃcayāḥ 11 jarā mṛyū hi bhūtānāṃ khāditārau vṛkāv iva balināṃ durbalānāṃ ca hrasvānāṃ mahatām api 12 evaṃ bhūteṣu bhūteṣu nityabhūtādhruveṣu ca kathaṃ hṛṣyeta jāteṣu mṛteṣu ca kathaṃ jvaret 13 kuto 'ham āgataḥ ko 'smi kva gamiṣyāmi kasya vā kasmin sthitaḥ kva bhavitā kasmāt kim anuśocasi 14 draṣṭā svargasya na hy asti tathaiva narakasya ca āgamāṃs tv anatikramya dadyāc caiva yajeta ca |
The Mahabharata in Sanskrit
Book 12
Chapter 308
|
1
[य] अपरित्यज्य गार्हस्थ्यं कुरुराजर्षिसत्तम कः पराप्तॊ विनयं बुद्ध्या मॊक्षतत्त्वं वदस्व मे 2 संन्यस्यते यथात्मायं संन्यस्तात्मा यथा च यः परं मॊक्षस्य यच चापि तन मे बरूहि पितामह 3 [भी] अत्राप्य उदाहरन्तीमम इतिहासं पुरातनम जनकस्य च संवादं सुलभायाश च भारत 4 संन्यासफलिकः कश चिद बभूव नृपतिः पुरा मैथिलॊ जनकॊ नाम धर्मध्वज इति शरुतः 5 स वेदे मॊक्षशास्त्रे च सवे च शास्त्रे कृतागमः इन्द्रियाणि समाधाय शशास वसुधाम इमाम 6 तस्य वेदविदः पराज्ञाः शरुत्वा तां सादु वृत्तताम लॊकेषु सपृहयन्त्य अन्ये पुरुषाः पुरुषेश्वर 7 अथ धर्मयुगे तस्मिन यॊगधर्मम अनुष्ठिता महीम अनुचचारैका सुलभा नाम भिक्षुकी 8 तया जगद इदं संवम अतन्त्या मिथिलेश्वरः तत्र तत्र शरुतॊ मॊक्षे कथ्यमानस तरिदन्दिभिः 9 सा सुसूक्ष्मां कथां शरुत्वा तथ्यं नेति ससंशया दर्शने जातसंकल्पा जनकस्य बभूव ह 10 ततः सा विप्रहायाथ पूर्वरूपं हि यॊगतः अबिभ्रद अनवद्याङ्गी रूपम अन्यद अनुत्तमम 11 चक्षुर निमेष मात्रेण लघ्व अस्त्रगतिगामिनी विदेहानां पुरीं सुभ्रूर जगाम कमलेक्षणा 12 सा पराप्य मिथिलां रम्यां समृद्धजनसंकुलाम भैक्षचर्यापदेशेन ददर्श मिथिलेश्वरम 13 राजा तस्याः परं दृष्ट्वा सौकुमार्यं वपुस तथा केयं कस्य कुतॊ वेति बभूवागत विस्मयः 14 ततॊ ऽसयाः सवागतं कृत्वा वयादिश्य च वरासनम पूजितां पादशौचेन वरान्नेनाप्य अतर्पयत 15 अथ भुक्तवती परीता राजानं मन्त्रिभिर वृतम सर्वभाष्यविदां मध्ये चॊदयाम आस भिक्षुकी 16 सुलभा तव अस्य धर्मेषु मुक्तॊ नेति ससंशया सत्त्वं सत्त्वेन यॊगज्ञा परविवेश महीपते 17 नेत्राभ्यां नेत्रयॊर अस्य रश्मीन संयॊज्य रश्मिभिः सा सम संचॊदयिष्यन्तम्यॊग बन्धैर बबन्ध ह 18 जनकॊ ऽपय उत्स्मयन राजा भावम अस्या विशेषयन परतिजग्राह भावेन भावम अस्या नृपॊत्तमः 19 तद एकस्मिन्न अधिष्ठाने संवादः शरूयताम अयम छत्त्रादिषु विमुक्तस्य मुक्तायाश च तरिदण्डके 20 भगवत्याः कव चर्येयं कृता कव च गमिष्यसि कस्य च तवं कुतॊ वेति पप्रच्छैनां महीपतिः 21 शरुते वयसि जातौ च सद्भावॊ नाधिगम्यते एष्व अर्थेषूत्तरं तस्मात परवेद्यं तः समागमे 22 छत्त्रादिषु विशेषेषु मुक्तं मां विद्धि सर्वशः स तवां संमन्तुम इच्छामि माहार्हासि मता हि मे 23 यस्माच चैतन मया पराप्तं जञानं वैशेषिकं पुरा यस्य नान्यः परवक्तास्ति मॊक्षे तम अपि मे शृणु 24 पाराशर्यस गॊत्रस्य वृद्धस्य सुमहात्मनः भिक्षॊः पञ्चशिखस्याहं शिष्यः परमसंमतः 25 सांख्यज्ञाने तथा यॊगे महीपाल विधौ तथा तरिविधे मॊक्षधर्मे ऽसमिन गताध्वा छिन्नसंशयः 26 स यथाशास्त्रदृष्टेन मार्गेणेह परिव्रजन वार्षिकांश चतुरॊ मासान पुरा मयि सुखॊषितः 27 तेनाहं सांक्य मुख्येन सुदृष्टार्थेन तत्त्वतः शरावितस तरिविधं मॊक्षं न च राज्याद विचालिथ 28 सॊ ऽहं ताम अखिलां वृत्तिं तरिविधां मॊक्षसंहिताम मुक्तरागश चराम्य एकः पदे परमके सथितः 29 वैराग्यं पुनर एतस्य मॊक्षस्य परमॊ विधिः जञानाद एव च वैराग्यं जायते येन मुच्यते 30 जञानेन कुरुते यत्नं यत्नेन पराप्यते महत महद दवन्द्वप्रमॊक्षाय सा सिद्धिर या वयॊ ऽतिगा 31 सेयं परमिका बुद्धिः पराप्ता निर्द्वन्द्वता मया इहैव गतमॊहेन चरता मुक्तसङ्गिना 32 यथा कषेत्रं मृदू भूतम अद्भिर आप्लावितं तथा जनयत्य अङ्कुरं कर्म नृणां तद्वत पुनर्भवम 33 यथा चॊत्तापितं बीजं कपाले यत्र यत्र वा पराप्याप्य अङ्कुर हेतुत्वम अबीजत्वान न जायते 34 तद्वद भगवता तेन शिखा परॊक्तेन भिक्षुणा जञानं कृतम अबीजं मे विषयेषु न जायते 35 नाभिषज्जति कस्मिंश चिन नानर्थे न परिग्रहे नाभिरज्यति चैतेषु वयर्थत्वाद रागदॊषयॊः 36 यश च मे दक्षिणं बाहुं चन्दनेन समुक्षयेत सव्यं वास्या च यस तक्षेत समाव एताव उभौ मम 37 सुखी सॊ ऽहम अवाप्तार्थः समलॊक्षाश्म काञ्चनः मुक्तसङ्गः सथितॊ राज्ये विशिष्टॊ ऽनयैस तरिदन्दिभिः 38 मॊक्षे हि तरिविधा निष्ठा दृष्टा पूर्वैर महर्षिभिः जञानं लॊकॊत्तरं यच च सर्वत्यागश च कर्मणाम 39 जञाननिष्ठां वदन्त्य एके मॊक्षशास्त्रविदॊ जनाः कर्म निष्ठां तथैवान्ये यतयः सूक्ष्मदर्शिनः 40 परहायॊभयम अप्य एतज जञानं कर्म च केवलम तृतीयेयं समाख्याता निष्ठा तेन महात्मना 41 यमे च नियमे चैव दवेषे कामे परिग्रहे माने दम्भे तथा सनेहे सदृशास ते कुटुम्बिभिः 42 तरिदण्डादिषु यद्य अस्ति मॊक्षॊ जञानेन केन चित छत्त्रादिषु कथं न सयात तुल्यहेतौ परिग्रहे 43 येन येन हि यस्यार्थः कारणेनेह कस्य चित तत तद आलम्बते दरव्यं सर्वः सवे सवे परिग्रहे 44 दॊषदर्शी तु गार्हस्थ्ये यॊ वरजत्य आश्रमान्तरम उत्सृजन परिगृह्नंश च सॊ ऽपि सङ्गान न मुच्यते 45 आधिपत्ये तथा तुल्ये निग्रहानुग्रहात्मनि राजर्षिभिक्षुकाचार्या मुच्यन्ते केन केतुना 46 अथ सत्याधिपत्ये ऽपि जञानेनैवेह केवलम मुच्यन्ते किं न मुच्यन्ते पदे परमके सथितः 47 कासाय धारणं मौन्द्यं तरिविष्टब्धः कमन्दलुः लिङ्गान्य अत्यर्थम एतानि न मॊक्षायेति मे मतिः 48 यदि सत्य अपि लिङ्गे ऽसमिञ जञानम एवात्र कारणम निर्मॊक्षायेह दुःखस्य लिङ्गमात्रं निरर्थकम 49 अथ वा दुःखशैथिल्यं वीक्ष्य लिङ्गे कृता मतिः किं तद एवार्थसामान्य छत्त्रादिषु न लक्ष्यते 50 आकिंचन्ये च मॊक्षॊ ऽसति कैंचन्ये नास्ति बन्धनम कैंचन्ये चेतरे चैव जन्तुर जञानेन मुच्यते 51 तस्माद धर्मार्थकामेषु तथा राज्यपरिग्रहे बन्धनायतनेष्व एषु विद्ध्य अबन्धे पदे सथितम 52 राज्यैश्वर्यमयः पाशः सनेहायतन बन्धनः मॊक्षाश्म निशितेनेह छिन्नस तयागासिना मया 53 सॊ ऽहम एवंगतॊ मुक्तॊ जातास्थस तवयि भिक्षुकि अयथार्थॊ हि ते वर्णॊ वक्ष्यामि शृणु तन मम 54 सौकुमार्यं तथारूपं वपुर अग्र्यं तथा वयः तवैतानि समस्तानि नियमश चेति संशयः 55 यच चाप्य अननुरूपं ते लिङ्गस्यास्य विचेष्टितम मुक्तॊ ऽयं सयान न वेत्य अस्माद धर्षितॊ मत्परिग्रहः 56 न च कामसमायुक्ते मुक्ते ऽपय अस्ति तरिदण्डकम न रक्ष्यते तवया चेदं न मुक्तस्यास्ति गॊपना 57 मत पक्षसंश्रयाच चायं शृणु यस ते वयतिक्रमः आश्रयन्त्याः सवभावेन मम पूर्वपरिग्रहम 58 परवेशस ते कृतः केन मम रास्त्रे पुरे तथा कस्य वा संनिसर्गात तवं परविष्टा हृदयं मम 59 वर्णप्रवर मुख्यासि बराह्मणी कषत्रियॊ हय अहम नावयॊर एकयॊगॊ ऽसति मा कृथा वर्णसंकरम 60 वर्तसे मॊक्षधर्मेषु गार्हस्थ्ये तव अहम आश्रमे अयं चापि सुकस्तस ते दवितीयॊ ऽऽशरमसंकरः 61 सगॊत्रां वासगॊत्रां वा न वेद तवां न वेत्थ माम सगॊत्रम आविशन्त्यास ते तृतीयॊ गॊत्र संकरः 62 अथ जीवति ते भर्ता परॊषितॊ ऽपय अथ वा कव चित अगम्या परभार्येति चतुर्थॊ धर्मसंकरः 63 सा तवम एतान्य अकार्याणि कार्यापेक्षा वयवस्यसि अविज्ञानेन वा युक्ता मिथ्या जञानेन वा पुनः 64 अथ वापि सवतन्त्रास्ति सवदॊषेणेह केन चित यदि किं चिच छरुतं ते ऽसि सर्वं कृतम अनर्थकम 65 इदम अन्यत तृतीयं ते भावस्पर्श विघातकम दुष्टाया लक्ष्यते लिङ्गं परवक्तव्यं परकाशितम 66 न मय्य एवाभिसंधिस ते जयैषिण्या जये कृतः येयं मत्परिषत कृत्स्ना जेतुम इच्छसि ताम अपि 67 तथा हय एवं पुनश च तवं दृष्टिं सवां परतिमुञ्चसि मत पक्षप्रतिघाताय सवपक्षॊद्भावनाय च 68 सा सवेनामर्षजेन तवम ऋद्धिमॊहेन मॊहिता भूयः सृजसि यॊगास्त्रं विषामृतम इवैकधा 69 इच्छतॊर हि दवयॊर लाभः सत्रीपुंसॊर अमृतॊपमः अलाभश चाप्य अरक्तस्य सॊ ऽतर दॊषॊ विषॊपमः 70 मा सप्रक्षीः सधु जानीस्व सवशास्त्रम अनुपालय कृतेयं हि विजिज्ञासा मुक्तॊ नेति तवया मम एतत सर्वं परतिच्छन्नं मयि नार्हसि गूहितुम 71 सा यदि तवं सवकार्येण यद्य अन्यस्य महीपतेः तत्त्वं सत्त्र परतिच्छन्ना मयि नार्हसि गूहितुम 72 न राजानं मृषा गच्छेन न दविजातिं कथंचनन न सत्रियं सत्री गुणॊपेतां हन्युर हय एते मृषा गताः 73 राज्ञां हि बलम ऐश्वर्यं बरह्म बरह्मविदां बलम रूपयौवन सौभाग्यं सत्रीणां बलम अनुत्तमम 74 अत एतैर बलैर एत बलिनः सवार्थम इच्छता आर्जवेनाभिगन्तव्या विनाशाय हय अनार्जवम 75 सा तवं जातिं शरुतं वृत्तं भावं परकृतिम आत्मनः कृत्यम आगमने चैव वक्तुम अर्हसि तत्त्वतः 76 इत्य एतैर असुखैर वाक्यैर अयुक्तैर असमञ्जसैः परत्यादिष्टा नरेन्द्रेण सुलभा न वयकम्पत 77 उक्तवाक्ये तु नृपतौ सुलभा चारुदर्शना ततश चारुतरं वाक्यं परचक्रामाथ भासितुम 78 नवभिर नवभिश चैव दॊषैर वाग्बुद्धिदूसनैः अपेतम उपपन्नार्थम अस्ता दशगुणान्वितम 79 सौक्ष्म्यं संख्या करमौ चॊभौ निर्नयः सप्रयॊजनः पञ्चैतान्य अर्थजातानि वाक्यम इत्य उच्यते नृप 80 एषाम एकैकशॊ ऽरथानां सौक्ष्म्यादीनां सुलक्षणम शृणु संसार्यमाणानां पदार्थैः पदवाक्यतः 81 जञानं जञेयेषु भिन्नेषु यथा भेदेन वर्तते तत्रातिशयिनी बुद्धिस तत सौक्ष्म्यम इति वर्तते 82 दॊषाणां च गुणानां च परमाणं परैविभागशः कं चिद अर्थम अभिप्रेत्य सा संख्येत्य उपधार्यताम 83 इदं पूर्वम इदं पश्चाद वक्तव्यं यद विवक्षितम करमयॊगं तम अप्य आहुर वाक्यं वाक्यविदॊ जनाः 84 धर्मार्थकाममॊक्षेषु परतिज्ञाय विशेषतः इदं तद इति वाक्यान्ते परॊच्यते स विनिर्नयः 85 इच्छा दवेषभवैर दुःखैः परकर्षॊ यत्र जायते तत्र या नृपते वृत्तिस तत परयॊजनम इष्यते 86 तान्य एतानि यथॊक्तानि सैक्ष्म्यादीनि जनाधिप एकार्थसमवेतानि वाक्यं मम निशामय 87 उपेतार्थम अभिन्नार्थं नापवृत्तं न चाधिकम नाश्लक्ष्णं न च संदिग्धं वक्ष्यामि परमं तव 88 न गुर्व अक्षरसंबद्धं पराङ्मुख मुखं न च नानृतं न तरिवर्गेण विरुद्धं नाप्य असंक्षृतम 89 न नयूनं कस्त शब्दं वा वयुत्क्रमाभिहितं न च न शेषं नानुकल्पेन निष्कारणम अहेतुकम 90 कामात करॊधाद भयाल लॊभाद दैन्याद आनार्यकात तथा हरीतॊ ऽनुक्रॊशतॊ मानान न वक्ष्यामि कथं चन 91 वक्ता शरॊता च वाक्यं च यदा तवाविकलं नृप समम एति विवक्षायां तदा सॊ ऽरथः परकाशते 92 वक्तव्ये तु यदा वक्ता शरॊतारम अवमन्यते सवार्थम आह परार्थं वा तदा वाक्यं न रॊहति 93 अथ यः सवार्थम उत्सृज्य परार्थं पराह मानवः विशङ्का जायते तस्मिन वाक्यं तद अपि दॊषवत 94 यस तु वक्ता दवयॊर अर्थम अविरुद्धं परभासते शरॊतुश चैवात्मनश चैव स वक्ता नेतरॊ नृप 95 तदर्थवद इदं वाक्यम उपेतं वाक्यसंपदा अविक्षिप्त मना राजन्न एकाग्रः शरॊतुम अर्हसि 96 कासि कस्य कुतॊ वेति तवयाहम अभिचॊदिता तत्रॊत्तरम इदं वाक्यं राजन्न एकमनाः शृणु 97 यथा जतु च काष्ठं च पांसवश चॊद बिन्दुभिः सुश्लिष्टानि तथा राजन परानिनाम इह संभवः 98 शब्दः सपर्शॊ रसॊ रूपं गन्धः पञ्चेन्द्रियाणि च पृथग आत्मा दशात्मानः संश्लिष्टा जतु काष्ठवत 99 न चैषां चॊदना का चिद अस्तीत्य एष विनिश्चयः एकैकस्येह विज्ञानं नास्त्य आत्मनि तथा परे 100 न वेद चक्षुश चक्षुस तवं शरॊत्रं नात्मनि वर्तते तथैव वयभिचारेण न वर्तन्ते परस्परम संश्लिष्टा नाभिजायन्ते यथाप इह पांसवः 101 बाह्यान अन्यान अपेक्षन्ते गुणांस तान अपि मे शृणु रूपं चक्षुः परकाशश च दर्शने हेतवस तरयः यथैवात्र तथान्येषु जञानज्ञेयेषु हेतवः 102 जञानज्ञेयान्तरे तस्मिन मनॊ नामापरॊ गुणः विचारयति येनायं निश्चये साध्वसाधुनी 103 दवादशस तव अपरस तत्र बुद्धिर नाम गुणः समृतः येन संशय पूर्वेषु बॊद्धव्येषु वयवस्यति 104 अथ दवादशके तस्मिन सत्त्वं नामापरॊ गुणः महासत्त्वॊ ऽलपसत्त्वॊ वा जन्तुर येनानुमीयते 105 कषेत्रज्ञ इति चाप्य अन्यॊ गुणस तत्र चतुर्दशः ममायम इति येनायं मन्यते न च मन्यते 106 अथ पञ्चदशॊ राजन गुणस तत्रापरः समृतः पृथक कला समूहस्य सामग्र्यं तद इहॊच्यते 107 गुणस तव एवापरस तत्र संघात इति सॊदशः आकृतिर वयक्तिर इत्य एतौ गुणौ यस्मिन समाश्रितौ 108 सुखदुःखे जरामृत्यू लाभालाभौ परियाप्रिये इति चैकॊनविंशॊ ऽयं दवन्द्वयॊग इति समृतः 109 ऊर्ध्वम एकॊनविंशत्याः कालॊ नामापरॊ गुणः इतीमं विद्धि विंशत्या भूतानां परभवाप्ययम 110 विश्मकश चैष संघातॊ महाभूतानि पञ्च च सदसद भावयॊगौ च गुणाव अन्यौ परकाशकौ 111 इत्य एवं विंशतिश चैव गुणाः सप्त च ये समृताः विधिः शुक्रं बलं चेति तरय एते गुणाः परे 112 एकविंशश च दश च कलाः संख्यानतः समृताः समग्रा यत्र वर्तन्ते तच छरीरम इति समृतम 113 अव्यक्तं परकृतिं तव आसां कलानां कश चिद इच्छति वयक्तं चासां तथैवान्यः सथूलदर्शी परपश्यति 114 अव्यक्तं यदि वा वयक्तं दवयीम अथ चतुष्टयीम परकृतिं सर्वभूतानां पश्यन्त्य अध्यात्मचिन्तकाः 115 सेयं परकृतिर अव्यक्ता कलाभिर वयक्ततां गता अहं च तवं च राजेन्द्र ये चाप्य अन्ये शरीरिणः 116 बिन्दुन्यासादयॊ ऽवस्थाः शुक्रशॊनित संभवाः यासाम एव निपातेन कललं नाम जायते 117 कललाद अर्बुदॊत्पत्तिः पेशी चाप्य अर्बुदॊद्भवा पेश्यास तव अङ्गाभिनिर्वृत्तिर नखरॊमाणि चाङ्गतः 118 संपूर्णे नवमे मासे जन्तॊर जातस्य मैथिल जायते नाम रूपत्वं सत्री पुमान वेति लिङ्गतः 119 जातमात्रं तु तद रूपं दृष्ट्वा ताम्रनखाङ्गुलि कौमार रूपम आपन्नं रूपतॊ न पलभ्यते 120 कौमाराद यौवनं चापि सथाविर्यं चापि यौवनात अनेन करमयॊगेन पूर्वं पूर्वं न लभ्यते 121 कलानां पृथग अर्थानां परतिभेदः कषणे कषणे वर्तते सर्वभूतेषु सौक्ष्म्यात तु न विभाव्यते 122 न चैषाम अप्ययॊ राजँल लक्ष्यते परभवॊ न च अवस्थायाम अवस्थायां दीपस्येवार्चिषॊ गतिः 123 तस्याप्य एवं परभावस्य सदश्वस्येव धावतः अजस्रं सर्वलॊकस्य कः कुतॊ वा न वा कुतः 124 कस्येदं कस्य वा नेदं कुतॊ वेदं न वा कुतः संबन्धः कॊ ऽसति भूतानां सवैर अप्य अवयवैर इह 125 यथादित्यान मणेश चैव वीरुद्भ्यश चैव पावकः भवेत्य एवं समुदयात कलानाम अपि जन्तवः 126 आत्मन्य एवात्मनात्मानं यथा तवम अनुपश्यसि एवम एवात्मनात्मानम अन्यस्मिन किं न पश्यसि यद्य आत्मनि परस्मिंश च समताम अध्यवस्यसि 127 अथ मां कासि कस्येति किमर्थम अनुपृच्छसि इदं मे सयाद इदं नेति दवन्द्वैर मुक्तस्य मैथिल कासि कस्य कुतॊ वेति वचने किं परयॊजनम 128 रिपौ मित्रे ऽथ मध्यस्थे विजये संधिविग्रहे कृतवान यॊ महीपाल किं तस्मिन मुक्तलक्षणम 129 तरिवर्गे सप्तधा वयक्तं यॊ न वेदेह कर्मसु सङ्गवान यस तरिवर्गे च किं तस्मिन मुक्तलक्षणम 130 परिये चैवाप्रिये चैव दुर्बले बलवत्य अपि यस्य नास्ति समं चक्षुः किं तस्मिन मुक्तलक्षणम 131 तद अमुक्तस्य ते मॊक्षे यॊ ऽभिमानॊ भवेन नृप सुहृद्भिः स निवार्यस ते विचित्तस्येव भेषजैः 132 तानि तान्य अनुसंदृश्य सङ्गस्थानान्य अरिंदम आत्मनात्मनि संपश्येत किं तस्मिन मुक्तलक्षणम 133 इमान्य अन्यानि सूक्ष्माणि मॊक्षम आश्रित्य कानि चित चतुरङ्ग परवृत्तानि सङ्गस्थानानि मे शृणु 134 य इमां पृथिवीं कृत्स्नाम एकछत्त्रां परशास्ति ह एकम एव स वै राजा पुरम अध्यावसत्य उत 135 तत पुरे चैकम एवास्य गृहं यद अधितिष्ठति गृहे शयनम अप्य एकं निशायां यत्र लीयते 136 शय्यार्धं तस्य चाप्य अत्र सत्रीपूर्वम अधितिष्ठति तद अनेन परसङ्गेन फलेनैवेह युज्यते 137 एवम एवॊपभॊगेषु भॊजनाच छादनेषु च गुणेषु परिमेयेषु निग्रहानुग्रहौ परति 138 परतन्त्रः सदा राजा सवल्पे सॊ ऽपि परसज्यते संधिविग्रहयॊगे च कुतॊ राज्ञः सवतन्त्रता 139 सत्रीषु करीदा विहारेषु नित्यम अस्यास्वतन्त्रता मन्त्रे चामात्य समितौ कुत एव सवतन्त्रता 140 यदा तव आज्ञापयत्य अन्यांस तदास्यॊक्ता सवतन्त्रता अवशः कार्यते तत्र तस्मिंस तस्मिन गुणे सथितः 141 सवप्तु कामॊ न लभते सवप्तुं कार्यार्थिभिर जनैः शयने चाप्य अनुज्ञातः सुप्त उत्थाप्यते ऽवशः 142 सनाह्य आलभ पिब पराश जुहुध्य अग्नीन यजेति च वदस्य शृणु चापीति विवशः कार्यते परैः 143 अभिगम्याभिगम्यैनं याचन्ते सततं नराः न चाप्य उत्सहते दातुं वित्तरक्षी महाजनात 144 दाने कॊशक्षयॊ हय अस्य वैरं चाप्य अरयच्छतः कषणेनास्यॊपवर्तन्ते दॊषा वैराग्य कारकाः 145 पराज्ञाञ शूरांस तथैवाध्यान एकस्थाने ऽपि शङ्कते भयम अप्य अभये राज्ञॊ यैश च नित्यम उपास्यते 146 यदा चैते परदुष्यन्ति राजन ये कीर्तिता मया तदैवास्य भयं तेभ्यॊ जायते पश्य यादृशम 147 सर्वः सवे सवे गृहे राजा सर्वः सवे सवे गृहे गृही निग्रहानुग्रहौ कुर्वंस तुल्यॊ जनकराजभिः 148 पुत्रा दारास तथैवात्मा कॊशॊ मित्राणि संचयः परैः साधारणा हय एते तैस तैर एवास्य हेतुभिः 149 हतॊ देशः पुरं दग्धं परधानः कुञ्जरॊ मृतः लॊकसाधारणेष्व एषु मिथ्या जञानेन तप्यते 150 अमुक्तॊ मानसैर दुःखैर इछा दवेषप्रियॊद्भवैः शिरॊ रॊगादिभी रॊगैस तथैव विनिपातिभिः 151 दवन्द्वैस तैस तैर उपहतः सर्वतः परिशङ्कितः बहु परत्यर्थिकं राज्यम उपास्ते गणयन निशाः 152 तद अल्पसुखम अत्यर्थं बहुदुःखम असारवत कॊ राज्यम अभिपद्येत पराप्य चॊपशमं लभेत 153 ममेदम इति यच चेदं पुरं रास्त्रं च मन्यसे बलं कॊशम अमात्यांश च कस्यैतानि न वा नृप 154 मित्रामात्यं पुरं रास्त्रं दन्दः कॊशॊ महीपतिः सप्ताङ्गश चक्रसंघातॊ राज्यम इत्य उच्यते नृप 155 सप्ताङ्गस्यास्य राज्यस्य तरिदण्डस्येव तिष्ठतः अन्यॊन्यगुणयुक्तस्य कः केन गुणतॊ ऽधिकः 156 तेषु तेषु हि कालेषु तत तद अङ्गं विशिष्यते येन यत सिध्यते कार्यं तत पराधान्याय कल्पते 157 सप्ताङ्गश चापि संघातस तरयश चान्ये नृपॊत्तम संभूय दशवर्गॊ ऽयं भुङ्क्ते राज्यं हि राजवत 158 यश च राजा महॊत्साहः कषत्रधर्मरतॊ भवेत स तुष्येद दश भागेन ततस तव अन्यॊ दशावरैः 159 नास्त्य असाधारणॊ राजा नास्ति राज्यम अराजकम राज्ये ऽसति कुतॊ धर्मॊ धर्मे ऽसति कुतः परम 160 यॊ ऽपय अत्र परमॊ धर्मः पवित्रं राजराज्ययॊः पृथिवी दक्षिणा यस्य सॊ ऽशवमेधॊ न विद्यते 161 साहम एतानि कर्माणि राज्यदुःखानि मैथिल समर्था शतशॊ वक्तुम अथ वापि सहस्रशः 162 सवदेहे नाभिषङ्गॊ मे कुतः परपरिग्रहे न माम एवंविधां मुक्ताम ईदृशं वक्तुम अर्हसि 163 ननु नाम तवया मॊक्षः कृत्स्नः पञ्च शिखाच छरुतः सॊपायः सॊपनिषदः सॊपासङ्गः सनिश्चयः 164 तस्य ते मुक्तसङ्गस्य पाशान आक्रम्य तिष्ठतः छत्त्रादिषु विशेषेषु कथं सङ्गः पुनर नृप 165 शरुतं ते न शरुतं मन्ये मिथ्या वापि शरुतं शरुतम अथ वा शरुतसंकाशं शरुतम अन्यच छरुतं तवया 166 अथापीमासु संज्ञासु लौकिकीषु परतिष्ठसि अभिषङ्गावरॊधाभ्यां बद्धस तवं पराकृतॊ मया 167 सत्त्वेनानुप्रवेशॊ हि यॊ ऽयं तवयि कृतॊ मया किं तवापकृतं तत्र यदि मुक्तॊ ऽसि सर्वतः 168 नियमॊ हय एष धर्मेषु यतीनां शून्यवासिता शून्यम आवासयन्त्या च मया किं कस्य दूसितम 169 न पानिभ्यां न बाहुभ्यां पादॊरुभ्यां न चानघ न गात्रावयवैर अन्यैः सपृशामि तवा नराधिप 170 कुले महति जातेन हरीमता दीर्घदर्शिना नैतत सदसि वक्तव्यं सद वासद वा मिथः कृतम 171 बराह्मणा गुरवश चेमे तथामात्या गुरूत्तमाः तवं चाथ गुरुर अप्य एषाम एवम अन्यॊन्यगौरवम 172 तद एवम अनुसंदृश्य वाच्यावाच्यं परीक्षता सत्रीपुंसॊ समवायॊ ऽयं तवया वाच्यॊ न संसदि 173 यथा पुष्कर पर्णस्थं जलं तत्पर्णसंस्थितम तिष्ठत्य अस्पृशती तद्वत्त्वयि वत्स्यामि मैथिल 174 यदि वाप्य अस्पृशन्त्या मे सपर्शं जानासि कं चन जञानं कृतम अबीजं ते कथं तेनेह भिक्षुणा 175 स गार्हस्थ्याच चयुतश च तवं मॊक्षं नावाप्य दुर्विदम उभयॊर अन्तराले च वर्तसे मॊक्षवातिकः 176 न हि मुक्तस्य मुक्तेन जञस्यैकत्व पृथक्त्वयॊः भावाभाव समायॊगे जायते वर्णसंकरः 177 वर्णाश्रमपृथक्त्वे च दृष्टार्थस्यापृथक्त्विनः नान्यद अन्यद इति जञात्वा नान्यद अन्यत परवर्तते 178 पानौ कुन्दं तथा कुन्दे पयः पयसि मक्षिकाः आश्रिताश्रय यॊगेन पृथक्त्वेनाश्रया वयम 179 न तु कुन्दे पयॊ भावः पयश चापि न मक्षिकाः सवयम एवाश्रयन्त्य एते भावा न तु पराश्रयम 180 पृथक्त्वाद आश्रमाणां च वर्णान्यत्वे तथैव च परस्परपृथक्त्वाच च कथं ते वर्णसंकरः 181 नास्मि वर्णॊत्तमा जात्या न वैश्या नावरा तथा तव राजन सवर्णास्मि शुद्धयॊनिर अविप्लुता 182 परधानॊ नाम राजर्षिर वयक्तं ते शरॊत्रम आगतः कुले तस्य समुत्पन्नां सुलभां नाम विद्धि माम 183 दरॊणश च शतशृङ्गश च वक्रद्वारश च पर्वतः मम सत्त्रेषु पूर्वेषां चिता मघवता सह 184 साहं तस्मिन कुले जाता भर्तर्य असति मद्विधे विनीता मॊक्षधर्मेषु चराम्य एका मुनिव्रतम 185 नास्मि सत्त्र परतिच्छन्ना न परस्वाभिमानिनी न धर्मसंकरकरी सवधर्मे ऽसमि धृतव्रता 186 नास्थिरा सवप्रतिज्ञायां नासमीक्ष्य परवादिनी नासमीक्ष्यागता चाहं तवत्सकाशं जनाधिप 187 मॊक्षे ते भवितां बुद्धिं शरुत्वाहं कुशलैषिणी तव मॊक्षस्य चाप्य अस्य जिज्ञासार्थम इहागता 188 न वर्गस्था बरवीम्य एतत सवपक्ष परपक्षयॊः मुक्तॊ न मुच्यते यश च शान्तॊ यश च न शाम्यति 189 यथा शून्ये पुरागारे भिक्षुर एकां निशां वसेत तथा हि तवच छरीरे ऽसमिन्न इमां वत्स्यामि शर्वतीम 190 साहम आसनदानेन वाग आतिथ्येन चार्चिता सुप्ता सुशरणा परीता शवॊ गमिष्यामिमैथिल 191 इत्य एतानि स वाक्यानि हेतुमन्त्य अर्थवन्ति च शरुत्वा नाधिजगौ राजा किं चिद अन्यद अतः परम |
1
[y] aparityajya gārhasthyaṃ kururājarṣisattama kaḥ prāpto vinayaṃ buddhyā mokṣatattvaṃ vadasva me 2 saṃnyasyate yathātmāyaṃ saṃnyastātmā yathā ca yaḥ paraṃ mokṣasya yac cāpi tan me brūhi pitāmaha 3 [bhī] atrāpy udāharantīmam itihāsaṃ purātanam janakasya ca saṃvādaṃ sulabhāyāś ca bhārata 4 saṃnyāsaphalikaḥ kaś cid babhūva nṛpatiḥ purā maithilo janako nāma dharmadhvaja iti śrutaḥ 5 sa vede mokṣaśāstre ca sve ca śāstre kṛtāgamaḥ indriyāṇi samādhāya śaśāsa vasudhām imām 6 tasya vedavidaḥ prājñāḥ śrutvā tāṃ sādu vṛttatām lokeṣu spṛhayanty anye puruṣāḥ puruṣeśvara 7 atha dharmayuge tasmin yogadharmam anuṣṭhitā mahīm anucacāraikā sulabhā nāma bhikṣukī 8 tayā jagad idaṃ saṃvam atantyā mithileśvaraḥ tatra tatra śruto mokṣe kathyamānas tridandibhiḥ 9 sā susūkṣmāṃ kathāṃ śrutvā tathyaṃ neti sasaṃśayā darśane jātasaṃkalpā janakasya babhūva ha 10 tataḥ sā viprahāyātha pūrvarūpaṃ hi yogataḥ abibhrad anavadyāṅgī rūpam anyad anuttamam 11 cakṣur nimeṣa mātreṇa laghv astragatigāminī videhānāṃ purīṃ subhrūr jagāma kamalekṣaṇā 12 sā prāpya mithilāṃ ramyāṃ samṛddhajanasaṃkulām bhaikṣacaryāpadeśena dadarśa mithileśvaram 13 rājā tasyāḥ paraṃ dṛṣṭvā saukumāryaṃ vapus tathā keyaṃ kasya kuto veti babhūvāgata vismayaḥ 14 tato 'syāḥ svāgataṃ kṛtvā vyādiśya ca varāsanam pūjitāṃ pādaśaucena varānnenāpy atarpayat 15 atha bhuktavatī prītā rājānaṃ mantribhir vṛtam sarvabhāṣyavidāṃ madhye codayām āsa bhikṣukī 16 sulabhā tv asya dharmeṣu mukto neti sasaṃśayā sattvaṃ sattvena yogajñā praviveśa mahīpate 17 netrābhyāṃ netrayor asya raśmīn saṃyojya raśmibhiḥ sā sma saṃcodayiṣyantamyoga bandhair babandha ha 18 janako 'py utsmayan rājā bhāvam asyā viśeṣayan pratijagrāha bhāvena bhāvam asyā nṛpottamaḥ 19 tad ekasminn adhiṣṭhāne saṃvādaḥ śrūyatām ayam chattrādiṣu vimuktasya muktāyāś ca tridaṇḍake 20 bhagavatyāḥ kva caryeyaṃ kṛtā kva ca gamiṣyasi kasya ca tvaṃ kuto veti papracchaināṃ mahīpatiḥ 21 śrute vayasi jātau ca sadbhāvo nādhigamyate eṣv artheṣūttaraṃ tasmāt pravedyaṃ taḥ samāgame 22 chattrādiṣu viśeṣeṣu muktaṃ māṃ viddhi sarvaśaḥ sa tvāṃ saṃmantum icchāmi māhārhāsi matā hi me 23 yasmāc caitan mayā prāptaṃ jñānaṃ vaiśeṣikaṃ purā yasya nānyaḥ pravaktāsti mokṣe tam api me śṛṇu 24 pārāśaryasa gotrasya vṛddhasya sumahātmanaḥ bhikṣoḥ pañcaśikhasyāhaṃ śiṣyaḥ paramasaṃmataḥ 25 sāṃkhyajñāne tathā yoge mahīpāla vidhau tathā trividhe mokṣadharme 'smin gatādhvā chinnasaṃśayaḥ 26 sa yathāśāstradṛṣṭena mārgeṇeha parivrajan vārṣikāṃś caturo māsān purā mayi sukhoṣitaḥ 27 tenāhaṃ sāṃkya mukhyena sudṛṣṭārthena tattvataḥ śrāvitas trividhaṃ mokṣaṃ na ca rājyād vicālitha 28 so 'haṃ tām akhilāṃ vṛttiṃ trividhāṃ mokṣasaṃhitām muktarāgaś carāmy ekaḥ pade paramake sthitaḥ 29 vairāgyaṃ punar etasya mokṣasya paramo vidhiḥ jñānād eva ca vairāgyaṃ jāyate yena mucyate 30 jñānena kurute yatnaṃ yatnena prāpyate mahat mahad dvandvapramokṣāya sā siddhir yā vayo 'tigā 31 seyaṃ paramikā buddhiḥ prāptā nirdvandvatā mayā ihaiva gatamohena caratā muktasaṅginā 32 yathā kṣetraṃ mṛdū bhūtam adbhir āplāvitaṃ tathā janayaty aṅkuraṃ karma nṛṇāṃ tadvat punarbhavam 33 yathā cottāpitaṃ bījaṃ kapāle yatra yatra vā prāpyāpy aṅkura hetutvam abījatvān na jāyate 34 tadvad bhagavatā tena śikhā proktena bhikṣuṇā jñānaṃ kṛtam abījaṃ me viṣayeṣu na jāyate 35 nābhiṣajjati kasmiṃś cin nānarthe na parigrahe nābhirajyati caiteṣu vyarthatvād rāgadoṣayoḥ 36 yaś ca me dakṣiṇaṃ bāhuṃ candanena samukṣayet savyaṃ vāsyā ca yas takṣet samāv etāv ubhau mama 37 sukhī so 'ham avāptārthaḥ samalokṣāśma kāñcanaḥ muktasaṅgaḥ sthito rājye viśiṣṭo 'nyais tridandibhiḥ 38 mokṣe hi trividhā niṣṭhā dṛṣṭā pūrvair maharṣibhiḥ jñānaṃ lokottaraṃ yac ca sarvatyāgaś ca karmaṇām 39 jñānaniṣṭhāṃ vadanty eke mokṣaśāstravido janāḥ karma niṣṭhāṃ tathaivānye yatayaḥ sūkṣmadarśinaḥ 40 prahāyobhayam apy etaj jñānaṃ karma ca kevalam tṛtīyeyaṃ samākhyātā niṣṭhā tena mahātmanā 41 yame ca niyame caiva dveṣe kāme parigrahe māne dambhe tathā snehe sadṛśās te kuṭumbibhiḥ 42 tridaṇḍādiṣu yady asti mokṣo jñānena kena cit chattrādiṣu kathaṃ na syāt tulyahetau parigrahe 43 yena yena hi yasyārthaḥ kāraṇeneha kasya cit tat tad ālambate dravyaṃ sarvaḥ sve sve parigrahe 44 doṣadarśī tu gārhasthye yo vrajaty āśramāntaram utsṛjan parigṛhnaṃś ca so 'pi saṅgān na mucyate 45 ādhipatye tathā tulye nigrahānugrahātmani rājarṣibhikṣukācāryā mucyante kena ketunā 46 atha satyādhipatye 'pi jñānenaiveha kevalam mucyante kiṃ na mucyante pade paramake sthitaḥ 47 kāsāya dhāraṇaṃ maundyaṃ triviṣṭabdhaḥ kamandaluḥ liṅgāny atyartham etāni na mokṣāyeti me matiḥ 48 yadi saty api liṅge 'smiñ jñānam evātra kāraṇam nirmokṣāyeha duḥkhasya liṅgamātraṃ nirarthakam 49 atha vā duḥkhaśaithilyaṃ vīkṣya liṅge kṛtā matiḥ kiṃ tad evārthasāmānya chattrādiṣu na lakṣyate 50 ākiṃcanye ca mokṣo 'sti kaiṃcanye nāsti bandhanam kaiṃcanye cetare caiva jantur jñānena mucyate 51 tasmād dharmārthakāmeṣu tathā rājyaparigrahe bandhanāyataneṣv eṣu viddhy abandhe pade sthitam 52 rājyaiśvaryamayaḥ pāśaḥ snehāyatana bandhanaḥ mokṣāśma niśiteneha chinnas tyāgāsinā mayā 53 so 'ham evaṃgato mukto jātāsthas tvayi bhikṣuki ayathārtho hi te varṇo vakṣyāmi śṛṇu tan mama 54 saukumāryaṃ tathārūpaṃ vapur agryaṃ tathā vayaḥ tavaitāni samastāni niyamaś ceti saṃśayaḥ 55 yac cāpy ananurūpaṃ te liṅgasyāsya viceṣṭitam mukto 'yaṃ syān na vety asmād dharṣito matparigrahaḥ 56 na ca kāmasamāyukte mukte 'py asti tridaṇḍakam na rakṣyate tvayā cedaṃ na muktasyāsti gopanā 57 mat pakṣasaṃśrayāc cāyaṃ śṛṇu yas te vyatikramaḥ āśrayantyāḥ svabhāvena mama pūrvaparigraham 58 praveśas te kṛtaḥ kena mama rāstre pure tathā kasya vā saṃnisargāt tvaṃ praviṣṭā hṛdayaṃ mama 59 varṇapravara mukhyāsi brāhmaṇī kṣatriyo hy aham nāvayor ekayogo 'sti mā kṛthā varṇasaṃkaram 60 vartase mokṣadharmeṣu gārhasthye tv aham āśrame ayaṃ cāpi sukastas te dvitīyo ''śramasaṃkaraḥ 61 sagotrāṃ vāsagotrāṃ vā na veda tvāṃ na vettha mām sagotram āviśantyās te tṛtīyo gotra saṃkaraḥ 62 atha jīvati te bhartā proṣito 'py atha vā kva cit agamyā parabhāryeti caturtho dharmasaṃkaraḥ 63 sā tvam etāny akāryāṇi kāryāpekṣā vyavasyasi avijñānena vā yuktā mithyā jñānena vā punaḥ 64 atha vāpi svatantrāsti svadoṣeṇeha kena cit yadi kiṃ cic chrutaṃ te 'si sarvaṃ kṛtam anarthakam 65 idam anyat tṛtīyaṃ te bhāvasparśa vighātakam duṣṭāyā lakṣyate liṅgaṃ pravaktavyaṃ prakāśitam 66 na mayy evābhisaṃdhis te jayaiṣiṇyā jaye kṛtaḥ yeyaṃ matpariṣat kṛtsnā jetum icchasi tām api 67 tathā hy evaṃ punaś ca tvaṃ dṛṣṭiṃ svāṃ pratimuñcasi mat pakṣapratighātāya svapakṣodbhāvanāya ca 68 sā svenāmarṣajena tvam ṛddhimohena mohitā bhūyaḥ sṛjasi yogāstraṃ viṣāmṛtam ivaikadhā 69 icchator hi dvayor lābhaḥ strīpuṃsor amṛtopamaḥ alābhaś cāpy araktasya so 'tra doṣo viṣopamaḥ 70 mā sprakṣīḥ sadhu jānīsva svaśāstram anupālaya kṛteyaṃ hi vijijñāsā mukto neti tvayā mama etat sarvaṃ praticchannaṃ mayi nārhasi gūhitum 71 sā yadi tvaṃ svakāryeṇa yady anyasya mahīpateḥ tattvaṃ sattra praticchannā mayi nārhasi gūhitum 72 na rājānaṃ mṛṣā gacchen na dvijātiṃ kathaṃcanan na striyaṃ strī guṇopetāṃ hanyur hy ete mṛṣā gatāḥ 73 rājñāṃ hi balam aiśvaryaṃ brahma brahmavidāṃ balam rūpayauvana saubhāgyaṃ strīṇāṃ balam anuttamam 74 ata etair balair eta balinaḥ svārtham icchatā ārjavenābhigantavyā vināśāya hy anārjavam 75 sā tvaṃ jātiṃ śrutaṃ vṛttaṃ bhāvaṃ prakṛtim ātmanaḥ kṛtyam āgamane caiva vaktum arhasi tattvataḥ 76 ity etair asukhair vākyair ayuktair asamañjasaiḥ pratyādiṣṭā narendreṇa sulabhā na vyakampata 77 uktavākye tu nṛpatau sulabhā cārudarśanā tataś cārutaraṃ vākyaṃ pracakrāmātha bhāsitum 78 navabhir navabhiś caiva doṣair vāgbuddhidūsanaiḥ apetam upapannārtham astā daśaguṇānvitam 79 saukṣmyaṃ saṃkhyā kramau cobhau nirnayaḥ saprayojanaḥ pañcaitāny arthajātāni vākyam ity ucyate nṛpa 80 eṣām ekaikaśo 'rthānāṃ saukṣmyādīnāṃ sulakṣaṇam śṛṇu saṃsāryamāṇānāṃ padārthaiḥ padavākyataḥ 81 jñānaṃ jñeyeṣu bhinneṣu yathā bhedena vartate tatrātiśayinī buddhis tat saukṣmyam iti vartate 82 doṣāṇāṃ ca guṇānāṃ ca pramāṇaṃ praivibhāgaśaḥ kaṃ cid artham abhipretya sā saṃkhyety upadhāryatām 83 idaṃ pūrvam idaṃ paścād vaktavyaṃ yad vivakṣitam kramayogaṃ tam apy āhur vākyaṃ vākyavido janāḥ 84 dharmārthakāmamokṣeṣu pratijñāya viśeṣataḥ idaṃ tad iti vākyānte procyate sa vinirnayaḥ 85 icchā dveṣabhavair duḥkhaiḥ prakarṣo yatra jāyate tatra yā nṛpate vṛttis tat prayojanam iṣyate 86 tāny etāni yathoktāni saikṣmyādīni janādhipa ekārthasamavetāni vākyaṃ mama niśāmaya 87 upetārtham abhinnārthaṃ nāpavṛttaṃ na cādhikam nāślakṣṇaṃ na ca saṃdigdhaṃ vakṣyāmi paramaṃ tava 88 na gurv akṣarasaṃbaddhaṃ parāṅmukha mukhaṃ na ca nānṛtaṃ na trivargeṇa viruddhaṃ nāpy asaṃkṣṛtam 89 na nyūnaṃ kasta śabdaṃ vā vyutkramābhihitaṃ na ca na śeṣaṃ nānukalpena niṣkāraṇam ahetukam 90 kāmāt krodhād bhayāl lobhād dainyād ānāryakāt tathā hrīto 'nukrośato mānān na vakṣyāmi kathaṃ cana 91 vaktā śrotā ca vākyaṃ ca yadā tvāvikalaṃ nṛpa samam eti vivakṣāyāṃ tadā so 'rthaḥ prakāśate 92 vaktavye tu yadā vaktā śrotāram avamanyate svārtham āha parārthaṃ vā tadā vākyaṃ na rohati 93 atha yaḥ svārtham utsṛjya parārthaṃ prāha mānavaḥ viśaṅkā jāyate tasmin vākyaṃ tad api doṣavat 94 yas tu vaktā dvayor artham aviruddhaṃ prabhāsate śrotuś caivātmanaś caiva sa vaktā netaro nṛpa 95 tadarthavad idaṃ vākyam upetaṃ vākyasaṃpadā avikṣipta manā rājann ekāgraḥ śrotum arhasi 96 kāsi kasya kuto veti tvayāham abhicoditā tatrottaram idaṃ vākyaṃ rājann ekamanāḥ śṛṇu 97 yathā jatu ca kāṣṭhaṃ ca pāṃsavaś coda bindubhiḥ suśliṣṭāni tathā rājan prāninām iha saṃbhavaḥ 98 śabdaḥ sparśo raso rūpaṃ gandhaḥ pañcendriyāṇi ca pṛthag ātmā daśātmānaḥ saṃśliṣṭā jatu kāṣṭhavat 99 na caiṣāṃ codanā kā cid astīty eṣa viniścayaḥ ekaikasyeha vijñānaṃ nāsty ātmani tathā pare 100 na veda cakṣuś cakṣus tvaṃ śrotraṃ nātmani vartate tathaiva vyabhicāreṇa na vartante parasparam saṃśliṣṭā nābhijāyante yathāpa iha pāṃsavaḥ 101 bāhyān anyān apekṣante guṇāṃs tān api me śṛṇu rūpaṃ cakṣuḥ prakāśaś ca darśane hetavas trayaḥ yathaivātra tathānyeṣu jñānajñeyeṣu hetavaḥ 102 jñānajñeyāntare tasmin mano nāmāparo guṇaḥ vicārayati yenāyaṃ niścaye sādhvasādhunī 103 dvādaśas tv aparas tatra buddhir nāma guṇaḥ smṛtaḥ yena saṃśaya pūrveṣu boddhavyeṣu vyavasyati 104 atha dvādaśake tasmin sattvaṃ nāmāparo guṇaḥ mahāsattvo 'lpasattvo vā jantur yenānumīyate 105 kṣetrajña iti cāpy anyo guṇas tatra caturdaśaḥ mamāyam iti yenāyaṃ manyate na ca manyate 106 atha pañcadaśo rājan guṇas tatrāparaḥ smṛtaḥ pṛthak kalā samūhasya sāmagryaṃ tad ihocyate 107 guṇas tv evāparas tatra saṃghāta iti sodaśaḥ ākṛtir vyaktir ity etau guṇau yasmin samāśritau 108 sukhaduḥkhe jarāmṛtyū lābhālābhau priyāpriye iti caikonaviṃśo 'yaṃ dvandvayoga iti smṛtaḥ 109 ūrdhvam ekonaviṃśatyāḥ kālo nāmāparo guṇaḥ itīmaṃ viddhi viṃśatyā bhūtānāṃ prabhavāpyayam 110 viśmakaś caiṣa saṃghāto mahābhūtāni pañca ca sadasad bhāvayogau ca guṇāv anyau prakāśakau 111 ity evaṃ viṃśatiś caiva guṇāḥ sapta ca ye smṛtāḥ vidhiḥ śukraṃ balaṃ ceti traya ete guṇāḥ pare 112 ekaviṃśaś ca daśa ca kalāḥ saṃkhyānataḥ smṛtāḥ samagrā yatra vartante tac charīram iti smṛtam 113 avyaktaṃ prakṛtiṃ tv āsāṃ kalānāṃ kaś cid icchati vyaktaṃ cāsāṃ tathaivānyaḥ sthūladarśī prapaśyati 114 avyaktaṃ yadi vā vyaktaṃ dvayīm atha catuṣṭayīm prakṛtiṃ sarvabhūtānāṃ paśyanty adhyātmacintakāḥ 115 seyaṃ prakṛtir avyaktā kalābhir vyaktatāṃ gatā ahaṃ ca tvaṃ ca rājendra ye cāpy anye śarīriṇaḥ 116 bindunyāsādayo 'vasthāḥ śukraśonita saṃbhavāḥ yāsām eva nipātena kalalaṃ nāma jāyate 117 kalalād arbudotpattiḥ peśī cāpy arbudodbhavā peśyās tv aṅgābhinirvṛttir nakharomāṇi cāṅgataḥ 118 saṃpūrṇe navame māse jantor jātasya maithila jāyate nāma rūpatvaṃ strī pumān veti liṅgataḥ 119 jātamātraṃ tu tad rūpaṃ dṛṣṭvā tāmranakhāṅguli kaumāra rūpam āpannaṃ rūpato na palabhyate 120 kaumārād yauvanaṃ cāpi sthāviryaṃ cāpi yauvanāt anena kramayogena pūrvaṃ pūrvaṃ na labhyate 121 kalānāṃ pṛthag arthānāṃ pratibhedaḥ kṣaṇe kṣaṇe vartate sarvabhūteṣu saukṣmyāt tu na vibhāvyate 122 na caiṣām apyayo rājaṁl lakṣyate prabhavo na ca avasthāyām avasthāyāṃ dīpasyevārciṣo gatiḥ 123 tasyāpy evaṃ prabhāvasya sadaśvasyeva dhāvataḥ ajasraṃ sarvalokasya kaḥ kuto vā na vā kutaḥ 124 kasyedaṃ kasya vā nedaṃ kuto vedaṃ na vā kutaḥ saṃbandhaḥ ko 'sti bhūtānāṃ svair apy avayavair iha 125 yathādityān maṇeś caiva vīrudbhyaś caiva pāvakaḥ bhavety evaṃ samudayāt kalānām api jantavaḥ 126 ātmany evātmanātmānaṃ yathā tvam anupaśyasi evam evātmanātmānam anyasmin kiṃ na paśyasi yady ātmani parasmiṃś ca samatām adhyavasyasi 127 atha māṃ kāsi kasyeti kimartham anupṛcchasi idaṃ me syād idaṃ neti dvandvair muktasya maithila kāsi kasya kuto veti vacane kiṃ prayojanam 128 ripau mitre 'tha madhyasthe vijaye saṃdhivigrahe kṛtavān yo mahīpāla kiṃ tasmin muktalakṣaṇam 129 trivarge saptadhā vyaktaṃ yo na vedeha karmasu saṅgavān yas trivarge ca kiṃ tasmin muktalakṣaṇam 130 priye caivāpriye caiva durbale balavaty api yasya nāsti samaṃ cakṣuḥ kiṃ tasmin muktalakṣaṇam 131 tad amuktasya te mokṣe yo 'bhimāno bhaven nṛpa suhṛdbhiḥ sa nivāryas te vicittasyeva bheṣajaiḥ 132 tāni tāny anusaṃdṛśya saṅgasthānāny ariṃdama ātmanātmani saṃpaśyet kiṃ tasmin muktalakṣaṇam 133 imāny anyāni sūkṣmāṇi mokṣam āśritya kāni cit caturaṅga pravṛttāni saṅgasthānāni me śṛṇu 134 ya imāṃ pṛthivīṃ kṛtsnām ekachattrāṃ praśāsti ha ekam eva sa vai rājā puram adhyāvasaty uta 135 tat pure caikam evāsya gṛhaṃ yad adhitiṣṭhati gṛhe śayanam apy ekaṃ niśāyāṃ yatra līyate 136 śayyārdhaṃ tasya cāpy atra strīpūrvam adhitiṣṭhati tad anena prasaṅgena phalenaiveha yujyate 137 evam evopabhogeṣu bhojanāc chādaneṣu ca guṇeṣu parimeyeṣu nigrahānugrahau prati 138 paratantraḥ sadā rājā svalpe so 'pi prasajyate saṃdhivigrahayoge ca kuto rājñaḥ svatantratā 139 strīṣu krīdā vihāreṣu nityam asyāsvatantratā mantre cāmātya samitau kuta eva svatantratā 140 yadā tv ājñāpayaty anyāṃs tadāsyoktā svatantratā avaśaḥ kāryate tatra tasmiṃs tasmin guṇe sthitaḥ 141 svaptu kāmo na labhate svaptuṃ kāryārthibhir janaiḥ śayane cāpy anujñātaḥ supta utthāpyate 'vaśaḥ 142 snāhy ālabha piba prāśa juhudhy agnīn yajeti ca vadasya śṛṇu cāpīti vivaśaḥ kāryate paraiḥ 143 abhigamyābhigamyainaṃ yācante satataṃ narāḥ na cāpy utsahate dātuṃ vittarakṣī mahājanāt 144 dāne kośakṣayo hy asya vairaṃ cāpy arayacchataḥ kṣaṇenāsyopavartante doṣā vairāgya kārakāḥ 145 prājñāñ śūrāṃs tathaivādhyān ekasthāne 'pi śaṅkate bhayam apy abhaye rājño yaiś ca nityam upāsyate 146 yadā caite praduṣyanti rājan ye kīrtitā mayā tadaivāsya bhayaṃ tebhyo jāyate paśya yādṛśam 147 sarvaḥ sve sve gṛhe rājā sarvaḥ sve sve gṛhe gṛhī nigrahānugrahau kurvaṃs tulyo janakarājabhiḥ 148 putrā dārās tathaivātmā kośo mitrāṇi saṃcayaḥ paraiḥ sādhāraṇā hy ete tais tair evāsya hetubhiḥ 149 hato deśaḥ puraṃ dagdhaṃ pradhānaḥ kuñjaro mṛtaḥ lokasādhāraṇeṣv eṣu mithyā jñānena tapyate 150 amukto mānasair duḥkhair ichā dveṣapriyodbhavaiḥ śiro rogādibhī rogais tathaiva vinipātibhiḥ 151 dvandvais tais tair upahataḥ sarvataḥ pariśaṅkitaḥ bahu pratyarthikaṃ rājyam upāste gaṇayan niśāḥ 152 tad alpasukham atyarthaṃ bahuduḥkham asāravat ko rājyam abhipadyeta prāpya copaśamaṃ labhet 153 mamedam iti yac cedaṃ puraṃ rāstraṃ ca manyase balaṃ kośam amātyāṃś ca kasyaitāni na vā nṛpa 154 mitrāmātyaṃ puraṃ rāstraṃ dandaḥ kośo mahīpatiḥ saptāṅgaś cakrasaṃghāto rājyam ity ucyate nṛpa 155 saptāṅgasyāsya rājyasya tridaṇḍasyeva tiṣṭhataḥ anyonyaguṇayuktasya kaḥ kena guṇato 'dhikaḥ 156 teṣu teṣu hi kāleṣu tat tad aṅgaṃ viśiṣyate yena yat sidhyate kāryaṃ tat prādhānyāya kalpate 157 saptāṅgaś cāpi saṃghātas trayaś cānye nṛpottama saṃbhūya daśavargo 'yaṃ bhuṅkte rājyaṃ hi rājavat 158 yaś ca rājā mahotsāhaḥ kṣatradharmarato bhavet sa tuṣyed daśa bhāgena tatas tv anyo daśāvaraiḥ 159 nāsty asādhāraṇo rājā nāsti rājyam arājakam rājye 'sati kuto dharmo dharme 'sati kutaḥ param 160 yo 'py atra paramo dharmaḥ pavitraṃ rājarājyayoḥ pṛthivī dakṣiṇā yasya so 'śvamedho na vidyate 161 sāham etāni karmāṇi rājyaduḥkhāni maithila samarthā śataśo vaktum atha vāpi sahasraśaḥ 162 svadehe nābhiṣaṅgo me kutaḥ paraparigrahe na mām evaṃvidhāṃ muktām īdṛśaṃ vaktum arhasi 163 nanu nāma tvayā mokṣaḥ kṛtsnaḥ pañca śikhāc chrutaḥ sopāyaḥ sopaniṣadaḥ sopāsaṅgaḥ saniścayaḥ 164 tasya te muktasaṅgasya pāśān ākramya tiṣṭhataḥ chattrādiṣu viśeṣeṣu kathaṃ saṅgaḥ punar nṛpa 165 śrutaṃ te na śrutaṃ manye mithyā vāpi śrutaṃ śrutam atha vā śrutasaṃkāśaṃ śrutam anyac chrutaṃ tvayā 166 athāpīmāsu saṃjñāsu laukikīṣu pratiṣṭhasi abhiṣaṅgāvarodhābhyāṃ baddhas tvaṃ prākṛto mayā 167 sattvenānupraveśo hi yo 'yaṃ tvayi kṛto mayā kiṃ tavāpakṛtaṃ tatra yadi mukto 'si sarvataḥ 168 niyamo hy eṣa dharmeṣu yatīnāṃ śūnyavāsitā śūnyam āvāsayantyā ca mayā kiṃ kasya dūsitam 169 na pānibhyāṃ na bāhubhyāṃ pādorubhyāṃ na cānagha na gātrāvayavair anyaiḥ spṛśāmi tvā narādhipa 170 kule mahati jātena hrīmatā dīrghadarśinā naitat sadasi vaktavyaṃ sad vāsad vā mithaḥ kṛtam 171 brāhmaṇā guravaś ceme tathāmātyā gurūttamāḥ tvaṃ cātha gurur apy eṣām evam anyonyagauravam 172 tad evam anusaṃdṛśya vācyāvācyaṃ parīkṣatā strīpuṃso samavāyo 'yaṃ tvayā vācyo na saṃsadi 173 yathā puṣkara parṇasthaṃ jalaṃ tatparṇasaṃsthitam tiṣṭhaty aspṛśatī tadvattvayi vatsyāmi maithila 174 yadi vāpy aspṛśantyā me sparśaṃ jānāsi kaṃ cana jñānaṃ kṛtam abījaṃ te kathaṃ teneha bhikṣuṇā 175 sa gārhasthyāc cyutaś ca tvaṃ mokṣaṃ nāvāpya durvidam ubhayor antarāle ca vartase mokṣavātikaḥ 176 na hi muktasya muktena jñasyaikatva pṛthaktvayoḥ bhāvābhāva samāyoge jāyate varṇasaṃkaraḥ 177 varṇāśramapṛthaktve ca dṛṣṭārthasyāpṛthaktvinaḥ nānyad anyad iti jñātvā nānyad anyat pravartate 178 pānau kundaṃ tathā kunde payaḥ payasi makṣikāḥ āśritāśraya yogena pṛthaktvenāśrayā vayam 179 na tu kunde payo bhāvaḥ payaś cāpi na makṣikāḥ svayam evāśrayanty ete bhāvā na tu parāśrayam 180 pṛthaktvād āśramāṇāṃ ca varṇānyatve tathaiva ca parasparapṛthaktvāc ca kathaṃ te varṇasaṃkaraḥ 181 nāsmi varṇottamā jātyā na vaiśyā nāvarā tathā tava rājan savarṇāsmi śuddhayonir aviplutā 182 pradhāno nāma rājarṣir vyaktaṃ te śrotram āgataḥ kule tasya samutpannāṃ sulabhāṃ nāma viddhi mām 183 droṇaś ca śataśṛṅgaś ca vakradvāraś ca parvataḥ mama sattreṣu pūrveṣāṃ citā maghavatā saha 184 sāhaṃ tasmin kule jātā bhartary asati madvidhe vinītā mokṣadharmeṣu carāmy ekā munivratam 185 nāsmi sattra praticchannā na parasvābhimāninī na dharmasaṃkarakarī svadharme 'smi dhṛtavratā 186 nāsthirā svapratijñāyāṃ nāsamīkṣya pravādinī nāsamīkṣyāgatā cāhaṃ tvatsakāśaṃ janādhipa 187 mokṣe te bhavitāṃ buddhiṃ śrutvāhaṃ kuśalaiṣiṇī tava mokṣasya cāpy asya jijñāsārtham ihāgatā 188 na vargasthā bravīmy etat svapakṣa parapakṣayoḥ mukto na mucyate yaś ca śānto yaś ca na śāmyati 189 yathā śūnye purāgāre bhikṣur ekāṃ niśāṃ vaset tathā hi tvac charīre 'sminn imāṃ vatsyāmi śarvatīm 190 sāham āsanadānena vāg ātithyena cārcitā suptā suśaraṇā prītā śvo gamiṣyāmimaithila 191 ity etāni sa vākyāni hetumanty arthavanti ca śrutvā nādhijagau rājā kiṃ cid anyad ataḥ param |
The Mahabharata in Sanskrit
Book 12
Chapter 309
|
1
[य] कथं निर्वेदम आपन्नः शुकॊ वैयासकिः पुरा एतद इच्छामि कौरव्य शरॊतुं कौतूहलं हि मे 2 [भी] पराकृतेन सुवृत्तेन चरन्तम अकुतॊभयम अध्याप्य कृत्स्नं सवाध्यायम अन्वशाद वै पिता सुतम 3 धर्मं पुत्र निषेवस्व सुतीक्ष्णौ हि हिमातपौ कषुत्पिपासे च वायुं च जय नित्यं जितेन्द्रियः 4 सत्यम आर्जवम अक्रॊधम अनसूयां दमं तपः अहिंसां चानृशंस्यं च विधिवत परिपालय 5 सत्ये तिष्ठ रतॊ धर्मे हित्वा सर्वम अनार्जवम देवतातिथिशेषेण यात्रां पराणस्य संश्रय 6 फेनपात्रॊपमे देहे जीवे शकुनिवत सथिते अनित्ये परिय संवासे कथं सवपिषि पुत्रक 7 अप्रमत्तेषु जाग्रत्सु नित्ययुक्तेषु शत्रुषु अन्तरं लिप्समानेषु बालस तवं नावबुध्यसे 8 गण्यमानेषु वर्षेषु कषीयमाणे तथायुषि जीविते शिष्यमाणे च किम उत्थाय न धावसि 9 ऐहालौकिकम ईहन्ते मांसशॊनितवर्धनम पारलौकिककार्येषु परसुप्ता भृशनास्तिकाः 10 धर्माय ये ऽभयसूयन्ति बुद्धिमॊहान्विता नराः अपथा गच्छतां तेषाम अनुयातापि पीड्यते 11 ये तु तुष्टाः सुनियताः सत्यागम परायनाः धर्म्यं पन्थानम आरूढास तान उपास्स्व च पृच्छ च 12 उपधार्य मतं तेषां वृद्धानां धर्मदर्शिनाम नियच्छ परया बुद्ध्या चित्तम उत्पथगामि वै 13 अद्य कालिकया बुद्ध्या दूरे शव इति निर्भयाः सर्वभक्षा न पश्यन्ति कर्मभूमिं विचेतसः 14 धर्मनिःश्रेणिम आस्थाय किं चित किं चित समारुह कॊशकारवद आत्मानं वेष्टयन नावबुध्यसे 15 नास्तिकं भिन्नमर्यादं कूलपातम इवास्थिरम वामतः कुरु विस्रब्धॊ नरं वेनुम इवॊद्धतम 16 कामं करॊधं च मृत्युं च पञ्चेन्द्रिय जलां नदीम नावं धृतिमयीं कृत्वा जन्म दुर्गानि संतर 17 मृत्युनाभ्याहते लॊके जरया परिपीदिते अमॊघासु पतन्तीषु धर्मयानेन संतर 18 तिष्ठन्तं च शयानं च मृत्युर अन्वेषते यदा निर्वृतिं लभसे कस्माद अकस्मान मृत्युनाशितः 19 संचिन्वानकम एवैनं कामानाम अवितृप्तकम वृकीवॊरणम आसाद्य मृत्युर आदाय गच्छति 20 करमशः संचितशिखॊ धर्मबुद्धिमयॊ महान अन्धकारे परवेष्टव्ये दिपॊ यत्नेन धार्यते 21 संपतन देहजालानि कदा चिद इह मानुषे बराह्मण्यं लभते जन्तुस तत पुत्र परिपालय 22 बराह्मणस्य हि देहॊ ऽयं न कामार्थाय जायते इह कलेशाय तपसे परेत्य तव अनुपमं सुखम 23 बराह्मण्यं बहुभिर अवाप्यते तपॊभिस; तल लब्ध्वा न परिपनेन हेदितव्यम सवाध्याये तपसि दमे च नित्ययुक्तः; कषेमार्थी कुशलपरः सदा यतस्व 24 अव्यक्तप्रकृतिर अयं कला शरीरः; सूक्ष्मात्मा कषणत्रुतिशॊ निमेष रॊमा ऋत्वास्यः समबलशुक्लकृष्णनेत्रॊ; मानाङ्गॊ दरवति वयॊ हयॊ नराणाम 25 तं दृष्ट्वा परसृतम अजस्रम उग्रवेगं; गच्छन्तं सततम इहाव्यपेक्षमाणम चक्षुस ते यदिन परप्रणेतृनेयं; धर्मे ते भवतु मनः परं निशम्य 26 ये ऽमी तु परचलित धर्मकामवृत्ताः; करॊशन्तः सततम अनिष्ट संप्रयॊगाः कलिश्यन्ते परिगत वेदनाशरीरा; बह्वीभिः सुभृशम अधर्मवासनाभिः 27 राजा धर्मपरः सदा शुभगॊप्ता; समीक्ष्य सुकृतिनां दधाति लॊकान बहुविधम अपि चरतः परदिशति; सुखम अनुपगतं निरवद्यम 28 शवानॊ भीसनायॊ मुखानि वयांसि; वद गृध्रकुलपक्षिणां च संघाः नरां कदने रुधिरपा गुरुवचन;नुदम उपरतं विशसन्ति 29 मर्यादा नियताः सवयम्भुवा य इहेमाः; परभिनत्ति दशगुणा मनॊऽनुगत्वात निवसति भृशम असुखं पितृविषय;विपिनम अवगाह्य स पापः 30 यॊ लुब्धः सुभृशं परियानृतश च मनुष्यः; सततनिकृतिवञ्चनारतिः सयात उपनिधिभिर असुखकृत स परमनिरयगॊ; भृशम असुखम अनुभवति दुष्कृत कर्मा 31 उष्मां वैतरणीं महानदीम; अवगाधॊ ऽसि पत्रवनभिन्न गात्रः परशु वनशयॊ निपतितॊ; वसति च महानिरये भृशार्तः 32 महापदानि कत्थसे न चाप्य अवेक्षसे परम चिरस्य मृत्युकारिकाम अनागतां न बुध्यसे 33 परयास्यतां किम आस्यते समुत्थितं महद भयम अतिप्रमाथि दारुणं सुखस्य संविधीयताम 34 पुरा मृतः परनीयसे यमस्य मृत्युशासनात तद अन्तिकाय दारुणैः परयत्नम आर्जवे कुरु 35 पुरा समूल बान्धवं परभुर हरत्य अदुःखवित तवेह जीवितं यमॊ न चास्ति तस्य वारकः 36 पुरा विवाति मारुतॊ यमस्य यः पुरःसरः पुरैक एव नीयसे कुरुष्व साम्परायिकम 37 पुरा सहिक्क एव ते परवाति मारुतॊ ऽनतकः पुरा च विभ्रमन्ति ते दिशॊ महाभयागमे 38 समृतिश च संनिरुध्यते पुरा तवेह पुत्रक समाकुलस्य गच्छतः समाधिम उत्तमं कुरु 39 कृताकृते शुभाशुभे परमादकर्म विप्लुते समरन पुरा न तप्यसे निधत्स्व केवलं निधिम 40 पुरा जरा कलेवरं विजर्जरी करॊति ते बलाङ्गरूपहारिणी निधत्स्व केवलं निधिम 41 पुरा शरीरम अन्तकॊ भिनत्ति रॊगसायकैः परसह्य जीवितक्षये तपॊ महत समाचर 42 पुरा वृका भयंकरा मनुष्यदेहगॊचराः अभिद्रवन्ति सर्वतॊ यतस्व पुण्यशीलने 43 पुरान्धकारम एककॊ ऽनुपश्यसि तवरस्व वै पुरा हिरन मयान नगान निरीक्षसे ऽदरिमूर्धनि 44 पुरा कुसंगतानि ते सुहृन मुखाश च शत्रवः विचालयन्ति दर्शनाद घतस्व पुत्र यत परम 45 धनस्य यस्य राजतॊ भयं न चास्ति चौरतः मृतं च यन न मुञ्चति समर्जयस्व तद धनम 46 न तत्र संविभज्यते सवकर्मभिः परस्परम यद एव यस्य यौतकं तद एव तत्र सॊ ऽशनुते 47 परत्र येन जीव्यते तद एव पुत्र दीयताम धनं यद अक्षयं धरुवं समर्जयस्व तत सवयम 48 न यावद एव पच्यते महाजनस्य यावकम अपक्व एव यावके पुरा परनीयसे तवर 49 न मातृपितृबान्धवा न संस्तुतः परियॊ जनः अनुव्रजन्ति संकते वरजन्तम एकपातिनाम 50 यद एव कर्म केवलं सवयं कृतं शुभाशुभम तद एव तस्य यौतकं भवत्य अमुत्र गच्छतः 51 हिरण्यरत्नसंचयाः शुभाशुभेन संचिताः न तस्य देहसंक्षये भवन्ति कार्यसाधकाः 52 परत्र गामिकस्य ते कृताकृतस्य कर्मणः न साक्षिर आत्मना समॊ नृणाम इहास्ति कश चन 53 मनुष्यदेहशून्यकं भवत्य अमुत्र गच्छतः परपश्य बुद्धिचक्षुषा परदृश्यते हि सर्वतः 54 इहाग्निसूर्यवायवः शरीरम आश्रितास तरयः त एव तस्य साक्षिणॊ भवन्ति धर्मदर्शिनः 55 यथानिशेषु सर्वतः सपृशत्सु सर्वदारिषु परकाशगूढ वृत्तिषु सवधर्मम एव पालय 56 अनेकपारिपन्थिके विरूपरौद्ररक्षिते सवम एव कर्म रक्ष्यतां सवकर्म तत्र गच्छति 57 न तत्र संविभज्यते सवकर्मणा परस्परम यथा कृतं सवकर्मजं तद एव भुज्यते फलम 58 यथाप्सरॊ गणाः फलं सुखं महर्षिभिः सह तथाप्नुवन्ति कर्मतॊ विमानकामगानिमः 59 यथेह यत्कृतं शुभं विपाप्मभिः कृतात्मभिः तद आप्नुवन्ति मानवास तथा विशुद्धयॊनयः 60 परजापतेः सलॊकतां बृहस्पतेः शतक्रतॊः वरजन्ति ते परां गतिं गृहस्थ धर्मसेतुभिः 61 सहस्रशॊ ऽपय अनेकशः परवक्तुम उत्सहामहे अबुद्धि मॊहनं पुनः परभुर विना न यावकम 62 गता दविर अस्तवर्षता धरुवॊ ऽसि पञ्चविंशकः कुरुष्व धर्मसंचयं वयॊ हि ते ऽतिवर्तते 63 पुरा करॊति सॊ ऽनतकः परमादगॊमुखं दमम यथागृहीतम उत्थितं तवरस्व धर्मपालने 64 यदा तवम एव पृष्ठतस तवम अग्रतॊ गमिष्यसि तथागतिं गमिष्यतः किम आत्मना परेण वा 65 यद एकपातिनां सतां भवत्य अमुत्र गच्छताम भयेषु साम्परायिकं निधत्स्व तं महानिधिम 66 सकूल मूलबान्धवं परभुर हरत्य असङ्गवान न सन्ति यस्य वारकाः कुरुष्व धर्मसंनिधिम 67 इदं निदर्शनं मया तवेह पुत्र संमतम सवधर्शनानुमानतः परवर्नितं कुरुष्व तत 68 दधाति यः सवकर्मणा धनानि यस्य कस्य चित अबुद्धि मॊहजैर गुणैः शतैक एव युज्यते 69 शरुतं समर्थम अस्तु ते परकुर्वतः शुभाः करियाः तद एव तत्र दर्शनं कृतज्ञम अर्थसंहितम 70 निबन्धनी रज्जुर एषा या गरामे वसतॊ रतिः छित्त्वैनां सुकृतॊ यान्ति नैनां छिन्दन्ति दुष्कृतः 71 किं ते धनेन किं बन्धुभिस ते; किं ते पुत्रैः पुत्रक यॊ मरिष्यसि आत्मानम अन्विच्छ गुहां परविष्टं; पितामहास ते कव गताश च सर्वे 72 शवः कार्यम अद्य कुर्वीत पूर्वाह्ने चापराह्निकम कॊ हि तद वेद कस्याद्य मृत्युसेना निवेक्ष्यते 73 अनुगम्य शमशानान्तं निवर्तन्तीह बान्धवाः अग्नौ परक्षिप्य पुरुषं जञातयः सुहृदस तथा 74 नास्तिकान निरनुक्रॊशान नरान पापमतौ सथितान वामतः कुरु विश्रब्धं परं परेप्सुर अतन्द्रितः 75 एवम अभ्याहते लॊके कालेनॊपनिपीदिते सुमहद धैर्यम आलम्ब्य धर्मं सर्वात्मना कुरु 76 अथेमं दर्शनॊपायं सम्यग यॊ वेत्ति मानवः सम्यक स धर्मं कृत्वेह परत्र सुखम एधते 77 न देहभेदे मरणं विजानतां; न च परनाशः सवनुपालिते पथि धर्मं हि यॊ वर्धयते स पण्डितॊ; य एव धर्माच चयवते स मुह्यति 78 परयुक्तयॊः कर्म पथि सवकर्मणॊः; फलं परयॊक्ता लभते यथाविधि निहीन कर्मा निरयं परपद्यते; तरिविष्टपं गच्छति धर्मपारगः 79 सॊपानभूतं सवर्गस्य मानुष्यं पराप्य दुर्लभम तथात्मानं समादध्याद भरश्येत न पुनर यथा 80 यस्य नॊत्क्रामति मतिः सवर्गमार्गानुसारिणी तम आहुः पुण्यकर्माणम अशॊच्यं मित्र बान्धवैः 81 यस्य नॊपहता बुद्धिर निश्चयेष्व अवलम्बते सवर्गे कृतावकाशस्य तस्य नास्ति महद भयम 82 तपॊवनेषु ये जातास तत्रैव निधनं गताः तेषाम अल्पतरॊ धर्मः कामभॊगम अजानताम 83 यस तु भॊगान परित्यज्य शरीरेण तपश चरेत न तेन किं चिन न पराप्तं तन मे बहुमतं फलम 84 माता पितृसहस्राणि पुत्रदारशतानि च अनागतान्य अतीतानि कस्य ते कस्य वा वयम 85 न तेषां भवता कार्यं न कार्यं तव तैर अपि सवकृतैस तानि यातानि भवांश चैव गमिष्यति 86 इह लॊके हि धनिनः परॊ ऽपि सवजनायते सवजनस तु दरिद्राणां जीवताम एव नश्यति 87 संचिनॊत्य अशुभं कर्म कलत्रापेक्षया नरः ततः कलेशम अवाप्नॊति परत्रेह तथैव च 88 पश्य तवं छिद्रभूतं हि जीवलॊकं सवकर्मणा तत कुरुष्व तथा पुत्रकृत्स्नं यत समुदाहृतम 89 तद एतत संप्रदृश्यैव कर्मभूमिं परविश्य ताम शुभान्य आचरितव्यानि परलॊकम अभीप्सता 90 मासर्तु संज्ञा परिवर्तकेन; सूर्याङ्गिना रात्रिदिवेन्धनेन सवकर्म निष्ठा फलसाक्षिकेण; भूतानि कालः पचति परसह्य 91 धनेन किं यन न ददाति नाश्नुते; बलेन किं येन रिपून न बाधते शरुतेन किं येन न धर्मम आचरेत; किम आत्मना यॊ न जितेन्द्रियॊ वशी 92 इदं दवैपायन वचॊ हितम उक्तं निशम्य तु शुकॊ गतः परित्यज्य पितरं मॊक्षदेशिकम |
1
[y] kathaṃ nirvedam āpannaḥ śuko vaiyāsakiḥ purā etad icchāmi kauravya śrotuṃ kautūhalaṃ hi me 2 [bhī] prākṛtena suvṛttena carantam akutobhayam adhyāpya kṛtsnaṃ svādhyāyam anvaśād vai pitā sutam 3 dharmaṃ putra niṣevasva sutīkṣṇau hi himātapau kṣutpipāse ca vāyuṃ ca jaya nityaṃ jitendriyaḥ 4 satyam ārjavam akrodham anasūyāṃ damaṃ tapaḥ ahiṃsāṃ cānṛśaṃsyaṃ ca vidhivat paripālaya 5 satye tiṣṭha rato dharme hitvā sarvam anārjavam devatātithiśeṣeṇa yātrāṃ prāṇasya saṃśraya 6 phenapātropame dehe jīve śakunivat sthite anitye priya saṃvāse kathaṃ svapiṣi putraka 7 apramatteṣu jāgratsu nityayukteṣu śatruṣu antaraṃ lipsamāneṣu bālas tvaṃ nāvabudhyase 8 gaṇyamāneṣu varṣeṣu kṣīyamāṇe tathāyuṣi jīvite śiṣyamāṇe ca kim utthāya na dhāvasi 9 aihālaukikam īhante māṃsaśonitavardhanam pāralaukikakāryeṣu prasuptā bhṛśanāstikāḥ 10 dharmāya ye 'bhyasūyanti buddhimohānvitā narāḥ apathā gacchatāṃ teṣām anuyātāpi pīḍyate 11 ye tu tuṣṭāḥ suniyatāḥ satyāgama parāyanāḥ dharmyaṃ panthānam ārūḍhās tān upāssva ca pṛccha ca 12 upadhārya mataṃ teṣāṃ vṛddhānāṃ dharmadarśinām niyaccha parayā buddhyā cittam utpathagāmi vai 13 adya kālikayā buddhyā dūre śva iti nirbhayāḥ sarvabhakṣā na paśyanti karmabhūmiṃ vicetasaḥ 14 dharmaniḥśreṇim āsthāya kiṃ cit kiṃ cit samāruha kośakāravad ātmānaṃ veṣṭayan nāvabudhyase 15 nāstikaṃ bhinnamaryādaṃ kūlapātam ivāsthiram vāmataḥ kuru visrabdho naraṃ venum ivoddhatam 16 kāmaṃ krodhaṃ ca mṛtyuṃ ca pañcendriya jalāṃ nadīm nāvaṃ dhṛtimayīṃ kṛtvā janma durgāni saṃtara 17 mṛtyunābhyāhate loke jarayā paripīdite amoghāsu patantīṣu dharmayānena saṃtara 18 tiṣṭhantaṃ ca śayānaṃ ca mṛtyur anveṣate yadā nirvṛtiṃ labhase kasmād akasmān mṛtyunāśitaḥ 19 saṃcinvānakam evainaṃ kāmānām avitṛptakam vṛkīvoraṇam āsādya mṛtyur ādāya gacchati 20 kramaśaḥ saṃcitaśikho dharmabuddhimayo mahān andhakāre praveṣṭavye dipo yatnena dhāryate 21 saṃpatan dehajālāni kadā cid iha mānuṣe brāhmaṇyaṃ labhate jantus tat putra paripālaya 22 brāhmaṇasya hi deho 'yaṃ na kāmārthāya jāyate iha kleśāya tapase pretya tv anupamaṃ sukham 23 brāhmaṇyaṃ bahubhir avāpyate tapobhis; tal labdhvā na paripanena heditavyam svādhyāye tapasi dame ca nityayuktaḥ; kṣemārthī kuśalaparaḥ sadā yatasva 24 avyaktaprakṛtir ayaṃ kalā śarīraḥ; sūkṣmātmā kṣaṇatrutiśo nimeṣa romā ṛtvāsyaḥ samabalaśuklakṛṣṇanetro; mānāṅgo dravati vayo hayo narāṇām 25 taṃ dṛṣṭvā prasṛtam ajasram ugravegaṃ; gacchantaṃ satatam ihāvyapekṣamāṇam cakṣus te yadina parapraṇetṛneyaṃ; dharme te bhavatu manaḥ paraṃ niśamya 26 ye 'mī tu pracalita dharmakāmavṛttāḥ; krośantaḥ satatam aniṣṭa saṃprayogāḥ kliśyante parigata vedanāśarīrā; bahvībhiḥ subhṛśam adharmavāsanābhiḥ 27 rājā dharmaparaḥ sadā śubhagoptā; samīkṣya sukṛtināṃ dadhāti lokān bahuvidham api carataḥ pradiśati; sukham anupagataṃ niravadyam 28 śvāno bhīsanāyo mukhāni vayāṃsi; vada gṛdhrakulapakṣiṇāṃ ca saṃghāḥ narāṃ kadane rudhirapā guruvacana;nudam uparataṃ viśasanti 29 maryādā niyatāḥ svayambhuvā ya ihemāḥ; prabhinatti daśaguṇā mano'nugatvāt nivasati bhṛśam asukhaṃ pitṛviṣaya;vipinam avagāhya sa pāpaḥ 30 yo lubdhaḥ subhṛśaṃ priyānṛtaś ca manuṣyaḥ; satatanikṛtivañcanāratiḥ syāt upanidhibhir asukhakṛt sa paramanirayago; bhṛśam asukham anubhavati duṣkṛta karmā 31 uṣmāṃ vaitaraṇīṃ mahānadīm; avagādho 'si patravanabhinna gātraḥ paraśu vanaśayo nipatito; vasati ca mahāniraye bhṛśārtaḥ 32 mahāpadāni katthase na cāpy avekṣase param cirasya mṛtyukārikām anāgatāṃ na budhyase 33 prayāsyatāṃ kim āsyate samutthitaṃ mahad bhayam atipramāthi dāruṇaṃ sukhasya saṃvidhīyatām 34 purā mṛtaḥ pranīyase yamasya mṛtyuśāsanāt tad antikāya dāruṇaiḥ prayatnam ārjave kuru 35 purā samūla bāndhavaṃ prabhur haraty aduḥkhavit taveha jīvitaṃ yamo na cāsti tasya vārakaḥ 36 purā vivāti māruto yamasya yaḥ puraḥsaraḥ puraika eva nīyase kuruṣva sāmparāyikam 37 purā sahikka eva te pravāti māruto 'ntakaḥ purā ca vibhramanti te diśo mahābhayāgame 38 smṛtiś ca saṃnirudhyate purā taveha putraka samākulasya gacchataḥ samādhim uttamaṃ kuru 39 kṛtākṛte śubhāśubhe pramādakarma viplute smaran purā na tapyase nidhatsva kevalaṃ nidhim 40 purā jarā kalevaraṃ vijarjarī karoti te balāṅgarūpahāriṇī nidhatsva kevalaṃ nidhim 41 purā śarīram antako bhinatti rogasāyakaiḥ prasahya jīvitakṣaye tapo mahat samācara 42 purā vṛkā bhayaṃkarā manuṣyadehagocarāḥ abhidravanti sarvato yatasva puṇyaśīlane 43 purāndhakāram ekako 'nupaśyasi tvarasva vai purā hiran mayān nagān nirīkṣase 'drimūrdhani 44 purā kusaṃgatāni te suhṛn mukhāś ca śatravaḥ vicālayanti darśanād ghatasva putra yat param 45 dhanasya yasya rājato bhayaṃ na cāsti caurataḥ mṛtaṃ ca yan na muñcati samarjayasva tad dhanam 46 na tatra saṃvibhajyate svakarmabhiḥ parasparam yad eva yasya yautakaṃ tad eva tatra so 'śnute 47 paratra yena jīvyate tad eva putra dīyatām dhanaṃ yad akṣayaṃ dhruvaṃ samarjayasva tat svayam 48 na yāvad eva pacyate mahājanasya yāvakam apakva eva yāvake purā pranīyase tvara 49 na mātṛpitṛbāndhavā na saṃstutaḥ priyo janaḥ anuvrajanti saṃkate vrajantam ekapātinām 50 yad eva karma kevalaṃ svayaṃ kṛtaṃ śubhāśubham tad eva tasya yautakaṃ bhavaty amutra gacchataḥ 51 hiraṇyaratnasaṃcayāḥ śubhāśubhena saṃcitāḥ na tasya dehasaṃkṣaye bhavanti kāryasādhakāḥ 52 paratra gāmikasya te kṛtākṛtasya karmaṇaḥ na sākṣir ātmanā samo nṛṇām ihāsti kaś cana 53 manuṣyadehaśūnyakaṃ bhavaty amutra gacchataḥ prapaśya buddhicakṣuṣā pradṛśyate hi sarvataḥ 54 ihāgnisūryavāyavaḥ śarīram āśritās trayaḥ ta eva tasya sākṣiṇo bhavanti dharmadarśinaḥ 55 yathāniśeṣu sarvataḥ spṛśatsu sarvadāriṣu prakāśagūḍha vṛttiṣu svadharmam eva pālaya 56 anekapāripanthike virūparaudrarakṣite svam eva karma rakṣyatāṃ svakarma tatra gacchati 57 na tatra saṃvibhajyate svakarmaṇā parasparam yathā kṛtaṃ svakarmajaṃ tad eva bhujyate phalam 58 yathāpsaro gaṇāḥ phalaṃ sukhaṃ maharṣibhiḥ saha tathāpnuvanti karmato vimānakāmagānimaḥ 59 yatheha yatkṛtaṃ śubhaṃ vipāpmabhiḥ kṛtātmabhiḥ tad āpnuvanti mānavās tathā viśuddhayonayaḥ 60 prajāpateḥ salokatāṃ bṛhaspateḥ śatakratoḥ vrajanti te parāṃ gatiṃ gṛhastha dharmasetubhiḥ 61 sahasraśo 'py anekaśaḥ pravaktum utsahāmahe abuddhi mohanaṃ punaḥ prabhur vinā na yāvakam 62 gatā dvir astavarṣatā dhruvo 'si pañcaviṃśakaḥ kuruṣva dharmasaṃcayaṃ vayo hi te 'tivartate 63 purā karoti so 'ntakaḥ pramādagomukhaṃ damam yathāgṛhītam utthitaṃ tvarasva dharmapālane 64 yadā tvam eva pṛṣṭhatas tvam agrato gamiṣyasi tathāgatiṃ gamiṣyataḥ kim ātmanā pareṇa vā 65 yad ekapātināṃ satāṃ bhavaty amutra gacchatām bhayeṣu sāmparāyikaṃ nidhatsva taṃ mahānidhim 66 sakūla mūlabāndhavaṃ prabhur haraty asaṅgavān na santi yasya vārakāḥ kuruṣva dharmasaṃnidhim 67 idaṃ nidarśanaṃ mayā taveha putra saṃmatam svadharśanānumānataḥ pravarnitaṃ kuruṣva tat 68 dadhāti yaḥ svakarmaṇā dhanāni yasya kasya cit abuddhi mohajair guṇaiḥ śataika eva yujyate 69 śrutaṃ samartham astu te prakurvataḥ śubhāḥ kriyāḥ tad eva tatra darśanaṃ kṛtajñam arthasaṃhitam 70 nibandhanī rajjur eṣā yā grāme vasato ratiḥ chittvaināṃ sukṛto yānti naināṃ chindanti duṣkṛtaḥ 71 kiṃ te dhanena kiṃ bandhubhis te; kiṃ te putraiḥ putraka yo mariṣyasi ātmānam anviccha guhāṃ praviṣṭaṃ; pitāmahās te kva gatāś ca sarve 72 śvaḥ kāryam adya kurvīta pūrvāhne cāparāhnikam ko hi tad veda kasyādya mṛtyusenā nivekṣyate 73 anugamya śmaśānāntaṃ nivartantīha bāndhavāḥ agnau prakṣipya puruṣaṃ jñātayaḥ suhṛdas tathā 74 nāstikān niranukrośān narān pāpamatau sthitān vāmataḥ kuru viśrabdhaṃ paraṃ prepsur atandritaḥ 75 evam abhyāhate loke kālenopanipīdite sumahad dhairyam ālambya dharmaṃ sarvātmanā kuru 76 athemaṃ darśanopāyaṃ samyag yo vetti mānavaḥ samyak sa dharmaṃ kṛtveha paratra sukham edhate 77 na dehabhede maraṇaṃ vijānatāṃ; na ca pranāśaḥ svanupālite pathi dharmaṃ hi yo vardhayate sa paṇḍito; ya eva dharmāc cyavate sa muhyati 78 prayuktayoḥ karma pathi svakarmaṇoḥ; phalaṃ prayoktā labhate yathāvidhi nihīna karmā nirayaṃ prapadyate; triviṣṭapaṃ gacchati dharmapāragaḥ 79 sopānabhūtaṃ svargasya mānuṣyaṃ prāpya durlabham tathātmānaṃ samādadhyād bhraśyeta na punar yathā 80 yasya notkrāmati matiḥ svargamārgānusāriṇī tam āhuḥ puṇyakarmāṇam aśocyaṃ mitra bāndhavaiḥ 81 yasya nopahatā buddhir niścayeṣv avalambate svarge kṛtāvakāśasya tasya nāsti mahad bhayam 82 tapovaneṣu ye jātās tatraiva nidhanaṃ gatāḥ teṣām alpataro dharmaḥ kāmabhogam ajānatām 83 yas tu bhogān parityajya śarīreṇa tapaś caret na tena kiṃ cin na prāptaṃ tan me bahumataṃ phalam 84 mātā pitṛsahasrāṇi putradāraśatāni ca anāgatāny atītāni kasya te kasya vā vayam 85 na teṣāṃ bhavatā kāryaṃ na kāryaṃ tava tair api svakṛtais tāni yātāni bhavāṃś caiva gamiṣyati 86 iha loke hi dhaninaḥ paro 'pi svajanāyate svajanas tu daridrāṇāṃ jīvatām eva naśyati 87 saṃcinoty aśubhaṃ karma kalatrāpekṣayā naraḥ tataḥ kleśam avāpnoti paratreha tathaiva ca 88 paśya tvaṃ chidrabhūtaṃ hi jīvalokaṃ svakarmaṇā tat kuruṣva tathā putrakṛtsnaṃ yat samudāhṛtam 89 tad etat saṃpradṛśyaiva karmabhūmiṃ praviśya tām śubhāny ācaritavyāni paralokam abhīpsatā 90 māsartu saṃjñā parivartakena; sūryāṅginā rātridivendhanena svakarma niṣṭhā phalasākṣikeṇa; bhūtāni kālaḥ pacati prasahya 91 dhanena kiṃ yan na dadāti nāśnute; balena kiṃ yena ripūn na bādhate śrutena kiṃ yena na dharmam ācaret; kim ātmanā yo na jitendriyo vaśī 92 idaṃ dvaipāyana vaco hitam uktaṃ niśamya tu śuko gataḥ parityajya pitaraṃ mokṣadeśikam |
The Mahabharata in Sanskrit
Book 12
Chapter 310
|
1
[य] कथं वयासस्य धर्मात्मा शुकॊ जज्ञे महातपः सिधिं च परमां पराप्तस तन मे बरूहि पितामह 2 कस्यां चॊत्पादयाम आस शुकं वयासस तपॊधनः न हय अस्य जननीं विद्म जन्म चाग्र्यं महात्मनः 3 कथं च बालस्य सतः सूक्ष्मज्ञाने गता मतिः यथा नान्यस्य लॊकास्मिन दवितीयस्येह कस्य चित 4 एतद इच्छाम्य अहं शरॊतुं विस्तरेण महाद्युते न हि मे तृप्तिर अस्तीह शृण्वतॊ ऽमृतम उत्तमम 5 माहात्म्यम आत्मयॊगं च विज्ञानं च शुकस्य ह यथावद आनुपूर्व्येण तन मे बरूहि पितामह 6 [भी] न हायनैर न पलितैर न वित्तेन न बन्धुभिः ऋषयश चक्रिरे धर्मं यॊ ऽनूचानः स नॊ महान 7 तपॊ मूलम इदं सर्वं यन मां पृच्छसि पाण्डव तद इन्द्रियाणि संयम्य तपॊ भवति नान्यथा 8 इन्द्रियाणां परसङ्गेन दॊषम ऋच्छत्य असंशयम संनियम्य तु तान्य एव सिद्धिं पराप्नॊति मानवः 9 अश्वमेध सहस्रस्य वाजपेयशतस्य च यॊगस्य कलया तात न तुल्यं विद्यते फलम 10 अत्र ते वर्तयिष्यामि जन्म यॊगफलं यथा शुकस्याग्र्यां गतिं चैव दुर्विदाम अकृतात्मभिः 11 मेरुशृङ्गे किल पुरा कर्णिकारवनायुते विजहार महादेवॊ भिमैर भूतगणैर वृतः 12 शैलराजसुता चैव देवी तत्राभवत पुरा तत्र दिव्यं तपस तेपे कृष्णद्वैपायनः परभुः 13 यॊगेनात्मानम आविश्य यॊगधर्मपरायनः धारयन स तपस तेपे पुत्रार्थं कुरुसत्तम 14 अग्नेर भूमेर अपां वायॊर अन्तरिक्षस्य चाभिभॊ वीर्येण संमितः पुत्रॊ मम भूयाद इति सम ह 15 संकल्पेनाथ सॊ ऽनेन दुष्प्रापेनाकृतात्मभिः वरयाम आस देवेशम आस्थितस तप उत्तमम 16 अतिष्ठन मारुताहारः शतं किल सभाः परभुः आराधयन महादेवं बहुरूपम उमापतिम 17 तत्र बरह्मर्षयश चैव सर्वे देवर्षयस तथा लॊकपालाश च लॊकेशं साध्याश च वसुभिः सह 18 आदित्याश चैव रुद्राश च दिवाकरनिशाकरौ मरुतॊ मारुतश चैव सागराः सरितस तथा 19 अश्विनौ देवगन्धर्वास तथा नारद पर्वतौ विश्वावसुश च गन्धर्वः सिद्धाश चाप्सरसां गणाः 20 तत्र रुद्रॊ महादेवः कर्णिकारमयीं शुभाम धारयाणः सरजं भाति जयॊत्स्नाम इव निशाकरः 21 तस्मिन दिव्ये वने रम्ये देवदेवर्षिसंकुले आस्थितः परमं यॊगम ऋषिः पुत्रार्थम उद्यतः 22 न चास्य हीयते वर्णॊ न गलानिर उपजायते तरयाणाम अपि लॊकानां तद अद्भुतम इवाभवत 23 जताश च तेजसा तस्य वैश्वानर शिखॊपमाः परज्वलन्त्यः सम दृश्यन्ते युक्तस्यामित तेजसः 24 मार्कन्देयॊ हि भगवान एतद आख्यातवान मम स देव चरितानीह कथयाम आस मे सदा 25 ता एताद्यापि कृष्णस्य तपसा तेन दीपिताः अग्निवर्णा जतास तात परकाशन्ते महात्मनः 26 एवंविधेन तपसा तस्य भक्त्या च भारत महेश्वरः परसन्नात्मा चकार मनसा मतिम 27 उवाच चैनं भगवांस तर्यम्बकः परहसन्न इव एवंविधस ते तनयॊ दवैपायन भविष्यति 28 यथा हय अग्निर यथा वायुर यथा भूमिर यथा जलम यथा च खं तथा शुद्धॊ भविष्यति सुतॊ महान 29 तद्भावभावी तद बुद्धिस तद आत्मा तद अपाश्रयः तेजसावृत्य लॊकांस तरीन यशः पराप्स्यति केवलम |
1
[y] kathaṃ vyāsasya dharmātmā śuko jajñe mahātapaḥ sidhiṃ ca paramāṃ prāptas tan me brūhi pitāmaha 2 kasyāṃ cotpādayām āsa śukaṃ vyāsas tapodhanaḥ na hy asya jananīṃ vidma janma cāgryaṃ mahātmanaḥ 3 kathaṃ ca bālasya sataḥ sūkṣmajñāne gatā matiḥ yathā nānyasya lokāsmin dvitīyasyeha kasya cit 4 etad icchāmy ahaṃ śrotuṃ vistareṇa mahādyute na hi me tṛptir astīha śṛṇvato 'mṛtam uttamam 5 māhātmyam ātmayogaṃ ca vijñānaṃ ca śukasya ha yathāvad ānupūrvyeṇa tan me brūhi pitāmaha 6 [bhī] na hāyanair na palitair na vittena na bandhubhiḥ ṛṣayaś cakrire dharmaṃ yo 'nūcānaḥ sa no mahān 7 tapo mūlam idaṃ sarvaṃ yan māṃ pṛcchasi pāṇḍava tad indriyāṇi saṃyamya tapo bhavati nānyathā 8 indriyāṇāṃ prasaṅgena doṣam ṛcchaty asaṃśayam saṃniyamya tu tāny eva siddhiṃ prāpnoti mānavaḥ 9 aśvamedha sahasrasya vājapeyaśatasya ca yogasya kalayā tāta na tulyaṃ vidyate phalam 10 atra te vartayiṣyāmi janma yogaphalaṃ yathā śukasyāgryāṃ gatiṃ caiva durvidām akṛtātmabhiḥ 11 meruśṛṅge kila purā karṇikāravanāyute vijahāra mahādevo bhimair bhūtagaṇair vṛtaḥ 12 śailarājasutā caiva devī tatrābhavat purā tatra divyaṃ tapas tepe kṛṣṇadvaipāyanaḥ prabhuḥ 13 yogenātmānam āviśya yogadharmaparāyanaḥ dhārayan sa tapas tepe putrārthaṃ kurusattama 14 agner bhūmer apāṃ vāyor antarikṣasya cābhibho vīryeṇa saṃmitaḥ putro mama bhūyād iti sma ha 15 saṃkalpenātha so 'nena duṣprāpenākṛtātmabhiḥ varayām āsa deveśam āsthitas tapa uttamam 16 atiṣṭhan mārutāhāraḥ śataṃ kila sabhāḥ prabhuḥ ārādhayan mahādevaṃ bahurūpam umāpatim 17 tatra brahmarṣayaś caiva sarve devarṣayas tathā lokapālāś ca lokeśaṃ sādhyāś ca vasubhiḥ saha 18 ādityāś caiva rudrāś ca divākaraniśākarau maruto mārutaś caiva sāgarāḥ saritas tathā 19 aśvinau devagandharvās tathā nārada parvatau viśvāvasuś ca gandharvaḥ siddhāś cāpsarasāṃ gaṇāḥ 20 tatra rudro mahādevaḥ karṇikāramayīṃ śubhām dhārayāṇaḥ srajaṃ bhāti jyotsnām iva niśākaraḥ 21 tasmin divye vane ramye devadevarṣisaṃkule āsthitaḥ paramaṃ yogam ṛṣiḥ putrārtham udyataḥ 22 na cāsya hīyate varṇo na glānir upajāyate trayāṇām api lokānāṃ tad adbhutam ivābhavat 23 jatāś ca tejasā tasya vaiśvānara śikhopamāḥ prajvalantyaḥ sma dṛśyante yuktasyāmita tejasaḥ 24 mārkandeyo hi bhagavān etad ākhyātavān mama sa deva caritānīha kathayām āsa me sadā 25 tā etādyāpi kṛṣṇasya tapasā tena dīpitāḥ agnivarṇā jatās tāta prakāśante mahātmanaḥ 26 evaṃvidhena tapasā tasya bhaktyā ca bhārata maheśvaraḥ prasannātmā cakāra manasā matim 27 uvāca cainaṃ bhagavāṃs tryambakaḥ prahasann iva evaṃvidhas te tanayo dvaipāyana bhaviṣyati 28 yathā hy agnir yathā vāyur yathā bhūmir yathā jalam yathā ca khaṃ tathā śuddho bhaviṣyati suto mahān 29 tadbhāvabhāvī tad buddhis tad ātmā tad apāśrayaḥ tejasāvṛtya lokāṃs trīn yaśaḥ prāpsyati kevalam |
The Mahabharata in Sanskrit
Book 12
Chapter 311
|
1
[भी] स लब्ध्वा परमं देवाद वरं सत्यवती सुतः अरणीं तव अथ संगृह्य ममन्थाग्निचिकीर्षया 2 अथ रूपं परं राजन बिभ्रतीं सवेन तेजसा घृताचीं नामाप्सरसम अपश्यद भगवान ऋषिः 3 ऋषिर अप्सरसं दृष्ट्वा सहसा काममॊहितः अभवद भगवान वयासॊ वने तस्मिन युधिष्ठिर 4 सा च कृत्वा तदा वयासं कामसंविग्नमानसम शुकी भूत्वा महाराज घृताची समुपागमत 5 स ताम अप्सरसं दृष्ट्वा रूपेणान्येन संवृताम शरीरजेनानुगतः सर्वगात्रातिगेन ह 6 स तु धैर्येण महता निगृह्णन हृच्छयं मुनिः न शशाक नियन्तुं तद वयासः परविसृतं मनः भावित्वाच चैव भावस्य घृताच्या वपुषा हृतः 7 यत्नान नियच्छतॊ यस्य मुनेर अगि चिकीर्षया अरण्याम एव सहसा तस्य शुक्रम अवापतत 8 सॊ ऽविशङ्केन मनसा तथैव दविजसत्तमः अरणीं ममन्थ बरह्मर्षिस तस्यां जज्ञे शुकॊ नृप 9 शुक्रे निर्मथ्यमाने तु शुकॊ जज्ञे महातपः परमर्षिर महायॊगिय अरणी गर्भसंभवः 10 यथाध्वरे समिद्धॊ ऽगनिर बाति हव्यम उपात्तवान तथारूपः शुकॊ जज्ञे परज्वलन्न इव तेजसा 11 बिभ्रत पितुश च कौरव्य रूपवर्णम अनुत्तमम बभौ तदा भावितात्मा विधूमॊ ऽगनिर इव जवलन 12 तं गङ्गा सरितां शरेष्ठा मेरुपृष्ठे जनेश्वर सवरूपिणी तदाभ्येत्य सनापयाम आस वारिणा 13 अन्तरिक्षाच च कौरव्य दन्दः कृष्णाजिनं च ह पपात भुवि राजेन्द्र शुकस्यार्थे महात्मनः 14 जेहीयन्ते सम गन्धर्वा ननृतुश चाप्सरॊगणाः देवदुन्दुभयश चैव परावाद्यन्त महास्वनाः 15 विश्वावसुश च गन्धर्वस तथा तुम्बुरु नारदौ हाहा हूहू च गन्धर्वौ तुष्टुवुः शुकसंभवम 16 तत्र शक्र पुरॊगाश च लॊकपालाः समागताः देवा देवर्षयश चैव तथा बरह्मर्षयॊ ऽपि च 17 दिव्यानि सर्वपुष्पानि परववर्षात्र मारुतः जङ्गमं सथावरं चैव परहृष्टम अभवज जगत 18 तं महात्मा सवयं परीत्या देव्या सह महाद्युतिः जातमात्रं मुनेः पुत्रं विधिनॊपानयत तदा 19 तस्य देवेश्वरः शक्रॊ दिव्यम अद्भुतदर्शनम ददौ कमन्दलुं परीत्या देव वासांसि चाभिभॊ 20 हंसाश च शतपत्राश च सारसाश च सहस्रशः परदक्षिणम अवर्तन्त शुकाश चासश च भारत 21 आरणेयस तथा दिव्यं पराप्य जन्म महाद्युतिः तत्रैवॊवास मेधावी वरतचारी समाहितः 22 उत्पन्न मात्रं तं वेदाः सरहस्याः ससंग्रहाः उपतस्थुर महाराज यथास्य पितरं तथा 23 बृहस्पतिं तु वव्रे स वेदवेदाङ्गभाष्यवित उपाध्यायं महाराज धर्मम एवानुचिन्तयन 24 सॊ ऽधीत्य वेदान अखिलान सरहस्यान ससंग्रहान इतिहासं च कार्त्स्न्येन राजशास्त्राणि चाभिभॊ 25 गुरवे दक्षिणां दत्त्वा समावृत्तॊ महामुनिः उग्रं तपः समारेभे बरह्मचारी समाहितः 26 देवतानाम ऋषीणां च बाल्ये ऽपि स महातपः संमन्त्रणीयॊ मान्यश च जञानेन तपसा तथा 27 न तव अस्य रमते बुद्धिर आश्रमेषु नराधिप तरिषु गार्हस्त्य मूलेषु मॊक्षधर्मानुदर्शिनः |
1
[bhī] sa labdhvā paramaṃ devād varaṃ satyavatī sutaḥ araṇīṃ tv atha saṃgṛhya mamanthāgnicikīrṣayā 2 atha rūpaṃ paraṃ rājan bibhratīṃ svena tejasā ghṛtācīṃ nāmāpsarasam apaśyad bhagavān ṛṣiḥ 3 ṛṣir apsarasaṃ dṛṣṭvā sahasā kāmamohitaḥ abhavad bhagavān vyāso vane tasmin yudhiṣṭhira 4 sā ca kṛtvā tadā vyāsaṃ kāmasaṃvignamānasam śukī bhūtvā mahārāja ghṛtācī samupāgamat 5 sa tām apsarasaṃ dṛṣṭvā rūpeṇānyena saṃvṛtām śarīrajenānugataḥ sarvagātrātigena ha 6 sa tu dhairyeṇa mahatā nigṛhṇan hṛcchayaṃ muniḥ na śaśāka niyantuṃ tad vyāsaḥ pravisṛtaṃ manaḥ bhāvitvāc caiva bhāvasya ghṛtācyā vapuṣā hṛtaḥ 7 yatnān niyacchato yasya muner agi cikīrṣayā araṇyām eva sahasā tasya śukram avāpatat 8 so 'viśaṅkena manasā tathaiva dvijasattamaḥ araṇīṃ mamantha brahmarṣis tasyāṃ jajñe śuko nṛpa 9 śukre nirmathyamāne tu śuko jajñe mahātapaḥ paramarṣir mahāyogiy araṇī garbhasaṃbhavaḥ 10 yathādhvare samiddho 'gnir bāti havyam upāttavān tathārūpaḥ śuko jajñe prajvalann iva tejasā 11 bibhrat pituś ca kauravya rūpavarṇam anuttamam babhau tadā bhāvitātmā vidhūmo 'gnir iva jvalan 12 taṃ gaṅgā saritāṃ śreṣṭhā merupṛṣṭhe janeśvara svarūpiṇī tadābhyetya snāpayām āsa vāriṇā 13 antarikṣāc ca kauravya dandaḥ kṛṣṇājinaṃ ca ha papāta bhuvi rājendra śukasyārthe mahātmanaḥ 14 jehīyante sma gandharvā nanṛtuś cāpsarogaṇāḥ devadundubhayaś caiva prāvādyanta mahāsvanāḥ 15 viśvāvasuś ca gandharvas tathā tumburu nāradau hāhā hūhū ca gandharvau tuṣṭuvuḥ śukasaṃbhavam 16 tatra śakra purogāś ca lokapālāḥ samāgatāḥ devā devarṣayaś caiva tathā brahmarṣayo 'pi ca 17 divyāni sarvapuṣpāni pravavarṣātra mārutaḥ jaṅgamaṃ sthāvaraṃ caiva prahṛṣṭam abhavaj jagat 18 taṃ mahātmā svayaṃ prītyā devyā saha mahādyutiḥ jātamātraṃ muneḥ putraṃ vidhinopānayat tadā 19 tasya deveśvaraḥ śakro divyam adbhutadarśanam dadau kamandaluṃ prītyā deva vāsāṃsi cābhibho 20 haṃsāś ca śatapatrāś ca sārasāś ca sahasraśaḥ pradakṣiṇam avartanta śukāś cāsaś ca bhārata 21 āraṇeyas tathā divyaṃ prāpya janma mahādyutiḥ tatraivovāsa medhāvī vratacārī samāhitaḥ 22 utpanna mātraṃ taṃ vedāḥ sarahasyāḥ sasaṃgrahāḥ upatasthur mahārāja yathāsya pitaraṃ tathā 23 bṛhaspatiṃ tu vavre sa vedavedāṅgabhāṣyavit upādhyāyaṃ mahārāja dharmam evānucintayan 24 so 'dhītya vedān akhilān sarahasyān sasaṃgrahān itihāsaṃ ca kārtsnyena rājaśāstrāṇi cābhibho 25 gurave dakṣiṇāṃ dattvā samāvṛtto mahāmuniḥ ugraṃ tapaḥ samārebhe brahmacārī samāhitaḥ 26 devatānām ṛṣīṇāṃ ca bālye 'pi sa mahātapaḥ saṃmantraṇīyo mānyaś ca jñānena tapasā tathā 27 na tv asya ramate buddhir āśrameṣu narādhipa triṣu gārhastya mūleṣu mokṣadharmānudarśinaḥ |
The Mahabharata in Sanskrit
Book 12
Chapter 312
|
1
[भी] स मॊक्षम अनुचिन्त्यैव शुकः पितरम अभ्यगात पराहाभिवाद्य च गुरुं शरेयॊ ऽरथी विनयान्वितः 2 मॊक्षधर्मेषु कुशलॊ भगवान परब्रवीतु मे यथा मे मनसः शान्तिः परमा संभवेत परभॊ 3 शरुत्वा पुत्रस्य वचनं परमर्षिर उवाच तम अधीस्व पुत्र मॊक्षं वै धर्मांश च विविधान अपि 4 पितुर नियॊगाज जग्राह शुकॊ बरह्मविदां वरः यॊगशास्त्रं च निखिलं पापिलं चैव भारत 5 स तं बराह्म्या शरिया युक्तं बरह्म तुल्यपराक्रमम मेने पुत्रं यदा वयास मॊक्षविद्या विशारदम 6 उवाच गच्छेति तदा जनकं मिथिलेश्वरम स ते वक्ष्यति मॊक्षार्थं निखिलेन विशेषतः 7 पितुर नियॊगाद अगमन मैथिलं जनकं नृपम परस्तुं धर्मस्य निष्ठां वै मॊक्षस्य च परायनम 8 उक्तश च मानुषेण तवं पथा गच्छेत्य अविस्मितः न परभावेन गन्तव्यम अन्तरिक्षचरेण वै 9 आर्जवेनैव गन्तव्यं न सुखान्वेषिणा पथा नान्वेष्टव्या विशेषास तु विशेषा हि परसङ्गिनः 10 अहंकारॊ न कर्तव्यॊ याज्ये तस्मिन नराधिपे सथातव्यं च वशे तस्य स ते छेत्स्यति संशयम 11 स धर्मकुशलॊ राजा मॊक्षशास्त्रविशारदः याज्यॊ मम स यद बरूयात तत कार्यम अविशङ्कया 12 एवम उक्तः स धर्मात्मा जगाम मिथिलां मुनिः पद्भ्यां शकॊ ऽनतरिक्षेण करान्तुं भूमिं ससागराम 13 स गिरींश चाप्य अतिक्रम्य नदीस तीर्त्वा सरांसि च बहु वयालमृगाकीर्णा विविधाश चातवीस तथा 14 मेरॊर हरेश च दवे वर्षे वर्षं हैमवतं तथा करमेणैव वयतिक्रम्य भारतं वर्षम आसदत 15 स देशान विविधान पश्यंश चीन हून निषेवितान आर्यावर्तम इमं देशम आजगाम विचिन्तयन 16 पितुर वचनम आज्ञाय तम एवार्थं विचिन्तयन अध्वानं सॊ ऽतिचक्राम खे ऽचरः खेचरन्न इव 17 पत्तनानि च रम्याणि सफीतानि नगराणि च रत्नानि च विचित्राणि शुकः पश्यन न पश्यति 18 उद्यानानि च रम्याणि तथैवायतनानि च पुण्यानि चैव तीर्थानि सॊ ऽतिक्रम्य तथाध्वनः 19 सॊ ऽचिरेणैव कालेन विदेहान आससाद ह रक्षितान धर्मराजेन जनकेन महात्मना 20 तत्र गरामान बहून पश्यन बह्वन्नरसभॊजनान पल्ली घॊषान समृद्धांश च बहुगॊकुलसंकुलान 21 सफीतांश च शालियवसैर हंससारससेवितान पद्मिनीभिश च शतशः शरीमतीभिर अलंकृतान 22 स विदेहान अतिक्रम्य समृद्धजनसेवितान मिथिलॊपवनं रम्याससाद महद ऋद्धिमत 23 हस्त्यश्वरथसंकीर्णं नरनारी समाकुलम पश्यन्नपश्यन्न इव तत समतिक्रामद अव्युतः 24 मनसा तं वहन भारं तम एवार्थं विचिन्तयन आत्मारामः परसन्नात्मा मिथिलाम आससाद ह 25 तस्या दवारं समासाद्य दवारपालैर निवारितः सथितॊ धयानपरॊ मुक्तॊ विदितः परविवेश ह 26 स राजमार्गम आसाद्य समृद्धजनसंकुलम पार्थिव कषयम आसाद्य निःशङ्कः परविवेश ह 27 तत्रापि दवारपालास तम उग्रवाचॊ नयसेधयन तथैव च शुकस तत्र निर्मन्युः समतिष्ठत 28 न चातपाध्व संतप्तः कषुत्पिपासा शरमान्वितः परताम्यति गलायति वा नापैति च तथातपात 29 तेषां तु दवारपालानाम एकः शॊकसमन्वितः मध्यं गतम इवादित्यं दृष्ट्वा शुकम अवस्थितम 30 पूजयित्वा यथान्यायम अभिवाद्य कृताञ्जलिः परवेशयत ततः कक्ष्यां दवितीयं राजवेश्मनः 31 तत्रासीनः शुकस तात मॊक्षम एवानुचिन्तयन छायायाम आतपे चैव समदर्शी महाद्युतिः 32 तं मुहूर्ताद इवागम्य राज्ञॊ मन्त्री कृताञ्जलिः परावेशयत ततः कक्ष्यां तृतीयां राजवेश्मनः 33 तत्रान्तःपुर संबद्धं महच चैत्ररथॊपमम सुविभक्तजला करीडं रम्यं पुष्पितपादपम 34 तद दर्शयित्वा स शुकं मन्त्री काननम उत्तमम अर्हम आसनम आदिश्य निश्चक्राम ततः पुनः 35 तं चारुवेषाः सुश्रॊण्यस तरुण्यः परियदर्शनाः सूक्ष्मरक्ताम्बरधरास तप्तकाञ्चनभूसनः 36 संलापॊल्लाप कुशला नृत्तगीतविशारदाः समितपूर्वाभिभासिन्यॊ रूपेणाप्सरसां समाः 37 कामॊपचार कुशला भावज्ञाः सर्वकॊविदाः परं पञ्चाशतॊ नार्यॊ वारु मुख्याः समाद्रवन 38 पाद्यादीनि परतिग्राह्य पूजया परयार्च्य च देशकालॊपपन्नेन साध्व अन्नेनाप्य अतर्पयन 39 तस्य भुक्तवतस तात तद अन्तःपुर काननम सुरम्यं दर्शयाम आसुर ऐकैकश्येन भारत 40 करीदन्त्यश च हसन्त्यश च गायन्त्यश चैव ताः शुकम उदारसत्त्वं सत्त्वज्ञाः सर्वाः पर्यचरंस तदा 41 आरणेयस तु शुद्धात्मा तरिसंदेहस तरिकर्मकृत वश्येन्द्रियॊ जितक्रॊधॊ न हृष्यति न कुप्यति 42 तस्मै शय्यासनं दिव्यं वरार्हं रत्नभूषितम सपर्ध्यास्तरण संस्तीर्णं ददुस ताः परमस्त्रियः 43 पादशौचं तु कृत्वैव शुकः संध्याम उपास्य च निषसादासने पुण्ये तम एवार्थं विचिन्तयन 44 पूर्वरात्रे तु तत्रासौ भूत्वा धयानपरायनः मध्यरात्रे यथान्यायं निद्राम आहारयत परभुः 45 ततॊ मुहूर्ताद उत्थाय कृत्वा शौचम अनन्तरम सत्रीभिः परिवृतॊ धीमान धयानम एवान्वपद्यत 46 अनेन विधिना कार्ष्णिस तद अहः शेषम अच्युतः तां च रात्रिं नृप कुले वर्तयाम आस भारत |
1
[bhī] sa mokṣam anucintyaiva śukaḥ pitaram abhyagāt prāhābhivādya ca guruṃ śreyo 'rthī vinayānvitaḥ 2 mokṣadharmeṣu kuśalo bhagavān prabravītu me yathā me manasaḥ śāntiḥ paramā saṃbhavet prabho 3 śrutvā putrasya vacanaṃ paramarṣir uvāca tam adhīsva putra mokṣaṃ vai dharmāṃś ca vividhān api 4 pitur niyogāj jagrāha śuko brahmavidāṃ varaḥ yogaśāstraṃ ca nikhilaṃ pāpilaṃ caiva bhārata 5 sa taṃ brāhmyā śriyā yuktaṃ brahma tulyaparākramam mene putraṃ yadā vyāsa mokṣavidyā viśāradam 6 uvāca gaccheti tadā janakaṃ mithileśvaram sa te vakṣyati mokṣārthaṃ nikhilena viśeṣataḥ 7 pitur niyogād agaman maithilaṃ janakaṃ nṛpam prastuṃ dharmasya niṣṭhāṃ vai mokṣasya ca parāyanam 8 uktaś ca mānuṣeṇa tvaṃ pathā gacchety avismitaḥ na prabhāvena gantavyam antarikṣacareṇa vai 9 ārjavenaiva gantavyaṃ na sukhānveṣiṇā pathā nānveṣṭavyā viśeṣās tu viśeṣā hi prasaṅginaḥ 10 ahaṃkāro na kartavyo yājye tasmin narādhipe sthātavyaṃ ca vaśe tasya sa te chetsyati saṃśayam 11 sa dharmakuśalo rājā mokṣaśāstraviśāradaḥ yājyo mama sa yad brūyāt tat kāryam aviśaṅkayā 12 evam uktaḥ sa dharmātmā jagāma mithilāṃ muniḥ padbhyāṃ śako 'ntarikṣeṇa krāntuṃ bhūmiṃ sasāgarām 13 sa girīṃś cāpy atikramya nadīs tīrtvā sarāṃsi ca bahu vyālamṛgākīrṇā vividhāś cātavīs tathā 14 meror hareś ca dve varṣe varṣaṃ haimavataṃ tathā krameṇaiva vyatikramya bhārataṃ varṣam āsadat 15 sa deśān vividhān paśyaṃś cīna hūna niṣevitān āryāvartam imaṃ deśam ājagāma vicintayan 16 pitur vacanam ājñāya tam evārthaṃ vicintayan adhvānaṃ so 'ticakrāma khe 'caraḥ khecarann iva 17 pattanāni ca ramyāṇi sphītāni nagarāṇi ca ratnāni ca vicitrāṇi śukaḥ paśyan na paśyati 18 udyānāni ca ramyāṇi tathaivāyatanāni ca puṇyāni caiva tīrthāni so 'tikramya tathādhvanaḥ 19 so 'cireṇaiva kālena videhān āsasāda ha rakṣitān dharmarājena janakena mahātmanā 20 tatra grāmān bahūn paśyan bahvannarasabhojanān pallī ghoṣān samṛddhāṃś ca bahugokulasaṃkulān 21 sphītāṃś ca śāliyavasair haṃsasārasasevitān padminībhiś ca śataśaḥ śrīmatībhir alaṃkṛtān 22 sa videhān atikramya samṛddhajanasevitān mithilopavanaṃ ramyāsasāda mahad ṛddhimat 23 hastyaśvarathasaṃkīrṇaṃ naranārī samākulam paśyannapaśyann iva tat samatikrāmad avyutaḥ 24 manasā taṃ vahan bhāraṃ tam evārthaṃ vicintayan ātmārāmaḥ prasannātmā mithilām āsasāda ha 25 tasyā dvāraṃ samāsādya dvārapālair nivāritaḥ sthito dhyānaparo mukto viditaḥ praviveśa ha 26 sa rājamārgam āsādya samṛddhajanasaṃkulam pārthiva kṣayam āsādya niḥśaṅkaḥ praviveśa ha 27 tatrāpi dvārapālās tam ugravāco nyasedhayan tathaiva ca śukas tatra nirmanyuḥ samatiṣṭhata 28 na cātapādhva saṃtaptaḥ kṣutpipāsā śramānvitaḥ pratāmyati glāyati vā nāpaiti ca tathātapāt 29 teṣāṃ tu dvārapālānām ekaḥ śokasamanvitaḥ madhyaṃ gatam ivādityaṃ dṛṣṭvā śukam avasthitam 30 pūjayitvā yathānyāyam abhivādya kṛtāñjaliḥ praveśayat tataḥ kakṣyāṃ dvitīyaṃ rājaveśmanaḥ 31 tatrāsīnaḥ śukas tāta mokṣam evānucintayan chāyāyām ātape caiva samadarśī mahādyutiḥ 32 taṃ muhūrtād ivāgamya rājño mantrī kṛtāñjaliḥ prāveśayat tataḥ kakṣyāṃ tṛtīyāṃ rājaveśmanaḥ 33 tatrāntaḥpura saṃbaddhaṃ mahac caitrarathopamam suvibhaktajalā krīḍaṃ ramyaṃ puṣpitapādapam 34 tad darśayitvā sa śukaṃ mantrī kānanam uttamam arham āsanam ādiśya niścakrāma tataḥ punaḥ 35 taṃ cāruveṣāḥ suśroṇyas taruṇyaḥ priyadarśanāḥ sūkṣmaraktāmbaradharās taptakāñcanabhūsanaḥ 36 saṃlāpollāpa kuśalā nṛttagītaviśāradāḥ smitapūrvābhibhāsinyo rūpeṇāpsarasāṃ samāḥ 37 kāmopacāra kuśalā bhāvajñāḥ sarvakovidāḥ paraṃ pañcāśato nāryo vāru mukhyāḥ samādravan 38 pādyādīni pratigrāhya pūjayā parayārcya ca deśakālopapannena sādhv annenāpy atarpayan 39 tasya bhuktavatas tāta tad antaḥpura kānanam suramyaṃ darśayām āsur aikaikaśyena bhārata 40 krīdantyaś ca hasantyaś ca gāyantyaś caiva tāḥ śukam udārasattvaṃ sattvajñāḥ sarvāḥ paryacaraṃs tadā 41 āraṇeyas tu śuddhātmā trisaṃdehas trikarmakṛt vaśyendriyo jitakrodho na hṛṣyati na kupyati 42 tasmai śayyāsanaṃ divyaṃ varārhaṃ ratnabhūṣitam spardhyāstaraṇa saṃstīrṇaṃ dadus tāḥ paramastriyaḥ 43 pādaśaucaṃ tu kṛtvaiva śukaḥ saṃdhyām upāsya ca niṣasādāsane puṇye tam evārthaṃ vicintayan 44 pūrvarātre tu tatrāsau bhūtvā dhyānaparāyanaḥ madhyarātre yathānyāyaṃ nidrām āhārayat prabhuḥ 45 tato muhūrtād utthāya kṛtvā śaucam anantaram strībhiḥ parivṛto dhīmān dhyānam evānvapadyata 46 anena vidhinā kārṣṇis tad ahaḥ śeṣam acyutaḥ tāṃ ca rātriṃ nṛpa kule vartayām āsa bhārata |
The Mahabharata in Sanskrit
Book 12
Chapter 313
|
1
[भी] ततः स राजा जनकॊ मन्त्रिभिः सह भारत पुरः पुरॊहितं कृत्वा सर्वाण्य अन्तःपुराणि च 2 आसनं च पुरस्कृत्य रत्नानि विविधानि च शिरसा चार्घ्यम आदाय पुरु पुत्रं समभ्यगात 3 स तदासनम आदाय बहुरत्नविभूषितम सपर्ध्यास्तरण संस्तीर्णं सर्वतॊभद्रम ऋच्छिमत 4 पुरॊधसा संगृहीतं हस्तेनालभ्य पार्थिवः परददौ गुरुपुत्राय शुकाय परमार्चितम 5 तत्रॊपविष्टं तं कार्ष्णिं शास्त्रतः परत्यपूजयत पाद्यं निवेद्य परथमम अर्घ्यं गां च नयवेदयत स च तां मन्त्रवत पूजां परत्यगृह्णाद यथाविधि 6 परतिगृह्य च तां पूजां जनकाद दविजसत्तमः गां चैव समनुज्ञाय राजानम अनुमान्य च 7 पर्यपृच्छन महातेजा राज्ञः कुशलम अव्ययम अनामयं च राजेन्द्र शुकः सानुचरस्य ह 8 अनुज्ञातः स तेनाथ निषसाद सहानुगः उदारसत्त्वाभिजनॊ भूमौ राजा कृताञ्जलिः 9 कुशलं चाव्ययं चैव पृष्ट्वा वैयासकिं नृपः किम आगमनम इत्य एव पर्यपृच्छत पार्थिवः 10 [षुक] पित्राहम उक्तॊ भद्रं ते मॊक्षधर्मार्थकॊविदः विदेहराजॊ याज्यॊ मे जनकॊ नाम विश्रुतः 11 तत्र गच्छस्व वै तूर्णं यदि ते हृदि संशयः परवृत्तौ वा निवृत्तौ वा स ते छेत्स्यति संशयम 12 सॊ ऽहं पितुर नियॊगात तवाम उपप्रस्तुम इहागतः तन मे धर्मभृतां शरेष्ठ यथावद वक्तुम अर्हसि 13 किं कार्यं बराह्मणेनेह मॊक्षार्थश च किम आत्मकः कथं च मॊक्षः कर्तव्यॊ जञानेन तपसापि वा 14 [जनक] यत कार्यं बराह्मणेनेह जन्मप्रभृति तच छृणु कृतॊपनयनस तात भवेद वेद परायनः 15 तपसा गुरुवृत्त्या च बरह्मचर्येण चाभिभॊ देवतानां पितॄणां चाप्य अनृणश चानसूयकः 16 वेदान अधीत्य नियतॊ दक्षिणाम अपवर्ज्य च अभ्यनुज्ञाम अथ पराप्य समावर्तेत वै दविजः 17 समावृत्तस तु गार्हस्थ्ये सदारॊ नियतॊ वसेत अनसूयुर यथान्यायम आहिताग्निस तथैव च 18 उत्पाद्य पुत्रपौत्रं तु वन्याश्रमपदे वसेत तान्य एवाग्नीन यथाशास्त्रम अर्चयन्न अतिथिप्रियः 19 स वने ऽगनीन यथान्यायम आत्मन्य आरॊप्य धर्मवित निर्द्वन्द्वॊ वीतरागात्मा बरह्माश्रमपदे वसेत 20 [षुक] उत्पन्ने जञानविज्ञाने परत्यक्षे हृदि शाश्वते किम अवश्यं निवस्तव्यम आश्रमेषु वनेषु च 21 एतद भवन्तं पृच्छामि तद भवान वक्तुम अर्हति यथा वेदार्थ तत्त्वेन बरूहि मे तवं जनाधिप 22 [जनक] न विना जञानविज्ञानं मॊक्षस्याधिगमॊ भवेत न विना गुरु संबन्धं जञानस्याधिगमः समृतः 23 आचार्यः पलाविता तस्य जञानं पलव इहॊच्यते विज्ञाय कृतकृत्यस तु तीर्णस तद उभयं तयजेत 24 अनुच्छेदाय लॊकानाम अनुच्छेदाय कर्मणाम पूर्वैर आचरितॊ धर्मश चातुराश्रम्य संकथः 25 अनेन करमयॊगेन बहु जातिषु कर्मणा कृत्वा शुभाशुभं कर्म मॊक्षॊ नामेह लभ्यते 26 भवितैः कारणैश चायं बहु संसारयॊनिषु आसादयति शुद्धात्मा मॊक्षं वै परथमाश्रमे 27 तम आसाद्य तु मुक्तस्य दृष्टार्थस्य विपश्चितः तरिष्व आश्रमेषु कॊ नव अर्थॊ भवेत परमम ईप्सतः 28 राजसांस तामसांश चैव नित्यं दॊषान विवर्जयेत सात्त्विकं मार्गम आस्थाय पश्येद आत्मानम आत्मना 29 सर्वभूतेषु चात्मानं सर्वहूतानि चात्मनि संपश्यन नॊपलिप्येत जले वारि चरॊ यथा 30 पक्षीव पलवनाद ऊर्ध्वम अमुत्रानन्त्यम अश्नुते विहाय देहं निर्मुक्तॊ निर्द्वन्द्वः परशमं गतः 31 अत्र गाथाः पुरा गीताः शृणु राज्ञा ययातिना धार्यन्ते या दविजैस तात मॊक्षशास्त्रविशारदैः 32 जयॊतिर आत्मनि नान्यत्र रतं तत्रैव चैव तत सवयं च शक्यं तद दरष्टुं सुसमाहित चेतसा 33 न बिभेति परॊ यस्मान न बिभेति पराच च यः यश च नेच्छति न दवेष्टि बरह्म संपद्यते तदा 34 यदा भावं न कुरुते सर्वभूतेषु पापकम कर्मणा मनसा वाचा बरह्म संपद्यते तदा 35 संयॊज्य तपसात्मानम ईर्ष्याम उत्सृज्य मॊहिनीम तयक्त्वा कामं च लॊभं च ततॊ बरह्मत्वम अश्नुते 36 यदा शरव्ये च दृश्ये च सर्वभूतेषु चाप्ययम समॊ भवति निर्द्वन्द्वॊ बरह्म संपद्यते तदा 37 यदा सतुतिं च निन्दां च समत्वेनैव पश्यति काञ्चनं चायसं चैव सुखदुःखे तथैव च 38 शीतम उष्णं तथैवार्थम अनर्थं परियम अप्रियम जीवितं मरणं चैव बरह्म संपद्यते तदा 39 परसार्येह यथाङ्गानि कूर्मः संहरते पुनः तथेन्द्रियाणि मनसा संयन्तव्यानि भिक्षुणा 40 तमः परिगतं वेश्म यथा दीपेन दृश्यते तथा बुद्धिप्रदीपेन शक्य आत्मा निरीक्षितुम 41 एतत सर्वं परपश्यामि तवयि बुद्धिमतां वर यच चान्यद अपि वेत्तव्यं तत्त्वतॊ वेद तद भवान 42 बरह्मर्षे विदितश चासि विषयान्तम उपागतः गुरॊस तव परसादेन तव चैवॊपशिक्षया 43 तस्यैव च परसादेन परादुर्भूतं महामुने जञानं दिव्यं ममापीदं तेनासि विदितॊ मम 44 अधिकं तव विज्ञानम अधिका च गतिस तव अधिकं च तवैश्वर्यं तच च तवं नावबुध्यसे 45 बाल्याद वा संशयाद वापि भयाद वाप्य अविमॊक्षजात उत्पन्ने चापि विज्ञाने नाधिगच्छन्ति तां गतिम 46 वयवसायेन शुद्धेन मद्विधैश छिन्नसंशयः विमुच्य हृदयग्रन्थीन आसादयति तां गतिम 47 भवांश चॊत्पन्न विज्ञानः सथिरबुद्धिर अलॊलुपः वयवसायाद ऋते बरह्मन्न आसादयति तत्परम 48 नास्ति ते सुखदुःखेषु विशेषॊ नास्ति लॊलुपा नौत्सुक्यं नृत्तगीतेषु न राग उपजायते 49 न बन्धुषु निबन्धस ते न भयेष्व अस्ति ते भयम पश्यामि तवां महाभाग तुल्यलॊष्टाश्म काञ्चनम 50 अहं च तवानुपश्यामि ये चाप्य अन्ये मनीषिणः आस्थितं परमं मार्गम अक्षयं तम अनामयम 51 यत फलं बराह्मणस्येह मॊक्षार्थश च यद आत्मकः तस्मिन वै वर्तसे विप्र किम अन्यत परिपृच्छसि |
1
[bhī] tataḥ sa rājā janako mantribhiḥ saha bhārata puraḥ purohitaṃ kṛtvā sarvāṇy antaḥpurāṇi ca 2 āsanaṃ ca puraskṛtya ratnāni vividhāni ca śirasā cārghyam ādāya puru putraṃ samabhyagāt 3 sa tadāsanam ādāya bahuratnavibhūṣitam spardhyāstaraṇa saṃstīrṇaṃ sarvatobhadram ṛcchimat 4 purodhasā saṃgṛhītaṃ hastenālabhya pārthivaḥ pradadau guruputrāya śukāya paramārcitam 5 tatropaviṣṭaṃ taṃ kārṣṇiṃ śāstrataḥ pratyapūjayat pādyaṃ nivedya prathamam arghyaṃ gāṃ ca nyavedayat sa ca tāṃ mantravat pūjāṃ pratyagṛhṇād yathāvidhi 6 pratigṛhya ca tāṃ pūjāṃ janakād dvijasattamaḥ gāṃ caiva samanujñāya rājānam anumānya ca 7 paryapṛcchan mahātejā rājñaḥ kuśalam avyayam anāmayaṃ ca rājendra śukaḥ sānucarasya ha 8 anujñātaḥ sa tenātha niṣasāda sahānugaḥ udārasattvābhijano bhūmau rājā kṛtāñjaliḥ 9 kuśalaṃ cāvyayaṃ caiva pṛṣṭvā vaiyāsakiṃ nṛpaḥ kim āgamanam ity eva paryapṛcchata pārthivaḥ 10 [ṣuka] pitrāham ukto bhadraṃ te mokṣadharmārthakovidaḥ videharājo yājyo me janako nāma viśrutaḥ 11 tatra gacchasva vai tūrṇaṃ yadi te hṛdi saṃśayaḥ pravṛttau vā nivṛttau vā sa te chetsyati saṃśayam 12 so 'haṃ pitur niyogāt tvām upaprastum ihāgataḥ tan me dharmabhṛtāṃ śreṣṭha yathāvad vaktum arhasi 13 kiṃ kāryaṃ brāhmaṇeneha mokṣārthaś ca kim ātmakaḥ kathaṃ ca mokṣaḥ kartavyo jñānena tapasāpi vā 14 [janaka] yat kāryaṃ brāhmaṇeneha janmaprabhṛti tac chṛṇu kṛtopanayanas tāta bhaved veda parāyanaḥ 15 tapasā guruvṛttyā ca brahmacaryeṇa cābhibho devatānāṃ pitṝṇāṃ cāpy anṛṇaś cānasūyakaḥ 16 vedān adhītya niyato dakṣiṇām apavarjya ca abhyanujñām atha prāpya samāvarteta vai dvijaḥ 17 samāvṛttas tu gārhasthye sadāro niyato vaset anasūyur yathānyāyam āhitāgnis tathaiva ca 18 utpādya putrapautraṃ tu vanyāśramapade vaset tāny evāgnīn yathāśāstram arcayann atithipriyaḥ 19 sa vane 'gnīn yathānyāyam ātmany āropya dharmavit nirdvandvo vītarāgātmā brahmāśramapade vaset 20 [ṣuka] utpanne jñānavijñāne pratyakṣe hṛdi śāśvate kim avaśyaṃ nivastavyam āśrameṣu vaneṣu ca 21 etad bhavantaṃ pṛcchāmi tad bhavān vaktum arhati yathā vedārtha tattvena brūhi me tvaṃ janādhipa 22 [janaka] na vinā jñānavijñānaṃ mokṣasyādhigamo bhavet na vinā guru saṃbandhaṃ jñānasyādhigamaḥ smṛtaḥ 23 ācāryaḥ plāvitā tasya jñānaṃ plava ihocyate vijñāya kṛtakṛtyas tu tīrṇas tad ubhayaṃ tyajet 24 anucchedāya lokānām anucchedāya karmaṇām pūrvair ācarito dharmaś cāturāśramya saṃkathaḥ 25 anena kramayogena bahu jātiṣu karmaṇā kṛtvā śubhāśubhaṃ karma mokṣo nāmeha labhyate 26 bhavitaiḥ kāraṇaiś cāyaṃ bahu saṃsārayoniṣu āsādayati śuddhātmā mokṣaṃ vai prathamāśrame 27 tam āsādya tu muktasya dṛṣṭārthasya vipaścitaḥ triṣv āśrameṣu ko nv artho bhavet paramam īpsataḥ 28 rājasāṃs tāmasāṃś caiva nityaṃ doṣān vivarjayet sāttvikaṃ mārgam āsthāya paśyed ātmānam ātmanā 29 sarvabhūteṣu cātmānaṃ sarvahūtāni cātmani saṃpaśyan nopalipyeta jale vāri caro yathā 30 pakṣīva plavanād ūrdhvam amutrānantyam aśnute vihāya dehaṃ nirmukto nirdvandvaḥ praśamaṃ gataḥ 31 atra gāthāḥ purā gītāḥ śṛṇu rājñā yayātinā dhāryante yā dvijais tāta mokṣaśāstraviśāradaiḥ 32 jyotir ātmani nānyatra rataṃ tatraiva caiva tat svayaṃ ca śakyaṃ tad draṣṭuṃ susamāhita cetasā 33 na bibheti paro yasmān na bibheti parāc ca yaḥ yaś ca necchati na dveṣṭi brahma saṃpadyate tadā 34 yadā bhāvaṃ na kurute sarvabhūteṣu pāpakam karmaṇā manasā vācā brahma saṃpadyate tadā 35 saṃyojya tapasātmānam īrṣyām utsṛjya mohinīm tyaktvā kāmaṃ ca lobhaṃ ca tato brahmatvam aśnute 36 yadā śravye ca dṛśye ca sarvabhūteṣu cāpyayam samo bhavati nirdvandvo brahma saṃpadyate tadā 37 yadā stutiṃ ca nindāṃ ca samatvenaiva paśyati kāñcanaṃ cāyasaṃ caiva sukhaduḥkhe tathaiva ca 38 śītam uṣṇaṃ tathaivārtham anarthaṃ priyam apriyam jīvitaṃ maraṇaṃ caiva brahma saṃpadyate tadā 39 prasāryeha yathāṅgāni kūrmaḥ saṃharate punaḥ tathendriyāṇi manasā saṃyantavyāni bhikṣuṇā 40 tamaḥ parigataṃ veśma yathā dīpena dṛśyate tathā buddhipradīpena śakya ātmā nirīkṣitum 41 etat sarvaṃ prapaśyāmi tvayi buddhimatāṃ vara yac cānyad api vettavyaṃ tattvato veda tad bhavān 42 brahmarṣe viditaś cāsi viṣayāntam upāgataḥ guros tava prasādena tava caivopaśikṣayā 43 tasyaiva ca prasādena prādurbhūtaṃ mahāmune jñānaṃ divyaṃ mamāpīdaṃ tenāsi vidito mama 44 adhikaṃ tava vijñānam adhikā ca gatis tava adhikaṃ ca tavaiśvaryaṃ tac ca tvaṃ nāvabudhyase 45 bālyād vā saṃśayād vāpi bhayād vāpy avimokṣajāt utpanne cāpi vijñāne nādhigacchanti tāṃ gatim 46 vyavasāyena śuddhena madvidhaiś chinnasaṃśayaḥ vimucya hṛdayagranthīn āsādayati tāṃ gatim 47 bhavāṃś cotpanna vijñānaḥ sthirabuddhir alolupaḥ vyavasāyād ṛte brahmann āsādayati tatparam 48 nāsti te sukhaduḥkheṣu viśeṣo nāsti lolupā nautsukyaṃ nṛttagīteṣu na rāga upajāyate 49 na bandhuṣu nibandhas te na bhayeṣv asti te bhayam paśyāmi tvāṃ mahābhāga tulyaloṣṭāśma kāñcanam 50 ahaṃ ca tvānupaśyāmi ye cāpy anye manīṣiṇaḥ āsthitaṃ paramaṃ mārgam akṣayaṃ tam anāmayam 51 yat phalaṃ brāhmaṇasyeha mokṣārthaś ca yad ātmakaḥ tasmin vai vartase vipra kim anyat paripṛcchasi |
The Mahabharata in Sanskrit
Book 12
Chapter 314
|
1
[भी] एतच छरुत्वा तु वचनं कृतात्मा कृतनिश्चयः आत्मनात्मानम आस्थाय दृष्ट्वा चात्मानम आत्मना 2 कृतकार्यः सुखी शान्तस तूस्नीं परायाद उदङ मुखः शैशिरं गिरिम उद्दिश्य सधर्मा मातरिश्वनः 3 एतस्मिन्न एव काले तु देवर्षिर नारदस तदा हिमवन्तम इयाद दरष्टुं सिद्धचारणसेवितम 4 तम अप्सरॊगणाकीर्णं गीतस्वननिनादितम किंनराणां समूहैश च भृङ्गराजैस तथैव च 5 मद्गुभिः खञ्जरीतैश च विचित्रैर जीव जीवकैः चित्रवर्णैर मयूरैश च केका शतविराजितैः राजहंस समूहैश च हृष्टैः परभृतैस तथा 6 पक्षिराजॊ गरुत्मांश च यं नित्यम अधिगच्छति चत्वारॊ लॊकपालश च देवाः सर्षिगणास तथा यत्र नित्यं समायान्ति लॊकस्य हितकाम्यया 7 विष्णुना यत्र पुत्रार्थे तपस तप्तं महात्मना यत्रैव च कुमारेण बाल्ये कषिप्ता दिवौकसः 8 शक्तिर नयस्ता कषितितले तरैलॊक्यम अवमन्य वै यत्रॊवाच जगत सकन्दः कषिपन वाक्यम इदं तदा 9 यॊ ऽनयॊ ऽसति मत्तॊ ऽभयधिकॊ विप्रा यस्याधिकं परियाः यॊ बरह्मण्यॊ दवितीयॊ ऽसति तरिषु लॊकेषु वीर्यवान 10 सॊ ऽभयुद्धरत्व इमां शक्तिम अथ वा कम्पयत्व इति तच छरुत्वा वयथिता लॊकाः क इमाम उद्धरेद इति 11 अथ देवगणं सर्वं संभ्रान्तेन्द्रिय मानसम अपश्यद भगवान विष्णुः कषिप्रं सासुरराक्षसम किं नव अत्र सुकृतं कार्यं भवेद इति विचिन्तयन 12 स नामृष्यत तं कषेपम अवैक्षत च पावकिम स परहस्य विशुद्धात्मा शक्तिं परज्वलितां तदा कम्पयाम आस सव्येन पानिना पुरुषॊत्तमः 13 शक्त्यां तु कम्पयानायां विष्णुना बलिना तदा मेदिनी कम्पिता सर्वा सशैलवनकानना 14 शक्तेनापि समुद्धर्तुं कम्पिता सा न तूद्धृता रक्षता सकन्द राजस्य धर्षणां परभविष्णुना 15 तां कम्पयित्वा भगवान परह्रादम इदम अब्रवीत पश्य वीर्यं कुमारस्य नैतद अन्यः करिष्यति 16 सॊ ऽमृष्यमाणस तद वाक्यं समुद्धरण निश्चितः जग्राह तां तस्य शक्तिं न चैनाम अप्य अकम्पयत 17 नादं महान्तं मुक्त्वा स मूर्च्छितॊ गिरिमूर्धनि विह्वलः परापतद भूमौ हिरण्यकशिपॊः सुतः 18 यत्रॊत्तरां दिशिं गत्वा शैलराजस्य पार्श्वतः तपॊ ऽतप्यत दुर्धर्षस तात नित्यं वृषध्वजः 19 पावकेन परिक्षिप्तॊ दीप्यता तस्य चाश्रमः आदित्यबन्धनं नाम दुर्धर्षम अकृतात्मभिः 20 न तत्र शक्यते गन्तुं यक्षराक्षस दानवैः दशयॊजनविस्तारम अग्निज्वाला समावृतम 21 भगवान पवकस तत्र सवयं तिष्ठति वीर्यवा सर्वविघ्नान परशमयन महादेवस्य धीमतः 22 दिव्यं वर्षसहस्रं हि पादेनैकेन तिष्ठतः देवान संतापयंस तत्र महादेवॊ धृतव्रतः 23 ऐन्द्रीं तु दिशम आस्थाय शैलराजस्य धीमतः विविक्ते पर्वत तते पाराशर्यॊ महातपः वेदान अध्यापयाम आस वयासः शिष्यान महातपः 24 सुमन्तुं च महाभागं वैशम्पायनम एव च जैमिनिं च महाप्राज्ञं पैलं चापि तपस्विनम 25 एभिः शिष्यैः परिवृतॊ वयास आस्ते महातपः तत्राश्रमपदं पुण्यं ददर्श पितुर उत्तमम आरणेयॊ विशुद्धात्मा नभसीव दिवाकरः 26 अथ वयासः परिक्षिप्तं जवजन्तम इव पावकम ददर्श सुतम आयान्तं दिवाकरसमप्रभम 27 असज्जमानं वृक्षेषु शैलेषु विषमेषु च यॊगयुक्तं महात्मानं यथा बानं गुणच्युतम 28 सॊ ऽभिगम्य पितुः पादाव अगृह्णाद अरणीसुतः यथॊपजॊषं तैश चापि समागच्छन महामुनिः 29 ततॊ निवेदयाम आस पित्रे सर्वम अशेषतः शुकॊ जनकराजेन संवादं परीतमानसः 30 एवम अध्यापयञ शिष्यान वयासः पुत्रं च वीर्यवान उवास हिमवत्पृष्ठे पाराशर्यॊ महामुनिः 31 ततः कदा चिच छिष्यास तं परिवार्यावतस्थिरे वेदाध्ययनसंपन्नाः शान्तात्मानॊ जितेन्द्रियाः 32 वेदेषु निष्ठां संप्राप्य साङ्गेष्व अतितपस्विनः अथॊचुस ते तदा वयासं शिष्याः पराञ्जलयॊ गुरुम 33 महता शरेयसा युक्ता यशसा च सम वर्धिताः एकं तव इदानीम इच्छामॊ गुरुणानुग्रहं कृतम 34 इति तेषां वचः शरुत्वा बरह्मर्षिस तान उवाच ह उच्यताम इति तद वत्सा यद वः कार्यं परियं मया 35 एतद वाक्यं गुरॊः शरुत्वा शिष्यास ते हृष्टमानसाः पुनः पराञ्जलयॊ भूत्वा परनम्य शिरसा गुरुम 36 ऊचुस ते सहिता राजन्न इदं वचनम उत्तमम यदि परीत उपाध्यायॊ धन्याः समॊ मुनिसत्तम 37 काङ्क्षाम अस्तु वयं सर्वे वरं दत्तं महर्षिणा सस्थः शिष्यॊ न ते खयातिं गच्छेद अत्र परसीद नः 38 चत्वारस ते वयं शिष्या गुरुपुत्रश च पञ्चमः इह वेदाः परतिष्ठेरन्न एष नः काङ्क्षितॊ वरः 39 शिष्याणां वचनं शरुत्वा वयासॊ वेदार्थ तत्त्ववित पराशरात्मजॊ धीमान परलॊकार्थ चिन्तकः उवाच शिष्यान धर्मात्मा धर्म्यं नैःश्रेयसं वचः 40 बराह्मणाय सदा देयं बरह्म शुश्रूसवे भवेत बरह्मलॊके निवासं यॊ धरुवं समभिकाङ्क्षति 41 भवन्तॊ बहुलाः सन्तु वेदॊ विस्तार्यताम अयम नाशिष्ये संप्रदातव्यॊ नाव्रते नाकृतात्मनि 42 एते शिष्यगुणाः सर्वे विज्ञातव्या यथार्थतः नापरीक्षित चारित्रे विद्या देया कथं चन 43 यथा हि कनकं शुद्धं तापछेदनिघर्षणैः परीक्षेत तथा शिष्यान ईक्षेत कुलगुणादिभिः 44 न नियॊज्याश च वः शिष्या अनियॊगे महाभये यथामतियथा पाथं तथा विद्या फलिष्यति 45 सर्वस तरतु दुर्गानि सर्वॊ भद्राणि पश्यतु शरावयेच चतुरॊ वर्णान कृत्वा बराह्मणम अग्रतः 46 वेदस्याध्ययनं हीदं तच च कार्यं महत समृतम सतुत्यर्थम इह देवानां वेदाः सृष्टाः सवयम्भुवा 47 यॊ निर्वदेत संमॊहाद बराह्मणं वेदपारगम सॊ ऽपध्यानाद बराह्मणस्य पराभूयाद असंशयम 48 यश चाधर्मेण विब्रूयाद यश चाधर्मेण पृच्छति तयॊर अन्यतरः परैति विद्वेषं वाधिगच्छति 49 एतद वः सर्वम आख्यातं सवाध्यायस्य विधिं परति उपकुर्याच च शिष्याणाम एतच च हृदि वॊ भवेत |
1
[bhī] etac chrutvā tu vacanaṃ kṛtātmā kṛtaniścayaḥ ātmanātmānam āsthāya dṛṣṭvā cātmānam ātmanā 2 kṛtakāryaḥ sukhī śāntas tūsnīṃ prāyād udaṅ mukhaḥ śaiśiraṃ girim uddiśya sadharmā mātariśvanaḥ 3 etasminn eva kāle tu devarṣir nāradas tadā himavantam iyād draṣṭuṃ siddhacāraṇasevitam 4 tam apsarogaṇākīrṇaṃ gītasvananināditam kiṃnarāṇāṃ samūhaiś ca bhṛṅgarājais tathaiva ca 5 madgubhiḥ khañjarītaiś ca vicitrair jīva jīvakaiḥ citravarṇair mayūraiś ca kekā śatavirājitaiḥ rājahaṃsa samūhaiś ca hṛṣṭaiḥ parabhṛtais tathā 6 pakṣirājo garutmāṃś ca yaṃ nityam adhigacchati catvāro lokapālaś ca devāḥ sarṣigaṇās tathā yatra nityaṃ samāyānti lokasya hitakāmyayā 7 viṣṇunā yatra putrārthe tapas taptaṃ mahātmanā yatraiva ca kumāreṇa bālye kṣiptā divaukasaḥ 8 śaktir nyastā kṣititale trailokyam avamanya vai yatrovāca jagat skandaḥ kṣipan vākyam idaṃ tadā 9 yo 'nyo 'sti matto 'bhyadhiko viprā yasyādhikaṃ priyāḥ yo brahmaṇyo dvitīyo 'sti triṣu lokeṣu vīryavān 10 so 'bhyuddharatv imāṃ śaktim atha vā kampayatv iti tac chrutvā vyathitā lokāḥ ka imām uddhared iti 11 atha devagaṇaṃ sarvaṃ saṃbhrāntendriya mānasam apaśyad bhagavān viṣṇuḥ kṣipraṃ sāsurarākṣasam kiṃ nv atra sukṛtaṃ kāryaṃ bhaved iti vicintayan 12 sa nāmṛṣyata taṃ kṣepam avaikṣata ca pāvakim sa prahasya viśuddhātmā śaktiṃ prajvalitāṃ tadā kampayām āsa savyena pāninā puruṣottamaḥ 13 śaktyāṃ tu kampayānāyāṃ viṣṇunā balinā tadā medinī kampitā sarvā saśailavanakānanā 14 śaktenāpi samuddhartuṃ kampitā sā na tūddhṛtā rakṣatā skanda rājasya dharṣaṇāṃ prabhaviṣṇunā 15 tāṃ kampayitvā bhagavān prahrādam idam abravīt paśya vīryaṃ kumārasya naitad anyaḥ kariṣyati 16 so 'mṛṣyamāṇas tad vākyaṃ samuddharaṇa niścitaḥ jagrāha tāṃ tasya śaktiṃ na cainām apy akampayat 17 nādaṃ mahāntaṃ muktvā sa mūrcchito girimūrdhani vihvalaḥ prāpatad bhūmau hiraṇyakaśipoḥ sutaḥ 18 yatrottarāṃ diśiṃ gatvā śailarājasya pārśvataḥ tapo 'tapyata durdharṣas tāta nityaṃ vṛṣadhvajaḥ 19 pāvakena parikṣipto dīpyatā tasya cāśramaḥ ādityabandhanaṃ nāma durdharṣam akṛtātmabhiḥ 20 na tatra śakyate gantuṃ yakṣarākṣasa dānavaiḥ daśayojanavistāram agnijvālā samāvṛtam 21 bhagavān pavakas tatra svayaṃ tiṣṭhati vīryavā sarvavighnān praśamayan mahādevasya dhīmataḥ 22 divyaṃ varṣasahasraṃ hi pādenaikena tiṣṭhataḥ devān saṃtāpayaṃs tatra mahādevo dhṛtavrataḥ 23 aindrīṃ tu diśam āsthāya śailarājasya dhīmataḥ vivikte parvata tate pārāśaryo mahātapaḥ vedān adhyāpayām āsa vyāsaḥ śiṣyān mahātapaḥ 24 sumantuṃ ca mahābhāgaṃ vaiśampāyanam eva ca jaiminiṃ ca mahāprājñaṃ pailaṃ cāpi tapasvinam 25 ebhiḥ śiṣyaiḥ parivṛto vyāsa āste mahātapaḥ tatrāśramapadaṃ puṇyaṃ dadarśa pitur uttamam āraṇeyo viśuddhātmā nabhasīva divākaraḥ 26 atha vyāsaḥ parikṣiptaṃ jvajantam iva pāvakam dadarśa sutam āyāntaṃ divākarasamaprabham 27 asajjamānaṃ vṛkṣeṣu śaileṣu viṣameṣu ca yogayuktaṃ mahātmānaṃ yathā bānaṃ guṇacyutam 28 so 'bhigamya pituḥ pādāv agṛhṇād araṇīsutaḥ yathopajoṣaṃ taiś cāpi samāgacchan mahāmuniḥ 29 tato nivedayām āsa pitre sarvam aśeṣataḥ śuko janakarājena saṃvādaṃ prītamānasaḥ 30 evam adhyāpayañ śiṣyān vyāsaḥ putraṃ ca vīryavān uvāsa himavatpṛṣṭhe pārāśaryo mahāmuniḥ 31 tataḥ kadā cic chiṣyās taṃ parivāryāvatasthire vedādhyayanasaṃpannāḥ śāntātmāno jitendriyāḥ 32 vedeṣu niṣṭhāṃ saṃprāpya sāṅgeṣv atitapasvinaḥ athocus te tadā vyāsaṃ śiṣyāḥ prāñjalayo gurum 33 mahatā śreyasā yuktā yaśasā ca sma vardhitāḥ ekaṃ tv idānīm icchāmo guruṇānugrahaṃ kṛtam 34 iti teṣāṃ vacaḥ śrutvā brahmarṣis tān uvāca ha ucyatām iti tad vatsā yad vaḥ kāryaṃ priyaṃ mayā 35 etad vākyaṃ guroḥ śrutvā śiṣyās te hṛṣṭamānasāḥ punaḥ prāñjalayo bhūtvā pranamya śirasā gurum 36 ūcus te sahitā rājann idaṃ vacanam uttamam yadi prīta upādhyāyo dhanyāḥ smo munisattama 37 kāṅkṣām astu vayaṃ sarve varaṃ dattaṃ maharṣiṇā sasthaḥ śiṣyo na te khyātiṃ gacched atra prasīda naḥ 38 catvāras te vayaṃ śiṣyā guruputraś ca pañcamaḥ iha vedāḥ pratiṣṭherann eṣa naḥ kāṅkṣito varaḥ 39 śiṣyāṇāṃ vacanaṃ śrutvā vyāso vedārtha tattvavit parāśarātmajo dhīmān paralokārtha cintakaḥ uvāca śiṣyān dharmātmā dharmyaṃ naiḥśreyasaṃ vacaḥ 40 brāhmaṇāya sadā deyaṃ brahma śuśrūsave bhavet brahmaloke nivāsaṃ yo dhruvaṃ samabhikāṅkṣati 41 bhavanto bahulāḥ santu vedo vistāryatām ayam nāśiṣye saṃpradātavyo nāvrate nākṛtātmani 42 ete śiṣyaguṇāḥ sarve vijñātavyā yathārthataḥ nāparīkṣita cāritre vidyā deyā kathaṃ cana 43 yathā hi kanakaṃ śuddhaṃ tāpachedanigharṣaṇaiḥ parīkṣeta tathā śiṣyān īkṣet kulaguṇādibhiḥ 44 na niyojyāś ca vaḥ śiṣyā aniyoge mahābhaye yathāmatiyathā pāthaṃ tathā vidyā phaliṣyati 45 sarvas taratu durgāni sarvo bhadrāṇi paśyatu śrāvayec caturo varṇān kṛtvā brāhmaṇam agrataḥ 46 vedasyādhyayanaṃ hīdaṃ tac ca kāryaṃ mahat smṛtam stutyartham iha devānāṃ vedāḥ sṛṣṭāḥ svayambhuvā 47 yo nirvadeta saṃmohād brāhmaṇaṃ vedapāragam so 'padhyānād brāhmaṇasya parābhūyād asaṃśayam 48 yaś cādharmeṇa vibrūyād yaś cādharmeṇa pṛcchati tayor anyataraḥ praiti vidveṣaṃ vādhigacchati 49 etad vaḥ sarvam ākhyātaṃ svādhyāyasya vidhiṃ prati upakuryāc ca śiṣyāṇām etac ca hṛdi vo bhavet |
The Mahabharata in Sanskrit
Book 12
Chapter 315
|
1
[भी] एतच छरुत्वा गुरॊर वाक्यं वयास शिष्या महौजसः अन्यॊन्यं हृष्टमनसः परिषस्वजिरे तदा 2 उक्ताः समॊ यद भगवता तदात्वायति संहितम तन नॊ मनसि संरूढं करिष्यामस तथा च तत 3 अन्यॊन्यं च सभाज्यैवं सुप्रीतमनसः पुनः विज्ञापयन्ति सम गुरुं पुनर वाक्यविशारदाः 4 शैलाद अस्मान महीं गन्तुं काङ्क्षितं नॊ महामुनौ वेदान अनेकधा कर्तुं यदि ते रुचितं विभॊ 5 शिष्याणां वचनं शरुत्वा पराशर सुतः परभुः परत्युवाच ततॊ वाक्यं धर्मार्थसहितं हितम 6 कषितिं वा देवलॊकं वा गम्यतां यदि रॊचते अप्रमादश च वः कार्यॊ बरह्म हि परचुरछलम 7 ते ऽनुज्ञातास ततः सर्वे गुरुणा सत्यवादिना जग्मुः परदक्षिणं कृत्वा वयासं मूर्ध्नाभिवाद्य च 8 अवतीर्य महीं ते ऽथ चातुर्हॊत्रम अकल्पयन संयाजयन्तॊ विप्रांश च राजन्यांश च विशस तथा 9 पूज्यमाना दविजैर नित्यं मॊदमाना गृहे रताः याजनाध्यापन रताः शरीमन्तॊ लॊकविश्रुताः 10 अवतीर्णेषु शिष्येषु वयासः पुत्रसहायवान तूस्नीं धयानपरॊ धीमान एकान्ते समुपाविशत 11 तं ददर्शाश्रमपदे नारदः सुमहातपः अथैनम अब्रवीत काले मधुराक्षरया गिरा 12 भॊ भॊ महर्षे वासिष्ठ बरह्मघॊषॊ न वर्तते एकॊ धयानपरस तूस्नीं किम आस्से चिन्तयन्न इव 13 बरह्मघॊषैर विरहितः पर्वतॊ ऽयं न शॊभते रजसा तमसा चैव सॊमः सॊपप्लवॊ यथा 14 न भराजते यथा पूर्वं निषादानाम इवालयः देवर्षिगणजुष्टॊ ऽपि वेदध्वनिनिराकृतः 15 ऋषयश च हि देवाश च गन्धर्वाश च महौजसः विमुक्ता बरह्मघॊषेण न भराजन्ते यथा पुरा 16 नारदस्य वचः शरुत्वा कृष्णद्वैपायनॊ ऽबरवीत महर्षे यत तवया परॊक्तं वेदवादविचक्षण 17 एतन मनॊ ऽनुकूलं मे भवान अर्हति भासितुम सर्वज्ञः सर्वदर्शी च सर्वत्र च कुतूहली 18 तरिषु लॊकेषु यद्वृत्तं सर्वं तव मते सथितम तद आज्ञापय विप्रर्षे बरूहि किं करवाणि ते 19 यन मया समनुष्ठेयं बरह्मर्षे तद उदाहर वियुक्तस्येह शिष्यैर मे नातिहृष्टम इदं मनः 20 [नारद] अनाम्नाय मला वेदा बराह्मणस्याव्रतं मलम मलं पृथिव्या वाहीकाः सत्रीणां कौतूहलं मलम 21 अधीयतां भवान वेदान सार्धं पुत्रेण धीमता विधुन्वन बरह्मघॊषेण रक्षॊभयकृतं तमः 22 [भी] नारदस्य वचः शरुत्वा वयासः परमधर्मवित तथेत्य उवाच संहृष्टॊ वेदाभ्यासे दृध वरतः 23 शुकेन सह पुत्रेण वेदाभ्यासम अथाकरॊत सवरेणॊच्चैः स शैक्षेण लॊकान आपूरयन्न इव 24 तयॊर अभ्यसतॊर एवं नानाधर्मप्रवादिनॊः वातॊ ऽतिमात्रं परववौ समुद्रानिल वेजितः 25 ततॊ ऽनध्याय इति तं वयासः पुत्रम अवारयत शुकॊ वारित मात्रस तु कौतूहलसमन्वितः 26 अपृच्छत पितरं बरह्मन कुतॊ वायुर अभूद अयम आख्यातुम अर्हति भवान वायॊः सर्वं विचेष्टितम 27 शुकस्यैतद वचः शरुत्वा वयासः परमविस्मितः अनध्याय निमित्ते ऽसमिन्न इदं वचनम अब्रवीत 28 दिव्यं ते चक्षुर उत्पन्नं सवस्थं ते निर्मलं मनः तमसा रजसा चापि तयक्तः सत्त्वे वयवस्थितः 29 आदर्शे सवाम इव छायां पश्यस्य आत्मानम आत्मना नयस्यात्मनि सवयं वेदान बुद्ध्या समनुचिन्तय 30 देव यानचरॊ विष्णॊः पितृयानश च तामसः दवाव एतौ परेत्य पन्थानौ दिवं चाधश च गच्छतः 31 पृथिव्याम अन्तरिक्षे च यत्र संवान्ति वायवः सप्तैते वायुमार्गा वै तान निबॊधानुपूर्वशः 32 तत्र देवगणाः साध्याः समभूवन महाबलाः तेषाम अप्य अभवत पुत्रः समानॊ नाम दुर्जयः 33 उदानस तस्य पुत्रॊ ऽभूद वयानस तस्याभवत सुतः अपानश च ततॊ जञेयः पराणश चापि ततः परम 34 अनपत्यॊ ऽभवत परानॊ दुर्धर्षः शत्रुतापनः पृथक कर्माणि तेषां तु परवक्ष्यामि यथातथम 35 परानिनां सर्वतॊ वायुश चेष्टा वर्तयते पृथक पराणनाच चैव भूतानां पराण इत्य अभिधीयते 36 परेरयत्य अभ्रसंघातान धूमजांश चॊस्मजांश च यः परथमः परथमे मार्गे परवहॊ नाम सॊ ऽनिलः 37 अम्बरे सनेहम अभ्रेभ्यस तदिद भयश चॊत्तमद्युतिः आवहॊ नाम संवाति दवितीयः शवसनॊ नदन 38 उदयं जयॊतिषां शश्वत सॊमादीनां करॊति यः अन्तर्देहेषु चॊदानं यं वदन्ति महर्षयः 39 यश चतुर्भ्यः समुद्रेभ्यॊ वायुर धारयते जलम उद्धृत्याददते चापॊ जीमूतेभ्यॊ ऽमबरे ऽनिलः 40 यॊ ऽदभिः संयॊज्य जीमूतान पर्जन्याय परयच्छति उद्वहॊ नाम वर्षिष्ठस तरितीयः स सदागतिः 41 समुह्यमाना बहुधा येन नीलाः पृथग घनाः वर्षमॊक्षकृतारम्भास ते भवन्ति घनाघनाः 42 संहता येन चाविद्धा भवन्ति नदतां नदाः रक्षणार्थाय संभूता मेघत्वम उपयान्ति च 43 यॊ ऽसौ वहति देवानां विमानानि विहायसा चतुर्थः संवहॊ नाम वायुः स गिरिमर्दनः 44 येन वेगवता रुग्णा रूक्षेणारुजता रसान वायुना विहिता मेघा न भवन्ति बलाहकाः 45 दारुणॊत्पात संचारॊ नभसः सतनयित्नुमान पञ्चमः स महावेगॊ विवहॊ नाम मारुतः 46 यस्मिन पारिप्लवे दिव्या वहन्त्य आपॊ विहायसा पुण्यं चाकाशगङ्गायास तॊयं विष्टभ्य तिष्ठति 47 दूरात परतिहतॊ यस्मिन्न एकरश्मिर दिवाकरम यॊनिर अंशुसहस्रस्य येन भाति वसुंधरा 48 यस्माद आप्यायते सॊमॊ निधिर दिव्यॊ ऽमृतस्य च सस्थः परिवहॊ नाम स वायुर जवतां वरः 49 सर्वप्राण भृतां पराणान यॊ ऽनतकाले निरस्यति यस्य वर्त्मानुवर्तेते मृत्युवैवस्वताव उभौ 50 सम्यग अन्वीक्षतां बुद्ध्या शान्तयाध्यात्म नित्यया धयानाभ्यासाभिरामाणां यॊ ऽमृतत्वाय कल्पते 51 यं समासाद्य वेगेन दिशाम अन्तं परपेदिरे दक्षस्य दश पुत्राणां सहस्राणि परजापतेः 52 येन सृष्टः पराभूतॊ यात्य एव न निवर्तते परावहॊ नाम परॊ वायुः स दुरतिक्रमः 53 एवम एते ऽदितेः पुत्रा मारुताः परमाद्भुताः अनारमन्तः संवान्ति सर्वगाः सर्वधारिणः 54 एतत तु महद आश्वर्यं यद अयं पर्वतॊत्तमः कम्पितः सहसा तेन वायुनाभिप्रवायता 55 विष्णॊर निःश्वासवातॊ ऽयं यदा वेगसमीरितः सहसॊदीर्यते तात जगत परव्यथते तदा 56 तस्माद बरह्मविदॊ बरह्म नाधीयन्ते ऽतिवायति वायॊर वायुभयं हय उक्तं बरह्म तत पीडितं भवेत 57 एतावद उक्त्वा वचनं पराशर सुतः परभुः उक्त्वा पुत्रम अधीस्वेति वयॊम गङ्गाम अयात तदा |
1
[bhī] etac chrutvā guror vākyaṃ vyāsa śiṣyā mahaujasaḥ anyonyaṃ hṛṣṭamanasaḥ pariṣasvajire tadā 2 uktāḥ smo yad bhagavatā tadātvāyati saṃhitam tan no manasi saṃrūḍhaṃ kariṣyāmas tathā ca tat 3 anyonyaṃ ca sabhājyaivaṃ suprītamanasaḥ punaḥ vijñāpayanti sma guruṃ punar vākyaviśāradāḥ 4 śailād asmān mahīṃ gantuṃ kāṅkṣitaṃ no mahāmunau vedān anekadhā kartuṃ yadi te rucitaṃ vibho 5 śiṣyāṇāṃ vacanaṃ śrutvā parāśara sutaḥ prabhuḥ pratyuvāca tato vākyaṃ dharmārthasahitaṃ hitam 6 kṣitiṃ vā devalokaṃ vā gamyatāṃ yadi rocate apramādaś ca vaḥ kāryo brahma hi pracurachalam 7 te 'nujñātās tataḥ sarve guruṇā satyavādinā jagmuḥ pradakṣiṇaṃ kṛtvā vyāsaṃ mūrdhnābhivādya ca 8 avatīrya mahīṃ te 'tha cāturhotram akalpayan saṃyājayanto viprāṃś ca rājanyāṃś ca viśas tathā 9 pūjyamānā dvijair nityaṃ modamānā gṛhe ratāḥ yājanādhyāpana ratāḥ śrīmanto lokaviśrutāḥ 10 avatīrṇeṣu śiṣyeṣu vyāsaḥ putrasahāyavān tūsnīṃ dhyānaparo dhīmān ekānte samupāviśat 11 taṃ dadarśāśramapade nāradaḥ sumahātapaḥ athainam abravīt kāle madhurākṣarayā girā 12 bho bho maharṣe vāsiṣṭha brahmaghoṣo na vartate eko dhyānaparas tūsnīṃ kim āsse cintayann iva 13 brahmaghoṣair virahitaḥ parvato 'yaṃ na śobhate rajasā tamasā caiva somaḥ sopaplavo yathā 14 na bhrājate yathā pūrvaṃ niṣādānām ivālayaḥ devarṣigaṇajuṣṭo 'pi vedadhvaninirākṛtaḥ 15 ṛṣayaś ca hi devāś ca gandharvāś ca mahaujasaḥ vimuktā brahmaghoṣeṇa na bhrājante yathā purā 16 nāradasya vacaḥ śrutvā kṛṣṇadvaipāyano 'bravīt maharṣe yat tvayā proktaṃ vedavādavicakṣaṇa 17 etan mano 'nukūlaṃ me bhavān arhati bhāsitum sarvajñaḥ sarvadarśī ca sarvatra ca kutūhalī 18 triṣu lokeṣu yadvṛttaṃ sarvaṃ tava mate sthitam tad ājñāpaya viprarṣe brūhi kiṃ karavāṇi te 19 yan mayā samanuṣṭheyaṃ brahmarṣe tad udāhara viyuktasyeha śiṣyair me nātihṛṣṭam idaṃ manaḥ 20 [nārada] anāmnāya malā vedā brāhmaṇasyāvrataṃ malam malaṃ pṛthivyā vāhīkāḥ strīṇāṃ kautūhalaṃ malam 21 adhīyatāṃ bhavān vedān sārdhaṃ putreṇa dhīmatā vidhunvan brahmaghoṣeṇa rakṣobhayakṛtaṃ tamaḥ 22 [bhī] nāradasya vacaḥ śrutvā vyāsaḥ paramadharmavit tathety uvāca saṃhṛṣṭo vedābhyāse dṛdha vrataḥ 23 śukena saha putreṇa vedābhyāsam athākarot svareṇoccaiḥ sa śaikṣeṇa lokān āpūrayann iva 24 tayor abhyasator evaṃ nānādharmapravādinoḥ vāto 'timātraṃ pravavau samudrānila vejitaḥ 25 tato 'nadhyāya iti taṃ vyāsaḥ putram avārayat śuko vārita mātras tu kautūhalasamanvitaḥ 26 apṛcchat pitaraṃ brahman kuto vāyur abhūd ayam ākhyātum arhati bhavān vāyoḥ sarvaṃ viceṣṭitam 27 śukasyaitad vacaḥ śrutvā vyāsaḥ paramavismitaḥ anadhyāya nimitte 'sminn idaṃ vacanam abravīt 28 divyaṃ te cakṣur utpannaṃ svasthaṃ te nirmalaṃ manaḥ tamasā rajasā cāpi tyaktaḥ sattve vyavasthitaḥ 29 ādarśe svām iva chāyāṃ paśyasy ātmānam ātmanā nyasyātmani svayaṃ vedān buddhyā samanucintaya 30 deva yānacaro viṣṇoḥ pitṛyānaś ca tāmasaḥ dvāv etau pretya panthānau divaṃ cādhaś ca gacchataḥ 31 pṛthivyām antarikṣe ca yatra saṃvānti vāyavaḥ saptaite vāyumārgā vai tān nibodhānupūrvaśaḥ 32 tatra devagaṇāḥ sādhyāḥ samabhūvan mahābalāḥ teṣām apy abhavat putraḥ samāno nāma durjayaḥ 33 udānas tasya putro 'bhūd vyānas tasyābhavat sutaḥ apānaś ca tato jñeyaḥ prāṇaś cāpi tataḥ param 34 anapatyo 'bhavat prāno durdharṣaḥ śatrutāpanaḥ pṛthak karmāṇi teṣāṃ tu pravakṣyāmi yathātatham 35 prānināṃ sarvato vāyuś ceṣṭā vartayate pṛthak prāṇanāc caiva bhūtānāṃ prāṇa ity abhidhīyate 36 prerayaty abhrasaṃghātān dhūmajāṃś cosmajāṃś ca yaḥ prathamaḥ prathame mārge pravaho nāma so 'nilaḥ 37 ambare sneham abhrebhyas tadid bhyaś cottamadyutiḥ āvaho nāma saṃvāti dvitīyaḥ śvasano nadan 38 udayaṃ jyotiṣāṃ śaśvat somādīnāṃ karoti yaḥ antardeheṣu codānaṃ yaṃ vadanti maharṣayaḥ 39 yaś caturbhyaḥ samudrebhyo vāyur dhārayate jalam uddhṛtyādadate cāpo jīmūtebhyo 'mbare 'nilaḥ 40 yo 'dbhiḥ saṃyojya jīmūtān parjanyāya prayacchati udvaho nāma varṣiṣṭhas tritīyaḥ sa sadāgatiḥ 41 samuhyamānā bahudhā yena nīlāḥ pṛthag ghanāḥ varṣamokṣakṛtārambhās te bhavanti ghanāghanāḥ 42 saṃhatā yena cāviddhā bhavanti nadatāṃ nadāḥ rakṣaṇārthāya saṃbhūtā meghatvam upayānti ca 43 yo 'sau vahati devānāṃ vimānāni vihāyasā caturthaḥ saṃvaho nāma vāyuḥ sa girimardanaḥ 44 yena vegavatā rugṇā rūkṣeṇārujatā rasān vāyunā vihitā meghā na bhavanti balāhakāḥ 45 dāruṇotpāta saṃcāro nabhasaḥ stanayitnumān pañcamaḥ sa mahāvego vivaho nāma mārutaḥ 46 yasmin pāriplave divyā vahanty āpo vihāyasā puṇyaṃ cākāśagaṅgāyās toyaṃ viṣṭabhya tiṣṭhati 47 dūrāt pratihato yasminn ekaraśmir divākaram yonir aṃśusahasrasya yena bhāti vasuṃdharā 48 yasmād āpyāyate somo nidhir divyo 'mṛtasya ca sasthaḥ parivaho nāma sa vāyur javatāṃ varaḥ 49 sarvaprāṇa bhṛtāṃ prāṇān yo 'ntakāle nirasyati yasya vartmānuvartete mṛtyuvaivasvatāv ubhau 50 samyag anvīkṣatāṃ buddhyā śāntayādhyātma nityayā dhyānābhyāsābhirāmāṇāṃ yo 'mṛtatvāya kalpate 51 yaṃ samāsādya vegena diśām antaṃ prapedire dakṣasya daśa putrāṇāṃ sahasrāṇi prajāpateḥ 52 yena sṛṣṭaḥ parābhūto yāty eva na nivartate parāvaho nāma paro vāyuḥ sa duratikramaḥ 53 evam ete 'diteḥ putrā mārutāḥ paramādbhutāḥ anāramantaḥ saṃvānti sarvagāḥ sarvadhāriṇaḥ 54 etat tu mahad āśvaryaṃ yad ayaṃ parvatottamaḥ kampitaḥ sahasā tena vāyunābhipravāyatā 55 viṣṇor niḥśvāsavāto 'yaṃ yadā vegasamīritaḥ sahasodīryate tāta jagat pravyathate tadā 56 tasmād brahmavido brahma nādhīyante 'tivāyati vāyor vāyubhayaṃ hy uktaṃ brahma tat pīḍitaṃ bhavet 57 etāvad uktvā vacanaṃ parāśara sutaḥ prabhuḥ uktvā putram adhīsveti vyoma gaṅgām ayāt tadā |
The Mahabharata in Sanskrit
Book 12
Chapter 316
|
1
[भी] एतस्मिन्न अन्तरे शून्ये नारदः समुपागमत शुकं सवाध्यायनिरतं वेदार्थान वक्तुम ईप्सितान 2 देवर्षिं तु शुकॊ दृष्ट्वा नारदं समुपस्थितम अर्घ्य पूर्वेण विधिना वेदॊक्तेनाभ्यपूजयत 3 नारदॊ ऽथाब्रवीत परीतॊ बरूहि बरह्मविदां वरन केन तवां शरेयसा तात यॊजयामीति हृष्टवत 4 नारदस्य वचः शरुत्वा शुकः परॊवाच भारत अस्मिँल लॊके हितं यत सयात तेन मां यॊक्तुम अर्हसि 5 [नारद] तत्त्वं जिज्ञासतां पूर्वम ऋषीणां भावितात्मनाम सनत्कुमारॊ भगवान इदं वचनम अब्रवीत 6 नास्ति विद्या समं चक्षुर नास्ति विद्या समं तपः नास्ति रागसमं दुःखं नास्ति तयागसमं सुखम 7 निवृत्तिः कर्मणः पापात सततं पुण्यशीलता सद्वृत्तिः समुदाचारः शरेय एतद अनुत्तमम 8 मानुष्यम असुखं पराप्य यः सज्जति स मुह्यति नालं स दुःखमॊक्षाय सङ्गॊ वै दुःखलक्षणम 9 सक्तस्य बुद्धिश चलति मॊहजालविवर्धिनी मॊहजालावृतॊ दुःखम इह चामुत्र चाश्नुते 10 सर्वॊपायेन कामस्य करॊधस्य च विनिग्रहः कार्यः शरेयॊ ऽरतिना तौ हि शरेयॊ घातार्थम उद्यतौ 11 नित्यं करॊधात तपॊ रक्षेच छरियं रक्षेत मत्सरात विद्यां मानावमानाभ्याम आत्मानं तु परमादतः 12 आनृशंस्यं परॊ धर्मः कषमा च परमं बलम आत्मज्ञानं परं जञानं न सत्याद विद्यते परम 13 सत्यस्य वचनं शरेयः सत्याद अपि हितं भवेत यद भूतहितम अत्यन्तम एतत सत्यं मतं मम 14 सर्वारम्भफलत्यागी निराशीर निष्परिग्रहः येन सर्वं परित्यक्तं स विद्वान स च पण्डितः 15 इन्द्रियैर इन्द्रियार्थेभ्यश चरत्य आत्मवशैर इह असज्जमानः शान्तात्मा निर्विकारः समाहितः 16 आत्मभूतैर अतद्भूतः सह चैव विनैव च स विमुक्तः परं शरेयॊ नचिरेणाधिगच्छति 17 अदर्शनम असंस्पर्शस तथासंभासनं सदा यस्य भूतैः सह मुने स शरेयॊ विन्दते परम 18 न हिंस्यात सर्वभूतानि मैत्रायण गतश चरेत नेदं जन्म समासाद्य वैरं कुर्वीत केन चित 19 आकिंचन्यं सुसंतॊषॊ निराशीस्त्वम अचापलम एतद आहुः परं शरेय आत्मज्ञस्य जितात्मनः 20 परिग्रहं परित्यज्य भव तात जितेन्द्रियः अशॊकं सथानम आतिष्ठ इह चामुत्र चाभयम 21 निरामिषा न शॊचन्ति तयजेहामिषम आत्मनः परित्यज्यामिषं सौम्य दुःखतापाद विमॊक्ष्यसे 22 तपॊनित्येन दान्तेन मुनिना संयतात्मना अजितं जेतुकामेन भाव्यं सङ्गेष्व असङ्गिना 23 गुणसङ्गेष्व अनासक्त एकचर्या रतः सदा बराह्मणे नचिराद एव सुखम आयात्य अनुत्तमम 24 दवन्द्वारामेषु भूतेषु य एकॊ रमते मुनिः विद्धि परज्ञान तृप्तं तं जञानतृप्तॊ न शॊचति 25 शुभैर लभतिदेवत्वं वयामिश्रैर जन्म मानुषम अशुभैश चाप्य अधॊ जन्म कर्मभिर लभते ऽवशः 26 तत्र मृत्युजरादुःखैः सततं समभिद्रुतः संसारे पच्यते जन्तुस तत कथं नावबुध्यसे 27 अहिते हितसंज्ञस तवम अध्रुवे धरुवसंज्ञकः अनर्थे चार्थसंज्ञस तवं किमर्थं नावबुध्यसे 28 संवेष्ट्यमानं बहुभिर मॊहतन्तुभिर आत्मजैः कॊशकारवद आत्मानं वेष्टयन नावबुध्यसे 29 अलं परिग्रहेनेह दॊषवान हि परिग्रहः कृमिर हि कॊशकारस तु बध्यते सवपरिग्रहात 30 पुत्रदारकुटुम्बेषु सक्ताः सीदन्ति जन्तवः सरः पङ्कार्णवे मग्ना जीर्णा वनगजा इव 31 महाजालसमाकृष्टान सथले मत्स्यान इवॊद्धृतान सनेहजालसमाकृष्टान पश्य जन्तून सुदुःखितान 32 कुतुम्बं पुत्रदारं च शरीरं दरव्यसंचयाः पारख्यम अध्रुवं सर्वं किं सवं सुकृतदुष्कृतम 33 यदा सर्वं परित्यज्य गन्तव्यम अवशेन ते अनर्थे किं परसक्तस तवं सवम अर्थं नानुतिष्ठसि 34 अविश्रान्तम अनालम्बम अपाथेयम अदैशिकम तमः कान्तारम अध्वानं कथम एकॊ गमिष्यसि 35 न हि तवा परस्थितं कश चित पृष्ठतॊ ऽनुगमिष्यति सुकृतं दुष्कृतं च तवा यास्यन्तम अनुयास्यति 36 विद्या कर्म च शौर्यं च जञानं च बहुविस्तरम अर्थार्थम अनुसार्यन्ते सिद्धार्थस तु विमुच्यते 37 निबन्धनी रज्जुर एषा या गरामे वसतॊ रतिः छित्त्वैनां सुकृतॊ यान्ति नैनां छिन्दन्ति दुष्कृतः 38 रूपकूलां मनः सरॊतां सपर्शद्वीपां रसावहाम गन्धपङ्कां शब्दजलां सवर्गमार्गदुरावहाम 39 कषमारित्रां सत्यमयीं धर्मस्थैर यवताकराम तयागवाताध्वगां शीघ्रां बुद्धिनावा नदीं तरेत 40 तयज धर्मम अधर्मं च जुभे सत्यानृते तयज उभे सत्यानृते तयक्त्वा येन तयजसि तं तयज 41 तयज धर्मम असंकल्पाद अधर्मं चाप्य अहिंसया उभे सत्यानृते बुद्ध्या बुद्धिं परमनिश्चयात 42 अस्थि सथूनं सनायु युतं मांसशॊनित लेपनम चर्मावनद्धं दुर्गन्धि पूर्णं मूत्र पुरीसयॊः 43 जरा शॊकसमाविष्टं रॊगायतनम आतुरम रजस्वलम अनित्यं च भूतावासं समुत्सृज 44 इदं विश्वं जगत सर्वम अजगच चापि यद भवेत महाभूतात्मकं सर्वं महद यत परमानु यत 45 इन्द्रियाणि च पञ्चैव तमः सत्त्वं रजस तथा इत्य एष सप्त दशकॊ राशिर अव्यक्तसंज्ञकः 46 सर्वैर इहेन्द्रियार्थैश च वयक्ताव्यक्तैर हि संहितः पञ्चविंशक इत्य एष वयक्ताव्यक्तमयॊ गुणः 47 एतैः सर्वैः समायुक्तः पुमान इत्य अभिधीयते तरिवर्गॊ ऽतर सुखं दुःखं जीवितं मरणं तथा 48 य इदं वेद तत्त्वेन स वेद परभवाप्ययौ पाराशर्येह बॊद्धव्यं जञानानां यच च किं चन 49 इन्द्रियैर गृह्यते यद यत तत तद वयक्तम इति सथितिः अव्यक्तम इति विज्ञेयं लिङ्गग्राह्यम अतीन्द्रियम 50 इन्द्रियैर नियतैर देही धाराभिर इव तर्प्यते लॊके विततम आत्मानं लॊकं चात्मनि पश्यति 51 परावरदृशः शक्तिर जञानवेलां न पश्यति पश्यतः सर्वभूतानि सर्वावस्थासु सर्वदा 52 बरह्मभूतस्य संयॊगॊ नाशुभेनॊपपद्यते जञानेन विविधान कलेशान अतिवृत्तस्य मॊहजान लॊके बुद्धिप्रकाशेन लॊकमार्गॊ न रिष्यते 53 अनादि निधनं जन्तुम आत्मनि सथितम अव्ययम अकर्तारम अमूर्तं च भगवान आह तीर्थवित 54 यॊ जन्तुः सवकृतैस तैस तैः कर्मभिर नित्यदुःखितः स दुःखप्रतिघातार्थं हन्ति जन्तून अनेकधा 55 ततः कर्म समादत्ते पुनर अन्यन नवं बहु तप्यते ऽथ पुनस तेन भुक्त्वापथ्यम इवातुरः 56 अजस्रम एव मॊहार्तॊ दुःखेषु सुखसंज्ञितः बध्यते मथ्यते चैव कर्मभिर मन्थवत सदा 57 ततॊ निवृत्तॊ बन्धात सवात कर्मणाम उदयाद इह परिभ्रमति संसारं चक्रवद बहु वेदनः 58 स तवं निवृत्तबन्धुस तु निवृत्तश चापि कर्मतः सर्ववित सर्वजित सिद्धॊ भव भावविवर्जितः 59 संयमेन नवं बन्धं निवर्त्य तपसॊ बलात संप्राप्ता बहवः सिद्धिम अप्य अबाधां सुखॊदयाम |
1
[bhī] etasminn antare śūnye nāradaḥ samupāgamat śukaṃ svādhyāyanirataṃ vedārthān vaktum īpsitān 2 devarṣiṃ tu śuko dṛṣṭvā nāradaṃ samupasthitam arghya pūrveṇa vidhinā vedoktenābhyapūjayat 3 nārado 'thābravīt prīto brūhi brahmavidāṃ varan kena tvāṃ śreyasā tāta yojayāmīti hṛṣṭavat 4 nāradasya vacaḥ śrutvā śukaḥ provāca bhārata asmiṁl loke hitaṃ yat syāt tena māṃ yoktum arhasi 5 [nārada] tattvaṃ jijñāsatāṃ pūrvam ṛṣīṇāṃ bhāvitātmanām sanatkumāro bhagavān idaṃ vacanam abravīt 6 nāsti vidyā samaṃ cakṣur nāsti vidyā samaṃ tapaḥ nāsti rāgasamaṃ duḥkhaṃ nāsti tyāgasamaṃ sukham 7 nivṛttiḥ karmaṇaḥ pāpāt satataṃ puṇyaśīlatā sadvṛttiḥ samudācāraḥ śreya etad anuttamam 8 mānuṣyam asukhaṃ prāpya yaḥ sajjati sa muhyati nālaṃ sa duḥkhamokṣāya saṅgo vai duḥkhalakṣaṇam 9 saktasya buddhiś calati mohajālavivardhinī mohajālāvṛto duḥkham iha cāmutra cāśnute 10 sarvopāyena kāmasya krodhasya ca vinigrahaḥ kāryaḥ śreyo 'rtinā tau hi śreyo ghātārtham udyatau 11 nityaṃ krodhāt tapo rakṣec chriyaṃ rakṣeta matsarāt vidyāṃ mānāvamānābhyām ātmānaṃ tu pramādataḥ 12 ānṛśaṃsyaṃ paro dharmaḥ kṣamā ca paramaṃ balam ātmajñānaṃ paraṃ jñānaṃ na satyād vidyate param 13 satyasya vacanaṃ śreyaḥ satyād api hitaṃ bhavet yad bhūtahitam atyantam etat satyaṃ mataṃ mama 14 sarvārambhaphalatyāgī nirāśīr niṣparigrahaḥ yena sarvaṃ parityaktaṃ sa vidvān sa ca paṇḍitaḥ 15 indriyair indriyārthebhyaś caraty ātmavaśair iha asajjamānaḥ śāntātmā nirvikāraḥ samāhitaḥ 16 ātmabhūtair atadbhūtaḥ saha caiva vinaiva ca sa vimuktaḥ paraṃ śreyo nacireṇādhigacchati 17 adarśanam asaṃsparśas tathāsaṃbhāsanaṃ sadā yasya bhūtaiḥ saha mune sa śreyo vindate param 18 na hiṃsyāt sarvabhūtāni maitrāyaṇa gataś caret nedaṃ janma samāsādya vairaṃ kurvīta kena cit 19 ākiṃcanyaṃ susaṃtoṣo nirāśīstvam acāpalam etad āhuḥ paraṃ śreya ātmajñasya jitātmanaḥ 20 parigrahaṃ parityajya bhava tāta jitendriyaḥ aśokaṃ sthānam ātiṣṭha iha cāmutra cābhayam 21 nirāmiṣā na śocanti tyajehāmiṣam ātmanaḥ parityajyāmiṣaṃ saumya duḥkhatāpād vimokṣyase 22 taponityena dāntena muninā saṃyatātmanā ajitaṃ jetukāmena bhāvyaṃ saṅgeṣv asaṅginā 23 guṇasaṅgeṣv anāsakta ekacaryā rataḥ sadā brāhmaṇe nacirād eva sukham āyāty anuttamam 24 dvandvārāmeṣu bhūteṣu ya eko ramate muniḥ viddhi prajñāna tṛptaṃ taṃ jñānatṛpto na śocati 25 śubhair labhatidevatvaṃ vyāmiśrair janma mānuṣam aśubhaiś cāpy adho janma karmabhir labhate 'vaśaḥ 26 tatra mṛtyujarāduḥkhaiḥ satataṃ samabhidrutaḥ saṃsāre pacyate jantus tat kathaṃ nāvabudhyase 27 ahite hitasaṃjñas tvam adhruve dhruvasaṃjñakaḥ anarthe cārthasaṃjñas tvaṃ kimarthaṃ nāvabudhyase 28 saṃveṣṭyamānaṃ bahubhir mohatantubhir ātmajaiḥ kośakāravad ātmānaṃ veṣṭayan nāvabudhyase 29 alaṃ parigraheneha doṣavān hi parigrahaḥ kṛmir hi kośakāras tu badhyate svaparigrahāt 30 putradārakuṭumbeṣu saktāḥ sīdanti jantavaḥ saraḥ paṅkārṇave magnā jīrṇā vanagajā iva 31 mahājālasamākṛṣṭān sthale matsyān ivoddhṛtān snehajālasamākṛṣṭān paśya jantūn suduḥkhitān 32 kutumbaṃ putradāraṃ ca śarīraṃ dravyasaṃcayāḥ pārakhyam adhruvaṃ sarvaṃ kiṃ svaṃ sukṛtaduṣkṛtam 33 yadā sarvaṃ parityajya gantavyam avaśena te anarthe kiṃ prasaktas tvaṃ svam arthaṃ nānutiṣṭhasi 34 aviśrāntam anālambam apātheyam adaiśikam tamaḥ kāntāram adhvānaṃ katham eko gamiṣyasi 35 na hi tvā prasthitaṃ kaś cit pṛṣṭhato 'nugamiṣyati sukṛtaṃ duṣkṛtaṃ ca tvā yāsyantam anuyāsyati 36 vidyā karma ca śauryaṃ ca jñānaṃ ca bahuvistaram arthārtham anusāryante siddhārthas tu vimucyate 37 nibandhanī rajjur eṣā yā grāme vasato ratiḥ chittvaināṃ sukṛto yānti naināṃ chindanti duṣkṛtaḥ 38 rūpakūlāṃ manaḥ srotāṃ sparśadvīpāṃ rasāvahām gandhapaṅkāṃ śabdajalāṃ svargamārgadurāvahām 39 kṣamāritrāṃ satyamayīṃ dharmasthair yavatākarām tyāgavātādhvagāṃ śīghrāṃ buddhināvā nadīṃ taret 40 tyaja dharmam adharmaṃ ca jubhe satyānṛte tyaja ubhe satyānṛte tyaktvā yena tyajasi taṃ tyaja 41 tyaja dharmam asaṃkalpād adharmaṃ cāpy ahiṃsayā ubhe satyānṛte buddhyā buddhiṃ paramaniścayāt 42 asthi sthūnaṃ snāyu yutaṃ māṃsaśonita lepanam carmāvanaddhaṃ durgandhi pūrṇaṃ mūtra purīsayoḥ 43 jarā śokasamāviṣṭaṃ rogāyatanam āturam rajasvalam anityaṃ ca bhūtāvāsaṃ samutsṛja 44 idaṃ viśvaṃ jagat sarvam ajagac cāpi yad bhavet mahābhūtātmakaṃ sarvaṃ mahad yat paramānu yat 45 indriyāṇi ca pañcaiva tamaḥ sattvaṃ rajas tathā ity eṣa sapta daśako rāśir avyaktasaṃjñakaḥ 46 sarvair ihendriyārthaiś ca vyaktāvyaktair hi saṃhitaḥ pañcaviṃśaka ity eṣa vyaktāvyaktamayo guṇaḥ 47 etaiḥ sarvaiḥ samāyuktaḥ pumān ity abhidhīyate trivargo 'tra sukhaṃ duḥkhaṃ jīvitaṃ maraṇaṃ tathā 48 ya idaṃ veda tattvena sa veda prabhavāpyayau pārāśaryeha boddhavyaṃ jñānānāṃ yac ca kiṃ cana 49 indriyair gṛhyate yad yat tat tad vyaktam iti sthitiḥ avyaktam iti vijñeyaṃ liṅgagrāhyam atīndriyam 50 indriyair niyatair dehī dhārābhir iva tarpyate loke vitatam ātmānaṃ lokaṃ cātmani paśyati 51 parāvaradṛśaḥ śaktir jñānavelāṃ na paśyati paśyataḥ sarvabhūtāni sarvāvasthāsu sarvadā 52 brahmabhūtasya saṃyogo nāśubhenopapadyate jñānena vividhān kleśān ativṛttasya mohajān loke buddhiprakāśena lokamārgo na riṣyate 53 anādi nidhanaṃ jantum ātmani sthitam avyayam akartāram amūrtaṃ ca bhagavān āha tīrthavit 54 yo jantuḥ svakṛtais tais taiḥ karmabhir nityaduḥkhitaḥ sa duḥkhapratighātārthaṃ hanti jantūn anekadhā 55 tataḥ karma samādatte punar anyan navaṃ bahu tapyate 'tha punas tena bhuktvāpathyam ivāturaḥ 56 ajasram eva mohārto duḥkheṣu sukhasaṃjñitaḥ badhyate mathyate caiva karmabhir manthavat sadā 57 tato nivṛtto bandhāt svāt karmaṇām udayād iha paribhramati saṃsāraṃ cakravad bahu vedanaḥ 58 sa tvaṃ nivṛttabandhus tu nivṛttaś cāpi karmataḥ sarvavit sarvajit siddho bhava bhāvavivarjitaḥ 59 saṃyamena navaṃ bandhaṃ nivartya tapaso balāt saṃprāptā bahavaḥ siddhim apy abādhāṃ sukhodayām |
The Mahabharata in Sanskrit
Book 12
Chapter 317
|
1
[नारद] अशॊकं शॊकनाशार्थं शास्त्रं शान्ति करं शिवम निशम्य्य लभते बुद्धिं तां लब्ध्वा सुखम एधते 2 शॊकस्थान सहस्राणि भयस्थान शतानि च दिवसे दिवसे मूढम आविशन्ति न पण्डितम 3 तस्माद अनिष्ट नाशार्थम इतिहासं निबॊध मे तिष्ठते चेद वशे बुद्धिर लभते शॊकनाशनम 4 अनिष्ट संप्रयॊगाच च विप्रयॊगात परियस्य च मनुष्या मानसैर दुःखैर युज्यन्ते अल्पबुद्धयः 5 दरव्येषु समतीतेषु ये गुणास तान न चिन्तयेत तान अनाद्रियमाणस्य सनेहबन्धः परमुच्यते 6 दॊषदर्शी भवेत तत्र यत्र रागः परवर्तते अनिष्टवद धितं पश्येत तथा कषिप्रं विरज्यते 7 नार्थॊ न धर्मॊ न यशॊ यॊ ऽतीतम अनुशॊचति अप्य अभावेन युज्येत तच चास्य न निवर्तते 8 गुणैर भूतानि युज्यन्ते वियुज्यन्ते तथैव च सर्वाणि नैतद एकस्य शॊकस्थानं हि विद्यते 9 मृतं वा यदि वा नष्टं यॊ ऽतीतम अनुशॊचति दुःखेन लभते दुःखं दवाव अनर्थौ परपद्यते 10 नाश्रु कुर्वन्ति ये बुद्ध्या दृष्ट्वा लॊकेषु संततिम सम्यक परपश्यतः सर्वं नाश्रु कर्मॊपपद्यते 11 दुःखॊपघाते शारीरे मानसे वाप्य उपस्थिते यस्मिन न शक्यते कर्तुं यत्नस तन नानुचिन्तयेत 12 भैषज्यम एतद दुःखस्य यद एतन नानुचिन्तयेत चिन्त्यमानं हि न वयेति भूयश चापि परवर्धते 13 परज्ञया मानसं दुःखं हन्याच छारीरम औषधैः एतद विजान सामर्थ्यं न बालैः समताम इयात 14 अनित्यं यौवनं रूपं जीवितं दरव्यसंचयः आरॊग्यं परिय संवासगृध्येत तत्र न पण्डितः 15 न जानपदिकं दुःखम एकः शॊचितुम अर्हति अशॊचन परतिकुर्वीत यदि पश्येद उपक्रमम 16 सुखाद बहुतरं दुःखं जीविते नात्र संशयः सनिग्धत्वं चेन्द्रियार्थेषु मॊहान मरणम अप्रियम 17 परित्यजति यॊ दुःखं सुखं वाप्य उभयं नरः अभ्येति बरह्म सॊ ऽतयन्तं न तं शॊचन्ति पण्डिताः 18 दुःखम अर्था हि तयज्यन्ते पालने न च ते सुखाः दुःखेन चाधिगम्यन्ते नाशम एषां न चिन्तयेत 19 अन्याम अन्यां धनावस्थां पराप्य वैशेषिकीं नराः अतृप्ता यान्ति विध्वंसं संतॊषं यान्ति पण्डिताः 20 सर्वे कषरान्ता निचयाः पतनान्ताः समुच्छ्रयाः संयॊगा विप्रयॊगान्ता मरणान्तं हि जीवितम 21 अन्तॊ नास्ति पिपासायास तुष्टिस तु परमं सुखम तस्मात संतॊषम एवेह धनं पश्यन्ति पण्डिताः 22 निमेष मात्रम अपि हि वयॊ गच्छन्न न तिष्ठति सवशरीरेष्व अनित्येषु नित्यं किम अनुचिन्तयेत 23 भूतेष्व अभावं संचिन्त्य ये बुद्ध्वा तमसः परम न शॊचन्ति गताध्वानः पश्यन्तः परमां गतिम 24 संचिन्वानकम एवैनं कामानाम अवितृप्तकम वयाघ्रः पशुम इवासाद्य मृत्युर आदाय गच्छति 25 अथाप्य उपायं संपश्येद दुःखस्य परिमॊक्षणे अशॊचन्न आरभेतैव युक्तश चाव्यसनी भवेत 26 शब्दे सपर्शे च रूपे च गन्धेषु च रसेषु च नॊपभॊगात परं किं चिद धनिनॊ वाधनस्य वा 27 पराक संप्रयॊगाद भूतानां नास्ति दुःखम अनामयम विप्रयॊगात तु सर्वस्य न शॊचेत परकृतिस्थितः 28 धृत्या शिश्नॊदरं रक्षेत पाणि पादं च चक्षुषा चक्षुः शरॊत्रे च मनसा मनॊ वाचं च विद्यया 29 परनयं परतिसंहृत्य संस्तुतेष्व इतरेषु च विचरेद असमुन्नद्धः स सुखी स च पण्डितः 30 अध्यात्मरतिर आसीनॊ निरपेक्षॊ निरामिषः आत्मनैव सहायेन यश चरेत स सुखी भवेत |
1
[nārada] aśokaṃ śokanāśārthaṃ śāstraṃ śānti karaṃ śivam niśamyya labhate buddhiṃ tāṃ labdhvā sukham edhate 2 śokasthāna sahasrāṇi bhayasthāna śatāni ca divase divase mūḍham āviśanti na paṇḍitam 3 tasmād aniṣṭa nāśārtham itihāsaṃ nibodha me tiṣṭhate ced vaśe buddhir labhate śokanāśanam 4 aniṣṭa saṃprayogāc ca viprayogāt priyasya ca manuṣyā mānasair duḥkhair yujyante alpabuddhayaḥ 5 dravyeṣu samatīteṣu ye guṇās tān na cintayet tān anādriyamāṇasya snehabandhaḥ pramucyate 6 doṣadarśī bhavet tatra yatra rāgaḥ pravartate aniṣṭavad dhitaṃ paśyet tathā kṣipraṃ virajyate 7 nārtho na dharmo na yaśo yo 'tītam anuśocati apy abhāvena yujyeta tac cāsya na nivartate 8 guṇair bhūtāni yujyante viyujyante tathaiva ca sarvāṇi naitad ekasya śokasthānaṃ hi vidyate 9 mṛtaṃ vā yadi vā naṣṭaṃ yo 'tītam anuśocati duḥkhena labhate duḥkhaṃ dvāv anarthau prapadyate 10 nāśru kurvanti ye buddhyā dṛṣṭvā lokeṣu saṃtatim samyak prapaśyataḥ sarvaṃ nāśru karmopapadyate 11 duḥkhopaghāte śārīre mānase vāpy upasthite yasmin na śakyate kartuṃ yatnas tan nānucintayet 12 bhaiṣajyam etad duḥkhasya yad etan nānucintayet cintyamānaṃ hi na vyeti bhūyaś cāpi pravardhate 13 prajñayā mānasaṃ duḥkhaṃ hanyāc chārīram auṣadhaiḥ etad vijāna sāmarthyaṃ na bālaiḥ samatām iyāt 14 anityaṃ yauvanaṃ rūpaṃ jīvitaṃ dravyasaṃcayaḥ ārogyaṃ priya saṃvāsagṛdhyet tatra na paṇḍitaḥ 15 na jānapadikaṃ duḥkham ekaḥ śocitum arhati aśocan pratikurvīta yadi paśyed upakramam 16 sukhād bahutaraṃ duḥkhaṃ jīvite nātra saṃśayaḥ snigdhatvaṃ cendriyārtheṣu mohān maraṇam apriyam 17 parityajati yo duḥkhaṃ sukhaṃ vāpy ubhayaṃ naraḥ abhyeti brahma so 'tyantaṃ na taṃ śocanti paṇḍitāḥ 18 duḥkham arthā hi tyajyante pālane na ca te sukhāḥ duḥkhena cādhigamyante nāśam eṣāṃ na cintayet 19 anyām anyāṃ dhanāvasthāṃ prāpya vaiśeṣikīṃ narāḥ atṛptā yānti vidhvaṃsaṃ saṃtoṣaṃ yānti paṇḍitāḥ 20 sarve kṣarāntā nicayāḥ patanāntāḥ samucchrayāḥ saṃyogā viprayogāntā maraṇāntaṃ hi jīvitam 21 anto nāsti pipāsāyās tuṣṭis tu paramaṃ sukham tasmāt saṃtoṣam eveha dhanaṃ paśyanti paṇḍitāḥ 22 nimeṣa mātram api hi vayo gacchann na tiṣṭhati svaśarīreṣv anityeṣu nityaṃ kim anucintayet 23 bhūteṣv abhāvaṃ saṃcintya ye buddhvā tamasaḥ param na śocanti gatādhvānaḥ paśyantaḥ paramāṃ gatim 24 saṃcinvānakam evainaṃ kāmānām avitṛptakam vyāghraḥ paśum ivāsādya mṛtyur ādāya gacchati 25 athāpy upāyaṃ saṃpaśyed duḥkhasya parimokṣaṇe aśocann ārabhetaiva yuktaś cāvyasanī bhavet 26 śabde sparśe ca rūpe ca gandheṣu ca raseṣu ca nopabhogāt paraṃ kiṃ cid dhanino vādhanasya vā 27 prāk saṃprayogād bhūtānāṃ nāsti duḥkham anāmayam viprayogāt tu sarvasya na śocet prakṛtisthitaḥ 28 dhṛtyā śiśnodaraṃ rakṣet pāṇi pādaṃ ca cakṣuṣā cakṣuḥ śrotre ca manasā mano vācaṃ ca vidyayā 29 pranayaṃ pratisaṃhṛtya saṃstuteṣv itareṣu ca vicared asamunnaddhaḥ sa sukhī sa ca paṇḍitaḥ 30 adhyātmaratir āsīno nirapekṣo nirāmiṣaḥ ātmanaiva sahāyena yaś caret sa sukhī bhavet |
The Mahabharata in Sanskrit
Book 12
Chapter 318
|
1
[नारद] सुखदुःखविपर्यासॊ यदा समुपपद्यते नैनं परज्ञा सुनीतं वा तरायते नापि पौरुषम 2 सवभावाद यत्नम आतिष्ठेद यत्नवान नावसीदति जरामरणरॊगेभ्यः परियम आत्मानम उद्धरेत 3 रुजन्ति हि शरीराणि रॊगाः शारीर मानसाः सायका इव तीक्ष्णाग्राः परयुक्ता दृध धन्विभिः 4 वयाधितस्य विवित्साभिस तरस्यतॊ जीवितैषिणः अवशस्य विनाशाय शरीरम अपकृष्यते 5 सरवन्ति न निवर्तन्ते सरॊतांसि सरिताम इव आयुर आदाय मर्त्यानां रात्र्यहानि पुनः पुनः 6 वयत्ययॊ हय अयम अत्यन्तं पक्षयॊः शुक्लकृष्णयॊः जातं मर्त्यं जरयति निमेषं नावतिष्ठते 7 सुखदुःखानि भूतानाम अजरॊ जरयन्न असौ आदित्यॊ हय अस्तम अभ्येति पुनः पुनर उदेति च 8 अदृष्टपूर्वान आदाय भावान अपरिशङ्कितान इष्टानिष्टान मनुष्याणाम अस्तं गच्छन्ति रात्रयः 9 यॊ यम इच्छेद यथाकामं कामानां तत तद आप्नुयात यदि सयान न पराधीनं पुरुषस्य करियाफलम 10 संयताश च हि दक्षाश च मतिमन्तश च मानवाः दृश्यते निष्फलाः सन्तः परहीनाश च सवकर्मभिः 11 अपरे बालिशाः सन्तॊ निर्गुणाः पुरुषाधमाः आशीर्भिर अप्य असंयुक्ता दृश्यन्ते सर्वकामिनः 12 भूतानाम अपरः कश चिद धिंसायां सततॊत्थितः वञ्चनायां च लॊकस्य स सुखेष्व एव जीर्यते 13 अचेष्टमानम आसीनं शरीः कं चिद उपतिष्ठति कश चित कर्मानुसृत्यान्यॊ न पराप्यम अधिगच्छति 14 अपराधं समाचक्ष्व पुरुषस्य सवभावतः शुक्रम अन्यत्र संभूतं पुनर अन्यत्र गच्छति 15 तस्य यॊनौ परसक्तस्य गर्भॊ भवति वा न वा आम्रपुष्पॊपमा यस्य निवृत्तिर उपलभ्यते 16 केषां चित पुत्र कामानाम अनुसंतानम इच्छताम सिद्धौ परयतमानानां नैवान्दम उपजायते 17 गर्भाच चॊद्विजमानानां करुद्धाद आशीविषाद इव आयुष्माञ जायते पुत्रः कथं परेतः पितैव सः 18 देवान इष्ट्वा तपस तप्त्वा कृपणैः पुत्रगृद्धिभिः दश मासान परिधृता जायन्ते कुलपांसनाः 19 अपरे धनधान्यानि भॊगांश च पितृसंचितान विपुलान अभिजायन्ते लब्धास तैर एव मङ्गलैः 20 अन्यॊन्यं समभिप्रेत्य मैथुनस्य समागमे उपद्रव इवाविष्टॊ यॊनिं गर्भः परपद्यते 21 शीर्णं परशरीरेण निच्छवीकं शरीरिणम परानिनां पराण संरॊधे मांसश्लेष्म विचेष्टितम 22 निर्दग्धं परदेहेन परदेहं चलाचलम विनश्यन्तं विनाशान्ते नावि नावम इवाहितम 23 संगत्या जथरे नयस्तं रेतॊ बिन्दुम अचेतनम केन यत्नेन जीवन्तं गर्भं तवम इह पश्यसि 24 अन्नपानानि जीर्यन्ते यत्र भक्षाश च भक्षिताः तस्मिन्न एवॊदरे गर्भः किं नान्नम इव जीर्यते 25 गर्भमूत्र पुरीसानां सवभावनियता गतिः धारणे वा विसर्गे वा न कर्तुर विद्यते वशः 26 सरवन्ति हय उदराद गर्भा जायमानास तथापरे आगमेन सहान्येषां विनाश उपपद्यते 27 एतस्माद यॊनिसंबन्धाद यॊ जीवन परिमुच्यते परजां च लभते कां चित पुनर दवन्द्वेषु मज्जति 28 शतस्य सह जातस्य सप्तमीं दशमीं दशाम पराप्नुवन्ति ततः पञ्च न भवन्ति शतायुषः 29 नाभ्युत्थाने मनुष्याणां यॊगाः सयुर नात्र संशयः वयाधिभिश च विमथ्यन्ते वयालैः कषुद्रमृगा इव 30 वयाधिभिर भक्ष्यमाणानां तयजतां विपुलं धनम वेदनां नापकर्षन्ति यतमानाश चिकित्सकाः 31 ते चापि निपुना वैद्याः कुशलाः संभृतौषधाः वयाधिभिः परिकृष्यन्ते मृगा वयाधैर इवार्दिताः 32 ते पिबन्तः कसायांश च सर्पींसि विविधानि च दृश्यन्ते जरया भग्ना नागा नागैर इवॊत्तमैः 33 के वा भुवि चिकित्सन्ते रॊगार्तान मृगपक्षिणः शवापदानि दरिद्रांश च परायॊ नार्ता भवन्ति ते 34 घॊरान अपि दुराधर्षान नृपतीन उग्रतेजसः आक्रम्य रॊग आदत्ते पशून पशुपचॊ यथा 35 इति लॊकम अनाक्रन्दं मॊहशॊकपरिप्लुतम सरॊतसा सहसा कषिप्तं करियमाणं बलीयसा 36 न धनेन न राज्येन नॊग्रेण तपसा तथा सवभावा वयतिवर्तन्ते ये नियुक्ताः शरीरिषु 37 न मरियेरन न जीर्येरन सर्वे सयुः सर्वकामिकाः नाप्रियं परतिपश्येयुर उत्थानस्य फलं परति 38 उपर्य उपरि लॊकस्य सर्वॊ भवितुम इच्छति यतते च यथाशक्ति न च तद वर्तते तथा 39 ऐश्वर्यमदमत्तांश च मत्तान मद्य मदेन च अप्रमत्ताः शठाः करूरा विक्रान्ताः पर्युपासते 40 कलेशाः परतिनिवर्तन्ते केषां चिद असमीक्षिताः सवं सवं च पुनर अन्येषां न किं चिद अभिगम्यते 41 महच च फलवैषम्यं दृश्यते कर्म संधिषु वहन्ति शिबिकाम अन्ये यान्त्य अन्ये शिबिका गताः 42 सर्वेषाम ऋद्धिकामानाम अन्ये रथपुरःसराः मनुजाश च शतस्त्रीकाः शतशॊ विधवाः सत्रियः 43 दवन्द्वारामेषु भूतेषु गच्छन्त्य एकैकशॊ नराः इदम अन्यत परं पश्य मात्रमॊहं करिष्यसि 44 तयज धर्मम अधर्मं च उभे सत्यानृते तयज उभे सत्यानृते तयक्त्वा येन तयजसि तं तयज 45 एतत ते परमं गुह्यम आख्यातम ऋषिसत्तम येन देवाः परित्यज्य मर्त्यलॊकं दिवं गताः 46 [भी] नारदस्य वचः शरुत्वा शुकः परमबुद्धिमान संचिन्त्य मनसा धीरॊ निश्चयं नाध्यगच्छत 47 पुत्रदारैर महान कलेशॊ विद्याम्नाये महाञ शरमः किं नु सयाच छाश्वतं सथानम अल्पक्लेशं महॊदरम 48 ततॊ मुहूर्तं संचिन्त्य निश्चितां गतिम आत्मनः परावपज्ञॊ धर्मस्य परां नैःश्रेयसीं गतिम 49 कथं तव अहम असंक्लिष्टॊ गच्छेयं परमां गतिम नावर्तेयं यथा भूयॊ यॊनिसंसारसागरे 50 परं भावं हि काङ्क्षामि यत्र नावर्तते पुनः सर्वसङ्गान परित्यज्य निश्चितां मनसॊ गतिम 51 तत्र यास्यामि यत्रात्मा शमं मे ऽधिगमिष्यति अक्षयश चाव्ययश चैव यत्र सथास्यामि शाश्वतः 52 न तु यॊगम ऋते शक्या पराप्तुं सा परमा गतिः अवबन्धॊ हि मुक्तस्य कर्मभिर नॊपपद्यते 53 तस्माद यॊगं समास्थाय तयक्त्वा गृहकलेवरम वायुभूतः परवेक्ष्यामि तेजॊराशिं दिवाकरम 54 न हय एष कषयम आप्नॊति सॊमः सुरगणैर यथा कम्पितः पतते भूमिं पुनश चैवाधिरॊहति कषीयते हि सदा सॊमः पुनश चैवाभिपूर्यते 55 रविस तु संतापयति लॊकान रश्मिभिर उल्बनैः सर्वतस तेज आदत्ते नित्यम अक्षय मन्दलः 56 अतॊ मे रॊचते गन्तुम आदित्यं दीप्ततेजसम अत्र वत्स्यामि दुर्धर्षॊ निःसङ्गेनान्तरात्मना 57 सूर्यस्य सदने चाहं निक्षिप्येदं कलेवरम ऋषिभिः सह यास्यामि सौरं तेजॊ ऽतिदुःसहम 58 आपृच्छामि नगान नागान गिरीन उर्वीं दिशॊ दिवम देवदानवगन्धर्वान पिशाचॊरगराक्षसान 59 लॊकेषु सर्वभूतानि परवेक्ष्यामि न संशयः पश्यन्तु यॊगवीर्यं मे सर्वे देवाः सहर्षिभिः 60 अथानुज्ञाप्य तम ऋषिं नारदं लॊकविश्रुतम तस्माद अनुज्ञां संप्राप्य जगाम पितरं परति 61 सॊ ऽभिवाद्य महात्मानम ऋषिं दवैपायनं मुनिम शुकः परदक्षिणीकृत्य कृष्णम आपृष्टवान मुनिः 62 शरुत्वा ऋषिस तद वचनं शुकस्य; परीतॊ महात्मा पुनर आह चैनम भॊ भॊः पुत्र सथीयतां तावद अद्य; यावच चक्षुः परीणयामि तवदर्थम 63 निरपेक्षः शुकॊ भूत्वा निःस्नेहॊ मुक्तबन्धनः मॊक्षम एवानुसंचिन्त्य गमनाय मनॊ दधे पितरं संपरित्यज्य जगाम दविजसत्तमः |
1
[nārada] sukhaduḥkhaviparyāso yadā samupapadyate nainaṃ prajñā sunītaṃ vā trāyate nāpi pauruṣam 2 svabhāvād yatnam ātiṣṭhed yatnavān nāvasīdati jarāmaraṇarogebhyaḥ priyam ātmānam uddharet 3 rujanti hi śarīrāṇi rogāḥ śārīra mānasāḥ sāyakā iva tīkṣṇāgrāḥ prayuktā dṛdha dhanvibhiḥ 4 vyādhitasya vivitsābhis trasyato jīvitaiṣiṇaḥ avaśasya vināśāya śarīram apakṛṣyate 5 sravanti na nivartante srotāṃsi saritām iva āyur ādāya martyānāṃ rātryahāni punaḥ punaḥ 6 vyatyayo hy ayam atyantaṃ pakṣayoḥ śuklakṛṣṇayoḥ jātaṃ martyaṃ jarayati nimeṣaṃ nāvatiṣṭhate 7 sukhaduḥkhāni bhūtānām ajaro jarayann asau ādityo hy astam abhyeti punaḥ punar udeti ca 8 adṛṣṭapūrvān ādāya bhāvān apariśaṅkitān iṣṭāniṣṭān manuṣyāṇām astaṃ gacchanti rātrayaḥ 9 yo yam icched yathākāmaṃ kāmānāṃ tat tad āpnuyāt yadi syān na parādhīnaṃ puruṣasya kriyāphalam 10 saṃyatāś ca hi dakṣāś ca matimantaś ca mānavāḥ dṛśyate niṣphalāḥ santaḥ prahīnāś ca svakarmabhiḥ 11 apare bāliśāḥ santo nirguṇāḥ puruṣādhamāḥ āśīrbhir apy asaṃyuktā dṛśyante sarvakāminaḥ 12 bhūtānām aparaḥ kaś cid dhiṃsāyāṃ satatotthitaḥ vañcanāyāṃ ca lokasya sa sukheṣv eva jīryate 13 aceṣṭamānam āsīnaṃ śrīḥ kaṃ cid upatiṣṭhati kaś cit karmānusṛtyānyo na prāpyam adhigacchati 14 aparādhaṃ samācakṣva puruṣasya svabhāvataḥ śukram anyatra saṃbhūtaṃ punar anyatra gacchati 15 tasya yonau prasaktasya garbho bhavati vā na vā āmrapuṣpopamā yasya nivṛttir upalabhyate 16 keṣāṃ cit putra kāmānām anusaṃtānam icchatām siddhau prayatamānānāṃ naivāndam upajāyate 17 garbhāc codvijamānānāṃ kruddhād āśīviṣād iva āyuṣmāñ jāyate putraḥ kathaṃ pretaḥ pitaiva saḥ 18 devān iṣṭvā tapas taptvā kṛpaṇaiḥ putragṛddhibhiḥ daśa māsān paridhṛtā jāyante kulapāṃsanāḥ 19 apare dhanadhānyāni bhogāṃś ca pitṛsaṃcitān vipulān abhijāyante labdhās tair eva maṅgalaiḥ 20 anyonyaṃ samabhipretya maithunasya samāgame upadrava ivāviṣṭo yoniṃ garbhaḥ prapadyate 21 śīrṇaṃ paraśarīreṇa nicchavīkaṃ śarīriṇam prānināṃ prāṇa saṃrodhe māṃsaśleṣma viceṣṭitam 22 nirdagdhaṃ paradehena paradehaṃ calācalam vinaśyantaṃ vināśānte nāvi nāvam ivāhitam 23 saṃgatyā jathare nyastaṃ reto bindum acetanam kena yatnena jīvantaṃ garbhaṃ tvam iha paśyasi 24 annapānāni jīryante yatra bhakṣāś ca bhakṣitāḥ tasminn evodare garbhaḥ kiṃ nānnam iva jīryate 25 garbhamūtra purīsānāṃ svabhāvaniyatā gatiḥ dhāraṇe vā visarge vā na kartur vidyate vaśaḥ 26 sravanti hy udarād garbhā jāyamānās tathāpare āgamena sahānyeṣāṃ vināśa upapadyate 27 etasmād yonisaṃbandhād yo jīvan parimucyate prajāṃ ca labhate kāṃ cit punar dvandveṣu majjati 28 śatasya saha jātasya saptamīṃ daśamīṃ daśām prāpnuvanti tataḥ pañca na bhavanti śatāyuṣaḥ 29 nābhyutthāne manuṣyāṇāṃ yogāḥ syur nātra saṃśayaḥ vyādhibhiś ca vimathyante vyālaiḥ kṣudramṛgā iva 30 vyādhibhir bhakṣyamāṇānāṃ tyajatāṃ vipulaṃ dhanam vedanāṃ nāpakarṣanti yatamānāś cikitsakāḥ 31 te cāpi nipunā vaidyāḥ kuśalāḥ saṃbhṛtauṣadhāḥ vyādhibhiḥ parikṛṣyante mṛgā vyādhair ivārditāḥ 32 te pibantaḥ kasāyāṃś ca sarpīṃsi vividhāni ca dṛśyante jarayā bhagnā nāgā nāgair ivottamaiḥ 33 ke vā bhuvi cikitsante rogārtān mṛgapakṣiṇaḥ śvāpadāni daridrāṃś ca prāyo nārtā bhavanti te 34 ghorān api durādharṣān nṛpatīn ugratejasaḥ ākramya roga ādatte paśūn paśupaco yathā 35 iti lokam anākrandaṃ mohaśokapariplutam srotasā sahasā kṣiptaṃ kriyamāṇaṃ balīyasā 36 na dhanena na rājyena nogreṇa tapasā tathā svabhāvā vyativartante ye niyuktāḥ śarīriṣu 37 na mriyeran na jīryeran sarve syuḥ sarvakāmikāḥ nāpriyaṃ pratipaśyeyur utthānasya phalaṃ prati 38 upary upari lokasya sarvo bhavitum icchati yatate ca yathāśakti na ca tad vartate tathā 39 aiśvaryamadamattāṃś ca mattān madya madena ca apramattāḥ śaṭhāḥ krūrā vikrāntāḥ paryupāsate 40 kleśāḥ pratinivartante keṣāṃ cid asamīkṣitāḥ svaṃ svaṃ ca punar anyeṣāṃ na kiṃ cid abhigamyate 41 mahac ca phalavaiṣamyaṃ dṛśyate karma saṃdhiṣu vahanti śibikām anye yānty anye śibikā gatāḥ 42 sarveṣām ṛddhikāmānām anye rathapuraḥsarāḥ manujāś ca śatastrīkāḥ śataśo vidhavāḥ striyaḥ 43 dvandvārāmeṣu bhūteṣu gacchanty ekaikaśo narāḥ idam anyat paraṃ paśya mātramohaṃ kariṣyasi 44 tyaja dharmam adharmaṃ ca ubhe satyānṛte tyaja ubhe satyānṛte tyaktvā yena tyajasi taṃ tyaja 45 etat te paramaṃ guhyam ākhyātam ṛṣisattama yena devāḥ parityajya martyalokaṃ divaṃ gatāḥ 46 [bhī] nāradasya vacaḥ śrutvā śukaḥ paramabuddhimān saṃcintya manasā dhīro niścayaṃ nādhyagacchata 47 putradārair mahān kleśo vidyāmnāye mahāñ śramaḥ kiṃ nu syāc chāśvataṃ sthānam alpakleśaṃ mahodaram 48 tato muhūrtaṃ saṃcintya niścitāṃ gatim ātmanaḥ parāvapajño dharmasya parāṃ naiḥśreyasīṃ gatim 49 kathaṃ tv aham asaṃkliṣṭo gaccheyaṃ paramāṃ gatim nāvarteyaṃ yathā bhūyo yonisaṃsārasāgare 50 paraṃ bhāvaṃ hi kāṅkṣāmi yatra nāvartate punaḥ sarvasaṅgān parityajya niścitāṃ manaso gatim 51 tatra yāsyāmi yatrātmā śamaṃ me 'dhigamiṣyati akṣayaś cāvyayaś caiva yatra sthāsyāmi śāśvataḥ 52 na tu yogam ṛte śakyā prāptuṃ sā paramā gatiḥ avabandho hi muktasya karmabhir nopapadyate 53 tasmād yogaṃ samāsthāya tyaktvā gṛhakalevaram vāyubhūtaḥ pravekṣyāmi tejorāśiṃ divākaram 54 na hy eṣa kṣayam āpnoti somaḥ suragaṇair yathā kampitaḥ patate bhūmiṃ punaś caivādhirohati kṣīyate hi sadā somaḥ punaś caivābhipūryate 55 ravis tu saṃtāpayati lokān raśmibhir ulbanaiḥ sarvatas teja ādatte nityam akṣaya mandalaḥ 56 ato me rocate gantum ādityaṃ dīptatejasam atra vatsyāmi durdharṣo niḥsaṅgenāntarātmanā 57 sūryasya sadane cāhaṃ nikṣipyedaṃ kalevaram ṛṣibhiḥ saha yāsyāmi sauraṃ tejo 'tiduḥsaham 58 āpṛcchāmi nagān nāgān girīn urvīṃ diśo divam devadānavagandharvān piśācoragarākṣasān 59 lokeṣu sarvabhūtāni pravekṣyāmi na saṃśayaḥ paśyantu yogavīryaṃ me sarve devāḥ saharṣibhiḥ 60 athānujñāpya tam ṛṣiṃ nāradaṃ lokaviśrutam tasmād anujñāṃ saṃprāpya jagāma pitaraṃ prati 61 so 'bhivādya mahātmānam ṛṣiṃ dvaipāyanaṃ munim śukaḥ pradakṣiṇīkṛtya kṛṣṇam āpṛṣṭavān muniḥ 62 śrutvā ṛṣis tad vacanaṃ śukasya; prīto mahātmā punar āha cainam bho bhoḥ putra sthīyatāṃ tāvad adya; yāvac cakṣuḥ prīṇayāmi tvadartham 63 nirapekṣaḥ śuko bhūtvā niḥsneho muktabandhanaḥ mokṣam evānusaṃcintya gamanāya mano dadhe pitaraṃ saṃparityajya jagāma dvijasattamaḥ |
The Mahabharata in Sanskrit
Book 12
Chapter 319
|
1
[भी] गिरिपृष्ठं समारुह्य सुतॊ वयासस्य भारत समे देशे विविक्ते च निःशलाक उपाविशत 2 धारयाम आस चात्मानं यथाशास्त्रं महामुनिः पादात परभृति गात्रेषु करमेण करमयॊगवित 3 ततः स पराङ्मुखॊ विद्वान आदित्ये नचिरॊदिते पानि पादं समाधाय विनीतवद उपाविशत 4 न तत्र पक्षिसंघातॊ न शब्दॊ नापि दर्शनम यत्र वैयासकिर धीमान यॊक्तुं समुपचक्रमे 5 स ददर्श तदात्मानं सव सङ्गविनिःसृतम परजहास ततॊ हासं शुकः संप्रेक्ष्य भास्करम 6 स पुनर यॊगम आस्थाय मॊक्षमार्गॊपलब्धये महायॊगीश्वरॊ भूत्वा सॊ ऽतयक्रामद विहायसम 7 ततः परदक्षिणं कृत्वा देवर्षिं नारदं तदा निवेदयाम आस तदा सवं यॊगं परमर्षये 8 दृष्टॊ मार्गः परवृत्तॊ ऽसमि सवस्ति ते ऽसतु तपॊधन तवत्प्रसादाद गमिष्यामि गतिम इष्टां महाद्युते 9 नारदेनाभ्यनुज्ञातस ततॊ दवैपायनात्मजः अभिवाद्य पुनर यॊगम आस्थायाकाशम आविशत 10 कैलासपृष्ठाद उत्पत्य स पपात दिवं तदा अन्तरिक्षचरः शरीमान वयास पुत्रः सुनिश्चितः 11 तम उद्यन्तं दविजश्रेष्ठं वैनतेय समद्युतिम ददृशुः सव भूतानि मनॊमारुत रन्हसम 12 वयवसायेन लॊकांस तरीन सर्वान सॊ ऽथ विचिन्तयन आस्थितॊ दिव्यम अध्वानं पावकार्क समप्रभः 13 तम एकमनसं यान्तम अव्यग्रम अकुतॊभयम ददृशुः सर्वभूतानि जङ्गमानीतराणि च 14 यथाशक्ति यथान्यायं पूजयामं चक्रिरे तदा पुष्पवर्षैश च दिव्यैस तम अवचक्रुर दिवौकसः 15 तं दृष्ट्वा विस्मिताः सर्वे गन्धर्वाप्सरसां गणाः ऋषयश चैव संसिद्धाः परं विस्मयम आगताः 16 अन्तरिक्षचरः कॊ ऽयं तपसा सिद्धिम आगतः अधः कायॊर्ध्व वक्त्रश च नेत्रैः समभिवाह्यते 17 ततः परमधीरात्मा तरिषु लॊकेषु विश्रुतः भास्करं समुद ईक्षन स पराङ्मुखॊ वाग्यतॊ ऽगमत शब्देनाकाशम अखिलं पूरयन्न इव सर्वतः 18 तम आपतन्तं सहसा दृष्ट्वा सर्वाप्सरॊ गणाः संभ्रान्तमनसॊ राजन्न आसन परमविस्मिताः पञ्च चूदाप्रभृतयॊ भृशम उत्फुल्ललॊचनाः 19 दैवतं कतमं हय एतद उत्तमां गतिम आस्थितम सुनिश्चितम इहायाति विमुक्तम इव निःस्पृहम 20 ततः समतिचक्राम मलयं नाम पर्वतम उर्वशी पूर्वचित्तिश च यं नित्यम उपसेवते ते सम बरह्मर्षिपुत्रस्य विस्मयं ययतुः परम 21 अहॊ बुद्धिसमाधानं वेदाभ्यास रते दविजे अचिरेणैव कालेन नभश्चरति चन्द्रवत पितृशुश्रूसया सिद्धिं संप्राप्तॊ ऽयम अनुत्तमाम 22 पितृभक्तॊ दृध तपाः पितुः सुदयितः सुतः अनन्यमनसा तेन कथं पित्रा विवर्जितः 23 उर्वस्या वचनं शरुत्वा शुकः परमधर्मवित उदैक्षत दिशः सर्वा वचने गतमानसः 24 सॊ ऽनतरिक्षं महीं चैव सशैलवनकाननाम आलॊकयाम आस तदा सरांसि सरितस तथा 25 ततॊ दवैपायन सुतं बहुमान पुरःसरम कृताञ्जलिपुताः सर्वा निरीक्षन्ते सम देवताः 26 अब्रवीत तास तदा वाक्यं शुकः परमधर्मवित पिता यद्य अनुगच्छेन मां करॊशमानः शुकेति वै 27 ततः परति वचॊ देयं सर्वैर एव समाहितैः एतन मे सनेहतः सर्वे वचनं कर्तुम अर्हथ 28 शुकस्य वचनं शरुत्वा दिशः सवनकाननाः समुद्राः सरितः शैलाः परत्यूचुस तं समन्ततः 29 यथाज्ञापयसे विप्र बाधम एवं भविष्यति ऋषेर वयाहरतॊ वाक्यं परतिवक्ष्यामहे वयम |
1
[bhī] giripṛṣṭhaṃ samāruhya suto vyāsasya bhārata same deśe vivikte ca niḥśalāka upāviśat 2 dhārayām āsa cātmānaṃ yathāśāstraṃ mahāmuniḥ pādāt prabhṛti gātreṣu krameṇa kramayogavit 3 tataḥ sa prāṅmukho vidvān āditye nacirodite pāni pādaṃ samādhāya vinītavad upāviśat 4 na tatra pakṣisaṃghāto na śabdo nāpi darśanam yatra vaiyāsakir dhīmān yoktuṃ samupacakrame 5 sa dadarśa tadātmānaṃ sava saṅgaviniḥsṛtam prajahāsa tato hāsaṃ śukaḥ saṃprekṣya bhāskaram 6 sa punar yogam āsthāya mokṣamārgopalabdhaye mahāyogīśvaro bhūtvā so 'tyakrāmad vihāyasam 7 tataḥ pradakṣiṇaṃ kṛtvā devarṣiṃ nāradaṃ tadā nivedayām āsa tadā svaṃ yogaṃ paramarṣaye 8 dṛṣṭo mārgaḥ pravṛtto 'smi svasti te 'stu tapodhana tvatprasādād gamiṣyāmi gatim iṣṭāṃ mahādyute 9 nāradenābhyanujñātas tato dvaipāyanātmajaḥ abhivādya punar yogam āsthāyākāśam āviśat 10 kailāsapṛṣṭhād utpatya sa papāta divaṃ tadā antarikṣacaraḥ śrīmān vyāsa putraḥ suniścitaḥ 11 tam udyantaṃ dvijaśreṣṭhaṃ vainateya samadyutim dadṛśuḥ sava bhūtāni manomāruta ranhasam 12 vyavasāyena lokāṃs trīn sarvān so 'tha vicintayan āsthito divyam adhvānaṃ pāvakārka samaprabhaḥ 13 tam ekamanasaṃ yāntam avyagram akutobhayam dadṛśuḥ sarvabhūtāni jaṅgamānītarāṇi ca 14 yathāśakti yathānyāyaṃ pūjayāmṃ cakrire tadā puṣpavarṣaiś ca divyais tam avacakrur divaukasaḥ 15 taṃ dṛṣṭvā vismitāḥ sarve gandharvāpsarasāṃ gaṇāḥ ṛṣayaś caiva saṃsiddhāḥ paraṃ vismayam āgatāḥ 16 antarikṣacaraḥ ko 'yaṃ tapasā siddhim āgataḥ adhaḥ kāyordhva vaktraś ca netraiḥ samabhivāhyate 17 tataḥ paramadhīrātmā triṣu lokeṣu viśrutaḥ bhāskaraṃ samud īkṣan sa prāṅmukho vāgyato 'gamat śabdenākāśam akhilaṃ pūrayann iva sarvataḥ 18 tam āpatantaṃ sahasā dṛṣṭvā sarvāpsaro gaṇāḥ saṃbhrāntamanaso rājann āsan paramavismitāḥ pañca cūdāprabhṛtayo bhṛśam utphullalocanāḥ 19 daivataṃ katamaṃ hy etad uttamāṃ gatim āsthitam suniścitam ihāyāti vimuktam iva niḥspṛham 20 tataḥ samaticakrāma malayaṃ nāma parvatam urvaśī pūrvacittiś ca yaṃ nityam upasevate te sma brahmarṣiputrasya vismayaṃ yayatuḥ param 21 aho buddhisamādhānaṃ vedābhyāsa rate dvije acireṇaiva kālena nabhaścarati candravat pitṛśuśrūsayā siddhiṃ saṃprāpto 'yam anuttamām 22 pitṛbhakto dṛdha tapāḥ pituḥ sudayitaḥ sutaḥ ananyamanasā tena kathaṃ pitrā vivarjitaḥ 23 urvasyā vacanaṃ śrutvā śukaḥ paramadharmavit udaikṣata diśaḥ sarvā vacane gatamānasaḥ 24 so 'ntarikṣaṃ mahīṃ caiva saśailavanakānanām ālokayām āsa tadā sarāṃsi saritas tathā 25 tato dvaipāyana sutaṃ bahumāna puraḥsaram kṛtāñjaliputāḥ sarvā nirīkṣante sma devatāḥ 26 abravīt tās tadā vākyaṃ śukaḥ paramadharmavit pitā yady anugacchen māṃ krośamānaḥ śuketi vai 27 tataḥ prati vaco deyaṃ sarvair eva samāhitaiḥ etan me snehataḥ sarve vacanaṃ kartum arhatha 28 śukasya vacanaṃ śrutvā diśaḥ savanakānanāḥ samudrāḥ saritaḥ śailāḥ pratyūcus taṃ samantataḥ 29 yathājñāpayase vipra bādham evaṃ bhaviṣyati ṛṣer vyāharato vākyaṃ prativakṣyāmahe vayam |
The Mahabharata in Sanskrit
Book 12
Chapter 320
|
1
[भी] इत्य एवम उक्त्वा वचनं बरह्मर्षिः सुमहातपः परातिष्ठत शुकः सिद्धिं हित्वा लॊकांश चतुर्विधान 2 तमॊ हय अस्तविधं हित्वा जहौ पञ्च विधं रजः ततः सत्त्वं जहौ धीमांस तद अद्भुतम इवाभवत 3 ततस तस्मिन पदे नित्ये निर्गुणे लिङ्गवर्जिते बरह्मणि परत्यतिष्ठत स विधूमॊ ऽगनिर इव जवलन 4 उल्का पाता दिशां दाहा भूमिकम्पास तथैव च परादुर्भूताः कषणे तस्मिंस तद अद्भुतम इवाभवत 5 दरुमाः शाखाश च मुमुचुः शिखराणि च पर्वताः निर्घातशब्दैश च गिरिर हिमवान दीर्यतीव ह 6 न बभासे सहस्रांशुर न जज्वाल च पावकः हरदाश च सरितश चैव चुक्षुभुः सागरास तथा 7 ववर्ष वासवस तॊयं रसवच च सुगन्धि च ववौ समीरणश चापि दिव्यगन्धवहः शुचिः 8 स शृङ्गे ऽपरतिमे दिव्ये हिमवन मेरुसंभवे संश्लिष्टे शवेतपीते दवे रुक्त रूप्यमये शुभे 9 शतयॊजनविस्तारे तिर्यग ऊर्ध्वं च भारत उदीचीं दिशम आश्रित्य रुचिरे संददर्श ह 10 सॊ ऽविशङ्केन मनसा तथैवाभ्यपतच छुकः ततः पर्वतशृङ्गे दवे सहसैव दविधाकृते अदृश्येतां महाराज तद अद्भुतम इवाभवत 11 ततः पर्वतशृङ्गाभ्यां सहसैव विनिःसृतः न च परतिजघानास्य स गतिं पर्वतॊत्तमः 12 ततॊ महान अभूच छब्दॊ दिवि सर्वदिवौकसाम गन्धर्वाणाम ऋषीणां च ये च शैलनिवासिनः 13 दृष्ट्वा शुकम अतिक्रान्तं पर्वतं च दविधाकृतम साधु साध्व इति तत्रासीन नादः सर्वत्र भारत 14 स पूज्यमानॊ देवैश च गन्धर्वैर ऋषिभिस तथा यक्षराक्षस संघैश च विद्याधरगणैस तथा 15 दिव्यैः पुष्पैः समाकीर्णम अन्तरिक्षं समन्ततः आसीत किल महाराज शुकाभिपतने तदा 16 ततॊ मन्दाकिनीं रम्याम उपरिष्टाद अभिव्रजन शुकॊ ददर्श धर्मात्मा पुष्पित दरुमकाननाम 17 तस्यां करीदन्त्य अभिरताः सनान्ति चैवाप्सरॊ गणाः शून्याकारं निराकाराः शुकं दृष्ट्वा विवाससः 18 तं परक्रमन्तम आज्ञाय पिता सनेहसमन्वितः उत्तमां गतिम आस्थाय पृष्ठतॊ ऽनुससार ह 19 शुकस तु मारुताद ऊर्ध्वं गतिं कृत्वान्तरिक्षगाम दर्शयित्वा परभावं सवं सर्वभूतॊ ऽभवत तदा 20 महायॊगगतिं तव अग्र्यां वयासॊत्थाय महातपः निमेषान्तरमात्रेण शुकाभिपतनं ययौ 21 स ददर्श दविधाकृत्वा पर्वताग्रं शुकं गतम शशंसुर ऋषयस तस्मै कर्म पुत्रस्य तत तदा 22 ततः शुकेति दीर्घेण शैक्षेणाक्रन्दितस तदा सवयं पित्रा सवरेणॊच्चैस तरीँल लॊकान अनुनाद्य वै 23 शुकः सर्वगतॊ भूत्वा सर्वात्मा सर्वतॊ मुखः परत्यभासत धर्मात्मा भॊः शब्देनानुनादयन 24 तत एकाक्षरं नादं भॊ इत्य एव समीरयन परत्याहरञ जगत सर्वम उच्चैः सथावरजङ्गमम 25 ततः परभृति चाद्यापि शब्दान उच्चारितान पृथक गिरिगह्वर पृष्ठेषु वयाजहार शुकं परति 26 अन्तर्हितः परभावं तु दर्शयित्वा शुकस तदा गुणान संत्यज्य शब्दादीन पदम अध्यगमत परम 27 महिमानं तु तं दृष्ट्वा पुत्रस्यामित तेजसः निषसाद गिरिप्रस्थे पुत्रम एवानुचिन्तयन 28 ततॊ मन्दाकिनी तीरे करीदन्तॊ ऽपसरसां गणाः आसाद्य तम ऋषिं सर्वाः संभ्रान्ता गतचेतसः 29 जले निलिल्यिरे काश चित काश चिद गुल्मान परपेदिरे वसनान्य आददुः काश चिद दृष्ट्वा तं मुनिसत्तमम 30 तां मुक्ततां तु विज्ञाय मुनिः पुत्रस्य वै तदा सक्तताम आत्मनश चैव परीतॊ ऽभूद वरीदितश च ह 31 तं देवगन्धर्ववृतॊ महर्षिगणपूजितः पिनाक हस्तॊ भवगान अभ्यागच्छत शंकरः 32 तम उवाच महादेवः सान्त्वपूर्वम इदं वचः पुत्रशॊकाभिसंतप्तं कृष्णद्वैपायनं तदा 33 अग्नेर भूमेर अपां वायॊर अन्तरिक्षस्य चैव ह वीर्येण सदृशः पुत्रस तवया मत्तः पुरा वृतः 34 स तथा लक्षणॊ जातस तपसा तव संभृतः मम चैव परभावेन बरह्मतेजॊमयः शुचिः 35 स गतिं परमां पराप्तॊ दुष्प्रापाम अजितेन्द्रियैः दैवतैर अपि विप्रर्षे तं तवं किम अनुशॊचसि 36 यावत सथास्यन्ति गिरयॊ यावत सथास्यन्ति सागराः तावत तवाक्षया कीर्तिः सपुत्रस्य भविष्यति 37 छायां सवपुत्र सदृशीं सर्वतॊ ऽनपगां सदा दरक्ष्यसे तवं च लॊके ऽसमिन मत्प्रसादान महामुने 38 सॊ ऽनुनीतॊ भगवता सवयं रुद्रेण भारत छाया पश्यन समावृत्तः स मुनिः परया मुदा 39 इति जन्म गतिश चैव शुकस्य भरतर्षभ विस्तरेण मयाख्यातं यन मां तवं परिपृच्छसि 40 एतद आचस्त मे राजन देवर्षिर नारदः पुरा वयासश चैव महायॊगी संजल्पेषु पदे पदे 41 इतिहासम इमं पुण्यं मॊक्षधर्मार्थसंहितम धारयेद यः शम परः स गच्छेत परमां गतिम |
1
[bhī] ity evam uktvā vacanaṃ brahmarṣiḥ sumahātapaḥ prātiṣṭhata śukaḥ siddhiṃ hitvā lokāṃś caturvidhān 2 tamo hy astavidhaṃ hitvā jahau pañca vidhaṃ rajaḥ tataḥ sattvaṃ jahau dhīmāṃs tad adbhutam ivābhavat 3 tatas tasmin pade nitye nirguṇe liṅgavarjite brahmaṇi pratyatiṣṭhat sa vidhūmo 'gnir iva jvalan 4 ulkā pātā diśāṃ dāhā bhūmikampās tathaiva ca prādurbhūtāḥ kṣaṇe tasmiṃs tad adbhutam ivābhavat 5 drumāḥ śākhāś ca mumucuḥ śikharāṇi ca parvatāḥ nirghātaśabdaiś ca girir himavān dīryatīva ha 6 na babhāse sahasrāṃśur na jajvāla ca pāvakaḥ hradāś ca saritaś caiva cukṣubhuḥ sāgarās tathā 7 vavarṣa vāsavas toyaṃ rasavac ca sugandhi ca vavau samīraṇaś cāpi divyagandhavahaḥ śuciḥ 8 sa śṛṅge 'pratime divye himavan merusaṃbhave saṃśliṣṭe śvetapīte dve rukta rūpyamaye śubhe 9 śatayojanavistāre tiryag ūrdhvaṃ ca bhārata udīcīṃ diśam āśritya rucire saṃdadarśa ha 10 so 'viśaṅkena manasā tathaivābhyapatac chukaḥ tataḥ parvataśṛṅge dve sahasaiva dvidhākṛte adṛśyetāṃ mahārāja tad adbhutam ivābhavat 11 tataḥ parvataśṛṅgābhyāṃ sahasaiva viniḥsṛtaḥ na ca pratijaghānāsya sa gatiṃ parvatottamaḥ 12 tato mahān abhūc chabdo divi sarvadivaukasām gandharvāṇām ṛṣīṇāṃ ca ye ca śailanivāsinaḥ 13 dṛṣṭvā śukam atikrāntaṃ parvataṃ ca dvidhākṛtam sādhu sādhv iti tatrāsīn nādaḥ sarvatra bhārata 14 sa pūjyamāno devaiś ca gandharvair ṛṣibhis tathā yakṣarākṣasa saṃghaiś ca vidyādharagaṇais tathā 15 divyaiḥ puṣpaiḥ samākīrṇam antarikṣaṃ samantataḥ āsīt kila mahārāja śukābhipatane tadā 16 tato mandākinīṃ ramyām upariṣṭād abhivrajan śuko dadarśa dharmātmā puṣpita drumakānanām 17 tasyāṃ krīdanty abhiratāḥ snānti caivāpsaro gaṇāḥ śūnyākāraṃ nirākārāḥ śukaṃ dṛṣṭvā vivāsasaḥ 18 taṃ prakramantam ājñāya pitā snehasamanvitaḥ uttamāṃ gatim āsthāya pṛṣṭhato 'nusasāra ha 19 śukas tu mārutād ūrdhvaṃ gatiṃ kṛtvāntarikṣagām darśayitvā prabhāvaṃ svaṃ sarvabhūto 'bhavat tadā 20 mahāyogagatiṃ tv agryāṃ vyāsotthāya mahātapaḥ nimeṣāntaramātreṇa śukābhipatanaṃ yayau 21 sa dadarśa dvidhākṛtvā parvatāgraṃ śukaṃ gatam śaśaṃsur ṛṣayas tasmai karma putrasya tat tadā 22 tataḥ śuketi dīrgheṇa śaikṣeṇākranditas tadā svayaṃ pitrā svareṇoccais trīṁl lokān anunādya vai 23 śukaḥ sarvagato bhūtvā sarvātmā sarvato mukhaḥ pratyabhāsata dharmātmā bhoḥ śabdenānunādayan 24 tata ekākṣaraṃ nādaṃ bho ity eva samīrayan pratyāharañ jagat sarvam uccaiḥ sthāvarajaṅgamam 25 tataḥ prabhṛti cādyāpi śabdān uccāritān pṛthak girigahvara pṛṣṭheṣu vyājahāra śukaṃ prati 26 antarhitaḥ prabhāvaṃ tu darśayitvā śukas tadā guṇān saṃtyajya śabdādīn padam adhyagamat param 27 mahimānaṃ tu taṃ dṛṣṭvā putrasyāmita tejasaḥ niṣasāda giriprasthe putram evānucintayan 28 tato mandākinī tīre krīdanto 'psarasāṃ gaṇāḥ āsādya tam ṛṣiṃ sarvāḥ saṃbhrāntā gatacetasaḥ 29 jale nililyire kāś cit kāś cid gulmān prapedire vasanāny ādaduḥ kāś cid dṛṣṭvā taṃ munisattamam 30 tāṃ muktatāṃ tu vijñāya muniḥ putrasya vai tadā saktatām ātmanaś caiva prīto 'bhūd vrīditaś ca ha 31 taṃ devagandharvavṛto maharṣigaṇapūjitaḥ pināka hasto bhavagān abhyāgacchata śaṃkaraḥ 32 tam uvāca mahādevaḥ sāntvapūrvam idaṃ vacaḥ putraśokābhisaṃtaptaṃ kṛṣṇadvaipāyanaṃ tadā 33 agner bhūmer apāṃ vāyor antarikṣasya caiva ha vīryeṇa sadṛśaḥ putras tvayā mattaḥ purā vṛtaḥ 34 sa tathā lakṣaṇo jātas tapasā tava saṃbhṛtaḥ mama caiva prabhāvena brahmatejomayaḥ śuciḥ 35 sa gatiṃ paramāṃ prāpto duṣprāpām ajitendriyaiḥ daivatair api viprarṣe taṃ tvaṃ kim anuśocasi 36 yāvat sthāsyanti girayo yāvat sthāsyanti sāgarāḥ tāvat tavākṣayā kīrtiḥ saputrasya bhaviṣyati 37 chāyāṃ svaputra sadṛśīṃ sarvato 'napagāṃ sadā drakṣyase tvaṃ ca loke 'smin matprasādān mahāmune 38 so 'nunīto bhagavatā svayaṃ rudreṇa bhārata chāyā paśyan samāvṛttaḥ sa muniḥ parayā mudā 39 iti janma gatiś caiva śukasya bharatarṣabha vistareṇa mayākhyātaṃ yan māṃ tvaṃ paripṛcchasi 40 etad ācasta me rājan devarṣir nāradaḥ purā vyāsaś caiva mahāyogī saṃjalpeṣu pade pade 41 itihāsam imaṃ puṇyaṃ mokṣadharmārthasaṃhitam dhārayed yaḥ śama paraḥ sa gacchet paramāṃ gatim |
The Mahabharata in Sanskrit
Book 12
Chapter 321
|
1
[य] गृहस्थॊ बरह्मचारी वा वानप्रस्थॊ ऽथ भिक्षुकः य इच्छेत सिद्धिम आस्थातुं देवतां कां यजेत सः 2 कुतॊ हय अस्य धरुवः सवर्गः कुतॊ निःश्रेयसं परम विधिना केन जुहुयाद दैवं पित्र्यं तथैव च 3 मुक्तश च कां गतिं गच्छेन मॊक्षश चैव किम आत्मकः सवर्गतश चैव किं कुर्याद येन न चयवते दिवः 4 देवतानां च कॊ देवः पितॄणां च तथा पिता तस्मात परतरं यच च तन मे बरूहि पितामह 5 [भीस्म] गूढं मां परश्नवित परश्नं पृच्छसे तवम इहानघ न हय एष तर्कया शक्यॊ वक्तुं वर्षशतैर अपि 6 ऋते देवप्रसादाद वा राजञ जञानागमेन वा गहनं हय एतद आख्यानं वयाख्यातव्यं तवारि हन 7 अत्राप्य उदाहरन्तीमम इतिहासं पुरातनम नारदस्य च संवादम ऋषेर नारायणस्य च 8 नारायणॊ हि विश्वात्मा चतुर्मूर्तिः सनातनः धर्मात्मजः संबभूव पितैवं मे ऽभयभासत 9 कृते युगे महाराज पुरा सवायम्भुवे ऽनतरे नरॊ नारायणश चैव हरिः कृष्णस तथैव च 10 तेभ्यॊ नारायण नरौ तपस तेपतुर अव्ययौ बदर्य आश्रमम आसाद्य शकते कनका मये 11 अस्तचक्रं हि तद यानं भूतयुक्तं मनॊरमम तत्राद्यौ लॊकनाथौ तौ कृशौ धमनि संततौ 12 तपसा तेजसा चैव दुर्निरीक्षौ सुरैर अपि यस्य परसादं कुर्वाते स देवौ दरष्टुम अर्हति 13 नूनं तयॊर अनुमते हृदि हृच्छय चॊदितः महामेरॊर गिरेः शृङ्गात परच्युतॊ गन्धमादनम 14 नारदः सुमहद भूतं लॊकान सर्वान अचीचरत तं देशम अगमद राजन बदर्य आश्रमम आशुगः 15 तयॊर आह्निक वेलायां तस्य कौतूहलं तव अभूत इदं तद आस्पदं कृत्स्नं यस्मिँल लॊकाः परतिष्ठिताः 16 सद एवासुरगन्धर्वाः सर्षिकिंनर लेलिहाः एका मूर्तिर इयं पूर्वं जाता भूयश चतुर्विधा 17 धर्मस्य कुलसंतानॊ महान एभिर विवर्धितः अहॊ हय अनुग्रहीतॊ ऽदय धर्म एभिः सुरैर इह नरनारायणाभ्यां च कृष्णेन हरिणा तथा 18 तत्र कृष्णॊ हरिश चैव कस्मिंश चित कारणान्तरे सथितौ धर्मॊत्तरौ हय एतौ तथा तपसि धिष्ठितौ 19 एतौ हि परमं धाम कानयॊर आह्निक करिया पितरौ सर्वभूतानां दैवतं च यशस्विनौ कां देवतां तु यजतः पितॄन वा कान महामती 20 इति संचिन्त्य मनसा भक्त्या नारायणस्य ह सहसा परादुरभवत समीपे देवयॊस तदा 21 कृते दैवे च पित्र्ये च ततस ताभ्यां निरीक्षितः पूजितश चैव विधिना यथा परॊक्तेन शास्त्रतः 22 तं दृष्ट्वा महद आश्चर्यम अपूर्वं विधिविस्तरम उपॊपविष्टः सुप्रीतॊ नारदॊ भवगान ऋषिः 23 नारायणं संनिरीक्ष्य परसन्नेनान्तर आत्मना नमस्कृत्वा महादेवम इदं वचनम अब्रवीत 24 वेदेषु सपुराणेषु साङ्गॊपाङ्गेषु गीयसे तवम अजः शाश्वतॊ धाता मतॊ ऽमृतम अनुत्तमम परतिष्ठितं भूतभव्यं तवयि सर्वम इदं जगत 25 चत्वारॊ हय आश्रमा देव सर्वे गार्हस्थ्य मूलकाः यजन्ते तवाम अहर अहर नाना मूर्ति समास्थितम 26 पिता माता च सर्वस्य जगतः शाश्वतॊ गुरुः कं तव अद्य यजसे देवं पितरं कं न विद्महे 27 [भगवान] अवाच्यम एतद वक्तव्यम आत्मगुह्यं सनातनम तव भक्तिमतॊ बरह्मन वक्ष्यामि तु यथातथम 28 यत तत सूक्ष्मम अविज्ञेयम अव्यक्तम अचलं धरुवम इन्द्रियैर इन्द्रियार्थैश च सर्वभूतैश च वर्जितम 29 स हय अन्तरात्मा भूतानां कषेत्रज्ञश चेति कथ्यते तरिगुण वयतिरिक्तॊ ऽसौ पुरुषश चेति कल्पितः तस्माद अव्यक्तम उत्पन्नं तरिगुणं दविजसत्तम 30 अव्यक्ता वयक्तभावस्था या सा परकृतिर अव्यया तां यॊनिम आवयॊर विद्धि यॊ ऽसौ सदसद आत्मकः आवाभ्यां पूज्यते ऽसौ हि दैवे पित्र्ये च कल्पिते 31 नास्ति तस्मात परॊ ऽनयॊ हि पिता देवॊ ऽथ वा दविजः आत्मा हि नौ स विज्ञेयस ततस तं पूजयावहे 32 तेनैषा परथिता बरह्मन मर्यादा लॊकभाविनी दैवं पित्र्यं च कर्तव्यम इति तस्यानुशासनम 33 बरह्मा सथानुर मनुर दक्षॊ भृगुर धर्मस तपॊ दमः मरीचिर अङ्गिरात्रिश च पुलस्त्यः पुलहः करतुः 34 वसिष्ठः परमेष्ठी च विवस्वान सॊम एव च कर्दमश चापि यः परॊक्तः करॊधॊ विक्रीत एव च 35 एकविंशतिर उत्पन्नास ते परजापतयः समृताः तस्य देवस्य मर्यादां पूजयन्ति सनातनीम 36 दैवं पित्र्यं च सततं तस्य विज्ञाय तत्त्वतः आत्मप्राप्तानि च ततॊ जानन्ति दविजसत्तमाः 37 सवर्गस्था अपि ये के चित तं नमस्यन्ति देहिनः ते तत्प्रसादाद गच्छन्ति तेनादिष्ट फलां गतिम 38 ये हीनाः सप्त दशभिर गुणैः कर्मभिर एव च कलाः पञ्चदश तयक्त्वा ते मुक्ता इति निश्चयः 39 मुक्तानां तु गतिर बरह्मन कषेत्रज्ञ इति कल्पितः स हि सर्वगतश चैव निर्गुणश चैव कथ्यते 40 दृश्यते जञानयॊगेन आवां च परसृतौ ततः एवं जञात्वा तम आत्मानं पूजयावः सनातनम 41 तं वेदाश चाश्रमाश चैव नाना तनु समास्थिताः भक्त्या संपूजयन्त्य आद्यं गतिं चैषां ददाति सः 42 ये तु तद्भाविता लॊके एकान्तित्वं समास्थिताः एतद अभ्यधिकं तेषां यत ते तं परविशन्त्य उत 43 इति गुह्य समुद्देशस तव नारद कीर्तितः भक्त्या परेम्ना च विप्रर्षे अस्मद भक्त्या च ते शरुतः |
1
[y] gṛhastho brahmacārī vā vānaprastho 'tha bhikṣukaḥ ya icchet siddhim āsthātuṃ devatāṃ kāṃ yajeta saḥ 2 kuto hy asya dhruvaḥ svargaḥ kuto niḥśreyasaṃ param vidhinā kena juhuyād daivaṃ pitryaṃ tathaiva ca 3 muktaś ca kāṃ gatiṃ gacchen mokṣaś caiva kim ātmakaḥ svargataś caiva kiṃ kuryād yena na cyavate divaḥ 4 devatānāṃ ca ko devaḥ pitṝṇāṃ ca tathā pitā tasmāt parataraṃ yac ca tan me brūhi pitāmaha 5 [bhīsma] gūḍhaṃ māṃ praśnavit praśnaṃ pṛcchase tvam ihānagha na hy eṣa tarkayā śakyo vaktuṃ varṣaśatair api 6 ṛte devaprasādād vā rājañ jñānāgamena vā gahanaṃ hy etad ākhyānaṃ vyākhyātavyaṃ tavāri han 7 atrāpy udāharantīmam itihāsaṃ purātanam nāradasya ca saṃvādam ṛṣer nārāyaṇasya ca 8 nārāyaṇo hi viśvātmā caturmūrtiḥ sanātanaḥ dharmātmajaḥ saṃbabhūva pitaivaṃ me 'bhyabhāsata 9 kṛte yuge mahārāja purā svāyambhuve 'ntare naro nārāyaṇaś caiva hariḥ kṛṣṇas tathaiva ca 10 tebhyo nārāyaṇa narau tapas tepatur avyayau badary āśramam āsādya śakate kanakā maye 11 astacakraṃ hi tad yānaṃ bhūtayuktaṃ manoramam tatrādyau lokanāthau tau kṛśau dhamani saṃtatau 12 tapasā tejasā caiva durnirīkṣau surair api yasya prasādaṃ kurvāte sa devau draṣṭum arhati 13 nūnaṃ tayor anumate hṛdi hṛcchaya coditaḥ mahāmeror gireḥ śṛṅgāt pracyuto gandhamādanam 14 nāradaḥ sumahad bhūtaṃ lokān sarvān acīcarat taṃ deśam agamad rājan badary āśramam āśugaḥ 15 tayor āhnika velāyāṃ tasya kautūhalaṃ tv abhūt idaṃ tad āspadaṃ kṛtsnaṃ yasmiṁl lokāḥ pratiṣṭhitāḥ 16 sad evāsuragandharvāḥ sarṣikiṃnara lelihāḥ ekā mūrtir iyaṃ pūrvaṃ jātā bhūyaś caturvidhā 17 dharmasya kulasaṃtāno mahān ebhir vivardhitaḥ aho hy anugrahīto 'dya dharma ebhiḥ surair iha naranārāyaṇābhyāṃ ca kṛṣṇena hariṇā tathā 18 tatra kṛṣṇo hariś caiva kasmiṃś cit kāraṇāntare sthitau dharmottarau hy etau tathā tapasi dhiṣṭhitau 19 etau hi paramaṃ dhāma kānayor āhnika kriyā pitarau sarvabhūtānāṃ daivataṃ ca yaśasvinau kāṃ devatāṃ tu yajataḥ pitṝn vā kān mahāmatī 20 iti saṃcintya manasā bhaktyā nārāyaṇasya ha sahasā prādurabhavat samīpe devayos tadā 21 kṛte daive ca pitrye ca tatas tābhyāṃ nirīkṣitaḥ pūjitaś caiva vidhinā yathā proktena śāstrataḥ 22 taṃ dṛṣṭvā mahad āścaryam apūrvaṃ vidhivistaram upopaviṣṭaḥ suprīto nārado bhavagān ṛṣiḥ 23 nārāyaṇaṃ saṃnirīkṣya prasannenāntar ātmanā namaskṛtvā mahādevam idaṃ vacanam abravīt 24 vedeṣu sapurāṇeṣu sāṅgopāṅgeṣu gīyase tvam ajaḥ śāśvato dhātā mato 'mṛtam anuttamam pratiṣṭhitaṃ bhūtabhavyaṃ tvayi sarvam idaṃ jagat 25 catvāro hy āśramā deva sarve gārhasthya mūlakāḥ yajante tvām ahar ahar nānā mūrti samāsthitam 26 pitā mātā ca sarvasya jagataḥ śāśvato guruḥ kaṃ tv adya yajase devaṃ pitaraṃ kaṃ na vidmahe 27 [bhagavān] avācyam etad vaktavyam ātmaguhyaṃ sanātanam tava bhaktimato brahman vakṣyāmi tu yathātatham 28 yat tat sūkṣmam avijñeyam avyaktam acalaṃ dhruvam indriyair indriyārthaiś ca sarvabhūtaiś ca varjitam 29 sa hy antarātmā bhūtānāṃ kṣetrajñaś ceti kathyate triguṇa vyatirikto 'sau puruṣaś ceti kalpitaḥ tasmād avyaktam utpannaṃ triguṇaṃ dvijasattama 30 avyaktā vyaktabhāvasthā yā sā prakṛtir avyayā tāṃ yonim āvayor viddhi yo 'sau sadasad ātmakaḥ āvābhyāṃ pūjyate 'sau hi daive pitrye ca kalpite 31 nāsti tasmāt paro 'nyo hi pitā devo 'tha vā dvijaḥ ātmā hi nau sa vijñeyas tatas taṃ pūjayāvahe 32 tenaiṣā prathitā brahman maryādā lokabhāvinī daivaṃ pitryaṃ ca kartavyam iti tasyānuśāsanam 33 brahmā sthānur manur dakṣo bhṛgur dharmas tapo damaḥ marīcir aṅgirātriś ca pulastyaḥ pulahaḥ kratuḥ 34 vasiṣṭhaḥ parameṣṭhī ca vivasvān soma eva ca kardamaś cāpi yaḥ proktaḥ krodho vikrīta eva ca 35 ekaviṃśatir utpannās te prajāpatayaḥ smṛtāḥ tasya devasya maryādāṃ pūjayanti sanātanīm 36 daivaṃ pitryaṃ ca satataṃ tasya vijñāya tattvataḥ ātmaprāptāni ca tato jānanti dvijasattamāḥ 37 svargasthā api ye ke cit taṃ namasyanti dehinaḥ te tatprasādād gacchanti tenādiṣṭa phalāṃ gatim 38 ye hīnāḥ sapta daśabhir guṇaiḥ karmabhir eva ca kalāḥ pañcadaśa tyaktvā te muktā iti niścayaḥ 39 muktānāṃ tu gatir brahman kṣetrajña iti kalpitaḥ sa hi sarvagataś caiva nirguṇaś caiva kathyate 40 dṛśyate jñānayogena āvāṃ ca prasṛtau tataḥ evaṃ jñātvā tam ātmānaṃ pūjayāvaḥ sanātanam 41 taṃ vedāś cāśramāś caiva nānā tanu samāsthitāḥ bhaktyā saṃpūjayanty ādyaṃ gatiṃ caiṣāṃ dadāti saḥ 42 ye tu tadbhāvitā loke ekāntitvaṃ samāsthitāḥ etad abhyadhikaṃ teṣāṃ yat te taṃ praviśanty uta 43 iti guhya samuddeśas tava nārada kīrtitaḥ bhaktyā premnā ca viprarṣe asmad bhaktyā ca te śrutaḥ |
The Mahabharata in Sanskrit
Book 12
Chapter 322
|
1
[भीस्म] स एवम उक्तॊ दविपदां वरिष्ठॊ; नारायणेनॊत्तम पूरुषेन जगाद वाक्यं दविपदां वरिष्ठं; नारायणं लॊकहिताधिवासम 2 यदर्थम आत्मप्रभवेह जन्म; तवॊत्तमं धर्मगृहे चतुर्धा तत साध्यतां लॊकहितार्थम अद्य; गच्छामि दरष्टुं परकृतिं तवाद्याम 3 वेदाः सवधीता मम लॊकनाथ; तप्तं तपॊ नानृतम उक्तपूर्वम पूजां गुरूणां सततं करॊमि; परस्य गुह्यं न च भिन्नपूर्वम 4 गुप्तानि चत्वारि यथागमं मे; शत्रौ च मित्रे च समॊ ऽसमि नित्यम तं चादि देवं सततं परपन्न; एकान्तभावेन वृणॊम्य अजस्रम एभिर विशेषैः परिशुद्धसत्त्वः; कस्मान न पश्येयम अनन्तम ईशम 5 तत पारमेष्ठ्यस्य वचॊ निशम्य; नारायणः सात्वत धर्मगॊप्ता गच्छेति तं नारदम उक्तवान स; संपूजयित्वात्म विधिक्रियाभिः 6 ततॊ विसृष्टः परमेष्ठिपुत्रः; सॊ ऽभयर्चयित्वा तम ऋषिं पुराणम खम उत्पपातॊत्तम वेगयुक्तस; ततॊ ऽधि मेरौ सहसा निलिल्ये 7 तत्रावतस्थे च मुनिर मुहूर्तम; एकान्तम आसाद्य गिरेः स शृङ्गे आलॊकयन उत्तरपश्चिमेन; ददर्श चात्य अद्भुतरूपयुक्तम 8 कषीरॊदधेर उत्तरतॊ हि दवीपः; शवेतः स नाम्ना परथितॊ विशालः मेरॊः सहस्रैः स हि यॊजनानां; दवात्रिंशतॊर्ध्वं कविभिर निरुक्तः 9 अतीन्द्रियाश चानशनाश च तत्र; निष्पन्द हीनाः सुसुगन्धिनश च शवेताः पुमांसॊ गतसर्वपापाश; चक्षुर मुषः पापकृतां नराणाम 10 वज्रास्थि कायाः सममानॊन्माना; दिव्यान्वय रूपाः शुभसारॊपेताः छत्त्राकृति शीर्षा मेघौघनिनादाः; सत पुष्कर चतुष्का राजीवशतपादाः 11 सस्त्या दन्तैर युक्ताः शुक्लैर अस्ताभिर दंस्त्राभिर ये जिह्वाभिर ये विष्वग वक्त्रं लेलिह्यन्ते सूर्यप्रख्यम 12 भक्त्या देवं विश्वॊत्पन्नं; यस्मात सर्वे लॊकाः सूताः वेदा धर्मा मुनयः शान्ता; देवाः सर्वे तस्य विसर्गाः 13 [य] अतीन्द्रिया निराहारा अनिष्पन्दाः सुगन्धिनः कथं ते पुरुषा जाताः का तेषां गतिर उत्तमा 14 ये विमुक्ता भवन्तीह नरा भरतसत्तम तेषां लक्षणम एतद धि यच छवेतद्वीपवासिनाम 15 तस्मान मे संशयं छिन्धि परं कौतूहलं हि मे तवं हि सर्वकथारामस तवां चैवॊपश्रिता वयम 16 [भीस्म] विस्तीर्णैषा कथा राजञ शरुता मे पितृसंनिधौ सैषा तव हि वक्तव्या कथा सारॊ हि स समृतः 17 राजॊपरिचरॊ नाम बभूवाधिपतिर भुवः आखन्दल सखः खयातॊ भक्तॊ नारायणं हरिम 18 धार्मिकॊ नित्यभक्तश च पितॄन नित्यम अतन्द्रितः साम्राज्यं तेन संप्राप्तं नारायण वरात पुरा 19 सात्वतं विधिम आस्थाय पराक सूर्यमुख निःसृतम पूजयाम आस देवेशं तच छेषेण पितामहान 20 पितृशेषेण विप्रांश च संविभज्याश्रितांश च सः शेषान्न भुक सत्यपरः सर्वभूतेष्व अहिंसकः सर्वभावेन भक्तः स देवदेवं जनार्दनम 21 तस्य नारायणे भक्तिं वहतॊ ऽमित्रकर्शन एकशय्यासनं शक्रॊ दत्तवान देवरात सवयम 22 आत्मा राज्यं धनं चैव कलत्रं वाहनानि च एतद भगवते सर्वम इति तत परेक्षितं सदा 23 काम्यनैमित्तिकाजस्रं यज्ञियाः परमक्रियाः सर्वाः सात्वतम आस्थाय विधिं चक्रे समाहितः 24 पञ्चरात्र विदॊ मुख्यास तस्य गेहे महात्मनः परायनं भगवत परॊक्तं भुञ्जते चाग्र भॊजनम 25 तस्य परशासतॊ राज्यं धर्मेणामित्र घातिनः नानृता वाक समभवन मनॊ दुष्टं न चाभवत न च कायेन कृतवान स पापं परम अन्व अपि 26 ये हि ते मुनयॊ खयाताः सप्त चित्रशिखन्दिनः तैर एकमतिभिर भूत्वा यत परॊक्तं शास्त्रम उत्तमम 27 मरीचिर अत्र्यङ्गिरसौ पुलस्त्यः पुलहः करतुः वसिष्ठश च महातेजा एते चित्रशिखन्दिनः 28 सप्त परकृतयॊ हय एतास तथा सवायम्भुवॊ ऽसतमः एताभिर धार्यते लॊकस ताभ्यः शास्त्रं विनिःसृतम 29 एकाग्रमनसॊ दान्ता मुनयः संयमे रताः इदं शरेय इदं बरह्म इदं हितम अनुत्तमम लॊकान संचिन्त्य मनसा ततः शास्त्रं परचक्रिरे 30 तत्र धर्मार्थकामा हि मॊक्षः पश्चाच च कीर्तितः मर्यादा विविधाश चैव दिवि भूमौ च संस्थिताः 31 आराध्य तपसा देवं हरिं नारायणं परभुम दिव्यं वर्षसहस्रं वै सर्वे ते ऋषिभिः सह 32 नारायणानुशास्ता हि तदा देवी सरस्वती विवेश तान ऋषीन सर्वाँल लॊकानां हितकाम्यया 33 ततः परवर्तिता सम्यक तपस्विद्भिर दविजातिभिः शब्दे चार्थे च हेतौ च एषा परथमसर्गजा 34 आदाव एव हि तच छास्त्रम ओंकार सवरभूषितम ऋषिभिर भावितं तत्र यत्र कारुणिकॊ हय असौ 35 ततः परसन्नॊ भगवान अनिर्दिष्ट शरीरगः ऋषीन उवाच तान सर्वान अदृश्यः पुरुषॊत्तमः 36 कृतं शतसहस्रं हि शलॊकानाम इदम उत्तमम लॊकतन्त्रस्य कृत्स्नस्य यस्माद धर्मः परवर्तते 37 परवृत्तौ च निवृत्तौ च यॊनिर एतद भविष्यति ऋग यजुः सामभिर जुष्टम अथर्वाङ्गिरसैस तथा 38 तथा परमाणं हि मया कृतॊ बरह्मा परसादजः रुद्रश च करॊधजॊ विप्रा यूयं परकृतयस तथा 39 सूर्या चन्द्रमसौ वायुर भूमिर आपॊ ऽगनिर एव च सर्वे च नक्षत्रगणा यच च भूताभिशब्दितम 40 अधिकारेषु वर्तन्ते यथा सवं बरह्मवादिनः सर्वे परमाणं हि यथातथैतच छास्त्रम उत्तमम 41 भविष्यति परमाणं वय एतन मद अनुशासनम अस्मात परवक्ष्यते धर्मान मनुः सवायम्भुवः सवयम 42 उशना बृहस्पतिश चैव यदॊत्पन्नौ भविष्यतः तदा परवक्ष्यतः शास्त्रं युष्मन मतिभिर उद्धृतम 43 सवायम्भुवेषु धर्मेषु शास्त्रे चॊशनसा कृते बृहस्पतिमते चैव लॊकेषु परविचारिते 44 युष्मत कृतम इदं शास्त्रं परजा पालॊ वसुस ततः बृहस्पतिसकाशाद वै पराप्स्यते दविजसत्तमाः 45 स हि मद्भावितॊ राजा मद्भक्तश च भविष्यति तेन शास्त्रेण लॊकेषु करिया सर्वा करिष्यति 46 एतद धि सर्वशास्त्राणां शास्त्रम उत्तमसंज्ञितम एतदर्थ्यं च धर्म्यं च यशस्यं चैतद उत्तमम 47 अस्य परवर्तनाच चैव परजावन्तॊ भविष्यथ स च राजा शरिया युक्तॊ भविष्यति महान वसुः 48 संस्थिते च नृपे तस्मिञ शास्त्रम एतत सनातनम अन्तर धास्यति तत सत्यम एतद वः कथितं मया 49 एतावद उक्त्वा वचनम अदृश्यः पुरुषॊत्तमः विसृज्य तान ऋषीन सर्वान काम अपि परस्थितॊ दिशम 50 ततस ते लॊकपितरः सर्वलॊकार्थ चिन्तकाः परावर्तयन्त तच छास्त्रं धर्मयॊनिं सनातनम 51 उत्पन्ने ऽङगिरसे चैव युगे परथमकल्पिते साङ्गॊपनिषदं शास्त्रं सथापयित्वा बृहस्पतौ 52 जग्मुर यथेप्सितं देशं तपसे कृतनिश्चयाः धारणात सर्वलॊकानां सर्वधर्मप्रवर्तकाः |
1
[bhīsma] sa evam ukto dvipadāṃ variṣṭho; nārāyaṇenottama pūruṣena jagāda vākyaṃ dvipadāṃ variṣṭhaṃ; nārāyaṇaṃ lokahitādhivāsam 2 yadartham ātmaprabhaveha janma; tavottamaṃ dharmagṛhe caturdhā tat sādhyatāṃ lokahitārtham adya; gacchāmi draṣṭuṃ prakṛtiṃ tavādyām 3 vedāḥ svadhītā mama lokanātha; taptaṃ tapo nānṛtam uktapūrvam pūjāṃ gurūṇāṃ satataṃ karomi; parasya guhyaṃ na ca bhinnapūrvam 4 guptāni catvāri yathāgamaṃ me; śatrau ca mitre ca samo 'smi nityam taṃ cādi devaṃ satataṃ prapanna; ekāntabhāvena vṛṇomy ajasram ebhir viśeṣaiḥ pariśuddhasattvaḥ; kasmān na paśyeyam anantam īśam 5 tat pārameṣṭhyasya vaco niśamya; nārāyaṇaḥ sātvata dharmagoptā gaccheti taṃ nāradam uktavān sa; saṃpūjayitvātma vidhikriyābhiḥ 6 tato visṛṣṭaḥ parameṣṭhiputraḥ; so 'bhyarcayitvā tam ṛṣiṃ purāṇam kham utpapātottama vegayuktas; tato 'dhi merau sahasā nililye 7 tatrāvatasthe ca munir muhūrtam; ekāntam āsādya gireḥ sa śṛṅge ālokayan uttarapaścimena; dadarśa cāty adbhutarūpayuktam 8 kṣīrodadher uttarato hi dvīpaḥ; śvetaḥ sa nāmnā prathito viśālaḥ meroḥ sahasraiḥ sa hi yojanānāṃ; dvātriṃśatordhvaṃ kavibhir niruktaḥ 9 atīndriyāś cānaśanāś ca tatra; niṣpanda hīnāḥ susugandhinaś ca śvetāḥ pumāṃso gatasarvapāpāś; cakṣur muṣaḥ pāpakṛtāṃ narāṇām 10 vajrāsthi kāyāḥ samamānonmānā; divyānvaya rūpāḥ śubhasāropetāḥ chattrākṛti śīrṣā meghaughaninādāḥ; sat puṣkara catuṣkā rājīvaśatapādāḥ 11 sastyā dantair yuktāḥ śuklair astābhir daṃstrābhir ye jihvābhir ye viṣvag vaktraṃ lelihyante sūryaprakhyam 12 bhaktyā devaṃ viśvotpannaṃ; yasmāt sarve lokāḥ sūtāḥ vedā dharmā munayaḥ śāntā; devāḥ sarve tasya visargāḥ 13 [y] atīndriyā nirāhārā aniṣpandāḥ sugandhinaḥ kathaṃ te puruṣā jātāḥ kā teṣāṃ gatir uttamā 14 ye vimuktā bhavantīha narā bharatasattama teṣāṃ lakṣaṇam etad dhi yac chvetadvīpavāsinām 15 tasmān me saṃśayaṃ chindhi paraṃ kautūhalaṃ hi me tvaṃ hi sarvakathārāmas tvāṃ caivopaśritā vayam 16 [bhīsma] vistīrṇaiṣā kathā rājañ śrutā me pitṛsaṃnidhau saiṣā tava hi vaktavyā kathā sāro hi sa smṛtaḥ 17 rājoparicaro nāma babhūvādhipatir bhuvaḥ ākhandala sakhaḥ khyāto bhakto nārāyaṇaṃ harim 18 dhārmiko nityabhaktaś ca pitṝn nityam atandritaḥ sāmrājyaṃ tena saṃprāptaṃ nārāyaṇa varāt purā 19 sātvataṃ vidhim āsthāya prāk sūryamukha niḥsṛtam pūjayām āsa deveśaṃ tac cheṣeṇa pitāmahān 20 pitṛśeṣeṇa viprāṃś ca saṃvibhajyāśritāṃś ca saḥ śeṣānna bhuk satyaparaḥ sarvabhūteṣv ahiṃsakaḥ sarvabhāvena bhaktaḥ sa devadevaṃ janārdanam 21 tasya nārāyaṇe bhaktiṃ vahato 'mitrakarśana ekaśayyāsanaṃ śakro dattavān devarāt svayam 22 ātmā rājyaṃ dhanaṃ caiva kalatraṃ vāhanāni ca etad bhagavate sarvam iti tat prekṣitaṃ sadā 23 kāmyanaimittikājasraṃ yajñiyāḥ paramakriyāḥ sarvāḥ sātvatam āsthāya vidhiṃ cakre samāhitaḥ 24 pañcarātra vido mukhyās tasya gehe mahātmanaḥ prāyanaṃ bhagavat proktaṃ bhuñjate cāgra bhojanam 25 tasya praśāsato rājyaṃ dharmeṇāmitra ghātinaḥ nānṛtā vāk samabhavan mano duṣṭaṃ na cābhavat na ca kāyena kṛtavān sa pāpaṃ param anv api 26 ye hi te munayo khyātāḥ sapta citraśikhandinaḥ tair ekamatibhir bhūtvā yat proktaṃ śāstram uttamam 27 marīcir atryaṅgirasau pulastyaḥ pulahaḥ kratuḥ vasiṣṭhaś ca mahātejā ete citraśikhandinaḥ 28 sapta prakṛtayo hy etās tathā svāyambhuvo 'stamaḥ etābhir dhāryate lokas tābhyaḥ śāstraṃ viniḥsṛtam 29 ekāgramanaso dāntā munayaḥ saṃyame ratāḥ idaṃ śreya idaṃ brahma idaṃ hitam anuttamam lokān saṃcintya manasā tataḥ śāstraṃ pracakrire 30 tatra dharmārthakāmā hi mokṣaḥ paścāc ca kīrtitaḥ maryādā vividhāś caiva divi bhūmau ca saṃsthitāḥ 31 ārādhya tapasā devaṃ hariṃ nārāyaṇaṃ prabhum divyaṃ varṣasahasraṃ vai sarve te ṛṣibhiḥ saha 32 nārāyaṇānuśāstā hi tadā devī sarasvatī viveśa tān ṛṣīn sarvāṁl lokānāṃ hitakāmyayā 33 tataḥ pravartitā samyak tapasvidbhir dvijātibhiḥ śabde cārthe ca hetau ca eṣā prathamasargajā 34 ādāv eva hi tac chāstram oṃkāra svarabhūṣitam ṛṣibhir bhāvitaṃ tatra yatra kāruṇiko hy asau 35 tataḥ prasanno bhagavān anirdiṣṭa śarīragaḥ ṛṣīn uvāca tān sarvān adṛśyaḥ puruṣottamaḥ 36 kṛtaṃ śatasahasraṃ hi ślokānām idam uttamam lokatantrasya kṛtsnasya yasmād dharmaḥ pravartate 37 pravṛttau ca nivṛttau ca yonir etad bhaviṣyati ṛg yajuḥ sāmabhir juṣṭam atharvāṅgirasais tathā 38 tathā pramāṇaṃ hi mayā kṛto brahmā prasādajaḥ rudraś ca krodhajo viprā yūyaṃ prakṛtayas tathā 39 sūryā candramasau vāyur bhūmir āpo 'gnir eva ca sarve ca nakṣatragaṇā yac ca bhūtābhiśabditam 40 adhikāreṣu vartante yathā svaṃ brahmavādinaḥ sarve pramāṇaṃ hi yathātathaitac chāstram uttamam 41 bhaviṣyati pramāṇaṃ vay etan mad anuśāsanam asmāt pravakṣyate dharmān manuḥ svāyambhuvaḥ svayam 42 uśanā bṛhaspatiś caiva yadotpannau bhaviṣyataḥ tadā pravakṣyataḥ śāstraṃ yuṣman matibhir uddhṛtam 43 svāyambhuveṣu dharmeṣu śāstre cośanasā kṛte bṛhaspatimate caiva lokeṣu pravicārite 44 yuṣmat kṛtam idaṃ śāstraṃ prajā pālo vasus tataḥ bṛhaspatisakāśād vai prāpsyate dvijasattamāḥ 45 sa hi madbhāvito rājā madbhaktaś ca bhaviṣyati tena śāstreṇa lokeṣu kriyā sarvā kariṣyati 46 etad dhi sarvaśāstrāṇāṃ śāstram uttamasaṃjñitam etadarthyaṃ ca dharmyaṃ ca yaśasyaṃ caitad uttamam 47 asya pravartanāc caiva prajāvanto bhaviṣyatha sa ca rājā śriyā yukto bhaviṣyati mahān vasuḥ 48 saṃsthite ca nṛpe tasmiñ śāstram etat sanātanam antar dhāsyati tat satyam etad vaḥ kathitaṃ mayā 49 etāvad uktvā vacanam adṛśyaḥ puruṣottamaḥ visṛjya tān ṛṣīn sarvān kām api prasthito diśam 50 tatas te lokapitaraḥ sarvalokārtha cintakāḥ prāvartayanta tac chāstraṃ dharmayoniṃ sanātanam 51 utpanne 'ṅgirase caiva yuge prathamakalpite sāṅgopaniṣadaṃ śāstraṃ sthāpayitvā bṛhaspatau 52 jagmur yathepsitaṃ deśaṃ tapase kṛtaniścayāḥ dhāraṇāt sarvalokānāṃ sarvadharmapravartakāḥ |
The Mahabharata in Sanskrit
Book 12
Chapter 323
|
1
[भीस्म] ततॊ ऽतीते महाकल्पे उत्पन्ने ऽङगिरसः सुते बभूवुर निर्वृता देवा जाते देवपुरॊहिते 2 बृहद बरह्म महच चेति शब्दाः पर्याय वाचकाः एभिः समन्वितॊ राजन गुणैर विद्वान बृहस्पतिः 3 तस्य शिष्यॊ बभूवाग्र्यॊ राजॊपरिचरॊ वसुः अधीतवांस तदा शास्त्रं सम्यक चित्रशिखन्दिजम 4 स राजा भावितः पूर्वं दैवेन विधिना वसुः पालयाम आस पृथिवीं दिवम आखन्दलॊ यथा 5 तस्य यज्ञॊ महान आसीद अश्वमेधॊ महात्मनः बृहस्पतिर उपाध्यायस तत्र हॊता बहूव ह 6 परजापतिसुताश चात्र सदस्यास तव अभवंस तरयः एकतश च दवितश चैव तरितश चैव महर्षयः 7 धनुषाक्षॊ ऽथ रैभ्यश च अर्वावसु परावसू ऋषिर मेधातिथिश चैव तान्द्यश चैव महान ऋषिः 8 ऋषिः शक्तिर महाभागस तथा वेद शिराश च यः कपिलश च ऋषिश्रेष्ठः शालिहॊत्र पितामहः 9 आद्यः कठस तैत्तिरिश च वैशम्पायन पूर्वजः कण्वॊ ऽथ देवहॊत्रश च एते षॊडश कीर्तिताः संभृताः सर्वसंभारास तस्मिन राजन महाक्रतौ 10 न तत्र पशुघातॊ ऽभूत स राजैवं सथितॊ ऽभवत अहिंस्रः शुचिर अक्षुद्रॊ निराशीः कर्म संस्तुतः आरण्यक पदॊद्गीता भागास तत्रॊपकल्पिताः 11 परीतस ततॊ ऽसय भगवान देवदेवः पुरातनः साक्षात तं दर्शयाम आस सॊ ऽदृश्यॊ ऽनयेन केन चित 12 सवयं भागम उपाघ्राय पुरॊदाशं गृहीतवान अदृश्येन हृतॊ भागॊ देवेन हरि मेधसा 13 बृहस्पतिस ततः करुद्धः सरुवम उद्यम्य वेगितः आकाशं घनन सरुवः पातै रॊषाद अश्रूण्य अवर्तयत 14 उवाच चॊपरिचरं मया भागॊ ऽयम उद्यतः गराह्यः सवयं हि देवेन मत परत्यक्षं न संशयः 15 उद्यता यज्ञभागा हि साक्षात पराप्ताः सुरैर इह किमर्थम इह न पराप्तॊ दर्शनं स हरिर विभुः 16 ततः स तं समुद्धूतं भूमिपालॊ महान विभुः परसादयाम आस मुनिं सदस्यास ते च सर्वशः 17 ऊचुश चैनम असंभ्रान्ता न रॊषं कर्तुम अर्हसि नैष धर्मः कृतयुगे यस तवं रॊषम अचीकृथाः 18 अरॊषणॊ हय असौ देवॊ यस्य भागॊ ऽयम उद्यतः न स शक्यस तवया दरष्टुम अस्माभिर वा बृहस्पते यस्य परसादं कुरुते स वै तं दरष्टुम अर्हति 19 [एद्त] वयं हि बरह्मणः पुत्रा मानसाः परिकीर्तिताः गता निःश्रेयसार्थं हि कदा चिद दिशम उत्तराम 20 तप्त्वा वर्षसहस्राणि चत्वारि तप उत्तमम एकपादस्थिताः सम्यक काष्ठ भूताः समाहिताः 21 मेरॊर उत्तरभागे तु कषीरॊदस्यानुकूलतः स देशॊ यत्र नस तप्तं तपः परमदारुणम कथं पश्येमहि वयं देवं नारायणं तव इति 22 ततॊ वरतस्यावभृथे वाग उवाचाशरीरिणी सुतप्तं वस तपस्विप्राः परसन्नेनान्तर आत्मना 23 यूयं जिज्ञासवॊ भक्ताः कथं दरक्ष्यथ तं परभुम कषीरॊदधेर उत्तरतः शवेतद्वीपॊ महाप्रभः 24 तत्र नारायण परा मानवाश चन्द्र वर्चसः एकान्तभावॊपगतास ते भक्ताः पुरुषॊत्तमम 25 ते सहस्रार्चिषं देवं परविशन्ति सनातनम अतीन्द्रिया निराहारा अनिष्पन्दाः सुगन्धिनः 26 एकान्तिनस ते पुरुषाः शवेतद्वीपनिवासिनः गच्छध्वं तत्र मुनयस तत्रात्मा मे परकाशितः 27 अथ शरुत्वा वयं सर्वे वाचं ताम अशरीरिणीम यथाख्यातेन मार्गेण तं देशं परतिपेदिरे 28 पराप्य शवेतं महाद्वीपं तच चित्तास तद दिदृक्षवः ततॊ नॊ दृष्टिविषयस तदा परतिहतॊ ऽभवत 29 न च पश्याम पुरुषं तत तेजॊ हृतदर्शनाः ततॊ नः परादुरभवद विज्ञानं देव यॊगजम 30 न किलातप्त तपसा शक्यते दरष्टुम अञ्जसा ततः पुनर वर्षशतं तप्त्वा तात्कालिकं महत 31 वरतावसाने सुशुभान नरान ददृशिरे वयम शवेतांश चन्द्रप्रतीकाशान सर्वलक्षणलक्षितान 32 नित्याञ्जलि कृतान बरह्म जपतः पराग उदङ मुखान मानसॊ नाम स जपॊ जप्यते तैर महात्मभिः तेनैकाग्र मनस्त्वेन परीतॊ भवति वै हरिः 33 या भवेन मुनिशार्दूलभाः सूर्यस्य युगक्षये एकैकस्य परभा तादृक साभवन मानवस्य ह 34 तेजॊ निवासः स दवीप इति वै मेनिरे वयम न तत्राभ्यधिकः कश चित सर्वे ते समतेजसः 35 अथ सूर्यसहस्रस्य परभां युगपद उत्थिताम सहसा दृष्टवन्तः सम पुनर एव बृहस्पते 36 सहिताश चाभ्यधावन्त ततस ते मानवा दरुतम कृताञ्जलिपुता हृष्टा नम इत्य एव वादिनः 37 ततॊ ऽभिवदतां तेषाम अश्रौष्म विपुलं धवनिम बलिः किलॊपह्रियते तस्य देवस्य तैर नरैः 38 वयं तु तेजसा तस्य सहसाहृत चेतसः न किं चिद अपि पश्यामॊ हृतदृष्टि बलेन्द्रियाः 39 एकस तु शब्दॊ ऽविरतः शरुतॊ ऽसमाभिर उदीरितः जितं ते पुन्दरीकाक्ष नमस ते विश्वभावन 40 नमस ते ऽसतु हृषीकेश महापुरुष पूर्वज इति शब्दः शरुतॊ ऽसमाभिः शिक्षाक्षर समीरितः 41 एतस्मिन्न अन्तरे वायुः सर्वगन्धवहः शुचिः दिव्यान्य उवाह पुष्पानि कर्मण्याश चौषधीस तथा 42 तैर इष्टः पञ्च कालज्ञैर हरिर एकान्तिभिर नरैः नूनं तत्रागतॊ देवॊ यथा तैर वाग उदीरिता वयं तव एनं न पश्यामॊ मॊहितास तस्य मायया 43 मारुते संनिवृत्ते च बलौ च परतिपादिते चिन्ता वयाकुलितात्मानॊ जाताः समॊ ऽङगिरसां वर 44 मानवानां सहस्रेषु तेषु वै शुद्धयॊनिषु अस्मान न कश चिन मनसा चक्षुषा वाप्य अपूजयत 45 ते ऽपि सवस्था मुनिगणा एकभावम अनुव्रताः नास्मासु दधिरे भावं बरह्म भावम अनुष्ठिताः 46 ततॊ ऽसमान सुपरिश्रान्तांस तपसा चापि कर्शितान उवाच सवस्थं किम अपि भूतं तत्राशरीरकम 47 दृष्टा वः पुरुषाः शवेताः सर्वेन्द्रियविवर्जिताः दृष्टॊ भवति देवेश एभिर दृष्टैर दविजॊत्तमाः 48 गच्छध्वं मुनयः सर्वे यथागतम इतॊ ऽचिरात न स शक्यॊ अभक्तेन दरष्टुं देवः कथं चन 49 कामं कालेन महता एकान्तित्वं समागतैः शक्यॊ दरष्टुं स भगवान परभा मन्दल दुर्दृशः 50 महत कार्यं तु कर्तव्यं युष्माभिर दविजसत्तमाः इतः कृतयुगे ऽतीते विपर्यासं गते ऽपि च 51 वैवस्वते ऽनतरे विप्राः पराप्ते तरेतायुगे ततः सुराणां कार्यसिद्ध्यर्थं सहाया वै भविष्यथ 52 ततस तद अद्भुतं वाक्यं निशम्यैवं सम सॊमप तस्य परसादात पराप्ताः समॊ देशम ईप्सितम अञ्जसा 53 एवं सुतपसा चैव हव्यकव्यैस तथैव च देवॊ ऽसमाभिर न दृष्टः स कथं तवं दरष्टुम अर्हसि नारायणॊ महद भूतं विश्वसृग घव्यकव्य भुक 54 [भीस्म] एवम एकत वाक्येन दवित तरित मतेन च अनुनीतः सदस्यैश च बृहस्पतिर उदारधीः समानीय ततॊ यज्ञं दैवतं समपूजयत 55 समाप्तयज्ञॊ राजापि परजाः पालितवान वसुः बरह्मशापाद दिवॊ भरष्टः परविवेश महीं ततः 56 अन्तर भूमिगतश चैव सततं धर्मवत्सलः नारायण परॊ भूत्वा नारायण पदं जगौ 57 तस्यैव च परसादेन पुनर एवॊत्थितस तु सः महीतलाद गतः सथानं बरह्मणः समनन्तरम परां गतिम अनुप्राप्त इति नैष्ठिकम अञ्जसा |
1
[bhīsma] tato 'tīte mahākalpe utpanne 'ṅgirasaḥ sute babhūvur nirvṛtā devā jāte devapurohite 2 bṛhad brahma mahac ceti śabdāḥ paryāya vācakāḥ ebhiḥ samanvito rājan guṇair vidvān bṛhaspatiḥ 3 tasya śiṣyo babhūvāgryo rājoparicaro vasuḥ adhītavāṃs tadā śāstraṃ samyak citraśikhandijam 4 sa rājā bhāvitaḥ pūrvaṃ daivena vidhinā vasuḥ pālayām āsa pṛthivīṃ divam ākhandalo yathā 5 tasya yajño mahān āsīd aśvamedho mahātmanaḥ bṛhaspatir upādhyāyas tatra hotā bahūva ha 6 prajāpatisutāś cātra sadasyās tv abhavaṃs trayaḥ ekataś ca dvitaś caiva tritaś caiva maharṣayaḥ 7 dhanuṣākṣo 'tha raibhyaś ca arvāvasu parāvasū ṛṣir medhātithiś caiva tāndyaś caiva mahān ṛṣiḥ 8 ṛṣiḥ śaktir mahābhāgas tathā veda śirāś ca yaḥ kapilaś ca ṛṣiśreṣṭhaḥ śālihotra pitāmahaḥ 9 ādyaḥ kaṭhas taittiriś ca vaiśampāyana pūrvajaḥ kaṇvo 'tha devahotraś ca ete ṣoḍaśa kīrtitāḥ saṃbhṛtāḥ sarvasaṃbhārās tasmin rājan mahākratau 10 na tatra paśughāto 'bhūt sa rājaivaṃ sthito 'bhavat ahiṃsraḥ śucir akṣudro nirāśīḥ karma saṃstutaḥ āraṇyaka padodgītā bhāgās tatropakalpitāḥ 11 prītas tato 'sya bhagavān devadevaḥ purātanaḥ sākṣāt taṃ darśayām āsa so 'dṛśyo 'nyena kena cit 12 svayaṃ bhāgam upāghrāya purodāśaṃ gṛhītavān adṛśyena hṛto bhāgo devena hari medhasā 13 bṛhaspatis tataḥ kruddhaḥ sruvam udyamya vegitaḥ ākāśaṃ ghnan sruvaḥ pātai roṣād aśrūṇy avartayat 14 uvāca coparicaraṃ mayā bhāgo 'yam udyataḥ grāhyaḥ svayaṃ hi devena mat pratyakṣaṃ na saṃśayaḥ 15 udyatā yajñabhāgā hi sākṣāt prāptāḥ surair iha kimartham iha na prāpto darśanaṃ sa harir vibhuḥ 16 tataḥ sa taṃ samuddhūtaṃ bhūmipālo mahān vibhuḥ prasādayām āsa muniṃ sadasyās te ca sarvaśaḥ 17 ūcuś cainam asaṃbhrāntā na roṣaṃ kartum arhasi naiṣa dharmaḥ kṛtayuge yas tvaṃ roṣam acīkṛthāḥ 18 aroṣaṇo hy asau devo yasya bhāgo 'yam udyataḥ na sa śakyas tvayā draṣṭum asmābhir vā bṛhaspate yasya prasādaṃ kurute sa vai taṃ draṣṭum arhati 19 [edt] vayaṃ hi brahmaṇaḥ putrā mānasāḥ parikīrtitāḥ gatā niḥśreyasārthaṃ hi kadā cid diśam uttarām 20 taptvā varṣasahasrāṇi catvāri tapa uttamam ekapādasthitāḥ samyak kāṣṭha bhūtāḥ samāhitāḥ 21 meror uttarabhāge tu kṣīrodasyānukūlataḥ sa deśo yatra nas taptaṃ tapaḥ paramadāruṇam kathaṃ paśyemahi vayaṃ devaṃ nārāyaṇaṃ tv iti 22 tato vratasyāvabhṛthe vāg uvācāśarīriṇī sutaptaṃ vas tapasviprāḥ prasannenāntar ātmanā 23 yūyaṃ jijñāsavo bhaktāḥ kathaṃ drakṣyatha taṃ prabhum kṣīrodadher uttarataḥ śvetadvīpo mahāprabhaḥ 24 tatra nārāyaṇa parā mānavāś candra varcasaḥ ekāntabhāvopagatās te bhaktāḥ puruṣottamam 25 te sahasrārciṣaṃ devaṃ praviśanti sanātanam atīndriyā nirāhārā aniṣpandāḥ sugandhinaḥ 26 ekāntinas te puruṣāḥ śvetadvīpanivāsinaḥ gacchadhvaṃ tatra munayas tatrātmā me prakāśitaḥ 27 atha śrutvā vayaṃ sarve vācaṃ tām aśarīriṇīm yathākhyātena mārgeṇa taṃ deśaṃ pratipedire 28 prāpya śvetaṃ mahādvīpaṃ tac cittās tad didṛkṣavaḥ tato no dṛṣṭiviṣayas tadā pratihato 'bhavat 29 na ca paśyāma puruṣaṃ tat tejo hṛtadarśanāḥ tato naḥ prādurabhavad vijñānaṃ deva yogajam 30 na kilātapta tapasā śakyate draṣṭum añjasā tataḥ punar varṣaśataṃ taptvā tātkālikaṃ mahat 31 vratāvasāne suśubhān narān dadṛśire vayam śvetāṃś candrapratīkāśān sarvalakṣaṇalakṣitān 32 nityāñjali kṛtān brahma japataḥ prāg udaṅ mukhān mānaso nāma sa japo japyate tair mahātmabhiḥ tenaikāgra manastvena prīto bhavati vai hariḥ 33 yā bhaven muniśārdūlabhāḥ sūryasya yugakṣaye ekaikasya prabhā tādṛk sābhavan mānavasya ha 34 tejo nivāsaḥ sa dvīpa iti vai menire vayam na tatrābhyadhikaḥ kaś cit sarve te samatejasaḥ 35 atha sūryasahasrasya prabhāṃ yugapad utthitām sahasā dṛṣṭavantaḥ sma punar eva bṛhaspate 36 sahitāś cābhyadhāvanta tatas te mānavā drutam kṛtāñjaliputā hṛṣṭā nama ity eva vādinaḥ 37 tato 'bhivadatāṃ teṣām aśrauṣma vipulaṃ dhvanim baliḥ kilopahriyate tasya devasya tair naraiḥ 38 vayaṃ tu tejasā tasya sahasāhṛta cetasaḥ na kiṃ cid api paśyāmo hṛtadṛṣṭi balendriyāḥ 39 ekas tu śabdo 'virataḥ śruto 'smābhir udīritaḥ jitaṃ te pundarīkākṣa namas te viśvabhāvana 40 namas te 'stu hṛṣīkeśa mahāpuruṣa pūrvaja iti śabdaḥ śruto 'smābhiḥ śikṣākṣara samīritaḥ 41 etasminn antare vāyuḥ sarvagandhavahaḥ śuciḥ divyāny uvāha puṣpāni karmaṇyāś cauṣadhīs tathā 42 tair iṣṭaḥ pañca kālajñair harir ekāntibhir naraiḥ nūnaṃ tatrāgato devo yathā tair vāg udīritā vayaṃ tv enaṃ na paśyāmo mohitās tasya māyayā 43 mārute saṃnivṛtte ca balau ca pratipādite cintā vyākulitātmāno jātāḥ smo 'ṅgirasāṃ vara 44 mānavānāṃ sahasreṣu teṣu vai śuddhayoniṣu asmān na kaś cin manasā cakṣuṣā vāpy apūjayat 45 te 'pi svasthā munigaṇā ekabhāvam anuvratāḥ nāsmāsu dadhire bhāvaṃ brahma bhāvam anuṣṭhitāḥ 46 tato 'smān supariśrāntāṃs tapasā cāpi karśitān uvāca svasthaṃ kim api bhūtaṃ tatrāśarīrakam 47 dṛṣṭā vaḥ puruṣāḥ śvetāḥ sarvendriyavivarjitāḥ dṛṣṭo bhavati deveśa ebhir dṛṣṭair dvijottamāḥ 48 gacchadhvaṃ munayaḥ sarve yathāgatam ito 'cirāt na sa śakyo abhaktena draṣṭuṃ devaḥ kathaṃ cana 49 kāmaṃ kālena mahatā ekāntitvaṃ samāgataiḥ śakyo draṣṭuṃ sa bhagavān prabhā mandala durdṛśaḥ 50 mahat kāryaṃ tu kartavyaṃ yuṣmābhir dvijasattamāḥ itaḥ kṛtayuge 'tīte viparyāsaṃ gate 'pi ca 51 vaivasvate 'ntare viprāḥ prāpte tretāyuge tataḥ surāṇāṃ kāryasiddhyarthaṃ sahāyā vai bhaviṣyatha 52 tatas tad adbhutaṃ vākyaṃ niśamyaivaṃ sma somapa tasya prasādāt prāptāḥ smo deśam īpsitam añjasā 53 evaṃ sutapasā caiva havyakavyais tathaiva ca devo 'smābhir na dṛṣṭaḥ sa kathaṃ tvaṃ draṣṭum arhasi nārāyaṇo mahad bhūtaṃ viśvasṛg ghavyakavya bhuk 54 [bhīsma] evam ekata vākyena dvita trita matena ca anunītaḥ sadasyaiś ca bṛhaspatir udāradhīḥ samānīya tato yajñaṃ daivataṃ samapūjayat 55 samāptayajño rājāpi prajāḥ pālitavān vasuḥ brahmaśāpād divo bhraṣṭaḥ praviveśa mahīṃ tataḥ 56 antar bhūmigataś caiva satataṃ dharmavatsalaḥ nārāyaṇa paro bhūtvā nārāyaṇa padaṃ jagau 57 tasyaiva ca prasādena punar evotthitas tu saḥ mahītalād gataḥ sthānaṃ brahmaṇaḥ samanantaram parāṃ gatim anuprāpta iti naiṣṭhikam añjasā |
The Mahabharata in Sanskrit
Book 12
Chapter 324
|
1
[युधिस्थिर] यदा भक्तॊ भगवत आसीद राजा महावसुः किमर्थं स परिभ्रष्टॊ विवेश विवरं भुवः 2 [भीस्म] अत्राप्य उदहरन्तीमम इतिहासं पुरातनम ऋषीणां चैव संवादं तरिदशानां च भारत 3 अजेन यस्तव्यम इति देवाः पराहुर दविजॊत्तमान स चच छागॊ हय अजॊ जञेयॊ नान्यः पशुर इति सथितिः 4 [रसयह] बीजैर यज्ञेषु यस्तव्यम इति वै वैदिकी शरुतिः अज संज्ञानि बीजानि छागं न घनन्तुम अर्हथ 5 नैव धर्मः सतां देवा यत्र वध्येत वै पशुः इदं कृतयुगं शरेष्ठं कथं वध्येत वै पशुः 6 [भीस्म] तेषां संवदताम एवम ऋषीणां विबुधैः सह मार्गागतॊ नृपश्रेष्ठस तं देशं पराप्तवान वसुः अन्तरिक्षचरः शरीमान समग्रबलवाहनः 7 तं दृष्ट्वा सहसायान्तं वसुं ते तव अन्तरिक्षगम ऊचुर दविजातयॊ देवान एष छेत्स्यति संशयम 8 यज्वा दानपतिः शरेष्ठः सर्वभूतहितप्रियः कथं सविद अन्यथा बरूयाद वाक्यम एष महान वसुः 9 एवं ते संविदं कृत्वा विबुधा ऋषयस तथा अपृच्छन सहसाभ्येत्य वसुं राजानम अन्तिकात 10 भॊ राजन केन यस्तव्यम अजेनाहॊ सविदौषधैः एतन नः संशयं छिन्धि परमाणं नॊ भवान मतः 11 स तान कृताञ्जलिर भूत्वा परिपप्रच्छ वै वसुः कस्य वः कॊ मतः पक्षॊ बरूत सत्यं समागताः 12 [रसयह] धान्यैर यस्तव्यम इत्य एष पक्षॊ ऽसमाकं नराधिप देवानां तु पशुः पक्षॊ मतॊ राजन वदस्व नः 13 [भीस्म] देवानां तु मतं जञात्वा वसुना पक्षसंश्रयात छागेनाजेन यस्तव्यम एवम उक्तं वचस तदा 14 कुपितास ते ततः सर्वे मुनयः सूर्यवर्चसः ऊचुर वसुं विमानस्थं देव पक्षार्थ वादिनम 15 सुरपक्षॊ गृहीतस ते यस्मात तस्माद दिवः पत अद्य परभृति ते राजन आकाशे विहता गतिः अस्मच छापाभिघातेन महीं भित्त्वा परविक्ष्यसि 16 ततस तस्मिन मुहूर्ते ऽथ राजॊपरिचरस तदा अधॊ वै संबभूवाशु भूमेर विवर गॊनृपः समृतिस तव एनं न परजहौ तदा नारायणाज्ञया 17 देवास तु सहिताः सर्वे वसॊः शापविमॊक्षणम चिन्तयाम आसुर अव्यग्राः सुकृतं हि नृपस्य तत 18 अनेनास्मत कृते राज्ञा शापः पराप्तॊ महात्मना अस्य परति परियं कार्यं सहितैर नॊ दिवौकसः 19 इति बुद्ध्य्या वयवस्याशु गत्वा निश्चयम ईश्वराः ऊचुस तं हृष्टमनसॊ राजॊपरिचरं तदा 20 बरह्मण्य देवं तवं भक्तः सुरासुरगुरुं हरिम कामं स तव तुष्टात्मा कुर्याच छापविमॊक्षणम 21 मानना तु दविजातीनां कर्तव्या वै महात्मनाम अवश्यं तपसा तेषां फलितव्यं नृपॊत्तम 22 यतस तवं सहसा भरष्ट आकाशान मेदिनी तलम एकं तव अनुग्रहं तुभ्यं दद्मॊ वै नृपसत्तम 23 यावत तवं शापदॊषेण कालम आसिष्यसे ऽनघ भूमेर विवर गॊभूत्वा तावन्तं कालम आप्स्यसि यज्ञेषु सुहुतां विप्रैर वसॊर धारां महात्मभिः 24 पराप्स्यसे ऽसमद अनुध्यानान मा च तवां गलानिर आस्पृशेत न कषुत्पिपासे राजेन्द्र भूमेश छिद्रे भविष्यतः 25 वसॊर धारानुपीतत्वात तेजसाप्यायितेन च स देवॊ ऽसमद वरात परीतॊ बरह्मलॊकं हि नेष्यति 26 एवं दत्त्वा वरं राज्ञे सर्वे तत्र दिवौकसः गताः सवभवनं देवा ऋषयश च तपॊधनाः 27 चक्रे च सततं पूजां विष्वक्सेनाय भारत जप्यं जगौ च सततं नारायण मुखॊद्गतम 28 तत्रापि पञ्चभिर यज्ञैः पञ्च कालान अरिंदम अयजद धरिं सुरपतिं भूमेर विवरगॊ ऽपि सन 29 ततॊ ऽसय तुष्टॊ भगवान भक्त्या नारायणॊ हरिः अनन्यभक्तस्य सतस तत्परस्य जितात्मनः 30 वरदॊ भगवान विष्णुः समीपस्थं दविजॊत्तमम गरुत्मन्तं महावेगम आबभासे समयन्न इव 31 दविजॊत्तम महाभाग गम्यतां वचनान मम संराद राजा वसुर नाम धर्मात्मा मां समाश्रितः 32 बराह्मणानां परकॊपेन परविष्टॊ वसुधातलम मानितास ते तु विप्रेन्द्रास तवं तु गच्छ दविजॊत्तम 33 भूमेर विवर संगुप्तं गरुदेह ममाज्ञया अधश चरं नृपश्रेष्ठं खेचरं कुरु माचिरम 34 गरुत्मान अथ विक्षिप्य पक्षौ मारुतवेगवान विवेश विवरं भूमेर यत्रास्ते वाग्यतॊ वसुः 35 तत एनं समुत्क्षिप्य सहसा विनतासुतः उत्पपात नभस तूर्णं तत्र चैनम अमुञ्चत 36 तस्मिन मुहूर्ते संजज्ञे राजॊपरिचरः पुनः सशरीरॊ गतश चैव बरह्मलॊकं नृपॊत्तमः 37 एवं तेनापि कौन्तेय वाग दॊषाद देवताज्ञया पराप्ता गतिर अयज्वार्हा दविज शापान महात्मना 38 केवलं पुरुषस तेन सेवितॊ हरिर ईश्वरः ततः शीघ्रं जहौ शापं बरह्मलॊकम अवाप च 39 एतत ते सर्वम आख्यातं ते भूता मानवा यथा नारदॊ ऽपि यथा शवेतं दवीपं स गतवान ऋषिः तत ते सर्वं परवक्ष्यामि शृणुष्वैक मना नृप |
1
[yudhisthira] yadā bhakto bhagavata āsīd rājā mahāvasuḥ kimarthaṃ sa paribhraṣṭo viveśa vivaraṃ bhuvaḥ 2 [bhīsma] atrāpy udaharantīmam itihāsaṃ purātanam ṛṣīṇāṃ caiva saṃvādaṃ tridaśānāṃ ca bhārata 3 ajena yastavyam iti devāḥ prāhur dvijottamān sa cac chāgo hy ajo jñeyo nānyaḥ paśur iti sthitiḥ 4 [rsayah] bījair yajñeṣu yastavyam iti vai vaidikī śrutiḥ aja saṃjñāni bījāni chāgaṃ na ghnantum arhatha 5 naiva dharmaḥ satāṃ devā yatra vadhyeta vai paśuḥ idaṃ kṛtayugaṃ śreṣṭhaṃ kathaṃ vadhyeta vai paśuḥ 6 [bhīsma] teṣāṃ saṃvadatām evam ṛṣīṇāṃ vibudhaiḥ saha mārgāgato nṛpaśreṣṭhas taṃ deśaṃ prāptavān vasuḥ antarikṣacaraḥ śrīmān samagrabalavāhanaḥ 7 taṃ dṛṣṭvā sahasāyāntaṃ vasuṃ te tv antarikṣagam ūcur dvijātayo devān eṣa chetsyati saṃśayam 8 yajvā dānapatiḥ śreṣṭhaḥ sarvabhūtahitapriyaḥ kathaṃ svid anyathā brūyād vākyam eṣa mahān vasuḥ 9 evaṃ te saṃvidaṃ kṛtvā vibudhā ṛṣayas tathā apṛcchan sahasābhyetya vasuṃ rājānam antikāt 10 bho rājan kena yastavyam ajenāho svidauṣadhaiḥ etan naḥ saṃśayaṃ chindhi pramāṇaṃ no bhavān mataḥ 11 sa tān kṛtāñjalir bhūtvā paripapraccha vai vasuḥ kasya vaḥ ko mataḥ pakṣo brūta satyaṃ samāgatāḥ 12 [rsayah] dhānyair yastavyam ity eṣa pakṣo 'smākaṃ narādhipa devānāṃ tu paśuḥ pakṣo mato rājan vadasva naḥ 13 [bhīsma] devānāṃ tu mataṃ jñātvā vasunā pakṣasaṃśrayāt chāgenājena yastavyam evam uktaṃ vacas tadā 14 kupitās te tataḥ sarve munayaḥ sūryavarcasaḥ ūcur vasuṃ vimānasthaṃ deva pakṣārtha vādinam 15 surapakṣo gṛhītas te yasmāt tasmād divaḥ pata adya prabhṛti te rājan ākāśe vihatā gatiḥ asmac chāpābhighātena mahīṃ bhittvā pravikṣyasi 16 tatas tasmin muhūrte 'tha rājoparicaras tadā adho vai saṃbabhūvāśu bhūmer vivara gonṛpaḥ smṛtis tv enaṃ na prajahau tadā nārāyaṇājñayā 17 devās tu sahitāḥ sarve vasoḥ śāpavimokṣaṇam cintayām āsur avyagrāḥ sukṛtaṃ hi nṛpasya tat 18 anenāsmat kṛte rājñā śāpaḥ prāpto mahātmanā asya prati priyaṃ kāryaṃ sahitair no divaukasaḥ 19 iti buddhyyā vyavasyāśu gatvā niścayam īśvarāḥ ūcus taṃ hṛṣṭamanaso rājoparicaraṃ tadā 20 brahmaṇya devaṃ tvaṃ bhaktaḥ surāsuraguruṃ harim kāmaṃ sa tava tuṣṭātmā kuryāc chāpavimokṣaṇam 21 mānanā tu dvijātīnāṃ kartavyā vai mahātmanām avaśyaṃ tapasā teṣāṃ phalitavyaṃ nṛpottama 22 yatas tvaṃ sahasā bhraṣṭa ākāśān medinī talam ekaṃ tv anugrahaṃ tubhyaṃ dadmo vai nṛpasattama 23 yāvat tvaṃ śāpadoṣeṇa kālam āsiṣyase 'nagha bhūmer vivara gobhūtvā tāvantaṃ kālam āpsyasi yajñeṣu suhutāṃ viprair vasor dhārāṃ mahātmabhiḥ 24 prāpsyase 'smad anudhyānān mā ca tvāṃ glānir āspṛśet na kṣutpipāse rājendra bhūmeś chidre bhaviṣyataḥ 25 vasor dhārānupītatvāt tejasāpyāyitena ca sa devo 'smad varāt prīto brahmalokaṃ hi neṣyati 26 evaṃ dattvā varaṃ rājñe sarve tatra divaukasaḥ gatāḥ svabhavanaṃ devā ṛṣayaś ca tapodhanāḥ 27 cakre ca satataṃ pūjāṃ viṣvaksenāya bhārata japyaṃ jagau ca satataṃ nārāyaṇa mukhodgatam 28 tatrāpi pañcabhir yajñaiḥ pañca kālān ariṃdama ayajad dhariṃ surapatiṃ bhūmer vivarago 'pi san 29 tato 'sya tuṣṭo bhagavān bhaktyā nārāyaṇo hariḥ ananyabhaktasya satas tatparasya jitātmanaḥ 30 varado bhagavān viṣṇuḥ samīpasthaṃ dvijottamam garutmantaṃ mahāvegam ābabhāse smayann iva 31 dvijottama mahābhāga gamyatāṃ vacanān mama saṃrād rājā vasur nāma dharmātmā māṃ samāśritaḥ 32 brāhmaṇānāṃ prakopena praviṣṭo vasudhātalam mānitās te tu viprendrās tvaṃ tu gaccha dvijottama 33 bhūmer vivara saṃguptaṃ garudeha mamājñayā adhaś caraṃ nṛpaśreṣṭhaṃ khecaraṃ kuru māciram 34 garutmān atha vikṣipya pakṣau mārutavegavān viveśa vivaraṃ bhūmer yatrāste vāgyato vasuḥ 35 tata enaṃ samutkṣipya sahasā vinatāsutaḥ utpapāta nabhas tūrṇaṃ tatra cainam amuñcata 36 tasmin muhūrte saṃjajñe rājoparicaraḥ punaḥ saśarīro gataś caiva brahmalokaṃ nṛpottamaḥ 37 evaṃ tenāpi kaunteya vāg doṣād devatājñayā prāptā gatir ayajvārhā dvija śāpān mahātmanā 38 kevalaṃ puruṣas tena sevito harir īśvaraḥ tataḥ śīghraṃ jahau śāpaṃ brahmalokam avāpa ca 39 etat te sarvam ākhyātaṃ te bhūtā mānavā yathā nārado 'pi yathā śvetaṃ dvīpaṃ sa gatavān ṛṣiḥ tat te sarvaṃ pravakṣyāmi śṛṇuṣvaika manā nṛpa |
The Mahabharata in Sanskrit
Book 12
Chapter 325
|
1
[भीस्म] पराप्य शवेतं महाद्वीपं नारदॊ भगवान ऋषिः ददर्श तान एव नराञ शवेतांश चन्द्रप्रभाञ शुभान 2 पूजयाम आस शिरसा मनसा तैश च पूजितः दिदृक्षुर जप्यपरमः सर्वकृच्छ्र धरः सथितः 3 भूत्वैकाग्र मना विप्र ऊर्ध्वबाहुर महामुनिः सतॊत्रं जगौ स विश्वाय निर्गुणाय महात्मने 4 नारदॊवाच नमस ते देवदेव [1] निष्क्रिय [2] निर्गुण [3] लॊकसाक्षिन [4] कषेत्रज्ञ [5] अनन्त [6116] पुरुष [7] महापुरुष [8] तरिगुण [9] परधान [10] अमृत [11] वयॊम [12] सनातन [13] सदसद्व्यक्ताव्यक्त [14] ऋतधामन [15] पूर्वादिदेव [16] वसुप्रद [17] परजापते [18] सुप्रजापते [19] वनस्पते [20] महाप्रजापते [21] ऊर्जस्पते [22] वाचस्पते [23] मनस्पते [24] जगत्पते [25] दिवस्पते [26] मरुत्पते [27] सलिलपते [28] पृथिवीपते [29] दिक पते [30] पूर्वनिवास [31] बरह्मपुरॊहित [32] बरह्मकायिक [33] महाकायिक [34] महाराजिक [35] चतुर्महाराजिक [36] आभासुर [37] महाभासुर [38] सप्तमहाभासुर [39] याम्य [40] महायाम्य [41] संज्ञासंज्ञ [42] तुषित [43] महातुषित [44] परतर्दन [45] परिनिर्मित [46] वशवर्तिन [47] अपरिनिर्मित [48] यज्ञ [49] महायज्ञ [50] यज्ञसंभव [51] यज्ञयॊने [52] यज्ञगर्भ [53] यज्ञहृदय [54] यज्ञस्तुत [55] यज्ञभागहर [56] पञ्चयज्ञधर [57] पञ्चकालकर्तृगते [58] पञ्चरात्रिक [59] वैकुण्ठ [60] अपराजित [61] मानसिक [62] परमस्वामिन [63] सुस्नात [64] हंस [65] परमहंस [66] परमयाज्ञिक [67] सांख्ययॊग [68] अमृतेशय [69] हिरण्येशय [70] वेदेशय [71] कुशेशय [72] बरह्मेशय [73] पद्मेशय [74] विश्वेश्वर [75] तवं जगदन्वयः [76] तवं जगत्प्रकृतिः [77] तवाग्निर आस्यं [78] वडवामुखॊ ऽगनिः [79] तवम आहुतिः [80] तवं सारथिः [81] तवं वषट्कारः [82] तवम ओंकारः [83] तवं मनः [84] तवं चन्द्रमाः [85] तवं चक्षुराद्यम [86] तवं सूर्यः [87] तवं दिशां गजः [88] दिग्भानॊ [89] हयशिरः [90] परथमत्रिसौपर्ण [91] पञ्चाग्ने [92] तरिणाचिकेत [93] षडङ्गविधान [94] पराग्ज्यॊतिष [95] जयेष्ठसामग [96] सामिकव्रतधर [97] अथर्वशिरः [98] पञ्चमहाकल्प [99] फेनपाचार्य [100] वालखिल्य [101] वैखानस [102] अभग्नयॊग [103] अभग्नपरिसंख्यान [194] युगादे [105] युगमध्य [106] युगनिधन [107] आखण्डल [108] पराचीनगर्भ [109] कौशिक [110] पुरुष्टुत [111] पुरुहूत [112] विश्वरूप [113] अनन्तगते [114] अनन्तभॊग [115] अनन्त [1166] अनादे [117] अमध्य [118] अव्यक्तमध्य [119] अव्यक्तनिधन [120] वरतावास [121] समुद्राधिवास [122] यशॊवास [123] तपॊवास [124] लक्ष्म्यावास [125] विद्यावास [126] कीर्त्यावास [127] शरीवास [128] सर्वावास [129] वासुदेव [130] सर्वच्छन्दक [131] हरिहय [132] हरिमेध [133] महायज्ञभागहर [134] वरप्रद [135157] यमनियममहानियमकृच्छ्रातिकृच्छ्रमहाकृच्छ्रसर्वकृच्छ्रनियमधर [136] निवृत्तधर्मप्रवचनगते [137] परवृत्तवेदक्रिय [138] अज [139] सर्वगते [140] सर्वदर्शिन [141] अग्राह्य [142] अचल [143] महाविभूते [144] माहात्म्यशरीर [145] पवित्र [146] महापवित्र [147] हिरण्मय [148] बृहत [149] अप्रतर्क्य [150] अविज्ञेय [151] बरह्माग्र्य [152] परजासर्गकर [153] परजानिधनकर [154] महामायाधर [155] चित्रशिखण्डिन [156] वरप्रद [157135] पुरॊडाशभागहर [158] गताध्वन [159] छिन्नतृष्ण [160] छिन्नसंशय [161] सर्वतॊनिवृत्त [162] बराह्मणरूप [163] बराह्मणप्रिय [164] विश्वमूर्ते [165] महामूर्ते [166] बान्धव [167] भक्तवत्सल [168] बरह्मण्यदेव [169] भक्तॊ ऽहं तवां दिदृष्कुः [170] एकान्तदर्शनाय नमॊ नमः [171] |
1
[bhīsma] prāpya śvetaṃ mahādvīpaṃ nārado bhagavān ṛṣiḥ dadarśa tān eva narāñ śvetāṃś candraprabhāñ śubhān 2 pūjayām āsa śirasā manasā taiś ca pūjitaḥ didṛkṣur japyaparamaḥ sarvakṛcchra dharaḥ sthitaḥ 3 bhūtvaikāgra manā vipra ūrdhvabāhur mahāmuniḥ stotraṃ jagau sa viśvāya nirguṇāya mahātmane 4 nāradovāca namas te devadeva [1] niṣkriya [2] nirguṇa [3] lokasākṣin [4] kṣetrajña [5] ananta [6=116] puruṣa [7] mahāpuruṣa [8] triguṇa [9] pradhāna [10] amṛta [11] vyoma [12] sanātana [13] sadasadvyaktāvyakta [14] ṛtadhāman [15] pūrvādideva [16] vasuprada [17] prajāpate [18] suprajāpate [19] vanaspate [20] mahāprajāpate [21] ūrjaspate [22] vācaspate [23] manaspate [24] jagatpate [25] divaspate [26] marutpate [27] salilapate [28] pṛthivīpate [29] dik pate [30] pūrvanivāsa [31] brahmapurohita [32] brahmakāyika [33] mahākāyika [34] mahārājika [35] caturmahārājika [36] ābhāsura [37] mahābhāsura [38] saptamahābhāsura [39] yāmya [40] mahāyāmya [41] saṃjñāsaṃjña [42] tuṣita [43] mahātuṣita [44] pratardana [45] parinirmita [46] vaśavartin [47] aparinirmita [48] yajña [49] mahāyajña [50] yajñasaṃbhava [51] yajñayone [52] yajñagarbha [53] yajñahṛdaya [54] yajñastuta [55] yajñabhāgahara [56] pañcayajñadhara [57] pañcakālakartṛgate [58] pañcarātrika [59] vaikuṇṭha [60] aparājita [61] mānasika [62] paramasvāmin [63] susnāta [64] haṃsa [65] paramahaṃsa [66] paramayājñika [67] sāṃkhyayoga [68] amṛteśaya [69] hiraṇyeśaya [70] vedeśaya [71] kuśeśaya [72] brahmeśaya [73] padmeśaya [74] viśveśvara [75] tvaṃ jagadanvayaḥ [76] tvaṃ jagatprakṛtiḥ [77] tavāgnir āsyaṃ [78] vaḍavāmukho 'gniḥ [79] tvam āhutiḥ [80] tvaṃ sārathiḥ [81] tvaṃ vaṣaṭkāraḥ [82] tvam oṃkāraḥ [83] tvaṃ manaḥ [84] tvaṃ candramāḥ [85] tvaṃ cakṣurādyam [86] tvaṃ sūryaḥ [87] tvaṃ diśāṃ gajaḥ [88] digbhāno [89] hayaśiraḥ [90] prathamatrisauparṇa [91] pañcāgne [92] triṇāciketa [93] ṣaḍaṅgavidhāna [94] prāgjyotiṣa [95] jyeṣṭhasāmaga [96] sāmikavratadhara [97] atharvaśiraḥ [98] pañcamahākalpa [99] phenapācārya [100] vālakhilya [101] vaikhānasa [102] abhagnayoga [103] abhagnaparisaṃkhyāna [194] yugāde [105] yugamadhya [106] yuganidhana [107] ākhaṇḍala [108] prācīnagarbha [109] kauśika [110] puruṣṭuta [111] puruhūta [112] viśvarūpa [113] anantagate [114] anantabhoga [115] ananta [116=6] anāde [117] amadhya [118] avyaktamadhya [119] avyaktanidhana [120] vratāvāsa [121] samudrādhivāsa [122] yaśovāsa [123] tapovāsa [124] lakṣmyāvāsa [125] vidyāvāsa [126] kīrtyāvāsa [127] śrīvāsa [128] sarvāvāsa [129] vāsudeva [130] sarvacchandaka [131] harihaya [132] harimedha [133] mahāyajñabhāgahara [134] varaprada [135=157] yamaniyamamahāniyamakṛcchrātikṛcchramahākṛcchrasarvakṛcchraniyamadhara [136] nivṛttadharmapravacanagate [137] pravṛttavedakriya [138] aja [139] sarvagate [140] sarvadarśin [141] agrāhya [142] acala [143] mahāvibhūte [144] māhātmyaśarīra [145] pavitra [146] mahāpavitra [147] hiraṇmaya [148] bṛhat [149] apratarkya [150] avijñeya [151] brahmāgrya [152] prajāsargakara [153] prajānidhanakara [154] mahāmāyādhara [155] citraśikhaṇḍin [156] varaprada [157=135] puroḍāśabhāgahara [158] gatādhvan [159] chinnatṛṣṇa [160] chinnasaṃśaya [161] sarvatonivṛtta [162] brāhmaṇarūpa [163] brāhmaṇapriya [164] viśvamūrte [165] mahāmūrte [166] bāndhava [167] bhaktavatsala [168] brahmaṇyadeva [169] bhakto 'haṃ tvāṃ didṛṣkuḥ [170] ekāntadarśanāya namo namaḥ [171] |
The Mahabharata in Sanskrit
Book 12
Chapter 326
|
1
[भीस्म] एवं सतुतः स भगवान गुह्यैस तथ्यैश च नामभिः तं मुनिं दर्शयाम आस नारदं विश्वरूपधृक 2 किं चिच चन्द्र विशुद्धात्मा किं चिच चन्द्राद विशेषवान कृशानु वर्णः किं चिच च किं चिद धिष्न्याकृतिः परभुः 3 शुकपत्रवर्णः किं चिच च किं चित सफतिक सप्रभः नीलाञ्जनचय परख्यॊ जातरूपप्रभः कव चित 4 परवालाङ्कुर वर्णश च शवेतवर्णः कव चिद बभौ कव चित सुवर्णवर्णाभॊ वैदूर्यसदृशः कव चित 5 नीलवैदूर्य सदृश इन्द्रनीलनिभः कव चित मयूरग्रीव वर्णाभॊ मुक्ताहार निभः कव चित 6 एतान वर्णान बहुविधान रूपे बिभ्रत सनातनः सहस्रनयनः शरीमाञ शतशीर्षः सहस्रपात 7 सहस्रॊदर बाहुश च अव्यक्त इति च कव चित ओंकारम उद्गिरन वक्त्रात सावित्रीं च तद अन्वयाम 8 शेषेभ्यश चैव वक्त्रेभ्यश चतुर्वेदॊद्गतं वसु आरण्यकं जगौ देवॊ हरिर नारायणॊ वशी 9 वेदीं कमन्दलुं दर्भान मनि रूपान अथॊपलान अजिनं दन्द काष्ठं च जवलितं च हुताशनम धारयाम आस देवेशॊ हस्तैर यज्ञपतिस तदा 10 तं परसन्नं परसन्नात्मा नारदॊ दविजसत्तमः वाग्यतः परयतॊ भूत्वा ववन्दे परमेश्वरम तम उवाच नतं मूर्ध्ना देवानाम आदिर अव्ययः 11 एकतश च दवितश चैव तरितश चैव महर्षयः इमं देशम अनुप्राप्ता मम दर्शनलालसाः 12 न च मां ते ददृशिरे न च दरक्ष्यति कश चन ऋते हय एकान्तिक शरेष्ठात तवं चैवैकान्तिकॊ मतः 13 ममैतास तनवः शरेष्ठा जाता धर्मगृहे दविज तास तवं भजस्व सततं साधयस्व यथागतम 14 वृणीष्व च वरं विप्र मत्तस तवं यम इहेच्छसि परसन्नॊ ऽहं तवाद्येह विश्वमूर्तिर इहाव्ययः 15 [नारद] अद्य मे तपसॊ देव यमस्य नियमस्य च सद्यः फलम अवाप्तं वै दृष्टॊ यद भगवान मया 16 वर एष ममात्यन्तं दृष्टस तवं यत सनातनः भगवान विश्वदृक सिंहः सर्वमूर्तिर महाप्रभुः 17 [भीस्म] एवं संदर्शयित्वा तु नारदं परमेष्ठिजम उवाच वचनं भूयॊ गच्छ नारद माचिरम 18 इमे हय अनिन्द्रियाहारा मद्भक्ताश चन्द्र वर्चसः एकाग्राश चिन्तयेयुर मां नैषां विघ्नॊ भवेद इति 19 सिद्धाश चैते महाभागाः पुरा हय एकान्तिनॊ ऽभवन तमॊ रजॊ विनिर्मुक्ता मां परवेक्ष्यन्त्य असंशयम 20 न दृश्यश चक्षुषा यॊ ऽसौ न सपृश्यः सपर्शनेन च न घरेयश चैव गन्धेन रसेन च विवर्जितः 21 सत्त्वं रजस तमश चैव न गुणास तं भजन्ति वै यश च सर्वगतः साक्षी लॊकस्यात्मेति कथ्यते 22 भूतग्राम शरीरेषु नश्यत्सु न विनश्यति अजॊ नित्यः शाश्वतश च निर्गुणॊ निष्कलस तथा 23 दविर दवादशेभ्यस तत्त्वेभ्यः खयातॊ यः पञ्चविंशकः पुरुषॊ निष्क्रियश चैव जञानदृश्यश च कथ्यते 24 यं परविश्य भवन्तीह मुक्ता वै दविजसत्तम स वासुदेवॊ विज्ञेयः परमात्मा सनातनः 25 पश्य देवस्य माहात्म्यं महिमानं च नारद शुभाशुभैः कर्मभिर यॊ न लिप्यति कदा चन 26 सत्त्वं रजस तमश चैव गुणान एतान परचक्षते एते सर्वशरीरेषु तिष्ठन्ति विचरन्ति च 27 एतान गुणांस तु कषेत्रज्ञॊ भुङ्क्ते नैभिः स भुज्यते निर्गुणॊ गुणभुक चैव गुणस्रष्टा गुणाधिकः 28 जगत परतिष्ठा देवर्षे पृथिव्य अप्सु परलीयते जयॊतिष्य आपः परलीयन्ते जयॊतिर वायौ परलीयते 29 खे वायुः परलयं याति मनस्य आकाशम एव च मनॊ हि परमं भूतं तद अव्यक्ते परलीयते 30 अव्यक्तं पुरुषे बरह्मन निष्क्रिये संप्रलीयते नास्ति तस्मात परतरं पुरुषाद वै सनातनात 31 नित्यं हि नास्ति जगति भूतं सथावरजङ्गमम ऋते तम एकं पुरुषं वासुदेवं सनातनम सर्वभूतात्मभूतॊ हि वासुदेवॊ महाबलः 32 पृथिवी वायुर आकाशम आपॊ जयॊतिश च पञ्चमम ते समेता महात्मानः शरीरम इति संज्ञितम 33 तद आविशति यॊ बरह्मन्न अदृश्यॊ लघुविक्रमः उत्पन्न एव भवति शरीरं चेष्टयन परभुः 34 न विना धातुसंघातं शरीरं भवति कव चित न च जीवं विना बरह्मन धातवश चेष्टयन्त्य उत 35 स जीवः परिसंख्यातः शेषः संकर्षणः परभुः तस्मात सनत्कुमारत्वं यॊ लभेत सवकर्मणा 36 यस्मिंश च सर्वभूतानि परलयं यान्ति संक्षये स मनः सर्वभूतानां परद्युम्नः परिपथ्यते 37 तस्मात परसूतॊ यः कर्ता कार्यं कारणम एव च यस्मात सर्वं परभवति जगत सथावरजङ्गमम सॊ ऽनिरुद्धः स ईशानॊ वयक्तिः सा सर्वकर्मसु 38 यॊ वासुदेवॊ भगवान कषेत्रज्ञॊ निर्गुणात्मकः जञेयः स एव भगवाञ जीवः संकर्षणः परभुः 39 संकर्षणाच च परद्युम्नॊ मनॊ भूतः स उच्यते परद्युम्नाद यॊ ऽनिरुद्धस तु सॊ ऽहंकारॊ महेश्वरः 40 मत्तः सर्वं संभवति जगत सथावरजङ्गमम अक्षरं च कषरं चैव सच चासच चैव नारद 41 मां परविश्य भवन्तीह मुक्ता भक्तास तु ये मम अहं हि पुरुषॊ जञेयॊ निष्क्रियः पञ्चविंशकः 42 निर्गुणॊ निष्कलश चैव निर्द्वन्द्वॊ निष्परिग्रहः एतत तवया न विज्ञेयं रूपवान इति दृश्यते इच्छन मुहूर्तान नश्येयम ईशॊ ऽहं जगतॊ गुरुः 43 माया हय एषा मया सृष्टा यन मां पश्यसि नारद सर्वभूतगुणैर युक्तं नैवं तवं जञातुम अर्हसि मयैतत कथितं सम्यक तव मूर्ति चतुष्टयम 44 सिद्धा हय एते महाभागा नरा हय एकान्तिनॊ ऽभवन तमॊ रजॊ भयां निर्मुक्ताः परवेक्ष्यन्ति च मां मुने 45 अहं कर्ता च कार्यं च कारणं चापि नारद अहं हि जीव संज्ञॊ वै मयि जीवः समाहितः मैवं ते बुद्धिर अत्राभूद दृष्टॊ जीवॊ मयेति च 46 अहं सर्वत्रगॊ बरह्मन भूतग्रामान्तर आत्मकः भूतग्राम शरीरेषु नश्यत्सु न नशाम्य अहम 47 हिरण्यगर्भॊ लॊकादिश चतुर्वक्त्रॊ निरुक्तगः बरह्मा सनातनॊ देवॊ मम बह्व अर्थचिन्तकः 48 पश्यैकादश मे रुद्रान दक्षिणं पार्श्वम आस्थितान दवादशैव तथादित्यान वामं पार्श्वं समास्थितान 49 अग्रतश चैव मे पश्य वसून अस्तौ सुरॊत्तमान नासत्यं चैव दस्रं च भिषजौ पश्य पृष्ठतः 50 सर्वान परजापतीन पश्य पश्य सप्त ऋषीन अपि वेदान यज्ञांश च शतशः पश्यामृतम अथौषधीः 51 तपांसि नियमांश चैव यमान अपि पृथग्विधान तथास्त गुणम ऐश्वर्यम एकस्थं पश्य मूर्तिमत 52 शरियं लक्ष्मीं च कीर्तिं च पृथिवीं च ककुद्मिनीम वेदानां मातरं पश्य मत सथां देवीं सरस्वतीम 53 धरुवं च जयॊतिषां शरेष्ठं पश्य नारद खेचरम अम्भॊ धरान समुद्रांश च सरांसि सरितस तथा 54 मूर्तिमन्तः पितृगणांश चतुरः पश्य सत्तम तरींश चैवेमान गुणान पश्य मत्स्थान मूर्ति विवर्जितान 55 देवकार्याद अपि मुने पितृकार्यं विशिष्यते देवानां च पितॄणां च पिता हय एकॊ ऽहम आदितः 56 अहं हयशिरॊ भूत्वा समुद्रे पश्चिमॊत्तरे पिबामि सुहुतं हव्यं कव्यं च शरद्धयान्वितम 57 मया सृष्टः पुरा बरह्मा मद यज्ञम अयजत सवयम ततस तस्मै वरान परीतॊ ददाव अहम अनुत्तमान 58 मत पुत्रत्वं च कल्पादौ लॊकाध्यक्षत्वम एव च अहंकारकृतं चैव नाम पर्याय वाचकम 59 तवया कृतां च मर्यादां नातिक्राम्यति कश चन तवं चैव वरदॊ बरह्मन वरेप्सूनां भविष्यसि 60 सुरासुरगणानां च ऋषीणां च तपॊधन पितॄणां च महाभाग सततं संशितव्रत विविधानां च भूतानां तवम उपास्यॊ भविष्यसि 61 परादुर्भावगतश चाहं सुरकार्येषु नित्यदा अनुशास्यस तवया बरह्मण्णियॊज्यश च सुतॊ यथा 62 एतांश चान्यांश च रुचिरान बरह्मणे ऽमिततेजसे अहं दत्त्वा वरान परीतॊ निवृत्ति परमॊ ऽभवम 63 निर्वानं सर्वधर्माणां निवृत्तिः परमा समृता तस्मान निवृत्तिम आपन्नश चरेत सर्वाङ्गनिर्वृतः 64 विद्या सहायवन्तं माम आदित्यस्थं सनातनम कपिलं पराहुर आचार्याः सांख्यनिश्चित निश्चयाः 65 हिरण्यगर्भॊ भगवान एष छन्दसि सुष्टुतः सॊ ऽहं यॊगगतिर बरह्मन यॊगशास्त्रेषु शब्दितः 66 एषॊ ऽहं वयक्तिम आगम्य तिष्ठामि दिवि शाश्वतः ततॊ युगसहस्रान्ते संहरिष्ये जगत पुनः कृत्वात्म सथानि भूतानि सथावराणि चराणि च 67 एकाकी विद्यया सार्धं विहरिष्ये दविजॊत्तम ततॊ भूयॊ जगत सर्वं करिष्यामीह विद्यया 68 अस्मन मूर्तिश चतुर्थी या सासृजच छेषम अव्ययम स हि संकर्षणः परॊक्तः परद्युम्नं सॊ ऽपय अजीजनत 69 परद्युम्नाद अनिरुद्धॊ ऽहं सर्गॊ मम पुनः पुनः अनिरुद्धात तथा बरह्मा तत्रादि कमलॊद्भवः 70 बरह्मणः सर्वभूतानि चराणि सथावराणि च एतां सृष्टिं विजानीहि कल्पादिषु पुनः पुनः 71 यथा सूर्यस्य गगनाद उदयास्त मयाव इह नस्तौ पुनर बलात काल आनयत्य अमितद्युतिः तथा बलाद अहं पृथ्वीं सर्वभूतहिताय वै 72 सत्त्वैर आक्रान्त सर्वाङ्गां नस्तां सागरमेखलाम आनयिष्यामि सवं सथानं वाराहं रूपम आस्थितः 73 हिरण्याक्षं हनिष्यामि दैतेयं बलगर्वितम नारसिंहं वपुः कृत्वा हिरण्यकशिपुं पुनः सुरकार्ये हनिष्यामि यज्ञघ्नं दितिनन्दनम 74 विरॊचनस्य बलवान बलिः पुत्रॊ महासुरः भविष्यति स शक्रं च सवराज्याच चयावयिष्यति 75 तरैलॊक्ये ऽपहृते तेन विमुखे च शचीपतौ अदित्यां दवादशः पुत्रः संभविष्यामि कश्यपात 76 ततॊ राज्यं परदास्यामि शक्रायामित तेजसे देवताः सथापयिष्यामि सवेषु सथानेषु नारद बलिं चैव करिष्यामि पातालतलवासिनम 77 तरेतायुगे भविष्यामि रामॊ भृगुकुलॊद्वहः कषत्रं चॊत्सादयिष्यामि समृद्धबलवाहनम 78 संधौ तु समनुप्राप्ते तरेतायां दवापरस्य च रामॊ दाशरथिर भूत्वा भविष्यामि जगत्पतिः 79 तरितॊपघाताद वैरूप्यम एकतॊ ऽथ दवितस तथा पराप्स्यतॊ वारणत्वं हि परजापतिसुताव ऋषी 80 तयॊर ये तव अन्वये जाता भविष्यन्ति वनौकसः ते सहाया भविष्यन्ति सुरकार्ये मम दविज 81 ततॊ रक्षःपतिं घॊरं पुलस्त्य कुलपांसनम हनिष्ये रावणं संख्ये सगणं लॊककन्तकम 82 दवापरस्य कलेश चैव संधौ पर्यवसानिके परादुर्भावः कंस हेतॊर मथुरायां भविष्यति 83 तत्राहं दानवान हत्वा सुबहून देवकन्तकान कुशस्थलीं करिष्यामि निवासं दवारकां पुरीम 84 वसानस तत्र वै पुर्याम अदितेर विप्रियं करम हनिष्ये नरकं भौमं मुरं पीथं च दानवम 85 पराग्ज्यॊतिष पुरं रम्यं नाना धनसमन्वितम कुशस्थलीं नयिष्यामि हत्वा वै दानवॊत्तमान 86 शंकरं च महासेनं बान परियहितैषिणम पराजेष्याम्य अथॊद्युक्तौ देवलॊकनमस्कृतौ 87 ततः सुतं बलेर जित्वा बानं बाहुसहस्रिणम विनाशयिष्यामि ततः सर्वान सौभनिवासिनः 88 यः कालयवनः खयातॊ गर्ग तेजॊ ऽभिसंवृतः भविष्यति वधस तस्य मत्त एव दविजॊत्तम 89 जरासंधश च बलवान सर्वराजविरॊधकः भविष्यत्य असुरः सफीतॊ भूमिपालॊ गिरिव्रजे मम बुद्धिपरिस्पन्दाद वधस तस्य भविष्यति 90 समागतेषु बलिषु पृथिव्यां सर्वराजसु वासविः सुसहायॊ वै मम हय एकॊ भविष्यति 91 एवं लॊका वदिष्यन्ति नरनारायणाव ऋषी उद्युक्तौ दहतः कषत्रं लॊककार्यार्थम ईश्वरौ 92 कृत्वा भावावतरणं वसुधाया यथेप्सितम सर्वसात्वत मुख्यानां दवारकायाश च सत्तम करिष्ये परलयं घॊरम आत्मज्ञाति विनाशनम 93 कर्माण्य अपरिमेयानि चतुर्मूर्ति धरॊ हय अहम कृत्वा लॊकान गमिष्यामि सवान अहं बरह्म सत्कृतान 94 हंसॊ हयशिराश चैव परादुर्भावा दविजॊत्तम यदा वेदश्रुतिर नस्ता मया परत्याहृता तदा सवेदाः सश्रुतीकाश च कृताः पूर्वं कृते युगे 95 अतिक्रान्ताः पुराणेषु शरुतास ते यदि वा कव चित अतिक्रान्ताश च बहवः परादुर्भावा ममॊत्तमाः लॊककार्याणि कृत्वा च पुनः सवां परकृतिं गताः 96 न हय एतद बरह्मणा पराप्तम ईदृशं मम दर्शनम यत तवया पराप्तम अद्येह एकान्तगतबुद्धिना 97 एतत ते सर्वम आख्यातं बरह्मन भक्तिमतॊ मया पुराणं च भविष्यं च सरहस्यं च सत्तम 98 एवं स भगवान देवॊ विश्वमूर्ति धरॊ ऽवययः एतावद उक्त्वा वचनं तत्रैवान्तरधीयत 99 नारदॊ ऽपि महातेजाः पराप्यानुग्रहम ईप्सितम नरनारायणौ दरष्टुं पराद्रवद बदराश्रमम 100 इदं महॊपनिषदं चतुर्वेद समन्वितम सांख्ययॊगकृतं तेन पञ्चरात्रानुशब्दितम 101 नारायण मुखॊद्गीतं नारदॊ ऽशरावयत पुनः बरह्मणः सदने तात यथादृष्टं यथा शरुतम 102 [युधिस्थिर] एतद आश्चर्यभूतं हि माहात्म्यं तस्य धीमतः किं बरह्मा न विजानीते यतः शुश्राव नारदात 103 पितामहॊ हि भगवांस तस्माद देवाद अनन्तरः कथं स न विजानीयात परभावम अमितौजसः 104 [भीस्म] महाकल्पसहस्राणि महाकल्पशतानि च समतीतानि राजेन्द्र सर्गाश च परलयाश च ह 105 सर्गस्यादौ समृतॊ बरह्मा परजा सर्ग करः परभुः जानाति देवप्रवरं भूयश चातॊ ऽधिकं नृप परमात्मानम ईशानम आत्मनः परभवं तथा 106 ये तव अन्ये बरह्म सदने सिद्धसंघाः समागताः तेभ्यस तच छरावयाम आस पुराणं वेद संमितम 107 तेषां सकाशात सूर्यश च शरुत्वा वै भावितात्मनाम आत्मानुगामिनां बरह्म शरावयाम आस भारत 108 षट षष्टिर हि सहस्राणि ऋषीणां भावितात्मनाम सूर्यस्य तपतॊ लॊकान निर्मिता ये पुरःसराः तेषाम अकथयत सूर्यः सर्वेषां भावितात्मनाम 109 सूर्यानुगामिभिस तात ऋषिभिस तैर महात्मभिः मेरौ समागता देवाः शराविताश चेदम उत्तमम 110 देवानां तु सकाशाद वै ततः शरुत्वासितॊ दविजः शरावयाम आस राजेन्द्र पितॄणां मुनिसत्तमः 111 मम चापि पिता तात कथयाम आस शंतनुः ततॊ मयैतच छरुत्वा च कीर्तितं तव भारत 112 सुरैर वा मुनिभिर वापि पुराणं यैर इदं शरुतम सर्वे ते परमात्मानं पूजयन्ति पुनः पुनः 113 इदम आख्यानम आर्षेयं पारम्पर्यागतं नृप नावासुदेव भक्ताय तवया देयं कथं चन 114 मत्तॊ ऽनयानि च ते राजन्न उपाख्यान शतानि वै यानि शरुतानि धर्म्याणि तेषां सारॊ ऽयम उद्धृतः 115 सुरासुरैर यथा राजन निर्मथ्यामृतम उद्धृतम एवम एतत पुरा विप्रैः कथामृतम इहॊद्धृतम 116 यश चेदं पथते नित्यं यश चेदं शृणुयान नरः एकान्तभावॊपगत एकान्ते सुसमाहितः 117 पराप्य शवेतं महाद्वीपं भूत्वा चन्द्रप्रभॊ नरः स सहस्रार्चिषं देवं परविशेन नात्र संशयः 118 मुच्येतार्तस तथा रॊगाच छरुत्वेमाम आदितः कथाम जिज्ञासुर लभते कामान भक्तॊ भक्त गतिं वरजेत 119 तवयापि सततं राजन्न अभ्यर्च्यः पुरुषॊत्तमः स हि माता पिता चैव कृत्स्नस्य जगतॊ गुरुः 120 बरह्मण्य देवॊ भगवान परीयतां ते सनातनः युधिष्ठिर महाबाहॊ महाबाहुर जनार्दनः 121 [वैषम्पायन] शरुत्वैतद आख्यान वरं धर्मराज जनमेजय भरातरश चास्य ते सर्वे नारायण पराभवन 122 जितं भगवता तेन पुरुषेणेति भारत नित्यं जप्यपरा भूत्वा सरस्वतीम उदीरयन 123 यॊ हय अस्माकं गुरुः शरेष्ठः कृष्ण दवैपयनॊ मुनिः स जगौ परमं जप्यं नारायणम उदीरयन 124 गत्वान्तरिक्षात सततं कषीरॊदम अमृताशयम पूजयित्वा च देवेशं पुनर आयात सवम आश्रमम |
1
[bhīsma] evaṃ stutaḥ sa bhagavān guhyais tathyaiś ca nāmabhiḥ taṃ muniṃ darśayām āsa nāradaṃ viśvarūpadhṛk 2 kiṃ cic candra viśuddhātmā kiṃ cic candrād viśeṣavān kṛśānu varṇaḥ kiṃ cic ca kiṃ cid dhiṣnyākṛtiḥ prabhuḥ 3 śukapatravarṇaḥ kiṃ cic ca kiṃ cit sphatika saprabhaḥ nīlāñjanacaya prakhyo jātarūpaprabhaḥ kva cit 4 pravālāṅkura varṇaś ca śvetavarṇaḥ kva cid babhau kva cit suvarṇavarṇābho vaidūryasadṛśaḥ kva cit 5 nīlavaidūrya sadṛśa indranīlanibhaḥ kva cit mayūragrīva varṇābho muktāhāra nibhaḥ kva cit 6 etān varṇān bahuvidhān rūpe bibhrat sanātanaḥ sahasranayanaḥ śrīmāñ śataśīrṣaḥ sahasrapāt 7 sahasrodara bāhuś ca avyakta iti ca kva cit oṃkāram udgiran vaktrāt sāvitrīṃ ca tad anvayām 8 śeṣebhyaś caiva vaktrebhyaś caturvedodgataṃ vasu āraṇyakaṃ jagau devo harir nārāyaṇo vaśī 9 vedīṃ kamandaluṃ darbhān mani rūpān athopalān ajinaṃ danda kāṣṭhaṃ ca jvalitaṃ ca hutāśanam dhārayām āsa deveśo hastair yajñapatis tadā 10 taṃ prasannaṃ prasannātmā nārado dvijasattamaḥ vāgyataḥ prayato bhūtvā vavande parameśvaram tam uvāca nataṃ mūrdhnā devānām ādir avyayaḥ 11 ekataś ca dvitaś caiva tritaś caiva maharṣayaḥ imaṃ deśam anuprāptā mama darśanalālasāḥ 12 na ca māṃ te dadṛśire na ca drakṣyati kaś cana ṛte hy ekāntika śreṣṭhāt tvaṃ caivaikāntiko mataḥ 13 mamaitās tanavaḥ śreṣṭhā jātā dharmagṛhe dvija tās tvaṃ bhajasva satataṃ sādhayasva yathāgatam 14 vṛṇīṣva ca varaṃ vipra mattas tvaṃ yam ihecchasi prasanno 'haṃ tavādyeha viśvamūrtir ihāvyayaḥ 15 [nārada] adya me tapaso deva yamasya niyamasya ca sadyaḥ phalam avāptaṃ vai dṛṣṭo yad bhagavān mayā 16 vara eṣa mamātyantaṃ dṛṣṭas tvaṃ yat sanātanaḥ bhagavān viśvadṛk siṃhaḥ sarvamūrtir mahāprabhuḥ 17 [bhīsma] evaṃ saṃdarśayitvā tu nāradaṃ parameṣṭhijam uvāca vacanaṃ bhūyo gaccha nārada māciram 18 ime hy anindriyāhārā madbhaktāś candra varcasaḥ ekāgrāś cintayeyur māṃ naiṣāṃ vighno bhaved iti 19 siddhāś caite mahābhāgāḥ purā hy ekāntino 'bhavan tamo rajo vinirmuktā māṃ pravekṣyanty asaṃśayam 20 na dṛśyaś cakṣuṣā yo 'sau na spṛśyaḥ sparśanena ca na ghreyaś caiva gandhena rasena ca vivarjitaḥ 21 sattvaṃ rajas tamaś caiva na guṇās taṃ bhajanti vai yaś ca sarvagataḥ sākṣī lokasyātmeti kathyate 22 bhūtagrāma śarīreṣu naśyatsu na vinaśyati ajo nityaḥ śāśvataś ca nirguṇo niṣkalas tathā 23 dvir dvādaśebhyas tattvebhyaḥ khyāto yaḥ pañcaviṃśakaḥ puruṣo niṣkriyaś caiva jñānadṛśyaś ca kathyate 24 yaṃ praviśya bhavantīha muktā vai dvijasattama sa vāsudevo vijñeyaḥ paramātmā sanātanaḥ 25 paśya devasya māhātmyaṃ mahimānaṃ ca nārada śubhāśubhaiḥ karmabhir yo na lipyati kadā cana 26 sattvaṃ rajas tamaś caiva guṇān etān pracakṣate ete sarvaśarīreṣu tiṣṭhanti vicaranti ca 27 etān guṇāṃs tu kṣetrajño bhuṅkte naibhiḥ sa bhujyate nirguṇo guṇabhuk caiva guṇasraṣṭā guṇādhikaḥ 28 jagat pratiṣṭhā devarṣe pṛthivy apsu pralīyate jyotiṣy āpaḥ pralīyante jyotir vāyau pralīyate 29 khe vāyuḥ pralayaṃ yāti manasy ākāśam eva ca mano hi paramaṃ bhūtaṃ tad avyakte pralīyate 30 avyaktaṃ puruṣe brahman niṣkriye saṃpralīyate nāsti tasmāt parataraṃ puruṣād vai sanātanāt 31 nityaṃ hi nāsti jagati bhūtaṃ sthāvarajaṅgamam ṛte tam ekaṃ puruṣaṃ vāsudevaṃ sanātanam sarvabhūtātmabhūto hi vāsudevo mahābalaḥ 32 pṛthivī vāyur ākāśam āpo jyotiś ca pañcamam te sametā mahātmānaḥ śarīram iti saṃjñitam 33 tad āviśati yo brahmann adṛśyo laghuvikramaḥ utpanna eva bhavati śarīraṃ ceṣṭayan prabhuḥ 34 na vinā dhātusaṃghātaṃ śarīraṃ bhavati kva cit na ca jīvaṃ vinā brahman dhātavaś ceṣṭayanty uta 35 sa jīvaḥ parisaṃkhyātaḥ śeṣaḥ saṃkarṣaṇaḥ prabhuḥ tasmāt sanatkumāratvaṃ yo labheta svakarmaṇā 36 yasmiṃś ca sarvabhūtāni pralayaṃ yānti saṃkṣaye sa manaḥ sarvabhūtānāṃ pradyumnaḥ paripathyate 37 tasmāt prasūto yaḥ kartā kāryaṃ kāraṇam eva ca yasmāt sarvaṃ prabhavati jagat sthāvarajaṅgamam so 'niruddhaḥ sa īśāno vyaktiḥ sā sarvakarmasu 38 yo vāsudevo bhagavān kṣetrajño nirguṇātmakaḥ jñeyaḥ sa eva bhagavāñ jīvaḥ saṃkarṣaṇaḥ prabhuḥ 39 saṃkarṣaṇāc ca pradyumno mano bhūtaḥ sa ucyate pradyumnād yo 'niruddhas tu so 'haṃkāro maheśvaraḥ 40 mattaḥ sarvaṃ saṃbhavati jagat sthāvarajaṅgamam akṣaraṃ ca kṣaraṃ caiva sac cāsac caiva nārada 41 māṃ praviśya bhavantīha muktā bhaktās tu ye mama ahaṃ hi puruṣo jñeyo niṣkriyaḥ pañcaviṃśakaḥ 42 nirguṇo niṣkalaś caiva nirdvandvo niṣparigrahaḥ etat tvayā na vijñeyaṃ rūpavān iti dṛśyate icchan muhūrtān naśyeyam īśo 'haṃ jagato guruḥ 43 māyā hy eṣā mayā sṛṣṭā yan māṃ paśyasi nārada sarvabhūtaguṇair yuktaṃ naivaṃ tvaṃ jñātum arhasi mayaitat kathitaṃ samyak tava mūrti catuṣṭayam 44 siddhā hy ete mahābhāgā narā hy ekāntino 'bhavan tamo rajo bhyāṃ nirmuktāḥ pravekṣyanti ca māṃ mune 45 ahaṃ kartā ca kāryaṃ ca kāraṇaṃ cāpi nārada ahaṃ hi jīva saṃjño vai mayi jīvaḥ samāhitaḥ maivaṃ te buddhir atrābhūd dṛṣṭo jīvo mayeti ca 46 ahaṃ sarvatrago brahman bhūtagrāmāntar ātmakaḥ bhūtagrāma śarīreṣu naśyatsu na naśāmy aham 47 hiraṇyagarbho lokādiś caturvaktro niruktagaḥ brahmā sanātano devo mama bahv arthacintakaḥ 48 paśyaikādaśa me rudrān dakṣiṇaṃ pārśvam āsthitān dvādaśaiva tathādityān vāmaṃ pārśvaṃ samāsthitān 49 agrataś caiva me paśya vasūn astau surottamān nāsatyaṃ caiva dasraṃ ca bhiṣajau paśya pṛṣṭhataḥ 50 sarvān prajāpatīn paśya paśya sapta ṛṣīn api vedān yajñāṃś ca śataśaḥ paśyāmṛtam athauṣadhīḥ 51 tapāṃsi niyamāṃś caiva yamān api pṛthagvidhān tathāsta guṇam aiśvaryam ekasthaṃ paśya mūrtimat 52 śriyaṃ lakṣmīṃ ca kīrtiṃ ca pṛthivīṃ ca kakudminīm vedānāṃ mātaraṃ paśya mat sthāṃ devīṃ sarasvatīm 53 dhruvaṃ ca jyotiṣāṃ śreṣṭhaṃ paśya nārada khecaram ambho dharān samudrāṃś ca sarāṃsi saritas tathā 54 mūrtimantaḥ pitṛgaṇāṃś caturaḥ paśya sattama trīṃś caivemān guṇān paśya matsthān mūrti vivarjitān 55 devakāryād api mune pitṛkāryaṃ viśiṣyate devānāṃ ca pitṝṇāṃ ca pitā hy eko 'ham āditaḥ 56 ahaṃ hayaśiro bhūtvā samudre paścimottare pibāmi suhutaṃ havyaṃ kavyaṃ ca śraddhayānvitam 57 mayā sṛṣṭaḥ purā brahmā mad yajñam ayajat svayam tatas tasmai varān prīto dadāv aham anuttamān 58 mat putratvaṃ ca kalpādau lokādhyakṣatvam eva ca ahaṃkārakṛtaṃ caiva nāma paryāya vācakam 59 tvayā kṛtāṃ ca maryādāṃ nātikrāmyati kaś cana tvaṃ caiva varado brahman varepsūnāṃ bhaviṣyasi 60 surāsuragaṇānāṃ ca ṛṣīṇāṃ ca tapodhana pitṝṇāṃ ca mahābhāga satataṃ saṃśitavrata vividhānāṃ ca bhūtānāṃ tvam upāsyo bhaviṣyasi 61 prādurbhāvagataś cāhaṃ surakāryeṣu nityadā anuśāsyas tvayā brahmaṇṇiyojyaś ca suto yathā 62 etāṃś cānyāṃś ca rucirān brahmaṇe 'mitatejase ahaṃ dattvā varān prīto nivṛtti paramo 'bhavam 63 nirvānaṃ sarvadharmāṇāṃ nivṛttiḥ paramā smṛtā tasmān nivṛttim āpannaś caret sarvāṅganirvṛtaḥ 64 vidyā sahāyavantaṃ mām ādityasthaṃ sanātanam kapilaṃ prāhur ācāryāḥ sāṃkhyaniścita niścayāḥ 65 hiraṇyagarbho bhagavān eṣa chandasi suṣṭutaḥ so 'haṃ yogagatir brahman yogaśāstreṣu śabditaḥ 66 eṣo 'haṃ vyaktim āgamya tiṣṭhāmi divi śāśvataḥ tato yugasahasrānte saṃhariṣye jagat punaḥ kṛtvātma sthāni bhūtāni sthāvarāṇi carāṇi ca 67 ekākī vidyayā sārdhaṃ vihariṣye dvijottama tato bhūyo jagat sarvaṃ kariṣyāmīha vidyayā 68 asman mūrtiś caturthī yā sāsṛjac cheṣam avyayam sa hi saṃkarṣaṇaḥ proktaḥ pradyumnaṃ so 'py ajījanat 69 pradyumnād aniruddho 'haṃ sargo mama punaḥ punaḥ aniruddhāt tathā brahmā tatrādi kamalodbhavaḥ 70 brahmaṇaḥ sarvabhūtāni carāṇi sthāvarāṇi ca etāṃ sṛṣṭiṃ vijānīhi kalpādiṣu punaḥ punaḥ 71 yathā sūryasya gaganād udayāsta mayāv iha nastau punar balāt kāla ānayaty amitadyutiḥ tathā balād ahaṃ pṛthvīṃ sarvabhūtahitāya vai 72 sattvair ākrānta sarvāṅgāṃ nastāṃ sāgaramekhalām ānayiṣyāmi svaṃ sthānaṃ vārāhaṃ rūpam āsthitaḥ 73 hiraṇyākṣaṃ haniṣyāmi daiteyaṃ balagarvitam nārasiṃhaṃ vapuḥ kṛtvā hiraṇyakaśipuṃ punaḥ surakārye haniṣyāmi yajñaghnaṃ ditinandanam 74 virocanasya balavān baliḥ putro mahāsuraḥ bhaviṣyati sa śakraṃ ca svarājyāc cyāvayiṣyati 75 trailokye 'pahṛte tena vimukhe ca śacīpatau adityāṃ dvādaśaḥ putraḥ saṃbhaviṣyāmi kaśyapāt 76 tato rājyaṃ pradāsyāmi śakrāyāmita tejase devatāḥ sthāpayiṣyāmi sveṣu sthāneṣu nārada baliṃ caiva kariṣyāmi pātālatalavāsinam 77 tretāyuge bhaviṣyāmi rāmo bhṛgukulodvahaḥ kṣatraṃ cotsādayiṣyāmi samṛddhabalavāhanam 78 saṃdhau tu samanuprāpte tretāyāṃ dvāparasya ca rāmo dāśarathir bhūtvā bhaviṣyāmi jagatpatiḥ 79 tritopaghātād vairūpyam ekato 'tha dvitas tathā prāpsyato vāraṇatvaṃ hi prajāpatisutāv ṛṣī 80 tayor ye tv anvaye jātā bhaviṣyanti vanaukasaḥ te sahāyā bhaviṣyanti surakārye mama dvija 81 tato rakṣaḥpatiṃ ghoraṃ pulastya kulapāṃsanam haniṣye rāvaṇaṃ saṃkhye sagaṇaṃ lokakantakam 82 dvāparasya kaleś caiva saṃdhau paryavasānike prādurbhāvaḥ kaṃsa hetor mathurāyāṃ bhaviṣyati 83 tatrāhaṃ dānavān hatvā subahūn devakantakān kuśasthalīṃ kariṣyāmi nivāsaṃ dvārakāṃ purīm 84 vasānas tatra vai puryām aditer vipriyaṃ karam haniṣye narakaṃ bhaumaṃ muraṃ pīthaṃ ca dānavam 85 prāgjyotiṣa puraṃ ramyaṃ nānā dhanasamanvitam kuśasthalīṃ nayiṣyāmi hatvā vai dānavottamān 86 śaṃkaraṃ ca mahāsenaṃ bāna priyahitaiṣiṇam parājeṣyāmy athodyuktau devalokanamaskṛtau 87 tataḥ sutaṃ baler jitvā bānaṃ bāhusahasriṇam vināśayiṣyāmi tataḥ sarvān saubhanivāsinaḥ 88 yaḥ kālayavanaḥ khyāto garga tejo 'bhisaṃvṛtaḥ bhaviṣyati vadhas tasya matta eva dvijottama 89 jarāsaṃdhaś ca balavān sarvarājavirodhakaḥ bhaviṣyaty asuraḥ sphīto bhūmipālo girivraje mama buddhiparispandād vadhas tasya bhaviṣyati 90 samāgateṣu baliṣu pṛthivyāṃ sarvarājasu vāsaviḥ susahāyo vai mama hy eko bhaviṣyati 91 evaṃ lokā vadiṣyanti naranārāyaṇāv ṛṣī udyuktau dahataḥ kṣatraṃ lokakāryārtham īśvarau 92 kṛtvā bhāvāvataraṇaṃ vasudhāyā yathepsitam sarvasātvata mukhyānāṃ dvārakāyāś ca sattama kariṣye pralayaṃ ghoram ātmajñāti vināśanam 93 karmāṇy aparimeyāni caturmūrti dharo hy aham kṛtvā lokān gamiṣyāmi svān ahaṃ brahma satkṛtān 94 haṃso hayaśirāś caiva prādurbhāvā dvijottama yadā vedaśrutir nastā mayā pratyāhṛtā tadā savedāḥ saśrutīkāś ca kṛtāḥ pūrvaṃ kṛte yuge 95 atikrāntāḥ purāṇeṣu śrutās te yadi vā kva cit atikrāntāś ca bahavaḥ prādurbhāvā mamottamāḥ lokakāryāṇi kṛtvā ca punaḥ svāṃ prakṛtiṃ gatāḥ 96 na hy etad brahmaṇā prāptam īdṛśaṃ mama darśanam yat tvayā prāptam adyeha ekāntagatabuddhinā 97 etat te sarvam ākhyātaṃ brahman bhaktimato mayā purāṇaṃ ca bhaviṣyaṃ ca sarahasyaṃ ca sattama 98 evaṃ sa bhagavān devo viśvamūrti dharo 'vyayaḥ etāvad uktvā vacanaṃ tatraivāntaradhīyata 99 nārado 'pi mahātejāḥ prāpyānugraham īpsitam naranārāyaṇau draṣṭuṃ prādravad badarāśramam 100 idaṃ mahopaniṣadaṃ caturveda samanvitam sāṃkhyayogakṛtaṃ tena pañcarātrānuśabditam 101 nārāyaṇa mukhodgītaṃ nārado 'śrāvayat punaḥ brahmaṇaḥ sadane tāta yathādṛṣṭaṃ yathā śrutam 102 [yudhisthira] etad āścaryabhūtaṃ hi māhātmyaṃ tasya dhīmataḥ kiṃ brahmā na vijānīte yataḥ śuśrāva nāradāt 103 pitāmaho hi bhagavāṃs tasmād devād anantaraḥ kathaṃ sa na vijānīyāt prabhāvam amitaujasaḥ 104 [bhīsma] mahākalpasahasrāṇi mahākalpaśatāni ca samatītāni rājendra sargāś ca pralayāś ca ha 105 sargasyādau smṛto brahmā prajā sarga karaḥ prabhuḥ jānāti devapravaraṃ bhūyaś cāto 'dhikaṃ nṛpa paramātmānam īśānam ātmanaḥ prabhavaṃ tathā 106 ye tv anye brahma sadane siddhasaṃghāḥ samāgatāḥ tebhyas tac chrāvayām āsa purāṇaṃ veda saṃmitam 107 teṣāṃ sakāśāt sūryaś ca śrutvā vai bhāvitātmanām ātmānugāmināṃ brahma śrāvayām āsa bhārata 108 ṣaṭ ṣaṣṭir hi sahasrāṇi ṛṣīṇāṃ bhāvitātmanām sūryasya tapato lokān nirmitā ye puraḥsarāḥ teṣām akathayat sūryaḥ sarveṣāṃ bhāvitātmanām 109 sūryānugāmibhis tāta ṛṣibhis tair mahātmabhiḥ merau samāgatā devāḥ śrāvitāś cedam uttamam 110 devānāṃ tu sakāśād vai tataḥ śrutvāsito dvijaḥ śrāvayām āsa rājendra pitṝṇāṃ munisattamaḥ 111 mama cāpi pitā tāta kathayām āsa śaṃtanuḥ tato mayaitac chrutvā ca kīrtitaṃ tava bhārata 112 surair vā munibhir vāpi purāṇaṃ yair idaṃ śrutam sarve te paramātmānaṃ pūjayanti punaḥ punaḥ 113 idam ākhyānam ārṣeyaṃ pāramparyāgataṃ nṛpa nāvāsudeva bhaktāya tvayā deyaṃ kathaṃ cana 114 matto 'nyāni ca te rājann upākhyāna śatāni vai yāni śrutāni dharmyāṇi teṣāṃ sāro 'yam uddhṛtaḥ 115 surāsurair yathā rājan nirmathyāmṛtam uddhṛtam evam etat purā vipraiḥ kathāmṛtam ihoddhṛtam 116 yaś cedaṃ pathate nityaṃ yaś cedaṃ śṛṇuyān naraḥ ekāntabhāvopagata ekānte susamāhitaḥ 117 prāpya śvetaṃ mahādvīpaṃ bhūtvā candraprabho naraḥ sa sahasrārciṣaṃ devaṃ praviśen nātra saṃśayaḥ 118 mucyetārtas tathā rogāc chrutvemām āditaḥ kathām jijñāsur labhate kāmān bhakto bhakta gatiṃ vrajet 119 tvayāpi satataṃ rājann abhyarcyaḥ puruṣottamaḥ sa hi mātā pitā caiva kṛtsnasya jagato guruḥ 120 brahmaṇya devo bhagavān prīyatāṃ te sanātanaḥ yudhiṣṭhira mahābāho mahābāhur janārdanaḥ 121 [vaiṣampāyana] śrutvaitad ākhyāna varaṃ dharmarāj janamejaya bhrātaraś cāsya te sarve nārāyaṇa parābhavan 122 jitaṃ bhagavatā tena puruṣeṇeti bhārata nityaṃ japyaparā bhūtvā sarasvatīm udīrayan 123 yo hy asmākaṃ guruḥ śreṣṭhaḥ kṛṣṇa dvaipayano muniḥ sa jagau paramaṃ japyaṃ nārāyaṇam udīrayan 124 gatvāntarikṣāt satataṃ kṣīrodam amṛtāśayam pūjayitvā ca deveśaṃ punar āyāt svam āśramam |
The Mahabharata in Sanskrit
Book 12
Chapter 327
|
1
[जनमेजय] कथं स भगवान देवॊ यज्ञेष्व अग्रहरः परभुः यज्ञधारी च सततं वेदवेदाङ्गवित तथा 2 निवृत्तं चास्थितॊ धर्मं कषेमी भागवत परियः परवृत्ति धर्मान विदधे स एव भगवान परभुः 3 कथं परवृत्ति धर्मेषु भागार्हा देवताः कृताः कथं निवृत्ति धर्माश च कृता वयावृत्तबुद्धयः 4 एतं नः संशयं विप्र छिन्धि गुह्यं सनातनम तवया नारायण कथा शरुता वै धर्मसंहिता 5 इमे सब्रह्मका लॊकाः ससुरासुरमानवाः करियास्व अभ्युदयॊक्तासु सक्ता दृश्यन्ति सर्वशः मॊक्षश चॊक्तस तवया बरह्मन निर्वानं परमं सुखम 6 ये च मुक्ता भवन्तीह पुण्यपापविवर्जिताः ते सहस्रार्चिषं देवं परविशन्तीति शुश्रुमः 7 अहॊ हि दुरनुष्ठेयॊ मॊक्षधर्मः सनातनः यं हित्वा देवताः सर्वा हव्यकव्य भुजॊ ऽभवन 8 किं नु बरह्मा च रुद्रश च शक्रश च बलभित परभुः सूर्यस ताराधिपॊ वायुर अग्निर वरुण एव च आकाशं जगती चैव ये च शेषा दिवौकसः 9 परलयं न विजानन्ति आत्मनः परिनिर्मितम ततस तेनास्थिता मार्गं धरुवम अक्षयम अव्ययम 10 समृत्वा कालपरीमाणं परवृत्तिं ये समास्थिताः दॊषः कालपरीमाणे महान एष करियावताम 11 एतन मे संशयं विप्र हृदि शल्यम इवार्पितम छिन्धीतिहास कथनात परं कौतूहलं हि मे 12 कथं भागहराः परॊक्ता देवताः करतुषु दविज किमर्थं चाध्वरे बरह्मन्न इज्यन्ते तरिदिवौकसः 13 ये च भागं परगृह्णन्ति यज्ञेषु दविजसत्तम ते यजन्तॊ महायज्ञैः कस्य भागं ददन्ति वै 14 [वैषम्पायन] अहॊ गूढतमः परश्नस तवया पृष्टॊ जनेश्वर नातप्त तपसा हय एष नावेद विदुषा तथा नापुराणविदा चापि शक्यॊ वयाहर्तुम अञ्जसा 15 हन्त ते कथयिष्यामि यन मे पृष्ठः पुरा गुरुः कृष्णद्वैपायनॊ वयासॊ वेद वयासॊ महान ऋषिः 16 सुमन्तुर जैमिनिश चैव पैलश च सुदृध वरतः अहं चतुर्थः शिष्यॊ वै पञ्चमश च शुकः समृतः 17 एतान समागतान सर्वान पञ्च शिष्यान दमान्वितान शौचाचार समायुक्ताञ जितक्रॊधाञ जितेन्द्रियान 18 वेदान अध्यापयाम आस महाभारत पञ्चमान मेरौ गिरिवरे रम्ये सिद्धचारणसेविते 19 तेषाम अभ्यस्यतां वेदान कदा चित संशयॊ ऽभवत एष वै यस तवया पृष्टस तेन तेषां परकीर्तितः ततः शरुतॊ मया चापि तवाख्येयॊ ऽदय भारत 20 शिष्याणां वचनं शरुत्वा सर्वाज्ञान तमॊनुदः पराशर सुतः शरीमान वयासॊ वाक्यम उवाच ह 21 मया हि सुमहत तप्तं तपः परमदारुणम भूतं भव्यं भविष्यच च जानीयाम इति सत्तमाः 22 तस्य मे तप्ततपसॊ निगृहीतेन्द्रियस्य च नारायण परसादेन कषीरॊदस्यानुकूलतः 23 तरैकालिकम इदं जञानं परादुर्भूतं यथेप्सितम तच छृणुध्वं यथा जञानं वक्ष्ये संशयम उत्तमम यथावृत्तं हि कल्पादौ दृष्ठं मे जञानचक्षुषा 24 परमात्मेति यं पराहुः सांख्ययॊगविदॊ जनाः महापुरुष संज्ञां स लभते सवेन कर्मणा 25 तस्मात परसूतम अव्यक्तं परधानं तद विदुर बुधाः अव्यक्ताद वयक्तम उत्पन्नं लॊकसृष्ट्य अर्थम ईश्वरात 26 अनिरुद्धॊ हि लॊकेषु महान आत्मेति कथ्यते यॊ ऽसौ वयक्तत्वम आपन्नॊ निर्ममे च पितामहम सॊ ऽहंकार इति परॊक्तः सर्वतेजॊमयॊ हि सः 27 पृथिवी वायुर आकाशम आपॊ जयॊतिश च पञ्चमम अहंकारप्रसूतानि महाभूतानि भारत 28 महाभूतानि सृष्ट्वाथ तद गुणान निर्ममे पुनः भूतेभ्यश चैव निष्पन्ना मूर्तिमन्तॊ ऽसतताञ शृणु 29 मरीचिर अङ्गिराश चात्रिः पुलस्त्यः पुलहः करतुः वसिष्ठश च महात्मा वै मनुः सवायम्भुवस तथा जञेयाः परकृतयॊ ऽसतौ ता यासु लॊकाः परतिष्ठिताः 30 वेदान वेदाङ्गसंयुक्तान यज्ञान यज्ञाङ्गसंयुतान निर्ममे लॊकसिद्ध्यर्थं बरह्मा लॊकपितामहः अस्ताभ्यः परकृतिभ्यश च जातं विश्वम इदं जगत 31 रुद्रॊ रॊषात्मकॊ जातॊ दशान्यान सॊ ऽसृजत सवयम एकादशैते रुद्रास तु विकाराः पुरुषाः समृताः 32 ते रुद्राः परकृतिश चैव सर्वे चैव सुरर्षयः उत्पन्ना लॊकसिद्ध्यर्थं बरह्माणं समुपस्थिताः 33 वयं हि सृष्टा भगवंस तवया वै परभविष्णुना येन यस्मिन्न अधीकारे वर्तितव्यं पितामह 34 यॊ ऽसौ तवया विनिर्दिष्टॊ अधिकारॊ ऽरथचिन्तकः परिपाल्यः कथं तेन सॊ ऽधिकारॊ ऽधिकारिणा 35 परदिशस्व बलं तस्य यॊ ऽधिकारार्थ चिन्तकः एवम उक्तॊ महादेवॊ देवांस तान इदम अब्रवीत 36 साध्व अहं जञापितॊ देवा युष्माभिर भद्रम अस्तु वः ममाप्य एषा समुत्पन्ना चिन्ता या भवतां मता 37 लॊकतन्त्रस्य कृत्स्नस्य कथं कार्यः परिग्रहः कथं बलक्षयॊ न सयाद युष्माकं हय आत्मनश च मे 38 इतः सर्वे ऽपि गच्छामः शरणं लॊकसाक्षिणम महापुरुषम अव्यक्तं स नॊ वक्ष्यति यद धितम 39 ततस ते बरह्मणा सार्धम ऋषयॊ विबुधास तथा कषीरॊदस्यॊत्तरं कूलं जग्मुर लॊकहितार्थिनः 40 ते तपः समुपातिष्ठन बरह्मॊक्तं वेद कल्पितम स महानियमॊ नाम तपश्चर्या सुदारुणा 41 ऊर्ध्वं दृष्टिर बाहवश च एकाग्रं च मनॊ ऽभवत एकपादस्थिताः सम्यक काष्ठ भूताः समाहिताः 42 दिव्यं वर्षसहस्रं ते तपस तप्त्वा तद उत्तमम शुश्रुवुर मधुरां वानीं वेदवेदाङ्गभूषिताम 43 भॊ भॊः सब्रह्मका देवा ऋषयश च तपॊधनाः सवागतेनार्च्य वः सर्वाञ शरावये वाक्यम उत्तमम 44 विज्ञातं वॊ मया कार्यं तच च लॊकहितं महत परवृत्ति युक्तं कर्तव्यं युष्मत पराणॊपबृंहणम 45 सुतप्तं वस तपॊ देवा ममाराधन काम्यया भॊक्ष्यथास्य महासत्त्वास तपसः फलम उत्तमम 46 एष बरह्मा लॊकगुरुः सर्वलॊकपितामहः यूयं च विबुधश्रेष्ठा मां यजध्वं समाहितः 47 सर्वे भागान कल्पयध्वं यज्ञेषु मम नित्यशः तथा शरेयॊ विधास्यामि यथाधीकारम ईश्वराः 48 शरुत्वैतद देवदेवस्य वाक्यं हृष्टतनू रुहाः ततस ते विबुधाः सर्वे बरह्मा ते च महर्षयः 49 वेद दृष्टेन विधिना वैष्नवं करतुम आहरन तस्मिन सत्त्रे तदा बरह्मा सवयं भागम अकल्पयत देवा देवर्षयश चैव सर्वे भागान अकल्पयन 50 ते कार्ययुगधर्माणॊ भागाः परमसत्कृताः परापुर आदित्यवर्णं तं पुरुषं तमसः परम बृहन्तं सर्वगं देवम ईशानं वरदं परभुम 51 ततॊ ऽथ वरदॊ देवस तान सर्वान अमरान सथितान अशरीरॊ बभासेदं वाक्यं खस्थॊ महेश्वरः 52 येन यः कल्पितॊ भागः स तथा समुपागतः परीतॊ ऽहं परदिशाम्य अद्य फलम आवृत्ति लक्षणम 53 एतद वॊ लक्षणं देवा मत्प्रसाद समुद्भवम यूयं यज्ञैर इज्यमानाः समाप्तवरदक्षिणैः युगे युगे भविष्यध्वं परवृत्ति फलभॊगिनः 54 यज्ञैर ये चापि यक्ष्यन्ति सर्वलॊकेषु वै सुराः कल्पयिष्यन्ति वॊ भागांस ते नरा वेद कल्पितान 55 यॊ मे यथाकल्पितवान भागम अस्मिन महाक्रतौ स तथा यज्ञभागार्हॊ वेद सूत्रे मया कृतः 56 यूयं लॊकान धारयध्वं यज्ञभागफलॊदिताः सर्वार्थचिन्तका लॊके यथाधीकार निर्मिताः 57 याः करियाः परचरिष्यन्ति परवृत्ति फलसत्कृताः ताभिर आप्यायित बला लॊकान वै धारयिष्यथ 58 यूयं हि भाविता लॊके सर्वयज्ञेषु मानवैः मां ततॊ भावयिष्यध्वम एषा वॊ भावना मम 59 इत्य अर्थं निर्मिता वेदा यज्ञाश चौषधिभिः सह एभिः सम्यक परयुक्तैर हि परीयन्ते देवताः कषितौ 60 निर्मानम एतद युष्माकं परवृत्ति गुणकल्पितम मया कृतं सुरश्रेष्ठा यावत कल्पक्षयाद इति चिन्तयध्वं लॊकहितं यथाधीकारम ईश्वराः 61 मरीचिर अङ्गिराच चात्रिः पुलस्त्यः पुलहः करतुः वसिष्ठ इति सप्तैते मानसा निर्मिता हि वै 62 एते वेदविदॊ मुख्या वेदाचार्याश च कल्पिताः परवृत्ति धर्मिणश चैव पराजापत्येन कल्पिताः 63 अयं करियावतां पन्था वयक्ती भूतः सनातनः अनिरुद्ध इति परॊक्तॊ लॊकसर्ग करः परभुः 64 सनः सनत्सुजातश च सनकः ससनन्दनः सनत्कुमारः कपिलः सप्तमश च सनातनः 65 सप्तैते मानसाः परॊक्ता ऋषयॊ बरह्मणः सुताः सवयम आगतविज्ञाना निवृत्तं धर्मम आस्थिताः 66 एते यॊगविदॊ मुख्याः सांख्यधर्मविदस तथा आचार्या मॊक्षशास्त्रे च मॊक्षधर्मप्रवर्तकाः 67 यतॊ ऽहं परसृतः पूर्वम अव्यक्तात तरिगुणॊ महान तस्मात परतरॊ यॊ ऽसौ कषेत्रज्ञ इति कल्पितः सॊ ऽहं करियावतां पन्थाः पुनर आवृत्ति दुर्लभः 68 यॊ यथा निर्मितॊ जन्तुर यस्मिन यस्मिंश च कर्मणि परवृत्तौ वा निवृत्तौ वा तत फलं सॊ ऽशनुते ऽवशः 69 एष लॊकगुरुर बरह्मा जगद आदि करः परभुः एष माता पिता चैव युष्माकं च पितामहः मयानुशिष्टॊ भविता सर्वभूतवरप्रदः 70 अस्य चैवानुजॊ रुद्रॊ ललाताद यः समुत्थितः बरह्मानुशिष्टॊ भविता सर्वत्र सवर परदः 71 गच्छध्वं सवान अधीकारांश चिन्तयध्वं यथाविधि परवर्तन्तां करियाः सर्वाः सर्वलॊकेषु माचिरम 72 परदृश्यन्तां च कर्माणि परानिनां गतयस तथा परिनिर्मित कालानि आयूंसि च सुरॊत्तमाः 73 इदं कृतयुगं नाम कालः शरेष्ठः परवर्तते अहिंस्या यज्ञपशवॊ युगे ऽसमिन नैतद अन्यथा चतुर्पात सकलॊ धर्मॊ भविष्यत्य अत्र वै सुराः 74 ततस तरेतायुगं नाम तरयी यत्र भविष्यति परॊक्षिता यत्र पशवॊ वधं पराप्स्यन्ति वै मखे तत्र पादचतुर्थॊ वै धर्मस्य न भविष्यति 75 ततॊ वै दवापरं नाम मिश्रः कालॊ भविष्यति दविपादहीनॊ धर्मश च युगे तस्मिन भविष्यति 76 ततस तिष्ये ऽथ संप्राप्ते युगे कलिपुरस्कृते एकपादस्थितॊ धर्मॊ यत्र तत्र भविष्यति 77 [देवाह] एकपादस्थिते धर्मे यत्र कव चन गामिनि कथं कर्तव्यम अस्माभिर भवगंस तद वदस्व नः 78 [षरीभगवान] यत्र वेदाश च यज्ञाश च तपः सत्यं दमस तथा अहिंसा धर्मसंयुक्ताः परचरेयुः सुरॊत्तमाः स वै देशः सेवितव्यॊ मा वॊ ऽधर्मः पदा सपृशेत 79 [वयास] ते ऽनुशिष्टा भगवता देवाः सर्षिगणास तथा नमस्कृत्वा भगवते जग्मुर देशान यथेप्सितान 80 गतेषु तरिदिवौकः सुब्रह्मैकः पर्यवस्थितः दिदृक्षुर भगवन्तं तम अनिरुद्ध तनौ सथितम 81 तं देवॊ दर्शयाम आस कृत्वा हयशिरॊ महत साङ्गान आवर्तयन वेदान कमन्दलु गणित्र धृक 82 ततॊ ऽशवशिरसं दृष्ट्वा तं देवम अमितौजसम लॊककर्ता परभुर बरह्मा लॊकानां हितकाम्यया 83 मूर्ध्ना परनम्य वरदं तस्तौ पराञ्जलिर अग्रतः स परिष्वज्य देवेन वचनं शरावितस तदा 84 लॊककार्यगतीः सर्वास तवं चिन्तय यथाविधि धाता तवं सर्वभूतानां तवं परभुर जगतॊ गुरुः तवय्य आवेशितभारॊ ऽहं धृतिं पराप्स्याम्य अथाञ्जसा 85 यदा च सुरकार्यं ते अविषह्यं भविष्यति परादुर्भावं गमिष्यामि तदात्म जञानदेशिकः 86 एवम उक्त्वा हयशिरास तत्रैवान्तरधीयत तेनानुशिष्टॊ बरह्मापि सवं लॊकम अचिराद गतः 87 एवम एष महाभागः पद्मनाभः सनातनः यज्ञेष्व अग्रहरः परॊक्तॊ यज्ञधारी च नित्यदा 88 निवृत्तिं चास्थितॊ धर्मं गतिम अक्षय धर्मिणाम परवृत्ति धर्मान विदधे कृत्वा लॊकस्य चित्रताम 89 सादिः स मध्यः स चान्तः परजानां; स धाता स धेयः स कर्ता स कार्यम युगान्ते स सुप्तः सुसंक्षिप्य लॊकान; युगादौ परबुद्धॊ जगद धयुत्ससर्ज 90 तस्मै नमध्वं देवाय निर्गुणाय गुणात्मने अजाय विश्वरूपाय धाम्ने सर्वदिवौकसाम 91 महाभूताधिपतये रुद्राणां पतये तथा आदित्यपतये चैव वसूनां पतये तथा 92 अश्विभ्यां पतये चैव मरुतां पतये तथा वेद यज्ञाधिपतये वेदाङ्गपतये ऽपि च 93 समुद्रवासिने नित्यं हरये मुञ्ज केशिने शान्तये सर्वभूतानां मॊक्षधर्मानुभासिने 94 तपसां तेजसां चैव पतये यशसॊ ऽपि च वाचश च पतये नित्यं सरितां पतये तथा 95 कपर्दिने वराहाय एकशृङ्गाय धीमते विवस्वते ऽशवशिरसे चतुर्मूर्ति धृते सदा 96 गुह्याय जञानदृश्याय अक्षराय कषराय च एष देवः संचरति सर्वत्रगतिर अव्ययः 97 एवम एतत पुरा दृष्टं मया वै जञानचक्षुषा कथितं तच च वः सर्वं मया पृष्टेन तत्त्वतः 98 करियतां मद्वचः शिष्याः सेव्यतां हरिर ईश्वरः गीयतां वेद शब्दैश च पूज्यतां च यथाविधि 99 [वैषम्पायन] इत्य उक्तास तु वयं तेन वेद वयासेन धीमता सर्वे शिष्याः सुतश चास्य शुकः परमधर्मवित 100 स चास्माकम उपाध्यायः सहास्माभिर विशां पते चतुर्वेदॊद्गताभिश च ऋग्भिस तम अभितुष्टुवे 101 एतत ते सर्वम आख्यातं यन मां तवं परिपृच्छसि एवं मे ऽकथयद राजन पुरा दवैपायनॊ गुरुः 102 यश चेदं शृणुयान नित्यं यश चेदं परिकीर्तयेत नमॊ भगवते कृत्वा समाहित मना नरः 103 भवत्य अरॊगॊ दयुतिमान बलरूपसमन्वितः आतुरॊ मुच्यते रॊगाद बद्धॊमुच्येत बन्धनात 104 कामकामी लभेत कामं दीर्घम आयुर अवाप्नुयात बराह्मणः सर्ववेदी सयात कषत्रियॊ विजयी भवेत वैश्यॊ विपुललाभः सयाच छूद्रः सुखम अवाप्नुयात 105 अपुत्रॊ लभते पुत्रं कन्या चैवेप्सितं पतिम लग्न गर्भा विमुच्येत गर्भिणी जनयेत सुतम वन्ध्या परसवम आप्नॊति पुत्रपौत्र समृद्धिमत 106 कषेमेण गच्छेद अध्वानम इदं यः पथते पथि यॊ यं कामं कामयते स तम आप्नॊति च धरुवम 107 इदं महर्षेर वचनं विनिश्चितं; महात्मनः पुरुषवरस्य कीर्तनम समागमं चर्षिदिवौकसाम इमं; निशम्य भक्ताः सुसुखं लभन्ते |
1
[janamejaya] kathaṃ sa bhagavān devo yajñeṣv agraharaḥ prabhuḥ yajñadhārī ca satataṃ vedavedāṅgavit tathā 2 nivṛttaṃ cāsthito dharmaṃ kṣemī bhāgavata priyaḥ pravṛtti dharmān vidadhe sa eva bhagavān prabhuḥ 3 kathaṃ pravṛtti dharmeṣu bhāgārhā devatāḥ kṛtāḥ kathaṃ nivṛtti dharmāś ca kṛtā vyāvṛttabuddhayaḥ 4 etaṃ naḥ saṃśayaṃ vipra chindhi guhyaṃ sanātanam tvayā nārāyaṇa kathā śrutā vai dharmasaṃhitā 5 ime sabrahmakā lokāḥ sasurāsuramānavāḥ kriyāsv abhyudayoktāsu saktā dṛśyanti sarvaśaḥ mokṣaś coktas tvayā brahman nirvānaṃ paramaṃ sukham 6 ye ca muktā bhavantīha puṇyapāpavivarjitāḥ te sahasrārciṣaṃ devaṃ praviśantīti śuśrumaḥ 7 aho hi duranuṣṭheyo mokṣadharmaḥ sanātanaḥ yaṃ hitvā devatāḥ sarvā havyakavya bhujo 'bhavan 8 kiṃ nu brahmā ca rudraś ca śakraś ca balabhit prabhuḥ sūryas tārādhipo vāyur agnir varuṇa eva ca ākāśaṃ jagatī caiva ye ca śeṣā divaukasaḥ 9 pralayaṃ na vijānanti ātmanaḥ parinirmitam tatas tenāsthitā mārgaṃ dhruvam akṣayam avyayam 10 smṛtvā kālaparīmāṇaṃ pravṛttiṃ ye samāsthitāḥ doṣaḥ kālaparīmāṇe mahān eṣa kriyāvatām 11 etan me saṃśayaṃ vipra hṛdi śalyam ivārpitam chindhītihāsa kathanāt paraṃ kautūhalaṃ hi me 12 kathaṃ bhāgaharāḥ proktā devatāḥ kratuṣu dvija kimarthaṃ cādhvare brahmann ijyante tridivaukasaḥ 13 ye ca bhāgaṃ pragṛhṇanti yajñeṣu dvijasattama te yajanto mahāyajñaiḥ kasya bhāgaṃ dadanti vai 14 [vaiṣampāyana] aho gūḍhatamaḥ praśnas tvayā pṛṣṭo janeśvara nātapta tapasā hy eṣa nāveda viduṣā tathā nāpurāṇavidā cāpi śakyo vyāhartum añjasā 15 hanta te kathayiṣyāmi yan me pṛṣṭhaḥ purā guruḥ kṛṣṇadvaipāyano vyāso veda vyāso mahān ṛṣiḥ 16 sumantur jaiminiś caiva pailaś ca sudṛdha vrataḥ ahaṃ caturthaḥ śiṣyo vai pañcamaś ca śukaḥ smṛtaḥ 17 etān samāgatān sarvān pañca śiṣyān damānvitān śaucācāra samāyuktāñ jitakrodhāñ jitendriyān 18 vedān adhyāpayām āsa mahābhārata pañcamān merau girivare ramye siddhacāraṇasevite 19 teṣām abhyasyatāṃ vedān kadā cit saṃśayo 'bhavat eṣa vai yas tvayā pṛṣṭas tena teṣāṃ prakīrtitaḥ tataḥ śruto mayā cāpi tavākhyeyo 'dya bhārata 20 śiṣyāṇāṃ vacanaṃ śrutvā sarvājñāna tamonudaḥ parāśara sutaḥ śrīmān vyāso vākyam uvāca ha 21 mayā hi sumahat taptaṃ tapaḥ paramadāruṇam bhūtaṃ bhavyaṃ bhaviṣyac ca jānīyām iti sattamāḥ 22 tasya me taptatapaso nigṛhītendriyasya ca nārāyaṇa prasādena kṣīrodasyānukūlataḥ 23 traikālikam idaṃ jñānaṃ prādurbhūtaṃ yathepsitam tac chṛṇudhvaṃ yathā jñānaṃ vakṣye saṃśayam uttamam yathāvṛttaṃ hi kalpādau dṛṣṭhaṃ me jñānacakṣuṣā 24 paramātmeti yaṃ prāhuḥ sāṃkhyayogavido janāḥ mahāpuruṣa saṃjñāṃ sa labhate svena karmaṇā 25 tasmāt prasūtam avyaktaṃ pradhānaṃ tad vidur budhāḥ avyaktād vyaktam utpannaṃ lokasṛṣṭy artham īśvarāt 26 aniruddho hi lokeṣu mahān ātmeti kathyate yo 'sau vyaktatvam āpanno nirmame ca pitāmaham so 'haṃkāra iti proktaḥ sarvatejomayo hi saḥ 27 pṛthivī vāyur ākāśam āpo jyotiś ca pañcamam ahaṃkāraprasūtāni mahābhūtāni bhārata 28 mahābhūtāni sṛṣṭvātha tad guṇān nirmame punaḥ bhūtebhyaś caiva niṣpannā mūrtimanto 'statāñ śṛṇu 29 marīcir aṅgirāś cātriḥ pulastyaḥ pulahaḥ kratuḥ vasiṣṭhaś ca mahātmā vai manuḥ svāyambhuvas tathā jñeyāḥ prakṛtayo 'stau tā yāsu lokāḥ pratiṣṭhitāḥ 30 vedān vedāṅgasaṃyuktān yajñān yajñāṅgasaṃyutān nirmame lokasiddhyarthaṃ brahmā lokapitāmahaḥ astābhyaḥ prakṛtibhyaś ca jātaṃ viśvam idaṃ jagat 31 rudro roṣātmako jāto daśānyān so 'sṛjat svayam ekādaśaite rudrās tu vikārāḥ puruṣāḥ smṛtāḥ 32 te rudrāḥ prakṛtiś caiva sarve caiva surarṣayaḥ utpannā lokasiddhyarthaṃ brahmāṇaṃ samupasthitāḥ 33 vayaṃ hi sṛṣṭā bhagavaṃs tvayā vai prabhaviṣṇunā yena yasminn adhīkāre vartitavyaṃ pitāmaha 34 yo 'sau tvayā vinirdiṣṭo adhikāro 'rthacintakaḥ paripālyaḥ kathaṃ tena so 'dhikāro 'dhikāriṇā 35 pradiśasva balaṃ tasya yo 'dhikārārtha cintakaḥ evam ukto mahādevo devāṃs tān idam abravīt 36 sādhv ahaṃ jñāpito devā yuṣmābhir bhadram astu vaḥ mamāpy eṣā samutpannā cintā yā bhavatāṃ matā 37 lokatantrasya kṛtsnasya kathaṃ kāryaḥ parigrahaḥ kathaṃ balakṣayo na syād yuṣmākaṃ hy ātmanaś ca me 38 itaḥ sarve 'pi gacchāmaḥ śaraṇaṃ lokasākṣiṇam mahāpuruṣam avyaktaṃ sa no vakṣyati yad dhitam 39 tatas te brahmaṇā sārdham ṛṣayo vibudhās tathā kṣīrodasyottaraṃ kūlaṃ jagmur lokahitārthinaḥ 40 te tapaḥ samupātiṣṭhan brahmoktaṃ veda kalpitam sa mahāniyamo nāma tapaścaryā sudāruṇā 41 ūrdhvaṃ dṛṣṭir bāhavaś ca ekāgraṃ ca mano 'bhavat ekapādasthitāḥ samyak kāṣṭha bhūtāḥ samāhitāḥ 42 divyaṃ varṣasahasraṃ te tapas taptvā tad uttamam śuśruvur madhurāṃ vānīṃ vedavedāṅgabhūṣitām 43 bho bhoḥ sabrahmakā devā ṛṣayaś ca tapodhanāḥ svāgatenārcya vaḥ sarvāñ śrāvaye vākyam uttamam 44 vijñātaṃ vo mayā kāryaṃ tac ca lokahitaṃ mahat pravṛtti yuktaṃ kartavyaṃ yuṣmat prāṇopabṛṃhaṇam 45 sutaptaṃ vas tapo devā mamārādhana kāmyayā bhokṣyathāsya mahāsattvās tapasaḥ phalam uttamam 46 eṣa brahmā lokaguruḥ sarvalokapitāmahaḥ yūyaṃ ca vibudhaśreṣṭhā māṃ yajadhvaṃ samāhitaḥ 47 sarve bhāgān kalpayadhvaṃ yajñeṣu mama nityaśaḥ tathā śreyo vidhāsyāmi yathādhīkāram īśvarāḥ 48 śrutvaitad devadevasya vākyaṃ hṛṣṭatanū ruhāḥ tatas te vibudhāḥ sarve brahmā te ca maharṣayaḥ 49 veda dṛṣṭena vidhinā vaiṣnavaṃ kratum āharan tasmin sattre tadā brahmā svayaṃ bhāgam akalpayat devā devarṣayaś caiva sarve bhāgān akalpayan 50 te kāryayugadharmāṇo bhāgāḥ paramasatkṛtāḥ prāpur ādityavarṇaṃ taṃ puruṣaṃ tamasaḥ param bṛhantaṃ sarvagaṃ devam īśānaṃ varadaṃ prabhum 51 tato 'tha varado devas tān sarvān amarān sthitān aśarīro babhāsedaṃ vākyaṃ khastho maheśvaraḥ 52 yena yaḥ kalpito bhāgaḥ sa tathā samupāgataḥ prīto 'haṃ pradiśāmy adya phalam āvṛtti lakṣaṇam 53 etad vo lakṣaṇaṃ devā matprasāda samudbhavam yūyaṃ yajñair ijyamānāḥ samāptavaradakṣiṇaiḥ yuge yuge bhaviṣyadhvaṃ pravṛtti phalabhoginaḥ 54 yajñair ye cāpi yakṣyanti sarvalokeṣu vai surāḥ kalpayiṣyanti vo bhāgāṃs te narā veda kalpitān 55 yo me yathākalpitavān bhāgam asmin mahākratau sa tathā yajñabhāgārho veda sūtre mayā kṛtaḥ 56 yūyaṃ lokān dhārayadhvaṃ yajñabhāgaphaloditāḥ sarvārthacintakā loke yathādhīkāra nirmitāḥ 57 yāḥ kriyāḥ pracariṣyanti pravṛtti phalasatkṛtāḥ tābhir āpyāyita balā lokān vai dhārayiṣyatha 58 yūyaṃ hi bhāvitā loke sarvayajñeṣu mānavaiḥ māṃ tato bhāvayiṣyadhvam eṣā vo bhāvanā mama 59 ity arthaṃ nirmitā vedā yajñāś cauṣadhibhiḥ saha ebhiḥ samyak prayuktair hi prīyante devatāḥ kṣitau 60 nirmānam etad yuṣmākaṃ pravṛtti guṇakalpitam mayā kṛtaṃ suraśreṣṭhā yāvat kalpakṣayād iti cintayadhvaṃ lokahitaṃ yathādhīkāram īśvarāḥ 61 marīcir aṅgirāc cātriḥ pulastyaḥ pulahaḥ kratuḥ vasiṣṭha iti saptaite mānasā nirmitā hi vai 62 ete vedavido mukhyā vedācāryāś ca kalpitāḥ pravṛtti dharmiṇaś caiva prājāpatyena kalpitāḥ 63 ayaṃ kriyāvatāṃ panthā vyaktī bhūtaḥ sanātanaḥ aniruddha iti prokto lokasarga karaḥ prabhuḥ 64 sanaḥ sanatsujātaś ca sanakaḥ sasanandanaḥ sanatkumāraḥ kapilaḥ saptamaś ca sanātanaḥ 65 saptaite mānasāḥ proktā ṛṣayo brahmaṇaḥ sutāḥ svayam āgatavijñānā nivṛttaṃ dharmam āsthitāḥ 66 ete yogavido mukhyāḥ sāṃkhyadharmavidas tathā ācāryā mokṣaśāstre ca mokṣadharmapravartakāḥ 67 yato 'haṃ prasṛtaḥ pūrvam avyaktāt triguṇo mahān tasmāt parataro yo 'sau kṣetrajña iti kalpitaḥ so 'haṃ kriyāvatāṃ panthāḥ punar āvṛtti durlabhaḥ 68 yo yathā nirmito jantur yasmin yasmiṃś ca karmaṇi pravṛttau vā nivṛttau vā tat phalaṃ so 'śnute 'vaśaḥ 69 eṣa lokagurur brahmā jagad ādi karaḥ prabhuḥ eṣa mātā pitā caiva yuṣmākaṃ ca pitāmahaḥ mayānuśiṣṭo bhavitā sarvabhūtavarapradaḥ 70 asya caivānujo rudro lalātād yaḥ samutthitaḥ brahmānuśiṣṭo bhavitā sarvatra savara pradaḥ 71 gacchadhvaṃ svān adhīkārāṃś cintayadhvaṃ yathāvidhi pravartantāṃ kriyāḥ sarvāḥ sarvalokeṣu māciram 72 pradṛśyantāṃ ca karmāṇi prānināṃ gatayas tathā parinirmita kālāni āyūṃsi ca surottamāḥ 73 idaṃ kṛtayugaṃ nāma kālaḥ śreṣṭhaḥ pravartate ahiṃsyā yajñapaśavo yuge 'smin naitad anyathā caturpāt sakalo dharmo bhaviṣyaty atra vai surāḥ 74 tatas tretāyugaṃ nāma trayī yatra bhaviṣyati prokṣitā yatra paśavo vadhaṃ prāpsyanti vai makhe tatra pādacaturtho vai dharmasya na bhaviṣyati 75 tato vai dvāparaṃ nāma miśraḥ kālo bhaviṣyati dvipādahīno dharmaś ca yuge tasmin bhaviṣyati 76 tatas tiṣye 'tha saṃprāpte yuge kalipuraskṛte ekapādasthito dharmo yatra tatra bhaviṣyati 77 [devāh] ekapādasthite dharme yatra kva cana gāmini kathaṃ kartavyam asmābhir bhavagaṃs tad vadasva naḥ 78 [ṣrībhagavān] yatra vedāś ca yajñāś ca tapaḥ satyaṃ damas tathā ahiṃsā dharmasaṃyuktāḥ pracareyuḥ surottamāḥ sa vai deśaḥ sevitavyo mā vo 'dharmaḥ padā spṛśet 79 [vyāsa] te 'nuśiṣṭā bhagavatā devāḥ sarṣigaṇās tathā namaskṛtvā bhagavate jagmur deśān yathepsitān 80 gateṣu tridivaukaḥ subrahmaikaḥ paryavasthitaḥ didṛkṣur bhagavantaṃ tam aniruddha tanau sthitam 81 taṃ devo darśayām āsa kṛtvā hayaśiro mahat sāṅgān āvartayan vedān kamandalu gaṇitra dhṛk 82 tato 'śvaśirasaṃ dṛṣṭvā taṃ devam amitaujasam lokakartā prabhur brahmā lokānāṃ hitakāmyayā 83 mūrdhnā pranamya varadaṃ tastau prāñjalir agrataḥ sa pariṣvajya devena vacanaṃ śrāvitas tadā 84 lokakāryagatīḥ sarvās tvaṃ cintaya yathāvidhi dhātā tvaṃ sarvabhūtānāṃ tvaṃ prabhur jagato guruḥ tvayy āveśitabhāro 'haṃ dhṛtiṃ prāpsyāmy athāñjasā 85 yadā ca surakāryaṃ te aviṣahyaṃ bhaviṣyati prādurbhāvaṃ gamiṣyāmi tadātma jñānadeśikaḥ 86 evam uktvā hayaśirās tatraivāntaradhīyata tenānuśiṣṭo brahmāpi svaṃ lokam acirād gataḥ 87 evam eṣa mahābhāgaḥ padmanābhaḥ sanātanaḥ yajñeṣv agraharaḥ prokto yajñadhārī ca nityadā 88 nivṛttiṃ cāsthito dharmaṃ gatim akṣaya dharmiṇām pravṛtti dharmān vidadhe kṛtvā lokasya citratām 89 sādiḥ sa madhyaḥ sa cāntaḥ prajānāṃ; sa dhātā sa dheyaḥ sa kartā sa kāryam yugānte sa suptaḥ susaṃkṣipya lokān; yugādau prabuddho jagad dhyutsasarja 90 tasmai namadhvaṃ devāya nirguṇāya guṇātmane ajāya viśvarūpāya dhāmne sarvadivaukasām 91 mahābhūtādhipataye rudrāṇāṃ pataye tathā ādityapataye caiva vasūnāṃ pataye tathā 92 aśvibhyāṃ pataye caiva marutāṃ pataye tathā veda yajñādhipataye vedāṅgapataye 'pi ca 93 samudravāsine nityaṃ haraye muñja keśine śāntaye sarvabhūtānāṃ mokṣadharmānubhāsine 94 tapasāṃ tejasāṃ caiva pataye yaśaso 'pi ca vācaś ca pataye nityaṃ saritāṃ pataye tathā 95 kapardine varāhāya ekaśṛṅgāya dhīmate vivasvate 'śvaśirase caturmūrti dhṛte sadā 96 guhyāya jñānadṛśyāya akṣarāya kṣarāya ca eṣa devaḥ saṃcarati sarvatragatir avyayaḥ 97 evam etat purā dṛṣṭaṃ mayā vai jñānacakṣuṣā kathitaṃ tac ca vaḥ sarvaṃ mayā pṛṣṭena tattvataḥ 98 kriyatāṃ madvacaḥ śiṣyāḥ sevyatāṃ harir īśvaraḥ gīyatāṃ veda śabdaiś ca pūjyatāṃ ca yathāvidhi 99 [vaiṣampāyana] ity uktās tu vayaṃ tena veda vyāsena dhīmatā sarve śiṣyāḥ sutaś cāsya śukaḥ paramadharmavit 100 sa cāsmākam upādhyāyaḥ sahāsmābhir viśāṃ pate caturvedodgatābhiś ca ṛgbhis tam abhituṣṭuve 101 etat te sarvam ākhyātaṃ yan māṃ tvaṃ paripṛcchasi evaṃ me 'kathayad rājan purā dvaipāyano guruḥ 102 yaś cedaṃ śṛṇuyān nityaṃ yaś cedaṃ parikīrtayet namo bhagavate kṛtvā samāhita manā naraḥ 103 bhavaty arogo dyutimān balarūpasamanvitaḥ āturo mucyate rogād baddhomucyeta bandhanāt 104 kāmakāmī labhet kāmaṃ dīrgham āyur avāpnuyāt brāhmaṇaḥ sarvavedī syāt kṣatriyo vijayī bhavet vaiśyo vipulalābhaḥ syāc chūdraḥ sukham avāpnuyāt 105 aputro labhate putraṃ kanyā caivepsitaṃ patim lagna garbhā vimucyeta garbhiṇī janayet sutam vandhyā prasavam āpnoti putrapautra samṛddhimat 106 kṣemeṇa gacched adhvānam idaṃ yaḥ pathate pathi yo yaṃ kāmaṃ kāmayate sa tam āpnoti ca dhruvam 107 idaṃ maharṣer vacanaṃ viniścitaṃ; mahātmanaḥ puruṣavarasya kīrtanam samāgamaṃ carṣidivaukasām imaṃ; niśamya bhaktāḥ susukhaṃ labhante |
The Mahabharata in Sanskrit
Book 12
Chapter 328
|
1
[जनमेजय] अस्तौषीद यैर इमं वयासः सशिष्यॊ मधुसूदनम नामभिर विविधैर एषां निरुक्तं भगवन मम 2 वक्तुम अर्हसि शुश्रूसॊः परजापतिपतेर हरेः शरुत्वा भवेयं यत पूतः शरच चन्द्र इवामलः 3 [वैषम्पायन] शृणु राजन यथाचस्त फल्गुनस्य हरिर विभुः परसन्नात्मात्मनॊ नाम्नां निरुक्तं गुणकर्मजम 4 नामभिः कीर्तितैस तस्य केशवस्य महात्मनः पृष्टवान केशवं राजन फल्गुनः परवीर हा 5 [अर्जुन] भगवन भूतभव्येश सर्वभूतसृग अव्यय लॊकधाम जगन नाथ लॊकानाम अभयप्रद 6 यानि नामानि ते देवकीर्तितानि महर्षिभिः वेदेषु सपुराणेषु यानि गुह्यानि कर्मभिः 7 तेषां निरुक्तं तवत्तॊ ऽहं शरॊतुम इच्छामि केशव न हय अन्यॊ वर्तयेन नाम्नां निरुक्तं तवाम ऋते परभॊ 8 [षरीभगवान] ऋग्वेदे सयजुर्वेदे तथैवाथर्व सामसु पुराणे सॊपनिषदे तथैव जयॊतिषे ऽरजुन 9 सांख्ये च यॊगशास्त्रे च आयुर्वेदे तथैव च बहूनि मम नामानि कीर्तितानि महर्षिभिः 10 गौनानि तत्र नामानि कर्मजानि च कानि चित निरुक्तं कर्मजानां च शृणुष्व परयतॊ ऽनघ कथ्यमानं मया तात तवं हि मे ऽरधं समृतः पुरा 11 नमॊ ऽति यशसे तस्मै देहिनां परमात्मने नारायणाय विश्वाय निर्गुणाय गुणात्मने 12 यस्य परसादजॊ बरह्मा रुद्रश च करॊधसंभवः यॊ ऽसौ यॊनिर हि सर्वस्य सथावरस्य चरस्य च 13 अस्तादश गुणं यत तत सत्त्वं सत्त्ववतां वर परकृतिः सा परा मह्यं रॊदसी यॊगधारिणी ऋता सत्यामराजय्या लॊकानाम आत्मसंज्ञिता 14 तस्मात सर्वाः परवर्तन्ते सर्ग परलय विक्रियाः ततॊ यज्ञश च यस्ता च पुराणः पुरुषॊ विरात अनिरुद्ध इति परॊक्तॊ लॊकानां परभवाप्ययः 15 बराह्मे रात्रिक्षये पराप्ते तस्य हय अमिततेजसः परसादात परादुरभवत पद्मं पद्मनिभेक्षण तत्र बरह्मा समभवत स तस्यैव परसादजः 16 अह्नः कषये ललाताच च सुतॊ देवस्य वै तथा करॊधाविष्टस्य संजज्ञे रुद्रः संहार कारकः 17 एतौ दवौ विबुधश्रेष्ठौ परसादक्रॊधजौ समृतौ तद आदेशित पन्थानौ सृष्टि संहार कारकौ निमित्तमात्रं ताव अत्र सर्वप्रानि वरप्रदौ 18 कपर्दी जतिलॊ मुन्दः शमशानगृहसेवकः उग्रव्रतधरॊ रुद्रॊ यॊगी तरिपुरदारुणः 19 दक्षक्रतुहरश चैव भग नेत्रहरस तथा नारायणात्मकॊ जञेयः पाण्डवेय युगे युगे 20 तस्मिन हि पूज्यमाने वै देवदेवे महेश्वरे संपूजितॊ भवेत पार्थ देवॊ नारायणः परभुः 21 अहम आत्मा हि लॊकानां विश्वानां पाण्डुनन्दन तस्माद आत्मानम एवाग्रे रुद्रं संपूजयाम्य अहम 22 यद्य अहं नार्चयेयं वै ईशानं वरदं शिवम आत्मानं नार्चयेत कश चिद इति मे भावितं मनः मया परमाणं हि कृतं लॊकः समनुवर्तते 23 परमानानि हि पूज्यानि ततस तं पूजयाम्य अहम यस तं वेत्ति स मां वेत्ति यॊ ऽनु तं स हि माम अनु 24 रुद्रॊ नारायणश चैव सत्त्वम एकं दविधाकृतम लॊके चरति कौन्तेय वयक्ति सथं सर्वकर्मसु 25 न हि मे केन चिद देयॊ वरः पाण्डवनन्दन इति संचिन्त्य मनसा पुराणं विश्वम ईश्वरम पुत्रार्थम आराधितवान आत्मानम अहम आत्मना 26 न हि विष्णुः परनमति कस्मै चिद विबुधाय तु ऋत आत्मानम एवेति ततॊ रुद्रं भजाम्य अहम 27 सब्रह्मकाः सरुद्राश च सेन्द्रा देवाः सहर्षिभिः अर्चयन्ति सुरश्रेष्ठं देवं नारायणं हरिम 28 भविष्यतां वर्ततां च भूतानां चैव भारत सर्वेषाम अग्रणीर विष्णुः सेव्यः पूज्यश च नित्यशः 29 नमस्व हव्यदं विष्णुं तथा शरणदं नम वरदं नमस्व कौन्तेय हव्यकव्य भुजं नम 30 चतुर्विधा मम जना भक्ता एवं हि ते शरुतम तेषाम एकान्तिनः शरेष्ठास ते चैवानन्य देवताः अहम एव गतिस तेषां निराशीः कर्म कारिणाम 31 ये च शिष्टास तरयॊ भक्ताः फलकामा हि ते मताः सर्वे चयवन धर्माणः परतिबुद्धस तु शरेष्ठ भाक 32 बरह्माणं शिति कन्थं च याश चान्या देवताः समृताः परबुद्धवर्याः सेवन्ते एष पार्थानुकीत्रितः भक्तं परति विशेषस ते एष पार्थानुकीर्तितः 33 तवं चैवाहं च कौन्तेय नरनारायणौ समृतौ भारावतरणार्थं हि परविष्टौ मानुषीं तनुम 34 जानाम्य अध्यात्मयॊगांश च यॊ ऽहं यस्माच च भारत निवृत्ति लक्षणॊ धर्मस तथाभ्युदयिकॊ ऽपि च 35 नराणाम अयनं खयातम अहम एकः सनातनः आपॊ नारा इति परॊक्ता आपॊ वै नरसूनवः अयनं मम तत पूर्वम अतॊ नारायणॊ हय अहम 36 छादयामि जगद विश्वं भूत्वा सूर्य इवांशुभिः सर्वभूताधिवासश च वासुदेवस ततॊ हय अहम 37 गतिश च सर्वभूतानां परजानां चापि भारत वयाप्ता मे रॊदसी पार्थ कान्तिश चाभ्यधिका मम 38 अधिभूतानि चान्ते ऽहं तद इच्छंश चास्मि भारत करमणाच चाप्य अहं पार्थ विष्णुर इत्य अभिसंज्ञितः 39 दमात सिद्धिं परीप्सन्तॊ मां जनाः कामयन्ति हि दिवं चॊर्वीं च मध्यं च तस्माद दामॊदरॊ हय अहम 40 पृश्निर इत्य उच्यते चान्नं वेदा आपॊ ऽमृतं तथा ममैतानि सदा गर्भे पृश्निगर्भस ततॊ हय अहम 41 ऋषयः पराहुर एवं मां तरित कूपाभिपातितम पृश्निगर्भ तरितं पातीत्य एकत दवित पातितम 42 ततः स बरह्मणः पुत्र आद्यॊ ऋषि वरस तरितः उत्ततारॊद पानाद वै पृश्निगर्भानुकीर्तनात 43 सूर्यस्य तपतॊ लॊकान अग्नेः सॊमस्य चाप्य उत अंशवॊ ये परकाशन्ते मम ते केशसंज्ञिताः सर्वज्ञाः केशवं तस्मान माम आहुर दविजसत्तमाः 44 सवपत्न्याम आहितॊ गर्भ उतथ्येन महात्मना उतथ्ये ऽनतर्हिते चैव कदा चिद देव मायया बृहस्पतिर अथाविन्दत तां पत्नीं तस्य भारत 45 ततॊ वै तम ऋषिश्रेष्ठं मैथुनॊपगतं तथा उवाच गर्भः कौन्तेय पञ्च भूतसमन्वितः 46 पूर्वागतॊ ऽहं वरद नार्हस्य अम्बां परबाधितुम एतद बृहस्पतिः शरुत्वा चुक्रॊध च शशाप च 47 मैथुनॊपगतॊ यस्मात तवयाहं विनिवारितः तस्माद अन्धॊ जास्यसि तवं मच छापान नात्र संशयः 48 स शापाद ऋषिमुख्यस्य दीर्घं तम उपेयिवान स हि दीर्घतमा नाम नाम्ना हय आसीद ऋषिः पुरा 49 वेदान अवाप्य चतुरः साङ्गॊपाङ्गान सनातनान परयॊजयाम आस तदा नाम गुह्यम इदं मम 50 आनुपूर्व्येण विधिना केशवेति पुनः पुनः स चक्षुष्मान समभवद गौतमश चाभवत पुनः 51 एवं हि वरदं नाम केशवेति ममार्जुन देवानाम अथ सर्वेषाम ऋषीणां च महात्मनाम 52 अग्निः सॊमेन संयुक्त एकयॊनिमुखं कृतम अग्नीषॊमात्मकं तस्माज जगत कृत्स्नं चराचरम 53 अपि हि पुराणे भवत्य एकयॊन्य आत्मकाव अग्नीषॊमौ देवाश चाग्निमुखा इति एकयॊनित्वाच च परस्परं महयन्तॊ लॊकान धारयत इति |
1
[janamejaya] astauṣīd yair imaṃ vyāsaḥ saśiṣyo madhusūdanam nāmabhir vividhair eṣāṃ niruktaṃ bhagavan mama 2 vaktum arhasi śuśrūsoḥ prajāpatipater hareḥ śrutvā bhaveyaṃ yat pūtaḥ śarac candra ivāmalaḥ 3 [vaiṣampāyana] śṛṇu rājan yathācasta phalgunasya harir vibhuḥ prasannātmātmano nāmnāṃ niruktaṃ guṇakarmajam 4 nāmabhiḥ kīrtitais tasya keśavasya mahātmanaḥ pṛṣṭavān keśavaṃ rājan phalgunaḥ paravīra hā 5 [arjuna] bhagavan bhūtabhavyeśa sarvabhūtasṛg avyaya lokadhāma jagan nātha lokānām abhayaprada 6 yāni nāmāni te devakīrtitāni maharṣibhiḥ vedeṣu sapurāṇeṣu yāni guhyāni karmabhiḥ 7 teṣāṃ niruktaṃ tvatto 'haṃ śrotum icchāmi keśava na hy anyo vartayen nāmnāṃ niruktaṃ tvām ṛte prabho 8 [ṣrībhagavān] ṛgvede sayajurvede tathaivātharva sāmasu purāṇe sopaniṣade tathaiva jyotiṣe 'rjuna 9 sāṃkhye ca yogaśāstre ca āyurvede tathaiva ca bahūni mama nāmāni kīrtitāni maharṣibhiḥ 10 gaunāni tatra nāmāni karmajāni ca kāni cit niruktaṃ karmajānāṃ ca śṛṇuṣva prayato 'nagha kathyamānaṃ mayā tāta tvaṃ hi me 'rdhaṃ smṛtaḥ purā 11 namo 'ti yaśase tasmai dehināṃ paramātmane nārāyaṇāya viśvāya nirguṇāya guṇātmane 12 yasya prasādajo brahmā rudraś ca krodhasaṃbhavaḥ yo 'sau yonir hi sarvasya sthāvarasya carasya ca 13 astādaśa guṇaṃ yat tat sattvaṃ sattvavatāṃ vara prakṛtiḥ sā parā mahyaṃ rodasī yogadhāriṇī ṛtā satyāmarājayyā lokānām ātmasaṃjñitā 14 tasmāt sarvāḥ pravartante sarga pralaya vikriyāḥ tato yajñaś ca yastā ca purāṇaḥ puruṣo virāt aniruddha iti prokto lokānāṃ prabhavāpyayaḥ 15 brāhme rātrikṣaye prāpte tasya hy amitatejasaḥ prasādāt prādurabhavat padmaṃ padmanibhekṣaṇa tatra brahmā samabhavat sa tasyaiva prasādajaḥ 16 ahnaḥ kṣaye lalātāc ca suto devasya vai tathā krodhāviṣṭasya saṃjajñe rudraḥ saṃhāra kārakaḥ 17 etau dvau vibudhaśreṣṭhau prasādakrodhajau smṛtau tad ādeśita panthānau sṛṣṭi saṃhāra kārakau nimittamātraṃ tāv atra sarvaprāni varapradau 18 kapardī jatilo mundaḥ śmaśānagṛhasevakaḥ ugravratadharo rudro yogī tripuradāruṇaḥ 19 dakṣakratuharaś caiva bhaga netraharas tathā nārāyaṇātmako jñeyaḥ pāṇḍaveya yuge yuge 20 tasmin hi pūjyamāne vai devadeve maheśvare saṃpūjito bhavet pārtha devo nārāyaṇaḥ prabhuḥ 21 aham ātmā hi lokānāṃ viśvānāṃ pāṇḍunandana tasmād ātmānam evāgre rudraṃ saṃpūjayāmy aham 22 yady ahaṃ nārcayeyaṃ vai īśānaṃ varadaṃ śivam ātmānaṃ nārcayet kaś cid iti me bhāvitaṃ manaḥ mayā pramāṇaṃ hi kṛtaṃ lokaḥ samanuvartate 23 pramānāni hi pūjyāni tatas taṃ pūjayāmy aham yas taṃ vetti sa māṃ vetti yo 'nu taṃ sa hi mām anu 24 rudro nārāyaṇaś caiva sattvam ekaṃ dvidhākṛtam loke carati kaunteya vyakti sthaṃ sarvakarmasu 25 na hi me kena cid deyo varaḥ pāṇḍavanandana iti saṃcintya manasā purāṇaṃ viśvam īśvaram putrārtham ārādhitavān ātmānam aham ātmanā 26 na hi viṣṇuḥ pranamati kasmai cid vibudhāya tu ṛta ātmānam eveti tato rudraṃ bhajāmy aham 27 sabrahmakāḥ sarudrāś ca sendrā devāḥ saharṣibhiḥ arcayanti suraśreṣṭhaṃ devaṃ nārāyaṇaṃ harim 28 bhaviṣyatāṃ vartatāṃ ca bhūtānāṃ caiva bhārata sarveṣām agraṇīr viṣṇuḥ sevyaḥ pūjyaś ca nityaśaḥ 29 namasva havyadaṃ viṣṇuṃ tathā śaraṇadaṃ nama varadaṃ namasva kaunteya havyakavya bhujaṃ nama 30 caturvidhā mama janā bhaktā evaṃ hi te śrutam teṣām ekāntinaḥ śreṣṭhās te caivānanya devatāḥ aham eva gatis teṣāṃ nirāśīḥ karma kāriṇām 31 ye ca śiṣṭās trayo bhaktāḥ phalakāmā hi te matāḥ sarve cyavana dharmāṇaḥ pratibuddhas tu śreṣṭha bhāk 32 brahmāṇaṃ śiti kanthaṃ ca yāś cānyā devatāḥ smṛtāḥ prabuddhavaryāḥ sevante eṣa pārthānukītritaḥ bhaktaṃ prati viśeṣas te eṣa pārthānukīrtitaḥ 33 tvaṃ caivāhaṃ ca kaunteya naranārāyaṇau smṛtau bhārāvataraṇārthaṃ hi praviṣṭau mānuṣīṃ tanum 34 jānāmy adhyātmayogāṃś ca yo 'haṃ yasmāc ca bhārata nivṛtti lakṣaṇo dharmas tathābhyudayiko 'pi ca 35 narāṇām ayanaṃ khyātam aham ekaḥ sanātanaḥ āpo nārā iti proktā āpo vai narasūnavaḥ ayanaṃ mama tat pūrvam ato nārāyaṇo hy aham 36 chādayāmi jagad viśvaṃ bhūtvā sūrya ivāṃśubhiḥ sarvabhūtādhivāsaś ca vāsudevas tato hy aham 37 gatiś ca sarvabhūtānāṃ prajānāṃ cāpi bhārata vyāptā me rodasī pārtha kāntiś cābhyadhikā mama 38 adhibhūtāni cānte 'haṃ tad icchaṃś cāsmi bhārata kramaṇāc cāpy ahaṃ pārtha viṣṇur ity abhisaṃjñitaḥ 39 damāt siddhiṃ parīpsanto māṃ janāḥ kāmayanti hi divaṃ corvīṃ ca madhyaṃ ca tasmād dāmodaro hy aham 40 pṛśnir ity ucyate cānnaṃ vedā āpo 'mṛtaṃ tathā mamaitāni sadā garbhe pṛśnigarbhas tato hy aham 41 ṛṣayaḥ prāhur evaṃ māṃ trita kūpābhipātitam pṛśnigarbha tritaṃ pātīty ekata dvita pātitam 42 tataḥ sa brahmaṇaḥ putra ādyo ṛṣi varas tritaḥ uttatāroda pānād vai pṛśnigarbhānukīrtanāt 43 sūryasya tapato lokān agneḥ somasya cāpy uta aṃśavo ye prakāśante mama te keśasaṃjñitāḥ sarvajñāḥ keśavaṃ tasmān mām āhur dvijasattamāḥ 44 svapatnyām āhito garbha utathyena mahātmanā utathye 'ntarhite caiva kadā cid deva māyayā bṛhaspatir athāvindat tāṃ patnīṃ tasya bhārata 45 tato vai tam ṛṣiśreṣṭhaṃ maithunopagataṃ tathā uvāca garbhaḥ kaunteya pañca bhūtasamanvitaḥ 46 pūrvāgato 'haṃ varada nārhasy ambāṃ prabādhitum etad bṛhaspatiḥ śrutvā cukrodha ca śaśāpa ca 47 maithunopagato yasmāt tvayāhaṃ vinivāritaḥ tasmād andho jāsyasi tvaṃ mac chāpān nātra saṃśayaḥ 48 sa śāpād ṛṣimukhyasya dīrghaṃ tama upeyivān sa hi dīrghatamā nāma nāmnā hy āsīd ṛṣiḥ purā 49 vedān avāpya caturaḥ sāṅgopāṅgān sanātanān prayojayām āsa tadā nāma guhyam idaṃ mama 50 ānupūrvyeṇa vidhinā keśaveti punaḥ punaḥ sa cakṣuṣmān samabhavad gautamaś cābhavat punaḥ 51 evaṃ hi varadaṃ nāma keśaveti mamārjuna devānām atha sarveṣām ṛṣīṇāṃ ca mahātmanām 52 agniḥ somena saṃyukta ekayonimukhaṃ kṛtam agnīṣomātmakaṃ tasmāj jagat kṛtsnaṃ carācaram 53 api hi purāṇe bhavaty ekayony ātmakāv agnīṣomau devāś cāgnimukhā iti ekayonitvāc ca parasparaṃ mahayanto lokān dhārayata iti |
The Mahabharata in Sanskrit
Book 12
Chapter 329
|
1
[अर्जुन] अग्नीषॊमौ कथं पूर्वम एकयॊनी परवर्तितौ एष मे संशयॊ जातस तं छिन्धि मधुसूदन 2 [षरीभगवान] हन्त ते वर्तयिष्यामि पुराणं पाण्डुनन्दन आत्मतेजॊद्भवं पार्थ शृणुष्वैक मना मम 3 संप्रक्षालन काले ऽतिक्रान्ते चतुर्थे युगसहस्रान्ते अव्यक्ते सर्वभूतप्रलये सथावरजङ्गमे जयॊतिर धरणिवायुरहिते ऽनधे तमसि जलैकार्णवे लॊके तम इत्य एवाभिबूते ऽदवितीये परतिष्ठिते नैव रात्र्यां न दिवसे न सति नासति न वयक्ते नाव्यक्ते वयवस्थिते एतस्याम अवस्थायां नारायण गुणाश्रयाद अक्षयाद अजराद अनिन्द्रियाद अग्राह्याद असंभवात सत्याद अहिंस्राल ललामाद विविधप्रवृत्ति विशेषात अक्षयाद अजरामराद अमूर्तितः सर्वव्यापिनः सर्वकर्तुः शाश्वतात तमसः पुरुषः परादुर्भूतॊ हरिर अव्ययः 4 निदर्शनम अपि हय अत्र भवति नासीद अहॊ न रात्रिर आसीत न सद आसीन नासद आसीत तम एव पुरस्ताद अभवद विश्वरूपम सा विश्वस्य जननीत्य एवम अस्यार्थॊ ऽनुभास्यते 5 तस्येदानीं तमः संभवस्य पुरुषस्य पद्मयॊनेर बरह्मणः परादुर भावे स पुरुषः परजाः सिसृक्षमाणॊ नेत्राभ्याम अग्नीषॊमौ ससर्ज ततॊ भूतसर्गे परवृत्तेप्रजा करमवशाद बरह्मक्षत्रम उपातिष्ठत यः सॊमस तद बरह्म यद बरह्म ते बराह्मणाः यॊ ऽगनिस तत कषत्रं कषत्राद बरह्मबलवत्तरम कस्माद इति लॊकप्रत्यक्षगुणम एतत तद यथा बराह्मणेभ्यः परं भूतं नॊत्पन्न पूर्वम दीप्यमाने ऽगनौ जुहॊतीति कृत्वा बरवीमि भूतसर्गः कृतॊ बरह्मणा भूतानि च परस्थाप्य तरौलॊक्यं धार्यतेति 6 मन्त्रवादॊ ऽपी हि भवति तवम अग्ने यज्ञानां हॊता विश्वेषाम हितॊ देवेनभिर मानुषे जन इति निदर्शनं चात्र भवति विश्वेषाम अग्ने यज्ञानां हॊतेति हितॊ देवैर मानुषैर जगत इति अग्निर हि यज्ञानां हॊतृकर्ता स चाग्निर बरह्म 7 न हय ऋते मन्त्राद धवनम अस्ति न विना पुरुषं तपः संभवति हविर मन्त्राणां संपूजा विद्यते देवमनुष्याणाम अनेन तवं हॊतेति नियुक्तः ये च मानुषा हॊत्राधिकारास ते च बराह्मणस्यहि याजनं विधीयते न कषत्रवैश्ययॊर दविजात्यॊः तस्माद बराह्मणा हय अग्निभूता यज्ञान उद्वहन्ति यज्ञा देवांस तर्पयन्ति देवाः पृथिवीं भावयन्ति 8 शतपथे हि बराह्मणं भवति अग्नौ समिद्धे स जुहॊति यॊ विद्वान बराह्मण मुखे दानाहुतिं जुहॊति एवम अप्य अग्निभूता बराह्मणा विद्वांसॊ ऽगनिं भावयन्ति अग्निर विष्णुः सर्वभूतान्य अनुप्रविश्य पराणान धारयति अपि चात्र सनत्कुमार गीताः शलॊका भवन्ति 9 विश्वं बरह्मासृजत पूर्वं सर्वादिर निरवस्करम बरह्मघॊषैर दिवं तिष्ठन्त्य अमरा बरह्मयॊनयः 10 बराह्मणानां मतिर वाक्यं कर्म शरद्धा तपांसि च धारयन्ति महीं दयां च शैत्याद वार्य अमृतं यथा 11 नास्ति सत्यात परॊ धर्मॊ नास्ति मातृसमॊ गुरुः बराह्मणेभ्यः परं नास्ति परेत्य चेहच भूतये 12 नैषाम उक्षा वर्धते नॊत वाहा; न गर्गरॊ मथ्यते संप्रदाने अपध्वस्ता दस्युभूता भवन्ति; येषां राष्ट्रे बराह्मणा वृत्तिहीनाः 13 वेद पुराणेतिहास परामान्यान नारायण मुखॊद्गताः सर्वात्मनः सर्वकर्तारः सर्वभावनाश च बराह्मणाः वाक समकालं हि तस्य देवस्य वरप्रदस्य बराह्मणाः परथमं परादुर्भूता बराह्मणेभ्यश च शेषा वर्णाः परादुर्भूताः इत्थं च सुरासुरविशिष्टा बराह्मणा यदा मया बरह्मभूतेन पुरा सवयम एवॊत्पादिताः सुरासुरमहर्षयॊ भूतविशेषाः सथापिता निगृहीताश च 14 अहल्या धर्षणनिमित्तं हि गौतमाद धरि शमश्रुताम इन्द्रः पराप्तः कौशिक निमित्तं चेन्द्रॊ मुष्क वियॊगं मेषवृषणत्वं चावाप अश्विनॊर गरहप्रतिषेधॊद्यत वज्रस्य पुरंदरस्य चयवनेन सतम्भितॊ बाहुः करतुवध पराप्तमन्युना च दक्षेण भूयस तपसा चात्मानं संयॊज्य नेत्राकृतिर अन्या ललते रुद्रस्यॊत्पादिता 15 तरिपुरवधार्थं दिक्षाम अभ्युपगतस्य रुद्रस्यॊशनसा शिरसॊ जतॊत्कृत्य परयुक्ताः ततः परादुर्भूता भुजगाः तैर अस्य भुजगैः पीड्यमानः कन्थॊ नीलताम उपनीतः पूर्वे च मन्वन्तरे सवायम्भुवे नारायण हस्तबन्धग्रहणान नीलकन्थत्वम एव वा 16 अमृतॊत्पादने पुरश्चरणताम उपगतस्याङ्गिरसॊ बृहस्पतेर उपस्पृशतॊ न परसादं गतवत्यः किलापः अथ बृहस्प्तिर अपां चुक्रॊध यस्मान ममॊपस्पृशतः कलुषी भूता न परसादम उपगतास तस्माद अद्य परभृति झषमकरमत्स्यकच्छप जन्तु संकीर्णाः कलुषी भवतेति तदाप्रभृत्य आपॊ यादॊभिः संकीर्णाः संवृत्ताः 17 विश्वरूपॊ वैत्वास्त्रः पुरॊहितॊ देवानाम आसीत सवस्रीयॊ ऽसुराणाम स परत्यक्षंदेवेभ्यॊ भागम अददत परॊक्षम असुरेभ्यः 18 अथ हिरण्यकशिपुं पुरस्कृत्य विश्वरूप मातरं सवसारम असुरा वरम अयाचन्त हे सवसर अयं ते पुत्रस तवास्त्रॊ विश्वरूपस तरिशिरा देवानां पुरॊहितः परत्यक्षं देवेभ्यॊ भागम अददत परॊक्षम अस्माकम ततॊ देवा वर्धन्ते वयं कषीयामः तद एनं तवं वारयितुम अर्हसि तथा यथास्मान भजेद इति 19 अथ विश्वरूपं नन्दनवनम उपगतं मातॊवाच पुत्र किं परपक्षवर्धनस तवं मातुलपक्षं नाशयति नार्हस्य एवं कर्तुम इति स विश्वरूपॊ मातुर वाक्यम अनतिक्रमणीयम इति मत्वा संपूज्य हिरण्यकशिपुम अगात 20 हैरण्यगर्भाच च वसिष्ठाद धिरण्यकशिपुः शापं पराप्तवान यस्मात तवयान्यॊ वृतॊ हॊता तस्माद असमाप्त यज्ञस तवम अपूर्वात सत्त्वजाताद वधं पराप्स्यसीति तच छापदानाद धिरण्यकशिपुः पराप्तवान वधम 21 विश्वरूपॊ मातृपक्षवर्धनॊ ऽतयर्थं तपस्य अभवत तस्य वरतभङ्गार्थम इन्द्रॊ बह्वीः शरीमत्यॊ ऽपसरसॊ नियुयॊज ताश च दृष्ट्वा मनः कषुभितं तस्याभवत तासु चाप्सरःसुनचिराद एव सक्तॊ ऽभवत सक्तं चैनं जञात्वाप्सरसॊचुर गच्छामहे वयं यथागतम इति 22 तास तवास्त्रॊवाच कव गमिष्यथ आस्यतां तावन मया सह शरेयॊ भविष्यतीति तास तम अब्रुवन वयं देव सत्रियॊ ऽपसरसेन्द्रं वरदं पुरा परभ्विष्णुं वृणीमह इति 23 अथ ता विश्वरूपॊ ऽबरवीद अद्यैव सेन्द्रा देवा न भविष्यन्तीति ततॊ मन्त्राञ जजाप तैर मन्त्रैः परावर्धत तरिशिराः एकेनास्येन सर्वलॊकेषु दविजैः करियावद्भिर यज्ञेषु सुहुतं सॊमं पपाव एकेनापैकेन सेन्द्रान देवान अथेन्द्रस तं विवर्धमानं सॊमपानाप्यायित सर्वगात्रं दृष्ट्वा चिन्ताम आपेदे 24 देवाश च ते सहेन्द्रेण बरह्माणम अभिजग्मुर ऊचुश च विश्वरूपेण सर्वयज्ञेषु सुहुतः सॊमः पीयते वयम अभागाः संवृत्ताः असुरपक्षॊ वर्धते वयं कषीयामः तद अर्हसि नॊ विधातुं शरेयॊ यद अनन्तरम इति 25 तान बरह्मॊवाचर्षिर भार्गवस तपस तप्यते दधीचः स याच्यतां वरं यथा कलेवरं जह्यात तस्यास्थिभिर वज्रं करियताम इति 26 देवास तत्रागच्छन यत्र दधीचॊ भगवान ऋषिस तपस तेपे सेन्द्रा देवास तम अभिगम्यॊचुर भगवंस तपसः कुशलम अविघ्नं चेति तान दधीचॊवाच सवागतं भवद्भ्यः किं करियताम यद वक्ष्यथ तत करिष्यामीति ते तम अब्रुवञ शरीरपरित्यागं लॊकहितार्थं भगवान कर्तुम अर्हतीति अथ दधीचस तथैवाविमनाः सुखदुःखसमॊ महायॊगिय आत्मानं समाधाय शरीरपरित्यागं चकार 27 तस्य परमात्मन्य अवसृते तान्य अस्थीनि धाता संगृह्य वज्रम अकरॊत तेन वज्रेणाभेद्येनाप्रधृष्येण बरह्मास्थि संभूतेन विष्णुप्रविष्टेनेन्द्रॊ विश्वरूपंजघान शिरसां चास्य छेदनम अकरॊत तस्मादनन्तरं विश्वरूप गात्रमथन संभवं तवस्त्रॊत्पादितम एवारिं वृत्रम इन्द्रॊ जघान 28 तस्यां दवैधी भूतायां बरह्म वध्यायां भयाद इन्द्रॊ देवराज्यं परित्यज्याप्सु संभवां शीतलां मानससरॊ गतां नलिनीं परपेदे तत्र चैश्वर्ययॊगाद अनु मात्रॊ भूत्वा बिस गरन्थिं परविवेश 29 अथ बरह्म वध्या भयप्रनस्ते तरैलॊक्यनाथे शचीपतौ जगद अनीश्वरं बभूव देवान रजस तमश चाविवेश मन्त्रा न परावर्तन्त महर्षीणां रक्षांसि परादुर्भवन बरह्म चॊत्सादनं जगाम अनिन्द्राश चाबला लॊकाः सुप्रधृष्या बभूवुः 30 अथ देवर्षयश चायुषः पुत्रं नहुषं नाम देवराजत्वे ऽभिषिषिचुः नहुषः पञ्चभिः शतैर जयॊतिषां ललाते जवलद्भिः सर्वतेजॊ हरैस तरिविष्टपं पालयां बभूव अथ लॊकाः परकृतिम आपेदिरे सवस्थाश च बभूवुः 31 अथॊवाच नहुषः सर्वं मां शक्रॊपभुक्तम उपस्थितम ऋते शचीम इति स एवम उक्त्वा शची समीपम अगमद उवाच चैनाम सुभगे ऽहम इन्द्रॊ देवानां भजस्व माम इति तं शची परत्युवाच परकृत्या तवं धर्मवत्सलः सॊमवंशॊद्भवश च नार्हति परपत्नी धर्षणं कर्तुम इति 32 ताम अथॊवाच नहुषः ऐन्द्रं पदम अध्यास्यते मया अहम इन्द्रस्य राज्यरत्नहरॊ नात्राधर्मः कश चित तवम इन्द्र भुक्तेति सा तम उवाच अस्ति मम किं चिद वरतम अपर्यवसितम तस्यावभृथे तवाम उपगमिष्यामि कैश चिद एवाहॊभिर इति स शच्यैवम अभिहितॊ नहुषॊ जगाम 33 अथ शची दुःखशॊकार्ता भर्तृदर्शनलालसा नहुष भयगृहीता बृहस्पतिम उपागच्छत स च ताम अभिगतां दृष्ट्वैव धयानं परविश्य भर्त्र कार्यतत्परां जञात्वा बृहस्पतिर उवाच अनेनैव वरतेन तसपा चान्विता देवीं वरदाम उपश्रुतिम आह्वय सा तवेन्द्रं दर्शयिष्यतीति 34 साथ महानियमम आस्थिता देवीं वरदाम उपश्रुतिं मन्त्रैर आह्वयत सॊपश्रुतिः शची समीपम अगात उवाच चैनाम इयम अस्मि तवयॊपहूतॊपस्थिता किं ते परियं करवाणीति तां मूर्ध्ना परनम्यॊवाच शची भगवत्य अर्हसि मे भर्तारं दर्शयितुं तवं सत्या मता चेति सैनां मानसं सरॊ ऽनयत तत्रेन्द्रं बिस गरन्थि गतम अदर्शयत 35 ताम इन्द्रः पत्नीं कृशां गलानां च दृष्ट्वा चिन्तयां बभूव अहॊ मम महद दुःखम इदम अद्यॊपगतम नस्तं हि माम इयम अन्विष्यॊपागमद दुःखार्तेति ताम इन्द्रॊवाच कथं वर्तयसीति सा तम उवाच नहुषॊ माम आह्वयति कालश चास्य मया कृत इति 36 ताम इन्द्रॊवाच गच्छ नहुषस तवया वाच्यॊ ऽपूर्वेण माम ऋषियुक्तेन यानेन तवम अधिरूढॊद्वहस्व इन्द्रस्य हि महान्ति वाहनानि मनसः परियाण्य अधिरूढानि मया तवम अन्येनॊपयातुम अर्हसीति सैवम उक्ता हृष्टा जगाम इन्द्रॊ ऽपि बिस गरन्थिम एवाविवेश भूयः 37 अथेन्द्राणीम अभ्यागतां दृष्ट्वॊवाच नहुषः पूर्णः स काल इति तं शच्य अब्रवीच छक्रेण यथॊक्तम स महर्षियुक्तं वाहनम अधिरूढः शची समीपम उपागच्छत 38 अथ मैत्रावरुणिः कुम्भयॊनिर अगस्त्यॊ महर्षीन विक्रियमाणांस तान नहुषेनापश्यत पद्भ्यां च तेनास्पृश्यत ततः स नहुषम अब्रवीद अकार्य परवृत्त पापपतस्व महीम सर्पॊ भव यावद भूमिर गिरयश च तिष्ठेयुस तावद इति स महर्षिवाक्यसमकालम एव तस्माद यानाद अवापतत 39 अथानिन्द्रं पुनस तरैलॊक्यम अभवत ततॊ देवर्षयश च भगवन्तं विष्णुं शरणम इन्द्रार्थे ऽभिगमुः ऊचुश चैनं भगवन्न इन्द्रं बरह्म वध्याभिभूतं तरातुम अर्हसीति ततः स वरदस तान अब्रवीद अश्वमेधं यज्ञं वैष्नवं शक्रॊ ऽभियजतु ततः सवं सथानं पराप्स्यतीति 40 ततॊ देवर्षयश चेन्द्रं नापश्यन यदा तदा शचीम ऊचुर गच्छ सुभगे इन्द्रम आनयस्वेति सा पुनस तत्सरः समभ्यगच्छत इन्द्रश च तस्मात सरसः समुत्थाय बृहस्पतिम अभिजगाम बृहस्पतिश चाश्वमेधं महाक्रतुं शक्रायाहरत ततः कृष्णसारङ्गं मेध्यम अश्वम उत्सृज्य वाहनं तम एव कृत्वेन्द्रं मरुत्पतिं बृहस्पतिः सवस्थानं परापयाम आस 41 ततः स देव राद देवैर ऋषिभिर सतूयमानस तरिविष्टपस्थॊ निष्कल्मषॊ बभूव बरह्म वध्यां चतुर्षु सथानेषु वनिताग्निवनस्पतिगॊषु वयभजत एवम इन्द्रॊ बरह्मतेजःप्रभावॊपबृंहितः शत्रुवधं कृत्वा सवस्थानं परापितः 42 आकाशगङ्गा गतश च पुरा भरद्वाजॊ महर्षिर उपास्पृशंस तरीन करमान करमता विष्णुनाभ्यासादितः स भरद्वाजेन ससलिलेन पानिनॊरसि तादितः सलक्षणॊरस्कः संवृत्तः 43 भृगुणा महर्षिणा शप्तॊ ऽगनिः सर्वभक्षत्वम उपनीतः 44 अदितिर वै देवानाम अन्नम अपचद एतद भुक्त्वासुरान हनिष्यन्तीति तत्र बुधॊ वरच चर्या समाप्ताव आगच्छत अदितिं चावॊचद भिक्षां नादात अथ भिक्षा परत्याख्यान रुषितेन बुधेन बरह्मभूतेन विवस्वतॊ दवितीये जन्मन्य अन्द संज्ञितस्यान्दं मारितम अदित्याः स मार्तन्दॊ विवस्वान अभवच छराद्ध देवः 45 दक्षस्य वै दुहितरः षष्टिर आसन ताभ्यः कश्यपाय तरयॊदश परादाद दश धर्माय दश मनवे साप्तविंशतिम इन्दवे तासु तुल्यासु नक्षत्राख्यां गतासु सॊमॊ रॊहिण्याम अभ्यधिकां परीतिम अकरॊत ततस ताः शेषाः पत्न्य अ ईर्ष्यावयः पितुः समीपं गत्वेमम अर्थं शशंसुः भगवन्न अस्मासु तुल्यप्रभावासु सॊमॊ रॊहिणीम अधिकं भजतीति सॊ ऽबरवीद यक्ष्मैनम आवेक्ष्यतीति 46 दक्ष शापात सॊमं राजानं यक्ष्माविवेश स यक्ष्मनाविष्टॊ दक्षम अगमत दक्षश चैनम अब्रवीन न समं वर्तसेति तत्रर्षयः सॊमम अब्रुवन कषीयसे यस्क्मना पश्चिमस्यां दिशि समुद्रे हिरण्यसरस तीर्थम तत्र गत्वात्मानम अभिषेचयस्वेति अथागच्छत सॊमस तत्र हिरण्यसरस तीर्थम गत्वा चात्मनः सनपनम अकरॊत सनात्वा चात्मानं पाप्मनॊ मॊक्षयाम आस तत्र चावभासितस तीर्थे यदा सॊमस तदा परभृति तीर्थं तत परभासम इति नाम्ना खयातं बभूव तच छापाद अद्यापि कषीयते सॊमॊ ऽमावास्यान्तर सथः पौर्णमासी मात्रेऽ धिष्ठितॊ मेघलेखा परतिच्छन्नं वपुर दर्शयति मेघसदृशं वर्णम अगमत तद अस्य शशलक्ष्म विमलम अभवत 47 सथूलशिरा महर्षिर मेरॊः परागुत्तरे दिग भागे तपस तेपे तस्य तपस तप्यमानस्य सर्वगन्धवहः शुचिर वायुर विवायमानः शरीरम अस्पृशत स तपसा तापित शरीरः कृशॊ वायुनॊपवीज्यमानॊ हृदयपरितॊषम अगमत तत्र तस्यानिल वयजनकृतपरितॊषस्य सद्यॊ वनस्पतयः पुष्प शॊभां न दर्शितवन्त इति सैताञ शशाप न सर्वकालं पुष्पवन्तॊ भविष्यथेति 48 नारायणॊ लॊकहितार्थं वदवा मुखॊ नाम महर्षिः पुराभवत तस्य मेरौ तपस तप्यतः समुद्राहूतॊ नागतः तेनामर्षितेनात्म गात्रॊष्मणा समुद्रः सतिमितजलः कृतः सवेदप्रस्यन्दन सदृशश चास्य लवन भावॊ जनितः उक्तश चापेयॊ भविष्यसि एतच च ते तॊयं वदवा मुखसंज्ञितेन पीयमानं मधुरं भविष्यति तद एतद अद्यापि वदवा मुखसंज्ञितेनानुवर्तिना तॊयं सामुद्रं पीयते 49 हिमवतॊ गिरेर दुहितरम उमां रुद्रश चकमे भृगुर अपि च महर्षिर हिमवन्तम आगम्याब्रवीत कन्याम उमां मे देहीति तम अब्रवीद धिमवान अभिलसितॊ वरॊ रुद्र इति तम अब्रवीद भृगुर यस्मात तवयाहं कन्या वरण कृतभावः परत्याख्यातस तस्मान न रत्नानां भवान भाजनं भविष्यतीति अद्य परभृत्य एतद अवस्थितम ऋषिवचनम 50 तद एवंविधं माहात्म्यं बराह्मणानाम कषत्रम अपि शाश्वतीम अव्ययां पृथिवीं पत्नीम अभिगम्य बुभुजे तद एतद बरह्माग्नीषॊमीयम तेन जगद धार्यते |
1
[arjuna] agnīṣomau kathaṃ pūrvam ekayonī pravartitau eṣa me saṃśayo jātas taṃ chindhi madhusūdana 2 [ṣrībhagavān] hanta te vartayiṣyāmi purāṇaṃ pāṇḍunandana ātmatejodbhavaṃ pārtha śṛṇuṣvaika manā mama 3 saṃprakṣālana kāle 'tikrānte caturthe yugasahasrānte avyakte sarvabhūtapralaye sthāvarajaṅgame jyotir dharaṇivāyurahite 'ndhe tamasi jalaikārṇave loke tama ity evābhibūte 'dvitīye pratiṣṭhite naiva rātryāṃ na divase na sati nāsati na vyakte nāvyakte vyavasthite etasyām avasthāyāṃ nārāyaṇa guṇāśrayād akṣayād ajarād anindriyād agrāhyād asaṃbhavāt satyād ahiṃsrāl lalāmād vividhapravṛtti viśeṣāt akṣayād ajarāmarād amūrtitaḥ sarvavyāpinaḥ sarvakartuḥ śāśvatāt tamasaḥ puruṣaḥ prādurbhūto harir avyayaḥ 4 nidarśanam api hy atra bhavati nāsīd aho na rātrir āsīt na sad āsīn nāsad āsīt tama eva purastād abhavad viśvarūpam sā viśvasya jananīty evam asyārtho 'nubhāsyate 5 tasyedānīṃ tamaḥ saṃbhavasya puruṣasya padmayoner brahmaṇaḥ prādur bhāve sa puruṣaḥ prajāḥ sisṛkṣamāṇo netrābhyām agnīṣomau sasarja tato bhūtasarge pravṛtteprajā kramavaśād brahmakṣatram upātiṣṭhat yaḥ somas tad brahma yad brahma te brāhmaṇāḥ yo 'gnis tat kṣatraṃ kṣatrād brahmabalavattaram kasmād iti lokapratyakṣaguṇam etat tad yathā brāhmaṇebhyaḥ paraṃ bhūtaṃ notpanna pūrvam dīpyamāne 'gnau juhotīti kṛtvā bravīmi bhūtasargaḥ kṛto brahmaṇā bhūtāni ca prasthāpya traulokyaṃ dhāryateti 6 mantravādo 'pī hi bhavati tvam agne yajñānāṃ hotā viśveṣām hito devenabhir mānuṣe jana iti nidarśanaṃ cātra bhavati viśveṣām agne yajñānāṃ hoteti hito devair mānuṣair jagata iti agnir hi yajñānāṃ hotṛkartā sa cāgnir brahma 7 na hy ṛte mantrād dhavanam asti na vinā puruṣaṃ tapaḥ saṃbhavati havir mantrāṇāṃ saṃpūjā vidyate devamanuṣyāṇām anena tvaṃ hoteti niyuktaḥ ye ca mānuṣā hotrādhikārās te ca brāhmaṇasyahi yājanaṃ vidhīyate na kṣatravaiśyayor dvijātyoḥ tasmād brāhmaṇā hy agnibhūtā yajñān udvahanti yajñā devāṃs tarpayanti devāḥ pṛthivīṃ bhāvayanti 8 śatapathe hi brāhmaṇaṃ bhavati agnau samiddhe sa juhoti yo vidvān brāhmaṇa mukhe dānāhutiṃ juhoti evam apy agnibhūtā brāhmaṇā vidvāṃso 'gniṃ bhāvayanti agnir viṣṇuḥ sarvabhūtāny anupraviśya prāṇān dhārayati api cātra sanatkumāra gītāḥ ślokā bhavanti 9 viśvaṃ brahmāsṛjat pūrvaṃ sarvādir niravaskaram brahmaghoṣair divaṃ tiṣṭhanty amarā brahmayonayaḥ 10 brāhmaṇānāṃ matir vākyaṃ karma śraddhā tapāṃsi ca dhārayanti mahīṃ dyāṃ ca śaityād vāry amṛtaṃ yathā 11 nāsti satyāt paro dharmo nāsti mātṛsamo guruḥ brāhmaṇebhyaḥ paraṃ nāsti pretya cehaca bhūtaye 12 naiṣām ukṣā vardhate nota vāhā; na gargaro mathyate saṃpradāne apadhvastā dasyubhūtā bhavanti; yeṣāṃ rāṣṭre brāhmaṇā vṛttihīnāḥ 13 veda purāṇetihāsa prāmānyān nārāyaṇa mukhodgatāḥ sarvātmanaḥ sarvakartāraḥ sarvabhāvanāś ca brāhmaṇāḥ vāk samakālaṃ hi tasya devasya varapradasya brāhmaṇāḥ prathamaṃ prādurbhūtā brāhmaṇebhyaś ca śeṣā varṇāḥ prādurbhūtāḥ itthaṃ ca surāsuraviśiṣṭā brāhmaṇā yadā mayā brahmabhūtena purā svayam evotpāditāḥ surāsuramaharṣayo bhūtaviśeṣāḥ sthāpitā nigṛhītāś ca 14 ahalyā dharṣaṇanimittaṃ hi gautamād dhari śmaśrutām indraḥ prāptaḥ kauśika nimittaṃ cendro muṣka viyogaṃ meṣavṛṣaṇatvaṃ cāvāpa aśvinor grahapratiṣedhodyata vajrasya puraṃdarasya cyavanena stambhito bāhuḥ kratuvadha prāptamanyunā ca dakṣeṇa bhūyas tapasā cātmānaṃ saṃyojya netrākṛtir anyā lalate rudrasyotpāditā 15 tripuravadhārthaṃ dikṣām abhyupagatasya rudrasyośanasā śiraso jatotkṛtya prayuktāḥ tataḥ prādurbhūtā bhujagāḥ tair asya bhujagaiḥ pīḍyamānaḥ kantho nīlatām upanītaḥ pūrve ca manvantare svāyambhuve nārāyaṇa hastabandhagrahaṇān nīlakanthatvam eva vā 16 amṛtotpādane puraścaraṇatām upagatasyāṅgiraso bṛhaspater upaspṛśato na prasādaṃ gatavatyaḥ kilāpaḥ atha bṛhasptir apāṃ cukrodha yasmān mamopaspṛśataḥ kaluṣī bhūtā na prasādam upagatās tasmād adya prabhṛti jhaṣamakaramatsyakacchapa jantu saṃkīrṇāḥ kaluṣī bhavateti tadāprabhṛty āpo yādobhiḥ saṃkīrṇāḥ saṃvṛttāḥ 17 viśvarūpo vaitvāstraḥ purohito devānām āsīt svasrīyo 'surāṇām sa pratyakṣaṃdevebhyo bhāgam adadat parokṣam asurebhyaḥ 18 atha hiraṇyakaśipuṃ puraskṛtya viśvarūpa mātaraṃ svasāram asurā varam ayācanta he svasar ayaṃ te putras tvāstro viśvarūpas triśirā devānāṃ purohitaḥ pratyakṣaṃ devebhyo bhāgam adadat parokṣam asmākam tato devā vardhante vayaṃ kṣīyāmaḥ tad enaṃ tvaṃ vārayitum arhasi tathā yathāsmān bhajed iti 19 atha viśvarūpaṃ nandanavanam upagataṃ mātovāca putra kiṃ parapakṣavardhanas tvaṃ mātulapakṣaṃ nāśayati nārhasy evaṃ kartum iti sa viśvarūpo mātur vākyam anatikramaṇīyam iti matvā saṃpūjya hiraṇyakaśipum agāt 20 hairaṇyagarbhāc ca vasiṣṭhād dhiraṇyakaśipuḥ śāpaṃ prāptavān yasmāt tvayānyo vṛto hotā tasmād asamāpta yajñas tvam apūrvāt sattvajātād vadhaṃ prāpsyasīti tac chāpadānād dhiraṇyakaśipuḥ prāptavān vadham 21 viśvarūpo mātṛpakṣavardhano 'tyarthaṃ tapasy abhavat tasya vratabhaṅgārtham indro bahvīḥ śrīmatyo 'psaraso niyuyoja tāś ca dṛṣṭvā manaḥ kṣubhitaṃ tasyābhavat tāsu cāpsaraḥsunacirād eva sakto 'bhavat saktaṃ cainaṃ jñātvāpsarasocur gacchāmahe vayaṃ yathāgatam iti 22 tās tvāstrovāca kva gamiṣyatha āsyatāṃ tāvan mayā saha śreyo bhaviṣyatīti tās tam abruvan vayaṃ deva striyo 'psarasendraṃ varadaṃ purā prabhviṣṇuṃ vṛṇīmaha iti 23 atha tā viśvarūpo 'bravīd adyaiva sendrā devā na bhaviṣyantīti tato mantrāñ jajāpa tair mantraiḥ prāvardhata triśirāḥ ekenāsyena sarvalokeṣu dvijaiḥ kriyāvadbhir yajñeṣu suhutaṃ somaṃ papāv ekenāpaikena sendrān devān athendras taṃ vivardhamānaṃ somapānāpyāyita sarvagātraṃ dṛṣṭvā cintām āpede 24 devāś ca te sahendreṇa brahmāṇam abhijagmur ūcuś ca viśvarūpeṇa sarvayajñeṣu suhutaḥ somaḥ pīyate vayam abhāgāḥ saṃvṛttāḥ asurapakṣo vardhate vayaṃ kṣīyāmaḥ tad arhasi no vidhātuṃ śreyo yad anantaram iti 25 tān brahmovācarṣir bhārgavas tapas tapyate dadhīcaḥ sa yācyatāṃ varaṃ yathā kalevaraṃ jahyāt tasyāsthibhir vajraṃ kriyatām iti 26 devās tatrāgacchan yatra dadhīco bhagavān ṛṣis tapas tepe sendrā devās tam abhigamyocur bhagavaṃs tapasaḥ kuśalam avighnaṃ ceti tān dadhīcovāca svāgataṃ bhavadbhyaḥ kiṃ kriyatām yad vakṣyatha tat kariṣyāmīti te tam abruvañ śarīraparityāgaṃ lokahitārthaṃ bhagavān kartum arhatīti atha dadhīcas tathaivāvimanāḥ sukhaduḥkhasamo mahāyogiy ātmānaṃ samādhāya śarīraparityāgaṃ cakāra 27 tasya paramātmany avasṛte tāny asthīni dhātā saṃgṛhya vajram akarot tena vajreṇābhedyenāpradhṛṣyeṇa brahmāsthi saṃbhūtena viṣṇupraviṣṭenendro viśvarūpaṃjaghāna śirasāṃ cāsya chedanam akarot tasmādanantaraṃ viśvarūpa gātramathana saṃbhavaṃ tvastrotpāditam evāriṃ vṛtram indro jaghāna 28 tasyāṃ dvaidhī bhūtāyāṃ brahma vadhyāyāṃ bhayād indro devarājyaṃ parityajyāpsu saṃbhavāṃ śītalāṃ mānasasaro gatāṃ nalinīṃ prapede tatra caiśvaryayogād anu mātro bhūtvā bisa granthiṃ praviveśa 29 atha brahma vadhyā bhayapranaste trailokyanāthe śacīpatau jagad anīśvaraṃ babhūva devān rajas tamaś cāviveśa mantrā na prāvartanta maharṣīṇāṃ rakṣāṃsi prādurbhavan brahma cotsādanaṃ jagāma anindrāś cābalā lokāḥ supradhṛṣyā babhūvuḥ 30 atha devarṣayaś cāyuṣaḥ putraṃ nahuṣaṃ nāma devarājatve 'bhiṣiṣicuḥ nahuṣaḥ pañcabhiḥ śatair jyotiṣāṃ lalāte jvaladbhiḥ sarvatejo harais triviṣṭapaṃ pālayāṃ babhūva atha lokāḥ prakṛtim āpedire svasthāś ca babhūvuḥ 31 athovāca nahuṣaḥ sarvaṃ māṃ śakropabhuktam upasthitam ṛte śacīm iti sa evam uktvā śacī samīpam agamad uvāca cainām subhage 'ham indro devānāṃ bhajasva mām iti taṃ śacī pratyuvāca prakṛtyā tvaṃ dharmavatsalaḥ somavaṃśodbhavaś ca nārhati parapatnī dharṣaṇaṃ kartum iti 32 tām athovāca nahuṣaḥ aindraṃ padam adhyāsyate mayā aham indrasya rājyaratnaharo nātrādharmaḥ kaś cit tvam indra bhukteti sā tam uvāca asti mama kiṃ cid vratam aparyavasitam tasyāvabhṛthe tvām upagamiṣyāmi kaiś cid evāhobhir iti sa śacyaivam abhihito nahuṣo jagāma 33 atha śacī duḥkhaśokārtā bhartṛdarśanalālasā nahuṣa bhayagṛhītā bṛhaspatim upāgacchat sa ca tām abhigatāṃ dṛṣṭvaiva dhyānaṃ praviśya bhartr kāryatatparāṃ jñātvā bṛhaspatir uvāca anenaiva vratena tasapā cānvitā devīṃ varadām upaśrutim āhvaya sā tavendraṃ darśayiṣyatīti 34 sātha mahāniyamam āsthitā devīṃ varadām upaśrutiṃ mantrair āhvayat sopaśrutiḥ śacī samīpam agāt uvāca cainām iyam asmi tvayopahūtopasthitā kiṃ te priyaṃ karavāṇīti tāṃ mūrdhnā pranamyovāca śacī bhagavaty arhasi me bhartāraṃ darśayituṃ tvaṃ satyā matā ceti saināṃ mānasaṃ saro 'nayat tatrendraṃ bisa granthi gatam adarśayat 35 tām indraḥ patnīṃ kṛśāṃ glānāṃ ca dṛṣṭvā cintayāṃ babhūva aho mama mahad duḥkham idam adyopagatam nastaṃ hi mām iyam anviṣyopāgamad duḥkhārteti tām indrovāca kathaṃ vartayasīti sā tam uvāca nahuṣo mām āhvayati kālaś cāsya mayā kṛta iti 36 tām indrovāca gaccha nahuṣas tvayā vācyo 'pūrveṇa mām ṛṣiyuktena yānena tvam adhirūḍhodvahasva indrasya hi mahānti vāhanāni manasaḥ priyāṇy adhirūḍhāni mayā tvam anyenopayātum arhasīti saivam uktā hṛṣṭā jagāma indro 'pi bisa granthim evāviveśa bhūyaḥ 37 athendrāṇīm abhyāgatāṃ dṛṣṭvovāca nahuṣaḥ pūrṇaḥ sa kāla iti taṃ śacy abravīc chakreṇa yathoktam sa maharṣiyuktaṃ vāhanam adhirūḍhaḥ śacī samīpam upāgacchat 38 atha maitrāvaruṇiḥ kumbhayonir agastyo maharṣīn vikriyamāṇāṃs tān nahuṣenāpaśyat padbhyāṃ ca tenāspṛśyata tataḥ sa nahuṣam abravīd akārya pravṛtta pāpapatasva mahīm sarpo bhava yāvad bhūmir girayaś ca tiṣṭheyus tāvad iti sa maharṣivākyasamakālam eva tasmād yānād avāpatat 39 athānindraṃ punas trailokyam abhavat tato devarṣayaś ca bhagavantaṃ viṣṇuṃ śaraṇam indrārthe 'bhigamuḥ ūcuś cainaṃ bhagavann indraṃ brahma vadhyābhibhūtaṃ trātum arhasīti tataḥ sa varadas tān abravīd aśvamedhaṃ yajñaṃ vaiṣnavaṃ śakro 'bhiyajatu tataḥ svaṃ sthānaṃ prāpsyatīti 40 tato devarṣayaś cendraṃ nāpaśyan yadā tadā śacīm ūcur gaccha subhage indram ānayasveti sā punas tatsaraḥ samabhyagacchat indraś ca tasmāt sarasaḥ samutthāya bṛhaspatim abhijagāma bṛhaspatiś cāśvamedhaṃ mahākratuṃ śakrāyāharat tataḥ kṛṣṇasāraṅgaṃ medhyam aśvam utsṛjya vāhanaṃ tam eva kṛtvendraṃ marutpatiṃ bṛhaspatiḥ svasthānaṃ prāpayām āsa 41 tataḥ sa deva rād devair ṛṣibhir stūyamānas triviṣṭapastho niṣkalmaṣo babhūva brahma vadhyāṃ caturṣu sthāneṣu vanitāgnivanaspatigoṣu vyabhajat evam indro brahmatejaḥprabhāvopabṛṃhitaḥ śatruvadhaṃ kṛtvā svasthānaṃ prāpitaḥ 42 ākāśagaṅgā gataś ca purā bharadvājo maharṣir upāspṛśaṃs trīn kramān kramatā viṣṇunābhyāsāditaḥ sa bharadvājena sasalilena pāninorasi tāditaḥ salakṣaṇoraskaḥ saṃvṛttaḥ 43 bhṛguṇā maharṣiṇā śapto 'gniḥ sarvabhakṣatvam upanītaḥ 44 aditir vai devānām annam apacad etad bhuktvāsurān haniṣyantīti tatra budho vrac caryā samāptāv āgacchat aditiṃ cāvocad bhikṣāṃ nādāt atha bhikṣā pratyākhyāna ruṣitena budhena brahmabhūtena vivasvato dvitīye janmany anda saṃjñitasyāndaṃ māritam adityāḥ sa mārtando vivasvān abhavac chrāddha devaḥ 45 dakṣasya vai duhitaraḥ ṣaṣṭir āsan tābhyaḥ kaśyapāya trayodaśa prādād daśa dharmāya daśa manave sāptaviṃśatim indave tāsu tulyāsu nakṣatrākhyāṃ gatāsu somo rohiṇyām abhyadhikāṃ prītim akarot tatas tāḥ śeṣāḥ patny a īrṣyāvayaḥ pituḥ samīpaṃ gatvemam arthaṃ śaśaṃsuḥ bhagavann asmāsu tulyaprabhāvāsu somo rohiṇīm adhikaṃ bhajatīti so 'bravīd yakṣmainam āvekṣyatīti 46 dakṣa śāpāt somaṃ rājānaṃ yakṣmāviveśa sa yakṣmanāviṣṭo dakṣam agamat dakṣaś cainam abravīn na samaṃ vartaseti tatrarṣayaḥ somam abruvan kṣīyase yaskmanā paścimasyāṃ diśi samudre hiraṇyasaras tīrtham tatra gatvātmānam abhiṣecayasveti athāgacchat somas tatra hiraṇyasaras tīrtham gatvā cātmanaḥ snapanam akarot snātvā cātmānaṃ pāpmano mokṣayām āsa tatra cāvabhāsitas tīrthe yadā somas tadā prabhṛti tīrthaṃ tat prabhāsam iti nāmnā khyātaṃ babhūva tac chāpād adyāpi kṣīyate somo 'māvāsyāntara sthaḥ paurṇamāsī mātre' dhiṣṭhito meghalekhā praticchannaṃ vapur darśayati meghasadṛśaṃ varṇam agamat tad asya śaśalakṣma vimalam abhavat 47 sthūlaśirā maharṣir meroḥ prāguttare dig bhāge tapas tepe tasya tapas tapyamānasya sarvagandhavahaḥ śucir vāyur vivāyamānaḥ śarīram aspṛśat sa tapasā tāpita śarīraḥ kṛśo vāyunopavījyamāno hṛdayaparitoṣam agamat tatra tasyānila vyajanakṛtaparitoṣasya sadyo vanaspatayaḥ puṣpa śobhāṃ na darśitavanta iti saitāñ śaśāpa na sarvakālaṃ puṣpavanto bhaviṣyatheti 48 nārāyaṇo lokahitārthaṃ vadavā mukho nāma maharṣiḥ purābhavat tasya merau tapas tapyataḥ samudrāhūto nāgataḥ tenāmarṣitenātma gātroṣmaṇā samudraḥ stimitajalaḥ kṛtaḥ svedaprasyandana sadṛśaś cāsya lavana bhāvo janitaḥ uktaś cāpeyo bhaviṣyasi etac ca te toyaṃ vadavā mukhasaṃjñitena pīyamānaṃ madhuraṃ bhaviṣyati tad etad adyāpi vadavā mukhasaṃjñitenānuvartinā toyaṃ sāmudraṃ pīyate 49 himavato girer duhitaram umāṃ rudraś cakame bhṛgur api ca maharṣir himavantam āgamyābravīt kanyām umāṃ me dehīti tam abravīd dhimavān abhilasito varo rudra iti tam abravīd bhṛgur yasmāt tvayāhaṃ kanyā varaṇa kṛtabhāvaḥ pratyākhyātas tasmān na ratnānāṃ bhavān bhājanaṃ bhaviṣyatīti adya prabhṛty etad avasthitam ṛṣivacanam 50 tad evaṃvidhaṃ māhātmyaṃ brāhmaṇānām kṣatram api śāśvatīm avyayāṃ pṛthivīṃ patnīm abhigamya bubhuje tad etad brahmāgnīṣomīyam tena jagad dhāryate |
The Mahabharata in Sanskrit
Book 12
Chapter 330
|
1
[भगवान] सूर्या चन्द्रमसौ शश्वत केशैर मे अंशुसंज्ञितैः बॊधयंस तापयंश चैव जगद उत्तिष्ठतः पृथक 2 बॊधनात तापनाच चैव जगतॊ हर्षणं भवेत अग्नीषॊम कृतैर एभिः कर्मभिः पाण्डुनन्दन हृषीकेशॊ ऽहम ईशानॊ वरदॊ लॊकभावनः 3 इदॊपहूत यॊगेन हरे भागं करतुष्व अहम वर्णश च मे हरिश्रेष्ठस तस्माद धरिर अहं समृतः 4 धाम सारॊ हि लॊकानाम ऋतं चैव विचारितम ऋतधामा ततॊ विप्रैः सत्यश चाहं परकीर्तितः 5 नस्तां च धरणीं पूर्वम अविन्दं वै गुहा गताम गॊविन्द इति मां देवा वाग भिः समभितुष्टुवुः 6 शिपिविष्टेति चाख्यायां हीनरॊमा च यॊ भवेत तेनाविष्टं हि यत किं चिच छिपिविष्टं हि तत समृतम 7 यास्कॊ माम ऋषिर अव्यग्रॊ नैकयज्ञेषु गीतवान शिपिविष्ट इति हय अस्माद गुह्य नाम धरॊ हय अहम 8 सतुत्वा मां शिपिविष्टेति यास्कॊ ऋषिर उदारधीः मत्प्रसादाद अधॊ नस्तं निरुक्तम अभिजग्मिवान 9 न हि जातॊ न जाये ऽहं न जनिष्ये कदा चन कषेत्रज्ञः सर्वभूतानां तस्माद अहम अजः समृतः 10 नॊक्तपूर्वं मया कषुद्रम अश्लीलं वा कदा चन ऋता बरह्मसुता सा मे सत्या देवी सरस्वती 11 सच चासच चैव कौन्तेय मयावेशितम आत्मनि पौष्करे बरह्म सदने सत्यं माम ऋषयॊ विदुः 12 सत्त्वान न चयुत पूर्वॊ ऽहं सत्त्वं वै विद्धि मत्कृतम जन्मनीहाभवत सत्त्वं पौर्विकं मे धनञ्जय 13 निराशीः कर्म संयुक्तं सात्वतं मां परकल्पय सात्वत जञानदृष्टॊ ऽहं सात्वतः सात्वतां पतिः 14 कृषामि मेदिनीं पार्थ भूत्वा कार्ष्णायसॊ महान कृष्णॊ वर्णश च मे यस्मात तस्मात कृष्णॊ ऽहम अर्जुन 15 मया संश्लेषिता भूमिर अद्भिर वयॊम च वायुना वायुश च तेजसा सार्धं वैकुन्थत्वं ततॊ मम 16 निर्वानं परमं सौख्यं धर्मॊ ऽसौ पर उच्यते तस्मान न चयुत पूर्वॊ ऽहम अच्युतस तेन कर्मणा 17 पृथिवी नभसी चॊभे विश्रुते विश्वलौकिके तयॊः संधारणार्थं हि माम अधॊक्षजम अञ्जसा 18 निरुक्तं वेद विदुषॊ ये च शब्दार्थ चिन्तकाः ते मां गायन्ति पराग्वंशे अधॊक्षज इति सथितिः 19 शब्द एकमतैर एष वयाहृतः परमर्षिभिः नान्यॊ हय अधॊक्षजॊ लॊके ऋते नारायणं परभुम 20 घृतं ममार्चिषॊ लॊके जन्तूनां पराण धारणम घृतार्चिर अहम अव्यग्रैर वेदज्ञैः परिकीर्तितः 21 तरयॊ हि धातवः खयाताः कर्मजा इति च समृताः पित्तं शलेष्मा च वायुश च एष संघात उच्यते 22 एतैश च धार्यते जन्तुर एतैः कषीणैश च कषीयते आयुर्वेदविदस तस्मात तरिधातुं मां परचक्षते 23 वृषॊ हि भगवान धर्मः खयातॊ लॊकेषु भारत नैघन्तुक पदाख्यातं विद्धि मां वृषम उत्तमम 24 कपिर वराहः शरेष्ठश च धर्मश च वृष उच्यते तस्माद वृषाकपिं पराह कश्यपॊ मां परजापतिः 25 न चादिं न मध्यं तथा नैव चान्तं; कदा चिद विदन्ते सुराश चासुराश च अनाद्यॊ हय अमध्यस तथा चाप्य अनन्तः; परगीतॊ ऽहम ईशॊ विभुर लॊकसाक्षी 26 शुचीनि शरवणीयानि शृणॊमीह धनंजय न च पापानि गृह्णामि ततॊ ऽहं वै शुचिश्रवः 27 एकशृङ्गः पुरा भूत्वा वराहॊ दिव्यदर्शनः इमाम उद्धृतवान भूमिम एकशृङ्गस ततॊ हय अहम 28 तथैवासं तरिककुदॊ वाराहं रूपम आस्थितः तरिककुत तेन विख्यातः शरीरस्य तु मापनात 29 विरिञ्च इति यः परॊक्तः कपिल जञानचिन्तकैः स परजापतिर एवाहं चेतनात सर्वलॊककृत 30 विद्या सहायवन्तं माम आदित्यस्थं सनातनम कपिलं पराहुर आचार्याः सांख्या निश्चित निश्चयाः 31 हिरण्यगर्भॊ दयुतिमान एष यश छन्दसि सतुतः यॊगैः संपूज्यते नित्यं स एवाहं विभुः समृतः 32 एकविंशतिशाखं च ऋग्वेदं मां परचक्षते सहस्रसाखं यत साम ये वै वेद विदॊ जनाः गायन्त्य आरण्यके विप्रा मद्भक्तास ते ऽपि दुर्लभाः 33 सः पञ्चाशतम अस्तौ च सप्तत्रिंशतम इत्य उत यस्मिञ शाखा यजुर्वेदे सॊ ऽहम आध्वर्यवे समृतः 34 पञ्च कल्पम अथर्वाणं कृत्याभिः परिबृंहितम कल्पयन्ति हि मां विप्रा अथर्वाणविदस तथा 35 शाखा भेदाश च ये के चिद याश च शाखासु गीतयः सवरवर्णसमुच्चाराः सर्वांस तान विद्धि मत्कृतान 36 यत तद धयशिरः पार्थ समुदेति वरप्रदम सॊ ऽहम एवॊत्तरे भागे करमाक्षर विभागवित 37 रामादेशित मार्गेण मत्प्रसादान महात्मना पाञ्चालेन करमः पराप्तस तस्माद भूतात सनातनात बाभ्रव्य गॊत्रः स बभौ परथमः करमपारगः 38 नारायणाद वरं लब्ध्वा पराप्य यॊगम अनुत्तमम करमं परनीय शिक्षां च परनयित्वा स गालवः 39 कन्दलीकॊ ऽथ राजा च बरह्मदत्तः परतापवान जाती मरणजं दुःखं समृत्वा समृत्वा पुनः पुनः सप्तजातिषु मुख्यत्वाद यॊगानां संपदं गतः 40 पुराहम आत्मजः पार्थ परथितः कारणान्तरे धर्मस्य कुरुशार्दूल ततॊ ऽहं धर्मजः समृतः 41 नरनारायणौ पूर्वं तपस तेपतुर अव्ययम धर्मयानं समारूढौ पर्वते गन्धमादने 42 तत कालसमयं चैव दक्षयज्ञॊ बभूव ह न चैवाकल्पयद भागं दक्षॊ रुद्रस्य भारत 43 ततॊ दधीचि वचनाद दक्षयज्ञम अपाहरत ससर्ज शूलं करॊधेन परज्वलन्तं मुहुर मुहुः 44 तच छूलं भस्मसात कृत्वा दक्षयज्ञं सविस्तरम आवयॊः सहसागच्छद बदर्य आश्रमम अन्तिकात वेगेन महता पार्थ पतन नारायणॊरसि 45 ततः सवतेजसाविष्टाः केशा नारायणस्य ह बभूवुर मुञ्ज वर्णास तु ततॊ ऽहं मुञ्ज केशवान 46 तच च शूलं विनिर्धूतं हुंकारेण महात्मना जगाम शंकर करं नारायण समाहतम 47 अथ रुद्र उपाधावत ताव ऋषी तपसान्वितौ तत एनं समुद्धूतं कन्थे जग्राह पानिना नारायणः स विश्वात्मा तेनास्य शिति कन्थता 48 अथ रुद्र विघातार्थम इषीकां जगृहे नरः मन्त्रैश च संयुयॊजाशु सॊ ऽभवत परशुर महान 49 कषिप्तश च सहसा रुद्रे खन्दनं पराप्तवांस तदा ततॊ ऽहं खन्द परशुः समृतः परशु खन्दनात 50 [अर्जुन] अस्मिन उद्धे तु वार्ष्णेय तरैलॊक्यमथने तदा जयं कः पराप्तवांस तत्र शंसैतन मे जनार्दन 51 [षरीभगवान] तयॊः संलग्नयॊर युद्धे रुद्र नारायणात्मनॊः उद्विग्नाः सहसा कृत्स्ना लॊकाः सर्वे ऽभवंस तदा 52 नागृह्णात पावकः शुभ्रं मखेषु सुहुतं हविः वेदा न परतिभान्ति सम ऋषीणां भावितात्मनाम 53 देवान रजस तमश चैव समाविविशतुस तदा वसुधा संचकम्पे ऽथ नभश च विपफाल ह 54 निष्प्रभानि च तेजांसि बरह्मा चैवासनाच चयुतः अगाच छॊषं समुद्रश च हिमवांश च वयशीर्यत 55 तस्मिन्न एवं समुत्पन्ने निमित्ते पाण्डुनन्दन बरह्मा वृतॊ देवगणैर ऋषिभिश च महात्मभिः आजगामाशु तं देशं यत्र युद्धम अवर्तत 56 साञ्जलि परग्रहॊ भूत्वा चतुर्वक्त्रॊ निरुक्तगः उवाच वचनं रुद्रं लॊकानाम अस्तु वै शिवम नयस्यायुधानि विश्वेश जगतॊ हितकाम्यया 57 यद अक्षरम अथाव्यक्तम ईशं लॊकस्य भावनम कूतस्थं कर्तृ निर्द्वन्द्वम अकर्तेति च यं विदुः 58 वयक्तभावगतस्यास्य एका मूर्तिर इयं शिवा नरॊ नारायणश चैव जातौ धर्मकुलॊद्वहौ 59 तपसा महता युक्तौ देव शरेष्ठौ महाव्रतौ अहं परसादजस तस्य कस्मिंश चित कारणान्तरे तवं चैव करॊधजस तात पूर्वसर्गे सनातनः 60 मया च सार्धं वरदं विबुधैश च महर्षिभिः परसादयाम आस ततॊ देवं नारायणं परभुम 61 बरह्मणा तव एवम उक्तस तु रुद्रः करॊधाग्निम उत्सृजन परसादयाम आस ततॊ देवं नारयणं परभुम शरणं च जगामाद्यं वरेण्यं वरदं हरिम 62 ततॊ ऽथ वरदॊ देवॊ जितक्रॊधॊ जितेन्द्रियः परीतिमान अभवत तत्र रुद्रेण सह संगतः 63 ऋषिभिर बरह्मणा चैव विबुधैश च सुपूजितः उवाच देवम ईशानम ईशः स जगतॊ हरिः 64 यस तवां वेत्ति स मां वेत्ति यस तवाम अनु स माम अनु नावयॊर अन्तरं किं चिन मा ते भूद बुद्धिर अन्यथा 65 अद्य परभृति शरीवत्सः शूलाङ्कॊ ऽयं भवत्व अयम मम पान्य अङ्कितश चापि शरीकन्थस तवं भविष्यसि 66 एवं लक्षणम उत्पाद्य परस्परकृतं तदा सख्यं चैवातुलं कृत्वा रुद्रेण सहिताव ऋषी तपस तेपतुर अव्यग्रौ विसृज्य तरिदिवौकसः 67 एष ते कथितः पार्थ नारायण जयॊ मृधे नामानि चैव गुह्यानि निरुक्तानि च भारत ऋषिभिः कथितानीह यानि संकीर्तितानि ते 68 एवं बहुविधै रूपैश चरामीह वसुंधरम बरह्मलॊकं च कौन्तेय गॊलॊकं च सनातनम मया तवं रक्षितॊ युद्धे महान्तं पराप्तवाञ जयम 69 यस तु ते सॊ ऽगरतॊ याति युद्धे संप्रत्युपस्थिते तं विद्धि रुद्रं कौन्तेय देवदेवं कपर्दिनम 70 कालः स एव कथितः करॊधजेति मया तव निहतांस तेन वै पूर्वं हतवान असि वै रिपून 71 अप्रमेयप्रभावं तं देवदेवम उमापतिम नमस्व देवं परयतॊ विश्वेशं हरम अव्ययम |
1
[bhagavān] sūryā candramasau śaśvat keśair me aṃśusaṃjñitaiḥ bodhayaṃs tāpayaṃś caiva jagad uttiṣṭhataḥ pṛthak 2 bodhanāt tāpanāc caiva jagato harṣaṇaṃ bhavet agnīṣoma kṛtair ebhiḥ karmabhiḥ pāṇḍunandana hṛṣīkeśo 'ham īśāno varado lokabhāvanaḥ 3 idopahūta yogena hare bhāgaṃ kratuṣv aham varṇaś ca me hariśreṣṭhas tasmād dharir ahaṃ smṛtaḥ 4 dhāma sāro hi lokānām ṛtaṃ caiva vicāritam ṛtadhāmā tato vipraiḥ satyaś cāhaṃ prakīrtitaḥ 5 nastāṃ ca dharaṇīṃ pūrvam avindaṃ vai guhā gatām govinda iti māṃ devā vāg bhiḥ samabhituṣṭuvuḥ 6 śipiviṣṭeti cākhyāyāṃ hīnaromā ca yo bhavet tenāviṣṭaṃ hi yat kiṃ cic chipiviṣṭaṃ hi tat smṛtam 7 yāsko mām ṛṣir avyagro naikayajñeṣu gītavān śipiviṣṭa iti hy asmād guhya nāma dharo hy aham 8 stutvā māṃ śipiviṣṭeti yāsko ṛṣir udāradhīḥ matprasādād adho nastaṃ niruktam abhijagmivān 9 na hi jāto na jāye 'haṃ na janiṣye kadā cana kṣetrajñaḥ sarvabhūtānāṃ tasmād aham ajaḥ smṛtaḥ 10 noktapūrvaṃ mayā kṣudram aślīlaṃ vā kadā cana ṛtā brahmasutā sā me satyā devī sarasvatī 11 sac cāsac caiva kaunteya mayāveśitam ātmani pauṣkare brahma sadane satyaṃ mām ṛṣayo viduḥ 12 sattvān na cyuta pūrvo 'haṃ sattvaṃ vai viddhi matkṛtam janmanīhābhavat sattvaṃ paurvikaṃ me dhanañjaya 13 nirāśīḥ karma saṃyuktaṃ sātvataṃ māṃ prakalpaya sātvata jñānadṛṣṭo 'haṃ sātvataḥ sātvatāṃ patiḥ 14 kṛṣāmi medinīṃ pārtha bhūtvā kārṣṇāyaso mahān kṛṣṇo varṇaś ca me yasmāt tasmāt kṛṣṇo 'ham arjuna 15 mayā saṃśleṣitā bhūmir adbhir vyoma ca vāyunā vāyuś ca tejasā sārdhaṃ vaikunthatvaṃ tato mama 16 nirvānaṃ paramaṃ saukhyaṃ dharmo 'sau para ucyate tasmān na cyuta pūrvo 'ham acyutas tena karmaṇā 17 pṛthivī nabhasī cobhe viśrute viśvalaukike tayoḥ saṃdhāraṇārthaṃ hi mām adhokṣajam añjasā 18 niruktaṃ veda viduṣo ye ca śabdārtha cintakāḥ te māṃ gāyanti prāgvaṃśe adhokṣaja iti sthitiḥ 19 śabda ekamatair eṣa vyāhṛtaḥ paramarṣibhiḥ nānyo hy adhokṣajo loke ṛte nārāyaṇaṃ prabhum 20 ghṛtaṃ mamārciṣo loke jantūnāṃ prāṇa dhāraṇam ghṛtārcir aham avyagrair vedajñaiḥ parikīrtitaḥ 21 trayo hi dhātavaḥ khyātāḥ karmajā iti ca smṛtāḥ pittaṃ śleṣmā ca vāyuś ca eṣa saṃghāta ucyate 22 etaiś ca dhāryate jantur etaiḥ kṣīṇaiś ca kṣīyate āyurvedavidas tasmāt tridhātuṃ māṃ pracakṣate 23 vṛṣo hi bhagavān dharmaḥ khyāto lokeṣu bhārata naighantuka padākhyātaṃ viddhi māṃ vṛṣam uttamam 24 kapir varāhaḥ śreṣṭhaś ca dharmaś ca vṛṣa ucyate tasmād vṛṣākapiṃ prāha kaśyapo māṃ prajāpatiḥ 25 na cādiṃ na madhyaṃ tathā naiva cāntaṃ; kadā cid vidante surāś cāsurāś ca anādyo hy amadhyas tathā cāpy anantaḥ; pragīto 'ham īśo vibhur lokasākṣī 26 śucīni śravaṇīyāni śṛṇomīha dhanaṃjaya na ca pāpāni gṛhṇāmi tato 'haṃ vai śuciśravaḥ 27 ekaśṛṅgaḥ purā bhūtvā varāho divyadarśanaḥ imām uddhṛtavān bhūmim ekaśṛṅgas tato hy aham 28 tathaivāsaṃ trikakudo vārāhaṃ rūpam āsthitaḥ trikakut tena vikhyātaḥ śarīrasya tu māpanāt 29 viriñca iti yaḥ proktaḥ kapila jñānacintakaiḥ sa prajāpatir evāhaṃ cetanāt sarvalokakṛt 30 vidyā sahāyavantaṃ mām ādityasthaṃ sanātanam kapilaṃ prāhur ācāryāḥ sāṃkhyā niścita niścayāḥ 31 hiraṇyagarbho dyutimān eṣa yaś chandasi stutaḥ yogaiḥ saṃpūjyate nityaṃ sa evāhaṃ vibhuḥ smṛtaḥ 32 ekaviṃśatiśākhaṃ ca ṛgvedaṃ māṃ pracakṣate sahasrasākhaṃ yat sāma ye vai veda vido janāḥ gāyanty āraṇyake viprā madbhaktās te 'pi durlabhāḥ 33 saḥ pañcāśatam astau ca saptatriṃśatam ity uta yasmiñ śākhā yajurvede so 'ham ādhvaryave smṛtaḥ 34 pañca kalpam atharvāṇaṃ kṛtyābhiḥ paribṛṃhitam kalpayanti hi māṃ viprā atharvāṇavidas tathā 35 śākhā bhedāś ca ye ke cid yāś ca śākhāsu gītayaḥ svaravarṇasamuccārāḥ sarvāṃs tān viddhi matkṛtān 36 yat tad dhayaśiraḥ pārtha samudeti varapradam so 'ham evottare bhāge kramākṣara vibhāgavit 37 rāmādeśita mārgeṇa matprasādān mahātmanā pāñcālena kramaḥ prāptas tasmād bhūtāt sanātanāt bābhravya gotraḥ sa babhau prathamaḥ kramapāragaḥ 38 nārāyaṇād varaṃ labdhvā prāpya yogam anuttamam kramaṃ pranīya śikṣāṃ ca pranayitvā sa gālavaḥ 39 kandalīko 'tha rājā ca brahmadattaḥ pratāpavān jātī maraṇajaṃ duḥkhaṃ smṛtvā smṛtvā punaḥ punaḥ saptajātiṣu mukhyatvād yogānāṃ saṃpadaṃ gataḥ 40 purāham ātmajaḥ pārtha prathitaḥ kāraṇāntare dharmasya kuruśārdūla tato 'haṃ dharmajaḥ smṛtaḥ 41 naranārāyaṇau pūrvaṃ tapas tepatur avyayam dharmayānaṃ samārūḍhau parvate gandhamādane 42 tat kālasamayaṃ caiva dakṣayajño babhūva ha na caivākalpayad bhāgaṃ dakṣo rudrasya bhārata 43 tato dadhīci vacanād dakṣayajñam apāharat sasarja śūlaṃ krodhena prajvalantaṃ muhur muhuḥ 44 tac chūlaṃ bhasmasāt kṛtvā dakṣayajñaṃ savistaram āvayoḥ sahasāgacchad badary āśramam antikāt vegena mahatā pārtha patan nārāyaṇorasi 45 tataḥ svatejasāviṣṭāḥ keśā nārāyaṇasya ha babhūvur muñja varṇās tu tato 'haṃ muñja keśavān 46 tac ca śūlaṃ vinirdhūtaṃ huṃkāreṇa mahātmanā jagāma śaṃkara karaṃ nārāyaṇa samāhatam 47 atha rudra upādhāvat tāv ṛṣī tapasānvitau tata enaṃ samuddhūtaṃ kanthe jagrāha pāninā nārāyaṇaḥ sa viśvātmā tenāsya śiti kanthatā 48 atha rudra vighātārtham iṣīkāṃ jagṛhe naraḥ mantraiś ca saṃyuyojāśu so 'bhavat paraśur mahān 49 kṣiptaś ca sahasā rudre khandanaṃ prāptavāṃs tadā tato 'haṃ khanda paraśuḥ smṛtaḥ paraśu khandanāt 50 [arjuna] asmin uddhe tu vārṣṇeya trailokyamathane tadā jayaṃ kaḥ prāptavāṃs tatra śaṃsaitan me janārdana 51 [ṣrībhagavān] tayoḥ saṃlagnayor yuddhe rudra nārāyaṇātmanoḥ udvignāḥ sahasā kṛtsnā lokāḥ sarve 'bhavaṃs tadā 52 nāgṛhṇāt pāvakaḥ śubhraṃ makheṣu suhutaṃ haviḥ vedā na pratibhānti sma ṛṣīṇāṃ bhāvitātmanām 53 devān rajas tamaś caiva samāviviśatus tadā vasudhā saṃcakampe 'tha nabhaś ca vipaphāla ha 54 niṣprabhāni ca tejāṃsi brahmā caivāsanāc cyutaḥ agāc choṣaṃ samudraś ca himavāṃś ca vyaśīryata 55 tasminn evaṃ samutpanne nimitte pāṇḍunandana brahmā vṛto devagaṇair ṛṣibhiś ca mahātmabhiḥ ājagāmāśu taṃ deśaṃ yatra yuddham avartata 56 sāñjali pragraho bhūtvā caturvaktro niruktagaḥ uvāca vacanaṃ rudraṃ lokānām astu vai śivam nyasyāyudhāni viśveśa jagato hitakāmyayā 57 yad akṣaram athāvyaktam īśaṃ lokasya bhāvanam kūtasthaṃ kartṛ nirdvandvam akarteti ca yaṃ viduḥ 58 vyaktabhāvagatasyāsya ekā mūrtir iyaṃ śivā naro nārāyaṇaś caiva jātau dharmakulodvahau 59 tapasā mahatā yuktau deva śreṣṭhau mahāvratau ahaṃ prasādajas tasya kasmiṃś cit kāraṇāntare tvaṃ caiva krodhajas tāta pūrvasarge sanātanaḥ 60 mayā ca sārdhaṃ varadaṃ vibudhaiś ca maharṣibhiḥ prasādayām āsa tato devaṃ nārāyaṇaṃ prabhum 61 brahmaṇā tv evam uktas tu rudraḥ krodhāgnim utsṛjan prasādayām āsa tato devaṃ nārayaṇaṃ prabhum śaraṇaṃ ca jagāmādyaṃ vareṇyaṃ varadaṃ harim 62 tato 'tha varado devo jitakrodho jitendriyaḥ prītimān abhavat tatra rudreṇa saha saṃgataḥ 63 ṛṣibhir brahmaṇā caiva vibudhaiś ca supūjitaḥ uvāca devam īśānam īśaḥ sa jagato hariḥ 64 yas tvāṃ vetti sa māṃ vetti yas tvām anu sa mām anu nāvayor antaraṃ kiṃ cin mā te bhūd buddhir anyathā 65 adya prabhṛti śrīvatsaḥ śūlāṅko 'yaṃ bhavatv ayam mama pāny aṅkitaś cāpi śrīkanthas tvaṃ bhaviṣyasi 66 evaṃ lakṣaṇam utpādya parasparakṛtaṃ tadā sakhyaṃ caivātulaṃ kṛtvā rudreṇa sahitāv ṛṣī tapas tepatur avyagrau visṛjya tridivaukasaḥ 67 eṣa te kathitaḥ pārtha nārāyaṇa jayo mṛdhe nāmāni caiva guhyāni niruktāni ca bhārata ṛṣibhiḥ kathitānīha yāni saṃkīrtitāni te 68 evaṃ bahuvidhai rūpaiś carāmīha vasuṃdharam brahmalokaṃ ca kaunteya golokaṃ ca sanātanam mayā tvaṃ rakṣito yuddhe mahāntaṃ prāptavāñ jayam 69 yas tu te so 'grato yāti yuddhe saṃpratyupasthite taṃ viddhi rudraṃ kaunteya devadevaṃ kapardinam 70 kālaḥ sa eva kathitaḥ krodhajeti mayā tava nihatāṃs tena vai pūrvaṃ hatavān asi vai ripūn 71 aprameyaprabhāvaṃ taṃ devadevam umāpatim namasva devaṃ prayato viśveśaṃ haram avyayam |
The Mahabharata in Sanskrit
Book 12
Chapter 331
|
1
[जनमेजय] बरह्मन सुमहद आख्यानं भवता परिकीर्तितम यच छरुत्वा मुनयः सर्वे विस्मयं परमं गताः 2 इदं शतसहस्राद धि भारताख्यान विस्तरात आमथ्य मतिमन्थेन जञानॊदधिम अनुत्तमम 3 नव नीतं यथा दध्नॊ मलयाच चन्दनं यथा आरण्यकं च वेदेभ्य ओषधिभ्यॊ ऽमृतं यथा 4 समुद्धृतम इदं बरह्मन कथामृतम अनुत्तमम तपॊ निधे तवयॊक्तं हि नारायण कथाश्रयम 5 स हीशॊ भगवान देवः सर्वभूतात्मभावनः अहॊ नारायणं तेजॊ दुर्दर्शं दविजसत्तम 6 यत्राविशन्ति कल्पान्ते सर्वे बरह्मादयः सुराः ऋषयश च सगन्धर्वा यच च किं चिच चराचरम न ततॊ ऽसति परं मन्ये पावनं दिवि चेह च 7 सर्वाश्रमाभिगमनं सर्वतीर्थावगाहनम न तथा फलदं चापि नारायण कथा यथा 8 सर्वथा पाविताः समेह शरुत्वेमाम आदितः कथाम हरेर विश्वेश्वरस्येह सर्वपापप्रनाशनीम 9 न चित्रं कृतवांस तत्र यद आर्यॊ मे धनंजयः वासुदेवसहायॊ यः पराप्तवाञ जयम उत्तमम 10 न चास्य किं चिद अप्राप्यं मन्ये लॊकेष्व अपि तरिषु तरिलॊक्य नाथॊ विष्णुः स यस्यासीत साह्यकृत सखा 11 धन्याश च सर्व एवासन बरह्मंस ते मम पूर्वकाः हिताय शरेयसे चैव येषाम आसीज जनार्दनः 12 तपसापि न दृश्यॊ हि भगवाँल लॊकपूजितः यं दृष्टवन्तं ते साक्षाच छरीवत्साङ्क विभूसनम 13 तेभ्यॊ धन्यतरश चैव नारदः परमेष्ठिजः न चाल्पतेजसम ऋषिं वेद्मि नारदम अव्ययम शवेतद्वीपं समासाद्य येन दृष्टः सवयं हरिः 14 देवप्रसादानुगतं वयक्तं तत तस्य दर्शनम यद दृष्टवांस तदा देवम अनिरुद्ध तनौ सथितम 15 बदरीम आश्रमं यत तु नारदः पराद्रवत पुनः नरनारायणौ दरष्टुं किं नु तत कारणं मुने 16 शवेतद्वीपान निवृत्तश च नारदः परमेष्ठिजः बदरीम आश्रमं पराप्य समागम्य च ताव ऋषी 17 कियन्तं कालम अवसत काः कथाः पृष्टवांश च सः शवेतद्वीपाद उपावृत्ते तस्मिन वा सुमहात्मनि 18 किम अब्रूतां महात्मानौ नरनारायणाव ऋषी तद एतन मे यथातत्त्वं सर्वम आख्यातुम अर्हसि 19 [वैषम्पायन] नमॊ भगवते तस्मै वयासायामित तेजसे यस्य परसादाद वक्ष्यामि नारायण कथाम इमाम 20 पराप्य शवेतं महाद्वीपं दृष्टवान हरिम अव्ययम निवृत्तॊ नारदॊ राजंस तरसा मेरुम आगमत हृदयेनॊद्वहन भारं यद उक्तं परमात्मना 21 पश्चाद अस्याभवद राजन्न आत्मनः साध्वसं महत यद गत्वा दूरम अध्वानं कषेमी पुनर इहागतः 22 ततॊ मेरॊः परचक्राम पर्वतं गन्धमादनम निपपात च खात तूर्णं विशालां बदरीम अनु 23 ततः स ददृशे देवौ पुराणाव ऋषिसत्तमौ तपश चरन्तौ सुमहद आत्मनिष्ठौ महाव्रतौ 24 तेजसाभ्यधिकौ सूर्यात सर्वलॊकविरॊचनात शरीवत्स लक्षणौ पूज्यौ जता मन्दल धारिणौ 25 जालपादभुजौ तौ तु पादयॊश चक्रलक्षणौ वयूधॊरस्कौ दीर्घभुजौ तथा मुष्क चतुष्किनौ 26 षष्टिदन्ताव अष्ट दंष्ट्रौ मेघौघसदृशस्वनौ सवास्यौ पृथु ललातौ च सुहनू सुभ्रु नासिकौ 27 आतपत्रेण सदृशे शिरसी देवयॊस तयॊः एवं लक्षणसंपन्नौ महापुरुष संज्ञितौ 28 तौ दृष्ट्वा नारदॊ हृष्टस ताभ्यां च परतिपूजितः सवागतेनाभिभास्याथ पृष्टश चानामयं तदा 29 बभूवान्तर्गतम अतिनिरीक्ष्य पुरुषॊत्तमौ सदॊ गतास तत्र ये वै सर्वभूतनमस्कृताः 30 शवेतदीपे मया दृष्टास तादृशाव ऋषिसत्तमौ इति संचिन्त्य मनसा कृत्वा चाभिप्रदक्षिणम उपॊपविविशे तत्र पीथे कुश मये शुभे 31 ततस तौ तपसां वासौ यशसां तेजसाम अपि ऋषी शम दमॊपेतौ कृत्वा पूर्वाह्निकं विधिम 32 पश्चान नारदम अव्यग्रौ पाद्यार्घ्याभ्यां परपूज्य च पीथयॊश चॊपविष्टौ तौ कृतातिथ्याह्निकौ नृप 33 तेषु तत्रॊपविष्टेषु स देशॊ ऽभिव्यराजत आज्याहुति महाज्वालैर यज्ञवातॊ ऽगनिभिर यथा 34 अथ नारायणस तत्र नारदं वाक्यम अब्रवीत सुखॊपविष्टं विश्रान्तं कृतातिथ्यं सुखस्थितम 35 अपीदानीं स भगवान परमात्मा सनातनः शवेतदीपे तवया दृष्ट आवयॊः परकृतिः परा 36 [नारद] दृष्टॊ मे पुरुषः शरीमान विश्वरूपधरॊ ऽवययः सर्वे हि लॊकास तत्र सथास तथा देवाः सहर्षिभिः अद्यापि चैनं पश्यामि युवां पश्यन सनातनौ 37 यैर लक्षणैर उपेतः स हरिर अव्यक्तरूपधृक तैर लक्षणैर उपेतौ हि वयक्तरूपधरौ युवाम 38 दृष्टौ मया युवां तत्र तस्य देवस्य पार्श्वतः इह चैवागतॊ ऽसम्य अद्य विसृष्टः परमात्मना 39 कॊ हि नाम भवेत तस्य तेजसा यशसा शरिया सदृशस तरिषु लॊकेषु ऋते धर्मात्मजौ युवाम 40 तेन मे कथितं पूर्वं नाम कषेत्रज्ञसंज्ञितम परादुर्भावाश च कथिता भविष्यन्ति हि ये यथा 41 तत्र ये पुरुषाः शवेताः पञ्चेन्द्रिय विवर्जिताः रतिबुद्धाश च ते सर्वे भक्ताश च पुरुषॊत्तमम 42 ते ऽरचयन्ति सदा देवं तैः सार्धं रमते च सः परिय भक्तॊ हि भगवान परमात्मा दविज परियः 43 रमते सॊ ऽरच्यमानॊ हि सदा भागवत परियः विश्वभुक सर्वगॊ देवॊ बान्धवॊ भक्त वत्सलः स कर्ता कारणं चैव कार्यं चातिबल दयुतिः 44 तपसा यॊज्य सॊ ऽऽतमानं शवेतद्वीपात परं हि यत तेज इत्य अभिविख्यातं सवयं भासावभासितम 45 शान्तिः सा तरिषु लॊकेषु सिद्धानां भावितात्मनाम एतया शुभया बुद्ध्या नैष्ठिकं वरतम आस्थितः 46 न तत्र सूर्यस तपति न सॊमॊ ऽभिविराजते न वायुर वाति देवेशे तपश चरति दुश्चरम 47 वेदीम अस्ततलॊत्सेधां भूमाव आस्थाय विश्वभुक एकपादस्थितॊ देव ऊर्ध्वबाहुर उदङ मुखः साङ्गान आवर्तयन वेदांस तपस तेपे सुदुश्चरम 48 यद बरह्मा ऋषयश चैव सवयं पशुपतिश च यत शेषाश च विबुधश्रेष्ठा दैत्यदानवराक्षसाः 49 नागाः सुपर्णा गन्धर्वाः सिद्धा राजर्षयश च ये हव्यं कव्यं च सततं विधिपूर्वं परयुञ्जते कृत्स्नं तत तस्य देवस्य चरणाव उपतिष्ठति 50 याः करियाः संप्रयुक्तास तु एकान्तगतबुद्धिभिः ताः सर्वाः शिरसा देवः परतिगृह्णाति वै सवयम 51 न तस्यान्यः परियतरः परतिबुद्धैर महात्मभिः विद्यते तरिषु लॊकेषु ततॊ ऽसम्य ऐकान्तिकं गतः इह चैवागतस तेन विसृष्टः परमात्मना 52 एवं मे भगवान देवः सवयम आख्यातवान हरिः आसिष्ये तत्परॊ भूत्वा युवाभ्यां सह नित्यशः |
1
[janamejaya] brahman sumahad ākhyānaṃ bhavatā parikīrtitam yac chrutvā munayaḥ sarve vismayaṃ paramaṃ gatāḥ 2 idaṃ śatasahasrād dhi bhāratākhyāna vistarāt āmathya matimanthena jñānodadhim anuttamam 3 nava nītaṃ yathā dadhno malayāc candanaṃ yathā āraṇyakaṃ ca vedebhya oṣadhibhyo 'mṛtaṃ yathā 4 samuddhṛtam idaṃ brahman kathāmṛtam anuttamam tapo nidhe tvayoktaṃ hi nārāyaṇa kathāśrayam 5 sa hīśo bhagavān devaḥ sarvabhūtātmabhāvanaḥ aho nārāyaṇaṃ tejo durdarśaṃ dvijasattama 6 yatrāviśanti kalpānte sarve brahmādayaḥ surāḥ ṛṣayaś ca sagandharvā yac ca kiṃ cic carācaram na tato 'sti paraṃ manye pāvanaṃ divi ceha ca 7 sarvāśramābhigamanaṃ sarvatīrthāvagāhanam na tathā phaladaṃ cāpi nārāyaṇa kathā yathā 8 sarvathā pāvitāḥ smeha śrutvemām āditaḥ kathām harer viśveśvarasyeha sarvapāpapranāśanīm 9 na citraṃ kṛtavāṃs tatra yad āryo me dhanaṃjayaḥ vāsudevasahāyo yaḥ prāptavāñ jayam uttamam 10 na cāsya kiṃ cid aprāpyaṃ manye lokeṣv api triṣu trilokya nātho viṣṇuḥ sa yasyāsīt sāhyakṛt sakhā 11 dhanyāś ca sarva evāsan brahmaṃs te mama pūrvakāḥ hitāya śreyase caiva yeṣām āsīj janārdanaḥ 12 tapasāpi na dṛśyo hi bhagavāṁl lokapūjitaḥ yaṃ dṛṣṭavantaṃ te sākṣāc chrīvatsāṅka vibhūsanam 13 tebhyo dhanyataraś caiva nāradaḥ parameṣṭhijaḥ na cālpatejasam ṛṣiṃ vedmi nāradam avyayam śvetadvīpaṃ samāsādya yena dṛṣṭaḥ svayaṃ hariḥ 14 devaprasādānugataṃ vyaktaṃ tat tasya darśanam yad dṛṣṭavāṃs tadā devam aniruddha tanau sthitam 15 badarīm āśramaṃ yat tu nāradaḥ prādravat punaḥ naranārāyaṇau draṣṭuṃ kiṃ nu tat kāraṇaṃ mune 16 śvetadvīpān nivṛttaś ca nāradaḥ parameṣṭhijaḥ badarīm āśramaṃ prāpya samāgamya ca tāv ṛṣī 17 kiyantaṃ kālam avasat kāḥ kathāḥ pṛṣṭavāṃś ca saḥ śvetadvīpād upāvṛtte tasmin vā sumahātmani 18 kim abrūtāṃ mahātmānau naranārāyaṇāv ṛṣī tad etan me yathātattvaṃ sarvam ākhyātum arhasi 19 [vaiṣampāyana] namo bhagavate tasmai vyāsāyāmita tejase yasya prasādād vakṣyāmi nārāyaṇa kathām imām 20 prāpya śvetaṃ mahādvīpaṃ dṛṣṭavān harim avyayam nivṛtto nārado rājaṃs tarasā merum āgamat hṛdayenodvahan bhāraṃ yad uktaṃ paramātmanā 21 paścād asyābhavad rājann ātmanaḥ sādhvasaṃ mahat yad gatvā dūram adhvānaṃ kṣemī punar ihāgataḥ 22 tato meroḥ pracakrāma parvataṃ gandhamādanam nipapāta ca khāt tūrṇaṃ viśālāṃ badarīm anu 23 tataḥ sa dadṛśe devau purāṇāv ṛṣisattamau tapaś carantau sumahad ātmaniṣṭhau mahāvratau 24 tejasābhyadhikau sūryāt sarvalokavirocanāt śrīvatsa lakṣaṇau pūjyau jatā mandala dhāriṇau 25 jālapādabhujau tau tu pādayoś cakralakṣaṇau vyūdhoraskau dīrghabhujau tathā muṣka catuṣkinau 26 ṣaṣṭidantāv aṣṭa daṃṣṭrau meghaughasadṛśasvanau svāsyau pṛthu lalātau ca suhanū subhru nāsikau 27 ātapatreṇa sadṛśe śirasī devayos tayoḥ evaṃ lakṣaṇasaṃpannau mahāpuruṣa saṃjñitau 28 tau dṛṣṭvā nārado hṛṣṭas tābhyāṃ ca pratipūjitaḥ svāgatenābhibhāsyātha pṛṣṭaś cānāmayaṃ tadā 29 babhūvāntargatam atinirīkṣya puruṣottamau sado gatās tatra ye vai sarvabhūtanamaskṛtāḥ 30 śvetadīpe mayā dṛṣṭās tādṛśāv ṛṣisattamau iti saṃcintya manasā kṛtvā cābhipradakṣiṇam upopaviviśe tatra pīthe kuśa maye śubhe 31 tatas tau tapasāṃ vāsau yaśasāṃ tejasām api ṛṣī śama damopetau kṛtvā pūrvāhnikaṃ vidhim 32 paścān nāradam avyagrau pādyārghyābhyāṃ prapūjya ca pīthayoś copaviṣṭau tau kṛtātithyāhnikau nṛpa 33 teṣu tatropaviṣṭeṣu sa deśo 'bhivyarājata ājyāhuti mahājvālair yajñavāto 'gnibhir yathā 34 atha nārāyaṇas tatra nāradaṃ vākyam abravīt sukhopaviṣṭaṃ viśrāntaṃ kṛtātithyaṃ sukhasthitam 35 apīdānīṃ sa bhagavān paramātmā sanātanaḥ śvetadīpe tvayā dṛṣṭa āvayoḥ prakṛtiḥ parā 36 [nārada] dṛṣṭo me puruṣaḥ śrīmān viśvarūpadharo 'vyayaḥ sarve hi lokās tatra sthās tathā devāḥ saharṣibhiḥ adyāpi cainaṃ paśyāmi yuvāṃ paśyan sanātanau 37 yair lakṣaṇair upetaḥ sa harir avyaktarūpadhṛk tair lakṣaṇair upetau hi vyaktarūpadharau yuvām 38 dṛṣṭau mayā yuvāṃ tatra tasya devasya pārśvataḥ iha caivāgato 'smy adya visṛṣṭaḥ paramātmanā 39 ko hi nāma bhavet tasya tejasā yaśasā śriyā sadṛśas triṣu lokeṣu ṛte dharmātmajau yuvām 40 tena me kathitaṃ pūrvaṃ nāma kṣetrajñasaṃjñitam prādurbhāvāś ca kathitā bhaviṣyanti hi ye yathā 41 tatra ye puruṣāḥ śvetāḥ pañcendriya vivarjitāḥ ratibuddhāś ca te sarve bhaktāś ca puruṣottamam 42 te 'rcayanti sadā devaṃ taiḥ sārdhaṃ ramate ca saḥ priya bhakto hi bhagavān paramātmā dvija priyaḥ 43 ramate so 'rcyamāno hi sadā bhāgavata priyaḥ viśvabhuk sarvago devo bāndhavo bhakta vatsalaḥ sa kartā kāraṇaṃ caiva kāryaṃ cātibala dyutiḥ 44 tapasā yojya so ''tmānaṃ śvetadvīpāt paraṃ hi yat teja ity abhivikhyātaṃ svayaṃ bhāsāvabhāsitam 45 śāntiḥ sā triṣu lokeṣu siddhānāṃ bhāvitātmanām etayā śubhayā buddhyā naiṣṭhikaṃ vratam āsthitaḥ 46 na tatra sūryas tapati na somo 'bhivirājate na vāyur vāti deveśe tapaś carati duścaram 47 vedīm astatalotsedhāṃ bhūmāv āsthāya viśvabhuk ekapādasthito deva ūrdhvabāhur udaṅ mukhaḥ sāṅgān āvartayan vedāṃs tapas tepe suduścaram 48 yad brahmā ṛṣayaś caiva svayaṃ paśupatiś ca yat śeṣāś ca vibudhaśreṣṭhā daityadānavarākṣasāḥ 49 nāgāḥ suparṇā gandharvāḥ siddhā rājarṣayaś ca ye havyaṃ kavyaṃ ca satataṃ vidhipūrvaṃ prayuñjate kṛtsnaṃ tat tasya devasya caraṇāv upatiṣṭhati 50 yāḥ kriyāḥ saṃprayuktās tu ekāntagatabuddhibhiḥ tāḥ sarvāḥ śirasā devaḥ pratigṛhṇāti vai svayam 51 na tasyānyaḥ priyataraḥ pratibuddhair mahātmabhiḥ vidyate triṣu lokeṣu tato 'smy aikāntikaṃ gataḥ iha caivāgatas tena visṛṣṭaḥ paramātmanā 52 evaṃ me bhagavān devaḥ svayam ākhyātavān hariḥ āsiṣye tatparo bhūtvā yuvābhyāṃ saha nityaśaḥ |
The Mahabharata in Sanskrit
Book 12
Chapter 332
|
1
[नरनारायणौ] धन्यॊ ऽसय अनुगृहीतॊ ऽसि यत ते दृष्टः सवयंप्रभुः न हि तं दृष्टवान कश चित पद्मयॊनिर अपि सवयम 2 अव्यक्तयॊनिर भगवान दुर्दर्शः पुरुषॊत्तमः नारदैतद धि ते सत्यं वचनं समुदाहृतम 3 नास्य भक्तैः परियतरॊ लॊके कश चन विद्यते ततः सवयं दर्शितवान सवम आत्मानं दविजॊत्तमः 4 तपॊ हि तप्यतस तस्य यत सथानं परमात्मनः न तत संप्राप्नुते कश चिद ऋते हय आवां दविजॊत्तम 5 या हि सूर्यसहस्रस्य समस्तस्य भवेद दयुतिः सथानस्य सा भवेत तस्य सवयं तेन विराजता 6 तस्माद उत्तिष्ठते विप्र देवाद विश्वभुवः पतेः कषमा कषमावतां शरेष्ठ यया भूमिस तु युज्यते 7 तस्माच चॊत्तिष्ठते देवात सर्वभूति हितॊ रसः आपॊ येन हि युज्यन्ते दरवत्वं पराप्नुवन्ति च 8 तस्माद एव समुद्भूतं तेजॊ रूपगुणात्मकम येन सम युज्यते सूर्यस ततॊ लॊकान विराजते 9 तस्माद देवात समुद्भूतः सपर्शस तु पुरुषॊत्तमात येन सम युज्यते वायुस ततॊ लॊकान विवात्य असौ 10 तस्माच चॊत्तिष्ठते शब्दः सर्वलॊकेश्वरात परभॊः आकाशं युज्यते येन ततस तिष्ठत्य असंवृतम 11 तस्माच चॊत्तिष्ठते देवात सर्वभूतगतं मनः चन्द्रमा येन संयुक्तः परकाशगुण धारणः 12 सॊ भूतॊत्पादकं नाम तत सथानं वेद संज्ञितम विद्या सहायॊ यत्रास्ते भगवान हव्यकव्य भुक 13 ये हि निष्कल्मसा लॊके पुण्यपापविवर्जिताः तेषां वै कषेमम अध्वानं गच्छतां दविजसत्तम सर्वलॊकतमॊ हन्ता आदित्यॊ दवारम उच्यते 14 आदित्यदग्धसर्वाङ्गा अदृश्याः केन चित कव चित परमानु भूता भूत्वा तु तं देवं परविशन्त्य उत 15 तस्माद अपि विनिर्मुक्ता अनिरुद्ध तनौ सथिताः मनॊ भूतास ततॊ भूयः परद्युम्नं परविशन्त्य उत 16 परद्युम्नाच चापि निर्मुक्ता जीवं संकर्षणं तथा विशन्ति विप्र परवराः सांख्या भागवतैः सह 17 ततस तरैगुण्यहीनास ते परमात्मानम अञ्जसा परविशन्ति दविजश्रेष्ठ कषेत्रज्ञं निर्गुणात्मकम सर्वावासं वासुदेवं कषेत्रज्ञं विद्धि तत्त्वतः 18 समाहित मनस्काश च नियताः संयतेन्द्रियाः एकान्तभावॊपगता वासुदेवं विशन्ति ते 19 आवाम अपि च धर्मस्य गृहे जातौ दविजॊत्तम रम्यां विशालाम आश्रित्य तप उग्रं समास्थितौ 20 ये तु तस्यैव देवस्य परादुर्भावाः सुरप्रियाः भविष्यन्ति तरिलॊकस्थास तेषां सवस्तीत्य अतॊ दविज 21 विधिना सवेन युक्ताभ्यां यथापूर्वं दविजॊत्तम आस्थिताभ्यां सर्वकृच्छ्रं वरतं सम्यक तद उत्तमम 22 आवाभ्याम अपि दृष्टस तवं शवेतद्वीपे तपॊधन समागतॊ भगवता संजल्पं कृतवान यथा 23 सर्वं हि नौ संविदितं तरैलॊक्ये सचराचरे यद भविष्यति वृत्तं वा वर्तते वा शुभाशुभम 24 [वैषम्पायन] एतच छरुत्वा तयॊर वाक्यं तपस्य उग्रे ऽभयवर्तत नारदः पराञ्जलिर भूत्वा नारायण परायनः 25 जजाप विधिवन मन्त्रान नारायण गतान बहून दिव्यं वर्षसहस्रं हि नरनारायणाश्रमे 26 अवसत स महातेजा नारदॊ भगवान ऋषिः तम एवाभ्यर्चयन देवं नरनारायणौ च तौ |
1
[naranārāyaṇau] dhanyo 'sy anugṛhīto 'si yat te dṛṣṭaḥ svayaṃprabhuḥ na hi taṃ dṛṣṭavān kaś cit padmayonir api svayam 2 avyaktayonir bhagavān durdarśaḥ puruṣottamaḥ nāradaitad dhi te satyaṃ vacanaṃ samudāhṛtam 3 nāsya bhaktaiḥ priyataro loke kaś cana vidyate tataḥ svayaṃ darśitavān svam ātmānaṃ dvijottamaḥ 4 tapo hi tapyatas tasya yat sthānaṃ paramātmanaḥ na tat saṃprāpnute kaś cid ṛte hy āvāṃ dvijottama 5 yā hi sūryasahasrasya samastasya bhaved dyutiḥ sthānasya sā bhavet tasya svayaṃ tena virājatā 6 tasmād uttiṣṭhate vipra devād viśvabhuvaḥ pateḥ kṣamā kṣamāvatāṃ śreṣṭha yayā bhūmis tu yujyate 7 tasmāc cottiṣṭhate devāt sarvabhūti hito rasaḥ āpo yena hi yujyante dravatvaṃ prāpnuvanti ca 8 tasmād eva samudbhūtaṃ tejo rūpaguṇātmakam yena sma yujyate sūryas tato lokān virājate 9 tasmād devāt samudbhūtaḥ sparśas tu puruṣottamāt yena sma yujyate vāyus tato lokān vivāty asau 10 tasmāc cottiṣṭhate śabdaḥ sarvalokeśvarāt prabhoḥ ākāśaṃ yujyate yena tatas tiṣṭhaty asaṃvṛtam 11 tasmāc cottiṣṭhate devāt sarvabhūtagataṃ manaḥ candramā yena saṃyuktaḥ prakāśaguṇa dhāraṇaḥ 12 so bhūtotpādakaṃ nāma tat sthānaṃ veda saṃjñitam vidyā sahāyo yatrāste bhagavān havyakavya bhuk 13 ye hi niṣkalmasā loke puṇyapāpavivarjitāḥ teṣāṃ vai kṣemam adhvānaṃ gacchatāṃ dvijasattama sarvalokatamo hantā ādityo dvāram ucyate 14 ādityadagdhasarvāṅgā adṛśyāḥ kena cit kva cit paramānu bhūtā bhūtvā tu taṃ devaṃ praviśanty uta 15 tasmād api vinirmuktā aniruddha tanau sthitāḥ mano bhūtās tato bhūyaḥ pradyumnaṃ praviśanty uta 16 pradyumnāc cāpi nirmuktā jīvaṃ saṃkarṣaṇaṃ tathā viśanti vipra pravarāḥ sāṃkhyā bhāgavataiḥ saha 17 tatas traiguṇyahīnās te paramātmānam añjasā praviśanti dvijaśreṣṭha kṣetrajñaṃ nirguṇātmakam sarvāvāsaṃ vāsudevaṃ kṣetrajñaṃ viddhi tattvataḥ 18 samāhita manaskāś ca niyatāḥ saṃyatendriyāḥ ekāntabhāvopagatā vāsudevaṃ viśanti te 19 āvām api ca dharmasya gṛhe jātau dvijottama ramyāṃ viśālām āśritya tapa ugraṃ samāsthitau 20 ye tu tasyaiva devasya prādurbhāvāḥ surapriyāḥ bhaviṣyanti trilokasthās teṣāṃ svastīty ato dvija 21 vidhinā svena yuktābhyāṃ yathāpūrvaṃ dvijottama āsthitābhyāṃ sarvakṛcchraṃ vrataṃ samyak tad uttamam 22 āvābhyām api dṛṣṭas tvaṃ śvetadvīpe tapodhana samāgato bhagavatā saṃjalpaṃ kṛtavān yathā 23 sarvaṃ hi nau saṃviditaṃ trailokye sacarācare yad bhaviṣyati vṛttaṃ vā vartate vā śubhāśubham 24 [vaiṣampāyana] etac chrutvā tayor vākyaṃ tapasy ugre 'bhyavartata nāradaḥ prāñjalir bhūtvā nārāyaṇa parāyanaḥ 25 jajāpa vidhivan mantrān nārāyaṇa gatān bahūn divyaṃ varṣasahasraṃ hi naranārāyaṇāśrame 26 avasat sa mahātejā nārado bhagavān ṛṣiḥ tam evābhyarcayan devaṃ naranārāyaṇau ca tau |
The Mahabharata in Sanskrit
Book 12
Chapter 333
|
1
[वैषम्पायन] कस्य चित तव अथ कालस्य नारदः परमेष्ठिजः दैवं कृत्वा यथान्यायं पित्र्यं चक्रे ततः परम 2 ततस तं वचनं पराह जयेष्ठॊ धर्मात्मजः परभुः क इज्यते दविजश्रेष्ठ दैवे पित्र्ये च कल्पिते 3 तवया मतिमतां शरेष्ठ तन मे शंस यथागमम किम एतत करियते कर्मफलं चास्य किम इष्यते 4 [नारद] तवयैतत कथितं पूर्वं दैवं कर्तव्यम इत्य अपि दैवतं च परॊ यज्ञः परमात्मा सनातनः 5 ततस तद्भावितॊ नित्यं यजे वैकुन्थम अव्ययम तस्माच च परसृतः पूर्वं बरह्मा लॊकपितामहः 6 मम वै पितरं परीतः परमेष्ठ्य अप्य अजीजनत अहं संकल्पजस तस्य पुत्रः परथमकल्पितः 7 यजाम्य अहं पितॄन साधॊ नारायण विधौ कृते एवं स एव भगवान पिता माता पितामहः इज्यते पितृयज्ञेषु मया नित्यं जगत्पतिः 8 शरुतिश चाप्य अपरा देवपुत्रान हि पितरॊ ऽयजन वेदश्रुतिः परनस्ता च पुनर अध्यापिता सुतैः ततस ते मन्त्रदाः पुत्राः पितृत्वम उपपेदिरे 9 नूनं पुरैतद विदितं युवयॊर भावितात्मनॊः पुत्राश च पितरश चैव परस्परम अपूजयन 10 तरीन पिण्डान नयस्य वै पृथ्व्यां पूर्वं दत्त्वा कुशान इति कथं तु पिण्ड संज्ञां ते पितरॊ लेभिरे पुरा 11 [नरनारायनौ] इमां हि धरणीं पूर्वं नस्तां सागरमेखलाम गॊविन्द उज्जहाराशु वाराहं रूपम आश्रितः 12 सथापयित्वा तु धरणीं सवे सथाने पुरुषॊत्तमः जलकर्दम लिप्ताङ्गॊ लॊककार्यार्थम उद्यतः 13 पराप्ते चाह्निक काले स मध्यंदिन गते रवौ दंस्त्रा विलग्नान मृत पिण्डान विधूय सहसा परभुः सथापयाम आस वै पृथ्व्यां कुशान आस्तीर्य नारद 14 स तेष्व आत्मानम उद्दिश्य पित्र्यं चक्रे यथाविधि संकल्पयित्वा तरीन पिण्डान सवेनैव विधिना परभुः 15 आत्मगात्रॊष्म संभूतैः सनेहगर्भैस तिलैर अपि परॊक्ष्यापवर्गं देवेशः पराङ्मुखः कृतवान सवयम 16 मर्यादा सथापनार्थं च ततॊ वचनम उक्तवान अहं हि पितरः सरष्टुम उद्यतॊ लॊककृत सवयम 17 तस्य चिन्तयतः सद्यः पितृकार्यविधिं परम दंस्त्राभ्यां परविनिर्धूता ममैते दक्षिणां दिशम आश्रिता धरणीं पिण्डास तस्मात पितर एव ते 18 तरयॊ मूर्ति विहीना वै पिण्ड मूर्ति धरास तव इमे भवन्तु पितरॊ लॊके मया सृष्टाः सनातनाः 19 पिता पितामहश चैव तथैव परपितामहः अहम एवात्र विज्ञेयस तरिषु पिण्डेषु संस्थितः 20 नास्ति मत्तॊ ऽधिकः कश चित कॊ वाभ्यर्च्यॊ मया सवयम कॊ वा मम पिता लॊके अहम एव पितामहः 21 पितामह पिता चैव अहम एवात्र कारणम इत्य एवम उक्त्वा वचनं देवदेवॊ वृषाकपिः 22 वराहपर्वते विप्र दत्त्वा पिण्डान सविस्तरान आत्मानं पूजयित्वैव तत्रैवादर्शनं गतः 23 एतदर्थं शुभमते पितरः पिण्ड संज्ञिताः लभन्ते सततं पूजां वृषाकपि वचॊ यथा 24 ये यजन्ति पितॄन देवान गुरूंश चैवातिथींस तथा गाश चैव दविजमुख्यांश च पृथिवीं मातरं तथा कर्मणा मनसा वाचा विष्णुम एव यजन्ति ते 25 अन्तर्गतः स भगवान सर्वसत्त्वशरीरगः समः सर्वेषु भूतेषु ईश्वरः सुखदुःखयॊः महान महात्मा सर्वात्मा नारायण इति शरुतः |
1
[vaiṣampāyana] kasya cit tv atha kālasya nāradaḥ parameṣṭhijaḥ daivaṃ kṛtvā yathānyāyaṃ pitryaṃ cakre tataḥ param 2 tatas taṃ vacanaṃ prāha jyeṣṭho dharmātmajaḥ prabhuḥ ka ijyate dvijaśreṣṭha daive pitrye ca kalpite 3 tvayā matimatāṃ śreṣṭha tan me śaṃsa yathāgamam kim etat kriyate karmaphalaṃ cāsya kim iṣyate 4 [nārada] tvayaitat kathitaṃ pūrvaṃ daivaṃ kartavyam ity api daivataṃ ca paro yajñaḥ paramātmā sanātanaḥ 5 tatas tadbhāvito nityaṃ yaje vaikuntham avyayam tasmāc ca prasṛtaḥ pūrvaṃ brahmā lokapitāmahaḥ 6 mama vai pitaraṃ prītaḥ parameṣṭhy apy ajījanat ahaṃ saṃkalpajas tasya putraḥ prathamakalpitaḥ 7 yajāmy ahaṃ pitṝn sādho nārāyaṇa vidhau kṛte evaṃ sa eva bhagavān pitā mātā pitāmahaḥ ijyate pitṛyajñeṣu mayā nityaṃ jagatpatiḥ 8 śrutiś cāpy aparā devaputrān hi pitaro 'yajan vedaśrutiḥ pranastā ca punar adhyāpitā sutaiḥ tatas te mantradāḥ putrāḥ pitṛtvam upapedire 9 nūnaṃ puraitad viditaṃ yuvayor bhāvitātmanoḥ putrāś ca pitaraś caiva parasparam apūjayan 10 trīn piṇḍān nyasya vai pṛthvyāṃ pūrvaṃ dattvā kuśān iti kathaṃ tu piṇḍa saṃjñāṃ te pitaro lebhire purā 11 [naranārāyanau] imāṃ hi dharaṇīṃ pūrvaṃ nastāṃ sāgaramekhalām govinda ujjahārāśu vārāhaṃ rūpam āśritaḥ 12 sthāpayitvā tu dharaṇīṃ sve sthāne puruṣottamaḥ jalakardama liptāṅgo lokakāryārtham udyataḥ 13 prāpte cāhnika kāle sa madhyaṃdina gate ravau daṃstrā vilagnān mṛt piṇḍān vidhūya sahasā prabhuḥ sthāpayām āsa vai pṛthvyāṃ kuśān āstīrya nārada 14 sa teṣv ātmānam uddiśya pitryaṃ cakre yathāvidhi saṃkalpayitvā trīn piṇḍān svenaiva vidhinā prabhuḥ 15 ātmagātroṣma saṃbhūtaiḥ snehagarbhais tilair api prokṣyāpavargaṃ deveśaḥ prāṅmukhaḥ kṛtavān svayam 16 maryādā sthāpanārthaṃ ca tato vacanam uktavān ahaṃ hi pitaraḥ sraṣṭum udyato lokakṛt svayam 17 tasya cintayataḥ sadyaḥ pitṛkāryavidhiṃ param daṃstrābhyāṃ pravinirdhūtā mamaite dakṣiṇāṃ diśam āśritā dharaṇīṃ piṇḍās tasmāt pitara eva te 18 trayo mūrti vihīnā vai piṇḍa mūrti dharās tv ime bhavantu pitaro loke mayā sṛṣṭāḥ sanātanāḥ 19 pitā pitāmahaś caiva tathaiva prapitāmahaḥ aham evātra vijñeyas triṣu piṇḍeṣu saṃsthitaḥ 20 nāsti matto 'dhikaḥ kaś cit ko vābhyarcyo mayā svayam ko vā mama pitā loke aham eva pitāmahaḥ 21 pitāmaha pitā caiva aham evātra kāraṇam ity evam uktvā vacanaṃ devadevo vṛṣākapiḥ 22 varāhaparvate vipra dattvā piṇḍān savistarān ātmānaṃ pūjayitvaiva tatraivādarśanaṃ gataḥ 23 etadarthaṃ śubhamate pitaraḥ piṇḍa saṃjñitāḥ labhante satataṃ pūjāṃ vṛṣākapi vaco yathā 24 ye yajanti pitṝn devān gurūṃś caivātithīṃs tathā gāś caiva dvijamukhyāṃś ca pṛthivīṃ mātaraṃ tathā karmaṇā manasā vācā viṣṇum eva yajanti te 25 antargataḥ sa bhagavān sarvasattvaśarīragaḥ samaḥ sarveṣu bhūteṣu īśvaraḥ sukhaduḥkhayoḥ mahān mahātmā sarvātmā nārāyaṇa iti śrutaḥ |
The Mahabharata in Sanskrit
Book 12
Chapter 334
|
1
[वैषम्पायन] शरुत्वैतन नारदॊ वाक्यं नरनारायणेरितम अत्यन्तभक्तिमान देवे एकान्तित्वम उपेयिवान 2 परॊष्य वर्षसहस्रं तु नरनारायणाश्रमे शरुत्वा भगवद आख्यानं दृष्ट्वा च हरिम अव्ययम हिमवन्तं जगामाशु यत्रास्य सवक आश्रमः 3 ताव अपि खयाततपसौ नरनारायणाव ऋषी तस्मिन्न एवाश्रमे रम्ये तेपतुस तप उत्तमम 4 तम अप्य अमितविक्रान्तः पाण्डवानां कुलॊद्वहः पावितात्माद्य संवृत्तः शरुत्वेमाम आदितः कथाम 5 नैव तस्य परॊ लॊकॊ नायं पार्थिव सत्तम कर्मणा मनसा वाचा यॊ दविष्याद विष्णुम अव्ययम 6 मज्जन्ति पितरस तस्य नरके शाश्वतीः समाः यॊ दविष्याद विबुधश्रेष्ठं देवं नारायणं हरिम 7 कथं नाम भवेद दवेष्य आत्मा लॊकस्य कस्य चित आत्मा हि पुरुषव्याघ्र जञेयॊ विष्णुर इति सथितिः 8 य एष गुरुर अस्माकम ऋषिर गन्धवती सुतः तेनैतत कथितं तात माहात्म्यं परमात्मनः तस्माच छरुतं मया चेदं कथितं च तवानघ 9 कृष्णद्वैपायनं वयासं विद्धि नारायणं परभुम कॊ हय अन्यः पुरुषव्याघ्र महाभारत कृद भवेत धर्मान नानाविधांश चैव कॊ बरूयात तम ऋते परभुम 10 वर्ततां ते महायज्ञॊ यथा संकल्पितस तवया संकल्पिताश्वमेधस तवं शरुतधर्मश च तत्त्वतः 11 एतत तु महद आख्यानं शरुत्वा पारिक्षितॊ नृपः ततॊ यज्ञसमाप्त्य अर्थं करियाः सर्वाः समारभत 12 नारायणीयम आख्यानम एतत ते कथितं मया नारदेन पुरा राजन गुरवे मे निवेदितम ऋषीणां पाण्डवानां च शृण्वतॊः कृष्ण भीस्मयॊः 13 स हि परमगुरुर भुवनपतिर; धरणिधरः शम नियमनिधिः शरुतिविनयनिधिर दविज परमहितस; तव भवतु गतिर हरिर अमर हितः 14 तपसां निधिः सुमहतां महतॊ; यशसश च भाजनम अरिष्टकहा एकान्तिनां शरणदॊ ऽभयदॊ गतिदॊ ऽसतु वः; स मखभागहरस तरिगुणातिगः 15 तरिगुणातिगश चतुर्पञ्चधरः; पूर्तेष्टयॊश च फलभागहरः विदधाति नित्यम अजितॊ ऽतिबलॊ; गतिम आत्मगा सुकृतिनाम ऋषिणाम 16 तं लॊकसाक्षिणम अजं पुरुषं; रविवर्णम ईश्वर गतिं बहुशः परनमध्वम एकमतयॊ यतयः; सलिलॊद्भवॊ ऽपि तम ऋषिं परनतः 17 स हि लॊकयॊनिर अमृतस्य पदं; सूक्ष्मं पुराणम अचलं परमम तत सांख्ययॊगिभिर उदारधृतं; बुद्ध्या यतात्मभिर विदितं सततम |
1
[vaiṣampāyana] śrutvaitan nārado vākyaṃ naranārāyaṇeritam atyantabhaktimān deve ekāntitvam upeyivān 2 proṣya varṣasahasraṃ tu naranārāyaṇāśrame śrutvā bhagavad ākhyānaṃ dṛṣṭvā ca harim avyayam himavantaṃ jagāmāśu yatrāsya svaka āśramaḥ 3 tāv api khyātatapasau naranārāyaṇāv ṛṣī tasminn evāśrame ramye tepatus tapa uttamam 4 tam apy amitavikrāntaḥ pāṇḍavānāṃ kulodvahaḥ pāvitātmādya saṃvṛttaḥ śrutvemām āditaḥ kathām 5 naiva tasya paro loko nāyaṃ pārthiva sattama karmaṇā manasā vācā yo dviṣyād viṣṇum avyayam 6 majjanti pitaras tasya narake śāśvatīḥ samāḥ yo dviṣyād vibudhaśreṣṭhaṃ devaṃ nārāyaṇaṃ harim 7 kathaṃ nāma bhaved dveṣya ātmā lokasya kasya cit ātmā hi puruṣavyāghra jñeyo viṣṇur iti sthitiḥ 8 ya eṣa gurur asmākam ṛṣir gandhavatī sutaḥ tenaitat kathitaṃ tāta māhātmyaṃ paramātmanaḥ tasmāc chrutaṃ mayā cedaṃ kathitaṃ ca tavānagha 9 kṛṣṇadvaipāyanaṃ vyāsaṃ viddhi nārāyaṇaṃ prabhum ko hy anyaḥ puruṣavyāghra mahābhārata kṛd bhavet dharmān nānāvidhāṃś caiva ko brūyāt tam ṛte prabhum 10 vartatāṃ te mahāyajño yathā saṃkalpitas tvayā saṃkalpitāśvamedhas tvaṃ śrutadharmaś ca tattvataḥ 11 etat tu mahad ākhyānaṃ śrutvā pārikṣito nṛpaḥ tato yajñasamāpty arthaṃ kriyāḥ sarvāḥ samārabhat 12 nārāyaṇīyam ākhyānam etat te kathitaṃ mayā nāradena purā rājan gurave me niveditam ṛṣīṇāṃ pāṇḍavānāṃ ca śṛṇvatoḥ kṛṣṇa bhīsmayoḥ 13 sa hi paramagurur bhuvanapatir; dharaṇidharaḥ śama niyamanidhiḥ śrutivinayanidhir dvija paramahitas; tava bhavatu gatir harir amara hitaḥ 14 tapasāṃ nidhiḥ sumahatāṃ mahato; yaśasaś ca bhājanam ariṣṭakahā ekāntināṃ śaraṇado 'bhayado gatido 'stu vaḥ; sa makhabhāgaharas triguṇātigaḥ 15 triguṇātigaś caturpañcadharaḥ; pūrteṣṭayoś ca phalabhāgaharaḥ vidadhāti nityam ajito 'tibalo; gatim ātmagā sukṛtinām ṛṣiṇām 16 taṃ lokasākṣiṇam ajaṃ puruṣaṃ; ravivarṇam īśvara gatiṃ bahuśaḥ pranamadhvam ekamatayo yatayaḥ; salilodbhavo 'pi tam ṛṣiṃ pranataḥ 17 sa hi lokayonir amṛtasya padaṃ; sūkṣmaṃ purāṇam acalaṃ paramam tat sāṃkhyayogibhir udāradhṛtaṃ; buddhyā yatātmabhir viditaṃ satatam |
The Mahabharata in Sanskrit
Book 12
Chapter 335
|
1
[जनमेजय] शरुतं भगवतस तस्य माहात्म्यं परमात्मनः जन्म धर्मगृहे चैव नरनारायणात्मकम महावराह सृष्टा च पिण्डॊत्पत्तिः पुरातनी 2 परवृत्तौ च निवृत्तौ च यॊ यथा परिकल्पितः स तथा नः शरुतॊ बरह्मन कथ्यमानस तवयानघ 3 यच च तत कथितं पूर्वं तवया हयशिरॊ महत हव्यकव्य भुजॊ विष्णॊर उदक पूर्वे महॊदधौ तच च दृष्टं भगवता बरह्मणा परमेष्ठिना 4 किं तद उत्पादितं पूर्वं हरिणा लॊकधारिणा रूपं परभावमहताम अपूर्वं धीमतां वर 5 दृष्ट्वा हि विबुधश्रेष्ठम अपूर्वम अमितौजसम तद अश्वशिरसं पुण्यं बरह्मा किम अकरॊन मुने 6 एतन नः संशयं बरह्मन पुराणज्ञानसंभवम कथयस्वॊत्तम मते महापुरुष निर्मितम पाविताः सम तवया बरह्मन पुण्यां कथयतां कथाम 7 [वैषम्पायन] कथयिष्यामि ते सर्वं पुराणं वेद संमितम जगौ तद भगवान वयासॊ राज्ञॊ धर्मसुतस्य वै 8 शरुत्वाश्वशिरसॊ मूर्तिं देवस्य हरि मेधसः उत्पन्न संशयॊ राजा तम एव समचॊदयत 9 [युधिस्थिर] यत तद दर्शितवान बरह्मा देवं हयशिरॊ धरम किमर्थं तत समभवद वपुर देवॊपकल्पितम 10 [वयास] यत किं चिद इह लॊके वै देहबद्धं विशां पते सर्वं पञ्चभिर आविष्टं भूतैर ईश्वर बुद्धिजैः 11 ईश्वरॊ हि जगत सरष्टा परभुर नारायणॊ विरात भूतान्तर आत्मा वरदः सगुणॊ निर्गुणॊ ऽपि च भूतप्रलयम अव्यक्तं शृणुष्व नृपसत्तम 12 धरण्याम अथ लीनायाम अप्सु चैकार्णवे पुरा जयॊतिर भूते जले चापि लीने जयॊतिषि चानिले 13 वायौ चाकाशसंलीने आकाशे च मनॊऽनुगे वयक्ते मनसि संलीने वयक्ते चाव्यक्ततां गते 14 अव्यक्ते पुरुषं याते पुंसि सर्वगते ऽपि च तम एवाभवत सर्वं न पराज्ञायत किं चन 15 तमसॊ बरह्म संभूतं तमॊ मूलम ऋतात्मकम तद विश्वभावसंज्ञान्तं पौरुषीं तनुम आस्थितम 16 सॊ ऽनिरुद्ध इति परॊक्तस तत परधानं परचक्षते तद अव्यक्तम इति जञेयं तरिगुणं नृपसत्तम 17 विद्या सहायवान देवॊ विष्वक्सेनॊ हरिः परभुः अप्स्व एव शयनं चक्रे निद्रा यॊगम उपागतः जगतश चिन्तयन सृष्टिं चित्रा बहुगुणॊद्भवाम 18 तस्य चिन्तयतः सृष्टिं महान आत्मगुणः समृतः अहंकारस ततॊ जातॊ बरह्मा शुभचतुर्मुखः हिरण्यगर्भॊ भगवान सर्वलॊकपितामहः 19 पद्मे ऽनिरुद्धात संभूतस तदा पद्मनिभेक्षणः सहस्रपत्रे दयुतिमान उपविष्टः सनातनः 20 ददृशे ऽदभुतसंकाशे लॊकान आपॊ मयान परभुः सत्त्वस्थः परमेष्ठी स ततॊ भूतगणान सृजत 21 पूर्वम एव च पद्मस्य पत्रे सूर्यांसु सप्रभे नारायण कृतौ बिन्दुव अपाम आस्तां गुणॊत्तरौ 22 ताव अपश्यत स भगवान अनादि निधनॊ ऽचयुतः एकस तत्राभवद बिन्दुर मध्व आभॊ रुचिरप्रभः 23 स तामसॊ मधुर जातस तदा नारायणाज्ञया कथिनस तव अपरॊ बिन्दुः कैतभॊ राजसस तु सः 24 ताव अभ्यधावतां शरेष्ठौ तमॊ रज गुणान्वितौ बलबन्तौ गदाहस्तौ पद्मनालानुसारिणौ 25 ददृशाते ऽरविन्दस्थं बरह्माणम अमितप्रभम सृजन्तं परथमं वेदांश चतुरश चारु विग्रहान 26 ततॊ विग्रहवन्तौ तौ वेदान दृष्ट्वासुरॊत्तमौ सहसा जगृहतुर वेदान बरह्मणः पश्यतस तदा 27 अथ तौ दानव शरेष्ठौ वेदान गृह्य सनातनान रसां विविशतुस तूर्णम उदक पूर्वे महॊदधौ 28 ततॊ हृतेषु वेदेषु बरह्मा कश्मलम आविशत ततॊ वचनम ईशानं पराह वेदैर विनाकृतः 29 वेदा मे परमं चक्षुर वेदा मे परमं बलम वेदा मे परमं धाम वेदा मे बरह्म चॊत्तमम 30 मम वेदा हृताः सर्वे दानवाभ्यां बलाद इतः अन्धकारा हि मे लॊका जाता वेदैर विनाकृताः वेदान ऋते हि किं कुर्यां लॊकान वै सरष्टुम उद्यतः 31 अहॊ बत महद दुःखं वेद नाशनजं मम पराप्तं दुनॊति हृदयं तीव्रशॊकाय रन्धयन 32 कॊ हि शॊकार्णवे मग्नं माम इतॊ ऽदय समुद्धरेत वेदांस तान आनयेन नस्तान कस्य चाहं परियॊ भवे 33 इत्य एवं भासमानस्य बरह्मणॊ नृपसत्तम हरेः सतॊत्रार्थम उद्भूता बुद्धिर बुद्धिमतां वर ततॊ जगौ परं जप्यं साञ्जलि परग्रहः परभुः 34 नमस ते बरह्म हृदयनमस ते मम पूर्वज लॊकाद य भुवन शरेष्ठ सांख्ययॊगनिधे विभॊ 35 वयक्ताव्यक्त कराचिन्त्य कषेमं पन्थानम आस्थित विश्वभुक सर्वभूतानाम अन्तरात्मन्न अयॊनिज 36 अहं परसादजस तुभ्यं लॊकधाम्ने सवयम्भुवे तवत्तॊ मे मानसं जन्म परथमं दविज पूजितम 37 चाक्षुषं वै दवितीयं मे जन्म चासीत पुरातनम तवत्प्रसादाच च मे जन्म तृतीयं वाचिकं महत 38 तवत्तः शरवणजं चापि चतुर्थं जन्म मे विभॊ नासिक्यं चापि मे जन्म तवत्तः पञ्चमम उच्यते 39 अन्दजं चापि मे जन्म तवत्तः सस्थं विनिर्मितम इदं च सप्तमं जन्म पद्मजं मे ऽमितप्रभ 40 सर्गे सर्गे हय अहं पुत्रस तव तरिगुण वर्जितः परथितः पुन्दरीकाक्ष परधानगुणकल्पितः 41 तवम ईश्वर सवभावश च सवयम्भूः पुरुषॊत्तमः तवया विनिर्मितॊ ऽहं वै वेद चक्षुर वयॊतिगः 42 ते मे वेदा हृताश चक्षुर अन्धॊ जातॊ ऽसमि जागृहि ददस्व चक्षुषी मह्यं परियॊ ऽहं ते परियॊ ऽसि मे 43 एवं सतुतः स भगवान पुरुषः सर्वतॊ मुखः जहौ निद्राम अथ तदा वेद कार्यार्थम उद्यतः ऐश्वरेण परयॊगेण दवितीयां तनुम आस्थितः 44 सुनासिकेन कायेन भूत्वा चन्द्रप्रभस तदा कृत्वा हयशिरः शुभ्रं वेदानाम आलयं परभुः 45 तस्य मूर्धा समभवद दयैः सनक्षत्र तारका केशाश चास्याभवन दीर्घा रवेर अंशुसमप्रभाः 46 कर्णावकाश पाताले ललातं भूतधारिणी गङ्गा सरस्वती पुण्या भरुवाव आस्तां महानदी 47 चक्षुषी सॊमसूर्यौ ते नासा संध्या पुनः समृता ओंकारस तव अथ संस्कारॊ विद्युज्जिह्वा च निर्मिता 48 दन्ताश च पितरॊ राजन सॊमपा इति विश्रुताः गॊलॊकॊ बरह्मलॊकश च ओष्ठाव आस्तां महात्मनः गरीवा चास्याभवद राजन कालरात्रिर गुणॊत्तरा 49 एतद धयशिरः कृत्वा नाना मूर्तिभिर आवृतम अन्तर्दधे स विश्वेशॊ विवेश च रसां परभुः 50 रसां पुनः परविष्टश च यॊगं परमम आस्थितः शैक्षं सवरं समास्थाय ओम इति परसृजत सवरम 51 सस्वरः सानुनादी च सर्वगः सनिग्ध एव च बभूवान्तर्मही भूतः सर्वभूतगुणॊदितः 52 ततस ताव असुरौ कृत्वा वेदान समयबन्धनान रसातले विनिक्षिप्य यतः शब्दस ततॊ दरुतौ 53 एतस्मिन्न अन्तरे राजन देवॊ हयशिरॊधरः जग्राह वेदान अखिलान रसातल गतान हरिः परादाच च बरह्मणे भूयस ततः सवां परकृतिं गतः 54 सथापयित्वा हयशिरश उदक पूर्वे महॊदधौ वेदानाम आलयश चापि बभूवाश्वशिरास ततः 55 अथ किं चिद अपश्यन्तौ दानवौ मधु कैतभौ पुनर आजग्मतुस तत्र वेगितौ पस्यतां च तौ यत्र वेदा विनिक्षिप्तास तत सथानं शून्यम एव च 56 तत उत्तमम आस्थाय वेगं बलवतां वरौ पुनर उत्तस्थतुः शीघ्रं रसानाम आलयात तदा ददृशाते च पुरुषं तम एवादि करं परभुम 57 शवेतं चन्द्र विशुद्धाभम अनिरुद्ध तनौ सथितम भूयॊ ऽपय अमितविक्रान्तं निद्रा यॊगम उपागतम 58 आत्मप्रमाण रचिते अपाम उपरि कल्पिते शयने नागभॊगाद्ये जवालामालासमावृते 59 निष्कल्मसेन सत्त्वेन संपन्नं रुचिरप्रभम तं दृष्ट्वा दानवेन्द्रौ तौ महाहासम अमुञ्चताम 60 ऊचतुश च समाविष्टौ रजसा तमसा च तौ अयं स पुरुषः शवेतः शेते निद्राम उपागतः 61 अनेन नूनं वेदानां कृतम आहरणं रसात कस्यैष कॊ नु खल्व एष किं च सवपिति भॊगवान 62 इत्य उच्चारित वाक्यौ तौ बॊधयाम आसतुर हरिम युद्धार्थिनौ तु विज्ञाय विबुद्धः पुरुषॊत्तमः 63 निरीक्ष्य चासुरेन्द्रौ तौ ततॊ युद्धे मनॊ दधे अथ युद्धं समभवत तयॊर नारायणस्य च 64 रजस तमॊ विष्ट तनू ताव उभौ मधु कैतभौ बरह्मणॊपचितिं कुर्वञ जघान मधुसूदनः 65 ततस तयॊर वधेनाशु वेदापहरणेन च शॊकापनयनं चक्रे बरह्मणः पुरुषॊत्तमः 66 ततः परिवृतॊ बरह्मा हतारिर वेद सत्कृतः निर्ममे स तदा लॊकान कृत्स्नान सथावरजङ्गमान 67 दत्त्वा पितामहायाग्र्यां बुद्धिं लॊकविसर्गिकीम तत्रैवान्तर्दधे देवॊ यत एवागतॊ हरिः 68 तौ दानवौ हरिर हत्वा कृत्वा हयशिरस तनुम पुनः परवृत्ति धर्मार्थं ताम एव विदधे तनुम 69 एवम एष महाभागॊ बभूवाश्वशिरा हरिः पौराणम एतद आख्यातं रूपं वरदम ऐश्वरम 70 यॊ हय एतद बराह्मणॊ नित्यं शृणुयाद धारयेत वा न तस्याध्ययनं नाशम उपगच्छेत कदा चन 71 आराध्य तपसॊग्रेण देवं हर शिरॊधरम पञ्चालेन करमः पराप्तॊ रामेण पथि देशिते 72 एतद धयशिरॊ राजन्न आख्यानं तव कीर्तितम पुराणं वेद समितं यन मां तवं परिपृच्छसि 73 यां याम इच्छेत तनुं देवः कर्तुं कार्यविधौ कव चित तां तां कुर्याद विकुर्वाणः सवयम आत्मानम आत्मना 74 एष वेद निधिः शरीमान एष वै तपसॊ निधिः एष यॊगश च सांख्यं च बरह्म चाग्र्यं हरिर विभुः 75 नारायण परा वेदा यज्ञा नारायणात्मकाः तपॊ नारायण परं नारायण परा गतिः 76 नारायण परं सत्यम ऋतं नारायणात्मकम नारायण परॊ धर्मः पुनर आवृत्ति दुर्लभः 77 परवृत्ति लक्षणश चैव धर्मॊ नारायणात्मकः नारायणात्मकॊ गन्धॊ भूमौ शरेष्ठतमः समृतः 78 अपां चैव गुणॊ राजन रसॊ नारायणात्मकः जयॊतिषां च गुणॊ रूपं समृतं नारायणात्मकम 79 नारायणात्मकश चापि सपर्शॊ वायुगुणः समृतः नारायणात्मकश चापि शब्द आकाशसंभवः 80 मनश चापि ततॊ भूतम अव्यक्तगुण लक्षणम नारायण परः कालॊ जयॊतिषाम अयनं च यत 81 नारायण परा कीर्तिः शरीश च लक्ष्मीश च देवताः नारायण परं सांख्यं यॊगॊ नारायणात्मकः 82 कारणं पुरुषॊ येषां परधानं चापि कारणम सवभावश चैव कर्माणि दैवं येषां च कारणम 83 पञ्च कारणसंख्यातॊ निष्ठा सर्वत्र वै हरिः तत्त्वं जिज्ञासमानानां हेतुभिः सर्वतॊ मुखैः 84 तत्त्वम एकॊ मया यॊगी हरिर नारायणः परभुः सब्रह्मकानां लॊकानाम ऋषीणां च महात्मनाम 85 सांख्यानां यॊगिनां चापि यतीनाम आत्मवेदिनाम मनीसितं विजानाति केशवॊ न तु तस्य ते 86 ये के चित सर्वलॊकेषु दैवं पित्र्यं च कुर्वते दानानि च परयच्छन्ति तप्यन्ति च तपॊ महत 87 सर्वेषाम आश्रयॊ विष्णुर ऐश्वरं विधिम आस्थितः सर्वभूतकृतावासॊ वासुदेवेति चॊच्यते 88 अयं हि नित्यः परमॊ महर्षिर; महाविभूतिर गुणवान निर्गुणाख्यः गुणैश च संयॊगम उपैति शीघ्रं; कालॊ यथर्ताव ऋतुसंप्रयुक्तः 89 नैवास्य विन्दन्ति गतिं महात्मनॊ; न चागतिं कश चिद इहानुपस्यति जञानात्मकाः संयमिनॊ महर्षयः; पश्यन्ति नित्यं पुरुषं गुणाधिकम |
1
[janamejaya] śrutaṃ bhagavatas tasya māhātmyaṃ paramātmanaḥ janma dharmagṛhe caiva naranārāyaṇātmakam mahāvarāha sṛṣṭā ca piṇḍotpattiḥ purātanī 2 pravṛttau ca nivṛttau ca yo yathā parikalpitaḥ sa tathā naḥ śruto brahman kathyamānas tvayānagha 3 yac ca tat kathitaṃ pūrvaṃ tvayā hayaśiro mahat havyakavya bhujo viṣṇor udak pūrve mahodadhau tac ca dṛṣṭaṃ bhagavatā brahmaṇā parameṣṭhinā 4 kiṃ tad utpāditaṃ pūrvaṃ hariṇā lokadhāriṇā rūpaṃ prabhāvamahatām apūrvaṃ dhīmatāṃ vara 5 dṛṣṭvā hi vibudhaśreṣṭham apūrvam amitaujasam tad aśvaśirasaṃ puṇyaṃ brahmā kim akaron mune 6 etan naḥ saṃśayaṃ brahman purāṇajñānasaṃbhavam kathayasvottama mate mahāpuruṣa nirmitam pāvitāḥ sma tvayā brahman puṇyāṃ kathayatāṃ kathām 7 [vaiṣampāyana] kathayiṣyāmi te sarvaṃ purāṇaṃ veda saṃmitam jagau tad bhagavān vyāso rājño dharmasutasya vai 8 śrutvāśvaśiraso mūrtiṃ devasya hari medhasaḥ utpanna saṃśayo rājā tam eva samacodayat 9 [yudhisthira] yat tad darśitavān brahmā devaṃ hayaśiro dharam kimarthaṃ tat samabhavad vapur devopakalpitam 10 [vyāsa] yat kiṃ cid iha loke vai dehabaddhaṃ viśāṃ pate sarvaṃ pañcabhir āviṣṭaṃ bhūtair īśvara buddhijaiḥ 11 īśvaro hi jagat sraṣṭā prabhur nārāyaṇo virāt bhūtāntar ātmā varadaḥ saguṇo nirguṇo 'pi ca bhūtapralayam avyaktaṃ śṛṇuṣva nṛpasattama 12 dharaṇyām atha līnāyām apsu caikārṇave purā jyotir bhūte jale cāpi līne jyotiṣi cānile 13 vāyau cākāśasaṃlīne ākāśe ca mano'nuge vyakte manasi saṃlīne vyakte cāvyaktatāṃ gate 14 avyakte puruṣaṃ yāte puṃsi sarvagate 'pi ca tama evābhavat sarvaṃ na prājñāyata kiṃ cana 15 tamaso brahma saṃbhūtaṃ tamo mūlam ṛtātmakam tad viśvabhāvasaṃjñāntaṃ pauruṣīṃ tanum āsthitam 16 so 'niruddha iti proktas tat pradhānaṃ pracakṣate tad avyaktam iti jñeyaṃ triguṇaṃ nṛpasattama 17 vidyā sahāyavān devo viṣvakseno hariḥ prabhuḥ apsv eva śayanaṃ cakre nidrā yogam upāgataḥ jagataś cintayan sṛṣṭiṃ citrā bahuguṇodbhavām 18 tasya cintayataḥ sṛṣṭiṃ mahān ātmaguṇaḥ smṛtaḥ ahaṃkāras tato jāto brahmā śubhacaturmukhaḥ hiraṇyagarbho bhagavān sarvalokapitāmahaḥ 19 padme 'niruddhāt saṃbhūtas tadā padmanibhekṣaṇaḥ sahasrapatre dyutimān upaviṣṭaḥ sanātanaḥ 20 dadṛśe 'dbhutasaṃkāśe lokān āpo mayān prabhuḥ sattvasthaḥ parameṣṭhī sa tato bhūtagaṇān sṛjat 21 pūrvam eva ca padmasya patre sūryāṃsu saprabhe nārāyaṇa kṛtau binduv apām āstāṃ guṇottarau 22 tāv apaśyat sa bhagavān anādi nidhano 'cyutaḥ ekas tatrābhavad bindur madhv ābho ruciraprabhaḥ 23 sa tāmaso madhur jātas tadā nārāyaṇājñayā kathinas tv aparo binduḥ kaitabho rājasas tu saḥ 24 tāv abhyadhāvatāṃ śreṣṭhau tamo raja guṇānvitau balabantau gadāhastau padmanālānusāriṇau 25 dadṛśāte 'ravindasthaṃ brahmāṇam amitaprabham sṛjantaṃ prathamaṃ vedāṃś caturaś cāru vigrahān 26 tato vigrahavantau tau vedān dṛṣṭvāsurottamau sahasā jagṛhatur vedān brahmaṇaḥ paśyatas tadā 27 atha tau dānava śreṣṭhau vedān gṛhya sanātanān rasāṃ viviśatus tūrṇam udak pūrve mahodadhau 28 tato hṛteṣu vedeṣu brahmā kaśmalam āviśat tato vacanam īśānaṃ prāha vedair vinākṛtaḥ 29 vedā me paramaṃ cakṣur vedā me paramaṃ balam vedā me paramaṃ dhāma vedā me brahma cottamam 30 mama vedā hṛtāḥ sarve dānavābhyāṃ balād itaḥ andhakārā hi me lokā jātā vedair vinākṛtāḥ vedān ṛte hi kiṃ kuryāṃ lokān vai sraṣṭum udyataḥ 31 aho bata mahad duḥkhaṃ veda nāśanajaṃ mama prāptaṃ dunoti hṛdayaṃ tīvraśokāya randhayan 32 ko hi śokārṇave magnaṃ mām ito 'dya samuddharet vedāṃs tān ānayen nastān kasya cāhaṃ priyo bhave 33 ity evaṃ bhāsamānasya brahmaṇo nṛpasattama hareḥ stotrārtham udbhūtā buddhir buddhimatāṃ vara tato jagau paraṃ japyaṃ sāñjali pragrahaḥ prabhuḥ 34 namas te brahma hṛdayanamas te mama pūrvaja lokād ya bhuvana śreṣṭha sāṃkhyayoganidhe vibho 35 vyaktāvyakta karācintya kṣemaṃ panthānam āsthita viśvabhuk sarvabhūtānām antarātmann ayonija 36 ahaṃ prasādajas tubhyaṃ lokadhāmne svayambhuve tvatto me mānasaṃ janma prathamaṃ dvija pūjitam 37 cākṣuṣaṃ vai dvitīyaṃ me janma cāsīt purātanam tvatprasādāc ca me janma tṛtīyaṃ vācikaṃ mahat 38 tvattaḥ śravaṇajaṃ cāpi caturthaṃ janma me vibho nāsikyaṃ cāpi me janma tvattaḥ pañcamam ucyate 39 andajaṃ cāpi me janma tvattaḥ sasthaṃ vinirmitam idaṃ ca saptamaṃ janma padmajaṃ me 'mitaprabha 40 sarge sarge hy ahaṃ putras tava triguṇa varjitaḥ prathitaḥ pundarīkākṣa pradhānaguṇakalpitaḥ 41 tvam īśvara svabhāvaś ca svayambhūḥ puruṣottamaḥ tvayā vinirmito 'haṃ vai veda cakṣur vayotigaḥ 42 te me vedā hṛtāś cakṣur andho jāto 'smi jāgṛhi dadasva cakṣuṣī mahyaṃ priyo 'haṃ te priyo 'si me 43 evaṃ stutaḥ sa bhagavān puruṣaḥ sarvato mukhaḥ jahau nidrām atha tadā veda kāryārtham udyataḥ aiśvareṇa prayogeṇa dvitīyāṃ tanum āsthitaḥ 44 sunāsikena kāyena bhūtvā candraprabhas tadā kṛtvā hayaśiraḥ śubhraṃ vedānām ālayaṃ prabhuḥ 45 tasya mūrdhā samabhavad dyaiḥ sanakṣatra tārakā keśāś cāsyābhavan dīrghā raver aṃśusamaprabhāḥ 46 karṇāvakāśa pātāle lalātaṃ bhūtadhāriṇī gaṅgā sarasvatī puṇyā bhruvāv āstāṃ mahānadī 47 cakṣuṣī somasūryau te nāsā saṃdhyā punaḥ smṛtā oṃkāras tv atha saṃskāro vidyujjihvā ca nirmitā 48 dantāś ca pitaro rājan somapā iti viśrutāḥ goloko brahmalokaś ca oṣṭhāv āstāṃ mahātmanaḥ grīvā cāsyābhavad rājan kālarātrir guṇottarā 49 etad dhayaśiraḥ kṛtvā nānā mūrtibhir āvṛtam antardadhe sa viśveśo viveśa ca rasāṃ prabhuḥ 50 rasāṃ punaḥ praviṣṭaś ca yogaṃ paramam āsthitaḥ śaikṣaṃ svaraṃ samāsthāya om iti prasṛjat svaram 51 sasvaraḥ sānunādī ca sarvagaḥ snigdha eva ca babhūvāntarmahī bhūtaḥ sarvabhūtaguṇoditaḥ 52 tatas tāv asurau kṛtvā vedān samayabandhanān rasātale vinikṣipya yataḥ śabdas tato drutau 53 etasminn antare rājan devo hayaśirodharaḥ jagrāha vedān akhilān rasātala gatān hariḥ prādāc ca brahmaṇe bhūyas tataḥ svāṃ prakṛtiṃ gataḥ 54 sthāpayitvā hayaśiraś udak pūrve mahodadhau vedānām ālayaś cāpi babhūvāśvaśirās tataḥ 55 atha kiṃ cid apaśyantau dānavau madhu kaitabhau punar ājagmatus tatra vegitau pasyatāṃ ca tau yatra vedā vinikṣiptās tat sthānaṃ śūnyam eva ca 56 tata uttamam āsthāya vegaṃ balavatāṃ varau punar uttasthatuḥ śīghraṃ rasānām ālayāt tadā dadṛśāte ca puruṣaṃ tam evādi karaṃ prabhum 57 śvetaṃ candra viśuddhābham aniruddha tanau sthitam bhūyo 'py amitavikrāntaṃ nidrā yogam upāgatam 58 ātmapramāṇa racite apām upari kalpite śayane nāgabhogādye jvālāmālāsamāvṛte 59 niṣkalmasena sattvena saṃpannaṃ ruciraprabham taṃ dṛṣṭvā dānavendrau tau mahāhāsam amuñcatām 60 ūcatuś ca samāviṣṭau rajasā tamasā ca tau ayaṃ sa puruṣaḥ śvetaḥ śete nidrām upāgataḥ 61 anena nūnaṃ vedānāṃ kṛtam āharaṇaṃ rasāt kasyaiṣa ko nu khalv eṣa kiṃ ca svapiti bhogavān 62 ity uccārita vākyau tau bodhayām āsatur harim yuddhārthinau tu vijñāya vibuddhaḥ puruṣottamaḥ 63 nirīkṣya cāsurendrau tau tato yuddhe mano dadhe atha yuddhaṃ samabhavat tayor nārāyaṇasya ca 64 rajas tamo viṣṭa tanū tāv ubhau madhu kaitabhau brahmaṇopacitiṃ kurvañ jaghāna madhusūdanaḥ 65 tatas tayor vadhenāśu vedāpaharaṇena ca śokāpanayanaṃ cakre brahmaṇaḥ puruṣottamaḥ 66 tataḥ parivṛto brahmā hatārir veda satkṛtaḥ nirmame sa tadā lokān kṛtsnān sthāvarajaṅgamān 67 dattvā pitāmahāyāgryāṃ buddhiṃ lokavisargikīm tatraivāntardadhe devo yata evāgato hariḥ 68 tau dānavau harir hatvā kṛtvā hayaśiras tanum punaḥ pravṛtti dharmārthaṃ tām eva vidadhe tanum 69 evam eṣa mahābhāgo babhūvāśvaśirā hariḥ paurāṇam etad ākhyātaṃ rūpaṃ varadam aiśvaram 70 yo hy etad brāhmaṇo nityaṃ śṛṇuyād dhārayeta vā na tasyādhyayanaṃ nāśam upagacchet kadā cana 71 ārādhya tapasogreṇa devaṃ hara śirodharam pañcālena kramaḥ prāpto rāmeṇa pathi deśite 72 etad dhayaśiro rājann ākhyānaṃ tava kīrtitam purāṇaṃ veda samitaṃ yan māṃ tvaṃ paripṛcchasi 73 yāṃ yām icchet tanuṃ devaḥ kartuṃ kāryavidhau kva cit tāṃ tāṃ kuryād vikurvāṇaḥ svayam ātmānam ātmanā 74 eṣa veda nidhiḥ śrīmān eṣa vai tapaso nidhiḥ eṣa yogaś ca sāṃkhyaṃ ca brahma cāgryaṃ harir vibhuḥ 75 nārāyaṇa parā vedā yajñā nārāyaṇātmakāḥ tapo nārāyaṇa paraṃ nārāyaṇa parā gatiḥ 76 nārāyaṇa paraṃ satyam ṛtaṃ nārāyaṇātmakam nārāyaṇa paro dharmaḥ punar āvṛtti durlabhaḥ 77 pravṛtti lakṣaṇaś caiva dharmo nārāyaṇātmakaḥ nārāyaṇātmako gandho bhūmau śreṣṭhatamaḥ smṛtaḥ 78 apāṃ caiva guṇo rājan raso nārāyaṇātmakaḥ jyotiṣāṃ ca guṇo rūpaṃ smṛtaṃ nārāyaṇātmakam 79 nārāyaṇātmakaś cāpi sparśo vāyuguṇaḥ smṛtaḥ nārāyaṇātmakaś cāpi śabda ākāśasaṃbhavaḥ 80 manaś cāpi tato bhūtam avyaktaguṇa lakṣaṇam nārāyaṇa paraḥ kālo jyotiṣām ayanaṃ ca yat 81 nārāyaṇa parā kīrtiḥ śrīś ca lakṣmīś ca devatāḥ nārāyaṇa paraṃ sāṃkhyaṃ yogo nārāyaṇātmakaḥ 82 kāraṇaṃ puruṣo yeṣāṃ pradhānaṃ cāpi kāraṇam svabhāvaś caiva karmāṇi daivaṃ yeṣāṃ ca kāraṇam 83 pañca kāraṇasaṃkhyāto niṣṭhā sarvatra vai hariḥ tattvaṃ jijñāsamānānāṃ hetubhiḥ sarvato mukhaiḥ 84 tattvam eko mayā yogī harir nārāyaṇaḥ prabhuḥ sabrahmakānāṃ lokānām ṛṣīṇāṃ ca mahātmanām 85 sāṃkhyānāṃ yogināṃ cāpi yatīnām ātmavedinām manīsitaṃ vijānāti keśavo na tu tasya te 86 ye ke cit sarvalokeṣu daivaṃ pitryaṃ ca kurvate dānāni ca prayacchanti tapyanti ca tapo mahat 87 sarveṣām āśrayo viṣṇur aiśvaraṃ vidhim āsthitaḥ sarvabhūtakṛtāvāso vāsudeveti cocyate 88 ayaṃ hi nityaḥ paramo maharṣir; mahāvibhūtir guṇavān nirguṇākhyaḥ guṇaiś ca saṃyogam upaiti śīghraṃ; kālo yathartāv ṛtusaṃprayuktaḥ 89 naivāsya vindanti gatiṃ mahātmano; na cāgatiṃ kaś cid ihānupasyati jñānātmakāḥ saṃyamino maharṣayaḥ; paśyanti nityaṃ puruṣaṃ guṇādhikam |
The Mahabharata in Sanskrit
Book 12
Chapter 336
|
1
अहॊ हय एकान्तिनः सर्वान परीणाति भगवान हरिः विधिप्रयुक्तां पूजां च गृह्णाति भगवान सवयम 2 ये तु दग्धेन्धना लॊके पुण्यपापविवर्जिताः तेषां तवयाभिनिर्दिष्टा पारम्पर्यागता गतिः 3 चतुर्थ्यां चैव ते गत्यां गच्छन्ति पुरुषॊत्तमम एकान्तिनस तु पुरुषा गच्छन्ति परमं पदम 4 नूनम एकान्तधर्मॊ ऽयं शरेष्ठॊ नारायण परियः अगत्वा गतयस तिस्रॊ यद गच्छन्त्य अव्ययं हरिम 5 सहॊपनिषदान वेदान ये विप्राः सम्यग आस्थिताः पथन्ति विधिम आस्थाय ये चापि यति धर्मिणः 6 तेभ्यॊ विशिष्टां जानामि गतिम एकान्तिनां नृणाम केनैष धर्मः कथितॊ देवेन ऋषिणापि वा 7 एकान्तिनां च का चर्या कदा चॊत्पादिता विभॊ एतन मे संशयं छिन्धि परं कौतूहलं हि मे 8 [वैषम्पायन] समुपॊधेष्व अनीकेषु कुरु पाण्डवयॊर मृधे अर्जुने विमनस्के च गीता भगवता सवयम 9 आगतिश च गतिश चैव पूर्वं ते कथिता मया गहनॊ हय एष धर्मॊ वै दुर्विज्ञेयॊ ऽकृतात्मभिः 10 संमितः सामवेदेन पुरैवादि युगे कृतः धार्यते सवयम ईशेन राजन नारायणेन ह 11 एतम अर्थं महाराज पृष्ठः पार्थेन नारदः ऋषिमध्ये महाभागः शृण्वतॊः कृष्ण भीस्मयॊः 12 गुरुणा च ममाप्य एष कथितॊ नृपसत्तम यथा तु कथितस तत्र नारदेन तथा शृणु 13 यदासीन मानसं जन्म नारायण मुखॊद्गतम बरह्मणः पृथिवीपाल तदा नारायणः सवयम तेन धर्मेण कृतवान दैवं पित्र्यं च भारत 14 फेनपा ऋषयश चैव तं धर्मं परतिपेदिरे वैखानसाः फेनपेभ्यॊ धर्मम एतं परपेदिरे वैखानसेभ्यः सॊमस तु ततः सॊ ऽनतर्दधे पुनः 15 यदासीच चाक्षुषं जन्म दवितीयं बरह्मणॊ नृप तदा पितामहात सॊमाद एतं धर्मम अजानत नारायणात्मकं राजन रुद्राय परददौ च सः 16 ततॊ यॊगस्थितॊ रुद्रः पुरा कृतयुगे नृप वालखिल्यान ऋषीन सर्वान धर्मम एतम अपाथयत अन्तर्दधे ततॊ भूयस तस्य देवस्य मायया 17 तृतीयं बरह्मणॊ जन्म यदासीद वाचिकं महत तत्रैष धर्मः संभूतः सवयं नारायणान नृप 18 सुपर्णॊ नाम तम ऋषिः पराप्तवान पुरुषॊत्तमात तपसा वै सुतप्तेन दमेन नियमेन च 19 तरिः परिक्रान्तवान एतत सुपर्णॊ धर्मम उत्तमम यस्मात तस्माद वरतं हय एतत तरिसौपर्णम इहॊच्यते 20 ऋग्वेदपाठपठितं वरतम एतद धि दुश्चरम सुपर्णाच चाप्य अधिगतॊ धर्म एष सनातनः 21 वायुना दविपदां शरेष्ठ परथितॊ जगद आयुषा वायॊः सकाशात पराप्तश च ऋषिभिर विघसाशिभिः 22 तेभ्यॊ महॊदधिश चैनं पराप्तवान धर्मम उत्तमम ततः सॊ ऽनतर्दधे भूयॊ नारायण समाहितः 23 यदा भूयः शरवणजा सृष्टिर आसीन महात्मनः बरह्मणः पुरुषव्याघ्र तत्र कीर्तयतः शृणु 24 जगत सरष्टुमना देवॊ हरिर नारायणः सवयम चिन्तयाम आस पुरुषं जगत सर्ग करं परभुः 25 अथ चिन्तयतस तस्य कर्णाभ्यां पुरुषः सृतः परजा सर्ग करॊ बरह्मा तम उवाच जगत्पतिः 26 सृज परजाः पुत्र सर्वा मुखतः पादतस तथा शरेयस तव विधास्यामि बलं तेजश च सुव्रत 27 धर्मं च मत्तगृह्णीश्व सात्वतं नाम नामतः तेन सर्वं कृतयुगं सथापयस्व यथाविधि 28 ततॊ बरह्मा नमश चक्रे देवाय हरि मेधसे धर्मं चाग्र्यं स जग्राह सरहस्यं ससंग्रहम आरण्यकेन सहितं नारायण मुखॊद्गतम 29 उपदिश्य ततॊ धर्मं बरह्मणे ऽमिततेजसे तं कार्तयुगधर्माणं निराशीः कर्मसंज्ञितम जगाम तमसः पारं यत्राव्यक्तं वयवस्थितम 30 ततॊ ऽथ वरदॊ देवॊ बरह्मलॊकपितामहः असृजत स तदा लॊकान कृष्ट्नान सथावरजङ्गमान 31 ततः परावर्तत तदा आदौ कृतयुगं शुभम ततॊ हि सात्वतॊ धर्मव्याप्य लॊकान अवस्थितः 32 तेनैवाद्येन धर्मेण बरह्मा लॊकविसर्ग कृत पूजयाम आस देवेशं हरिं नारायणं परभुम 33 धर्मप्रतिष्ठा हेतॊश च मनुं सवारॊचिषं ततः अध्यापयाम आस तदा लॊकानां हितकाम्यया 34 ततः सवारॊचिषः पुत्रं सवयं शङ्खपदं नृप अध्यापयत पुराव्यग्रः सर्वलॊकपतिर विभुः 35 ततः शङ्खपदश चापि पुत्रम आत्मजम औरसम दिशापालं सुधर्माणम अध्यापयत भारत ततः सॊ ऽनतर्दधे भूयः पराप्ते तरेतायुगे पुनः 36 नासिक्य जन्मनि पुरा बरह्मणः पार्थिवॊत्तमम धर्मम एतं सवयं देवॊ हरिर नारायणः परभुः उज्जगारारविन्दाक्षॊ बरह्मणः पश्यतस तदा 37 सनत्कुमारॊ भगवांस ततः पराधीतवान नृप सनत्कुमाराद अपि च वीरणॊ वै परजापतिः कृतादौ कुरुशार्दूल धर्मम एतम अधीतवान 38 वीरणश चाप्य अधीत्यैनं रौच्याय मनवे ददौ रौच्यः पुत्राय शुद्धाय सुव्रताय सुमेधसे 39 कुक्षि नाम्ने ऽथ परददौ दिशां पालाय धर्मिणे ततः सॊ ऽनतर्दधे भूयॊ नारायण मुखॊद्गतः 40 अन्दजे जन्मनि पुनर बरह्मणे हरि यॊनये एष धर्मः समुद्भूतॊ नारायण मुखात पुनः 41 गृहीतॊ बरह्मणा राजन परयुक्तश च यथाविधि अध्यापिताश च मुनयॊ नाम्ना बर्हिषदॊ नृप 42 बर्हिषद्भ्यश च संक्रान्तः सामवेदान्तगं दविजम जयेष्ठं नाम्नाभिविख्यातं जयेष्ठ साम वरतॊ हरिः 43 जयेष्ठाच चाप्य अनुसंक्रान्तॊ राजानम अविकम्पनम अन्तर्दधे ततॊ राजन एष धर्मः परभॊर हरेः 44 यद इदं सप्तमं जन्म पद्मजं बरह्मणॊ नृप तत्रैष धर्मः कथितः सवयं नारायणेन हि 45 पितामहाय शुद्धाय युगादौ लॊकधारिणे पितामहश च दक्षाय धर्मम एतं पुरा ददौ 46 ततॊ जयेष्ठे तु दौहित्रे परादाद दक्षॊ नृपॊत्तम आदित्ये सवितुर जयेष्ठे विवस्वाञ जगृहे ततः 47 तरेतायुगादौ च पुनर विवस्वान मनवे ददौ मनुश च लॊकभूत्य अर्थं सुतायेक्ष्वाकवे ददौ 48 इक्ष्वाकुणा च कथितॊ वयाप्य लॊकान अवस्थितः गमिष्यति कषयान्ते च पुनर नारायणं नृप 49 वरतिनां चापि यॊ धर्मः स ते पूर्वं नृपॊत्तम कथितॊ हरि गीतासु समासविधि कल्पितः 50 नारदेन तु संप्राप्तः सरहस्यः ससंग्रहः एष धर्मॊ जगन्नाथात साक्षान नारायणान नृप 51 एवम एष महान धर्म आद्यॊ राजन सनातनः दुर्विज्ञेयॊ दुष्करश च सात्वतैर धार्यते सदा 52 धर्मज्ञानेन चैतेन सुप्रयुक्तेन कर्मणा अहिंसा धर्मयुक्तेन परीयते हरिर ईश्वरः 53 एकव्यूह विभागॊ वा कव चिद दविव्यूह संज्ञितः तरिव्यूहश चापि संख्यातश चतुर्व्यूहश च दृश्यते 54 हरिर एव हि कषेत्रज्ञॊ निर्ममॊ निष्कलस तथा जीवश च सर्वभूतेषु पञ्च भूतगुणातिगः 55 मनश च परथितं राजन पञ्चेन्द्रिय समीरणम एष लॊकनिधिर धीमान एष लॊकविसर्ग कृत 56 अकर्ता चैव कर्ता च कार्यं कारणम एव च यथेच्छति तथा राजन करीदते पुरुषॊ ऽवययः 57 एष एकान्ति धर्मस ते कीर्तितॊ नृपसत्तम मया गुरु परसादेन दुर्विज्ञेयॊ ऽकृतात्मभिः एकान्तिनॊ हि पुरुषा दुर्लभा बहवॊ नृप 58 यद्य एकान्तिभिर आकीर्णं जगत सयात कुरुनन्दन अहिंसकैर आत्मविद्भिः सर्वभूतहिते रतैः भवेत कृतयुगप्राप्तिर आशीः कर्म विवर्जितैः 59 एवं स भगवान वयासॊ गुरुर मम विशां पते कथयाम आस धर्मज्ञॊ धर्मराज्ञे दविजॊत्तमः 60 ऋषीणां संनिधौ राजञ शृण्वतॊः कृष्ण भीस्मयॊः तस्याप्य अकथयत पूर्वं नारदः सुमहातपः 61 देवं परमकं बरह्म शवेतं चन्द्राभम अच्युतम यत्र चैकान्तिनॊ यान्ति नारायण परायनाः 62 [जनमेजय] एवं बहुविधं धर्मं परतिबुद्धैर निषेवितम न कुर्वन्ति कथं विप्रा अन्ये नाना वरते सथिताः 63 [वैषम्पायन] तिस्रः परकृतयॊ राजन देहबन्धेषु निर्मिताः सात्त्विकी राजसी चैव तामसी चेति भारत 64 देहबन्धेषु पुरुषः शरेष्ठः कुरुकुलॊद्वह सात्त्विकः पुरुषव्याघ्र भवेन मॊक्षार्थ निश्चितः 65 अत्रापि स विजानाति पुरुषं बरह्म वर्तिनम नारायण परॊ मॊक्षस ततॊ वै सात्त्विकः समृतः 66 मनीसितं च पराप्नॊति चिन्तयन पुरुषॊत्तमम एकान्तभक्तिः सततं नारायण परायनः 67 मनीसिनॊ हि ये के चिद यतयॊ मॊक्षकाङ्क्षिणः तेषां वै छिन्नतृष्णानां यॊगक्षेम वहॊ हरिः 68 जायमानं हि पुरुषं यं पश्येन मधुसूदनः सात्त्विकस तु स विज्ञेयॊ भवेन मॊक्षे च निश्चितः 69 सांख्ययॊगेन तुल्यॊ हि धर्म एकान्तसेवितः नारायणात्मके मॊक्षे ततॊ यान्ति परां गतिम 70 नारायणेन दृष्टश च परतिबुद्धॊ भवेत पुमान एवम आत्मेच्छया राजन परतिबुद्धॊ न जायते 71 राजसी तामसी चैव वयामिश्रे परकृतीस्मृते तद आत्मकं हि पुरुषं जायमानं विशां पते परवृत्ति लक्षणैर युक्तं नावेक्षति हरिः सवयम 72 पश्यत्य एनं जायमानं बरह्मा लॊकपितामहः रजसा तमसा चैव मानुषं समभिप्लुतम 73 कामं देवाश च ऋषयः सत्त्वस्था नृपसत्तम हीनाः सत्त्वेन सूक्ष्मेण ततॊ वैकारिकाः समृताः 74 [जनमेजय] कथं वैकारिकॊ गच्छेत पुरुषः पुरुषॊत्तमम 75 [वैषम्पायन] सुसूक्ष्म सत्त्वसंयुक्तं संयुक्क्तं तरिभिर अक्षरैः पुरुषः पुरुषं गच्छेन निष्क्रियः पञ्चविंशकम 76 एवम एकं सांक्य यॊगं वेदारण्यकम एव च परस्पराङ्गान्य एतानि पञ्चरात्रं च कथ्यते एष एकान्तिनां धर्मॊ नारायण परात्मकः 77 यथा समुद्रात परसृता जलौघास; तम एव राजन पुनर आविशन्ति इमे तथा जञानमहाजलौघा; नारायणं वै पुनर आविशन्ति 78 एष ते कथितॊ धर्मः सात्वतॊ यदुबान्धव कुरुष्वैनं यथान्यायं यदि शक्नॊषि भारत 79 एवं हि सुमहाभागॊ नारदॊ गुरवे मम शवेतानां यतिनाम आह एकान्तगतिम अव्ययाम 80 वयासश चाकथयत परीत्या धर्मपुत्राय धीमते स एवायं मया तुभ्यम आख्यातः परसृतॊ गुरॊः 81 इत्थं हि दुश्चरॊ धर्म एष पार्थिव सत्तम यथैव तवं तथैवान्ये न भजन्ति विमॊहिताः 82 कृष्ण एव हि लॊकानां भावनॊ मॊहनस तथा संहार कारकश चैव कारणं च विशां पते |
1
aho hy ekāntinaḥ sarvān prīṇāti bhagavān hariḥ vidhiprayuktāṃ pūjāṃ ca gṛhṇāti bhagavān svayam 2 ye tu dagdhendhanā loke puṇyapāpavivarjitāḥ teṣāṃ tvayābhinirdiṣṭā pāramparyāgatā gatiḥ 3 caturthyāṃ caiva te gatyāṃ gacchanti puruṣottamam ekāntinas tu puruṣā gacchanti paramaṃ padam 4 nūnam ekāntadharmo 'yaṃ śreṣṭho nārāyaṇa priyaḥ agatvā gatayas tisro yad gacchanty avyayaṃ harim 5 sahopaniṣadān vedān ye viprāḥ samyag āsthitāḥ pathanti vidhim āsthāya ye cāpi yati dharmiṇaḥ 6 tebhyo viśiṣṭāṃ jānāmi gatim ekāntināṃ nṛṇām kenaiṣa dharmaḥ kathito devena ṛṣiṇāpi vā 7 ekāntināṃ ca kā caryā kadā cotpāditā vibho etan me saṃśayaṃ chindhi paraṃ kautūhalaṃ hi me 8 [vaiṣampāyana] samupodheṣv anīkeṣu kuru pāṇḍavayor mṛdhe arjune vimanaske ca gītā bhagavatā svayam 9 āgatiś ca gatiś caiva pūrvaṃ te kathitā mayā gahano hy eṣa dharmo vai durvijñeyo 'kṛtātmabhiḥ 10 saṃmitaḥ sāmavedena puraivādi yuge kṛtaḥ dhāryate svayam īśena rājan nārāyaṇena ha 11 etam arthaṃ mahārāja pṛṣṭhaḥ pārthena nāradaḥ ṛṣimadhye mahābhāgaḥ śṛṇvatoḥ kṛṣṇa bhīsmayoḥ 12 guruṇā ca mamāpy eṣa kathito nṛpasattama yathā tu kathitas tatra nāradena tathā śṛṇu 13 yadāsīn mānasaṃ janma nārāyaṇa mukhodgatam brahmaṇaḥ pṛthivīpāla tadā nārāyaṇaḥ svayam tena dharmeṇa kṛtavān daivaṃ pitryaṃ ca bhārata 14 phenapā ṛṣayaś caiva taṃ dharmaṃ pratipedire vaikhānasāḥ phenapebhyo dharmam etaṃ prapedire vaikhānasebhyaḥ somas tu tataḥ so 'ntardadhe punaḥ 15 yadāsīc cākṣuṣaṃ janma dvitīyaṃ brahmaṇo nṛpa tadā pitāmahāt somād etaṃ dharmam ajānata nārāyaṇātmakaṃ rājan rudrāya pradadau ca saḥ 16 tato yogasthito rudraḥ purā kṛtayuge nṛpa vālakhilyān ṛṣīn sarvān dharmam etam apāthayat antardadhe tato bhūyas tasya devasya māyayā 17 tṛtīyaṃ brahmaṇo janma yadāsīd vācikaṃ mahat tatraiṣa dharmaḥ saṃbhūtaḥ svayaṃ nārāyaṇān nṛpa 18 suparṇo nāma tam ṛṣiḥ prāptavān puruṣottamāt tapasā vai sutaptena damena niyamena ca 19 triḥ parikrāntavān etat suparṇo dharmam uttamam yasmāt tasmād vrataṃ hy etat trisauparṇam ihocyate 20 ṛgvedapāṭhapaṭhitaṃ vratam etad dhi duścaram suparṇāc cāpy adhigato dharma eṣa sanātanaḥ 21 vāyunā dvipadāṃ śreṣṭha prathito jagad āyuṣā vāyoḥ sakāśāt prāptaś ca ṛṣibhir vighasāśibhiḥ 22 tebhyo mahodadhiś cainaṃ prāptavān dharmam uttamam tataḥ so 'ntardadhe bhūyo nārāyaṇa samāhitaḥ 23 yadā bhūyaḥ śravaṇajā sṛṣṭir āsīn mahātmanaḥ brahmaṇaḥ puruṣavyāghra tatra kīrtayataḥ śṛṇu 24 jagat sraṣṭumanā devo harir nārāyaṇaḥ svayam cintayām āsa puruṣaṃ jagat sarga karaṃ prabhuḥ 25 atha cintayatas tasya karṇābhyāṃ puruṣaḥ sṛtaḥ prajā sarga karo brahmā tam uvāca jagatpatiḥ 26 sṛja prajāḥ putra sarvā mukhataḥ pādatas tathā śreyas tava vidhāsyāmi balaṃ tejaś ca suvrata 27 dharmaṃ ca mattagṛhṇīśva sātvataṃ nāma nāmataḥ tena sarvaṃ kṛtayugaṃ sthāpayasva yathāvidhi 28 tato brahmā namaś cakre devāya hari medhase dharmaṃ cāgryaṃ sa jagrāha sarahasyaṃ sasaṃgraham āraṇyakena sahitaṃ nārāyaṇa mukhodgatam 29 upadiśya tato dharmaṃ brahmaṇe 'mitatejase taṃ kārtayugadharmāṇaṃ nirāśīḥ karmasaṃjñitam jagāma tamasaḥ pāraṃ yatrāvyaktaṃ vyavasthitam 30 tato 'tha varado devo brahmalokapitāmahaḥ asṛjat sa tadā lokān kṛṣṭnān sthāvarajaṅgamān 31 tataḥ prāvartata tadā ādau kṛtayugaṃ śubham tato hi sātvato dharmavyāpya lokān avasthitaḥ 32 tenaivādyena dharmeṇa brahmā lokavisarga kṛt pūjayām āsa deveśaṃ hariṃ nārāyaṇaṃ prabhum 33 dharmapratiṣṭhā hetoś ca manuṃ svārociṣaṃ tataḥ adhyāpayām āsa tadā lokānāṃ hitakāmyayā 34 tataḥ svārociṣaḥ putraṃ svayaṃ śaṅkhapadaṃ nṛpa adhyāpayat purāvyagraḥ sarvalokapatir vibhuḥ 35 tataḥ śaṅkhapadaś cāpi putram ātmajam aurasam diśāpālaṃ sudharmāṇam adhyāpayata bhārata tataḥ so 'ntardadhe bhūyaḥ prāpte tretāyuge punaḥ 36 nāsikya janmani purā brahmaṇaḥ pārthivottamam dharmam etaṃ svayaṃ devo harir nārāyaṇaḥ prabhuḥ ujjagārāravindākṣo brahmaṇaḥ paśyatas tadā 37 sanatkumāro bhagavāṃs tataḥ prādhītavān nṛpa sanatkumārād api ca vīraṇo vai prajāpatiḥ kṛtādau kuruśārdūla dharmam etam adhītavān 38 vīraṇaś cāpy adhītyainaṃ raucyāya manave dadau raucyaḥ putrāya śuddhāya suvratāya sumedhase 39 kukṣi nāmne 'tha pradadau diśāṃ pālāya dharmiṇe tataḥ so 'ntardadhe bhūyo nārāyaṇa mukhodgataḥ 40 andaje janmani punar brahmaṇe hari yonaye eṣa dharmaḥ samudbhūto nārāyaṇa mukhāt punaḥ 41 gṛhīto brahmaṇā rājan prayuktaś ca yathāvidhi adhyāpitāś ca munayo nāmnā barhiṣado nṛpa 42 barhiṣadbhyaś ca saṃkrāntaḥ sāmavedāntagaṃ dvijam jyeṣṭhaṃ nāmnābhivikhyātaṃ jyeṣṭha sāma vrato hariḥ 43 jyeṣṭhāc cāpy anusaṃkrānto rājānam avikampanam antardadhe tato rājan eṣa dharmaḥ prabhor hareḥ 44 yad idaṃ saptamaṃ janma padmajaṃ brahmaṇo nṛpa tatraiṣa dharmaḥ kathitaḥ svayaṃ nārāyaṇena hi 45 pitāmahāya śuddhāya yugādau lokadhāriṇe pitāmahaś ca dakṣāya dharmam etaṃ purā dadau 46 tato jyeṣṭhe tu dauhitre prādād dakṣo nṛpottama āditye savitur jyeṣṭhe vivasvāñ jagṛhe tataḥ 47 tretāyugādau ca punar vivasvān manave dadau manuś ca lokabhūty arthaṃ sutāyekṣvākave dadau 48 ikṣvākuṇā ca kathito vyāpya lokān avasthitaḥ gamiṣyati kṣayānte ca punar nārāyaṇaṃ nṛpa 49 vratināṃ cāpi yo dharmaḥ sa te pūrvaṃ nṛpottama kathito hari gītāsu samāsavidhi kalpitaḥ 50 nāradena tu saṃprāptaḥ sarahasyaḥ sasaṃgrahaḥ eṣa dharmo jagannāthāt sākṣān nārāyaṇān nṛpa 51 evam eṣa mahān dharma ādyo rājan sanātanaḥ durvijñeyo duṣkaraś ca sātvatair dhāryate sadā 52 dharmajñānena caitena suprayuktena karmaṇā ahiṃsā dharmayuktena prīyate harir īśvaraḥ 53 ekavyūha vibhāgo vā kva cid dvivyūha saṃjñitaḥ trivyūhaś cāpi saṃkhyātaś caturvyūhaś ca dṛśyate 54 harir eva hi kṣetrajño nirmamo niṣkalas tathā jīvaś ca sarvabhūteṣu pañca bhūtaguṇātigaḥ 55 manaś ca prathitaṃ rājan pañcendriya samīraṇam eṣa lokanidhir dhīmān eṣa lokavisarga kṛt 56 akartā caiva kartā ca kāryaṃ kāraṇam eva ca yathecchati tathā rājan krīdate puruṣo 'vyayaḥ 57 eṣa ekānti dharmas te kīrtito nṛpasattama mayā guru prasādena durvijñeyo 'kṛtātmabhiḥ ekāntino hi puruṣā durlabhā bahavo nṛpa 58 yady ekāntibhir ākīrṇaṃ jagat syāt kurunandana ahiṃsakair ātmavidbhiḥ sarvabhūtahite rataiḥ bhavet kṛtayugaprāptir āśīḥ karma vivarjitaiḥ 59 evaṃ sa bhagavān vyāso gurur mama viśāṃ pate kathayām āsa dharmajño dharmarājñe dvijottamaḥ 60 ṛṣīṇāṃ saṃnidhau rājañ śṛṇvatoḥ kṛṣṇa bhīsmayoḥ tasyāpy akathayat pūrvaṃ nāradaḥ sumahātapaḥ 61 devaṃ paramakaṃ brahma śvetaṃ candrābham acyutam yatra caikāntino yānti nārāyaṇa parāyanāḥ 62 [janamejaya] evaṃ bahuvidhaṃ dharmaṃ pratibuddhair niṣevitam na kurvanti kathaṃ viprā anye nānā vrate sthitāḥ 63 [vaiṣampāyana] tisraḥ prakṛtayo rājan dehabandheṣu nirmitāḥ sāttvikī rājasī caiva tāmasī ceti bhārata 64 dehabandheṣu puruṣaḥ śreṣṭhaḥ kurukulodvaha sāttvikaḥ puruṣavyāghra bhaven mokṣārtha niścitaḥ 65 atrāpi sa vijānāti puruṣaṃ brahma vartinam nārāyaṇa paro mokṣas tato vai sāttvikaḥ smṛtaḥ 66 manīsitaṃ ca prāpnoti cintayan puruṣottamam ekāntabhaktiḥ satataṃ nārāyaṇa parāyanaḥ 67 manīsino hi ye ke cid yatayo mokṣakāṅkṣiṇaḥ teṣāṃ vai chinnatṛṣṇānāṃ yogakṣema vaho hariḥ 68 jāyamānaṃ hi puruṣaṃ yaṃ paśyen madhusūdanaḥ sāttvikas tu sa vijñeyo bhaven mokṣe ca niścitaḥ 69 sāṃkhyayogena tulyo hi dharma ekāntasevitaḥ nārāyaṇātmake mokṣe tato yānti parāṃ gatim 70 nārāyaṇena dṛṣṭaś ca pratibuddho bhavet pumān evam ātmecchayā rājan pratibuddho na jāyate 71 rājasī tāmasī caiva vyāmiśre prakṛtīsmṛte tad ātmakaṃ hi puruṣaṃ jāyamānaṃ viśāṃ pate pravṛtti lakṣaṇair yuktaṃ nāvekṣati hariḥ svayam 72 paśyaty enaṃ jāyamānaṃ brahmā lokapitāmahaḥ rajasā tamasā caiva mānuṣaṃ samabhiplutam 73 kāmaṃ devāś ca ṛṣayaḥ sattvasthā nṛpasattama hīnāḥ sattvena sūkṣmeṇa tato vaikārikāḥ smṛtāḥ 74 [janamejaya] kathaṃ vaikāriko gacchet puruṣaḥ puruṣottamam 75 [vaiṣampāyana] susūkṣma sattvasaṃyuktaṃ saṃyukktaṃ tribhir akṣaraiḥ puruṣaḥ puruṣaṃ gacchen niṣkriyaḥ pañcaviṃśakam 76 evam ekaṃ sāṃkya yogaṃ vedāraṇyakam eva ca parasparāṅgāny etāni pañcarātraṃ ca kathyate eṣa ekāntināṃ dharmo nārāyaṇa parātmakaḥ 77 yathā samudrāt prasṛtā jalaughās; tam eva rājan punar āviśanti ime tathā jñānamahājalaughā; nārāyaṇaṃ vai punar āviśanti 78 eṣa te kathito dharmaḥ sātvato yadubāndhava kuruṣvainaṃ yathānyāyaṃ yadi śaknoṣi bhārata 79 evaṃ hi sumahābhāgo nārado gurave mama śvetānāṃ yatinām āha ekāntagatim avyayām 80 vyāsaś cākathayat prītyā dharmaputrāya dhīmate sa evāyaṃ mayā tubhyam ākhyātaḥ prasṛto guroḥ 81 itthaṃ hi duścaro dharma eṣa pārthiva sattama yathaiva tvaṃ tathaivānye na bhajanti vimohitāḥ 82 kṛṣṇa eva hi lokānāṃ bhāvano mohanas tathā saṃhāra kārakaś caiva kāraṇaṃ ca viśāṃ pate |
The Mahabharata in Sanskrit
Book 12
Chapter 337
|
1
[जनमेजय] सांख्यं यॊगं पञ्चरात्रं वेदारण्यकम एव च जञानान्य एतानि बरह्मर्षे लॊकेषु परचरन्ति ह 2 किम एतान्य एकनिष्ठानि पृथङ निष्ठानि वा मुने परब्रूहि वै मया पृष्टः परवृत्तिं च यथाक्रमम 3 [वैषम्पायन] जज्ञे बहुज्ञं परम अत्य उदारं; यं दवीपमध्ये सुतम आत्मवन्तम पराशराद गन्धवती महर्षिं; तस्मै नमॊ ऽजञानतमॊ नुदाय 4 पितामहाद यं परवदन्ति षष्ठं; महर्षिम आर्षेय विभूति युक्तम नारायणस्यांशजम एकपुत्रं; दवैपायनं वेद महानिधानम 5 तम आदि कालेषु महाविभूतिर; नारायणॊ बरह्म महानिधानम ससर्ज पुत्रार्थम उदारतेजा; वयासं महात्मानम अजः पुराणः 6 [जनमेजय] तवयैव कथितः पूर्वं संभवॊ दविजसत्तम वसिथस्य सुतः शक्तिः शक्तेः पुत्रः पराशरः 7 पराशरस्य दायादः कृष्णद्वैपायनॊ मुनिः भूयॊ नारायण सुतं तवम एवैनं परभाससे 8 किम अतः पूर्वजं जन्म वयासस्यामित तेजसः कथयस्वॊत्तम मते जन्म नारायणॊद्भवम 9 [वैषम्पायन] वेदार्थान वेत्तुकामस्य धर्मिष्ठस्य तपॊ निधेः गुरॊर मे जञाननिष्ठस्य हिमवत्पाद आसतः 10 कृत्वा भारतम आख्यानं तपः शरान्तस्य धीमतः शुश्रूसां तत्परा राजन कृतवन्तॊ वयं तदा 11 सुमन्तुर जैमिनिश चैव पैलश च सुदृध वरतः अहं चतुर्थः शिष्यॊ वै शुकॊ वयासात्मजस तथा 12 एभिः परिवृतॊ वयासः शिष्यैः पञ्चभिर उत्तमैः शुशुभे हिमवत्पादे भूतैर भूतपतिर यथा 13 वेदान आवर्तयन साङ्गान भारतार्थांश च सर्वशः तम एकमनसं दान्तं युक्ता वयम उपास्महे 14 कथान्तरे ऽथ कस्मिंश चित पृष्टॊ ऽसमाभिर दविजॊत्तमः वेदार्थान भारतार्थांश च जन्म नारायणात तथा 15 स पूर्वम उक्त्वा वेदार्थान भारतार्थांश च तत्त्ववित नारायणाद इदं जन्म वयाहर्तुम उपचक्रमे 16 शृणुध्वम आख्यान वरम एतद आर्षेयम उत्तमम आदि कालॊद्भवं विप्रास तपसाधिगतं मया 17 पराप्ते परजा विसर्गे वै सप्तमे पद्मसंभवे नारायणॊ महायॊगी शुभाशुभविवर्जितः 18 ससृजे नाभितः पुत्रं बरह्माणम अमितप्रभम ततः स परादुरभवद अथैनं वाक्यम अब्रवीत 19 मम तवं नाभितॊ जातः परजा सर्ग करः परभुः सृज परजास तवं विविधा बरह्मन सजद पण्डिताः 20 स एव म उक्तॊ विमुखश चिन्ता वयाकुलमानसः परनम्य वरदं देवम उवाच हरिम ईश्वरम 21 का शक्तिर मम देवेश परजाः सरष्टुं नमॊ ऽसतु ते अप्रज्ञावान अहं देव विधत्स्व यद अनन्तरम 22 स एव म उक्तॊ भगवान भूत्वाथान्तर हितस ततः चिन्तयाम आस देवेशॊ बुद्धिं बुद्धिमतां वरः 23 सवरूपिणी ततॊ बुद्धिर उपतस्थे हरिं परभुम यॊगेन चैनां निर्यॊगः सवयं नियुयुजे तदा 24 स ताम ऐश्वर्ययॊगस्थां बुद्धिं शक्तिमतीं सतीम उवाच वचनं देवॊ बुद्धिं वै परभुर अव्ययः 25 बरह्माणं परविशस्वेति लॊकसृष्ट्य अर्थसिद्धये ततस तम ईश्वरादिष्टा बुद्धिः कषिप्रं विवेश सा 26 अथैनं बुद्धिसंयुक्तं पुनः स ददृशे हरिः भूयश चैनं वचः पराह सृजेमा विविधाः परजाः 27 एवम उक्त्वा स भगवांस तत्रैवान्तरधीयत पराप चैव मुहुर तेन सवस्थानं देव संज्ञितम 28 तां चैव परकृतिं पराप्य एकीभावगतॊ ऽभवत अथास्य बुद्धिर अभवत पुनर अन्या तदा किल 29 सृष्टा इमाः परजाः सर्वा बरह्मणा परमेष्ठिना दैत्यदानवगन्धर्वरक्षॊगणसमाकुलाः जाता हीयं वसुमती भाराक्रान्ता तपस्विनी 30 बहवॊ बलिनः पृथ्व्यां दैत्यदानवराक्षसाः भविष्यन्ति तपॊ युक्ता वरान पराप्स्यन्ति चॊत्तमान 31 अवश्यम एव तैः सर्वैर वरदानेन दर्पितैः बाधितव्याः सुरगणा ऋषयश च तपॊधनाः तत्र नयाय्यम इदं कर्तुं भारावतरणं मया 32 अथ नाना समुद्भूतैर वसुधायां यथाक्रमम निग्रहेण च पापानां साधूनां परग्रहेण च 33 इमां तपस्विनीं सत्यां धारयिष्यामि मेदिनीम मया हय एषा हि धरियते पातालस्थेन भॊगिना 34 मया धृता धारयति जगद धि सचराचरम तस्मात पृथ्व्याः परित्राणं करिष्ये संभवं गतः 35 एवं स चिन्तयित्वा तु भगवान मधुसूदनः रूपाण्य अनेकान्य असृजत परादुर्भावभवाय सः 36 वाराहं नारसिंहं च वामनं मानुषं तथा एभिर मया निहन्तव्या दुर्विनीताः सुरारयः 37 अथ भूयॊ जगत सरष्टा भॊः शब्देनानुनादयन सरस्वतीम उच्चचार तत्र सारस्वतॊ ऽभवत 38 अपान्तरतमा नाम सुतॊ वाक संभवॊ विभॊः भूतभव्य भविष्यज्ञः सत्यवादी दृध वरतः 39 तम उवाच नतं मूर्ध्ना देवानाम आदिर अव्ययः वेदाख्याने शरुतिः कार्या तवया मतिमतां वर तस्मात कुरु यथाज्ञप्तं मयैतद वचनं मुने 40 तेन भिन्नास तदा वेदा मनॊः सवायम्भुवे ऽनतरे ततस तुतॊष भगवान हरिस तेनास्य कर्मणा तपसा च सुतप्तेन यमेन नियमेन च 41 [षरीभगवान] मन्वन्तरेषु पुत्र तवम एवं लॊकप्रवर्तकः भविष्यस्य अचलॊ बरह्मन्न अप्रधृष्यश च नित्यशः 42 पुनस तिष्ये च संप्राप्ते कुरवॊ नाम भारताः भविष्यन्ति महात्मानॊ राजानः परथिता भुवि 43 तेषां तवत्तः परसूतानां कुलभेदॊ भविष्यति परस्परविनाशार्थं तवाम ऋते दविजसत्तम 44 तत्राप्य अनेकधा वेदान भेत्स्यसे तपसान्वितः कृष्णे युगे च संप्राप्ते कृष्ण वर्णॊ भविष्यसि 45 धर्माणां विविधानां च कर्ता जञानकरस तथा भविष्यसि तपॊ युक्तॊ न च रागाद विमॊक्ष्यसे 46 वीतरागश च पुत्रस ते परमात्मा भविष्यति महेश्वर परसादेन नैतद वचनम अन्यथा 47 यं मानसं वै परवदन्ति पुत्रं; पितामहस्यॊत्तम बुद्धियुक्तम वसिथम अग्र्यं तपसॊ निधानं; यश चापि सूर्यं वयतिरिच्य भाति 48 तस्यान्वये चापि ततॊ महर्षिः; पराशरॊ नाम महाप्रभावः पिता स ते वेद निधिर वरिष्ठॊ; महातपा वै तपसॊ निवासः कानीन गर्भः पितृकन्यकायां; तस्माद ऋषेस तवं भविता च पुत्रः 49 भूतभव्य भविष्याणां छिन्नसर्वार्थ संशयः ये हय अतिक्रान्तकाः पूर्वं सहस्रयुगपर्ययाः 50 तांश च सर्वान मयॊद्दिष्टान दरक्ष्यसे तपसान्वितः पुनर दरक्ष्यसि चानेक सहस्रयुगपर्ययान 51 अनादि निधनं लॊके चक्रहस्तं च मां मुने अनुध्यानान मम मुने नैतद वचनम अन्यथा 52 शनैश्चरः सूर्यपुत्रॊ भविष्यति मनुर महान तस्मिन मन्वन्तरे चैव सप्तर्षिगणपूर्वकः तवम एव भविता वत्स मत्प्रसादान न संशयः 53 [वयास] एवं सारस्वतम ऋषिम अपान्तरतमं तदा उक्त्वा वचनम ईशानः साधयस्वेत्य अथाब्रवीत 54 सॊ ऽहं तस्य परसादेन देवस्य हरि मेधसः अपान्तरतमा नाम ततॊ जातॊ ऽऽजञया हरेः पुनश च जातॊ विख्यातॊ वसिष्ठ कुलनन्दनः 55 तद एतत कथितं जन्म मया पूर्वकम आत्मनः नारायण परसादेन तथा नारायणांशजम 56 मया हि सुमहत तप्तं तपः परमदारुणम पुरा मतिमतां शरेष्ठाः परमेण समाधिना 57 एतद वः कथितं सर्वं यन मां पृच्छथ पुत्रकाः पूर्वजन्म भविष्यं च भक्तानां सनेहतॊ मया 58 [वैषम्पायन] एष ते कथितः पूर्वं संभवॊ ऽसमद गुरॊर नृप वयासस्याक्लिष्ट मनसॊ यथा पृष्टः पुनः शृणु 59 सांख्यं यॊगं पञ्चरात्रं वेदाः पाशुपतं तथा जञानान्य एतानि राजर्षे विद्धि नाना मतानि वै 60 सांख्यस्य वक्ता कपिलः परमर्षिः स उच्यते हिरण्यगर्भॊ यॊगस्य वेत्ता नान्यः पुरातनः 61 अपान्तरतमाश चैव वेदाचार्यः स उच्यते पराचीन गर्भं तम ऋषिं परवदन्तीह के चन 62 उमापतिर भूतपतिः शरीकन्थॊ बरह्मणः सुतः उक्तवान इदम अव्यग्रॊ जञानं पाशुपतं शिवः 63 पञ्चरात्रस्य कृत्स्नस्य वेत्ता तु भगवान सवयम सर्वेषु च नृपश्रेष्ठ जञानेष्व एतेषु दृश्यते 64 यथागमं यथा जञानं निष्ठा नारायणः परभुः न चैनम एवं जानन्ति तमॊ भूता विशां पते 65 तम एव शास्त्रकर्तारं परवदन्ति मनीषिणः निष्ठां नारायणम ऋषिं नान्यॊ ऽसतीति च वादिनः 66 निःसंशयेषु सर्वेषु नित्यं वसति वै हरिः ससंशयान हेतुबलान नाध्यावसति माधवः 67 पञ्चरात्रविदॊ ये तु यथाक्रमपरा नृप एकान्तभावॊपगतास ते हरिं परविशन्ति वै 68 सांख्यं च यॊगं च सनातने दवे; वेदाश च सर्वे निखिलेन राजन सर्वैः समस्तैर ऋषिभिर निरुक्तॊ; नारायणॊ विश्वम इदं पुराणम 69 शुभाशुभं कर्म समीरितं यत; परवर्तते सर्वलॊकेषु किं चित तस्माद ऋषेस तद भवतीति विद्याद; दिव्य अन्तरिक्षे भुवि चाप्सु चापि |
1
[janamejaya] sāṃkhyaṃ yogaṃ pañcarātraṃ vedāraṇyakam eva ca jñānāny etāni brahmarṣe lokeṣu pracaranti ha 2 kim etāny ekaniṣṭhāni pṛthaṅ niṣṭhāni vā mune prabrūhi vai mayā pṛṣṭaḥ pravṛttiṃ ca yathākramam 3 [vaiṣampāyana] jajñe bahujñaṃ param aty udāraṃ; yaṃ dvīpamadhye sutam ātmavantam parāśarād gandhavatī maharṣiṃ; tasmai namo 'jñānatamo nudāya 4 pitāmahād yaṃ pravadanti ṣaṣṭhaṃ; maharṣim ārṣeya vibhūti yuktam nārāyaṇasyāṃśajam ekaputraṃ; dvaipāyanaṃ veda mahānidhānam 5 tam ādi kāleṣu mahāvibhūtir; nārāyaṇo brahma mahānidhānam sasarja putrārtham udāratejā; vyāsaṃ mahātmānam ajaḥ purāṇaḥ 6 [janamejaya] tvayaiva kathitaḥ pūrvaṃ saṃbhavo dvijasattama vasithasya sutaḥ śaktiḥ śakteḥ putraḥ parāśaraḥ 7 parāśarasya dāyādaḥ kṛṣṇadvaipāyano muniḥ bhūyo nārāyaṇa sutaṃ tvam evainaṃ prabhāsase 8 kim ataḥ pūrvajaṃ janma vyāsasyāmita tejasaḥ kathayasvottama mate janma nārāyaṇodbhavam 9 [vaiṣampāyana] vedārthān vettukāmasya dharmiṣṭhasya tapo nidheḥ guror me jñānaniṣṭhasya himavatpāda āsataḥ 10 kṛtvā bhāratam ākhyānaṃ tapaḥ śrāntasya dhīmataḥ śuśrūsāṃ tatparā rājan kṛtavanto vayaṃ tadā 11 sumantur jaiminiś caiva pailaś ca sudṛdha vrataḥ ahaṃ caturthaḥ śiṣyo vai śuko vyāsātmajas tathā 12 ebhiḥ parivṛto vyāsaḥ śiṣyaiḥ pañcabhir uttamaiḥ śuśubhe himavatpāde bhūtair bhūtapatir yathā 13 vedān āvartayan sāṅgān bhāratārthāṃś ca sarvaśaḥ tam ekamanasaṃ dāntaṃ yuktā vayam upāsmahe 14 kathāntare 'tha kasmiṃś cit pṛṣṭo 'smābhir dvijottamaḥ vedārthān bhāratārthāṃś ca janma nārāyaṇāt tathā 15 sa pūrvam uktvā vedārthān bhāratārthāṃś ca tattvavit nārāyaṇād idaṃ janma vyāhartum upacakrame 16 śṛṇudhvam ākhyāna varam etad ārṣeyam uttamam ādi kālodbhavaṃ viprās tapasādhigataṃ mayā 17 prāpte prajā visarge vai saptame padmasaṃbhave nārāyaṇo mahāyogī śubhāśubhavivarjitaḥ 18 sasṛje nābhitaḥ putraṃ brahmāṇam amitaprabham tataḥ sa prādurabhavad athainaṃ vākyam abravīt 19 mama tvaṃ nābhito jātaḥ prajā sarga karaḥ prabhuḥ sṛja prajās tvaṃ vividhā brahman sajada paṇḍitāḥ 20 sa eva m ukto vimukhaś cintā vyākulamānasaḥ pranamya varadaṃ devam uvāca harim īśvaram 21 kā śaktir mama deveśa prajāḥ sraṣṭuṃ namo 'stu te aprajñāvān ahaṃ deva vidhatsva yad anantaram 22 sa eva m ukto bhagavān bhūtvāthāntar hitas tataḥ cintayām āsa deveśo buddhiṃ buddhimatāṃ varaḥ 23 svarūpiṇī tato buddhir upatasthe hariṃ prabhum yogena caināṃ niryogaḥ svayaṃ niyuyuje tadā 24 sa tām aiśvaryayogasthāṃ buddhiṃ śaktimatīṃ satīm uvāca vacanaṃ devo buddhiṃ vai prabhur avyayaḥ 25 brahmāṇaṃ praviśasveti lokasṛṣṭy arthasiddhaye tatas tam īśvarādiṣṭā buddhiḥ kṣipraṃ viveśa sā 26 athainaṃ buddhisaṃyuktaṃ punaḥ sa dadṛśe hariḥ bhūyaś cainaṃ vacaḥ prāha sṛjemā vividhāḥ prajāḥ 27 evam uktvā sa bhagavāṃs tatraivāntaradhīyata prāpa caiva muhur tena svasthānaṃ deva saṃjñitam 28 tāṃ caiva prakṛtiṃ prāpya ekībhāvagato 'bhavat athāsya buddhir abhavat punar anyā tadā kila 29 sṛṣṭā imāḥ prajāḥ sarvā brahmaṇā parameṣṭhinā daityadānavagandharvarakṣogaṇasamākulāḥ jātā hīyaṃ vasumatī bhārākrāntā tapasvinī 30 bahavo balinaḥ pṛthvyāṃ daityadānavarākṣasāḥ bhaviṣyanti tapo yuktā varān prāpsyanti cottamān 31 avaśyam eva taiḥ sarvair varadānena darpitaiḥ bādhitavyāḥ suragaṇā ṛṣayaś ca tapodhanāḥ tatra nyāyyam idaṃ kartuṃ bhārāvataraṇaṃ mayā 32 atha nānā samudbhūtair vasudhāyāṃ yathākramam nigraheṇa ca pāpānāṃ sādhūnāṃ pragraheṇa ca 33 imāṃ tapasvinīṃ satyāṃ dhārayiṣyāmi medinīm mayā hy eṣā hi dhriyate pātālasthena bhoginā 34 mayā dhṛtā dhārayati jagad dhi sacarācaram tasmāt pṛthvyāḥ paritrāṇaṃ kariṣye saṃbhavaṃ gataḥ 35 evaṃ sa cintayitvā tu bhagavān madhusūdanaḥ rūpāṇy anekāny asṛjat prādurbhāvabhavāya saḥ 36 vārāhaṃ nārasiṃhaṃ ca vāmanaṃ mānuṣaṃ tathā ebhir mayā nihantavyā durvinītāḥ surārayaḥ 37 atha bhūyo jagat sraṣṭā bhoḥ śabdenānunādayan sarasvatīm uccacāra tatra sārasvato 'bhavat 38 apāntaratamā nāma suto vāk saṃbhavo vibhoḥ bhūtabhavya bhaviṣyajñaḥ satyavādī dṛdha vrataḥ 39 tam uvāca nataṃ mūrdhnā devānām ādir avyayaḥ vedākhyāne śrutiḥ kāryā tvayā matimatāṃ vara tasmāt kuru yathājñaptaṃ mayaitad vacanaṃ mune 40 tena bhinnās tadā vedā manoḥ svāyambhuve 'ntare tatas tutoṣa bhagavān haris tenāsya karmaṇā tapasā ca sutaptena yamena niyamena ca 41 [ṣrībhagavān] manvantareṣu putra tvam evaṃ lokapravartakaḥ bhaviṣyasy acalo brahmann apradhṛṣyaś ca nityaśaḥ 42 punas tiṣye ca saṃprāpte kuravo nāma bhāratāḥ bhaviṣyanti mahātmāno rājānaḥ prathitā bhuvi 43 teṣāṃ tvattaḥ prasūtānāṃ kulabhedo bhaviṣyati parasparavināśārthaṃ tvām ṛte dvijasattama 44 tatrāpy anekadhā vedān bhetsyase tapasānvitaḥ kṛṣṇe yuge ca saṃprāpte kṛṣṇa varṇo bhaviṣyasi 45 dharmāṇāṃ vividhānāṃ ca kartā jñānakaras tathā bhaviṣyasi tapo yukto na ca rāgād vimokṣyase 46 vītarāgaś ca putras te paramātmā bhaviṣyati maheśvara prasādena naitad vacanam anyathā 47 yaṃ mānasaṃ vai pravadanti putraṃ; pitāmahasyottama buddhiyuktam vasitham agryaṃ tapaso nidhānaṃ; yaś cāpi sūryaṃ vyatiricya bhāti 48 tasyānvaye cāpi tato maharṣiḥ; parāśaro nāma mahāprabhāvaḥ pitā sa te veda nidhir variṣṭho; mahātapā vai tapaso nivāsaḥ kānīna garbhaḥ pitṛkanyakāyāṃ; tasmād ṛṣes tvaṃ bhavitā ca putraḥ 49 bhūtabhavya bhaviṣyāṇāṃ chinnasarvārtha saṃśayaḥ ye hy atikrāntakāḥ pūrvaṃ sahasrayugaparyayāḥ 50 tāṃś ca sarvān mayoddiṣṭān drakṣyase tapasānvitaḥ punar drakṣyasi cāneka sahasrayugaparyayān 51 anādi nidhanaṃ loke cakrahastaṃ ca māṃ mune anudhyānān mama mune naitad vacanam anyathā 52 śanaiścaraḥ sūryaputro bhaviṣyati manur mahān tasmin manvantare caiva saptarṣigaṇapūrvakaḥ tvam eva bhavitā vatsa matprasādān na saṃśayaḥ 53 [vyāsa] evaṃ sārasvatam ṛṣim apāntaratamaṃ tadā uktvā vacanam īśānaḥ sādhayasvety athābravīt 54 so 'haṃ tasya prasādena devasya hari medhasaḥ apāntaratamā nāma tato jāto ''jñayā hareḥ punaś ca jāto vikhyāto vasiṣṭha kulanandanaḥ 55 tad etat kathitaṃ janma mayā pūrvakam ātmanaḥ nārāyaṇa prasādena tathā nārāyaṇāṃśajam 56 mayā hi sumahat taptaṃ tapaḥ paramadāruṇam purā matimatāṃ śreṣṭhāḥ parameṇa samādhinā 57 etad vaḥ kathitaṃ sarvaṃ yan māṃ pṛcchatha putrakāḥ pūrvajanma bhaviṣyaṃ ca bhaktānāṃ snehato mayā 58 [vaiṣampāyana] eṣa te kathitaḥ pūrvaṃ saṃbhavo 'smad guror nṛpa vyāsasyākliṣṭa manaso yathā pṛṣṭaḥ punaḥ śṛṇu 59 sāṃkhyaṃ yogaṃ pañcarātraṃ vedāḥ pāśupataṃ tathā jñānāny etāni rājarṣe viddhi nānā matāni vai 60 sāṃkhyasya vaktā kapilaḥ paramarṣiḥ sa ucyate hiraṇyagarbho yogasya vettā nānyaḥ purātanaḥ 61 apāntaratamāś caiva vedācāryaḥ sa ucyate prācīna garbhaṃ tam ṛṣiṃ pravadantīha ke cana 62 umāpatir bhūtapatiḥ śrīkantho brahmaṇaḥ sutaḥ uktavān idam avyagro jñānaṃ pāśupataṃ śivaḥ 63 pañcarātrasya kṛtsnasya vettā tu bhagavān svayam sarveṣu ca nṛpaśreṣṭha jñāneṣv eteṣu dṛśyate 64 yathāgamaṃ yathā jñānaṃ niṣṭhā nārāyaṇaḥ prabhuḥ na cainam evaṃ jānanti tamo bhūtā viśāṃ pate 65 tam eva śāstrakartāraṃ pravadanti manīṣiṇaḥ niṣṭhāṃ nārāyaṇam ṛṣiṃ nānyo 'stīti ca vādinaḥ 66 niḥsaṃśayeṣu sarveṣu nityaṃ vasati vai hariḥ sasaṃśayān hetubalān nādhyāvasati mādhavaḥ 67 pañcarātravido ye tu yathākramaparā nṛpa ekāntabhāvopagatās te hariṃ praviśanti vai 68 sāṃkhyaṃ ca yogaṃ ca sanātane dve; vedāś ca sarve nikhilena rājan sarvaiḥ samastair ṛṣibhir nirukto; nārāyaṇo viśvam idaṃ purāṇam 69 śubhāśubhaṃ karma samīritaṃ yat; pravartate sarvalokeṣu kiṃ cit tasmād ṛṣes tad bhavatīti vidyād; divy antarikṣe bhuvi cāpsu cāpi |
The Mahabharata in Sanskrit
Book 12
Chapter 338
|
1
[जनमेजय] बहवः पुरुषा बरह्मन्न उताहॊ एक एव तु कॊ हय अत्र पुरुषः शरेष्ठः कॊ वा यॊनिर इहॊच्यते 2 [वैषम्पायन] बहवः पुरुषा लॊके सांख्ययॊगविचारिणाम नैतद इच्छन्ति पुरुषम एकं कुरुकुलॊद्वह 3 बहूनां पुरुषाणां च यथैका यॊनिर उच्यते तथा तं पुरुषं विश्वं वयाख्यास्यामि गुणाधिकम 4 नमस्कृत्वा तु गुरवे वयासायामित तेजसे तपॊ युक्ताय दान्ताय वन्द्याय परमर्षये 5 इदं पुरुषसूक्तं हि सर्ववेदेषु पार्थिव ऋतं सत्यं च विख्यातम ऋषिसिंहेन चिन्तितम 6 उत्सर्गेणापवादेन ऋषिभिः कपिलादिभिः अध्यात्मचिन्ताम आश्रित्य शास्त्राण्य उक्तानि भारत 7 समासतस तु यद वयासः पुरुषैकत्वम उक्तवान तत ते ऽहं संप्रवक्ष्यामि परसादाद अमितौजसः 8 अत्राप्य उदाहरन्तीमम इतिहासं पुरातनम बरह्मणा सह संवादं तर्यम्बकस्य विशां पते 9 कषीरॊदस्य समुद्रस्य मध्ये हातक सप्रभः वैजयन्त इति खयातः पर्वत परवरॊ नृप 10 तत्राध्यात्म गतिं देव एकाकी परविचिन्तयन वैराज सदने नित्यं वैजयन्तं निषेवते 11 अथ तत्रासतस तस्य चतुर्वक्त्रस्य धीमतः ललात परभवः पुत्रः शिव आगाद यदृच्छया आकाशेनैव यॊगीशः पुरा तरिनयनः परभुः 12 ततः खान निपपाताशु धरणीधरमूर्धनि अग्रतश चाभवत परीतॊ ववन्दे चापि पादयॊः 13 तं पादयॊर निपतितं दृष्ट्वा सव्येन पानिना उत्थापयाम आस तदा परभुर एकः परजापतिः 14 उवाच चैनं भगवांश चिरस्यागतम आत्मजम सवागतं ते महाबाहॊ दिष्ट्या पराप्तॊ ऽसि मे ऽनतिकम 15 कच चित ते कुशलं पुत्र सवाध्यायतपसॊः सदा नित्यम उग्रतपास तवं हि ततः पृच्छामि ते पुनः 16 [रुद्र] तवत्प्रसादेन भगवन सवाध्यायतपसॊर मम कुशलं चाव्ययं चैव सर्वस्य जगतस तथा 17 चिरदृष्टॊ हि भगवान वैराज सदने मया ततॊ ऽहं पर्वतं पराप्तस तव इमं तवत पादसेवितम 18 कौतूहलं चापि हि मे एकान्तगमनेन ते नैतत कारणम अल्पं हि भविष्यति पितामह 19 किं नु तत सदनं शरेष्ठं कषुत्पिपासा विवर्जितम सुरासुरैर अध्युषितम ऋषिभिश चामितप्रभैः 20 गन्धर्वैर अप्सरॊभिश च सततं संनिषेवितम उत्सृज्येमं गिरिवरम एकाकी पराप्तवान असि 21 [बरह्म] वैजयन्तॊ गिरिवरः सततं सेव्यते मया अत्रैकाग्रेण मनसा पुरुषश चिन्त्यते विरात 22 [रुद्र] बहवः पुरुषा बरह्मंस तवया सृष्टाः सवयम्भुवा सृज्यन्ते चापरे बरह्मन स चैकः पुरुषॊ विरात 23 कॊ हय असौ चिन्त्यते बरह्मंस तवया वै पुरुषॊत्तमः एतन मे संशयं बरूहि महत कौतूहलं हि मे 24 [बरह्मा] बहवः पुरुषाः पुत्र ये तवया समुदाहृताः एवम एतद अतिक्रान्तं दरष्टव्यं नैतम इत्य अपि आधारं तु परवक्ष्यामि एकस्य पुरुषस्य ते 25 बहूनां पुरुषाणां स यथैका यॊनिर उच्यते तथा तं पुरुषं विश्वं परमं सुमहत्तमम निर्गुणं निर्गुणा भूत्वा परविशन्ति सनातनम |
1
[janamejaya] bahavaḥ puruṣā brahmann utāho eka eva tu ko hy atra puruṣaḥ śreṣṭhaḥ ko vā yonir ihocyate 2 [vaiṣampāyana] bahavaḥ puruṣā loke sāṃkhyayogavicāriṇām naitad icchanti puruṣam ekaṃ kurukulodvaha 3 bahūnāṃ puruṣāṇāṃ ca yathaikā yonir ucyate tathā taṃ puruṣaṃ viśvaṃ vyākhyāsyāmi guṇādhikam 4 namaskṛtvā tu gurave vyāsāyāmita tejase tapo yuktāya dāntāya vandyāya paramarṣaye 5 idaṃ puruṣasūktaṃ hi sarvavedeṣu pārthiva ṛtaṃ satyaṃ ca vikhyātam ṛṣisiṃhena cintitam 6 utsargeṇāpavādena ṛṣibhiḥ kapilādibhiḥ adhyātmacintām āśritya śāstrāṇy uktāni bhārata 7 samāsatas tu yad vyāsaḥ puruṣaikatvam uktavān tat te 'haṃ saṃpravakṣyāmi prasādād amitaujasaḥ 8 atrāpy udāharantīmam itihāsaṃ purātanam brahmaṇā saha saṃvādaṃ tryambakasya viśāṃ pate 9 kṣīrodasya samudrasya madhye hātaka saprabhaḥ vaijayanta iti khyātaḥ parvata pravaro nṛpa 10 tatrādhyātma gatiṃ deva ekākī pravicintayan vairāja sadane nityaṃ vaijayantaṃ niṣevate 11 atha tatrāsatas tasya caturvaktrasya dhīmataḥ lalāta prabhavaḥ putraḥ śiva āgād yadṛcchayā ākāśenaiva yogīśaḥ purā trinayanaḥ prabhuḥ 12 tataḥ khān nipapātāśu dharaṇīdharamūrdhani agrataś cābhavat prīto vavande cāpi pādayoḥ 13 taṃ pādayor nipatitaṃ dṛṣṭvā savyena pāninā utthāpayām āsa tadā prabhur ekaḥ prajāpatiḥ 14 uvāca cainaṃ bhagavāṃś cirasyāgatam ātmajam svāgataṃ te mahābāho diṣṭyā prāpto 'si me 'ntikam 15 kac cit te kuśalaṃ putra svādhyāyatapasoḥ sadā nityam ugratapās tvaṃ hi tataḥ pṛcchāmi te punaḥ 16 [rudra] tvatprasādena bhagavan svādhyāyatapasor mama kuśalaṃ cāvyayaṃ caiva sarvasya jagatas tathā 17 ciradṛṣṭo hi bhagavān vairāja sadane mayā tato 'haṃ parvataṃ prāptas tv imaṃ tvat pādasevitam 18 kautūhalaṃ cāpi hi me ekāntagamanena te naitat kāraṇam alpaṃ hi bhaviṣyati pitāmaha 19 kiṃ nu tat sadanaṃ śreṣṭhaṃ kṣutpipāsā vivarjitam surāsurair adhyuṣitam ṛṣibhiś cāmitaprabhaiḥ 20 gandharvair apsarobhiś ca satataṃ saṃniṣevitam utsṛjyemaṃ girivaram ekākī prāptavān asi 21 [brahma] vaijayanto girivaraḥ satataṃ sevyate mayā atraikāgreṇa manasā puruṣaś cintyate virāt 22 [rudra] bahavaḥ puruṣā brahmaṃs tvayā sṛṣṭāḥ svayambhuvā sṛjyante cāpare brahman sa caikaḥ puruṣo virāt 23 ko hy asau cintyate brahmaṃs tvayā vai puruṣottamaḥ etan me saṃśayaṃ brūhi mahat kautūhalaṃ hi me 24 [brahmā] bahavaḥ puruṣāḥ putra ye tvayā samudāhṛtāḥ evam etad atikrāntaṃ draṣṭavyaṃ naitam ity api ādhāraṃ tu pravakṣyāmi ekasya puruṣasya te 25 bahūnāṃ puruṣāṇāṃ sa yathaikā yonir ucyate tathā taṃ puruṣaṃ viśvaṃ paramaṃ sumahattamam nirguṇaṃ nirguṇā bhūtvā praviśanti sanātanam |
The Mahabharata in Sanskrit
Book 12
Chapter 339
|
1
[बरह्मा] शृणु पुत्र यथा हय एष पुरुषः शाश्वतॊ ऽवययः अक्षयश चाप्रमेयश च सर्वगश च निरुच्यते 2 न स शक्यस तवया दरष्टुं मयान्यैर वापि सत्तम सगुणॊ निर्गुणॊ विश्वॊ जञानदृश्यॊ हय असौ समृतः 3 अशरीरः शरीरेषु सर्वेषु निवसत्य असौ वसन्न अपि शरीरेषु न स लिप्यति कर्मभिः 4 ममान्तर आत्मा तव च ये चान्ये देहसंज्ञिताः सर्वेषां साक्षिभूतॊ ऽसौ न गराह्यः केन चित कव चित 5 विश्वमूर्धा विश्वभुजॊ विश्वपादाक्षि नासिकः एकश चरति कषेत्रेषु सवैरचारी यथासुखम 6 कषेत्राणि हि शरीराणि बीजानि च शुभाशुभे तानि वेत्ति स यॊगात्मा ततः कषेत्रज्ञ उच्यते 7 नागतिर न गतिस तस्य जञेया भूतेन केन चित सांख्येन विधिना चैव यॊगेन च यथाक्रमम 8 चिन्तयामि गतिं चास्य न गतिं वेद्मि चॊत्तमाम यथा जञानं तु वक्ष्यामि पुरुषं तं सनातनम 9 तस्यैकत्वं महत्त्वं हि स चैकः पुरुषः समृतः महापुरुष शब्दं स बिभर्त्य एकः सनातनः 10 एकॊ हुताशॊ बहुधा समिध्यते; एकः सूर्यस तपसां यॊनिर एका एकॊ वायुर बहुधा वाति लॊके; महॊदधिश चाम्भसां यॊनिर एकः पुरुषश चैकॊ निर्गुणॊ विश्वरूपस; तं निर्गुणं पुरुषं चाविशन्ति 11 हित्वा गुणमयं सर्वं कर्म हित्वा शुभाशुभम उभे सत्यानृते तयक्त्वा एवं भवति निर्गुणः 12 अचिन्त्यं चापि तं जञात्वा भावसूक्ष्मं चतुष्टयम विचरेद यॊ यतिर यत्तः स गच्छेत पुरुषं परभुम 13 एवं हि परमात्मानं के चिद इच्छन्ति पण्डिताः एकात्मानं तथात्मानम अपरे ऽधयात्मचिन्तकाः 14 तत्र यः परमात्मा हि स नित्यं निर्गुणः समृतः स हि नारायणॊ जञेयः सर्वात्मा पुरुषॊ हि सः न लिप्यते फलैश चापि पद्मपत्रम इवाम्भसा 15 कर्मात्मा तव अपरॊ यॊ ऽसौ मॊक्षबन्धैः स युज्यते ससप्तदशकेनापि राशिना युज्यते हि सः एवं बहुविधः परॊक्तः पुरुषस ते यथाक्रमम 16 यत तत कृत्स्नं लॊकतन्त्रस्य धाम; वेद्यं परं बॊधनीयं सबॊधृ मन्ता मन्तव्यं पराशिता पराशितव्यं; घराता घरेयं सपर्शिता सपर्शनीयम 17 दरष्टा दरष्टव्यं शराविता शरावणीयं; जञाता जञेयं सगुणं निर्गुणं च यद वै परॊक्तं गुणसाम्यं परधानं; नित्यं चैतच छाश्वतं चाव्ययं च 18 यद वै सूते धातुर आद्यं निधानं; तद वै विप्राः परवदन्ते ऽनिरुद्धम यद वै लॊके वैदिकं कर्म साधु; आशीर युक्तं तद धि तस्यॊपभॊज्यम 19 देवाः सर्वे मुनयः साधु दान्तास; तं पराग यज्ञैर यज्ञभागं यजन्ते अहं बरह्मा आद्य ईशः परजानां; तस्माज जातस तवं च मत्तः परसूतः मत्तॊ जगज जङ्गमं सथावरं च; सर्वे वेदाः सरहस्या हि पुत्र 20 चतुर्विभक्तः पुरुषः स करीदति यथेच्छति एवं स एव भगवाञ जञानेन परतिबॊधितः 21 एतत ते कथितं पुत्र यथावद अनुपृच्छतः सांख्यज्ञाने तथा यॊगे यथावद अनुवर्णितम |
1
[brahmā] śṛṇu putra yathā hy eṣa puruṣaḥ śāśvato 'vyayaḥ akṣayaś cāprameyaś ca sarvagaś ca nirucyate 2 na sa śakyas tvayā draṣṭuṃ mayānyair vāpi sattama saguṇo nirguṇo viśvo jñānadṛśyo hy asau smṛtaḥ 3 aśarīraḥ śarīreṣu sarveṣu nivasaty asau vasann api śarīreṣu na sa lipyati karmabhiḥ 4 mamāntar ātmā tava ca ye cānye dehasaṃjñitāḥ sarveṣāṃ sākṣibhūto 'sau na grāhyaḥ kena cit kva cit 5 viśvamūrdhā viśvabhujo viśvapādākṣi nāsikaḥ ekaś carati kṣetreṣu svairacārī yathāsukham 6 kṣetrāṇi hi śarīrāṇi bījāni ca śubhāśubhe tāni vetti sa yogātmā tataḥ kṣetrajña ucyate 7 nāgatir na gatis tasya jñeyā bhūtena kena cit sāṃkhyena vidhinā caiva yogena ca yathākramam 8 cintayāmi gatiṃ cāsya na gatiṃ vedmi cottamām yathā jñānaṃ tu vakṣyāmi puruṣaṃ taṃ sanātanam 9 tasyaikatvaṃ mahattvaṃ hi sa caikaḥ puruṣaḥ smṛtaḥ mahāpuruṣa śabdaṃ sa bibharty ekaḥ sanātanaḥ 10 eko hutāśo bahudhā samidhyate; ekaḥ sūryas tapasāṃ yonir ekā eko vāyur bahudhā vāti loke; mahodadhiś cāmbhasāṃ yonir ekaḥ puruṣaś caiko nirguṇo viśvarūpas; taṃ nirguṇaṃ puruṣaṃ cāviśanti 11 hitvā guṇamayaṃ sarvaṃ karma hitvā śubhāśubham ubhe satyānṛte tyaktvā evaṃ bhavati nirguṇaḥ 12 acintyaṃ cāpi taṃ jñātvā bhāvasūkṣmaṃ catuṣṭayam vicared yo yatir yattaḥ sa gacchet puruṣaṃ prabhum 13 evaṃ hi paramātmānaṃ ke cid icchanti paṇḍitāḥ ekātmānaṃ tathātmānam apare 'dhyātmacintakāḥ 14 tatra yaḥ paramātmā hi sa nityaṃ nirguṇaḥ smṛtaḥ sa hi nārāyaṇo jñeyaḥ sarvātmā puruṣo hi saḥ na lipyate phalaiś cāpi padmapatram ivāmbhasā 15 karmātmā tv aparo yo 'sau mokṣabandhaiḥ sa yujyate sasaptadaśakenāpi rāśinā yujyate hi saḥ evaṃ bahuvidhaḥ proktaḥ puruṣas te yathākramam 16 yat tat kṛtsnaṃ lokatantrasya dhāma; vedyaṃ paraṃ bodhanīyaṃ sabodhṛ mantā mantavyaṃ prāśitā prāśitavyaṃ; ghrātā ghreyaṃ sparśitā sparśanīyam 17 draṣṭā draṣṭavyaṃ śrāvitā śrāvaṇīyaṃ; jñātā jñeyaṃ saguṇaṃ nirguṇaṃ ca yad vai proktaṃ guṇasāmyaṃ pradhānaṃ; nityaṃ caitac chāśvataṃ cāvyayaṃ ca 18 yad vai sūte dhātur ādyaṃ nidhānaṃ; tad vai viprāḥ pravadante 'niruddham yad vai loke vaidikaṃ karma sādhu; āśīr yuktaṃ tad dhi tasyopabhojyam 19 devāḥ sarve munayaḥ sādhu dāntās; taṃ prāg yajñair yajñabhāgaṃ yajante ahaṃ brahmā ādya īśaḥ prajānāṃ; tasmāj jātas tvaṃ ca mattaḥ prasūtaḥ matto jagaj jaṅgamaṃ sthāvaraṃ ca; sarve vedāḥ sarahasyā hi putra 20 caturvibhaktaḥ puruṣaḥ sa krīdati yathecchati evaṃ sa eva bhagavāñ jñānena pratibodhitaḥ 21 etat te kathitaṃ putra yathāvad anupṛcchataḥ sāṃkhyajñāne tathā yoge yathāvad anuvarṇitam |
The Mahabharata in Sanskrit
Book 12
Chapter 340
|
1
[य] धर्माः पितामहेनॊक्ता मॊक्षधर्माश्रिताः शुभाः धर्मम आश्रमिणां शरेष्ठं वक्तुम अर्हति मे भवान 2 [भीस्म] सर्वत्र विहितॊ धर्मः सवर्ग्यः सत्यफलॊदयः बहु दवारस्य धर्मस्य नेहास्ति विफला करिया 3 यस्मिन यस्मिंस तु विषये यॊ यॊ याति विनिश्चयम स तम एवाभिजानाति नान्यं भरतसत्तम 4 अपि च तवं नरव्याघ्र शरॊतुम अर्हसि मे कथाम पुरा शक्रस्य कथितां नारदेन सुरर्षिणा 5 सुरर्षिर नारदॊ राजन सिद्धस तरैलॊक्यसंमतः पर्येति करमशॊ लॊकान वायुर अव्याहतॊ यथा 6 स कदा चिन महेष्वास देवराजालयं गतः सत्कृतश च महेन्द्रेण परत्यासन्न गतॊ ऽभवत 7 तं कृतक्षणम आसीनं पर्यपृच्छच छची पतिः बरह्मर्षे किं चिद आश्चर्यम अस्ति दृष्टं तवयानघ 8 यथा तवम अपि विप्रर्षे तरैलॊक्यं सचराचरम जातकौतूहलॊ नित्यं सिद्धश चरसि साक्षिवत 9 न हय अस्त्य अविदितं लॊके देवर्षे तव किं चन शरुतं वाप्य अनुभूतं वा दृष्टं वा कथयस्व मे 10 तस्मै राजन सुरेन्द्राय नारदॊ वदतां वरः आसीनायॊपपन्नाय परॊक्तवान विपुलां कथाम 11 यथा येन च कल्पेन स तस्मै दविजसत्तमः कथां कथितवान पृष्ठस तथा तवम अपि मे शृणु |
1
[y] dharmāḥ pitāmahenoktā mokṣadharmāśritāḥ śubhāḥ dharmam āśramiṇāṃ śreṣṭhaṃ vaktum arhati me bhavān 2 [bhīsma] sarvatra vihito dharmaḥ svargyaḥ satyaphalodayaḥ bahu dvārasya dharmasya nehāsti viphalā kriyā 3 yasmin yasmiṃs tu viṣaye yo yo yāti viniścayam sa tam evābhijānāti nānyaṃ bharatasattama 4 api ca tvaṃ naravyāghra śrotum arhasi me kathām purā śakrasya kathitāṃ nāradena surarṣiṇā 5 surarṣir nārado rājan siddhas trailokyasaṃmataḥ paryeti kramaśo lokān vāyur avyāhato yathā 6 sa kadā cin maheṣvāsa devarājālayaṃ gataḥ satkṛtaś ca mahendreṇa pratyāsanna gato 'bhavat 7 taṃ kṛtakṣaṇam āsīnaṃ paryapṛcchac chacī patiḥ brahmarṣe kiṃ cid āścaryam asti dṛṣṭaṃ tvayānagha 8 yathā tvam api viprarṣe trailokyaṃ sacarācaram jātakautūhalo nityaṃ siddhaś carasi sākṣivat 9 na hy asty aviditaṃ loke devarṣe tava kiṃ cana śrutaṃ vāpy anubhūtaṃ vā dṛṣṭaṃ vā kathayasva me 10 tasmai rājan surendrāya nārado vadatāṃ varaḥ āsīnāyopapannāya proktavān vipulāṃ kathām 11 yathā yena ca kalpena sa tasmai dvijasattamaḥ kathāṃ kathitavān pṛṣṭhas tathā tvam api me śṛṇu |
The Mahabharata in Sanskrit
Book 12
Chapter 341
|
1
[भीस्म] आसीत किल कुरुश्रेष्ठ महापद्मे पुरॊत्तमे गङ्गाया दक्षिणे तीरे कश चिद विप्रः समाहितः 2 सौम्यः सॊमान्वये वेदे गताध्वा छिन्नसंशयः धर्मनित्यॊ जितक्रॊधॊ नित्यतृप्तॊ जितेन्द्रियः 3 अहिंसा निरतॊ नित्यं सत्यः सज जनसंमतः नयायप्राप्तेन वित्तेन सवेन शीलेन चान्वितः 4 जञातिसंबन्धिवपुले मित्रापाश्रय संमते कुले महति विख्याते विशिष्टां वृत्तिम आस्थितः 5 सपुत्रान बहुलान दृष्ट्वा विपुले कर्मणि सथितः कुलधर्माश्रितॊ राजन धर्मचर्या परॊ ऽभवत 6 ततः स धर्मं वेदॊक्तं यथाशास्त्रॊक्तम एव च शिष्टाचीर्णं च धर्मं च तरिविधं चिन्त्य चेतसा 7 किं नु मे सयाच छुभं कृत्वा किं कषमं किं परायनम इत्य एवं खिद्यते नित्यं न च याति विनिश्चयम 8 तस्यैवं खिद्यमानस्य धर्मं परमम आस्थितः कदा चिद अतिथिः पराप्तॊ बराह्मणः सुसमाहितः 9 स तस्मै सत्क्रियां चक्रे करिया युक्तेन हेतुना विश्रान्तं चैनम आसीनम इदं वचनम अब्रवीत |
1
[bhīsma] āsīt kila kuruśreṣṭha mahāpadme purottame gaṅgāyā dakṣiṇe tīre kaś cid vipraḥ samāhitaḥ 2 saumyaḥ somānvaye vede gatādhvā chinnasaṃśayaḥ dharmanityo jitakrodho nityatṛpto jitendriyaḥ 3 ahiṃsā nirato nityaṃ satyaḥ saj janasaṃmataḥ nyāyaprāptena vittena svena śīlena cānvitaḥ 4 jñātisaṃbandhivapule mitrāpāśraya saṃmate kule mahati vikhyāte viśiṣṭāṃ vṛttim āsthitaḥ 5 saputrān bahulān dṛṣṭvā vipule karmaṇi sthitaḥ kuladharmāśrito rājan dharmacaryā paro 'bhavat 6 tataḥ sa dharmaṃ vedoktaṃ yathāśāstroktam eva ca śiṣṭācīrṇaṃ ca dharmaṃ ca trividhaṃ cintya cetasā 7 kiṃ nu me syāc chubhaṃ kṛtvā kiṃ kṣamaṃ kiṃ parāyanam ity evaṃ khidyate nityaṃ na ca yāti viniścayam 8 tasyaivaṃ khidyamānasya dharmaṃ paramam āsthitaḥ kadā cid atithiḥ prāpto brāhmaṇaḥ susamāhitaḥ 9 sa tasmai satkriyāṃ cakre kriyā yuktena hetunā viśrāntaṃ cainam āsīnam idaṃ vacanam abravīt |
The Mahabharata in Sanskrit
Book 12
Chapter 342
|
1
[बराह्मण] समुत्पन्नाभिधानॊ ऽसमि वाङ माधुर्येण ते ऽनघ मित्रताम अभिपन्नस तवां किं चिद वक्ष्यामि तच छृणु 2 गृहस्थ धर्मं विप्रेन्द्र कृत्वा पुत्रगतं तव अहम धर्मं परमकं कुर्यां कॊ हि मार्गॊ भवेद दविज 3 अहम आत्मानम आत्मस्थम एक एवात्मनि सथितः कर्तुं काङ्क्षामि नेच्छामि बद्धः साधारणैर गुणैः 4 यावद एवानतीतं मे वयः पुत्रफलाश्रितम तावद इच्छामि पाथेयम आदातुं पारलौकिकम 5 अस्मिन हि लॊकसंताने परं पारम अभीप्सतः उत्पन्ना मे मतिर अयं कुतॊ धर्ममयः पलवः 6 समुह्यमानानि निशम्य लॊके; निर्यात्यमानानि च सात्त्विकानि दृष्ट्वा च धर्मध्वजकेतुमालां; परकीर्यमानाम उपरि परजानाम 7 न मे मनॊ रज्यते भॊगकाले; दृष्ट्वा यतीन परार्थयतः परत्र तेनातिथे बुद्धिबलाश्रयेण; धर्मार्थतत्त्वे विनियुङ्क्ष्व मां तवम 8 [भीस्म] सॊ ऽतिथिर वचनं तस्य शरुत्वा धर्माभिलासिनः परॊवाच वचनं शलक्ष्णं पराज्ञॊ मधुरया गिरा 9 अहम अप्य अत्र मुह्यामि ममाप्य एष मनॊरथः न च संनिश्चयं यामि बहु दवारे तरिविष्टपे 10 के चिन मॊक्षं परशंसन्ति के चिद यज्ञफलं दविजाः वान परस्थाश्रमं के चिद गार्हस्थ्यं के चिद आश्रिताः 11 राजधर्माश्रयं के चित के चिद आत्मफलाश्रयम गुरु चर्याश्रयं के चित के चिद वाक्यं यम आश्रयम 12 मातरं पितरं के चिच छुश्रूसन्तॊ दिवं गताः अहिंसया परे सवर्गं सत्येन च तथा परे 13 आहवे ऽभिमुखाः के चिन निहताः सविद दिवं गताः के चिद उञ्छव्रतैः सिद्धाः सवर्गमार्गसमाश्रिताः 14 के चिद अध्ययने युक्ता वेद वरतपराः शुभाः बुद्धिमन्तॊ गताः सवर्गं तुष्टात्मानॊ जितेन्द्रियाः 15 आर्जवेनापरे युक्ता निहतानार्जवैर जनैः ऋजवॊ नाकपृष्ठे वै शुद्धात्मानः परतिष्ठिताः 16 एवं बहुविधैर लॊके धर्मद्वारैर अनावृतैः ममापि मतिर आविग्ना मेघलेखेव वायुना |
1
[brāhmaṇa] samutpannābhidhāno 'smi vāṅ mādhuryeṇa te 'nagha mitratām abhipannas tvāṃ kiṃ cid vakṣyāmi tac chṛṇu 2 gṛhastha dharmaṃ viprendra kṛtvā putragataṃ tv aham dharmaṃ paramakaṃ kuryāṃ ko hi mārgo bhaved dvija 3 aham ātmānam ātmastham eka evātmani sthitaḥ kartuṃ kāṅkṣāmi necchāmi baddhaḥ sādhāraṇair guṇaiḥ 4 yāvad evānatītaṃ me vayaḥ putraphalāśritam tāvad icchāmi pātheyam ādātuṃ pāralaukikam 5 asmin hi lokasaṃtāne paraṃ pāram abhīpsataḥ utpannā me matir ayaṃ kuto dharmamayaḥ plavaḥ 6 samuhyamānāni niśamya loke; niryātyamānāni ca sāttvikāni dṛṣṭvā ca dharmadhvajaketumālāṃ; prakīryamānām upari prajānām 7 na me mano rajyate bhogakāle; dṛṣṭvā yatīn prārthayataḥ paratra tenātithe buddhibalāśrayeṇa; dharmārthatattve viniyuṅkṣva māṃ tvam 8 [bhīsma] so 'tithir vacanaṃ tasya śrutvā dharmābhilāsinaḥ provāca vacanaṃ ślakṣṇaṃ prājño madhurayā girā 9 aham apy atra muhyāmi mamāpy eṣa manorathaḥ na ca saṃniścayaṃ yāmi bahu dvāre triviṣṭape 10 ke cin mokṣaṃ praśaṃsanti ke cid yajñaphalaṃ dvijāḥ vāna prasthāśramaṃ ke cid gārhasthyaṃ ke cid āśritāḥ 11 rājadharmāśrayaṃ ke cit ke cid ātmaphalāśrayam guru caryāśrayaṃ ke cit ke cid vākyaṃ yam āśrayam 12 mātaraṃ pitaraṃ ke cic chuśrūsanto divaṃ gatāḥ ahiṃsayā pare svargaṃ satyena ca tathā pare 13 āhave 'bhimukhāḥ ke cin nihatāḥ svid divaṃ gatāḥ ke cid uñchavrataiḥ siddhāḥ svargamārgasamāśritāḥ 14 ke cid adhyayane yuktā veda vrataparāḥ śubhāḥ buddhimanto gatāḥ svargaṃ tuṣṭātmāno jitendriyāḥ 15 ārjavenāpare yuktā nihatānārjavair janaiḥ ṛjavo nākapṛṣṭhe vai śuddhātmānaḥ pratiṣṭhitāḥ 16 evaṃ bahuvidhair loke dharmadvārair anāvṛtaiḥ mamāpi matir āvignā meghalekheva vāyunā |
The Mahabharata in Sanskrit
Book 12
Chapter 343
|
1
[अतिथि] उपदेशं तु ते विप्र करिष्ये ऽहं यथागमम पुरुणा मे यथाख्यातम अर्थतस तच च मे शृणु 2 यत्र पूर्वाभिसर्गेण धर्मचक्रं परवर्तितम नैमिषे गॊमतीतीरे तत्र नागाह्वयं पुरम 3 समग्रैस तरिदशैस तत्र इष्टम आसीद दविजर्षभ यत्रेन्द्रातिक्रमं चक्रे मान्धाता राजसत्तमः 4 कृताधिवासॊ धर्मात्मा तत्र चक्षुः शरवा महा पद्मनाभॊ महाभागः पद्म इत्य एव विश्रुतः 5 स वाचा कर्मणा चैव मनसा च दविजर्षभ परसादयति भूतानि तरिविधे वर्त्मनि सथितः 6 साम्ना दानेन भेदेन दन्देनेति चतुर्विधम विषमस्थं जनं सवं च चक्षुर धयानेन रक्षति 7 तम अभिक्रम्य विधिना परस्तुम अर्हसि कान्स्कितम स ते परमकं धर्मन मिथ्या दर्शयिष्यति 8 स हि सर्वातिथिर नागॊ बुद्धिशास्त्रविशारदः गुणैर अनवमैर युक्तः समस्तैर आभिकामिकैः 9 परकृत्या नित्यसलिलॊ नित्यम अध्ययने रतः तपॊ दमाभ्यां संयुक्तॊ वृत्तेनानवरेण च 10 यज्वा दानरुचिः कषान्तॊ वृत्ते च परमे सथितः सत्यवाग अनसूयुश च शीलवान अभिसंश्रितः 11 शेषान्न भॊक्ता वचनानुकूलॊ; हितार्जवॊत्कृष्ट कृताकृतज्ञः अवैरकृद भूतहिते नियुक्तॊ; गङ्गाह्रदाम्भॊ ऽभिजनॊपपन्नः |
1
[atithi] upadeśaṃ tu te vipra kariṣye 'haṃ yathāgamam puruṇā me yathākhyātam arthatas tac ca me śṛṇu 2 yatra pūrvābhisargeṇa dharmacakraṃ pravartitam naimiṣe gomatītīre tatra nāgāhvayaṃ puram 3 samagrais tridaśais tatra iṣṭam āsīd dvijarṣabha yatrendrātikramaṃ cakre māndhātā rājasattamaḥ 4 kṛtādhivāso dharmātmā tatra cakṣuḥ śravā mahā padmanābho mahābhāgaḥ padma ity eva viśrutaḥ 5 sa vācā karmaṇā caiva manasā ca dvijarṣabha prasādayati bhūtāni trividhe vartmani sthitaḥ 6 sāmnā dānena bhedena dandeneti caturvidham viṣamasthaṃ janaṃ svaṃ ca cakṣur dhyānena rakṣati 7 tam abhikramya vidhinā prastum arhasi kānskitam sa te paramakaṃ dharmana mithyā darśayiṣyati 8 sa hi sarvātithir nāgo buddhiśāstraviśāradaḥ guṇair anavamair yuktaḥ samastair ābhikāmikaiḥ 9 prakṛtyā nityasalilo nityam adhyayane rataḥ tapo damābhyāṃ saṃyukto vṛttenānavareṇa ca 10 yajvā dānaruciḥ kṣānto vṛtte ca parame sthitaḥ satyavāg anasūyuś ca śīlavān abhisaṃśritaḥ 11 śeṣānna bhoktā vacanānukūlo; hitārjavotkṛṣṭa kṛtākṛtajñaḥ avairakṛd bhūtahite niyukto; gaṅgāhradāmbho 'bhijanopapannaḥ |
The Mahabharata in Sanskrit
Book 12
Chapter 344
|
1
[बराह्मण] अतिभारॊद्यतस्यैव भारापनयनं महत पराश्वास करं वाक्यम इदं मे भवतः शरुतम 2 अध्वक्लान्तस्य शयनं सथानक्लान्तस्य चासनम तृषितस्य च पानीयं कषुधार्तस्य च भॊजनम 3 ईप्सितस्येव संप्राप्तिर अन्नस्य समये ऽतिथेः एषितस्यात्मनः काले वृद्धस्येव सुतॊ यथा 4 मनसा चिन्तितस्येव परीतिस्निग्धस्य दर्शनम परह्लादयति मां वाक्यं भवता यद उदीरितम 5 दत्तचक्षुर इवाकाशे पश्यामि विमृशामि च परज्ञान वचनाद यॊ ऽयम उपदेशॊ हि मे कृतः बाधम एवं करिष्यामि यथा मां भासते भवान 6 इहेमां रजनीं साधॊ निवसस्व मया सह परभाते यास्यति भवान पर्याश्वस्तः सुखॊषितः असौ हि भगवान सूर्यॊ मन्दरश्मिर अवाङ मुखः 7 [भीस्म] ततस तेन कृतातिथ्यः सॊ ऽतिथिः शत्रुसूदन उवास किल तां रात्रिं सह तेन दविजेन वै 8 तत तच च धर्मसंयुक्तं तयॊः कथयतॊस तदा वयतीता सा निशा कृत्स्नासुखेन दिवसॊपमा 9 ततः परभातसमये सॊ ऽतिथिस तेन पूजितः बराह्मणेन यथाशक्त्या सवकार्यम अभिकाङ्क्षता 10 ततः स विप्रः कृतधर्मनिश्चयः; कृताभ्यनुज्ञः सवजनेन धर्मवित यथॊपदिष्टं भुजगेन्द्रसंश्रयं; जगाम काले सुकृतैक निश्चयः |
1
[brāhmaṇa] atibhārodyatasyaiva bhārāpanayanaṃ mahat parāśvāsa karaṃ vākyam idaṃ me bhavataḥ śrutam 2 adhvaklāntasya śayanaṃ sthānaklāntasya cāsanam tṛṣitasya ca pānīyaṃ kṣudhārtasya ca bhojanam 3 īpsitasyeva saṃprāptir annasya samaye 'titheḥ eṣitasyātmanaḥ kāle vṛddhasyeva suto yathā 4 manasā cintitasyeva prītisnigdhasya darśanam prahlādayati māṃ vākyaṃ bhavatā yad udīritam 5 dattacakṣur ivākāśe paśyāmi vimṛśāmi ca prajñāna vacanād yo 'yam upadeśo hi me kṛtaḥ bādham evaṃ kariṣyāmi yathā māṃ bhāsate bhavān 6 ihemāṃ rajanīṃ sādho nivasasva mayā saha prabhāte yāsyati bhavān paryāśvastaḥ sukhoṣitaḥ asau hi bhagavān sūryo mandaraśmir avāṅ mukhaḥ 7 [bhīsma] tatas tena kṛtātithyaḥ so 'tithiḥ śatrusūdana uvāsa kila tāṃ rātriṃ saha tena dvijena vai 8 tat tac ca dharmasaṃyuktaṃ tayoḥ kathayatos tadā vyatītā sā niśā kṛtsnāsukhena divasopamā 9 tataḥ prabhātasamaye so 'tithis tena pūjitaḥ brāhmaṇena yathāśaktyā svakāryam abhikāṅkṣatā 10 tataḥ sa vipraḥ kṛtadharmaniścayaḥ; kṛtābhyanujñaḥ svajanena dharmavit yathopadiṣṭaṃ bhujagendrasaṃśrayaṃ; jagāma kāle sukṛtaika niścayaḥ |
The Mahabharata in Sanskrit
Book 12
Chapter 345
|
1
[भीस्म] स वनानि विचित्राणि तीर्थानि च सरांसि च अभिगच्छन करमेण सम कं चिन मुनिम उपस्थितः 2 तं स तेन यथॊद्दिष्टं नागं विप्रेण बराह्मणः पर्यपृच्छद यथान्यायं शरुत्वैव च जगाम सः 3 सॊ ऽभिगम्य यथाख्यातं नागायतनम अर्थवित परॊक्तवान अहम अस्मीति भॊः शब्दालंकृतं वचः 4 ततस तस्य वचः शरुत्वा रूपिणी धर्मवत्सला दर्शयाम आस तं विप्रं नागपत्नी पतिव्रता 5 सा तस्मै विधिवत पूजां चक्रे धर्मपरायना सवागतेनागतं कृत्वा किं करॊमीति चाब्रवीत 6 [बराह्मन] विश्रान्तॊ ऽभयर्चितश चास्मि भवत्या शलक्ष्णया गिरा दरष्टुम इच्छामि भवति तं देवं नागम उत्तमम 7 एतद धि परमं कार्यम एतन मे फलम ईप्सितम अनेनार्थेन चास्म्य अद्य संप्राप्तः पन्नगालयम 8 [नागभार्या] आर्य सूर्यरथं वॊढुं गतॊ ऽसौ मासचारिकः सप्तास्तभिर दिनैर विप्र दर्शयिष्यत्य असंशयम 9 एतद विदितम आर्यस्य विवास करणं मम भर्तुर भवतु किं चान्यत करियतां तद वदस्व मे 10 [बराह्मन] अनेन निश्चयेनाहं साध्वि संप्राप्तवान इह परतीक्षन्न आगमं देवि वत्स्याम्य अस्मिन महावने 11 संप्राप्तस्यैव चाव्यग्रम आवेद्यॊ ऽहम इहागतः ममाभिगमनं पराप्तॊ वाच्यश च वचनं तवया 12 अहम अप्य अत्र वत्स्यामि गॊमत्याः पुलिने शुभे कालं परिमिताहारॊ यथॊक्तं परिपालयन 13 [भीस्म] ततः स विप्रस तां नागीं समाधाय पुनः पुनः तद एव पुलिनं नद्याः परययौ बराह्मणर्षभः |
1
[bhīsma] sa vanāni vicitrāṇi tīrthāni ca sarāṃsi ca abhigacchan krameṇa sma kaṃ cin munim upasthitaḥ 2 taṃ sa tena yathoddiṣṭaṃ nāgaṃ vipreṇa brāhmaṇaḥ paryapṛcchad yathānyāyaṃ śrutvaiva ca jagāma saḥ 3 so 'bhigamya yathākhyātaṃ nāgāyatanam arthavit proktavān aham asmīti bhoḥ śabdālaṃkṛtaṃ vacaḥ 4 tatas tasya vacaḥ śrutvā rūpiṇī dharmavatsalā darśayām āsa taṃ vipraṃ nāgapatnī pativratā 5 sā tasmai vidhivat pūjāṃ cakre dharmaparāyanā svāgatenāgataṃ kṛtvā kiṃ karomīti cābravīt 6 [brāhman] viśrānto 'bhyarcitaś cāsmi bhavatyā ślakṣṇayā girā draṣṭum icchāmi bhavati taṃ devaṃ nāgam uttamam 7 etad dhi paramaṃ kāryam etan me phalam īpsitam anenārthena cāsmy adya saṃprāptaḥ pannagālayam 8 [nāgabhāryā] ārya sūryarathaṃ voḍhuṃ gato 'sau māsacārikaḥ saptāstabhir dinair vipra darśayiṣyaty asaṃśayam 9 etad viditam āryasya vivāsa karaṇaṃ mama bhartur bhavatu kiṃ cānyat kriyatāṃ tad vadasva me 10 [brāhmana] anena niścayenāhaṃ sādhvi saṃprāptavān iha pratīkṣann āgamaṃ devi vatsyāmy asmin mahāvane 11 saṃprāptasyaiva cāvyagram āvedyo 'ham ihāgataḥ mamābhigamanaṃ prāpto vācyaś ca vacanaṃ tvayā 12 aham apy atra vatsyāmi gomatyāḥ puline śubhe kālaṃ parimitāhāro yathoktaṃ paripālayan 13 [bhīsma] tataḥ sa vipras tāṃ nāgīṃ samādhāya punaḥ punaḥ tad eva pulinaṃ nadyāḥ prayayau brāhmaṇarṣabhaḥ |
The Mahabharata in Sanskrit
Book 12
Chapter 346
|
1
[भीस्म] अथ तेन नरश्रेष्ठ बराह्मणेन तपस्विना निराहारेण वसता दुःखितास ते भुजंगमाः 2 सर्वे संभूय सहितास तस्य नागस्य बान्धवाः भरातरस तनया भार्या ययुस तं बराह्मणं परति 3 ते ऽपश्यन पुलिने तं वै विविक्ते नियतव्रतम समासीनं निराहारं दविजं जप्यपरायनम 4 ते सर्वे समभिक्रम्य विप्रम अभ्यर्च्य चासकृत ऊचुर वाक्यम असंदिग्धम आतिथेयस्य बान्धवाः 5 षष्ठॊ हि दिवसस ते ऽदय पराप्तस्येह तपॊधन न चाभिलससे किं चिद आहारं धर्मवत्सल 6 अस्मान अभिगतश चासि वयं च तवाम उपस्थिताः कार्यं चातिथ्यम अस्माभिर वयं सर्वे कुतुम्बिनः 7 मूलं फलं वा पर्णं वा पयॊ वा दविजसत्तम आहारहेतॊर अन्नं वा भॊक्तुम अर्हसि बराह्मण 8 तयक्ताहारेण भवता वने निवसता सता बालवृद्धम इदं सर्वं पीड्यते धर्मसंकटात 9 न हि नॊ भरूणहा कश चिद राजापथ्यॊ ऽनृतॊ ऽपि वा पूर्वाशी वा कुले हय अस्मिन देवतातिथिबान्धुषु 10 [बराह्मन] उपदेशेन युष्माकम आहारॊ ऽयं मया वृतः दविर ऊनं दशरात्रं वै नागस्यागमनं परति 11 यद्य अस्तरात्रे निर्याते नागमिष्यति पन्नगः तदाहारं करिष्यामि तन्निमित्तम इदं वरतम 12 कर्तव्यॊ न च संतापॊ गम्यतां च यथागतम तन्निमित्तं वरतं मह्यं नैतद भेत्तुम इहार्हथ 13 [भीस्म] तेन ते समनुज्ञाता बराह्मणेन भुजंगमाः सवम एव भवनं जग्मुर अकृतार्था नरर्षभ |
1
[bhīsma] atha tena naraśreṣṭha brāhmaṇena tapasvinā nirāhāreṇa vasatā duḥkhitās te bhujaṃgamāḥ 2 sarve saṃbhūya sahitās tasya nāgasya bāndhavāḥ bhrātaras tanayā bhāryā yayus taṃ brāhmaṇaṃ prati 3 te 'paśyan puline taṃ vai vivikte niyatavratam samāsīnaṃ nirāhāraṃ dvijaṃ japyaparāyanam 4 te sarve samabhikramya vipram abhyarcya cāsakṛt ūcur vākyam asaṃdigdham ātitheyasya bāndhavāḥ 5 ṣaṣṭho hi divasas te 'dya prāptasyeha tapodhana na cābhilasase kiṃ cid āhāraṃ dharmavatsala 6 asmān abhigataś cāsi vayaṃ ca tvām upasthitāḥ kāryaṃ cātithyam asmābhir vayaṃ sarve kutumbinaḥ 7 mūlaṃ phalaṃ vā parṇaṃ vā payo vā dvijasattama āhārahetor annaṃ vā bhoktum arhasi brāhmaṇa 8 tyaktāhāreṇa bhavatā vane nivasatā satā bālavṛddham idaṃ sarvaṃ pīḍyate dharmasaṃkaṭāt 9 na hi no bhrūṇahā kaś cid rājāpathyo 'nṛto 'pi vā pūrvāśī vā kule hy asmin devatātithibāndhuṣu 10 [brāhmana] upadeśena yuṣmākam āhāro 'yaṃ mayā vṛtaḥ dvir ūnaṃ daśarātraṃ vai nāgasyāgamanaṃ prati 11 yady astarātre niryāte nāgamiṣyati pannagaḥ tadāhāraṃ kariṣyāmi tannimittam idaṃ vratam 12 kartavyo na ca saṃtāpo gamyatāṃ ca yathāgatam tannimittaṃ vrataṃ mahyaṃ naitad bhettum ihārhatha 13 [bhīsma] tena te samanujñātā brāhmaṇena bhujaṃgamāḥ svam eva bhavanaṃ jagmur akṛtārthā nararṣabha |
The Mahabharata in Sanskrit
Book 12
Chapter 347
|
1
[भीस्म] अथ काले बहुतिथे पूर्णे पराप्तॊ भुजंगमः दत्ताभ्यनुज्ञः सवं वेश्म कृतकर्मा विवस्वतः 2 तं भार्यासमभिक्रामत पादशौचादिभिर गुणैः उपपन्नां च तां साध्वीं पन्नगः पर्यपृच्छत 3 अपि तवम असि कल्यानि देवतातिथिपूजने पूर्वम उक्तेन विधिना युक्ता युक्तेन मत्समम 4 न खल्व अस्याकृतार्थेन सत्री बुद्ध्या मार्दवी कृता मद्वियॊगेन सुश्रॊणि वियुक्ता धर्मसेतुना 5 [नागभार्या] शिष्याणां गुरु शुश्रूसा विप्राणां वेद पारणम भृत्यानां सवामिवचनं राज्ञां लॊकानुपालनम 6 सर्वभूतपरित्राणं कषत्रधर्म इहॊच्यते वैश्यानां यज्ञसंवृत्तिर आतिथेय समन्विता 7 विप्र कषत्रिय वैश्यानां शुश्रूसा शूद्र कर्म तत गृहस्थ धर्मॊ नागेन्द्र सर्वभूतहितैषिता 8 नियताहारता नित्यं वरतचर्या यथाक्रमम धर्मॊ हि धर्मसंबन्धाद इन्द्रियाणां विशेषणम 9 अहं कस्य कुतॊ वाहं कः कॊ मे ह भवेद इति परयॊजन मतिर नित्यम एवं मॊक्षाश्रमी भवेत 10 पतिव्रतात्वं भार्यायाः परमॊ धर्म उच्यते तपॊपदेशान नागेन्द्र तच च तत्त्वेन वेद्मि वै 11 साहं धर्मं विजानन्ती धर्मनित्ये तवयि सथिते सत्पथं कथम उत्सृज्य यास्यामि विषमे पथि 12 देवतानां महाभाग धर्मचर्या न हीयते अतिथीनां च सत्कारे नित्ययुक्तास्म्य अतन्द्रिता 13 सप्तास्त दिवसास तव अद्य विप्रस्येहागतस्य वै स च कार्यं न मे खयातिदर्शनं तव काङ्क्षति 14 गॊमत्यास तव एष पुलिने तवद्दर्शनसमुत्सुकः आसीनॊ ऽऽवर्तयन बरह्म बराह्मणः संशितव्रतः 15 अहं तव अनेन नागेन्द्र सामपूर्वं समाहिता परस्थाप्यॊ मत्सकाशं स संप्राप्तॊ भुजगॊत्तमः 16 एतच छरुत्वा महाप्राज्ञ तत्र गन्तुं तवम अर्हसि दातुम अर्हसि वा तस्य दर्शनं दर्शनश्रवः |
1
[bhīsma] atha kāle bahutithe pūrṇe prāpto bhujaṃgamaḥ dattābhyanujñaḥ svaṃ veśma kṛtakarmā vivasvataḥ 2 taṃ bhāryāsamabhikrāmat pādaśaucādibhir guṇaiḥ upapannāṃ ca tāṃ sādhvīṃ pannagaḥ paryapṛcchata 3 api tvam asi kalyāni devatātithipūjane pūrvam uktena vidhinā yuktā yuktena matsamam 4 na khalv asyākṛtārthena strī buddhyā mārdavī kṛtā madviyogena suśroṇi viyuktā dharmasetunā 5 [nāgabhāryā] śiṣyāṇāṃ guru śuśrūsā viprāṇāṃ veda pāraṇam bhṛtyānāṃ svāmivacanaṃ rājñāṃ lokānupālanam 6 sarvabhūtaparitrāṇaṃ kṣatradharma ihocyate vaiśyānāṃ yajñasaṃvṛttir ātitheya samanvitā 7 vipra kṣatriya vaiśyānāṃ śuśrūsā śūdra karma tat gṛhastha dharmo nāgendra sarvabhūtahitaiṣitā 8 niyatāhāratā nityaṃ vratacaryā yathākramam dharmo hi dharmasaṃbandhād indriyāṇāṃ viśeṣaṇam 9 ahaṃ kasya kuto vāhaṃ kaḥ ko me ha bhaved iti prayojana matir nityam evaṃ mokṣāśramī bhavet 10 pativratātvaṃ bhāryāyāḥ paramo dharma ucyate tapopadeśān nāgendra tac ca tattvena vedmi vai 11 sāhaṃ dharmaṃ vijānantī dharmanitye tvayi sthite satpathaṃ katham utsṛjya yāsyāmi viṣame pathi 12 devatānāṃ mahābhāga dharmacaryā na hīyate atithīnāṃ ca satkāre nityayuktāsmy atandritā 13 saptāsta divasās tv adya viprasyehāgatasya vai sa ca kāryaṃ na me khyātidarśanaṃ tava kāṅkṣati 14 gomatyās tv eṣa puline tvaddarśanasamutsukaḥ āsīno ''vartayan brahma brāhmaṇaḥ saṃśitavrataḥ 15 ahaṃ tv anena nāgendra sāmapūrvaṃ samāhitā prasthāpyo matsakāśaṃ sa saṃprāpto bhujagottamaḥ 16 etac chrutvā mahāprājña tatra gantuṃ tvam arhasi dātum arhasi vā tasya darśanaṃ darśanaśravaḥ |
The Mahabharata in Sanskrit
Book 12
Chapter 348
|
1
[नाग] अथ बराह्मणरूपेण कं तं समनुपश्यसि मानुषं केवलं विप्रं देवं वाथ शुचिस्मिते 2 कॊ हि मां मानुषः शक्तॊ दरष्टुकामॊ यशस्विनि संदर्शन रुचिर वाक्यम आज्ञा पूर्वं वदिष्यति 3 सुरासुरगणानां च देवर्षीणां च भामिनि ननु नागा महावीर्याः सौरसेयास तरस्विनः 4 वन्दनीयाश च वरदा वयम अप्य अनुयायिनः मनुष्याणां विशेषेण धनाध्यक्षा इति शरुतिः 5 [नागभार्या] आर्जवेनाभिजानामि नासौ देवॊ ऽनिलाशन एकं तव अस्य विजानामि भक्तिमान अतिरॊषणः 6 स हि कार्यान्तराकाङ्क्षी जलेप्सुः सतॊककॊ यथा वर्षं वर्षप्रियः पक्षी दर्शनं तव काङ्क्षति 7 न हि तवा दैवतं किं चिद विविग्नं परतिपालयेत तुल्ये हय अभिजने जातॊ न कश चित पर्युपासते 8 तद रॊषं सहजं तयक्त्वा तवम एनं दरष्टुम अर्हसि आशा छेदेन तस्याद्य नात्मानं दग्धुम अर्हसि 9 आशया तव अभिपन्नानाम अकृत्वाश्रु परमार्जनम राजा वा राजपुत्रॊ वा भरूण हत्यैव युज्यते 10 मौनाज जञानफलावाप्तिर दानेन च यशॊ महत वाग्मित्वं सत्यवाच्क्येन परत्र च महीयते 11 भूमिप्रदानेन गतिं लभत्य आश्रमसंमिताम नस्तस्यार्थस्य संप्राप्तिं कृत्वा फलम उपाश्नुते 12 अभिप्रेताम असंक्लिष्टां कृत्वाकामवतीं करियाम न याति निरयं कश चिद इति धर्मविदॊ विदुः 13 [नाग] अभिमानेन मानॊ मे जातिदॊषेण वै महान रॊषः संकल्पजः साध्वि दग्धॊ वाचाग्निना तवया 14 न च रॊषाद अहं साध्वि पश्येयम अधिकं तमः यस्य वक्तव्यतां यान्ति विशेषेण भुजंगमाः 15 दॊषस्य हि वशंगत्वा दशग्रीवः परतापवान तथा शक्र परतिस्पर्धी हतॊ रामेण संयुगे 16 अन्तःपुर गतं वत्सं शरुत्वा रामेण निर्हृतम धर्षणाद रॊषसंविग्नाः कार्तवीर्य सुता हताः 17 जामदग्न्येन रामेण सहस्रनयनॊपमः संयुगे निहतॊ रॊषात कार्तवीर्यॊ महाबलः 18 तद एष तपसां शत्रुः शरेयसश च निपातनः निगृहीतॊ मया रॊषः शरुत्वैव वचनं तव 19 आत्मानं च विशेषेण परशंसाम्य अनपायिनि यस्य मे तवं विशालाक्षि भार्या सर्वगुणान्विता 20 एष तत्रैव गच्छामि यत्र तिष्ठत्य असौ दविजः सर्वथा चॊक्तवान वाक्यं नाकृतार्थः परयास्यति |
1
[nāga] atha brāhmaṇarūpeṇa kaṃ taṃ samanupaśyasi mānuṣaṃ kevalaṃ vipraṃ devaṃ vātha śucismite 2 ko hi māṃ mānuṣaḥ śakto draṣṭukāmo yaśasvini saṃdarśana rucir vākyam ājñā pūrvaṃ vadiṣyati 3 surāsuragaṇānāṃ ca devarṣīṇāṃ ca bhāmini nanu nāgā mahāvīryāḥ sauraseyās tarasvinaḥ 4 vandanīyāś ca varadā vayam apy anuyāyinaḥ manuṣyāṇāṃ viśeṣeṇa dhanādhyakṣā iti śrutiḥ 5 [nāgabhāryā] ārjavenābhijānāmi nāsau devo 'nilāśana ekaṃ tv asya vijānāmi bhaktimān atiroṣaṇaḥ 6 sa hi kāryāntarākāṅkṣī jalepsuḥ stokako yathā varṣaṃ varṣapriyaḥ pakṣī darśanaṃ tava kāṅkṣati 7 na hi tvā daivataṃ kiṃ cid vivignaṃ pratipālayet tulye hy abhijane jāto na kaś cit paryupāsate 8 tad roṣaṃ sahajaṃ tyaktvā tvam enaṃ draṣṭum arhasi āśā chedena tasyādya nātmānaṃ dagdhum arhasi 9 āśayā tv abhipannānām akṛtvāśru pramārjanam rājā vā rājaputro vā bhrūṇa hatyaiva yujyate 10 maunāj jñānaphalāvāptir dānena ca yaśo mahat vāgmitvaṃ satyavāckyena paratra ca mahīyate 11 bhūmipradānena gatiṃ labhaty āśramasaṃmitām nastasyārthasya saṃprāptiṃ kṛtvā phalam upāśnute 12 abhipretām asaṃkliṣṭāṃ kṛtvākāmavatīṃ kriyām na yāti nirayaṃ kaś cid iti dharmavido viduḥ 13 [nāga] abhimānena māno me jātidoṣeṇa vai mahān roṣaḥ saṃkalpajaḥ sādhvi dagdho vācāgninā tvayā 14 na ca roṣād ahaṃ sādhvi paśyeyam adhikaṃ tamaḥ yasya vaktavyatāṃ yānti viśeṣeṇa bhujaṃgamāḥ 15 doṣasya hi vaśaṃgatvā daśagrīvaḥ pratāpavān tathā śakra pratispardhī hato rāmeṇa saṃyuge 16 antaḥpura gataṃ vatsaṃ śrutvā rāmeṇa nirhṛtam dharṣaṇād roṣasaṃvignāḥ kārtavīrya sutā hatāḥ 17 jāmadagnyena rāmeṇa sahasranayanopamaḥ saṃyuge nihato roṣāt kārtavīryo mahābalaḥ 18 tad eṣa tapasāṃ śatruḥ śreyasaś ca nipātanaḥ nigṛhīto mayā roṣaḥ śrutvaiva vacanaṃ tava 19 ātmānaṃ ca viśeṣeṇa praśaṃsāmy anapāyini yasya me tvaṃ viśālākṣi bhāryā sarvaguṇānvitā 20 eṣa tatraiva gacchāmi yatra tiṣṭhaty asau dvijaḥ sarvathā coktavān vākyaṃ nākṛtārthaḥ prayāsyati |
The Mahabharata in Sanskrit
Book 12
Chapter 349
|
1
[भीस्म] स पन्नगपतिस तत्र परययौ बराह्मणं परति तम एव मनसा धयायन कार्यवत्तां विचारयन 2 तम अभिक्रम्य नागेन्द्रॊ मतिमान स नरेश्वरः परॊवाच मधुरं वाक्यं परकृत्या धर्मवत्सलः 3 भॊ भॊ कषाम्याभिभासे तवां न रॊषं कर्तुम अर्हसि इह तवम अभिसंप्राप्तः कस्यार्थे किं परयॊजनम 4 आभिमुख्याद अभिक्रम्य सनेहात पृच्छामि ते दविज विविक्ते गॊमतीतीरे किं वा तवं पर्युपाससे 5 [बराह्मन] धर्मारण्यं हि मां विद्धि नागं दरष्टुम इहागतम पद्मनाभं दविजश्रेष्ठं तत्र मे कार्यम आहितम 6 तस्य चाहम असांनिध्यं शरुतवान अस्मि तं गतम सवजनं तं परतीक्षामि पर्जन्यम इव कर्षकः 7 तस्य चाक्लेश करणं सवस्ति कारसमाहितम वर्तयाम्य अयुतं बरह्मयॊगयुक्तॊ निरामयः 8 [नाग] अहॊ कल्यान वृत्तस तवं साधु सज जनवत्सलः शरवाध्यस तवं महाभाग परं सनेहेन पश्यसि 9 अहं स नागविप्रर्षे यथा मां विन्दते भवान आज्ञापय यथा सवैरं किं करॊमि परियं तव 10 भवन्तं सवजनाद अस्मि संप्राप्तं शरुतवान इह अतस तवां सवयम एवाहं दरष्टुम अभ्यागतॊ दविज 11 संप्राप्तश च भवान अद्य कृतार्थः परतियास्यति विस्रब्धॊ मां दविजश्रेष्ठ विषये यॊक्तुम अर्हसि 12 वयं हि भवता सर्वे गुणक्रीता विशेषतः यस तवम आत्महितं तयक्त्वा माम एवेहानुरुध्यसे 13 [बराह्मन] आगतॊ ऽहं महाभाग तव दर्शनलालसः कं चिद अर्थम अनर्थज्ञः परस्तु कामॊ भुजंगम 14 अहम आत्मानम आत्मस्थॊ मार्गमाणॊ ऽऽतमनॊ हितम वासार्थिनं महाप्राज्ञ बलवन्तम उपास्मि ह 15 परकाशितस तवं सवगुणैर यशॊ गर्भगभस्तिभिः शशाङ्ककरसंस्पर्शैर हृद्यैर आत्मप्रकाशितैः 16 तस्य मे परश्नम उत्पन्नं छिन्धि तवम अनिलाशन पश्चात कार्यं वदिष्यामि शरॊतुम अर्हति मे भवान |
1
[bhīsma] sa pannagapatis tatra prayayau brāhmaṇaṃ prati tam eva manasā dhyāyan kāryavattāṃ vicārayan 2 tam abhikramya nāgendro matimān sa nareśvaraḥ provāca madhuraṃ vākyaṃ prakṛtyā dharmavatsalaḥ 3 bho bho kṣāmyābhibhāse tvāṃ na roṣaṃ kartum arhasi iha tvam abhisaṃprāptaḥ kasyārthe kiṃ prayojanam 4 ābhimukhyād abhikramya snehāt pṛcchāmi te dvija vivikte gomatītīre kiṃ vā tvaṃ paryupāsase 5 [brāhmana] dharmāraṇyaṃ hi māṃ viddhi nāgaṃ draṣṭum ihāgatam padmanābhaṃ dvijaśreṣṭhaṃ tatra me kāryam āhitam 6 tasya cāham asāṃnidhyaṃ śrutavān asmi taṃ gatam svajanaṃ taṃ pratīkṣāmi parjanyam iva karṣakaḥ 7 tasya cākleśa karaṇaṃ svasti kārasamāhitam vartayāmy ayutaṃ brahmayogayukto nirāmayaḥ 8 [nāga] aho kalyāna vṛttas tvaṃ sādhu saj janavatsalaḥ śravādhyas tvaṃ mahābhāga paraṃ snehena paśyasi 9 ahaṃ sa nāgaviprarṣe yathā māṃ vindate bhavān ājñāpaya yathā svairaṃ kiṃ karomi priyaṃ tava 10 bhavantaṃ svajanād asmi saṃprāptaṃ śrutavān iha atas tvāṃ svayam evāhaṃ draṣṭum abhyāgato dvija 11 saṃprāptaś ca bhavān adya kṛtārthaḥ pratiyāsyati visrabdho māṃ dvijaśreṣṭha viṣaye yoktum arhasi 12 vayaṃ hi bhavatā sarve guṇakrītā viśeṣataḥ yas tvam ātmahitaṃ tyaktvā mām evehānurudhyase 13 [brāhmana] āgato 'haṃ mahābhāga tava darśanalālasaḥ kaṃ cid artham anarthajñaḥ prastu kāmo bhujaṃgama 14 aham ātmānam ātmastho mārgamāṇo ''tmano hitam vāsārthinaṃ mahāprājña balavantam upāsmi ha 15 prakāśitas tvaṃ svaguṇair yaśo garbhagabhastibhiḥ śaśāṅkakarasaṃsparśair hṛdyair ātmaprakāśitaiḥ 16 tasya me praśnam utpannaṃ chindhi tvam anilāśana paścāt kāryaṃ vadiṣyāmi śrotum arhati me bhavān |
The Mahabharata in Sanskrit
Book 12
Chapter 350
|
1
[बराह्मण] विवस्वतॊ गच्छति पर्ययेण; वॊढुं भवांस तं रथम एकचक्रम आश्चर्यभूतं यदि तत्र किं चिद; दृष्टं तवया शंसितुम अर्हसि तवम 2 [नाग] यस्य रश्मिसहस्रेषु शाखास्व इव विहंगमाः वसन्त्य आश्रित्य मुनयः संसिद्धा दैवतैः सह 3 यतॊ वायुर विनिःसृत्य सूर्यरश्म्य आश्रितॊ महान विजृम्भत्य अम्बरे विप्र किम आश्चर्यतरं ततः 4 शुक्रॊ नामासितः पारॊ यस्य वारिधरॊ ऽमबरे तॊयं सृजति वर्षासु किम आश्चर्यम अतः परम 5 यॊ ऽसतमासांस तु शुचिना किरणेनॊज्झितं पयः पर्यादत्ते पुनः काले किम आश्चर्यम अतः परम 6 यस्य तेजॊ विशेषेषु नित्यम आत्मा परतिष्ठितः यतॊ बीजं मही चेयं धार्यते सचराचरम 7 यत्र देवॊ महाबाहुः शाश्वतः परमॊ ऽकषरः अनादि निधनॊ विप्र किम आश्चर्यम अतः परम 8 आश्चर्याणाम इवाश्चर्यम इदम एकं तु मे शृणु विमले यन मया दृष्टम अम्बरे सूर्यसंश्रयात 9 पुरा मध्याह्न समये लॊकांस तपति भास्करे परत्य आदित्यप्रतीकाशः सर्वतः परत्यदृश्यत 10 स लॊकांस तेजसा सर्वान सवभासा निर्विभासयन आदित्याभीमुखॊ ऽभयेति गगनं पातयन्न इव 11 हुताहुतिर इव जयॊतिर वयाप्य तेजॊ मरीचिभिः अनिर्देश्येन रूपेण दवितीय इव भास्करः 12 तस्याभिगमन पराप्तौ हस्तॊ दत्तॊ विवस्वता तेनापि दक्षिणॊ हस्तॊ दत्तः परत्यर्चनार्थिना 13 ततॊ भित्त्वैव गगनं परविष्टॊ रविमन्दलम एकीभूतं च तत तेजः कषणेनादित्यतां गतम 14 तत्र नः शंसयॊ जातस तयॊस तेजः समागमे अनयॊः कॊ भवेत सूर्यॊ रथस्थॊ यॊ ऽयम आगतः 15 ते वयं जातसंदेहाः पर्यपृच्छामहे रविम क एष दिवम आक्रम्य गतः सूर्य इवापरः |
1
[brāhmaṇa] vivasvato gacchati paryayeṇa; voḍhuṃ bhavāṃs taṃ ratham ekacakram āścaryabhūtaṃ yadi tatra kiṃ cid; dṛṣṭaṃ tvayā śaṃsitum arhasi tvam 2 [nāga] yasya raśmisahasreṣu śākhāsv iva vihaṃgamāḥ vasanty āśritya munayaḥ saṃsiddhā daivataiḥ saha 3 yato vāyur viniḥsṛtya sūryaraśmy āśrito mahān vijṛmbhaty ambare vipra kim āścaryataraṃ tataḥ 4 śukro nāmāsitaḥ pāro yasya vāridharo 'mbare toyaṃ sṛjati varṣāsu kim āścaryam ataḥ param 5 yo 'stamāsāṃs tu śucinā kiraṇenojjhitaṃ payaḥ paryādatte punaḥ kāle kim āścaryam ataḥ param 6 yasya tejo viśeṣeṣu nityam ātmā pratiṣṭhitaḥ yato bījaṃ mahī ceyaṃ dhāryate sacarācaram 7 yatra devo mahābāhuḥ śāśvataḥ paramo 'kṣaraḥ anādi nidhano vipra kim āścaryam ataḥ param 8 āścaryāṇām ivāścaryam idam ekaṃ tu me śṛṇu vimale yan mayā dṛṣṭam ambare sūryasaṃśrayāt 9 purā madhyāhna samaye lokāṃs tapati bhāskare praty ādityapratīkāśaḥ sarvataḥ pratyadṛśyata 10 sa lokāṃs tejasā sarvān svabhāsā nirvibhāsayan ādityābhīmukho 'bhyeti gaganaṃ pātayann iva 11 hutāhutir iva jyotir vyāpya tejo marīcibhiḥ anirdeśyena rūpeṇa dvitīya iva bhāskaraḥ 12 tasyābhigamana prāptau hasto datto vivasvatā tenāpi dakṣiṇo hasto dattaḥ pratyarcanārthinā 13 tato bhittvaiva gaganaṃ praviṣṭo ravimandalam ekībhūtaṃ ca tat tejaḥ kṣaṇenādityatāṃ gatam 14 tatra naḥ śaṃsayo jātas tayos tejaḥ samāgame anayoḥ ko bhavet sūryo rathastho yo 'yam āgataḥ 15 te vayaṃ jātasaṃdehāḥ paryapṛcchāmahe ravim ka eṣa divam ākramya gataḥ sūrya ivāparaḥ |
The Mahabharata in Sanskrit
Book 12
Chapter 351
|
1
[सूर्य] नैष देवॊ ऽनिलसखॊ नासुरॊ न च पन्नगः उञ्छवृत्ति वरते सिद्धॊ मुनिर एष दिवं गतः 2 एष मूलफलाहारः शीर्णपर्णाशनस तथा अब्भक्षॊ वायुभक्षश च आसीद विप्रः समाहितः 3 ऋचश चानेन विप्रेण संहितान्तर अभिष्टुताः सवर्गद्वार कृतॊद्यॊगॊ येनासौ तरिदिवं गतः 4 असन्न धीरनाकाङ्क्षी नित्यम उञ्छशिलाशनः सर्वभूतहिते युक्त एष विप्रॊ भुजंगम 5 न हि देवा न गन्धर्वा नासुरा न च पन्नगाः परभवन्तीह भूतानां पराप्तानां परमां गतिम 6 [नाग] एतद एवंविधं दृष्टम आश्चर्यं तत्र मे दविज संसिद्धॊ मानुषः कायॊ यॊ ऽसौ सिद्धगतिं गतः सूर्येण सहितॊ बरह्मन पृथिवीं परिवर्तते |
1
[sūrya] naiṣa devo 'nilasakho nāsuro na ca pannagaḥ uñchavṛtti vrate siddho munir eṣa divaṃ gataḥ 2 eṣa mūlaphalāhāraḥ śīrṇaparṇāśanas tathā abbhakṣo vāyubhakṣaś ca āsīd vipraḥ samāhitaḥ 3 ṛcaś cānena vipreṇa saṃhitāntar abhiṣṭutāḥ svargadvāra kṛtodyogo yenāsau tridivaṃ gataḥ 4 asanna dhīranākāṅkṣī nityam uñchaśilāśanaḥ sarvabhūtahite yukta eṣa vipro bhujaṃgama 5 na hi devā na gandharvā nāsurā na ca pannagāḥ prabhavantīha bhūtānāṃ prāptānāṃ paramāṃ gatim 6 [nāga] etad evaṃvidhaṃ dṛṣṭam āścaryaṃ tatra me dvija saṃsiddho mānuṣaḥ kāyo yo 'sau siddhagatiṃ gataḥ sūryeṇa sahito brahman pṛthivīṃ parivartate |
The Mahabharata in Sanskrit
Book 12
Chapter 352
|
1
[बराह्मण] आश्चर्यं नात्र संदेहः सुप्रीतॊ ऽसमि भुजंगम अन्वर्थॊपगतैर वाक्यैः पन्थानं चास्मि दर्शितः 2 सवस्ति ते ऽसतु गमिष्यामि साधॊ भुजग सत्तम समरणीयॊ ऽसमि भवता संप्रेषण नियॊजनैः 3 [नाग] अनुक्त्वा मद्गतं कार्यं कवेदानीं परस्थितॊ भवान उच्यतां दविज यत कार्यं यदर्थं तवम इहागतः 4 उक्तानुक्ते कृते कार्ये माम आमन्त्र्य दविजर्षभ मया परत्यभ्यनुज्ञातस ततॊ यास्यसि बराह्मण 5 न हि मां केवलं दृष्ट्वा तयक्त्वा परनयवान इह गन्तुम अर्हसि विप्रर्षे वृक्षमूलगतॊ यथा 6 तवयि चाहं दविजश्रेष्ठ भवान मयि न संशयः लॊकॊ ऽयं भवतः सर्वः का चिन्ता मयि ते ऽनघ 7 [बराह्मन] एवम एतन महाप्राज्ञ विज्ञातार्थभुजंगम नातिरिक्तास तवया देवाः सर्वथैव यथातथम 8 य एवाहं स एव तवम एवम एतद भुजंगम अहं भवांश च भूतानि सर्वे सर्वत्र गाः सदा 9 आसीत तु मे भॊगपते संशयः पुण्यसंचये सॊ ऽहम उञ्छव्रतं साधॊ चरिष्याम्य अर्थदर्शनम 10 एष मे निश्चयः साधॊ कृतः कारणवत्तरः आमन्त्रयामि भद्रं ते कृतार्थॊ ऽसमि भुजंगम |
1
[brāhmaṇa] āścaryaṃ nātra saṃdehaḥ suprīto 'smi bhujaṃgama anvarthopagatair vākyaiḥ panthānaṃ cāsmi darśitaḥ 2 svasti te 'stu gamiṣyāmi sādho bhujaga sattama smaraṇīyo 'smi bhavatā saṃpreṣaṇa niyojanaiḥ 3 [nāga] anuktvā madgataṃ kāryaṃ kvedānīṃ prasthito bhavān ucyatāṃ dvija yat kāryaṃ yadarthaṃ tvam ihāgataḥ 4 uktānukte kṛte kārye mām āmantrya dvijarṣabha mayā pratyabhyanujñātas tato yāsyasi brāhmaṇa 5 na hi māṃ kevalaṃ dṛṣṭvā tyaktvā pranayavān iha gantum arhasi viprarṣe vṛkṣamūlagato yathā 6 tvayi cāhaṃ dvijaśreṣṭha bhavān mayi na saṃśayaḥ loko 'yaṃ bhavataḥ sarvaḥ kā cintā mayi te 'nagha 7 [brāhmana] evam etan mahāprājña vijñātārthabhujaṃgama nātiriktās tvayā devāḥ sarvathaiva yathātatham 8 ya evāhaṃ sa eva tvam evam etad bhujaṃgama ahaṃ bhavāṃś ca bhūtāni sarve sarvatra gāḥ sadā 9 āsīt tu me bhogapate saṃśayaḥ puṇyasaṃcaye so 'ham uñchavrataṃ sādho cariṣyāmy arthadarśanam 10 eṣa me niścayaḥ sādho kṛtaḥ kāraṇavattaraḥ āmantrayāmi bhadraṃ te kṛtārtho 'smi bhujaṃgama |
The Mahabharata in Sanskrit
Cite this text
The Mahabharata in Sanskrit, part 10 of 12. . Hermetic Cloud, https://hermeticcloud.com/library/the-mahabharata-in-sanskrit-part-10/. Public-domain text reproduced in full; markup only.