The Mahabharata in Sanskrit. Parallel Devanagari and Romanization.
The Mahabharata in Sanskrit
Book 3
Chapter 82
|
1
[पुलस्त्य] ततॊ गच्छेत धर्मज्ञ धर्मतीर्थं पुरातनम तत्र सनात्वा नरॊ राजन धर्मशीलः समाहितः आ सप्तमं कुलं राजन पुनीते नात्र संशयः 2 ततॊ गच्छेत धर्मज्ञ कारा पतनम उत्तमम अग्निष्टॊमम अवाप्नॊति मुनिलॊकं च गच्छति 3 सौगन्धिकं वनं राजंस ततॊ गच्छेत मानवः यत्र बरह्मादयॊ देवा ऋषयश च तपॊधनाः 4 सिद्धचारणगन्धर्वाः किंनराः स महॊरगाः तद वनं परविशन्न एव सर्वपापैः परमुच्यते 5 ततॊ हि सा सरिच्छ्रेष्ठा नदीनाम उत्तमा नदी पलक्षाद देवी सरुता राजन महापुण्या सरस्वती 6 तत्राभिषेकं कुर्वीत वल्मीकान निःसृते जले अर्चयित्वा पितॄन देवान अश्वमेध फलं लभेत 7 ईशानाध्युषितं नाम तत्र तीर्थं सुदुर्लभम षट्सु शम्या निपातेषु वल्मीकाद इति निश्चयः 8 कपिलानां सहस्रं च वाजिमेधं च विन्दति तत्र सनात्वा नरव्याघ्र दृष्टम एतत पुरातने 9 सुगन्धां शतकुम्भां च पञ्च यज्ञां च भारत अभिगम्य नरश्रेष्ठ सवर्गलॊके महीयते 10 तरिशूलखातं तत्रैव तीर्थम आसाद्य भारत तत्राभिषेकं कुर्वीत पितृदेवार्चने रतः गाणपत्यं स लभते देहं तयक्त्वा न संशयः 11 ततॊ गच्छेत राजेन्द्र देव्याः सथानं सुदुर्लभम शाकम्भरीति विख्याता तरिषु लॊकेषु विश्रुता 12 दिव्यं वर्षसहस्रं हि शाकेन किल सुव्रत आहारं सा कृतवती मासि मासि नराधिप 13 ऋषयॊ ऽभयागतास तत्र देव्या भक्त्या तपॊधनाः आतिथ्यं च कृतं तेषां शाकेन किल भारत ततः शाकम्भरीत्य एव नाम तस्याः परतिष्ठितम 14 शाकम्भरीं समासाद्य बरह्म चारी समाहितः तरिरात्रम उषितः शाकं भक्षयेन नियतः शुचिः 15 शाकाहारस्य यत सम्यग वर्षैर दवादशभिः फलम तत फलं तस्य भवति देव्याश छन्देन भारत 16 ततॊ गच्छेत सुवर्णाक्षं तरिषु लॊकेषु विश्रुतम यत्र विष्णुः परसादार्थं रुद्रम आराधयत पुरा 17 वरांश च सुबहूँल लेभे दैवतेषु सुदुर्लभान उक्तश च तरिपुरघ्नेन परितुष्टेन भारत 18 अपि चास्मत परियतरॊ लॊके कृष्ण भविष्यसि तवन मुखं च जगत कृत्स्नं भविष्यति न संशयः 19 तत्राभिगम्य राजेन्द्र पूजयित्वा वृषध्वजम अश्वमेधम अवाप्नॊति गाणपत्यं च विन्दति 20 धूमावतीं ततॊ गच्छेत तरिरत्रॊपॊषितॊ नरः मनसा परार्थितान कामाँल लभते नात्र संशयः 21 देव्यास तु दक्षिणार्धेन रथावर्तॊ नराधिप तत्रारॊहेत धर्मज्ञ शरदधानॊ जितेन्द्रियः महादेव परसादाद धि गच्छेत परमं गतिम 22 परदक्षिणम उपावृत्य गच्छेत भरतर्षभ धारां नाम महाप्राज्ञ सर्वपापप्रणाशिनीम तत्र सनात्वा नरव्याघ्र न शॊचति नराधिप 23 ततॊ गच्छेत धर्मज्ञ नमस्कृत्य महागिरिम सवर्गद्वारेण यत तुल्यं गङ्गा दवारं न संशयः 24 तत्राभिषेकं कुर्वीत कॊटितीर्थे समाहितः पुण्डरीकम अवाप्नॊति कुलं चैव समुद्धरेत 25 सप्त गङ्गे तरिगङ्गे च शक्रावर्ते च तर्पयन देवान पितॄंश च विधिवत पुण्यलॊके महीयते 26 ततः कनखले सनात्वा तरिरात्रॊपॊषितॊ नरः अश्वमेधम अवाप्नॊति सवर्गलॊकं च गच्छति 27 कपिला वटं च गच्छेत तीर्थसेवी नराधिप उष्यैकां रजनीं तत्र गॊसहस्रफलं लभेत 28 नागराजस्य राजेन्द्र कपिलस्य महात्मनाः तीर्थं कुरु वरश्रेष्ठ सर्वलॊकेषु विश्रुतम 29 तत्राभिषेकं कुर्वीत नागतीर्थे नराधिप कपिलानां सहस्रस्य फलं पराप्नॊति मानवः 30 ततॊ ललितिकां गच्छेच छंतनॊर तीर्थम उत्तमम तत्र सनात्वा नरॊ राजन न दुर्गतिम अवाप्नुयात 31 गङ्गा संगमयॊश चैव सनाति यः संगमे नरः दशाश्वमेधान आप्नॊति कुलं चैव समुद्धरेत 32 ततॊ गच्छेत राजेन्द्र सुगन्धां लॊकविश्रुताम सर्वपापविशुद्धात्मा बरह्मलॊके महीयते 33 रुद्रावर्तं ततॊ गच्छेत तीर्थसेवी नराधिप तत्र सनात्वा नरॊ राजन सवर्गलॊके महीयते 34 गङ्गायाश च नरश्रेष्ठ सरस्वत्याश च संगमे सनातॊ ऽशवमेधम आप्नॊति सवर्गलॊकं च गच्छति 35 भद्र कर्णेश्वरं गत्वा देवम अर्च्य यथाविधि न दुर्गतिम अवाप्नॊति सवर्गलॊकं च गच्छति 36 ततः कुब्जाम्रकं गच्छेत तीर्थसेवी यथाक्रमम गॊसहस्रम अवाप्नॊति सवर्गलॊकं च गच्छति 37 अरुन्धती वटं गच्छेत तीर्थसेवी नराधिप सामुद्रकम उपस्पृश्य तरिरात्रॊपॊषितॊ नरः गॊसहस्रफलं विन्देत कुलं चैव समुद्धरेत 38 बरह्मावर्तं ततॊ गच्छेद बरह्म चारी समाहितः अश्वमेधम अवाप्नॊति सवर्गलॊकं च गच्छति 39 यमुना परभवं गत्वा उपस्पृश्य च यामुने अश्वमेध फलं लब्ध्वा सवर्गलॊके महीयते 40 दर्वी संक्रमणं पराप्य तीर्थं तरैलॊक्यविश्रुतम अश्वमेधम अवाप्नॊति सवर्गलॊकं च गच्छति 41 सिन्धॊर च परभवं गत्वा सिद्धगन्धर्वसेवितम तत्रॊष्य रजनीः पञ्च विन्द्याद बहुसुवर्णकम 42 अथ वेदीं समासाद्य नरः परमदुर्गमाम अश्वमेधम अवाप्नॊति गच्छेच चौशनसीं गतिम 43 ऋषिकुल्यां समासाद्य वासिष्ठं चैव भारत वासिष्ठं समतिक्रम्य सर्वे वर्णा दविजातयः 44 ऋषिकुल्यां नरः सनात्वा ऋषिलॊकं परपद्यते यदि तत्र वसेन मासं शाकाहारॊ नराधिप 45 भृगुतुङ्गं समासाद्य वाजिमेधफलं लभेत गत्वा वीर परमॊक्षं च सर्वपापैः परमुच्यते 46 कृत्तिका मघयॊश चैव तीर्थम आसाद्य भारत अग्निष्टॊमातिरात्राभ्यां फलं पराप्नॊति पुण्यकृत 47 ततः संध्यां समासाद्य विद्या तीर्थम अनुत्तमम उपस्पृश्य च विद्यानां सर्वासां पारगॊ भवेत 48 महाश्रमे वसेद रात्रिं सर्वपापप्रमॊचने एककालं निराहारॊ लॊकान आवसते शुभान 49 षष्ठ कालॊपवासेन मासम उष्य महालये सर्वपापविशुद्धात्मा विन्द्याद बहुसुवर्णकम 50 अथ वेतसिकां गत्वा पिता मह निषेविताम अश्वमेधम अवाप्नॊति गच्छेच चौशनसीं गतिम 51 अथ सुन्दरिका तीर्थं पराप्य सिद्धनिषेवितम रूपस्य भागी भवति दृष्टम एतत पुरातने 52 ततॊ वै बराह्मणीं गत्वा बरह्म चारी जितेन्द्रियः पद्मवर्णेन यानेन बरह्मलॊकं परपद्यते 53 ततश च नैमिषं गच्छेत पुण्यं सिद्धनिषेवितम तत्र नित्यं निवसति बरह्मा देवगणैर वृतः 54 नैमिषं परार्थयानस्य पापस्यार्धं परणश्यति परविष्टमात्रस तु नरः सर्वपापैः परमुच्यते 55 तत्र मासं वसेद धीरॊ नैमिषे तीर्थतत्परः पृथिव्यां यानि तीर्थानि नैमिषे तानि भारत 56 अभिषेककृतस तत्र नियतॊ नियताशनः गवामयस्य यज्ञस्य फलं पराप्नॊति भारत पुनात्य आ सप्तमं चैव कुलं भरतसत्तम 57 यस तयजेन नैमिषे पराणान उपवासपरायणः स मॊदेत सवर्गलॊकस्थ एवम आहुर मनीषिणः नित्यं पुण्यं च मेध्यं च नैमिषं नृपसत्तम 58 गङ्गॊद्भेदं समासाद्य तरिरात्रॊपॊषितॊ नरः वाजपेयम अवाप्नॊति बरह्मभूतश च जायते 59 सरस्वतीं समासाद्य तर्पयेत पितृदेवताः सारस्वतेषु लॊकेषु मॊदते नात्र संशयः 60 ततश च बाहुदां गच्छेद बरह्म चारी समाहितः देव सत्रस्य यज्ञस्य फलं पराप्नॊति मानवः 61 ततश चीरवतीं गच्छेत पुण्यां पुण्यतमैर वृताम पितृदेवार्चन रतॊ वाजपेयम अवाप्नुयात 62 विमलाशॊकम आसाद्य विराजति यथा शशी तत्रॊष्य रजनीम एकां सवर्गलॊके महीयते 63 गॊप्रतारं ततॊ गच्छेत सरय्वास तीर्थम उत्तमम यत्र रामॊ गतः सवर्गं स भृत्यबलवाहनः 64 देहं तयक्त्वा दिवं यातस तस्य तीर्थस्य तेजसा रामस्य च परसादेन वयवसायाच च भारत 65 तस्मिंस तीर्थे नरः सनात्वा गॊमत्यां कुरुनन्दन सर्वपापविशुद्धात्मा सवर्गलॊके महीयते 66 राम तीर्थे नरः सनात्वा गॊमत्यां कुरुनन्दन अश्वमेधम अवाप्नॊति पुनाति च कुलं नरः 67 शतसाहस्रिकं तत्र तीर्थं भरतसत्तम तत्रॊपस्पर्शनं कृत्वा नियतॊ नियताशनः गॊसहस्रफलं पुण्यं पराप्नॊति भरतर्षभ 68 ततॊ गच्छेत राजेन्द्र भर्तृस्थानम अनुत्तमम कॊटितीर्थे नरः सनात्वा अर्चयित्वा गुहं नृप गॊसहस्रफलं विन्देत तेजस्वी च भवेन नरः 69 ततॊ वाराणसीं गत्वा अर्चयित्वा वृषध्वजम कपिला हरदे नरः सनात्वा राजसूय फलं लभेत 70 मार्कण्डेयस्य राजेन्द्र तीर्थम आसाद्य दुर्लभम गॊमती गङ्गयॊश चैव संगमे लॊकविश्रुते अग्निष्टॊमम अवाप्नॊति कुलं चैव समुद्धरेत 71 ततॊ गयां समासाद्य बरह्म चारी जितेन्द्रियः अश्वमेधम अवाप्नॊति गमनाद एव भारत 72 तत्राक्षयवतॊ नाम तरिषु लॊकेषु विश्रुतः पितॄणां तत्र वै दत्तम अक्षयं भवति परभॊ 73 महानद्याम उपस्पृश्य तर्पयेत पितृदेवताः अक्षयान पराप्नुयाल लॊकान कुलं चैव समुद्धरेत 74 ततॊ बरह्मसरॊ गच्छेद धर्मारण्यॊपशॊभितम पौण्डरीकम अवाप्नॊति परभाताम एव शर्वरीम 75 तस्मिन सरसि राजेन्द्र बरह्मणॊ यूप उच्छ्रितः यूपं परदक्षिणं कृत्वा वाजपेयफलं लभेत 76 ततॊ गच्छेत राजेन्द्र धेनुकां लॊकविश्रुताम एकरत्रॊषितॊ राजन परयच्छेत तिलधेनुकाम सर्वपापविशुद्धात्मा सॊमलॊकं वरजेद धरुवम 77 तत्र चिह्नं महाराज अद्यापि हि न संशयः कपिला सह वत्सेन पर्वते विचरत्य उत स वत्सायाः पदानि सम दृश्यन्ते ऽदयापि भारत 78 तेषूपस्पृश्य राजेन्द्र पदेषु नृपसत्तम यत किं चिद अशुभं कर्म तत परणश्यति भारत 79 ततॊ गृध्रवटं गच्छेत सथानं देवस्य धीमतः सनायीत भस्मना तत्र अभिगम्य वृषध्वजम 80 बराह्मणेन भवेच चीर्णं वरतं दवादश वार्षिकम इतरेषां तु वर्णानां सर्वपापं परणश्यति 81 गच्छेत तत उद्यन्तं पर्वतं गीतनादितम सावित्रं तु पदं तत्र दृश्यते भरतर्षभ 82 तत्र संध्याम उपासीत बराह्मणः संशितव्रतः उपास्ता च भवेत संध्या तेन दवादश वार्षिकी 83 यॊनिद्वारं च तत्रैव विश्रुतं भरतर्षभ तत्राभिगम्य मुच्येत पुरुषॊ यॊनिसंकरात 84 कृष्ण शुक्लाव उभौ पक्षौ गयायां यॊ वसेन नरः पुनात्य आ सप्तमं राजन कुलं नास्त्य अत्र संशयः 85 एष्टव्या बहवः पुत्रा यद्य एकॊ ऽपि गयां वरजेत यजेत वाश्वमेधेन नीलं वा वृषम उत्सृजेत 86 ततः फल्गुं वरजेद राजंस तीर्थसेवी नराधिप अश्वमेधम अवाप्नॊति सिद्धिं च महतीं वरजेत 87 ततॊ गच्छेत राजेन्द्र धर्मपृष्ठं समाहितः यत्र धर्मॊ महाराज नित्यम आस्ते युधिष्ठिर अभिगम्य ततस तत्र वाजिमेधफलं लभेत 88 ततॊ गच्छेत राजेन्द्र बरह्मणस तीर्थम उत्तमम तत्रार्चयित्वा राजेन्द्र बरह्माणम अमितौजसम राजसूयाश्वमेधाभ्यां फलं पराप्नॊति मानवः 89 ततॊ राजगृहं गच्छेत तीर्थसेवी नराधिप उपस्पृश्य तपॊदेषु काक्षीवान इव मॊदते 90 यक्षिण्या नैत्यकं तत्र पराश्नीत पुरुषः शुचिः यक्षिण्यास तु परसादेन मुच्यते भरूण हत्यया 91 मणिनागं ततॊ गत्वा गॊसहस्रफलं लभेत नैत्यकं भुञ्जते यस तु मणिनागस्य मानवः 92 दष्टस्याशीविषेणापि न तस्य करमते विषम तत्रॊष्य रजनीम एकां सर्वपापैः परमुच्यते 93 ततॊ गच्छेत बरह्मर्षेर गौतमस्य वनं नृप अहल्याया हलदे सनात्वा वरजेत परमां गतिम अभिगम्य शरियं राजन विन्दते शरियम उत्तमाम 94 तत्रॊद पानॊ धर्मज्ञ तरिषु लॊकेषु विश्रुतः तत्राभिषेकं कृत्वा तु वाजिमेधम अवाप्नुयात 95 जनकस्य तु राजर्षेः कूपस तरिदशपूजितः तत्राभिषेकं कृत्वा तु विष्णुलॊकम अवाप्नुयात 96 ततॊ विनशनं गच्छेत सर्वपापप्रमॊचनम वाजपेयम अवाप्नॊति सॊमलॊकं च गच्छति 97 गण्डकीं तु समासाद्य सर्वतीर्थजलॊद्भवाम वाजपेयम अवाप्नॊति सूर्यलॊकं च गच्छति 98 ततॊ ऽधिवंश्यं धर्मज्ञ समाविश्य तपॊवनम गुह्यकेषु महाराज मॊदते नात्र संशयः 99 कम्पनां तु समासाद्य नदीं सिद्धनिषेविताम पुण्डरीकम अवाप्नॊति सूर्यलॊकं च गच्छति 100 ततॊ विशालाम आसाद्य नदीं तरैलॊक्यविश्रुताम अग्निष्टॊमम अवाप्नॊति सवर्गलॊकं च गच्छति 101 अथ माहेश्वरीं धारां समासाद्य नराधिप अश्वमेधम अवाप्नॊति कुलं चैव समुद्धरेत 102 दिवौकसां पुष्करिणीं समासाद्य नरः शुचिः न दुर्गतिम अवाप्नॊति वाजपेयं च विन्दति 103 महेश्वर पदं गच्छेद बरह्म चारी समाहितः महेश्वर पदे सनात्वा वाजिमेधफलं लभेत 104 तत्र कॊटिस तु तीर्थानां विश्रुता भरतर्षभ कूर्मरूपेण राजेन्द्र असुरेण दुरात्मना हरियमाणाहृता राजन विष्णुना परभ विष्णुना 105 तत्राभिषेकं कुर्वाणस तीर्थकॊट्यां युधिष्ठिर पुण्डरीकम अवाप्नॊति विष्णुलॊकं च गच्छति 106 ततॊ गच्छेत राजेन्द्र सथानं नारायणस्य तु सदा संनिहितॊ यत्र हरिर वसति भारत शालग्राम इति खयातॊ विष्णॊर अद्भुतकर्मणः 107 अभिगम्य तरिलॊकेशं वरदं विष्णुम अव्ययम अश्वमेधम अवाप्नॊति विष्णुलॊकं च गच्छति 108 तत्रॊद पानॊ धर्मज्ञ सर्वपापप्रमॊचनः समुद्रास तत्र चत्वारः कूपे संनिहिताः सदा तत्रॊपस्पृश्य राजेन्द्र न दुर्गतिम अवाप्नुयात 109 अभिगम्य महादेवं वरदं विष्णुम अव्ययम विराजति यथा सॊम ऋणैर मुक्तॊ युधिष्ठिर 110 जातिस्मर उपस्पृश्य शुचिः परयत मानसः जातिस्मरत्वं पराप्नॊति सनात्वा तत्र न संशयः 111 वटेश्वर पुरं गत्वा अर्चयित्वा तु केशवम ईप्सिताँल लभते कामान उपवासान न संशयः 112 ततस तु वामनं गत्वा सर्वपापप्रमॊचनम अभिवाद्य हरिं देवं न दुर्गतिम अवाप्नुयात 113 भरतस्याश्रमं गत्वा सर्वपापप्रमॊचनम कौशिकीं तत्र सेवेत महापातक नाशिनीम राजसूयस्य यज्ञस्य फलं पराप्नॊति मानवः 114 ततॊ गच्छेत धर्मज्ञ चम्पकारण्यम उत्तमम तत्रॊष्य रजनीम एकां गॊसहस्रफलं लभेत 115 अथ जयेष्ठिलम आसाद्य तीर्थं परमसंमतम उपॊष्य रजनीम एकाम अग्निष्टॊम फलं लभेत 116 तत्र विश्वेश्वरं दृष्ट्वा देव्या सह महाद्युतिम मित्रा वरुणयॊर लॊकान आप्नॊति पुरुषर्षभ 117 कन्या संवेद्यम आसाद्य नियतॊ नियताशनः मनॊः परजापतेर लॊकान आप्नॊति भरतर्षभ 118 कन्यायां ये परयच्छन्ति पानम अन्नं च भारत तद अक्षयम इति पराहुर ऋषयः संशितव्रताः 119 निश्चीरां च समासाद्य तरिषु लॊकेषु विश्रुताम अश्वमेधम अवाप्नॊति विष्णुलॊकं च गच्छति 120 ये तु दानं परयच्छन्ति निश्चीरा संगमे नराः ते यान्ति नरशार्दूल बरह्मलॊकं न संशयः 121 तत्राश्रमॊ वसिष्ठस्य तरिषु लॊकेषु विश्रुतः तत्राभिषेकं कुर्वाणॊ वाजपेयम अवाप्नुयात 122 देवकूटं समासाद्य बरह्मर्षिगणसेवितम अश्वमेधम अवाप्नॊति कुलं चैव समुद्धरेत 123 ततॊ गच्छेत राजेन्द्र कौशिकस्य मुनेर हरदम यत्र सिद्धिं परां पराप्तॊ विश्वा मित्रॊ ऽथ कौशिकः 124 तत्र मासं वसेद वीर कौशिक्यां भरतर्षभ अश्वमेधस्य यत पुण्यं तन मासेनाधिगच्छति 125 सर्वतीर्थवरे चैव यॊ वसेत महाह्रदे न दुर्गतिम अवाप्नॊति विन्देद बहुसुवर्णकम 126 कुमारम अभिगत्वा च वीराश्रमनिवासिनम अश्वमेधम अवाप्नॊति नरॊ नास्त्य अत्र संशयः 127 अग्निधारां समासाद्य तरिषु लॊकेषु विश्रुताम अग्निष्टॊमम अवाप्नॊति न च सवर्गान निवर्तते 128 पिता मह सरॊ गत्वा शैलराजप्रतिष्ठितम तत्राभिषेकं कुर्वाणॊ अग्निष्टॊम फलं लभेत 129 पिता महस्य सरसः परस्रुता लॊकपावनी कुमार धारा तत्रैव तरिषु लॊकेषु विश्रुता 130 यत्र सनात्वा कृतार्थॊ ऽसमीत्य आत्मानम अवगच्छति षष्ठ कालॊपवासेन मुच्यते बरह्महत्यया 131 शिखरं वै महादेव्या गौर्यास तरैलॊक्यविश्रुतम समारुह्य नरः शराद्धः सतनकुण्डेषु संविशेत 132 तत्राभिषेकं कुर्वाणः पितृदेवार्चने रतः हयमेधम अवाप्नॊति शक्र लॊकं च गच्छति 133 ताम्रारुणं समासाद्य बरह्म चारी समाहितः अश्वमेधम अवाप्नॊति शक्र लॊकं च गच्छति 134 नन्दिन्यां च समासाद्य कूपं तरिदशसेवितम नरमेधस्य यत पुण्यं तत पराप्नॊति कुरूद्वह 135 कालिका संगमे सनात्वा कौशिक्यारुणयॊर यतः तरिरात्रॊपॊषितॊ विद्वान सर्वपापैः परमुच्यते 136 उर्वशी तीर्थम आसाद्य ततः सॊमाश्रमं बुधः कुम्भकर्णाश्रमे सनात्वा पूज्यते भुवि मानवः 137 सनात्वा कॊका मुखे पुण्ये बरह्म चारी यतव्रतः जातिस्मरत्वं पराप्नॊति दृष्टम एतत पुरातने 138 सकृन नन्दां समासाद्य कृतात्मा भवति दविजः सर्वपापविशुद्धात्मा शक्र लॊकं च गच्छति 139 ऋषभद्वीपम आसाद्य सेव्यं करौञ्चनिषूदनम सरस्वत्याम उपस्पृश्य विमानस्थॊ विराजते 140 औद्दालकं महाराज तीर्थं मुनिनिषेवितम तत्राभिषेकं कुर्वीत सर्वपापैः परमुच्यते 141 धर्मतीर्थं समासाद्य पुण्यं बरह्मर्षिसेवितम वाजपेयम अवाप्नॊति नरॊ नास्त्य अत्र संशयः 142 तथा चम्पां समासाद्य भागीरथ्यां कृतॊदकः दण्डार्कम अभिगम्यैव गॊसहस्रफलं लभेत 143 लवेडिकां ततॊ गच्छेत पुण्यां पुण्यॊपसेविताम वाजपेयम अवाप्नॊति विमानस्थश च पूज्यते |
1
[pulastya] tato gaccheta dharmajña dharmatīrthaṃ purātanam tatra snātvā naro rājan dharmaśīlaḥ samāhitaḥ ā saptamaṃ kulaṃ rājan punīte nātra saṃśayaḥ 2 tato gaccheta dharmajña kārā patanam uttamam agniṣṭomam avāpnoti munilokaṃ ca gacchati 3 saugandhikaṃ vanaṃ rājaṃs tato gaccheta mānavaḥ yatra brahmādayo devā ṛṣayaś ca tapodhanāḥ 4 siddhacāraṇagandharvāḥ kiṃnarāḥ sa mahoragāḥ tad vanaṃ praviśann eva sarvapāpaiḥ pramucyate 5 tato hi sā saricchreṣṭhā nadīnām uttamā nadī plakṣād devī srutā rājan mahāpuṇyā sarasvatī 6 tatrābhiṣekaṃ kurvīta valmīkān niḥsṛte jale arcayitvā pitṝn devān aśvamedha phalaṃ labhet 7 īśānādhyuṣitaṃ nāma tatra tīrthaṃ sudurlabham ṣaṭsu śamyā nipāteṣu valmīkād iti niścayaḥ 8 kapilānāṃ sahasraṃ ca vājimedhaṃ ca vindati tatra snātvā naravyāghra dṛṣṭam etat purātane 9 sugandhāṃ śatakumbhāṃ ca pañca yajñāṃ ca bhārata abhigamya naraśreṣṭha svargaloke mahīyate 10 triśūlakhātaṃ tatraiva tīrtham āsādya bhārata tatrābhiṣekaṃ kurvīta pitṛdevārcane rataḥ gāṇapatyaṃ sa labhate dehaṃ tyaktvā na saṃśayaḥ 11 tato gaccheta rājendra devyāḥ sthānaṃ sudurlabham śākambharīti vikhyātā triṣu lokeṣu viśrutā 12 divyaṃ varṣasahasraṃ hi śākena kila suvrata āhāraṃ sā kṛtavatī māsi māsi narādhipa 13 ṛṣayo 'bhyāgatās tatra devyā bhaktyā tapodhanāḥ ātithyaṃ ca kṛtaṃ teṣāṃ śākena kila bhārata tataḥ śākambharīty eva nāma tasyāḥ pratiṣṭhitam 14 śākambharīṃ samāsādya brahma cārī samāhitaḥ trirātram uṣitaḥ śākaṃ bhakṣayen niyataḥ śuciḥ 15 śākāhārasya yat samyag varṣair dvādaśabhiḥ phalam tat phalaṃ tasya bhavati devyāś chandena bhārata 16 tato gacchet suvarṇākṣaṃ triṣu lokeṣu viśrutam yatra viṣṇuḥ prasādārthaṃ rudram ārādhayat purā 17 varāṃś ca subahūṁl lebhe daivateṣu sudurlabhān uktaś ca tripuraghnena parituṣṭena bhārata 18 api cāsmat priyataro loke kṛṣṇa bhaviṣyasi tvan mukhaṃ ca jagat kṛtsnaṃ bhaviṣyati na saṃśayaḥ 19 tatrābhigamya rājendra pūjayitvā vṛṣadhvajam aśvamedham avāpnoti gāṇapatyaṃ ca vindati 20 dhūmāvatīṃ tato gacchet triratropoṣito naraḥ manasā prārthitān kāmāṁl labhate nātra saṃśayaḥ 21 devyās tu dakṣiṇārdhena rathāvarto narādhipa tatrāroheta dharmajña śradadhāno jitendriyaḥ mahādeva prasādād dhi gaccheta paramaṃ gatim 22 pradakṣiṇam upāvṛtya gaccheta bharatarṣabha dhārāṃ nāma mahāprājña sarvapāpapraṇāśinīm tatra snātvā naravyāghra na śocati narādhipa 23 tato gaccheta dharmajña namaskṛtya mahāgirim svargadvāreṇa yat tulyaṃ gaṅgā dvāraṃ na saṃśayaḥ 24 tatrābhiṣekaṃ kurvīta koṭitīrthe samāhitaḥ puṇḍarīkam avāpnoti kulaṃ caiva samuddharet 25 sapta gaṅge trigaṅge ca śakrāvarte ca tarpayan devān pitṝṃś ca vidhivat puṇyaloke mahīyate 26 tataḥ kanakhale snātvā trirātropoṣito naraḥ aśvamedham avāpnoti svargalokaṃ ca gacchati 27 kapilā vaṭaṃ ca gaccheta tīrthasevī narādhipa uṣyaikāṃ rajanīṃ tatra gosahasraphalaṃ labhet 28 nāgarājasya rājendra kapilasya mahātmanāḥ tīrthaṃ kuru varaśreṣṭha sarvalokeṣu viśrutam 29 tatrābhiṣekaṃ kurvīta nāgatīrthe narādhipa kapilānāṃ sahasrasya phalaṃ prāpnoti mānavaḥ 30 tato lalitikāṃ gacchec chaṃtanor tīrtham uttamam tatra snātvā naro rājan na durgatim avāpnuyāt 31 gaṅgā saṃgamayoś caiva snāti yaḥ saṃgame naraḥ daśāśvamedhān āpnoti kulaṃ caiva samuddharet 32 tato gaccheta rājendra sugandhāṃ lokaviśrutām sarvapāpaviśuddhātmā brahmaloke mahīyate 33 rudrāvartaṃ tato gacchet tīrthasevī narādhipa tatra snātvā naro rājan svargaloke mahīyate 34 gaṅgāyāś ca naraśreṣṭha sarasvatyāś ca saṃgame snāto 'śvamedham āpnoti svargalokaṃ ca gacchati 35 bhadra karṇeśvaraṃ gatvā devam arcya yathāvidhi na durgatim avāpnoti svargalokaṃ ca gacchati 36 tataḥ kubjāmrakaṃ gacchet tīrthasevī yathākramam gosahasram avāpnoti svargalokaṃ ca gacchati 37 arundhatī vaṭaṃ gacchet tīrthasevī narādhipa sāmudrakam upaspṛśya trirātropoṣito naraḥ gosahasraphalaṃ vindet kulaṃ caiva samuddharet 38 brahmāvartaṃ tato gacched brahma cārī samāhitaḥ aśvamedham avāpnoti svargalokaṃ ca gacchati 39 yamunā prabhavaṃ gatvā upaspṛśya ca yāmune aśvamedha phalaṃ labdhvā svargaloke mahīyate 40 darvī saṃkramaṇaṃ prāpya tīrthaṃ trailokyaviśrutam aśvamedham avāpnoti svargalokaṃ ca gacchati 41 sindhor ca prabhavaṃ gatvā siddhagandharvasevitam tatroṣya rajanīḥ pañca vindyād bahusuvarṇakam 42 atha vedīṃ samāsādya naraḥ paramadurgamām aśvamedham avāpnoti gacchec cauśanasīṃ gatim 43 ṛṣikulyāṃ samāsādya vāsiṣṭhaṃ caiva bhārata vāsiṣṭhaṃ samatikramya sarve varṇā dvijātayaḥ 44 ṛṣikulyāṃ naraḥ snātvā ṛṣilokaṃ prapadyate yadi tatra vasen māsaṃ śākāhāro narādhipa 45 bhṛgutuṅgaṃ samāsādya vājimedhaphalaṃ labhet gatvā vīra pramokṣaṃ ca sarvapāpaiḥ pramucyate 46 kṛttikā maghayoś caiva tīrtham āsādya bhārata agniṣṭomātirātrābhyāṃ phalaṃ prāpnoti puṇyakṛt 47 tataḥ saṃdhyāṃ samāsādya vidyā tīrtham anuttamam upaspṛśya ca vidyānāṃ sarvāsāṃ pārago bhavet 48 mahāśrame vased rātriṃ sarvapāpapramocane ekakālaṃ nirāhāro lokān āvasate śubhān 49 ṣaṣṭha kālopavāsena māsam uṣya mahālaye sarvapāpaviśuddhātmā vindyād bahusuvarṇakam 50 atha vetasikāṃ gatvā pitā maha niṣevitām aśvamedham avāpnoti gacchec cauśanasīṃ gatim 51 atha sundarikā tīrthaṃ prāpya siddhaniṣevitam rūpasya bhāgī bhavati dṛṣṭam etat purātane 52 tato vai brāhmaṇīṃ gatvā brahma cārī jitendriyaḥ padmavarṇena yānena brahmalokaṃ prapadyate 53 tataś ca naimiṣaṃ gacchet puṇyaṃ siddhaniṣevitam tatra nityaṃ nivasati brahmā devagaṇair vṛtaḥ 54 naimiṣaṃ prārthayānasya pāpasyārdhaṃ praṇaśyati praviṣṭamātras tu naraḥ sarvapāpaiḥ pramucyate 55 tatra māsaṃ vased dhīro naimiṣe tīrthatatparaḥ pṛthivyāṃ yāni tīrthāni naimiṣe tāni bhārata 56 abhiṣekakṛtas tatra niyato niyatāśanaḥ gavāmayasya yajñasya phalaṃ prāpnoti bhārata punāty ā saptamaṃ caiva kulaṃ bharatasattama 57 yas tyajen naimiṣe prāṇān upavāsaparāyaṇaḥ sa modet svargalokastha evam āhur manīṣiṇaḥ nityaṃ puṇyaṃ ca medhyaṃ ca naimiṣaṃ nṛpasattama 58 gaṅgodbhedaṃ samāsādya trirātropoṣito naraḥ vājapeyam avāpnoti brahmabhūtaś ca jāyate 59 sarasvatīṃ samāsādya tarpayet pitṛdevatāḥ sārasvateṣu lokeṣu modate nātra saṃśayaḥ 60 tataś ca bāhudāṃ gacched brahma cārī samāhitaḥ deva satrasya yajñasya phalaṃ prāpnoti mānavaḥ 61 tataś cīravatīṃ gacchet puṇyāṃ puṇyatamair vṛtām pitṛdevārcana rato vājapeyam avāpnuyāt 62 vimalāśokam āsādya virājati yathā śaśī tatroṣya rajanīm ekāṃ svargaloke mahīyate 63 gopratāraṃ tato gacchet sarayvās tīrtham uttamam yatra rāmo gataḥ svargaṃ sa bhṛtyabalavāhanaḥ 64 dehaṃ tyaktvā divaṃ yātas tasya tīrthasya tejasā rāmasya ca prasādena vyavasāyāc ca bhārata 65 tasmiṃs tīrthe naraḥ snātvā gomatyāṃ kurunandana sarvapāpaviśuddhātmā svargaloke mahīyate 66 rāma tīrthe naraḥ snātvā gomatyāṃ kurunandana aśvamedham avāpnoti punāti ca kulaṃ naraḥ 67 śatasāhasrikaṃ tatra tīrthaṃ bharatasattama tatropasparśanaṃ kṛtvā niyato niyatāśanaḥ gosahasraphalaṃ puṇyaṃ prāpnoti bharatarṣabha 68 tato gaccheta rājendra bhartṛsthānam anuttamam koṭitīrthe naraḥ snātvā arcayitvā guhaṃ nṛpa gosahasraphalaṃ vindet tejasvī ca bhaven naraḥ 69 tato vārāṇasīṃ gatvā arcayitvā vṛṣadhvajam kapilā hrade naraḥ snātvā rājasūya phalaṃ labhet 70 mārkaṇḍeyasya rājendra tīrtham āsādya durlabham gomatī gaṅgayoś caiva saṃgame lokaviśrute agniṣṭomam avāpnoti kulaṃ caiva samuddharet 71 tato gayāṃ samāsādya brahma cārī jitendriyaḥ aśvamedham avāpnoti gamanād eva bhārata 72 tatrākṣayavato nāma triṣu lokeṣu viśrutaḥ pitṝṇāṃ tatra vai dattam akṣayaṃ bhavati prabho 73 mahānadyām upaspṛśya tarpayet pitṛdevatāḥ akṣayān prāpnuyāl lokān kulaṃ caiva samuddharet 74 tato brahmasaro gacched dharmāraṇyopaśobhitam pauṇḍarīkam avāpnoti prabhātām eva śarvarīm 75 tasmin sarasi rājendra brahmaṇo yūpa ucchritaḥ yūpaṃ pradakṣiṇaṃ kṛtvā vājapeyaphalaṃ labhet 76 tato gaccheta rājendra dhenukāṃ lokaviśrutām ekaratroṣito rājan prayacchet tiladhenukām sarvapāpaviśuddhātmā somalokaṃ vrajed dhruvam 77 tatra cihnaṃ mahārāja adyāpi hi na saṃśayaḥ kapilā saha vatsena parvate vicaraty uta sa vatsāyāḥ padāni sma dṛśyante 'dyāpi bhārata 78 teṣūpaspṛśya rājendra padeṣu nṛpasattama yat kiṃ cid aśubhaṃ karma tat praṇaśyati bhārata 79 tato gṛdhravaṭaṃ gacchet sthānaṃ devasya dhīmataḥ snāyīta bhasmanā tatra abhigamya vṛṣadhvajam 80 brāhmaṇena bhavec cīrṇaṃ vrataṃ dvādaśa vārṣikam itareṣāṃ tu varṇānāṃ sarvapāpaṃ praṇaśyati 81 gaccheta tata udyantaṃ parvataṃ gītanāditam sāvitraṃ tu padaṃ tatra dṛśyate bharatarṣabha 82 tatra saṃdhyām upāsīta brāhmaṇaḥ saṃśitavrataḥ upāstā ca bhavet saṃdhyā tena dvādaśa vārṣikī 83 yonidvāraṃ ca tatraiva viśrutaṃ bharatarṣabha tatrābhigamya mucyeta puruṣo yonisaṃkarāt 84 kṛṣṇa śuklāv ubhau pakṣau gayāyāṃ yo vasen naraḥ punāty ā saptamaṃ rājan kulaṃ nāsty atra saṃśayaḥ 85 eṣṭavyā bahavaḥ putrā yady eko 'pi gayāṃ vrajet yajeta vāśvamedhena nīlaṃ vā vṛṣam utsṛjet 86 tataḥ phalguṃ vrajed rājaṃs tīrthasevī narādhipa aśvamedham avāpnoti siddhiṃ ca mahatīṃ vrajet 87 tato gaccheta rājendra dharmapṛṣṭhaṃ samāhitaḥ yatra dharmo mahārāja nityam āste yudhiṣṭhira abhigamya tatas tatra vājimedhaphalaṃ labhet 88 tato gaccheta rājendra brahmaṇas tīrtham uttamam tatrārcayitvā rājendra brahmāṇam amitaujasam rājasūyāśvamedhābhyāṃ phalaṃ prāpnoti mānavaḥ 89 tato rājagṛhaṃ gacchet tīrthasevī narādhipa upaspṛśya tapodeṣu kākṣīvān iva modate 90 yakṣiṇyā naityakaṃ tatra prāśnīta puruṣaḥ śuciḥ yakṣiṇyās tu prasādena mucyate bhrūṇa hatyayā 91 maṇināgaṃ tato gatvā gosahasraphalaṃ labhet naityakaṃ bhuñjate yas tu maṇināgasya mānavaḥ 92 daṣṭasyāśīviṣeṇāpi na tasya kramate viṣam tatroṣya rajanīm ekāṃ sarvapāpaiḥ pramucyate 93 tato gaccheta brahmarṣer gautamasya vanaṃ nṛpa ahalyāyā hlade snātvā vrajeta paramāṃ gatim abhigamya śriyaṃ rājan vindate śriyam uttamām 94 tatroda pāno dharmajña triṣu lokeṣu viśrutaḥ tatrābhiṣekaṃ kṛtvā tu vājimedham avāpnuyāt 95 janakasya tu rājarṣeḥ kūpas tridaśapūjitaḥ tatrābhiṣekaṃ kṛtvā tu viṣṇulokam avāpnuyāt 96 tato vinaśanaṃ gacchet sarvapāpapramocanam vājapeyam avāpnoti somalokaṃ ca gacchati 97 gaṇḍakīṃ tu samāsādya sarvatīrthajalodbhavām vājapeyam avāpnoti sūryalokaṃ ca gacchati 98 tato 'dhivaṃśyaṃ dharmajña samāviśya tapovanam guhyakeṣu mahārāja modate nātra saṃśayaḥ 99 kampanāṃ tu samāsādya nadīṃ siddhaniṣevitām puṇḍarīkam avāpnoti sūryalokaṃ ca gacchati 100 tato viśālām āsādya nadīṃ trailokyaviśrutām agniṣṭomam avāpnoti svargalokaṃ ca gacchati 101 atha māheśvarīṃ dhārāṃ samāsādya narādhipa aśvamedham avāpnoti kulaṃ caiva samuddharet 102 divaukasāṃ puṣkariṇīṃ samāsādya naraḥ śuciḥ na durgatim avāpnoti vājapeyaṃ ca vindati 103 maheśvara padaṃ gacched brahma cārī samāhitaḥ maheśvara pade snātvā vājimedhaphalaṃ labhet 104 tatra koṭis tu tīrthānāṃ viśrutā bharatarṣabha kūrmarūpeṇa rājendra asureṇa durātmanā hriyamāṇāhṛtā rājan viṣṇunā prabha viṣṇunā 105 tatrābhiṣekaṃ kurvāṇas tīrthakoṭyāṃ yudhiṣṭhira puṇḍarīkam avāpnoti viṣṇulokaṃ ca gacchati 106 tato gaccheta rājendra sthānaṃ nārāyaṇasya tu sadā saṃnihito yatra harir vasati bhārata śālagrāma iti khyāto viṣṇor adbhutakarmaṇaḥ 107 abhigamya trilokeśaṃ varadaṃ viṣṇum avyayam aśvamedham avāpnoti viṣṇulokaṃ ca gacchati 108 tatroda pāno dharmajña sarvapāpapramocanaḥ samudrās tatra catvāraḥ kūpe saṃnihitāḥ sadā tatropaspṛśya rājendra na durgatim avāpnuyāt 109 abhigamya mahādevaṃ varadaṃ viṣṇum avyayam virājati yathā soma ṛṇair mukto yudhiṣṭhira 110 jātismara upaspṛśya śuciḥ prayata mānasaḥ jātismaratvaṃ prāpnoti snātvā tatra na saṃśayaḥ 111 vaṭeśvara puraṃ gatvā arcayitvā tu keśavam īpsitāṁl labhate kāmān upavāsān na saṃśayaḥ 112 tatas tu vāmanaṃ gatvā sarvapāpapramocanam abhivādya hariṃ devaṃ na durgatim avāpnuyāt 113 bharatasyāśramaṃ gatvā sarvapāpapramocanam kauśikīṃ tatra seveta mahāpātaka nāśinīm rājasūyasya yajñasya phalaṃ prāpnoti mānavaḥ 114 tato gaccheta dharmajña campakāraṇyam uttamam tatroṣya rajanīm ekāṃ gosahasraphalaṃ labhet 115 atha jyeṣṭhilam āsādya tīrthaṃ paramasaṃmatam upoṣya rajanīm ekām agniṣṭoma phalaṃ labhet 116 tatra viśveśvaraṃ dṛṣṭvā devyā saha mahādyutim mitrā varuṇayor lokān āpnoti puruṣarṣabha 117 kanyā saṃvedyam āsādya niyato niyatāśanaḥ manoḥ prajāpater lokān āpnoti bharatarṣabha 118 kanyāyāṃ ye prayacchanti pānam annaṃ ca bhārata tad akṣayam iti prāhur ṛṣayaḥ saṃśitavratāḥ 119 niścīrāṃ ca samāsādya triṣu lokeṣu viśrutām aśvamedham avāpnoti viṣṇulokaṃ ca gacchati 120 ye tu dānaṃ prayacchanti niścīrā saṃgame narāḥ te yānti naraśārdūla brahmalokaṃ na saṃśayaḥ 121 tatrāśramo vasiṣṭhasya triṣu lokeṣu viśrutaḥ tatrābhiṣekaṃ kurvāṇo vājapeyam avāpnuyāt 122 devakūṭaṃ samāsādya brahmarṣigaṇasevitam aśvamedham avāpnoti kulaṃ caiva samuddharet 123 tato gaccheta rājendra kauśikasya muner hradam yatra siddhiṃ parāṃ prāpto viśvā mitro 'tha kauśikaḥ 124 tatra māsaṃ vased vīra kauśikyāṃ bharatarṣabha aśvamedhasya yat puṇyaṃ tan māsenādhigacchati 125 sarvatīrthavare caiva yo vaseta mahāhrade na durgatim avāpnoti vinded bahusuvarṇakam 126 kumāram abhigatvā ca vīrāśramanivāsinam aśvamedham avāpnoti naro nāsty atra saṃśayaḥ 127 agnidhārāṃ samāsādya triṣu lokeṣu viśrutām agniṣṭomam avāpnoti na ca svargān nivartate 128 pitā maha saro gatvā śailarājapratiṣṭhitam tatrābhiṣekaṃ kurvāṇo agniṣṭoma phalaṃ labhet 129 pitā mahasya sarasaḥ prasrutā lokapāvanī kumāra dhārā tatraiva triṣu lokeṣu viśrutā 130 yatra snātvā kṛtārtho 'smīty ātmānam avagacchati ṣaṣṭha kālopavāsena mucyate brahmahatyayā 131 śikharaṃ vai mahādevyā gauryās trailokyaviśrutam samāruhya naraḥ śrāddhaḥ stanakuṇḍeṣu saṃviśet 132 tatrābhiṣekaṃ kurvāṇaḥ pitṛdevārcane rataḥ hayamedham avāpnoti śakra lokaṃ ca gacchati 133 tāmrāruṇaṃ samāsādya brahma cārī samāhitaḥ aśvamedham avāpnoti śakra lokaṃ ca gacchati 134 nandinyāṃ ca samāsādya kūpaṃ tridaśasevitam naramedhasya yat puṇyaṃ tat prāpnoti kurūdvaha 135 kālikā saṃgame snātvā kauśikyāruṇayor yataḥ trirātropoṣito vidvān sarvapāpaiḥ pramucyate 136 urvaśī tīrtham āsādya tataḥ somāśramaṃ budhaḥ kumbhakarṇāśrame snātvā pūjyate bhuvi mānavaḥ 137 snātvā kokā mukhe puṇye brahma cārī yatavrataḥ jātismaratvaṃ prāpnoti dṛṣṭam etat purātane 138 sakṛn nandāṃ samāsādya kṛtātmā bhavati dvijaḥ sarvapāpaviśuddhātmā śakra lokaṃ ca gacchati 139 ṛṣabhadvīpam āsādya sevyaṃ krauñcaniṣūdanam sarasvatyām upaspṛśya vimānastho virājate 140 auddālakaṃ mahārāja tīrthaṃ muniniṣevitam tatrābhiṣekaṃ kurvīta sarvapāpaiḥ pramucyate 141 dharmatīrthaṃ samāsādya puṇyaṃ brahmarṣisevitam vājapeyam avāpnoti naro nāsty atra saṃśayaḥ 142 tathā campāṃ samāsādya bhāgīrathyāṃ kṛtodakaḥ daṇḍārkam abhigamyaiva gosahasraphalaṃ labhet 143 laveḍikāṃ tato gacchet puṇyāṃ puṇyopasevitām vājapeyam avāpnoti vimānasthaś ca pūjyate |
The Mahabharata in Sanskrit
Book 3
Chapter 83
|
1
[पुलस्त्य] अथ संध्यां समासाद्य संवेद्यं तीर्थम उत्तमम उपस्पृश्य नरॊ विद्वान भवेन नास्त्य अत्र संशयः 2 रामस्य च परसादेन तीर्थं राजन कृतं पुरा तल लॊहित्यं समासाद्य विन्द्याद बहुसुवर्णकम 3 करतॊयां समासाद्य तरिरात्रॊपॊषितॊ नरः अश्वमेधम अवाप्नॊति कृते पैतामहे विधौ 4 गङ्गायास तव अथ राजेन्द्र सागरस्य च संगमे अश्वमेधं दशगुणं परवदन्ति मनीषिणः 5 गङ्गायास तव अपरं दवीपं पराप्य यः सनाति भारत तरिरात्रॊपॊषितॊ राजन सर्वकामान अवाप्नुयात 6 ततॊ वैतरणीं गत्वा नदीं पापप्रमॊचनीम विरजं तीर्थम आसाद्य विराजति यथा शशी 7 परभवेच च कुले पुण्ये सर्वपापं वयपॊहति गॊसहस्रफलं लब्ध्वा पुनाति च कुलं नरः 8 शॊणस्य जयॊतिरथ्याश च संगमे निवसञ शुचिः तर्पयित्वा पितॄन देवान अग्निष्टॊम फलं लभेत 9 शॊणस्य नर्मदायाश च परभवे कुरुनन्दन वंशगुल्म उपस्पृश्य वाजिमेधफलं लभेत 10 ऋषभं तीर्थम आसाद्य कॊशलायां नराधिप वाजपेयम अवाप्नॊति तरिरात्रॊपॊषितॊ नरः 11 कॊशलायां समासाद्य कालतीर्थ उपस्पृशेत वृशभैकादश फलं लभते नात्र संशयः 12 पुष्पवत्याम उपस्पृश्य तरिरात्रॊपॊषितॊ नरः गॊसहस्रफलं विन्द्यात कुलं चैव समुद्धरेत 13 ततॊ बदरिका तीर्थे सनात्वा परयत मानसः दीर्घम आयुर अवाप्नॊति सवर्गलॊकं च गच्छति 14 ततॊ महेन्द्रम आसाद्य जामदग्न्य निषेवितम राम तीर्थे नरः सनात्वा वाजिमेधफलं लभेत 15 मतङ्गस्य तु केदारस तत्रैव कुरुनन्दन तत्र सनात्वा नरॊ राजन गॊसहस्रफलं लभेत 16 शरीपर्वतं समासाद्य नदीतीर उपस्पृशेत अश्वमेधम अवाप्नॊति सवर्गलॊकं च गच्छति 17 शरीपर्वते महादेवॊ देव्या सह महाद्युतिः नयवसत परमप्रीतॊ बरह्मा च तरिदशैर वृतः 18 तत्र देव हरदे सनात्वा शुचिः परयत मानसः अश्वमेधम अवाप्नॊति परां सिद्धिं च गच्छति 19 ऋषभं पर्वतं गत्वा पाण्ड्येषु सुरपूजितम वाजपेयम अवाप्नॊति नाकपृष्ठे च मॊदते 20 ततॊ गच्छेत कावेरीं वृताम अप्सरसां गणैः तत्र सनात्वा नरॊ राजन गॊसहस्रफलं लभेत 21 ततस तीरे समुद्रस्य कन्या तीर्थ उपस्पृशेत तत्रॊपस्पृश्य राजेन्द्र सर्वपापैः परमुच्यते 22 अथ गॊकर्णम आसाद्य तरिषु लॊकेषु विश्रुतम समुद्रमध्ये राजेन्द्र सर्वलॊकनमस्कृतम 23 यत्र बरह्मादयॊ देवा ऋषयश च तपॊधनाः भूतयक्षपिशाचाश च किंनराः स महॊरगाः 24 सिद्धचारणगन्धर्वा मानुषाः पन्नगास तथा सरितः सागराः शैला उपासन्त उमा पतिम 25 तत्रेशानं समभ्यर्च्य तरिरात्रॊपॊषितॊ नरः दशाश्वमेधम आप्नॊति गाणपत्यं च विन्दति उष्य दवादश रात्रं तु कृतात्मा भवते नरः 26 तत एव तु गायत्र्याः सथानं तरैलॊक्यविश्रुतम तरिरात्रम उषितस तत्र गॊसहस्रफलं लभेत 27 निदर्शनं च परत्यक्षं बराह्मणानां नराधिप गायत्रीं पठते यस तु यॊनिसंकरजस तथा गाथा वा गीतिका वापि तस्य संपद्यते नृप 28 संवर्तस्य तु विप्रर्षेर वापीम आसाद्य दुर्लभाम रूपस्य भागी भवति सुभगश चैव जायते 29 ततॊ वेण्णां समासाद्य तर्पयेत पितृदेवताः मयूरहंससंयुक्तं विमानं लभते नरः 30 ततॊ गॊदावरीं पराप्य नित्यं सिद्धनिषेविताम गवाम अयम अवाप्नॊति वासुकेर लॊकम आप्नुयात 31 वेण्णायाः संगमे सनात्वा वाजपेयफलं लभेत वरदा संगमे सनात्वा गॊसहस्रफलं लभेत 32 बरह्म सथानं समासाद्य तरिरात्रम उषितॊ नरः गॊसहस्रफलं विन्देत सवर्गलॊकं च गच्छति 33 कुशप्लवनम आसाद्य बरह्म चारी समाहितः तरिरात्रम उषितः सनात्वा अश्वमेध फलं लभेत 34 ततॊ देव हरदे रम्ये कृष्ण वेण्णा जलॊद्भवे जातिमात्रह्रदे चैव तथा कन्याश्रमे नृप 35 यत्र करतुशतैर इष्ट्वा देवराजॊ दिवं गतः अग्निष्टॊम शतं विन्देद गमनाद एव भारत 36 सर्वदेव हरदे सनात्वा गॊसहस्रफलं लभेत जातिमात्रह्रदे सनात्वा भवेज जातिस्मरॊ नरः 37 ततॊ ऽवाप्य महापुण्यां पयॊष्णीं सरितां वराम पितृदेवार्चन रतॊ गॊसहस्रफलं लभेत 38 दण्डकारण्यम आसाद्य महाराज उपस्पृशेत गॊसहस्रफलं तत्र सनातमात्रस्य भारत 39 शरभङ्गाश्रमं गत्वा शुकस्य च महात्मनाः न दुर्गतिम अवाप्नॊति पुनाति च कुलं नरः 40 ततः शूर्पारकं गच्छेज जामदग्न्य निषेवितम राम तीर्थे नरः सनात्वा विन्द्याद बहुसुवर्णकम 41 सप्त गॊदावरे सनात्वा नियतॊ नियताशनः महत पुण्यम अवाप्नॊति देवलॊकं च गच्छति 42 ततॊ देवपथं गच्छेन नियतॊ नियताशनः देव सत्रस्य यत पुण्यं तद अवाप्नॊति मानवः 43 तुङ्गकारण्यम आसाद्य बरह्म चारी जितेन्द्रियः वेदान अध्यापयत तत्र ऋषिः सारस्वतः पुरा 44 तत्र वेदान परनष्टांस तु मुनेर अङ्गिरसः सुतः उपविष्टॊ महर्षीणाम उत्तरीयेषु भारत 45 ओंकारेण यथान्यायं सम्यग उच्चारितेन च येन यत पूर्वम अभ्यस्तं तत तस्य समुपस्थितम 46 ऋषयस तत्र देवाश च वरुणॊ ऽगनिः परजापतिः हरिर नारायणॊ देवॊ महादेवस तथैव च 47 पिता महश च भगवान देवैः सह महाद्युतिः भृगुं नियॊजयाम आस याजनार्थे महाद्युतिम 48 ततः सचक्रे भगवान ऋषीणां विधिवत तदा सर्वेषां पुनर आधानं विधिदृष्टेन कर्मणा 49 आज्यभागेन वै तत्र तर्पितास तु यथाविधि देवास तरिभुवणं याता ऋषयश च यथासुखम 50 तद अरण्यं परविष्टस्य तुङ्गकं राजसत्तम पापं परणश्यते सर्वं सत्रियॊ वा पुरुषस्य वा 51 तत्र मासं वसेद धीरॊ नियतॊ नियताशनः बरह्मलॊकं वरजेद राजन पुनीते च कुलं नरः 52 मेधाविकं समासाद्य पितॄन देवांश च तर्पयेत अग्निष्टॊमम अवाप्नॊति समृतिं मेधां च विन्दति 53 ततः कालंजरं गत्वा पर्वतं लॊकविश्रुतम तत्र देव हरदे सनात्वा गॊसहस्रफलं लभेत 54 आत्मानं साधयेत तत्र गिरौ कालंजरे नृप सवर्गलॊके महीयेत नरॊ नास्त्य अत्र संशयः 55 ततॊ गिरिवरश्रेष्ठे चित्रकूटे विशां पते मन्दाकिनीं समासाद्य नदीं पापप्रमॊचिनीम 56 तत्राभिषेकं कुर्वाणः पितृदेवार्चने रतः अश्वमेधम अवाप्नॊति गतिं च परमां वरजेत 57 ततॊ गच्छेत राजेन्द्र भर्तृस्थानम अनुत्तमम यत्र देवॊ महासेनॊ नित्यं संनिहितॊ नृपः 58 पुमांस तत्र नरश्रेष्ठ गमनाद एव सिध्यति कॊटितीर्थे नरः सनात्वा गॊसहस्रफलं लभेत 59 परदक्षिणम उपावृत्य जयेष्ठस्थानं वरजेन नरः अभिगम्य महादेवं विराजति यथा शशी 60 तत्र कूपॊ महाराज विश्रुतॊ भरतर्षभ समुद्रास तत्र चत्वारॊ निवसन्ति युधिष्ठिर 61 तत्रॊपस्पृश्य राजेन्द्र कृत्वा चापि परदक्षिणम नियतात्मा नरः पूतॊ गच्छेत परमां गतिम 62 ततॊ गच्छेत कुरुश्रेष्ठ शृङ्गवेर पुरं महत यत्र तीर्णॊ महाराज रामॊ दाशरथिः पुरा 63 गङ्गायां तु नरः सनात्वा बरह्म चारी समाहितः विधूतपाप्मा भवति वाजपेयं च विन्दति 64 अभिगम्य महादेवम अभ्यर्च्य च नराधिप परदक्षिणम उपावृत्य गाणपत्यम अवाप्नुयात 65 ततॊ गच्छेत राजेन्द्र परयागम ऋषिसंस्तुतम यत्र बरह्मादयॊ देवा दिशश च स दिग ईश्वराः 66 लॊकपालाश च साध्याश च नैरृताः पितरस तथा सनत कुमार परमुखास तथैव परमर्षयः 67 अङ्गिरः परमुखाश चैव तथा बरह्मर्षयॊ ऽपरे तथा नागाः सुपर्णाश च सिद्धाश चक्रचरास तथा 68 सरितः सागराश चैव गन्धर्वाप्सरसस तथा हरिश च भगवान आस्ते परजापतिपुरस्कृतः 69 तत्र तरीण्य अग्निकुण्डानि येषां मध्ये च जाह्नवी परयागाद अभिनिष्क्रान्ता सर्वतीर्थपुरस्कृता 70 तपनस्य सुता तत्र तरिषु लॊकेषु विश्रुता यमुना गङ्गया सार्धं संगता लॊकपावनी 71 गङ्गायमुनयॊर मद्यं पृथिव्या जघनं समृतम परयागं जघनस्यान्तम उपस्थम ऋषयॊ विदुः 72 परयागं स परतिष्ठानं कम्बलाश्वतरौ तथा तीर्थं भॊगवती चैव वेदी परॊक्ता परजापतेः 73 तत्र वेदाश च यज्ञाश च मूर्तिमन्तॊ युधिष्ठिर परजापतिम उपासन्ते ऋषयश च महाव्रताः यजन्ते करतुभिर देवास तथा चक्रचरा नृप 74 ततः पुण्यतमं नास्ति तरिषु लॊकेषु भारत परयागः सर्वतीर्थेभ्यः परभवत्य अधिकं विभॊ 75 शरवणात तस्य तीर्थस्य नाम संकीर्तनाद अपि मृत्तिका लम्भनाद वापि नरः पापात परमुच्यते 76 तत्राभिषेकं यः कुर्यात संगमे संशितव्रतः पुण्यं सफलम आप्नॊति राजसूयाश्वमेधयॊः 77 एषा यजन भूमिर हि देवानाम अपि सत्कृता तत्र दत्तं सूक्ष्मम अपि महद भवति भारत 78 न वेद वचनात तात न लॊकवचनाद अपि मतिर उत्क्रमणीया ते परयागमरणं परति 79 दश तीर्थसहस्राणि षष्टिकॊट्त्यस तथापराः येषां सांनिध्यम अत्रैव कीर्तितं कुरुनन्दन 80 चातुर्वेदे च यत पुण्यं सत्यवादिषु चैव यत सनात एव तदाप्नॊति गङ्गा यमुन संगमे 81 तत्र भॊगवती नाम वासुकेस तीर्थम उत्तमम तत्राभिषेकं यः कुर्यात सॊ ऽशवमेधम अवाप्नुयात 82 तत्र हंसप्रपतनं तीर्थं तरैलॊक्यविश्रुतम दशाश्वमेधिकं चैव गङ्गायां कुरुनन्दन 83 यत्र गङ्गा महाराज स देशस तत तपॊवनम सिद्धक्षेत्रं तु तज जञेयं गङ्गातीरसमाश्रितम 84 इदं सत्यं दविजातीनां साधूनाम आत्मजस्य च सुहृदां च जपेत कर्णे शिष्यस्यानुगतस्य च 85 इदं धर्म्यम इदं पुण्यम इदं मेध्यम इदं सुखम इदं सवर्ग्यम इदं रम्यम इदं पावनम उत्तमम 86 महर्षीणाम इदं गुह्यं सर्पपापप्रमॊचनम अधीत्य दविजमध्ये च निर्मलत्वम अवाप्नुयात 87 यश चेदं शृणुयान नित्यं तीर्थपुण्यं सदा शुचिः जातीः स समरते बह्वीर नाकपृष्ठे च मॊदते 88 गम्यान्य अपि च तीर्थानि कीर्तितान्य अगमानि च मनसा तानि गच्छेत सर्वतीर्थसमीक्षया 89 एतानि वसुभिः साध्यैर आदित्यैर मरुद अश्विभिः ऋषिभिर देवकल्पैश च शरितानि सुकृतैषिभिः 90 एवं तवम अपि कौरव्य विधिनानेन सुव्रत वरज तीर्थानि नियतः पुण्यं पुण्येन वर्धते 91 भावितैः कारणैः पूर्वम आस्तिक्याच छरुति दर्शनात पराप्यन्ते तानि तीर्थानि सद्भिः शिष्टानुदर्शिभिः 92 नाव्रतॊ नाकृतात्मा च नाशुचिर न च तस्करः सनाति तीर्थेषु कौरव्य न च वक्रमतिर नरः 93 तवया तु सम्यग्वृत्तेन नित्यं धर्मार्थदर्शिना पितरस तारितास तात सर्वे च परपिता महाः 94 पिता मह पुरॊगाश च देवाः सर्षिगणा नृप तव धर्मेण धर्मज्ञ नित्यम एवाभितॊषिताः 95 अवाप्स्यसि च लॊकान वै वसूनां वासवॊपम कीर्तिं च महतीं भीष्म पराप्स्यसे भुवि शाश्वतीम 96 [नारद] एवम उक्त्वाभ्यनुज्ञाप्य पुलस्त्यॊ भगवान ऋषिः परीतः परीतेन मनसा तत्रैवान्तरधीयते 97 भीष्मश च कुरुशार्दूल शास्त्रतत्त्वार्थ दर्शिवान पुलस्त्यवचनाच चैव पृथिवीम अनुचक्रमे 98 अनेन विधिना यस तु पृथिवीं संचरिष्यति अश्वमेध शतस्याग्र्यं फलं परेत्य स भॊक्ष्यते 99 अतश चाष्ट गुणं पार्थ पराप्स्यसे धर्मम उत्तमम नेता च तवम ऋषीन यस्मात तेन ते ऽषट गुणं फलम 100 रक्षॊगणावकीर्णानि तीर्थान्य एतानि भारत न गतिर विद्यते ऽनयस्य तवाम ऋते कुरुनन्दन 101 इदं देवर्षिचरितं सर्वतीर्थार्थ संश्रितम यः पठेत कल्यम उत्थाय सर्वपापैः परमुच्यते 102 ऋषिमुख्याः सदा यत्र वाल्मीकिस तव अथ काश्यपः आत्रेयस तव अथ कौण्डिन्यॊ विश्वा मित्रॊ ऽथ गौतमः 103 असितॊ देवलश चैव मार्कण्डेयॊ ऽथ गालवः भरद वाजॊ वसिष्ठश च मुनिर उद्दालकस तथा 104 शौनकः सह पुत्रेण वयासश च जपतां वरः दुर्वासाश च मुनिश्रेष्ठॊ गालवश च महातपः 105 एते ऋषिवराः सर्वे तवत्प्रतीक्षास तपॊधनाः एभिः सह महाराज तीर्थान्य एतान्य अनुव्रज 106 एष वै लॊमशॊ नाम देवर्षिर अमितद्युतिः समेष्यति तवया चैव तेन सार्धम अनुव्रज 107 मया च सहधर्मज्ञ तीर्थान्य एतान्य अनुव्रज पराप्स्यसे महतीं कीर्तिं यथा राजा महाभिषः 108 यथा ययातिर धर्मात्मा यथा राजा पुरूरवः तथा तवं कुरुशार्दूल सवेन धर्मेण शॊभसे 109 यथा भगीरथॊ राजा यथा रामश च विश्रुतः तथा तवं सर्वराजभ्यॊ भराजसे रश्मिवान इव 110 यथा मनुर यथेक्ष्वाकुर यथा पूरुर महायशाः यथा वैन्यॊ महातेजास तथा तवम अपि विश्रुतः 111 यथा च वृत्रहा सर्वान सपत्नान निर्दहत पुरा तथा शत्रुक्षयं कृत्वा परजास तवं पालयिष्यसि 112 सवधर्मविजिताम उर्वीं पराप्य राजीवलॊचन खयातिं यास्यसि धर्मेण कार्तवीर्यार्जुनॊ यथा 113 [व] एवम आश्वास्य राजानं नारदॊ भगवान ऋषिः अनुज्ञाप्य महात्मानं तत्रैवान्तरधीयत 114 युधिष्ठिरॊ ऽपि धर्मात्मा तम एवार्थं विचिन्तयन तीर्थयात्राश्रयं पुण्यम ऋषीणां परत्यवेदयत |
1
[pulastya] atha saṃdhyāṃ samāsādya saṃvedyaṃ tīrtham uttamam upaspṛśya naro vidvān bhaven nāsty atra saṃśayaḥ 2 rāmasya ca prasādena tīrthaṃ rājan kṛtaṃ purā tal lohityaṃ samāsādya vindyād bahusuvarṇakam 3 karatoyāṃ samāsādya trirātropoṣito naraḥ aśvamedham avāpnoti kṛte paitāmahe vidhau 4 gaṅgāyās tv atha rājendra sāgarasya ca saṃgame aśvamedhaṃ daśaguṇaṃ pravadanti manīṣiṇaḥ 5 gaṅgāyās tv aparaṃ dvīpaṃ prāpya yaḥ snāti bhārata trirātropoṣito rājan sarvakāmān avāpnuyāt 6 tato vaitaraṇīṃ gatvā nadīṃ pāpapramocanīm virajaṃ tīrtham āsādya virājati yathā śaśī 7 prabhavec ca kule puṇye sarvapāpaṃ vyapohati gosahasraphalaṃ labdhvā punāti ca kulaṃ naraḥ 8 śoṇasya jyotirathyāś ca saṃgame nivasañ śuciḥ tarpayitvā pitṝn devān agniṣṭoma phalaṃ labhet 9 śoṇasya narmadāyāś ca prabhave kurunandana vaṃśagulma upaspṛśya vājimedhaphalaṃ labhet 10 ṛṣabhaṃ tīrtham āsādya kośalāyāṃ narādhipa vājapeyam avāpnoti trirātropoṣito naraḥ 11 kośalāyāṃ samāsādya kālatīrtha upaspṛśet vṛśabhaikādaśa phalaṃ labhate nātra saṃśayaḥ 12 puṣpavatyām upaspṛśya trirātropoṣito naraḥ gosahasraphalaṃ vindyāt kulaṃ caiva samuddharet 13 tato badarikā tīrthe snātvā prayata mānasaḥ dīrgham āyur avāpnoti svargalokaṃ ca gacchati 14 tato mahendram āsādya jāmadagnya niṣevitam rāma tīrthe naraḥ snātvā vājimedhaphalaṃ labhet 15 mataṅgasya tu kedāras tatraiva kurunandana tatra snātvā naro rājan gosahasraphalaṃ labhet 16 śrīparvataṃ samāsādya nadītīra upaspṛśet aśvamedham avāpnoti svargalokaṃ ca gacchati 17 śrīparvate mahādevo devyā saha mahādyutiḥ nyavasat paramaprīto brahmā ca tridaśair vṛtaḥ 18 tatra deva hrade snātvā śuciḥ prayata mānasaḥ aśvamedham avāpnoti parāṃ siddhiṃ ca gacchati 19 ṛṣabhaṃ parvataṃ gatvā pāṇḍyeṣu surapūjitam vājapeyam avāpnoti nākapṛṣṭhe ca modate 20 tato gaccheta kāverīṃ vṛtām apsarasāṃ gaṇaiḥ tatra snātvā naro rājan gosahasraphalaṃ labhet 21 tatas tīre samudrasya kanyā tīrtha upaspṛśet tatropaspṛśya rājendra sarvapāpaiḥ pramucyate 22 atha gokarṇam āsādya triṣu lokeṣu viśrutam samudramadhye rājendra sarvalokanamaskṛtam 23 yatra brahmādayo devā ṛṣayaś ca tapodhanāḥ bhūtayakṣapiśācāś ca kiṃnarāḥ sa mahoragāḥ 24 siddhacāraṇagandharvā mānuṣāḥ pannagās tathā saritaḥ sāgarāḥ śailā upāsanta umā patim 25 tatreśānaṃ samabhyarcya trirātropoṣito naraḥ daśāśvamedham āpnoti gāṇapatyaṃ ca vindati uṣya dvādaśa rātraṃ tu kṛtātmā bhavate naraḥ 26 tata eva tu gāyatryāḥ sthānaṃ trailokyaviśrutam trirātram uṣitas tatra gosahasraphalaṃ labhet 27 nidarśanaṃ ca pratyakṣaṃ brāhmaṇānāṃ narādhipa gāyatrīṃ paṭhate yas tu yonisaṃkarajas tathā gāthā vā gītikā vāpi tasya saṃpadyate nṛpa 28 saṃvartasya tu viprarṣer vāpīm āsādya durlabhām rūpasya bhāgī bhavati subhagaś caiva jāyate 29 tato veṇṇāṃ samāsādya tarpayet pitṛdevatāḥ mayūrahaṃsasaṃyuktaṃ vimānaṃ labhate naraḥ 30 tato godāvarīṃ prāpya nityaṃ siddhaniṣevitām gavām ayam avāpnoti vāsuker lokam āpnuyāt 31 veṇṇāyāḥ saṃgame snātvā vājapeyaphalaṃ labhet varadā saṃgame snātvā gosahasraphalaṃ labhet 32 brahma sthānaṃ samāsādya trirātram uṣito naraḥ gosahasraphalaṃ vindet svargalokaṃ ca gacchati 33 kuśaplavanam āsādya brahma cārī samāhitaḥ trirātram uṣitaḥ snātvā aśvamedha phalaṃ labhet 34 tato deva hrade ramye kṛṣṇa veṇṇā jalodbhave jātimātrahrade caiva tathā kanyāśrame nṛpa 35 yatra kratuśatair iṣṭvā devarājo divaṃ gataḥ agniṣṭoma śataṃ vinded gamanād eva bhārata 36 sarvadeva hrade snātvā gosahasraphalaṃ labhet jātimātrahrade snātvā bhavej jātismaro naraḥ 37 tato 'vāpya mahāpuṇyāṃ payoṣṇīṃ saritāṃ varām pitṛdevārcana rato gosahasraphalaṃ labhet 38 daṇḍakāraṇyam āsādya mahārāja upaspṛśet gosahasraphalaṃ tatra snātamātrasya bhārata 39 śarabhaṅgāśramaṃ gatvā śukasya ca mahātmanāḥ na durgatim avāpnoti punāti ca kulaṃ naraḥ 40 tataḥ śūrpārakaṃ gacchej jāmadagnya niṣevitam rāma tīrthe naraḥ snātvā vindyād bahusuvarṇakam 41 sapta godāvare snātvā niyato niyatāśanaḥ mahat puṇyam avāpnoti devalokaṃ ca gacchati 42 tato devapathaṃ gacchen niyato niyatāśanaḥ deva satrasya yat puṇyaṃ tad avāpnoti mānavaḥ 43 tuṅgakāraṇyam āsādya brahma cārī jitendriyaḥ vedān adhyāpayat tatra ṛṣiḥ sārasvataḥ purā 44 tatra vedān pranaṣṭāṃs tu muner aṅgirasaḥ sutaḥ upaviṣṭo maharṣīṇām uttarīyeṣu bhārata 45 oṃkāreṇa yathānyāyaṃ samyag uccāritena ca yena yat pūrvam abhyastaṃ tat tasya samupasthitam 46 ṛṣayas tatra devāś ca varuṇo 'gniḥ prajāpatiḥ harir nārāyaṇo devo mahādevas tathaiva ca 47 pitā mahaś ca bhagavān devaiḥ saha mahādyutiḥ bhṛguṃ niyojayām āsa yājanārthe mahādyutim 48 tataḥ sacakre bhagavān ṛṣīṇāṃ vidhivat tadā sarveṣāṃ punar ādhānaṃ vidhidṛṣṭena karmaṇā 49 ājyabhāgena vai tatra tarpitās tu yathāvidhi devās tribhuvaṇaṃ yātā ṛṣayaś ca yathāsukham 50 tad araṇyaṃ praviṣṭasya tuṅgakaṃ rājasattama pāpaṃ praṇaśyate sarvaṃ striyo vā puruṣasya vā 51 tatra māsaṃ vased dhīro niyato niyatāśanaḥ brahmalokaṃ vrajed rājan punīte ca kulaṃ naraḥ 52 medhāvikaṃ samāsādya pitṝn devāṃś ca tarpayet agniṣṭomam avāpnoti smṛtiṃ medhāṃ ca vindati 53 tataḥ kālaṃjaraṃ gatvā parvataṃ lokaviśrutam tatra deva hrade snātvā gosahasraphalaṃ labhet 54 ātmānaṃ sādhayet tatra girau kālaṃjare nṛpa svargaloke mahīyeta naro nāsty atra saṃśayaḥ 55 tato girivaraśreṣṭhe citrakūṭe viśāṃ pate mandākinīṃ samāsādya nadīṃ pāpapramocinīm 56 tatrābhiṣekaṃ kurvāṇaḥ pitṛdevārcane rataḥ aśvamedham avāpnoti gatiṃ ca paramāṃ vrajet 57 tato gaccheta rājendra bhartṛsthānam anuttamam yatra devo mahāseno nityaṃ saṃnihito nṛpaḥ 58 pumāṃs tatra naraśreṣṭha gamanād eva sidhyati koṭitīrthe naraḥ snātvā gosahasraphalaṃ labhet 59 pradakṣiṇam upāvṛtya jyeṣṭhasthānaṃ vrajen naraḥ abhigamya mahādevaṃ virājati yathā śaśī 60 tatra kūpo mahārāja viśruto bharatarṣabha samudrās tatra catvāro nivasanti yudhiṣṭhira 61 tatropaspṛśya rājendra kṛtvā cāpi pradakṣiṇam niyatātmā naraḥ pūto gaccheta paramāṃ gatim 62 tato gacchet kuruśreṣṭha śṛṅgavera puraṃ mahat yatra tīrṇo mahārāja rāmo dāśarathiḥ purā 63 gaṅgāyāṃ tu naraḥ snātvā brahma cārī samāhitaḥ vidhūtapāpmā bhavati vājapeyaṃ ca vindati 64 abhigamya mahādevam abhyarcya ca narādhipa pradakṣiṇam upāvṛtya gāṇapatyam avāpnuyāt 65 tato gaccheta rājendra prayāgam ṛṣisaṃstutam yatra brahmādayo devā diśaś ca sa dig īśvarāḥ 66 lokapālāś ca sādhyāś ca nairṛtāḥ pitaras tathā sanat kumāra pramukhās tathaiva paramarṣayaḥ 67 aṅgiraḥ pramukhāś caiva tathā brahmarṣayo 'pare tathā nāgāḥ suparṇāś ca siddhāś cakracarās tathā 68 saritaḥ sāgarāś caiva gandharvāpsarasas tathā hariś ca bhagavān āste prajāpatipuraskṛtaḥ 69 tatra trīṇy agnikuṇḍāni yeṣāṃ madhye ca jāhnavī prayāgād abhiniṣkrāntā sarvatīrthapuraskṛtā 70 tapanasya sutā tatra triṣu lokeṣu viśrutā yamunā gaṅgayā sārdhaṃ saṃgatā lokapāvanī 71 gaṅgāyamunayor madyaṃ pṛthivyā jaghanaṃ smṛtam prayāgaṃ jaghanasyāntam upastham ṛṣayo viduḥ 72 prayāgaṃ sa pratiṣṭhānaṃ kambalāśvatarau tathā tīrthaṃ bhogavatī caiva vedī proktā prajāpateḥ 73 tatra vedāś ca yajñāś ca mūrtimanto yudhiṣṭhira prajāpatim upāsante ṛṣayaś ca mahāvratāḥ yajante kratubhir devās tathā cakracarā nṛpa 74 tataḥ puṇyatamaṃ nāsti triṣu lokeṣu bhārata prayāgaḥ sarvatīrthebhyaḥ prabhavaty adhikaṃ vibho 75 śravaṇāt tasya tīrthasya nāma saṃkīrtanād api mṛttikā lambhanād vāpi naraḥ pāpāt pramucyate 76 tatrābhiṣekaṃ yaḥ kuryāt saṃgame saṃśitavrataḥ puṇyaṃ saphalam āpnoti rājasūyāśvamedhayoḥ 77 eṣā yajana bhūmir hi devānām api satkṛtā tatra dattaṃ sūkṣmam api mahad bhavati bhārata 78 na veda vacanāt tāta na lokavacanād api matir utkramaṇīyā te prayāgamaraṇaṃ prati 79 daśa tīrthasahasrāṇi ṣaṣṭikoṭtyas tathāparāḥ yeṣāṃ sāṃnidhyam atraiva kīrtitaṃ kurunandana 80 cāturvede ca yat puṇyaṃ satyavādiṣu caiva yat snāta eva tadāpnoti gaṅgā yamuna saṃgame 81 tatra bhogavatī nāma vāsukes tīrtham uttamam tatrābhiṣekaṃ yaḥ kuryāt so 'śvamedham avāpnuyāt 82 tatra haṃsaprapatanaṃ tīrthaṃ trailokyaviśrutam daśāśvamedhikaṃ caiva gaṅgāyāṃ kurunandana 83 yatra gaṅgā mahārāja sa deśas tat tapovanam siddhakṣetraṃ tu taj jñeyaṃ gaṅgātīrasamāśritam 84 idaṃ satyaṃ dvijātīnāṃ sādhūnām ātmajasya ca suhṛdāṃ ca japet karṇe śiṣyasyānugatasya ca 85 idaṃ dharmyam idaṃ puṇyam idaṃ medhyam idaṃ sukham idaṃ svargyam idaṃ ramyam idaṃ pāvanam uttamam 86 maharṣīṇām idaṃ guhyaṃ sarpapāpapramocanam adhītya dvijamadhye ca nirmalatvam avāpnuyāt 87 yaś cedaṃ śṛṇuyān nityaṃ tīrthapuṇyaṃ sadā śuciḥ jātīḥ sa smarate bahvīr nākapṛṣṭhe ca modate 88 gamyāny api ca tīrthāni kīrtitāny agamāni ca manasā tāni gaccheta sarvatīrthasamīkṣayā 89 etāni vasubhiḥ sādhyair ādityair marud aśvibhiḥ ṛṣibhir devakalpaiś ca śritāni sukṛtaiṣibhiḥ 90 evaṃ tvam api kauravya vidhinānena suvrata vraja tīrthāni niyataḥ puṇyaṃ puṇyena vardhate 91 bhāvitaiḥ kāraṇaiḥ pūrvam āstikyāc chruti darśanāt prāpyante tāni tīrthāni sadbhiḥ śiṣṭānudarśibhiḥ 92 nāvrato nākṛtātmā ca nāśucir na ca taskaraḥ snāti tīrtheṣu kauravya na ca vakramatir naraḥ 93 tvayā tu samyagvṛttena nityaṃ dharmārthadarśinā pitaras tāritās tāta sarve ca prapitā mahāḥ 94 pitā maha purogāś ca devāḥ sarṣigaṇā nṛpa tava dharmeṇa dharmajña nityam evābhitoṣitāḥ 95 avāpsyasi ca lokān vai vasūnāṃ vāsavopama kīrtiṃ ca mahatīṃ bhīṣma prāpsyase bhuvi śāśvatīm 96 [nārada] evam uktvābhyanujñāpya pulastyo bhagavān ṛṣiḥ prītaḥ prītena manasā tatraivāntaradhīyate 97 bhīṣmaś ca kuruśārdūla śāstratattvārtha darśivān pulastyavacanāc caiva pṛthivīm anucakrame 98 anena vidhinā yas tu pṛthivīṃ saṃcariṣyati aśvamedha śatasyāgryaṃ phalaṃ pretya sa bhokṣyate 99 ataś cāṣṭa guṇaṃ pārtha prāpsyase dharmam uttamam netā ca tvam ṛṣīn yasmāt tena te 'ṣṭa guṇaṃ phalam 100 rakṣogaṇāvakīrṇāni tīrthāny etāni bhārata na gatir vidyate 'nyasya tvām ṛte kurunandana 101 idaṃ devarṣicaritaṃ sarvatīrthārtha saṃśritam yaḥ paṭhet kalyam utthāya sarvapāpaiḥ pramucyate 102 ṛṣimukhyāḥ sadā yatra vālmīkis tv atha kāśyapaḥ ātreyas tv atha kauṇḍinyo viśvā mitro 'tha gautamaḥ 103 asito devalaś caiva mārkaṇḍeyo 'tha gālavaḥ bharad vājo vasiṣṭhaś ca munir uddālakas tathā 104 śaunakaḥ saha putreṇa vyāsaś ca japatāṃ varaḥ durvāsāś ca muniśreṣṭho gālavaś ca mahātapaḥ 105 ete ṛṣivarāḥ sarve tvatpratīkṣās tapodhanāḥ ebhiḥ saha mahārāja tīrthāny etāny anuvraja 106 eṣa vai lomaśo nāma devarṣir amitadyutiḥ sameṣyati tvayā caiva tena sārdham anuvraja 107 mayā ca sahadharmajña tīrthāny etāny anuvraja prāpsyase mahatīṃ kīrtiṃ yathā rājā mahābhiṣaḥ 108 yathā yayātir dharmātmā yathā rājā purūravaḥ tathā tvaṃ kuruśārdūla svena dharmeṇa śobhase 109 yathā bhagīratho rājā yathā rāmaś ca viśrutaḥ tathā tvaṃ sarvarājabhyo bhrājase raśmivān iva 110 yathā manur yathekṣvākur yathā pūrur mahāyaśāḥ yathā vainyo mahātejās tathā tvam api viśrutaḥ 111 yathā ca vṛtrahā sarvān sapatnān nirdahat purā tathā śatrukṣayaṃ kṛtvā prajās tvaṃ pālayiṣyasi 112 svadharmavijitām urvīṃ prāpya rājīvalocana khyātiṃ yāsyasi dharmeṇa kārtavīryārjuno yathā 113 [v] evam āśvāsya rājānaṃ nārado bhagavān ṛṣiḥ anujñāpya mahātmānaṃ tatraivāntaradhīyata 114 yudhiṣṭhiro 'pi dharmātmā tam evārthaṃ vicintayan tīrthayātrāśrayaṃ puṇyam ṛṣīṇāṃ pratyavedayat |
The Mahabharata in Sanskrit
Book 3
Chapter 84
|
1
[व] भरातॄणां मतम आज्ञाय नारदस्य च धीमतः पिता मह समं धौम्यं पराह राजा युधिष्ठिरः 2 मया स पुरुषव्याघ्रॊ जिष्णुः सत्यपराक्रमः अस्त्रहेतॊर महाबाहुर अमितात्मा विवासितः 3 स हि वीरॊ ऽनुरक्तश च समर्थश च तपॊधन कृती च भृशम अप्य अस्त्रे वासुदेव इव परभुः 4 अहं हय एताव उभौ बरह्मन कृष्णाव अरिनिघातिनौ अभिजानामि विक्रान्तौ तथा वयासः परतापवान तरियुगौ पुण्डरीकाक्षौ वासुदेवधनंजयौ 5 नारदॊ ऽपि तथा वेद सॊ ऽपय अशंसत सदा मम तथाहम अपि जानामि नरनारायणाव ऋषी 6 शक्तॊ ऽयम इत्य अतॊ मत्वा मया संप्रेषितॊ ऽरजुनः इन्द्राद अनवरः शक्तः सुरसूनुः सुराधिपम दरष्टुम अस्त्राणि चादातुम इन्द्राद इति विवासितः 7 भीष्मद्रॊणाव अतिरथौ कृपॊ दरौणिश च दुर्जयः धृतराष्ट्रस्य पुत्रेण वृता युधि महाबलाः सर्वे वेदविदः शूराः सर्वे ऽसत्रकुशलास तथा 8 यॊद्धुकामश च पार्थेन सततं यॊ महाबलः स च दिव्यास्त्रवित कर्णः सूतपुत्रॊ महारथः 9 सॊ ऽशववेगानिल बलः शरार्चिस तलनिष्वनः रजॊ धूमॊ ऽसत्रसंतापॊ धार्तराष्ट्रानिलॊद्धतः 10 निसृष्ट इव कालेन युगान्तज्वलनॊ यथा मम सैन्यमयं कक्षं परधक्ष्यति न संशयः 11 तं स कृष्णानिलॊद्धूतॊ दिव्यास्त्रजलदॊ महान शवेतवाजिबलाका भृद गाण्डीवेन्द्रायुधॊज्ज्वलः 12 सततं शरधाराभिः परदीप्तं कर्ण पावकम उदीर्णॊ ऽरजुन मेघॊ ऽयं शमयिष्यति संयुगे 13 स साक्षाद एव सर्वाणि शक्रात परपुरंजयः दिव्यान्य अस्त्राणि बीभत्सुस तत्त्वतः परतिपत्स्यते 14 अलं स तेषां सर्वेषाम इति मे धीयते मतिः नास्ति तव अतिक्रिया तस्य रणे ऽरीणां परतिक्रिया 15 तं वयं पाण्डवं सर्वे गृहीतास्त्रं धनंजयम दरष्टारॊ न हि बीभत्सुर भारम उद्यम्य सीदति 16 वयं तु तम ऋते वीरं वने ऽसमिन दविपदां वर अवधानं न गच्छामः काम्यके सह कृष्णया 17 भवान अन्यद वनं साधु बह्व अन्नं फलवच छुचि आख्यातु रमणीयं च सेवितं पुण्यकर्मभिः 18 यत्र कं चिद वयं कालं वसन्तः सत्यविक्रमम परतीक्षामॊ ऽरजुनं वीरं वर्षकामा इवाम्बुदम 19 विविधान आश्रमान कांश चिद दविजातिभ्यः परिश्रुतान सरांसि सरितश चैव रमणीयांश च पर्वतान 20 आचक्ष्व न हि नॊ बरह्मन रॊचते तम ऋते ऽरजुनम वने ऽसमिन काम्यके वासॊ गच्छामॊ ऽनयां दिशं परति |
1
[v] bhrātṝṇāṃ matam ājñāya nāradasya ca dhīmataḥ pitā maha samaṃ dhaumyaṃ prāha rājā yudhiṣṭhiraḥ 2 mayā sa puruṣavyāghro jiṣṇuḥ satyaparākramaḥ astrahetor mahābāhur amitātmā vivāsitaḥ 3 sa hi vīro 'nuraktaś ca samarthaś ca tapodhana kṛtī ca bhṛśam apy astre vāsudeva iva prabhuḥ 4 ahaṃ hy etāv ubhau brahman kṛṣṇāv arinighātinau abhijānāmi vikrāntau tathā vyāsaḥ pratāpavān triyugau puṇḍarīkākṣau vāsudevadhanaṃjayau 5 nārado 'pi tathā veda so 'py aśaṃsat sadā mama tathāham api jānāmi naranārāyaṇāv ṛṣī 6 śakto 'yam ity ato matvā mayā saṃpreṣito 'rjunaḥ indrād anavaraḥ śaktaḥ surasūnuḥ surādhipam draṣṭum astrāṇi cādātum indrād iti vivāsitaḥ 7 bhīṣmadroṇāv atirathau kṛpo drauṇiś ca durjayaḥ dhṛtarāṣṭrasya putreṇa vṛtā yudhi mahābalāḥ sarve vedavidaḥ śūrāḥ sarve 'strakuśalās tathā 8 yoddhukāmaś ca pārthena satataṃ yo mahābalaḥ sa ca divyāstravit karṇaḥ sūtaputro mahārathaḥ 9 so 'śvavegānila balaḥ śarārcis talaniṣvanaḥ rajo dhūmo 'strasaṃtāpo dhārtarāṣṭrāniloddhataḥ 10 nisṛṣṭa iva kālena yugāntajvalano yathā mama sainyamayaṃ kakṣaṃ pradhakṣyati na saṃśayaḥ 11 taṃ sa kṛṣṇāniloddhūto divyāstrajalado mahān śvetavājibalākā bhṛd gāṇḍīvendrāyudhojjvalaḥ 12 satataṃ śaradhārābhiḥ pradīptaṃ karṇa pāvakam udīrṇo 'rjuna megho 'yaṃ śamayiṣyati saṃyuge 13 sa sākṣād eva sarvāṇi śakrāt parapuraṃjayaḥ divyāny astrāṇi bībhatsus tattvataḥ pratipatsyate 14 alaṃ sa teṣāṃ sarveṣām iti me dhīyate matiḥ nāsti tv atikriyā tasya raṇe 'rīṇāṃ pratikriyā 15 taṃ vayaṃ pāṇḍavaṃ sarve gṛhītāstraṃ dhanaṃjayam draṣṭāro na hi bībhatsur bhāram udyamya sīdati 16 vayaṃ tu tam ṛte vīraṃ vane 'smin dvipadāṃ vara avadhānaṃ na gacchāmaḥ kāmyake saha kṛṣṇayā 17 bhavān anyad vanaṃ sādhu bahv annaṃ phalavac chuci ākhyātu ramaṇīyaṃ ca sevitaṃ puṇyakarmabhiḥ 18 yatra kaṃ cid vayaṃ kālaṃ vasantaḥ satyavikramam pratīkṣāmo 'rjunaṃ vīraṃ varṣakāmā ivāmbudam 19 vividhān āśramān kāṃś cid dvijātibhyaḥ pariśrutān sarāṃsi saritaś caiva ramaṇīyāṃś ca parvatān 20 ācakṣva na hi no brahman rocate tam ṛte 'rjunam vane 'smin kāmyake vāso gacchāmo 'nyāṃ diśaṃ prati |
The Mahabharata in Sanskrit
Book 3
Chapter 85
|
1
[व] तान सर्वान उत्सुकान दृष्ट्वा पाण्डवान दीनचेतसः आश्वासयंस तदा धौम्यॊ बृहस्पतिसमॊ ऽबरवीत 2 बराह्मणानुमतान पुण्यान आश्रमान भरतर्षभ दिशस तीर्थानि शैलांश च शृणु मे गदतॊ नृप 3 पूर्वं पराचीं दिशं राजन राजर्षिगणसेविताम रम्यां ते कीर्तयिष्यामि युधिष्ठिर यथा समृति 4 तस्यां देवर्षिजुष्टायां नैमिषं नाम भारत यत्र तीर्थानि देवानां सुपुण्यानि पृथक पृथक 5 यत्र सा गॊमती पुण्या रम्या देवर्षिसेविता यज्ञभूमिश च देवानां शामित्रं च विवस्वतः 6 तस्यां गिरिवरः पुण्यॊ गयॊ राजर्षिसत्कृतः शिवं बरह्मसरॊ यत्र सेवितं तरिदशर्षिभिः 7 यदर्थं पुरुषव्याघ्र कीर्तयन्ति पुरातनाः एष्टव्या बहवः पुत्रा यद्य एकॊ ऽपि गयां वरजेत 8 महानदी च तत्रैव तथा गय शिरॊ ऽनघ यथासौ कीर्त्यते विप्रैर अक्षय्य करणॊ वटः यत्र दत्तं पितृभ्यॊ ऽननम अक्षय्यं भवति परभॊ 9 सा च पुण्यजला यत्र फल्गु नामा महानदी बहुमूलफला चापि कौशिकी भरतर्षभ विश्वा मित्रॊ ऽभयगाद यत्र बराह्मणत्वं तपॊधनः 10 गङ्गा यत्र नदी पुण्या यस्यास तीरे भगीरथः अयजत तात बहुभिः करतुभिर भूरिदक्षिणैः 11 पाञ्चालेषु च कौरव्य कथयन्त्य उत्पलावतम विश्वा मित्रॊ ऽयजद यत्र शक्रेण सह कौशिकः यत्रानुवंशं भगवाञ जामदग्न्यस तथा जगौ 12 विश्वामित्रस्य तां दृष्ट्वा विभूतिम अतिमानुषीम कन्य कुब्जे ऽपिबत सॊमम इन्द्रेण सह कौशिकः ततः कषत्राद अपाक्रामद बराह्मणॊ ऽसमीति चाब्रवीत 13 पवित्रम ऋषिभिर जुष्टं पुण्यं पावनम उत्तमम गङ्गायमुनयॊर वीर संगमं लॊकविश्रुतम 14 यत्रायजत भूतात्मा पूर्वम एव पिता महः परयागम इति विख्यातं तस्माद भरतसत्तम 15 अगस्त्यस्य च राजेन्द्र तत्राश्रमवरॊ महान हिरण्यबिन्दुः कथितॊ गिरौ कालंजरे नृप 16 अत्यन्यान पर्वतान राजन पुण्यॊ गिरिवरः शिवः महेन्द्रॊ नाम कौरव्य भार्गवस्य महात्मनः 17 अयजद यत्र कौन्तेय पूर्वम एव पिता महः यत्र भागीरथी पुण्या सदस्यासीद युधिष्ठिर 18 यत्रासौ बरह्म शालेति पुण्या खयाता विशां पतौ धूतपाप्मभिर आकीर्णा पुण्यं तस्याश च दर्शनम 19 पवित्रॊ मङ्गलीयश च खयातॊ लॊके सनातनः केदारश च मतङ्गस्य महान आश्रम उत्तमः 20 कुण्डॊदः पर्वतॊ रम्यॊ बहुमूलफलॊदकः नैषधस तृषितॊ यत्र जलं शर्म च लब्धवान 21 यत्र देव वनं रम्यं तापसैर उपशॊभितम बाहुदा च नदी यत्र नन्दा च गिरिमूर्धनि 22 तीर्थानि सरितः शैलाः पुण्यान्य आयतनानि च पराच्यां दिशि महाराज कीर्तितानि मया तव 23 तिसृष्व अन्यासु पुण्यानि दिक्षु तीर्थानि मे शृणु सरितः पर्वतांश चैव पुण्यान्य आयतनानि च |
1
[v] tān sarvān utsukān dṛṣṭvā pāṇḍavān dīnacetasaḥ āśvāsayaṃs tadā dhaumyo bṛhaspatisamo 'bravīt 2 brāhmaṇānumatān puṇyān āśramān bharatarṣabha diśas tīrthāni śailāṃś ca śṛṇu me gadato nṛpa 3 pūrvaṃ prācīṃ diśaṃ rājan rājarṣigaṇasevitām ramyāṃ te kīrtayiṣyāmi yudhiṣṭhira yathā smṛti 4 tasyāṃ devarṣijuṣṭāyāṃ naimiṣaṃ nāma bhārata yatra tīrthāni devānāṃ supuṇyāni pṛthak pṛthak 5 yatra sā gomatī puṇyā ramyā devarṣisevitā yajñabhūmiś ca devānāṃ śāmitraṃ ca vivasvataḥ 6 tasyāṃ girivaraḥ puṇyo gayo rājarṣisatkṛtaḥ śivaṃ brahmasaro yatra sevitaṃ tridaśarṣibhiḥ 7 yadarthaṃ puruṣavyāghra kīrtayanti purātanāḥ eṣṭavyā bahavaḥ putrā yady eko 'pi gayāṃ vrajet 8 mahānadī ca tatraiva tathā gaya śiro 'nagha yathāsau kīrtyate viprair akṣayya karaṇo vaṭaḥ yatra dattaṃ pitṛbhyo 'nnam akṣayyaṃ bhavati prabho 9 sā ca puṇyajalā yatra phalgu nāmā mahānadī bahumūlaphalā cāpi kauśikī bharatarṣabha viśvā mitro 'bhyagād yatra brāhmaṇatvaṃ tapodhanaḥ 10 gaṅgā yatra nadī puṇyā yasyās tīre bhagīrathaḥ ayajat tāta bahubhiḥ kratubhir bhūridakṣiṇaiḥ 11 pāñcāleṣu ca kauravya kathayanty utpalāvatam viśvā mitro 'yajad yatra śakreṇa saha kauśikaḥ yatrānuvaṃśaṃ bhagavāñ jāmadagnyas tathā jagau 12 viśvāmitrasya tāṃ dṛṣṭvā vibhūtim atimānuṣīm kanya kubje 'pibat somam indreṇa saha kauśikaḥ tataḥ kṣatrād apākrāmad brāhmaṇo 'smīti cābravīt 13 pavitram ṛṣibhir juṣṭaṃ puṇyaṃ pāvanam uttamam gaṅgāyamunayor vīra saṃgamaṃ lokaviśrutam 14 yatrāyajata bhūtātmā pūrvam eva pitā mahaḥ prayāgam iti vikhyātaṃ tasmād bharatasattama 15 agastyasya ca rājendra tatrāśramavaro mahān hiraṇyabinduḥ kathito girau kālaṃjare nṛpa 16 atyanyān parvatān rājan puṇyo girivaraḥ śivaḥ mahendro nāma kauravya bhārgavasya mahātmanaḥ 17 ayajad yatra kaunteya pūrvam eva pitā mahaḥ yatra bhāgīrathī puṇyā sadasyāsīd yudhiṣṭhira 18 yatrāsau brahma śāleti puṇyā khyātā viśāṃ patau dhūtapāpmabhir ākīrṇā puṇyaṃ tasyāś ca darśanam 19 pavitro maṅgalīyaś ca khyāto loke sanātanaḥ kedāraś ca mataṅgasya mahān āśrama uttamaḥ 20 kuṇḍodaḥ parvato ramyo bahumūlaphalodakaḥ naiṣadhas tṛṣito yatra jalaṃ śarma ca labdhavān 21 yatra deva vanaṃ ramyaṃ tāpasair upaśobhitam bāhudā ca nadī yatra nandā ca girimūrdhani 22 tīrthāni saritaḥ śailāḥ puṇyāny āyatanāni ca prācyāṃ diśi mahārāja kīrtitāni mayā tava 23 tisṛṣv anyāsu puṇyāni dikṣu tīrthāni me śṛṇu saritaḥ parvatāṃś caiva puṇyāny āyatanāni ca |
The Mahabharata in Sanskrit
Book 3
Chapter 86
|
1
[धर्म] दक्षिणस्यां तु पुण्यानि शृणु तीर्थनि भारत विस्तरेण यथाबुद्धिकीर्त्यमानानि भारत 2 यस्याम आख्यायते पुण्या दिशि गॊदावरी नदी बह्व आरामा बहु जला तापसाचरिता शुभा 3 वेण्णा भीम रथी चॊभे नद्यौ पापभयापहे मृगद्विजसमाकीर्णे तापसालयभूषिते 4 राजर्षेस तत्र च सरिन नृगस्य भरतर्षभ रम्यतीर्था बहु जला पयॊष्णी दविज सेविता 5 अपि चात्र महायॊगी मार्कण्डेयॊ महातपाः अनुवंष्यां जगौ गाथां नृगस्य धरणी पतेः 6 नृगस्य यजमानस्य परत्यक्षम इति नः शरुतम अमाद्यद इन्द्रः सॊमेन दक्षिणाभिर दविजातयः 7 माठरस्य वनं पुण्यं बहुमूलफलं शिवम यूपश च भरतश्रेष्ठ वरुण सरॊतसे गिरौ 8 परवेण्य उत्तरपार्श्वे तु पुण्ये कण्वाश्रमे तथा तापसानाम अरण्यानि कीर्तितानि यथा शरुति 9 वेदी शूर्पारके तात जमदग्नेर महात्मनः रम्या पाषाण तीर्था च पुरश्चन्द्रा च भारत 10 अशॊक तीर्थं मर्त्येषु कौन्तेय बहुलाश्रमम अगस्त्यतीर्थं पाण्ड्येषु वारुणं च युधिष्ठिर 11 कुमार्यः कथिताः पुण्याः पाण्ड्येष्व एव नरर्षभ ताम्रपर्णीं तु कौन्तेय कीर्तयिष्यामि तां शृणु 12 यत्र देवैस तपस तप्तं महद इच्छद्भिर आश्रमे गॊकर्णम इति विख्यातं तरिषु लॊकेषु भारत 13 शीततॊयॊ बहु जलः पुण्यस तात शिवश च सः हरदः परमदुष्प्रापॊ मानुषैर अकृतात्मभिः 14 तत्रैव तृणसॊमाग्नेः संपन्नफलमूलवान आश्रमॊ ऽगस्त्यशिष्यस्य पुण्यॊ देव सभे गिरौ 15 वैडूर्य पर्वतस तत्र शरीमान मणिमयः शिवः अगस्त्यस्याश्रमश चैव बहुमूलफलॊदकः 16 सुराष्ट्रेष्व अपि वक्ष्यामि पुण्यान्य आयतनानि च आश्रमान सरितः शैलान सरांसि च नराधिप 17 चमसॊन्मज्जनं विप्रास तत्रापि कथयन्त्य उत परभासं चॊदधौ तीर्थं तरिदशानां युधिष्ठिर 18 तत्र पिण्डारकं नाम तापसाचरितं शुभम उज्जयन्तश च शिखरी कषिप्रं सिद्धिकरॊ महान 19 तत्र देवर्षिवर्येण नारदेनानुकीर्तितः पुराणः शरूयते शलॊकस तं निबॊध युधिष्ठिर 20 पुण्ये गिरौ सुराष्ट्रेषु मृगपक्षिनिषेविते उज्जयन्ते सम तप्ताङ्गॊ नाकपृष्ठे महीयते 21 पुण्या दवारवती तत्र यत्रास्ते मधुसूदनः साक्षाद देवः पुराणॊ ऽसौ स हि धर्मः सनातनः 22 ये च वेदविदॊ विप्रा ये चाध्यात्मविदॊ जनाः ते वदन्ति महात्मानं कृष्णं धर्मं सनातनम 23 पवित्राणां हि गॊविन्दः पवित्रं परम उच्यते पुण्यानाम अपि पुण्यॊ ऽसौ मङ्गलानां च मङ्गलम 24 तरैलॊक्यं पुण्डरीकाक्षॊ देवदेवः सनातनः आस्ते हरिर अचिन्त्यात्मा तत्रैव मधुसूदनः |
1
[dharma] dakṣiṇasyāṃ tu puṇyāni śṛṇu tīrthani bhārata vistareṇa yathābuddhikīrtyamānāni bhārata 2 yasyām ākhyāyate puṇyā diśi godāvarī nadī bahv ārāmā bahu jalā tāpasācaritā śubhā 3 veṇṇā bhīma rathī cobhe nadyau pāpabhayāpahe mṛgadvijasamākīrṇe tāpasālayabhūṣite 4 rājarṣes tatra ca sarin nṛgasya bharatarṣabha ramyatīrthā bahu jalā payoṣṇī dvija sevitā 5 api cātra mahāyogī mārkaṇḍeyo mahātapāḥ anuvaṃṣyāṃ jagau gāthāṃ nṛgasya dharaṇī pateḥ 6 nṛgasya yajamānasya pratyakṣam iti naḥ śrutam amādyad indraḥ somena dakṣiṇābhir dvijātayaḥ 7 māṭharasya vanaṃ puṇyaṃ bahumūlaphalaṃ śivam yūpaś ca bharataśreṣṭha varuṇa srotase girau 8 praveṇy uttarapārśve tu puṇye kaṇvāśrame tathā tāpasānām araṇyāni kīrtitāni yathā śruti 9 vedī śūrpārake tāta jamadagner mahātmanaḥ ramyā pāṣāṇa tīrthā ca puraścandrā ca bhārata 10 aśoka tīrthaṃ martyeṣu kaunteya bahulāśramam agastyatīrthaṃ pāṇḍyeṣu vāruṇaṃ ca yudhiṣṭhira 11 kumāryaḥ kathitāḥ puṇyāḥ pāṇḍyeṣv eva nararṣabha tāmraparṇīṃ tu kaunteya kīrtayiṣyāmi tāṃ śṛṇu 12 yatra devais tapas taptaṃ mahad icchadbhir āśrame gokarṇam iti vikhyātaṃ triṣu lokeṣu bhārata 13 śītatoyo bahu jalaḥ puṇyas tāta śivaś ca saḥ hradaḥ paramaduṣprāpo mānuṣair akṛtātmabhiḥ 14 tatraiva tṛṇasomāgneḥ saṃpannaphalamūlavān āśramo 'gastyaśiṣyasya puṇyo deva sabhe girau 15 vaiḍūrya parvatas tatra śrīmān maṇimayaḥ śivaḥ agastyasyāśramaś caiva bahumūlaphalodakaḥ 16 surāṣṭreṣv api vakṣyāmi puṇyāny āyatanāni ca āśramān saritaḥ śailān sarāṃsi ca narādhipa 17 camasonmajjanaṃ viprās tatrāpi kathayanty uta prabhāsaṃ codadhau tīrthaṃ tridaśānāṃ yudhiṣṭhira 18 tatra piṇḍārakaṃ nāma tāpasācaritaṃ śubham ujjayantaś ca śikharī kṣipraṃ siddhikaro mahān 19 tatra devarṣivaryeṇa nāradenānukīrtitaḥ purāṇaḥ śrūyate ślokas taṃ nibodha yudhiṣṭhira 20 puṇye girau surāṣṭreṣu mṛgapakṣiniṣevite ujjayante sma taptāṅgo nākapṛṣṭhe mahīyate 21 puṇyā dvāravatī tatra yatrāste madhusūdanaḥ sākṣād devaḥ purāṇo 'sau sa hi dharmaḥ sanātanaḥ 22 ye ca vedavido viprā ye cādhyātmavido janāḥ te vadanti mahātmānaṃ kṛṣṇaṃ dharmaṃ sanātanam 23 pavitrāṇāṃ hi govindaḥ pavitraṃ param ucyate puṇyānām api puṇyo 'sau maṅgalānāṃ ca maṅgalam 24 trailokyaṃ puṇḍarīkākṣo devadevaḥ sanātanaḥ āste harir acintyātmā tatraiva madhusūdanaḥ |
The Mahabharata in Sanskrit
Book 3
Chapter 87
|
1
[धौम्य] अवन्तिषु परतीच्यां वै कीर्तयिष्यामि ते दिशि यानि तत्र पवित्राणि पुण्यान्य आयतनानि च 2 परियङ्ग्वाम्रवनॊपेता वानीर वनमालिनी परत्यक्स्रॊता नदी पुण्या नर्मदा तत्र भारत 3 निकेतः खयायते पुण्यॊ यत्र विश्रवसॊ मुनेः जज्ञे धनपतिर यत्र कुबेरॊ नरवाहनः 4 वैडूर्य शिखरॊ नाम पुण्यॊ गिरिवरः शुभः दिव्यपुष्पफलास तत्र पादपा हरितछदाः 5 तस्य शैलस्य शिखरे सरस तत्र च धीमतः परफुल्लनलिनं राजन देवगन्धर्वसेवितम 6 बह्वाश्चर्यं महाराज दृश्यते तत्र पर्वते पुण्ये सवर्गॊपमे दिव्ये नित्यं देवर्षिसेविते 7 हरदिनी पुण्यतीर्था च राजर्षेस तत्र वै सरित विश्वा मित्र नदी पारा पुण्या परपुरंजय 8 यस्यास तीरे सतां मध्ये ययातिर नहुषात्मजः पपात स पुनर लॊकाँल लेभे धर्मान सनातनान 9 तत्र पुण्यह्रदस तात मैनाकश चैव पर्वतः बहुमूलफलॊ वीर असितॊ नाम पर्वतः 10 आश्रमः कक्षसेनस्य पुण्यस तत्र युधिष्ठिर चयवनस्याश्रमश चैव खयातः सर्वत्र पाण्डव तत्राल्पेनैव सिध्यन्ति मानवास तपसा विभॊ 11 जम्बू मार्गॊ महाराज ऋषीणां भावितात्मनाम आश्रमः शाम्यतां शरेष्ठ मृगद्विजगणायुतः 12 ततः पुण्यतमा राजन सततं तापसायुता केतुमाला च मेध्या च गङ्गारण्यं च भूमिप 13 खयातं च सैन्धवारण्यं पुण्यं दविजनिषेवितम पिता मह सरः पुण्यं पुष्करं नाम भारत वैखानसानां सिद्धानाम ऋषीणाम आश्रमः परियः 14 अप्य अत्र संस्तवार्थाय परजापतिर अथॊ जगौ पुष्करेषु कुरुश्रेष्ठ गाथां सुकृतिनां वर 15 मनसाप्य अभिकामस्य पुष्कराणि मनस्विनः पापाणि विप्रणश्यन्ति नाकपृष्ठे च मॊदते |
1
[dhaumya] avantiṣu pratīcyāṃ vai kīrtayiṣyāmi te diśi yāni tatra pavitrāṇi puṇyāny āyatanāni ca 2 priyaṅgvāmravanopetā vānīra vanamālinī pratyaksrotā nadī puṇyā narmadā tatra bhārata 3 niketaḥ khyāyate puṇyo yatra viśravaso muneḥ jajñe dhanapatir yatra kubero naravāhanaḥ 4 vaiḍūrya śikharo nāma puṇyo girivaraḥ śubhaḥ divyapuṣpaphalās tatra pādapā haritachadāḥ 5 tasya śailasya śikhare saras tatra ca dhīmataḥ praphullanalinaṃ rājan devagandharvasevitam 6 bahvāścaryaṃ mahārāja dṛśyate tatra parvate puṇye svargopame divye nityaṃ devarṣisevite 7 hradinī puṇyatīrthā ca rājarṣes tatra vai sarit viśvā mitra nadī pārā puṇyā parapuraṃjaya 8 yasyās tīre satāṃ madhye yayātir nahuṣātmajaḥ papāta sa punar lokāṁl lebhe dharmān sanātanān 9 tatra puṇyahradas tāta mainākaś caiva parvataḥ bahumūlaphalo vīra asito nāma parvataḥ 10 āśramaḥ kakṣasenasya puṇyas tatra yudhiṣṭhira cyavanasyāśramaś caiva khyātaḥ sarvatra pāṇḍava tatrālpenaiva sidhyanti mānavās tapasā vibho 11 jambū mārgo mahārāja ṛṣīṇāṃ bhāvitātmanām āśramaḥ śāmyatāṃ śreṣṭha mṛgadvijagaṇāyutaḥ 12 tataḥ puṇyatamā rājan satataṃ tāpasāyutā ketumālā ca medhyā ca gaṅgāraṇyaṃ ca bhūmipa 13 khyātaṃ ca saindhavāraṇyaṃ puṇyaṃ dvijaniṣevitam pitā maha saraḥ puṇyaṃ puṣkaraṃ nāma bhārata vaikhānasānāṃ siddhānām ṛṣīṇām āśramaḥ priyaḥ 14 apy atra saṃstavārthāya prajāpatir atho jagau puṣkareṣu kuruśreṣṭha gāthāṃ sukṛtināṃ vara 15 manasāpy abhikāmasya puṣkarāṇi manasvinaḥ pāpāṇi vipraṇaśyanti nākapṛṣṭhe ca modate |
The Mahabharata in Sanskrit
Book 3
Chapter 88
|
1
[धौम्य] उदीच्यां राजशार्दूल दिशि पुण्यानि यानि वै तानि ते कीर्तयिष्यामि पुण्यान्य आयतनानि च 2 सरस्वती पुण्यवहा हरदिनी वनमालिनी समुद्रगा महावेगा यमुना यत्र पाण्डव 3 तत्र पुण्यतमं तीर्थं पलक्षावतरणं शिवम यत्र सारस्वतैर इष्ट्वा गच्छन्त्य अवभृथं दविजाः 4 पुण्यं चाख्यायते दिव्यं शिवम अग्निशिरॊ ऽनघ सहदेवायजद यत्र शम्य आक्षेपेण भारत 5 एतस्मिन्न एव चार्थेयम इन्द्र गीता युधिष्ठिर गाथा चरति लॊके ऽसमिन गीयमाना दविजातिभिः 6 अग्नयः सहदेवेन ये चिता यमुनाम अनु शतं शतसहस्राणि सहस्रशतदक्षिणाः 7 तत्रैव भरतॊ राजा चक्रवर्ती महायशाः विंशतिं सप्त चाष्टौ च हयमेधान उपाहरत 8 कामकृद यॊ दविजातीनां शरुतस तात मया पुरा अत्यन्तम आश्रमः पुण्यः सरकस तस्य विश्रुतः 9 सरस्वती नदी सद्भिः सततं पार्थ पूजिता वालखिल्यैर महाराज यत्रेष्टम ऋषिभिः पुरा 10 दृषद्वती पुण्यतमा तत्र खयाता युधिष्ठिर तत्र वैवर्ण्य वर्णौ च सुपुण्यौ मनुजाधिप 11 वेदज्ञौ वेद विदितौ दिव्या वेदविदाव उभौ यजन्तौ करतुभिर नित्यं पुण्यैर भरतसत्तम 12 समेत्य बहुशॊ देवाः सेन्द्राः स वरुणाः पुरा विशाख यूपे ऽतप्यन्त तस्मात पुण्यतमः स वै 13 ऋषिर महान महाभागॊ जमदग्निर महायशाः पलाशकेषु पुण्येषु रम्येष्व अयजताभिभूः 14 यत्र सर्वाः सरिच्छ्रेष्ठाः साक्षात तम ऋषिसत्तमम सवं सवं तॊयम उपादाय परिवार्यॊपतस्थिरे 15 अपि चात्र महाराज सवयं विश्वावसुर जगौ इमं शलॊकं तदा वीर परेक्ष्य वीर्यं महात्मनः 16 यजमानस्य वै देवाञ जमदग्नेर महात्मनः आगम्य सरितः सर्वा मधुना समतर्पयन 17 गन्धर्वयक्षरक्षॊभिर अप्सरॊभिश च शॊभितम किरात किंनरावासं शैलं शिखरिणां वरम 18 बिभेद तरसा गङ्गा गङ्गा दवारे युधिष्ठिर पुण्यं तत खयायते राजन बरह्मर्षिगणसेवितम 19 सनत कुमारः कौरव्य पुण्यं कनखलं तथा पर्वतश च पुरुर नाम यत्र जातः पुरूरवः 20 भृगुर यत्र तपस तेपे महर्षिगणसेवितः स राजन्न आश्रमः खयातॊ भृगुतुङ्गॊ महागिरिः 21 यच च भूतं भविष्यच च भवच च पुरुषर्षभ नारायणः परभुर विष्णुः शाश्वतः पुरुषॊत्तमः 22 तस्यातियशसः पुण्यां विशालां बदरीम अनु आश्रमः खयायते पुण्यस तरिषु लॊकेषु विश्रुतः 23 उष्ण तॊयवहा गङ्ग शीततॊयवहापरा सुवर्णसिकता राजन विशालां बदरीम अनु 24 ऋषयॊ यत्र देवाश च महाभागा महौजसः पराप्य नित्यं नमस्यन्ति देवं नारायणं विभुम 25 यत्र नारायणॊ देवः परमात्मा सनातनः तत्र कृत्स्नं जगत पार्थ तीर्थान्य आयतनानि च 26 तत पुण्यं तत्परं बरह्म तत तीर्थं तत तपॊवनम तत्र देवर्षयः सिद्धाः सर्वे चैव तपॊधनाः 27 आदिदेवॊ महायॊगी यत्रास्ते मधुसूदनः पुण्यानाम अपि तत पुण्यं तत्र ते संशयॊ ऽसतु मा 28 एतानि राजन पुण्यानि पृथिव्यां पृथिवीपते कीर्तितानि नरश्रेष्ठ तीर्थान्य आयतनानि च 29 एतानि वसुभिः साध्यैर आदित्यैर मरुद अश्विभिः ऋषिभिर बरह्मकल्पैश च सेवितानि महात्मभिः 30 चरन एतानि कौन्तेय सहितॊ बराह्मणर्षभैः भरातृभिश च महाभागैर उत्कण्ठां विजहिष्यसि |
1
[dhaumya] udīcyāṃ rājaśārdūla diśi puṇyāni yāni vai tāni te kīrtayiṣyāmi puṇyāny āyatanāni ca 2 sarasvatī puṇyavahā hradinī vanamālinī samudragā mahāvegā yamunā yatra pāṇḍava 3 tatra puṇyatamaṃ tīrthaṃ plakṣāvataraṇaṃ śivam yatra sārasvatair iṣṭvā gacchanty avabhṛthaṃ dvijāḥ 4 puṇyaṃ cākhyāyate divyaṃ śivam agniśiro 'nagha sahadevāyajad yatra śamy ākṣepeṇa bhārata 5 etasminn eva cārtheyam indra gītā yudhiṣṭhira gāthā carati loke 'smin gīyamānā dvijātibhiḥ 6 agnayaḥ sahadevena ye citā yamunām anu śataṃ śatasahasrāṇi sahasraśatadakṣiṇāḥ 7 tatraiva bharato rājā cakravartī mahāyaśāḥ viṃśatiṃ sapta cāṣṭau ca hayamedhān upāharat 8 kāmakṛd yo dvijātīnāṃ śrutas tāta mayā purā atyantam āśramaḥ puṇyaḥ sarakas tasya viśrutaḥ 9 sarasvatī nadī sadbhiḥ satataṃ pārtha pūjitā vālakhilyair mahārāja yatreṣṭam ṛṣibhiḥ purā 10 dṛṣadvatī puṇyatamā tatra khyātā yudhiṣṭhira tatra vaivarṇya varṇau ca supuṇyau manujādhipa 11 vedajñau veda viditau divyā vedavidāv ubhau yajantau kratubhir nityaṃ puṇyair bharatasattama 12 sametya bahuśo devāḥ sendrāḥ sa varuṇāḥ purā viśākha yūpe 'tapyanta tasmāt puṇyatamaḥ sa vai 13 ṛṣir mahān mahābhāgo jamadagnir mahāyaśāḥ palāśakeṣu puṇyeṣu ramyeṣv ayajatābhibhūḥ 14 yatra sarvāḥ saricchreṣṭhāḥ sākṣāt tam ṛṣisattamam svaṃ svaṃ toyam upādāya parivāryopatasthire 15 api cātra mahārāja svayaṃ viśvāvasur jagau imaṃ ślokaṃ tadā vīra prekṣya vīryaṃ mahātmanaḥ 16 yajamānasya vai devāñ jamadagner mahātmanaḥ āgamya saritaḥ sarvā madhunā samatarpayan 17 gandharvayakṣarakṣobhir apsarobhiś ca śobhitam kirāta kiṃnarāvāsaṃ śailaṃ śikhariṇāṃ varam 18 bibheda tarasā gaṅgā gaṅgā dvāre yudhiṣṭhira puṇyaṃ tat khyāyate rājan brahmarṣigaṇasevitam 19 sanat kumāraḥ kauravya puṇyaṃ kanakhalaṃ tathā parvataś ca purur nāma yatra jātaḥ purūravaḥ 20 bhṛgur yatra tapas tepe maharṣigaṇasevitaḥ sa rājann āśramaḥ khyāto bhṛgutuṅgo mahāgiriḥ 21 yac ca bhūtaṃ bhaviṣyac ca bhavac ca puruṣarṣabha nārāyaṇaḥ prabhur viṣṇuḥ śāśvataḥ puruṣottamaḥ 22 tasyātiyaśasaḥ puṇyāṃ viśālāṃ badarīm anu āśramaḥ khyāyate puṇyas triṣu lokeṣu viśrutaḥ 23 uṣṇa toyavahā gaṅga śītatoyavahāparā suvarṇasikatā rājan viśālāṃ badarīm anu 24 ṛṣayo yatra devāś ca mahābhāgā mahaujasaḥ prāpya nityaṃ namasyanti devaṃ nārāyaṇaṃ vibhum 25 yatra nārāyaṇo devaḥ paramātmā sanātanaḥ tatra kṛtsnaṃ jagat pārtha tīrthāny āyatanāni ca 26 tat puṇyaṃ tatparaṃ brahma tat tīrthaṃ tat tapovanam tatra devarṣayaḥ siddhāḥ sarve caiva tapodhanāḥ 27 ādidevo mahāyogī yatrāste madhusūdanaḥ puṇyānām api tat puṇyaṃ tatra te saṃśayo 'stu mā 28 etāni rājan puṇyāni pṛthivyāṃ pṛthivīpate kīrtitāni naraśreṣṭha tīrthāny āyatanāni ca 29 etāni vasubhiḥ sādhyair ādityair marud aśvibhiḥ ṛṣibhir brahmakalpaiś ca sevitāni mahātmabhiḥ 30 caran etāni kaunteya sahito brāhmaṇarṣabhaiḥ bhrātṛbhiś ca mahābhāgair utkaṇṭhāṃ vijahiṣyasi |
The Mahabharata in Sanskrit
Book 3
Chapter 89
|
1
[व] एवं संभाषमाणे तु धौम्ये कौरवनन्दन लॊमशः सुमहातेजा ऋषिस तत्राजगाम ह 2 तं पाण्डवाग्रजॊ राजा सगणॊ बराह्मणाश च ते उदतिष्ठन महाभागं दिवि शक्रम इवामराः 3 तम अभ्यर्च्य यथान्यायं धर्मराजॊ युधिष्ठिरः पप्रच्छागमने हेतुम अटने च परयॊजनम 4 स पृष्टः पाण्डुपुत्रेण परीयमाणॊ महामनाः उवाच शलक्ष्णया वाचा हर्षयन्न इव पाण्डवान 5 संचरन्न अस्मि कौन्तेय सर्वलॊकान यदृच्छया गतः शक्रस्य सदनं तत्रापश्यं सुरेश्वरम 6 तव च भरातरं वीरम अपश्यं सव्यसाचिनम शक्रस्यार्धासन गतं तत्र मे विस्मयॊ महान आसीत पुरुषशार्दूल दृष्ट्वा पार्थं तथागतम 7 आह मां तत्र देवेशॊ गच्छ पाण्डुसुतान इति सॊ ऽहम अभ्यागतः कषिप्रं दिदृक्षुस तवां सहानुजम 8 वचनात पुरुहूतस्य पार्थस्य च महात्मनः आख्यास्ये ते परियं तात महत पाण्डवनन्दन 9 भरातृभिः सहितॊ राजन कृष्णया चैव तच छृणु यत तवयॊक्तॊ महाबाहुर अस्त्रार्थं पाण्डवर्षभ 10 तद अस्त्रम आप्तं पार्थेन रुद्राद अप्रतिमं महत यत तद बरह्मशिरॊ नाम तपसा रुद्रम आगतम 11 अमृताद उत्थितं रौद्रं तल लब्धं सव्यसाचिना तत स मन्त्रं स संहारं स परायश्चित्तमङ्गलम 12 वज्रं चान्यानि चास्त्राणि दण्डादीनि युधिष्ठिर यमात कुबेराद वरुणाद इन्द्राच च कुरुनन्दन अस्त्राण्य अधीतवान पार्थॊ दिव्यान्य अमितविक्रमः 13 विश्वावसॊर च तनयाद गीतं नृत्तं च साम च वादित्रं च यथान्यायं परत्यविन्दद यथाविधि 14 एवं कृतास्त्रः कौन्तेयॊ गान्धर्वं वेदम आप्तवान सुखं वसति बीभत्सुर अनुजस्यानुजस तव 15 यदर्थं मां सुरश्रेष्ठ इदं वचनम अब्रवीत तच च ते कथयिष्यामि युधिष्ठिर निबॊध मे 16 भवान मनुष्यलॊकाय गमिष्यति न संशयः बरूयाद युधिष्ठिरं तत्र वचनान मे दविजॊत्तम 17 आगमिष्यति ते भराता कृतास्त्रः कषिप्रम अर्जुनः सुरकार्यं महत कृत्वा यद आशक्यं दिवौकसैः 18 तपसा तु तवम आत्मानं भरातृभिः सह यॊजय तपसॊ हि परं नास्ति तपसा विन्दते महत 19 अहं च कर्णं जानामि यथावद भरतर्षभ न स पार्थस्य संग्रामे कलाम अर्हति षॊडशीम 20 यच चापि ते भयं तस्मान मनसि सथम अरिंदम तच चाप्य अपहरिष्यामि सव्यसाचाव इहागते 21 यच च ते मानसं वीर तीर्थयात्राम इमां परति तच च ते लॊमशः सर्वं कथयिष्यत्य असंशयम 22 यच च किं चित तपॊ युक्तं फलं तीर्थेषु भारत महर्षिर एष यद बरूयात तच छरद्धेयम अनन्यथा |
1
[v] evaṃ saṃbhāṣamāṇe tu dhaumye kauravanandana lomaśaḥ sumahātejā ṛṣis tatrājagāma ha 2 taṃ pāṇḍavāgrajo rājā sagaṇo brāhmaṇāś ca te udatiṣṭhan mahābhāgaṃ divi śakram ivāmarāḥ 3 tam abhyarcya yathānyāyaṃ dharmarājo yudhiṣṭhiraḥ papracchāgamane hetum aṭane ca prayojanam 4 sa pṛṣṭaḥ pāṇḍuputreṇa prīyamāṇo mahāmanāḥ uvāca ślakṣṇayā vācā harṣayann iva pāṇḍavān 5 saṃcarann asmi kaunteya sarvalokān yadṛcchayā gataḥ śakrasya sadanaṃ tatrāpaśyaṃ sureśvaram 6 tava ca bhrātaraṃ vīram apaśyaṃ savyasācinam śakrasyārdhāsana gataṃ tatra me vismayo mahān āsīt puruṣaśārdūla dṛṣṭvā pārthaṃ tathāgatam 7 āha māṃ tatra deveśo gaccha pāṇḍusutān iti so 'ham abhyāgataḥ kṣipraṃ didṛkṣus tvāṃ sahānujam 8 vacanāt puruhūtasya pārthasya ca mahātmanaḥ ākhyāsye te priyaṃ tāta mahat pāṇḍavanandana 9 bhrātṛbhiḥ sahito rājan kṛṣṇayā caiva tac chṛṇu yat tvayokto mahābāhur astrārthaṃ pāṇḍavarṣabha 10 tad astram āptaṃ pārthena rudrād apratimaṃ mahat yat tad brahmaśiro nāma tapasā rudram āgatam 11 amṛtād utthitaṃ raudraṃ tal labdhaṃ savyasācinā tat sa mantraṃ sa saṃhāraṃ sa prāyaścittamaṅgalam 12 vajraṃ cānyāni cāstrāṇi daṇḍādīni yudhiṣṭhira yamāt kuberād varuṇād indrāc ca kurunandana astrāṇy adhītavān pārtho divyāny amitavikramaḥ 13 viśvāvasor ca tanayād gītaṃ nṛttaṃ ca sāma ca vāditraṃ ca yathānyāyaṃ pratyavindad yathāvidhi 14 evaṃ kṛtāstraḥ kaunteyo gāndharvaṃ vedam āptavān sukhaṃ vasati bībhatsur anujasyānujas tava 15 yadarthaṃ māṃ suraśreṣṭha idaṃ vacanam abravīt tac ca te kathayiṣyāmi yudhiṣṭhira nibodha me 16 bhavān manuṣyalokāya gamiṣyati na saṃśayaḥ brūyād yudhiṣṭhiraṃ tatra vacanān me dvijottama 17 āgamiṣyati te bhrātā kṛtāstraḥ kṣipram arjunaḥ surakāryaṃ mahat kṛtvā yad āśakyaṃ divaukasaiḥ 18 tapasā tu tvam ātmānaṃ bhrātṛbhiḥ saha yojaya tapaso hi paraṃ nāsti tapasā vindate mahat 19 ahaṃ ca karṇaṃ jānāmi yathāvad bharatarṣabha na sa pārthasya saṃgrāme kalām arhati ṣoḍaśīm 20 yac cāpi te bhayaṃ tasmān manasi stham ariṃdama tac cāpy apahariṣyāmi savyasācāv ihāgate 21 yac ca te mānasaṃ vīra tīrthayātrām imāṃ prati tac ca te lomaśaḥ sarvaṃ kathayiṣyaty asaṃśayam 22 yac ca kiṃ cit tapo yuktaṃ phalaṃ tīrtheṣu bhārata maharṣir eṣa yad brūyāt tac chraddheyam ananyathā |
The Mahabharata in Sanskrit
Book 3
Chapter 90
|
1
[लॊमष] धनंजयेन चाप्य उक्तं यत तच छृणु युधिष्ठिर युधिष्ठिरं भरातरं मे यॊजयेर धर्म्यया शरिया 2 तवं हि धर्मान परान वेत्थ तपांसि च तपॊधन शरीमतां चापि जानासि राज्ञां धर्मं सनातनम 3 स भवान यत परं वेद पावनं पुरुषान परति तेन संयॊजयेथास तवं तीर्थपुण्येन पाण्डवम 4 यथा तीर्थानि गच्छेत गाश च दद्यात स पार्थिवः तथा सर्वात्मना कार्यम इति मां विजयॊ ऽबरवीत 5 भवता चानुगुप्तॊ ऽसौ चरेत तीर्थानि सर्वशः रक्षॊभ्यॊ रक्षितव्यश च दुर्गेषु विषमेषु च 6 दधीच इव देवेन्द्रं यथा चाप्य अङ्गिरा रविम तथा रक्षस्व कौन्तेयं राक्षसेभ्यॊ दविजॊत्तम 7 यातुधाना हि बहवॊ राक्षसाः पर्वतॊपमाः तवयाभिगुप्तान कौन्तेयान नातिवर्तेयुर अन्तिकात 8 सॊ ऽहम इन्द्रस्य वचनान नियॊगाद अर्जुनस्य च रक्षमाणॊ भयेभ्यस तवां चरिष्यामि तवया सह 9 दविस तीर्थानि मया पूर्वं दृष्टानि कुरुनन्दन इदं तृतीयं दरक्ष्यामि तान्य एव भवता सह 10 इयं राजर्षिभिर याता पुण्यकृद्भिर युधिष्ठिर मन्वादिभिर महाराज तीर्थयात्रा भयापहा 11 नानृजुर नाकृतात्मा च नावैद्यॊ न च पापकृत सनाति तीर्थेषु कौरव्य न च वक्रमतिर नरः 12 तवं तु धर्ममतिर नित्यं धर्मज्ञः सत्यसंगरः विमुक्तः सर्वपापेभ्यॊ भूय एव भविष्यसि 13 यथा भगीरथॊ राजा राजानश च गयादयः यथा ययातिः कौन्तेय तथा तवम अपि पाण्डव 14 [य] न हर्षात संप्रपश्यामि वाक्यस्यास्यॊत्तरं कव चित समरेद धि देवराजॊ यं किंनामाभ्यधिकं ततः 15 भवता संगमॊ यस्य भराता यस्य धनंजयः वासवः समरते यस्य कॊ नामाभ्यधिकस ततः 16 यच च मां भगवान आह तीर्थानां दर्शनं परति धौम्यस्य वचनाद एषा बुद्धिः पूर्वं कृतैव मे 17 तद यदा मन्यसे बरह्मन गमनं तीर्थदर्शने तदैव गन्तास्मि दृढम एष मे निश्चयः परः 18 [व] गमने कृतबुद्धिं तं पाण्डवं लॊमशॊ ऽबरवीत लघुर भव महाराज लघुः सवैरं गमिष्यसि 19 [य] बिक्षा भुजॊ निवर्तन्तां बराह्मणा यतयश च ये ये चाप्य अनुगताः पौरा राजभक्तिपुरस्कृताः 20 धृतराष्ट्रं महाराजम अभिगच्छन्तु चैव ते स दास्यति यथाकालम उचिता यस्य या भृतिः 21 स चेद यथॊचितं वृत्तिं न दद्यान मनुजेश्वरः अस्मत्प्रियहितार्थाय पाञ्चाल्यॊ वः परदास्यति 22 [व] ततॊ भूयिष्ठशः पौरा गुरुभारसमाहिताः विप्राश च यतयॊ युक्ता जग्मुर नागपुरं परति 23 तान सर्वान धर्मराजस्य परेम्णा राजाम्बिका सुतः परतिजग्राह विधिवद धनैश च समतर्पयत 24 ततः कुन्तीसुतॊ राजा लघुभिर बराह्मणैः सह लॊमशेन च सुप्रीतस तरिरात्रं काम्यके ऽवसत |
1
[lomaṣa] dhanaṃjayena cāpy uktaṃ yat tac chṛṇu yudhiṣṭhira yudhiṣṭhiraṃ bhrātaraṃ me yojayer dharmyayā śriyā 2 tvaṃ hi dharmān parān vettha tapāṃsi ca tapodhana śrīmatāṃ cāpi jānāsi rājñāṃ dharmaṃ sanātanam 3 sa bhavān yat paraṃ veda pāvanaṃ puruṣān prati tena saṃyojayethās tvaṃ tīrthapuṇyena pāṇḍavam 4 yathā tīrthāni gaccheta gāś ca dadyāt sa pārthivaḥ tathā sarvātmanā kāryam iti māṃ vijayo 'bravīt 5 bhavatā cānugupto 'sau caret tīrthāni sarvaśaḥ rakṣobhyo rakṣitavyaś ca durgeṣu viṣameṣu ca 6 dadhīca iva devendraṃ yathā cāpy aṅgirā ravim tathā rakṣasva kaunteyaṃ rākṣasebhyo dvijottama 7 yātudhānā hi bahavo rākṣasāḥ parvatopamāḥ tvayābhiguptān kaunteyān nātivarteyur antikāt 8 so 'ham indrasya vacanān niyogād arjunasya ca rakṣamāṇo bhayebhyas tvāṃ cariṣyāmi tvayā saha 9 dvis tīrthāni mayā pūrvaṃ dṛṣṭāni kurunandana idaṃ tṛtīyaṃ drakṣyāmi tāny eva bhavatā saha 10 iyaṃ rājarṣibhir yātā puṇyakṛdbhir yudhiṣṭhira manvādibhir mahārāja tīrthayātrā bhayāpahā 11 nānṛjur nākṛtātmā ca nāvaidyo na ca pāpakṛt snāti tīrtheṣu kauravya na ca vakramatir naraḥ 12 tvaṃ tu dharmamatir nityaṃ dharmajñaḥ satyasaṃgaraḥ vimuktaḥ sarvapāpebhyo bhūya eva bhaviṣyasi 13 yathā bhagīratho rājā rājānaś ca gayādayaḥ yathā yayātiḥ kaunteya tathā tvam api pāṇḍava 14 [y] na harṣāt saṃprapaśyāmi vākyasyāsyottaraṃ kva cit smared dhi devarājo yaṃ kiṃnāmābhyadhikaṃ tataḥ 15 bhavatā saṃgamo yasya bhrātā yasya dhanaṃjayaḥ vāsavaḥ smarate yasya ko nāmābhyadhikas tataḥ 16 yac ca māṃ bhagavān āha tīrthānāṃ darśanaṃ prati dhaumyasya vacanād eṣā buddhiḥ pūrvaṃ kṛtaiva me 17 tad yadā manyase brahman gamanaṃ tīrthadarśane tadaiva gantāsmi dṛḍham eṣa me niścayaḥ paraḥ 18 [v] gamane kṛtabuddhiṃ taṃ pāṇḍavaṃ lomaśo 'bravīt laghur bhava mahārāja laghuḥ svairaṃ gamiṣyasi 19 [y] bikṣā bhujo nivartantāṃ brāhmaṇā yatayaś ca ye ye cāpy anugatāḥ paurā rājabhaktipuraskṛtāḥ 20 dhṛtarāṣṭraṃ mahārājam abhigacchantu caiva te sa dāsyati yathākālam ucitā yasya yā bhṛtiḥ 21 sa ced yathocitaṃ vṛttiṃ na dadyān manujeśvaraḥ asmatpriyahitārthāya pāñcālyo vaḥ pradāsyati 22 [v] tato bhūyiṣṭhaśaḥ paurā gurubhārasamāhitāḥ viprāś ca yatayo yuktā jagmur nāgapuraṃ prati 23 tān sarvān dharmarājasya premṇā rājāmbikā sutaḥ pratijagrāha vidhivad dhanaiś ca samatarpayat 24 tataḥ kuntīsuto rājā laghubhir brāhmaṇaiḥ saha lomaśena ca suprītas trirātraṃ kāmyake 'vasat |
The Mahabharata in Sanskrit
Book 3
Chapter 91
|
1
[व] ततः परयान्तं कौन्तेयं बराह्मणा वनवासिनः अभिगम्य तदा राजन्न इदं वचनम अब्रुवन 2 राजंस तीर्थानि गन्तासि पुण्यानि भरातृभिः सह देवैषिणा च सहितॊ लॊमशेन महात्मना 3 अस्मान अपि महाराजन नेतुम अर्हसि पाण्डव अस्माभिर हि न शक्यानि तवदृते तानि कौरव 4 शवापदैर उपसृष्टानि दुर्गाणि विषमाणि च अगम्यानि नरैर अल्पैस तीर्थानि मनुजेश्वर 5 भवन्तॊ भरातरः शूरा धनुर्धर वराः सदा भवद्भिः पालिताः शूरैर गच्छेम वयम अप्य उत 6 भवत्प्रसादाद धि वयं पराप्नुयाम फलं शुभम तीर्थानां पृथिवीपाल वरतानां च विशां पतौ 7 तव वीर्यपरित्राताः शुद्धास तीर्थपरिप्लुताः भवेम धूतपाप्मानस तीर्थसंदर्शनान नृप 8 भवान अपि नरेन्द्रस्य कार्तवीर्यस्य भारत अष्टकस्य च राजर्षेर लॊम पादस्य चैव ह 9 भारतस्य च वीरस्य सार्वभौमस्य पार्थिव धरुवं पराप्स्यसि दुष्प्रापाँल लॊकांस तीर्थपरिप्लुतः 10 परभासादीनि तीर्थानि महेन्द्रादींश च पर्वतान गङ्गाद्याः सरितश चैव पलक्षादींश च वनस्पतीन तवया सह महीपाल दरष्टुम इच्छामहे वयम 11 यदि ते बराह्मणेष्व अस्ति का चित परीतिर जनाधिप कुरु कषिप्रं वचॊ ऽसमाकं ततः शरेयॊ ऽभिपत्स्यसे 12 तीर्थानि हि महाबाहॊ तपॊविघ्नकरैः सदा अनुकीर्णानि रक्षॊभिस तेभ्यॊ नस तरातुम अर्हसि 13 तीर्थान्य उक्तानि धौम्येन नारदेन च धीमता यान्य उवाच च देवर्षिर लॊमशः सुमहातपाः 14 विधिवत तानि सर्वाणि पर्यटस्व नराधिप धूतपाप्मा सहास्माभिर लॊमशेन च पालितः 15 स तथा पूज्यमानस तैर हर्षाद अश्रुपरिप्लुतः भीमसेनादिभिर वीरैर भरातृभिः परिवारितः बाढम इत्य अब्रवीत सर्वांस तान ऋषीन पाण्डवर्षभः 16 लॊमशं समनुज्ञाप्य धौम्यं चैव पुरॊहितम ततः स पाण्डवश्रेष्ठॊ भरातृभिः सहितॊ वशी दरौपद्या चानवद्याङ्ग्या गमनाय मनॊ दधे 17 अथ वयासॊ महाभागस तथा नारद पर्वतौ काम्यके पाण्डवं दरष्टुं समाजग्मुर मनीषिणः 18 तेषां युधिष्ठिरॊ राजा पूजां चक्रे यथाविधि सत्कृतास ते महाभागा युधिष्ठिरम अथाब्रुवन 19 युधिष्ठिर यमौ भीम मनसा कुरुतार्जवम मनसा कृतशौचा वौ शुद्धास तीर्थानि गच्छत 20 शरीरनियमं हय आहुर बराह्मणा मानुषं वरतम मनॊविशुद्धां बुद्धिं च दैवम आहुर वरतं दविजाः 21 मनॊ हय अदुष्टं शूराणां पर्याप्तं वै नराधिप मैत्रीं बुद्धिं समास्थाय शुद्धास तीर्थानि गच्छत 22 ते यूयं मानसैः शुद्धाः शरीरनियम वरतैः दैवं वरतं समास्थाय यथॊक्तं फलम आप्स्यथ 23 ते तथेति परतिज्ञाय कृष्णया सह पाण्डवाः कृतस्वस्त्ययनाः सर्वे मुनिभिर दिव्यमानुषैः 24 लॊमशस्यॊपसंगृह्य पादौ दवैपायनस्य च नारदस्य च राजेन्द्र देवर्षेः पर्वतस्य च 25 धौम्येन सहिता वीरास तथान्यैर वनवासिभिः मार्गशीर्ष्याम अतीतायां पुष्येण परययुस ततः 26 कठिनानि समादाय चीराजिनजटाधराः अभेद्यैः कवचैर युक्तास तीर्थान्य अन्वचरंस तदा 27 इन्द्रसेनादिभिर भृत्यै रथैः परिचतुर्दशैः महानस वयापृतैश च तथान्यैः परिचारकैः 28 सायुधा बद्धनिष्ट्रिंशास तूणवन्तः स मार्गणाः पराङ मुखाः परययुर वीराः पाण्डवा जनमेजय |
1
[v] tataḥ prayāntaṃ kaunteyaṃ brāhmaṇā vanavāsinaḥ abhigamya tadā rājann idaṃ vacanam abruvan 2 rājaṃs tīrthāni gantāsi puṇyāni bhrātṛbhiḥ saha devaiṣiṇā ca sahito lomaśena mahātmanā 3 asmān api mahārājan netum arhasi pāṇḍava asmābhir hi na śakyāni tvadṛte tāni kaurava 4 śvāpadair upasṛṣṭāni durgāṇi viṣamāṇi ca agamyāni narair alpais tīrthāni manujeśvara 5 bhavanto bhrātaraḥ śūrā dhanurdhara varāḥ sadā bhavadbhiḥ pālitāḥ śūrair gacchema vayam apy uta 6 bhavatprasādād dhi vayaṃ prāpnuyāma phalaṃ śubham tīrthānāṃ pṛthivīpāla vratānāṃ ca viśāṃ patau 7 tava vīryaparitrātāḥ śuddhās tīrthapariplutāḥ bhavema dhūtapāpmānas tīrthasaṃdarśanān nṛpa 8 bhavān api narendrasya kārtavīryasya bhārata aṣṭakasya ca rājarṣer loma pādasya caiva ha 9 bhāratasya ca vīrasya sārvabhaumasya pārthiva dhruvaṃ prāpsyasi duṣprāpāṁl lokāṃs tīrthapariplutaḥ 10 prabhāsādīni tīrthāni mahendrādīṃś ca parvatān gaṅgādyāḥ saritaś caiva plakṣādīṃś ca vanaspatīn tvayā saha mahīpāla draṣṭum icchāmahe vayam 11 yadi te brāhmaṇeṣv asti kā cit prītir janādhipa kuru kṣipraṃ vaco 'smākaṃ tataḥ śreyo 'bhipatsyase 12 tīrthāni hi mahābāho tapovighnakaraiḥ sadā anukīrṇāni rakṣobhis tebhyo nas trātum arhasi 13 tīrthāny uktāni dhaumyena nāradena ca dhīmatā yāny uvāca ca devarṣir lomaśaḥ sumahātapāḥ 14 vidhivat tāni sarvāṇi paryaṭasva narādhipa dhūtapāpmā sahāsmābhir lomaśena ca pālitaḥ 15 sa tathā pūjyamānas tair harṣād aśrupariplutaḥ bhīmasenādibhir vīrair bhrātṛbhiḥ parivāritaḥ bāḍham ity abravīt sarvāṃs tān ṛṣīn pāṇḍavarṣabhaḥ 16 lomaśaṃ samanujñāpya dhaumyaṃ caiva purohitam tataḥ sa pāṇḍavaśreṣṭho bhrātṛbhiḥ sahito vaśī draupadyā cānavadyāṅgyā gamanāya mano dadhe 17 atha vyāso mahābhāgas tathā nārada parvatau kāmyake pāṇḍavaṃ draṣṭuṃ samājagmur manīṣiṇaḥ 18 teṣāṃ yudhiṣṭhiro rājā pūjāṃ cakre yathāvidhi satkṛtās te mahābhāgā yudhiṣṭhiram athābruvan 19 yudhiṣṭhira yamau bhīma manasā kurutārjavam manasā kṛtaśaucā vau śuddhās tīrthāni gacchata 20 śarīraniyamaṃ hy āhur brāhmaṇā mānuṣaṃ vratam manoviśuddhāṃ buddhiṃ ca daivam āhur vrataṃ dvijāḥ 21 mano hy aduṣṭaṃ śūrāṇāṃ paryāptaṃ vai narādhipa maitrīṃ buddhiṃ samāsthāya śuddhās tīrthāni gacchata 22 te yūyaṃ mānasaiḥ śuddhāḥ śarīraniyama vrataiḥ daivaṃ vrataṃ samāsthāya yathoktaṃ phalam āpsyatha 23 te tatheti pratijñāya kṛṣṇayā saha pāṇḍavāḥ kṛtasvastyayanāḥ sarve munibhir divyamānuṣaiḥ 24 lomaśasyopasaṃgṛhya pādau dvaipāyanasya ca nāradasya ca rājendra devarṣeḥ parvatasya ca 25 dhaumyena sahitā vīrās tathānyair vanavāsibhiḥ mārgaśīrṣyām atītāyāṃ puṣyeṇa prayayus tataḥ 26 kaṭhināni samādāya cīrājinajaṭādharāḥ abhedyaiḥ kavacair yuktās tīrthāny anvacaraṃs tadā 27 indrasenādibhir bhṛtyai rathaiḥ paricaturdaśaiḥ mahānasa vyāpṛtaiś ca tathānyaiḥ paricārakaiḥ 28 sāyudhā baddhaniṣṭriṃśās tūṇavantaḥ sa mārgaṇāḥ prāṅ mukhāḥ prayayur vīrāḥ pāṇḍavā janamejaya |
The Mahabharata in Sanskrit
Book 3
Chapter 92
|
1
[य] न वै निर्गुणम आत्मानं मन्ये देवर्षिसत्तम तथास्मि दुःखसंतप्तॊ यथा नान्यॊ महीपतिः 2 परांश च निर्गुणान मन्ये न च धर्मरतान अपि ते च लॊमश लॊके ऽसमिन्न ऋध्यन्ते केन केतुना 3 [ल] नात्र दुःखं तवया राजन कार्यं पार्थ कथं चन यद अधर्मेण वर्धेरन्न अधर्मरुचयॊ जनाः 4 वर्धत्य अधर्मेण नरस ततॊ भद्राणि पश्यति ततः सपत्नाञ जयति स मूलस तु विनश्यति 5 मया हि दृष्टा दैतेया दानवाश च महीपते वर्धमाना हय अधर्मेण कषयं चॊपगताः पुनः 6 पुरा देवयुगे चैव दृष्टं सर्वं मया विभॊ अरॊचयन सुरा धर्मं धर्मं तत्यजिरे ऽसुराः 7 तीर्थानि देवा विविशुर नाविशन भारतासुराः तान अधर्मकृतॊ दर्पः पूर्वम एव समाविशत 8 दर्पान मानः समभवन मानात करॊधॊ वयजायत करॊधाद अह्रीस ततॊ ऽलज्जा वृत्तं तेषां ततॊ ऽनशत 9 तान अलज्जान गतह्रीकान हीनवृत्तान वृथा वरतान कषमा लक्ष्मीश च धर्मश च नचिरात परजहुस ततः लक्ष्मीस तु देवान अगमद अलक्ष्मीर असुरान नृप 10 तान अलक्ष्मी समाविष्टान दर्पॊपहत चेतसः दैतेयान दानवांश चैव कलिर अप्य आविशत ततः 11 तान अलक्ष्मी समाविष्टान दानवान कलिना तथा दर्पाभिभूतान कौन्तेय करिया हीनान अचेतसः 12 मानाभिभूतान अचिराद विनाशः परत्यपद्यत निर्यशस्यास ततॊ दैत्याः कृत्स्नशॊ विलयं गताः 13 देवास तु सागरांश चैव सरितश च सरांसि च अभ्यगच्छन धर्मशीलाः पुण्यान्य आयतनानि च 14 तपॊभिः करतुभिर दानैर आशीर्वादैश च पाण्डव परजहुः सर्वपापाणि शरेयश च परतिपेदिरे 15 एवं हि दानवन्तश च करियावन्तश च सर्वशः तीर्थान्य अगच्छन विबुधास तेनापुर भूतिम उत्तमाम 16 तथा तवम अपि राजेन्द्र सनात्वा तीर्थेषु सानुजः पुनर वेत्स्यसि तां लक्ष्मीम एष पन्थाः सनातनः 17 यथैव हि नृगॊ राजा शिबिर औशीनरॊ यथा भगीरथॊ वसु मना गयः पूरुः पुरूरवः 18 चरमाणास तपॊनित्यं सपर्शनाद अम्भसश च ते तीर्थाभिगमनात पूता दर्शनाच च महात्मनाम 19 अलभन्त यशः पुण्यं धनानि च विशां पते तथा तवम अपि राजेन्द्र लब्धासि विपुलां शरियम 20 यथा चेक्ष्वाकुर अचरत सपुत्रजनबान्धवः मुचुकुन्दॊ ऽथ मान्धाता मरुत्तश च महीपतिः 21 कीर्तिं पुण्याम अविन्दन्त यथा देवास तपॊबलात देवर्षयश च कार्त्स्न्येन तथा तवम अपि वेत्स्यसे 22 धार्तराष्ट्रास तु दर्पेण मॊहेन च वशीकृताः नचिराद विनशिष्यन्ति दैत्या इव न संशयः |
1
[y] na vai nirguṇam ātmānaṃ manye devarṣisattama tathāsmi duḥkhasaṃtapto yathā nānyo mahīpatiḥ 2 parāṃś ca nirguṇān manye na ca dharmaratān api te ca lomaśa loke 'sminn ṛdhyante kena ketunā 3 [l] nātra duḥkhaṃ tvayā rājan kāryaṃ pārtha kathaṃ cana yad adharmeṇa vardherann adharmarucayo janāḥ 4 vardhaty adharmeṇa naras tato bhadrāṇi paśyati tataḥ sapatnāñ jayati sa mūlas tu vinaśyati 5 mayā hi dṛṣṭā daiteyā dānavāś ca mahīpate vardhamānā hy adharmeṇa kṣayaṃ copagatāḥ punaḥ 6 purā devayuge caiva dṛṣṭaṃ sarvaṃ mayā vibho arocayan surā dharmaṃ dharmaṃ tatyajire 'surāḥ 7 tīrthāni devā viviśur nāviśan bhāratāsurāḥ tān adharmakṛto darpaḥ pūrvam eva samāviśat 8 darpān mānaḥ samabhavan mānāt krodho vyajāyata krodhād ahrīs tato 'lajjā vṛttaṃ teṣāṃ tato 'naśat 9 tān alajjān gatahrīkān hīnavṛttān vṛthā vratān kṣamā lakṣmīś ca dharmaś ca nacirāt prajahus tataḥ lakṣmīs tu devān agamad alakṣmīr asurān nṛpa 10 tān alakṣmī samāviṣṭān darpopahata cetasaḥ daiteyān dānavāṃś caiva kalir apy āviśat tataḥ 11 tān alakṣmī samāviṣṭān dānavān kalinā tathā darpābhibhūtān kaunteya kriyā hīnān acetasaḥ 12 mānābhibhūtān acirād vināśaḥ pratyapadyata niryaśasyās tato daityāḥ kṛtsnaśo vilayaṃ gatāḥ 13 devās tu sāgarāṃś caiva saritaś ca sarāṃsi ca abhyagacchan dharmaśīlāḥ puṇyāny āyatanāni ca 14 tapobhiḥ kratubhir dānair āśīrvādaiś ca pāṇḍava prajahuḥ sarvapāpāṇi śreyaś ca pratipedire 15 evaṃ hi dānavantaś ca kriyāvantaś ca sarvaśaḥ tīrthāny agacchan vibudhās tenāpur bhūtim uttamām 16 tathā tvam api rājendra snātvā tīrtheṣu sānujaḥ punar vetsyasi tāṃ lakṣmīm eṣa panthāḥ sanātanaḥ 17 yathaiva hi nṛgo rājā śibir auśīnaro yathā bhagīratho vasu manā gayaḥ pūruḥ purūravaḥ 18 caramāṇās taponityaṃ sparśanād ambhasaś ca te tīrthābhigamanāt pūtā darśanāc ca mahātmanām 19 alabhanta yaśaḥ puṇyaṃ dhanāni ca viśāṃ pate tathā tvam api rājendra labdhāsi vipulāṃ śriyam 20 yathā cekṣvākur acarat saputrajanabāndhavaḥ mucukundo 'tha māndhātā maruttaś ca mahīpatiḥ 21 kīrtiṃ puṇyām avindanta yathā devās tapobalāt devarṣayaś ca kārtsnyena tathā tvam api vetsyase 22 dhārtarāṣṭrās tu darpeṇa mohena ca vaśīkṛtāḥ nacirād vinaśiṣyanti daityā iva na saṃśayaḥ |
The Mahabharata in Sanskrit
Book 3
Chapter 93
|
1
[व] ते तथा सहिता वीरा वसन्तस तत्र तत्र ह करमेण पृथिवीपाल नैमिषारण्यम आगताः 2 ततस तीर्थेषु पुण्येषु गॊमत्याः पाण्डवा नृप कृताभिषेकाः परददुर गाश च वित्तं च भारत 3 तत्र देवान पितॄन विप्रांस तर्पयित्वा पुनः पुनः कन्या तीर्थे ऽशवतीर्थे च गवां तीर्थे च कौरवाः 4 वालकॊट्यां वृषप्रस्थे गिराव उष्य च पाण्डवाः बाहुदायां महीपाल चक्रुः सर्वे ऽभिषेचनम 5 परयागे देवयजने देवानां पृथिवीपते ऊषुर आप्लुत्य गात्राणि तपश चातस्थुर उत्तमम 6 गङ्गायमुनयॊश चैव संगमे सत्यसंगराः विपाप्मानॊ महात्मानॊ विप्रेभ्यः परददुर वसु 7 तपस्विजनजुष्टां च ततॊ वेदीं परजापतेः जग्मुः पाण्डुसुता राजन बराह्मणैः सह भारत 8 तत्र ते नयवसन वीरास तपश चातस्थुर उत्तमम संतर्पयन्तः सततं वन्येन हविषा दविजान 9 ततॊ महीधरं जग्मुर धर्मज्ञेनाभिसत्कृतम राजर्षिणा पुण्यकृता गयेनानुपम दयुते 10 सरॊ गय शिरॊ यत्र पुण्या चैव महानदी ऋषिजुष्टं सुपुण्यं तत तीर्थं बरह्मसरॊत्तमम 11 अगस्त्यॊ भगवान यत्र गतॊ वैवस्वतं परति उवास च सवयं यत्र धर्मॊ राजन सनातनः 12 सर्वासां सरितां चैव समुद्भेदॊ विशां पते यत्र संनिहितॊ नित्यं महादेवः पिनाक धृक 13 तत्र ते पाण्डवा वीराश चातुर्मास्यैस तदेजिरे ऋषियज्ञेन महता यत्राक्षयवतॊ महान 14 बराह्मणास तत्र शतशः समाजग्मुस तपॊधनाः चातुर्मास्येनायजन्त आर्षेण विधिना तदा 15 तत्र विद्या तपॊनित्या बराह्मणा वेदपारगाः कथाः परचक्रिरे पुण्याः सदसि सथा महात्मनाम 16 तत्र विद्याव्रतस्नातः कौमारं वरतम आस्थितः शमठॊ ऽकथयद राजन्न अमूर्त रयसं गयम 17 अमूर्त रयसः पुत्रॊ गयॊ राजर्षिसत्तमः पुण्यानि यस्य कर्माणि तानि मे शृणु भारत 18 यस्य यज्ञॊ बभूवेह बह्व अन्नॊ बहु दक्षिणः यत्रान्न पर्वता राजञ शतशॊ ऽथ सहस्रशः 19 घृतकुल्याश च दध्नश च नद्यॊ बहुशतास तथा वयञ्जनानां परवाहाश च महार्हाणां सहस्रशः 20 अहन्य अहनि चाप्य एतद याचतां संप्रदीयते अन्यत तु बराह्मणा राजन भुञ्जते ऽननं सुसंस्कृतम 21 तत्र वै दक्षिणा काले बरह्मघॊषॊ दिवं गतः न सम परज्ञायते किं चिद बरह्म शब्देन भारत 22 पुण्येन चरता राजन भूर दिशः खं नभस तथा आपूर्णम आसीच छब्देन तद अप्य आसीन महाद्भुतम 23 तत्र सम गाथा गायन्ति मनुष्या भरतर्षभ अन्नपानैः शुभैस तृप्ता देशे देशे सुवर्चसः 24 गयस्य यज्ञे के तव अद्य पराणिनॊ भॊक्तुम ईप्सवः यत्र भॊजनशिष्टस्य पर्वताः पञ्चविंशतिः 25 न सम पूर्वे जनाश चक्रुर न करिष्यन्ति चापरे गयॊ यद अकरॊद यज्ञे राजर्षिर अमितद्युतिः 26 कथं नु देवा हविषा गयेन परितर्पिताः पुनः शक्ष्यन्त्य उपादातुम अन्यैर दत्तानि कानि चित 27 एवंविधाः सुबहवस तस्य यज्ञे महात्मनः बभूवुर अस्य सरसः समीपे कुरुनन्दन |
1
[v] te tathā sahitā vīrā vasantas tatra tatra ha krameṇa pṛthivīpāla naimiṣāraṇyam āgatāḥ 2 tatas tīrtheṣu puṇyeṣu gomatyāḥ pāṇḍavā nṛpa kṛtābhiṣekāḥ pradadur gāś ca vittaṃ ca bhārata 3 tatra devān pitṝn viprāṃs tarpayitvā punaḥ punaḥ kanyā tīrthe 'śvatīrthe ca gavāṃ tīrthe ca kauravāḥ 4 vālakoṭyāṃ vṛṣaprasthe girāv uṣya ca pāṇḍavāḥ bāhudāyāṃ mahīpāla cakruḥ sarve 'bhiṣecanam 5 prayāge devayajane devānāṃ pṛthivīpate ūṣur āplutya gātrāṇi tapaś cātasthur uttamam 6 gaṅgāyamunayoś caiva saṃgame satyasaṃgarāḥ vipāpmāno mahātmāno viprebhyaḥ pradadur vasu 7 tapasvijanajuṣṭāṃ ca tato vedīṃ prajāpateḥ jagmuḥ pāṇḍusutā rājan brāhmaṇaiḥ saha bhārata 8 tatra te nyavasan vīrās tapaś cātasthur uttamam saṃtarpayantaḥ satataṃ vanyena haviṣā dvijān 9 tato mahīdharaṃ jagmur dharmajñenābhisatkṛtam rājarṣiṇā puṇyakṛtā gayenānupama dyute 10 saro gaya śiro yatra puṇyā caiva mahānadī ṛṣijuṣṭaṃ supuṇyaṃ tat tīrthaṃ brahmasarottamam 11 agastyo bhagavān yatra gato vaivasvataṃ prati uvāsa ca svayaṃ yatra dharmo rājan sanātanaḥ 12 sarvāsāṃ saritāṃ caiva samudbhedo viśāṃ pate yatra saṃnihito nityaṃ mahādevaḥ pināka dhṛk 13 tatra te pāṇḍavā vīrāś cāturmāsyais tadejire ṛṣiyajñena mahatā yatrākṣayavato mahān 14 brāhmaṇās tatra śataśaḥ samājagmus tapodhanāḥ cāturmāsyenāyajanta ārṣeṇa vidhinā tadā 15 tatra vidyā taponityā brāhmaṇā vedapāragāḥ kathāḥ pracakrire puṇyāḥ sadasi sthā mahātmanām 16 tatra vidyāvratasnātaḥ kaumāraṃ vratam āsthitaḥ śamaṭho 'kathayad rājann amūrta rayasaṃ gayam 17 amūrta rayasaḥ putro gayo rājarṣisattamaḥ puṇyāni yasya karmāṇi tāni me śṛṇu bhārata 18 yasya yajño babhūveha bahv anno bahu dakṣiṇaḥ yatrānna parvatā rājañ śataśo 'tha sahasraśaḥ 19 ghṛtakulyāś ca dadhnaś ca nadyo bahuśatās tathā vyañjanānāṃ pravāhāś ca mahārhāṇāṃ sahasraśaḥ 20 ahany ahani cāpy etad yācatāṃ saṃpradīyate anyat tu brāhmaṇā rājan bhuñjate 'nnaṃ susaṃskṛtam 21 tatra vai dakṣiṇā kāle brahmaghoṣo divaṃ gataḥ na sma prajñāyate kiṃ cid brahma śabdena bhārata 22 puṇyena caratā rājan bhūr diśaḥ khaṃ nabhas tathā āpūrṇam āsīc chabdena tad apy āsīn mahādbhutam 23 tatra sma gāthā gāyanti manuṣyā bharatarṣabha annapānaiḥ śubhais tṛptā deśe deśe suvarcasaḥ 24 gayasya yajñe ke tv adya prāṇino bhoktum īpsavaḥ yatra bhojanaśiṣṭasya parvatāḥ pañcaviṃśatiḥ 25 na sma pūrve janāś cakrur na kariṣyanti cāpare gayo yad akarod yajñe rājarṣir amitadyutiḥ 26 kathaṃ nu devā haviṣā gayena paritarpitāḥ punaḥ śakṣyanty upādātum anyair dattāni kāni cit 27 evaṃvidhāḥ subahavas tasya yajñe mahātmanaḥ babhūvur asya sarasaḥ samīpe kurunandana |
The Mahabharata in Sanskrit
Book 3
Chapter 94
|
1
[व] ततः संप्रस्थितॊ राजा कौन्तेयॊ भूरिदक्षिणः अगस्त्याश्रमम आसाद्य दुर्जयायाम उवास ह 2 तत्र वै लॊमशं राजा पप्रच्छ वदतां वरः अगस्त्येनेह वातापिः किमर्थम उपशामितः 3 आसीद वा किंप्रभावश च स दैत्यॊ मानवान्तकः किमर्थं चॊद्गतॊ मन्युर अगस्त्यस्य महात्मनः 4 [ल] इल्वलॊ नाम दैतेय आसीत कौरवनन्दन मणिमत्यां पुरि पुरा वातापिस तस्य चानुजः 5 स बराह्मणं तपॊ युक्तम उवाच दितिनन्दनः पुत्रं मे भगवान एकम इन्द्र तुल्यं परयच्छतु 6 तस्मै स बराह्मणॊ नादात पुत्रं वासव संमितम चुक्रॊध सॊ ऽसुरस तस्य बराह्मणस्य ततॊ भृशम 7 समाह्वयति यं वाचा गतं वैवस्वतक्षयम स पुनर देहम आस्थाय जीवन सम परतिदृश्यते 8 ततॊ वातापिम असुरं छागं कृत्वा सुसंस्कृतम तं बराह्मणं भॊजयित्वा पुनर एव समाह्वयत 9 तस्य पार्श्वं विनिर्भिद्य बराह्मणस्य महासुरः वातापिः परहसन राजन निश्चक्राम विशां पते 10 एवं स बराह्मणान राजन भॊजयित्वा पुनः पुनः हिंसयाम आस दैतेय इल्वलॊ दुष्टचेतनः 11 अगस्त्यश चापि भगवान एतस्मिन काल एव तु पितॄन ददर्श गर्ते वै लम्बमानान अधॊमुखान 12 सॊ ऽपृच्छल लम्बमानांस तान भवन्त इह किं पराः संतानहेतॊर इति ते तम ऊचुर बरह्मवादिनः 13 ते तस्मै कथयाम आसुर वयं ते पितरः सवकाः गर्तम एतम अनुप्राप्ता लम्बामः परसवार्थिनः 14 यदि नॊ जनयेथास तवम अगस्त्यापत्यम उत्तमम सयान नॊ ऽसमान निरयान मॊक्षस तवं च पुत्राप्नुया गतिम 15 स तान उवाच तेजस्वी सत्यधर्मपरायणः करिष्ये पितरः कामं वयेतु वॊ मानसॊ जवरः 16 ततः परसव संतानं चिन्तयन भगवान ऋषिः आत्मनः परसवस्यार्थे नापश्यत सदृशीं सत्रियम 17 स तस्य तस्य सत्त्वस्य तत तद अङ्गम अनुत्तमम संभृत्य तत समैर अङ्गैर निर्ममे सत्रियम उत्तमाम 18 स तां विदर्भराजाय पुत्र कामाय ताम्यते निर्मिताम आत्मनॊ ऽरथाय मुनिः परादान महातपः 19 सा तत्र जज्ञे सुभगा विद्युत्सौदामनी यथा विभ्राजमाना वपुसा वयवर्धत शुभानना 20 जातमात्रां च तां दृष्ट्वा वैदर्भः पृथिवीपतिः परहर्षेण दविजातिभ्यॊ नयवेदयत भारत 21 अभ्यनन्दन्त तां सर्वे बराह्मणा वसुधाधिप लॊपामुद्रेति तस्याश च चक्रिरे नाम ते दविजाः 22 ववृधे सा महाराज बिभ्रती रूपम उत्तमम अप्स्व इवॊत्पलिनी शीघ्रम अग्नेर इव शिखा शुभा 23 तां यौवनस्थां राजेन्द्र शतं कन्याः सवलंकृताः दाशी शतं च कल्याणीम उपतस्थुर वशानुगाः 24 सा च दासी शतवृता मध्ये कन्याशतस्य च आस्ते तेजस्विनी कन्या रॊहिणीव दिवि परभॊ 25 यौवनस्थाम अपि च तां शीलाचार समन्विताम न वव्रे पुरुषः कश चिद भयात तस्य महात्मनः 26 सा तु सत्यवती कन्या रूपेणाप्सरसॊ ऽपय अति तॊषयाम आस पितरं शीलेन सवजनं तथा 27 वैदर्भीं तु तथायुक्तां युवतीं परेक्ष्य वै पिता मनसा चिन्तयाम आस कस्मै दद्यां सुताम इति |
1
[v] tataḥ saṃprasthito rājā kaunteyo bhūridakṣiṇaḥ agastyāśramam āsādya durjayāyām uvāsa ha 2 tatra vai lomaśaṃ rājā papraccha vadatāṃ varaḥ agastyeneha vātāpiḥ kimartham upaśāmitaḥ 3 āsīd vā kiṃprabhāvaś ca sa daityo mānavāntakaḥ kimarthaṃ codgato manyur agastyasya mahātmanaḥ 4 [l] ilvalo nāma daiteya āsīt kauravanandana maṇimatyāṃ puri purā vātāpis tasya cānujaḥ 5 sa brāhmaṇaṃ tapo yuktam uvāca ditinandanaḥ putraṃ me bhagavān ekam indra tulyaṃ prayacchatu 6 tasmai sa brāhmaṇo nādāt putraṃ vāsava saṃmitam cukrodha so 'suras tasya brāhmaṇasya tato bhṛśam 7 samāhvayati yaṃ vācā gataṃ vaivasvatakṣayam sa punar deham āsthāya jīvan sma pratidṛśyate 8 tato vātāpim asuraṃ chāgaṃ kṛtvā susaṃskṛtam taṃ brāhmaṇaṃ bhojayitvā punar eva samāhvayat 9 tasya pārśvaṃ vinirbhidya brāhmaṇasya mahāsuraḥ vātāpiḥ prahasan rājan niścakrāma viśāṃ pate 10 evaṃ sa brāhmaṇān rājan bhojayitvā punaḥ punaḥ hiṃsayām āsa daiteya ilvalo duṣṭacetanaḥ 11 agastyaś cāpi bhagavān etasmin kāla eva tu pitṝn dadarśa garte vai lambamānān adhomukhān 12 so 'pṛcchal lambamānāṃs tān bhavanta iha kiṃ parāḥ saṃtānahetor iti te tam ūcur brahmavādinaḥ 13 te tasmai kathayām āsur vayaṃ te pitaraḥ svakāḥ gartam etam anuprāptā lambāmaḥ prasavārthinaḥ 14 yadi no janayethās tvam agastyāpatyam uttamam syān no 'smān nirayān mokṣas tvaṃ ca putrāpnuyā gatim 15 sa tān uvāca tejasvī satyadharmaparāyaṇaḥ kariṣye pitaraḥ kāmaṃ vyetu vo mānaso jvaraḥ 16 tataḥ prasava saṃtānaṃ cintayan bhagavān ṛṣiḥ ātmanaḥ prasavasyārthe nāpaśyat sadṛśīṃ striyam 17 sa tasya tasya sattvasya tat tad aṅgam anuttamam saṃbhṛtya tat samair aṅgair nirmame striyam uttamām 18 sa tāṃ vidarbharājāya putra kāmāya tāmyate nirmitām ātmano 'rthāya muniḥ prādān mahātapaḥ 19 sā tatra jajñe subhagā vidyutsaudāmanī yathā vibhrājamānā vapusā vyavardhata śubhānanā 20 jātamātrāṃ ca tāṃ dṛṣṭvā vaidarbhaḥ pṛthivīpatiḥ praharṣeṇa dvijātibhyo nyavedayata bhārata 21 abhyanandanta tāṃ sarve brāhmaṇā vasudhādhipa lopāmudreti tasyāś ca cakrire nāma te dvijāḥ 22 vavṛdhe sā mahārāja bibhratī rūpam uttamam apsv ivotpalinī śīghram agner iva śikhā śubhā 23 tāṃ yauvanasthāṃ rājendra śataṃ kanyāḥ svalaṃkṛtāḥ dāśī śataṃ ca kalyāṇīm upatasthur vaśānugāḥ 24 sā ca dāsī śatavṛtā madhye kanyāśatasya ca āste tejasvinī kanyā rohiṇīva divi prabho 25 yauvanasthām api ca tāṃ śīlācāra samanvitām na vavre puruṣaḥ kaś cid bhayāt tasya mahātmanaḥ 26 sā tu satyavatī kanyā rūpeṇāpsaraso 'py ati toṣayām āsa pitaraṃ śīlena svajanaṃ tathā 27 vaidarbhīṃ tu tathāyuktāṃ yuvatīṃ prekṣya vai pitā manasā cintayām āsa kasmai dadyāṃ sutām iti |
The Mahabharata in Sanskrit
Book 3
Chapter 95
|
1
[ल] यदा तव अमन्यतागस्त्यॊ गार्हस्थ्ये तां कषमाम इति तदाभिगम्य परॊवाच वैदर्भं पृथिवीपतिम 2 राजन निवेशे बुद्धिर मे वर्तते पुत्रकारणात वरये तवां महीपाल लॊपामुद्रां परयच्छ मे 3 एवम उक्तः स मुनिना महीपालॊ विचेतनः परत्याख्यानाय चाशक्तः परदातुम अपि नैच्छत 4 ततः सभार्याम अभ्येत्य परॊवाच पृथिवीपतिः महर्षिर वीर्यवान एष करुद्धः शापाग्निना दहेत 5 तं तथा दुःखितं दृष्ट्वा सभार्यं पृथिवीपतिम लॊपामुद्राभिगम्येदं काले वचनम अब्रवीत 6 न मत्कृते महीपाल पीडाम अभ्येतुम अर्हसि परयच्छ माम अगस्त्याय तराह्य आत्मानं मया पितः 7 दुहितुर वचनाद राजा सॊ ऽगस्त्याय महात्मने लॊपामुद्रां ततः परादाद विधिपूर्वं विशां पते 8 पराप्य भार्याम अगस्त्यस तु लॊपामुद्राम अभाषत महार्हाण्य उत्सृजैतानि वासांस्य आभरणानि च 9 ततः सा दर्शनीयानि महार्हाणि तनूनि च समुत्ससर्ज रम्भॊरुर वसनान्य आयतेक्षणा 10 ततश चीराणि जग्राह वल्कलान्य अजिनानि च समानव्रतचर्या च बभूवायत लॊचना 11 गङ्गा दवारम अथागम्य भगवान ऋषिसत्तमः उग्रम आतिष्ठत तपः सह पत्न्यानुकूलया 12 सा परीत्या बहुमानाच च पतिं पर्यचरत तदा अगस्त्यश च परां परीतिं भार्यायाम अकरॊत परभुः 13 ततॊ बहुतिथे काले लॊपामुद्रां विशां पते तपसा दयॊतितां सनातां ददर्श भगवान ऋषिः 14 स तस्याः परिचारेण शौचेन च दमेन च शरिया रूपेण च परीतॊ मैथुनायाजुहाव ताम 15 ततः सा पराञ्जलिर भूत्वा लज्जमानेव भामिनी तदा स परणयं वाक्यं भगवन्तम अथाब्रवीत 16 असंशयं परजा हेतॊर भार्यां पतिर अविन्दत या तु तवयि मम परीतिस ताम ऋषे कर्तुम अर्हसि 17 यथा पितुर गृहे विप्र परासादे शयनं मम तथाविधे तवं शयने माम उपेतुम इहार्हसि 18 इच्छामि तवां सरग्विणं च भूषणैश च विभूषितम उपसर्तुं यथाकामं दिव्याभरणभूषिता 19 [अ] न वै धनानि विद्यन्ते लॊपामुद्रे तथा मम यथाविधानि कल्याणि पितुर तव सुमध्यमे 20 [लॊप] ईशॊ ऽसि तपसा सर्वं समाहर्तुम इहेश्वर कषणेन जीवलॊके यद वसु किं चन विद्यते 21 [अ] एवम एतद यथात्थ तवं तपॊ वययकरं तु मे यथा तु मे न नश्येत तपस तन मां परचॊदय 22 [लॊप] अल्पावशिष्टः कालॊ ऽयम ऋतौ मम तपॊधन न चान्यथाहम इच्छामि तवाम उपेतुं कथं चन 23 न चापि धर्मम इच्छामि विलॊप्तुं ते तपॊधन एतत तु मे यथाकामं संपादयितुम अर्हसि 24 यद्य एष कामः सुभगे तव बुद्ध्या विनिश चितः हन्त गच्छाम्य अहं भद्रे चर कामम इह सथिता |
1
[l] yadā tv amanyatāgastyo gārhasthye tāṃ kṣamām iti tadābhigamya provāca vaidarbhaṃ pṛthivīpatim 2 rājan niveśe buddhir me vartate putrakāraṇāt varaye tvāṃ mahīpāla lopāmudrāṃ prayaccha me 3 evam uktaḥ sa muninā mahīpālo vicetanaḥ pratyākhyānāya cāśaktaḥ pradātum api naicchata 4 tataḥ sabhāryām abhyetya provāca pṛthivīpatiḥ maharṣir vīryavān eṣa kruddhaḥ śāpāgninā dahet 5 taṃ tathā duḥkhitaṃ dṛṣṭvā sabhāryaṃ pṛthivīpatim lopāmudrābhigamyedaṃ kāle vacanam abravīt 6 na matkṛte mahīpāla pīḍām abhyetum arhasi prayaccha mām agastyāya trāhy ātmānaṃ mayā pitaḥ 7 duhitur vacanād rājā so 'gastyāya mahātmane lopāmudrāṃ tataḥ prādād vidhipūrvaṃ viśāṃ pate 8 prāpya bhāryām agastyas tu lopāmudrām abhāṣata mahārhāṇy utsṛjaitāni vāsāṃsy ābharaṇāni ca 9 tataḥ sā darśanīyāni mahārhāṇi tanūni ca samutsasarja rambhorur vasanāny āyatekṣaṇā 10 tataś cīrāṇi jagrāha valkalāny ajināni ca samānavratacaryā ca babhūvāyata locanā 11 gaṅgā dvāram athāgamya bhagavān ṛṣisattamaḥ ugram ātiṣṭhata tapaḥ saha patnyānukūlayā 12 sā prītyā bahumānāc ca patiṃ paryacarat tadā agastyaś ca parāṃ prītiṃ bhāryāyām akarot prabhuḥ 13 tato bahutithe kāle lopāmudrāṃ viśāṃ pate tapasā dyotitāṃ snātāṃ dadarśa bhagavān ṛṣiḥ 14 sa tasyāḥ paricāreṇa śaucena ca damena ca śriyā rūpeṇa ca prīto maithunāyājuhāva tām 15 tataḥ sā prāñjalir bhūtvā lajjamāneva bhāminī tadā sa praṇayaṃ vākyaṃ bhagavantam athābravīt 16 asaṃśayaṃ prajā hetor bhāryāṃ patir avindata yā tu tvayi mama prītis tām ṛṣe kartum arhasi 17 yathā pitur gṛhe vipra prāsāde śayanaṃ mama tathāvidhe tvaṃ śayane mām upetum ihārhasi 18 icchāmi tvāṃ sragviṇaṃ ca bhūṣaṇaiś ca vibhūṣitam upasartuṃ yathākāmaṃ divyābharaṇabhūṣitā 19 [a] na vai dhanāni vidyante lopāmudre tathā mama yathāvidhāni kalyāṇi pitur tava sumadhyame 20 [lop] īśo 'si tapasā sarvaṃ samāhartum iheśvara kṣaṇena jīvaloke yad vasu kiṃ cana vidyate 21 [a] evam etad yathāttha tvaṃ tapo vyayakaraṃ tu me yathā tu me na naśyeta tapas tan māṃ pracodaya 22 [lop] alpāvaśiṣṭaḥ kālo 'yam ṛtau mama tapodhana na cānyathāham icchāmi tvām upetuṃ kathaṃ cana 23 na cāpi dharmam icchāmi viloptuṃ te tapodhana etat tu me yathākāmaṃ saṃpādayitum arhasi 24 yady eṣa kāmaḥ subhage tava buddhyā viniś citaḥ hanta gacchāmy ahaṃ bhadre cara kāmam iha sthitā |
The Mahabharata in Sanskrit
Book 3
Chapter 96
|
1
[लॊमष] ततॊ जगाम कौरव्य सॊ ऽगस्त्यॊ भिक्षितुं वसु शरुतर्वाणं महीपालं यं वेदाभ्यधिकं नृपैः 2 स विदित्वा तु नृपतिः कुम्भयॊनिम उपागमत विषयान्ते सहामात्यः परत्यगृह्णात सुसत कृतम 3 तस्मै चार्घ्यं यथान्यायम आनीय पृथिवीपतिः पराञ्जलिः परयतॊ भूत्वा पप्रच्छागमने ऽरथि ताम 4 [अ] वित्तार्थिनम अनुप्राप्तं विद्धि मां पृथिवीपते यथाशक्त्य अविहिंस्यान्यान संविभागं परयच्छ मे 5 [लॊम] तत आयव्ययौ पूर्णौ तस्मै राजा नयवेदयत अतॊ विद्वन्न उपादत्स्व यद अत्र वसु मन्यसे 6 तत आयव्ययौ दृष्ट्वा समौ सममतिर दविजः सर्वथा पराणिनां पीडाम उपादानाद अमन्यत 7 स शरुतर्वाणम आदाय वध्र्य अश्वम अगमत ततः स च तौ विषयस्यान्ते परत्यगृह्णाद यथाविधि 8 तयॊर अर्घ्यं च पाद्यं च वध्र्यश्वः परत्यवेदयत अनुज्ञाप्य च पप्रच्छ परयॊजनम उपक्रमे 9 [अ] वित्तकामाव इह पराप्तौ विद्ध्य आवां पृथिवीपते यथाशक्त्य अविहिंस्यान्यान संविभागं परयच्छ नौ 10 [लॊम] तत आयव्ययौ पूर्णौ ताभ्यां राजा नयवेदयत ततॊ जञात्वा समादत्तां यद अत्र वयतिरिच्यते 11 तत आयव्ययौ दृष्ट्वा समौ सममतिर दविजः सर्वथा पराणिनां पीडाम उपादानाद अमन्यत 12 पौरुकुत्सं ततॊ जग्मुस तरसदस्युं महाधनम अगस्त्यश च शरुतर्वा च वध्र्य अश्वश च महीपतिः 13 तरसदस्युश च तान सर्वान परत्यगृह्णाद यथाविधि अभिगम्य महाराज विषयान्ते स वाहनः 14 अर्चयित्वा यथान्यायम इक्ष्वाकू राजसत्तमः समाश्वस्तांस ततॊ ऽपृच्छत परयॊजनम उपक्रमे 15 [अ] वित्तकामान इह पराप्तान विद्धि नः पृथिवीपते यथाशक्त्य अविहिंस्यान्यान संविभागं परयच्छ नः 16 [लॊम] तत आयव्ययौ पूर्णौ तेषां राजा नयवेदयत अतॊ जञात्वा समादद्ध्वं यद अत्र वयतिरिच्यते 17 तत आयव्ययौ दृष्ट्वा समौ सममतिर दविजः सर्वथा पराणिनां पीडाम उपादानाद अमन्यत 18 ततः सर्वे समेत्याथ ते नृपास तं महामुनिम इदम ऊचुर महाराज समवेक्ष्य परस्परम 19 अयं वै दानवॊ बरह्मन्न इल्वलॊ वसुमान भुवि तम अभिक्रम्य सर्वे ऽदय वयं याचामहे वसु 20 तेषां तदासीद रुचितम इल्वलस्यॊपभिक्षणम ततस ते सहिता राजन्न इल्वलं समुपाद्रवन |
1
[lomaṣa] tato jagāma kauravya so 'gastyo bhikṣituṃ vasu śrutarvāṇaṃ mahīpālaṃ yaṃ vedābhyadhikaṃ nṛpaiḥ 2 sa viditvā tu nṛpatiḥ kumbhayonim upāgamat viṣayānte sahāmātyaḥ pratyagṛhṇāt susat kṛtam 3 tasmai cārghyaṃ yathānyāyam ānīya pṛthivīpatiḥ prāñjaliḥ prayato bhūtvā papracchāgamane 'rthi tām 4 [a] vittārthinam anuprāptaṃ viddhi māṃ pṛthivīpate yathāśakty avihiṃsyānyān saṃvibhāgaṃ prayaccha me 5 [lom] tata āyavyayau pūrṇau tasmai rājā nyavedayat ato vidvann upādatsva yad atra vasu manyase 6 tata āyavyayau dṛṣṭvā samau samamatir dvijaḥ sarvathā prāṇināṃ pīḍām upādānād amanyata 7 sa śrutarvāṇam ādāya vadhry aśvam agamat tataḥ sa ca tau viṣayasyānte pratyagṛhṇād yathāvidhi 8 tayor arghyaṃ ca pādyaṃ ca vadhryaśvaḥ pratyavedayat anujñāpya ca papraccha prayojanam upakrame 9 [a] vittakāmāv iha prāptau viddhy āvāṃ pṛthivīpate yathāśakty avihiṃsyānyān saṃvibhāgaṃ prayaccha nau 10 [lom] tata āyavyayau pūrṇau tābhyāṃ rājā nyavedayat tato jñātvā samādattāṃ yad atra vyatiricyate 11 tata āyavyayau dṛṣṭvā samau samamatir dvijaḥ sarvathā prāṇināṃ pīḍām upādānād amanyata 12 paurukutsaṃ tato jagmus trasadasyuṃ mahādhanam agastyaś ca śrutarvā ca vadhry aśvaś ca mahīpatiḥ 13 trasadasyuś ca tān sarvān pratyagṛhṇād yathāvidhi abhigamya mahārāja viṣayānte sa vāhanaḥ 14 arcayitvā yathānyāyam ikṣvākū rājasattamaḥ samāśvastāṃs tato 'pṛcchat prayojanam upakrame 15 [a] vittakāmān iha prāptān viddhi naḥ pṛthivīpate yathāśakty avihiṃsyānyān saṃvibhāgaṃ prayaccha naḥ 16 [lom] tata āyavyayau pūrṇau teṣāṃ rājā nyavedayat ato jñātvā samādaddhvaṃ yad atra vyatiricyate 17 tata āyavyayau dṛṣṭvā samau samamatir dvijaḥ sarvathā prāṇināṃ pīḍām upādānād amanyata 18 tataḥ sarve sametyātha te nṛpās taṃ mahāmunim idam ūcur mahārāja samavekṣya parasparam 19 ayaṃ vai dānavo brahmann ilvalo vasumān bhuvi tam abhikramya sarve 'dya vayaṃ yācāmahe vasu 20 teṣāṃ tadāsīd rucitam ilvalasyopabhikṣaṇam tatas te sahitā rājann ilvalaṃ samupādravan |
The Mahabharata in Sanskrit
Book 3
Chapter 97
|
1
[ल] इल्वलस तान विदित्वा तु महर्षिसहितान नृपान उपस्थितान सहामात्यॊ विषयान्ते ऽभयपूजयत 2 तेषां ततॊ ऽसुर शरेष्ठ आतिथ्यम अकरॊत तदा स संस्कृतेन कौरव्य भरात्रा वातापिना किल 3 ततॊ राजर्षयः सर्वे विषण्णा गतचेतसः वातापिं संस्कृतं दृष्ट्वा मेषभूतं महासुरम 4 अथाब्रवीद अगस्त्यस तान राजर्षीन ऋषिसत्तमः विषादॊ वॊ न कर्तव्यॊ अहं भॊक्ष्ये महासुरम 5 धुर्यासनम अथासाद्य निषसाद महामुनिः तं पर्यवेषद दैत्येन्द्र इल्वलः परहसन्न इव 6 अगस्त्य एव कृत्स्नं तु वातापिं बुभुजे ततः भुक्तवत्य असुरॊ ऽऽहवानम अकरॊत तस्य इल्वलः 7 ततॊ वायुः परादुरभूद अगस्त्यस्य महात्मनः इल्वलश च विषण्णॊ ऽभूद दृष्ट्वा जीर्णं महासुरम 8 पराञ्जलिश च सहामात्यैर इदं वचनम अब्रवीत किमर्थम उपयाताः सथ बरूत किं करवाणि वः 9 परत्युवाच ततॊ ऽगस्त्यः परहसन्न इल्वलं तदा ईशं हय असुर विद्मस तवां वयं सर्वे धनेश्वरम 10 इमे च नातिधनिनॊ धनार्थश च महान मम यथाशक्त्य अविहिंस्यान्यान संविभागं परयच्छ नः 11 ततॊ ऽभिवाद्य तम ऋषिम इल्वलॊ वाक्यम अब्रवीत दित्सितं यदि वेत्सि तवं ततॊ दास्यामि ते वसु 12 [अ] गवां दशसहस्राणि राज्ञाम एकैकशॊ ऽसुर तावद एव सुवर्णस्य दित्सितं ते महासुर 13 मह्यं ततॊ वै दविगुणं रथश चैव हिरन मयः मनॊजवौ वाजिनौ च दित्सितं ते महासुर जिज्ञास्यतां रथः सद्यॊ वयक्तम एष हिरन मयः 14 [ल] जिज्ञास्यमानः स रथः कौन्तेयासीद धिरन मयः ततः परव्यथितॊ दैत्यॊ ददाव अभ्यधिकं वसु 15 विवाजश च सुवाजश च तस्मिन युक्तौ रथे हयौ ऊहतुस तौ वसून्य आशु तान्य अगस्त्याश्रमं परति सर्वान राज्ञः सहागस्त्यान निमेषाद इव भारत 16 अगस्त्येनाभ्यनुज्ञाता जग्मू राजर्षयस तदा कृतवांश च मुनिः सर्वं लॊपामुद्रा चिकीर्षितम 17 [लॊप] कृतवान असि तत सर्वं भगवन मम काङ्क्षितम उत्पादय सकृन मह्यम अपत्यं वीर्यवत्तरम 18 [अ] तुष्टॊ ऽहम अस्मि कल्याणि तववृत्तेन शॊभने विचारणाम अपत्ये तु तव वक्ष्यामि तां शृणु 19 सहस्रं ते ऽसतु पुत्राणां शतं वा दश संमितम दशवा शततुल्याः सयुर एकॊ वापि सहस्रवत 20 [लॊप] सहस्रसंमितः पुत्र एकॊ मे ऽसतु तपॊधन एकॊ हि बहुभिः शरेयान विद्वान साधुर असाधुभिः 21 [लॊमष] स तथेति परतिज्ञाय तया समभवन मुनिः समये समशीलिन्या शरद्धावाञ शरद्दधानया 22 तत आधाय गर्भं तम अगमद वनम एव सः तस्मिन वनगते गर्भॊ ववृधे सप्त शारदान 23 सप्तमे ऽबदे गते चापि पराच्यवत स महाकविः जवलन्न इव परभावेन दृढस्युर नाम भारत साङ्गॊपनिषदान वेदाञ जपन्न एव महायशाः 24 तस्य पुत्रॊ ऽभवद ऋषेः स तेजस्वी महान ऋषिः स बाल एव तेजस्वी पितुस तस्य निवेशने इध्मानां भारम आजह्रे इध्म वाहस ततॊ ऽभवत 25 तथायुक्तं च तं दृष्ट्वा मुमुदे स मुनिस तदा लेभिरे पितरश चास्य लॊकान राजन यथेप्सितान 26 अगस्त्यस्याश्रमः खयातः सर्वर्तुकुसुमान्वितः पराह्रादिर एवं वातापिर अगस्त्येन विनाशितः 27 तस्यायम आश्रमॊ राजन रमणीयॊ गुणैर युतः एषा भागीरथी पुण्या यथेष्टम अवगाह्यताम |
1
[l] ilvalas tān viditvā tu maharṣisahitān nṛpān upasthitān sahāmātyo viṣayānte 'bhyapūjayat 2 teṣāṃ tato 'sura śreṣṭha ātithyam akarot tadā sa saṃskṛtena kauravya bhrātrā vātāpinā kila 3 tato rājarṣayaḥ sarve viṣaṇṇā gatacetasaḥ vātāpiṃ saṃskṛtaṃ dṛṣṭvā meṣabhūtaṃ mahāsuram 4 athābravīd agastyas tān rājarṣīn ṛṣisattamaḥ viṣādo vo na kartavyo ahaṃ bhokṣye mahāsuram 5 dhuryāsanam athāsādya niṣasāda mahāmuniḥ taṃ paryaveṣad daityendra ilvalaḥ prahasann iva 6 agastya eva kṛtsnaṃ tu vātāpiṃ bubhuje tataḥ bhuktavaty asuro ''hvānam akarot tasya ilvalaḥ 7 tato vāyuḥ prādurabhūd agastyasya mahātmanaḥ ilvalaś ca viṣaṇṇo 'bhūd dṛṣṭvā jīrṇaṃ mahāsuram 8 prāñjaliś ca sahāmātyair idaṃ vacanam abravīt kimartham upayātāḥ stha brūta kiṃ karavāṇi vaḥ 9 pratyuvāca tato 'gastyaḥ prahasann ilvalaṃ tadā īśaṃ hy asura vidmas tvāṃ vayaṃ sarve dhaneśvaram 10 ime ca nātidhanino dhanārthaś ca mahān mama yathāśakty avihiṃsyānyān saṃvibhāgaṃ prayaccha naḥ 11 tato 'bhivādya tam ṛṣim ilvalo vākyam abravīt ditsitaṃ yadi vetsi tvaṃ tato dāsyāmi te vasu 12 [a] gavāṃ daśasahasrāṇi rājñām ekaikaśo 'sura tāvad eva suvarṇasya ditsitaṃ te mahāsura 13 mahyaṃ tato vai dviguṇaṃ rathaś caiva hiran mayaḥ manojavau vājinau ca ditsitaṃ te mahāsura jijñāsyatāṃ rathaḥ sadyo vyaktam eṣa hiran mayaḥ 14 [l] jijñāsyamānaḥ sa rathaḥ kaunteyāsīd dhiran mayaḥ tataḥ pravyathito daityo dadāv abhyadhikaṃ vasu 15 vivājaś ca suvājaś ca tasmin yuktau rathe hayau ūhatus tau vasūny āśu tāny agastyāśramaṃ prati sarvān rājñaḥ sahāgastyān nimeṣād iva bhārata 16 agastyenābhyanujñātā jagmū rājarṣayas tadā kṛtavāṃś ca muniḥ sarvaṃ lopāmudrā cikīrṣitam 17 [lop] kṛtavān asi tat sarvaṃ bhagavan mama kāṅkṣitam utpādaya sakṛn mahyam apatyaṃ vīryavattaram 18 [a] tuṣṭo 'ham asmi kalyāṇi tavavṛttena śobhane vicāraṇām apatye tu tava vakṣyāmi tāṃ śṛṇu 19 sahasraṃ te 'stu putrāṇāṃ śataṃ vā daśa saṃmitam daśavā śatatulyāḥ syur eko vāpi sahasravat 20 [lop] sahasrasaṃmitaḥ putra eko me 'stu tapodhana eko hi bahubhiḥ śreyān vidvān sādhur asādhubhiḥ 21 [lomaṣa] sa tatheti pratijñāya tayā samabhavan muniḥ samaye samaśīlinyā śraddhāvāñ śraddadhānayā 22 tata ādhāya garbhaṃ tam agamad vanam eva saḥ tasmin vanagate garbho vavṛdhe sapta śāradān 23 saptame 'bde gate cāpi prācyavat sa mahākaviḥ jvalann iva prabhāvena dṛḍhasyur nāma bhārata sāṅgopaniṣadān vedāñ japann eva mahāyaśāḥ 24 tasya putro 'bhavad ṛṣeḥ sa tejasvī mahān ṛṣiḥ sa bāla eva tejasvī pitus tasya niveśane idhmānāṃ bhāram ājahre idhma vāhas tato 'bhavat 25 tathāyuktaṃ ca taṃ dṛṣṭvā mumude sa munis tadā lebhire pitaraś cāsya lokān rājan yathepsitān 26 agastyasyāśramaḥ khyātaḥ sarvartukusumānvitaḥ prāhrādir evaṃ vātāpir agastyena vināśitaḥ 27 tasyāyam āśramo rājan ramaṇīyo guṇair yutaḥ eṣā bhāgīrathī puṇyā yatheṣṭam avagāhyatām |
The Mahabharata in Sanskrit
Book 3
Chapter 98
|
1
[य] भूय एवाहम इच्छामि महर्षेस तस्य धीमतः कर्मणां विस्तरं शरॊतुम अगस्त्यस्य दविजॊत्तम 2 [लॊमष] शृणु राजन कथां दिव्याम अद्भुताम अतिमानुषीम अगस्त्यस्य महाराज परभावम अमितात्मनः 3 आसन कृतयुगे घॊरा दानवा युद्धदुर्मदाः कालेया इति विख्याता गणाः परमदारुणाः 4 ते तु वृत्रं समाश्रित्य नानाप्रहरणॊद्यताः समन्तात पर्यधावन्त महेन्द्र परमुखान सुरान 5 ततॊ वृत्रवधे यत्नम अकुर्वंस तरिदशाः पुरा पुरंदरं पुरस्कृत्य बरह्माणम उपतस्थिरे 6 कृताञ्जलींस तु तान सर्वान परमेष्ठी उवाच ह विदितं मे सुराः सर्वं यद वः कार्यं चिकीर्षितम 7 तम उपायं परवक्ष्यामि यथा वृत्रं वधिष्यथ दधीच इति विख्यातॊ महान ऋषिर उदारधीः 8 तं गत्वा सहिताः सर्वे वरं वै संप्रयाचत स वॊ दास्यति धर्मात्मा सुप्रीतेनान्तरात्मना 9 स वाच्यः सहितैः सर्वैर भवद्भिर जयकाङ्क्षिभिः सवान्य अस्थीनि परयच्छेति तरैलॊक्यस्य हिताय वै स शरीरं समुत्सृज्य सवान्य अस्थीनि परदास्यति 10 तस्यास्थिभिर महाघॊरं वज्रं संभ्रियतां दृढम महच छत्रुहनं तीक्ष्णं षड अश्रं भीमनिस्वनम 11 तेन वज्रेण वै वृत्रं वधिष्यति शतक्रतुः एतद वः सर्वम आख्यातं तस्माच छीघ्रं विधीयताम 12 एवम उक्तास ततॊ देवा अनुज्ञाप्य पिता महम नारायणं पुरस्कृत्य दधीचस्याश्रमं ययुः 13 सरस्वत्याः परे पारे नानाद्रुमलतावृतम षट पदॊद्गीत निनदैर विघुष्टं साम गैर इव पुंस्कॊकिल रवॊन्मिश्रं जीवं जीवक नादितम 14 महिषैश च वराहैश च सृमरैश चमरैर अपि तत्र तत्रानुचरितं शार्दूलभयवर्जितैः 15 करेणुभिर वारणैश च परभिन्नकरटा मुखैः सरॊ ऽवगाढैः करीडद्भिः समन्ताद अनुनादितम 16 सिंहव्याघ्रैर महानादान नदद्भिर अनुनादितम अपरैश चापि संलीनैर गुहा कन्दरवासिभिः 17 तेषु तेष्व अवकाशेषु शॊभितं सुमनॊरमम तरिविष्टपसमप्रख्यं दधीचाश्रमम आगमन 18 तत्रापश्यन ददीचं ते दिवाकरसमद्युतिम जाज्वल्यमानं वपुषा यथा लक्ष्म्या पिता महम 19 तस्य पादौ सुरा राजन्न अभिवाद्य परणम्य च अयाचन्त वरं सर्वे यथॊक्तं परमेष्ठिना 20 ततॊ ददीचः परमप्रतीतः; सुरॊत्तमांस तान इदम अभ्युवाच करॊमि यद वॊ हितम अद्य देवाः; सवं चापि देहं तव अहम उत्सृजामि 21 स एवम उक्त्वा दविपदां वरिष्ठः; पराणान वशीस्वान सहसॊत्ससर्ज ततः सुरास ते जगृहुः परासॊर; अस्थीनि तस्याथ यथॊपदेशम 22 परहृष्टरूपाश च जयाय देवास; तवष्टारम आगम्य तम अर्थम ऊचुः तवष्टा तु तेषां वचनं निशम्य; परहृष्टरूपः परयतः परयत्नात 23 चकार वज्रं भृशम उग्ररूपं; कृत्वा च शक्रं स उवाच हृष्टः अनेन वज्रप्रवरेण देव; भस्मीकुरुष्वाद्य सुरारिम उग्रम 24 ततॊ हतारिः सगणः सुखं वै; परशाधि कृत्स्नं तरिदिवं दिवि षठः तवष्ट्रा तथॊक्तः स पुरंदरस तु; वज्रं परहृष्टः परयतॊ ऽभयगृह्णात |
1
[y] bhūya evāham icchāmi maharṣes tasya dhīmataḥ karmaṇāṃ vistaraṃ śrotum agastyasya dvijottama 2 [lomaṣa] śṛṇu rājan kathāṃ divyām adbhutām atimānuṣīm agastyasya mahārāja prabhāvam amitātmanaḥ 3 āsan kṛtayuge ghorā dānavā yuddhadurmadāḥ kāleyā iti vikhyātā gaṇāḥ paramadāruṇāḥ 4 te tu vṛtraṃ samāśritya nānāpraharaṇodyatāḥ samantāt paryadhāvanta mahendra pramukhān surān 5 tato vṛtravadhe yatnam akurvaṃs tridaśāḥ purā puraṃdaraṃ puraskṛtya brahmāṇam upatasthire 6 kṛtāñjalīṃs tu tān sarvān parameṣṭhī uvāca ha viditaṃ me surāḥ sarvaṃ yad vaḥ kāryaṃ cikīrṣitam 7 tam upāyaṃ pravakṣyāmi yathā vṛtraṃ vadhiṣyatha dadhīca iti vikhyāto mahān ṛṣir udāradhīḥ 8 taṃ gatvā sahitāḥ sarve varaṃ vai saṃprayācata sa vo dāsyati dharmātmā suprītenāntarātmanā 9 sa vācyaḥ sahitaiḥ sarvair bhavadbhir jayakāṅkṣibhiḥ svāny asthīni prayaccheti trailokyasya hitāya vai sa śarīraṃ samutsṛjya svāny asthīni pradāsyati 10 tasyāsthibhir mahāghoraṃ vajraṃ saṃbhriyatāṃ dṛḍham mahac chatruhanaṃ tīkṣṇaṃ ṣaḍ aśraṃ bhīmanisvanam 11 tena vajreṇa vai vṛtraṃ vadhiṣyati śatakratuḥ etad vaḥ sarvam ākhyātaṃ tasmāc chīghraṃ vidhīyatām 12 evam uktās tato devā anujñāpya pitā maham nārāyaṇaṃ puraskṛtya dadhīcasyāśramaṃ yayuḥ 13 sarasvatyāḥ pare pāre nānādrumalatāvṛtam ṣaṭ padodgīta ninadair vighuṣṭaṃ sāma gair iva puṃskokila ravonmiśraṃ jīvaṃ jīvaka nāditam 14 mahiṣaiś ca varāhaiś ca sṛmaraiś camarair api tatra tatrānucaritaṃ śārdūlabhayavarjitaiḥ 15 kareṇubhir vāraṇaiś ca prabhinnakaraṭā mukhaiḥ saro 'vagāḍhaiḥ krīḍadbhiḥ samantād anunāditam 16 siṃhavyāghrair mahānādān nadadbhir anunāditam aparaiś cāpi saṃlīnair guhā kandaravāsibhiḥ 17 teṣu teṣv avakāśeṣu śobhitaṃ sumanoramam triviṣṭapasamaprakhyaṃ dadhīcāśramam āgaman 18 tatrāpaśyan dadīcaṃ te divākarasamadyutim jājvalyamānaṃ vapuṣā yathā lakṣmyā pitā maham 19 tasya pādau surā rājann abhivādya praṇamya ca ayācanta varaṃ sarve yathoktaṃ parameṣṭhinā 20 tato dadīcaḥ paramapratītaḥ; surottamāṃs tān idam abhyuvāca karomi yad vo hitam adya devāḥ; svaṃ cāpi dehaṃ tv aham utsṛjāmi 21 sa evam uktvā dvipadāṃ variṣṭhaḥ; prāṇān vaśīsvān sahasotsasarja tataḥ surās te jagṛhuḥ parāsor; asthīni tasyātha yathopadeśam 22 prahṛṣṭarūpāś ca jayāya devās; tvaṣṭāram āgamya tam artham ūcuḥ tvaṣṭā tu teṣāṃ vacanaṃ niśamya; prahṛṣṭarūpaḥ prayataḥ prayatnāt 23 cakāra vajraṃ bhṛśam ugrarūpaṃ; kṛtvā ca śakraṃ sa uvāca hṛṣṭaḥ anena vajrapravareṇa deva; bhasmīkuruṣvādya surārim ugram 24 tato hatāriḥ sagaṇaḥ sukhaṃ vai; praśādhi kṛtsnaṃ tridivaṃ divi ṣṭhaḥ tvaṣṭrā tathoktaḥ sa puraṃdaras tu; vajraṃ prahṛṣṭaḥ prayato 'bhyagṛhṇāt |
The Mahabharata in Sanskrit
Book 3
Chapter 99
|
1
[लॊमष] ततः सवज्री बलिभिर दैवतैर अभिरक्षितः आससाद ततॊ वृत्रं सथितम आवृत्य रॊदसी 2 कालकेयैर महाकायैः समन्ताद अभिर कषितम समुद्यतप्रहरणैः स शृङ्गैर इव पर्वतैः 3 ततॊ युद्धं समभवद देवानां सह दानवैः मुहूर्तं भरतश्रेष्ठ लॊकत्रास करं महत 4 उद्यतप्रतिपिष्टानां खड्गानां वीरबाहुभिः आसीत सुतुमुलः शब्दः शरीरेष्व अभिपात्यताम 5 शिरॊभिः परपतद्भिश च अन्तरिक्षान महीतलम तालैर इव महीपाल वृन्ताद भरष्टैर अदृश्यत 6 ते हेमकवचा भूत्वा कालेयाः परिघायुधाः तरिदशान अभ्यवर्तन्त दावदग्धा इवाद्रयः 7 तेषां वेगवतां वेगं सहितानां परधावताम न शेकुस तरिदशाः सॊढुं ते भग्नाः पराद्रवन भयात 8 तान दृष्ट्वा दरवतॊ भीतान सहस्राक्षः पुरंदरः वृत्रे विवर्धमाने च कश्मलं महद आविशत 9 तं शक्रं कश्मलाविष्टं दृष्ट्वा विष्णुः सनातनः सवतेजॊ वयदधाच छक्रे बलम अस्य विवर्धयन 10 विष्णुनाप्यायितं शक्रं दृष्ट्वा देवगणास ततः सवं सवं तेजः समादध्युस तथा बरह्मर्षयॊ ऽमलाः 11 स समाप्यायितः शक्रॊ विष्णुना दैवतैः सह ऋषिभिश च महाभागैर बलवान समपद्यत 12 जञात्वा बलस्थं तरिदशाधिपं तु; ननाद वृत्रॊ महतॊ निनादान तस्य परणादेन धरा दिशश च; खं दयौर नगराश चापि चचाल सर्वम 13 ततॊ महेन्द्रः परमाभितप्तः; शरुत्वा रवं घॊररूपं महान्तम भये निमग्नस तवरितं मुमॊच; वज्रं महत तस्य वधाय राजन 14 स शक्रवज्राभिहतः पपात; महासुरः काञ्चनमाल्यधारी यथा महाञ शैलवरः पुरस्तात; स मन्दरॊ विष्णुकरात परमुक्तः 15 तस्मिन हते दैत्य वरे भयार्तः; शक्रः पदुद्राव सरः परवेष्टुम वज्रं न मेने सवकरात परमुक्तं; वृत्रं हतं चापि भयान न मेने 16 सर्वे च देवा मुदिताः परहृष्टा; महर्षयश चेन्द्रम अभिष्टुवन्तः सर्वांश च दैत्यांस तवरिताः समेत्य; जघ्नुः सुरा वृत्रवधाभितप्तान 17 ते वध्यमानास तरिदशैस तदानीं; समुद्रम एवाविविशुर भयार्ताः परविश्य चैवॊदधिम अप्रमेयं; झषाकुलं रत्नसमाकुलं च 18 तदा सम मन्त्रं सहिताः परचक्रुस; तरैलॊक्यनाशार्थम अभिस्मयन्तः तत्र सम के चिन मतिनिश्चय जञास; तांस तान उपायान अनुवर्णयन्ति 19 तेषां तु तत्र करमकालयॊगाद; घॊरा मतिश चिन्तयतां बभूव ये सन्ति विद्या तपसॊपपन्नास; तेषां विनाशः परथमं तु कार्यः 20 लॊका हि सर्वे तपसा धरियन्ते; तस्मात तवरध्वं तपसः कषयाय ये सन्ति के चिद धि वसुंधरायां; तपस्विनॊ धर्मविदश च तज जञाः तेषां वधः करियतां कषिप्रम एव; तेषु परनष्टेषु जगत परनष्टम 21 एवं हि सर्वे गतबुद्धिभावा; जगद विनाशे परमप्रहृष्टाः दुर्गं समाश्रित्य महॊर्मिमन्तं; रत्ना करं वरुणस्यालयं सम |
1
[lomaṣa] tataḥ savajrī balibhir daivatair abhirakṣitaḥ āsasāda tato vṛtraṃ sthitam āvṛtya rodasī 2 kālakeyair mahākāyaiḥ samantād abhira kṣitam samudyatapraharaṇaiḥ sa śṛṅgair iva parvataiḥ 3 tato yuddhaṃ samabhavad devānāṃ saha dānavaiḥ muhūrtaṃ bharataśreṣṭha lokatrāsa karaṃ mahat 4 udyatapratipiṣṭānāṃ khaḍgānāṃ vīrabāhubhiḥ āsīt sutumulaḥ śabdaḥ śarīreṣv abhipātyatām 5 śirobhiḥ prapatadbhiś ca antarikṣān mahītalam tālair iva mahīpāla vṛntād bhraṣṭair adṛśyata 6 te hemakavacā bhūtvā kāleyāḥ parighāyudhāḥ tridaśān abhyavartanta dāvadagdhā ivādrayaḥ 7 teṣāṃ vegavatāṃ vegaṃ sahitānāṃ pradhāvatām na śekus tridaśāḥ soḍhuṃ te bhagnāḥ prādravan bhayāt 8 tān dṛṣṭvā dravato bhītān sahasrākṣaḥ puraṃdaraḥ vṛtre vivardhamāne ca kaśmalaṃ mahad āviśat 9 taṃ śakraṃ kaśmalāviṣṭaṃ dṛṣṭvā viṣṇuḥ sanātanaḥ svatejo vyadadhāc chakre balam asya vivardhayan 10 viṣṇunāpyāyitaṃ śakraṃ dṛṣṭvā devagaṇās tataḥ svaṃ svaṃ tejaḥ samādadhyus tathā brahmarṣayo 'malāḥ 11 sa samāpyāyitaḥ śakro viṣṇunā daivataiḥ saha ṛṣibhiś ca mahābhāgair balavān samapadyata 12 jñātvā balasthaṃ tridaśādhipaṃ tu; nanāda vṛtro mahato ninādān tasya praṇādena dharā diśaś ca; khaṃ dyaur nagarāś cāpi cacāla sarvam 13 tato mahendraḥ paramābhitaptaḥ; śrutvā ravaṃ ghorarūpaṃ mahāntam bhaye nimagnas tvaritaṃ mumoca; vajraṃ mahat tasya vadhāya rājan 14 sa śakravajrābhihataḥ papāta; mahāsuraḥ kāñcanamālyadhārī yathā mahāñ śailavaraḥ purastāt; sa mandaro viṣṇukarāt pramuktaḥ 15 tasmin hate daitya vare bhayārtaḥ; śakraḥ padudrāva saraḥ praveṣṭum vajraṃ na mene svakarāt pramuktaṃ; vṛtraṃ hataṃ cāpi bhayān na mene 16 sarve ca devā muditāḥ prahṛṣṭā; maharṣayaś cendram abhiṣṭuvantaḥ sarvāṃś ca daityāṃs tvaritāḥ sametya; jaghnuḥ surā vṛtravadhābhitaptān 17 te vadhyamānās tridaśais tadānīṃ; samudram evāviviśur bhayārtāḥ praviśya caivodadhim aprameyaṃ; jhaṣākulaṃ ratnasamākulaṃ ca 18 tadā sma mantraṃ sahitāḥ pracakrus; trailokyanāśārtham abhismayantaḥ tatra sma ke cin matiniścaya jñās; tāṃs tān upāyān anuvarṇayanti 19 teṣāṃ tu tatra kramakālayogād; ghorā matiś cintayatāṃ babhūva ye santi vidyā tapasopapannās; teṣāṃ vināśaḥ prathamaṃ tu kāryaḥ 20 lokā hi sarve tapasā dhriyante; tasmāt tvaradhvaṃ tapasaḥ kṣayāya ye santi ke cid dhi vasuṃdharāyāṃ; tapasvino dharmavidaś ca taj jñāḥ teṣāṃ vadhaḥ kriyatāṃ kṣipram eva; teṣu pranaṣṭeṣu jagat pranaṣṭam 21 evaṃ hi sarve gatabuddhibhāvā; jagad vināśe paramaprahṛṣṭāḥ durgaṃ samāśritya mahormimantaṃ; ratnā karaṃ varuṇasyālayaṃ sma |
The Mahabharata in Sanskrit
Book 3
Chapter 100
|
1
[लॊमषा] समुद्रं ते समाश्रित्य वारुणं निधिम अम्भसाम कालेयाः संप्रवर्तन्त तरैलॊक्यस्य विनाशने 2 ते रात्रौ समभिक्रुद्धा भक्षयन्ति सदा मुनीन आश्रमेषु च ये सन्ति पुन्येष्व आयतनेषु च 3 वसिस्थस्याश्रमे विप्रा भक्षितास तैर दुरात्मभिः अशीतिशतम अष्टौ च नव चान्ये तपस्विनः 4 चयवनस्याश्रमं गत्वा पुन्यं दविज निसेवितम फलमूलाशनानां हि मुनीनां भक्षितं शतम 5 एवं रात्रौ सम कुर्वन्ति विविशुश चार्णवं दिवा भरद्वाजाश्रमे चैव नियता बरह्मचारिणः वाय्वाहाराम्बुभक्षाश च विंशतिः संनिपातिताः 6 एवं करमेण सर्वांस तान आश्रमान दानवास तदा निशायां परिधावन्ति मत्ता भुजबलाश्रयात कालॊपसृष्टाः कालेया घनन्तॊ दविज गनान बहून 7 न चैनान अन्वबुध्यन्त मनुजा मनुजॊत्तम एवं परवृत्तान दैत्यांस तांस तापसेषु तपस्विषु 8 परभाते समदृश्यन्त नियताहार कर्शिताः महीतलस्था मुनयः शरीरैर गतजीवितैः 9 कषीणमांसैर विरुधिरैर विमज्जान्त्रैर विसंधिभिः आकीर्णैर आचिता भूमिः शङ्खानाम इव राशिभिः 10 कलशैर विप्रविद्धैश च सरुवैर भग्नैस तथैव च विकीर्णैर अग्निहॊत्रैश च भूर बभूव समावृता 11 निःस्वाध्याय वषत्कारं नष्टयज्ञॊत्सव करियम जगद आसीन निरुत्साहं कालेय भयपीडितम 12 एवं परक्षीयमाणाश च मानवा मनुजेश्वर आत्मत्राण परा भीताः पराद्रवन्त दिशॊ भयात 13 के चिद गुहाः परविविशुर निर्झरांश चापरे शरिताः अपरे मरणॊद्विग्ना भयात परानान समुत्सृजन 14 के चिद अत्र महेष्वासाः शूराः परमदर्पिताः मार्गमाणाः परं यत्नं दानवानां परचक्रिरे 15 न चैतान अधिजग्मुस ते समुद्रं समुपाश्रितान शरमं जग्मुश च परमम आजग्मुः कषयम एव च 16 जगत्य उपशमं याते नष्टयज्ञॊत्सव करिये आजग्मुः परमाम आर्तिं तरिदशा मनुजेश्वर 17 समेत्य समहेन्द्राश च भयान मन्त्रं परचक्रिरे नारायणं पुरस्कृत्य वैकुण्ठम अपराजितम 18 ततॊ देवाः समेतास ते तदॊचुर मधुसूदनम तवं नः सरष्टा च पाता च भर्ता च जगतः परभॊ तवया सृष्टम इदं सर्वं यच चेङ्गं यच च नेङ्गति 19 तवया भूमिः पुरा नष्टा समुद्रात पुस्करेक्षण वाराहं रूपम आस्थाय जगद अर्थे समुद्धृता 20 आदि दैत्यॊ महावीर्यॊ हिरण्यकशिपुस तवया नारसिंहं वपुः कृत्वा सूदितः पुरुषॊत्तम 21 अवध्यः सर्वभूतानां बलिश चापि महासुरः वामनं वपुर आश्रित्य तरैलॊक्याद भरंशितस तवया 22 असुरश च महेष्वासॊ जम्भ इत्य अभिविश्रुतः यज्ञक्षॊभकरः करूरस तवयैव विनिपातितः 23 एवमादीनि कर्माणि येषां संख्या न विद्यते अस्माकं भयभीतानां तवं गतिर मधुसूदन 24 तस्मात तवां देवदेवेश लॊकार्थं जञापयामहे रक्ष लॊकांश च देवांश च शक्रं च महतॊ भयात |
1
[lomaṣā] samudraṃ te samāśritya vāruṇaṃ nidhim ambhasām kāleyāḥ saṃpravartanta trailokyasya vināśane 2 te rātrau samabhikruddhā bhakṣayanti sadā munīn āśrameṣu ca ye santi punyeṣv āyataneṣu ca 3 vasisthasyāśrame viprā bhakṣitās tair durātmabhiḥ aśītiśatam aṣṭau ca nava cānye tapasvinaḥ 4 cyavanasyāśramaṃ gatvā punyaṃ dvija nisevitam phalamūlāśanānāṃ hi munīnāṃ bhakṣitaṃ śatam 5 evaṃ rātrau sma kurvanti viviśuś cārṇavaṃ divā bharadvājāśrame caiva niyatā brahmacāriṇaḥ vāyvāhārāmbubhakṣāś ca viṃśatiḥ saṃnipātitāḥ 6 evaṃ krameṇa sarvāṃs tān āśramān dānavās tadā niśāyāṃ paridhāvanti mattā bhujabalāśrayāt kālopasṛṣṭāḥ kāleyā ghnanto dvija ganān bahūn 7 na cainān anvabudhyanta manujā manujottama evaṃ pravṛttān daityāṃs tāṃs tāpaseṣu tapasviṣu 8 prabhāte samadṛśyanta niyatāhāra karśitāḥ mahītalasthā munayaḥ śarīrair gatajīvitaiḥ 9 kṣīṇamāṃsair virudhirair vimajjāntrair visaṃdhibhiḥ ākīrṇair ācitā bhūmiḥ śaṅkhānām iva rāśibhiḥ 10 kalaśair vipraviddhaiś ca sruvair bhagnais tathaiva ca vikīrṇair agnihotraiś ca bhūr babhūva samāvṛtā 11 niḥsvādhyāya vaṣatkāraṃ naṣṭayajñotsava kriyam jagad āsīn nirutsāhaṃ kāleya bhayapīḍitam 12 evaṃ prakṣīyamāṇāś ca mānavā manujeśvara ātmatrāṇa parā bhītāḥ prādravanta diśo bhayāt 13 ke cid guhāḥ praviviśur nirjharāṃś cāpare śritāḥ apare maraṇodvignā bhayāt prānān samutsṛjan 14 ke cid atra maheṣvāsāḥ śūrāḥ paramadarpitāḥ mārgamāṇāḥ paraṃ yatnaṃ dānavānāṃ pracakrire 15 na caitān adhijagmus te samudraṃ samupāśritān śramaṃ jagmuś ca paramam ājagmuḥ kṣayam eva ca 16 jagaty upaśamaṃ yāte naṣṭayajñotsava kriye ājagmuḥ paramām ārtiṃ tridaśā manujeśvara 17 sametya samahendrāś ca bhayān mantraṃ pracakrire nārāyaṇaṃ puraskṛtya vaikuṇṭham aparājitam 18 tato devāḥ sametās te tadocur madhusūdanam tvaṃ naḥ sraṣṭā ca pātā ca bhartā ca jagataḥ prabho tvayā sṛṣṭam idaṃ sarvaṃ yac ceṅgaṃ yac ca neṅgati 19 tvayā bhūmiḥ purā naṣṭā samudrāt puskarekṣaṇa vārāhaṃ rūpam āsthāya jagad arthe samuddhṛtā 20 ādi daityo mahāvīryo hiraṇyakaśipus tvayā nārasiṃhaṃ vapuḥ kṛtvā sūditaḥ puruṣottama 21 avadhyaḥ sarvabhūtānāṃ baliś cāpi mahāsuraḥ vāmanaṃ vapur āśritya trailokyād bhraṃśitas tvayā 22 asuraś ca maheṣvāso jambha ity abhiviśrutaḥ yajñakṣobhakaraḥ krūras tvayaiva vinipātitaḥ 23 evamādīni karmāṇi yeṣāṃ saṃkhyā na vidyate asmākaṃ bhayabhītānāṃ tvaṃ gatir madhusūdana 24 tasmāt tvāṃ devadeveśa lokārthaṃ jñāpayāmahe rakṣa lokāṃś ca devāṃś ca śakraṃ ca mahato bhayāt |
The Mahabharata in Sanskrit
Book 3
Chapter 101
|
1
[देवा] इतः परदानाद वर्तन्ते परजाः सर्वाश चतुर्विधाः ता भाविता भावयन्ति हव्यकव्यैर दिवौकसः 2 लॊका हय एवं वर्तयन्ति अन्यॊन्यं समुपाश्रिताः तवत्प्रसादान निरुद्विग्नास तवयैव परिरक्षिताः 3 इदं च समनुप्राप्तं लॊकानां भयम उत्तमम न च जानीम केनेमे रात्रौ वध्यन्ति बराह्मणाः 4 कषीणेषु च बराह्मणेषु पृथिवी कषयम एष्यति ततः पृथिव्यां कषीणायां तरिदिवं कषयम एष्यति 5 तवत्प्रसादान महाबाहॊ लॊकाः सर्वे जगत्पते विनाशं नाधिगच्छेयुस तवया वै परिरक्षिताः 6 [विस्नुर] विदितं मे सुराः सर्वं परजानां कषयकारणम भवतां चापि वक्ष्यामि शृणुध्वं विगतज्वराः 7 कालेय इति विख्यातॊ गणः परमदारुणः तैश च वृत्रं समाश्रित्य जगत सर्वं परबाधितम 8 ते वृत्रं निहतं दृष्ट्वा सहस्राक्षेण धीमता जीवितं परिरक्षन्तः परविष्टा वरुणालयम 9 ते परविश्यॊदधिं घॊरं नक्रग्राहसमाकुलम उत्सादनार्थं लॊकानां रात्रौ घनन्ति मुनीन इह 10 न तु शक्याः कषयं नेतुं समुद्राश्रयगा हि ते समुद्रस्य कषये बुद्धिर भवद्भिः संप्रधार्यताम अगस्त्येन विना कॊ हि शक्तॊ ऽनयॊ ऽरणव शॊषणे 11 एतच छरुत्वा वचॊ देवा विष्णुना समुदाहृतम परमेष्ठिनम आज्ञाप्य अगस्त्यस्याश्रमं ययुः 12 तत्रापश्यन महात्मानं वारुणिं दीप्ततेजसम उपास्यमानम ऋषिभिर देवैर इव पितामहम 13 ते ऽभिगम्य महात्मानं मैत्रावरुणिम अच्युतम आश्रमस्थं तपॊ राशिं कर्मभिः सवैर अभिष्टुवन 14 [देवा] नहुषेणाभितप्तानां तवं लॊकानां गतिः पुरा भरंशितश च सुरैश्वर्याल लॊकार्थं लॊककण्ठकः 15 करॊधात परवृद्धः सहसा भास्करस्य नगॊत्तमः वचस तवानतिक्रामन विन्ध्यः शैलॊ न वर्धते 16 तमसा चावृते लॊके मृत्युनाभ्यर्दिताः परजाः तवाम एव नाथम आसाद्य निर्वृतिं परमां गताः 17 अस्माकं भयभीतानां नित्यशॊ भगवान गतिः ततस तव आर्ताः परयाचामस तवां वरं वदरॊ हय असि |
1
[devā] itaḥ pradānād vartante prajāḥ sarvāś caturvidhāḥ tā bhāvitā bhāvayanti havyakavyair divaukasaḥ 2 lokā hy evaṃ vartayanti anyonyaṃ samupāśritāḥ tvatprasādān nirudvignās tvayaiva parirakṣitāḥ 3 idaṃ ca samanuprāptaṃ lokānāṃ bhayam uttamam na ca jānīma keneme rātrau vadhyanti brāhmaṇāḥ 4 kṣīṇeṣu ca brāhmaṇeṣu pṛthivī kṣayam eṣyati tataḥ pṛthivyāṃ kṣīṇāyāṃ tridivaṃ kṣayam eṣyati 5 tvatprasādān mahābāho lokāḥ sarve jagatpate vināśaṃ nādhigaccheyus tvayā vai parirakṣitāḥ 6 [visnur] viditaṃ me surāḥ sarvaṃ prajānāṃ kṣayakāraṇam bhavatāṃ cāpi vakṣyāmi śṛṇudhvaṃ vigatajvarāḥ 7 kāleya iti vikhyāto gaṇaḥ paramadāruṇaḥ taiś ca vṛtraṃ samāśritya jagat sarvaṃ prabādhitam 8 te vṛtraṃ nihataṃ dṛṣṭvā sahasrākṣeṇa dhīmatā jīvitaṃ parirakṣantaḥ praviṣṭā varuṇālayam 9 te praviśyodadhiṃ ghoraṃ nakragrāhasamākulam utsādanārthaṃ lokānāṃ rātrau ghnanti munīn iha 10 na tu śakyāḥ kṣayaṃ netuṃ samudrāśrayagā hi te samudrasya kṣaye buddhir bhavadbhiḥ saṃpradhāryatām agastyena vinā ko hi śakto 'nyo 'rṇava śoṣaṇe 11 etac chrutvā vaco devā viṣṇunā samudāhṛtam parameṣṭhinam ājñāpya agastyasyāśramaṃ yayuḥ 12 tatrāpaśyan mahātmānaṃ vāruṇiṃ dīptatejasam upāsyamānam ṛṣibhir devair iva pitāmaham 13 te 'bhigamya mahātmānaṃ maitrāvaruṇim acyutam āśramasthaṃ tapo rāśiṃ karmabhiḥ svair abhiṣṭuvan 14 [devā] nahuṣeṇābhitaptānāṃ tvaṃ lokānāṃ gatiḥ purā bhraṃśitaś ca suraiśvaryāl lokārthaṃ lokakaṇṭhakaḥ 15 krodhāt pravṛddhaḥ sahasā bhāskarasya nagottamaḥ vacas tavānatikrāman vindhyaḥ śailo na vardhate 16 tamasā cāvṛte loke mṛtyunābhyarditāḥ prajāḥ tvām eva nātham āsādya nirvṛtiṃ paramāṃ gatāḥ 17 asmākaṃ bhayabhītānāṃ nityaśo bhagavān gatiḥ tatas tv ārtāḥ prayācāmas tvāṃ varaṃ vadaro hy asi |
The Mahabharata in Sanskrit
Book 3
Chapter 102
|
1
[य] किमर्थं सहसा विन्ध्यः परवृद्धः करॊधमूर्छितः एतद इच्छाम्य अहं शरॊतुं विस्तरेण महामुने 2 [लॊमष] अद्रिराजं महाशैलं मरुं कनकपर्वतम उदयास्तमये भानुः परदक्षिणम अवर्तत 3 तं तु दृष्ट्वा तथा विन्ध्यः शैलः सूर्यम अथाब्रवीत यथा हि मेरुर भवता नित्यशः परिगम्यते परदक्षिणं च करियते माम एवं कुरु भास्कर 4 एवम उक्तस ततः सूर्यः शैलेन्द्रं परत्यभासत नाहम आत्मेच्छया शैलकरॊम्य एनं परदक्षिणम एष मार्गः परदिष्टॊ मे येनेदं निर्मितं जगत 5 एवम उक्तस ततः करॊधात परवृद्धः सहसाचलः सूर्या चन्द्रमसॊर मार्गं रॊद्धुम इच्छन परंतप 6 ततॊ देवाः सहिताः सर्व एव; सेन्द्राः समागम्य महाद्रिराजम निवारयाम आसुर उपायतस तं; न च सम तेषां वचनं चकार 7 अथाभिजग्मुर मुनिम आश्रमस्थं; तपस्विनं धर्मभृतां वरिष्ठम अगस्त्यम अत्यद्भुतवीर्यदीप्तं; तं चार्थम ऊचुः सहिताः सुरास ते 8 [देवा] सूर्या चन्द्रमसॊर मार्गं नक्षत्राणां गतिं तथा शैलराजॊ वृणॊत्य एष विन्ध्यः करॊधवशानुगः 9 तं निवारयितुं शक्तॊ नान्यः कश चिद दविजॊत्तम ऋते तवां हि महाभाग तस्माद एनं निवारय 10 [लॊमष] तच छरुत्वा वचनं विप्रः सुराणां शैलम अभ्यगात सॊ ऽभिगम्याब्रवीद विन्ध्यं सदारः समुपस्थितः 11 मार्गम इछाम्य अहं दत्तं भवता पर्वतॊत्तम दक्षिणाम अभिगन्तास्मि दिशं कार्येण केन चित 12 यावदागमनं मह्यं तावत तवं परतिपालय निवृत्ते मयि शैलेन्द्र ततॊ वर्धस्व कामतः 13 एवं स समयं कृत्वा विन्ध्येनामित्रकर्शन अद्यापि दक्षिणा देशाद वारुणिर न निवर्तते 14 एतत ते सर्वम आख्यातं यथा विन्ध्यॊ न वर्धते अगस्त्यस्य परभावेन यन मां तवं परिपृच्छसि 15 कालेयास तु यथा राजन सुरैः सर्वैर निषूदिताः अगस्त्याद वरम आसाद्य तन मे निगदतः शृणु 16 तरिदशानां वचॊ शरुत्वा मैत्रावरुणिर अब्रवीत किमर्थम अभियाताः सथ वरं मत्तः किम इच्छथ एवम उक्तास ततस तेन देवास तं मुनिम अब्रुवन 17 एवं तवयेच्छाम कृतं महर्षे; महार्णवं पीयमानं महात्मन ततॊ वधिष्याम सहानुबन्धान; कालेय संज्ञान सुरविद्विषस तान 18 तरिदशानां वचः शरुत्वा तथेति मुनिर अब्रवीत करिष्ये भवतां कामं लॊकानां च महत सुखम 19 एवम उक्त्वा ततॊ ऽगच्छत समुद्रं सरितां पतिम ऋषिभिश च तपःसिद्धैः सार्धं देवैश च सुव्रतः 20 मनुस्यॊरग गन्धर्वयक्षकिंपुरुषास तथा अनुजग्मुर महात्मानं दरस्तु कामास तद अद्भुतम 21 ततॊ ऽभयगच्छन सहिताः समुद्रं भीम निष्वनम नृत्यन्तम इव चॊर्मीभिर वल्गन्तम इव वायुना 22 हसन्तम इव फेनौघैः सखलन्तं कन्दरेषु च नाना गराहसमाकीर्णं नानाद्विज गनायुतम 23 अगस्त्यसहिता देवाः सगन्धर्वमहॊरगाः ऋषयश च महाभागाः समासेदुर महॊदधिम |
1
[y] kimarthaṃ sahasā vindhyaḥ pravṛddhaḥ krodhamūrchitaḥ etad icchāmy ahaṃ śrotuṃ vistareṇa mahāmune 2 [lomaṣa] adrirājaṃ mahāśailaṃ maruṃ kanakaparvatam udayāstamaye bhānuḥ pradakṣiṇam avartata 3 taṃ tu dṛṣṭvā tathā vindhyaḥ śailaḥ sūryam athābravīt yathā hi merur bhavatā nityaśaḥ parigamyate pradakṣiṇaṃ ca kriyate mām evaṃ kuru bhāskara 4 evam uktas tataḥ sūryaḥ śailendraṃ pratyabhāsata nāham ātmecchayā śailakaromy enaṃ pradakṣiṇam eṣa mārgaḥ pradiṣṭo me yenedaṃ nirmitaṃ jagat 5 evam uktas tataḥ krodhāt pravṛddhaḥ sahasācalaḥ sūryā candramasor mārgaṃ roddhum icchan paraṃtapa 6 tato devāḥ sahitāḥ sarva eva; sendrāḥ samāgamya mahādrirājam nivārayām āsur upāyatas taṃ; na ca sma teṣāṃ vacanaṃ cakāra 7 athābhijagmur munim āśramasthaṃ; tapasvinaṃ dharmabhṛtāṃ variṣṭham agastyam atyadbhutavīryadīptaṃ; taṃ cārtham ūcuḥ sahitāḥ surās te 8 [devā] sūryā candramasor mārgaṃ nakṣatrāṇāṃ gatiṃ tathā śailarājo vṛṇoty eṣa vindhyaḥ krodhavaśānugaḥ 9 taṃ nivārayituṃ śakto nānyaḥ kaś cid dvijottama ṛte tvāṃ hi mahābhāga tasmād enaṃ nivāraya 10 [lomaṣa] tac chrutvā vacanaṃ vipraḥ surāṇāṃ śailam abhyagāt so 'bhigamyābravīd vindhyaṃ sadāraḥ samupasthitaḥ 11 mārgam ichāmy ahaṃ dattaṃ bhavatā parvatottama dakṣiṇām abhigantāsmi diśaṃ kāryeṇa kena cit 12 yāvadāgamanaṃ mahyaṃ tāvat tvaṃ pratipālaya nivṛtte mayi śailendra tato vardhasva kāmataḥ 13 evaṃ sa samayaṃ kṛtvā vindhyenāmitrakarśana adyāpi dakṣiṇā deśād vāruṇir na nivartate 14 etat te sarvam ākhyātaṃ yathā vindhyo na vardhate agastyasya prabhāvena yan māṃ tvaṃ paripṛcchasi 15 kāleyās tu yathā rājan suraiḥ sarvair niṣūditāḥ agastyād varam āsādya tan me nigadataḥ śṛṇu 16 tridaśānāṃ vaco śrutvā maitrāvaruṇir abravīt kimartham abhiyātāḥ stha varaṃ mattaḥ kim icchatha evam uktās tatas tena devās taṃ munim abruvan 17 evaṃ tvayecchāma kṛtaṃ maharṣe; mahārṇavaṃ pīyamānaṃ mahātman tato vadhiṣyāma sahānubandhān; kāleya saṃjñān suravidviṣas tān 18 tridaśānāṃ vacaḥ śrutvā tatheti munir abravīt kariṣye bhavatāṃ kāmaṃ lokānāṃ ca mahat sukham 19 evam uktvā tato 'gacchat samudraṃ saritāṃ patim ṛṣibhiś ca tapaḥsiddhaiḥ sārdhaṃ devaiś ca suvrataḥ 20 manusyoraga gandharvayakṣakiṃpuruṣās tathā anujagmur mahātmānaṃ drastu kāmās tad adbhutam 21 tato 'bhyagacchan sahitāḥ samudraṃ bhīma niṣvanam nṛtyantam iva cormībhir valgantam iva vāyunā 22 hasantam iva phenaughaiḥ skhalantaṃ kandareṣu ca nānā grāhasamākīrṇaṃ nānādvija ganāyutam 23 agastyasahitā devāḥ sagandharvamahoragāḥ ṛṣayaś ca mahābhāgāḥ samāsedur mahodadhim |
The Mahabharata in Sanskrit
Book 3
Chapter 103
|
1
[लॊमष] समुद्रं स समासाद्य वारुणिर भगवान ऋषिः उवाच सहितान देवान ऋषींश चैव समागतान 2 एष लॊकहितार्थं वै पिबामि वरुणालयम भवद्भिर यद अनुष्ठेयं तच छीघ्रं संविधीयताम 3 एतावद उक्त्वा वचनं मैत्रावरुणिर अच्युत समुद्रम अपिबत करुद्धः सर्वलॊकस्य पश्यतः 4 पीयमानं समुद्रं तु दृष्ट्वा देवाः सवासवाः विस्मयं परमं जग्मुः सतुतिभिश चाप्य अपूजयन 5 तवं नस तराता विधाता च लॊकानां लॊकभावनः तवत्प्रसादात समुच्छेदं न गच्छेत सामरं जगत 6 संपूज्यमानस तरिदशैर महात्मा; गन्धर्वतूर्येषु नदत्सु सर्वशः दिव्यैश च पुष्पैर अवकीर्यमाणॊ; महार्णवं निःसलिलं चकार 7 दृष्ट्वा कृतं निःसलिलं महार्णवं; सुराः समस्ताः परमप्रहृष्टाः परगृह्य दिव्यानि वरायुधानि; तान दानवाञ जघ्नुर अदीनसत्त्वाः 8 ते वध्यमानास तरिदशैर महात्मभिर; महाबलैर वेगिभिर उन्नदद्भिः न सेहिरे वेगवतां महात्मनां; वेगं तदा धारयितुं दिवौकसाम 9 ते वध्यमानास तरिदशैर दानवा भीमनिस्वनाः चक्रुः सुतुमुलं युद्धं मुहूर्तम इव भारत 10 ते पूर्वं तपसा दग्धा मुनिभिर भावितात्मभिः यतमानाः परं शक्त्या तरिदशैर विनिषूदिताः 11 ते हेमनिष्काभरणाः कुण्डलाङ्गद धारिणः निहत्य बह्व अशॊभन्त पुष्पिता इव किंशुकाः 12 हतशेषास ततः के चित कालेया मनुजॊत्तम विदार्य वसुधां देवीं पातालतलम आश्रिताः 13 निहतान दानवान दृष्ट्वा तरिदशा मुनिपुंगवम तुष्टुवुर विविधैर वाक्यैर इदं चैवाब्रुवन वचः 14 तवत्प्रसादान महाभाग लॊकैः पराप्तं महत सुखम तवत तेजसा च निहताः कालेयाः करूर विक्रमाः 15 पूरयस्व महाबाहॊ समुद्रं लॊकभावन यत तवया सलिलं पीतं तद अस्मिन पुनर उत्सृज 16 एवम उक्तः परत्युवाच भगवान मुनिपुंगवः जीर्णं तद धि मया तॊयम उपायॊ ऽनयः परचिन्त्यताम पूरणार्थं समुद्रस्य भवद्भिर यत्नम आस्थितैः 17 एतच छरुत्वा तु वचनं महर्षे भावितात्मनः विस्मिताश च विषण्णाश च बभूवुः सहिताः सुराः 18 परस्परम अनुज्ञाप्य परनम्य मुनिपुंगवम परजाः सर्वा महाराज विप्रजग्मुर यथागतम 19 तरिदशा विष्णुना सार्धम उपजग्मुः पितामहम पूरणार्थं समुद्रस्य मन्त्रयित्वा पुनः पुनः ऊचुः पराञ्जलयः सर्वे सागरस्याभिपूरणम |
1
[lomaṣa] samudraṃ sa samāsādya vāruṇir bhagavān ṛṣiḥ uvāca sahitān devān ṛṣīṃś caiva samāgatān 2 eṣa lokahitārthaṃ vai pibāmi varuṇālayam bhavadbhir yad anuṣṭheyaṃ tac chīghraṃ saṃvidhīyatām 3 etāvad uktvā vacanaṃ maitrāvaruṇir acyuta samudram apibat kruddhaḥ sarvalokasya paśyataḥ 4 pīyamānaṃ samudraṃ tu dṛṣṭvā devāḥ savāsavāḥ vismayaṃ paramaṃ jagmuḥ stutibhiś cāpy apūjayan 5 tvaṃ nas trātā vidhātā ca lokānāṃ lokabhāvanaḥ tvatprasādāt samucchedaṃ na gacchet sāmaraṃ jagat 6 saṃpūjyamānas tridaśair mahātmā; gandharvatūryeṣu nadatsu sarvaśaḥ divyaiś ca puṣpair avakīryamāṇo; mahārṇavaṃ niḥsalilaṃ cakāra 7 dṛṣṭvā kṛtaṃ niḥsalilaṃ mahārṇavaṃ; surāḥ samastāḥ paramaprahṛṣṭāḥ pragṛhya divyāni varāyudhāni; tān dānavāñ jaghnur adīnasattvāḥ 8 te vadhyamānās tridaśair mahātmabhir; mahābalair vegibhir unnadadbhiḥ na sehire vegavatāṃ mahātmanāṃ; vegaṃ tadā dhārayituṃ divaukasām 9 te vadhyamānās tridaśair dānavā bhīmanisvanāḥ cakruḥ sutumulaṃ yuddhaṃ muhūrtam iva bhārata 10 te pūrvaṃ tapasā dagdhā munibhir bhāvitātmabhiḥ yatamānāḥ paraṃ śaktyā tridaśair viniṣūditāḥ 11 te hemaniṣkābharaṇāḥ kuṇḍalāṅgada dhāriṇaḥ nihatya bahv aśobhanta puṣpitā iva kiṃśukāḥ 12 hataśeṣās tataḥ ke cit kāleyā manujottama vidārya vasudhāṃ devīṃ pātālatalam āśritāḥ 13 nihatān dānavān dṛṣṭvā tridaśā munipuṃgavam tuṣṭuvur vividhair vākyair idaṃ caivābruvan vacaḥ 14 tvatprasādān mahābhāga lokaiḥ prāptaṃ mahat sukham tvat tejasā ca nihatāḥ kāleyāḥ krūra vikramāḥ 15 pūrayasva mahābāho samudraṃ lokabhāvana yat tvayā salilaṃ pītaṃ tad asmin punar utsṛja 16 evam uktaḥ pratyuvāca bhagavān munipuṃgavaḥ jīrṇaṃ tad dhi mayā toyam upāyo 'nyaḥ pracintyatām pūraṇārthaṃ samudrasya bhavadbhir yatnam āsthitaiḥ 17 etac chrutvā tu vacanaṃ maharṣe bhāvitātmanaḥ vismitāś ca viṣaṇṇāś ca babhūvuḥ sahitāḥ surāḥ 18 parasparam anujñāpya pranamya munipuṃgavam prajāḥ sarvā mahārāja viprajagmur yathāgatam 19 tridaśā viṣṇunā sārdham upajagmuḥ pitāmaham pūraṇārthaṃ samudrasya mantrayitvā punaḥ punaḥ ūcuḥ prāñjalayaḥ sarve sāgarasyābhipūraṇam |
The Mahabharata in Sanskrit
Book 3
Chapter 104
|
1
[लॊमष] तान उवाच समेतांस तु बरह्मा लॊकपितामहः गच्छध्वं विबुधाः सर्वे यथाकामं यथेप्सितम 2 महता कालयॊगेन परकृतिं यास्यते ऽरणवः जञातीन वै कारणं कृत्वा महाराज्ञॊ भगीरथात 3 [य] कथं वै जञातयॊ बरह्मन कारणं चात्र किं मुने कथं समुद्रः पूर्णश च भगीरथ परिश्रमात 4 एतद इच्छाम्य अहं शरॊतुं विस्तरेण तपॊधन कथ्यमानं तवया विप्र राज्ञां चरितम उत्तमम 5 [व] एवम उक्तस तु विप्रेन्द्रॊ धर्मराज्ञा महात्मना कथयाम आस माहात्म्यं सगरस्य महात्मनः 6 [लॊमष] इक्ष्वाकूणां कुले जातः सगरॊ नाम पार्थिवः रूपसत्त्वबलॊपेतः स चापुत्रः परतापवान 7 स हैहयान समुत्साद्य तालजङ्घांश च भारत वशे च कृत्वा राज्ञॊ ऽनयान सवराज्यम अन्वशासत 8 तस्य भार्ये तव अभवतां रूपयौवन दर्पिते वैदर्भी भरतश्रेष्ठ शैब्या च भरतर्षभ 9 सपुत्रकामॊ नृपतिस तताप सुमहत तपः पत्नीभ्यां सह राजेन्द्र कैलासं गिरिम आश्रितः 10 स तप्यमानः सुमहत तपॊयॊगसमन्वितः आससाद महात्मानं तर्यक्षं तरिपुरमर्दनम 11 शंकरं भवम ईशानं शूलपानिं पिनाकिनम तर्यम्बकं शिवम उग्रेशं बहुरूपम उमापतिम 12 स तं दृष्ट्वैव वरदं पत्नीभ्यां सहितॊ नृपः परनिपत्य महाबाहुः पुत्रार्थं समयाचत 13 तं परीतिमान हरः पराह सभार्यं नृपसत्तमम यस्मिन वृतॊ मुहूर्ते ऽहं तवयेह नृपते वरम 14 षष्टिः पुत्रसहस्राणि शूराः समरदर्पिताः एकस्यां संभविष्यन्ति पत्न्यां तव नरॊत्तम 15 ते चैव सर्वे सहिताः कषयं यास्यन्ति पार्थिव एकॊ वंशधरः शूर एकस्यां संभविष्यति एवम उक्त्वा तु तं रुद्रस तत्रैवान्तरधीयत 16 स चापि सगरॊ राजा जगाम सवं निवेशनम पत्नीभ्यां सहितस तात सॊ ऽतिहृष्ट मनास तदा 17 तस्याथ मनुजश्रेष्ठ ते भार्ये कमलेक्षणे वैदर्भी चैव शैब्या च गर्भिण्यौ संबभूवतुः 18 ततः कालेन वैदर्भी गर्भालाबुं वयजायत शैब्या च सुषुवे पुत्रं कुमारं देवरूपिणम 19 तदालाबुं समुत्स्रष्टुं मनॊ चक्रे स पार्थिवः अथान्तरिक्षाच छुश्राव वाचं गम्भीरनिस्वनाम 20 राजन मा साहसं कार्षीः पुत्रान न तयक्तुम अर्हसि अलाबुमध्यान निष्कृष्य बीजं यत्नेन गॊप्यताम 21 सॊपस्वेदेषु पात्रेषु घृतपूर्णेषु भागशः ततः पुत्रसहस्राणि षष्टिं पराप्स्यसि पार्थिव 22 महादेवेन दिष्टं ते पुत्र जन्म नराधिप अनेन करमयॊगेन मा ते बुद्धिर अतॊ ऽनयथा |
1
[lomaṣa] tān uvāca sametāṃs tu brahmā lokapitāmahaḥ gacchadhvaṃ vibudhāḥ sarve yathākāmaṃ yathepsitam 2 mahatā kālayogena prakṛtiṃ yāsyate 'rṇavaḥ jñātīn vai kāraṇaṃ kṛtvā mahārājño bhagīrathāt 3 [y] kathaṃ vai jñātayo brahman kāraṇaṃ cātra kiṃ mune kathaṃ samudraḥ pūrṇaś ca bhagīratha pariśramāt 4 etad icchāmy ahaṃ śrotuṃ vistareṇa tapodhana kathyamānaṃ tvayā vipra rājñāṃ caritam uttamam 5 [v] evam uktas tu viprendro dharmarājñā mahātmanā kathayām āsa māhātmyaṃ sagarasya mahātmanaḥ 6 [lomaṣa] ikṣvākūṇāṃ kule jātaḥ sagaro nāma pārthivaḥ rūpasattvabalopetaḥ sa cāputraḥ pratāpavān 7 sa haihayān samutsādya tālajaṅghāṃś ca bhārata vaśe ca kṛtvā rājño 'nyān svarājyam anvaśāsata 8 tasya bhārye tv abhavatāṃ rūpayauvana darpite vaidarbhī bharataśreṣṭha śaibyā ca bharatarṣabha 9 saputrakāmo nṛpatis tatāpa sumahat tapaḥ patnībhyāṃ saha rājendra kailāsaṃ girim āśritaḥ 10 sa tapyamānaḥ sumahat tapoyogasamanvitaḥ āsasāda mahātmānaṃ tryakṣaṃ tripuramardanam 11 śaṃkaraṃ bhavam īśānaṃ śūlapāniṃ pinākinam tryambakaṃ śivam ugreśaṃ bahurūpam umāpatim 12 sa taṃ dṛṣṭvaiva varadaṃ patnībhyāṃ sahito nṛpaḥ pranipatya mahābāhuḥ putrārthaṃ samayācata 13 taṃ prītimān haraḥ prāha sabhāryaṃ nṛpasattamam yasmin vṛto muhūrte 'haṃ tvayeha nṛpate varam 14 ṣaṣṭiḥ putrasahasrāṇi śūrāḥ samaradarpitāḥ ekasyāṃ saṃbhaviṣyanti patnyāṃ tava narottama 15 te caiva sarve sahitāḥ kṣayaṃ yāsyanti pārthiva eko vaṃśadharaḥ śūra ekasyāṃ saṃbhaviṣyati evam uktvā tu taṃ rudras tatraivāntaradhīyata 16 sa cāpi sagaro rājā jagāma svaṃ niveśanam patnībhyāṃ sahitas tāta so 'tihṛṣṭa manās tadā 17 tasyātha manujaśreṣṭha te bhārye kamalekṣaṇe vaidarbhī caiva śaibyā ca garbhiṇyau saṃbabhūvatuḥ 18 tataḥ kālena vaidarbhī garbhālābuṃ vyajāyata śaibyā ca suṣuve putraṃ kumāraṃ devarūpiṇam 19 tadālābuṃ samutsraṣṭuṃ mano cakre sa pārthivaḥ athāntarikṣāc chuśrāva vācaṃ gambhīranisvanām 20 rājan mā sāhasaṃ kārṣīḥ putrān na tyaktum arhasi alābumadhyān niṣkṛṣya bījaṃ yatnena gopyatām 21 sopasvedeṣu pātreṣu ghṛtapūrṇeṣu bhāgaśaḥ tataḥ putrasahasrāṇi ṣaṣṭiṃ prāpsyasi pārthiva 22 mahādevena diṣṭaṃ te putra janma narādhipa anena kramayogena mā te buddhir ato 'nyathā |
The Mahabharata in Sanskrit
Book 3
Chapter 105
|
1
[लॊमष] एतच छरुत्वान्तरिक्षाच च स राजा राजसत्तम यथॊक्तं तच चकाराथ शरद्दधद भरतर्षभ 2 षष्टिः पुत्रसहस्राणि तस्याप्रतिम तेजसः रुद्र परसादाद राजर्षेः समजायन्त पार्थिव 3 ते घॊराः करूरकर्माण आकाशपरिषर्पिणः बहुत्वाच चावजानन्तः सर्वाँल लॊकान सहामरान 4 तरिदशांश चाप्य अबाधन्त तथा गन्धर्वराक्षसान सर्वाणि चैव भूतानि शूराः समरशालिनः 5 वध्यमानास ततॊ लॊकाः सागरैर मन्दबुद्धिभिः बरह्माणं शरणं जग्मुः सहिताः सर्वदैवतैः 6 तान उवाच महाभागः सर्वलॊकपितामहः गच्छध्वं तरिदशाः सर्वे लॊकैः सार्धं यथागतम 7 नातिदीर्घेण कालेन सागराणां कषयॊ महान भविष्यति महाघॊरः सवकृतैः कर्मभिर सुराः 8 एवम उक्तास ततॊ देवा लॊकाश च मनुजेश्वर पितामहम अनुज्ञाप्य विप्रजग्मुर यथागतम 9 ततः काले बहुतिथे वयतीते भरतर्षभ दीक्षितः सगरॊ राजा हयमेधेन वीर्यवान तस्याश्वॊ वयचरद भूमिं पुत्रैः सुपरिरक्षितः 10 समुद्रं स समासाद्य निस्तॊयं भीमदर्शनम रक्ष्यमाणः परयत्नेन तत्रैवान्तरधीयत 11 ततस ते सागरास तात हृतं मत्वा हयॊत्तमम आगम्य पितुर आचख्युर अदृश्यं तुरगं हृतम तेनॊक्ता दिक्षु सर्वासु सर्वे मार्गत वाजिनम 12 ततस ते पितुर आज्ञाय दिक्षु सर्वासु तं हयम अमार्गन्त महाराज सर्वं च पृथिवीतलम 13 ततस ते सागराः सर्वे समुपेत्य परस्परम नाध्यगच्छन्त तुरगम अश्वहर्तारम एव च 14 आगम्य पितरं चॊचुस ततः पराञ्जलयॊ ऽगरतः ससमुद्र वनद्वीपा सनदी नदकन्दरा सपर्वतवनॊद्देशा निखिलेन मही नृप 15 अस्माभिर विचिता राजञ शासनात तव पार्थिव न चाश्वम अधिगच्छामॊ नाश्वहर्तारम एव च 16 शरुत्वा तु वचनं तेषां स राजा करॊधमूर्छितः उवाच वचनं सर्वांस तदा दैववशान नृप 17 अनागमाय गच्छध्वं भूयॊ मार्गत वाजिनम यज्ञियं तं विना हय अश्वं नागन्तव्यं हि पुत्रकाः 18 परतिगृह्य तु संदेशं ततस ते सगरात्मजाः भूय एव महीं कृत्स्नां विचेतुम उपचक्रमुः 19 अथापश्यन्त ते वीराः पृथिवीम अवदारिताम समासाद्य बिलं तच च खनन्तः सगरात्मजाः कुद्दालैर हरेषुकैश चैव समुद्रम अखनंस तदा 20 स खन्यमानः सहितैः सागरैर वरुणालयः अगच्छत परमाम आर्तिं दार्यमाणः समन्ततः 21 असुरॊरग रक्षांसि सत्त्वानि विविधानि च आर्तनादम अकुर्वन्त वध्यमानानि सागरैः 22 छिन्नशीर्षा विदेहाश च भिन्नजान्व अस्थि मस्तकाः पराणिनः समदृश्यन्त शतशॊ ऽथ सहस्रशः 23 एवं हि खनतां तेषां समुद्रं मकरालयम वयतीतः सुमहान कालॊ न चाश्वः समदृश्यत 24 ततः पूर्वॊत्तरे देशे समुद्रस्य महीपते विदार्य पातालम अथ संक्रुद्धाः सगरात्मजाः अपश्यन्त हयं तत्र विचरन्तं महीतले 25 कपिलं च महात्मानं तेजॊराशिम अनुत्तमम तपसा दीप्यमानं तं जवालाभिर इव पावकम |
1
[lomaṣa] etac chrutvāntarikṣāc ca sa rājā rājasattama yathoktaṃ tac cakārātha śraddadhad bharatarṣabha 2 ṣaṣṭiḥ putrasahasrāṇi tasyāpratima tejasaḥ rudra prasādād rājarṣeḥ samajāyanta pārthiva 3 te ghorāḥ krūrakarmāṇa ākāśapariṣarpiṇaḥ bahutvāc cāvajānantaḥ sarvāṁl lokān sahāmarān 4 tridaśāṃś cāpy abādhanta tathā gandharvarākṣasān sarvāṇi caiva bhūtāni śūrāḥ samaraśālinaḥ 5 vadhyamānās tato lokāḥ sāgarair mandabuddhibhiḥ brahmāṇaṃ śaraṇaṃ jagmuḥ sahitāḥ sarvadaivataiḥ 6 tān uvāca mahābhāgaḥ sarvalokapitāmahaḥ gacchadhvaṃ tridaśāḥ sarve lokaiḥ sārdhaṃ yathāgatam 7 nātidīrgheṇa kālena sāgarāṇāṃ kṣayo mahān bhaviṣyati mahāghoraḥ svakṛtaiḥ karmabhir surāḥ 8 evam uktās tato devā lokāś ca manujeśvara pitāmaham anujñāpya viprajagmur yathāgatam 9 tataḥ kāle bahutithe vyatīte bharatarṣabha dīkṣitaḥ sagaro rājā hayamedhena vīryavān tasyāśvo vyacarad bhūmiṃ putraiḥ suparirakṣitaḥ 10 samudraṃ sa samāsādya nistoyaṃ bhīmadarśanam rakṣyamāṇaḥ prayatnena tatraivāntaradhīyata 11 tatas te sāgarās tāta hṛtaṃ matvā hayottamam āgamya pitur ācakhyur adṛśyaṃ turagaṃ hṛtam tenoktā dikṣu sarvāsu sarve mārgata vājinam 12 tatas te pitur ājñāya dikṣu sarvāsu taṃ hayam amārganta mahārāja sarvaṃ ca pṛthivītalam 13 tatas te sāgarāḥ sarve samupetya parasparam nādhyagacchanta turagam aśvahartāram eva ca 14 āgamya pitaraṃ cocus tataḥ prāñjalayo 'grataḥ sasamudra vanadvīpā sanadī nadakandarā saparvatavanoddeśā nikhilena mahī nṛpa 15 asmābhir vicitā rājañ śāsanāt tava pārthiva na cāśvam adhigacchāmo nāśvahartāram eva ca 16 śrutvā tu vacanaṃ teṣāṃ sa rājā krodhamūrchitaḥ uvāca vacanaṃ sarvāṃs tadā daivavaśān nṛpa 17 anāgamāya gacchadhvaṃ bhūyo mārgata vājinam yajñiyaṃ taṃ vinā hy aśvaṃ nāgantavyaṃ hi putrakāḥ 18 pratigṛhya tu saṃdeśaṃ tatas te sagarātmajāḥ bhūya eva mahīṃ kṛtsnāṃ vicetum upacakramuḥ 19 athāpaśyanta te vīrāḥ pṛthivīm avadāritām samāsādya bilaṃ tac ca khanantaḥ sagarātmajāḥ kuddālair hreṣukaiś caiva samudram akhanaṃs tadā 20 sa khanyamānaḥ sahitaiḥ sāgarair varuṇālayaḥ agacchat paramām ārtiṃ dāryamāṇaḥ samantataḥ 21 asuroraga rakṣāṃsi sattvāni vividhāni ca ārtanādam akurvanta vadhyamānāni sāgaraiḥ 22 chinnaśīrṣā videhāś ca bhinnajānv asthi mastakāḥ prāṇinaḥ samadṛśyanta śataśo 'tha sahasraśaḥ 23 evaṃ hi khanatāṃ teṣāṃ samudraṃ makarālayam vyatītaḥ sumahān kālo na cāśvaḥ samadṛśyata 24 tataḥ pūrvottare deśe samudrasya mahīpate vidārya pātālam atha saṃkruddhāḥ sagarātmajāḥ apaśyanta hayaṃ tatra vicarantaṃ mahītale 25 kapilaṃ ca mahātmānaṃ tejorāśim anuttamam tapasā dīpyamānaṃ taṃ jvālābhir iva pāvakam |
The Mahabharata in Sanskrit
Book 3
Chapter 106
|
1
[लॊमष] ते तं दृष्ट्वा हयं राजन संप्रहृष्टतनू रुहाः अनादृत्य महात्मानं कपिलं कालचॊदिताः संक्रुद्धाः समधावन्त अश्वग्रहण काङ्क्षिणः 2 ततः करुद्धॊ महाराज कपिलॊ मुनिसत्तमः वासुदेवेति यं पराहुः कपिलं मुनिसत्तमम 3 स चक्षुर विवृतं कृत्वा तेजस तेषु समुत्सृजन ददाह सुमहातेजा मन्दबुद्धीन स सागरान 4 तान दृष्ट्वा भस्मसाद भूतान नारदः सुमहातपाः सगरान्तिकम आगच्छत तच च तस्मै नयवेदयत 5 स तच छरुत्वा वचॊ घॊरं राजा मुनिमुखॊद्गतम आत्मानम आत्मनाश्वस्य हयम एवान्वचिन्तयत 6 अंशुमन्तं समाहूय असमज्ञः सुतं तदा पौत्रं भरतशार्दूल इदं वचनम अब्रवीत 7 षष्टिस तानि सहस्राणि पुत्राणाम अमितौजसाम कापिलं तेज आसाद्य मत्कृते निधनं गताः 8 तव चापि पिता तात परित्यक्तॊ मयानघ धर्मं संरक्षमाणेन पौराणां हितम इच्छता 9 [य] किमर्थं राजशार्दूलः सगरः पुत्रम आत्मजम तयक्तवान दुस्त्यजं वीरं तन मे बरूहि तपॊधन 10 [ल] असमञ्जा इति खयातः सगरस्य सुतॊ हय अभूत यं शैब्या जनयाम आस पौराणां स हि दारकान खुरेषु करॊशतॊ गृह्य नद्यां चिक्षेप दुर्बलान 11 ततः पौराः समाजग्मुर भयशॊकपरिप्लुताः सगरं चाभ्ययाचन्त सर्वे पराञ्जलयः सथिताः 12 तवं नस तराता महाराज परचक्रादिभिर भयैः असमञ्जॊ भयाद घॊरात ततॊ नस तरातुम अर्हसि 13 पौराणां वचनं शरुत्वा घॊरं नृपतिसत्तमः मुहूर्तं विमनॊ भूत्वा सचिवान इदम अब्रवीत 14 असमञ्जाः पुराद अद्य सुतॊ मे विप्रवास्यताम यदि वॊ मत्प्रियं कार्यम एतच छीघ्रं विधीयताम एवम उक्ता नरेन्द्रेण सचिवास ते नराधिप 15 यथॊक्तं तवरिताश चक्रुर यथाज्ञापितवान नृपः 16 एतत ते सर्वम आख्यातं यथा पुत्रॊ महात्मना पौराणां हितकामेन सगरेण विवासितः 17 अंशुमांस तु महेष्वासॊ यद उक्तः सगरेण ह तत ते सर्वं परवक्ष्यामि कीर्त्यमानं निबॊध मे 18 [सगर] पितुश च ते ऽहं तयागेन पुत्राणां निधनेन च अलाभेन तथाश्वस्य परितप्यामि पुत्रक 19 तस्माद दुःखाभिसंतप्तं यज्ञविघ्नाच च मॊहितम हयस्यानयनात पौत्र नरकान मां समुद्धर 20 [ल] अंशुमान एवम उक्तस तु सगरेण महात्मना जगाम दुःखात तं देशं यत्र वै दारिता मही 21 स तु तेनैव मार्गेण समुद्रं परविवेश ह अपश्यच च महात्मानं कपिलं तुरगं च तम 22 स दृष्ट्वा तेजसॊ राशिं पुराणम ऋषिसत्तमम परणम्य शिरसा भूमौ कार्यम अस्मै नयवेदयत 23 ततः परीतॊ महातेजाः कलिपॊ ऽंशुमतॊ ऽभवत उवाच चैनं धर्मात्मा वरदॊ ऽसमीति भारत 24 स वव्रे तुरगं तत्र परथमं यज्ञकारणात दवितीयम उदकं वव्रे पितॄणां पावनेप्सया 25 तम उवाच महातेजाः कपिलॊ मुनिपुंगवः ददानि तव भद्रं ते यद यत परार्थयसे ऽनघ 26 तवयि कषमा च धर्मश च सत्यं चापि परतिष्ठितम तवया कृतार्थः सगरः पुत्र वांश च तवया पिता 27 तव चैव परभावेण सवर्गं यास्यन्ति सागराः पौत्रश च ते तरिपथ गां तरिदिवाद आनयिष्यति पावनार्थं सागराणां तॊषयित्वा महेश्वरम 28 हयं नयस्व भद्रं ते यज्ञियं नरपुंगव यज्ञः समाप्यतां तात सगरस्य महात्मनः 29 अंशुमान एवम उक्तस तु कपिलेन महात्मना आजगाम हयं गृह्य यज्ञवाटं महात्मनः 30 सॊ ऽभिवाद्य ततः पादौ सगरस्य महात्मनः मूर्ध्नि तेनाप्य उपाघ्रातस तस्मै सर्वं नयवेदयत 31 यथादृष्टं शरुतं चापि सागराणां कषयं तथा तं चास्मै हयम आचस्त यज्ञवाटम उपागतम 32 तच छरुत्वा सगरॊ राजा पुत्र जं दुःखम अत्यजत अंशुमन्तं च संपूज्य समापयत तं करतुम 33 समाप्तयज्ञः सगरॊ देवैः सर्वैः सभाजितः पुत्र तवे कल्पयाम आस समुद्रं वरुणालयम 34 परशास्य सुचिरं कालं राज्यं राजीवलॊचनः पौत्रे भारं समावेश्य जगाम तरिदिवं तदा 35 अंशुमान अपि धर्मात्मा महीं सागरमेखलाम परशशाश महाराज यथैवास्य पिता महः 36 तस्य पुत्रः समभवद दिलीपॊ नाम धर्मवित तस्मै राज्यं समाधाय अंशुमान अपि संस्थितः 37 दिलीपस तु ततः शरुत्वा पितॄणां निधनं महत पर्यतप्यत दुःखेन तेषां गतिम अचिन्तयत 38 गङ्गावतरणे यत्नं सुमहच चाकरॊन नृपः न चावतारयाम आस चेष्टमानॊ यथाबलम 39 तस्य पुत्रः समभवच छरीमान धर्मपरायणः भगीरथ इति खयातः सत्यवाग अनसूयकः 40 अभिषिच्य तु तं राज्ये दिलीपॊ वनम आश्रितः तपःसिद्धिसमायॊगात स राजा भरतर्षभ वनाज जगाम तरिदिवं कालयॊगेन भारत |
1
[lomaṣa] te taṃ dṛṣṭvā hayaṃ rājan saṃprahṛṣṭatanū ruhāḥ anādṛtya mahātmānaṃ kapilaṃ kālacoditāḥ saṃkruddhāḥ samadhāvanta aśvagrahaṇa kāṅkṣiṇaḥ 2 tataḥ kruddho mahārāja kapilo munisattamaḥ vāsudeveti yaṃ prāhuḥ kapilaṃ munisattamam 3 sa cakṣur vivṛtaṃ kṛtvā tejas teṣu samutsṛjan dadāha sumahātejā mandabuddhīn sa sāgarān 4 tān dṛṣṭvā bhasmasād bhūtān nāradaḥ sumahātapāḥ sagarāntikam āgacchat tac ca tasmai nyavedayat 5 sa tac chrutvā vaco ghoraṃ rājā munimukhodgatam ātmānam ātmanāśvasya hayam evānvacintayat 6 aṃśumantaṃ samāhūya asamajñaḥ sutaṃ tadā pautraṃ bharataśārdūla idaṃ vacanam abravīt 7 ṣaṣṭis tāni sahasrāṇi putrāṇām amitaujasām kāpilaṃ teja āsādya matkṛte nidhanaṃ gatāḥ 8 tava cāpi pitā tāta parityakto mayānagha dharmaṃ saṃrakṣamāṇena paurāṇāṃ hitam icchatā 9 [y] kimarthaṃ rājaśārdūlaḥ sagaraḥ putram ātmajam tyaktavān dustyajaṃ vīraṃ tan me brūhi tapodhana 10 [l] asamañjā iti khyātaḥ sagarasya suto hy abhūt yaṃ śaibyā janayām āsa paurāṇāṃ sa hi dārakān khureṣu krośato gṛhya nadyāṃ cikṣepa durbalān 11 tataḥ paurāḥ samājagmur bhayaśokapariplutāḥ sagaraṃ cābhyayācanta sarve prāñjalayaḥ sthitāḥ 12 tvaṃ nas trātā mahārāja paracakrādibhir bhayaiḥ asamañjo bhayād ghorāt tato nas trātum arhasi 13 paurāṇāṃ vacanaṃ śrutvā ghoraṃ nṛpatisattamaḥ muhūrtaṃ vimano bhūtvā sacivān idam abravīt 14 asamañjāḥ purād adya suto me vipravāsyatām yadi vo matpriyaṃ kāryam etac chīghraṃ vidhīyatām evam uktā narendreṇa sacivās te narādhipa 15 yathoktaṃ tvaritāś cakrur yathājñāpitavān nṛpaḥ 16 etat te sarvam ākhyātaṃ yathā putro mahātmanā paurāṇāṃ hitakāmena sagareṇa vivāsitaḥ 17 aṃśumāṃs tu maheṣvāso yad uktaḥ sagareṇa ha tat te sarvaṃ pravakṣyāmi kīrtyamānaṃ nibodha me 18 [sagara] pituś ca te 'haṃ tyāgena putrāṇāṃ nidhanena ca alābhena tathāśvasya paritapyāmi putraka 19 tasmād duḥkhābhisaṃtaptaṃ yajñavighnāc ca mohitam hayasyānayanāt pautra narakān māṃ samuddhara 20 [l] aṃśumān evam uktas tu sagareṇa mahātmanā jagāma duḥkhāt taṃ deśaṃ yatra vai dāritā mahī 21 sa tu tenaiva mārgeṇa samudraṃ praviveśa ha apaśyac ca mahātmānaṃ kapilaṃ turagaṃ ca tam 22 sa dṛṣṭvā tejaso rāśiṃ purāṇam ṛṣisattamam praṇamya śirasā bhūmau kāryam asmai nyavedayat 23 tataḥ prīto mahātejāḥ kalipo 'ṃśumato 'bhavat uvāca cainaṃ dharmātmā varado 'smīti bhārata 24 sa vavre turagaṃ tatra prathamaṃ yajñakāraṇāt dvitīyam udakaṃ vavre pitṝṇāṃ pāvanepsayā 25 tam uvāca mahātejāḥ kapilo munipuṃgavaḥ dadāni tava bhadraṃ te yad yat prārthayase 'nagha 26 tvayi kṣamā ca dharmaś ca satyaṃ cāpi pratiṣṭhitam tvayā kṛtārthaḥ sagaraḥ putra vāṃś ca tvayā pitā 27 tava caiva prabhāveṇa svargaṃ yāsyanti sāgarāḥ pautraś ca te tripatha gāṃ tridivād ānayiṣyati pāvanārthaṃ sāgarāṇāṃ toṣayitvā maheśvaram 28 hayaṃ nayasva bhadraṃ te yajñiyaṃ narapuṃgava yajñaḥ samāpyatāṃ tāta sagarasya mahātmanaḥ 29 aṃśumān evam uktas tu kapilena mahātmanā ājagāma hayaṃ gṛhya yajñavāṭaṃ mahātmanaḥ 30 so 'bhivādya tataḥ pādau sagarasya mahātmanaḥ mūrdhni tenāpy upāghrātas tasmai sarvaṃ nyavedayat 31 yathādṛṣṭaṃ śrutaṃ cāpi sāgarāṇāṃ kṣayaṃ tathā taṃ cāsmai hayam ācasta yajñavāṭam upāgatam 32 tac chrutvā sagaro rājā putra jaṃ duḥkham atyajat aṃśumantaṃ ca saṃpūjya samāpayata taṃ kratum 33 samāptayajñaḥ sagaro devaiḥ sarvaiḥ sabhājitaḥ putra tve kalpayām āsa samudraṃ varuṇālayam 34 praśāsya suciraṃ kālaṃ rājyaṃ rājīvalocanaḥ pautre bhāraṃ samāveśya jagāma tridivaṃ tadā 35 aṃśumān api dharmātmā mahīṃ sāgaramekhalām praśaśāśa mahārāja yathaivāsya pitā mahaḥ 36 tasya putraḥ samabhavad dilīpo nāma dharmavit tasmai rājyaṃ samādhāya aṃśumān api saṃsthitaḥ 37 dilīpas tu tataḥ śrutvā pitṝṇāṃ nidhanaṃ mahat paryatapyata duḥkhena teṣāṃ gatim acintayat 38 gaṅgāvataraṇe yatnaṃ sumahac cākaron nṛpaḥ na cāvatārayām āsa ceṣṭamāno yathābalam 39 tasya putraḥ samabhavac chrīmān dharmaparāyaṇaḥ bhagīratha iti khyātaḥ satyavāg anasūyakaḥ 40 abhiṣicya tu taṃ rājye dilīpo vanam āśritaḥ tapaḥsiddhisamāyogāt sa rājā bharatarṣabha vanāj jagāma tridivaṃ kālayogena bhārata |
The Mahabharata in Sanskrit
Book 3
Chapter 107
|
1
[लॊमष] स तु राजा महेष्वासश चक्रवर्ती महारथः बभूव सर्वलॊकस्य मनॊ नयननन्दनः 2 स शुश्राव महाबाहुः कपिलेन महात्मना पितॄणां निधनं घॊरम अप्राप्तिं तरिदिवस्य च 3 स राज्यं सचिवे नयस्य हृदयेन विदूयता जगाम हिमवत्पार्श्वं तपस तप्तुं नरेश्वरः 4 आरिराधयिषुर गङ्गां तपसा दग्धकिल्बिषः सॊ ऽपश्यत नरश्रेष्ठ हिमवन्तं नगॊत्तमम शृङ्गैर बहुविधाकारैर धातुमद्भिर अलं कृतम 5 पवनालम्बिभिर मेघैः परिष्वक्तं समन्त तः 6 नदी कुञ्ज नितम्बैश च सॊदकैर उपशॊभितम गुहा कन्दरसंलीनैः सिंहव्याघ्रैर निषेवितम 7 शकुनैश च वि चित्राङ्गैः कूजद्भिर विविधा गिरः भृङ्गराजैस तथा हंसैर दात्यूहैर जलकुक्कुतैः 8 मयूरैः शतपत्रैश च कॊकिलैर जीव जीवकैः चकॊरैर असितापाङ्गैस तथा पुत्र परियैर अपि 9 जलस्थानेषु रम्येषु पद्मिनीभिश च संकुलम सारसानां च मधुरैर वयाहृतैः समलं कृतम 10 किंनरैर अप्सरॊभिश च निषेवित शिलातलम दिशागजविषाणाग्रैः समन्ताद घृष्ट पादपम 11 विद्याधरानुचरितं नानारत्नसमाकुलम विषॊल्बणैर भुजं गैश च दीप्तजिह्वैर निषेवितम 12 कव चित कनकसंकाशं कव चिद रजतसंनिभम कव चिद अञ्जन पुञ्जाभं हिमवन्तम उपागमत 13 स तु तत्र नरश्रेष्ठस तपॊ घॊरं समाश्रितः फलमूलाम्बुभक्षॊ ऽभूत सहस्रं परिवत्सरान 14 संवत्सरसहस्रे तु गते दिव्ये महानदी दर्शयाम आस तं गङ्गा तदा मूर्ति मती सवयम 15 [गन्गा] किम इच्छसि महाराज मत्तः किं च ददानि ते तद बरवीहि नरश्रेष्ठ करिष्यामि वचस तव 16 [लॊमष] एवम उक्तः परत्युवाच राजा हैमवतीं तदा पिता महामे वरदे कपिलेन महानदि अन्वेषमाणास तुरगं नीता वैवस्वतक्षयम 17 षष्टिस तानि सहस्राणि सागराणां महात्मनाम कापिलं तेज आसाद्य कषणेन निधनं गताः 18 तेषाम एवं विनष्टानां सवर्गे वासॊ न विद्यते यावत तानि शरीराणि तवं जलैर नाभिषिञ्चसि 19 सवर्गं नयमहाभागे मत पितॄन सगरात्म जान तेषाम अर्थे ऽभियाचामि तवाम अहं वै महानदि 20 एतच छरुत्वा वचॊ राज्ञॊ गङ्गा लॊकनमस्कृता भगीरथम इदं वाक्यं सुप्रीता समभाषत 21 करिष्यामि महाराज वचस ते नात्र संशयः वेगं तु मम दुर धार्यं पतन्त्या गगणाच चयुतम 22 न शक्तस तरिषु लॊकेषु कश चिद धारयितुं नृप अन्यत्र विबुधश्रेष्ठान नीलकण्ठान महेश्वरात 23 तं तॊषय महाबाहॊ तपसा वरदं हरम स तु मां परच्युतां देवः शिरसा धारयिष्यति करिष्यति च ते कामं पितॄणां हितकाम्यया 24 एतच छरुत्वा वचॊ राजन महाराजॊ भगीरथः कैलासं पर्वतं गत्वा तॊषयाम आस शंकरम 25 ततस तेन समागम्य कालयॊगेन केन चित अगृह्णाच च वरं तस्माद गङ्गाया धारणं नृप सवर्गवासं समुद्दिश्य पितॄणां स नरॊत्तमः |
1
[lomaṣa] sa tu rājā maheṣvāsaś cakravartī mahārathaḥ babhūva sarvalokasya mano nayananandanaḥ 2 sa śuśrāva mahābāhuḥ kapilena mahātmanā pitṝṇāṃ nidhanaṃ ghoram aprāptiṃ tridivasya ca 3 sa rājyaṃ sacive nyasya hṛdayena vidūyatā jagāma himavatpārśvaṃ tapas taptuṃ nareśvaraḥ 4 ārirādhayiṣur gaṅgāṃ tapasā dagdhakilbiṣaḥ so 'paśyata naraśreṣṭha himavantaṃ nagottamam śṛṅgair bahuvidhākārair dhātumadbhir alaṃ kṛtam 5 pavanālambibhir meghaiḥ pariṣvaktaṃ samanta taḥ 6 nadī kuñja nitambaiś ca sodakair upaśobhitam guhā kandarasaṃlīnaiḥ siṃhavyāghrair niṣevitam 7 śakunaiś ca vi citrāṅgaiḥ kūjadbhir vividhā giraḥ bhṛṅgarājais tathā haṃsair dātyūhair jalakukkutaiḥ 8 mayūraiḥ śatapatraiś ca kokilair jīva jīvakaiḥ cakorair asitāpāṅgais tathā putra priyair api 9 jalasthāneṣu ramyeṣu padminībhiś ca saṃkulam sārasānāṃ ca madhurair vyāhṛtaiḥ samalaṃ kṛtam 10 kiṃnarair apsarobhiś ca niṣevita śilātalam diśāgajaviṣāṇāgraiḥ samantād ghṛṣṭa pādapam 11 vidyādharānucaritaṃ nānāratnasamākulam viṣolbaṇair bhujaṃ gaiś ca dīptajihvair niṣevitam 12 kva cit kanakasaṃkāśaṃ kva cid rajatasaṃnibham kva cid añjana puñjābhaṃ himavantam upāgamat 13 sa tu tatra naraśreṣṭhas tapo ghoraṃ samāśritaḥ phalamūlāmbubhakṣo 'bhūt sahasraṃ parivatsarān 14 saṃvatsarasahasre tu gate divye mahānadī darśayām āsa taṃ gaṅgā tadā mūrti matī svayam 15 [gangā] kim icchasi mahārāja mattaḥ kiṃ ca dadāni te tad bravīhi naraśreṣṭha kariṣyāmi vacas tava 16 [lomaṣa] evam uktaḥ pratyuvāca rājā haimavatīṃ tadā pitā mahāme varade kapilena mahānadi anveṣamāṇās turagaṃ nītā vaivasvatakṣayam 17 ṣaṣṭis tāni sahasrāṇi sāgarāṇāṃ mahātmanām kāpilaṃ teja āsādya kṣaṇena nidhanaṃ gatāḥ 18 teṣām evaṃ vinaṣṭānāṃ svarge vāso na vidyate yāvat tāni śarīrāṇi tvaṃ jalair nābhiṣiñcasi 19 svargaṃ nayamahābhāge mat pitṝn sagarātma jān teṣām arthe 'bhiyācāmi tvām ahaṃ vai mahānadi 20 etac chrutvā vaco rājño gaṅgā lokanamaskṛtā bhagīratham idaṃ vākyaṃ suprītā samabhāṣata 21 kariṣyāmi mahārāja vacas te nātra saṃśayaḥ vegaṃ tu mama dur dhāryaṃ patantyā gagaṇāc cyutam 22 na śaktas triṣu lokeṣu kaś cid dhārayituṃ nṛpa anyatra vibudhaśreṣṭhān nīlakaṇṭhān maheśvarāt 23 taṃ toṣaya mahābāho tapasā varadaṃ haram sa tu māṃ pracyutāṃ devaḥ śirasā dhārayiṣyati kariṣyati ca te kāmaṃ pitṝṇāṃ hitakāmyayā 24 etac chrutvā vaco rājan mahārājo bhagīrathaḥ kailāsaṃ parvataṃ gatvā toṣayām āsa śaṃkaram 25 tatas tena samāgamya kālayogena kena cit agṛhṇāc ca varaṃ tasmād gaṅgāyā dhāraṇaṃ nṛpa svargavāsaṃ samuddiśya pitṝṇāṃ sa narottamaḥ |
The Mahabharata in Sanskrit
Book 3
Chapter 108
|
1
[लॊमष] भगीरथवचः शरुत्वा परियार्थं च दिवौकसाम एवम अस्त्व इति राजानं भगवान परत्यभाषत 2 धारयिष्ये महाबाहॊ गगणात परच्युतां शिवाम दिव्यां देव नदीं पुण्यां तवत्कृते नृपसत्तम 3 एवम उक्त्वा महाबाहॊ हिमवन्तम उपागमत संवृतः पार्षदैर घॊरैर नानाप्रहरणॊद्यतैः 4 ततः सथित्वा नरश्रेष्ठं भगीरथम उवाच ह परयाचस्व महाबाहॊ शैलराजसुतां नदीम पतमानां सरिच्छ्रेष्ठां धारयिष्ये तरिविष्टपात 5 एतच छरुत्वा वचॊ राजा शर्वेण समुदाहृतम परयतः परणतॊ भूत्वा गङ्गां समनुचिन्तयत 6 ततः पुण्यजला रम्या राज्ञा समनुचिन्तिता ईशानं च सथितं दृष्ट्वा गगणात सहसा चयुता 7 तां परच्युतां ततॊ दृष्ट्वा देवाः सार्धं महर्षिभिः गन्धर्वॊरगरक्षांसि समाजग्मुर दिदृक्षया 8 ततः पपात गगणाद गङ्गा हिमवतः सुता समुद्भ्रान्त महावर्ता मीनग्राहसमाकुला 9 तां दधार हरॊ राजन गङ्गां गगण मेखलाम ललाटदेशे पतितां मालां मुक्ता मयीम इव 10 सा बभूव विसर्पन्ती तरिधा राजन समुद्रगा फेनपुञ्जाकुल जला हंसानाम इव पङ्क्तयः 11 कव चिद आभॊग कुटिला परस्खलन्ती कव चित कव चित सवफेन पटसंवीता मत्तेव परमदाव्रजत कव चित सा तॊयनिनदैर नदन्ती नादम उत्तमम 12 एवं परकारान सुबहून कुर्वन्ती गगणाच चयुता पृथिवीतलम आसाद्य भगीरथम अथाब्रवीत 13 दर्शयस्व महाराज मार्गं केन वरजाम्य अहम तवदर्थम अवतीर्णास्मि पृथिवीं पृथिवीपते 14 एतच छरुत्वा वचॊ राजा परातिष्ठत भगीरथः यत्र तानि शरीराणि सागराणां महात्मनाम पावनार्थं नरश्रेष्ठ पुण्येन सलिलेन ह 15 गङ्गाया धारणं कृत्वा हरॊ लॊकनमस्कृतः कैलासं पर्वतश्रेष्ठं जगाम तरिदशैः सह 16 समुद्रं च समासाद्य गङ्गया सहितॊ नृपः पूरयाम आस वेगेन समुद्रं वरुणालयम 17 दुहितृत्वे च नृपतिर गङ्गां समनुकल्पयत पितॄणां चॊदकं यत्र ददौ पूर्णमनॊ रथः 18 एतत ते सर्वम आख्यातं गङ्गा तरिपथ गा यथा पूरणार्थं समुद्रस्य पृथिवीम अवतारिता 19 समुद्रश च यथा पीतः कारणार्थे महात्मना वातापिश च यथा नीतः कषयं स बरह्म हा परभॊ अगस्त्येन महाराज यन मां तवं परिपृच्छसि |
1
[lomaṣa] bhagīrathavacaḥ śrutvā priyārthaṃ ca divaukasām evam astv iti rājānaṃ bhagavān pratyabhāṣata 2 dhārayiṣye mahābāho gagaṇāt pracyutāṃ śivām divyāṃ deva nadīṃ puṇyāṃ tvatkṛte nṛpasattama 3 evam uktvā mahābāho himavantam upāgamat saṃvṛtaḥ pārṣadair ghorair nānāpraharaṇodyataiḥ 4 tataḥ sthitvā naraśreṣṭhaṃ bhagīratham uvāca ha prayācasva mahābāho śailarājasutāṃ nadīm patamānāṃ saricchreṣṭhāṃ dhārayiṣye triviṣṭapāt 5 etac chrutvā vaco rājā śarveṇa samudāhṛtam prayataḥ praṇato bhūtvā gaṅgāṃ samanucintayat 6 tataḥ puṇyajalā ramyā rājñā samanucintitā īśānaṃ ca sthitaṃ dṛṣṭvā gagaṇāt sahasā cyutā 7 tāṃ pracyutāṃ tato dṛṣṭvā devāḥ sārdhaṃ maharṣibhiḥ gandharvoragarakṣāṃsi samājagmur didṛkṣayā 8 tataḥ papāta gagaṇād gaṅgā himavataḥ sutā samudbhrānta mahāvartā mīnagrāhasamākulā 9 tāṃ dadhāra haro rājan gaṅgāṃ gagaṇa mekhalām lalāṭadeśe patitāṃ mālāṃ muktā mayīm iva 10 sā babhūva visarpantī tridhā rājan samudragā phenapuñjākula jalā haṃsānām iva paṅktayaḥ 11 kva cid ābhoga kuṭilā praskhalantī kva cit kva cit svaphena paṭasaṃvītā matteva pramadāvrajat kva cit sā toyaninadair nadantī nādam uttamam 12 evaṃ prakārān subahūn kurvantī gagaṇāc cyutā pṛthivītalam āsādya bhagīratham athābravīt 13 darśayasva mahārāja mārgaṃ kena vrajāmy aham tvadartham avatīrṇāsmi pṛthivīṃ pṛthivīpate 14 etac chrutvā vaco rājā prātiṣṭhata bhagīrathaḥ yatra tāni śarīrāṇi sāgarāṇāṃ mahātmanām pāvanārthaṃ naraśreṣṭha puṇyena salilena ha 15 gaṅgāyā dhāraṇaṃ kṛtvā haro lokanamaskṛtaḥ kailāsaṃ parvataśreṣṭhaṃ jagāma tridaśaiḥ saha 16 samudraṃ ca samāsādya gaṅgayā sahito nṛpaḥ pūrayām āsa vegena samudraṃ varuṇālayam 17 duhitṛtve ca nṛpatir gaṅgāṃ samanukalpayat pitṝṇāṃ codakaṃ yatra dadau pūrṇamano rathaḥ 18 etat te sarvam ākhyātaṃ gaṅgā tripatha gā yathā pūraṇārthaṃ samudrasya pṛthivīm avatāritā 19 samudraś ca yathā pītaḥ kāraṇārthe mahātmanā vātāpiś ca yathā nītaḥ kṣayaṃ sa brahma hā prabho agastyena mahārāja yan māṃ tvaṃ paripṛcchasi |
The Mahabharata in Sanskrit
Book 3
Chapter 109
|
1
[व] ततः परयातः कौन्तेयः करमेण भरतर्षभ नन्दाम अपरनन्दां च नद्यौ पापभयापहे 2 स पर्वतं समासाद्य हेमकूटम अनामयम अचिन्त्यान अद्भुतान भावान ददर्श सुबहून नृपः 3 वाचॊ यत्राभवन मेघा उपलाश च सहस्रशः नाशक्नुवंस तम आरॊढुं विषण्णमनसॊ जनाः 4 वायुर नित्यं ववौ यत्र नित्यं देवश च वर्षति सायंप्रातश च भगवान दृश्यते हव्यवाहनः 5 एवं बहुविधान भावान अद्भुतान वीक्ष्य पाण्डवः लॊमशं पुनर एव सम पर्यपृच्छत तद अद्भुतम 6 [लॊमष] यथा शरुतम इदं पूर्वम अस्माभिर अरिकर्शन तद एकाग्रमना राजन निबॊध गदतॊ मम 7 अस्मिन्न ऋषभकूटे ऽभूद ऋषभॊ नाम तापसः अनेकशतवर्षायुस तपॊ वी कॊपनॊ भृशम 8 स वै संभाष्यमाणॊ ऽनयैः कॊपाद गिरिम उवाच ह य इह वयाहरेत कश चिद उपलान उत्सृजेस तदा 9 वातं चाहूय मा शब्दम इत्य उवाच स तापसः वयाहरंश चैव पुरुषॊ मेघेन विनिवार्यते 10 एवम एतानि कर्माणि राजंस तेन महर्षिणा कृतानि कानि चित कॊपात परतिसिद्धानि कानि चित 11 नन्दाम अभिगतान देवान पुरा राजन्न इति शरुतिः अन्वपद्यन्त सहसा पुरुषा देव दर्शिनः 12 ते दर्शनम अनिच्छन्तॊ देवाः शक्रपुरॊगमाः दुर्गं चक्रुर इमं देशं गिरिप्रत्यूह रूपकम 13 तदा परभृति कौन्तेय नरा गिरिम इमं सदा नाशक्नुवन अभिद्रष्टुं कुत एवाधिरॊहितुम 14 नातप्त तपसा शक्यॊ दरष्टुम एष महागिरिः आरॊढुं वापि कौन्तेय तस्मान नियतवाग भव 15 इह देवाः सदा सर्वे यज्ञान आजह्रुर उत्तमान तेषाम एतानि लिङ्गानि दृश्यन्ते ऽदयापि भारत 16 कुशाकारेव दूर्वेयं संस्तीर्णेव च भूर इयम यूपप्रकारा बहवॊ वृक्षाश चेमे विशां पते 17 देवाश च ऋषयश चैव वसन्त्य अद्यापि भारत तेषां सायं तथा परातर दृश्यते हव्यवाहनः 18 इहाप्लुतानां कौन्तेय सद्यः पाप्मा विहन्यते कुरुश्रेष्ठाभिषेकं वै तस्मात कुरु सहानुजः 19 ततॊ नन्दाप्लुताङ्गस तवं कौशिकीम अभियास्यसि विश्वा मित्रेण यत्रॊग्रं तपस तप्तुम अनुत्तमम 20 ततस तत्र समाप्लुत्य गात्राणि सगणॊ नृपः जगाम कौशिकीं पुण्यां रम्यां शिवजलां नदीम |
1
[v] tataḥ prayātaḥ kaunteyaḥ krameṇa bharatarṣabha nandām aparanandāṃ ca nadyau pāpabhayāpahe 2 sa parvataṃ samāsādya hemakūṭam anāmayam acintyān adbhutān bhāvān dadarśa subahūn nṛpaḥ 3 vāco yatrābhavan meghā upalāś ca sahasraśaḥ nāśaknuvaṃs tam āroḍhuṃ viṣaṇṇamanaso janāḥ 4 vāyur nityaṃ vavau yatra nityaṃ devaś ca varṣati sāyaṃprātaś ca bhagavān dṛśyate havyavāhanaḥ 5 evaṃ bahuvidhān bhāvān adbhutān vīkṣya pāṇḍavaḥ lomaśaṃ punar eva sma paryapṛcchat tad adbhutam 6 [lomaṣa] yathā śrutam idaṃ pūrvam asmābhir arikarśana tad ekāgramanā rājan nibodha gadato mama 7 asminn ṛṣabhakūṭe 'bhūd ṛṣabho nāma tāpasaḥ anekaśatavarṣāyus tapo vī kopano bhṛśam 8 sa vai saṃbhāṣyamāṇo 'nyaiḥ kopād girim uvāca ha ya iha vyāharet kaś cid upalān utsṛjes tadā 9 vātaṃ cāhūya mā śabdam ity uvāca sa tāpasaḥ vyāharaṃś caiva puruṣo meghena vinivāryate 10 evam etāni karmāṇi rājaṃs tena maharṣiṇā kṛtāni kāni cit kopāt pratisiddhāni kāni cit 11 nandām abhigatān devān purā rājann iti śrutiḥ anvapadyanta sahasā puruṣā deva darśinaḥ 12 te darśanam anicchanto devāḥ śakrapurogamāḥ durgaṃ cakrur imaṃ deśaṃ giripratyūha rūpakam 13 tadā prabhṛti kaunteya narā girim imaṃ sadā nāśaknuvan abhidraṣṭuṃ kuta evādhirohitum 14 nātapta tapasā śakyo draṣṭum eṣa mahāgiriḥ āroḍhuṃ vāpi kaunteya tasmān niyatavāg bhava 15 iha devāḥ sadā sarve yajñān ājahrur uttamān teṣām etāni liṅgāni dṛśyante 'dyāpi bhārata 16 kuśākāreva dūrveyaṃ saṃstīrṇeva ca bhūr iyam yūpaprakārā bahavo vṛkṣāś ceme viśāṃ pate 17 devāś ca ṛṣayaś caiva vasanty adyāpi bhārata teṣāṃ sāyaṃ tathā prātar dṛśyate havyavāhanaḥ 18 ihāplutānāṃ kaunteya sadyaḥ pāpmā vihanyate kuruśreṣṭhābhiṣekaṃ vai tasmāt kuru sahānujaḥ 19 tato nandāplutāṅgas tvaṃ kauśikīm abhiyāsyasi viśvā mitreṇa yatrograṃ tapas taptum anuttamam 20 tatas tatra samāplutya gātrāṇi sagaṇo nṛpaḥ jagāma kauśikīṃ puṇyāṃ ramyāṃ śivajalāṃ nadīm |
The Mahabharata in Sanskrit
Book 3
Chapter 110
|
1
[लॊमष] एषा देव नदी पुण्या कौशिकी भरतर्षभ विश्वा मित्राश्रमॊ रम्यॊ एष चात्र परकाशते 2 आश्रमश चैव पुण्याख्यः काश्यपस्य महात्मनः ऋश्य शृङ्गः सुतॊ यस्य तपॊ वी संयतेन्द्रियः 3 तपसॊ यः परभावेन वर्षयाम आस वासवम अनावृष्ट्यां भयाद यस्य ववर्ष बलवृत्र हा 4 मृग्यां जातः स तेजॊ वी काश्यपस्य सुतः परभुः विषये लॊम पादस्य यश चकाराद्भुतं महत 5 निवर्तितेषु सस्येषु यस्मै शान्तां ददौ नृपः लॊम पादॊ दुहितरं सावित्रीं सविता यथा 6 [य] ऋश्य शृङ्गः कथं मृग्याम उत्पन्नः काश्यपात्म जः विरुद्धे यॊनिसंसर्गे कथं च तपसा युतः 7 किमर्थं च भयाच छक्रस तस्य बालस्य धीमतः अनावृष्ट्यां परवृत्तायां ववर्ष बलवृत्र हा 8 कथंरूपा च शान्ताभूद राजपुत्री यतव्रता लॊभयाम आस या चेतॊ मृगभूतस्य तस्य वै 9 लॊम पादश च राजर्षिर यदाश्रूयत धार्मिकः कथं वै विषये तस्य नावर्षत पाकशासनः 10 एतन मे भगवन सर्वं विस्तरेण यथातथम वक्तुम अर्हसि शुश्रूषॊर ऋष्यशृङ्गस्य चेष्टितम 11 [ल] विभाण्डकस्य बरह्मर्षेस तपसा भावितात्मनः अमॊघवीर्यस्य सतः परजापतिसमद्युतेः 12 शृणु पुत्रॊ यथा जात ऋश्य शृङ्गः परतापवान महाह्रदे महातेजा बालः सथविर संमतः 13 महाह्रदं समासाद्य काश्यपस तपसि सथितः दीर्घकालं परिश्रान्त ऋषिर देवर्षिसंमतः 14 तस्य रेतः परचस्कन्द दृष्ट्वाप्सरसम उर्वशीम अप्सूपस्पृशतॊ राजन मृगी तच चापिबत तदा 15 सह तॊयेन तृषिता सा गर्भिण्य अभवन नृप अमॊघत्वाद विधेश चैव भावि तवाद दैवनिर्मितात 16 तस्यां मृग्यां समभवत तस्य पुत्रॊ महान ऋषिः ऋश्य शृङ्गस तपॊनित्यॊ वन एव वयवर्धत 17 तस्यर्श्य शृङ्गं शिरसि राजन्न आसीन महात्मनः तेनर्श्य शृङ्ग इत्य एवं तदा स परथितॊ ऽभवत 18 न तेन दृष्टपूर्वॊ ऽनयः पितुर अन्यत्र मानुषः तस्मात तस्य मनॊ नित्यं बरह्मचर्ये ऽभवन नृप 19 एतस्मिन्न एव काले तु सखा दशरथस्य वै लॊम पाद इति खयातॊ अङ्गानाम ईश्वरॊ ऽभवत 20 तेन कामः कृतॊ मिथ्या बराह्मणेभ्य इति शरुतिः स बराह्मणैः परित्यक्तस तदा वै जगतीपतिः 21 पुरॊहितापचाराच च तस्य राज्ञॊ यदृच्छया न ववर्ष सहस्राक्षस ततॊ ऽपीड्यन्त वै परजाः 22 स बराह्मणान पर्यपृच्छत तपॊ युक्तान मनीषिणः परवर्षणे सुरेन्द्रस्य समर्थान पृथिवीपतिः 23 कथं परवर्षेत पर्जन्य उपायः परिदृश्यताम तम ऊचुश चॊदितास तेन सवमतानि मनीषिणः 24 तत्र तव एकॊ मुनिवरस तं राजानम उवाच ह कुपितास तव राजेन्द्र बराह्मणा निस्कृतिं चर 25 ऋश्य शृङ्गं मुनिसुतम आनयस्व च पार्थिव वानेयम अनभिज्ञं च नारीणाम आर्जवे रतम 26 स चेद अवतरेद राजन विषयं ते महातपाः सद्यः परवर्षेत पर्जन्य इति मे नात्र संशयः 27 एतच छरुत्वा वचॊ राजन कृत्वा निस्कृतिम आत्मनः स गत्वा पुनर आगच्छत परसन्नेषु दविजातिषु राजानम आगतं दृष्ट्वा परतिसंजगृहुः परजाः 28 ततॊ ऽङगपतिर आहूय सचिवान मन्त्रकॊविदान ऋश्य शृङ्गागमे यत्नम अकरॊन मन्त्रनिश्चये 29 सॊ ऽधयगच्छद उपायं तु तैर अमात्यैः सहाच्युतः शास्त्रज्ञैर अलम अर्थज्ञैर नीत्यां च परिनिष्ठितैः 30 तत आनाययाम आस वार मुख्या महीपतिः वैश्याः सर्वत्र निष्णातास ता उवाच स पार्थिवः 31 ऋश्य शृङ्गम ऋषेः पुत्रम आनयध्वम उपायतः लॊभयित्वाभिविश्वास्य विषयं मम शॊभनाः 32 ता राजभयभीताश च शापभीताश च यॊषितः अशक्यम ऊचुस तत कार्यं वि वर्णा गतचेतसः 33 तत्र तव एका जरद यॊषा राजानम इदम अब्रवीत परयतिष्ये महाराज तम आनेतुं तपॊधनम 34 अभिप्रेतांस तु मे कामान समनुज्ञातुम अर्हसि ततः शक्ष्ये लॊभयितुम ऋश्य शृङ्गम ऋषेः सुतम 35 तस्याः सर्वम अभिप्रायम अन्वजानात स पार्थिवः धनं च परददौ भूरि रत्नानि विविधानि च 36 ततॊ रूपेण संपन्ना वयसा च महीपते सत्रिय आदाय काश चित सा जगाम वनम अञ्जसा |
1
[lomaṣa] eṣā deva nadī puṇyā kauśikī bharatarṣabha viśvā mitrāśramo ramyo eṣa cātra prakāśate 2 āśramaś caiva puṇyākhyaḥ kāśyapasya mahātmanaḥ ṛśya śṛṅgaḥ suto yasya tapo vī saṃyatendriyaḥ 3 tapaso yaḥ prabhāvena varṣayām āsa vāsavam anāvṛṣṭyāṃ bhayād yasya vavarṣa balavṛtra hā 4 mṛgyāṃ jātaḥ sa tejo vī kāśyapasya sutaḥ prabhuḥ viṣaye loma pādasya yaś cakārādbhutaṃ mahat 5 nivartiteṣu sasyeṣu yasmai śāntāṃ dadau nṛpaḥ loma pādo duhitaraṃ sāvitrīṃ savitā yathā 6 [y] ṛśya śṛṅgaḥ kathaṃ mṛgyām utpannaḥ kāśyapātma jaḥ viruddhe yonisaṃsarge kathaṃ ca tapasā yutaḥ 7 kimarthaṃ ca bhayāc chakras tasya bālasya dhīmataḥ anāvṛṣṭyāṃ pravṛttāyāṃ vavarṣa balavṛtra hā 8 kathaṃrūpā ca śāntābhūd rājaputrī yatavratā lobhayām āsa yā ceto mṛgabhūtasya tasya vai 9 loma pādaś ca rājarṣir yadāśrūyata dhārmikaḥ kathaṃ vai viṣaye tasya nāvarṣat pākaśāsanaḥ 10 etan me bhagavan sarvaṃ vistareṇa yathātatham vaktum arhasi śuśrūṣor ṛṣyaśṛṅgasya ceṣṭitam 11 [l] vibhāṇḍakasya brahmarṣes tapasā bhāvitātmanaḥ amoghavīryasya sataḥ prajāpatisamadyuteḥ 12 śṛṇu putro yathā jāta ṛśya śṛṅgaḥ pratāpavān mahāhrade mahātejā bālaḥ sthavira saṃmataḥ 13 mahāhradaṃ samāsādya kāśyapas tapasi sthitaḥ dīrghakālaṃ pariśrānta ṛṣir devarṣisaṃmataḥ 14 tasya retaḥ pracaskanda dṛṣṭvāpsarasam urvaśīm apsūpaspṛśato rājan mṛgī tac cāpibat tadā 15 saha toyena tṛṣitā sā garbhiṇy abhavan nṛpa amoghatvād vidheś caiva bhāvi tvād daivanirmitāt 16 tasyāṃ mṛgyāṃ samabhavat tasya putro mahān ṛṣiḥ ṛśya śṛṅgas taponityo vana eva vyavardhata 17 tasyarśya śṛṅgaṃ śirasi rājann āsīn mahātmanaḥ tenarśya śṛṅga ity evaṃ tadā sa prathito 'bhavat 18 na tena dṛṣṭapūrvo 'nyaḥ pitur anyatra mānuṣaḥ tasmāt tasya mano nityaṃ brahmacarye 'bhavan nṛpa 19 etasminn eva kāle tu sakhā daśarathasya vai loma pāda iti khyāto aṅgānām īśvaro 'bhavat 20 tena kāmaḥ kṛto mithyā brāhmaṇebhya iti śrutiḥ sa brāhmaṇaiḥ parityaktas tadā vai jagatīpatiḥ 21 purohitāpacārāc ca tasya rājño yadṛcchayā na vavarṣa sahasrākṣas tato 'pīḍyanta vai prajāḥ 22 sa brāhmaṇān paryapṛcchat tapo yuktān manīṣiṇaḥ pravarṣaṇe surendrasya samarthān pṛthivīpatiḥ 23 kathaṃ pravarṣet parjanya upāyaḥ paridṛśyatām tam ūcuś coditās tena svamatāni manīṣiṇaḥ 24 tatra tv eko munivaras taṃ rājānam uvāca ha kupitās tava rājendra brāhmaṇā niskṛtiṃ cara 25 ṛśya śṛṅgaṃ munisutam ānayasva ca pārthiva vāneyam anabhijñaṃ ca nārīṇām ārjave ratam 26 sa ced avatared rājan viṣayaṃ te mahātapāḥ sadyaḥ pravarṣet parjanya iti me nātra saṃśayaḥ 27 etac chrutvā vaco rājan kṛtvā niskṛtim ātmanaḥ sa gatvā punar āgacchat prasanneṣu dvijātiṣu rājānam āgataṃ dṛṣṭvā pratisaṃjagṛhuḥ prajāḥ 28 tato 'ṅgapatir āhūya sacivān mantrakovidān ṛśya śṛṅgāgame yatnam akaron mantraniścaye 29 so 'dhyagacchad upāyaṃ tu tair amātyaiḥ sahācyutaḥ śāstrajñair alam arthajñair nītyāṃ ca pariniṣṭhitaiḥ 30 tata ānāyayām āsa vāra mukhyā mahīpatiḥ vaiśyāḥ sarvatra niṣṇātās tā uvāca sa pārthivaḥ 31 ṛśya śṛṅgam ṛṣeḥ putram ānayadhvam upāyataḥ lobhayitvābhiviśvāsya viṣayaṃ mama śobhanāḥ 32 tā rājabhayabhītāś ca śāpabhītāś ca yoṣitaḥ aśakyam ūcus tat kāryaṃ vi varṇā gatacetasaḥ 33 tatra tv ekā jarad yoṣā rājānam idam abravīt prayatiṣye mahārāja tam ānetuṃ tapodhanam 34 abhipretāṃs tu me kāmān samanujñātum arhasi tataḥ śakṣye lobhayitum ṛśya śṛṅgam ṛṣeḥ sutam 35 tasyāḥ sarvam abhiprāyam anvajānāt sa pārthivaḥ dhanaṃ ca pradadau bhūri ratnāni vividhāni ca 36 tato rūpeṇa saṃpannā vayasā ca mahīpate striya ādāya kāś cit sā jagāma vanam añjasā |
The Mahabharata in Sanskrit
Book 3
Chapter 111
|
1
[लॊमष] सा तु नाव्याश्रमं चक्रे राजकार्यार्थ सिद्धये संदेशाच चैव नृपतेः सवबुद्ध्या चैव भारत 2 नानापुष्पफलैर वृक्षैः कृत्रिमैर उपशॊभितम नानागुल्मलतॊपैतैः सवादु कामफलप्रदैः 3 अतीव रमणीयं तद अतीव च मनॊहरम चक्रे नाव्याश्रमं रम्यम अद्भुतॊपमदर्शनम 4 ततॊ निबध्य तां नावम अदूरे काश्यपाश्रमात चारयाम आस पुरुषैर विहारं तस्य वै मुनेः 5 ततॊ दुहितरं वेश्या समाधायेति कृत्यताम दृष्ट्वान्तरं काश्यपस्य पराहिणॊद बुद्धिसंमताम 6 सा तत्र गत्वा कुशला तपॊनित्यस्य संनिधौ आश्रमं तं समासाद्य ददर्श तम ऋषेः सुतम 7 [वेष्या] कच चिन मुने कुशलं तापसानां; कच चिच च वॊ मूलफलं परभूतम कच चिद भवान रमते चाश्रमे ऽसमिंस; तवां वै दरष्टुं सांप्रतम आगतॊ ऽसमि 8 कच चित तपॊ वर्धते तापसानां; पिता च ते कच चिद अहीन तेजाः कच चित तवया परीयते चैव विप्र; कच चित सवाध्यायः करियत ऋश्य शृङ्ग 9 [र] ऋद्धॊ भवाञ जयॊतिर इव परकाशते; मन्ये चाहं तवाम अभिवादनीयम पाद्यं वै ते संप्रदास्यामि कामाद; यथा धर्मं फलमूलानि चैव 10 कौश्यां बृस्याम आस्स्व यथॊपजॊषं; कृष्णाजिनेनावृतायां सुखायाम कव चाश्रमस तव किंनाम चेदं; वरतं बरह्मंश चरसि हि देव वत तवम 11 [वेष्या] ममाश्रमः काश्यप पुत्र रम्यस; तरियॊजनं शैलम इमं परेण तत्र सवधर्मॊ ऽनभिवानदं नॊ; न चॊदकं पाद्यम उपस्पृशामः 12 [र] फलानि पक्वानि ददानि ते ऽहं; भल्लातकान्य आमलकानि चैव परूषकाणीङ्गुद धन्वनानि; परियालानां कामकारं कुरुष्व 13 [ल] सा तानि सर्वाणि विसर्जयित्वा; भक्षान महार्हान परददौ ततॊ ऽसमै तान्य ऋश्य शृङ्गस्य महारसानि; भृशं सुरूपाणि रुचिं ददुर हि 14 ददौ च माल्यानि सुगन्धवन्ति; चित्राणि वासांसि च भानुमन्ति पानानि चाग्र्याणि ततॊ मुमॊद; चिक्रीड चैव परजहास चैव 15 सा कन्दुकेनारमतास्य मूले; विभज्यमाना फलिता लतेव गात्रैश च गात्राणि निषेवमाणा; समाश्लिषच चासकृद ऋश्य शृङ्गम 16 सर्जान अशॊकांस तिलकांश च वृक्षान; परपुष्पितान अवनाम्यावभज्य विलज्जमानेव मदाभिभूता; परलॊभयाम आस सुतं महर्षेः 17 अथर्श्य शृङ्गं विकृतं समीक्ष्य; पुनः पुनः पीड्य च कायम अस्य अवेक्षमाणा शनकिर जगाम; कृत्वाग्निहॊत्रस्य तदापदेशम 18 तस्यां गतायां मदनेन मत्तॊ; वि चेतनश चाभवद ऋश्य शृङ्गः ताम एव भावेन गतेन शून्यॊ; विनिःश्वसन्न आर्तरूपॊ बभूव 19 ततॊ मुहूर्ताद धरि पिङ्गलाक्षः; परवेष्टितॊ रॊमभिरा नखाग्रात सवाध्यायवान वृत्तसमाधि युक्तॊ; विभाण्डकः काश्यपः परादुरासीत 20 सॊ ऽपश्यद आसीनम उपेत्य पुत्रं; धयायन्तम एकं विपरीतचित्तम विनिःश्वसन्तं मुहुर ऊर्ध्वदृष्टिं; विभाण्डकः पुत्रम उवाच दीनम 21 न कल्प्यन्ते समिधः किं नु तात; कच चिद धुतं चाग्निहॊत्रं तवयाद्य सुनिर्निक्तं सरुक सरुवं हॊमधेनुः; कच चित स वत्सा च कृता तवयाद्य 22 न वै यथापूर्वम इवासि पुत्र; चिन्तापरश चासि वि चेतनश च दीनॊ ऽति मात्रं तवम इहाद्य किं नु; पृच्छामि तवां क इहाद्यागतॊ ऽभूत |
1
[lomaṣa] sā tu nāvyāśramaṃ cakre rājakāryārtha siddhaye saṃdeśāc caiva nṛpateḥ svabuddhyā caiva bhārata 2 nānāpuṣpaphalair vṛkṣaiḥ kṛtrimair upaśobhitam nānāgulmalatopaitaiḥ svādu kāmaphalapradaiḥ 3 atīva ramaṇīyaṃ tad atīva ca manoharam cakre nāvyāśramaṃ ramyam adbhutopamadarśanam 4 tato nibadhya tāṃ nāvam adūre kāśyapāśramāt cārayām āsa puruṣair vihāraṃ tasya vai muneḥ 5 tato duhitaraṃ veśyā samādhāyeti kṛtyatām dṛṣṭvāntaraṃ kāśyapasya prāhiṇod buddhisaṃmatām 6 sā tatra gatvā kuśalā taponityasya saṃnidhau āśramaṃ taṃ samāsādya dadarśa tam ṛṣeḥ sutam 7 [veṣyā] kac cin mune kuśalaṃ tāpasānāṃ; kac cic ca vo mūlaphalaṃ prabhūtam kac cid bhavān ramate cāśrame 'smiṃs; tvāṃ vai draṣṭuṃ sāṃpratam āgato 'smi 8 kac cit tapo vardhate tāpasānāṃ; pitā ca te kac cid ahīna tejāḥ kac cit tvayā prīyate caiva vipra; kac cit svādhyāyaḥ kriyata ṛśya śṛṅga 9 [r] ṛddho bhavāñ jyotir iva prakāśate; manye cāhaṃ tvām abhivādanīyam pādyaṃ vai te saṃpradāsyāmi kāmād; yathā dharmaṃ phalamūlāni caiva 10 kauśyāṃ bṛsyām āssva yathopajoṣaṃ; kṛṣṇājinenāvṛtāyāṃ sukhāyām kva cāśramas tava kiṃnāma cedaṃ; vrataṃ brahmaṃś carasi hi deva vat tvam 11 [veṣyā] mamāśramaḥ kāśyapa putra ramyas; triyojanaṃ śailam imaṃ pareṇa tatra svadharmo 'nabhivānadaṃ no; na codakaṃ pādyam upaspṛśāmaḥ 12 [r] phalāni pakvāni dadāni te 'haṃ; bhallātakāny āmalakāni caiva parūṣakāṇīṅguda dhanvanāni; priyālānāṃ kāmakāraṃ kuruṣva 13 [l] sā tāni sarvāṇi visarjayitvā; bhakṣān mahārhān pradadau tato 'smai tāny ṛśya śṛṅgasya mahārasāni; bhṛśaṃ surūpāṇi ruciṃ dadur hi 14 dadau ca mālyāni sugandhavanti; citrāṇi vāsāṃsi ca bhānumanti pānāni cāgryāṇi tato mumoda; cikrīḍa caiva prajahāsa caiva 15 sā kandukenāramatāsya mūle; vibhajyamānā phalitā lateva gātraiś ca gātrāṇi niṣevamāṇā; samāśliṣac cāsakṛd ṛśya śṛṅgam 16 sarjān aśokāṃs tilakāṃś ca vṛkṣān; prapuṣpitān avanāmyāvabhajya vilajjamāneva madābhibhūtā; pralobhayām āsa sutaṃ maharṣeḥ 17 atharśya śṛṅgaṃ vikṛtaṃ samīkṣya; punaḥ punaḥ pīḍya ca kāyam asya avekṣamāṇā śanakir jagāma; kṛtvāgnihotrasya tadāpadeśam 18 tasyāṃ gatāyāṃ madanena matto; vi cetanaś cābhavad ṛśya śṛṅgaḥ tām eva bhāvena gatena śūnyo; viniḥśvasann ārtarūpo babhūva 19 tato muhūrtād dhari piṅgalākṣaḥ; praveṣṭito romabhirā nakhāgrāt svādhyāyavān vṛttasamādhi yukto; vibhāṇḍakaḥ kāśyapaḥ prādurāsīt 20 so 'paśyad āsīnam upetya putraṃ; dhyāyantam ekaṃ viparītacittam viniḥśvasantaṃ muhur ūrdhvadṛṣṭiṃ; vibhāṇḍakaḥ putram uvāca dīnam 21 na kalpyante samidhaḥ kiṃ nu tāta; kac cid dhutaṃ cāgnihotraṃ tvayādya sunirniktaṃ sruk sruvaṃ homadhenuḥ; kac cit sa vatsā ca kṛtā tvayādya 22 na vai yathāpūrvam ivāsi putra; cintāparaś cāsi vi cetanaś ca dīno 'ti mātraṃ tvam ihādya kiṃ nu; pṛcchāmi tvāṃ ka ihādyāgato 'bhūt |
The Mahabharata in Sanskrit
Book 3
Chapter 112
|
1
[र] इहागतॊ जटिलॊ बरह्म चारी; न वै हरस्वॊ नातिदीर्घॊ मनॊ वी सुवर्णवर्णः कमलायताक्षः; सुतः सुराणाम इव शॊभमानः 2 समृद्धरूपः सवितेव दीप्तः; सुशुक्लकृष्णाक्ष तरश चकॊरैः नीलाः परसन्नाश च जटाः सुगन्धा; हिरण्यरज्जु गरथिताः सुदीर्घाः 3 आधार रूपा पुनर अस्य कण्ठे; विभ्राजते विद्युद इवान्तरिक्षे दवौ चास्य पिण्डाव अधरेण कण्ठम; अजातरॊमौ सुमनॊहरौ च 4 विलग्नमध्यश च स नाभिदेशे; कतिश च तस्यातिकृत परमाणा अथास्य चीरान्तर इता परभाति; हिरन मयी मेखला मे यथेयम 5 अन्यच च तस्याद्भुत दर्शनीयं; विकूजितं पादयॊः संप्रभाति पाण्यॊश च तद्वत सवनवन निबद्धौ; कलापकाव अक्षमाला यथेयम 6 विचेष्टमानस्य च तस्य तानि; कूजन्ति हंसा सरसीव मत्ताः चीराणि तस्याद्भुत दर्शनानि; नेमानि तद्वन मम रूपवन्ति 7 वक्त्रं च तस्याद्भुत दर्शनीयं; परव्याहृतं हलादयतीव चेतः पुंस्कॊकिलस्येव च तस्य वाणी; तां शृण्वतॊ मे वयथितॊ ऽनतरात्मा 8 यथा वनं माधव मासि मध्ये; समीरितं शवसनेनाभिवाति तथा स वात्य उत्तमपुण्यगन्धी; निषेव्यमाणः पवनेन तात 9 सुसंयताश चापि जटा विभक्ता; दवैधी कृता भान्ति समा ललाटे कर्णौ च चित्रैर इव चक्रवालैः; समावृतौ तस्य सुरूपवद्भिः 10 तथा फलं वृत्तम अथॊ वि चित्रं; समाहनत पाणिना दक्षिणेन तद भूमिम आसाद्य पुनः पुनश च; समुत्पतत्य अद्भुतरूपम उच्चैः 11 तच चापि हत्वा परिवर्तते ऽसौ; वातेरितॊ वृक्ष इवावघूर्णः तं परेक्ष्य मे पुत्रम इवामराणां; परीतिः परा तात रतिश च जाता 12 स मे समाश्लिष्य पुनः शरीरं; जटासु गृह्याभ्यवनाम्य वक्त्रम वक्त्रेण वक्त्रं परणिधाय शब्दं; चकार तन मे ऽजनयत परहर्षम 13 न चापि पाद्यं बहुमन्यते ऽसौ; फलानि चेमानि मयाहृतानि एवं वरतॊ ऽसमीति च माम अवॊचत; फलानि चान्यानि नवान्य अदान मे 14 मयॊपयुक्तानि फलानि तानि; नेमानि तुल्यानि रसेन तेषाम न चापि तेषां तवग इयं यथैषां; साराणि नैषाम इव सन्ति तेषाम 15 तॊयानि चैवाति रसानि मह्यं; परादात स वै पातुम उदाररूपः पीत्वैव यान्य अभ्यधिकः परहर्षॊ; ममाभवद भूश चलितेव चासीत 16 इमानि चित्राणि च गन्धवन्ति; माल्यानि तस्यॊद्ग्रथितानि पट्टैः यानि परकीर्येह गतः सवम एव; स आश्रमं तपसा दयॊतमानः 17 गतेन तेनास्मि कृतॊ वि चेता; गात्रं च मे संपरितप्यतीव इच्छामि तस्यान्तिकम आशु गन्तुं; तं चेह नित्यं परिवर्तमानम 18 गच्छामि तस्यान्तिकम एव तात; का नाम सा वरतचर्या च तस्य इच्छाम्य अहं चरितुं तेन सार्धं; यथा तपः स चरत्य उग्रकर्मा |
1
[r] ihāgato jaṭilo brahma cārī; na vai hrasvo nātidīrgho mano vī suvarṇavarṇaḥ kamalāyatākṣaḥ; sutaḥ surāṇām iva śobhamānaḥ 2 samṛddharūpaḥ saviteva dīptaḥ; suśuklakṛṣṇākṣa taraś cakoraiḥ nīlāḥ prasannāś ca jaṭāḥ sugandhā; hiraṇyarajju grathitāḥ sudīrghāḥ 3 ādhāra rūpā punar asya kaṇṭhe; vibhrājate vidyud ivāntarikṣe dvau cāsya piṇḍāv adhareṇa kaṇṭham; ajātaromau sumanoharau ca 4 vilagnamadhyaś ca sa nābhideśe; katiś ca tasyātikṛta pramāṇā athāsya cīrāntar itā prabhāti; hiran mayī mekhalā me yatheyam 5 anyac ca tasyādbhuta darśanīyaṃ; vikūjitaṃ pādayoḥ saṃprabhāti pāṇyoś ca tadvat svanavan nibaddhau; kalāpakāv akṣamālā yatheyam 6 viceṣṭamānasya ca tasya tāni; kūjanti haṃsā sarasīva mattāḥ cīrāṇi tasyādbhuta darśanāni; nemāni tadvan mama rūpavanti 7 vaktraṃ ca tasyādbhuta darśanīyaṃ; pravyāhṛtaṃ hlādayatīva cetaḥ puṃskokilasyeva ca tasya vāṇī; tāṃ śṛṇvato me vyathito 'ntarātmā 8 yathā vanaṃ mādhava māsi madhye; samīritaṃ śvasanenābhivāti tathā sa vāty uttamapuṇyagandhī; niṣevyamāṇaḥ pavanena tāta 9 susaṃyatāś cāpi jaṭā vibhaktā; dvaidhī kṛtā bhānti samā lalāṭe karṇau ca citrair iva cakravālaiḥ; samāvṛtau tasya surūpavadbhiḥ 10 tathā phalaṃ vṛttam atho vi citraṃ; samāhanat pāṇinā dakṣiṇena tad bhūmim āsādya punaḥ punaś ca; samutpataty adbhutarūpam uccaiḥ 11 tac cāpi hatvā parivartate 'sau; vāterito vṛkṣa ivāvaghūrṇaḥ taṃ prekṣya me putram ivāmarāṇāṃ; prītiḥ parā tāta ratiś ca jātā 12 sa me samāśliṣya punaḥ śarīraṃ; jaṭāsu gṛhyābhyavanāmya vaktram vaktreṇa vaktraṃ praṇidhāya śabdaṃ; cakāra tan me 'janayat praharṣam 13 na cāpi pādyaṃ bahumanyate 'sau; phalāni cemāni mayāhṛtāni evaṃ vrato 'smīti ca mām avocat; phalāni cānyāni navāny adān me 14 mayopayuktāni phalāni tāni; nemāni tulyāni rasena teṣām na cāpi teṣāṃ tvag iyaṃ yathaiṣāṃ; sārāṇi naiṣām iva santi teṣām 15 toyāni caivāti rasāni mahyaṃ; prādāt sa vai pātum udārarūpaḥ pītvaiva yāny abhyadhikaḥ praharṣo; mamābhavad bhūś caliteva cāsīt 16 imāni citrāṇi ca gandhavanti; mālyāni tasyodgrathitāni paṭṭaiḥ yāni prakīryeha gataḥ svam eva; sa āśramaṃ tapasā dyotamānaḥ 17 gatena tenāsmi kṛto vi cetā; gātraṃ ca me saṃparitapyatīva icchāmi tasyāntikam āśu gantuṃ; taṃ ceha nityaṃ parivartamānam 18 gacchāmi tasyāntikam eva tāta; kā nāma sā vratacaryā ca tasya icchāmy ahaṃ carituṃ tena sārdhaṃ; yathā tapaḥ sa caraty ugrakarmā |
The Mahabharata in Sanskrit
Book 3
Chapter 113
|
1
[विभान्द] रक्षांसि चैतानि चरन्ति पुत्र; रूपेण तेनाद्भुत दर्शनेन अतुल्यरूपाण्य अति घॊरवन्ति; विघ्नं सदा तपसश चिन्तयन्ति 2 सुरूपरूपाणि च तानि तात; परलॊभयन्ते विविधैर उपायैः सुखाच च लॊकाच च निपातयन्ति; तान्य उग्रकर्माणि मुनीन वनेषु 3 न तानि सेवेत मुनिर यतात्मा; सतां लॊकान परार्थयानः कथं चित कृत्वा विघ्नं तापसानां रमन्ते; पापाचारास तपसस तान्य अपाप 4 असज जनेनाचरितानि पुत्र; पापान्य अपेयानि मधूनि तानि माल्यानि चैतानि न वै मुनीनां; समृतानि चित्रॊज्ज्वल गन्धवन्ति 5 [लॊमष] रक्षांसि तानीति निवार्य पुत्रं; विभाण्डकस तां मृगयां बभूव नासादयाम आस यदा तर्यहेण; तदा स पर्याववृते ऽऽशरमाय 6 यदा पुनः काश्यपॊ वै जगाम; फलान्य आहर्तुं विधिना शरामणेन तदा पुनर लॊभयितुं जगाम; सा वेश यॊषा मुनिम ऋश्य शृङ्गम 7 दृष्ट्वैव ताम ऋश्य शृङ्गः परहृष्टः; संभान्त रूपॊ ऽभयपतत तदानीम परॊवाच चैनां भवतॊ ऽऽशरमाय; गच्छाव यावन न पिता ममेति 8 ततॊ राजन काश्यपस्यैक पुत्रं; परवेश्य यॊगेन विमुच्य नावम परलॊभयन्त्यॊ विविधैर उपायैर; आजग्मुर अङ्गाधिपतेः समीपम 9 संस्थाप्य ताम आश्रमदर्शने तु; संतारितां नावम अतीव शुभ्राम तीराद उपादाय तथैव चक्रे; राजाश्रमं नाम वनं वि चित्रम 10 अन्तःपुरे तं तु निवेश्य राजा; विभाण्डकस्यात्म जम एकपुत्रम ददर्श देवं सहसा परविष्टम; आपूर्यमाणं च जगज जलेन 11 स लॊम पादः परिपूर्णकामः; सुतां ददाव ऋश्य शृङ्गाय शान्ताम करॊधप्रतीकार करं च चक्रे; गॊभिश च मार्गेष्व अभिकर्षणं च 12 विभाण्डकस्याव्रजतः स राजा; पशून परभूतान पशुपांश च वीरान समादिशत पुत्र गृधी महर्षिर; विभाण्डकः परिपृच्छेद यदा वः 13 स वक्तव्यः पराञ्जलिभिर भवद्भिः; पुत्रस्य ते पशवः कर्षणं च किं ते परियं वै करियतां महर्षे; दासाः सम सर्वे तव वाचि बद्धाः 14 अथॊपायात स मुनिश चण्डकॊपः; सवम आश्रमं फलमूलानि गृह्य अन्वेषमाणश च न तत्र पुत्रं; ददर्श चुक्रॊध ततॊ भृशं सः 15 ततः स कॊपेन विदीर्यमाण; आशङ्कमानॊ नृपतेर विधानम जगाम चम्पां परदिदक्षमाणस; तम अङ्गराजं विषयं च तस्य 16 स वै शरान्तः कषुधितः काश्यपस तान; घॊषान समासादितवान समृद्धान गॊपैश च तैर विधिवत पूज्यमानॊ; राजेव तां रात्रिम उवाच तत्र 17 संप्राप्य सत्कारम अतीव तेभ्यः; परॊवाच कस्य परथिताः सथ सौम्याः ऊचुर ततस ते ऽभयुपगम्य सर्वे; धनं तवेदं विहितं सुतस्य 18 देशे तु देशे तु स पूज्यमानस; तांश चैव शृण्वन मधुरान परलापान परशान्तभूयिष्ठ रजाः परहृष्टः; समाससादाङ्गपतिं पुरस्थम 19 संपूजितस तेन नरर्षभेण; ददर्श पुत्रं दिवि देवं यथेन्द्रम शान्तां सनुषां चैव ददर्श तत्र; सौदामिनीम उच्चरन्तीं यथैव 20 गरामांश च घॊषांश च सुतं च दृष्ट्वा; शान्तां च शान्तॊ ऽसय परः स कॊपः चकार तस्मै परमं परसादं; विभाण्डकॊ भूमिपतेर नरेन्द्र 21 स तत्र निक्षिप्य सुतं महर्षिर; उवाच सूर्याग्निसमप्रभावम जाते पुत्रे वनम एवाव्रजेथा; राज्ञः परियाण्य अस्य सर्वाणि कृत्वा 22 स तद वचः कृतवान ऋश्य शृङ्गॊ; ययौ च यत्रास्य पिता बभूव शान्ता चैनं पर्यचरद यथा वत; खे रॊहिणी सॊमम इवानुकूला 23 अरुन्धती वा सुभगा वसिष्ठं; लॊपामुद्रा वापि यथा हय अगस्त्यम नलस्य वा दमयन्ती यथाभूद; यथा शची वज्रधरस्य चैव 24 नाडायनी चेन्द्रसेना यथैव; वश्या नित्यं मुद्गलस्याजमीढ तथा शान्ता ऋश्य शृङ्गं वनस्थं; परीत्या युक्ता पर्यचरन नरेन्द्र 25 तस्याश्रमः पुण्य एषॊ विभाति; महाह्रदं शॊभयन पुण्यकीर्तिः अत्र सनातः कृतकृत्यॊ विशुद्धस; तीर्थान्य अन्यान्य अनुसंयाहि राजन |
1
[vibhānd] rakṣāṃsi caitāni caranti putra; rūpeṇa tenādbhuta darśanena atulyarūpāṇy ati ghoravanti; vighnaṃ sadā tapasaś cintayanti 2 surūparūpāṇi ca tāni tāta; pralobhayante vividhair upāyaiḥ sukhāc ca lokāc ca nipātayanti; tāny ugrakarmāṇi munīn vaneṣu 3 na tāni seveta munir yatātmā; satāṃ lokān prārthayānaḥ kathaṃ cit kṛtvā vighnaṃ tāpasānāṃ ramante; pāpācārās tapasas tāny apāpa 4 asaj janenācaritāni putra; pāpāny apeyāni madhūni tāni mālyāni caitāni na vai munīnāṃ; smṛtāni citrojjvala gandhavanti 5 [lomaṣa] rakṣāṃsi tānīti nivārya putraṃ; vibhāṇḍakas tāṃ mṛgayāṃ babhūva nāsādayām āsa yadā tryaheṇa; tadā sa paryāvavṛte ''śramāya 6 yadā punaḥ kāśyapo vai jagāma; phalāny āhartuṃ vidhinā śrāmaṇena tadā punar lobhayituṃ jagāma; sā veśa yoṣā munim ṛśya śṛṅgam 7 dṛṣṭvaiva tām ṛśya śṛṅgaḥ prahṛṣṭaḥ; saṃbhānta rūpo 'bhyapatat tadānīm provāca caināṃ bhavato ''śramāya; gacchāva yāvan na pitā mameti 8 tato rājan kāśyapasyaika putraṃ; praveśya yogena vimucya nāvam pralobhayantyo vividhair upāyair; ājagmur aṅgādhipateḥ samīpam 9 saṃsthāpya tām āśramadarśane tu; saṃtāritāṃ nāvam atīva śubhrām tīrād upādāya tathaiva cakre; rājāśramaṃ nāma vanaṃ vi citram 10 antaḥpure taṃ tu niveśya rājā; vibhāṇḍakasyātma jam ekaputram dadarśa devaṃ sahasā praviṣṭam; āpūryamāṇaṃ ca jagaj jalena 11 sa loma pādaḥ paripūrṇakāmaḥ; sutāṃ dadāv ṛśya śṛṅgāya śāntām krodhapratīkāra karaṃ ca cakre; gobhiś ca mārgeṣv abhikarṣaṇaṃ ca 12 vibhāṇḍakasyāvrajataḥ sa rājā; paśūn prabhūtān paśupāṃś ca vīrān samādiśat putra gṛdhī maharṣir; vibhāṇḍakaḥ paripṛcched yadā vaḥ 13 sa vaktavyaḥ prāñjalibhir bhavadbhiḥ; putrasya te paśavaḥ karṣaṇaṃ ca kiṃ te priyaṃ vai kriyatāṃ maharṣe; dāsāḥ sma sarve tava vāci baddhāḥ 14 athopāyāt sa muniś caṇḍakopaḥ; svam āśramaṃ phalamūlāni gṛhya anveṣamāṇaś ca na tatra putraṃ; dadarśa cukrodha tato bhṛśaṃ saḥ 15 tataḥ sa kopena vidīryamāṇa; āśaṅkamāno nṛpater vidhānam jagāma campāṃ pradidakṣamāṇas; tam aṅgarājaṃ viṣayaṃ ca tasya 16 sa vai śrāntaḥ kṣudhitaḥ kāśyapas tān; ghoṣān samāsāditavān samṛddhān gopaiś ca tair vidhivat pūjyamāno; rājeva tāṃ rātrim uvāca tatra 17 saṃprāpya satkāram atīva tebhyaḥ; provāca kasya prathitāḥ stha saumyāḥ ūcur tatas te 'bhyupagamya sarve; dhanaṃ tavedaṃ vihitaṃ sutasya 18 deśe tu deśe tu sa pūjyamānas; tāṃś caiva śṛṇvan madhurān pralāpān praśāntabhūyiṣṭha rajāḥ prahṛṣṭaḥ; samāsasādāṅgapatiṃ purastham 19 saṃpūjitas tena nararṣabheṇa; dadarśa putraṃ divi devaṃ yathendram śāntāṃ snuṣāṃ caiva dadarśa tatra; saudāminīm uccarantīṃ yathaiva 20 grāmāṃś ca ghoṣāṃś ca sutaṃ ca dṛṣṭvā; śāntāṃ ca śānto 'sya paraḥ sa kopaḥ cakāra tasmai paramaṃ prasādaṃ; vibhāṇḍako bhūmipater narendra 21 sa tatra nikṣipya sutaṃ maharṣir; uvāca sūryāgnisamaprabhāvam jāte putre vanam evāvrajethā; rājñaḥ priyāṇy asya sarvāṇi kṛtvā 22 sa tad vacaḥ kṛtavān ṛśya śṛṅgo; yayau ca yatrāsya pitā babhūva śāntā cainaṃ paryacarad yathā vat; khe rohiṇī somam ivānukūlā 23 arundhatī vā subhagā vasiṣṭhaṃ; lopāmudrā vāpi yathā hy agastyam nalasya vā damayantī yathābhūd; yathā śacī vajradharasya caiva 24 nāḍāyanī cendrasenā yathaiva; vaśyā nityaṃ mudgalasyājamīḍha tathā śāntā ṛśya śṛṅgaṃ vanasthaṃ; prītyā yuktā paryacaran narendra 25 tasyāśramaḥ puṇya eṣo vibhāti; mahāhradaṃ śobhayan puṇyakīrtiḥ atra snātaḥ kṛtakṛtyo viśuddhas; tīrthāny anyāny anusaṃyāhi rājan |
The Mahabharata in Sanskrit
Book 3
Chapter 114
|
1
[वै] ततः परयातः कौशिक्याः पाण्डवॊ जनमेजय आनुपूर्व्येण सर्वाणि जगामायतनान्य उत 2 स सागरं समासाद्य गङ्गायाः संगमे नृप नदीशतानां पञ्चानां मध्ये चक्रे समाप्लवम 3 ततः समुद्रतीरेण जगाम वसु धाधिपः भरातृभिः सहितॊ वीरः कलिङ्गान परति भारत 4 [ल] एते कलिङ्गाः कौन्तेय यत्र वैतरणी नदी यत्रायजत धर्मॊ ऽपि देवाञ शरणम एत्य वै 5 ऋषिभिः समुपायुक्तं यज्ञियं गिरिशॊभितम उत्तरं तीरम एतद धि सततं दविज सेवितम 6 समेन देव यानेन पथा सवर्गम उपेयुसः अत्र वै ऋषयॊ ऽनये ऽपि पुरा करतुभिर ईजिरे 7 अत्रैव रुद्रॊ राजेन्द्र पशुम आदत्तवान मखे रुद्रः पशुं मानवेन्द्र भागॊ ऽयम इति चाब्रवीत 8 हृते पशौ तदा देवास तम ऊचुर भरतर्षभ मा परस्वम अभिद्रॊग्धा मा धर्मान सकलान नशीः 9 ततः कल्याण रूपाभिर वाग्भिस ते रुद्रम अस्तुवन इष्ट्या चैनं तर्पयित्वा मानयां चक्रिरे तदा 10 ततः स पशुम उत्सृज्य देव यानेन जग्मिवान अत्रानुवंशॊ रुद्रस्य तं निबॊध युधिष्ठिर 11 अयात यामं सर्वेभ्यॊ भागेभ्यॊ भागम उत्तमम देवाः संकल्पयाम आसुर भयाद रुद्रस्य शाश्वतम 12 इमां गाथाम अत्र गायन अपः सपृशति यॊ नरः देव यानस तस्य पन्थाश चक्षुश चैव परकाशते 13 [व] ततॊ वैतरणीं सर्वे पाण्डवा दरौपदी तथा अवतीर्य महाभागा तर्पयां चक्रिरे पितॄन 14 [य] उपस्पृश्यैव भगवन्न अस्यां नद्यां तपॊधन मानुषाद अस्मि विषयाद अपैतः पश्य लॊमश 15 सर्वाँल लॊकान परपश्यामि परसादात तव सुव्रत वैखानसानां जपताम एष शब्दॊ महात्मनाम 16 [ल] तरिशतं वै सहस्राणि यॊजनानां युधिष्ठिर यत्र धवनिं शृणॊष्य एनं तूष्णीम आस्स्व विशां पते 17 एतत सवयं भुवॊ राजन वनं रम्यं परकाशते यत्रायजत कौन्तेय विश्वकर्मा परतापवान 18 यस्मिन यज्ञे हि भूर दत्ता कश्यपाय महात्मने स पर्वत वनॊद्देशा दक्षिणा वै सवयं भुवा 19 अवासीदच च कौन्तेय दत्तमात्रा मही तदा उवाच चापि कुपिता लॊकेश्वरम इदं परभुम 20 न मां मर्त्याय भगवन कस्मै चिद दातुम अर्हसि परदानं मॊघम एतत ते यास्याम्य एषा रसातलम 21 विसीदन्तीं तु तां दृष्ट्वा कश्पयॊ भगवान ऋषिः परसादयां बभूवाथ ततॊ भूमिं विशां पते 22 ततः परसन्ना पृथिवी तपसा तस्य पाण्डव पुनर उन्मज्ज्य सलिलाद वेदी रूपास्थिता बभौ 23 सैषा परकाशते राजन वेदी संस्थान लक्षणा आरुह्यात्र महाराज वीर्यवान वै भविष्यसि 24 अहं च ते सवस्त्ययनं परयॊक्ष्ये; यथा तवम एनाम अधिरॊक्ष्यसे ऽदय सपृष्टा हि मर्त्येन ततः समुद्रम; एषा वेदी परविशत्य आजमीढ 25 अग्निर मित्रॊ यॊनिर आपॊ ऽथ देव्यॊ; विष्णॊ रेतस तवम अमृतस्य नाभिः एवं बरुवन पाण्डव सत्यवाक्यं; वेदीम इमां तवं तरसाधिरॊह 26 [व] ततः कृतस्वस्त्ययनॊ महात्मा; युधिष्ठिरः सागरगाम अगच्छत कृत्वा च तच्छासनम अस्य सर्वं; महेन्द्रम आसाद्य निशाम उवास |
1
[vai] tataḥ prayātaḥ kauśikyāḥ pāṇḍavo janamejaya ānupūrvyeṇa sarvāṇi jagāmāyatanāny uta 2 sa sāgaraṃ samāsādya gaṅgāyāḥ saṃgame nṛpa nadīśatānāṃ pañcānāṃ madhye cakre samāplavam 3 tataḥ samudratīreṇa jagāma vasu dhādhipaḥ bhrātṛbhiḥ sahito vīraḥ kaliṅgān prati bhārata 4 [l] ete kaliṅgāḥ kaunteya yatra vaitaraṇī nadī yatrāyajata dharmo 'pi devāñ śaraṇam etya vai 5 ṛṣibhiḥ samupāyuktaṃ yajñiyaṃ giriśobhitam uttaraṃ tīram etad dhi satataṃ dvija sevitam 6 samena deva yānena pathā svargam upeyusaḥ atra vai ṛṣayo 'nye 'pi purā kratubhir ījire 7 atraiva rudro rājendra paśum ādattavān makhe rudraḥ paśuṃ mānavendra bhāgo 'yam iti cābravīt 8 hṛte paśau tadā devās tam ūcur bharatarṣabha mā parasvam abhidrogdhā mā dharmān sakalān naśīḥ 9 tataḥ kalyāṇa rūpābhir vāgbhis te rudram astuvan iṣṭyā cainaṃ tarpayitvā mānayāṃ cakrire tadā 10 tataḥ sa paśum utsṛjya deva yānena jagmivān atrānuvaṃśo rudrasya taṃ nibodha yudhiṣṭhira 11 ayāta yāmaṃ sarvebhyo bhāgebhyo bhāgam uttamam devāḥ saṃkalpayām āsur bhayād rudrasya śāśvatam 12 imāṃ gāthām atra gāyan apaḥ spṛśati yo naraḥ deva yānas tasya panthāś cakṣuś caiva prakāśate 13 [v] tato vaitaraṇīṃ sarve pāṇḍavā draupadī tathā avatīrya mahābhāgā tarpayāṃ cakrire pitṝn 14 [y] upaspṛśyaiva bhagavann asyāṃ nadyāṃ tapodhana mānuṣād asmi viṣayād apaitaḥ paśya lomaśa 15 sarvāṁl lokān prapaśyāmi prasādāt tava suvrata vaikhānasānāṃ japatām eṣa śabdo mahātmanām 16 [l] triśataṃ vai sahasrāṇi yojanānāṃ yudhiṣṭhira yatra dhvaniṃ śṛṇoṣy enaṃ tūṣṇīm āssva viśāṃ pate 17 etat svayaṃ bhuvo rājan vanaṃ ramyaṃ prakāśate yatrāyajata kaunteya viśvakarmā pratāpavān 18 yasmin yajñe hi bhūr dattā kaśyapāya mahātmane sa parvata vanoddeśā dakṣiṇā vai svayaṃ bhuvā 19 avāsīdac ca kaunteya dattamātrā mahī tadā uvāca cāpi kupitā lokeśvaram idaṃ prabhum 20 na māṃ martyāya bhagavan kasmai cid dātum arhasi pradānaṃ mogham etat te yāsyāmy eṣā rasātalam 21 visīdantīṃ tu tāṃ dṛṣṭvā kaśpayo bhagavān ṛṣiḥ prasādayāṃ babhūvātha tato bhūmiṃ viśāṃ pate 22 tataḥ prasannā pṛthivī tapasā tasya pāṇḍava punar unmajjya salilād vedī rūpāsthitā babhau 23 saiṣā prakāśate rājan vedī saṃsthāna lakṣaṇā āruhyātra mahārāja vīryavān vai bhaviṣyasi 24 ahaṃ ca te svastyayanaṃ prayokṣye; yathā tvam enām adhirokṣyase 'dya spṛṣṭā hi martyena tataḥ samudram; eṣā vedī praviśaty ājamīḍha 25 agnir mitro yonir āpo 'tha devyo; viṣṇo retas tvam amṛtasya nābhiḥ evaṃ bruvan pāṇḍava satyavākyaṃ; vedīm imāṃ tvaṃ tarasādhiroha 26 [v] tataḥ kṛtasvastyayano mahātmā; yudhiṣṭhiraḥ sāgaragām agacchat kṛtvā ca tacchāsanam asya sarvaṃ; mahendram āsādya niśām uvāsa |
The Mahabharata in Sanskrit
Book 3
Chapter 115
|
1
[व] स तत्र ताम उषित्वैकां रजनीं पृथिवीपतिः तापसानां परं चक्रे सत्कारं भरातृभिः सह 2 लॊमशश चास्य तान सर्वान आचख्यौ तत्र तापसान भृगून अङ्गिरसश चैव वासिष्ठान अथ काश्यपान 3 तान समेत्य स राजर्षिर अभिवाद्य कृताञ्जलिः रामस्यानुचरं वीरम अपृच्छद अकृतव्रणम 4 कदा नु रामॊ भग वांस तापसान दर्शयिष्यति तेनैवाहं परसङ्गेन दरष्टुम इच्छामि भार्गवम 5 [अक] आयान एवासि विदितॊ रामस्य विदितात्मनः परीतिस तवयि च रामस्य कषिप्रं तवां दर्शयिष्यति 6 चतुर्दशीम अष्टमीं च रामं पश्यन्ति तापसाः अस्यां रात्र्यां वयतीतायां भवित्री च चतुर्दशी 7 [य] भवान अनुगतॊ वीरं जामदग्न्यं महाबलम परत्यक्षदर्शी सर्वस्य पूर्ववृत्तस्य कर्मणाः 8 स भवान कथयत्व एतद यथा रामेण निर्जिताः आहवे कषत्रियाः सर्वे कथं केन च हेतुना 9 [अक] कन्यकुब्जे महान आसीत पार्थिवः सुमहाबलः गाधीति विश्रुतॊ लॊके वनवासं जगाम सः 10 वने तु तस्य वसतः कन्या जज्ञे ऽपसरः समा ऋचीकॊ भार्गवस तां च वरयाम आस भारत 11 तम उवाच ततॊ राजा बराह्मणं संशितव्रतम उचितं नः कुले किं चित पूर्वैर यत संप्रवर्तितम 12 एकतः शयाम कर्णानां पाण्डुराणां तरॊ विनाम सहस्रं वाजिनां शुल्कम इति विद्धि दविजॊत्तम 13 न चापि भगवान वाच्यॊ दीयताम इति भार्गव देया मे दुहिता चेयं तवद्विधाय महात्मने 14 [रच] एकतः शयाम कर्णानां पाण्डुराणां तरॊ विनाम दास्याम्य अश्वसहस्रं ते मम भार्या सुतास्तु ते 15 [अक] स तथेति परतिज्ञाय राजन वरुणम अब्रवीत एकतः शयाम कर्णानां पाण्डुराणां तरॊ विनाम सहस्रं वाजिनाम एकं शुल्कार्थं मे परदीयताम 16 तस्मै परादात सहस्रं वै वाजिनां वरुणस तदा तद अश्वतीर्थं विख्यातम उत्थिता यत्र ते हयाः 17 गङ्गायां कन्यकुब्जे वै ददौ सत्यवतीं तदा ततॊ गाधिः सुतां तस्मै जन्याश चासन सुरास तदा लब्ध्वा हयसहस्रं तु तांश च दृष्ट्वा दिवौकसः 18 धर्मेण लब्ध्वा तां भार्याम ऋचीकॊ दविजसत्तमः यथाकामं यथाजॊषं तया रेमे सुमध्यया 19 तं विवाहे कृते राजन सभार्यम अवलॊककः आजगाम भृगुश्रेष्ठः पुत्रं दृष्ट्वा ननन्द च 20 भार्या पती तम आसीनं गुरुं सुरगणार्चितम अर्चित्वा पर्युपासीनौ पराञ्जलीतस्थतुस तदा 21 ततः सनुषां स भगवान परहृष्टॊ भृगुर अब्रवीत वरं वृणीष्व सुभगे दाता हय अस्मि तवेप्सितम 22 सा वै परसादयाम आस तं गुरुं पुत्रकारणात आत्मनश चैव मातुश च परसादं च चकार सः 23 [भृ] ऋतौ तवं चैव माता च सनाते पुंसवनाय वै आलिङ्गेतां पृथग वृक्षौ साश्वत्थं तवम उदुम्बरम 24 आलिङ्गने तु ते राजंश चक्रतुः सम विपर्ययम कदा चिद भृगुर आगच्छत तं च वेद विपर्ययम 25 अथॊवाच महातेजॊ भृगुः सत्यवतीं सनुषाम बराह्मणः कषत्रवृत्तिर वै तव पुत्रॊ भविष्यति 26 कषत्रियॊ बराह्मणाचारॊ मातुस तव सुतॊ महान भविष्यति महावीर्यः साधूनां मार्गम आस्थितः 27 ततः परसादयाम आस शवशुरं सा पुनः पुनः न मे पुत्रॊ भवेद ईदृक कामं पौत्रॊ भवेद इति 28 एवम अस्त्व इति सा तेन पाण्डव परतिनन्दिता जमदग्निं ततः पुत्रं सा जज्ञे काल आगते तेजसा वर्चसा वैच युक्तं भार्गवनन्दनम 29 स वर्धमानस तेजॊ वी वेदस्याध्ययनेन वै बहून ऋषीन महातेजाः पाण्डवेयात्यवर्तत 30 तं तु कृत्स्नॊ धनुर्वेदः परत्यभाद भरतर्षभ चतुर्विधानि चास्त्राणि भाः करॊपम वर्चसम |
1
[v] sa tatra tām uṣitvaikāṃ rajanīṃ pṛthivīpatiḥ tāpasānāṃ paraṃ cakre satkāraṃ bhrātṛbhiḥ saha 2 lomaśaś cāsya tān sarvān ācakhyau tatra tāpasān bhṛgūn aṅgirasaś caiva vāsiṣṭhān atha kāśyapān 3 tān sametya sa rājarṣir abhivādya kṛtāñjaliḥ rāmasyānucaraṃ vīram apṛcchad akṛtavraṇam 4 kadā nu rāmo bhaga vāṃs tāpasān darśayiṣyati tenaivāhaṃ prasaṅgena draṣṭum icchāmi bhārgavam 5 [ak] āyān evāsi vidito rāmasya viditātmanaḥ prītis tvayi ca rāmasya kṣipraṃ tvāṃ darśayiṣyati 6 caturdaśīm aṣṭamīṃ ca rāmaṃ paśyanti tāpasāḥ asyāṃ rātryāṃ vyatītāyāṃ bhavitrī ca caturdaśī 7 [y] bhavān anugato vīraṃ jāmadagnyaṃ mahābalam pratyakṣadarśī sarvasya pūrvavṛttasya karmaṇāḥ 8 sa bhavān kathayatv etad yathā rāmeṇa nirjitāḥ āhave kṣatriyāḥ sarve kathaṃ kena ca hetunā 9 [ak] kanyakubje mahān āsīt pārthivaḥ sumahābalaḥ gādhīti viśruto loke vanavāsaṃ jagāma saḥ 10 vane tu tasya vasataḥ kanyā jajñe 'psaraḥ samā ṛcīko bhārgavas tāṃ ca varayām āsa bhārata 11 tam uvāca tato rājā brāhmaṇaṃ saṃśitavratam ucitaṃ naḥ kule kiṃ cit pūrvair yat saṃpravartitam 12 ekataḥ śyāma karṇānāṃ pāṇḍurāṇāṃ taro vinām sahasraṃ vājināṃ śulkam iti viddhi dvijottama 13 na cāpi bhagavān vācyo dīyatām iti bhārgava deyā me duhitā ceyaṃ tvadvidhāya mahātmane 14 [rc] ekataḥ śyāma karṇānāṃ pāṇḍurāṇāṃ taro vinām dāsyāmy aśvasahasraṃ te mama bhāryā sutāstu te 15 [ak] sa tatheti pratijñāya rājan varuṇam abravīt ekataḥ śyāma karṇānāṃ pāṇḍurāṇāṃ taro vinām sahasraṃ vājinām ekaṃ śulkārthaṃ me pradīyatām 16 tasmai prādāt sahasraṃ vai vājināṃ varuṇas tadā tad aśvatīrthaṃ vikhyātam utthitā yatra te hayāḥ 17 gaṅgāyāṃ kanyakubje vai dadau satyavatīṃ tadā tato gādhiḥ sutāṃ tasmai janyāś cāsan surās tadā labdhvā hayasahasraṃ tu tāṃś ca dṛṣṭvā divaukasaḥ 18 dharmeṇa labdhvā tāṃ bhāryām ṛcīko dvijasattamaḥ yathākāmaṃ yathājoṣaṃ tayā reme sumadhyayā 19 taṃ vivāhe kṛte rājan sabhāryam avalokakaḥ ājagāma bhṛguśreṣṭhaḥ putraṃ dṛṣṭvā nananda ca 20 bhāryā patī tam āsīnaṃ guruṃ suragaṇārcitam arcitvā paryupāsīnau prāñjalītasthatus tadā 21 tataḥ snuṣāṃ sa bhagavān prahṛṣṭo bhṛgur abravīt varaṃ vṛṇīṣva subhage dātā hy asmi tavepsitam 22 sā vai prasādayām āsa taṃ guruṃ putrakāraṇāt ātmanaś caiva mātuś ca prasādaṃ ca cakāra saḥ 23 [bhṛ] ṛtau tvaṃ caiva mātā ca snāte puṃsavanāya vai āliṅgetāṃ pṛthag vṛkṣau sāśvatthaṃ tvam udumbaram 24 āliṅgane tu te rājaṃś cakratuḥ sma viparyayam kadā cid bhṛgur āgacchat taṃ ca veda viparyayam 25 athovāca mahātejo bhṛguḥ satyavatīṃ snuṣām brāhmaṇaḥ kṣatravṛttir vai tava putro bhaviṣyati 26 kṣatriyo brāhmaṇācāro mātus tava suto mahān bhaviṣyati mahāvīryaḥ sādhūnāṃ mārgam āsthitaḥ 27 tataḥ prasādayām āsa śvaśuraṃ sā punaḥ punaḥ na me putro bhaved īdṛk kāmaṃ pautro bhaved iti 28 evam astv iti sā tena pāṇḍava pratinanditā jamadagniṃ tataḥ putraṃ sā jajñe kāla āgate tejasā varcasā vaica yuktaṃ bhārgavanandanam 29 sa vardhamānas tejo vī vedasyādhyayanena vai bahūn ṛṣīn mahātejāḥ pāṇḍaveyātyavartata 30 taṃ tu kṛtsno dhanurvedaḥ pratyabhād bharatarṣabha caturvidhāni cāstrāṇi bhāḥ karopama varcasam |
The Mahabharata in Sanskrit
Book 3
Chapter 116
|
1
[अक] स वेदाध्ययने युक्तॊ जमदग्निर महातपः तपस तेपे ततॊ देवान नियमाद वशम आनयत 2 स परसेनजितं राजन्न अधिगम्य नराधिपम रेणुकां वरयाम आस स च तस्मै ददौ नृपः 3 रेणुकां तव अथ संप्राप्य भार्यां भार्गवनन्दनः आश्रमस्थस तया सार्धं तपस तेपे ऽनुकूलया 4 तस्याः कुमाराश चत्वारॊ जज्ञिरे राम पञ्चमाः सर्वेषाम अजघन्यस तु राम आसीज जघन्यजः 5 फलाहारेषु सर्वेषु गतेष्व अथ सुतेषु वै रेणुका सनातुम अगमत कदा चिन नियतव्रता 6 सा तु चित्ररथं नाम मार्त्तिकावतकं नृपम ददर्श रेणुका राजन्न आगच्छन्ती यदृच्छया 7 करीडन्तं सलिले दृष्ट्वा सभार्यं पद्ममालिनम ऋद्धिमन्तं ततस तस्य सपृहयाम आस रेणुका 8 वयभिचारात तु सा तस्मात कलिन्नाम्भसि वि चेतना परविवेशाश्रमं तरस्ता तां वै भर्तान्वबुध्यत 9 स तां दृष्ट्वा चयुतां धैर्याद बराह्म्या लक्ष्म्या विवर्जिताम धिक शब्देन महातेजा गर्हयाम आस वीर्यवान 10 ततॊ जयेष्ठॊ जामदग्न्यॊ रुमण्वान नाम नाम तः आजगाम सुषेणश च वसुर विश्वावसुस तथा 11 तान आनुपूर्व्याद भगवान वधे मातुर अचॊदयत न च ते जातसंमॊहाः किं चिद ऊचुर वि चेतसः 12 ततः शशाप तान कॊपात ते शप्ताश चेतनां जहुः मृगपक्षिस धर्माणः कषिप्रम आसञ जडॊपमाः 13 ततॊ रामॊ ऽभयगात पश्चाद आश्रमं परवीर हा तम उवाच महामन्युर जमदग्निर महातपाः 14 जहीमां मातरं पापां मा च पुत्र वयथां कृथाः तत आदाय परशुं रामॊ मातुः शिरॊ ऽहरत 15 ततस तस्य महाराज जमदग्नेर महात्मनः कॊपॊ अगच्छत सहसा परसन्नश चाब्रवीद इदम 16 ममेदं वचनात तात कृतं ते कर्म दुष्करम वृणीष्व कामान धर्मज्ञ यावतॊ वाञ्छसे हृदा 17 स वव्रे मातुर उत्थानम अस्मृतिं च वधस्य वै पापेन तेन चास्पर्शं भरातॄणां परकृतिं तथा 18 अप्रतिद्वन्द्व तां युद्धे दीर्घम आयुश च भारत ददौ च सर्वान कामांस ताञ जमदग्निर महातपाः 19 कदा चित तु तथैवास्य विनिष्क्रान्ताः सुताः परभॊ अथानूप पतिर वीरः कार्तवीर्यॊ ऽभयवर्तत 20 तम आश्रमपदं पराप्तम ऋषेर भार्यासमर्चयत स युद्धमदसंमत्तॊ नाभ्यनन्दत तथार्चनम 21 परमथ्य चाश्रमात तस्माद धॊम धेन्वास तदा बलात जहार वत्सं करॊशन्त्या बभञ्ज च महाद्रुमान 22 आगताय च रामाय तदाचष्ट पिता सवयम गां च रॊरूयतीं दृष्ट्वा कॊपॊ राम समाविशत 23 स मन्युवशम आपन्नः कार्तवीर्यम उपाद्रवत तस्याथ युधि विक्रम्य भार्गवः परवीर हा 24 चिच्छेद निशितैर भल्लैर बाहून परिघसंनिभान सहस्रसंमितान राजन परगृह्य रुचिरं धनुः 25 अर्जुनस्याथ दाया दा रामेण कृतमन्यवः आश्रमस्थं विना रामं जमदग्निम उपाद्रवन 26 ते तं जघ्नुर महावीर्यम अयुध्यन्तं तपॊ विनम असकृद राम रामेति विक्रॊशन्तम अनाथवत 27 कार्तवीर्यस्य पुत्रास तु जमदग्निं युधिष्ठिर घातयित्वा शरैर जग्मुर यथागतम अरिंदमाः 28 अपक्रान्तेषु चैतेषु जमदग्नौ तथागते समित पाणिर उपागच्छद आश्रमं भृगुनन्दनः 29 स दृष्ट्वा पितरं वीरस तथा मृत्युवशं गतम अनर्हन्तं तथा भूतं विललाप सुदुःखितः |
1
[ak] sa vedādhyayane yukto jamadagnir mahātapaḥ tapas tepe tato devān niyamād vaśam ānayat 2 sa prasenajitaṃ rājann adhigamya narādhipam reṇukāṃ varayām āsa sa ca tasmai dadau nṛpaḥ 3 reṇukāṃ tv atha saṃprāpya bhāryāṃ bhārgavanandanaḥ āśramasthas tayā sārdhaṃ tapas tepe 'nukūlayā 4 tasyāḥ kumārāś catvāro jajñire rāma pañcamāḥ sarveṣām ajaghanyas tu rāma āsīj jaghanyajaḥ 5 phalāhāreṣu sarveṣu gateṣv atha suteṣu vai reṇukā snātum agamat kadā cin niyatavratā 6 sā tu citrarathaṃ nāma mārttikāvatakaṃ nṛpam dadarśa reṇukā rājann āgacchantī yadṛcchayā 7 krīḍantaṃ salile dṛṣṭvā sabhāryaṃ padmamālinam ṛddhimantaṃ tatas tasya spṛhayām āsa reṇukā 8 vyabhicārāt tu sā tasmāt klinnāmbhasi vi cetanā praviveśāśramaṃ trastā tāṃ vai bhartānvabudhyata 9 sa tāṃ dṛṣṭvā cyutāṃ dhairyād brāhmyā lakṣmyā vivarjitām dhik śabdena mahātejā garhayām āsa vīryavān 10 tato jyeṣṭho jāmadagnyo rumaṇvān nāma nāma taḥ ājagāma suṣeṇaś ca vasur viśvāvasus tathā 11 tān ānupūrvyād bhagavān vadhe mātur acodayat na ca te jātasaṃmohāḥ kiṃ cid ūcur vi cetasaḥ 12 tataḥ śaśāpa tān kopāt te śaptāś cetanāṃ jahuḥ mṛgapakṣisa dharmāṇaḥ kṣipram āsañ jaḍopamāḥ 13 tato rāmo 'bhyagāt paścād āśramaṃ paravīra hā tam uvāca mahāmanyur jamadagnir mahātapāḥ 14 jahīmāṃ mātaraṃ pāpāṃ mā ca putra vyathāṃ kṛthāḥ tata ādāya paraśuṃ rāmo mātuḥ śiro 'harat 15 tatas tasya mahārāja jamadagner mahātmanaḥ kopo agacchat sahasā prasannaś cābravīd idam 16 mamedaṃ vacanāt tāta kṛtaṃ te karma duṣkaram vṛṇīṣva kāmān dharmajña yāvato vāñchase hṛdā 17 sa vavre mātur utthānam asmṛtiṃ ca vadhasya vai pāpena tena cāsparśaṃ bhrātṝṇāṃ prakṛtiṃ tathā 18 apratidvandva tāṃ yuddhe dīrgham āyuś ca bhārata dadau ca sarvān kāmāṃs tāñ jamadagnir mahātapāḥ 19 kadā cit tu tathaivāsya viniṣkrāntāḥ sutāḥ prabho athānūpa patir vīraḥ kārtavīryo 'bhyavartata 20 tam āśramapadaṃ prāptam ṛṣer bhāryāsamarcayat sa yuddhamadasaṃmatto nābhyanandat tathārcanam 21 pramathya cāśramāt tasmād dhoma dhenvās tadā balāt jahāra vatsaṃ krośantyā babhañja ca mahādrumān 22 āgatāya ca rāmāya tadācaṣṭa pitā svayam gāṃ ca rorūyatīṃ dṛṣṭvā kopo rāma samāviśat 23 sa manyuvaśam āpannaḥ kārtavīryam upādravat tasyātha yudhi vikramya bhārgavaḥ paravīra hā 24 ciccheda niśitair bhallair bāhūn parighasaṃnibhān sahasrasaṃmitān rājan pragṛhya ruciraṃ dhanuḥ 25 arjunasyātha dāyā dā rāmeṇa kṛtamanyavaḥ āśramasthaṃ vinā rāmaṃ jamadagnim upādravan 26 te taṃ jaghnur mahāvīryam ayudhyantaṃ tapo vinam asakṛd rāma rāmeti vikrośantam anāthavat 27 kārtavīryasya putrās tu jamadagniṃ yudhiṣṭhira ghātayitvā śarair jagmur yathāgatam ariṃdamāḥ 28 apakrānteṣu caiteṣu jamadagnau tathāgate samit pāṇir upāgacchad āśramaṃ bhṛgunandanaḥ 29 sa dṛṣṭvā pitaraṃ vīras tathā mṛtyuvaśaṃ gatam anarhantaṃ tathā bhūtaṃ vilalāpa suduḥkhitaḥ |
The Mahabharata in Sanskrit
Book 3
Chapter 117
|
1
[र] ममापराधात तैः कषुद्रैर हतस तवं तात बालिशैः कार्तवीर्यस्य दाया दैर वने मृग इवेषुभिः 2 धर्मज्ञस्य कथं तात वर्तमानस्य सत्पथे मृत्युर एवंविधॊ युक्तः सर्वभूतेष्व अनागसः 3 किं नु तैर न कृतं पापं यैर भवांस तपसि सथितः अयुध्यमानॊ वृद्धः सन हतः शरशतैः शितैः 4 किं नु ते तत्र वक्ष्यन्ति सचिवेषु सुहृत्सु च अयुध्यमानं धर्मज्ञम एकं हत्वानपत्रपाः 5 [अक] विलप्यैवं स करुणं बहु नानाविधं नृप परेतकार्याणि सर्वाणि पितुश चक्रे महातपाः 6 ददाह पितरं चाग्नौ रामः परपुरंजयः परतिजज्ञे वधं चापि सर्वक्षत्रस्य भारत 7 संक्रुद्धॊ ऽति बलः शूरः शस्त्रम आदाय वीर्यवान जघ्निवान कार्तवीर्यस्य सुतान एकॊ ऽनतकॊपमः 8 तेषां चानुगता ये च कषत्रियाः कषत्रियर्षभ तांश च सर्वान अवामृद्नाद रामः परहरतां वरः 9 तरिः सप्तकृत्वः पृथिवीं कृत्वा निः कषत्रियां परभुः समन्तपञ्चके पञ्च चकार रुधिरह्रदान 10 स तेषु तर्पयाम आस पितॄन भृगुकुलॊद्वहः साक्षाद ददर्श चर्चीकं स च रामं नयवारयत 11 ततॊ यज्ञेन महता जामदग्न्यः परतापवान तर्पयाम आस देवेन्द्रम ऋत्विग्भ्यश च महीं ददौ 12 वेदीं चाप्य अददद धैमीं कश्यपाय महात्मने दशव्यामायतां कृत्वा नवॊत्सेधां विशां पते 13 तां कश्यपस्यानुमते बराह्मणाः खन्द शस तदा वयभजंस तेन ते राजन परख्याताः खान्दवायनाः 14 स परदाय महीं तस्मै कश्यपाय महात्मने अस्मिन महेन्द्रे शैलेन्द्रे वसत्य अमितविक्रमः 15 एवं वैरम अभूत तस्य कषत्रियैर लॊकवासिभिः पृथिवी चापि विजिता रामेणामिततेजसा 16 [व] ततश चतुर्दशीं रामः समयेन महामनाः दर्शयाम आस तान विप्रान धर्मराजं च सानुजम 17 स तम आनर्च राजेन्द्रॊ भरातृभिः सहितः परभुः दविजानां च परां पूजां चक्रे नृपतिसत्तमः 18 अर्चयित्वा जामदग्न्यं पूजितस तेन चाभिभूः महेन्द्र उष्य तां रात्रिं परययौ दक्षिणामुखः |
1
[r] mamāparādhāt taiḥ kṣudrair hatas tvaṃ tāta bāliśaiḥ kārtavīryasya dāyā dair vane mṛga iveṣubhiḥ 2 dharmajñasya kathaṃ tāta vartamānasya satpathe mṛtyur evaṃvidho yuktaḥ sarvabhūteṣv anāgasaḥ 3 kiṃ nu tair na kṛtaṃ pāpaṃ yair bhavāṃs tapasi sthitaḥ ayudhyamāno vṛddhaḥ san hataḥ śaraśataiḥ śitaiḥ 4 kiṃ nu te tatra vakṣyanti saciveṣu suhṛtsu ca ayudhyamānaṃ dharmajñam ekaṃ hatvānapatrapāḥ 5 [ak] vilapyaivaṃ sa karuṇaṃ bahu nānāvidhaṃ nṛpa pretakāryāṇi sarvāṇi pituś cakre mahātapāḥ 6 dadāha pitaraṃ cāgnau rāmaḥ parapuraṃjayaḥ pratijajñe vadhaṃ cāpi sarvakṣatrasya bhārata 7 saṃkruddho 'ti balaḥ śūraḥ śastram ādāya vīryavān jaghnivān kārtavīryasya sutān eko 'ntakopamaḥ 8 teṣāṃ cānugatā ye ca kṣatriyāḥ kṣatriyarṣabha tāṃś ca sarvān avāmṛdnād rāmaḥ praharatāṃ varaḥ 9 triḥ saptakṛtvaḥ pṛthivīṃ kṛtvā niḥ kṣatriyāṃ prabhuḥ samantapañcake pañca cakāra rudhirahradān 10 sa teṣu tarpayām āsa pitṝn bhṛgukulodvahaḥ sākṣād dadarśa carcīkaṃ sa ca rāmaṃ nyavārayat 11 tato yajñena mahatā jāmadagnyaḥ pratāpavān tarpayām āsa devendram ṛtvigbhyaś ca mahīṃ dadau 12 vedīṃ cāpy adadad dhaimīṃ kaśyapāya mahātmane daśavyāmāyatāṃ kṛtvā navotsedhāṃ viśāṃ pate 13 tāṃ kaśyapasyānumate brāhmaṇāḥ khanda śas tadā vyabhajaṃs tena te rājan prakhyātāḥ khāndavāyanāḥ 14 sa pradāya mahīṃ tasmai kaśyapāya mahātmane asmin mahendre śailendre vasaty amitavikramaḥ 15 evaṃ vairam abhūt tasya kṣatriyair lokavāsibhiḥ pṛthivī cāpi vijitā rāmeṇāmitatejasā 16 [v] tataś caturdaśīṃ rāmaḥ samayena mahāmanāḥ darśayām āsa tān viprān dharmarājaṃ ca sānujam 17 sa tam ānarca rājendro bhrātṛbhiḥ sahitaḥ prabhuḥ dvijānāṃ ca parāṃ pūjāṃ cakre nṛpatisattamaḥ 18 arcayitvā jāmadagnyaṃ pūjitas tena cābhibhūḥ mahendra uṣya tāṃ rātriṃ prayayau dakṣiṇāmukhaḥ |
The Mahabharata in Sanskrit
Book 3
Chapter 118
|
1
[व] गच्छन स तीर्थानि महानुभावः; पुण्यानि रम्याणि ददर्श राजा सर्वाणि विप्रैर उपशॊभितानि; कव चित कव चिद भारत सागरस्य 2 स वृत्तवांस तेषु कृताभिषेकः; सहानुजः पार्थिव पुत्रपौत्रः समुद्रगां पुण्यतमां परशस्तां; जगाम पारिक्षित पाण्डुपुत्रः 3 तत्रापि चाप्लुत्य महानुभावः; संतर्पयाम आस पितॄन सुरांश च दविजातिमुख्येषु धनं विसृज्य; गॊदावरिं सागरगाम अगच्छत 4 ततॊ वि पाप्मा दरविडेषु राजन; अमुद्रम आसाद्य च लॊकपुण्यम अगस्त्यतीर्थं च पवित्रपुण्यं; नारी तीर्थान्य अथ वीरॊ ददर्श 5 तत्रार्जुनस्याग्र्य धनुर्धरस्य; निशम्य तत कर्म परैर असह्यम संपूज्यमानः परमर्षिसंघैः; परां मुदं पाण्डुसुतः स लेभे 6 स तेषु तीर्थेष्व अभिषिक्त गात्रः; कृष्णा सहायः सहितॊ ऽनुजैश च संपूजयन विक्रमम अर्जुनस्य; रेमे महीपाल पतिः पृथिव्याम 7 ततः सहस्राणि गवां परदाय; तीर्थेषु तेष्व अम्बुधरॊत्तमस्य हृष्टः सह भरातृभिर अर्जुनस्य; संकीर्तयाम आस गवां परदानम 8 स तानि तीर्थानि च सागरस्य; पुण्यानि चान्यानि बहूनि राजन करमेण गच्छन परिपूर्णकामः; शूर्पारकं पुण्यतमं ददर्श 9 तत्रॊदधेः कं चिद अतीत्य देशं; खयातं पृथिव्यां वनम आससाद तप्तं सुरैर यत्र तपः पुरस्ताद; इष्टं तथा पुण्यतमैर नरेन्द्रैः 10 स तत्र ताम अग्र्यधनुर्धरस्य; वेदीं ददर्शायतपीनबाहुः ऋचीक पुत्रस्य तपॊ वि संघैः; समावृतां पुण्यकृद अर्चनीयाम 11 ततॊ वसूनां वसु धाधिपः स; मरुद्गणानां च तथाश्विनॊश च वैवस्वतादित्य धनेश्वराणाम; इन्द्रस्य विष्णॊर सवितुर विभॊर च 12 भगस्य चन्द्रस्य दिवाकरस्य; पतेर अपां साध्य गणस्य चैव धातुः पितॄणां च तथा महात्मा; रुद्रस्य राजन सगणस्य चैव 13 सरॊ वत्याः सिद्धगणस्य चैव; पूष्णश च ये चाप्य अमरास तथान्ये पुण्यानि चाप्य आयतनानि तेषां; ददर्श राजा सुमनॊहराणि 14 तेषूपवासान विविधान उपॊष्य; दत्त्वा च रत्नानि महाधनानि तीर्थेषु सर्वेषु परिप्लुताङ्गः; पुनः स शूर्पारकम आजगाम 15 स तेन तीर्थेन तु सागरस्य; पुनः परयातः सह सॊदरीयैः दविजैः पृथिव्यां परथितं महद्भिस; तीर्थं परभासं सम उपाजगाम 16 तत्राभिषिक्तः पृथु लॊहिताक्षः; सहानुजैर देवगणान पितॄंश च संतर्पयाम आस तथैव कृष्णा; ते चापि विप्राः सह लॊमशेन 17 स दवादशाहं जलवायुभक्षः; कुर्वन कषपाहःसु तदाभिषेकम समन्ततॊ ऽगनीन उपदीपयित्वा; तेपे तपॊ धर्मभृतां वरिष्ठः 18 तम उग्रम आस्थाय तपश चरन्तं; शुश्राव रामश च जनार्दनश च तौ सर्ववृष्णिप्रवरौ स सैन्यौ; युधिष्ठिरं जग्मतुर आजमीढम 19 ते वृष्णयः पाण्डुसुतान समीक्ष्य; भूमौ शयानान मलदिग्ध गात्रान अनर्हतीं दरौपदीं चापि दृष्ट्वा; सुदुःखिताश चुक्रुशुर आर्तनादम 20 ततः स रामं च जनार्दनं च; कार्ष्णिं च साम्बं च शिनेश च पौत्रम अन्यांश च वृष्णीन उपगम्य पूजां; चक्रे यथा धर्मम अदीनसत्त्वः 21 ते चापि सर्वान परतिपूज्य पार्थांस; तैः सत्कृताः पाण्डुसुतैस तथैव युधिष्ठिरं संपरिवार्य राजन्न; उपाविशन देवगणा यथेन्द्रम 22 तेषां स सर्वं चरितं परेषां; वने च वासं परमप्रतीतः अस्त्रार्थम इन्द्रस्य गतं च पार्थं; कृष्णे शशंसामर राजपुत्रम 23 शरुत्वा तु ते तस्य वचः परतीतास; तांश चापि दृष्ट्वा सुकृशान अतीव नेत्रॊद्भवं संमुमुचुर दशार्हा; दुःखार्ति जं वारि महानुभावाः |
1
[v] gacchan sa tīrthāni mahānubhāvaḥ; puṇyāni ramyāṇi dadarśa rājā sarvāṇi viprair upaśobhitāni; kva cit kva cid bhārata sāgarasya 2 sa vṛttavāṃs teṣu kṛtābhiṣekaḥ; sahānujaḥ pārthiva putrapautraḥ samudragāṃ puṇyatamāṃ praśastāṃ; jagāma pārikṣita pāṇḍuputraḥ 3 tatrāpi cāplutya mahānubhāvaḥ; saṃtarpayām āsa pitṝn surāṃś ca dvijātimukhyeṣu dhanaṃ visṛjya; godāvariṃ sāgaragām agacchat 4 tato vi pāpmā draviḍeṣu rājan; amudram āsādya ca lokapuṇyam agastyatīrthaṃ ca pavitrapuṇyaṃ; nārī tīrthāny atha vīro dadarśa 5 tatrārjunasyāgrya dhanurdharasya; niśamya tat karma parair asahyam saṃpūjyamānaḥ paramarṣisaṃghaiḥ; parāṃ mudaṃ pāṇḍusutaḥ sa lebhe 6 sa teṣu tīrtheṣv abhiṣikta gātraḥ; kṛṣṇā sahāyaḥ sahito 'nujaiś ca saṃpūjayan vikramam arjunasya; reme mahīpāla patiḥ pṛthivyām 7 tataḥ sahasrāṇi gavāṃ pradāya; tīrtheṣu teṣv ambudharottamasya hṛṣṭaḥ saha bhrātṛbhir arjunasya; saṃkīrtayām āsa gavāṃ pradānam 8 sa tāni tīrthāni ca sāgarasya; puṇyāni cānyāni bahūni rājan krameṇa gacchan paripūrṇakāmaḥ; śūrpārakaṃ puṇyatamaṃ dadarśa 9 tatrodadheḥ kaṃ cid atītya deśaṃ; khyātaṃ pṛthivyāṃ vanam āsasāda taptaṃ surair yatra tapaḥ purastād; iṣṭaṃ tathā puṇyatamair narendraiḥ 10 sa tatra tām agryadhanurdharasya; vedīṃ dadarśāyatapīnabāhuḥ ṛcīka putrasya tapo vi saṃghaiḥ; samāvṛtāṃ puṇyakṛd arcanīyām 11 tato vasūnāṃ vasu dhādhipaḥ sa; marudgaṇānāṃ ca tathāśvinoś ca vaivasvatāditya dhaneśvarāṇām; indrasya viṣṇor savitur vibhor ca 12 bhagasya candrasya divākarasya; pater apāṃ sādhya gaṇasya caiva dhātuḥ pitṝṇāṃ ca tathā mahātmā; rudrasya rājan sagaṇasya caiva 13 saro vatyāḥ siddhagaṇasya caiva; pūṣṇaś ca ye cāpy amarās tathānye puṇyāni cāpy āyatanāni teṣāṃ; dadarśa rājā sumanoharāṇi 14 teṣūpavāsān vividhān upoṣya; dattvā ca ratnāni mahādhanāni tīrtheṣu sarveṣu pariplutāṅgaḥ; punaḥ sa śūrpārakam ājagāma 15 sa tena tīrthena tu sāgarasya; punaḥ prayātaḥ saha sodarīyaiḥ dvijaiḥ pṛthivyāṃ prathitaṃ mahadbhis; tīrthaṃ prabhāsaṃ sam upājagāma 16 tatrābhiṣiktaḥ pṛthu lohitākṣaḥ; sahānujair devagaṇān pitṝṃś ca saṃtarpayām āsa tathaiva kṛṣṇā; te cāpi viprāḥ saha lomaśena 17 sa dvādaśāhaṃ jalavāyubhakṣaḥ; kurvan kṣapāhaḥsu tadābhiṣekam samantato 'gnīn upadīpayitvā; tepe tapo dharmabhṛtāṃ variṣṭhaḥ 18 tam ugram āsthāya tapaś carantaṃ; śuśrāva rāmaś ca janārdanaś ca tau sarvavṛṣṇipravarau sa sainyau; yudhiṣṭhiraṃ jagmatur ājamīḍham 19 te vṛṣṇayaḥ pāṇḍusutān samīkṣya; bhūmau śayānān maladigdha gātrān anarhatīṃ draupadīṃ cāpi dṛṣṭvā; suduḥkhitāś cukruśur ārtanādam 20 tataḥ sa rāmaṃ ca janārdanaṃ ca; kārṣṇiṃ ca sāmbaṃ ca śineś ca pautram anyāṃś ca vṛṣṇīn upagamya pūjāṃ; cakre yathā dharmam adīnasattvaḥ 21 te cāpi sarvān pratipūjya pārthāṃs; taiḥ satkṛtāḥ pāṇḍusutais tathaiva yudhiṣṭhiraṃ saṃparivārya rājann; upāviśan devagaṇā yathendram 22 teṣāṃ sa sarvaṃ caritaṃ pareṣāṃ; vane ca vāsaṃ paramapratītaḥ astrārtham indrasya gataṃ ca pārthaṃ; kṛṣṇe śaśaṃsāmara rājaputram 23 śrutvā tu te tasya vacaḥ pratītās; tāṃś cāpi dṛṣṭvā sukṛśān atīva netrodbhavaṃ saṃmumucur daśārhā; duḥkhārti jaṃ vāri mahānubhāvāḥ |
The Mahabharata in Sanskrit
Book 3
Chapter 119
|
1
[ज] परभास तीर्थं संप्राप्य वृष्णयः पाण्डवास तथा किम अकुर्वन कथाश चैषां कास तत्रासंस तपॊधन 2 ते हि सर्वे महात्मानः सर्वशास्त्रविशारदाः वृष्णयः पाण्डवाश चैव सुहृदश च परस्परम 3 [व] परभास तीर्थं संप्राप्य पुण्यं तीर्थं महॊदधेः वृष्णयः पाण्डवान वीरान परिवार्यॊपतस्थिर 4 ततॊ गॊक्षीरकुन्देन्दु मृणालरजतप्रभः वनमाली हली रामॊ बभाषे पुष्करेक्षणम 5 न कृष्ण धर्मश चरितॊ भवाय; जन्तॊर अधर्मश च पराभवाय युधिष्ठिरॊ यत्र जटी महात्मा; वनाश्रयः कलिश्यति चीरवासः 6 दुर्यॊधनश चापि महीं परशास्ति; न चास्य भूमिर विवरं ददाति धर्माद अधर्मश चरितॊ गरीयान; इतीव मन्येत नरॊ ऽलपबुद्धिः 7 दुर्यॊधने चापि विवर्धमाने; युधिष्ठिरे चासुख आत्तराज्ये किं नव अद्य कर्तव्यम इति परजाभिः; शङ्का मिथः संजनिता नराणाम 8 अयं हि धर्मप्रभवॊ नरेन्द्रॊ; धर्मे रतः सत्यधृतिः परदाता चलेद धि राज्याच च सुखाच च पार्थॊ; धर्माद अपैतश च कथं विवर्धेत 9 कथं नु भीष्मश च कृपश च विप्रॊ; दरॊणश च राजा च कुलस्य वृद्धः परव्राज्य पार्थान सुखम आप्नुवन्ति; धिक पापबुद्धीन भरत परधानान 10 किंनाम वक्ष्यत्य अवनि परधानः; पितॄन समागम्य परत्र पापः पुत्रेषु सम्यक चरितं मयेति; पुत्रान अपापान अवरॊप्य राज्यात 11 नासौ धिया संप्रतिपश्यति सम; किंनाम कृत्वाहम अचक्षुर एवम जातः पृथिव्याम इति पार्थिवेषु; परव्राज्य कौन्तेयम अथापि राज्यात 12 नूनं समृद्धान पितृलॊकभूमौ; चामीकराभान कषितिजान परफुल्लान विचित्रवीर्यस्य सुतः सपुत्रः; कृत्वा नृशंसं बत पश्यति सम 13 वयूढॊत्तरांसान पृथु लॊहिताक्षान; नेमान सम पृच्छन स शृणॊति नूनम परस्थापयद यत स वनं हय अशङ्कॊ; युधिष्ठिरं सानुजम आत्तशस्त्रम 14 यॊ ऽयं परेषां पृतनां समृद्धां; निर आयुधॊ दीर्घभुजॊ निहन्यात शरुत्वैव शब्दं हि वृकॊदरस्य; मुञ्चन्ति सैन्यानि शकृत स मूत्रम 15 स कषुत्पिपासाध्व कृशस तरॊ वी; समेत्य नानायुध बाणपाणिः वने समरन वासम इमं सुघॊरं; शेषं न कुर्याद इति निश्चितं मे 16 न हय अस्य वीर्येण बलेन कश चित; समः पृथिव्यां भविता नरेषु शीतॊष्णवातातप कर्शिताङ्गॊ; न शेषम आजाव असुहृत्सु कुर्यात 17 पराच्यां नृपान एकरथेन जित्वा; वृकॊदरः सानुचरान रणेषु सवस्त्यागमद यॊ ऽति रथस तरॊ वी; सॊ ऽयं वने कलिश्यति चीरवासः 18 यॊ दन्तकूरे वयजयन नृदेवान; समागतान दाक्षिणात्यान मही पान तं पश्यतेमं सहदेवम अद्य; तपॊ विनं तापस वेषरूपम 19 यः पार्थिवान एकरथेन वीरॊ; दिशं परतीचीं परति युद्धशौण्डः सॊ ऽयं वने मूलफलेन जीवञ; जटी चरत्य अद्य मलाचिताङ्गः 20 सत्रे समृद्धे ऽति रथस्य राज्ञॊ; वेदी तलाद उत्पतिता सुता या सेयं वनेवासम इमं सुदुःखं; कथं सहत्य अद्य सती सुखार्हा 21 तरिवर्गमुख्यस्य समीरणस्य; देवेश्वरस्याप्य अथ वाश्विनॊश च एषां सुराणां तनयाः कथं नु; वनेचरन्त्य अल्पसुखाः सुखार्हाः 22 जिते हि धर्मस्य सुते सभार्ये; स भरातृके सानुचरे निरस्ते दुर्यॊधने चापि विवर्धमाने; कथं न सीदत्य अवनिः स शैला |
1
[j] prabhāsa tīrthaṃ saṃprāpya vṛṣṇayaḥ pāṇḍavās tathā kim akurvan kathāś caiṣāṃ kās tatrāsaṃs tapodhana 2 te hi sarve mahātmānaḥ sarvaśāstraviśāradāḥ vṛṣṇayaḥ pāṇḍavāś caiva suhṛdaś ca parasparam 3 [v] prabhāsa tīrthaṃ saṃprāpya puṇyaṃ tīrthaṃ mahodadheḥ vṛṣṇayaḥ pāṇḍavān vīrān parivāryopatasthira 4 tato gokṣīrakundendu mṛṇālarajataprabhaḥ vanamālī halī rāmo babhāṣe puṣkarekṣaṇam 5 na kṛṣṇa dharmaś carito bhavāya; jantor adharmaś ca parābhavāya yudhiṣṭhiro yatra jaṭī mahātmā; vanāśrayaḥ kliśyati cīravāsaḥ 6 duryodhanaś cāpi mahīṃ praśāsti; na cāsya bhūmir vivaraṃ dadāti dharmād adharmaś carito garīyān; itīva manyeta naro 'lpabuddhiḥ 7 duryodhane cāpi vivardhamāne; yudhiṣṭhire cāsukha āttarājye kiṃ nv adya kartavyam iti prajābhiḥ; śaṅkā mithaḥ saṃjanitā narāṇām 8 ayaṃ hi dharmaprabhavo narendro; dharme rataḥ satyadhṛtiḥ pradātā caled dhi rājyāc ca sukhāc ca pārtho; dharmād apaitaś ca kathaṃ vivardhet 9 kathaṃ nu bhīṣmaś ca kṛpaś ca vipro; droṇaś ca rājā ca kulasya vṛddhaḥ pravrājya pārthān sukham āpnuvanti; dhik pāpabuddhīn bharata pradhānān 10 kiṃnāma vakṣyaty avani pradhānaḥ; pitṝn samāgamya paratra pāpaḥ putreṣu samyak caritaṃ mayeti; putrān apāpān avaropya rājyāt 11 nāsau dhiyā saṃpratipaśyati sma; kiṃnāma kṛtvāham acakṣur evam jātaḥ pṛthivyām iti pārthiveṣu; pravrājya kaunteyam athāpi rājyāt 12 nūnaṃ samṛddhān pitṛlokabhūmau; cāmīkarābhān kṣitijān praphullān vicitravīryasya sutaḥ saputraḥ; kṛtvā nṛśaṃsaṃ bata paśyati sma 13 vyūḍhottarāṃsān pṛthu lohitākṣān; nemān sma pṛcchan sa śṛṇoti nūnam prasthāpayad yat sa vanaṃ hy aśaṅko; yudhiṣṭhiraṃ sānujam āttaśastram 14 yo 'yaṃ pareṣāṃ pṛtanāṃ samṛddhāṃ; nir āyudho dīrghabhujo nihanyāt śrutvaiva śabdaṃ hi vṛkodarasya; muñcanti sainyāni śakṛt sa mūtram 15 sa kṣutpipāsādhva kṛśas taro vī; sametya nānāyudha bāṇapāṇiḥ vane smaran vāsam imaṃ sughoraṃ; śeṣaṃ na kuryād iti niścitaṃ me 16 na hy asya vīryeṇa balena kaś cit; samaḥ pṛthivyāṃ bhavitā nareṣu śītoṣṇavātātapa karśitāṅgo; na śeṣam ājāv asuhṛtsu kuryāt 17 prācyāṃ nṛpān ekarathena jitvā; vṛkodaraḥ sānucarān raṇeṣu svastyāgamad yo 'ti rathas taro vī; so 'yaṃ vane kliśyati cīravāsaḥ 18 yo dantakūre vyajayan nṛdevān; samāgatān dākṣiṇātyān mahī pān taṃ paśyatemaṃ sahadevam adya; tapo vinaṃ tāpasa veṣarūpam 19 yaḥ pārthivān ekarathena vīro; diśaṃ pratīcīṃ prati yuddhaśauṇḍaḥ so 'yaṃ vane mūlaphalena jīvañ; jaṭī caraty adya malācitāṅgaḥ 20 satre samṛddhe 'ti rathasya rājño; vedī talād utpatitā sutā yā seyaṃ vanevāsam imaṃ suduḥkhaṃ; kathaṃ sahaty adya satī sukhārhā 21 trivargamukhyasya samīraṇasya; deveśvarasyāpy atha vāśvinoś ca eṣāṃ surāṇāṃ tanayāḥ kathaṃ nu; vanecaranty alpasukhāḥ sukhārhāḥ 22 jite hi dharmasya sute sabhārye; sa bhrātṛke sānucare niraste duryodhane cāpi vivardhamāne; kathaṃ na sīdaty avaniḥ sa śailā |
The Mahabharata in Sanskrit
Book 3
Chapter 120
|
1
[सात्यकि] न राम कालः परिदेवनाय; यद उत्तरं तत्र तद एव सर्वे समाचरामॊ हय अनतीत कालं; युधिष्ठिरॊ यद्य अपि नाह किं चित 2 ये नाथवन्तॊ हि भवन्ति लॊके; ते नात्मना कर्म समारभन्ते तेषां तु कार्येषु भवन्ति नाथाः; शैब्यादयॊ राम यथा ययातेः 3 येषां तथा राम समारभन्ते; कार्याणि नाथाः सवमतेन लॊके ते नाथवन्तः पुरुषप्रवीरा; नानाथ वत कृच्छ्रम अवाप्नुवन्ति 4 कस्माद अयं राम जनार्दनौ च; परद्युम्न साम्बौ च मया समेतौ वसत्य अरण्ये सह सॊदरीयैस; तरैलॊक्यनाथान अधिगम्य नाथान 5 निर्यातु साध्व अद्य दशार्ह सेना; परभूतनानायुध चित्रवर्माः यमक्षयं गच्छतु धार्तराष्ट्रः; स बान्धवॊ वृष्णिबलाभिभूतः 6 तवं हय एव कॊपात पृथिवीम अपीमां; संवेष्टयेस तिष्ठतु शार्ङ्गधन्वा स धार्तराष्ट्रं जहि सानुबन्धं; वृत्रं यथा देवपतिर महेन्द्रः 7 भराता च मे यश च सखा गुरुश च; जनार्दनस्यात्म समश च पार्थः यदर्थम अभ्युद्यतम उत्तमं तत; करॊति कर्माग्र्यम अपारणीयम 8 तस्यास्त्र वर्षाण्य अहम उत्तमास्त्रैर; विहत्य सर्वाणि रणे ऽभिभूय कायाच छिरः सर्पविषाग्निकल्पैः; शरॊत्तमैर उन्मथितास्मि राम 9 खड्गेन चाहं निशितेन संख्ये; कायाच छिरस तस्य बलात परमथ्य ततॊ ऽसय सर्वान अनुगान हनिष्ये; दुर्यॊधनं चापि कुरूंश च सर्वान 10 आत्तायुधं माम इह रौहिणेय; पश्यन्तु भौमा युधि जातहर्षाः निघ्नन्तम एकं कुरु यॊधमुख्यान; काले महाकक्षम इवान्तकाग्निः 11 परद्युम्न मुक्तान निशितान न शक्ताः; सॊढुं कृप दरॊण विकर्ण कर्णाः जानामि वीर्यं च तवात्म जस्य; कार्ष्णिर भवत्य एष यथा रणस्थः 12 साम्बः ससूतं स रथं भुजाभ्यां; दुःशासनं शास्तु बलात परमथ्य न विद्यते जाम्ब वती सुतस्य; रणे ऽविषह्यं हि रणॊत्कटस्य 13 एतेन बालेन हि शम्बरस्य; दैत्यस्य सैन्यं सहसा परणुन्नम वृत्तॊरुर अत्यायत पीनबाहुर; एतेन संख्ये निहतॊ ऽशवचक्रः कॊ नाम साम्बस्य रणे मनुष्यॊ; गत्वान्तरं वै भुजयॊर धरेत 14 यथा परविश्यान्तरम अन्तकस्य; काले मनुष्यॊ न विनिष्क्रमेत तथा परविश्यान्तरम अस्य संख्ये; कॊ नाम जीवन पुनर आव्रजेत 15 दरॊणं च भीष्मं च महारथौ तौ; सुतैर वृतं चाप्य अथ सॊमदत्तम सर्वाणि सैन्यानि च वासुदेवः; परधक्ष्यते सायकवह्नि जालैः 16 किंनाम लॊकेष्व अविषह्यम अस्ति; कृष्णस्य सर्वेषु सदैव तेषु आत्तायुधस्यॊत्तम बाणपाणेश; चक्रायुधस्याप्रतिमस्य युद्धे 17 ततॊ ऽनिरुद्धॊ ऽपय असि चर्म पाणिर; महीम इमां धार्तराष्ट्रैर वि संज्ञैः हृतॊत्तमाङ्गैर निहतैः करॊतु; कीर्णां कुशैर वेदिम इवाध्वरेषु 18 गदॊल्मुकौ बाहुक भानुनीथाः; शूरश च संख्ये निशठः कुमारः रणॊत्कटौ सारण चारुदेष्णौ; कुलॊचितं विप्रथयन्तु कर्म 19 स वृष्णिभॊजान्धकयॊधमुख्या; समागता कषत्रिय शूरसेना हत्वा रणे तान धृतराष्ट्र पुत्राँल; लॊके यशः सफीतम उपाकरॊतु 20 ततॊ ऽभिमन्युः पृथिवीं परशास्तु; यावद वरतं धर्मभृतां वरिष्ठः युधिष्ठिरः पारयते महात्मा; दयूते यथॊक्तं कुरुसत्तमेन 21 अस्मत परमुखैर वि शिखैर जितारिस; ततॊ महीं भॊक्ष्यति धर्मराजः निर धार्तराष्ट्रां हतसूतपुत्राम; एतद धि नः कृत्यतमं यशश्यम 22 [वासु] असंशयं माधव सत्यम एतद; गृह्णीम ते वाक्यम अदीनसत्त्व सवाभ्यां भुजाभ्याम अजितां तु भूमिं; नेच्छेत कुरूणाम ऋषभः कथं चित 23 न हय एष कामान न भयान न लॊभाद; युधिष्ठिरॊ जातु जह्यात सवधर्मम भीमार्जुनौ चाति रथौ यमौ वा; तथैव कृष्णा दरुपदात्म जेयम 24 उभौ हि युद्धे ऽपरतिमौ पृथिव्यां; वृकॊदरश चैव धनंजयश च कस्मान न कृत्स्नां पृथिवीं परशासेन; माद्री सुताभ्यांच पुरस्कृतॊ ऽयम 25 यदा तु पाञ्चाल पतिर महात्मा; स केकयश चेदिपतिर वयं च यॊत्स्याम विक्रम्य परांस तदा वै; सुयॊधनस तयक्ष्यति जीवलॊकम 26 [य] नैतच चित्रं माधव यद बरवीषि; सत्यं तु मे रक्ष्य तमं न राज्यम कृष्णस तु मां वेद यथा वद एकः; कृष्णं च वेदाहम अथॊ यथा वत 27 यदैव कालं पुरुषप्रवीरॊ; वेत्स्यत्य अयं माधव विक्रमस्य तदा रणे तवं च शिनिप्रवीर; सुयॊधनं जेष्यसि केशवश च 28 परतिप्रयान्त्व अद्य दशार्ह वीरा; दृढॊ ऽसमि नाथैर नरलॊकनाथैः धर्मे ऽपरमादं कुरुताप्रमेया; दरष्टास्मि भूयः सुखिनः समेतान 29 ते ऽनयॊन्यम आमन्त्र्य तथाभिवाद्य; वृद्धान परिस्वज्य शिशूंश च सर्वान यदुप्रवीराः सवगृहाणि जग्मू; राजापि तीर्थान्य अनुसंचचार 30 विसृज्य कृष्णं तव अथ धर्मराजॊ; विदर्भराजॊप चितां सुतीर्थाम सुतेन सॊमेन विमिश्रितॊदां; ततः पयॊष्णीं परति स हय उवास |
1
[sātyaki] na rāma kālaḥ paridevanāya; yad uttaraṃ tatra tad eva sarve samācarāmo hy anatīta kālaṃ; yudhiṣṭhiro yady api nāha kiṃ cit 2 ye nāthavanto hi bhavanti loke; te nātmanā karma samārabhante teṣāṃ tu kāryeṣu bhavanti nāthāḥ; śaibyādayo rāma yathā yayāteḥ 3 yeṣāṃ tathā rāma samārabhante; kāryāṇi nāthāḥ svamatena loke te nāthavantaḥ puruṣapravīrā; nānātha vat kṛcchram avāpnuvanti 4 kasmād ayaṃ rāma janārdanau ca; pradyumna sāmbau ca mayā sametau vasaty araṇye saha sodarīyais; trailokyanāthān adhigamya nāthān 5 niryātu sādhv adya daśārha senā; prabhūtanānāyudha citravarmāḥ yamakṣayaṃ gacchatu dhārtarāṣṭraḥ; sa bāndhavo vṛṣṇibalābhibhūtaḥ 6 tvaṃ hy eva kopāt pṛthivīm apīmāṃ; saṃveṣṭayes tiṣṭhatu śārṅgadhanvā sa dhārtarāṣṭraṃ jahi sānubandhaṃ; vṛtraṃ yathā devapatir mahendraḥ 7 bhrātā ca me yaś ca sakhā guruś ca; janārdanasyātma samaś ca pārthaḥ yadartham abhyudyatam uttamaṃ tat; karoti karmāgryam apāraṇīyam 8 tasyāstra varṣāṇy aham uttamāstrair; vihatya sarvāṇi raṇe 'bhibhūya kāyāc chiraḥ sarpaviṣāgnikalpaiḥ; śarottamair unmathitāsmi rāma 9 khaḍgena cāhaṃ niśitena saṃkhye; kāyāc chiras tasya balāt pramathya tato 'sya sarvān anugān haniṣye; duryodhanaṃ cāpi kurūṃś ca sarvān 10 āttāyudhaṃ mām iha rauhiṇeya; paśyantu bhaumā yudhi jātaharṣāḥ nighnantam ekaṃ kuru yodhamukhyān; kāle mahākakṣam ivāntakāgniḥ 11 pradyumna muktān niśitān na śaktāḥ; soḍhuṃ kṛpa droṇa vikarṇa karṇāḥ jānāmi vīryaṃ ca tavātma jasya; kārṣṇir bhavaty eṣa yathā raṇasthaḥ 12 sāmbaḥ sasūtaṃ sa rathaṃ bhujābhyāṃ; duḥśāsanaṃ śāstu balāt pramathya na vidyate jāmba vatī sutasya; raṇe 'viṣahyaṃ hi raṇotkaṭasya 13 etena bālena hi śambarasya; daityasya sainyaṃ sahasā praṇunnam vṛttorur atyāyata pīnabāhur; etena saṃkhye nihato 'śvacakraḥ ko nāma sāmbasya raṇe manuṣyo; gatvāntaraṃ vai bhujayor dhareta 14 yathā praviśyāntaram antakasya; kāle manuṣyo na viniṣkrameta tathā praviśyāntaram asya saṃkhye; ko nāma jīvan punar āvrajeta 15 droṇaṃ ca bhīṣmaṃ ca mahārathau tau; sutair vṛtaṃ cāpy atha somadattam sarvāṇi sainyāni ca vāsudevaḥ; pradhakṣyate sāyakavahni jālaiḥ 16 kiṃnāma lokeṣv aviṣahyam asti; kṛṣṇasya sarveṣu sadaiva teṣu āttāyudhasyottama bāṇapāṇeś; cakrāyudhasyāpratimasya yuddhe 17 tato 'niruddho 'py asi carma pāṇir; mahīm imāṃ dhārtarāṣṭrair vi saṃjñaiḥ hṛtottamāṅgair nihataiḥ karotu; kīrṇāṃ kuśair vedim ivādhvareṣu 18 gadolmukau bāhuka bhānunīthāḥ; śūraś ca saṃkhye niśaṭhaḥ kumāraḥ raṇotkaṭau sāraṇa cārudeṣṇau; kulocitaṃ viprathayantu karma 19 sa vṛṣṇibhojāndhakayodhamukhyā; samāgatā kṣatriya śūrasenā hatvā raṇe tān dhṛtarāṣṭra putrāṁl; loke yaśaḥ sphītam upākarotu 20 tato 'bhimanyuḥ pṛthivīṃ praśāstu; yāvad vrataṃ dharmabhṛtāṃ variṣṭhaḥ yudhiṣṭhiraḥ pārayate mahātmā; dyūte yathoktaṃ kurusattamena 21 asmat pramukhair vi śikhair jitāris; tato mahīṃ bhokṣyati dharmarājaḥ nir dhārtarāṣṭrāṃ hatasūtaputrām; etad dhi naḥ kṛtyatamaṃ yaśaśyam 22 [vāsu] asaṃśayaṃ mādhava satyam etad; gṛhṇīma te vākyam adīnasattva svābhyāṃ bhujābhyām ajitāṃ tu bhūmiṃ; necchet kurūṇām ṛṣabhaḥ kathaṃ cit 23 na hy eṣa kāmān na bhayān na lobhād; yudhiṣṭhiro jātu jahyāt svadharmam bhīmārjunau cāti rathau yamau vā; tathaiva kṛṣṇā drupadātma jeyam 24 ubhau hi yuddhe 'pratimau pṛthivyāṃ; vṛkodaraś caiva dhanaṃjayaś ca kasmān na kṛtsnāṃ pṛthivīṃ praśāsen; mādrī sutābhyāṃca puraskṛto 'yam 25 yadā tu pāñcāla patir mahātmā; sa kekayaś cedipatir vayaṃ ca yotsyāma vikramya parāṃs tadā vai; suyodhanas tyakṣyati jīvalokam 26 [y] naitac citraṃ mādhava yad bravīṣi; satyaṃ tu me rakṣya tamaṃ na rājyam kṛṣṇas tu māṃ veda yathā vad ekaḥ; kṛṣṇaṃ ca vedāham atho yathā vat 27 yadaiva kālaṃ puruṣapravīro; vetsyaty ayaṃ mādhava vikramasya tadā raṇe tvaṃ ca śinipravīra; suyodhanaṃ jeṣyasi keśavaś ca 28 pratiprayāntv adya daśārha vīrā; dṛḍho 'smi nāthair naralokanāthaiḥ dharme 'pramādaṃ kurutāprameyā; draṣṭāsmi bhūyaḥ sukhinaḥ sametān 29 te 'nyonyam āmantrya tathābhivādya; vṛddhān parisvajya śiśūṃś ca sarvān yadupravīrāḥ svagṛhāṇi jagmū; rājāpi tīrthāny anusaṃcacāra 30 visṛjya kṛṣṇaṃ tv atha dharmarājo; vidarbharājopa citāṃ sutīrthām sutena somena vimiśritodāṃ; tataḥ payoṣṇīṃ prati sa hy uvāsa |
The Mahabharata in Sanskrit
Book 3
Chapter 121
|
1
[ल] नृगेण यजमानेन सॊमेनेह पुरंदरः तर्पितः शरूयते राजन स तृप्तॊ मदम अभ्यगात 2 इह देवैः सहेन्द्रैर हि परजापतिभिर एव च इष्टं बहुविधैर यज्ञैर महद्भिर भूरिदक्षिणैः 3 आमूर्त रयसश चेह राजा वज्रधरं परभुम तर्पयाम आस सॊमेन हयमेधेषु सप्तसु 4 तस्य सप्तसु यज्ञेषु सर्वम आसीद धिरन मयम वानस्पत्यं च भौमं च यद दरव्यं नियतं मखे 5 तेष्व एव चास्य यज्ञेषु परयॊगाः सप्त विश्रुताः सप्तैकैकस्य यूपस्य चषालाश चॊपरिस्थिताः 6 तस्य सम यूपान यज्ञेषु भराजमानान हिरन मयान सवयम उत्थापयाम आसुर देवाः सेन्द्रा युधिष्ठिर 7 तेषु तस्य मखाग्र्येषु गयस्य पृथिवीपतेः अमाद्यद इन्द्रः सॊमेन दक्षिणाभिर दविजातयः 8 सिकता वा यथा लॊके यथा वा दिवि तारकाः यथा वा वर्षतॊ धारा असंख्येयाश च केन चित 9 तथैव तद असंख्येयं धनं यत परददौ गयः सदस्येभ्यॊ महाराज तेषु यज्ञेषु सप्तसु 10 भवेत संख्येयम एतद वै यद एतत परिकीर्तितम न सा शक्या तु संख्यातुं दक्षिणा दक्षिणा वतः 11 हिरन मयीभिर गॊभिश च कृताभिर विश्वकर्मणा बराह्मणांस तर्पयाम आस नानादिग्भ्यः समागतान 12 अल्पावशेषा पृथिवी चैत्यैर आसीन महात्मनः गयस्य यजमानस्य तत्र तत्र विशां पते 13 स लॊकान पराप्तवान ऐन्द्रान कर्मणा तेन भारत स लॊकतां तस्य गच्छेत पयॊष्ण्यां य उपस्पृशेत 14 तस्मात तवम अत्र राजेन्द्र भरातृभिः सहितॊ ऽनघ उपस्पृश्य महीपाल धूतपाप्मा भविष्यसि 15 [व] स पयॊष्ण्यां नरश्रेष्ठः सनात्वा वै भरातृभिः सह वैडूर्य पर्वतं चैव नर्मदां च महानदीम समाजगाम तेजॊ वी भरातृभिः सहितॊ ऽनघ 16 ततॊ ऽसय सर्वाण्य आचख्यौ लॊमशॊ भगवान ऋषिः तीर्थानि रमणीयानि तत्र तत्र विशां पते 17 यथायॊगं यथा परीतिप्रययौ भरातृभिः सह ददमानॊ ऽसकृद वित्तं बराह्मणेभ्यः सहस्रशः 18 [ल] देवानाम एति कौन्तेय तथा राज्ञां स लॊकताम वैडूर्य पर्वतं दृष्ट्वा नर्मदाम अवतीर्य च 19 संधिर एष नरश्रेष्ठ तरेताया दवापरस्य च एतम आसाद्य कौन्तेय सर्वपापैः परमुच्यते 20 एष शर्याति यज्ञस्य देशस तात परकाशते साक्षाद यत्रापिबत सॊमम अश्विभ्यां सह कौशिकः 21 चुकॊप भार्गवश चापि महेन्द्रस्य महातपाः संस्तम्भयाम आस च तं वासवं चयवनः परभुः सुकङ्क्यां चापि भार्यां स राजपुत्रीम इवाप्तवान 22 [य] कथं विष्टम्भितस तेन भगवान पाकशासनः किमर्थं भार्गवश चापि कॊपं चक्रे महातपाः 23 नासत्यौ च कथं बरह्मन कृतवान सॊमपीथिनौ एतत सर्वं यथावृत्तम आख्यातु भगवान मम |
1
[l] nṛgeṇa yajamānena someneha puraṃdaraḥ tarpitaḥ śrūyate rājan sa tṛpto madam abhyagāt 2 iha devaiḥ sahendrair hi prajāpatibhir eva ca iṣṭaṃ bahuvidhair yajñair mahadbhir bhūridakṣiṇaiḥ 3 āmūrta rayasaś ceha rājā vajradharaṃ prabhum tarpayām āsa somena hayamedheṣu saptasu 4 tasya saptasu yajñeṣu sarvam āsīd dhiran mayam vānaspatyaṃ ca bhaumaṃ ca yad dravyaṃ niyataṃ makhe 5 teṣv eva cāsya yajñeṣu prayogāḥ sapta viśrutāḥ saptaikaikasya yūpasya caṣālāś coparisthitāḥ 6 tasya sma yūpān yajñeṣu bhrājamānān hiran mayān svayam utthāpayām āsur devāḥ sendrā yudhiṣṭhira 7 teṣu tasya makhāgryeṣu gayasya pṛthivīpateḥ amādyad indraḥ somena dakṣiṇābhir dvijātayaḥ 8 sikatā vā yathā loke yathā vā divi tārakāḥ yathā vā varṣato dhārā asaṃkhyeyāś ca kena cit 9 tathaiva tad asaṃkhyeyaṃ dhanaṃ yat pradadau gayaḥ sadasyebhyo mahārāja teṣu yajñeṣu saptasu 10 bhavet saṃkhyeyam etad vai yad etat parikīrtitam na sā śakyā tu saṃkhyātuṃ dakṣiṇā dakṣiṇā vataḥ 11 hiran mayībhir gobhiś ca kṛtābhir viśvakarmaṇā brāhmaṇāṃs tarpayām āsa nānādigbhyaḥ samāgatān 12 alpāvaśeṣā pṛthivī caityair āsīn mahātmanaḥ gayasya yajamānasya tatra tatra viśāṃ pate 13 sa lokān prāptavān aindrān karmaṇā tena bhārata sa lokatāṃ tasya gacchet payoṣṇyāṃ ya upaspṛśet 14 tasmāt tvam atra rājendra bhrātṛbhiḥ sahito 'nagha upaspṛśya mahīpāla dhūtapāpmā bhaviṣyasi 15 [v] sa payoṣṇyāṃ naraśreṣṭhaḥ snātvā vai bhrātṛbhiḥ saha vaiḍūrya parvataṃ caiva narmadāṃ ca mahānadīm samājagāma tejo vī bhrātṛbhiḥ sahito 'nagha 16 tato 'sya sarvāṇy ācakhyau lomaśo bhagavān ṛṣiḥ tīrthāni ramaṇīyāni tatra tatra viśāṃ pate 17 yathāyogaṃ yathā prītiprayayau bhrātṛbhiḥ saha dadamāno 'sakṛd vittaṃ brāhmaṇebhyaḥ sahasraśaḥ 18 [l] devānām eti kaunteya tathā rājñāṃ sa lokatām vaiḍūrya parvataṃ dṛṣṭvā narmadām avatīrya ca 19 saṃdhir eṣa naraśreṣṭha tretāyā dvāparasya ca etam āsādya kaunteya sarvapāpaiḥ pramucyate 20 eṣa śaryāti yajñasya deśas tāta prakāśate sākṣād yatrāpibat somam aśvibhyāṃ saha kauśikaḥ 21 cukopa bhārgavaś cāpi mahendrasya mahātapāḥ saṃstambhayām āsa ca taṃ vāsavaṃ cyavanaḥ prabhuḥ sukaṅkyāṃ cāpi bhāryāṃ sa rājaputrīm ivāptavān 22 [y] kathaṃ viṣṭambhitas tena bhagavān pākaśāsanaḥ kimarthaṃ bhārgavaś cāpi kopaṃ cakre mahātapāḥ 23 nāsatyau ca kathaṃ brahman kṛtavān somapīthinau etat sarvaṃ yathāvṛttam ākhyātu bhagavān mama |
The Mahabharata in Sanskrit
Book 3
Chapter 122
|
1
[ल] भृगॊर महर्षेः पुत्रॊ ऽभूच चयवनॊ नाम भार्गवः समीपे सरसः सॊ ऽसय तपस तेपे महाद्युतिः 2 सथाणुभूतॊ महातेजा वीर सथानेन पाण्डव अतिष्ठत सुबहून कालान एकदेशे विशां पते 3 स वल्मीकॊ ऽभवद ऋषिर लताभिर अभिसंवृतः कालेन महता राजन समाकीर्णः पिपीलिकैः 4 तथा स संवृतॊ धीमान मृत पिण्ड इव सर्वशः तप्यति सम तपॊ राजन वल्मीकेन समावृतः 5 अथ दीर्घस्य कालस्य शर्यातिर नाम पार्थिवः आजगाम सरॊ रम्यं विहर्तुम इदम उत्तमम 6 तस्य सत्रीणां सहस्राणि चत्वार्य आसन परिग्रहः एकैव च सुता शुभ्रा सुकन्या नाम भारत 7 सा सखीभिः परिवृता सर्वाभरणभूषिता चङ्क्रम्यमाणा वल्मीकं भार्गवस्य समासदत 8 सा चैव सुदती तत्र पश्यमाना मनॊरमान वनस्पतीन विचिन्वन्ती विजहार सखी वृता 9 रूपेण वयसा चैव मदनेन मदेन च बभञ्ज वनवृक्षाणां शाखाः परमपुष्पिताः 10 तां सखी रहिताम एकाम एकवस्त्राम अलं कृताम ददर्श भार्गवॊ धीमांश चरन्तीम इव विद्युतम 11 तां पश्यमानॊ विजने स रेमे परमद्युतिः कषाम कण्ठश च बरह्मर्षिस तपॊबलसमन्वितः ताम आबभाषे कल्याणीं सा चास्य न शृणॊति वै 12 ततः सुकन्या वल्मीके दृष्ट्वा भार्गव चक्षुषी कौतूहलात कण्टकेन बुद्धिमॊहबलात कृता 13 किं नु खल्व इदम इत्य उक्त्वा निर्बिभेदास्य लॊचने अक्रुध्यत स तया विद्धे नेत्रे परममन्युमान ततः शर्याति सैन्यस्य शकृन मूत्रं समावृणॊत 14 ततॊ रुद्धे शकृन मूत्रे सैन्यम आनाह दुःखितम तथागतम अभिप्रेक्ष्य पर्यपृच्छत स पार्थिवः 15 तपॊनित्यस्य वृद्धस्य रॊषणस्य विशेषतः केनापकृतम अद्येह भार्गवस्य महात्मनः जञातं वा यदि वाज्ञातं तद ऋतं बरूत माचिरम 16 तम ऊचुः सैनिकाः सर्वे न विद्मॊ ऽपकृतं वयम सर्वॊपायैर यथाकामं भवांस तद अधिगच्छतु 17 ततः स पृथिवीपालः साम्ना चॊग्रेण च सवयम पर्यपृच्छत सुहृद्वर्गं परत्यजानन न चैव ते 18 आनाहार्तं ततॊ दृष्ट्वा तत सैन्यम असुखार्दितम पितरं दुःखितं चापि सुकन्येदम अथाब्रवीत 19 मयाटन्त्येह वल्मीके दृष्टं सत्त्वम अभिज्वलत खद्यॊतवद अभिज्ञातं तन मया विद्धम अन्तिकात 20 एतच छरुत्वा तु शर्यातिर वल्मीकं तूर्णम आद्रवत तत्रापश्यत तपॊवृद्धं वयॊवृद्धं च भार्गवम 21 अयाचद अथ सैन्यार्थं पराञ्जलिः पृथिवीपतिः अज्ञानाद बालया यत ते कृतं तत कषन्तुम अर्हसि 22 ततॊ ऽबरवीन महीपालं चयवनॊ भार्गवस तदा रूपौदार्यसमायुक्तां लॊभमॊहबलात कृताम 23 ताम एव परतिगृह्याहं राजन दुहितरं तव कषमिष्यामि महीपाल सत्यम एतद बरवीमि ते 24 ऋषेर वचनम आज्ञाय शर्यातिर अविचारयन ददौ दुहितरं तस्मै चयवनाय महात्मने 25 परतिगृह्य च तां कन्यां चयवनः परससाद ह पराप्तप्रसादॊ राजा स ससैन्यः पुनर आव्रजत 26 सुकन्यापि पतिं लब्ध्वा तपस्विनम अनिन्दिता नित्यं पर्यचरत परीत्या तपसा नियमेन च 27 अग्नीनाम अतिथीनां च शुश्रूषुर अनसूयिका समाराधयत कषिप्रं चयवनं सा शुभानना |
1
[l] bhṛgor maharṣeḥ putro 'bhūc cyavano nāma bhārgavaḥ samīpe sarasaḥ so 'sya tapas tepe mahādyutiḥ 2 sthāṇubhūto mahātejā vīra sthānena pāṇḍava atiṣṭhat subahūn kālān ekadeśe viśāṃ pate 3 sa valmīko 'bhavad ṛṣir latābhir abhisaṃvṛtaḥ kālena mahatā rājan samākīrṇaḥ pipīlikaiḥ 4 tathā sa saṃvṛto dhīmān mṛt piṇḍa iva sarvaśaḥ tapyati sma tapo rājan valmīkena samāvṛtaḥ 5 atha dīrghasya kālasya śaryātir nāma pārthivaḥ ājagāma saro ramyaṃ vihartum idam uttamam 6 tasya strīṇāṃ sahasrāṇi catvāry āsan parigrahaḥ ekaiva ca sutā śubhrā sukanyā nāma bhārata 7 sā sakhībhiḥ parivṛtā sarvābharaṇabhūṣitā caṅkramyamāṇā valmīkaṃ bhārgavasya samāsadat 8 sā caiva sudatī tatra paśyamānā manoramān vanaspatīn vicinvantī vijahāra sakhī vṛtā 9 rūpeṇa vayasā caiva madanena madena ca babhañja vanavṛkṣāṇāṃ śākhāḥ paramapuṣpitāḥ 10 tāṃ sakhī rahitām ekām ekavastrām alaṃ kṛtām dadarśa bhārgavo dhīmāṃś carantīm iva vidyutam 11 tāṃ paśyamāno vijane sa reme paramadyutiḥ kṣāma kaṇṭhaś ca brahmarṣis tapobalasamanvitaḥ tām ābabhāṣe kalyāṇīṃ sā cāsya na śṛṇoti vai 12 tataḥ sukanyā valmīke dṛṣṭvā bhārgava cakṣuṣī kautūhalāt kaṇṭakena buddhimohabalāt kṛtā 13 kiṃ nu khalv idam ity uktvā nirbibhedāsya locane akrudhyat sa tayā viddhe netre paramamanyumān tataḥ śaryāti sainyasya śakṛn mūtraṃ samāvṛṇot 14 tato ruddhe śakṛn mūtre sainyam ānāha duḥkhitam tathāgatam abhiprekṣya paryapṛcchat sa pārthivaḥ 15 taponityasya vṛddhasya roṣaṇasya viśeṣataḥ kenāpakṛtam adyeha bhārgavasya mahātmanaḥ jñātaṃ vā yadi vājñātaṃ tad ṛtaṃ brūta māciram 16 tam ūcuḥ sainikāḥ sarve na vidmo 'pakṛtaṃ vayam sarvopāyair yathākāmaṃ bhavāṃs tad adhigacchatu 17 tataḥ sa pṛthivīpālaḥ sāmnā cogreṇa ca svayam paryapṛcchat suhṛdvargaṃ pratyajānan na caiva te 18 ānāhārtaṃ tato dṛṣṭvā tat sainyam asukhārditam pitaraṃ duḥkhitaṃ cāpi sukanyedam athābravīt 19 mayāṭantyeha valmīke dṛṣṭaṃ sattvam abhijvalat khadyotavad abhijñātaṃ tan mayā viddham antikāt 20 etac chrutvā tu śaryātir valmīkaṃ tūrṇam ādravat tatrāpaśyat tapovṛddhaṃ vayovṛddhaṃ ca bhārgavam 21 ayācad atha sainyārthaṃ prāñjaliḥ pṛthivīpatiḥ ajñānād bālayā yat te kṛtaṃ tat kṣantum arhasi 22 tato 'bravīn mahīpālaṃ cyavano bhārgavas tadā rūpaudāryasamāyuktāṃ lobhamohabalāt kṛtām 23 tām eva pratigṛhyāhaṃ rājan duhitaraṃ tava kṣamiṣyāmi mahīpāla satyam etad bravīmi te 24 ṛṣer vacanam ājñāya śaryātir avicārayan dadau duhitaraṃ tasmai cyavanāya mahātmane 25 pratigṛhya ca tāṃ kanyāṃ cyavanaḥ prasasāda ha prāptaprasādo rājā sa sasainyaḥ punar āvrajat 26 sukanyāpi patiṃ labdhvā tapasvinam aninditā nityaṃ paryacarat prītyā tapasā niyamena ca 27 agnīnām atithīnāṃ ca śuśrūṣur anasūyikā samārādhayata kṣipraṃ cyavanaṃ sā śubhānanā |
The Mahabharata in Sanskrit
Book 3
Chapter 123
|
1
[ल] कस्य चित तव अथ कालस्य सुराणाम अश्विनौ नृप कृताभिषेकां विवृतां सुकन्यां ताम अपश्यताम 2 तां दृष्ट्वा दर्शनीयाङ्गीं देवराजसुताम इव ऊचतुः समभिद्रुत्य नासत्याव अश्विनाव इदम 3 कस्य तवम असि वामॊरु किं वने वै करॊषि च इच्छाव भद्रे जञातुं तवां तत तवम आख्याहि शॊभने 4 ततः सुकन्या संवीता ताव उवाच सुरॊत्तमौ शर्याति तनयां वित्तं भार्यां च चयवनस्य माम 5 अथाश्विनौ परहस्यैताम अब्रूतां पुनर एव तु कथं तवम असि कल्याणि पित्रा दत्ता गताध्वने 6 भराजसे वनमध्ये तवं विद्युत सौदामिनी यथा न देवेष्व अपि तुल्यां हि तवया पश्याव भामिनि 7 सर्वाभरणसंपन्ना परमाम्बर धारिणी शॊभेथास तव अनवद्याङ्गि न तव एवं मलपङ्किनी 8 कस्माद एवंविधा भूत्वा जराजर्जरितं पतिम तवम उपास्से ह कल्याणि कामभॊग बहिष्कृतम 9 असमर्थं परित्राणे पॊषणे च शुचिस्मिते साधु चयवनम उत्सृज्य वरयस्वैकम आवयॊः पत्यर्थं देवगर्भाभे मा वृथा यौवनं कृथाः 10 एवम उक्ता सुकन्या तु सुरौ ताव इदम अब्रवीत रताहं चयवने पत्यौ मैवं मा पर्यशङ्किथाः 11 ताव अब्रूतां पुनस तव एनाम आवां देव भिषग वरौ युवानं रूपसंपन्नं करिष्यावः पतिं तव 12 ततस तस्यावयॊश चैव पतिम एकतमं वृणु एतेन समयेनैनम आमन्त्रय वरानने 13 सा तयॊर वचनाद राजन्न उपसंगम्य भार्गवम उवाच वाक्यं यत ताभ्याम उक्तं भृगुसुतं परति 14 तच छरुत्वा चयवनॊ भार्याम उवाच करियताम इति भर्त्रा सा समनुज्ञाता करियताम इत्य अथाब्रवीत 15 शरुत्वा तद अश्विनौ वाक्यं तत तस्याः करियताम इति ऊचतू राजपुत्रीं तां पतिस तव विशत्व अपः 16 ततॊ ऽमभश चयवनः शीघ्रं रूपार्थी परविवेश ह अश्विनाव अपि तद राजन सरः परविषतां परभॊ 17 ततॊ मुहूर्ताद उत्तीर्णाः सर्वे ते सरसस ततः दिव्यरूपधराः सर्वे युवानॊ मृष्टकुण्डलाः तुल्यरूपधराश चैव मनसः परीतिवर्धनाः 18 ते ऽबरुवन सहिता सर्वे वृणीष्वान्य तमं शुभे अस्माकम ईप्सितं भद्रे पतित्वे वरवर्णिनि यत्र वाप्य अभिकामासि तं वृणीष्व सुशॊभने 19 सा समीक्ष्य तु तान सर्वांस तुल्यरूपधरान सथितान निश्चित्य मनसा बुद्ध्या देवी वव्रे सवकं पतिम 20 लब्ध्वा तु चयवनॊ भार्यां वयॊ रूपं च वाञ्छितम हृष्टॊ ऽबरवीन महातेजास तौ नासत्याव इदं वचः 21 यथाहं रूपसंपन्नॊ वयसा च समन्वितः कृतॊ भवद्भ्यां वृद्धः सन भार्यां च पराप्तवान इमाम 22 तस्माद युवां करिष्यामि परीत्याहं सॊमपीथिनौ मिषतॊ देवराजस्य सत्यम एतद बरवीमि वाम 23 तच छरुत्वा हृष्टमनसौ दिवं तौ परतिजग्मतुः चयवनॊ ऽपि सुकन्या च सुराव इव विजह्रतुः |
1
[l] kasya cit tv atha kālasya surāṇām aśvinau nṛpa kṛtābhiṣekāṃ vivṛtāṃ sukanyāṃ tām apaśyatām 2 tāṃ dṛṣṭvā darśanīyāṅgīṃ devarājasutām iva ūcatuḥ samabhidrutya nāsatyāv aśvināv idam 3 kasya tvam asi vāmoru kiṃ vane vai karoṣi ca icchāva bhadre jñātuṃ tvāṃ tat tvam ākhyāhi śobhane 4 tataḥ sukanyā saṃvītā tāv uvāca surottamau śaryāti tanayāṃ vittaṃ bhāryāṃ ca cyavanasya mām 5 athāśvinau prahasyaitām abrūtāṃ punar eva tu kathaṃ tvam asi kalyāṇi pitrā dattā gatādhvane 6 bhrājase vanamadhye tvaṃ vidyut saudāminī yathā na deveṣv api tulyāṃ hi tvayā paśyāva bhāmini 7 sarvābharaṇasaṃpannā paramāmbara dhāriṇī śobhethās tv anavadyāṅgi na tv evaṃ malapaṅkinī 8 kasmād evaṃvidhā bhūtvā jarājarjaritaṃ patim tvam upāsse ha kalyāṇi kāmabhoga bahiṣkṛtam 9 asamarthaṃ paritrāṇe poṣaṇe ca śucismite sādhu cyavanam utsṛjya varayasvaikam āvayoḥ patyarthaṃ devagarbhābhe mā vṛthā yauvanaṃ kṛthāḥ 10 evam uktā sukanyā tu surau tāv idam abravīt ratāhaṃ cyavane patyau maivaṃ mā paryaśaṅkithāḥ 11 tāv abrūtāṃ punas tv enām āvāṃ deva bhiṣag varau yuvānaṃ rūpasaṃpannaṃ kariṣyāvaḥ patiṃ tava 12 tatas tasyāvayoś caiva patim ekatamaṃ vṛṇu etena samayenainam āmantraya varānane 13 sā tayor vacanād rājann upasaṃgamya bhārgavam uvāca vākyaṃ yat tābhyām uktaṃ bhṛgusutaṃ prati 14 tac chrutvā cyavano bhāryām uvāca kriyatām iti bhartrā sā samanujñātā kriyatām ity athābravīt 15 śrutvā tad aśvinau vākyaṃ tat tasyāḥ kriyatām iti ūcatū rājaputrīṃ tāṃ patis tava viśatv apaḥ 16 tato 'mbhaś cyavanaḥ śīghraṃ rūpārthī praviveśa ha aśvināv api tad rājan saraḥ praviṣatāṃ prabho 17 tato muhūrtād uttīrṇāḥ sarve te sarasas tataḥ divyarūpadharāḥ sarve yuvāno mṛṣṭakuṇḍalāḥ tulyarūpadharāś caiva manasaḥ prītivardhanāḥ 18 te 'bruvan sahitā sarve vṛṇīṣvānya tamaṃ śubhe asmākam īpsitaṃ bhadre patitve varavarṇini yatra vāpy abhikāmāsi taṃ vṛṇīṣva suśobhane 19 sā samīkṣya tu tān sarvāṃs tulyarūpadharān sthitān niścitya manasā buddhyā devī vavre svakaṃ patim 20 labdhvā tu cyavano bhāryāṃ vayo rūpaṃ ca vāñchitam hṛṣṭo 'bravīn mahātejās tau nāsatyāv idaṃ vacaḥ 21 yathāhaṃ rūpasaṃpanno vayasā ca samanvitaḥ kṛto bhavadbhyāṃ vṛddhaḥ san bhāryāṃ ca prāptavān imām 22 tasmād yuvāṃ kariṣyāmi prītyāhaṃ somapīthinau miṣato devarājasya satyam etad bravīmi vām 23 tac chrutvā hṛṣṭamanasau divaṃ tau pratijagmatuḥ cyavano 'pi sukanyā ca surāv iva vijahratuḥ |
The Mahabharata in Sanskrit
Book 3
Chapter 124
|
1
[ल] ततः शरुत्वा तु शर्यातिर वयः सथं चयवनं कृतम संहृष्टः सेनया सार्धम उपायाद भार्गवाश्रमम 2 चयवनं च सुकन्यां च दृष्ट्वा देव सुताव इव रेमे मही पः शर्यातिः कृत्स्नां पराप्य महीम इव 3 ऋषिणा सत्कृतस तेन सभार्यः पृथिवीपतिः उपॊपविष्टः कल्याणीः कथाश चक्रे महामनाः 4 अथैनं भार्गवॊ राजन्न उवाच परिसान्त्वयन याजयिष्यामि राजंस तवां संभारान उपकल्पय 5 ततः परमसंहृष्टः शर्यातिः पृथिवीपतिः चयवनस्य महाराज तद वाक्यं परत्यपूजयत 6 परशस्ते ऽहनि यज्ञीये सर्वकामसमृद्धि मत कारयाम आस शर्यातिर यज्ञायतनम उत्तमम 7 तत्रैनं चयवनॊ राजन याजयाम आस भार्गवः अद्भुतानि च तत्रासन यानि तानि निबॊध मे 8 अगृह्णाच चयवनः सॊमम अश्विनॊर देवयॊस तदा तम इन्द्रॊ वारयाम आस गृह्यमाणं तयॊर गरहम 9 [इन्द्र] उभाव एतौ न सॊमार्हौ नासत्याव इति मे मतिः भिषजौ देवपुत्राणां कर्मणा नैवम अर्हतः 10 [च] मावमन्स्था महात्मानौ रूपद्रविणवत तरौ यौ चक्रतुर मां मघवन वृन्दारकम इवाजरम 11 ऋते तवां विबुधांश चान्यान कथं वै नार्हतः सवम अश्विनाव अपि देवेन्द्र देवौ विद्धि पुरंदर 12 चिकित्सकौ कर्म करौ कामरूपसमन्वितौ लॊके चरन्तौ मर्त्यानां कथं सॊमम इहार्हतः 13 [ल] एतद एव यदा वाक्यम आम्रेडयति वासवः अनादृत्य ततः शक्रं गरहं जग्राह भार्गवः 14 गरहीष्यन्तं तु तं सॊमम अश्विनॊर उत्तमं तदा समीक्ष्य बलभिद देव इदं वचनम अब्रवीत 15 आभ्याम अर्थाय सॊमं तवं गरहीष्यसि यदि सवयम वज्रं तु परहरिष्यामि घॊररूपम अनुत्तमम 16 एवम उक्तः समयन्न इन्द्रम अभिवीक्ष्य स भार्गवः जग्राह विधिवत सॊमम अश्विभ्याम उत्तमं गरहम 17 ततॊ ऽसमै पराहरद वज्रं घॊररूपं शचीपतिः तस्य परहरतॊ बाहुं सतम्भयाम आस भार्गवः 18 संस्तम्भयित्वा चयवनॊ जुहुवे मन्त्रतॊ ऽनलम कृत्यार्थी सुमहातेजा देवं हिंसितुम उद्यतः 19 ततः कृत्या समभवद ऋषेस तस्य तपॊबलात मदॊ नाम महावीर्यॊ बृहत कायॊ महासुरः शरीरं यस्य निर्देष्टुम अशक्यं तु सुरासुरैः 20 तस्यास्यम अभवद घॊरं तीक्ष्णाग्रदशनं महत हनुर एका सथिता तस्य भूमाव एका दिवं गता 21 चतस्र आयता दंष्ट्रा यॊजनानां शतं शतम इतरे तव अस्य दशना बभूवुर दशयॊजनाः पराकारसदृशाकाराः शूलाग्र समदर्शनाः 22 बाहू पर्वतसंकाशाव आयताव अयुतं समौ नेत्रे रविशशिप्रख्ये वक्त्रम अन्तकसंनिभम 23 लेलिहञ जिह्वया वक्त्रं विद्युच चपल लॊलया वयात्ताननॊ घॊरदृष्टिर गरसन्न इव जगद बलात 24 स भक्षयिष्यन संक्रुद्धः शतक्रतुम उपाद्रवत महता घॊररूपेण लॊकाञ शब्देन नादयन |
1
[l] tataḥ śrutvā tu śaryātir vayaḥ sthaṃ cyavanaṃ kṛtam saṃhṛṣṭaḥ senayā sārdham upāyād bhārgavāśramam 2 cyavanaṃ ca sukanyāṃ ca dṛṣṭvā deva sutāv iva reme mahī paḥ śaryātiḥ kṛtsnāṃ prāpya mahīm iva 3 ṛṣiṇā satkṛtas tena sabhāryaḥ pṛthivīpatiḥ upopaviṣṭaḥ kalyāṇīḥ kathāś cakre mahāmanāḥ 4 athainaṃ bhārgavo rājann uvāca parisāntvayan yājayiṣyāmi rājaṃs tvāṃ saṃbhārān upakalpaya 5 tataḥ paramasaṃhṛṣṭaḥ śaryātiḥ pṛthivīpatiḥ cyavanasya mahārāja tad vākyaṃ pratyapūjayat 6 praśaste 'hani yajñīye sarvakāmasamṛddhi mat kārayām āsa śaryātir yajñāyatanam uttamam 7 tatrainaṃ cyavano rājan yājayām āsa bhārgavaḥ adbhutāni ca tatrāsan yāni tāni nibodha me 8 agṛhṇāc cyavanaḥ somam aśvinor devayos tadā tam indro vārayām āsa gṛhyamāṇaṃ tayor graham 9 [indra] ubhāv etau na somārhau nāsatyāv iti me matiḥ bhiṣajau devaputrāṇāṃ karmaṇā naivam arhataḥ 10 [c] māvamansthā mahātmānau rūpadraviṇavat tarau yau cakratur māṃ maghavan vṛndārakam ivājaram 11 ṛte tvāṃ vibudhāṃś cānyān kathaṃ vai nārhataḥ savam aśvināv api devendra devau viddhi puraṃdara 12 cikitsakau karma karau kāmarūpasamanvitau loke carantau martyānāṃ kathaṃ somam ihārhataḥ 13 [l] etad eva yadā vākyam āmreḍayati vāsavaḥ anādṛtya tataḥ śakraṃ grahaṃ jagrāha bhārgavaḥ 14 grahīṣyantaṃ tu taṃ somam aśvinor uttamaṃ tadā samīkṣya balabhid deva idaṃ vacanam abravīt 15 ābhyām arthāya somaṃ tvaṃ grahīṣyasi yadi svayam vajraṃ tu prahariṣyāmi ghorarūpam anuttamam 16 evam uktaḥ smayann indram abhivīkṣya sa bhārgavaḥ jagrāha vidhivat somam aśvibhyām uttamaṃ graham 17 tato 'smai prāharad vajraṃ ghorarūpaṃ śacīpatiḥ tasya praharato bāhuṃ stambhayām āsa bhārgavaḥ 18 saṃstambhayitvā cyavano juhuve mantrato 'nalam kṛtyārthī sumahātejā devaṃ hiṃsitum udyataḥ 19 tataḥ kṛtyā samabhavad ṛṣes tasya tapobalāt mado nāma mahāvīryo bṛhat kāyo mahāsuraḥ śarīraṃ yasya nirdeṣṭum aśakyaṃ tu surāsuraiḥ 20 tasyāsyam abhavad ghoraṃ tīkṣṇāgradaśanaṃ mahat hanur ekā sthitā tasya bhūmāv ekā divaṃ gatā 21 catasra āyatā daṃṣṭrā yojanānāṃ śataṃ śatam itare tv asya daśanā babhūvur daśayojanāḥ prākārasadṛśākārāḥ śūlāgra samadarśanāḥ 22 bāhū parvatasaṃkāśāv āyatāv ayutaṃ samau netre raviśaśiprakhye vaktram antakasaṃnibham 23 lelihañ jihvayā vaktraṃ vidyuc capala lolayā vyāttānano ghoradṛṣṭir grasann iva jagad balāt 24 sa bhakṣayiṣyan saṃkruddhaḥ śatakratum upādravat mahatā ghorarūpeṇa lokāñ śabdena nādayan |
The Mahabharata in Sanskrit
Book 3
Chapter 125
|
1
[ल] तं दृष्ट्वा घॊरवदनं मदं देवः शतक्रतुः आयान्तं भक्षयिष्यन्तं वयात्ताननम इवान्तकम 2 भयात संस्तम्भित भुजः सृक्किणी लेलिहन मुहुः ततॊ ऽबरवीद देवराजश चयवनं भयपीडितः 3 सॊमार्हाव अश्विनाव एताव अद्य परभृति भार्गव भविष्यतः सत्यम एतद वचॊ बरह्मन बरवीमि ते 4 न ते मिथ्या समारम्भॊ भवत्व एष परॊ विधिः जानामि चाहं विप्रर्षे न मिथ्या तवं करिष्यसि 5 सॊमार्हाव अश्विनाव एतौ यथैवाद्य कृतौ तवया भूय एव तु ते वीर्यं परकाशेद इति भार्गव 6 सुकन्यायाः पितुश चास्य लॊके कीर्तिः परथेद इति अतॊ मयैतद विहितं तव वीर्यप्रकाशनम तस्मात परसादं कुरु मे भवत्व एतद यथेच्छसि 7 एवम उक्तस्य शक्रेण चयवनस्य महात्मनः स मन्युर वयगमच छीघ्रं मुमॊच च पुरंदरम 8 मदं च वयभजद राजन पाने सत्रीषु च वीर्यवान अक्षेषु मृगयायां च पूर्वसृष्टं पुनः पुनः 9 तथा मदं विनिष्क्षिप्य शक्रं संतर्प्य चेन्दुना अश्विभ्यां सहितान देवान याजयित्वा च तं नृपम 10 विख्याप्य वीर्यं सर्वेषु लॊकेषु वदतां वरः सुकन्यया सहारण्ये विजहारानुरक्तया 11 तस्यैतद दविजसंघुष्टं सरॊ राजन परकाशते अत्र तवं सह सॊदर्यैः पितॄन देवांश च तर्पय 12 एतद दृष्ट्वा महीपाल सिकताक्षं च भारत सैन्धवारण्यम आसाद्य कुल्यानां कुरु दर्शनम पुष्करेषु महाराज सर्वेषु च जलं सपृश 13 आर्चीक पर्वतश चैव निवासॊ वै मनीषिणाम सदा फलः सदा सरॊतॊ मरुतां सथानम उत्तमम चैत्याश चैते बहुशतास तरिदशानां युधिष्ठिर 14 एतच चन्द्रमसस तीर्थम ऋषयः पर्युपासते वैखानसाश च ऋषयॊ वालखिल्यास तथैव च 15 शृङ्गाणि तरीणि पुण्याणि तरीणि परस्रवणानि च सर्वाण्य अनुपरिक्रम्य यथाकामम उपस्पृश 16 शंतनुश चात्र कौन्तेय शुनकश च नराधिप नरनारायणौ चॊभौ सथानं पराप्ताः सनातनम 17 इह नित्यशया देवाः पितरश च महर्षिभिः आर्चीक पर्वते तेपुस तान यजस्व युधिष्ठिर 18 इह ते वै चरून पराश्नन्न ऋषयश च विशां पते यमुना चाक्षयस्रॊताः कृष्णश चेह तपॊ रतः 19 यमौ च भीमसेनश च कृष्णा चामित्रकर्शन सर्वे चात्र गमिष्यामः सुकृशाः सुतपॊ विनः 20 एतत परस्रवणं पुण्यम इन्द्रस्य मनुजाधिप यत्र धाता विधाता च वरुणश चॊर्ध्वम आगताः 21 इह ते नयवसन राजन कषान्ताः परमधर्मिणः मैत्राणाम ऋजु बुद्धीनाम अयं गिरिवरः शुभः 22 एषा सा यमुना राजन राजर्षिगणसेविता नाना यज्ञचिता राजन पुण्या पापभयापहा 23 अत्र राजा महेष्वासॊ मान्धातायजत सवयम सहदेवश च कौन्तेय सॊमकॊ ददतां वरः |
1
[l] taṃ dṛṣṭvā ghoravadanaṃ madaṃ devaḥ śatakratuḥ āyāntaṃ bhakṣayiṣyantaṃ vyāttānanam ivāntakam 2 bhayāt saṃstambhita bhujaḥ sṛkkiṇī lelihan muhuḥ tato 'bravīd devarājaś cyavanaṃ bhayapīḍitaḥ 3 somārhāv aśvināv etāv adya prabhṛti bhārgava bhaviṣyataḥ satyam etad vaco brahman bravīmi te 4 na te mithyā samārambho bhavatv eṣa paro vidhiḥ jānāmi cāhaṃ viprarṣe na mithyā tvaṃ kariṣyasi 5 somārhāv aśvināv etau yathaivādya kṛtau tvayā bhūya eva tu te vīryaṃ prakāśed iti bhārgava 6 sukanyāyāḥ pituś cāsya loke kīrtiḥ prathed iti ato mayaitad vihitaṃ tava vīryaprakāśanam tasmāt prasādaṃ kuru me bhavatv etad yathecchasi 7 evam uktasya śakreṇa cyavanasya mahātmanaḥ sa manyur vyagamac chīghraṃ mumoca ca puraṃdaram 8 madaṃ ca vyabhajad rājan pāne strīṣu ca vīryavān akṣeṣu mṛgayāyāṃ ca pūrvasṛṣṭaṃ punaḥ punaḥ 9 tathā madaṃ viniṣkṣipya śakraṃ saṃtarpya cendunā aśvibhyāṃ sahitān devān yājayitvā ca taṃ nṛpam 10 vikhyāpya vīryaṃ sarveṣu lokeṣu vadatāṃ varaḥ sukanyayā sahāraṇye vijahārānuraktayā 11 tasyaitad dvijasaṃghuṣṭaṃ saro rājan prakāśate atra tvaṃ saha sodaryaiḥ pitṝn devāṃś ca tarpaya 12 etad dṛṣṭvā mahīpāla sikatākṣaṃ ca bhārata saindhavāraṇyam āsādya kulyānāṃ kuru darśanam puṣkareṣu mahārāja sarveṣu ca jalaṃ spṛśa 13 ārcīka parvataś caiva nivāso vai manīṣiṇām sadā phalaḥ sadā sroto marutāṃ sthānam uttamam caityāś caite bahuśatās tridaśānāṃ yudhiṣṭhira 14 etac candramasas tīrtham ṛṣayaḥ paryupāsate vaikhānasāś ca ṛṣayo vālakhilyās tathaiva ca 15 śṛṅgāṇi trīṇi puṇyāṇi trīṇi prasravaṇāni ca sarvāṇy anuparikramya yathākāmam upaspṛśa 16 śaṃtanuś cātra kaunteya śunakaś ca narādhipa naranārāyaṇau cobhau sthānaṃ prāptāḥ sanātanam 17 iha nityaśayā devāḥ pitaraś ca maharṣibhiḥ ārcīka parvate tepus tān yajasva yudhiṣṭhira 18 iha te vai carūn prāśnann ṛṣayaś ca viśāṃ pate yamunā cākṣayasrotāḥ kṛṣṇaś ceha tapo rataḥ 19 yamau ca bhīmasenaś ca kṛṣṇā cāmitrakarśana sarve cātra gamiṣyāmaḥ sukṛśāḥ sutapo vinaḥ 20 etat prasravaṇaṃ puṇyam indrasya manujādhipa yatra dhātā vidhātā ca varuṇaś cordhvam āgatāḥ 21 iha te nyavasan rājan kṣāntāḥ paramadharmiṇaḥ maitrāṇām ṛju buddhīnām ayaṃ girivaraḥ śubhaḥ 22 eṣā sā yamunā rājan rājarṣigaṇasevitā nānā yajñacitā rājan puṇyā pāpabhayāpahā 23 atra rājā maheṣvāso māndhātāyajata svayam sahadevaś ca kaunteya somako dadatāṃ varaḥ |
The Mahabharata in Sanskrit
Book 3
Chapter 126
|
1
[य] मान्धाता राजशार्दूलस तरिषु लॊकेषु विश्रुतः कथं जातॊ महाब्रह्मन यौवनाश्वॊ नृपॊत्तमः कथं चैतां परां काष्ठां पराप्तवान अमितद्युतिः 2 यस्य लॊकास तरयॊ वश्या विष्णॊर इव महात्मनः एतद इच्छाम्य अहं शरॊतुं चरितं तस्य धीमतः 3 यथा मान्धातृशब्दश च तस्य शक्रसमद्युतेः जन्म चाप्रति वीर्यस्य कुशलॊ हय असि भाषितुम 4 [ल] शृणुष्वावहितॊ राजन राज्ञस तस्य महात्मनः यथा मान्धातृशब्दॊ वै लॊकेषु परिगीयते 5 इक्ष्वाकुवंशप्रभवॊ युवनाश्वॊ महीपतिः सॊ ऽयजत पृथिवीपाल ऋतुभिर भूरिदक्षिणैः 6 अश्वमेध सहस्रं च पराप्य धर्मभृतां वरः अन्यैश च करतुभिर मुख्यैर विविधैर आप्तदक्षिणैः 7 अनपत्यस तु राजर्षिः स महात्मा दृढव्रतः मन्त्रिष्व आधाय तद राज्यं वननित्यॊ बभूव ह 8 शास्त्रदृष्टेन विधिना संयॊज्यात्मानम आत्मना पिपासा शुष्कहृदयः परविवेशाश्रमं भृगॊर 9 ताम एव रात्रिं राजेन्द्र महात्मा भृगुनन्दनः इष्टिं चकार सौद्युम्नेर महर्षिः पुत्रकारणात 10 संभृतॊ मन्त्रपूतेन वारिणा कलशॊ महान तत्रातिष्ठत राजेन्द्र पूर्वम एव समाहितः यत पराश्य परसवेत तस्य पत्नी शक्रसमं सुतम 11 तं नयस्य वेद्यां कलशं सुषुपुस ते महर्षयः रात्रिजागरण शरान्ताः सौद्युम्निः समतीत्य तान 12 शुष्ककण्ठः पिपासार्तः पाणीयार्थी भृशं नृपः तं परविश्याश्रणं शरान्तः पाणीयं सॊ ऽभययाचत 13 तस्य शरान्तस्य शुष्केण कण्ठेन करॊशतस तदा नाश्रौषीत कश चन तदा शकुनेर इव वाशितम 14 ततस तं कलशं दृष्ट्वा जलपूर्णं स पार्थिवः अभ्यद्रवत वेगेन पीत्वा चाम्भॊ वयवासृजत 15 स पीत्वा शीतलं तॊयं पिपासार्थॊ महापतिः निर्वाणम अगमद धीमान सुसुखी चाभवत तदा 16 ततस ते परत्यबुध्यन्त ऋषयः स नराधिपाः निष टॊयं तं च कलशं ददृशुः सर्व एव ते 17 कस्य कर्मेदम इति च पर्यपृच्छन समागताः युवनाश्वॊ मयेत्य एव सत्यं समभिपद्यत 18 न युक्तम इति तं पराह भगवान भार्गवस तदा सुतार्थं सथापिता हय आपस तपसा चैव संभृताः 19 मया हय अत्राहितं बरह्म तप आस्थाय दारुणम पुत्रार्थं तव राजर्षे महाबलपराक्रम 20 महाबलॊ महावीर्यस तपॊबलसमन्वितः यः शक्रम अपि वीर्येण गमयेद यमसादनम 21 अनेन विधिना राजन मयैतद उपपादितम अब्भक्षणं तवया राजन्न अयुक्तं कृतम अद्य वै 22 न तव अद्य शक्यम अस्माभिर एतत कर्तुम अतॊ ऽनयथा नूनं दैवकृतं हय एतद यद एवं कृतवान असि 23 पिपासितेन याः पीता विधिमन्त्रपुरस्कृताः आपस तवया महाराज मत तपॊ वीर्यसंभृताः ताभ्यस तवम आत्मना पुत्रम एवं वीर्यं जनिष्यसि 24 विधास्यामॊ वयं तत्र तवेष्टिं परमाद्भुताम यथा शक्रसमं पुत्रं जनयिष्यसि वीर्यवान 25 ततॊ वर्षशते पूर्णे तस्य राज्ञॊ महात्मनः वामं पार्श्वं विनिर्भिद्य सुतः सूर्य इवापरः 26 निश्चक्राम महातेजा न च तं मृत्युर आविशत युवनाश्वं नरपतिं तद अद्भुतम इवाभवत 27 ततः शक्रॊ महातेजास तं दिदृक्षुर उपागमत परदेशिनीं ततॊ ऽसयास्ये शक्रः समभिसंदधे 28 माम अयं धास्यतीत्य एवं परिभास्तः सवज्रिणा मान्धातेति च नामास्य चक्रुः सेन्द्रा दिवौकसः 29 परदेशिनीं शक्रदत्ताम आस्वाद्य स शिशुस तदा अवर्धत महीपाल किष्कूणां च तरयॊदश 30 वेदास तं सधनुर्वेदा दिव्यान्य अस्त्राणि चेश्वरम उपतस्थुर महाराज धयात मात्राणि सर्वशः 31 धनुर आजगवं नाम शराः शृङ्गॊद्भवाश च ये अभेद्यं कवचं चैव सद्यस तम उपसंश्रयन 32 सॊ ऽभिषिक्तॊ मघवता सवयं शक्रेण भारत धर्मेण वयजयल लॊकांस तरीन विष्णुर इव विक्रमैः 33 तस्याप्रतिहतं चक्रं परावर्तत महात्मनः रत्नानि चैव राजर्षिं सवयम एवॊपतस्थिरे 34 तस्येयं वसुसंपूर्णा वसु धा वसु धाधिप तेनेष्टं विविधैर यज्ञैर बहुभिः सवाप्तदक्षिणैः 35 चित्तचैत्यॊ महातेजा धर्मं पराप्य च पुष्कलम शक्रस्यार्धासनं राजँल लब्धवान अमितद्युतिः 36 एकाह्ना पृथिवी तेन धर्मनित्येन धीमता निर्जिता शासनाद एव स रत्नाकर पत्तना 37 तस्य चित्यैर महाराज करतूनां दक्षिणा वताम चतुरन्ता मही वयाप्ता नासीत किं चिद अनावृतम 38 तेन पद्मसहस्राणि गवां दश महात्मना बराह्मणेभ्यॊ महाराज दत्तानीति परचक्षते 39 तेन दवादश वार्षिक्याम अनावृष्ट्यां महात्मना वृष्टं सस्यविवृद्ध्य अर्थं मिषतॊ वज्रपाणिनः 40 तेन सॊमकुलॊत्पन्नॊ गान्धाराधिपतिर महा गर्जन्न इव महामेघः परमथ्य निहतः शरैः 41 परजाश चतुर्विधास तेन जिता राजन महात्मना तेनात्म तपसा लॊकाः सथापिताश चापि तेजसा 42 तस्यैतद देवयजनं सथानम आदित्यवर्चसः पश्य पुण्यतमे देशे कुरुक्षेत्रस्य मध्यतः 43 एतत ते सर्वम आख्यातं मान्धातुश चरितं महत जन्म चाग्र्यं महीपाल यन मां तवं परिपृच्छसि |
1
[y] māndhātā rājaśārdūlas triṣu lokeṣu viśrutaḥ kathaṃ jāto mahābrahman yauvanāśvo nṛpottamaḥ kathaṃ caitāṃ parāṃ kāṣṭhāṃ prāptavān amitadyutiḥ 2 yasya lokās trayo vaśyā viṣṇor iva mahātmanaḥ etad icchāmy ahaṃ śrotuṃ caritaṃ tasya dhīmataḥ 3 yathā māndhātṛśabdaś ca tasya śakrasamadyuteḥ janma cāprati vīryasya kuśalo hy asi bhāṣitum 4 [l] śṛṇuṣvāvahito rājan rājñas tasya mahātmanaḥ yathā māndhātṛśabdo vai lokeṣu parigīyate 5 ikṣvākuvaṃśaprabhavo yuvanāśvo mahīpatiḥ so 'yajat pṛthivīpāla ṛtubhir bhūridakṣiṇaiḥ 6 aśvamedha sahasraṃ ca prāpya dharmabhṛtāṃ varaḥ anyaiś ca kratubhir mukhyair vividhair āptadakṣiṇaiḥ 7 anapatyas tu rājarṣiḥ sa mahātmā dṛḍhavrataḥ mantriṣv ādhāya tad rājyaṃ vananityo babhūva ha 8 śāstradṛṣṭena vidhinā saṃyojyātmānam ātmanā pipāsā śuṣkahṛdayaḥ praviveśāśramaṃ bhṛgor 9 tām eva rātriṃ rājendra mahātmā bhṛgunandanaḥ iṣṭiṃ cakāra saudyumner maharṣiḥ putrakāraṇāt 10 saṃbhṛto mantrapūtena vāriṇā kalaśo mahān tatrātiṣṭhata rājendra pūrvam eva samāhitaḥ yat prāśya prasavet tasya patnī śakrasamaṃ sutam 11 taṃ nyasya vedyāṃ kalaśaṃ suṣupus te maharṣayaḥ rātrijāgaraṇa śrāntāḥ saudyumniḥ samatītya tān 12 śuṣkakaṇṭhaḥ pipāsārtaḥ pāṇīyārthī bhṛśaṃ nṛpaḥ taṃ praviśyāśraṇaṃ śrāntaḥ pāṇīyaṃ so 'bhyayācata 13 tasya śrāntasya śuṣkeṇa kaṇṭhena krośatas tadā nāśrauṣīt kaś cana tadā śakuner iva vāśitam 14 tatas taṃ kalaśaṃ dṛṣṭvā jalapūrṇaṃ sa pārthivaḥ abhyadravata vegena pītvā cāmbho vyavāsṛjat 15 sa pītvā śītalaṃ toyaṃ pipāsārtho mahāpatiḥ nirvāṇam agamad dhīmān susukhī cābhavat tadā 16 tatas te pratyabudhyanta ṛṣayaḥ sa narādhipāḥ niṣ ṭoyaṃ taṃ ca kalaśaṃ dadṛśuḥ sarva eva te 17 kasya karmedam iti ca paryapṛcchan samāgatāḥ yuvanāśvo mayety eva satyaṃ samabhipadyata 18 na yuktam iti taṃ prāha bhagavān bhārgavas tadā sutārthaṃ sthāpitā hy āpas tapasā caiva saṃbhṛtāḥ 19 mayā hy atrāhitaṃ brahma tapa āsthāya dāruṇam putrārthaṃ tava rājarṣe mahābalaparākrama 20 mahābalo mahāvīryas tapobalasamanvitaḥ yaḥ śakram api vīryeṇa gamayed yamasādanam 21 anena vidhinā rājan mayaitad upapāditam abbhakṣaṇaṃ tvayā rājann ayuktaṃ kṛtam adya vai 22 na tv adya śakyam asmābhir etat kartum ato 'nyathā nūnaṃ daivakṛtaṃ hy etad yad evaṃ kṛtavān asi 23 pipāsitena yāḥ pītā vidhimantrapuraskṛtāḥ āpas tvayā mahārāja mat tapo vīryasaṃbhṛtāḥ tābhyas tvam ātmanā putram evaṃ vīryaṃ janiṣyasi 24 vidhāsyāmo vayaṃ tatra taveṣṭiṃ paramādbhutām yathā śakrasamaṃ putraṃ janayiṣyasi vīryavān 25 tato varṣaśate pūrṇe tasya rājño mahātmanaḥ vāmaṃ pārśvaṃ vinirbhidya sutaḥ sūrya ivāparaḥ 26 niścakrāma mahātejā na ca taṃ mṛtyur āviśat yuvanāśvaṃ narapatiṃ tad adbhutam ivābhavat 27 tataḥ śakro mahātejās taṃ didṛkṣur upāgamat pradeśinīṃ tato 'syāsye śakraḥ samabhisaṃdadhe 28 mām ayaṃ dhāsyatīty evaṃ paribhāstaḥ savajriṇā māndhāteti ca nāmāsya cakruḥ sendrā divaukasaḥ 29 pradeśinīṃ śakradattām āsvādya sa śiśus tadā avardhata mahīpāla kiṣkūṇāṃ ca trayodaśa 30 vedās taṃ sadhanurvedā divyāny astrāṇi ceśvaram upatasthur mahārāja dhyāta mātrāṇi sarvaśaḥ 31 dhanur ājagavaṃ nāma śarāḥ śṛṅgodbhavāś ca ye abhedyaṃ kavacaṃ caiva sadyas tam upasaṃśrayan 32 so 'bhiṣikto maghavatā svayaṃ śakreṇa bhārata dharmeṇa vyajayal lokāṃs trīn viṣṇur iva vikramaiḥ 33 tasyāpratihataṃ cakraṃ prāvartata mahātmanaḥ ratnāni caiva rājarṣiṃ svayam evopatasthire 34 tasyeyaṃ vasusaṃpūrṇā vasu dhā vasu dhādhipa teneṣṭaṃ vividhair yajñair bahubhiḥ svāptadakṣiṇaiḥ 35 cittacaityo mahātejā dharmaṃ prāpya ca puṣkalam śakrasyārdhāsanaṃ rājaṁl labdhavān amitadyutiḥ 36 ekāhnā pṛthivī tena dharmanityena dhīmatā nirjitā śāsanād eva sa ratnākara pattanā 37 tasya cityair mahārāja kratūnāṃ dakṣiṇā vatām caturantā mahī vyāptā nāsīt kiṃ cid anāvṛtam 38 tena padmasahasrāṇi gavāṃ daśa mahātmanā brāhmaṇebhyo mahārāja dattānīti pracakṣate 39 tena dvādaśa vārṣikyām anāvṛṣṭyāṃ mahātmanā vṛṣṭaṃ sasyavivṛddhy arthaṃ miṣato vajrapāṇinaḥ 40 tena somakulotpanno gāndhārādhipatir mahā garjann iva mahāmeghaḥ pramathya nihataḥ śaraiḥ 41 prajāś caturvidhās tena jitā rājan mahātmanā tenātma tapasā lokāḥ sthāpitāś cāpi tejasā 42 tasyaitad devayajanaṃ sthānam ādityavarcasaḥ paśya puṇyatame deśe kurukṣetrasya madhyataḥ 43 etat te sarvam ākhyātaṃ māndhātuś caritaṃ mahat janma cāgryaṃ mahīpāla yan māṃ tvaṃ paripṛcchasi |
The Mahabharata in Sanskrit
Book 3
Chapter 127
|
1
[य] कथंवीर्यः स राजाभूत सॊमकॊ वदतां वर कर्माण्य अस्य परभावं च शरॊतुम इच्छामि तत्त्वतः 2 [ल] युधिष्ठिरासीन नृपतिः सॊमकॊ नाम धार्मिकः तस्य भार्या शतं राजन सदृशीनाम अभूत तदा 3 स वै यत्नेन महता तासु पुत्रं महीपतिः कं चिन नासादयाम आस कालेन महता अपि 4 कदा चित तस्य वृद्धस्य यतमानस्य यत्नतः जन्तुर नाम सुतस तस्मिन सत्री शते समजायत 5 तं जातं मातरः सर्वाः परिवार्य समासते सततं पृष्ठतः कृत्वा कामभॊगान विशां पते 6 ततः पिपीलिका जन्तुं कदा चिद अदशत सफिजि स दष्टॊ वयनदद राजंस तेन दुःखेन बालकः 7 ततस ता मातरः सर्वाः पराक्रॊशन भृशदुःखिताः परिवार्य जन्तुं सहिताः स शब्दस तुमुलॊ ऽभवत 8 तम आर्तनादं सहसा शुश्राव स महीपतिः अमात्यपरिषन मध्ये उपविष्टः सहर्त्विजैः 9 ततः परस्थापयाम आस किम एतद इति पार्थिवः तस्मै कषत्ता यथावृत्तम आचचक्षे सुतं परति 10 तवरमाणः स चॊत्थाय सॊमकः सह मन्त्रिभिः परविश्यान्तःपुरं पुत्रम आश्वासयद अरिंदम 11 सान्त्वयित्वा तु तं पुत्रं निष्क्रम्यान्तःपुरान नृपः ऋत्विजैः सहितॊ राजन सहामात्य उपाविशत 12 [सॊमक] धिग अस्त्व इहैकपुत्र तवम अपुत्र तवं वरं भवेत नित्यातुर तवाद भूतानां शॊक एवैक पुत्र ता 13 इदं भार्या शतं बरह्मन परीक्ष्यॊप चितं परभॊ पुत्रार्थिना मया वॊढं न चासां विद्यते परजा 14 एकः कथं चिद उत्पन्नः पुत्रॊ जन्तुर अयं मम यतमानस्य सर्वासु किं नु दुःखम अतः परम 15 वयश च समतीतं मे सभार्यस्य दविजॊत्तम आसां पराणाः समायत्ता मम चात्रैक पुत्रके 16 सयान नु कर्म तथायुक्तं येन पुत्रशतं भवेत महता लघुना वापि कर्मणा दुष करेण वा 17 [रत्विज] अस्ति वै तादृशं कर्म येन पुत्रशतं भवेत यदि शक्नॊषि तत कर्तुम अथ वक्ष्यामि सॊमक 18 [स] कार्यं वा यदि वाकार्यं येन पुत्रशतं भवेत कृतम एव हि तद विद्धि भगवान परब्रवीतु मे 19 [रत्विज] यजस्व जन्तुना राजंस तवं मया वितते करतौ ततः पुत्रशतं शरीमद भविष्यत्य अचिरेण ते 20 वपायां हूयमानायां धूमम आघ्राय मातरः ततस ताः सुमहावीर्याञ जनयिष्यन्ति ते सुतान 21 तस्याम एव तु ते जन्तुर भविता पुनर आत्मजः उत्तरे चास्य सौवर्णं लक्ष्म पार्श्वे भविष्यति |
1
[y] kathaṃvīryaḥ sa rājābhūt somako vadatāṃ vara karmāṇy asya prabhāvaṃ ca śrotum icchāmi tattvataḥ 2 [l] yudhiṣṭhirāsīn nṛpatiḥ somako nāma dhārmikaḥ tasya bhāryā śataṃ rājan sadṛśīnām abhūt tadā 3 sa vai yatnena mahatā tāsu putraṃ mahīpatiḥ kaṃ cin nāsādayām āsa kālena mahatā api 4 kadā cit tasya vṛddhasya yatamānasya yatnataḥ jantur nāma sutas tasmin strī śate samajāyata 5 taṃ jātaṃ mātaraḥ sarvāḥ parivārya samāsate satataṃ pṛṣṭhataḥ kṛtvā kāmabhogān viśāṃ pate 6 tataḥ pipīlikā jantuṃ kadā cid adaśat sphiji sa daṣṭo vyanadad rājaṃs tena duḥkhena bālakaḥ 7 tatas tā mātaraḥ sarvāḥ prākrośan bhṛśaduḥkhitāḥ parivārya jantuṃ sahitāḥ sa śabdas tumulo 'bhavat 8 tam ārtanādaṃ sahasā śuśrāva sa mahīpatiḥ amātyapariṣan madhye upaviṣṭaḥ sahartvijaiḥ 9 tataḥ prasthāpayām āsa kim etad iti pārthivaḥ tasmai kṣattā yathāvṛttam ācacakṣe sutaṃ prati 10 tvaramāṇaḥ sa cotthāya somakaḥ saha mantribhiḥ praviśyāntaḥpuraṃ putram āśvāsayad ariṃdama 11 sāntvayitvā tu taṃ putraṃ niṣkramyāntaḥpurān nṛpaḥ ṛtvijaiḥ sahito rājan sahāmātya upāviśat 12 [somaka] dhig astv ihaikaputra tvam aputra tvaṃ varaṃ bhavet nityātura tvād bhūtānāṃ śoka evaika putra tā 13 idaṃ bhāryā śataṃ brahman parīkṣyopa citaṃ prabho putrārthinā mayā voḍhaṃ na cāsāṃ vidyate prajā 14 ekaḥ kathaṃ cid utpannaḥ putro jantur ayaṃ mama yatamānasya sarvāsu kiṃ nu duḥkham ataḥ param 15 vayaś ca samatītaṃ me sabhāryasya dvijottama āsāṃ prāṇāḥ samāyattā mama cātraika putrake 16 syān nu karma tathāyuktaṃ yena putraśataṃ bhavet mahatā laghunā vāpi karmaṇā duṣ kareṇa vā 17 [rtvij] asti vai tādṛśaṃ karma yena putraśataṃ bhavet yadi śaknoṣi tat kartum atha vakṣyāmi somaka 18 [s] kāryaṃ vā yadi vākāryaṃ yena putraśataṃ bhavet kṛtam eva hi tad viddhi bhagavān prabravītu me 19 [rtvij] yajasva jantunā rājaṃs tvaṃ mayā vitate kratau tataḥ putraśataṃ śrīmad bhaviṣyaty acireṇa te 20 vapāyāṃ hūyamānāyāṃ dhūmam āghrāya mātaraḥ tatas tāḥ sumahāvīryāñ janayiṣyanti te sutān 21 tasyām eva tu te jantur bhavitā punar ātmajaḥ uttare cāsya sauvarṇaṃ lakṣma pārśve bhaviṣyati |
The Mahabharata in Sanskrit
Book 3
Chapter 128
|
1
[स] बरह्मन यद यद यथा कार्यं तत तत कुरु तथा तथा पुत्र कामतया सर्वं करिष्यामि वचस तव 2 [ल] ततः स याजयाम आस सॊमकं तेन जन्तुना मातरस तु बलात पुत्रम अपाकर्षुः कृपान्विताः 3 हाहताः समेति वाशन्त्यस तीव्रशॊकसमन्विताः तं मातरः परत्यकर्षन गृहीत्वा दक्षिणे करे सव्ये पाणौ गृहीत्वा तु याजकॊ ऽपि सम कर्षति 4 कुररीणाम इवार्तानाम अपाकृष्य तु तं सुतम विशस्य चैनं विधिना वपाम अस्य जुहाव सः 5 वपायां हूयमानायां गन्धम आघ्राय मातरः आर्ता निपेतुः सहसा पृथिव्यां कुरुनन्दन सर्वाश च गर्भान अलभंस ततस ताः पार्थिवाङ्गनाः 6 ततॊ दशसु मासेषु सॊमकस्य विशां पते जज्ञे पुत्रशतं पूर्णं तासु सर्वासु भारत 7 जन्तुर जयेष्ठः समभवञ जनित्र्याम एव भारत स तासाम इष्ट एवासीन न तथान्ये निजाः सुताः 8 तच च लक्षणम अस्यासीत सौवर्णं पार्श्व उत्तरे तस्मिन पुत्रशते चाग्र्यः स बभूव गुणैर युतः 9 ततः स लॊकम अगमत सॊमकस्य गुरुः परम अथ काले वयतीते तु सॊमकॊ ऽपय अगमत परम 10 अथ तं नरके घॊरे पच्यमानं ददर्श सः तम अपृच्छत किमर्थं तवं नरके पच्यसे दविज 11 तम अब्रवीद गुरुः सॊ ऽथ पच्यमानॊ ऽगनिना भृशम तवं मया याजितॊ राजंस तस्येदं कर्मणः फलम 12 एतच छरुत्वा स राजर्षिर धर्मराजानम अब्रवीत अहम अत्र परवेक्ष्यामि मुच्यतां मम याजकः मत्कृते हि महाभागः पच्यते नरकाग्निना 13 नान्यः कर्तुः फलं राजन्न उपभुङ्क्ते कदा चन इमानि तव दृश्यन्ते फलानि ददतां वर 14 [सॊमक] पुण्यान न कामये लॊकान ऋते ऽहं बरह्मवादिनम इच्छाम्य अहम अनेनैव सह वस्तुं सुरालये 15 नरके वा धर्मराज कर्मणास्य समॊ हय अहम पुण्यापुण्य फलं देवसमम अस्त्व आवयॊर इदम 16 [धर्म] यद्य एवम ईप्सितं राजन भुङ्क्ष्वास्य सहितः फलम तुल्यकालं सहानेन पश्चात पराप्स्यसि सद गतिम 17 [ल] स चकार तथा सर्वं राजा राजीवलॊचनः पुनश च लेभे लॊकान सवान कर्मणा निर्जिताञ शुभान सह तेनैव विप्रेण गुरुणा स गुरुप्रियः 18 एष तस्याश्रमः पुण्यॊ य एषॊ ऽगरे विराजते कषान्त उष्यात्र सॊ रात्रं पराप्नॊति सुगतिं नरः 19 एतस्मिन्न अपि राजेन्द्र वत्स्यामॊ विगतज्वराः सॊ रात्रं नियतात्मानः सज्जीभव कुरूद्वह |
1
[s] brahman yad yad yathā kāryaṃ tat tat kuru tathā tathā putra kāmatayā sarvaṃ kariṣyāmi vacas tava 2 [l] tataḥ sa yājayām āsa somakaṃ tena jantunā mātaras tu balāt putram apākarṣuḥ kṛpānvitāḥ 3 hāhatāḥ smeti vāśantyas tīvraśokasamanvitāḥ taṃ mātaraḥ pratyakarṣan gṛhītvā dakṣiṇe kare savye pāṇau gṛhītvā tu yājako 'pi sma karṣati 4 kurarīṇām ivārtānām apākṛṣya tu taṃ sutam viśasya cainaṃ vidhinā vapām asya juhāva saḥ 5 vapāyāṃ hūyamānāyāṃ gandham āghrāya mātaraḥ ārtā nipetuḥ sahasā pṛthivyāṃ kurunandana sarvāś ca garbhān alabhaṃs tatas tāḥ pārthivāṅganāḥ 6 tato daśasu māseṣu somakasya viśāṃ pate jajñe putraśataṃ pūrṇaṃ tāsu sarvāsu bhārata 7 jantur jyeṣṭhaḥ samabhavañ janitryām eva bhārata sa tāsām iṣṭa evāsīn na tathānye nijāḥ sutāḥ 8 tac ca lakṣaṇam asyāsīt sauvarṇaṃ pārśva uttare tasmin putraśate cāgryaḥ sa babhūva guṇair yutaḥ 9 tataḥ sa lokam agamat somakasya guruḥ param atha kāle vyatīte tu somako 'py agamat param 10 atha taṃ narake ghore pacyamānaṃ dadarśa saḥ tam apṛcchat kimarthaṃ tvaṃ narake pacyase dvija 11 tam abravīd guruḥ so 'tha pacyamāno 'gninā bhṛśam tvaṃ mayā yājito rājaṃs tasyedaṃ karmaṇaḥ phalam 12 etac chrutvā sa rājarṣir dharmarājānam abravīt aham atra pravekṣyāmi mucyatāṃ mama yājakaḥ matkṛte hi mahābhāgaḥ pacyate narakāgninā 13 nānyaḥ kartuḥ phalaṃ rājann upabhuṅkte kadā cana imāni tava dṛśyante phalāni dadatāṃ vara 14 [somaka] puṇyān na kāmaye lokān ṛte 'haṃ brahmavādinam icchāmy aham anenaiva saha vastuṃ surālaye 15 narake vā dharmarāja karmaṇāsya samo hy aham puṇyāpuṇya phalaṃ devasamam astv āvayor idam 16 [dharma] yady evam īpsitaṃ rājan bhuṅkṣvāsya sahitaḥ phalam tulyakālaṃ sahānena paścāt prāpsyasi sad gatim 17 [l] sa cakāra tathā sarvaṃ rājā rājīvalocanaḥ punaś ca lebhe lokān svān karmaṇā nirjitāñ śubhān saha tenaiva vipreṇa guruṇā sa gurupriyaḥ 18 eṣa tasyāśramaḥ puṇyo ya eṣo 'gre virājate kṣānta uṣyātra so rātraṃ prāpnoti sugatiṃ naraḥ 19 etasminn api rājendra vatsyāmo vigatajvarāḥ so rātraṃ niyatātmānaḥ sajjībhava kurūdvaha |
The Mahabharata in Sanskrit
Book 3
Chapter 129
|
1
[ल] अस्मिन किल सवयं राजन्न इष्टवान वै परजापतिः सत्रम इष्टी कृतं नाम पुरा वर्षसहस्रिकम 2 अम्बरीसश च नाभाग इष्टवान यमुनाम अनु यज्ञैश च तपसा चैव परां सिद्धिम अवाप सः 3 देशॊ नाहुष यज्ञानाम अयं पुण्यतमॊ नृप यत्रेष्ट्वा दशपद्मानि सदस्येभ्यॊ निसृष्टवान 4 सार्वभौमस्य कौन्तेय ययातेर अमितौजसः सपर्धमानस्य शक्रेण पश्येदं यज्ञवास्त्व इह 5 पश्य नानाविधाकारैर अग्निभिर निचितां महीम मज्जन्तीम इव चाक्रान्तां ययातेर यज्ञकर्मभिः 6 एषा शम्य एकपत्रा सा शरकं चैतद उत्तमम पश्य रामह्रदान एतान पश्य नारायणाश्रयम 7 एतद आर्चीक पुत्रस्य यॊगैर विचरतॊ महीम अपसर्पणं महीपाल रौप्यायाम अमितौजसः 8 अत्रानुवंशं पठतः शृणु मे कुरुनन्दन उलूखलैर आभरणैः पिशाची यद अभाषत 9 युगं धरे दधि पराश्य उषित्वा चाच्युतस्थले तद्वद भूतिलये सनात्वा सपुत्रा वस्तुम इच्छसि 10 एकरात्रम उषित्वेह दवितीयं यदि वत्स्यसि एतद वै ते दिवा वृत्तं रात्रौ वृत्तम अतॊ ऽनयथा 11 अत्राद्याहॊ निवत्स्यामः कषपां भरतसत्तम दवारम एतद धि कौन्तेय कुरुक्षेत्रस्य भारत 12 अत्रैव नाहुषॊ राजा राजन करतुभिर इष्टवान ययातिर बहुरत्नाढ्यैर यत्रेन्द्रॊ मुदम अभ्यगात 13 एतत पलक्षावतरणं यमुनातीर्थम उच्यते एतद वै नाकपृष्ठस्य दवारम आहुर मनीषिणः 14 अत्र सारस्वतैर यज्ञैर ईजानाः परमर्षयः यूपॊलुखलिनस तात गच्छन्त्य अवभृथा पलवम 15 अत्रैव भरतॊ राजा मेध्यम अश्वम अवासृजत असकृत कृष्णसारङ्गं धर्मेणावाप्य मेदिनीम 16 अत्रैव पुरुषव्याघ्र मरुत्तः सत्रम उत्तमम आस्ते देवर्षिमुख्येन संवर्तेनाभिपालितः 17 अत्रॊपस्पृश्य राजेन्द्र सर्वाँल लॊकान परपश्यति पूयते दुष्कृताच चैव समुपस्पृश्य भारत 18 [व] तत्र सभ्रातृकः सनात्वा सतूयमानॊ महर्षिभिः लॊमशं पाण्डवश्रेष्ठ इदं वचनम अब्रवीत 19 सर्वाँल लॊकान परपश्यामि तपसा सत्यविक्रम इह सथाः पाण्डवश्रेष्ठं पश्यामि शवेतवाहनम 20 [ल] एवम एतन महाबाहॊ पश्यन्ति परमर्षयः सरॊ वतीम इमां पुण्यां पश्यैक शरणावृताम 21 यत्र सनात्वा नरश्रेष्ठ धूतपाप्मा भविष्यति इह सारस्वतैर यज्ञैर इष्टवन्तः सुरर्षयः ऋषयश चैव कौन्तेय तथा राजर्षयॊ ऽपि च 22 वेदी परजापतेर एषा समन्तात पञ्चयॊजना कुरॊर वै यज्ञशीलस्य कषेत्रम एतन महात्मनः |
1
[l] asmin kila svayaṃ rājann iṣṭavān vai prajāpatiḥ satram iṣṭī kṛtaṃ nāma purā varṣasahasrikam 2 ambarīsaś ca nābhāga iṣṭavān yamunām anu yajñaiś ca tapasā caiva parāṃ siddhim avāpa saḥ 3 deśo nāhuṣa yajñānām ayaṃ puṇyatamo nṛpa yatreṣṭvā daśapadmāni sadasyebhyo nisṛṣṭavān 4 sārvabhaumasya kaunteya yayāter amitaujasaḥ spardhamānasya śakreṇa paśyedaṃ yajñavāstv iha 5 paśya nānāvidhākārair agnibhir nicitāṃ mahīm majjantīm iva cākrāntāṃ yayāter yajñakarmabhiḥ 6 eṣā śamy ekapatrā sā śarakaṃ caitad uttamam paśya rāmahradān etān paśya nārāyaṇāśrayam 7 etad ārcīka putrasya yogair vicarato mahīm apasarpaṇaṃ mahīpāla raupyāyām amitaujasaḥ 8 atrānuvaṃśaṃ paṭhataḥ śṛṇu me kurunandana ulūkhalair ābharaṇaiḥ piśācī yad abhāṣata 9 yugaṃ dhare dadhi prāśya uṣitvā cācyutasthale tadvad bhūtilaye snātvā saputrā vastum icchasi 10 ekarātram uṣitveha dvitīyaṃ yadi vatsyasi etad vai te divā vṛttaṃ rātrau vṛttam ato 'nyathā 11 atrādyāho nivatsyāmaḥ kṣapāṃ bharatasattama dvāram etad dhi kaunteya kurukṣetrasya bhārata 12 atraiva nāhuṣo rājā rājan kratubhir iṣṭavān yayātir bahuratnāḍhyair yatrendro mudam abhyagāt 13 etat plakṣāvataraṇaṃ yamunātīrtham ucyate etad vai nākapṛṣṭhasya dvāram āhur manīṣiṇaḥ 14 atra sārasvatair yajñair ījānāḥ paramarṣayaḥ yūpolukhalinas tāta gacchanty avabhṛthā plavam 15 atraiva bharato rājā medhyam aśvam avāsṛjat asakṛt kṛṣṇasāraṅgaṃ dharmeṇāvāpya medinīm 16 atraiva puruṣavyāghra maruttaḥ satram uttamam āste devarṣimukhyena saṃvartenābhipālitaḥ 17 atropaspṛśya rājendra sarvāṁl lokān prapaśyati pūyate duṣkṛtāc caiva samupaspṛśya bhārata 18 [v] tatra sabhrātṛkaḥ snātvā stūyamāno maharṣibhiḥ lomaśaṃ pāṇḍavaśreṣṭha idaṃ vacanam abravīt 19 sarvāṁl lokān prapaśyāmi tapasā satyavikrama iha sthāḥ pāṇḍavaśreṣṭhaṃ paśyāmi śvetavāhanam 20 [l] evam etan mahābāho paśyanti paramarṣayaḥ saro vatīm imāṃ puṇyāṃ paśyaika śaraṇāvṛtām 21 yatra snātvā naraśreṣṭha dhūtapāpmā bhaviṣyati iha sārasvatair yajñair iṣṭavantaḥ surarṣayaḥ ṛṣayaś caiva kaunteya tathā rājarṣayo 'pi ca 22 vedī prajāpater eṣā samantāt pañcayojanā kuror vai yajñaśīlasya kṣetram etan mahātmanaḥ |
The Mahabharata in Sanskrit
Book 3
Chapter 130
|
1
[ल] इह मर्त्यास तपस तप्त्वा सवर्गं गच्छन्ति भारत मर्तुकामा नरा राजन्न इहायान्ति सहस्रशः 2 एवम आशीः परयुक्ता हि दक्षेण यजता पुरा इह ये वै मरिष्यन्ति ते वै सवर्गजितॊ नराः 3 एषा सरॊ वती पुण्या दिव्या चॊघवती नदी एतद विनशनं नाम सरॊ वत्या विशां पते 4 दवारं निषादराष्ट्रस्य येषां दवेषात सरॊ वती परविष्टा पृथिवीं वीर मा निषादा हि मां विदुः 5 एष वै चमसॊद्भेदॊ यत्र दृश्या सरॊ वती यत्रैनाम अभ्यवर्तन्त दिव्याः पुण्याः समुद्रगाः 6 एतत सिन्धॊर महत तीर्थं यत्रागस्त्यम अरिंदम लॊपामुद्रा समागम्य भर्तारम अवृणीत वै 7 एतत परभासते तीर्थं परभासं भाः करद्युते इन्द्रस्य दयितं पुण्यं पवित्रं पापनाशनम 8 एतद विष्णुपदं नाम दृश्यते तीर्थम उत्तमम एषा रम्या विपाशा च नदी परमपावनी 9 अत्रैव पुत्रशॊकेन वसिष्ठॊ भगवान ऋषिः बद्ध्वात्मानं निपतितॊ विपाशः पुनर उत्थितः 10 काश्मील मण्डलं चैतत सर्वपुण्यम अरिंदम महर्षिभिश चाध्युषितं पश्येदं भरातृभिः सह 11 अत्रॊत्तराणां सर्वेषाम ऋषीणां नाहुषस्य च अग्नेश चात्रैव संवादः काश्यपस्य च भारत 12 एतद दवारं महाराज मानसस्य परकाशते वर्षम अस्य गिरेर मध्ये रामेण शरीमता कृतम 13 एष वातिक षण्डॊ वै परख्यातः सत्यविक्रमः नाभ्यवर्तत यद दवारं विदेहान उत्तरं च यः 14 एष उज्जानकॊ नाम यवक्रीर यत्र शान्तवान अरुन्धती सहायश च वसिष्ठॊ भगवान ऋषिः 15 हरदश च कुशवान एष यत्र पद्मं कुशे शयम आश्रमश चैव रुक्मिण्या यत्राशाम्यद अकॊपना 16 समाधीनां समासस तु पाण्डवेय शरुतस तवया तं दरक्ष्यसि महाराज भृगुतुङ्गं महागिरिम 17 जलां चॊपजलां चैव यमुनाम अभितॊ नदीम उशीनरॊ वै यत्रेष्ट्वा वासवाद अत्यरिच्यत 18 तां देवसमितिं तस्य वासवश च विशां पते अभ्यगच्छत राजानं जञातुम अग्निश च भारत 19 जिज्ञासमानौ वरदौ महात्मानम उशीनरम इन्द्रः शयेनः कपॊतॊ ऽगनिर भूत्वा यज्ञे ऽभिजग्मतुः 20 ऊरुं राज्ञः समासाद्य कपॊतः शयेनजाद भयात शरणार्थी तदा राजन निलिल्ये भयपीडितः |
1
[l] iha martyās tapas taptvā svargaṃ gacchanti bhārata martukāmā narā rājann ihāyānti sahasraśaḥ 2 evam āśīḥ prayuktā hi dakṣeṇa yajatā purā iha ye vai mariṣyanti te vai svargajito narāḥ 3 eṣā saro vatī puṇyā divyā coghavatī nadī etad vinaśanaṃ nāma saro vatyā viśāṃ pate 4 dvāraṃ niṣādarāṣṭrasya yeṣāṃ dveṣāt saro vatī praviṣṭā pṛthivīṃ vīra mā niṣādā hi māṃ viduḥ 5 eṣa vai camasodbhedo yatra dṛśyā saro vatī yatrainām abhyavartanta divyāḥ puṇyāḥ samudragāḥ 6 etat sindhor mahat tīrthaṃ yatrāgastyam ariṃdama lopāmudrā samāgamya bhartāram avṛṇīta vai 7 etat prabhāsate tīrthaṃ prabhāsaṃ bhāḥ karadyute indrasya dayitaṃ puṇyaṃ pavitraṃ pāpanāśanam 8 etad viṣṇupadaṃ nāma dṛśyate tīrtham uttamam eṣā ramyā vipāśā ca nadī paramapāvanī 9 atraiva putraśokena vasiṣṭho bhagavān ṛṣiḥ baddhvātmānaṃ nipatito vipāśaḥ punar utthitaḥ 10 kāśmīla maṇḍalaṃ caitat sarvapuṇyam ariṃdama maharṣibhiś cādhyuṣitaṃ paśyedaṃ bhrātṛbhiḥ saha 11 atrottarāṇāṃ sarveṣām ṛṣīṇāṃ nāhuṣasya ca agneś cātraiva saṃvādaḥ kāśyapasya ca bhārata 12 etad dvāraṃ mahārāja mānasasya prakāśate varṣam asya girer madhye rāmeṇa śrīmatā kṛtam 13 eṣa vātika ṣaṇḍo vai prakhyātaḥ satyavikramaḥ nābhyavartata yad dvāraṃ videhān uttaraṃ ca yaḥ 14 eṣa ujjānako nāma yavakrīr yatra śāntavān arundhatī sahāyaś ca vasiṣṭho bhagavān ṛṣiḥ 15 hradaś ca kuśavān eṣa yatra padmaṃ kuśe śayam āśramaś caiva rukmiṇyā yatrāśāmyad akopanā 16 samādhīnāṃ samāsas tu pāṇḍaveya śrutas tvayā taṃ drakṣyasi mahārāja bhṛgutuṅgaṃ mahāgirim 17 jalāṃ copajalāṃ caiva yamunām abhito nadīm uśīnaro vai yatreṣṭvā vāsavād atyaricyata 18 tāṃ devasamitiṃ tasya vāsavaś ca viśāṃ pate abhyagacchata rājānaṃ jñātum agniś ca bhārata 19 jijñāsamānau varadau mahātmānam uśīnaram indraḥ śyenaḥ kapoto 'gnir bhūtvā yajñe 'bhijagmatuḥ 20 ūruṃ rājñaḥ samāsādya kapotaḥ śyenajād bhayāt śaraṇārthī tadā rājan nililye bhayapīḍitaḥ |
The Mahabharata in Sanskrit
Book 3
Chapter 131
|
1
[षयेन] धर्मात्मानं तव आहुर एकं सर्वे राजन महीक्षितः स वै धर्मविरुद्धं तवं कस्मात कर्म चिकीर्षसि 2 विहितं भक्षणं राजन पीड्यमानस्य मे कषुधा मा भाङ्क्षीर धर्मलॊभेन धर्मम उत्सृष्टवान असि 3 [राजन] संत्रस्तरूपस तराणार्थी तवत्तॊ भीतॊ महाद्विज मत्सकाशम अनुप्राप्तः पराणगृध्नुर अयं दविजः 4 एवम अभ्यागतस्येह कपॊतस्याभयार्थिनः अप्रदाने परॊ ऽधर्मः किं तवं शयेनप्रपश्यसि 5 परस्पन्दमानः संभ्रान्तः कपॊतः शयेनलक्ष्यते मत्सकाशं जीवितार्थी तस्य तयागॊ विगर्हितः 6 [ष] आहारात सर्वभूतानि संभवन्ति महीपते आहारेण विवर्धन्ते तेन जीवन्ति जन्तवः 7 शक्यते दुस तयजे ऽपय अर्थे चिररात्राय जीवितुम न तु भॊजनम उत्सृज्य शक्यं वर्तयितुं चिरम 8 भक्ष्याद विलॊपितस्याद्य मम पराणा विशां पते विसृज्य कायम एष्यन्ति पन्थानम अपुनर्भवम 9 परमृते मयि धर्मात्मन पुत्रदारं नशिष्यति रक्षमाणः कपॊतं तवं बहून पराणान नशिष्यसि 10 धर्मं यॊ बाधते धर्मॊ न स धर्मः कुधर्म तत अविरॊधी तु यॊ धर्मः स धर्मः सत्यविक्रम 11 विरॊधिषु महीपाल निश्चित्य गुरुलाघवम न बाधा विद्यते यत्र तं धर्मं समुदाचरेत 12 गुरुलाघवम आज्ञाय धर्माधर्मविनिश्चये यतॊ भूयांस ततॊ राजन कुरु धर्मविनिश्चयम 13 [र] बहुकल्याण संयुक्तं भाषसे विहगॊत्तम सुपर्णः पक्षिराट किं तवं धर्मज्ञश चास्य असंशयम तथा हि धर्मसंयुक्तं बहु चित्रं परभाषसे 14 न ते ऽसत्य अविदितं किं चिद इति तवा लक्षयाम्य अहम शरणैषिणः परित्यागं कथं साध्व इति मन्यसे 15 आहारार्थं समारम्भस तव चायं विहंगम शक्यश चाप्य अन्यथा कर्तुम आहारॊ ऽपय अधिकस तवया 16 गॊवृषॊ वा वराहॊ वा मृगॊ वा महिषॊ ऽपि वा तवदर्थम अद्य करियतां यद वान्यद अभिकाङ्क्षसे 17 [ष] न वराहं न चॊक्षाणं न मृगान विविधांस तथा भक्षयामि महाराज किम अन्नाद्येन तेन मे 18 यस तु मे दैवविहितॊ भक्षः कषत्रिय पुंगव तम उत्सृज महीपाल कपॊतम इमम एव मे 19 शयेनाः कपॊतान खादन्ति सथितिर एषा सनातनी मा राजन मार्गम आज्ञाय कदली सकन्धम आरुह 20 [र] राज्यं शिबीनाम ऋद्धं वै शाधि पक्षिगणार्चित यद वा कामयसे किं चिच छयेन सर्वं ददानि ते विनेमं पक्षिणं शयेनशरणार्थिनम आगतम 21 येनेमं वर्जयेथास तवं कर्मणा पक्षिसत्तम तद आचक्ष्व करिष्यामि न हि दास्ये कपॊतकम 22 [ष] उशीनर कपॊते ते यदि सनेहॊ नराधिप आत्मनॊ मांसम उत्कृत्य कपॊत तुलया धृतम 23 यदा समं कपॊतेन तव मांसं भवेन नृप तदा परदेयं तन मह्यं सा मे तुष्टिर भविष्यति 24 [र] अनुग्रहम इमं मन्ये शयेनयन माभियाचसे तस्मात ते ऽदय परदास्यामि सवमांसं तुलया धृतम 25 [ल] अथॊत्कृत्य सवमांसं तु राजा परमधर्मवित तुलयाम आस कौन्तेय कपॊतेन सहाभिभॊ 26 धरियमाणस तु तुलया कपॊतॊ वयतिरिच्यते पुनश चॊत्कृत्य मांसानि राजा परादाद उशीनरः 27 न विद्यते यदा मांसं कपॊतेन समं धृतम तत उत्कृत्त मांसॊ ऽसाव आरुरॊह सवयं तुलाम 28 [ष] इन्द्रॊ ऽहम अस्मि धर्मज्ञ कपॊतॊ हव्यवाड अयम जिज्ञासमानौ धर्मे तवां यज्ञवाटम उपागतौ 29 यत ते मांसानि गात्रेभ्य उत्कृत्तानि विशां पते एषा ते भास्वरी कीर्तिर लॊकान अभिभविष्यति 30 यावल लॊके मनुष्यास तवां कथयिष्यन्ति पार्थिव तावत कीर्तिश च लॊकाश च सथास्यन्ति तव शाश्वताः 31 [ल] तत पाण्डवेय सदनं राज्ञस तस्य महात्मनः पश्यस्वैतन मया सार्धं पुण्यं पापप्रमॊचनम 32 अत्र वै सततं देवा मुनयश च सनातनाः दृश्यन्ते बराह्मणै राजन पुण्यवद्भिर महात्मभिः |
1
[ṣyena] dharmātmānaṃ tv āhur ekaṃ sarve rājan mahīkṣitaḥ sa vai dharmaviruddhaṃ tvaṃ kasmāt karma cikīrṣasi 2 vihitaṃ bhakṣaṇaṃ rājan pīḍyamānasya me kṣudhā mā bhāṅkṣīr dharmalobhena dharmam utsṛṣṭavān asi 3 [rājan] saṃtrastarūpas trāṇārthī tvatto bhīto mahādvija matsakāśam anuprāptaḥ prāṇagṛdhnur ayaṃ dvijaḥ 4 evam abhyāgatasyeha kapotasyābhayārthinaḥ apradāne paro 'dharmaḥ kiṃ tvaṃ śyenaprapaśyasi 5 praspandamānaḥ saṃbhrāntaḥ kapotaḥ śyenalakṣyate matsakāśaṃ jīvitārthī tasya tyāgo vigarhitaḥ 6 [ṣ] āhārāt sarvabhūtāni saṃbhavanti mahīpate āhāreṇa vivardhante tena jīvanti jantavaḥ 7 śakyate dus tyaje 'py arthe cirarātrāya jīvitum na tu bhojanam utsṛjya śakyaṃ vartayituṃ ciram 8 bhakṣyād vilopitasyādya mama prāṇā viśāṃ pate visṛjya kāyam eṣyanti panthānam apunarbhavam 9 pramṛte mayi dharmātman putradāraṃ naśiṣyati rakṣamāṇaḥ kapotaṃ tvaṃ bahūn prāṇān naśiṣyasi 10 dharmaṃ yo bādhate dharmo na sa dharmaḥ kudharma tat avirodhī tu yo dharmaḥ sa dharmaḥ satyavikrama 11 virodhiṣu mahīpāla niścitya gurulāghavam na bādhā vidyate yatra taṃ dharmaṃ samudācaret 12 gurulāghavam ājñāya dharmādharmaviniścaye yato bhūyāṃs tato rājan kuru dharmaviniścayam 13 [r] bahukalyāṇa saṃyuktaṃ bhāṣase vihagottama suparṇaḥ pakṣirāṭ kiṃ tvaṃ dharmajñaś cāsy asaṃśayam tathā hi dharmasaṃyuktaṃ bahu citraṃ prabhāṣase 14 na te 'sty aviditaṃ kiṃ cid iti tvā lakṣayāmy aham śaraṇaiṣiṇaḥ parityāgaṃ kathaṃ sādhv iti manyase 15 āhārārthaṃ samārambhas tava cāyaṃ vihaṃgama śakyaś cāpy anyathā kartum āhāro 'py adhikas tvayā 16 govṛṣo vā varāho vā mṛgo vā mahiṣo 'pi vā tvadartham adya kriyatāṃ yad vānyad abhikāṅkṣase 17 [ṣ] na varāhaṃ na cokṣāṇaṃ na mṛgān vividhāṃs tathā bhakṣayāmi mahārāja kim annādyena tena me 18 yas tu me daivavihito bhakṣaḥ kṣatriya puṃgava tam utsṛja mahīpāla kapotam imam eva me 19 śyenāḥ kapotān khādanti sthitir eṣā sanātanī mā rājan mārgam ājñāya kadalī skandham āruha 20 [r] rājyaṃ śibīnām ṛddhaṃ vai śādhi pakṣigaṇārcita yad vā kāmayase kiṃ cic chyena sarvaṃ dadāni te vinemaṃ pakṣiṇaṃ śyenaśaraṇārthinam āgatam 21 yenemaṃ varjayethās tvaṃ karmaṇā pakṣisattama tad ācakṣva kariṣyāmi na hi dāsye kapotakam 22 [ṣ] uśīnara kapote te yadi sneho narādhipa ātmano māṃsam utkṛtya kapota tulayā dhṛtam 23 yadā samaṃ kapotena tava māṃsaṃ bhaven nṛpa tadā pradeyaṃ tan mahyaṃ sā me tuṣṭir bhaviṣyati 24 [r] anugraham imaṃ manye śyenayan mābhiyācase tasmāt te 'dya pradāsyāmi svamāṃsaṃ tulayā dhṛtam 25 [l] athotkṛtya svamāṃsaṃ tu rājā paramadharmavit tulayām āsa kaunteya kapotena sahābhibho 26 dhriyamāṇas tu tulayā kapoto vyatiricyate punaś cotkṛtya māṃsāni rājā prādād uśīnaraḥ 27 na vidyate yadā māṃsaṃ kapotena samaṃ dhṛtam tata utkṛtta māṃso 'sāv āruroha svayaṃ tulām 28 [ṣ] indro 'ham asmi dharmajña kapoto havyavāḍ ayam jijñāsamānau dharme tvāṃ yajñavāṭam upāgatau 29 yat te māṃsāni gātrebhya utkṛttāni viśāṃ pate eṣā te bhāsvarī kīrtir lokān abhibhaviṣyati 30 yāval loke manuṣyās tvāṃ kathayiṣyanti pārthiva tāvat kīrtiś ca lokāś ca sthāsyanti tava śāśvatāḥ 31 [l] tat pāṇḍaveya sadanaṃ rājñas tasya mahātmanaḥ paśyasvaitan mayā sārdhaṃ puṇyaṃ pāpapramocanam 32 atra vai satataṃ devā munayaś ca sanātanāḥ dṛśyante brāhmaṇai rājan puṇyavadbhir mahātmabhiḥ |
The Mahabharata in Sanskrit
Book 3
Chapter 132
|
1
[ल] यः कथ्यते मन्त्रविद अग्र्यबुद्धिर; औद्दालकिः शवेतकेतुः पृथिव्याम तस्याश्रमं पश्य नरेन्द्र पुण्यं; सदा फलैर उपपन्नं मही जैः 2 साक्षाद अत्र शवेतकेतुर ददर्श; सरॊ वतीं मानुषदेहरूपाम वेत्स्यामि वानीम इति संप्रवृत्तां; सरॊ वतीं शवेतकेतुर बभाषे 3 तस्मिन काले बरह्म विदां वरिष्ठाव; आस्तां तदा मातुलभागिनेयौ अष्टावक्रश चैव कहॊड सूनुर; औद्दालकिः शवेतकेतुश च राजन 4 विदेहराजस्य महीपतेस तौ; विप्राव उभौ मातुलभागिनेयौ परविश्य यज्ञायतनं विवादे; बन्दिं निजग्राहतुर अप्रमेयम 5 [य] कथं परभावः स बभूव विप्रस; तथायुक्तं यॊ निजग्राह बन्दिम अष्टावक्रः केन चासौ बभूव; तत सर्वं मे लॊमश शंस तत्त्वम 6 उद्दालकस्य नियतः शिष्य एकॊ; नाम्ना कहॊडेति बभूव राजन शुश्रूषुर आचार्य वशानुवर्ती; दीर्घं कालं सॊ ऽधययनं चकार 7 तं वै विप्राः पर्यभवंश च शिष्यास; तं च जञात्वा विप्रकारं गुरुः सः तस्मै परादात सद्य एव शरुतं च; भार्यां च वै दुहितरं सवां सुजाताम 8 तस्या गर्भः समभवद अग्निकल्पः; सॊ ऽधीयानं पितरम अथाभ्युवाच सर्वां रात्रिम अध्ययनं करॊषि; नेदं पितः सम्यग इवॊपवर्तते 9 उपालब्धः शिष्यमध्ये महर्षिः; स तं कॊपाद उदर सथं शशाप यस्मात कुक्षौ वर्तमानॊ बरवीषि; तस्माद वक्रॊ भवितास्य अष्ट कृत्वः 10 स वै तथा वक्र एवाभ्यजायद; अष्टावक्रः परथितॊ वै महर्षिः तस्यासीद वै मातुलः शवेतकेतुः; स तेन तुल्यॊ वयसा बभूव 11 संपीड्यमाना तु तदा सुजाता; विवर्धमानेन सुतेन कुक्षौ उवाच भर्तारम इदं रहॊगता; परसाद्य हीनं वसुना धनार्थिनी 12 कथं करिष्याम्य अधना महर्षे; मासश चायं दशमॊ वर्तते मे न चास्ति ते वसु किं चित परजाता; येनाहम एताम आपदं निस्तरेयम 13 उक्तस तव एवं भार्यया वै कहॊडॊ; वित्तस्यार्थे जनकम अथाभ्यगच्छत स वै तदा वादविदा निगृह्य; निमज्जितॊ बन्दिनेहाप्सु विप्रः 14 उद्दालकस तं तु तदा निशम्य; सूतेन वादे ऽपसु तथा निमज्जितम उवाच तां तत्र ततः सुजाताम; अष्टावक्रे गूहितव्यॊ ऽयम अर्थः 15 ररक्ष सा चाप्य अति तं सुमन्त्रं; जातॊ ऽपय एवं न स शुश्राव विप्रः उद्दालकं पितृवच चापि मेने; अष्टावक्रॊ भरातृवच छवेत केतुम 16 ततॊ वर्षे दवादशे शवेतकेतुर; अष्टावक्रं पितुर अङ्के निसन्नम अपाकर्षद गृह्य पाणौ रुदन्तं; नायं तवाङ्कः पितुर इत्य उक्तवांश च 17 यत तेनॊक्तं दुर उक्तं तत तदानीं; हृदि सथितं तस्य सुदुःखम आसीत गृहं गत्वा मातरं रॊदमानः; पप्रच्छेदं कव नु तातॊ ममेति 18 ततः सुजाता परमार्तरूपा; शापाद भीता सर्वम एवाचचक्षे तद वै तत्त्वं सर्वम आज्ञाय मातुर; इत्य अब्रवीच छवेत केतुं स विप्रः 19 गच्छाव यज्ञं जनकस्य राज्ञॊ; बह्वाश्चर्यः शरूयते तस्य यज्ञः शरॊष्यावॊ ऽतर बराह्मणानां विवादम; अन्नं चाग्र्यं तत्र भॊक्ष्यावहे च विचक्षण तवं च भविष्यते नौ; शिवश च सौम्यश च हि बरह्मघॊषः 20 तौ जग्मतुर मातुलभागिनेयौ; यज्ञं समृद्धं जनकस्य राज्ञः अष्टावक्रः पथि राज्ञा समेत्य; उत्सार्यमाणॊ वाक्यम इदं जगाद |
1
[l] yaḥ kathyate mantravid agryabuddhir; auddālakiḥ śvetaketuḥ pṛthivyām tasyāśramaṃ paśya narendra puṇyaṃ; sadā phalair upapannaṃ mahī jaiḥ 2 sākṣād atra śvetaketur dadarśa; saro vatīṃ mānuṣadeharūpām vetsyāmi vānīm iti saṃpravṛttāṃ; saro vatīṃ śvetaketur babhāṣe 3 tasmin kāle brahma vidāṃ variṣṭhāv; āstāṃ tadā mātulabhāgineyau aṣṭāvakraś caiva kahoḍa sūnur; auddālakiḥ śvetaketuś ca rājan 4 videharājasya mahīpates tau; viprāv ubhau mātulabhāgineyau praviśya yajñāyatanaṃ vivāde; bandiṃ nijagrāhatur aprameyam 5 [y] kathaṃ prabhāvaḥ sa babhūva vipras; tathāyuktaṃ yo nijagrāha bandim aṣṭāvakraḥ kena cāsau babhūva; tat sarvaṃ me lomaśa śaṃsa tattvam 6 uddālakasya niyataḥ śiṣya eko; nāmnā kahoḍeti babhūva rājan śuśrūṣur ācārya vaśānuvartī; dīrghaṃ kālaṃ so 'dhyayanaṃ cakāra 7 taṃ vai viprāḥ paryabhavaṃś ca śiṣyās; taṃ ca jñātvā viprakāraṃ guruḥ saḥ tasmai prādāt sadya eva śrutaṃ ca; bhāryāṃ ca vai duhitaraṃ svāṃ sujātām 8 tasyā garbhaḥ samabhavad agnikalpaḥ; so 'dhīyānaṃ pitaram athābhyuvāca sarvāṃ rātrim adhyayanaṃ karoṣi; nedaṃ pitaḥ samyag ivopavartate 9 upālabdhaḥ śiṣyamadhye maharṣiḥ; sa taṃ kopād udara sthaṃ śaśāpa yasmāt kukṣau vartamāno bravīṣi; tasmād vakro bhavitāsy aṣṭa kṛtvaḥ 10 sa vai tathā vakra evābhyajāyad; aṣṭāvakraḥ prathito vai maharṣiḥ tasyāsīd vai mātulaḥ śvetaketuḥ; sa tena tulyo vayasā babhūva 11 saṃpīḍyamānā tu tadā sujātā; vivardhamānena sutena kukṣau uvāca bhartāram idaṃ rahogatā; prasādya hīnaṃ vasunā dhanārthinī 12 kathaṃ kariṣyāmy adhanā maharṣe; māsaś cāyaṃ daśamo vartate me na cāsti te vasu kiṃ cit prajātā; yenāham etām āpadaṃ nistareyam 13 uktas tv evaṃ bhāryayā vai kahoḍo; vittasyārthe janakam athābhyagacchat sa vai tadā vādavidā nigṛhya; nimajjito bandinehāpsu vipraḥ 14 uddālakas taṃ tu tadā niśamya; sūtena vāde 'psu tathā nimajjitam uvāca tāṃ tatra tataḥ sujātām; aṣṭāvakre gūhitavyo 'yam arthaḥ 15 rarakṣa sā cāpy ati taṃ sumantraṃ; jāto 'py evaṃ na sa śuśrāva vipraḥ uddālakaṃ pitṛvac cāpi mene; aṣṭāvakro bhrātṛvac chveta ketum 16 tato varṣe dvādaśe śvetaketur; aṣṭāvakraṃ pitur aṅke nisannam apākarṣad gṛhya pāṇau rudantaṃ; nāyaṃ tavāṅkaḥ pitur ity uktavāṃś ca 17 yat tenoktaṃ dur uktaṃ tat tadānīṃ; hṛdi sthitaṃ tasya suduḥkham āsīt gṛhaṃ gatvā mātaraṃ rodamānaḥ; papracchedaṃ kva nu tāto mameti 18 tataḥ sujātā paramārtarūpā; śāpād bhītā sarvam evācacakṣe tad vai tattvaṃ sarvam ājñāya mātur; ity abravīc chveta ketuṃ sa vipraḥ 19 gacchāva yajñaṃ janakasya rājño; bahvāścaryaḥ śrūyate tasya yajñaḥ śroṣyāvo 'tra brāhmaṇānāṃ vivādam; annaṃ cāgryaṃ tatra bhokṣyāvahe ca vicakṣaṇa tvaṃ ca bhaviṣyate nau; śivaś ca saumyaś ca hi brahmaghoṣaḥ 20 tau jagmatur mātulabhāgineyau; yajñaṃ samṛddhaṃ janakasya rājñaḥ aṣṭāvakraḥ pathi rājñā sametya; utsāryamāṇo vākyam idaṃ jagāda |
The Mahabharata in Sanskrit
Book 3
Chapter 133
|
1
[अस्ट] अन्धस्य पन्था बधिरस्य पन्थाः; सत्रियः पन्था वैवधिकस्य पन्थाः राज्ञः पन्था बराह्मणेनासमेत्य समेत्य; तु बराह्मणस्यैव पन्थाः 2 [र] पन्था अयं ते ऽदय मया निसृष्टॊ; येनेच्छसे तेन कामं वरजस्व न पावकॊ विद्यते वै लघीयान; इन्द्रॊ ऽपि नित्यं नमते बराह्मणानाम 3 [अस्ट] यज्ञं दरष्टुं पराप्तवन्तौ सवतात; कौतूहलं नौ बलवद वै विवृद्धम आवां पराप्ताव अतिथी संप्रवेशं; काङ्क्षावहे दवारपते तवाज्ञाम 4 ऐन्द्रद्युम्नेर यज्ञदृशाव इहावां; विवक्षू वै जनकेन्द्रं दिदृक्षू न वै करॊधाद वयाधिनैवॊत्तमेन; संयॊजय दवारपाल कषणेन 5 [दवारप] बन्देः समादेश करा वयं सम; निबॊध वाक्यं च मयेर्यमाणम न वै बालाः परविशन्त्य अत्र विप्रा; वृद्धा विद्वांसः परविशन्ति दविजाग्र्याः 6 [अस्ट] यद्य अत्र वृद्धेषु कृतः परवेशॊ; युक्तं मम दवारपाल परवेष्टुम वयं हि वृद्धाश चरितव्रताश च; वेद परभावेन परवेशनार्हाः 7 शुश्रूषवश चापि जितेन्द्रियाश च; जञानागमे चापि गताः सम निष्ठाम न बाल इत्य अवमन्तव्यम आहुर; बालॊ ऽपय अग्निर दहति सपृश्यमानः 8 [दव] सरॊ वतीम ईरय वेद जुष्टाम; एकाक्षरां बहुरूपां विराजम अङ्गात्मानं समवेक्षस्व बालं; किं शलाघसे दुर लभा वादसिद्धिः 9 [अस्ट] न जञायते कायवृद्ध्या विवृद्धिर; यथाष्ठीला शाल्मलेः संप्रवृद्धा हरस्वॊ ऽलपकायः फलितॊ विवृद्धॊ; यश चाफलस तस्य न वृद्धभावः 10 वृद्धेभ्य एवेह मतिं सम बाला; गृह्णन्ति कालेन भवन्ति वृद्धाः न हि जञानम अल्पकालेन शक्यं; कस्माद बालॊ वृद्ध इवावभाषसे 11 [अस्ट] न तेन सथविरॊ भवति येनास्य पलितं शिरः बालॊ ऽपि यः परजानाति तं देवाः सथविरं विदुः 12 न हायनैर न पलितैर न वित्तेन न बन्धुभिः ऋषयश चक्रिरे धर्मं यॊ ऽनूचानः स नॊ महान 13 दिदृक्षुर अस्मि संप्राप्तॊ बन्दिनं राजसंसदि निवेदयस्व मां दवाः सथ राज्ञे पुष्कर मालिने 14 दरष्टास्य अद्य वदत दवारपाल; मनीषिभिः सह वादे विवृद्धे उताहॊ वाप्य उच्चतां नीचतां वा; तूष्णींभूतेष्व अथ सर्वेषु चाद्य 15 [दव] कथं यज्ञं दशवर्षॊ विशेस तवं; विनीतानां विदुषां संप्रवेश्यम उपायतः परयतिष्ये तवाहं; परवेशने कुरु यत्नं यथावत 16 [अस्ट] भॊ भॊ राजञ जनकानां वरिष्ठ; सभाज्यस तवं तवयि सर्वं समृद्धम तवं वा कर्ता कर्मणां यज्ञियानां; ययातिर एकॊ नृपतिर वा पुरस्तात 17 विद्वान बन्दी वेद विदॊ निगृह्य; वादे भग्नान अप्रतिशङ्कमानः तवया निसृष्टैः पुरुषैर आप्तकृद्भिर; जले सर्वान मज्जयतीति नः शरुतम 18 स तच छरुत्वा बराह्मणानां सकाशाद; बरह्मॊद्यं वै कथयितुम आगतॊ ऽसमि कवासौ बन्दी यावद एनं समेत्य; नक्षत्राणीव सविता नाशयामि 19 [र] आशंससे बन्दिनं तवं विजेतुम; अविज्ञात्वा वाक्यबलं परस्य विज्ञात वीर्यैः शक्यम एवं; परवक्तुं दृष्टश चासौ बराह्मणैर वादशीलैः 20 [अस्ट] विवादितॊ ऽसौ न हि मादृशैर हि; सिंही कृतस तेन वदत्य अभीतः समेत्य मां निहतः शेष्यते ऽदय; मार्गे भग्नं शकटम इवाबलाक्षम 21 [र] षण्णाभेर दवादशाक्षस्य चतुर्विंशतिपर्वणः यस तरिषष्टि शतारस्य वेदार्थं स परः कविः 22 [अस्ट] चतुर्विंशतिपर्व तवां षण णाभि दवादश परधि तत तरिषष्टि शतारं वै चक्रं पातु सदागति 23 [र] वडवे इव संयुक्ते शयेनपाते दिवौकसाम कस तयॊर गर्भम आधत्ते गर्भं सुषुवतुश च कम 24 मा सम ते ते गृहे राजञ शात्रवाणाम अपि धरुवम वातसारथिर आधत्ते गर्भं सुषुवतुश च तम 25 किं सवित सुप्तं न निमिषति किं सविज जातं न चॊपति कस्य सविद धृदयं नास्ति किं सविद वेगेन वर्धते 26 मत्स्यः सुप्तॊ न निमिषत्य अन्दं जातं न चॊपति अश्मनॊ हृदयं नास्ति नदीवेगेन वर्धते 27 न तवा मन्ये मानुषं देव सत्त्वं; न तवं बालः सथविरस तवं मतॊ मे न ते तुल्यॊ विद्यते वाक परलापे; तस्माद दवारं वितराम्य एष बन्दी |
1
[asṭ] andhasya panthā badhirasya panthāḥ; striyaḥ panthā vaivadhikasya panthāḥ rājñaḥ panthā brāhmaṇenāsametya sametya; tu brāhmaṇasyaiva panthāḥ 2 [r] panthā ayaṃ te 'dya mayā nisṛṣṭo; yenecchase tena kāmaṃ vrajasva na pāvako vidyate vai laghīyān; indro 'pi nityaṃ namate brāhmaṇānām 3 [asṭ] yajñaṃ draṣṭuṃ prāptavantau svatāta; kautūhalaṃ nau balavad vai vivṛddham āvāṃ prāptāv atithī saṃpraveśaṃ; kāṅkṣāvahe dvārapate tavājñām 4 aindradyumner yajñadṛśāv ihāvāṃ; vivakṣū vai janakendraṃ didṛkṣū na vai krodhād vyādhinaivottamena; saṃyojaya dvārapāla kṣaṇena 5 [dvārap] bandeḥ samādeśa karā vayaṃ sma; nibodha vākyaṃ ca mayeryamāṇam na vai bālāḥ praviśanty atra viprā; vṛddhā vidvāṃsaḥ praviśanti dvijāgryāḥ 6 [asṭ] yady atra vṛddheṣu kṛtaḥ praveśo; yuktaṃ mama dvārapāla praveṣṭum vayaṃ hi vṛddhāś caritavratāś ca; veda prabhāvena praveśanārhāḥ 7 śuśrūṣavaś cāpi jitendriyāś ca; jñānāgame cāpi gatāḥ sma niṣṭhām na bāla ity avamantavyam āhur; bālo 'py agnir dahati spṛśyamānaḥ 8 [dv] saro vatīm īraya veda juṣṭām; ekākṣarāṃ bahurūpāṃ virājam aṅgātmānaṃ samavekṣasva bālaṃ; kiṃ ślāghase dur labhā vādasiddhiḥ 9 [asṭ] na jñāyate kāyavṛddhyā vivṛddhir; yathāṣṭhīlā śālmaleḥ saṃpravṛddhā hrasvo 'lpakāyaḥ phalito vivṛddho; yaś cāphalas tasya na vṛddhabhāvaḥ 10 vṛddhebhya eveha matiṃ sma bālā; gṛhṇanti kālena bhavanti vṛddhāḥ na hi jñānam alpakālena śakyaṃ; kasmād bālo vṛddha ivāvabhāṣase 11 [asṭ] na tena sthaviro bhavati yenāsya palitaṃ śiraḥ bālo 'pi yaḥ prajānāti taṃ devāḥ sthaviraṃ viduḥ 12 na hāyanair na palitair na vittena na bandhubhiḥ ṛṣayaś cakrire dharmaṃ yo 'nūcānaḥ sa no mahān 13 didṛkṣur asmi saṃprāpto bandinaṃ rājasaṃsadi nivedayasva māṃ dvāḥ stha rājñe puṣkara māline 14 draṣṭāsy adya vadata dvārapāla; manīṣibhiḥ saha vāde vivṛddhe utāho vāpy uccatāṃ nīcatāṃ vā; tūṣṇīṃbhūteṣv atha sarveṣu cādya 15 [dv] kathaṃ yajñaṃ daśavarṣo viśes tvaṃ; vinītānāṃ viduṣāṃ saṃpraveśyam upāyataḥ prayatiṣye tavāhaṃ; praveśane kuru yatnaṃ yathāvat 16 [asṭ] bho bho rājañ janakānāṃ variṣṭha; sabhājyas tvaṃ tvayi sarvaṃ samṛddham tvaṃ vā kartā karmaṇāṃ yajñiyānāṃ; yayātir eko nṛpatir vā purastāt 17 vidvān bandī veda vido nigṛhya; vāde bhagnān apratiśaṅkamānaḥ tvayā nisṛṣṭaiḥ puruṣair āptakṛdbhir; jale sarvān majjayatīti naḥ śrutam 18 sa tac chrutvā brāhmaṇānāṃ sakāśād; brahmodyaṃ vai kathayitum āgato 'smi kvāsau bandī yāvad enaṃ sametya; nakṣatrāṇīva savitā nāśayāmi 19 [r] āśaṃsase bandinaṃ tvaṃ vijetum; avijñātvā vākyabalaṃ parasya vijñāta vīryaiḥ śakyam evaṃ; pravaktuṃ dṛṣṭaś cāsau brāhmaṇair vādaśīlaiḥ 20 [asṭ] vivādito 'sau na hi mādṛśair hi; siṃhī kṛtas tena vadaty abhītaḥ sametya māṃ nihataḥ śeṣyate 'dya; mārge bhagnaṃ śakaṭam ivābalākṣam 21 [r] ṣaṇṇābher dvādaśākṣasya caturviṃśatiparvaṇaḥ yas triṣaṣṭi śatārasya vedārthaṃ sa paraḥ kaviḥ 22 [asṭ] caturviṃśatiparva tvāṃ ṣaṇ ṇābhi dvādaśa pradhi tat triṣaṣṭi śatāraṃ vai cakraṃ pātu sadāgati 23 [r] vaḍave iva saṃyukte śyenapāte divaukasām kas tayor garbham ādhatte garbhaṃ suṣuvatuś ca kam 24 mā sma te te gṛhe rājañ śātravāṇām api dhruvam vātasārathir ādhatte garbhaṃ suṣuvatuś ca tam 25 kiṃ svit suptaṃ na nimiṣati kiṃ svij jātaṃ na copati kasya svid dhṛdayaṃ nāsti kiṃ svid vegena vardhate 26 matsyaḥ supto na nimiṣaty andaṃ jātaṃ na copati aśmano hṛdayaṃ nāsti nadīvegena vardhate 27 na tvā manye mānuṣaṃ deva sattvaṃ; na tvaṃ bālaḥ sthaviras tvaṃ mato me na te tulyo vidyate vāk pralāpe; tasmād dvāraṃ vitarāmy eṣa bandī |
The Mahabharata in Sanskrit
Book 3
Chapter 134
|
1
[अस्त] अत्रॊग्रसेनसमितेषु राजन; समागतेष्व अप्रतिमेषु राजसु न वै विवित्सान्तरम अस्ति वादिनां; महाजले हंसनिनादिनाम इव 2 न मे ऽदय वक्ष्यस्य अति वादिमानिन; गलहं पर पन्नः सरिताम इवागमः हुताशनस्येव समिद्ध तेजसः; सथिरॊ भवस्वेह ममाद्य बन्दिन 3 वयाघ्रं शयानं परति मा परबॊधय; आशीविषं सृक्किणी लेलिहानम पदाहतस्येव शिरॊ ऽभिहत्य; नादष्टॊ वै मॊक्ष्यसे तन निबॊध 4 यॊ वै दर्पात संहननॊपपन्नः; सुदुर्बलः पर्वतम आविहन्ति तस्यैव पाणिः सनखॊ विशीर्यते; न चैव शैलस्य हि दृश्यते वरणः 5 सर्वे राज्ञॊ मैथिलस्य मैनाकस्येव पर्वताः निकृष्ट भूता राजानॊ वत्सा अनदुहॊ यथा 6 अस्तावक्रः समितौ गर्जमानॊ; जातक्रॊधॊ बन्दिनम आह राजन उक्ते वाक्ये चॊत्तरं मे बरवीहि; वाक्यस्य चाप्य उत्तरं ते बरवीमि 7 एक एवाग्निर बहुधा समिध्यते; एकः सूर्यः सर्वम इदं परभाषते एकॊ वीरॊ देवराजॊ निहन्ता; यमः पितॄणाम ईश्वरश चैक एव 8 दवाव इन्द्राग्नी चरतॊ वै सखायौ; दवौ देवर्षी नारदः पर्वतश च दवाव अश्विनौ दवे च रथस्य चक्रे; भार्या पती दवौ विहितौ विधात्रा 9 तरिः सूयते कर्मणा वै परजेयं; तरयॊ युक्ता वाजपेयं वहन्ति अध्वर्यवस तरिसवनानि तन्वते; तरयॊ लॊकास तरीणि जयॊतींसि चाहुः 10 चतुष्टयं बराह्मणानां निकेतं; चत्वारॊ युक्ता यज्ञम इमं वहन्ति दिशश चतस्रश चतुरश च वर्णाश; चतुस्पदा गौर अपि शश्वद उक्ता 11 पञ्चाग्नयः पञ्च पदा च पङ्क्तिर; यज्ञाः पञ्चैवाप्य अथ पञ्चेन्द्रियाणि दृष्टा वेदे पञ्च चूदाश च पञ्च; लॊके खयातं पञ्चनदं च पुण्यम 12 षडाधाने दक्षिणाम आहुर एके; षड एवेमे ऋतवः कालचक्रम षड इन्द्रियाण्य उत षट कृत्तिकाश च; षट साद्यस्काः सर्ववेदेषु दुष्टाः 13 सप्त गराम्याः पशवः सप्त वन्याः; सप्त छन्दांसि करतुम एकं वहन्ति सप्तर्षयः सप्त चाप्य अर्हणानि; सप्त तन्त्री परथिता चैव वीना 14 अष्टौ शाणाः शतमानं वहन्ति; तथाष्ट पादः शरभः सिंहघाती अष्टौ वसूञ शुश्रुम देवतासु; यूपश चाष्टास्रिर विहितः सर्वयज्ञः 15 नवैवॊक्ताः सामिधेन्यः पितॄणां; तथा पराहुर नव यॊगं विषर्गम नवाक्षरा बृहती संप्रदिष्टा; नव यॊगॊ गणनामेति शश्वत 16 दशा दशॊक्ताः पुरुषस्य लॊके; सहस्रम आहुर दश पूर्णं शतानि दशैव मासान बिभ्रति गर्भवत्यॊ; दशेरका दश दाशा दशार्णाः 17 एकादशैकादशिनः पशूनाम; एकादशैवात्र भवन्ति यूपाः एकादश पराणभृतां विकारा; एकादशॊक्ता दिवि देवेषु रुद्राः 18 संवत्सरं दवादश मासम आहुर; जगत्याः पादॊ दवादशैवाक्षराणि दवादशाहः पराकृतॊ यज्ञ उक्तॊ; दवादशादित्यान कथयन्तीह विप्राः 19 तरयॊदशी तिथिर उक्ता महॊग्रा; तरयॊदशद्वीपवती मही च 20 एतावद उक्त्वा विरराम बन्दी; शलॊकस्यार्धं वयाजहाराष्टवक्रः तरयॊदशाहानि ससार केशी; तरयॊदशादीन्य अतिच्छन्दांसि चाहुः 21 ततॊ महान उदतिष्ठन निनादस; तूष्णींभूतं सूतपुत्रं निशम्य अधॊमुखं धयानपरं तदानीम; अस्तावक्रं चाप्य उदीर्यन्तम एव 22 तस्मिंस तथा संकुले वर्तमाने; सफीते यज्ञे जनकस्याथ राज्ञः अस्तावक्रं पूजयन्तॊ ऽभयुपेयुर; विप्राः सर्वे पराञ्जलयः परतीताः 23 अनेन वै बराह्मणाः शुश्रुवांसॊ; वादे जित्वा सलिले मज्जिताः किल तान एव धर्मान अयम अद्य बन्दी; पराप्नॊतु गृह्याप्सु निमज्जयैनम 24 अहं पुत्रॊ वरुणस्यॊत राज्ञस; तत्रास सत्रं दवादश वार्षिकं वै सत्रेण ते जनक तुल्यकालं; तदर्थं ते परहिता मे दविजाग्र्याः 25 एते सर्वे वरुणस्यॊत यज्ञं; दरष्टुं गता इह आयान्ति भूयः अस्तावक्रं पूजये पूजनीयं; यस्य हेतॊर जनितारं समेष्ये 26 विप्राः समुद्राम्भसि मज्जितास ते; वाचा जिता मेधया आविदानाः तां मेधया वाचम अथॊज्जहार; यथा वाचम अवचिन्वन्ति सन्तः 27 अग्निर दहञ जातवेदाः सतां गृहान; विसर्जयंस तेजसा न सम धाक्षीत बालेषु पुत्रेषु कृपणं वदत्सु; तथा वाचम अवचिन्वन्ति सन्तः 28 शलेष्मातकी कषीणवर्चः शृणॊषि; उताहॊ तवां सतुतयॊ मादयन्ति हस्तीव तवं जनक वितुद्यमानॊ; न मामिकां वाचम इमां शृणॊषि 29 शृणॊमि वाचं तव दिव्यरूपाम; अमानुषीं दिव्यरूपॊ ऽसि साक्षात अजैसीर यद बन्दिनं तवं विवादे; निसृष्टैव तव कामॊ ऽदय बन्दी 30 नानेन जीवता कश चिद अर्थॊ मे बन्दिना नृप पिता यद्य अस्य वरुणॊ मज्जयैनं जलाशये 31 अहं पुत्रॊ वरुणस्यॊत राज्ञॊ; न मे भयं सलिले मज्जितस्य इमं मुहूर्तं पितरं दरक्ष्यते ऽयम; अष्टावक्रश चिरनष्टं कहॊडम 32 ततस ते पूजिता विप्रा वरुणेन महात्मना उदतिष्ठन्त ते सर्वे जनकस्य समीपतः 33 इत्य अर्थम इच्छन्ति सुताञ जना जनक कर्मणा यद अहं नाशकं कर्तुं तत पुत्रः कृतवान मम 34 उताबलस्य बलवान उत बालस्य पण्डितः उत वाविदुसॊ विद्वान पुत्रॊ जनक जायते 35 शितेन ते परशुना सवयम एवान्तकॊ नृप शिरांस्य अपाहरत्व आजौ रिपूणां भद्रम अस्तु ते 36 महद उक्थ्यं गीयते साम चाग्र्यं; सम्यक सॊमः पीयते चात्र सत्रे शुचीन भागान परतिजगृहुश च हृष्टाः; साक्षाद देवा जनकस्येह यज्ञे 37 समुत्थितेष्व अथ सर्वेषु राजन; विप्रेषु तेष्व अधिकं सुप्रभेषु अनुज्ञातॊ जनकेनाथ राज्ञा; विवेश तॊयं सागरस्यॊत बन्दी 38 अस्तावक्रः पितरं पूजयित्वा; संपूजितॊ बराह्मणैस तैर यथावत परत्याजगामाश्रमम एव चाग्र्यं; जित्वा बन्दिं सहितॊ मातुलेन 39 अत्र कौन्तेय सहितॊ भरातृभिस तवं; सुखॊषितः सह विप्रैः परतीतः पुण्यान्य अन्यानि शुचि कर्मैक भक्तिर; मया सार्धं चरितास्य आजमीध |
1
[ast] atrograsenasamiteṣu rājan; samāgateṣv apratimeṣu rājasu na vai vivitsāntaram asti vādināṃ; mahājale haṃsaninādinām iva 2 na me 'dya vakṣyasy ati vādimānin; glahaṃ pra pannaḥ saritām ivāgamaḥ hutāśanasyeva samiddha tejasaḥ; sthiro bhavasveha mamādya bandin 3 vyāghraṃ śayānaṃ prati mā prabodhaya; āśīviṣaṃ sṛkkiṇī lelihānam padāhatasyeva śiro 'bhihatya; nādaṣṭo vai mokṣyase tan nibodha 4 yo vai darpāt saṃhananopapannaḥ; sudurbalaḥ parvatam āvihanti tasyaiva pāṇiḥ sanakho viśīryate; na caiva śailasya hi dṛśyate vraṇaḥ 5 sarve rājño maithilasya mainākasyeva parvatāḥ nikṛṣṭa bhūtā rājāno vatsā anaduho yathā 6 astāvakraḥ samitau garjamāno; jātakrodho bandinam āha rājan ukte vākye cottaraṃ me bravīhi; vākyasya cāpy uttaraṃ te bravīmi 7 eka evāgnir bahudhā samidhyate; ekaḥ sūryaḥ sarvam idaṃ prabhāṣate eko vīro devarājo nihantā; yamaḥ pitṝṇām īśvaraś caika eva 8 dvāv indrāgnī carato vai sakhāyau; dvau devarṣī nāradaḥ parvataś ca dvāv aśvinau dve ca rathasya cakre; bhāryā patī dvau vihitau vidhātrā 9 triḥ sūyate karmaṇā vai prajeyaṃ; trayo yuktā vājapeyaṃ vahanti adhvaryavas trisavanāni tanvate; trayo lokās trīṇi jyotīṃsi cāhuḥ 10 catuṣṭayaṃ brāhmaṇānāṃ niketaṃ; catvāro yuktā yajñam imaṃ vahanti diśaś catasraś caturaś ca varṇāś; catuspadā gaur api śaśvad uktā 11 pañcāgnayaḥ pañca padā ca paṅktir; yajñāḥ pañcaivāpy atha pañcendriyāṇi dṛṣṭā vede pañca cūdāś ca pañca; loke khyātaṃ pañcanadaṃ ca puṇyam 12 ṣaḍādhāne dakṣiṇām āhur eke; ṣaḍ eveme ṛtavaḥ kālacakram ṣaḍ indriyāṇy uta ṣaṭ kṛttikāś ca; ṣaṭ sādyaskāḥ sarvavedeṣu duṣṭāḥ 13 sapta grāmyāḥ paśavaḥ sapta vanyāḥ; sapta chandāṃsi kratum ekaṃ vahanti saptarṣayaḥ sapta cāpy arhaṇāni; sapta tantrī prathitā caiva vīnā 14 aṣṭau śāṇāḥ śatamānaṃ vahanti; tathāṣṭa pādaḥ śarabhaḥ siṃhaghātī aṣṭau vasūñ śuśruma devatāsu; yūpaś cāṣṭāsrir vihitaḥ sarvayajñaḥ 15 navaivoktāḥ sāmidhenyaḥ pitṝṇāṃ; tathā prāhur nava yogaṃ viṣargam navākṣarā bṛhatī saṃpradiṣṭā; nava yogo gaṇanāmeti śaśvat 16 daśā daśoktāḥ puruṣasya loke; sahasram āhur daśa pūrṇaṃ śatāni daśaiva māsān bibhrati garbhavatyo; daśerakā daśa dāśā daśārṇāḥ 17 ekādaśaikādaśinaḥ paśūnām; ekādaśaivātra bhavanti yūpāḥ ekādaśa prāṇabhṛtāṃ vikārā; ekādaśoktā divi deveṣu rudrāḥ 18 saṃvatsaraṃ dvādaśa māsam āhur; jagatyāḥ pādo dvādaśaivākṣarāṇi dvādaśāhaḥ prākṛto yajña ukto; dvādaśādityān kathayantīha viprāḥ 19 trayodaśī tithir uktā mahogrā; trayodaśadvīpavatī mahī ca 20 etāvad uktvā virarāma bandī; ślokasyārdhaṃ vyājahārāṣṭavakraḥ trayodaśāhāni sasāra keśī; trayodaśādīny aticchandāṃsi cāhuḥ 21 tato mahān udatiṣṭhan ninādas; tūṣṇīṃbhūtaṃ sūtaputraṃ niśamya adhomukhaṃ dhyānaparaṃ tadānīm; astāvakraṃ cāpy udīryantam eva 22 tasmiṃs tathā saṃkule vartamāne; sphīte yajñe janakasyātha rājñaḥ astāvakraṃ pūjayanto 'bhyupeyur; viprāḥ sarve prāñjalayaḥ pratītāḥ 23 anena vai brāhmaṇāḥ śuśruvāṃso; vāde jitvā salile majjitāḥ kila tān eva dharmān ayam adya bandī; prāpnotu gṛhyāpsu nimajjayainam 24 ahaṃ putro varuṇasyota rājñas; tatrāsa satraṃ dvādaśa vārṣikaṃ vai satreṇa te janaka tulyakālaṃ; tadarthaṃ te prahitā me dvijāgryāḥ 25 ete sarve varuṇasyota yajñaṃ; draṣṭuṃ gatā iha āyānti bhūyaḥ astāvakraṃ pūjaye pūjanīyaṃ; yasya hetor janitāraṃ sameṣye 26 viprāḥ samudrāmbhasi majjitās te; vācā jitā medhayā āvidānāḥ tāṃ medhayā vācam athojjahāra; yathā vācam avacinvanti santaḥ 27 agnir dahañ jātavedāḥ satāṃ gṛhān; visarjayaṃs tejasā na sma dhākṣīt bāleṣu putreṣu kṛpaṇaṃ vadatsu; tathā vācam avacinvanti santaḥ 28 śleṣmātakī kṣīṇavarcaḥ śṛṇoṣi; utāho tvāṃ stutayo mādayanti hastīva tvaṃ janaka vitudyamāno; na māmikāṃ vācam imāṃ śṛṇoṣi 29 śṛṇomi vācaṃ tava divyarūpām; amānuṣīṃ divyarūpo 'si sākṣāt ajaisīr yad bandinaṃ tvaṃ vivāde; nisṛṣṭaiva tava kāmo 'dya bandī 30 nānena jīvatā kaś cid artho me bandinā nṛpa pitā yady asya varuṇo majjayainaṃ jalāśaye 31 ahaṃ putro varuṇasyota rājño; na me bhayaṃ salile majjitasya imaṃ muhūrtaṃ pitaraṃ drakṣyate 'yam; aṣṭāvakraś ciranaṣṭaṃ kahoḍam 32 tatas te pūjitā viprā varuṇena mahātmanā udatiṣṭhanta te sarve janakasya samīpataḥ 33 ity artham icchanti sutāñ janā janaka karmaṇā yad ahaṃ nāśakaṃ kartuṃ tat putraḥ kṛtavān mama 34 utābalasya balavān uta bālasya paṇḍitaḥ uta vāviduso vidvān putro janaka jāyate 35 śitena te paraśunā svayam evāntako nṛpa śirāṃsy apāharatv ājau ripūṇāṃ bhadram astu te 36 mahad ukthyaṃ gīyate sāma cāgryaṃ; samyak somaḥ pīyate cātra satre śucīn bhāgān pratijagṛhuś ca hṛṣṭāḥ; sākṣād devā janakasyeha yajñe 37 samutthiteṣv atha sarveṣu rājan; vipreṣu teṣv adhikaṃ suprabheṣu anujñāto janakenātha rājñā; viveśa toyaṃ sāgarasyota bandī 38 astāvakraḥ pitaraṃ pūjayitvā; saṃpūjito brāhmaṇais tair yathāvat pratyājagāmāśramam eva cāgryaṃ; jitvā bandiṃ sahito mātulena 39 atra kaunteya sahito bhrātṛbhis tvaṃ; sukhoṣitaḥ saha vipraiḥ pratītaḥ puṇyāny anyāni śuci karmaika bhaktir; mayā sārdhaṃ caritāsy ājamīdha |
The Mahabharata in Sanskrit
Book 3
Chapter 135
|
1
[लॊम] एषा मधुविला राजन समङ्गा संप्रकाशते एतत कर्दमिलं नाम भरतस्याभिसेचनम 2 अलक्ष्म्या किल संयुक्तॊ वृत्रंहत्वा शचीपतिः आप्लुतः सर्वपापेभ्यः समङ्गायां वयमुच्यत 3 एतद विनशनं कुक्षौ मैनाकस्य नरर्षभ अदितिर यत्र पुत्रार्थं तदन्नम अपचत पुरा 4 एनं पर्वतराजानम आरुह्य पुरुसर्षभ अयशस्याम असंशब्द्याम अलक्ष्मीं वयपनॊत्स्यथ 5 एते कनखला राजन ऋषीणां दयिता नगाः एषा परकाशते गङ्गा युधिष्ठिर महानदी 6 सनत्कुमारॊ भगवान अत्र सिद्धिम अगात पराम आजमीधावगाह्यैनां सर्वपापैः परमॊक्ष्यसे 7 अपां हरदं च पुण्याख्यं भृगुतुङ्गं च पर्वतम तूष्णीं गङ्गां च कौन्तेय सामात्यः समुपस्पृश 8 आश्रमः सथूलशिरसॊ रमणीयः परकाशते अत्र मानं च कौन्तेय करॊधं चैव विवर्जय 9 एष रैभ्याश्रमः शरीमान पाण्डवेय परकाशते भारद्वाजॊ यत्र कविर यवक्रीतॊ वयनश्यत 10 कथं युक्तॊ ऽभवद ऋषिर भरद्वाजः परतापवान किमर्थं च यवक्रीत ऋषिपुत्रॊ वयनश्यत 11 एतत सर्वं यथावृत्तं शरॊतुम इच्छामि लॊमश कर्मभिर देवकल्पानां कीर्त्यमानैर भृशं रमे 12 भरद्वाजश च रैभ्यश च सखायौ संबभूवतुः ताव ऊषतुर इहात्यन्तं परीयमाणौ वनान्तरे 13 रैभ्यस्य तु सुताव आस्ताम अर्वावसु परावसू आसीद यवक्रीः पुत्रस तु भरद्वाजस्य भारत 14 रैभ्यॊ विद्वान सहापत्यस तपॊ वी चेतरॊ ऽभवत तयॊश चाप्य अतुला परीतिर बाल्यात परभृति भारत 15 यवक्रीः पितरं दृष्ट्वा तपॊ विनम असत्कृतम दृष्ट्वा च सत्कृतं विप्रै रैभ्यं पुत्रैः सहानघ 16 पर्यतप्यत तेजॊ वी मन्युनाभिपरिप्लुतः तपस तेपे ततॊ घॊरं वेद जञानाय पाण्डव 17 सुसमिद्धे महत्य अग्नौ शरीरम उपतापयन जनयाम आस संतापम इन्द्रस्य सुमहातपः 18 तत इन्द्रॊ यवक्रीतम उपगम्य युधिष्ठिर अब्रवीत कस्य हेतॊस तवम आस्थितस तप उत्तमम 19 दविजानाम अनधीता वै वेदाः सुरगरार्चित परतिभान्त्व इति तप्ये ऽहम इदं परमकं तपः 20 सवाध्यायार्थे समारम्भॊ ममायं पाकशासन तपसा जञातुम इच्छामि सर्वज्ञानानि कौशिक 21 कालेन महता वेदाः शक्या गुरु मुखाद विभॊ पराप्तुं तस्माद अयं यत्नः परमॊ मे समास्थितः 22 अमार्ग एष विप्रर्षे येन तवं यातुम इच्छसि किं विघातेन ते विप्र गच्छाधीहि गुरॊर मुखात 23 एवम उक्त्वा गतः शक्रॊ यवक्रीर अपि भारत भूय एवाकरॊद यत्नं तपस्य अमितविक्रम 24 घॊरेण तपसा राजंस तप्यमानॊ महातपः संतापयाम आस भृशं देवेन्द्रम इति नः शरुतम 25 तं तथा तप्यमानं तु तपस तीव्रं महामुनिम उपेत्य बलभिद देवॊ वारयाम आस वै पुनः 26 अशक्यॊ ऽरथः समारब्धॊ नैतद बुद्धिकृतं तव परतिभास्यन्ति वै वेदास तव चैव पितुर च ते 27 न चैतद एवं करियते देवराजममेप्सितम महता नियमेनाहं तप्स्ये घॊरतरं तपः 28 समिद्धे ऽगनाव उपकृत्याङ्गम अङ्गं; हॊष्यामि वा मघवंस तन निबॊध यद्य एतद एवं न करॊषि कामं; ममेप्सितं देवराजेह सर्वम 29 निश्चयं तम अभिज्ञाय मुनेस तस्य महात्मनः परतिवारण हेत्वर्थं बुद्ध्या संचिन्त्य बुद्धिमान 30 तत इन्द्रॊ ऽकरॊद रूपं बराह्मणस्य तपॊ विनः अनेकशतवर्षस्य दुर्बलस्य स यक्ष्मणः 31 यवक्रीतस्य यत तीर्थम उचितं शौचकर्मणि भागीरथ्यां तत्र सेतुं वालुकाभिश च चारसः 32 यदास्य वदतॊ वाक्यं न सचक्रे दविजॊत्तमः वालुकाभिस ततः शक्रॊ गङ्गां समभिपूरयन 33 वालुका मुष्टिम अनिशं भागीरथ्यां वयसर्जयत सेतुम अभ्यारभच छक्रॊ यवक्रीतं निदर्शयन 34 तं ददर्श यवक्रीस तु यत्नवन्तं निबन्धने परहसंश चाब्रवीद वाक्यम इदं स मुनिपुंगवः 35 किम इदं वर्तते बरह्मन किं च ते ह चिकीर्षितम अतीव हि महान यत्नः करियते ऽयं निरर्थकः 36 बन्धिष्ये सेतुना गङ्गां सुखः पन्था भविष्यति कलिश्यते हि जनस तात तरमाणः पुनः पुनः 37 नायं शक्यस तवया बद्धुं महान ओघः कथं चन अशक्याद विनिवर्तस्व शक्यम अर्थं समारभ 38 यथैव भवता चेदं तपॊ वेदार्थम उद्यतम अशक्यं तद्वद अस्माभिर अयं भारः समुद्यतः 39 यथा तव निरर्थॊ ऽयम आरम्भस तरिदशेश्वर तथा यदि ममापीदं मन्यसे पाकशासन 40 करियतां यद भवेच छक्यं मया सुरगणेश्वर वरांश च मे परयच्छान्यान यैर अन्यान भवितास्म्य अति 41 तस्मै परादाद वरान इन्द्र उक्तवान यान महातपः परतिभास्यन्ति ते वेदाः पित्रा सह यथेप्सिताः 42 यच चान्यत काङ्क्षसे कामं यवक्रीर गम्यताम इति स लब्धकामः पितरम उपेत्याथ ततॊ ऽबरवीत |
1
[lom] eṣā madhuvilā rājan samaṅgā saṃprakāśate etat kardamilaṃ nāma bharatasyābhisecanam 2 alakṣmyā kila saṃyukto vṛtraṃhatvā śacīpatiḥ āplutaḥ sarvapāpebhyaḥ samaṅgāyāṃ vyamucyata 3 etad vinaśanaṃ kukṣau mainākasya nararṣabha aditir yatra putrārthaṃ tadannam apacat purā 4 enaṃ parvatarājānam āruhya purusarṣabha ayaśasyām asaṃśabdyām alakṣmīṃ vyapanotsyatha 5 ete kanakhalā rājan ṛṣīṇāṃ dayitā nagāḥ eṣā prakāśate gaṅgā yudhiṣṭhira mahānadī 6 sanatkumāro bhagavān atra siddhim agāt parām ājamīdhāvagāhyaināṃ sarvapāpaiḥ pramokṣyase 7 apāṃ hradaṃ ca puṇyākhyaṃ bhṛgutuṅgaṃ ca parvatam tūṣṇīṃ gaṅgāṃ ca kaunteya sāmātyaḥ samupaspṛśa 8 āśramaḥ sthūlaśiraso ramaṇīyaḥ prakāśate atra mānaṃ ca kaunteya krodhaṃ caiva vivarjaya 9 eṣa raibhyāśramaḥ śrīmān pāṇḍaveya prakāśate bhāradvājo yatra kavir yavakrīto vyanaśyata 10 kathaṃ yukto 'bhavad ṛṣir bharadvājaḥ pratāpavān kimarthaṃ ca yavakrīta ṛṣiputro vyanaśyata 11 etat sarvaṃ yathāvṛttaṃ śrotum icchāmi lomaśa karmabhir devakalpānāṃ kīrtyamānair bhṛśaṃ rame 12 bharadvājaś ca raibhyaś ca sakhāyau saṃbabhūvatuḥ tāv ūṣatur ihātyantaṃ prīyamāṇau vanāntare 13 raibhyasya tu sutāv āstām arvāvasu parāvasū āsīd yavakrīḥ putras tu bharadvājasya bhārata 14 raibhyo vidvān sahāpatyas tapo vī cetaro 'bhavat tayoś cāpy atulā prītir bālyāt prabhṛti bhārata 15 yavakrīḥ pitaraṃ dṛṣṭvā tapo vinam asatkṛtam dṛṣṭvā ca satkṛtaṃ viprai raibhyaṃ putraiḥ sahānagha 16 paryatapyata tejo vī manyunābhipariplutaḥ tapas tepe tato ghoraṃ veda jñānāya pāṇḍava 17 susamiddhe mahaty agnau śarīram upatāpayan janayām āsa saṃtāpam indrasya sumahātapaḥ 18 tata indro yavakrītam upagamya yudhiṣṭhira abravīt kasya hetos tvam āsthitas tapa uttamam 19 dvijānām anadhītā vai vedāḥ suragarārcita pratibhāntv iti tapye 'ham idaṃ paramakaṃ tapaḥ 20 svādhyāyārthe samārambho mamāyaṃ pākaśāsana tapasā jñātum icchāmi sarvajñānāni kauśika 21 kālena mahatā vedāḥ śakyā guru mukhād vibho prāptuṃ tasmād ayaṃ yatnaḥ paramo me samāsthitaḥ 22 amārga eṣa viprarṣe yena tvaṃ yātum icchasi kiṃ vighātena te vipra gacchādhīhi guror mukhāt 23 evam uktvā gataḥ śakro yavakrīr api bhārata bhūya evākarod yatnaṃ tapasy amitavikrama 24 ghoreṇa tapasā rājaṃs tapyamāno mahātapaḥ saṃtāpayām āsa bhṛśaṃ devendram iti naḥ śrutam 25 taṃ tathā tapyamānaṃ tu tapas tīvraṃ mahāmunim upetya balabhid devo vārayām āsa vai punaḥ 26 aśakyo 'rthaḥ samārabdho naitad buddhikṛtaṃ tava pratibhāsyanti vai vedās tava caiva pitur ca te 27 na caitad evaṃ kriyate devarājamamepsitam mahatā niyamenāhaṃ tapsye ghorataraṃ tapaḥ 28 samiddhe 'gnāv upakṛtyāṅgam aṅgaṃ; hoṣyāmi vā maghavaṃs tan nibodha yady etad evaṃ na karoṣi kāmaṃ; mamepsitaṃ devarājeha sarvam 29 niścayaṃ tam abhijñāya munes tasya mahātmanaḥ prativāraṇa hetvarthaṃ buddhyā saṃcintya buddhimān 30 tata indro 'karod rūpaṃ brāhmaṇasya tapo vinaḥ anekaśatavarṣasya durbalasya sa yakṣmaṇaḥ 31 yavakrītasya yat tīrtham ucitaṃ śaucakarmaṇi bhāgīrathyāṃ tatra setuṃ vālukābhiś ca cārasaḥ 32 yadāsya vadato vākyaṃ na sacakre dvijottamaḥ vālukābhis tataḥ śakro gaṅgāṃ samabhipūrayan 33 vālukā muṣṭim aniśaṃ bhāgīrathyāṃ vyasarjayat setum abhyārabhac chakro yavakrītaṃ nidarśayan 34 taṃ dadarśa yavakrīs tu yatnavantaṃ nibandhane prahasaṃś cābravīd vākyam idaṃ sa munipuṃgavaḥ 35 kim idaṃ vartate brahman kiṃ ca te ha cikīrṣitam atīva hi mahān yatnaḥ kriyate 'yaṃ nirarthakaḥ 36 bandhiṣye setunā gaṅgāṃ sukhaḥ panthā bhaviṣyati kliśyate hi janas tāta taramāṇaḥ punaḥ punaḥ 37 nāyaṃ śakyas tvayā baddhuṃ mahān oghaḥ kathaṃ cana aśakyād vinivartasva śakyam arthaṃ samārabha 38 yathaiva bhavatā cedaṃ tapo vedārtham udyatam aśakyaṃ tadvad asmābhir ayaṃ bhāraḥ samudyataḥ 39 yathā tava nirartho 'yam ārambhas tridaśeśvara tathā yadi mamāpīdaṃ manyase pākaśāsana 40 kriyatāṃ yad bhavec chakyaṃ mayā suragaṇeśvara varāṃś ca me prayacchānyān yair anyān bhavitāsmy ati 41 tasmai prādād varān indra uktavān yān mahātapaḥ pratibhāsyanti te vedāḥ pitrā saha yathepsitāḥ 42 yac cānyat kāṅkṣase kāmaṃ yavakrīr gamyatām iti sa labdhakāmaḥ pitaram upetyātha tato 'bravīt |
The Mahabharata in Sanskrit
Book 3
Chapter 136
|
1
[यव] परतिभास्यन्ति वै वेदा मम तातस्य चॊभयॊः अति चान्यान भविष्यावॊ वरा लब्धास तथा मया 2 [भरद] दर्पस ते भविता तात वराँल लब्ध्वा यथेप्सितान स दर्पपूर्णः कृपणः कषिप्रम एव विनश्यसि 3 अत्राप्य उदाहरन्तीमा गाथा देवैर उदाहृताः ऋषिर आसीत पुरा पुत्र बालधिर नाम वीर्यवान 4 सपुत्रशॊकाद उद्विग्नस तपस तेपे सुदुश्चरम भवेन मम सुतॊ ऽमर्त्य इति तं लब्धवांश च सः 5 तस्य परसादॊ देवैश च कृतॊ न तव अमरैः समः नामर्त्यॊ विद्यते मर्त्यॊ निमित्तायुर भविष्यति 6 [ब] यथेमे पर्वताः शश्वत तिष्ठन्ति सुरसत्तमाः अक्षयास तन्निमित्तं मे सुतस्यायुर भवेद इति 7 तस्य पुत्रस तदा जज्ञे मेधावी करॊधनः सदा स तच छरुत्वाकरॊद दर्पम ऋषींश चैवावमन्यत 8 विकुर्वाणॊ मुनीनां तु चरमाणॊ महीम इमाम आससाद महावीर्यं धनुषाक्षं मनीषिणम 9 तस्यापचक्रे मेधावी तं शशाप स वीर्यवान भव भस्मेति चॊक्तः स न भस्म समपद्यत 10 धनुषाक्षस तु तं दृष्ट्वा मेधाविनम अनामयम निमित्तम अस्य महिषैर भेदयाम आस वीर्यवान 11 स निमित्ते विनस्ते तु ममार सहसा शिशुः तं मृतं पुत्रम आदाय विललाप ततः पिता 12 लालप्यमानं तं दृष्ट्वा मुनयः पुनर आर्तवत ऊचुर वेदॊक्तया पूर्वं गाथया तन निबॊध मे 13 न दिष्टम अर्थम अत्येतुम ईशॊ मर्त्यः कथं चन महिषैर भेदयाम आस धनुषाक्षॊ महीधरान 14 एवं लब्ध्वा वरान बाला दर्पपूर्णास तरस्विनः कषिप्रम एव विनश्यन्ति यथा न सयात तथा भवान 15 एष रैभ्यॊ महावीर्यः पुत्रौ चास्य तथा विभौ तं यथा पुत्र नाभ्येषि तथा कुर्यास तव अतन्द्रितः 16 स हि करुद्धः समर्थस तवां पुत्र पीडयितुं रुषा वैद्यश चापि तपस्वी च कॊपनश च महान ऋषिः 17 [य] एवं करिष्ये मा तापं तात कार्षीः कथं चन यथा हि मे भवान मान्यस तथा रैभ्यः पिता मम 18 उक्त्वा स पितरं शलक्ष्णं यवक्रीर अकुतॊभयः विप्रकुर्वन्न ऋषीन अन्यान अतुष्यत परया मुदा |
1
[yava] pratibhāsyanti vai vedā mama tātasya cobhayoḥ ati cānyān bhaviṣyāvo varā labdhās tathā mayā 2 [bharad] darpas te bhavitā tāta varāṁl labdhvā yathepsitān sa darpapūrṇaḥ kṛpaṇaḥ kṣipram eva vinaśyasi 3 atrāpy udāharantīmā gāthā devair udāhṛtāḥ ṛṣir āsīt purā putra bāladhir nāma vīryavān 4 saputraśokād udvignas tapas tepe suduścaram bhaven mama suto 'martya iti taṃ labdhavāṃś ca saḥ 5 tasya prasādo devaiś ca kṛto na tv amaraiḥ samaḥ nāmartyo vidyate martyo nimittāyur bhaviṣyati 6 [b] yatheme parvatāḥ śaśvat tiṣṭhanti surasattamāḥ akṣayās tannimittaṃ me sutasyāyur bhaved iti 7 tasya putras tadā jajñe medhāvī krodhanaḥ sadā sa tac chrutvākarod darpam ṛṣīṃś caivāvamanyata 8 vikurvāṇo munīnāṃ tu caramāṇo mahīm imām āsasāda mahāvīryaṃ dhanuṣākṣaṃ manīṣiṇam 9 tasyāpacakre medhāvī taṃ śaśāpa sa vīryavān bhava bhasmeti coktaḥ sa na bhasma samapadyata 10 dhanuṣākṣas tu taṃ dṛṣṭvā medhāvinam anāmayam nimittam asya mahiṣair bhedayām āsa vīryavān 11 sa nimitte vinaste tu mamāra sahasā śiśuḥ taṃ mṛtaṃ putram ādāya vilalāpa tataḥ pitā 12 lālapyamānaṃ taṃ dṛṣṭvā munayaḥ punar ārtavat ūcur vedoktayā pūrvaṃ gāthayā tan nibodha me 13 na diṣṭam artham atyetum īśo martyaḥ kathaṃ cana mahiṣair bhedayām āsa dhanuṣākṣo mahīdharān 14 evaṃ labdhvā varān bālā darpapūrṇās tarasvinaḥ kṣipram eva vinaśyanti yathā na syāt tathā bhavān 15 eṣa raibhyo mahāvīryaḥ putrau cāsya tathā vibhau taṃ yathā putra nābhyeṣi tathā kuryās tv atandritaḥ 16 sa hi kruddhaḥ samarthas tvāṃ putra pīḍayituṃ ruṣā vaidyaś cāpi tapasvī ca kopanaś ca mahān ṛṣiḥ 17 [y] evaṃ kariṣye mā tāpaṃ tāta kārṣīḥ kathaṃ cana yathā hi me bhavān mānyas tathā raibhyaḥ pitā mama 18 uktvā sa pitaraṃ ślakṣṇaṃ yavakrīr akutobhayaḥ viprakurvann ṛṣīn anyān atuṣyat parayā mudā |
The Mahabharata in Sanskrit
Book 3
Chapter 137
|
1
[ल] चङ्क्रम्यमाणः स तदा यवक्रीर अकुतॊभयः जगाम माधवे मासि रैभ्याश्रमपदं परति 2 स ददर्शाश्रमे पुण्ये पुष्पितद्रुमभूषिते विचरन्तीं सनुषां तस्य किंनरीम इव भारत 3 यवक्रीस ताम उवाचेदम उपतिष्ठस्व माम इति निर्लज्जॊ लज्जया युक्तां कामेन हृतचेतनः 4 सा तस्य शीलम आज्ञाय तस्माच छापाच च बिभ्यती तेजस्वितां च रैभ्यस्य तथेत्य उक्त्वा जगाम सा 5 तत एकान्तम उन्नीय मज्जयाम आस भारत आजगाम तदा रैभ्यः सवम आश्रमम अरिंदम 6 रुदन्तीं च सनुषां दृष्ट्वा भार्याम आर्तां परावसॊः सान्त्वयञ शलक्ष्णया वाचा पर्यपृच्छद युधिष्ठिर 7 सा तस्मै सर्वम आचष्ट यवक्री भाषितं शुभा परत्युक्तं च यवक्रीतं परेक्षापूर्वं तदात्मना 8 शृण्वानस्यैव रैभ्यस्य यवक्रीत विचेष्टितम दहन्न इव तदा चेतः करॊधः समभवन महान 9 स तदा मन्युनाविष्टस तपस्वी भृशकॊपनः अवलुप्य जटाम एकां जुहावाग्नौ सुसंस्कृते 10 ततः समभवन नारी तस्या रूपेण संमिता अवलुप्यापरां चाथ जुहावाग्नौ जटां पुनः 11 ततः समभवद रक्षॊ घॊराक्षं भीमदर्शनम अब्रूतां तौ तदा रैभ्यं किं कार्यं करवामहे 12 ताव अब्रवीद ऋषिः करुद्धॊ यवक्रीर वध्यताम इति जग्मतुस तौ तथेत्य उक्त्वा यवक्रीत जिघांसया 13 ततस तं समुपास्थाय कृत्या सृष्टा महात्मना कमण्डलुं जहारास्य मॊहयित्वा तु भारत 14 उच्चिष्टं तु यवक्रीतम अपकृष्ट कमण्डलुम तत उद्यतशूलः स राक्षसः समुपाद्रवत 15 तम आपतन्तं संप्रेक्ष्य शूलहस्तं जिघांसया यवक्रीः सहसॊत्थाय पराद्रवद येन वै सरः 16 जलहीनं सरॊ दृष्ट्वा यवक्रीस तवरितः पुनः जगाम सरितः सर्वास ताश चाप्य आसन विशॊषिताः 17 स काल्यमानॊ घॊरेण शूलहस्तेन रक्षसा अग्निहॊत्रं पितुर भीतः सहसा समुपाद्रवत 18 स वै परविशमानस तु शूद्रेणान्धेन रक्षिणा निगृहीतॊ बलाद दवारि सॊ ऽवातिष्ठत पार्थिव 19 निगृहीतं तु शूद्रेण यवक्रीतं स राक्षसः ताडयाम आस शूलेन स भिन्नहृदयॊ ऽपतत 20 यवक्रीतं स हत्वा तु राक्षसॊ रैभ्यम आगमत अनुज्ञातस तु रैभ्येण तया नार्या सहाचरत |
1
[l] caṅkramyamāṇaḥ sa tadā yavakrīr akutobhayaḥ jagāma mādhave māsi raibhyāśramapadaṃ prati 2 sa dadarśāśrame puṇye puṣpitadrumabhūṣite vicarantīṃ snuṣāṃ tasya kiṃnarīm iva bhārata 3 yavakrīs tām uvācedam upatiṣṭhasva mām iti nirlajjo lajjayā yuktāṃ kāmena hṛtacetanaḥ 4 sā tasya śīlam ājñāya tasmāc chāpāc ca bibhyatī tejasvitāṃ ca raibhyasya tathety uktvā jagāma sā 5 tata ekāntam unnīya majjayām āsa bhārata ājagāma tadā raibhyaḥ svam āśramam ariṃdama 6 rudantīṃ ca snuṣāṃ dṛṣṭvā bhāryām ārtāṃ parāvasoḥ sāntvayañ ślakṣṇayā vācā paryapṛcchad yudhiṣṭhira 7 sā tasmai sarvam ācaṣṭa yavakrī bhāṣitaṃ śubhā pratyuktaṃ ca yavakrītaṃ prekṣāpūrvaṃ tadātmanā 8 śṛṇvānasyaiva raibhyasya yavakrīta viceṣṭitam dahann iva tadā cetaḥ krodhaḥ samabhavan mahān 9 sa tadā manyunāviṣṭas tapasvī bhṛśakopanaḥ avalupya jaṭām ekāṃ juhāvāgnau susaṃskṛte 10 tataḥ samabhavan nārī tasyā rūpeṇa saṃmitā avalupyāparāṃ cātha juhāvāgnau jaṭāṃ punaḥ 11 tataḥ samabhavad rakṣo ghorākṣaṃ bhīmadarśanam abrūtāṃ tau tadā raibhyaṃ kiṃ kāryaṃ karavāmahe 12 tāv abravīd ṛṣiḥ kruddho yavakrīr vadhyatām iti jagmatus tau tathety uktvā yavakrīta jighāṃsayā 13 tatas taṃ samupāsthāya kṛtyā sṛṣṭā mahātmanā kamaṇḍaluṃ jahārāsya mohayitvā tu bhārata 14 ucciṣṭaṃ tu yavakrītam apakṛṣṭa kamaṇḍalum tata udyataśūlaḥ sa rākṣasaḥ samupādravat 15 tam āpatantaṃ saṃprekṣya śūlahastaṃ jighāṃsayā yavakrīḥ sahasotthāya prādravad yena vai saraḥ 16 jalahīnaṃ saro dṛṣṭvā yavakrīs tvaritaḥ punaḥ jagāma saritaḥ sarvās tāś cāpy āsan viśoṣitāḥ 17 sa kālyamāno ghoreṇa śūlahastena rakṣasā agnihotraṃ pitur bhītaḥ sahasā samupādravat 18 sa vai praviśamānas tu śūdreṇāndhena rakṣiṇā nigṛhīto balād dvāri so 'vātiṣṭhata pārthiva 19 nigṛhītaṃ tu śūdreṇa yavakrītaṃ sa rākṣasaḥ tāḍayām āsa śūlena sa bhinnahṛdayo 'patat 20 yavakrītaṃ sa hatvā tu rākṣaso raibhyam āgamat anujñātas tu raibhyeṇa tayā nāryā sahācarat |
The Mahabharata in Sanskrit
Book 3
Chapter 138
|
1
[ल] भरद्वाजस तु कौन्तेय कृत्वा सवाध्यायम आह्निकम समित कलापम आदाय परविवेश सवम आश्रमम 2 तं सम दृष्ट्वा पुरा सर्वे परत्युत्तिष्ठन्ति पावकाः न तव एनम उपतिष्ठन्ति हतपुत्रं तदाग्नयः 3 वैकृतं तव अग्निहॊत्रे स लक्षयित्वा महातपाः तम अन्धं शूद्रम आसीनं गृहपालम अथाब्रवीत 4 किं नु मे नाग्नयः शूद्र परतिनन्दन्ति दर्शनम तवं चापि न यथापूर्वं कच चित कषेमम इहाश्रमे 5 कच चिन न रैभ्यं पुत्रॊ मे गतवान अल्पचेतनः एतद आचक्ष्व मे शीघ्रं न हि मे शुध्यते मनाः 6 [षू] रैभ्यं गतॊ नूनम असौ सुतस ते मन्दचेतनः तथा हि निहतः शेते राक्षसेन बलीयसा 7 परकाल्यमानस तेनायं शूलहस्तेन रक्षसा अग्न्यागारं परति दवारि मया दॊर्भ्यां निवारितः 8 ततः स निहतॊ हय अत्र जलकामॊ ऽशुचिर धरुवम संभावितॊ हि तूर्णेन शूलहस्तेन रक्षसा 9 [ल] भरद्वाजस तु शूद्रस्य तच छरुत्वा विप्रियं वचः गतासुं पुत्रम आदाय विललाप सुदुःखितः 10 बराह्मणानां किलार्थाय ननु तवं तप्तवांस तपः दविजानाम अनधीता वै वेदाः संप्रतिभान्त्व इति 11 तथा कल्याण शीलस तवं बराह्मणेषु महात्मसु अनागाः सर्वभूतेषु कर्कशत्वम उपेयिवान 12 परतिसिद्धॊ मया तात रैभ्यावसथ दर्शनात गतवान एव तं कषुद्रं कालान्तकयमॊपमम 13 यः स जानन महातेजा वृद्धस्यैकं ममात्मजम गतवान एव कॊपस्य वशं परमदुर्मतिः 14 पुत्रशॊकम अनुप्राप्य एष रैभ्यस्य कर्मणा तयक्ष्यामि तवाम ऋते पुत्र पराणान इष्टतमान भुवि 15 यथाहं पुत्रशॊकेन देहं तयक्ष्यामि किल्बिसी तथा जयेष्ठः सुतॊ रैभ्यं हिंस्याच छीघ्रम अनागसम 16 सुखिनॊ वै नरा येषां जात्या पुत्रॊ न विद्यते ते पुत्रशॊकम अप्राप्य विचरन्ति यथासुखम 17 ये तु पुत्रकृताच छॊकाद भृशं वयाकुलचेतसः शपन्तीष्टान सखीन आर्थास तेभ्यः पापतरॊ नु कः 18 परासुश च सुतॊ दृष्टः शप्तश चेष्टः सखा मया ईदृशीम आपदं कॊ नु दवितीयॊ ऽनुभविष्यति 19 विलप्यैवं बहुविधं भरद्वाजॊ ऽदहत सुतम सुसमिद्धं ततः पश्चात परविवेश हुताशनम |
1
[l] bharadvājas tu kaunteya kṛtvā svādhyāyam āhnikam samit kalāpam ādāya praviveśa svam āśramam 2 taṃ sma dṛṣṭvā purā sarve pratyuttiṣṭhanti pāvakāḥ na tv enam upatiṣṭhanti hataputraṃ tadāgnayaḥ 3 vaikṛtaṃ tv agnihotre sa lakṣayitvā mahātapāḥ tam andhaṃ śūdram āsīnaṃ gṛhapālam athābravīt 4 kiṃ nu me nāgnayaḥ śūdra pratinandanti darśanam tvaṃ cāpi na yathāpūrvaṃ kac cit kṣemam ihāśrame 5 kac cin na raibhyaṃ putro me gatavān alpacetanaḥ etad ācakṣva me śīghraṃ na hi me śudhyate manāḥ 6 [ṣū] raibhyaṃ gato nūnam asau sutas te mandacetanaḥ tathā hi nihataḥ śete rākṣasena balīyasā 7 prakālyamānas tenāyaṃ śūlahastena rakṣasā agnyāgāraṃ prati dvāri mayā dorbhyāṃ nivāritaḥ 8 tataḥ sa nihato hy atra jalakāmo 'śucir dhruvam saṃbhāvito hi tūrṇena śūlahastena rakṣasā 9 [l] bharadvājas tu śūdrasya tac chrutvā vipriyaṃ vacaḥ gatāsuṃ putram ādāya vilalāpa suduḥkhitaḥ 10 brāhmaṇānāṃ kilārthāya nanu tvaṃ taptavāṃs tapaḥ dvijānām anadhītā vai vedāḥ saṃpratibhāntv iti 11 tathā kalyāṇa śīlas tvaṃ brāhmaṇeṣu mahātmasu anāgāḥ sarvabhūteṣu karkaśatvam upeyivān 12 pratisiddho mayā tāta raibhyāvasatha darśanāt gatavān eva taṃ kṣudraṃ kālāntakayamopamam 13 yaḥ sa jānan mahātejā vṛddhasyaikaṃ mamātmajam gatavān eva kopasya vaśaṃ paramadurmatiḥ 14 putraśokam anuprāpya eṣa raibhyasya karmaṇā tyakṣyāmi tvām ṛte putra prāṇān iṣṭatamān bhuvi 15 yathāhaṃ putraśokena dehaṃ tyakṣyāmi kilbisī tathā jyeṣṭhaḥ suto raibhyaṃ hiṃsyāc chīghram anāgasam 16 sukhino vai narā yeṣāṃ jātyā putro na vidyate te putraśokam aprāpya vicaranti yathāsukham 17 ye tu putrakṛtāc chokād bhṛśaṃ vyākulacetasaḥ śapantīṣṭān sakhīn ārthās tebhyaḥ pāpataro nu kaḥ 18 parāsuś ca suto dṛṣṭaḥ śaptaś ceṣṭaḥ sakhā mayā īdṛśīm āpadaṃ ko nu dvitīyo 'nubhaviṣyati 19 vilapyaivaṃ bahuvidhaṃ bharadvājo 'dahat sutam susamiddhaṃ tataḥ paścāt praviveśa hutāśanam |
The Mahabharata in Sanskrit
Book 3
Chapter 139
|
1
[ल] एतस्मिन्न एव काले तु बृहद्द्युम्नॊ महीपतिः सत्रम आस्ते महाभागॊ रैभ्य याज्यः परतापवान 2 तेन रैभ्यस्य वै पुत्राव अर्वावसु परावसू वृतौ सहायौ सत्रार्थे बृहद्द्युम्नेन धीमता 3 तत्र तौ समनुज्ञातौ पित्रा कौन्तेय जग्मतुः आश्रमे तव अभवद रैभ्यॊ भार्या चैव परावसॊः 4 अथावलॊककॊ ऽगच्छद गृहान एकः परावसुः कृष्णाजिनेन संवीतं ददर्श पितरं वने 5 जघन्यरात्रे निद्रान्धः सावशेषे तमस्य अपि चरन्तं गहने ऽरण्ये मेने स पितरं मृगम 6 मृगं तु मन्यमानेन पिता वै तेन हिंसितः अकामयानेन तदा शरीरत्राणम इच्छता 7 स तस्य परेतकार्याणि कृत्वा सर्वाणि भारत पुनर आगम्य तत सत्रम अब्रवीद भरातरं वचः 8 इदं कर्म न शक्तस तवं वॊढुम एकः कथं चन मया तु हिंसितस तातॊ मन्यमानेन तं मृगम 9 सॊ ऽसमदर्थे वरतं साधु चर तवं बरह्म हिंसनम समर्थॊ हय अहम एकाकी कर्म कर्तुम इदं मुने 10 [अर्वा] करॊतु वै भवान सत्रं बृहद्द्युम्नस्य धीमतः बरह्महत्यां चरिष्ये ऽहं तवदर्थं नियतेन्द्रियः 11 [ल] स तस्या बरह्महत्यायाः पारं गत्वा युधिष्ठिर अर्वावसुस तदा सत्रम आजगाम पुनर मुनिः 12 ततः परावसुर दृष्ट्वा भरातरं समुपस्थितम बृहद्द्युम्नम उवाचेदं वचनं परिषद्गतम 13 एष ते बरह्महा यज्ञं मा दरष्टुं परविशेद इति बरह्महा परेक्षितेनापि पीडयेत तवां न संशयः 14 परेष्यैर उत्सार्यमाणस तु राजन्न अर्वावसुस तदा न मया बरह्महत्येयं कृतेत्य आह पुनः पुनः 15 उच्यमानॊ ऽसकृत परेष्यैर बरह्म हन्न इति भारत नैव स परतिजानाति बरह्महत्यां सवयं कृताम मम भरात्रा कृतम इदं मया तु परिरक्षितम 16 परीतास तस्याभवन देवाः कर्मणार्वावसॊर नृप तं ते परवरयाम आसुर निरासुश च परावसुम 17 ततॊ देवा वरं तस्मै ददुर अग्निपुरॊगमाः स चापि वरयाम आस पितुर उत्थानम आत्मनः 18 अनागस्त्वं तथा भरातुः पितुश चास्मरणं वधे भरद्वाजस्य चॊत्थानं यवक्रीतस्य चॊभयॊः 19 ततः परादुर्बभूवुस ते सर्व एव युधिष्ठिर अथाब्रवीद यवक्रीतॊ देवान अग्निपुरॊगमान 20 समधीतं मया बरह्म वरतानि चरितानि च कथं नु रैभ्यः शक्तॊ माम अधीयानं तपॊ विनम तथायुक्तेन विधिना निहन्तुम अमरॊत्तमाः 21 [देवाह] मैवं कृथा यवक्रीत यथा वदसि वै मुने ऋते गुरुम अधीता हि सुखं वेदास तवया पुरा 22 अनेन तु गुरून दुःखात तॊषयित्वा सवकर्मणा कालेन महता कलेशाद बरह्माधिगतम उत्तमम 23 [ल] यवक्रीतम अथॊक्त्वैवं देवाः साग्निपुरॊगमाः संजीवयित्वा तान सर्वान पुनर जग्मुस तरिविष्टपम 24 आश्रमस तस्य पुण्यॊ ऽयं सदा पुष्पफलद्रुमः अत्रॊष्य राजशार्दूल सर्वपापैः परमॊक्ष्यसे |
1
[l] etasminn eva kāle tu bṛhaddyumno mahīpatiḥ satram āste mahābhāgo raibhya yājyaḥ pratāpavān 2 tena raibhyasya vai putrāv arvāvasu parāvasū vṛtau sahāyau satrārthe bṛhaddyumnena dhīmatā 3 tatra tau samanujñātau pitrā kaunteya jagmatuḥ āśrame tv abhavad raibhyo bhāryā caiva parāvasoḥ 4 athāvalokako 'gacchad gṛhān ekaḥ parāvasuḥ kṛṣṇājinena saṃvītaṃ dadarśa pitaraṃ vane 5 jaghanyarātre nidrāndhaḥ sāvaśeṣe tamasy api carantaṃ gahane 'raṇye mene sa pitaraṃ mṛgam 6 mṛgaṃ tu manyamānena pitā vai tena hiṃsitaḥ akāmayānena tadā śarīratrāṇam icchatā 7 sa tasya pretakāryāṇi kṛtvā sarvāṇi bhārata punar āgamya tat satram abravīd bhrātaraṃ vacaḥ 8 idaṃ karma na śaktas tvaṃ voḍhum ekaḥ kathaṃ cana mayā tu hiṃsitas tāto manyamānena taṃ mṛgam 9 so 'smadarthe vrataṃ sādhu cara tvaṃ brahma hiṃsanam samartho hy aham ekākī karma kartum idaṃ mune 10 [arvā] karotu vai bhavān satraṃ bṛhaddyumnasya dhīmataḥ brahmahatyāṃ cariṣye 'haṃ tvadarthaṃ niyatendriyaḥ 11 [l] sa tasyā brahmahatyāyāḥ pāraṃ gatvā yudhiṣṭhira arvāvasus tadā satram ājagāma punar muniḥ 12 tataḥ parāvasur dṛṣṭvā bhrātaraṃ samupasthitam bṛhaddyumnam uvācedaṃ vacanaṃ pariṣadgatam 13 eṣa te brahmahā yajñaṃ mā draṣṭuṃ praviśed iti brahmahā prekṣitenāpi pīḍayet tvāṃ na saṃśayaḥ 14 preṣyair utsāryamāṇas tu rājann arvāvasus tadā na mayā brahmahatyeyaṃ kṛtety āha punaḥ punaḥ 15 ucyamāno 'sakṛt preṣyair brahma hann iti bhārata naiva sa pratijānāti brahmahatyāṃ svayaṃ kṛtām mama bhrātrā kṛtam idaṃ mayā tu parirakṣitam 16 prītās tasyābhavan devāḥ karmaṇārvāvasor nṛpa taṃ te pravarayām āsur nirāsuś ca parāvasum 17 tato devā varaṃ tasmai dadur agnipurogamāḥ sa cāpi varayām āsa pitur utthānam ātmanaḥ 18 anāgastvaṃ tathā bhrātuḥ pituś cāsmaraṇaṃ vadhe bharadvājasya cotthānaṃ yavakrītasya cobhayoḥ 19 tataḥ prādurbabhūvus te sarva eva yudhiṣṭhira athābravīd yavakrīto devān agnipurogamān 20 samadhītaṃ mayā brahma vratāni caritāni ca kathaṃ nu raibhyaḥ śakto mām adhīyānaṃ tapo vinam tathāyuktena vidhinā nihantum amarottamāḥ 21 [devāh] maivaṃ kṛthā yavakrīta yathā vadasi vai mune ṛte gurum adhītā hi sukhaṃ vedās tvayā purā 22 anena tu gurūn duḥkhāt toṣayitvā svakarmaṇā kālena mahatā kleśād brahmādhigatam uttamam 23 [l] yavakrītam athoktvaivaṃ devāḥ sāgnipurogamāḥ saṃjīvayitvā tān sarvān punar jagmus triviṣṭapam 24 āśramas tasya puṇyo 'yaṃ sadā puṣpaphaladrumaḥ atroṣya rājaśārdūla sarvapāpaiḥ pramokṣyase |
The Mahabharata in Sanskrit
Book 3
Chapter 140
|
1
[ल] उशीरबीजं मैनाकं गिरिं शवेतं च भारत समतीतॊ ऽसि कौन्तेय कालशैलं च पार्थिव 2 एषा गङ्गा सप्त विधा राजते भरतर्षभ सथानं विरजसं रम्यं यत्राग्निर नित्यम इध्यते 3 एतद वै मानुषेणाद्य न शक्यं दरष्टुम अप्य उत समाधिं कुरुताव्यग्रास तीर्थान्य एतानि दरक्ष्यथ 4 शवेतं गिरिं परवेक्ष्यामॊ मन्दरं चैव पर्वतम यत्र मानि चरॊ यक्षः कुवेरश चापि यक्षराट 5 अष्टाशीति सहस्राणि गन्धर्वाः शीघ्रचारिणः तथा किंपुरुषा राजन यक्षाश चैव चतुर्गुणाः 6 अनेकरूपसंस्थाना नानाप्रहरणाश च ते यक्षेन्द्रं मनुजश्रेष्ठ माणिभद्रम उपासते 7 तेषाम ऋद्धिर अतीवाग्र्यागतौ वायुसमाश च ते सथानात परच्यावयेयुर ये देवराजम अपि धरुवम 8 तैस तात बलिभिर गुप्ता यातुधानैश च रक्षिताः दुर गमाः पर्वताः पार्थ समाधिं परमं कुरु 9 कुबेर सचिवाश चान्ये रौद्रा मैत्राश च राक्षसाः तैः समेष्याम कौन्तेय यत्तॊ विक्रमणे भव 10 कैलासः पर्वतॊ राजन सॊ यॊजनशतान्य उत यत्र देवाः समायान्ति विशाला यत्र भारत 11 असंख्येयास तु कौन्तेय यक्षराक्षस किंनराः नागाः सुपर्णा गन्धर्वाः कुबेर सदनं परति 12 तान विगाहस्व पार्थाद्य तपसा च दमेन च रक्ष्यमाणॊ मया राजन भीमसेनबलेन च 13 सवस्ति ते वरुणॊ राजा यमश च समितिंजयः गङ्गा च यमुना चैव पर्वतश च दधातु ते 14 इन्द्रस्य जाम्बूनदपर्वताग्रे; शृणॊमि घॊषं तव देवि गङ्गे गॊपाययेमं सुभगे गिरिभ्यः; सर्वाजमीधापचितं नरेन्द्रम भवस्व शर्म परविविक्षतॊ ऽसय; शैलान इमाञ शैलसुते नृपस्य 15 [य] अपूर्वॊ ऽयं संभ्रमॊ लॊमशस्य; कृष्णां सर्वे रक्षत मां परसादम देशॊ हय अयं दुर्ग तमॊ मतॊ ऽसय; तस्मात परं शौचम इहाचरध्वम 16 ततॊ ऽबरवीद भीमम उदारवीर्यं; कृष्णां यत्तः पालय भीमसेन शून्ये ऽरजुने ऽसंनिहिते च तात; तवम एव कृष्णां भजसे ऽसुखेषु 17 ततॊ महात्मा यमजौ समेत्य; मूर्धन्य उपाघ्राय विमृज्य गात्रे उवाच तौ भाष्प कलं स राजा; मा भैष्टम आगच्छतम अप्रमत्तौ |
1
[l] uśīrabījaṃ mainākaṃ giriṃ śvetaṃ ca bhārata samatīto 'si kaunteya kālaśailaṃ ca pārthiva 2 eṣā gaṅgā sapta vidhā rājate bharatarṣabha sthānaṃ virajasaṃ ramyaṃ yatrāgnir nityam idhyate 3 etad vai mānuṣeṇādya na śakyaṃ draṣṭum apy uta samādhiṃ kurutāvyagrās tīrthāny etāni drakṣyatha 4 śvetaṃ giriṃ pravekṣyāmo mandaraṃ caiva parvatam yatra māni caro yakṣaḥ kuveraś cāpi yakṣarāṭ 5 aṣṭāśīti sahasrāṇi gandharvāḥ śīghracāriṇaḥ tathā kiṃpuruṣā rājan yakṣāś caiva caturguṇāḥ 6 anekarūpasaṃsthānā nānāpraharaṇāś ca te yakṣendraṃ manujaśreṣṭha māṇibhadram upāsate 7 teṣām ṛddhir atīvāgryāgatau vāyusamāś ca te sthānāt pracyāvayeyur ye devarājam api dhruvam 8 tais tāta balibhir guptā yātudhānaiś ca rakṣitāḥ dur gamāḥ parvatāḥ pārtha samādhiṃ paramaṃ kuru 9 kubera sacivāś cānye raudrā maitrāś ca rākṣasāḥ taiḥ sameṣyāma kaunteya yatto vikramaṇe bhava 10 kailāsaḥ parvato rājan so yojanaśatāny uta yatra devāḥ samāyānti viśālā yatra bhārata 11 asaṃkhyeyās tu kaunteya yakṣarākṣasa kiṃnarāḥ nāgāḥ suparṇā gandharvāḥ kubera sadanaṃ prati 12 tān vigāhasva pārthādya tapasā ca damena ca rakṣyamāṇo mayā rājan bhīmasenabalena ca 13 svasti te varuṇo rājā yamaś ca samitiṃjayaḥ gaṅgā ca yamunā caiva parvataś ca dadhātu te 14 indrasya jāmbūnadaparvatāgre; śṛṇomi ghoṣaṃ tava devi gaṅge gopāyayemaṃ subhage giribhyaḥ; sarvājamīdhāpacitaṃ narendram bhavasva śarma pravivikṣato 'sya; śailān imāñ śailasute nṛpasya 15 [y] apūrvo 'yaṃ saṃbhramo lomaśasya; kṛṣṇāṃ sarve rakṣata māṃ prasādam deśo hy ayaṃ durga tamo mato 'sya; tasmāt paraṃ śaucam ihācaradhvam 16 tato 'bravīd bhīmam udāravīryaṃ; kṛṣṇāṃ yattaḥ pālaya bhīmasena śūnye 'rjune 'saṃnihite ca tāta; tvam eva kṛṣṇāṃ bhajase 'sukheṣu 17 tato mahātmā yamajau sametya; mūrdhany upāghrāya vimṛjya gātre uvāca tau bhāṣpa kalaṃ sa rājā; mā bhaiṣṭam āgacchatam apramattau |
The Mahabharata in Sanskrit
Book 3
Chapter 141
|
1
[य] अन्तर्हितानि भूतानि रक्षांसि बलवन्ति च अग्निना तपसा चैव शक्यं गन्तुं वृकॊदर 2 संनिवर्तय कौन्तेय कषुत्पिपासे बलान्वयात ततॊ बलं च दाक्ष्यं च संश्रयस्व कुरूद्वह 3 ऋषेस तवया शरुतं वाक्यं कैलासं पर्वतं परति बुद्ध्या परपश्य कौन्तेय कथं कृष्णा गमिष्यति 4 अथ वा सहदेवेन धौम्येन च सहाभिभॊ सूदैः पौरॊगवैश चैव सर्वैश च परिचारकैः 5 रथैर अश्वैश च ये चान्ये विप्राः कलेशासहा पथि सर्वैस तवं सहितॊ भीम निवर्तस्वायतेक्षण 6 तरयॊ वयं गमिष्यामॊ लघ्व आहारा यतव्रताः अहं च नकुलश चैव लॊमशश च महातपाः 7 ममागमनम आकाङ्क्षन गङ्गा दवारे समाहितः वसेह दरौपदीं रक्षन यावदागमनं मम 8 [भम] राजपुत्री शरमेणार्ता दुःखार्ता चैव भारत वरजत्य एव हि कल्याणी शवेतवाहदिदृक्षया 9 तव चाप्य अरतिस तीव्रा वर्धते तम अपश्यतः किं पुनः सहदेवं च मां च कृष्णां च भारत 10 रथाः कामं निवर्तन्तां सर्वे च परिचारकाः सूदाः पौरॊगवाश चैव मन्यते यत्र नॊ भवान 11 न हय अहं हातुम इच्छामि भवन्तम इह कर्हि चित शैले ऽसमिन राक्षसाकीर्णे दुर्गेषु विषमेषु च 12 इयं चापि महाभागा राजपुत्री यतव्रता तवाम ऋते पुरुषव्याघ्र नॊत्सहेद विनिवर्तितुम 13 तथैव सहदेवॊ ऽयं सततं तवाम अनुव्रतः न जातु विनिवर्तेत मतज्ञॊ हय अहम अस्य वै 14 अपि चात्र महाराज सव्यसाचि दिदृक्षया सर्वे लालस भूताः सम तस्माद यास्यामहे सह 15 यद्य अशक्यॊ रथैर गन्तुं शैलॊ ऽयं बहुकन्दरः पद्भिर एव गमिष्यामॊ मा राजन विमनॊ भव 16 अहं वहिष्ये पाञ्चालीं यत्र यत्र न शक्ष्यति इति मे वर्तते बुद्धिर मा राजन विमनॊ भव 17 सुकुमारौ तथा वीरौ माद्री नन्दिकराव उभौ दुर्गे संतारयिष्यामि यद्य अशक्तौ भविष्यतः 18 एवं ते भाषमाणस्य बलं भीमाभिवर्धताम यस तवम उत्सहसे वॊढुं दरौपदीं विपुले ऽधवनि 19 यमजौ चापि भद्रं ते नैतद अन्यत्र विद्यते बलं च ते यशश चैव धर्मः कीर्तिश च वर्धताम 20 यस तवम उत्सहसे नेतुं भरातरौ सह कृष्णया मा ते गलानिर महाबाहॊ मा च ते ऽसतु पराभवः 21 ततः कृष्णाब्रवीद वाक्यं परहसन्ती मनॊरमा गमिष्यामि न संतापः कार्यॊ मां परति भारत 22 तपसा शक्यते गन्तुं पर्वतॊ गन्धमादनः तपसा चैव कौन्तेय सर्वे यॊक्ष्यामहे वयम 23 नकुलः सहदेवश च भीमसेनश च पार्थिव अहं च तवं च कौन्तेय दरक्ष्यामह्य शवेतवाहनम 24 एवं संभाषमाणास ते सुबाहॊर विषयं महत ददृशुर मुदिता राजन परभूतगजवाजिमत 25 किरात तङ्गणाकीर्णं कुणिन्द शतसंकुलम हिमवत्य अमरैर जुष्टं बह्वाश्चर्यसमाकुलम 26 सुबाहुश चापि तान दृष्ट्वा पूजया परत्यगृह्णत विषयान्ते कुणिन्दानाम ईश्वरः परीतिपूर्वकम 27 तत्र ते पूजितास तेन सर्व एव सुखॊषिताः परतस्थुर विमले सूर्ये हिमवन्तं गिरिं परति 28 इन्द्रसेन मुखांश चैव भृत्यान पौरॊगवांस तथा सूदांश च परिबर्हं च दरौपद्याः सर्वशॊ नृप 29 राज्ञः कुणिन्दाधिपतेः परिदाय महारथाः पद्भिर एव महावीर्या ययुः कौरवनन्दनाः 30 ते शनैः पराद्रवन सर्वे कृष्णया सह पाण्डवाः तस्माद देशात सुसंहृष्टा दरष्टुकामा धनंजयम |
1
[y] antarhitāni bhūtāni rakṣāṃsi balavanti ca agninā tapasā caiva śakyaṃ gantuṃ vṛkodara 2 saṃnivartaya kaunteya kṣutpipāse balānvayāt tato balaṃ ca dākṣyaṃ ca saṃśrayasva kurūdvaha 3 ṛṣes tvayā śrutaṃ vākyaṃ kailāsaṃ parvataṃ prati buddhyā prapaśya kaunteya kathaṃ kṛṣṇā gamiṣyati 4 atha vā sahadevena dhaumyena ca sahābhibho sūdaiḥ paurogavaiś caiva sarvaiś ca paricārakaiḥ 5 rathair aśvaiś ca ye cānye viprāḥ kleśāsahā pathi sarvais tvaṃ sahito bhīma nivartasvāyatekṣaṇa 6 trayo vayaṃ gamiṣyāmo laghv āhārā yatavratāḥ ahaṃ ca nakulaś caiva lomaśaś ca mahātapāḥ 7 mamāgamanam ākāṅkṣan gaṅgā dvāre samāhitaḥ vaseha draupadīṃ rakṣan yāvadāgamanaṃ mama 8 [bhm] rājaputrī śrameṇārtā duḥkhārtā caiva bhārata vrajaty eva hi kalyāṇī śvetavāhadidṛkṣayā 9 tava cāpy aratis tīvrā vardhate tam apaśyataḥ kiṃ punaḥ sahadevaṃ ca māṃ ca kṛṣṇāṃ ca bhārata 10 rathāḥ kāmaṃ nivartantāṃ sarve ca paricārakāḥ sūdāḥ paurogavāś caiva manyate yatra no bhavān 11 na hy ahaṃ hātum icchāmi bhavantam iha karhi cit śaile 'smin rākṣasākīrṇe durgeṣu viṣameṣu ca 12 iyaṃ cāpi mahābhāgā rājaputrī yatavratā tvām ṛte puruṣavyāghra notsahed vinivartitum 13 tathaiva sahadevo 'yaṃ satataṃ tvām anuvrataḥ na jātu vinivarteta matajño hy aham asya vai 14 api cātra mahārāja savyasāci didṛkṣayā sarve lālasa bhūtāḥ sma tasmād yāsyāmahe saha 15 yady aśakyo rathair gantuṃ śailo 'yaṃ bahukandaraḥ padbhir eva gamiṣyāmo mā rājan vimano bhava 16 ahaṃ vahiṣye pāñcālīṃ yatra yatra na śakṣyati iti me vartate buddhir mā rājan vimano bhava 17 sukumārau tathā vīrau mādrī nandikarāv ubhau durge saṃtārayiṣyāmi yady aśaktau bhaviṣyataḥ 18 evaṃ te bhāṣamāṇasya balaṃ bhīmābhivardhatām yas tvam utsahase voḍhuṃ draupadīṃ vipule 'dhvani 19 yamajau cāpi bhadraṃ te naitad anyatra vidyate balaṃ ca te yaśaś caiva dharmaḥ kīrtiś ca vardhatām 20 yas tvam utsahase netuṃ bhrātarau saha kṛṣṇayā mā te glānir mahābāho mā ca te 'stu parābhavaḥ 21 tataḥ kṛṣṇābravīd vākyaṃ prahasantī manoramā gamiṣyāmi na saṃtāpaḥ kāryo māṃ prati bhārata 22 tapasā śakyate gantuṃ parvato gandhamādanaḥ tapasā caiva kaunteya sarve yokṣyāmahe vayam 23 nakulaḥ sahadevaś ca bhīmasenaś ca pārthiva ahaṃ ca tvaṃ ca kaunteya drakṣyāmahy śvetavāhanam 24 evaṃ saṃbhāṣamāṇās te subāhor viṣayaṃ mahat dadṛśur muditā rājan prabhūtagajavājimat 25 kirāta taṅgaṇākīrṇaṃ kuṇinda śatasaṃkulam himavaty amarair juṣṭaṃ bahvāścaryasamākulam 26 subāhuś cāpi tān dṛṣṭvā pūjayā pratyagṛhṇata viṣayānte kuṇindānām īśvaraḥ prītipūrvakam 27 tatra te pūjitās tena sarva eva sukhoṣitāḥ pratasthur vimale sūrye himavantaṃ giriṃ prati 28 indrasena mukhāṃś caiva bhṛtyān paurogavāṃs tathā sūdāṃś ca paribarhaṃ ca draupadyāḥ sarvaśo nṛpa 29 rājñaḥ kuṇindādhipateḥ paridāya mahārathāḥ padbhir eva mahāvīryā yayuḥ kauravanandanāḥ 30 te śanaiḥ prādravan sarve kṛṣṇayā saha pāṇḍavāḥ tasmād deśāt susaṃhṛṣṭā draṣṭukāmā dhanaṃjayam |
The Mahabharata in Sanskrit
Book 3
Chapter 142
|
1
[यु] भीमसेन यमौ चॊभौ पाञ्चालि च निबॊधत नास्ति भूतस्य नाशॊ वै पश्यतास्मान वनेचरान 2 दुर्बलाः कलेशिताः समेति यद बरवीथेतरेतरम अशक्ये ऽपि वरजामेति धनंजय दिदृक्षया 3 तन मे दहति गात्राणि तूलराशिम इवानलः यच च वीरं न पश्यामि धनंजयम उपान्तिके 4 तस्य दर्शनतृष्णं मां सानुजं वनम आस्थितम याज्ञसेन्याः परामर्शः स च वीर दहत्य उत 5 नकुलात पूर्वजं पार्थं न पश्याम्य अमितौजसम अजेयम उग्रधन्वानं तेन तप्ये वृकॊदर 6 तीर्थानि चैव रम्याणि वनानि च सरांसि च चरामि सह युष्माभिस तस्य दर्शनकाङ्क्षया 7 पञ्च वर्षाण्य अहं वीरं सत्यसंधं धनंजयम यन न पश्यामि बीभत्सुं तेन तप्ये वृकॊदर 8 तं वै शयामं गुदाकेशं सिंहविक्रान्त गामिनम न पश्यामि महाबाहुं तेन तप्ये वृकॊदर 9 कृतास्त्रं निपुनं युद्धे परतिमानं धनुष्मताम न पश्यामि नरश्रेष्ठं तेन तप्ये वृकॊदर 10 चरन्तम अरिसंघेषु कालं करुद्धम इवान्तकम परभिन्नम इव मातङ्गं सिंहस्कन्धं धनंजयम 11 यः स शक्राद अनवरॊ वीर्येण दरविणेन च यमयॊः पूर्वजः पार्थः शवेताश्वॊ ऽमितविक्रमः 12 दुःखेन महताविष्टः सवकृतेनानिवर्तिना अजेयम उग्रधन्वानं तं न पश्यामि फल्गुनम 13 सततं यः कषमा शीलः कषिप्यमाणॊ ऽपय अनीयसा ऋजु मार्गप्रपन्नस्य शर्म दाताभयस्य च 14 स तु जिह्मप्रवृत्तस्य माययाभिजिघांसतः अपि वज्रधरस्यापि भवेत कालविषॊपमः 15 शत्रॊर अपि परपन्नस्य सॊ ऽनृशंसः परतापवान दाताभयस्य भीभत्सुर अमितात्मा महाबलः 16 सर्वेषाम आश्रमॊ ऽसमाकं रणे ऽरीणां परमर्दिता आहर्ता सर्वरत्नानां सर्वेषां नः सुखावहः 17 रत्नानि यस्य वीर्येण दिव्यान्य आसन पुरा मम बहूनि बहु जातानि यानि पराप्तः सुयॊधनः 18 यस्य बाहुबलाद वीर सभा चासीत पुरा मम सर्वरत्नमयी खयाता तरिषु लॊकेषु पाण्डव 19 वासुदेव समं वीर्ये कार्तवीर्य समं युधि अजेयम अजितं युद्धे तं न पश्यामि फल्गुनम 20 संकर्षणं महावीर्यं तवां च भीमापराजितम अनुजातः स वीर्येण वासुदेवं च शत्रुहा 21 यस्य बाहुबले तुल्यः परभावे च पुरंदरः जवे वायुर मुखे सॊमः करॊधे मृत्युः सनातनः 22 ते वयं तं नरव्याघ्रं सर्वे वीर दिदृक्षवः परवेक्ष्यामॊ महाबाहॊ पर्वतं गन्धमादनम 23 विशाला बदरी यत्र नरनारायणाश्रमः तं सदाध्युषितं यक्षैर दरक्ष्यामॊ गिरिम उत्तमम 24 कुबेर नलिनीं रम्यां राक्षसैर अभिरक्षिताम पद्भिर एव गमिष्यामस तप्यमाना महत तपः 25 नातप्त तपसा शक्यॊ देशॊ गन्तुं वृकॊदर न नृशंसेन लुब्धेन नाप्रशान्तेन भारत 26 तत्र सर्वे गमिष्यामॊ भीमार्जुनपदैषिणः सायुधा बद्धनिष्ट्रिंशाः सह विप्रैर महाव्रतैः 27 मक्षिकान मशकान दंशान वयाघ्रान सिंहान सरीसृपान पराप्नॊत्य अनियतः पार्थ नियतस तान न पश्यति 28 ते वयं नियतात्मानः पर्वतं गन्धमादनम परवेक्ष्यामॊ मिताहारा धनंजय दिदृक्षवः |
1
[yu] bhīmasena yamau cobhau pāñcāli ca nibodhata nāsti bhūtasya nāśo vai paśyatāsmān vanecarān 2 durbalāḥ kleśitāḥ smeti yad bravīthetaretaram aśakye 'pi vrajāmeti dhanaṃjaya didṛkṣayā 3 tan me dahati gātrāṇi tūlarāśim ivānalaḥ yac ca vīraṃ na paśyāmi dhanaṃjayam upāntike 4 tasya darśanatṛṣṇaṃ māṃ sānujaṃ vanam āsthitam yājñasenyāḥ parāmarśaḥ sa ca vīra dahaty uta 5 nakulāt pūrvajaṃ pārthaṃ na paśyāmy amitaujasam ajeyam ugradhanvānaṃ tena tapye vṛkodara 6 tīrthāni caiva ramyāṇi vanāni ca sarāṃsi ca carāmi saha yuṣmābhis tasya darśanakāṅkṣayā 7 pañca varṣāṇy ahaṃ vīraṃ satyasaṃdhaṃ dhanaṃjayam yan na paśyāmi bībhatsuṃ tena tapye vṛkodara 8 taṃ vai śyāmaṃ gudākeśaṃ siṃhavikrānta gāminam na paśyāmi mahābāhuṃ tena tapye vṛkodara 9 kṛtāstraṃ nipunaṃ yuddhe pratimānaṃ dhanuṣmatām na paśyāmi naraśreṣṭhaṃ tena tapye vṛkodara 10 carantam arisaṃgheṣu kālaṃ kruddham ivāntakam prabhinnam iva mātaṅgaṃ siṃhaskandhaṃ dhanaṃjayam 11 yaḥ sa śakrād anavaro vīryeṇa draviṇena ca yamayoḥ pūrvajaḥ pārthaḥ śvetāśvo 'mitavikramaḥ 12 duḥkhena mahatāviṣṭaḥ svakṛtenānivartinā ajeyam ugradhanvānaṃ taṃ na paśyāmi phalgunam 13 satataṃ yaḥ kṣamā śīlaḥ kṣipyamāṇo 'py anīyasā ṛju mārgaprapannasya śarma dātābhayasya ca 14 sa tu jihmapravṛttasya māyayābhijighāṃsataḥ api vajradharasyāpi bhavet kālaviṣopamaḥ 15 śatror api prapannasya so 'nṛśaṃsaḥ pratāpavān dātābhayasya bhībhatsur amitātmā mahābalaḥ 16 sarveṣām āśramo 'smākaṃ raṇe 'rīṇāṃ pramarditā āhartā sarvaratnānāṃ sarveṣāṃ naḥ sukhāvahaḥ 17 ratnāni yasya vīryeṇa divyāny āsan purā mama bahūni bahu jātāni yāni prāptaḥ suyodhanaḥ 18 yasya bāhubalād vīra sabhā cāsīt purā mama sarvaratnamayī khyātā triṣu lokeṣu pāṇḍava 19 vāsudeva samaṃ vīrye kārtavīrya samaṃ yudhi ajeyam ajitaṃ yuddhe taṃ na paśyāmi phalgunam 20 saṃkarṣaṇaṃ mahāvīryaṃ tvāṃ ca bhīmāparājitam anujātaḥ sa vīryeṇa vāsudevaṃ ca śatruhā 21 yasya bāhubale tulyaḥ prabhāve ca puraṃdaraḥ jave vāyur mukhe somaḥ krodhe mṛtyuḥ sanātanaḥ 22 te vayaṃ taṃ naravyāghraṃ sarve vīra didṛkṣavaḥ pravekṣyāmo mahābāho parvataṃ gandhamādanam 23 viśālā badarī yatra naranārāyaṇāśramaḥ taṃ sadādhyuṣitaṃ yakṣair drakṣyāmo girim uttamam 24 kubera nalinīṃ ramyāṃ rākṣasair abhirakṣitām padbhir eva gamiṣyāmas tapyamānā mahat tapaḥ 25 nātapta tapasā śakyo deśo gantuṃ vṛkodara na nṛśaṃsena lubdhena nāpraśāntena bhārata 26 tatra sarve gamiṣyāmo bhīmārjunapadaiṣiṇaḥ sāyudhā baddhaniṣṭriṃśāḥ saha viprair mahāvrataiḥ 27 makṣikān maśakān daṃśān vyāghrān siṃhān sarīsṛpān prāpnoty aniyataḥ pārtha niyatas tān na paśyati 28 te vayaṃ niyatātmānaḥ parvataṃ gandhamādanam pravekṣyāmo mitāhārā dhanaṃjaya didṛkṣavaḥ |
The Mahabharata in Sanskrit
Book 3
Chapter 143
|
1
[वै] ते शूरास तत धन्वानस तूनवन्तः समार्गणाः बद्धगॊधाङ्गुलि तराणाः खद्गवन्तॊ ऽमितौजसः 2 परिगृह्य दविजश्रेष्ठाञ शरेष्ठाः सर्वधनुष्मताम पाञ्चाली सहिता राजन परययुर गन्धमादनम 3 सरांसि सरितश चैव पर्वतांश च वनानि च वृक्षांश च बहुल छायान ददृशुर गिरिमूर्धनि नित्यपुष्पफलान देशान देवर्षिगणसेवितान 4 आत्मन्य आत्मानम आधाय वीरा मूलफलाशनाः चेरुर उच्चावचाकारान देशान विषमसंकटान पश्यन्तॊ मृगजातानि बहूनि विविधानि च 5 ऋरि सिद्धामर युतं गन्धर्वाप्सरसां परियम विविशुस ते महात्मानः किंनराचरितं गिरिम 6 परविशत्स्व अथ वीरेषु पर्वतं गन्धमादनम चन्दवातं महद वर्षं परादुरासीद विशां पते 7 ततॊ रेणुः समुद्भूतः सपत्र बहुलॊ महान पृथिवीं चान्तरिक्षं च दयां चैव तमसावृणॊत 8 न सम परज्ञायते किं चिद आवृते वयॊम्नि रेणुना न चापि शेकुस ते कर्तुम अन्यॊन्यस्याभिभाषणम 9 न चापश्यन्त ते ऽनयॊन्यं तमसा हतचक्षुसः आकृष्यमाणा वातेन साश्म चूर्णेन भारत 10 दरुमाणां वातभग्नानां पततां भूतले भृशम अन्येषां च मही जानां शब्दः समभवन महान 11 दयौः सवित पतति किं भूमौ दीर्यन्ते पर्वता नु किम इति ते मेनिरे सर्वे पवनेन विमॊहिताः 12 ते यथानन्तरान वृक्षान वल्मीकान विषमाणि च पाणिभिः परिमार्गन्तॊ भीता वायॊर निलिल्यिरे 13 ततः कार्मुकम उद्यम्य भीमसेनॊ महाबलः कृष्णाम आदाय संगत्या तस्थाव आश्रित्य पादपम 14 धर्मराजश च धौम्यश च निलिल्याते महावने अग्निहॊत्राण्य उपादाय सहदेवस तु पर्वते 15 नकुलॊ बराह्मणाश चान्ये लॊमशश च महातपः वृक्षान आसाद्य संत्रस्तास तत्र तत्र निलिल्यिरे 16 मन्दी भूते च पवने तस्मिन रजसि शाम्यति महद्भिः पृषतैस तूर्णं वर्षम अभ्याजगाम ह 17 ततॊ ऽशमसहिता धाराः संवृण्वन्त्यः समन्ततः परपेतुर अनिशं तत्र शीघ्रवातसमीरिताः 18 ततः सागरगा आपः कीर्यमाणः समन्ततः परादुरासन सकलुसाः फेनवत्यॊ विशां पते 19 वहन्त्यॊ वारि बहुलं फेनॊदुप परिप्लुतम परिसस्रुर महाशब्दाः परकर्षन्त्यॊ महीरुहान 20 तस्मिन्न उपरते वर्षे वाते च समतां गते गते हय अम्भसि निम्नानि परादुर्भूते दिवाकरे 21 निर्जग्मुस ते शनैः सर्वे समाजग्मुश च भारत परतस्थुश च पुनर वीराः पर्वतं गन्धमादनम |
1
[vai] te śūrās tata dhanvānas tūnavantaḥ samārgaṇāḥ baddhagodhāṅguli trāṇāḥ khadgavanto 'mitaujasaḥ 2 parigṛhya dvijaśreṣṭhāñ śreṣṭhāḥ sarvadhanuṣmatām pāñcālī sahitā rājan prayayur gandhamādanam 3 sarāṃsi saritaś caiva parvatāṃś ca vanāni ca vṛkṣāṃś ca bahula chāyān dadṛśur girimūrdhani nityapuṣpaphalān deśān devarṣigaṇasevitān 4 ātmany ātmānam ādhāya vīrā mūlaphalāśanāḥ cerur uccāvacākārān deśān viṣamasaṃkaṭān paśyanto mṛgajātāni bahūni vividhāni ca 5 ṛri siddhāmara yutaṃ gandharvāpsarasāṃ priyam viviśus te mahātmānaḥ kiṃnarācaritaṃ girim 6 praviśatsv atha vīreṣu parvataṃ gandhamādanam candavātaṃ mahad varṣaṃ prādurāsīd viśāṃ pate 7 tato reṇuḥ samudbhūtaḥ sapatra bahulo mahān pṛthivīṃ cāntarikṣaṃ ca dyāṃ caiva tamasāvṛṇot 8 na sma prajñāyate kiṃ cid āvṛte vyomni reṇunā na cāpi śekus te kartum anyonyasyābhibhāṣaṇam 9 na cāpaśyanta te 'nyonyaṃ tamasā hatacakṣusaḥ ākṛṣyamāṇā vātena sāśma cūrṇena bhārata 10 drumāṇāṃ vātabhagnānāṃ patatāṃ bhūtale bhṛśam anyeṣāṃ ca mahī jānāṃ śabdaḥ samabhavan mahān 11 dyauḥ svit patati kiṃ bhūmau dīryante parvatā nu kim iti te menire sarve pavanena vimohitāḥ 12 te yathānantarān vṛkṣān valmīkān viṣamāṇi ca pāṇibhiḥ parimārganto bhītā vāyor nililyire 13 tataḥ kārmukam udyamya bhīmaseno mahābalaḥ kṛṣṇām ādāya saṃgatyā tasthāv āśritya pādapam 14 dharmarājaś ca dhaumyaś ca nililyāte mahāvane agnihotrāṇy upādāya sahadevas tu parvate 15 nakulo brāhmaṇāś cānye lomaśaś ca mahātapaḥ vṛkṣān āsādya saṃtrastās tatra tatra nililyire 16 mandī bhūte ca pavane tasmin rajasi śāmyati mahadbhiḥ pṛṣatais tūrṇaṃ varṣam abhyājagāma ha 17 tato 'śmasahitā dhārāḥ saṃvṛṇvantyaḥ samantataḥ prapetur aniśaṃ tatra śīghravātasamīritāḥ 18 tataḥ sāgaragā āpaḥ kīryamāṇaḥ samantataḥ prādurāsan sakalusāḥ phenavatyo viśāṃ pate 19 vahantyo vāri bahulaṃ phenodupa pariplutam parisasrur mahāśabdāḥ prakarṣantyo mahīruhān 20 tasminn uparate varṣe vāte ca samatāṃ gate gate hy ambhasi nimnāni prādurbhūte divākare 21 nirjagmus te śanaiḥ sarve samājagmuś ca bhārata pratasthuś ca punar vīrāḥ parvataṃ gandhamādanam |
The Mahabharata in Sanskrit
Book 3
Chapter 144
|
1
[वै] ततः परयातमात्रेषु पाण्डवेषु महात्मसु पद्भ्याम अनुचिता गन्तुं दरौपदी समुपाविशत 2 शरान्ता दुःखपरीता च वातवर्षेण तेन च सौकुमार्याच च पाञ्चाली संमुमॊह यशॊ विनी 3 सा पात्यमाना मॊहेन बाहुभ्याम असितेक्षणा वृत्ताभ्याम अनुरूपाभ्याम ऊरू समवलम्बत 4 आलम्बमाना सहिताव ऊरू गजकरॊपमौ पपात सहसा भूमौ वेपन्ती कदली यथा 5 तां पतन्तीं वरारॊहां सज्जमानां लताम इव नकुलः समभिद्रुत्य परिजग्राह वीर्यवान 6 [नकुल] राजन पाञ्चालराजस्य सुतेयम असितेक्षणा शरान्ता निपतिता भूमौ ताम अवेक्षस्व भारत 7 अदुःखार्हा परं दुःखं पराप्तेयं मृदु गामिनी आश्वासय महाराज ताम इमां शरमकर्शिताम 8 [वै] राजा तु वचनात तस्य भृशं दुःखसमन्वितः भीमश च सहदेवश च सहसा समुपाद्रवन 9 ताम अवेक्ष्य तु कौन्तेयॊ विवर्णवदनां कृशाम अङ्कम आनीय धर्मात्मा पर्यदेवयद आतुरः 10 कथं वेश्मसु गुप्तेषु सवास्तीर्णशयनॊचिताः शेते निपतिता भूमौ सुखार्हा वरवर्णिनी 11 सुकुमारौ कथं पादौ मुखं च कमलप्रभम मत्कृते ऽदय वरार्हायाः शयामतां समुपागतम 12 किम इदं दयूतकामेन मया कृतम अबुद्धिना आदाय कृष्णां चरता वने मृगगणायुते 13 सुखं पराप्स्यति पाञ्चाली पाण्डवान पराप्य वै पतीन इति दरुपदराजेन पित्रा दत्तायतेक्षणा 14 तत सर्वम अनवाप्यैव शरमशॊकाद धि कर्शिता शेते निपतिता भूमौ पापस्य मम कर्मभिः 15 तथा लालप्यमाने तु धर्मराजे युधिष्ठिरे धौम्यप्रभृतयः सर्वे तत्राजग्मुर दविजॊत्तमाः 16 ते समाश्वासयाम आसुर आशीर्भिश चाप्य अपूजयन रक्ष घनांश च तथा मन्त्राञ जेपुश चक्रुश च ते करियाः 17 पथ्यमानेषु मन्त्रेषु शान्त्यर्थं परमर्षिभिः सपृश्यमाना करैः शीतैः पाण्डवैश च मुहुर मुहुः 18 सेव्यमाना च शीतेन जलमिश्रेण वायुना पाञ्चाली सुखम आसाद्य लेभे चेतः शनैः शनैः 19 परिगृह्य च तां दीनां कृष्णाम अजिन संस्तरे तदा विश्रामयाम आसुर लब्धसंज्ञां तपॊ विनीम 20 तस्या यमौ रक्ततलौ पादौ पूजित लक्षणौ कराभ्यां किणजाताभ्यां शनकैः संववाहतुः 21 पर्याश्वासयद अप्य एनां धर्मराजॊ युधिष्ठिरः उवाच च कुरुश्रेष्ठॊ भीमसेनम इदं वचः 22 बहवः पर्वता भीम विषमा हिमदुर गमाः तेषु कृष्णा महाबाहॊ कथं नु विचरिष्यति 23 [भम] तवां राजन राजपुत्रीं च यमौ च पुरुषर्षभौ सवयं नेष्यामि राजेन्द्र मा विषादे मनः कृथाः 24 अथ वासौ मया जातॊ विहगॊ मद्बलॊपमः वहेद अनघ सर्वान नॊ वचनात ते घतॊत्कचः 25 [वै] अनुज्ञातॊ धर्मराज्ञा पुत्रं सस्मार राक्षसम घतॊत्कचश च धर्मात्मा समृत मात्रः पितुस तदा कृताञ्जलिर उपातिष्ठद अभिवाद्याथ पाण्डवान 26 बराह्मणांश च महाबाहुः स च तैर अभिनन्दितः उवाच भीमसेनं स पितरं सत्यविक्रमः 27 समृतॊ ऽसमि भवता शीघ्रं शुश्रूषुर अहम आगतः आज्ञापय महाबाहॊ सर्वं कर्तास्म्य असंशयम तच छरुत्वा भीमसेनस तु राक्षसं परिसस्वजे |
1
[vai] tataḥ prayātamātreṣu pāṇḍaveṣu mahātmasu padbhyām anucitā gantuṃ draupadī samupāviśat 2 śrāntā duḥkhaparītā ca vātavarṣeṇa tena ca saukumāryāc ca pāñcālī saṃmumoha yaśo vinī 3 sā pātyamānā mohena bāhubhyām asitekṣaṇā vṛttābhyām anurūpābhyām ūrū samavalambata 4 ālambamānā sahitāv ūrū gajakaropamau papāta sahasā bhūmau vepantī kadalī yathā 5 tāṃ patantīṃ varārohāṃ sajjamānāṃ latām iva nakulaḥ samabhidrutya parijagrāha vīryavān 6 [nakula] rājan pāñcālarājasya suteyam asitekṣaṇā śrāntā nipatitā bhūmau tām avekṣasva bhārata 7 aduḥkhārhā paraṃ duḥkhaṃ prāpteyaṃ mṛdu gāminī āśvāsaya mahārāja tām imāṃ śramakarśitām 8 [vai] rājā tu vacanāt tasya bhṛśaṃ duḥkhasamanvitaḥ bhīmaś ca sahadevaś ca sahasā samupādravan 9 tām avekṣya tu kaunteyo vivarṇavadanāṃ kṛśām aṅkam ānīya dharmātmā paryadevayad āturaḥ 10 kathaṃ veśmasu gupteṣu svāstīrṇaśayanocitāḥ śete nipatitā bhūmau sukhārhā varavarṇinī 11 sukumārau kathaṃ pādau mukhaṃ ca kamalaprabham matkṛte 'dya varārhāyāḥ śyāmatāṃ samupāgatam 12 kim idaṃ dyūtakāmena mayā kṛtam abuddhinā ādāya kṛṣṇāṃ caratā vane mṛgagaṇāyute 13 sukhaṃ prāpsyati pāñcālī pāṇḍavān prāpya vai patīn iti drupadarājena pitrā dattāyatekṣaṇā 14 tat sarvam anavāpyaiva śramaśokād dhi karśitā śete nipatitā bhūmau pāpasya mama karmabhiḥ 15 tathā lālapyamāne tu dharmarāje yudhiṣṭhire dhaumyaprabhṛtayaḥ sarve tatrājagmur dvijottamāḥ 16 te samāśvāsayām āsur āśīrbhiś cāpy apūjayan rakṣa ghnāṃś ca tathā mantrāñ jepuś cakruś ca te kriyāḥ 17 pathyamāneṣu mantreṣu śāntyarthaṃ paramarṣibhiḥ spṛśyamānā karaiḥ śītaiḥ pāṇḍavaiś ca muhur muhuḥ 18 sevyamānā ca śītena jalamiśreṇa vāyunā pāñcālī sukham āsādya lebhe cetaḥ śanaiḥ śanaiḥ 19 parigṛhya ca tāṃ dīnāṃ kṛṣṇām ajina saṃstare tadā viśrāmayām āsur labdhasaṃjñāṃ tapo vinīm 20 tasyā yamau raktatalau pādau pūjita lakṣaṇau karābhyāṃ kiṇajātābhyāṃ śanakaiḥ saṃvavāhatuḥ 21 paryāśvāsayad apy enāṃ dharmarājo yudhiṣṭhiraḥ uvāca ca kuruśreṣṭho bhīmasenam idaṃ vacaḥ 22 bahavaḥ parvatā bhīma viṣamā himadur gamāḥ teṣu kṛṣṇā mahābāho kathaṃ nu vicariṣyati 23 [bhm] tvāṃ rājan rājaputrīṃ ca yamau ca puruṣarṣabhau svayaṃ neṣyāmi rājendra mā viṣāde manaḥ kṛthāḥ 24 atha vāsau mayā jāto vihago madbalopamaḥ vahed anagha sarvān no vacanāt te ghatotkacaḥ 25 [vai] anujñāto dharmarājñā putraṃ sasmāra rākṣasam ghatotkacaś ca dharmātmā smṛta mātraḥ pitus tadā kṛtāñjalir upātiṣṭhad abhivādyātha pāṇḍavān 26 brāhmaṇāṃś ca mahābāhuḥ sa ca tair abhinanditaḥ uvāca bhīmasenaṃ sa pitaraṃ satyavikramaḥ 27 smṛto 'smi bhavatā śīghraṃ śuśrūṣur aham āgataḥ ājñāpaya mahābāho sarvaṃ kartāsmy asaṃśayam tac chrutvā bhīmasenas tu rākṣasaṃ parisasvaje |
The Mahabharata in Sanskrit
Book 3
Chapter 145
|
1
[य] धर्मज्ञॊ बलवाञ शूरः सद्यॊ राक्षसपुंगवः भक्तॊ ऽसमान औरसः पुत्रॊ भीम गृह्णातु मातरम 2 तव भीमबलेनाहम अतिभीम पराक्रम अक्षतः सह पाञ्चाल्या गच्छेयं गन्धमादनम 3 भरातुर वचनम आज्ञाय भीमसेनॊ घतॊत्कचम आदिदेश नरव्याघ्रस तनयं शत्रुकर्शनम 4 दैदिम्बेय परिश्रान्ता तव मातापराजिता तवं च कामगमस तात बलवान वहतां खग 5 सकन्धम आरॊप्य भद्रं ते मध्ये ऽसमाकं विहायसा गच्छ नीचकिया गत्या यथा चैनां न पीडयेः 6 धर्मराजां च धौम्यं च राज पुत्रीं यमौ तथा एकॊ ऽपय अहम अलं वॊढुं किम उताद्य सहायवान 7 एवम उक्त्वा ततः कृष्णाम उवाह स घतॊत्कचः पाण्डूनां मध्यगॊ वीरः पाण्डवान अपि चापरे 8 लॊमशः सिद्धमार्गेण जगामानुपम दयुतिः सवेनैवात्म परभावेन दवितीय इव भास्करः 9 बराह्मणांश चापि तान सर्वा समुपादाय राक्षसाः नियॊगाद राक्षसेन्द्रस्य जग्मुर भीमपराक्रमाः 10 एवं सुरम अनीयानि वनान्य उपवनानि च आलॊकयन्तस ते जग्मुर विशालां बदरीं परति 11 ते तव आशु गतिभिर वीरा राक्षसैस तैर महाबलैः उह्यमाना ययुः शीघ्रं महद अध्वानम अल्पवत 12 देशान मलेच्छ गणाकीर्णान नानारत्नाकरायुतान ददृशुर गिरिपादांश च नानाधातुसमाचितान 13 विद्याधरगणाकीर्णान युतान वानरकिंनरैः तथा किंपुरुषैश चैव गन्धर्वैश च समन्ततः 14 नदी जालसमाकीर्णान नानापक्षिरुताकुलान नानाविधैर मृगैर जुष्टान वानरैश चॊपशॊभितान 15 ते वयतीत्य बहून देशान उत्तरांश च कुरून अपि ददृशुर विविधाश्चर्यं कैलासं पर्वतॊत्तमम 16 तस्याभ्याशे तु ददृशुर नरनारायणाश्रमम उपेतं पादपैर दिव्यैः सदा पुष्पफलॊपगैः 17 ददृशुस तां च बदरीं वृत्तस्कन्धां मनॊरमाम सनिग्धाम अविरल छायां शरिया परमया युताम 18 पत्रैः सनिग्धैर अविललैर उपैतां मृदुभिः शुभाम विशालशाखां विष्टीर्णाम अति दयुतिसमन्विताम 19 फलैर उपचितैर दिव्यैर आचितां सवादुभिर भृशम मधुस्रवैः सदा दिव्यां महर्षिगणसेविताम मदप्रमुदितैर नित्यं नानाद्विज गणैर युताम 20 अदंश मशके देशे बहुमूलफलॊदके नीलशाद्वल संछन्ने देवगन्धर्वसेविते 21 सुसमीकृत भूभागे सवभावविहिते शुभे जातां हिममृदु सपर्शे देशे ऽपहत कन्तके 22 ताम उपैत्य महात्मानः सह तैर बराह्मणर्षभैः अवतेरुस ततः सर्वे राक्षस सकन्धतः शनैः 23 ततस तम आश्रमं पुण्यं नरनारायणाश्रितम ददृशुः पाण्डवा राजन सहिता दविजपुंगवैः 24 तमसा रहितं पुण्यम अनामृष्टं रवेः करैः कषुत तृट शीतॊष्णदॊषैश च वर्जितं शॊकनाशनम 25 महर्षिगणसंबाधं बराह्म्या लक्ष्म्या समन्वितम दुष्प्रवेशं महाराज नरैर धर्मबहिः कृतैः 26 बलिहॊमार्चितं दिव्यं सुसंमृष्टानुलेपनम दिव्यपुष्पॊपहारैश च सर्वतॊ ऽभिविराजितम 27 विशालैर अग्निशरणैः सरुग भान्दैर आचितं शुभैः महद्भिस तॊयकलशैः कथिनैश चॊपशॊभितम शरण्यं सर्वभूतानां बरह्मघॊषनिनादितम 28 दिव्यम आश्रयणीयं तम आश्रमं शरमनाशनम शरिया युतम अनिर्देश्यं देव चर्यॊपशॊभितम 29 फलमूलाशनैर दान्तैश चीरकृष्णाजिनाम्बरैः सूर्यवैश्वानर समैस तपसा भावितात्मभिः 30 महर्षिभिर मॊक्षपरैर यतिभिर नियतेन्द्रियैः बरह्मभूतैर महाभागैर उपैतं बरह्मवादिभिः 31 सॊ ऽभयगच्छन महातेजास तान ऋषीन नियतः शुचिः भरातृभिः सहितॊ धीमान धर्मपुत्रॊ युधिष्ठिर 32 दिव्यज्ञानॊपपन्नास ते दृष्ट्वा पराप्तं युधिष्ठिरम अभ्यगच्छन्त सुप्रीताः सर्व एव महर्षयः आशीर्वादान परयुञ्जानाः सवाध्यायनिरता भृशम 33 परीतास ते तस्य सत्कारं विधिना पावकॊपमाः उपाजह्रुश च सलिलं पुष्पमूलफलं शुचि 34 स तैः परीत्याथ सत्कारम उपनीतं महर्षिभिः परयतः परतिगृह्याथ धर्मपुत्रॊ युधिष्ठिरः 35 तं शक्र सदन परख्यं दिव्यगन्धं मनॊरमम परीतः सवर्गॊपमं पुण्यं पाण्डवः सह कृष्णया 36 विवेश शॊभया युक्तं भरातृभिश च सहानघ बराह्मणैर वेदवेदाङ्गपारगैश च सहाच्युतः 37 तत्रापश्यत स धर्मात्मा देवदेवर्षिपूजितम नरनारायण सथानं भागीरथ्यॊपशॊभितम 38 मधुस्रव फलां दिव्यां महर्षिगणसेविताम ताम उपैत्य महात्मानस ते ऽवसन बराह्मणैः सह 39 आलॊकयन्तॊ मैनाकं नानाद्विज गणायुतम हिरण्यशिखरं चैव तच च बिन्दुसरः शिवम 40 भागीरथीं सुतार्थां च शीतामल जरां शिवाम मनि परवालप्रस्तारां पादपैर उपशॊभिताम 41 दिव्यपुष्पसमाकीर्णां मनसः परीतिवर्धनीम वीक्षमाणा महात्मानॊ विजह्रुस तत्र पाण्डवाः 42 तत्र देवान पितॄंश चैव तर्पयन्तः पुनः पुनः बराह्मणैः सहिता वीरा नयवसन पुरुषर्षभाः 43 कृष्णायास तत्र पश्यन्तः करीडितान्य अमरप्रभाः विचित्राणि नरव्याघ्रा रेमिरे तत्र पाण्डवाः |
1
[y] dharmajño balavāñ śūraḥ sadyo rākṣasapuṃgavaḥ bhakto 'smān aurasaḥ putro bhīma gṛhṇātu mātaram 2 tava bhīmabalenāham atibhīma parākrama akṣataḥ saha pāñcālyā gaccheyaṃ gandhamādanam 3 bhrātur vacanam ājñāya bhīmaseno ghatotkacam ādideśa naravyāghras tanayaṃ śatrukarśanam 4 daidimbeya pariśrāntā tava mātāparājitā tvaṃ ca kāmagamas tāta balavān vahatāṃ khaga 5 skandham āropya bhadraṃ te madhye 'smākaṃ vihāyasā gaccha nīcakiyā gatyā yathā caināṃ na pīḍayeḥ 6 dharmarājāṃ ca dhaumyaṃ ca rāja putrīṃ yamau tathā eko 'py aham alaṃ voḍhuṃ kim utādya sahāyavān 7 evam uktvā tataḥ kṛṣṇām uvāha sa ghatotkacaḥ pāṇḍūnāṃ madhyago vīraḥ pāṇḍavān api cāpare 8 lomaśaḥ siddhamārgeṇa jagāmānupama dyutiḥ svenaivātma prabhāvena dvitīya iva bhāskaraḥ 9 brāhmaṇāṃś cāpi tān sarvā samupādāya rākṣasāḥ niyogād rākṣasendrasya jagmur bhīmaparākramāḥ 10 evaṃ suram anīyāni vanāny upavanāni ca ālokayantas te jagmur viśālāṃ badarīṃ prati 11 te tv āśu gatibhir vīrā rākṣasais tair mahābalaiḥ uhyamānā yayuḥ śīghraṃ mahad adhvānam alpavat 12 deśān mleccha gaṇākīrṇān nānāratnākarāyutān dadṛśur giripādāṃś ca nānādhātusamācitān 13 vidyādharagaṇākīrṇān yutān vānarakiṃnaraiḥ tathā kiṃpuruṣaiś caiva gandharvaiś ca samantataḥ 14 nadī jālasamākīrṇān nānāpakṣirutākulān nānāvidhair mṛgair juṣṭān vānaraiś copaśobhitān 15 te vyatītya bahūn deśān uttarāṃś ca kurūn api dadṛśur vividhāścaryaṃ kailāsaṃ parvatottamam 16 tasyābhyāśe tu dadṛśur naranārāyaṇāśramam upetaṃ pādapair divyaiḥ sadā puṣpaphalopagaiḥ 17 dadṛśus tāṃ ca badarīṃ vṛttaskandhāṃ manoramām snigdhām avirala chāyāṃ śriyā paramayā yutām 18 patraiḥ snigdhair avilalair upaitāṃ mṛdubhiḥ śubhām viśālaśākhāṃ viṣṭīrṇām ati dyutisamanvitām 19 phalair upacitair divyair ācitāṃ svādubhir bhṛśam madhusravaiḥ sadā divyāṃ maharṣigaṇasevitām madapramuditair nityaṃ nānādvija gaṇair yutām 20 adaṃśa maśake deśe bahumūlaphalodake nīlaśādvala saṃchanne devagandharvasevite 21 susamīkṛta bhūbhāge svabhāvavihite śubhe jātāṃ himamṛdu sparśe deśe 'pahata kantake 22 tām upaitya mahātmānaḥ saha tair brāhmaṇarṣabhaiḥ avaterus tataḥ sarve rākṣasa skandhataḥ śanaiḥ 23 tatas tam āśramaṃ puṇyaṃ naranārāyaṇāśritam dadṛśuḥ pāṇḍavā rājan sahitā dvijapuṃgavaiḥ 24 tamasā rahitaṃ puṇyam anāmṛṣṭaṃ raveḥ karaiḥ kṣut tṛṭ śītoṣṇadoṣaiś ca varjitaṃ śokanāśanam 25 maharṣigaṇasaṃbādhaṃ brāhmyā lakṣmyā samanvitam duṣpraveśaṃ mahārāja narair dharmabahiḥ kṛtaiḥ 26 balihomārcitaṃ divyaṃ susaṃmṛṣṭānulepanam divyapuṣpopahāraiś ca sarvato 'bhivirājitam 27 viśālair agniśaraṇaiḥ srug bhāndair ācitaṃ śubhaiḥ mahadbhis toyakalaśaiḥ kathinaiś copaśobhitam śaraṇyaṃ sarvabhūtānāṃ brahmaghoṣanināditam 28 divyam āśrayaṇīyaṃ tam āśramaṃ śramanāśanam śriyā yutam anirdeśyaṃ deva caryopaśobhitam 29 phalamūlāśanair dāntaiś cīrakṛṣṇājināmbaraiḥ sūryavaiśvānara samais tapasā bhāvitātmabhiḥ 30 maharṣibhir mokṣaparair yatibhir niyatendriyaiḥ brahmabhūtair mahābhāgair upaitaṃ brahmavādibhiḥ 31 so 'bhyagacchan mahātejās tān ṛṣīn niyataḥ śuciḥ bhrātṛbhiḥ sahito dhīmān dharmaputro yudhiṣṭhira 32 divyajñānopapannās te dṛṣṭvā prāptaṃ yudhiṣṭhiram abhyagacchanta suprītāḥ sarva eva maharṣayaḥ āśīrvādān prayuñjānāḥ svādhyāyaniratā bhṛśam 33 prītās te tasya satkāraṃ vidhinā pāvakopamāḥ upājahruś ca salilaṃ puṣpamūlaphalaṃ śuci 34 sa taiḥ prītyātha satkāram upanītaṃ maharṣibhiḥ prayataḥ pratigṛhyātha dharmaputro yudhiṣṭhiraḥ 35 taṃ śakra sadana prakhyaṃ divyagandhaṃ manoramam prītaḥ svargopamaṃ puṇyaṃ pāṇḍavaḥ saha kṛṣṇayā 36 viveśa śobhayā yuktaṃ bhrātṛbhiś ca sahānagha brāhmaṇair vedavedāṅgapāragaiś ca sahācyutaḥ 37 tatrāpaśyat sa dharmātmā devadevarṣipūjitam naranārāyaṇa sthānaṃ bhāgīrathyopaśobhitam 38 madhusrava phalāṃ divyāṃ maharṣigaṇasevitām tām upaitya mahātmānas te 'vasan brāhmaṇaiḥ saha 39 ālokayanto mainākaṃ nānādvija gaṇāyutam hiraṇyaśikharaṃ caiva tac ca bindusaraḥ śivam 40 bhāgīrathīṃ sutārthāṃ ca śītāmala jarāṃ śivām mani pravālaprastārāṃ pādapair upaśobhitām 41 divyapuṣpasamākīrṇāṃ manasaḥ prītivardhanīm vīkṣamāṇā mahātmāno vijahrus tatra pāṇḍavāḥ 42 tatra devān pitṝṃś caiva tarpayantaḥ punaḥ punaḥ brāhmaṇaiḥ sahitā vīrā nyavasan puruṣarṣabhāḥ 43 kṛṣṇāyās tatra paśyantaḥ krīḍitāny amaraprabhāḥ vicitrāṇi naravyāghrā remire tatra pāṇḍavāḥ |
The Mahabharata in Sanskrit
Book 3
Chapter 146
|
1
[वै] तत्र ते पुरुषव्याघ्राः परमं शौचम आस्थिताः सॊ रात्रम अवसन वीरा धनंजय दिदृक्षया तस्मिन विहरमाणाश च रममाणाश च पाण्डवाः 2 मनॊज्ञे काननवरे सर्वभूतमनॊरमे पादपैः पुष्पविकचैः फलभारावनामितैः 3 शॊभितं सर्वतॊ रम्यैः पुंस्कॊकिल कुलाकुलैः सनिग्धपत्रैर अविरलैः शीतछायैर मनॊरमैः 4 सरांसि च विचित्राणि परसन्नसलिलानि च कमलैः सॊत्पलैस तत्र भराजमानानि सर्वशः पश्यन्तश चारुरूपाणि रेमिरे तत्र पाण्डवाः 5 पुण्यगन्धः सुखस्पर्शॊ ववौ तत्र समीरणः हलादयन पाण्डवान सर्वान सकृष्णान सद्विजर्षभान 6 ततः पूर्वॊत्तरॊ वायुः पवमानॊ यदृच्छया सहस्रपत्रम अर्काभं दिव्यं पद्मम उदावहत 7 तद अपश्यत पाञ्चाली दिव्यगन्धं मनॊरमम अनिलेनाहृतं भूमौ पतितं जलजं शुचि 8 तच छुभाशुभम आसाद्य सौगन्धिकम अनुत्तमम अतीव मुदिता राजन भीमसेनम अथाब्रवीत 9 पश्य दिव्यं सुरुचिरं भीम पुष्पम अनुत्तमम गन्धसंस्थान संपन्नं मनसॊ मम नन्दनम 10 एतत तु धर्मराजाय परदास्यामि परंतप हरेर इदं मे कामाय काम्यके पुनर आश्रमे 11 यदि ते ऽहं परिया पार्थ बहूनीमान्य उपाहर तान्य अहं नेतुम इच्छामि काम्यकं पुनर आश्रमम 12 एवम उक्त्वा तु पाञ्चाली भीमसेनम अनिन्दिता जगाम धर्मराजाय पुष्पम आदाय तत तदा 13 अभिप्रायं तु विज्ञाय महिष्याः पुरुषर्षभः परियाया परियकामः सॊ भीमॊ भीमपराक्रमः 14 वातं तम एवाभिमुखॊ यतस तत पुष्पम आगतम आजिहीर्षुर जगामाशु स पुष्पाण्य अपरान्य अपि 15 रुक्मपृष्ठं धनुर गृह्यं शरांश चाशीविषॊपमान मृगराड इव संक्रुद्धः परभिन्न इव कुञ्जरः 16 दरौपद्याः परियम अन्विच्छन सवबाहुबलम आश्रितः वयपैत भयसंमॊहः शैलम अभ्यपतद बली 17 स तं दरुमलता गुल्मछन्नं नीलशिलातलम गिरिं च चारारि हरः किंनराचरितं शुभम 18 नानावर्णधरैश चित्रं धातुद्रुम मृगान्दजैः सर्वभूषण संपूर्णं भूमेर भुजम इवॊच्छ्रितम 19 सर्वर्तुरमणीयेषु गन्धमादन सानुषु सक्तचक्षुर अभिप्रायं हृदयेनानुचिन्तयन 20 पुंस्कॊकिल निनादेषु सत्पदाभिरुतेषु च बद्धश्रॊत्र मनश चक्षुर जगामामित विक्रमः 21 जिघ्रमाणॊ महातेजाः सर्वर्तुकुसुमॊद्भवम गन्धम उद्दामम उद्दामॊ वने मत्त इव दविपः 22 हरियमाण शरमः पित्रा संप्रहृष्टतनूरुहः पितुः संस्पर्शशीतेन गन्धमादन वायुना 23 स यक्षगन्धर्वसुरब्रह्मर्षिगणसेवितम विलॊडयाम आस तदा पुष्पहेतॊर अरिंदमः 24 विषमछेदरचितैर अनुलिप्तम इवाङ्गुलैः विमलैर धातुविच्छेदैः काञ्चनाञ्जनराजतैः 25 सपक्षम इव नृत्यन्तं पार्श्वलग्नैः पयॊधरैः मुक्ताहारैर इव चितं चयुतैः परस्रवणॊदकैः 26 अभिराम नरी कुञ्ज निर्झरॊदक कन्दरम अप्सरॊनूपुर रवैः परनृत्त बहु बर्हिणम 27 दिग वारणविषाणाग्रैर घृष्टॊपल शिलातलम सरस्तांशुकम इवाक्षॊभ्यैर निम्नगा निःसृतैर जलैः 28 सशस्प कवलैः सवस्थैर अदूरपरिवर्तिभिः भयस्याज्ञैश च हरिणैः कौतूहलनिरीक्षितः 29 चालयन्न ऊरुवेगेन लता जालान्य अनेकशः आक्रीडमानः कौन्तेयः शरीमान वायुसुतॊ ययौ 30 परिया मनॊरथं कर्तुम उद्यतश चारुलॊचनः परांशुः कनकतालाभः सिंहसंहननॊ युवा 31 मत्तवानरविक्रान्तॊ मत्तवारणवेगवान मत्तवानरताम्राक्षॊ मत्तवानरवारणः 32 परिय पार्श्वॊपविष्टाभिर वयावृत्ताभिर विचेष्टितैः यक्षगन्धर्वयॊषाभिर अदृश्याभिर निरीक्ष्टितः 33 नवावतारं रूपस्य विक्रीणन्न इव पाण्डवः चचार रमणीयेषु गन्धमादन सानुषु 34 संस्मरन विविधान कलेशान दुर्यॊधनकृतान बहून दरौपद्या वनवासिन्याः परियं कर्तुं समुद्यतः 35 सॊ ऽचिन्तयद गते सवर्गम अर्जुने मयि चागते पुष्पहेतॊर कथं नव आर्यः करिष्यति युधिष्ठिरः 36 सनेहान नरवरॊ नूनम अविश्वासाद वनस्य च नकुलं सहदेवं च न मॊक्ष्यति युधिष्ठिरः 37 कथं नु कुसुमावाप्तिः सयाच छीघ्रम इति चिन्तयन परतस्थे नरशार्दूलः पक्षिराड इव वेगितः 38 कम्पयन मेदिनीं पद्भ्यां निर्घात इव पर्वसु तरासयन गजयूथानि वातरंहा वृकॊदरः 39 सिंहव्याघ्र गणांश चैव मर्दमानॊ महाबलः उन्मूलयन महावृक्षान पॊथयंश चॊरसा बली 40 तला वल्लीश च वेगेन विकर्षन पाण्डुनन्दनः उपर्य उपरि शैलाग्रम आरुरुक्षुर इव दविपः विनर्दमानॊ ऽतिभृशं सविद्युदिव तॊयदः 41 तस्य शब्देन घॊरेण धनुर घॊषेण चाभिभॊ तरस्तानि मृगयूथानि समन्ताद विप्रदुद्रुवुः 42 अथापश्यन महाबाहुर गन्धमादन सानुषु सुरम्यं कदली सन्दं बहुयॊजनविस्तृतम 43 तम अभ्यगच्छद वेगेन कषॊभयिष्यन महाबलः महागज इवास्रावी परभञ्जन विविधान दरुमान 44 उत्पाट्य कदली सकन्धान बहुतालसमुच्छ्रयान चिक्षेप तरसा भीमः समन्ताद बलिनां वरः 45 ततः सत्त्वान्य उपाक्रामन बहूनि च महान्ति च रुरुवारणसंघाश च महिषाश च जलाश्रयाः 46 सिंहव्याघ्राश च संक्रुद्धा भीमसेनम अभिद्रवन वयादितास्या महारौद्रा विनदन्तॊ ऽतिभीषणाः 47 ततॊ वायुसुतः करॊधात सवबाहुबलम आश्रितः गजेनाघ्नन गजं भीमः सिंहं सिन्हेन चाभिभूः तलप्रहारैर अन्यांश च वयहनत पाण्डवॊ बली 48 ते हन्यमाना भीमेन सिंहव्याघ्र तरक्षवः भयाद विससृपुः सर्वे शकृन मूत्रं च सुस्रुवुः 49 परविवेश ततः कषिप्रं तान अपास्य महाबलः वनं पाण्डुसुतः शरीमाञ शब्देनापूरयन दिशः 50 तेन शब्देन चॊग्रेण भीमसेनरवेण च वनान्तर गताः सर्वे वित्रेषुर मृगपक्षिणः 51 तं शब्दं सहसा शरुत्वा मृगपक्षिसमीरितम जलार्द्रपक्षा विहगाः समुत्पेतुः सहस्रशः 52 तान औदकान पक्षिगणान निरीक्ष्य भरतर्षभः तान एवानुसरन रम्यं ददर्श सुमहत सरः 53 काञ्चनैः कदली सन्दैर मन्दमारुत कम्पितैः वीज्यमानम इवाक्षॊभ्यं तीरान्तर विसर्पिभिः 54 तत सरॊ ऽथावतीर्याशु परभूतकमलॊत्पलम महागज इवॊद्दामश चिक्रीड बलवद बली विक्रीड्य तस्मिन सुचिरम उत्ततारामित दयुतिः 55 ततॊ ऽवगाह्य वेगेन तद वनं बहुपादपम दध्मौ च शङ्खं सवनवत सर्वप्राणेन पाण्डवः 56 तस्य शङ्खस्य शब्देन भीमसेनरवेण च बाहुशब्देन चॊग्रेण नर्दन्तीव गिरेर गुहाः 57 तं वज्रनिष्पेष समम आस्फॊटितरवं भृशम शरुत्वा शैलगुहासुप्तैः सिंहैर मुक्तॊ महास्वनः 58 सिंहनाद भयत्रस्तैः कुञ्जरैर अपि भारत मुक्तॊ विरावः सुमहान पर्वतॊ येन पूरितः 59 तं तु नादं ततः शरुत्वा सुप्तॊ वानरपुंगवः पराजृम्भत महाकायॊ हनूमान नाम वानरः 60 कदलीषण्डमध्यस्थॊ निद्रावशगतस तदा जृम्भमाणः सुविपुलं शक्रध्वजम इवॊत्श्रितम आस्फॊटयत लाङ्गूलम इन्द्राशनिसमस्वनम 61 तस्य लाङ्गूलनिदनं पर्वतः स गुहा मुखैः उद्गारम इव गौर नर्दम उत्ससर्ज समन्ततः 62 स लाङ्गूलरवस तस्य मत्तवारणनिस्वनम अन्तर्धाय विचित्रेषु च चारगिरिसानुषु 63 स भीमसेनस तं शरुत्वा संप्रहृष्टतनूरुहः शब्दप्रभवम अन्विच्छंश च चारकदली वनम 64 कदली वनमध्यस्थम अथ पीने शिलातले स ददर्श महाबाहुर वानराधिपतिं सथितम 65 विद्युत संघातदुष्प्रेक्ष्यं विद्युत संघातपिङ्गलम विद्युत संघातसदृशं विद्युत संघातचञ्चलम 66 बाहुस्वस्तिक विन्यस्त पीनह्रस्वशिरॊ धरम सकन्धभूयिष्ठ कायत्वात तनुमध्य कती ततम 67 किं चिच चाभुग्न शीर्षेण दीर्घरॊमाञ्चितेन च लाङ्गूलेनॊर्ध्व गतिना धवजेनेव विराजितम 68 रक्तॊष्ठं ताम्रजिह्वास्यं रक्तकर्णं चलद भरुवम वदनं वृत्तदंस्त्राग्रं रश्मिवन्तम इवॊदुपम 69 वदनाभ्यन्तर गतैः शुक्लभासैर अलं कृतम केषरॊत्कर संमिश्रम अशॊकानाम इवॊत्करम 70 हिरण्मयीनां मध्यस्थं कदलीनां महाद्युतिम दीप्यमानं सववपुषा अर्चिष्मन्तम इवानलम 71 निरीक्षन्तम अवित्रस्तं लॊचनैर मधुपिङ्गलैः तं वानरवरं वीरम अतिकायं महाबलम 72 अथॊपसृत्य तरसा भीमॊ भीमपराक्रमः सिंहनादं समकरॊद बॊधयिष्यन कपिं तदा 73 तेन शब्देन भीमस्य वित्रेषुर मृगपक्षिणः हनूमांश च महासत्त्वम ईषद उन्मील्य लॊचने अवेक्षद अथ सावज्ञं लॊचनैर मधुपिङ्गलैः 74 समितेनाभाष्य कौन्तेयं वानरॊ नरम अब्रवीत किमर्थं सरुजस ते ऽहं सुखसुप्तः परबॊधितः 75 ननु नाम तवया कार्या दया भूतेषु जानता वयं धर्मं न जानीमस तिर्यग्यॊनिं समाश्रिताः 76 मनुष्या बुद्धिसंपन्ना दयां कुर्वन्ति जन्तुषु करूरेषु कर्मसु कथं देहवाक चित्तदूषिषु धर्मघातिषु सज्जन्ते बुद्धिमन्तॊ भवद्विधाः 77 न तवं धर्मं विजानासि वृद्धा नॊपासितास तवया अल्पबुद्धितया वन्यान उत्सादयसि यन मृगान 78 बरूहि कस तवं किमर्थं वा वनं तवम इदम आगतः वर्जितं मानुषैर भावैस तथैव पुरुषैर अपि 79 अतः परमगम्यॊ ऽयं पर्वतः सुदुरारुहः विना सिद्धगतिं वीर गतिर अत्र न विद्यते 80 कारुण्यात सौहृदाच चैव वारये तवां महाबल नातः परं तवया शक्यं गन्तुम आश्वसिहि परभॊ 81 इमान्य अमृतकल्पाणि मूलानि च फलानि च भक्षयित्वा निवर्तस्व गराह्यं यदि वचॊ मम |
1
[vai] tatra te puruṣavyāghrāḥ paramaṃ śaucam āsthitāḥ so rātram avasan vīrā dhanaṃjaya didṛkṣayā tasmin viharamāṇāś ca ramamāṇāś ca pāṇḍavāḥ 2 manojñe kānanavare sarvabhūtamanorame pādapaiḥ puṣpavikacaiḥ phalabhārāvanāmitaiḥ 3 śobhitaṃ sarvato ramyaiḥ puṃskokila kulākulaiḥ snigdhapatrair aviralaiḥ śītachāyair manoramaiḥ 4 sarāṃsi ca vicitrāṇi prasannasalilāni ca kamalaiḥ sotpalais tatra bhrājamānāni sarvaśaḥ paśyantaś cārurūpāṇi remire tatra pāṇḍavāḥ 5 puṇyagandhaḥ sukhasparśo vavau tatra samīraṇaḥ hlādayan pāṇḍavān sarvān sakṛṣṇān sadvijarṣabhān 6 tataḥ pūrvottaro vāyuḥ pavamāno yadṛcchayā sahasrapatram arkābhaṃ divyaṃ padmam udāvahat 7 tad apaśyata pāñcālī divyagandhaṃ manoramam anilenāhṛtaṃ bhūmau patitaṃ jalajaṃ śuci 8 tac chubhāśubham āsādya saugandhikam anuttamam atīva muditā rājan bhīmasenam athābravīt 9 paśya divyaṃ suruciraṃ bhīma puṣpam anuttamam gandhasaṃsthāna saṃpannaṃ manaso mama nandanam 10 etat tu dharmarājāya pradāsyāmi paraṃtapa harer idaṃ me kāmāya kāmyake punar āśrame 11 yadi te 'haṃ priyā pārtha bahūnīmāny upāhara tāny ahaṃ netum icchāmi kāmyakaṃ punar āśramam 12 evam uktvā tu pāñcālī bhīmasenam aninditā jagāma dharmarājāya puṣpam ādāya tat tadā 13 abhiprāyaṃ tu vijñāya mahiṣyāḥ puruṣarṣabhaḥ priyāyā priyakāmaḥ so bhīmo bhīmaparākramaḥ 14 vātaṃ tam evābhimukho yatas tat puṣpam āgatam ājihīrṣur jagāmāśu sa puṣpāṇy aparāny api 15 rukmapṛṣṭhaṃ dhanur gṛhyaṃ śarāṃś cāśīviṣopamān mṛgarāḍ iva saṃkruddhaḥ prabhinna iva kuñjaraḥ 16 draupadyāḥ priyam anvicchan svabāhubalam āśritaḥ vyapaita bhayasaṃmohaḥ śailam abhyapatad balī 17 sa taṃ drumalatā gulmachannaṃ nīlaśilātalam giriṃ ca cārāri haraḥ kiṃnarācaritaṃ śubham 18 nānāvarṇadharaiś citraṃ dhātudruma mṛgāndajaiḥ sarvabhūṣaṇa saṃpūrṇaṃ bhūmer bhujam ivocchritam 19 sarvarturamaṇīyeṣu gandhamādana sānuṣu saktacakṣur abhiprāyaṃ hṛdayenānucintayan 20 puṃskokila ninādeṣu satpadābhiruteṣu ca baddhaśrotra manaś cakṣur jagāmāmita vikramaḥ 21 jighramāṇo mahātejāḥ sarvartukusumodbhavam gandham uddāmam uddāmo vane matta iva dvipaḥ 22 hriyamāṇa śramaḥ pitrā saṃprahṛṣṭatanūruhaḥ pituḥ saṃsparśaśītena gandhamādana vāyunā 23 sa yakṣagandharvasurabrahmarṣigaṇasevitam viloḍayām āsa tadā puṣpahetor ariṃdamaḥ 24 viṣamachedaracitair anuliptam ivāṅgulaiḥ vimalair dhātuvicchedaiḥ kāñcanāñjanarājataiḥ 25 sapakṣam iva nṛtyantaṃ pārśvalagnaiḥ payodharaiḥ muktāhārair iva citaṃ cyutaiḥ prasravaṇodakaiḥ 26 abhirāma narī kuñja nirjharodaka kandaram apsaronūpura ravaiḥ pranṛtta bahu barhiṇam 27 dig vāraṇaviṣāṇāgrair ghṛṣṭopala śilātalam srastāṃśukam ivākṣobhyair nimnagā niḥsṛtair jalaiḥ 28 saśaspa kavalaiḥ svasthair adūraparivartibhiḥ bhayasyājñaiś ca hariṇaiḥ kautūhalanirīkṣitaḥ 29 cālayann ūruvegena latā jālāny anekaśaḥ ākrīḍamānaḥ kaunteyaḥ śrīmān vāyusuto yayau 30 priyā manorathaṃ kartum udyataś cārulocanaḥ prāṃśuḥ kanakatālābhaḥ siṃhasaṃhanano yuvā 31 mattavānaravikrānto mattavāraṇavegavān mattavānaratāmrākṣo mattavānaravāraṇaḥ 32 priya pārśvopaviṣṭābhir vyāvṛttābhir viceṣṭitaiḥ yakṣagandharvayoṣābhir adṛśyābhir nirīkṣṭitaḥ 33 navāvatāraṃ rūpasya vikrīṇann iva pāṇḍavaḥ cacāra ramaṇīyeṣu gandhamādana sānuṣu 34 saṃsmaran vividhān kleśān duryodhanakṛtān bahūn draupadyā vanavāsinyāḥ priyaṃ kartuṃ samudyataḥ 35 so 'cintayad gate svargam arjune mayi cāgate puṣpahetor kathaṃ nv āryaḥ kariṣyati yudhiṣṭhiraḥ 36 snehān naravaro nūnam aviśvāsād vanasya ca nakulaṃ sahadevaṃ ca na mokṣyati yudhiṣṭhiraḥ 37 kathaṃ nu kusumāvāptiḥ syāc chīghram iti cintayan pratasthe naraśārdūlaḥ pakṣirāḍ iva vegitaḥ 38 kampayan medinīṃ padbhyāṃ nirghāta iva parvasu trāsayan gajayūthāni vātaraṃhā vṛkodaraḥ 39 siṃhavyāghra gaṇāṃś caiva mardamāno mahābalaḥ unmūlayan mahāvṛkṣān pothayaṃś corasā balī 40 talā vallīś ca vegena vikarṣan pāṇḍunandanaḥ upary upari śailāgram ārurukṣur iva dvipaḥ vinardamāno 'tibhṛśaṃ savidyudiva toyadaḥ 41 tasya śabdena ghoreṇa dhanur ghoṣeṇa cābhibho trastāni mṛgayūthāni samantād vipradudruvuḥ 42 athāpaśyan mahābāhur gandhamādana sānuṣu suramyaṃ kadalī sandaṃ bahuyojanavistṛtam 43 tam abhyagacchad vegena kṣobhayiṣyan mahābalaḥ mahāgaja ivāsrāvī prabhañjan vividhān drumān 44 utpāṭya kadalī skandhān bahutālasamucchrayān cikṣepa tarasā bhīmaḥ samantād balināṃ varaḥ 45 tataḥ sattvāny upākrāman bahūni ca mahānti ca ruruvāraṇasaṃghāś ca mahiṣāś ca jalāśrayāḥ 46 siṃhavyāghrāś ca saṃkruddhā bhīmasenam abhidravan vyāditāsyā mahāraudrā vinadanto 'tibhīṣaṇāḥ 47 tato vāyusutaḥ krodhāt svabāhubalam āśritaḥ gajenāghnan gajaṃ bhīmaḥ siṃhaṃ sinhena cābhibhūḥ talaprahārair anyāṃś ca vyahanat pāṇḍavo balī 48 te hanyamānā bhīmena siṃhavyāghra tarakṣavaḥ bhayād visasṛpuḥ sarve śakṛn mūtraṃ ca susruvuḥ 49 praviveśa tataḥ kṣipraṃ tān apāsya mahābalaḥ vanaṃ pāṇḍusutaḥ śrīmāñ śabdenāpūrayan diśaḥ 50 tena śabdena cogreṇa bhīmasenaraveṇa ca vanāntara gatāḥ sarve vitreṣur mṛgapakṣiṇaḥ 51 taṃ śabdaṃ sahasā śrutvā mṛgapakṣisamīritam jalārdrapakṣā vihagāḥ samutpetuḥ sahasraśaḥ 52 tān audakān pakṣigaṇān nirīkṣya bharatarṣabhaḥ tān evānusaran ramyaṃ dadarśa sumahat saraḥ 53 kāñcanaiḥ kadalī sandair mandamāruta kampitaiḥ vījyamānam ivākṣobhyaṃ tīrāntara visarpibhiḥ 54 tat saro 'thāvatīryāśu prabhūtakamalotpalam mahāgaja ivoddāmaś cikrīḍa balavad balī vikrīḍya tasmin suciram uttatārāmita dyutiḥ 55 tato 'vagāhya vegena tad vanaṃ bahupādapam dadhmau ca śaṅkhaṃ svanavat sarvaprāṇena pāṇḍavaḥ 56 tasya śaṅkhasya śabdena bhīmasenaraveṇa ca bāhuśabdena cogreṇa nardantīva girer guhāḥ 57 taṃ vajraniṣpeṣa samam āsphoṭitaravaṃ bhṛśam śrutvā śailaguhāsuptaiḥ siṃhair mukto mahāsvanaḥ 58 siṃhanāda bhayatrastaiḥ kuñjarair api bhārata mukto virāvaḥ sumahān parvato yena pūritaḥ 59 taṃ tu nādaṃ tataḥ śrutvā supto vānarapuṃgavaḥ prājṛmbhata mahākāyo hanūmān nāma vānaraḥ 60 kadalīṣaṇḍamadhyastho nidrāvaśagatas tadā jṛmbhamāṇaḥ suvipulaṃ śakradhvajam ivotśritam āsphoṭayata lāṅgūlam indrāśanisamasvanam 61 tasya lāṅgūlanidanaṃ parvataḥ sa guhā mukhaiḥ udgāram iva gaur nardam utsasarja samantataḥ 62 sa lāṅgūlaravas tasya mattavāraṇanisvanam antardhāya vicitreṣu ca cāragirisānuṣu 63 sa bhīmasenas taṃ śrutvā saṃprahṛṣṭatanūruhaḥ śabdaprabhavam anvicchaṃś ca cārakadalī vanam 64 kadalī vanamadhyastham atha pīne śilātale sa dadarśa mahābāhur vānarādhipatiṃ sthitam 65 vidyut saṃghātaduṣprekṣyaṃ vidyut saṃghātapiṅgalam vidyut saṃghātasadṛśaṃ vidyut saṃghātacañcalam 66 bāhusvastika vinyasta pīnahrasvaśiro dharam skandhabhūyiṣṭha kāyatvāt tanumadhya katī tatam 67 kiṃ cic cābhugna śīrṣeṇa dīrgharomāñcitena ca lāṅgūlenordhva gatinā dhvajeneva virājitam 68 raktoṣṭhaṃ tāmrajihvāsyaṃ raktakarṇaṃ calad bhruvam vadanaṃ vṛttadaṃstrāgraṃ raśmivantam ivodupam 69 vadanābhyantara gataiḥ śuklabhāsair alaṃ kṛtam keṣarotkara saṃmiśram aśokānām ivotkaram 70 hiraṇmayīnāṃ madhyasthaṃ kadalīnāṃ mahādyutim dīpyamānaṃ svavapuṣā arciṣmantam ivānalam 71 nirīkṣantam avitrastaṃ locanair madhupiṅgalaiḥ taṃ vānaravaraṃ vīram atikāyaṃ mahābalam 72 athopasṛtya tarasā bhīmo bhīmaparākramaḥ siṃhanādaṃ samakarod bodhayiṣyan kapiṃ tadā 73 tena śabdena bhīmasya vitreṣur mṛgapakṣiṇaḥ hanūmāṃś ca mahāsattvam īṣad unmīlya locane avekṣad atha sāvajñaṃ locanair madhupiṅgalaiḥ 74 smitenābhāṣya kaunteyaṃ vānaro naram abravīt kimarthaṃ sarujas te 'haṃ sukhasuptaḥ prabodhitaḥ 75 nanu nāma tvayā kāryā dayā bhūteṣu jānatā vayaṃ dharmaṃ na jānīmas tiryagyoniṃ samāśritāḥ 76 manuṣyā buddhisaṃpannā dayāṃ kurvanti jantuṣu krūreṣu karmasu kathaṃ dehavāk cittadūṣiṣu dharmaghātiṣu sajjante buddhimanto bhavadvidhāḥ 77 na tvaṃ dharmaṃ vijānāsi vṛddhā nopāsitās tvayā alpabuddhitayā vanyān utsādayasi yan mṛgān 78 brūhi kas tvaṃ kimarthaṃ vā vanaṃ tvam idam āgataḥ varjitaṃ mānuṣair bhāvais tathaiva puruṣair api 79 ataḥ paramagamyo 'yaṃ parvataḥ sudurāruhaḥ vinā siddhagatiṃ vīra gatir atra na vidyate 80 kāruṇyāt sauhṛdāc caiva vāraye tvāṃ mahābala nātaḥ paraṃ tvayā śakyaṃ gantum āśvasihi prabho 81 imāny amṛtakalpāṇi mūlāni ca phalāni ca bhakṣayitvā nivartasva grāhyaṃ yadi vaco mama |
The Mahabharata in Sanskrit
Book 3
Chapter 147
|
1
[वै] एतच छरुत्वा वचस तस्य वानरेन्द्रस्य धीमतः भीमसेनस तदा वीरः परॊवाचामित्रकर्शनः 2 कॊ भवान किंनिमित्तं वा वानरं वपुर आश्रितः बराह्मणानन्तरॊ वर्णः कषत्रियस तवानुपृच्छति 3 कौरवः सॊमवंशीयः कुन्त्या गर्भेण धारितः पाण्डवॊ वायुतनयॊ भीमसेन इति शरुतः 4 स वाक्यं भीमसेनस्य समितेन परतिगृह्य तत हनूमान वायुतनयॊ वायुपुत्रम अभाषत 5 वानरॊ ऽहं न ते मार्गं परदास्यामि यथेप्सितम साधु गच्छ निवर्तस्व मा तवं पराप्यसि वैशसम 6 [भम] वैशसं वास्तु यद वान्यन न तवा पृच्छामि वानर परयच्छॊत्तिष्ठ मार्गं मे मा तवं पराप्स्यसि वैशसम 7 [हनु] नास्ति शक्तिर ममॊत्थातुं वयाधिना कलेशितॊ हय अहम यद्य अवश्यं परयातव्यं लङ्घयित्वा परयाहि माम 8 [भम] निर्गुणः परमात्मेति देहं ते वयाप्य तिष्ठति तम अहं जञानविज्ञेयं नावमन्ये न लङ्घये 9 यद्य आगमैर न विन्देयं तम अहं भूतभावनम करमेयं तवां गिरिं चेमं हनूमान इव सागरम 10 [ह] क एष हनुमान नाम सागरॊ येन लङ्घितः पृच्छामि तवा कुरुश्रेष्ठ कथ्यतां यदि शक्यते 11 [भम] भराता मम गुणश्लाघ्यॊ बुद्धिसत्त्वबलान्वितः रामायणे ऽतिविख्यातः शूरॊ वानरपुंगवः 12 रामपत्नी कृते येन शतयॊजनम आयतः सागरः पलवगेन्द्रेण करमेणैकेन लङ्घितः 13 स मे भराता महावीर्यस तुल्यॊ ऽहं तस्य तेजसा बले पराक्रमे युद्धे शक्तॊ ऽहं तव निग्रहे 14 उत्तिष्ठ देहि मे मार्गं पश्य वा मे ऽदय पौरुषम मच्छासनम अकुर्वाणं मा तवा नेष्ये यमक्षयम 15 [वै] विज्ञाय तं बलॊन्मत्तं बाहुवीर्येण गर्वितम हृदयेनावहस्यैनं हनुमान वाक्यम अब्रवीत 16 परसीद नास्ति मे शक्तिर उत्थातुं जरयानघ ममानुकम्पया तव एतत पुच्छम उत्सार्य गम्यताम 17 सावज्ञम अथ वामेन समयञ जग्राह पाणिना न चाशकच चालयितुं भीमः पुच्छं महाकपेः 18 उच्चिक्षेप पुनर दॊर्भ्याम इन्द्रायुधम इवॊत्श्रितम नॊद्धर्तुम अशकद भीमॊ दॊर्भ्याम अपि महाबलः 19 उत्क्षिप्त भरूर विवृत्ताक्षः संहतभ्रुकुती मुखः सविन्न गत्रॊ ऽभवद भीमॊ न चॊद्धर्तुं शशाक ह 20 यत्नवान अपि तु शरीमाँल लाङ्गूलॊद्धरणॊद्धुतः कपेः पार्श्वगतॊ भीमस तस्थौ वरीडाद अधॊमुखः 21 परनिपत्य च कौन्तेयः पराञ्जलिर वाक्यम अब्रवीत परसीद कपिशार्दूल दुरुक्तं कषम्यतां मम 22 सिद्धॊ वा यदि वा देवॊ गन्धर्वॊ वाथ गुह्यकः पृष्ठः सन कामया बरूहि कस तवं वानररूपधृक 23 [ह] यत ते मम परिज्ञाने कौतूहलम अरिंदम तत सर्वम अखिलेन तवं शृणु पाण्डवनन्दन 24 अहं केसरिणः कषेत्रे वायुना जगद आयुषा जातः कमलपत्राक्ष हनूमान नाम वानरः 25 सूर्यपुत्रं च सुग्रीवं शक्रपुत्रं च वालिनम सर्ववानरराजानौ सर्ववानरयूथपाः 26 उपतस्थुर महावीर्या मम चामित्रकर्शन सुग्रीवेणाभवत परीतिर अनिलस्याग्निना यथा 27 निकृतः स ततॊ भरात्रा कस्मिंश चित कारणान्तरे ऋश्यमूके मया सार्धं सुग्रीवॊ नयवसच चिरम 28 अथ दाशरथिर वीरॊ रामॊ नाम महाबलः विष्णुर मानुषरूपेण च चारवसु धाम इमाम 29 स पितुः परियम अन्विच्छन सह भार्यः सहानुजः सधनुर धन्विनां शरेष्ठॊ दण्डकारण्यम आश्रितः 30 तस्य भार्या जनस्थानाद रावणेन हृता बलात वञ्चयित्वा महाबुद्धिं मृगरूपेण राघवम 31 हृतदारः सह भरात्रा पत्नीं मार्गन सराघवः दृष्टवाञ शैलशिखरे सुग्रीवं वानरर्षभम 32 तेन तस्याभवत सख्यं रागवस्य महात्मनः स हत्वा वालिनं राज्ये सुग्रीवं परत्यपादयत स हरीन परेषयाम आस सीतायाः परिमार्गने 33 ततॊ वानरकॊतीभिर यां वयं परस्थिता दिशम तत्र परवृत्तिः सीताया गृध्रेण परतिपादिता 34 ततॊ ऽहं कार्यसिद्ध्यर्थं रामस्याक्लिष्टकर्मणाः शतयॊजनविस्तीर्णम अर्णवं सहसाप्लुतः 35 दृष्टा सा च मया देवी रावणस्य निवेशने परत्यागतश चापि पुनर नाम तत्र परकाश्य वै 36 ततॊ रामेण वीरेण हत्वा तान सर्वराक्षसान पुनः परत्याहृता भार्या नष्टा वेदश्रुतिर यथा 37 ततः परतिष्ठिते रामे वीरॊ ऽयं याचितॊ मया यावद रामकथा वीर भवेल लॊकेषु शत्रुहन तावज जीवेयम इत्य एवं तथास्त्व इति च सॊ ऽबरवीत 38 दशवर्षसहस्राणि दशवर्षशतानि च राज्यं कारितवान रामस ततस तु तरिदिवं गतः 39 तद इहाप्सरसस तात गन्धर्वाश च सदानघ तस्य वीरस्य चरितं गायन्त्यॊ रमयन्ति माम 40 अयं च मार्गॊ मर्त्यानाम अगम्यः कुरुनन्दन ततॊ ऽहं रुद्धवान मार्गं तवेमं देवसेवितम धर्षयेद वा शपेद वापि मा कश चिद इति भारत 41 दिव्यॊ देवपथॊ हय एष नात्र गच्छन्ति मानुषाः यदर्थम आगतश चासि तत सरॊ ऽभयर्ण एव हि |
1
[vai] etac chrutvā vacas tasya vānarendrasya dhīmataḥ bhīmasenas tadā vīraḥ provācāmitrakarśanaḥ 2 ko bhavān kiṃnimittaṃ vā vānaraṃ vapur āśritaḥ brāhmaṇānantaro varṇaḥ kṣatriyas tvānupṛcchati 3 kauravaḥ somavaṃśīyaḥ kuntyā garbheṇa dhāritaḥ pāṇḍavo vāyutanayo bhīmasena iti śrutaḥ 4 sa vākyaṃ bhīmasenasya smitena pratigṛhya tat hanūmān vāyutanayo vāyuputram abhāṣata 5 vānaro 'haṃ na te mārgaṃ pradāsyāmi yathepsitam sādhu gaccha nivartasva mā tvaṃ prāpyasi vaiśasam 6 [bhm] vaiśasaṃ vāstu yad vānyan na tvā pṛcchāmi vānara prayacchottiṣṭha mārgaṃ me mā tvaṃ prāpsyasi vaiśasam 7 [hanu] nāsti śaktir mamotthātuṃ vyādhinā kleśito hy aham yady avaśyaṃ prayātavyaṃ laṅghayitvā prayāhi mām 8 [bhm] nirguṇaḥ paramātmeti dehaṃ te vyāpya tiṣṭhati tam ahaṃ jñānavijñeyaṃ nāvamanye na laṅghaye 9 yady āgamair na vindeyaṃ tam ahaṃ bhūtabhāvanam krameyaṃ tvāṃ giriṃ cemaṃ hanūmān iva sāgaram 10 [ha] ka eṣa hanumān nāma sāgaro yena laṅghitaḥ pṛcchāmi tvā kuruśreṣṭha kathyatāṃ yadi śakyate 11 [bhm] bhrātā mama guṇaślāghyo buddhisattvabalānvitaḥ rāmāyaṇe 'tivikhyātaḥ śūro vānarapuṃgavaḥ 12 rāmapatnī kṛte yena śatayojanam āyataḥ sāgaraḥ plavagendreṇa krameṇaikena laṅghitaḥ 13 sa me bhrātā mahāvīryas tulyo 'haṃ tasya tejasā bale parākrame yuddhe śakto 'haṃ tava nigrahe 14 uttiṣṭha dehi me mārgaṃ paśya vā me 'dya pauruṣam macchāsanam akurvāṇaṃ mā tvā neṣye yamakṣayam 15 [vai] vijñāya taṃ balonmattaṃ bāhuvīryeṇa garvitam hṛdayenāvahasyainaṃ hanumān vākyam abravīt 16 prasīda nāsti me śaktir utthātuṃ jarayānagha mamānukampayā tv etat puccham utsārya gamyatām 17 sāvajñam atha vāmena smayañ jagrāha pāṇinā na cāśakac cālayituṃ bhīmaḥ pucchaṃ mahākapeḥ 18 uccikṣepa punar dorbhyām indrāyudham ivotśritam noddhartum aśakad bhīmo dorbhyām api mahābalaḥ 19 utkṣipta bhrūr vivṛttākṣaḥ saṃhatabhrukutī mukhaḥ svinna gatro 'bhavad bhīmo na coddhartuṃ śaśāka ha 20 yatnavān api tu śrīmāṁl lāṅgūloddharaṇoddhutaḥ kapeḥ pārśvagato bhīmas tasthau vrīḍād adhomukhaḥ 21 pranipatya ca kaunteyaḥ prāñjalir vākyam abravīt prasīda kapiśārdūla duruktaṃ kṣamyatāṃ mama 22 siddho vā yadi vā devo gandharvo vātha guhyakaḥ pṛṣṭhaḥ san kāmayā brūhi kas tvaṃ vānararūpadhṛk 23 [ha] yat te mama parijñāne kautūhalam ariṃdama tat sarvam akhilena tvaṃ śṛṇu pāṇḍavanandana 24 ahaṃ kesariṇaḥ kṣetre vāyunā jagad āyuṣā jātaḥ kamalapatrākṣa hanūmān nāma vānaraḥ 25 sūryaputraṃ ca sugrīvaṃ śakraputraṃ ca vālinam sarvavānararājānau sarvavānarayūthapāḥ 26 upatasthur mahāvīryā mama cāmitrakarśana sugrīveṇābhavat prītir anilasyāgninā yathā 27 nikṛtaḥ sa tato bhrātrā kasmiṃś cit kāraṇāntare ṛśyamūke mayā sārdhaṃ sugrīvo nyavasac ciram 28 atha dāśarathir vīro rāmo nāma mahābalaḥ viṣṇur mānuṣarūpeṇa ca cāravasu dhām imām 29 sa pituḥ priyam anvicchan saha bhāryaḥ sahānujaḥ sadhanur dhanvināṃ śreṣṭho daṇḍakāraṇyam āśritaḥ 30 tasya bhāryā janasthānād rāvaṇena hṛtā balāt vañcayitvā mahābuddhiṃ mṛgarūpeṇa rāghavam 31 hṛtadāraḥ saha bhrātrā patnīṃ mārgan sarāghavaḥ dṛṣṭavāñ śailaśikhare sugrīvaṃ vānararṣabham 32 tena tasyābhavat sakhyaṃ rāgavasya mahātmanaḥ sa hatvā vālinaṃ rājye sugrīvaṃ pratyapādayat sa harīn preṣayām āsa sītāyāḥ parimārgane 33 tato vānarakotībhir yāṃ vayaṃ prasthitā diśam tatra pravṛttiḥ sītāyā gṛdhreṇa pratipāditā 34 tato 'haṃ kāryasiddhyarthaṃ rāmasyākliṣṭakarmaṇāḥ śatayojanavistīrṇam arṇavaṃ sahasāplutaḥ 35 dṛṣṭā sā ca mayā devī rāvaṇasya niveśane pratyāgataś cāpi punar nāma tatra prakāśya vai 36 tato rāmeṇa vīreṇa hatvā tān sarvarākṣasān punaḥ pratyāhṛtā bhāryā naṣṭā vedaśrutir yathā 37 tataḥ pratiṣṭhite rāme vīro 'yaṃ yācito mayā yāvad rāmakathā vīra bhavel lokeṣu śatruhan tāvaj jīveyam ity evaṃ tathāstv iti ca so 'bravīt 38 daśavarṣasahasrāṇi daśavarṣaśatāni ca rājyaṃ kāritavān rāmas tatas tu tridivaṃ gataḥ 39 tad ihāpsarasas tāta gandharvāś ca sadānagha tasya vīrasya caritaṃ gāyantyo ramayanti mām 40 ayaṃ ca mārgo martyānām agamyaḥ kurunandana tato 'haṃ ruddhavān mārgaṃ tavemaṃ devasevitam dharṣayed vā śaped vāpi mā kaś cid iti bhārata 41 divyo devapatho hy eṣa nātra gacchanti mānuṣāḥ yadartham āgataś cāsi tat saro 'bhyarṇa eva hi |
The Mahabharata in Sanskrit
Book 3
Chapter 148
|
1
[वै] एवम उक्तॊ महाबाहुर भीमसेनः परतापवान परनिपत्य ततः परीत्या भरातरं हृष्टमानसः उवाच शलक्ष्णया वाचा हनूमन्तं कपीश्वरम 2 मया धन्यतरॊ नास्ति यद आर्यं दृष्टवान अहम अनुग्रहॊ मे सुमहांस तृप्तिश च तव दर्शनात 3 एवं तु कृतम इच्छामि तवयार्याद्य परियं मम यत ते तदासीत पलवतः सागरं मकरालयम रूपम अप्रतिमं वीर तद इच्छामि निरीक्षितुम 4 एवं तुष्टॊ भविष्यामि शरद्धास्यामि च ते वचः एवम उक्तः स तेजॊ वी परहस्य हरिर अब्रवीत 5 न तच छक्यं तवया दरष्टुं रूपं नान्येन केन चित कालावस्था तदा हय अन्या वर्तते सा न सांप्रतम 6 अन्यः कृतयुगे कालस तरेतायां दवापरे ऽपरः अयं परध्वंसनः कालॊ नाद्य तद रूपम अस्ति मे 7 भूमिर नद्यॊ नगाः शैलाः सिद्धा देवा महर्षयः कालं समनुवर्तन्ते यथा भावा युगे युगे बलवर्ष्म परभावा हि परहीयन्त्य उद्भवन्ति च 8 तद अलं तव तद रूपं दरष्टुं कुरुकुलॊद्वह युगं समनुवर्तामि कालॊ हि दुरतिक्रमः 9 [भम] युगसंख्यां समाचक्ष्व आचारं च युगे युगे धर्मकामार्थ भावांश च वर्ष्म वीर्यं भवाभवौ 10 [ह] कृतं नाम युगं तात यत्र धर्मः सनातनः कृतम एव न कर्तव्यं तस्मिन काले युगॊत्तमे 11 न तत्र धर्माः सीदन्ति न कषीयन्ते च वै परजाः ततः कृतयुगं नाम कालेन गुणतां गतम 12 देवदानवगन्धर्वयक्षराक्षस पन्नगाः नासन कृतयुगे तात तदा न करय विक्रयाः 13 न सामयजुृग्वर्णाः करिया नासीच च मानवी अभिध्याय फलं तत्र धर्मः संन्यास एव च 14 न तस्मिन युगसंसर्गे वयाधयॊ नेन्द्रिय कषयः नासूया नापि रुदितं न दर्पॊ नापि पैशुनम 15 न विग्रहः कुतस तन्द्री न दवेषॊ नापि वै कृतम न भयं न च संतापॊ न चेर्ष्या न च मत्सरः 16 ततः परमकं बरह्म या गतिर यॊगिनां परा आत्मा च सर्वभूतानां शुक्लॊ नारायणस तदा 17 बराह्मणाः कषत्रिया वैश्याः शूद्राश च कृतलक्षणाः कृते युगे समभवन सवकर्मनिरताः परजाः 18 समाश्रमं समाचारं समज्ञानमती बलम तदा हि समकर्माणॊ वर्णा धर्मान अवाप्नुवन 19 एकवेद समायुक्ता एकमन्त्रविधिक्रियाः पृथग धर्मास तव एकवेदा धर्मम एकम अनुव्रताः 20 चातुराश्रम्ययुक्तेन कर्मणा कालयॊगिना अकाम फलसंयॊगात पराप्नुवन्ति परां गतिम 21 आत्मयॊगसमायुक्तॊ धर्मॊ ऽयं कृतलक्षणः कृते युगे चतुष्पादश चातुर्वर्ण्यस्य शाश्वतः 22 एतत कृतयुगं नाम तरैगुण्यपरिवर्जितम तरेताम अपि निबॊध तवं यस्मिन सत्रं परवर्तते 23 पादेन हरसते धर्मॊ रक्ततां याति चाच्युतः सत्यप्रवृत्ताश च नराः करिया धर्मपरायणाः 24 ततॊ यज्ञाः परवर्तन्ते धर्माश च विविधाः करियाः तरेतायां भावसंकल्पाः करिया दानफलॊदयाः 25 परचलन्ति न वै धर्मात तपॊ दानपरायणाः सवधर्मस्थाः करियावन्तॊ जनास तरेतायुगे ऽभवन 26 दवापरे ऽपि युगे धर्मॊ दविभागॊनः परवर्तते विष्णुर वै पीततां याति चतुर्धा वेद एव च 27 ततॊ ऽनये च चतुर्वेदास तरिवेदाश च तथापरे दविवेदाश चैकवेदाश चाप्य अनृचश च तथापरे 28 एवं शास्त्रेषु भिन्नेषु बहुधा नीयते करिया तपॊ दानप्रवृत्ता च राजसी भवति परजा 29 एकवेदस्य चाज्ञानाद वेदास ते बहवः कृताः सत्यस्य चेह विभ्रंशात सत्ये कश चिद अवस्थितः 30 सत्यात परच्यवमानानां वयाधयॊ बहवॊ ऽभवन कामाश चॊपद्रवाश चैव तदा दैवतकारिताः 31 यैर अर्द्यमानाः सुभृशं तपस तप्यन्ति मानवाः कामकामाः सवर्गकामा यज्ञांस तन्वन्ति चापरे 32 एवं दवापरम आसाद्य परजाः कषीयन्त्य अधर्मतः पादेनैकेन कौन्तेय धर्मः कलियुगे सथितः 33 तामसं युगम आसाद्य कृष्णॊ भवति केशवः वेदाचाराः परशाम्यन्ति धर्मयज्ञक्रियास तथा 34 ईतयॊ वयाधयस तन्द्री दॊषाः करॊधादयस तथा उपद्रवाश च वर्तन्ते आधयॊ वयाधयस तथा 35 युगेष्व आवर्तमानेषु धर्मॊ वयावर्तते पुनः धर्मे वयावर्तमाने तु लॊकॊ वयावर्तते पुनः 36 लॊके कषीणे कषयं यान्ति भावा लॊकप्रवर्तकाः युगक्षयकृता धर्माः परार्थनानि विकुर्वते 37 एतत कलियुगं नाम अचिराद यत परवर्तते युगानुवर्तनं तव एतत कुर्वन्ति चिरजीविनः 38 यच च ते मत्परिज्ञाने कौतूहलम अरिंदम अनर्थकेषु कॊ भावः पुरुषस्य विजानतः 39 एतत ते सर्वम आख्यातं यन मां तवं परिपृच्छसि युगसंख्यां महाबाहॊ सवस्ति पराप्नुहि गम्यताम |
1
[vai] evam ukto mahābāhur bhīmasenaḥ pratāpavān pranipatya tataḥ prītyā bhrātaraṃ hṛṣṭamānasaḥ uvāca ślakṣṇayā vācā hanūmantaṃ kapīśvaram 2 mayā dhanyataro nāsti yad āryaṃ dṛṣṭavān aham anugraho me sumahāṃs tṛptiś ca tava darśanāt 3 evaṃ tu kṛtam icchāmi tvayāryādya priyaṃ mama yat te tadāsīt plavataḥ sāgaraṃ makarālayam rūpam apratimaṃ vīra tad icchāmi nirīkṣitum 4 evaṃ tuṣṭo bhaviṣyāmi śraddhāsyāmi ca te vacaḥ evam uktaḥ sa tejo vī prahasya harir abravīt 5 na tac chakyaṃ tvayā draṣṭuṃ rūpaṃ nānyena kena cit kālāvasthā tadā hy anyā vartate sā na sāṃpratam 6 anyaḥ kṛtayuge kālas tretāyāṃ dvāpare 'paraḥ ayaṃ pradhvaṃsanaḥ kālo nādya tad rūpam asti me 7 bhūmir nadyo nagāḥ śailāḥ siddhā devā maharṣayaḥ kālaṃ samanuvartante yathā bhāvā yuge yuge balavarṣma prabhāvā hi prahīyanty udbhavanti ca 8 tad alaṃ tava tad rūpaṃ draṣṭuṃ kurukulodvaha yugaṃ samanuvartāmi kālo hi duratikramaḥ 9 [bhm] yugasaṃkhyāṃ samācakṣva ācāraṃ ca yuge yuge dharmakāmārtha bhāvāṃś ca varṣma vīryaṃ bhavābhavau 10 [ha] kṛtaṃ nāma yugaṃ tāta yatra dharmaḥ sanātanaḥ kṛtam eva na kartavyaṃ tasmin kāle yugottame 11 na tatra dharmāḥ sīdanti na kṣīyante ca vai prajāḥ tataḥ kṛtayugaṃ nāma kālena guṇatāṃ gatam 12 devadānavagandharvayakṣarākṣasa pannagāḥ nāsan kṛtayuge tāta tadā na kraya vikrayāḥ 13 na sāmayajuṛgvarṇāḥ kriyā nāsīc ca mānavī abhidhyāya phalaṃ tatra dharmaḥ saṃnyāsa eva ca 14 na tasmin yugasaṃsarge vyādhayo nendriya kṣayaḥ nāsūyā nāpi ruditaṃ na darpo nāpi paiśunam 15 na vigrahaḥ kutas tandrī na dveṣo nāpi vai kṛtam na bhayaṃ na ca saṃtāpo na cerṣyā na ca matsaraḥ 16 tataḥ paramakaṃ brahma yā gatir yogināṃ parā ātmā ca sarvabhūtānāṃ śuklo nārāyaṇas tadā 17 brāhmaṇāḥ kṣatriyā vaiśyāḥ śūdrāś ca kṛtalakṣaṇāḥ kṛte yuge samabhavan svakarmaniratāḥ prajāḥ 18 samāśramaṃ samācāraṃ samajñānamatī balam tadā hi samakarmāṇo varṇā dharmān avāpnuvan 19 ekaveda samāyuktā ekamantravidhikriyāḥ pṛthag dharmās tv ekavedā dharmam ekam anuvratāḥ 20 cāturāśramyayuktena karmaṇā kālayoginā akāma phalasaṃyogāt prāpnuvanti parāṃ gatim 21 ātmayogasamāyukto dharmo 'yaṃ kṛtalakṣaṇaḥ kṛte yuge catuṣpādaś cāturvarṇyasya śāśvataḥ 22 etat kṛtayugaṃ nāma traiguṇyaparivarjitam tretām api nibodha tvaṃ yasmin satraṃ pravartate 23 pādena hrasate dharmo raktatāṃ yāti cācyutaḥ satyapravṛttāś ca narāḥ kriyā dharmaparāyaṇāḥ 24 tato yajñāḥ pravartante dharmāś ca vividhāḥ kriyāḥ tretāyāṃ bhāvasaṃkalpāḥ kriyā dānaphalodayāḥ 25 pracalanti na vai dharmāt tapo dānaparāyaṇāḥ svadharmasthāḥ kriyāvanto janās tretāyuge 'bhavan 26 dvāpare 'pi yuge dharmo dvibhāgonaḥ pravartate viṣṇur vai pītatāṃ yāti caturdhā veda eva ca 27 tato 'nye ca caturvedās trivedāś ca tathāpare dvivedāś caikavedāś cāpy anṛcaś ca tathāpare 28 evaṃ śāstreṣu bhinneṣu bahudhā nīyate kriyā tapo dānapravṛttā ca rājasī bhavati prajā 29 ekavedasya cājñānād vedās te bahavaḥ kṛtāḥ satyasya ceha vibhraṃśāt satye kaś cid avasthitaḥ 30 satyāt pracyavamānānāṃ vyādhayo bahavo 'bhavan kāmāś copadravāś caiva tadā daivatakāritāḥ 31 yair ardyamānāḥ subhṛśaṃ tapas tapyanti mānavāḥ kāmakāmāḥ svargakāmā yajñāṃs tanvanti cāpare 32 evaṃ dvāparam āsādya prajāḥ kṣīyanty adharmataḥ pādenaikena kaunteya dharmaḥ kaliyuge sthitaḥ 33 tāmasaṃ yugam āsādya kṛṣṇo bhavati keśavaḥ vedācārāḥ praśāmyanti dharmayajñakriyās tathā 34 ītayo vyādhayas tandrī doṣāḥ krodhādayas tathā upadravāś ca vartante ādhayo vyādhayas tathā 35 yugeṣv āvartamāneṣu dharmo vyāvartate punaḥ dharme vyāvartamāne tu loko vyāvartate punaḥ 36 loke kṣīṇe kṣayaṃ yānti bhāvā lokapravartakāḥ yugakṣayakṛtā dharmāḥ prārthanāni vikurvate 37 etat kaliyugaṃ nāma acirād yat pravartate yugānuvartanaṃ tv etat kurvanti cirajīvinaḥ 38 yac ca te matparijñāne kautūhalam ariṃdama anarthakeṣu ko bhāvaḥ puruṣasya vijānataḥ 39 etat te sarvam ākhyātaṃ yan māṃ tvaṃ paripṛcchasi yugasaṃkhyāṃ mahābāho svasti prāpnuhi gamyatām |
The Mahabharata in Sanskrit
Book 3
Chapter 149
|
1
[वै] एवम उक्तस तु भीमेन समितं कृत्वा पलवंगमः यदि ते ऽहम अनुग्राह्यॊ दर्शयात्मानम आत्मना 2 [वै] एवम उक्तस तु भीमेन समितं कृत्वा पलवंगमः तद रूपं दर्शयाम आस यद वै सागरलङ्घने 3 भरातुः परियम अभीप्सन वै चकार सुमहद वपुः देहस तस्य ततॊ ऽतीव वर्धत्य आयाम विस्तरैः 4 तद रूपं कदली सन्दं छादयन्न अमितद्युतिः गिरेश चॊच्छ्रयम आगम्य तस्थौ तत्र स वानरः 5 समुच्छ्रितमहाकायॊ दवितीय इव पर्वतः ताम्रेक्षणस तीक्ष्णदंस्त्रॊ भृकुटी कृतलॊचनः दीर्घलाङ्गूलम आविध्य दिशॊ वयाप्य सथितः कपिः 6 तद रूपं महद आलक्ष्य भरातुः कौरवनन्दनः विसिस्मिये तदा भीमॊ जहृषे च पुनः पुनः 7 तम अर्कम इव तेजॊभिः सौवर्णम इव पर्वतम परदीप्तम इव चाकाशं दृष्ट्वा भीमॊ नयमीलयत 8 आबभाषे च हनुमान भीमसेनं समयन्न इव एतावद इह शक्तस तवं रूपं दरष्टुं ममानघ 9 वर्धे ऽहं चाप्य अतॊ भूयॊ यावन मे मनसेप्सितम भीम शत्रुषु चात्यर्थं वर्धते मूर्तिर ओजसा 10 तद अद्भुतं महारौद्रं विन्ध्यमन्दर संनिभम दृष्ट्वा हनूमतॊ वर्ष्म संभ्रान्तः पवनात्म जः 11 परत्युवाच ततॊ भीमः संप्रहृष्टतनूरुहः कृताञ्जलिर अदीनात्मा हनूमन्तम अवस्थितम 12 दृष्टं परमाणं विपुलं शरीरस्यास्य ते विभॊ संहरस्व महावीर्यस्वयम आत्मानम आत्मना 13 न हि शक्नॊमि तवां दरष्टुं दिवाकरम इवॊदितम अप्रमेयम अनाधृष्यं मैनाकम इव पर्वतम 14 विस्मयश चैव मे वीर सुमहान मनसॊ ऽदय वै यद रामस तवयि पार्श्वस्थे सवयं रावणम अभ्यगात 15 तवम एव शक्तस तां लङ्कां सयॊधां सहवाहनाम सवबाहुबलम आश्रित्य विनाशयितुम ओजसा 16 न हि ते किं चिद अप्राप्यं मारुतात्मज विद्यते तव नैकस्य पर्याप्तॊ रावणः सगणॊ युधि 17 एवम उक्तस तु भीमेन हनूमान पलवगर्षभः परत्युवाच ततॊ वाक्यं सनिग्धगन्भीरया गिरा 18 एवम एतन महाबाहॊ यथा वदसि भारत भीमसेन न पर्याप्तॊ ममासौ राक्षसाधमः 19 मया तु तस्मिन निहते रावणे लॊककन्तके कीर्तिर नश्येद राघवस्य तत एतद उपेक्षितम 20 तेन वीरेण हत्वा तु सगणं राक्षसाधिपम आनीता सवपुरं सीता लॊके कीर्तिश च सथापिता 21 तद गच्छ विपुलप्रज्ञ भरातुः परियहिते रतः अरिष्टं कषेमम अध्वानं वायुना परिरक्षितः 22 एष पन्थाः कुरुश्रेष्ठ सौगन्धिक वनाय ते दरक्ष्यसे धनदॊद्यानं रक्षितं यक्षराक्षसैः 23 न च ते तरसा कार्यः कुसुमावचयः सवयम दैवतानि हि मान्यानि पुरुषेण विशेषतः 24 बलिहॊमनमस्कारैर मन्त्रैश च भरतर्षभ दैवतानि परसादं हि भक्त्या कुर्वन्ति भारत 25 मा तात साहसं कार्षीः सवधर्मम अनुपालय सवधर्मस्थः परं धर्मं बुध्यस्वागमयस्व च 26 विज्ञातव्यॊ विभागेन यत्र मुह्यन्त्य अबुद्धयः धर्मॊ वै वेदितुं शक्यॊ बृहस्पतिसमैर अपि 27 अधर्मॊ यत्र धर्माख्यॊ धर्मश चाधर्मसंज्ञितः विज्ञातव्यॊ विभागेन यत्र मुह्यन्त्य अबुद्धयः 28 आचार संभवॊ धर्मॊ धर्माद वेदाः समुत्थिताः वेदैर यज्ञाः समुत्पन्ना यज्ञैर देवाः परतिष्ठिताः 29 वेदाचार विधानॊक्तैर यज्ञैर धार्यन्ति देवताः बृहस्पत्युशनॊक्तैश च नयैर धार्यन्ति मानवाः 30 पन्या करवनिज्याभिः कृष्याथॊ यॊनिपॊषणैः वार्तया धार्यते सर्वं धर्मैर एतैर दविजातिभिः 31 तरयी वार्ता दण्डनीतिस तिस्रॊ विद्या विजानताम ताभिः सम्यक परयुक्ताभिर लॊकयात्रा विधीयते 32 सा चेद धर्मक्रिया न सयात तरयीधर्मम ऋते भुवि दण्डनीतिम ऋते चापि निर्मर्यादम इदं भवेत 33 वार्ता धर्मे हय अवर्तन्त्यॊ विनश्येयुर इमाः परजाः सुप्रवृत्तैर तरिभिर हय एतैर धर्मैः सूयन्ति वै परजाः 34 दविजानाम अमृतं धर्मॊ हय एकश चैवैक वर्णिकः यज्ञाध्ययन दानानि तरयः साधारणाः समृताः 35 याजनाध्यापने चॊभे बराह्मणानां परतिग्रहः पालनं कषत्रियाणां वै वैश्य धर्मश च पॊषणम 36 शुश्रूषा तु दविजातीनां शूद्राणां धर्म उच्यते भैक्ष हॊमव्रतैर हीनास तथैव गुरुवासिनाम 37 कषत्रधर्मॊ ऽतर कौन्तेय तव धर्माभिरक्षणम सवधर्मं परतिपद्यस्व विनीतॊ नियतेन्द्रियः 38 वृद्धैर संमन्त्र्य सद्भिश च बुद्धिमद्भिः शरुतान्वितैः सुस्थितः शास्ति दन्देन वयसनी परिभूयते 39 निग्रहानुग्रहैः सम्यग यदा राजा परवर्तते तदा भवति लॊकस्य मर्यादा सुव्यवस्थिता 40 तस्माद देशे च दुर्गे च शत्रुमित्र बलेषु च नित्यं चारेण बॊद्धव्यं सथानं वृद्धिः कषयस तथा 41 राज्ञाम उपायाश चत्वारॊ बुद्धिमन्त्रः पराक्रमः निग्रहानुग्रहौ चैव दाक्ष्यं तत कार्यसाधनम 42 साम्ना दानेन भेदेन दन्देनॊपेक्षणेन च साधनीयानि कार्याणि समास वयास यॊगतः 43 मन्त्रमूला नयाः सर्वे चाराश च भरतर्षभ सुमन्त्रितैर नयैः सिद्धिस तद्विदैः सह मन्त्रयेत 44 सत्रिया मूधेन लुब्धेन बालेन लघुना तथा न मन्त्रयेत गुह्यानि येषु चॊन्माद लक्षणम 45 मन्त्रयेत सह विद्वद्भिः शक्तैः कर्माणि कारयेत सनिग्धैश च नीतिविन्यासान मूर्खान सर्वत्र वर्जयेत 46 धार्मिकान धर्मकार्येषु अर्थकार्येषु पण्डितान सत्रीषु कलीबान नियुञ्जीत करूरान करूरेषु कर्मसु 47 सवेभ्यश चैव परेभ्यश च कार्याकार्यसमुद्भवा बुद्धिः कर्मसु विज्ञेया रिपूणां च बलाबलम 48 बुद्ध्या सुप्रतिपन्नेषु कुर्यात साधु परिग्रहम निग्रहं चाप्य अशिष्टेषु निर्मर्यादेषु कारयेत 49 निग्रहे परग्रहे सम्यग यदा राजा परवर्तते तदा भवति लॊकस्य मर्यादा सुव्यवस्थिता 50 एष ते विहितः पार्थ घॊरॊ धर्मॊ दुरन्वयः तं सवधर्मविभागेन विनयस्थॊ ऽनुपालय 51 तपॊ धर्मदमेज्याभिर विप्रा यान्ति यथा दिवम दानातिथ्य करिया धर्मैर यान्ति वैश्याश च सद्गतिम 52 कषत्रं याति तथा सवर्गं भुवि निग्रहपालनैः सम्यक परनीय दण्डं हि कामद्वेषविवर्जिताः अलुब्धा विगतक्रॊधाः सतां यान्ति सलॊकताम |
1
[vai] evam uktas tu bhīmena smitaṃ kṛtvā plavaṃgamaḥ yadi te 'ham anugrāhyo darśayātmānam ātmanā 2 [vai] evam uktas tu bhīmena smitaṃ kṛtvā plavaṃgamaḥ tad rūpaṃ darśayām āsa yad vai sāgaralaṅghane 3 bhrātuḥ priyam abhīpsan vai cakāra sumahad vapuḥ dehas tasya tato 'tīva vardhaty āyāma vistaraiḥ 4 tad rūpaṃ kadalī sandaṃ chādayann amitadyutiḥ gireś cocchrayam āgamya tasthau tatra sa vānaraḥ 5 samucchritamahākāyo dvitīya iva parvataḥ tāmrekṣaṇas tīkṣṇadaṃstro bhṛkuṭī kṛtalocanaḥ dīrghalāṅgūlam āvidhya diśo vyāpya sthitaḥ kapiḥ 6 tad rūpaṃ mahad ālakṣya bhrātuḥ kauravanandanaḥ visismiye tadā bhīmo jahṛṣe ca punaḥ punaḥ 7 tam arkam iva tejobhiḥ sauvarṇam iva parvatam pradīptam iva cākāśaṃ dṛṣṭvā bhīmo nyamīlayat 8 ābabhāṣe ca hanumān bhīmasenaṃ smayann iva etāvad iha śaktas tvaṃ rūpaṃ draṣṭuṃ mamānagha 9 vardhe 'haṃ cāpy ato bhūyo yāvan me manasepsitam bhīma śatruṣu cātyarthaṃ vardhate mūrtir ojasā 10 tad adbhutaṃ mahāraudraṃ vindhyamandara saṃnibham dṛṣṭvā hanūmato varṣma saṃbhrāntaḥ pavanātma jaḥ 11 pratyuvāca tato bhīmaḥ saṃprahṛṣṭatanūruhaḥ kṛtāñjalir adīnātmā hanūmantam avasthitam 12 dṛṣṭaṃ pramāṇaṃ vipulaṃ śarīrasyāsya te vibho saṃharasva mahāvīryasvayam ātmānam ātmanā 13 na hi śaknomi tvāṃ draṣṭuṃ divākaram ivoditam aprameyam anādhṛṣyaṃ mainākam iva parvatam 14 vismayaś caiva me vīra sumahān manaso 'dya vai yad rāmas tvayi pārśvasthe svayaṃ rāvaṇam abhyagāt 15 tvam eva śaktas tāṃ laṅkāṃ sayodhāṃ sahavāhanām svabāhubalam āśritya vināśayitum ojasā 16 na hi te kiṃ cid aprāpyaṃ mārutātmaja vidyate tava naikasya paryāpto rāvaṇaḥ sagaṇo yudhi 17 evam uktas tu bhīmena hanūmān plavagarṣabhaḥ pratyuvāca tato vākyaṃ snigdhaganbhīrayā girā 18 evam etan mahābāho yathā vadasi bhārata bhīmasena na paryāpto mamāsau rākṣasādhamaḥ 19 mayā tu tasmin nihate rāvaṇe lokakantake kīrtir naśyed rāghavasya tata etad upekṣitam 20 tena vīreṇa hatvā tu sagaṇaṃ rākṣasādhipam ānītā svapuraṃ sītā loke kīrtiś ca sthāpitā 21 tad gaccha vipulaprajña bhrātuḥ priyahite rataḥ ariṣṭaṃ kṣemam adhvānaṃ vāyunā parirakṣitaḥ 22 eṣa panthāḥ kuruśreṣṭha saugandhika vanāya te drakṣyase dhanadodyānaṃ rakṣitaṃ yakṣarākṣasaiḥ 23 na ca te tarasā kāryaḥ kusumāvacayaḥ svayam daivatāni hi mānyāni puruṣeṇa viśeṣataḥ 24 balihomanamaskārair mantraiś ca bharatarṣabha daivatāni prasādaṃ hi bhaktyā kurvanti bhārata 25 mā tāta sāhasaṃ kārṣīḥ svadharmam anupālaya svadharmasthaḥ paraṃ dharmaṃ budhyasvāgamayasva ca 26 vijñātavyo vibhāgena yatra muhyanty abuddhayaḥ dharmo vai vedituṃ śakyo bṛhaspatisamair api 27 adharmo yatra dharmākhyo dharmaś cādharmasaṃjñitaḥ vijñātavyo vibhāgena yatra muhyanty abuddhayaḥ 28 ācāra saṃbhavo dharmo dharmād vedāḥ samutthitāḥ vedair yajñāḥ samutpannā yajñair devāḥ pratiṣṭhitāḥ 29 vedācāra vidhānoktair yajñair dhāryanti devatāḥ bṛhaspatyuśanoktaiś ca nayair dhāryanti mānavāḥ 30 panyā karavanijyābhiḥ kṛṣyātho yonipoṣaṇaiḥ vārtayā dhāryate sarvaṃ dharmair etair dvijātibhiḥ 31 trayī vārtā daṇḍanītis tisro vidyā vijānatām tābhiḥ samyak prayuktābhir lokayātrā vidhīyate 32 sā ced dharmakriyā na syāt trayīdharmam ṛte bhuvi daṇḍanītim ṛte cāpi nirmaryādam idaṃ bhavet 33 vārtā dharme hy avartantyo vinaśyeyur imāḥ prajāḥ supravṛttair tribhir hy etair dharmaiḥ sūyanti vai prajāḥ 34 dvijānām amṛtaṃ dharmo hy ekaś caivaika varṇikaḥ yajñādhyayana dānāni trayaḥ sādhāraṇāḥ smṛtāḥ 35 yājanādhyāpane cobhe brāhmaṇānāṃ pratigrahaḥ pālanaṃ kṣatriyāṇāṃ vai vaiśya dharmaś ca poṣaṇam 36 śuśrūṣā tu dvijātīnāṃ śūdrāṇāṃ dharma ucyate bhaikṣa homavratair hīnās tathaiva guruvāsinām 37 kṣatradharmo 'tra kaunteya tava dharmābhirakṣaṇam svadharmaṃ pratipadyasva vinīto niyatendriyaḥ 38 vṛddhair saṃmantrya sadbhiś ca buddhimadbhiḥ śrutānvitaiḥ susthitaḥ śāsti dandena vyasanī paribhūyate 39 nigrahānugrahaiḥ samyag yadā rājā pravartate tadā bhavati lokasya maryādā suvyavasthitā 40 tasmād deśe ca durge ca śatrumitra baleṣu ca nityaṃ cāreṇa boddhavyaṃ sthānaṃ vṛddhiḥ kṣayas tathā 41 rājñām upāyāś catvāro buddhimantraḥ parākramaḥ nigrahānugrahau caiva dākṣyaṃ tat kāryasādhanam 42 sāmnā dānena bhedena dandenopekṣaṇena ca sādhanīyāni kāryāṇi samāsa vyāsa yogataḥ 43 mantramūlā nayāḥ sarve cārāś ca bharatarṣabha sumantritair nayaiḥ siddhis tadvidaiḥ saha mantrayet 44 striyā mūdhena lubdhena bālena laghunā tathā na mantrayeta guhyāni yeṣu conmāda lakṣaṇam 45 mantrayet saha vidvadbhiḥ śaktaiḥ karmāṇi kārayet snigdhaiś ca nītivinyāsān mūrkhān sarvatra varjayet 46 dhārmikān dharmakāryeṣu arthakāryeṣu paṇḍitān strīṣu klībān niyuñjīta krūrān krūreṣu karmasu 47 svebhyaś caiva parebhyaś ca kāryākāryasamudbhavā buddhiḥ karmasu vijñeyā ripūṇāṃ ca balābalam 48 buddhyā supratipanneṣu kuryāt sādhu parigraham nigrahaṃ cāpy aśiṣṭeṣu nirmaryādeṣu kārayet 49 nigrahe pragrahe samyag yadā rājā pravartate tadā bhavati lokasya maryādā suvyavasthitā 50 eṣa te vihitaḥ pārtha ghoro dharmo duranvayaḥ taṃ svadharmavibhāgena vinayastho 'nupālaya 51 tapo dharmadamejyābhir viprā yānti yathā divam dānātithya kriyā dharmair yānti vaiśyāś ca sadgatim 52 kṣatraṃ yāti tathā svargaṃ bhuvi nigrahapālanaiḥ samyak pranīya daṇḍaṃ hi kāmadveṣavivarjitāḥ alubdhā vigatakrodhāḥ satāṃ yānti salokatām |
The Mahabharata in Sanskrit
Book 3
Chapter 150
|
1
[वै] ततः संकृत्य विपुलं तद वपुः कामवर्धितम भीमसेनं पुनर दॊर्भ्यां पर्यष्वजत वानरः 2 परिष्वक्तस्य तस्याशु भरात्रा भीमस्य भारत शरमॊ नाशम उपागच्छत सर्वं चासीत परदक्षिणम 3 ततः पुनर अथॊवाच पर्यश्रुनयनॊ हरिः भीमम आभाष्य सौहार्दाद बाष्पगद्गदया गिरा 4 गच्छ वीर सवम आवासं समर्तव्यॊ ऽसमि कथान्तरे इहस्थश च कुरुश्रेष्ठ न निवेद्यॊ ऽसमि कस्य चित 5 धनदस्यालयाच चापि विसृष्टानां महाबल देशकाल इहायातुं देवगन्धर्वयॊषिताम 6 ममापि सफलं चक्षुः समारितश चास्मि राघवम मानुषं गात्रसंस्पर्शं गत्वा भीम तवया सह 7 तद अस्मद दर्शनं वीर कौन्तेयामॊघम अस्तु ते भरातृत्वं तवं पुरस्कृत्य वरं वरय भारत 8 यदि तावन मया कषुद्रा गत्वा वारणसाह्वयम धार्तराष्ट्रा निहन्तव्या यावद एतत करॊम्य अहम 9 शिलया नगरं वा तन मर्दितव्यं मया यदि यावद अद्य करॊम्य एतत कामं तव महाबल 10 भीमसेनस तु तद वाक्यं शरुत्वा तस्य महात्मनः परत्युवाच हनूमन्तं परहृष्टेनान्तरात्मना 11 कृतम एव तवया सर्वं मम वानरपुंगव सवस्ति ते ऽसतु महाबाहॊ कषामये तवां परसीद मे 12 सनाथाः पाण्डवाः सर्वे तवया नाथेन वीर्यवन तवैव तेजसा सर्वान विजेष्यामॊ वयं रिपून 13 एवम उक्तस तु हनुमान भीमसेनम अभाषत भरातृत्वात सौहृदाच चापि करिष्यामि तव परियम 14 चमूं विगाह्य शत्रूणां शरशक्तिसमाकुलाम यदा सिंहरवं वीरकरिष्यसि महाबल तदाहं बृंहयिष्यामि सवरवेण रवं तव 15 विजयस्व धवजस्थश च नादान मॊक्ष्यामि दारुणान शत्रूणां ते पराणहरान इत्य उक्त्वान्तरधीयत 16 गते तस्मिन हरिवरे भीमॊ ऽपि बलिनां वरः तेन मार्गेण विपुलं वयचरद गन्धमादनम 17 अनुस्मरन वपुस तस्य शरियं चाप्रतिमां भुवि माहात्म्यम अनुभावं च समरन दाशरथेर ययौ 18 स तानि रमणीयानि वनान्य उपवनानि च विलॊडयाम आस तदा सौगन्धिक वनेप्सया 19 फुल्लपद्मविचित्राणि पुष्पितानि वनानि च मत्तवारणयूथानि पङ्कक्लिन्नानि भारत वर्षताम इव मेघानां वृन्दानि ददृशे तदा 20 हरिणैश चञ्चलापाङ्गैर हरिणी सहितैर वने सशष्प कवलैः शरीमान पथि दृष्टॊ दरुतं ययौ 21 महिषैश च वराहैश च शार्दूलैश च निषेवितम वयपेतभीर गिरिं शौर्याद भीमसेनॊ वयगाहत 22 कुसुमानत शाखैश च ताम्प्र पल्लवकॊमलैः याच्यमान इवारण्ये दरुमैर मारुतकम्पितैः 23 कृतपद्माज्ञलि पुटा मत्तषट्पद सेविताः परिय तीर्थवना मार्गे पद्मिनीः समतिक्रमन 24 सज्जमान मनॊ दृष्टिः फुल्लेषु गिरिसानुषु दरौपदी वाक्यपाथेयॊ भीमः शीघ्रतरं ययौ 25 परिवृत्ते ऽहनि ततः परकीर्णहरिणे वने काञ्चनैर विमलैः पद्मैर ददर्श विपुलां नदीम 26 मत्तकारण्डव युतां चक्रवाकॊपशॊभिताम रचिताम इव तस्याद्रेर मालां विमलपङ्कजाम 27 तस्यां नद्यां महासत्त्वः सौगन्धिक वनं महत अपश्यत परीतिजननं बालार्कसदृशद्युति 28 तद दृष्ट्वा लब्धकामः स मनसा पाण्डुनन्दनः वनवास परिक्लिष्टां जगाम मनसा परियाम |
1
[vai] tataḥ saṃkṛtya vipulaṃ tad vapuḥ kāmavardhitam bhīmasenaṃ punar dorbhyāṃ paryaṣvajata vānaraḥ 2 pariṣvaktasya tasyāśu bhrātrā bhīmasya bhārata śramo nāśam upāgacchat sarvaṃ cāsīt pradakṣiṇam 3 tataḥ punar athovāca paryaśrunayano hariḥ bhīmam ābhāṣya sauhārdād bāṣpagadgadayā girā 4 gaccha vīra svam āvāsaṃ smartavyo 'smi kathāntare ihasthaś ca kuruśreṣṭha na nivedyo 'smi kasya cit 5 dhanadasyālayāc cāpi visṛṣṭānāṃ mahābala deśakāla ihāyātuṃ devagandharvayoṣitām 6 mamāpi saphalaṃ cakṣuḥ smāritaś cāsmi rāghavam mānuṣaṃ gātrasaṃsparśaṃ gatvā bhīma tvayā saha 7 tad asmad darśanaṃ vīra kaunteyāmogham astu te bhrātṛtvaṃ tvaṃ puraskṛtya varaṃ varaya bhārata 8 yadi tāvan mayā kṣudrā gatvā vāraṇasāhvayam dhārtarāṣṭrā nihantavyā yāvad etat karomy aham 9 śilayā nagaraṃ vā tan marditavyaṃ mayā yadi yāvad adya karomy etat kāmaṃ tava mahābala 10 bhīmasenas tu tad vākyaṃ śrutvā tasya mahātmanaḥ pratyuvāca hanūmantaṃ prahṛṣṭenāntarātmanā 11 kṛtam eva tvayā sarvaṃ mama vānarapuṃgava svasti te 'stu mahābāho kṣāmaye tvāṃ prasīda me 12 sanāthāḥ pāṇḍavāḥ sarve tvayā nāthena vīryavan tavaiva tejasā sarvān vijeṣyāmo vayaṃ ripūn 13 evam uktas tu hanumān bhīmasenam abhāṣata bhrātṛtvāt sauhṛdāc cāpi kariṣyāmi tava priyam 14 camūṃ vigāhya śatrūṇāṃ śaraśaktisamākulām yadā siṃharavaṃ vīrakariṣyasi mahābala tadāhaṃ bṛṃhayiṣyāmi svaraveṇa ravaṃ tava 15 vijayasva dhvajasthaś ca nādān mokṣyāmi dāruṇān śatrūṇāṃ te prāṇaharān ity uktvāntaradhīyata 16 gate tasmin harivare bhīmo 'pi balināṃ varaḥ tena mārgeṇa vipulaṃ vyacarad gandhamādanam 17 anusmaran vapus tasya śriyaṃ cāpratimāṃ bhuvi māhātmyam anubhāvaṃ ca smaran dāśarather yayau 18 sa tāni ramaṇīyāni vanāny upavanāni ca viloḍayām āsa tadā saugandhika vanepsayā 19 phullapadmavicitrāṇi puṣpitāni vanāni ca mattavāraṇayūthāni paṅkaklinnāni bhārata varṣatām iva meghānāṃ vṛndāni dadṛśe tadā 20 hariṇaiś cañcalāpāṅgair hariṇī sahitair vane saśaṣpa kavalaiḥ śrīmān pathi dṛṣṭo drutaṃ yayau 21 mahiṣaiś ca varāhaiś ca śārdūlaiś ca niṣevitam vyapetabhīr giriṃ śauryād bhīmaseno vyagāhata 22 kusumānata śākhaiś ca tāmpra pallavakomalaiḥ yācyamāna ivāraṇye drumair mārutakampitaiḥ 23 kṛtapadmājñali puṭā mattaṣaṭpada sevitāḥ priya tīrthavanā mārge padminīḥ samatikraman 24 sajjamāna mano dṛṣṭiḥ phulleṣu girisānuṣu draupadī vākyapātheyo bhīmaḥ śīghrataraṃ yayau 25 parivṛtte 'hani tataḥ prakīrṇahariṇe vane kāñcanair vimalaiḥ padmair dadarśa vipulāṃ nadīm 26 mattakāraṇḍava yutāṃ cakravākopaśobhitām racitām iva tasyādrer mālāṃ vimalapaṅkajām 27 tasyāṃ nadyāṃ mahāsattvaḥ saugandhika vanaṃ mahat apaśyat prītijananaṃ bālārkasadṛśadyuti 28 tad dṛṣṭvā labdhakāmaḥ sa manasā pāṇḍunandanaḥ vanavāsa parikliṣṭāṃ jagāma manasā priyām |
The Mahabharata in Sanskrit
Book 3
Chapter 151
|
1
[वै] स गत्वा नलिनीं रम्यां राक्षसैर अभिरक्षिताम कैलासशिखरे रम्ये ददर्श शुभकानने 2 कुबेरभवनाभ्याशे जातां पर्वतनिर्झरे सुरम्यां विपुलछायां नानाद्रुमलतावृताम 3 हरिताम्बुज संछन्नां दिव्यां कनकपुष्कराम पवित्रभूतां लॊकस्य शुभाम अद्भुतदर्शनाम 4 तत्रामृत रसं शीतं लघु कुन्तीसुतः शुभम ददर्श विमलं तॊयं शिवं बहु च पाण्डवः 5 तां तु पुष्करिणीं रम्यां पद्मसौगन्धिकायुताम जातरूपमयैः पद्मैश छन्नां परमगन्धिभिः 6 वैडूर्य वरनालैश च बहु चित्रैर मनॊहरैः हंश कारण्डवॊद्धूतैः सृजद्भिर अमलं रजः 7 आक्रीडं यक्षराजस्य कुबेरस्य महात्मनः गन्धर्वैर अप्सरॊभिश च देवैश च परमार्चिताम 8 सेविताम ऋषिभिर दिव्यां यक्षैः किंपुरुषैर अथा राक्षसैः किंनरैश चैव गुप्तां वैश्रवणेन च 9 तां च दृष्ट्वैव कौन्तेयॊ भीमसेनॊ महाबलः बभूव परमप्रीतॊ दिव्यं संप्रेक्ष्य तत सरः 10 तच च करॊधवशा नाम राक्षसा राजशासनात रक्षन्ति शतसाहस्राश चित्रायुधपरिच्छदाः 11 ते तु दृष्ट्वैव कौन्तेयम अजिनैः परिवारितम रुक्माङ्गद धरं वीरं भीमं भीमपराक्रमम 12 सायुधं बद्धनिस्त्रिंशम अशङ्कितम अरिंदमम पुष्करेप्सुम उपायान्तम अन्यॊन्यम अभिचुक्रुशुः 13 अयं पुरुषशार्दूलः सायुधॊ ऽजिन संवृतः यच चिकीर्षुर इह पराप्तस तत संप्रष्टुम इहार्हथ 14 ततः सर्वे महाबाहुं समासाद्य वृकॊदरम तेजॊयुक्तम अपृच्छन्त कस तवम आख्यातुम अर्हसि 15 मुनिवेषधरश चासि चीरवासाश च लक्ष्यसे यदर्थम असि संप्राप्तस तद आचक्ष्व महाद्युते |
1
[vai] sa gatvā nalinīṃ ramyāṃ rākṣasair abhirakṣitām kailāsaśikhare ramye dadarśa śubhakānane 2 kuberabhavanābhyāśe jātāṃ parvatanirjhare suramyāṃ vipulachāyāṃ nānādrumalatāvṛtām 3 haritāmbuja saṃchannāṃ divyāṃ kanakapuṣkarām pavitrabhūtāṃ lokasya śubhām adbhutadarśanām 4 tatrāmṛta rasaṃ śītaṃ laghu kuntīsutaḥ śubham dadarśa vimalaṃ toyaṃ śivaṃ bahu ca pāṇḍavaḥ 5 tāṃ tu puṣkariṇīṃ ramyāṃ padmasaugandhikāyutām jātarūpamayaiḥ padmaiś channāṃ paramagandhibhiḥ 6 vaiḍūrya varanālaiś ca bahu citrair manoharaiḥ haṃśa kāraṇḍavoddhūtaiḥ sṛjadbhir amalaṃ rajaḥ 7 ākrīḍaṃ yakṣarājasya kuberasya mahātmanaḥ gandharvair apsarobhiś ca devaiś ca paramārcitām 8 sevitām ṛṣibhir divyāṃ yakṣaiḥ kiṃpuruṣair athā rākṣasaiḥ kiṃnaraiś caiva guptāṃ vaiśravaṇena ca 9 tāṃ ca dṛṣṭvaiva kaunteyo bhīmaseno mahābalaḥ babhūva paramaprīto divyaṃ saṃprekṣya tat saraḥ 10 tac ca krodhavaśā nāma rākṣasā rājaśāsanāt rakṣanti śatasāhasrāś citrāyudhaparicchadāḥ 11 te tu dṛṣṭvaiva kaunteyam ajinaiḥ parivāritam rukmāṅgada dharaṃ vīraṃ bhīmaṃ bhīmaparākramam 12 sāyudhaṃ baddhanistriṃśam aśaṅkitam ariṃdamam puṣkarepsum upāyāntam anyonyam abhicukruśuḥ 13 ayaṃ puruṣaśārdūlaḥ sāyudho 'jina saṃvṛtaḥ yac cikīrṣur iha prāptas tat saṃpraṣṭum ihārhatha 14 tataḥ sarve mahābāhuṃ samāsādya vṛkodaram tejoyuktam apṛcchanta kas tvam ākhyātum arhasi 15 muniveṣadharaś cāsi cīravāsāś ca lakṣyase yadartham asi saṃprāptas tad ācakṣva mahādyute |
The Mahabharata in Sanskrit
Book 3
Chapter 152
|
1
[भीम] पाण्डवॊ भीमसेनॊ ऽहं धर्मपुत्राद अनन्तरः विशालां बदरीं पराप्तॊ भरातृभिः सह राक्षसाः 2 अपश्यत तत्र पञ्चाली सौगन्धिकम अनुत्तमम अनिलॊढम इतॊ नूनं सा बहूनि परीप्सति 3 तस्या मामानवद्याङ्ग्या धर्मपत्न्याः परिये सथितम पुष्पाहारम इह पराप्तं निबॊधत निशाचराः 4 [र-स] आक्रीडॊ ऽयं कुबेरस्य दयितः पुरुषर्षभ नेह शक्यं मनुष्येण विहर्तुं मर्त्यधर्मिणा 5 देवर्षयस तथा यक्षा देवाश चात्र वृकॊदर आमन्त्र्य यक्षप्रवरं पिबन्ति विहरन्ति च गन्धर्वाप्सरसश चैव विहरन्त्य अत्र पाण्डव 6 अन्यायेनेह यः कश चिद अवमन्य धनेश्वरम विहर्तुम इच्छेद दुर्वृत्तः स विनश्येद असंशयम 7 तम अनादृत्य पद्मानि जिहीर्षसि बलाद इतः धर्मराजस्य चात्मानं बरवीषि भरातरं कथम 8 [भीम] राक्षसास तं न पश्यामि धनेश्वरम इहान्तिके दृष्ट्वापि च महाराजं नाहं याचितुम उत्सहे 9 न हि याचन्ति राजान एष धर्मः सनातनः न चाहं हातुम इच्छामि कषात्र धर्मं कथं चन 10 इयं च नलिनी रम्या जता पर्वतनिर्झरे नेयं भवनम आसाद्य कुबेरस्य महात्मनः 11 तुल्या हि सर्वभूतानाम इयं वैश्रवणस्य च एवंगतेषु दरव्येषु कः कं याचितुम अर्हति 12 [वै] इत्य उक्त्वा राक्षसान सर्वान भीमसेनॊ वयगाहत ततः स राक्षसैर वाचा परतिषिद्धः परतापवान मा मैवम इति सक्रॊधैर भर्त्सयद्भिः समन्ततः 13 कदर्थी कृत्यतु स तान राक्षसान भीमविक्रमः वयगाहत महातेजास ते तं सर्वे नयवारयन 14 गृह्णीत बध्नीत निकृन्ततेमं; पचाम खादाम च भीमसेनम करुद्धा बरुवन्तॊ ऽनुययुर दरुतं ते; शस्त्राणि चॊद्यम्य विवृत्तनेत्राः 15 ततः स गुर्वी यमदण्डकल्पां; महागदां काञ्चनपट्टनद्धाम परगृह्य तान अभ्यपतत तरस्वी; ततॊ ऽबरवीत तिष्ठत तिष्ठतेति 16 ते तं तदा तॊमरपट्टिशाद यैर; वयाविध्य शस्त्रैः सहसाभिपेतुः जिघांसवः करॊधवशाः सुभीमा; भीमं समन्तात परिवव्रुर उग्राः 17 वातेन कुन्त्यां बलवान स जातः; शूरस तरस्वी दविषतां निहन्ता सत्ये च धर्मे च रतः सदैव; पराक्रमे शत्रुभिर अप्रधृष्यः 18 तेषां स मार्गान विविधान महात्मा; निहत्य शस्त्राणि च शात्रवाणाम यथा परवीरान निजघान वीरः; परःशतान पुष्करिणी समीपे 19 ते तस्य वीर्यं च बलं च दृष्ट्वा; विद्या बलं बाहुबलं तथैव अशक्नुवन्तः सहिताः समन्ताद; धतप्रवीराः सहसा निवृत्ताः 20 विदीर्यमाणास तत एव तूर्णम; आकाशम आस्थाय विमूढसंज्ञाः कैलासशृङ्गाण्य अभिदुद्रुवुस ते; भीमार्दिताः करॊधवशाः परभग्नाः 21 स शक्रवद दानवदैत्य संघान; विक्रम्य जित्वा च रणे ऽरिसंघान विगाह्य तां पुष्करिणीं जितारिः; कामाय जग्राह ततॊ ऽमबुजानि 22 ततः स पीत्वामृत कल्पम अम्भॊ; भूयॊ बभूवॊत्तम वीर्यतेजाः उत्पाट्य जग्राह ततॊ ऽमबुजानि; सौगन्धिकान्य उत्तमगन्धवन्ति 23 ततस तु ते करॊधवशाः समेत्य; धनेश्वरं भीमबलप्रणुन्नाः भीमस्य वीर्यं च बलं च संख्ये; यथावद आचख्युर अतीव दीनाः 24 तेषां वचस तत तु निशम्य देवः; परहस्य रक्षांशि ततॊ ऽभयुवाच गृह्णातु भीमॊ जलजानि कामं; कृष्णा निमित्तं विदितं ममैतत 25 ततॊ ऽभयनुज्ञाय धनेश्वरं ते; जग्मुः कुरूणां परवरं विरॊषाः भीमं च तस्यां ददृशुर नलिन्यां; यथॊपजॊषं विहरन्तम एकम |
1
[bhīma] pāṇḍavo bhīmaseno 'haṃ dharmaputrād anantaraḥ viśālāṃ badarīṃ prāpto bhrātṛbhiḥ saha rākṣasāḥ 2 apaśyat tatra pañcālī saugandhikam anuttamam aniloḍham ito nūnaṃ sā bahūni parīpsati 3 tasyā māmānavadyāṅgyā dharmapatnyāḥ priye sthitam puṣpāhāram iha prāptaṃ nibodhata niśācarāḥ 4 [ra-s] ākrīḍo 'yaṃ kuberasya dayitaḥ puruṣarṣabha neha śakyaṃ manuṣyeṇa vihartuṃ martyadharmiṇā 5 devarṣayas tathā yakṣā devāś cātra vṛkodara āmantrya yakṣapravaraṃ pibanti viharanti ca gandharvāpsarasaś caiva viharanty atra pāṇḍava 6 anyāyeneha yaḥ kaś cid avamanya dhaneśvaram vihartum icched durvṛttaḥ sa vinaśyed asaṃśayam 7 tam anādṛtya padmāni jihīrṣasi balād itaḥ dharmarājasya cātmānaṃ bravīṣi bhrātaraṃ katham 8 [bhīma] rākṣasās taṃ na paśyāmi dhaneśvaram ihāntike dṛṣṭvāpi ca mahārājaṃ nāhaṃ yācitum utsahe 9 na hi yācanti rājāna eṣa dharmaḥ sanātanaḥ na cāhaṃ hātum icchāmi kṣātra dharmaṃ kathaṃ cana 10 iyaṃ ca nalinī ramyā jatā parvatanirjhare neyaṃ bhavanam āsādya kuberasya mahātmanaḥ 11 tulyā hi sarvabhūtānām iyaṃ vaiśravaṇasya ca evaṃgateṣu dravyeṣu kaḥ kaṃ yācitum arhati 12 [vai] ity uktvā rākṣasān sarvān bhīmaseno vyagāhata tataḥ sa rākṣasair vācā pratiṣiddhaḥ pratāpavān mā maivam iti sakrodhair bhartsayadbhiḥ samantataḥ 13 kadarthī kṛtyatu sa tān rākṣasān bhīmavikramaḥ vyagāhata mahātejās te taṃ sarve nyavārayan 14 gṛhṇīta badhnīta nikṛntatemaṃ; pacāma khādāma ca bhīmasenam kruddhā bruvanto 'nuyayur drutaṃ te; śastrāṇi codyamya vivṛttanetrāḥ 15 tataḥ sa gurvī yamadaṇḍakalpāṃ; mahāgadāṃ kāñcanapaṭṭanaddhām pragṛhya tān abhyapatat tarasvī; tato 'bravīt tiṣṭhata tiṣṭhateti 16 te taṃ tadā tomarapaṭṭiśād yair; vyāvidhya śastraiḥ sahasābhipetuḥ jighāṃsavaḥ krodhavaśāḥ subhīmā; bhīmaṃ samantāt parivavrur ugrāḥ 17 vātena kuntyāṃ balavān sa jātaḥ; śūras tarasvī dviṣatāṃ nihantā satye ca dharme ca rataḥ sadaiva; parākrame śatrubhir apradhṛṣyaḥ 18 teṣāṃ sa mārgān vividhān mahātmā; nihatya śastrāṇi ca śātravāṇām yathā pravīrān nijaghāna vīraḥ; paraḥśatān puṣkariṇī samīpe 19 te tasya vīryaṃ ca balaṃ ca dṛṣṭvā; vidyā balaṃ bāhubalaṃ tathaiva aśaknuvantaḥ sahitāḥ samantād; dhatapravīrāḥ sahasā nivṛttāḥ 20 vidīryamāṇās tata eva tūrṇam; ākāśam āsthāya vimūḍhasaṃjñāḥ kailāsaśṛṅgāṇy abhidudruvus te; bhīmārditāḥ krodhavaśāḥ prabhagnāḥ 21 sa śakravad dānavadaitya saṃghān; vikramya jitvā ca raṇe 'risaṃghān vigāhya tāṃ puṣkariṇīṃ jitāriḥ; kāmāya jagrāha tato 'mbujāni 22 tataḥ sa pītvāmṛta kalpam ambho; bhūyo babhūvottama vīryatejāḥ utpāṭya jagrāha tato 'mbujāni; saugandhikāny uttamagandhavanti 23 tatas tu te krodhavaśāḥ sametya; dhaneśvaraṃ bhīmabalapraṇunnāḥ bhīmasya vīryaṃ ca balaṃ ca saṃkhye; yathāvad ācakhyur atīva dīnāḥ 24 teṣāṃ vacas tat tu niśamya devaḥ; prahasya rakṣāṃśi tato 'bhyuvāca gṛhṇātu bhīmo jalajāni kāmaṃ; kṛṣṇā nimittaṃ viditaṃ mamaitat 25 tato 'bhyanujñāya dhaneśvaraṃ te; jagmuḥ kurūṇāṃ pravaraṃ viroṣāḥ bhīmaṃ ca tasyāṃ dadṛśur nalinyāṃ; yathopajoṣaṃ viharantam ekam |
The Mahabharata in Sanskrit
Book 3
Chapter 153
|
1
[वै] ततस तानि महार्हाणि दिव्यानि भरतर्षभः बहूनि बहुरूपाणि विरजांसि समाददे 2 ततॊ वायुर महाञ शीघ्रॊ नीचैः शर्कर कर्षणः परादुरासीत खरस्पर्शः संग्रामम अभिचॊदयन 3 पपात महती चॊल्का सनिर्घाता महाप्रभा निष्प्रभश चाभवत सूर्यश छन्नरश्मिस तमॊवृतः 4 निर्घातश चाभवद भीमॊ भीमे विक्रमम आस्थिते चचाल पृथिवी चापि पांसुवर्षं पपात च 5 सलॊहिता दिशश चासन खरवाचॊ मृगद्विजाः तमॊवृतम अभूत सर्वं न परज्ञायत किं चन 6 तद अद्भुतम अभिप्रेक्ष्य धर्मपुत्रॊ युधिष्ठिरः उवाच वदतां शरेष्ठः कॊ ऽसमान अभिभविष्यति 7 सज्जीभवत भद्रं वः पाण्डवा युद्धदुर्मदाः यथा रूपाणि पश्यामि सवभ्यग्रॊ नः पराक्रमः 8 एवम उक्त्वा ततॊ राजा वीक्षां चक्रे समन्ततः अपश्यमानॊ भीमं च धर्मराजॊ युधिष्ठिरः 9 तत्र कृष्णां यमौ चैव समीपस्थान अरिंदमः पप्रच्छ भरातरं भीमं भीमकर्माणम आहवे 10 कच चिन न भीमः पाञ्चालि किं चित कृत्यं चिकीर्षति कृतवान अपि वा वीरः साहसं साहस परियः 11 इमे हय अकस्माद उत्पाता महासमरदर्शिनः दर्शयन्तॊ भयं तीव्रं परादुर्भूताः समन्ततः 12 तं तथा वादिनं कृष्णा परत्युवाच मनस्विनी परिया परियं चिकीर्षन्ती महिषी चारुहासिनी 13 यत तत सौगन्धिकं राजन्न आहृतं मातरिश्वना तन मया भीमसेनस्य परीतयाद्यॊपपादितम 14 अपि चॊक्तॊ मया वीरॊ यदि पश्येद बहून्य अपि तानि सर्वाण्य उपादाय शीघ्रम आगम्यताम इति 15 स तु नूनं महाबाहुः परियार्थं मम पाण्डवः पराग उदीचीं दिशं राजंस तान्य आहर्तुम इतॊ गतः 16 उक्तस तव एवं तया राजा यमाव इदम अथाब्रवीत गच्छाम सहितास तूर्णं येन यातॊ वृकॊदरः 17 वहन्तु राक्षसा विप्रान यथा शरान्तान यथा कृशान तवम अप्य अमरसंकाश वह कृष्णां घटॊत्कच 18 वयक्तं दूरम इतॊ भीमः परविष्ट इति मे मतिः चिरं च तस्य कालॊ ऽयं स च वायुसमॊ जवे 19 तरस्वी वैनतेयस्य सदृशॊ भुवि लङ्घने उत्पतेद अपि चाकाशं निपतेच च यथेच्छकम 20 तम अन्वियाम भवतां परभावाद रजनीचराः पुरा स नापराध्नॊति सिधानां बरह्मवादिनाम 21 तथेत्य उक्त्वा तु ते सर्वे हैडिम्ब परमुखास तदा उद्देशज्ञाः कुबेरस्य नलिन्या भरतर्षभः 22 आदाय पाण्डवांश चैव तांश च विप्रान अनेकशः लॊमशेनैव सहिताः परययुः परीतमानसाः 23 ते गत्वा सहिताः सर्वे ददृशुस तत्र कानने परफुल्लपङ्कज वतीं नलिनीं सुमनॊहराम 24 तं च भीमं महात्मानं तस्यास तीरे वयवस्थिरम ददृशुर निहतां चैव यक्षान सुविपुलेक्षणान 25 उद्यम्य च गदां दॊर्भ्यां नदीतीरे वयवस्थितम परजा संक्षेप समये दण्डहस्तम इवान्तकम 26 तं दृष्ट्वा धर्मराजस तु परिष्वज्य पुनः पुनः उवाच शलक्ष्णया वाचा कौन्तेय किम इदं कृतम 27 साहसं बत भद्रं ते देवानाम अपि चाप्रियम पुनर एवं न कर्तव्यं मम चेद इच्छसि परियम 28 अनुशास्य च कौन्तेयं पद्मानि परतिगृह्य च तस्याम एव नलिन्यां ते विजह्रुर अमरॊपमाः 29 एतस्मिन्न एव काले तु परगृहीतशिलायुधाः परादुरासन महाकायास तस्यॊद्यानस्य रक्षिणः 30 ते दृष्ट्वा धर्मराजानं देवर्षिं चापि लॊमशम नकुलं सहदेवं च तथान्यान बराह्मणर्षभान विनयेनानताः सर्वे परणिपेतुश च भारत 31 सान्त्विता धर्मराजेन परसेदुः कषणदाचराः विदिताश च कुबेरस्य ततस ते नरपुंगवाः ऊषुर नातिचिरं कालं रममाणाः कुरूद्वहाः |
1
[vai] tatas tāni mahārhāṇi divyāni bharatarṣabhaḥ bahūni bahurūpāṇi virajāṃsi samādade 2 tato vāyur mahāñ śīghro nīcaiḥ śarkara karṣaṇaḥ prādurāsīt kharasparśaḥ saṃgrāmam abhicodayan 3 papāta mahatī colkā sanirghātā mahāprabhā niṣprabhaś cābhavat sūryaś channaraśmis tamovṛtaḥ 4 nirghātaś cābhavad bhīmo bhīme vikramam āsthite cacāla pṛthivī cāpi pāṃsuvarṣaṃ papāta ca 5 salohitā diśaś cāsan kharavāco mṛgadvijāḥ tamovṛtam abhūt sarvaṃ na prajñāyata kiṃ cana 6 tad adbhutam abhiprekṣya dharmaputro yudhiṣṭhiraḥ uvāca vadatāṃ śreṣṭhaḥ ko 'smān abhibhaviṣyati 7 sajjībhavata bhadraṃ vaḥ pāṇḍavā yuddhadurmadāḥ yathā rūpāṇi paśyāmi svabhyagro naḥ parākramaḥ 8 evam uktvā tato rājā vīkṣāṃ cakre samantataḥ apaśyamāno bhīmaṃ ca dharmarājo yudhiṣṭhiraḥ 9 tatra kṛṣṇāṃ yamau caiva samīpasthān ariṃdamaḥ papraccha bhrātaraṃ bhīmaṃ bhīmakarmāṇam āhave 10 kac cin na bhīmaḥ pāñcāli kiṃ cit kṛtyaṃ cikīrṣati kṛtavān api vā vīraḥ sāhasaṃ sāhasa priyaḥ 11 ime hy akasmād utpātā mahāsamaradarśinaḥ darśayanto bhayaṃ tīvraṃ prādurbhūtāḥ samantataḥ 12 taṃ tathā vādinaṃ kṛṣṇā pratyuvāca manasvinī priyā priyaṃ cikīrṣantī mahiṣī cāruhāsinī 13 yat tat saugandhikaṃ rājann āhṛtaṃ mātariśvanā tan mayā bhīmasenasya prītayādyopapāditam 14 api cokto mayā vīro yadi paśyed bahūny api tāni sarvāṇy upādāya śīghram āgamyatām iti 15 sa tu nūnaṃ mahābāhuḥ priyārthaṃ mama pāṇḍavaḥ prāg udīcīṃ diśaṃ rājaṃs tāny āhartum ito gataḥ 16 uktas tv evaṃ tayā rājā yamāv idam athābravīt gacchāma sahitās tūrṇaṃ yena yāto vṛkodaraḥ 17 vahantu rākṣasā viprān yathā śrāntān yathā kṛśān tvam apy amarasaṃkāśa vaha kṛṣṇāṃ ghaṭotkaca 18 vyaktaṃ dūram ito bhīmaḥ praviṣṭa iti me matiḥ ciraṃ ca tasya kālo 'yaṃ sa ca vāyusamo jave 19 tarasvī vainateyasya sadṛśo bhuvi laṅghane utpated api cākāśaṃ nipatec ca yathecchakam 20 tam anviyāma bhavatāṃ prabhāvād rajanīcarāḥ purā sa nāparādhnoti sidhānāṃ brahmavādinām 21 tathety uktvā tu te sarve haiḍimba pramukhās tadā uddeśajñāḥ kuberasya nalinyā bharatarṣabhaḥ 22 ādāya pāṇḍavāṃś caiva tāṃś ca viprān anekaśaḥ lomaśenaiva sahitāḥ prayayuḥ prītamānasāḥ 23 te gatvā sahitāḥ sarve dadṛśus tatra kānane praphullapaṅkaja vatīṃ nalinīṃ sumanoharām 24 taṃ ca bhīmaṃ mahātmānaṃ tasyās tīre vyavasthiram dadṛśur nihatāṃ caiva yakṣān suvipulekṣaṇān 25 udyamya ca gadāṃ dorbhyāṃ nadītīre vyavasthitam prajā saṃkṣepa samaye daṇḍahastam ivāntakam 26 taṃ dṛṣṭvā dharmarājas tu pariṣvajya punaḥ punaḥ uvāca ślakṣṇayā vācā kaunteya kim idaṃ kṛtam 27 sāhasaṃ bata bhadraṃ te devānām api cāpriyam punar evaṃ na kartavyaṃ mama ced icchasi priyam 28 anuśāsya ca kaunteyaṃ padmāni pratigṛhya ca tasyām eva nalinyāṃ te vijahrur amaropamāḥ 29 etasminn eva kāle tu pragṛhītaśilāyudhāḥ prādurāsan mahākāyās tasyodyānasya rakṣiṇaḥ 30 te dṛṣṭvā dharmarājānaṃ devarṣiṃ cāpi lomaśam nakulaṃ sahadevaṃ ca tathānyān brāhmaṇarṣabhān vinayenānatāḥ sarve praṇipetuś ca bhārata 31 sāntvitā dharmarājena praseduḥ kṣaṇadācarāḥ viditāś ca kuberasya tatas te narapuṃgavāḥ ūṣur nāticiraṃ kālaṃ ramamāṇāḥ kurūdvahāḥ |
The Mahabharata in Sanskrit
Book 3
Chapter 154
|
1
[वै] ततस तान परिविश्वस्तान वसतस तत्र पाण्डवान गतेषु तेषु रक्षः सुभीमसेनात्मजे ऽपि च 2 रहितान भीमसेनेन कदा चित तान यदृच्छया जहार धर्मराजानं यमौ कृष्णां च राक्षसः 3 बराह्मणॊ मन्त्रकुशलः सर्वास्त्रेष्व अस्त्रवित्तमः इति बरुवन पाण्डवेयान पर्युपास्ते सम नित्यदा 4 परीक्षमाणः पार्थानां कलापानि धनूंषि च अन्तरं समभिप्रेप्सुर नाम्ना खयातॊ जटासुरः 5 स भीमसेने निष्क्रान्ते मृगयार्थम अरिंदमे अन्यद रूपं समास्थाय विकृतं भैरवं महत 6 गृहीत्वा सर्वशस्त्राणि दरौपदीं परिगृह्य च परातिष्ठत स दुष्टात्मा तरीन गृहीत्वा च पाण्डवान 7 सहदेवस तु यत्नेन ततॊ ऽपक्रम्य पाण्डवः आक्रन्दद भीमसेनं वै यन यातॊ महाबलः 8 तम अब्रवीद धर्मराजॊ हरियमाणॊ युधिष्ठिरः धर्मस ते हीयते मूढ न चैनं समवेक्षसे 9 ये ऽनये के चिन मनुष्येषु तिर्यग्यॊनिगता अपि गन्धर्वयक्षरक्षांसि वयांसि पशवस तथा मनुष्यान उपजीवन्ति ततस तवम उपजीवसि 10 समृद्ध्या हय अस्य लॊकस्य लॊकॊ युष्माकम ऋध्यते इमं च लॊकं शॊचन्तम अनुशॊचन्ति देवताः पूज्यमानाश च वर्धन्ते हव्यकव्यैर यथाविधि 11 वयं राष्ट्रस्य गॊप्तारॊ रक्षितारश च राक्षस राष्ट्रस्यारक्ष्यमाणस्य कुतॊ भूतिः कुतः सुखम 12 न च राजावमन्तव्यॊ रक्षसा जात्व अनागसि अणुर अप्य अपचारश च नास्त्य अस्माकं नराशन 13 दरॊग्धव्यं न च मित्रेषु न विश्वस्तेषु कर्हि चित येषां चान्नानि भुञ्जीत यत्र च सयात परतिश्रयः 14 स तवं परतिश्रये ऽसमाकं पूज्यमानः सुखॊषितः भुक्त्वा चान्नानि दुष्प्रज्ञ कथम अस्माञ जिहीर्षसि 15 एवम एव वृथाचारॊ वृथा वृद्धॊ वृथा मतिः वृथा मरणम अर्हस तवं वृथाद्य न भविष्यसि 16 अथ चेद दुष्टबुद्धिस तवं सर्वैर धर्मैर विवर्जितः परदाय शस्त्राण्य अस्माकं युद्धेन दरौपदीं हर 17 अथ चेत तवम अविज्ञाय इदं कर्म करिष्यसि अधर्मं चाप्य अकीर्तिं च लॊके पराप्स्यसि केवलम 18 एताम अद्य परामृश्य सत्रियं राक्षस मानुषीम विषम एतत समालॊड्य कुम्भेन पराशितं तवया 19 ततॊ युधिष्ठिरस तस्य भारिकः समपद्यत स तु भाराभिभूतात्मा न तथा शीघ्रगॊ ऽभवत 20 अथाब्रवीद दरौपदीं च नकुलं च युधिष्ठिरः मा भैष्ट राक्षसान मूढाद गतिर अस्य महाहृता 21 नातिदूरे महाबाहुर भविता पवनात्मजः अस्मिन मुहूर्ते संप्राप्ते न भविष्यति राक्षसः 22 सहदेवस तु तं दृष्ट्वा राक्षसं मूढचेतसम उवाच वचनं राजन कुन्तीपुत्रम्युधिष्ठिरम 23 राजन किंनाम तत कृत्यं कषत्रियस्यास्त्य अतॊ ऽधिकम यद युद्धे ऽभिमुखः पराणांस तयजेच छत्रूञ जयेत वा 24 एष चास्मान वयं चैनं युध्यमानाः परंतप सूदयेम महाबाहॊ देशकालॊ हय अयं नृप 25 कषत्रधर्मस्य संप्राप्तः कालः सत्यपराक्रम जयन्तः पात्यमाना वा पराप्तुम अर्हाम सद गतिम 26 राक्षसे जीवमाने ऽदय रविर अस्तम इयाद यदि नाहं बरूयां पुनर्जातु कषत्रियॊ ऽसमीति भारत 27 भॊ भॊ राक्षस तिष्ठस्व सहदेवॊ ऽसमि पाण्डवः हत्वा वा मां नयस्वैनान हतॊ वाद्येह सवप्स्यसि 28 तथैव तस्मिन बरुवति भीमसेनॊ यदृच्छया परादृश्यत महाबाहुः सवज्र इव वासवः 29 सॊ ऽपश्यद भरातरौ तत्र दरौपदीं च यशस्विनीम कषितिस्थं सहदेवं च कषिपन्तं राक्षसं तदा 30 माराच च राक्षसं मूढं कालॊपहतचेतसम भरमन्तं तत्र तत्रैव दैवेन विनिवारितम 31 भरातॄंस तान हरियतॊ दृष्ट्वा दरौपदीं च महाबलः करॊधम आहारयद भीमॊ राक्षसं चेदम अब्रवीत 32 विज्ञातॊ ऽसि मया पूर्वं चेष्टञ शस्त्रपरीक्षणे आस्था तु तवयि मे नास्ति यतॊ ऽसि न हतस तदा बरह्मरूपप्रतिच्छन्नॊ न नॊ वदसि चाप्रियम 33 परियेषु चरमाणं तवां न चैवाप्रिय कारिणम अतिथिं बरह्मरूपं च कथं हन्याम अनागसम राक्षसं मन्यमानॊ ऽपि यॊ हन्यान नरकं वरजेत 34 अपक्वस्य च कालेन वधस तव न विद्यते नूनम अद्यासि संपक्वॊ यथा ते मतिर ईदृशी दत्ता कृष्णापहरणे कालेनाद्भुत कर्मणा 35 बडिशॊ ऽयं तवया गरस्तः कालसूत्रेण लम्बितः मत्स्यॊ ऽमभसीव सयूतास्यः कथं मे ऽदय गमिष्यसि 36 यं चासि परस्थितॊ देशं मनॊ पूर्वं गतं च ते न तं गन्तासि गन्तासि मार्गं बकहिडिम्बयॊः 37 एवम उक्तस तु भीमेन राक्षसः कालचॊद्नितः भीत उत्सृज्य तान सर्वान युद्धाय समुपस्थितः 38 अब्रवीच च पुनर भीमं रॊषात परस्फुरिताधरः न मे मूढा दिशः पापत्वद अर्थं मे विलम्बनम 39 शरुता मे राक्षसा ये ये तवया विनिहता रणे तेषाम अद्य करिष्यामि तवास्रेणॊदक करियाम 40 एवम उक्तस ततॊ भीमः सृक्किणी परिसंलिहन समयमान इव करॊधात साक्षात कालान्तकॊपमः बाहुसंरम्भम एवेच्छन्न अभिदुद्राव राक्षसम 41 राक्षसॊ ऽपि तदा भीमं युद्धार्थिनम अवस्थितम अभिदुद्राव संरब्धॊ बलॊ वज्रधरं यथा 42 वर्तमाने तदा ताभ्यां बाहुयुद्धे सुदारुणे माद्रीपुत्राव अभिक्रुद्धाव उभाव अप्य अभ्यधावताम 43 नयवारयत तौ परहसन कुन्तीपुत्रॊ वृकॊदरः शक्तॊ ऽहं राक्षसस्येति परेक्षध्वम इति चाब्रवीत 44 आत्मना भरातृभिश चाहं धर्मेण सुकृतेन च इष्टेन च शपे राजन सूदयिष्यामि राक्षसम 45 इत्य एवम उक्त्वा तौ वीरौ सपर्धमानौ परस्परम बाहुभिः समसज्जेताम उभौ रक्षॊवृकॊदरौ 46 तयॊर आसीत संप्रहारः करुद्धयॊर भीम रक्षसॊः अमृष्यमाणयॊः संख्ये देवदानवयॊर इव 47 आरुज्यारुज्य तौ वृक्षान अन्यॊन्यम अभिजघ्नतुः जीमूताव इव घर्मान्ते विनदन्तौ महाबलौ 48 बभज्ञतुर महावृक्षान ऊरुभिर बलिनां वरौ अन्यॊन्येनाभिसंरब्धौ परस्परजयैषिणौ 49 तद वृक्षयुद्धम अभवन महीरुह विनाशनम वालिसुग्रीवयॊर भरात्रॊः पुरेव कपिसिंहयॊः 50 आविद्याविध्य तौ वृक्षान मुहूर्तम इतरेतरम ताडयाम आसतुर उभौ विनदन्तौ मुहुर मुहुः 51 तस्मिन देशे यदा वृक्षाः सर्व एव निपातिताः पुञ्जी कृताश च शतशः परस्परवधेप्सया 52 तदा शिलाः समादाय मुहूर्तम इव भारत महाभ्रैर इव शैलेन्द्रौ युयुधाते महाबलौ 53 उग्राभिर उग्ररूपाभिर बृहतीभिः परस्परम वज्रैर इव महावेगैर आजघ्नतुर अमर्षणौ 54 अभिहत्य च भूयस ताव अन्यॊन्यं बलदर्पितौ भुजाभ्यां परिगृह्याथ चकर्षाते गजाव इव 55 मुष्टिभिश च महाघॊरैर अन्यॊन्यम अभिपेततुः तयॊश चटचटा शब्दॊ बभूव सुमहात्मनॊः 56 ततः संहृत्य मुष्टिं तु पञ्चशीर्षम इवॊरगम वेगेनाभ्यहनद भीमॊ राक्षसस्य शिरॊधराम 57 ततः शरान्तं तु तद रक्षॊ भीमसेन भुजाहतम सुपरिश्रान्तम आलक्ष्य भीमसेनॊ ऽभयवर्तत 58 तत एनं महाबाहुर बाहुभ्याम अमरॊपमः समुत्क्षिप्य बलाद भीमॊ निष्पिपेष महीतले 59 तस्य गात्राणि सर्वाणि चूर्णयाम आस पाण्डवः अरत्निना चाभिहत्य शिरॊ कायाद अहाहरत 60 संदष्टौष्ठं विवृत्ताक्षं फलं वृन्ताद इव चयुतम जटासुरस्य तु शिरॊ भीमसेनबलाद धृतम पपात रुधिरादिग्धं संदष्ट दशनछदम 61 तं निहत्य महेष्वासॊ युधिष्ठिरम उपागमत सतूयमानॊ दविजाग्र्यैस तैर मरुद्भिर इव वासवः |
1
[vai] tatas tān pariviśvastān vasatas tatra pāṇḍavān gateṣu teṣu rakṣaḥ subhīmasenātmaje 'pi ca 2 rahitān bhīmasenena kadā cit tān yadṛcchayā jahāra dharmarājānaṃ yamau kṛṣṇāṃ ca rākṣasaḥ 3 brāhmaṇo mantrakuśalaḥ sarvāstreṣv astravittamaḥ iti bruvan pāṇḍaveyān paryupāste sma nityadā 4 parīkṣamāṇaḥ pārthānāṃ kalāpāni dhanūṃṣi ca antaraṃ samabhiprepsur nāmnā khyāto jaṭāsuraḥ 5 sa bhīmasene niṣkrānte mṛgayārtham ariṃdame anyad rūpaṃ samāsthāya vikṛtaṃ bhairavaṃ mahat 6 gṛhītvā sarvaśastrāṇi draupadīṃ parigṛhya ca prātiṣṭhata sa duṣṭātmā trīn gṛhītvā ca pāṇḍavān 7 sahadevas tu yatnena tato 'pakramya pāṇḍavaḥ ākrandad bhīmasenaṃ vai yana yāto mahābalaḥ 8 tam abravīd dharmarājo hriyamāṇo yudhiṣṭhiraḥ dharmas te hīyate mūḍha na cainaṃ samavekṣase 9 ye 'nye ke cin manuṣyeṣu tiryagyonigatā api gandharvayakṣarakṣāṃsi vayāṃsi paśavas tathā manuṣyān upajīvanti tatas tvam upajīvasi 10 samṛddhyā hy asya lokasya loko yuṣmākam ṛdhyate imaṃ ca lokaṃ śocantam anuśocanti devatāḥ pūjyamānāś ca vardhante havyakavyair yathāvidhi 11 vayaṃ rāṣṭrasya goptāro rakṣitāraś ca rākṣasa rāṣṭrasyārakṣyamāṇasya kuto bhūtiḥ kutaḥ sukham 12 na ca rājāvamantavyo rakṣasā jātv anāgasi aṇur apy apacāraś ca nāsty asmākaṃ narāśana 13 drogdhavyaṃ na ca mitreṣu na viśvasteṣu karhi cit yeṣāṃ cānnāni bhuñjīta yatra ca syāt pratiśrayaḥ 14 sa tvaṃ pratiśraye 'smākaṃ pūjyamānaḥ sukhoṣitaḥ bhuktvā cānnāni duṣprajña katham asmāñ jihīrṣasi 15 evam eva vṛthācāro vṛthā vṛddho vṛthā matiḥ vṛthā maraṇam arhas tvaṃ vṛthādya na bhaviṣyasi 16 atha ced duṣṭabuddhis tvaṃ sarvair dharmair vivarjitaḥ pradāya śastrāṇy asmākaṃ yuddhena draupadīṃ hara 17 atha cet tvam avijñāya idaṃ karma kariṣyasi adharmaṃ cāpy akīrtiṃ ca loke prāpsyasi kevalam 18 etām adya parāmṛśya striyaṃ rākṣasa mānuṣīm viṣam etat samāloḍya kumbhena prāśitaṃ tvayā 19 tato yudhiṣṭhiras tasya bhārikaḥ samapadyata sa tu bhārābhibhūtātmā na tathā śīghrago 'bhavat 20 athābravīd draupadīṃ ca nakulaṃ ca yudhiṣṭhiraḥ mā bhaiṣṭa rākṣasān mūḍhād gatir asya mahāhṛtā 21 nātidūre mahābāhur bhavitā pavanātmajaḥ asmin muhūrte saṃprāpte na bhaviṣyati rākṣasaḥ 22 sahadevas tu taṃ dṛṣṭvā rākṣasaṃ mūḍhacetasam uvāca vacanaṃ rājan kuntīputramyudhiṣṭhiram 23 rājan kiṃnāma tat kṛtyaṃ kṣatriyasyāsty ato 'dhikam yad yuddhe 'bhimukhaḥ prāṇāṃs tyajec chatrūñ jayeta vā 24 eṣa cāsmān vayaṃ cainaṃ yudhyamānāḥ paraṃtapa sūdayema mahābāho deśakālo hy ayaṃ nṛpa 25 kṣatradharmasya saṃprāptaḥ kālaḥ satyaparākrama jayantaḥ pātyamānā vā prāptum arhāma sad gatim 26 rākṣase jīvamāne 'dya ravir astam iyād yadi nāhaṃ brūyāṃ punarjātu kṣatriyo 'smīti bhārata 27 bho bho rākṣasa tiṣṭhasva sahadevo 'smi pāṇḍavaḥ hatvā vā māṃ nayasvainān hato vādyeha svapsyasi 28 tathaiva tasmin bruvati bhīmaseno yadṛcchayā prādṛśyata mahābāhuḥ savajra iva vāsavaḥ 29 so 'paśyad bhrātarau tatra draupadīṃ ca yaśasvinīm kṣitisthaṃ sahadevaṃ ca kṣipantaṃ rākṣasaṃ tadā 30 mārāc ca rākṣasaṃ mūḍhaṃ kālopahatacetasam bhramantaṃ tatra tatraiva daivena vinivāritam 31 bhrātṝṃs tān hriyato dṛṣṭvā draupadīṃ ca mahābalaḥ krodham āhārayad bhīmo rākṣasaṃ cedam abravīt 32 vijñāto 'si mayā pūrvaṃ ceṣṭañ śastraparīkṣaṇe āsthā tu tvayi me nāsti yato 'si na hatas tadā brahmarūpapraticchanno na no vadasi cāpriyam 33 priyeṣu caramāṇaṃ tvāṃ na caivāpriya kāriṇam atithiṃ brahmarūpaṃ ca kathaṃ hanyām anāgasam rākṣasaṃ manyamāno 'pi yo hanyān narakaṃ vrajet 34 apakvasya ca kālena vadhas tava na vidyate nūnam adyāsi saṃpakvo yathā te matir īdṛśī dattā kṛṣṇāpaharaṇe kālenādbhuta karmaṇā 35 baḍiśo 'yaṃ tvayā grastaḥ kālasūtreṇa lambitaḥ matsyo 'mbhasīva syūtāsyaḥ kathaṃ me 'dya gamiṣyasi 36 yaṃ cāsi prasthito deśaṃ mano pūrvaṃ gataṃ ca te na taṃ gantāsi gantāsi mārgaṃ bakahiḍimbayoḥ 37 evam uktas tu bhīmena rākṣasaḥ kālacodnitaḥ bhīta utsṛjya tān sarvān yuddhāya samupasthitaḥ 38 abravīc ca punar bhīmaṃ roṣāt prasphuritādharaḥ na me mūḍhā diśaḥ pāpatvad arthaṃ me vilambanam 39 śrutā me rākṣasā ye ye tvayā vinihatā raṇe teṣām adya kariṣyāmi tavāsreṇodaka kriyām 40 evam uktas tato bhīmaḥ sṛkkiṇī parisaṃlihan smayamāna iva krodhāt sākṣāt kālāntakopamaḥ bāhusaṃrambham evecchann abhidudrāva rākṣasam 41 rākṣaso 'pi tadā bhīmaṃ yuddhārthinam avasthitam abhidudrāva saṃrabdho balo vajradharaṃ yathā 42 vartamāne tadā tābhyāṃ bāhuyuddhe sudāruṇe mādrīputrāv abhikruddhāv ubhāv apy abhyadhāvatām 43 nyavārayat tau prahasan kuntīputro vṛkodaraḥ śakto 'haṃ rākṣasasyeti prekṣadhvam iti cābravīt 44 ātmanā bhrātṛbhiś cāhaṃ dharmeṇa sukṛtena ca iṣṭena ca śape rājan sūdayiṣyāmi rākṣasam 45 ity evam uktvā tau vīrau spardhamānau parasparam bāhubhiḥ samasajjetām ubhau rakṣovṛkodarau 46 tayor āsīt saṃprahāraḥ kruddhayor bhīma rakṣasoḥ amṛṣyamāṇayoḥ saṃkhye devadānavayor iva 47 ārujyārujya tau vṛkṣān anyonyam abhijaghnatuḥ jīmūtāv iva gharmānte vinadantau mahābalau 48 babhajñatur mahāvṛkṣān ūrubhir balināṃ varau anyonyenābhisaṃrabdhau parasparajayaiṣiṇau 49 tad vṛkṣayuddham abhavan mahīruha vināśanam vālisugrīvayor bhrātroḥ pureva kapisiṃhayoḥ 50 āvidyāvidhya tau vṛkṣān muhūrtam itaretaram tāḍayām āsatur ubhau vinadantau muhur muhuḥ 51 tasmin deśe yadā vṛkṣāḥ sarva eva nipātitāḥ puñjī kṛtāś ca śataśaḥ parasparavadhepsayā 52 tadā śilāḥ samādāya muhūrtam iva bhārata mahābhrair iva śailendrau yuyudhāte mahābalau 53 ugrābhir ugrarūpābhir bṛhatībhiḥ parasparam vajrair iva mahāvegair ājaghnatur amarṣaṇau 54 abhihatya ca bhūyas tāv anyonyaṃ baladarpitau bhujābhyāṃ parigṛhyātha cakarṣāte gajāv iva 55 muṣṭibhiś ca mahāghorair anyonyam abhipetatuḥ tayoś caṭacaṭā śabdo babhūva sumahātmanoḥ 56 tataḥ saṃhṛtya muṣṭiṃ tu pañcaśīrṣam ivoragam vegenābhyahanad bhīmo rākṣasasya śirodharām 57 tataḥ śrāntaṃ tu tad rakṣo bhīmasena bhujāhatam supariśrāntam ālakṣya bhīmaseno 'bhyavartata 58 tata enaṃ mahābāhur bāhubhyām amaropamaḥ samutkṣipya balād bhīmo niṣpipeṣa mahītale 59 tasya gātrāṇi sarvāṇi cūrṇayām āsa pāṇḍavaḥ aratninā cābhihatya śiro kāyād ahāharat 60 saṃdaṣṭauṣṭhaṃ vivṛttākṣaṃ phalaṃ vṛntād iva cyutam jaṭāsurasya tu śiro bhīmasenabalād dhṛtam papāta rudhirādigdhaṃ saṃdaṣṭa daśanachadam 61 taṃ nihatya maheṣvāso yudhiṣṭhiram upāgamat stūyamāno dvijāgryais tair marudbhir iva vāsavaḥ |
The Mahabharata in Sanskrit
Book 3
Chapter 155
|
1
[वै] निहते राक्षसे तस्मिन पुनर नारायणाश्रमम अभ्येत्य राजा कौन्तेयॊ निवासम अकरॊत परभुः 2 स समानीय तान सर्वान भरातॄन इत्य अब्रवीद वचः दरौपद्या सहितान काले संस्मरन भरातरं जयम 3 समाश चतस्रॊ ऽभिगताः शिवेन चरतां वने कृतॊद्देशश च बीभत्सुः पञ्चमीम अभितः समाम 4 पराप्य पर्वतराजानं शवेतं शिखरिणां वरम तत्रापि च कृतॊद्देशः समागमदिदृक्षुभिः 5 कृतश च समयस तेन पार्थेनामित तेजसा पञ्चवर्षाणि वत्स्यामि विद्यार्थीति पुरा मयि 6 तत्र गाण्डीवधन्वानम अवाप्तास्त्रम अरिंदमम देवलॊकाद इमं लॊकं दरक्ष्यामः पुनरागतम 7 इत्य उक्त्वा बराह्मणान सर्वान आमन्त्रयत पाण्डवः कारणं चैव तत तेषाम आचचक्षे तपस्विनाम 8 तम उग्रतपसः परीताः कृत्वा पार्थं परदक्षिणम बराह्मणास ते ऽनवमॊदन्त शिवेन कुशलेन च 9 सुखॊदर्कम इमं कलेशम अचिराद भरतर्षभ कषत्रधर्मेण धर्मज्ञ तीर्त्वा गां पालयिष्यसि 10 तत तु राजा वचस तेषां परतिगृह्य तपस्विनाम परतस्थे सह विप्रैस तैर भरातृभिश च परंतपः 11 दरौपद्या सहितः शरीमान हैडिम्बेयादिभिस तथा राक्षसैर अनुयातश च लॊमशेनाभिरक्षितः 12 कव चिज जगाम पद्भ्यां तु राक्षसैर उह्यते कव चित तत्र तत्र महातेजा भरातृभिः सह सुव्रतः 13 ततॊ युधिष्ठिरॊ राजा बहून कलेशान विचिन्तयन सिंहव्याघ्र गजाकीर्णाम उदीचीं परययौ दिशम 14 अवेक्षमाणः कैलासं मैनाकं चैव पर्वतम गन्धमादन पादांश च मेरुं चापि शिलॊच्चयम 15 उपर्य उपरि शैलस्य बह्वीश च सरितः शिवाः परस्थं हिमवतः पुण्यं ययौ सप्त दशे ऽहनि 16 ददृशुः पाण्डवा राजन गन्धमादनम अन्तिकात पृष्ठे हिमवतः पुण्ये नानाद्रुमलता युते 17 सलिलावर्त संजातैः पुष्पितैश च महीरुहैः समावृतं पुण्यतमम आश्रमं वृषपर्वणः 18 तम उपक्रम्य राजर्षिं धर्मात्मानम अरिंदमाः पाण्डवा वृषपर्वाणम अवन्दन्त गतक्लमाः 19 अभ्यनन्दत स राजर्षिः पुत्रवद भरतर्षभान पूजिताश चावसंस तत्र सप्तरात्रम अरिंदमाः 20 अष्टमे ऽहनि संप्राप्ते तम ऋषिं लॊकविश्रुतम आमन्त्र्य वृषपर्वाणं परस्थानं समरॊचयन 21 एकैकशश च तान विप्रान निवेद्य वृषपर्वणे नयासभूतान यथाकालं बन्धून इव सुसत्कृतान 22 ततस ते वरवस्त्राणि शुभान्य आभरणानि च नयदधुः पाण्डवास तस्मिन्न आश्रमे वृषपर्वणः 23 अतीतानागते विद्वान कुशलः सर्वधर्मवित अन्वशासत स धर्मज्ञः पुत्रवद भरतर्षभान 24 ते ऽनुज्ञाता महात्मानः परययुर दिशम उत्तराम कृष्णया सहिता वीरा बराह्मणैश च महात्मभिः तान परस्थितान अन्वगच्छद वृषपर्वा महीपतिः 25 उपन्यस्य महातेजा विप्रेभ्यः पाण्डवांस तदा अनुसंसाध्य कौन्तेयान आशीर्भिर अभिनन्द्य च वृषपर्वा निववृते पन्थानम उपदिश्य च 26 नानामृगगणैर जुष्टं कौन्तेयः सत्यविक्रमः पदातिर भरातृभिः सार्धं परातिष्ठत युधिष्ठिरः 27 नानाद्रुमनिरॊधेषु वसन्तः शैलसानुषु पर्वतं विविशुः शवेतं चतुर्थे ऽहनि पाण्डवाः 28 महाभ्रघनसंकाशं सलिलॊपहितं शुभम मणिकाञ्चनरम्यं च शैलं नाना समुच्छ्रयम 29 ते समासाद्य पन्थानं यथॊक्तं वृषपर्वणा अनुसस्रुर यथॊद्देशं पश्यन्तॊ विविधान नगान 30 उपर्य उपरि शैलस्य गुहा परमदुर्गमाः सुदुर्गमांस ते सुबहून सुखेनैवाभिचक्रमुः 31 धौम्यः कृष्णा च पार्थाश च लॊमशश च महान ऋषिः अगमन सहितास तत्र न कश चिद अवहीयते 32 ते मृगद्विजसंघुष्टं नानाद्विज समाकुलम शाखामृगगणैश चैव सेवितं सुमनॊहरम 33 पुण्यं पद्मसरॊपेतं सपल्वल महावनम उपतस्थुर महावीर्या माल्यवन्तं महागिरिम 34 ततः किंपुरुषावासं सिद्धचारणसेवितम ददृशुर हृष्टरॊमाणः पर्वतं गन्धमादनम 35 विद्याधरानुचरितं किंनरीभिस तथैव च गजसिंहसमाकीर्णम उदीर्णशरभायुतम 36 उपेतम अन्यैश च तदा मृगैर मृदु निनादिभिः ते गन्धमादन वनं तन नन्दनवनॊपम 37 मुदिताः पाण्डुतनया मनॊ हृदयनन्दनम विविशुः करमशॊ वीरा अरण्यं शुभकाननम 38 दरौपदी सहिता वीरास तैश च विप्रैर महात्मभिः शृण्वन्तः परीतिजननान वल्गून मदकलाञ शुभान शरॊत्ररम्यान सुमधुराञ शब्दान खग मुखेरितान 39 सर्वर्तुफलभाराढ्यान सर्वर्तुकुसुमॊज्ज्वलान पश्यन्तः पादपांश चापि फलभार वनामितान 40 आम्रान आम्रातकान फुल्लान नारिकेलान सतिन्दुकान अजातकांस तथा जीरान दाडिमान बीजपूरकान 41 पनसाँल लिकुचान मॊचान खर्जूरान आम्रवेतसान पारावतांस तथा कषौद्रान नीपांश चापि मनॊरमान 42 बिल्वान कपित्थाञ जम्बूंश च काश्मरीर बदरीस तथा लपक्षान उदुम्बर वटान अश्वत्थान कषीरिणस तथा भल्लातकान आमकलान हरीतकबिभीतकान 43 इङ्गुदान करवीरांश च तिन्दुकांश च महाफलान एतान अन्यांश च विविधान गन्धमादन सानुषु 44 फलैर अमृतकल्पैस तान आचितान सवादुभिस तरून तथैव चम्पकाशॊकान केतकान बकुलांस तथा 45 पुंनागान सप्तपर्णांश च कर्णिकारान सकेतकान पाटलान कुटजान रम्यान मन्दारेन्दीवरांस तथा 46 पारिजातान कॊविदारान देवदारु तरूंस तथा शालांस तालांस तमालांश च परियालान बकुलांस तथा शाल्मलीः किंशुकाशॊकां शिंशपांस तरलांस तथा 47 चकॊरैः शतपत्रैश च भृङ्गराजैस तथा शुकैः कॊकिलैः कलविङ्कैश च हारीतैर जीव जीवकैः 48 परियव्रतैश चातकैश च तथान्यैर विविधैः खगैः शरॊत्ररम्यं सुमधुरं कूजद्भिश चाप्य अधिष्ठितान 49 सरांसि च विचित्राणि परसन्नसलिलानि च कुमुदैः पुण्डरीकैश च तथा कॊकनदॊत्पलैः कह्लारैः कमलैश चैव आचितानि समन्ततः 50 कदम्बैश चक्रवाकैश च कुररैर जलकुक्कुटैः कारण्डवैः पलवैर हंसैर बकैर मद्गुभिर एव च एतैश चान्यैश च कीर्णानि समन्ताज जलचारिभिः 51 हृष्टैस तथा तामरस रसासव मदालसैः पद्मॊदर चयुत रजः किञ्जल्कारुण रञ्जितैः 52 मधुरस्वरैर मधुकरैर विरुतान कमलाकरान पश्यन्तस ते मनॊरम्यान गन्धमादन सानुषु 53 तथैव पद्मषण्डैश च मण्डितेषु समन्ततः शिखण्डिनीभिः सहिताँल लता मण्डपकेषु च मेघतूर्य रवॊद्दाम मदनाकुलितान भृशम 54 कृत्वैव केका मधुरं संगीत मधुरस्वरम चित्रान कलापान विस्तीर्य सविलासान मदालसान मयूरान ददृशुश चित्रान नृत्यतॊ वनलासकान 55 कान्ताभिः सहितान अन्यान अपश्यन रमतः सुखम वल्ली लता संकटेषु कटकेषु सथितांस तथा 56 कांश चिच छकुन जातांश च विटपेषूत्कटान अपि कलाप रचिताटॊपान विचित्रमुकुटान इव विवरेषु तरूणां च मुदितान ददृशुश च ते 57 सिन्धुवारान अथॊद्दामान मन्मथस्येव तॊमरान सुवर्णकुसुमाकीर्णान गिरीणां शिखरेषु च 58 कर्णिकारान विरचितान कर्ण पूरान इवॊत्तमान अथापश्यन कुरबकान वनराजिषु पुष्पितान कामवश्यॊत्सुक करान कामस्येव शरॊत्करान 59 तथैव वनराजीनाम उदारान रचितान इव विराजमानांस ते ऽपश्यंस तिलकांस तिलकान इव 60 तथानङ्ग शराकारान सहकारान मनॊरमान अपश्यन भरमरारावान मञ्जरीभिर विराजितान 61 हिरण्यसदृशैः पुष्पैर दावाग्निसदृशैर अपि लॊहितैर अञ्जनाभैश च वैडूर्य ददृशैर अपि 62 तथा शालांस तमालांश च पाटल्यॊ बकुलानि च माला इव समासक्ताः शैलानां शिखरेषु च 63 एवं करमेण ते वीरा वीक्षमाणाः समन्ततः गजसंघ समाबाधं सिंहव्याघ्र समायुतम 64 शरभॊन्नाद संघुष्टं नानाराव निनादितम सर्वर्तुफलपुष्पाढ्यं गन्धमादन सानुषु 65 पीता भास्वरवर्णाभा बभूवुर नरराजयः नात्र कण्टकिनः के चिन नात्र के चिद अपुष्पिताः सनिग्धपत्र फला वृक्षा गन्धमादन सानुषु 66 विमलस्फटिकाभानि पाण्डुरछदनैर दविजैः राजहंसैर उपेतानि सारसाभिरुतानि च सरांसि सरितः पार्थाः पश्यन्तः शैलसानुषु 67 पद्मॊत्पलविचित्राणि सुखस्पर्श जलानि च गन्धवन्ति च माल्यानि रसवन्ति फलानि च अतीव वृक्षा राजन्ते पुष्पिताः शैलसानुषु 68 एते चान्ये च बहवस तत्र काननजा दरुमाः लताश च विविधाकाराः पत्रपुष्पफलॊच्चयाः 69 युधिष्ठिरस तु तान वृक्षान पश्यमानॊ नगॊत्तमे भीमसेनम इदं वाक्यम अब्रवीन मधुराक्षरम 70 पश्य भीम शुभान देशान देवाक्रीडान समन्ततः अमानुष गतिं पराप्ताः संसिद्धाः सम वृकॊदर 71 ललाभिश चैव बह्वीभिः पुष्पिताः पादपॊत्तमाः संश्लिष्टाः पार्थ शॊभन्ते गन्धमादन सानुषु 72 शिखण्डिनीभिश चरतां सहितानां शिखण्डिनाम नर्दतां शृणु निर्घॊषं भीम पर्वतसानुषु 73 चकॊराः शतपत्राश च मत्तकॊकिल शारिकाः पत्रिणः पुष्पितान एतान संश्लिष्यन्ति महाद्रुमान 74 रक्तपीतारुणाः पार्थ पादपाग्र गता दविजाः परस्परम उदीक्षन्ते बहवॊ जीव जीवकाः 75 हरितारुणवर्णानां शाद्वलानां समन्ततः सारसाः परतिदृश्यन्ते शैलप्रस्रवणेष्व अपि 76 वदन्ति मधुरा वाचः सर्वभूतमनॊ ऽनुगाः भृङ्गराजॊपचक्राश च लॊहपृष्ठाश च पत्रिणः 77 चतुर्विषाणाः पद्माभाः कुञ्जराः सकरेणवः एते वैडूर्य वर्णाभं कषॊभयन्ति महत सरः 78 बहुतालसमुत्सेधाः शैलशृङ्गात परिच्युताः नाना परस्रवणेभ्यश च वारिधाराः पतन्त्य अमूः 79 भास्कराभ परभा भीम शारदाभ्रघनॊपमाः शॊभयन्ति महाशैलं नाना रजतधातवः 80 कव चिद अञ्जन वर्णाभाः कव चित काञ्चनसंनिभाः धातवॊ हरितालस्य कवचिद धि गुलकस्य च 81 मनःशिला गुहाश चैव संध्याभ्रनिकरॊपमाः शशलॊहित वर्णाभाः कव चिद गौरिक धातवः 82 सितासिताभ्र परतिमा बालसूर्यसमप्रभाः एते बहुविधाः शैलं शॊभयन्ति महाप्रभाः 83 गन्धर्वाः सह कान्ताहिर यथॊक्तं वृषपर्वणा दृश्यन्ते शैलशृङ्गेषु पार्थ किंपुरुषैः सह 84 गीतानां तलतालानां यथा साम्नां च निस्वनः शरूयते बहुधा भीम सर्वभूतमनॊहरः 85 महागङ्गाम उदीक्षस्व पुण्यां देव नदीं शुभाम कलहंस गणैर जुष्टाम ऋषिकिंनरसेविताम 86 धातुभिश च सरिद्भिश च किंनरैर मृगपक्षिभिः गन्धर्वैर अप्सरॊभिश च कानकैश च मनॊरमैः 87 वयालैश च विविधाकारैः शतशीर्षैः समन्ततः उपेतं पश्य कौन्तेय शैलराजम अरिंदम 88 ते परीतमनसः शूराः पराप्ता गतिम अनुत्तमाम नातृप्यन पर्ततेन्द्रस्य दर्शनेन परंतपाः 89 उपेतम अथ माल्यैश च फलवद्भिश च पादपैः आर्ष्टिषेणस्य राजर्षेर आश्रमं ददृशुस तदा 90 ततस तं तीव्रतपसं कृशं धमनि संततम पारगं सर्वधर्माणाम आर्ष्टिषेणम उपागमन |
1
[vai] nihate rākṣase tasmin punar nārāyaṇāśramam abhyetya rājā kaunteyo nivāsam akarot prabhuḥ 2 sa samānīya tān sarvān bhrātṝn ity abravīd vacaḥ draupadyā sahitān kāle saṃsmaran bhrātaraṃ jayam 3 samāś catasro 'bhigatāḥ śivena caratāṃ vane kṛtoddeśaś ca bībhatsuḥ pañcamīm abhitaḥ samām 4 prāpya parvatarājānaṃ śvetaṃ śikhariṇāṃ varam tatrāpi ca kṛtoddeśaḥ samāgamadidṛkṣubhiḥ 5 kṛtaś ca samayas tena pārthenāmita tejasā pañcavarṣāṇi vatsyāmi vidyārthīti purā mayi 6 tatra gāṇḍīvadhanvānam avāptāstram ariṃdamam devalokād imaṃ lokaṃ drakṣyāmaḥ punarāgatam 7 ity uktvā brāhmaṇān sarvān āmantrayata pāṇḍavaḥ kāraṇaṃ caiva tat teṣām ācacakṣe tapasvinām 8 tam ugratapasaḥ prītāḥ kṛtvā pārthaṃ pradakṣiṇam brāhmaṇās te 'nvamodanta śivena kuśalena ca 9 sukhodarkam imaṃ kleśam acirād bharatarṣabha kṣatradharmeṇa dharmajña tīrtvā gāṃ pālayiṣyasi 10 tat tu rājā vacas teṣāṃ pratigṛhya tapasvinām pratasthe saha viprais tair bhrātṛbhiś ca paraṃtapaḥ 11 draupadyā sahitaḥ śrīmān haiḍimbeyādibhis tathā rākṣasair anuyātaś ca lomaśenābhirakṣitaḥ 12 kva cij jagāma padbhyāṃ tu rākṣasair uhyate kva cit tatra tatra mahātejā bhrātṛbhiḥ saha suvrataḥ 13 tato yudhiṣṭhiro rājā bahūn kleśān vicintayan siṃhavyāghra gajākīrṇām udīcīṃ prayayau diśam 14 avekṣamāṇaḥ kailāsaṃ mainākaṃ caiva parvatam gandhamādana pādāṃś ca meruṃ cāpi śiloccayam 15 upary upari śailasya bahvīś ca saritaḥ śivāḥ prasthaṃ himavataḥ puṇyaṃ yayau sapta daśe 'hani 16 dadṛśuḥ pāṇḍavā rājan gandhamādanam antikāt pṛṣṭhe himavataḥ puṇye nānādrumalatā yute 17 salilāvarta saṃjātaiḥ puṣpitaiś ca mahīruhaiḥ samāvṛtaṃ puṇyatamam āśramaṃ vṛṣaparvaṇaḥ 18 tam upakramya rājarṣiṃ dharmātmānam ariṃdamāḥ pāṇḍavā vṛṣaparvāṇam avandanta gataklamāḥ 19 abhyanandat sa rājarṣiḥ putravad bharatarṣabhān pūjitāś cāvasaṃs tatra saptarātram ariṃdamāḥ 20 aṣṭame 'hani saṃprāpte tam ṛṣiṃ lokaviśrutam āmantrya vṛṣaparvāṇaṃ prasthānaṃ samarocayan 21 ekaikaśaś ca tān viprān nivedya vṛṣaparvaṇe nyāsabhūtān yathākālaṃ bandhūn iva susatkṛtān 22 tatas te varavastrāṇi śubhāny ābharaṇāni ca nyadadhuḥ pāṇḍavās tasminn āśrame vṛṣaparvaṇaḥ 23 atītānāgate vidvān kuśalaḥ sarvadharmavit anvaśāsat sa dharmajñaḥ putravad bharatarṣabhān 24 te 'nujñātā mahātmānaḥ prayayur diśam uttarām kṛṣṇayā sahitā vīrā brāhmaṇaiś ca mahātmabhiḥ tān prasthitān anvagacchad vṛṣaparvā mahīpatiḥ 25 upanyasya mahātejā viprebhyaḥ pāṇḍavāṃs tadā anusaṃsādhya kaunteyān āśīrbhir abhinandya ca vṛṣaparvā nivavṛte panthānam upadiśya ca 26 nānāmṛgagaṇair juṣṭaṃ kaunteyaḥ satyavikramaḥ padātir bhrātṛbhiḥ sārdhaṃ prātiṣṭhata yudhiṣṭhiraḥ 27 nānādrumanirodheṣu vasantaḥ śailasānuṣu parvataṃ viviśuḥ śvetaṃ caturthe 'hani pāṇḍavāḥ 28 mahābhraghanasaṃkāśaṃ salilopahitaṃ śubham maṇikāñcanaramyaṃ ca śailaṃ nānā samucchrayam 29 te samāsādya panthānaṃ yathoktaṃ vṛṣaparvaṇā anusasrur yathoddeśaṃ paśyanto vividhān nagān 30 upary upari śailasya guhā paramadurgamāḥ sudurgamāṃs te subahūn sukhenaivābhicakramuḥ 31 dhaumyaḥ kṛṣṇā ca pārthāś ca lomaśaś ca mahān ṛṣiḥ agaman sahitās tatra na kaś cid avahīyate 32 te mṛgadvijasaṃghuṣṭaṃ nānādvija samākulam śākhāmṛgagaṇaiś caiva sevitaṃ sumanoharam 33 puṇyaṃ padmasaropetaṃ sapalvala mahāvanam upatasthur mahāvīryā mālyavantaṃ mahāgirim 34 tataḥ kiṃpuruṣāvāsaṃ siddhacāraṇasevitam dadṛśur hṛṣṭaromāṇaḥ parvataṃ gandhamādanam 35 vidyādharānucaritaṃ kiṃnarībhis tathaiva ca gajasiṃhasamākīrṇam udīrṇaśarabhāyutam 36 upetam anyaiś ca tadā mṛgair mṛdu ninādibhiḥ te gandhamādana vanaṃ tan nandanavanopama 37 muditāḥ pāṇḍutanayā mano hṛdayanandanam viviśuḥ kramaśo vīrā araṇyaṃ śubhakānanam 38 draupadī sahitā vīrās taiś ca viprair mahātmabhiḥ śṛṇvantaḥ prītijananān valgūn madakalāñ śubhān śrotraramyān sumadhurāñ śabdān khaga mukheritān 39 sarvartuphalabhārāḍhyān sarvartukusumojjvalān paśyantaḥ pādapāṃś cāpi phalabhāra vanāmitān 40 āmrān āmrātakān phullān nārikelān satindukān ajātakāṃs tathā jīrān dāḍimān bījapūrakān 41 panasāṁl likucān mocān kharjūrān āmravetasān pārāvatāṃs tathā kṣaudrān nīpāṃś cāpi manoramān 42 bilvān kapitthāñ jambūṃś ca kāśmarīr badarīs tathā lpakṣān udumbara vaṭān aśvatthān kṣīriṇas tathā bhallātakān āmakalān harītakabibhītakān 43 iṅgudān karavīrāṃś ca tindukāṃś ca mahāphalān etān anyāṃś ca vividhān gandhamādana sānuṣu 44 phalair amṛtakalpais tān ācitān svādubhis tarūn tathaiva campakāśokān ketakān bakulāṃs tathā 45 puṃnāgān saptaparṇāṃś ca karṇikārān saketakān pāṭalān kuṭajān ramyān mandārendīvarāṃs tathā 46 pārijātān kovidārān devadāru tarūṃs tathā śālāṃs tālāṃs tamālāṃś ca priyālān bakulāṃs tathā śālmalīḥ kiṃśukāśokāṃ śiṃśapāṃs taralāṃs tathā 47 cakoraiḥ śatapatraiś ca bhṛṅgarājais tathā śukaiḥ kokilaiḥ kalaviṅkaiś ca hārītair jīva jīvakaiḥ 48 priyavrataiś cātakaiś ca tathānyair vividhaiḥ khagaiḥ śrotraramyaṃ sumadhuraṃ kūjadbhiś cāpy adhiṣṭhitān 49 sarāṃsi ca vicitrāṇi prasannasalilāni ca kumudaiḥ puṇḍarīkaiś ca tathā kokanadotpalaiḥ kahlāraiḥ kamalaiś caiva ācitāni samantataḥ 50 kadambaiś cakravākaiś ca kurarair jalakukkuṭaiḥ kāraṇḍavaiḥ plavair haṃsair bakair madgubhir eva ca etaiś cānyaiś ca kīrṇāni samantāj jalacāribhiḥ 51 hṛṣṭais tathā tāmarasa rasāsava madālasaiḥ padmodara cyuta rajaḥ kiñjalkāruṇa rañjitaiḥ 52 madhurasvarair madhukarair virutān kamalākarān paśyantas te manoramyān gandhamādana sānuṣu 53 tathaiva padmaṣaṇḍaiś ca maṇḍiteṣu samantataḥ śikhaṇḍinībhiḥ sahitāṁl latā maṇḍapakeṣu ca meghatūrya ravoddāma madanākulitān bhṛśam 54 kṛtvaiva kekā madhuraṃ saṃgīta madhurasvaram citrān kalāpān vistīrya savilāsān madālasān mayūrān dadṛśuś citrān nṛtyato vanalāsakān 55 kāntābhiḥ sahitān anyān apaśyan ramataḥ sukham vallī latā saṃkaṭeṣu kaṭakeṣu sthitāṃs tathā 56 kāṃś cic chakuna jātāṃś ca viṭapeṣūtkaṭān api kalāpa racitāṭopān vicitramukuṭān iva vivareṣu tarūṇāṃ ca muditān dadṛśuś ca te 57 sindhuvārān athoddāmān manmathasyeva tomarān suvarṇakusumākīrṇān girīṇāṃ śikhareṣu ca 58 karṇikārān viracitān karṇa pūrān ivottamān athāpaśyan kurabakān vanarājiṣu puṣpitān kāmavaśyotsuka karān kāmasyeva śarotkarān 59 tathaiva vanarājīnām udārān racitān iva virājamānāṃs te 'paśyaṃs tilakāṃs tilakān iva 60 tathānaṅga śarākārān sahakārān manoramān apaśyan bhramarārāvān mañjarībhir virājitān 61 hiraṇyasadṛśaiḥ puṣpair dāvāgnisadṛśair api lohitair añjanābhaiś ca vaiḍūrya dadṛśair api 62 tathā śālāṃs tamālāṃś ca pāṭalyo bakulāni ca mālā iva samāsaktāḥ śailānāṃ śikhareṣu ca 63 evaṃ krameṇa te vīrā vīkṣamāṇāḥ samantataḥ gajasaṃgha samābādhaṃ siṃhavyāghra samāyutam 64 śarabhonnāda saṃghuṣṭaṃ nānārāva nināditam sarvartuphalapuṣpāḍhyaṃ gandhamādana sānuṣu 65 pītā bhāsvaravarṇābhā babhūvur nararājayaḥ nātra kaṇṭakinaḥ ke cin nātra ke cid apuṣpitāḥ snigdhapatra phalā vṛkṣā gandhamādana sānuṣu 66 vimalasphaṭikābhāni pāṇḍurachadanair dvijaiḥ rājahaṃsair upetāni sārasābhirutāni ca sarāṃsi saritaḥ pārthāḥ paśyantaḥ śailasānuṣu 67 padmotpalavicitrāṇi sukhasparśa jalāni ca gandhavanti ca mālyāni rasavanti phalāni ca atīva vṛkṣā rājante puṣpitāḥ śailasānuṣu 68 ete cānye ca bahavas tatra kānanajā drumāḥ latāś ca vividhākārāḥ patrapuṣpaphaloccayāḥ 69 yudhiṣṭhiras tu tān vṛkṣān paśyamāno nagottame bhīmasenam idaṃ vākyam abravīn madhurākṣaram 70 paśya bhīma śubhān deśān devākrīḍān samantataḥ amānuṣa gatiṃ prāptāḥ saṃsiddhāḥ sma vṛkodara 71 lalābhiś caiva bahvībhiḥ puṣpitāḥ pādapottamāḥ saṃśliṣṭāḥ pārtha śobhante gandhamādana sānuṣu 72 śikhaṇḍinībhiś caratāṃ sahitānāṃ śikhaṇḍinām nardatāṃ śṛṇu nirghoṣaṃ bhīma parvatasānuṣu 73 cakorāḥ śatapatrāś ca mattakokila śārikāḥ patriṇaḥ puṣpitān etān saṃśliṣyanti mahādrumān 74 raktapītāruṇāḥ pārtha pādapāgra gatā dvijāḥ parasparam udīkṣante bahavo jīva jīvakāḥ 75 haritāruṇavarṇānāṃ śādvalānāṃ samantataḥ sārasāḥ pratidṛśyante śailaprasravaṇeṣv api 76 vadanti madhurā vācaḥ sarvabhūtamano 'nugāḥ bhṛṅgarājopacakrāś ca lohapṛṣṭhāś ca patriṇaḥ 77 caturviṣāṇāḥ padmābhāḥ kuñjarāḥ sakareṇavaḥ ete vaiḍūrya varṇābhaṃ kṣobhayanti mahat saraḥ 78 bahutālasamutsedhāḥ śailaśṛṅgāt paricyutāḥ nānā prasravaṇebhyaś ca vāridhārāḥ patanty amūḥ 79 bhāskarābha prabhā bhīma śāradābhraghanopamāḥ śobhayanti mahāśailaṃ nānā rajatadhātavaḥ 80 kva cid añjana varṇābhāḥ kva cit kāñcanasaṃnibhāḥ dhātavo haritālasya kvacid dhi gulakasya ca 81 manaḥśilā guhāś caiva saṃdhyābhranikaropamāḥ śaśalohita varṇābhāḥ kva cid gaurika dhātavaḥ 82 sitāsitābhra pratimā bālasūryasamaprabhāḥ ete bahuvidhāḥ śailaṃ śobhayanti mahāprabhāḥ 83 gandharvāḥ saha kāntāhir yathoktaṃ vṛṣaparvaṇā dṛśyante śailaśṛṅgeṣu pārtha kiṃpuruṣaiḥ saha 84 gītānāṃ talatālānāṃ yathā sāmnāṃ ca nisvanaḥ śrūyate bahudhā bhīma sarvabhūtamanoharaḥ 85 mahāgaṅgām udīkṣasva puṇyāṃ deva nadīṃ śubhām kalahaṃsa gaṇair juṣṭām ṛṣikiṃnarasevitām 86 dhātubhiś ca saridbhiś ca kiṃnarair mṛgapakṣibhiḥ gandharvair apsarobhiś ca kānakaiś ca manoramaiḥ 87 vyālaiś ca vividhākāraiḥ śataśīrṣaiḥ samantataḥ upetaṃ paśya kaunteya śailarājam ariṃdama 88 te prītamanasaḥ śūrāḥ prāptā gatim anuttamām nātṛpyan partatendrasya darśanena paraṃtapāḥ 89 upetam atha mālyaiś ca phalavadbhiś ca pādapaiḥ ārṣṭiṣeṇasya rājarṣer āśramaṃ dadṛśus tadā 90 tatas taṃ tīvratapasaṃ kṛśaṃ dhamani saṃtatam pāragaṃ sarvadharmāṇām ārṣṭiṣeṇam upāgaman |
The Mahabharata in Sanskrit
Book 3
Chapter 156
|
1
[वै] युधिष्ठिरस तम आसाद्य तपसा दग्धकिल्बिषम अभ्यवादयत परीतः शिरसा नाम कीर्तयन 2 ततः कृष्णा च भीमश च यमौ चापि यशस्विनौ शिरॊभिः पराप्य राजर्षिं परिवार्यॊपतस्थिरे 3 तथैव धौम्यॊ धर्मज्ञः पाण्डवानां पुरॊहितः यथान्यायम उपाक्रान्तस तम ऋषिं संशितव्रतम 4 अन्वजानात स धर्मज्ञॊ मुनिर दिव्येन चक्षुषा पाण्डॊः पुत्रान कुरुश्रेष्ठान आस्यताम इति चाब्रवीत 5 कुरूणाम ऋषभं पराज्ञं पूजयित्वा महातपाः सह भरातृभिर आसीनं पर्यपृच्छद अनामयम 6 नानृते कुरुषे भावं कच चिद धर्मे च वर्तसे मता पित्रॊश च ते वृत्तिः कच चित पार्थ न सीदति 7 कच चित ते गुरवः सर्वे वृद्धा वैद्याश च पूजिताः कच चिन न कुरुषे भावं पार्थ पापेषु कर्मसु 8 सुकृतं परतिकर्तुं च कच्चिद धातुं च दुष्कृतम यथान्यायं कुरुश्रेष्ठ जानासि न च कत्थसे 9 यथार्हं मानिताः कच चित तवया नन्दन्ति साधवः वनेष्व अपि वसन कच चिद धर्मम एवानुवर्तसे 10 कच चिद धौम्यस तवद आचारैर न पार्थ परितप्यते दानधर्मतपः शौचैर आर्जवेन तितिक्षया 11 पितृपैतामहं वृत्तं कच चित पार्थानुवर्तसे कच चिद राजर्षियातेन पथा गच्छसि पाण्डव 12 सवे सवे किल कुले जाते पुत्रे नप्तरि वा पुनः पितरः पितृलॊकस्थाः शॊचन्ति च हसन्ति च 13 किं नव अस्य दुष्कृते ऽसमाभिः संप्राप्तव्यं भविष्यति किं चास्य सुकृते ऽसमाभिः पराप्तव्यम इति शॊभनम 14 पिता माता तथैवाग्निर गुरुर आत्मा च पञ्चमः यस्यैते पूजिताः पार्थ तस्य लॊकाव उभौ जितौ 15 अब्भक्षा वायुभक्षाश च पलवमाना विहायसा जुषन्ते पर्वतश्रेष्ठम ऋषयः पर्व संधिषु 16 कामिनः सह कान्ताभिः परस्परम अनुव्रताः दृश्यन्ते शैलशृङ्गस्थास तथा किंपुरुषा नृप 17 अरजांसि च वासांसि वसानाः कौशिकानि च दृश्यन्ते हबवः पार्थ गन्धर्वाप्सरसां गणाः 18 विद्याधरगणाश चैव सरग्विणः परियदर्शनाः महॊरगगणाश चैव सुपर्णाश चॊरगादयः 19 अस्य चॊपरि शैलस्य शरूयते पर्व संधिषु भेरी पणवशङ्खानां मृदङ्गानां च निस्वनः 20 इहस्थैर एव तत सर्वं शरॊतव्यं भरतर्षभाः न कार्या वः कथं चित सयात तत्राभिसरणे मतिः 21 न चाप्य अतः परं शक्यं गन्तुं भरतसत्तमाः विहारॊ हय अत्र देवानाम अमानुष गतिस तु सा 22 ईषच चपल कर्माणं मनुष्यम इह भारत दविषन्ति सर्वभूतानि ताषयन्ति च राक्षसाः 23 अभ्यतिक्रम्य शिखरं शैलस्यास्य युधिष्ठिर गतिः परमसिद्धानां देवर्षीणां परकाशते 24 चापलाद इह गछन्तं पार्थ यानम अतः परम अयः शूलादिभिर घनन्ति राक्षसाः शत्रुसूदन 25 अप्सरॊभिः परिवृतः समृद्ध्या नरवाहनः इह वैश्रवणस तात पर्व संधिषु दृश्यते 26 शिखरे तं समासीनम अधिपं सर्वरक्षसाम परेक्षन्ते सर्वभूतानि भानुमन्तम इवॊदितम 27 देवदानव सिद्धानां तथा वैश्रवणस्य च गिरेः शिखरम उद्यानम इदं भरतसत्तम 28 उपासीनस्य धनदं तुम्बुरॊः पर्व संधिषु गीतसाम सवनस तात शरूयते गन्धमादने 29 एतद एवंविधं चित्रम इह तात युधिष्ठिर परेक्षन्ते सर्वभूतानि बहुशः पर्व संधिषु 30 भुञ्जानाः सर्वभॊज्यानि रसवन्ति फलानि च वसध्वं पाण्डवश्रेष्ठा यावद अर्जुन दर्शनम 31 न तात चपलैर भाव्यम इह पराप्तैः कथं चन उषित्वेह यथाकामं यथाश्रद्धं विहृत्य च ततः शस्त्रभृतां शरेष्ठ पृथिवीं पालयिष्यसि |
1
[vai] yudhiṣṭhiras tam āsādya tapasā dagdhakilbiṣam abhyavādayata prītaḥ śirasā nāma kīrtayan 2 tataḥ kṛṣṇā ca bhīmaś ca yamau cāpi yaśasvinau śirobhiḥ prāpya rājarṣiṃ parivāryopatasthire 3 tathaiva dhaumyo dharmajñaḥ pāṇḍavānāṃ purohitaḥ yathānyāyam upākrāntas tam ṛṣiṃ saṃśitavratam 4 anvajānāt sa dharmajño munir divyena cakṣuṣā pāṇḍoḥ putrān kuruśreṣṭhān āsyatām iti cābravīt 5 kurūṇām ṛṣabhaṃ prājñaṃ pūjayitvā mahātapāḥ saha bhrātṛbhir āsīnaṃ paryapṛcchad anāmayam 6 nānṛte kuruṣe bhāvaṃ kac cid dharme ca vartase matā pitroś ca te vṛttiḥ kac cit pārtha na sīdati 7 kac cit te guravaḥ sarve vṛddhā vaidyāś ca pūjitāḥ kac cin na kuruṣe bhāvaṃ pārtha pāpeṣu karmasu 8 sukṛtaṃ pratikartuṃ ca kaccid dhātuṃ ca duṣkṛtam yathānyāyaṃ kuruśreṣṭha jānāsi na ca katthase 9 yathārhaṃ mānitāḥ kac cit tvayā nandanti sādhavaḥ vaneṣv api vasan kac cid dharmam evānuvartase 10 kac cid dhaumyas tvad ācārair na pārtha paritapyate dānadharmatapaḥ śaucair ārjavena titikṣayā 11 pitṛpaitāmahaṃ vṛttaṃ kac cit pārthānuvartase kac cid rājarṣiyātena pathā gacchasi pāṇḍava 12 sve sve kila kule jāte putre naptari vā punaḥ pitaraḥ pitṛlokasthāḥ śocanti ca hasanti ca 13 kiṃ nv asya duṣkṛte 'smābhiḥ saṃprāptavyaṃ bhaviṣyati kiṃ cāsya sukṛte 'smābhiḥ prāptavyam iti śobhanam 14 pitā mātā tathaivāgnir gurur ātmā ca pañcamaḥ yasyaite pūjitāḥ pārtha tasya lokāv ubhau jitau 15 abbhakṣā vāyubhakṣāś ca plavamānā vihāyasā juṣante parvataśreṣṭham ṛṣayaḥ parva saṃdhiṣu 16 kāminaḥ saha kāntābhiḥ parasparam anuvratāḥ dṛśyante śailaśṛṅgasthās tathā kiṃpuruṣā nṛpa 17 arajāṃsi ca vāsāṃsi vasānāḥ kauśikāni ca dṛśyante habavaḥ pārtha gandharvāpsarasāṃ gaṇāḥ 18 vidyādharagaṇāś caiva sragviṇaḥ priyadarśanāḥ mahoragagaṇāś caiva suparṇāś coragādayaḥ 19 asya copari śailasya śrūyate parva saṃdhiṣu bherī paṇavaśaṅkhānāṃ mṛdaṅgānāṃ ca nisvanaḥ 20 ihasthair eva tat sarvaṃ śrotavyaṃ bharatarṣabhāḥ na kāryā vaḥ kathaṃ cit syāt tatrābhisaraṇe matiḥ 21 na cāpy ataḥ paraṃ śakyaṃ gantuṃ bharatasattamāḥ vihāro hy atra devānām amānuṣa gatis tu sā 22 īṣac capala karmāṇaṃ manuṣyam iha bhārata dviṣanti sarvabhūtāni tāṣayanti ca rākṣasāḥ 23 abhyatikramya śikharaṃ śailasyāsya yudhiṣṭhira gatiḥ paramasiddhānāṃ devarṣīṇāṃ prakāśate 24 cāpalād iha gachantaṃ pārtha yānam ataḥ param ayaḥ śūlādibhir ghnanti rākṣasāḥ śatrusūdana 25 apsarobhiḥ parivṛtaḥ samṛddhyā naravāhanaḥ iha vaiśravaṇas tāta parva saṃdhiṣu dṛśyate 26 śikhare taṃ samāsīnam adhipaṃ sarvarakṣasām prekṣante sarvabhūtāni bhānumantam ivoditam 27 devadānava siddhānāṃ tathā vaiśravaṇasya ca gireḥ śikharam udyānam idaṃ bharatasattama 28 upāsīnasya dhanadaṃ tumburoḥ parva saṃdhiṣu gītasāma svanas tāta śrūyate gandhamādane 29 etad evaṃvidhaṃ citram iha tāta yudhiṣṭhira prekṣante sarvabhūtāni bahuśaḥ parva saṃdhiṣu 30 bhuñjānāḥ sarvabhojyāni rasavanti phalāni ca vasadhvaṃ pāṇḍavaśreṣṭhā yāvad arjuna darśanam 31 na tāta capalair bhāvyam iha prāptaiḥ kathaṃ cana uṣitveha yathākāmaṃ yathāśraddhaṃ vihṛtya ca tataḥ śastrabhṛtāṃ śreṣṭha pṛthivīṃ pālayiṣyasi |
The Mahabharata in Sanskrit
Book 3
Chapter 157
|
1
[जनम] पाण्डॊः पुत्रा महात्मानः सर्वे दिव्यपराक्रमाः कियन्तं कालम अवसन पर्वते गन्धमादने 2 कानि चाभ्यवहार्याणि तत्र तेषां महात्मनाम वसतां लॊकवीराणाम आसंस तद बरूहि सत्तम 3 विस्तरेण च मे शंस भीमसेन पराक्रमम यद यच चक्रे महाबाहुस तस्मिन हैमवते गिरौ न खल्व आसीत पुनर युद्धं तस्य यक्षैर दविजॊत्तम 4 कच चित समागमस तेषाम आसीद वैश्रवणेन च तत्र हय आयाति धनद आर्ष्टिषेणॊ यथाब्रवीत 5 एतद इच्छाम्य अहं शरॊतुं विस्तरेण तपॊधन न हि मे शृण्वतस तृप्तिर अस्ति तेषां विचेष्टितम 6 [वै] एतद आत्महितं शरुत्वा तस्याप्रतिम तेजसः शासनं सततं चक्रुस तथैव भरतर्षभाः 7 भुञ्जाना मुनिभॊज्यानि रसवन्ति फलानि च शुद्धबाणहतानां च मृगाणां पिशितान्य अपि 8 मेध्यानि हिमवत्पृष्ठे मधूनि विविधानि च एवं ते नयवसंस तत्र पाण्डवा भरतर्षभाः 9 तथा निवसतां तेषां पञ्चमं वर्षम अभ्यगात शृण्वतां लॊमशॊक्तानि वाक्यानि विविधानि च 10 कृत्यकाल उपस्थास्य इति चॊक्त्वा घटॊत्कचः राक्षसैः सहितः सर्वैः पूर्वम एव गतः परभॊ 11 आर्ष्टिषेणाश्रमे तेषां वसतां वै महात्मनाम अगच्छन बहवॊ मासाः पश्यतां महद अद्भुतम 12 तैस तत्र रममाणैश च विहरद्भिश च पाण्डवैः परीतिमन्तॊ महाभागा मुनयश चारणास तथा 13 आजग्मुः पाण्डवान दरष्टुं सिद्धात्मानॊ यतव्रताः तैस तैः सह कथाश चक्रुर दिव्या भरतसत्तमाः 14 ततः कतिपयाहस्य महाह्रद निवासिनम ऋद्धिमन्तं महानागं सुपर्णः सहसाहरत 15 पराकम्पत महाशैलः परामृद्यन्त महाद्रुमाः ददृशुः सर्वभूतानि पाण्डवाश च तद अद्भुतम 16 ततः शैलॊत्तमस्याग्रात पाण्डवान परति मारुतः अवहत सर्वमाल्यानि गन्धवन्ति शुभानि च 17 तत्र पुष्पाणि दिव्यानि सुहृद्भिः सह पाण्डवाः ददृशुः पञ्च वर्णानि दरौपदी च यशस्विनी 18 भीमसेनं ततः कृष्णा काले वचनम अब्रवीत विविक्ते पर्वतॊद्देशे सुक्खासीनं महाभुजम 19 सुपर्णानिलवेगेन शवसनेन महाबलात पञ्च वर्णानि पात्यन्ते पुष्पाणि भरतर्षभ परत्यक्षं सर्वभूतानां नदीम अश्वरथां परति 20 खाण्डवे सत्यसंधेन भरात्रा तव नरेश्वर गन्धर्वॊरगरक्षांसि वासवश च निवारितः हता मायाविनश चॊग्रा धनुः पराप्तं च गाण्डिवम 21 तवापि सुमहत तेजॊ महद बाहुबलं च ते अविषह्यम अनाधृष्यं शतक्रतु बलॊपमम 22 तवद बाहुबलवेगेन तरासिताः सर्वराक्षसाः हित्वा शैलं परपद्यन्तां भीमसेन दिशॊ दश 23 ततः शैलॊत्तमस्याग्रं चित्रमाल्य धरं शिवम वयपेतभयसंमॊहाः पश्यन्तु सुहृदस तव 24 एवं परणिहितं भीम चिरात परभृति मे मनः दरष्टुम इच्छामि शैलाग्रं तवद बाहुबलम आश्रिता 25 ततः कषिप्तम इवात्मानं दरौपद्या स परंतपः नामृष्यत महाबाहुः परहारम इव सद्गवः 26 सिंहर्षभ गतिः शरीमान उदारः कनकप्रभः मनस्वी बलवान दृप्तॊ मानी शूरश च पाण्डवः 27 लॊहिताक्षः पृथु वयंसॊ मत्तवारणविक्रमः सिंहदंष्ट्रॊ बृहत सकन्धः शालपॊत इवॊद्गतः 28 महात्मा चारुसर्वाङ्गः कम्बुग्रीवॊ महाभुजः रुक्मपृष्ठं धनुः खड्गं तूणांश चापि परामृशत 29 केसरीव यथॊत्सिक्तः परभिन्न इव वारणः वयपेतभयसंमॊहः शैलम अभ्यपतद बली 30 तं मृगेन्द्रम इवायान्तं परभिन्नम इव वारणम ददृशुः सर्वभूतानि बाणखड्गधनुर्धरम 31 दरौपद्या वर्धयन हर्षं गदाम आदाय पाण्डवः वयपेतभयसंमॊहः शैलराजं समाविशत 32 न गलानिर न च कातर्यं न वैक्लव्यं न मत्सरः कदा चिज जुषते पार्थम आत्मजं मातरिश्वनः 33 तद एकायनम आसाद्य विषमं भीमदर्शनम बहुतालॊछ्रयं शृङ्गम आरुरॊह महाबलः 34 स किंनरमहानागमुनिगन्धर्वराक्षसान हर्षयन पर्तवस्याग्रम आससाद महाबलः 35 तत्र वैश्रवणावासं ददर्श भरतर्षभः काञ्चनैः सफाटिकाकारैर वेश्मभिः समलंकृतम 36 मॊदयन सर्वभूतानि गन्धमादन संभभः सर्वगन्धवहस तत्र मारुतः सुसुखॊ ववौ 37 चित्रा विविधवर्णाभाश चित्रमञ्जलि धारिणः अचिन्त्या विविधास तत्र दरुमाः परमशॊभनाः 38 रत्नजालपरिक्षिप्तं चित्रमाल्यधरं शिवम राक्षसाधिपतेः सथानं ददर्श भरतर्षभः 39 गदाखड्गधनुष्पाणिः समभित्यक्तजीवितः भीमसेनॊ महाबाहुस तस्थौ गिरिर इवाचलः 40 ततः शङ्खम उपाध्मासीद दविषतां लॊमहर्षणम जयाघॊषतलघॊषं च कृत्वा भूतान्य अमॊहयत 41 ततः संहृष्टरॊमाणः शब्दं तम अभिदुद्रुवुः यक्षराक्षस गन्धर्वाः पाण्डवस्य समीपतः 42 गदापरिघनिस्त्रिंश शक्तिशूलपरश्वधाः परगृहीता वयरॊचन्त यक्षराक्षस बाहुभिः 43 ततः परववृते युद्धं तेषां तस्य च भारत तैः परयुक्तान महाकायैः शक्तिशूलपरश्वधान भल्लैर भीमः परचिच्छेद भीमवेगतरैस ततः 44 अन्तरिक्षचराणां च भूमिष्ठानां च गर्जताम शरैर विव्याध गात्राणि राक्षसानां महाबलः 45 सा लॊहितमहावृष्टिर अभ्यवर्षन महाबलम कायेभ्यः परच्युता धारा राक्षसानां समन्ततः 46 भीम बाहुबलॊत्सृष्टैर बहुधा यक्षरक्षसाम विनिकृत्तान्य अदृश्यन्त शरीराणि शिरांसि च 47 परच्छाद्यमानं रक्षॊभिः पाण्डवं परियदर्शनम ददृशुः सर्वभूतानि सूर्यम अभ्रगणैर इव 48 स रश्मिभिर इवादित्यः शरैर अरिनिघातिभिः सर्वान आर्छन महाबाहुर बलवान सत्यविक्रमः 49 अभितर्जयमानाश च रुवन्तश च महारवान न मॊहं भीमसेनस्य ददृशुः सर्वराक्षसाः 50 ते शरैः कषतसर्वाङ्गा भीमसेनभयार्दिताः भीमम आर्तस्वरं चक्रुर विप्रकीर्णमहायुधाः 51 उत्सृज्य ते गदा शूलान असि शक्तिपरश्वधान दक्षिणां दिशम आजग्मुस तरासिता दृढ धन्वना 52 तत्र शूलगदापाणिर वयूढॊरस्कॊ महाभुजः सखा वैश्वरणस्यासीन मणिमान नाम राक्षसः 53 अदर्शयद अधीकारं पौरुषं च महाबलः स तान दृष्ट्वा परावृत्तान समयमान इवाब्रवीत 54 एकेन बहवः संख्ये मानुषेण पराजिताः पराप्य वैश्रवणावासं किं वक्ष्य अथ धनेश्वरम 55 एवम आभाष्य तान सर्वान नयवर्तत स राक्षसः शक्तिशूलगदा पाणिर अभ्यधावच च पाण्डवम 56 तम आपतन्तं वेगेन परभिन्नम इव वारणम वत्सदन्तैस तरिभिः पार्श्वे भीमसेनः समर्पयत 57 मणिमान अपि संक्रुद्धः परगृह्य महतीं गदाम पराहिणॊद भीमसेनाय परिक्षिप्य महाबलः 58 विद्युद्रूपां महाघॊराम आकाशे महतीं गदाम शरैर बहुभिर अभ्यर्च्छद भीमसेनः शिलाशितैः 59 परतिहन्यन्त ते सर्वे गदाम आसाद्य सायकाः न वेगं धारयाम आसुर गदा वेगस्य वेगिताः 60 गदायुद्धसमाचारं बुध्यमानः स वीर्यवान वयंसयाम आस तं तस्य परहारं भीमविक्रमः 61 ततः शक्तिं महाघॊरां रुक्मदण्डाम अयस्मयीम तस्मिन्न एवान्तरे धीमान परजहाराथ राक्षसः 62 सा भुजं भीमनिर्ह्रादा भित्त्वा भीमस्य दक्षिणम साग्निज्वाला महारौद्रा पपात सहसा भुवि 63 सॊ ऽतिविद्धॊ महेष्वासः शक्त्यामित पराक्रमः गदां जग्राह कौरव्यॊ गदायुद्धविशारदः 64 तां परगृह्यॊन्नदन भीमः सर्वशैक्यायसीं गदाम तरसा सॊ ऽभिदुद्राव मणिमन्तं महाबलम 65 दीप्यमानं महाशूलं परहृह्य मणिमान अपि पराहिणॊद भीमसेनाय वेगेन महता नदन 66 भङ्क्त्वा शूलं गदाग्रेण गदायुद्धविशारदः अभिदुद्राव तं तूर्णं गरुत्मान इव पन्नगम 67 सॊ ऽनतरिक्षम अभिप्लुत्य विधूय सहसा गदाम परचिक्षेप महाबाहुर विनद्य रणमूर्धनि 68 सेन्द्राशनिर इवेन्द्रेण विसृष्टा वातरंहसा हत्वा रक्षः कषितिं पराप्य कृत्येव निपपात ह 69 तं राक्षसं भीमबलं भीमसेनेन पातितम ददृशुः सर्वभूतानि सिंहेनेव गवां पतिम 70 तं परेक्ष्य निहतं भूमौ हतशेषा निशाचराः भीमम आर्तस्वरं कृत्वा जग्मुः पराचीं दिशं परति |
1
[janam] pāṇḍoḥ putrā mahātmānaḥ sarve divyaparākramāḥ kiyantaṃ kālam avasan parvate gandhamādane 2 kāni cābhyavahāryāṇi tatra teṣāṃ mahātmanām vasatāṃ lokavīrāṇām āsaṃs tad brūhi sattama 3 vistareṇa ca me śaṃsa bhīmasena parākramam yad yac cakre mahābāhus tasmin haimavate girau na khalv āsīt punar yuddhaṃ tasya yakṣair dvijottama 4 kac cit samāgamas teṣām āsīd vaiśravaṇena ca tatra hy āyāti dhanada ārṣṭiṣeṇo yathābravīt 5 etad icchāmy ahaṃ śrotuṃ vistareṇa tapodhana na hi me śṛṇvatas tṛptir asti teṣāṃ viceṣṭitam 6 [vai] etad ātmahitaṃ śrutvā tasyāpratima tejasaḥ śāsanaṃ satataṃ cakrus tathaiva bharatarṣabhāḥ 7 bhuñjānā munibhojyāni rasavanti phalāni ca śuddhabāṇahatānāṃ ca mṛgāṇāṃ piśitāny api 8 medhyāni himavatpṛṣṭhe madhūni vividhāni ca evaṃ te nyavasaṃs tatra pāṇḍavā bharatarṣabhāḥ 9 tathā nivasatāṃ teṣāṃ pañcamaṃ varṣam abhyagāt śṛṇvatāṃ lomaśoktāni vākyāni vividhāni ca 10 kṛtyakāla upasthāsya iti coktvā ghaṭotkacaḥ rākṣasaiḥ sahitaḥ sarvaiḥ pūrvam eva gataḥ prabho 11 ārṣṭiṣeṇāśrame teṣāṃ vasatāṃ vai mahātmanām agacchan bahavo māsāḥ paśyatāṃ mahad adbhutam 12 tais tatra ramamāṇaiś ca viharadbhiś ca pāṇḍavaiḥ prītimanto mahābhāgā munayaś cāraṇās tathā 13 ājagmuḥ pāṇḍavān draṣṭuṃ siddhātmāno yatavratāḥ tais taiḥ saha kathāś cakrur divyā bharatasattamāḥ 14 tataḥ katipayāhasya mahāhrada nivāsinam ṛddhimantaṃ mahānāgaṃ suparṇaḥ sahasāharat 15 prākampata mahāśailaḥ prāmṛdyanta mahādrumāḥ dadṛśuḥ sarvabhūtāni pāṇḍavāś ca tad adbhutam 16 tataḥ śailottamasyāgrāt pāṇḍavān prati mārutaḥ avahat sarvamālyāni gandhavanti śubhāni ca 17 tatra puṣpāṇi divyāni suhṛdbhiḥ saha pāṇḍavāḥ dadṛśuḥ pañca varṇāni draupadī ca yaśasvinī 18 bhīmasenaṃ tataḥ kṛṣṇā kāle vacanam abravīt vivikte parvatoddeśe sukkhāsīnaṃ mahābhujam 19 suparṇānilavegena śvasanena mahābalāt pañca varṇāni pātyante puṣpāṇi bharatarṣabha pratyakṣaṃ sarvabhūtānāṃ nadīm aśvarathāṃ prati 20 khāṇḍave satyasaṃdhena bhrātrā tava nareśvara gandharvoragarakṣāṃsi vāsavaś ca nivāritaḥ hatā māyāvinaś cogrā dhanuḥ prāptaṃ ca gāṇḍivam 21 tavāpi sumahat tejo mahad bāhubalaṃ ca te aviṣahyam anādhṛṣyaṃ śatakratu balopamam 22 tvad bāhubalavegena trāsitāḥ sarvarākṣasāḥ hitvā śailaṃ prapadyantāṃ bhīmasena diśo daśa 23 tataḥ śailottamasyāgraṃ citramālya dharaṃ śivam vyapetabhayasaṃmohāḥ paśyantu suhṛdas tava 24 evaṃ praṇihitaṃ bhīma cirāt prabhṛti me manaḥ draṣṭum icchāmi śailāgraṃ tvad bāhubalam āśritā 25 tataḥ kṣiptam ivātmānaṃ draupadyā sa paraṃtapaḥ nāmṛṣyata mahābāhuḥ prahāram iva sadgavaḥ 26 siṃharṣabha gatiḥ śrīmān udāraḥ kanakaprabhaḥ manasvī balavān dṛpto mānī śūraś ca pāṇḍavaḥ 27 lohitākṣaḥ pṛthu vyaṃso mattavāraṇavikramaḥ siṃhadaṃṣṭro bṛhat skandhaḥ śālapota ivodgataḥ 28 mahātmā cārusarvāṅgaḥ kambugrīvo mahābhujaḥ rukmapṛṣṭhaṃ dhanuḥ khaḍgaṃ tūṇāṃś cāpi parāmṛśat 29 kesarīva yathotsiktaḥ prabhinna iva vāraṇaḥ vyapetabhayasaṃmohaḥ śailam abhyapatad balī 30 taṃ mṛgendram ivāyāntaṃ prabhinnam iva vāraṇam dadṛśuḥ sarvabhūtāni bāṇakhaḍgadhanurdharam 31 draupadyā vardhayan harṣaṃ gadām ādāya pāṇḍavaḥ vyapetabhayasaṃmohaḥ śailarājaṃ samāviśat 32 na glānir na ca kātaryaṃ na vaiklavyaṃ na matsaraḥ kadā cij juṣate pārtham ātmajaṃ mātariśvanaḥ 33 tad ekāyanam āsādya viṣamaṃ bhīmadarśanam bahutālochrayaṃ śṛṅgam āruroha mahābalaḥ 34 sa kiṃnaramahānāgamunigandharvarākṣasān harṣayan partavasyāgram āsasāda mahābalaḥ 35 tatra vaiśravaṇāvāsaṃ dadarśa bharatarṣabhaḥ kāñcanaiḥ sphāṭikākārair veśmabhiḥ samalaṃkṛtam 36 modayan sarvabhūtāni gandhamādana saṃbhabhaḥ sarvagandhavahas tatra mārutaḥ susukho vavau 37 citrā vividhavarṇābhāś citramañjali dhāriṇaḥ acintyā vividhās tatra drumāḥ paramaśobhanāḥ 38 ratnajālaparikṣiptaṃ citramālyadharaṃ śivam rākṣasādhipateḥ sthānaṃ dadarśa bharatarṣabhaḥ 39 gadākhaḍgadhanuṣpāṇiḥ samabhityaktajīvitaḥ bhīmaseno mahābāhus tasthau girir ivācalaḥ 40 tataḥ śaṅkham upādhmāsīd dviṣatāṃ lomaharṣaṇam jyāghoṣatalaghoṣaṃ ca kṛtvā bhūtāny amohayat 41 tataḥ saṃhṛṣṭaromāṇaḥ śabdaṃ tam abhidudruvuḥ yakṣarākṣasa gandharvāḥ pāṇḍavasya samīpataḥ 42 gadāparighanistriṃśa śaktiśūlaparaśvadhāḥ pragṛhītā vyarocanta yakṣarākṣasa bāhubhiḥ 43 tataḥ pravavṛte yuddhaṃ teṣāṃ tasya ca bhārata taiḥ prayuktān mahākāyaiḥ śaktiśūlaparaśvadhān bhallair bhīmaḥ praciccheda bhīmavegatarais tataḥ 44 antarikṣacarāṇāṃ ca bhūmiṣṭhānāṃ ca garjatām śarair vivyādha gātrāṇi rākṣasānāṃ mahābalaḥ 45 sā lohitamahāvṛṣṭir abhyavarṣan mahābalam kāyebhyaḥ pracyutā dhārā rākṣasānāṃ samantataḥ 46 bhīma bāhubalotsṛṣṭair bahudhā yakṣarakṣasām vinikṛttāny adṛśyanta śarīrāṇi śirāṃsi ca 47 pracchādyamānaṃ rakṣobhiḥ pāṇḍavaṃ priyadarśanam dadṛśuḥ sarvabhūtāni sūryam abhragaṇair iva 48 sa raśmibhir ivādityaḥ śarair arinighātibhiḥ sarvān ārchan mahābāhur balavān satyavikramaḥ 49 abhitarjayamānāś ca ruvantaś ca mahāravān na mohaṃ bhīmasenasya dadṛśuḥ sarvarākṣasāḥ 50 te śaraiḥ kṣatasarvāṅgā bhīmasenabhayārditāḥ bhīmam ārtasvaraṃ cakrur viprakīrṇamahāyudhāḥ 51 utsṛjya te gadā śūlān asi śaktiparaśvadhān dakṣiṇāṃ diśam ājagmus trāsitā dṛḍha dhanvanā 52 tatra śūlagadāpāṇir vyūḍhorasko mahābhujaḥ sakhā vaiśvaraṇasyāsīn maṇimān nāma rākṣasaḥ 53 adarśayad adhīkāraṃ pauruṣaṃ ca mahābalaḥ sa tān dṛṣṭvā parāvṛttān smayamāna ivābravīt 54 ekena bahavaḥ saṃkhye mānuṣeṇa parājitāḥ prāpya vaiśravaṇāvāsaṃ kiṃ vakṣy atha dhaneśvaram 55 evam ābhāṣya tān sarvān nyavartata sa rākṣasaḥ śaktiśūlagadā pāṇir abhyadhāvac ca pāṇḍavam 56 tam āpatantaṃ vegena prabhinnam iva vāraṇam vatsadantais tribhiḥ pārśve bhīmasenaḥ samarpayat 57 maṇimān api saṃkruddhaḥ pragṛhya mahatīṃ gadām prāhiṇod bhīmasenāya parikṣipya mahābalaḥ 58 vidyudrūpāṃ mahāghorām ākāśe mahatīṃ gadām śarair bahubhir abhyarcchad bhīmasenaḥ śilāśitaiḥ 59 pratihanyanta te sarve gadām āsādya sāyakāḥ na vegaṃ dhārayām āsur gadā vegasya vegitāḥ 60 gadāyuddhasamācāraṃ budhyamānaḥ sa vīryavān vyaṃsayām āsa taṃ tasya prahāraṃ bhīmavikramaḥ 61 tataḥ śaktiṃ mahāghorāṃ rukmadaṇḍām ayasmayīm tasminn evāntare dhīmān prajahārātha rākṣasaḥ 62 sā bhujaṃ bhīmanirhrādā bhittvā bhīmasya dakṣiṇam sāgnijvālā mahāraudrā papāta sahasā bhuvi 63 so 'tividdho maheṣvāsaḥ śaktyāmita parākramaḥ gadāṃ jagrāha kauravyo gadāyuddhaviśāradaḥ 64 tāṃ pragṛhyonnadan bhīmaḥ sarvaśaikyāyasīṃ gadām tarasā so 'bhidudrāva maṇimantaṃ mahābalam 65 dīpyamānaṃ mahāśūlaṃ prahṛhya maṇimān api prāhiṇod bhīmasenāya vegena mahatā nadan 66 bhaṅktvā śūlaṃ gadāgreṇa gadāyuddhaviśāradaḥ abhidudrāva taṃ tūrṇaṃ garutmān iva pannagam 67 so 'ntarikṣam abhiplutya vidhūya sahasā gadām pracikṣepa mahābāhur vinadya raṇamūrdhani 68 sendrāśanir ivendreṇa visṛṣṭā vātaraṃhasā hatvā rakṣaḥ kṣitiṃ prāpya kṛtyeva nipapāta ha 69 taṃ rākṣasaṃ bhīmabalaṃ bhīmasenena pātitam dadṛśuḥ sarvabhūtāni siṃheneva gavāṃ patim 70 taṃ prekṣya nihataṃ bhūmau hataśeṣā niśācarāḥ bhīmam ārtasvaraṃ kṛtvā jagmuḥ prācīṃ diśaṃ prati |
The Mahabharata in Sanskrit
Book 3
Chapter 158
|
1
[वै] शरुत्वा बहुविधैः शब्दैर नाद्यमाना गिरे गुहाः अजातशत्रुः कौन्तेयॊ माद्रीपुत्राव उभाव अपि 2 धौम्यः कृष्णा च विप्राश च सर्वे च सुहृदस तथा भीमसेनम अपश्यन्तः सर्वे विमनसॊ ऽभवन 3 दरौपदीम आर्ष्टिषेणाय परदाय तु महारथाः सहिताः सायुधाः शूराः शैलम आरुरुहुस तदा 4 ततः संप्राप्य शैलाग्रं वीक्षमाणा महारथाः ददृशुस ते महेष्वासा भीमसेनम अरिंदमम 5 सफुरतश च महाकायान गतसत्त्वांश च राक्षसान महाबलान महाघॊरान भीमसेनेन पातितान 6 शुशुभे स महाबाहुर गदाखड्गधनुर्धरः निहत्य समरे सर्वान दानवान मघवान इव 7 ततस ते समतिक्रम्य परिष्वज्य वृकॊदरम तत्रॊपविविशुः पार्थाः पराप्ता गतिम अनुत्तमाम 8 तैश चतुर्भिर महेष्वासैर गिरिशृङ्गम अशॊभत लॊकपालैर महाभागैर दिवं देववरैर इव 9 कुबेर सदनं दृष्ट्वा राक्षसांश च निपातितान भराता भरातरम आसीनम अभ्यभाषत पाण्डवम 10 साहसाद यदि वा मॊहाद भीम पापम इदं कृतम नैतत ते सदृशं वीर मुनेर इव मृषा वचः 11 राजद्विष्टं न कर्तव्यम इति धर्मविदॊ विदुः तरिदशानाम इदं दविष्टं भीमसेन तवया कृतम 12 अर्थधर्माव अनादृत्य यः पापे कुरुते मनः कर्मणां पार्थ पापानां सफलं विन्दते धरुवम पुनर एवं न कर्तव्यं मम चेद इच्छसि परियम 13 एवम उक्त्वा स धर्मात्मा भराता भरातरम अच्युतम अर्थतत्त्वविघागज्ञः कुन्तीपुत्रॊ युधिष्ठिरः विरराम महातेजा तम एवार्थं विचिन्तयन 14 ततस तु हतशिष्टा ये भीमसेनेन राक्षसाः सहिताः परत्यपद्यन्त कुबेर सदनं परति 15 ते जवेन महावेगाः पराप्य वैश्रवणालयम भीमम आर्तस्वरं चक्रुर भीमसेनभयार्दिताः 16 नयस्तशस्त्रायुधाः शरान्ताः शॊनिताक्त परिच्छदाः परकीर्णमूर्धजा राजन यक्षाधिपतिम अब्रुवन 17 गदापरिघनिस्त्रिंश तॊमरप्रासयॊधिनः राक्षसा निहताः सर्वे तव देवपुरःसराः 18 परमृद्य तरसा शैलं मानुषेण धनेश्वर एकेन सहिताः संख्ये हताः करॊधवशा गणाः 19 परवरा रक्षसेन्द्राणां यक्षाणां च धनाधिप शेरते निहता देव गतसत्त्वाः परासवः 20 लब्धः शैलॊ वयं मुक्तामणिमांस ते सखा हतः मानुषेण कृतं कर्म विधत्स्व यद अनन्तरम 21 स तच छरुत्वा तु संक्रुद्धः सर्वयक्षगणाधिपः कॊपसंरक्त नयनः कथम इत्य अब्रवीद वचः 22 दवितीयम अपराध्यन्तं भीमं शरुत्वा धनेश्वरः चुक्रॊध यक्षाधिपतिर युज्यताम इति चाब्रवीत 23 अथाभ्र धनसंकाशं गिरिकूटम इवॊच्छ्रितम हयैः संयॊजयाम आसुर गान्धर्वैर उत्तमं रथम 24 तस्य सर्ग गुणॊपेता विमलाक्षा हयॊत्तमाः तेजॊबलजवॊपेता नानारत्नविभूषिताः 25 शॊभमाना रथे युक्तास तरिष्यन्त इवाशुगाः हर्षयाम आसुर अन्यॊन्यम इङ्गितैर विजयावहैः 26 स तम आस्थाय भगवान राजराजॊ महारथम परययौ देवगन्धर्वैः सतूयमानॊ महाद्युतिः 27 तं परयान्तं महात्मानं सर्वयक्षधनाधिपम रक्ताक्षा हेमसंकाशा महाकाया महाबलाः 28 सायुधा बद्धनिस्त्रिंशा यक्षा दशशतायुताः जवेन महता वीराः परिवार्यॊपतस्थिरे 29 तं महान्तम उपायान्तं धनेश्वरम उपान्तिके ददृशुर हृष्टरॊमाणः पाण्डवाः परियदर्शनम 30 कुबेरस तु महासत्त्वान पान्दॊःपुत्रान महारथान आत्तकार्मुकनिस्त्रिंशान दृष्ट्वा परीतॊ ऽभवत तदा 31 ते पक्षिण इवॊत्पत्य गिरेः शृङ्गं महाजवाः तस्थुस तेषां समभ्याशे धनेश्वर पुरःसराः 32 ततस तं हृष्टमनसं पाण्डवान परति भारत समीक्ष्य यक्षगन्धर्वा निर्विकारा वयवस्थिताः 33 पाण्डवाश च महात्मानः परणम्य धनदं परभुम नकुलः सहदेवश च धर्मपुत्रश च धर्मवित 34 अपराधम इवात्मानं मन्यमाना महारथाः तस्थुः पराञ्जलयः सर्वे परिवार्य धनेश्वरम 35 शय्यासनवरं शरीमत पुष्पकं विश्वकर्मणा विहितं चित्रपर्यन्तम आतिष्ठत धनाधिपः 36 तम आसीनं महाकायाः शङ्कुकर्णा महाजवाः उपॊपविविशुर यक्षा राक्षसाश च सहस्रशः 37 शतशश चापि गन्धर्वास तथैवाप्सरसां गणाः परिवार्यॊपतिष्ठन्त यथा देवाः शतक्रतुम 38 काञ्चनीं शिरसा बिभ्रद भीमसेनः सरजं शुभाम बाणखड्गधनुष्पाणिर उदैक्षत धनाधिपम 39 न भीर भीमस्य न गलानिर विक्षतस्यापि राक्षसैः आसीत तस्याम अवस्थायां कुबेरम अपि पश्यतः 40 आददानं शितान बाणान यॊद्धुकामम अवस्थितम दृष्ट्वा भीमं धर्मसुतम अब्रवीन नरवाहनः 41 विदुस तवां सर्वभूतानि पार्थ भूतहिते रतम निर्भयश चापि शैलाग्रे वस तवं सह बन्धुभिः 42 न च मन्युस तवया कार्यॊ भीमसेनस्य पाण्डव कालेनैते हताः पूर्वं निमित्तम अनुजस तव 43 वरीषा चात्र न कर्तव्या साहसं यद इदं कृतम दृष्टश चापि सुरैः पूर्वं विनाशॊ यक्षराक्षसाम 44 न भीमसेने कॊपॊ मे परीतॊ ऽसमि भरतर्षभ कर्मणानेन भीमस्य मम तुष्टिर अभूत पुरा 45 एवम उक्त्वा तु राजानं भीमसेनम अभाषत नैतन मनसि मे तात वर्तते कुरुसत्तम यद इदं साहसं भीमकृष्णार्थे कृतवान असि 46 माम अनादृत्य देवांश च विनाशं यक्षरक्षसाम सवबाहुबलम आश्रित्य तेनाहं परीतिमांस तवयि शापाद अस्मि विनिर्मुक्तॊ घॊराद अद्य वृकॊदर 47 अहं पूर्वम अगस्त्येन करुद्धेन परमर्षिणा शप्तॊ ऽपराधे कस्मिंश चित तस्यैषा निष्कृतिः कृता 48 दृष्टॊ हि मम संक्लेशः पुरा पाण्डवनन्दन न तवात्रापराधॊ ऽसति कथं चिद अपि शत्रुहन 49 [य] कथं शप्तॊ ऽसि भगवन्न अगस्त्येन महात्मना शरॊतुम इच्छाम्य अहं देव तवैतच छापकारणम 50 इदं चाश्चर्य भूतं मे यत करॊधात तस्य धीमतः तवैव तवं न निर्दग्धः सबलः सपदानुगः 51 [वैष्र] देवतानाम अभून मन्त्रः कुशवत्यां नरेश्वर कृतस तत्राहम अगमं महापद्मशतैस तरिभिः यक्षाणां घॊररूपाणां विविधायुधधारिणाम 52 अध्वन्य अहम अथापश्यम अगस्त्यम ऋषिसत्तमम उग्रं तपस तपस्यन्तं यमुनातीरम आश्रितम नानापक्षिगणाकीर्णं पुष्पितद्रुमशॊभितम 53 तम ऊर्ध्वबाहुं दृष्ट्वा तु सूर्यस्याभिमुखं सथितम तेजॊराशिं दीप्यमानं हुताशनम इवैधितम 54 राक्षसाधिपतिः शरीमान मणिमान नाम मे सखा मौर्ख्याद अज्ञानभावाच च दर्पान मॊहाच च भारत नयष्ठीवद आकाशगतॊ महर्षेस तस्य मूर्धनि 55 स कॊपान माम उवाचेदं दिशः सर्वा दहन्न इव माम अवज्ञाय दुष्टात्मा यस्माद एष सखा तव 56 धर्षणां कृतवान एतां पश्यतस ते धनेश्वर तस्मात सहैभिः सैन्यैस ते वधं पराप्स्यति मानुषात 57 तवं चाप्य एभिर हतैः सैन्यैः कलेशं पराप्स्यसि दुर्मते तम एव मानुषं दृष्ट्वा किल्बिषाद विप्रमॊक्ष्यसे 58 सैन्यानां तु तवैतेषां पुत्रपौत्र बलान्वितम न शापं पराप्स्यते घॊरं गच्छ ते ऽऽजञां करिष्यति 59 एष शापॊ मया पराप्तः पराक्तस्माद ऋषिसत्तमात स भीमेन महाराज भरात्रा तव विमॊक्षितः |
1
[vai] śrutvā bahuvidhaiḥ śabdair nādyamānā gire guhāḥ ajātaśatruḥ kaunteyo mādrīputrāv ubhāv api 2 dhaumyaḥ kṛṣṇā ca viprāś ca sarve ca suhṛdas tathā bhīmasenam apaśyantaḥ sarve vimanaso 'bhavan 3 draupadīm ārṣṭiṣeṇāya pradāya tu mahārathāḥ sahitāḥ sāyudhāḥ śūrāḥ śailam āruruhus tadā 4 tataḥ saṃprāpya śailāgraṃ vīkṣamāṇā mahārathāḥ dadṛśus te maheṣvāsā bhīmasenam ariṃdamam 5 sphurataś ca mahākāyān gatasattvāṃś ca rākṣasān mahābalān mahāghorān bhīmasenena pātitān 6 śuśubhe sa mahābāhur gadākhaḍgadhanurdharaḥ nihatya samare sarvān dānavān maghavān iva 7 tatas te samatikramya pariṣvajya vṛkodaram tatropaviviśuḥ pārthāḥ prāptā gatim anuttamām 8 taiś caturbhir maheṣvāsair giriśṛṅgam aśobhata lokapālair mahābhāgair divaṃ devavarair iva 9 kubera sadanaṃ dṛṣṭvā rākṣasāṃś ca nipātitān bhrātā bhrātaram āsīnam abhyabhāṣata pāṇḍavam 10 sāhasād yadi vā mohād bhīma pāpam idaṃ kṛtam naitat te sadṛśaṃ vīra muner iva mṛṣā vacaḥ 11 rājadviṣṭaṃ na kartavyam iti dharmavido viduḥ tridaśānām idaṃ dviṣṭaṃ bhīmasena tvayā kṛtam 12 arthadharmāv anādṛtya yaḥ pāpe kurute manaḥ karmaṇāṃ pārtha pāpānāṃ saphalaṃ vindate dhruvam punar evaṃ na kartavyaṃ mama ced icchasi priyam 13 evam uktvā sa dharmātmā bhrātā bhrātaram acyutam arthatattvavighāgajñaḥ kuntīputro yudhiṣṭhiraḥ virarāma mahātejā tam evārthaṃ vicintayan 14 tatas tu hataśiṣṭā ye bhīmasenena rākṣasāḥ sahitāḥ pratyapadyanta kubera sadanaṃ prati 15 te javena mahāvegāḥ prāpya vaiśravaṇālayam bhīmam ārtasvaraṃ cakrur bhīmasenabhayārditāḥ 16 nyastaśastrāyudhāḥ śrāntāḥ śonitākta paricchadāḥ prakīrṇamūrdhajā rājan yakṣādhipatim abruvan 17 gadāparighanistriṃśa tomaraprāsayodhinaḥ rākṣasā nihatāḥ sarve tava devapuraḥsarāḥ 18 pramṛdya tarasā śailaṃ mānuṣeṇa dhaneśvara ekena sahitāḥ saṃkhye hatāḥ krodhavaśā gaṇāḥ 19 pravarā rakṣasendrāṇāṃ yakṣāṇāṃ ca dhanādhipa śerate nihatā deva gatasattvāḥ parāsavaḥ 20 labdhaḥ śailo vayaṃ muktāmaṇimāṃs te sakhā hataḥ mānuṣeṇa kṛtaṃ karma vidhatsva yad anantaram 21 sa tac chrutvā tu saṃkruddhaḥ sarvayakṣagaṇādhipaḥ kopasaṃrakta nayanaḥ katham ity abravīd vacaḥ 22 dvitīyam aparādhyantaṃ bhīmaṃ śrutvā dhaneśvaraḥ cukrodha yakṣādhipatir yujyatām iti cābravīt 23 athābhra dhanasaṃkāśaṃ girikūṭam ivocchritam hayaiḥ saṃyojayām āsur gāndharvair uttamaṃ ratham 24 tasya sarga guṇopetā vimalākṣā hayottamāḥ tejobalajavopetā nānāratnavibhūṣitāḥ 25 śobhamānā rathe yuktās tariṣyanta ivāśugāḥ harṣayām āsur anyonyam iṅgitair vijayāvahaiḥ 26 sa tam āsthāya bhagavān rājarājo mahāratham prayayau devagandharvaiḥ stūyamāno mahādyutiḥ 27 taṃ prayāntaṃ mahātmānaṃ sarvayakṣadhanādhipam raktākṣā hemasaṃkāśā mahākāyā mahābalāḥ 28 sāyudhā baddhanistriṃśā yakṣā daśaśatāyutāḥ javena mahatā vīrāḥ parivāryopatasthire 29 taṃ mahāntam upāyāntaṃ dhaneśvaram upāntike dadṛśur hṛṣṭaromāṇaḥ pāṇḍavāḥ priyadarśanam 30 kuberas tu mahāsattvān pāndoḥputrān mahārathān āttakārmukanistriṃśān dṛṣṭvā prīto 'bhavat tadā 31 te pakṣiṇa ivotpatya gireḥ śṛṅgaṃ mahājavāḥ tasthus teṣāṃ samabhyāśe dhaneśvara puraḥsarāḥ 32 tatas taṃ hṛṣṭamanasaṃ pāṇḍavān prati bhārata samīkṣya yakṣagandharvā nirvikārā vyavasthitāḥ 33 pāṇḍavāś ca mahātmānaḥ praṇamya dhanadaṃ prabhum nakulaḥ sahadevaś ca dharmaputraś ca dharmavit 34 aparādham ivātmānaṃ manyamānā mahārathāḥ tasthuḥ prāñjalayaḥ sarve parivārya dhaneśvaram 35 śayyāsanavaraṃ śrīmat puṣpakaṃ viśvakarmaṇā vihitaṃ citraparyantam ātiṣṭhata dhanādhipaḥ 36 tam āsīnaṃ mahākāyāḥ śaṅkukarṇā mahājavāḥ upopaviviśur yakṣā rākṣasāś ca sahasraśaḥ 37 śataśaś cāpi gandharvās tathaivāpsarasāṃ gaṇāḥ parivāryopatiṣṭhanta yathā devāḥ śatakratum 38 kāñcanīṃ śirasā bibhrad bhīmasenaḥ srajaṃ śubhām bāṇakhaḍgadhanuṣpāṇir udaikṣata dhanādhipam 39 na bhīr bhīmasya na glānir vikṣatasyāpi rākṣasaiḥ āsīt tasyām avasthāyāṃ kuberam api paśyataḥ 40 ādadānaṃ śitān bāṇān yoddhukāmam avasthitam dṛṣṭvā bhīmaṃ dharmasutam abravīn naravāhanaḥ 41 vidus tvāṃ sarvabhūtāni pārtha bhūtahite ratam nirbhayaś cāpi śailāgre vasa tvaṃ saha bandhubhiḥ 42 na ca manyus tvayā kāryo bhīmasenasya pāṇḍava kālenaite hatāḥ pūrvaṃ nimittam anujas tava 43 vrīṣā cātra na kartavyā sāhasaṃ yad idaṃ kṛtam dṛṣṭaś cāpi suraiḥ pūrvaṃ vināśo yakṣarākṣasām 44 na bhīmasene kopo me prīto 'smi bharatarṣabha karmaṇānena bhīmasya mama tuṣṭir abhūt purā 45 evam uktvā tu rājānaṃ bhīmasenam abhāṣata naitan manasi me tāta vartate kurusattama yad idaṃ sāhasaṃ bhīmakṛṣṇārthe kṛtavān asi 46 mām anādṛtya devāṃś ca vināśaṃ yakṣarakṣasām svabāhubalam āśritya tenāhaṃ prītimāṃs tvayi śāpād asmi vinirmukto ghorād adya vṛkodara 47 ahaṃ pūrvam agastyena kruddhena paramarṣiṇā śapto 'parādhe kasmiṃś cit tasyaiṣā niṣkṛtiḥ kṛtā 48 dṛṣṭo hi mama saṃkleśaḥ purā pāṇḍavanandana na tavātrāparādho 'sti kathaṃ cid api śatruhan 49 [y] kathaṃ śapto 'si bhagavann agastyena mahātmanā śrotum icchāmy ahaṃ deva tavaitac chāpakāraṇam 50 idaṃ cāścarya bhūtaṃ me yat krodhāt tasya dhīmataḥ tavaiva tvaṃ na nirdagdhaḥ sabalaḥ sapadānugaḥ 51 [vaiṣr] devatānām abhūn mantraḥ kuśavatyāṃ nareśvara kṛtas tatrāham agamaṃ mahāpadmaśatais tribhiḥ yakṣāṇāṃ ghorarūpāṇāṃ vividhāyudhadhāriṇām 52 adhvany aham athāpaśyam agastyam ṛṣisattamam ugraṃ tapas tapasyantaṃ yamunātīram āśritam nānāpakṣigaṇākīrṇaṃ puṣpitadrumaśobhitam 53 tam ūrdhvabāhuṃ dṛṣṭvā tu sūryasyābhimukhaṃ sthitam tejorāśiṃ dīpyamānaṃ hutāśanam ivaidhitam 54 rākṣasādhipatiḥ śrīmān maṇimān nāma me sakhā maurkhyād ajñānabhāvāc ca darpān mohāc ca bhārata nyaṣṭhīvad ākāśagato maharṣes tasya mūrdhani 55 sa kopān mām uvācedaṃ diśaḥ sarvā dahann iva mām avajñāya duṣṭātmā yasmād eṣa sakhā tava 56 dharṣaṇāṃ kṛtavān etāṃ paśyatas te dhaneśvara tasmāt sahaibhiḥ sainyais te vadhaṃ prāpsyati mānuṣāt 57 tvaṃ cāpy ebhir hataiḥ sainyaiḥ kleśaṃ prāpsyasi durmate tam eva mānuṣaṃ dṛṣṭvā kilbiṣād vipramokṣyase 58 sainyānāṃ tu tavaiteṣāṃ putrapautra balānvitam na śāpaṃ prāpsyate ghoraṃ gaccha te ''jñāṃ kariṣyati 59 eṣa śāpo mayā prāptaḥ prāktasmād ṛṣisattamāt sa bhīmena mahārāja bhrātrā tava vimokṣitaḥ |
The Mahabharata in Sanskrit
Book 3
Chapter 159
|
1
[वैष्र] युधिष्ठिर धृतिर दाक्ष्यं देशकालौ पराक्रमः लॊकतन्त्रविधानानाम एष पञ्चविधॊ विधिः 2 धृतिमन्तश च दक्षाश च सवे सवे कर्मणि भारत पराक्रमविधानज्ञा नराः कृतयुगे ऽभवन 3 धृतिमान देशकालज्ञः सर्वधर्मविधानवित कषत्रियः कषत्रिय शरेष्ठ पृथिवीम अनुशास्ति वै 4 य एवं वर्तते पार्थ पुरुषः सर्वकर्मसु स लॊके लभते वीर यशॊ परेत्य च सद्गतिम 5 देशकालान्तर परेप्सुः कृत्वा शक्रः पराक्रमम संप्राप्तस तरिदिवे राज्यं वृत्रहा वसुभिः सह 6 पापात्मा पापबुद्धिर यः पापम एवानुवर्तते कर्मणाम अविभागज्ञः परेत्य चेह च नश्यति 7 अकालज्ञः सुदुर्मेधाः कार्याणाम अविशेषवित वृथाचार समारम्भः परेत्य चेह च नश्यति 8 साहसे वर्तमानानां निकृतीनां दुरात्मनाम सर्वसामर्थ्य लिप्सूनां पापॊ भवति निश्चयः 9 अधर्मज्ञॊ ऽवलिप्तश च बाल बुद्धिर अमर्षणः निर्भयॊ भीमसेनॊ ऽयं तं शाधि पुरुषर्षभ 10 आर्ष्टिषेणस्य राजर्षेः पराप्य भूयस तवम आश्रमम तामिस्रं परथमं पक्षं वीतशॊकभयॊ वस 11 अलकाः सह गन्धर्वैर यक्षैश च सह राक्षसैः मन नियुक्ता मनुष्येन्द्र सर्वे च गिरिवासिनः रक्षन्तु तवा महाबाहॊ सहितं दविजसत्तमैः 12 साहसेषु च संतिष्ठन्न इह शैले वृकॊदरः वार्यतां साध्व अयं राजंस तवया धर्मभृतां वर 13 इतः परं च राजेन्द्र दरक्ष्यन्ति वनगॊचराः उपस्थास्यन्ति च सदा रक्षिष्यन्ति च सर्वशः 14 तथैव चान्न पानानि सवादूनि च बहूनि च उपस्थास्यन्ति वॊ गृह्य मत परेष्याः पुरुषर्षभ 15 यथा जिष्णुर महेन्द्रस्य यथा वायॊर वृकॊदरः धर्मस्य तवं यथा तात यॊगॊत्पन्नॊ निजः सुतः 16 आत्मजाव आत्मसंपन्नौ यमौ चॊभौ यथाश्विनॊः रक्ष्यास तद्वन ममापीह यूयं सर्वे युधिष्ठिर 17 अर्थतत्त्वविभागज्ञः सर्वधर्मविशेषवित भीमसेनाद अवरजः फल्गुनः कुशली दिवि 18 याः काश चन मता लॊकेष्व अग्र्याः परमसंपदः जन्मप्रभृति ताः सर्वाः सथितास तात धनंजये 19 दमॊ दानं बलं बुद्धिर हरीर धृतिर तेज उत्तमम एतान्य अपि महासत्त्वे सथितान्य अमिततेजसि 20 न मॊहात कुरुते जिष्णुः कर्म पाण्डव गर्हितम न पार्थस्य मृषॊक्तानि कथयन्ति नरा नृषु 21 स देव पितृगन्धर्वैः कुरूणां कीर्तिवर्धनः मानितः कुरुते ऽसत्राणि शक्र सद्मनि भारत 22 यॊ ऽसौ सर्वान महीपालान धर्मेण वशम आनयत स शंतनुर महातेजा पितुस तव पितामहः परीयते पार्थ पार्थेन दिवि गाण्डीवधन्वना 23 सम्यक चासौ महावीर्यः कुलधुर्य इव सथितः पितॄन देवांस तथा विप्रान पूजयित्वा महायशः सप्त मुख्यान महामेधान आहरद यमुनां परति 24 अधिराजः स राजंस तवां शंतनुः परपितामहः सवर्गजिच छक्र लॊकस्थः कुशलं परिपृच्छति 25 [वै] ततः शक्तिं गदां खड्गं धनुश च भरतर्षभ पराध्वं कृत्वा नमश चक्रे कुबेराय वृकॊदरः 26 ततॊ ऽबरवीद धनाध्यक्षः शरण्यः शरणागतम मानहा भव शत्रूणां सुहृदां नन्दिवर्धनः 27 सवेषु वेश्मसु रम्येषु वसतामित्र तापनाः कामान उपहरिष्यन्ति यक्षा वॊ भरतर्षभाः 28 शीघ्रम एव गुडाकेशः कृतास्त्रः पुरुषर्षभः साक्षान मघवता सृष्टः संप्राप्स्यति धनंजयः 29 एवम उत्तमकर्माणम अनुशिष्य युधिष्ठिरम अस्तं गिरिवरश्रेष्ठं परययौ गुह्यकाधिपः 30 तं परिस्तॊम संकीर्णैर नानारत्नविभूषितैः यानैर अनुययुर यक्षा राक्षसाश च सहस्रशः 31 पक्षिणाम इव निर्घॊषः कुबेर सदनं परति बभूव परमाश्वानाम ऐरावत पथे यताम 32 ते जग्मुस तूर्णम आकाशं धनाधिपति वाजिनः परकर्षन्त इवाभ्राणि पिबन्त इव मारुतम 33 ततस तानि शरीराणि गतसत्त्वानि रक्षसाम अपाकृष्यन्त शैलाग्राद धनाधिपति शासनात 34 तेषां हि शापकालॊ ऽसौ कृतॊ ऽगस्त्येन धीमता समरे निहतास तस्मात सर्वे मणिमता सह 35 पाण्डवास तु महात्मानस तेषु वेश्मसु तां कषपाम सुखम ऊषुर गतॊद्वेगाः पूजिताः सर्वराक्षसैः |
1
[vaiṣr] yudhiṣṭhira dhṛtir dākṣyaṃ deśakālau parākramaḥ lokatantravidhānānām eṣa pañcavidho vidhiḥ 2 dhṛtimantaś ca dakṣāś ca sve sve karmaṇi bhārata parākramavidhānajñā narāḥ kṛtayuge 'bhavan 3 dhṛtimān deśakālajñaḥ sarvadharmavidhānavit kṣatriyaḥ kṣatriya śreṣṭha pṛthivīm anuśāsti vai 4 ya evaṃ vartate pārtha puruṣaḥ sarvakarmasu sa loke labhate vīra yaśo pretya ca sadgatim 5 deśakālāntara prepsuḥ kṛtvā śakraḥ parākramam saṃprāptas tridive rājyaṃ vṛtrahā vasubhiḥ saha 6 pāpātmā pāpabuddhir yaḥ pāpam evānuvartate karmaṇām avibhāgajñaḥ pretya ceha ca naśyati 7 akālajñaḥ sudurmedhāḥ kāryāṇām aviśeṣavit vṛthācāra samārambhaḥ pretya ceha ca naśyati 8 sāhase vartamānānāṃ nikṛtīnāṃ durātmanām sarvasāmarthya lipsūnāṃ pāpo bhavati niścayaḥ 9 adharmajño 'valiptaś ca bāla buddhir amarṣaṇaḥ nirbhayo bhīmaseno 'yaṃ taṃ śādhi puruṣarṣabha 10 ārṣṭiṣeṇasya rājarṣeḥ prāpya bhūyas tvam āśramam tāmisraṃ prathamaṃ pakṣaṃ vītaśokabhayo vasa 11 alakāḥ saha gandharvair yakṣaiś ca saha rākṣasaiḥ man niyuktā manuṣyendra sarve ca girivāsinaḥ rakṣantu tvā mahābāho sahitaṃ dvijasattamaiḥ 12 sāhaseṣu ca saṃtiṣṭhann iha śaile vṛkodaraḥ vāryatāṃ sādhv ayaṃ rājaṃs tvayā dharmabhṛtāṃ vara 13 itaḥ paraṃ ca rājendra drakṣyanti vanagocarāḥ upasthāsyanti ca sadā rakṣiṣyanti ca sarvaśaḥ 14 tathaiva cānna pānāni svādūni ca bahūni ca upasthāsyanti vo gṛhya mat preṣyāḥ puruṣarṣabha 15 yathā jiṣṇur mahendrasya yathā vāyor vṛkodaraḥ dharmasya tvaṃ yathā tāta yogotpanno nijaḥ sutaḥ 16 ātmajāv ātmasaṃpannau yamau cobhau yathāśvinoḥ rakṣyās tadvan mamāpīha yūyaṃ sarve yudhiṣṭhira 17 arthatattvavibhāgajñaḥ sarvadharmaviśeṣavit bhīmasenād avarajaḥ phalgunaḥ kuśalī divi 18 yāḥ kāś cana matā lokeṣv agryāḥ paramasaṃpadaḥ janmaprabhṛti tāḥ sarvāḥ sthitās tāta dhanaṃjaye 19 damo dānaṃ balaṃ buddhir hrīr dhṛtir teja uttamam etāny api mahāsattve sthitāny amitatejasi 20 na mohāt kurute jiṣṇuḥ karma pāṇḍava garhitam na pārthasya mṛṣoktāni kathayanti narā nṛṣu 21 sa deva pitṛgandharvaiḥ kurūṇāṃ kīrtivardhanaḥ mānitaḥ kurute 'strāṇi śakra sadmani bhārata 22 yo 'sau sarvān mahīpālān dharmeṇa vaśam ānayat sa śaṃtanur mahātejā pitus tava pitāmahaḥ prīyate pārtha pārthena divi gāṇḍīvadhanvanā 23 samyak cāsau mahāvīryaḥ kuladhurya iva sthitaḥ pitṝn devāṃs tathā viprān pūjayitvā mahāyaśaḥ sapta mukhyān mahāmedhān āharad yamunāṃ prati 24 adhirājaḥ sa rājaṃs tvāṃ śaṃtanuḥ prapitāmahaḥ svargajic chakra lokasthaḥ kuśalaṃ paripṛcchati 25 [vai] tataḥ śaktiṃ gadāṃ khaḍgaṃ dhanuś ca bharatarṣabha prādhvaṃ kṛtvā namaś cakre kuberāya vṛkodaraḥ 26 tato 'bravīd dhanādhyakṣaḥ śaraṇyaḥ śaraṇāgatam mānahā bhava śatrūṇāṃ suhṛdāṃ nandivardhanaḥ 27 sveṣu veśmasu ramyeṣu vasatāmitra tāpanāḥ kāmān upahariṣyanti yakṣā vo bharatarṣabhāḥ 28 śīghram eva guḍākeśaḥ kṛtāstraḥ puruṣarṣabhaḥ sākṣān maghavatā sṛṣṭaḥ saṃprāpsyati dhanaṃjayaḥ 29 evam uttamakarmāṇam anuśiṣya yudhiṣṭhiram astaṃ girivaraśreṣṭhaṃ prayayau guhyakādhipaḥ 30 taṃ paristoma saṃkīrṇair nānāratnavibhūṣitaiḥ yānair anuyayur yakṣā rākṣasāś ca sahasraśaḥ 31 pakṣiṇām iva nirghoṣaḥ kubera sadanaṃ prati babhūva paramāśvānām airāvata pathe yatām 32 te jagmus tūrṇam ākāśaṃ dhanādhipati vājinaḥ prakarṣanta ivābhrāṇi pibanta iva mārutam 33 tatas tāni śarīrāṇi gatasattvāni rakṣasām apākṛṣyanta śailāgrād dhanādhipati śāsanāt 34 teṣāṃ hi śāpakālo 'sau kṛto 'gastyena dhīmatā samare nihatās tasmāt sarve maṇimatā saha 35 pāṇḍavās tu mahātmānas teṣu veśmasu tāṃ kṣapām sukham ūṣur gatodvegāḥ pūjitāḥ sarvarākṣasaiḥ |
The Mahabharata in Sanskrit
Book 3
Chapter 160
|
1
[वै] ततः सूर्यॊदये धौम्यः कृत्वाह्निकम अरिंदम आर्ष्टिषेणेन सहितः पाण्डवान अभ्यवर्तत 2 ते ऽभिवाद्यार्ष्टिषेणस्य पादौ धौम्यस्य चैव ह ततः पराञ्जलयः सर्वे बराह्मणांस तान अपूजयन 3 ततॊ युधिष्ठिरं दौम्यॊ गृहीत्वा दक्षिणे करे पराचीं दिशम अभिप्रेक्ष्य महर्षिर इदम अब्रवीत 4 असौ सागरपर्यन्तां भूमिम आवृत्य तिष्ठति शैर राजॊ महाराज मन्दरॊ ऽभिविराजते 5 इन्द्र वैश्रवणाव एतां दिशं पाण्डव रक्षतः पर्वतैश च वनान्तैश च कानकैश चॊपशॊभिताम 6 एतद आहुर महेन्द्रस्य राज्ञॊ वैश्वरणस्य च ऋशयः सर्वधर्मज्ञाः सद्म तात मनीषिणः 7 अतश चॊद्यन्तम आदित्यम उपतिष्ठन्ति वै परजाः ऋषयश चापि धर्मज्ञाः सिद्धाः साध्याश च देवताः 8 यमस तु राजा धर्मात्मा सर्वप्राणभृतां परभुः परेतसत्त्वगतीम एतां दक्षिणाम आश्रितॊ दिशम 9 एतत संयमनं पुण्यम अतीवाद्भुत दर्शनम परेतराजस्य भवनम ऋद्ध्या परमया युतम 10 यं पराप्य सविता राजन सत्येन परतितिष्ठति अस्तं पर्वतराजानम एतम आहुर मनीषिणः 11 एतं पर्वतराजानं समुद्रं च महॊदधिम आवसन वरुणॊ राजा भूतानि परिरक्षति 12 उदीचीं दीपयन्न एष दिशं तिष्ठति कीर्तिमान महामेरुर महाभाग शिवॊ बरह्मविदां गतिः 13 यस्मिन बरह्म सदॊ चैव तिष्ठते च परजापतिः भूतात्मा विसृजन सर्वं यत किं चिज जङ्गमागमम 14 यान आहुर बरह्मणः पुत्रान मानसान दक्ष सप्तमान तेषाम अपि महामेरुः सथानं शिवम अनामयम 15 अत्रैव परतितिष्ठन्ति पुनर अत्रॊदयन्ति च सप्त देवर्षयस तात वसिष्ठप्रमुखाः सदा 16 देशं विरजसं पश्य मेरॊर शिखरम उत्तमम यत्रात्म तृप्तैर अध्यास्ते देवैः सह पितामहः 17 यम आहुः सर्वभूतानां परकृतेः परकृतिं धरुवम अनादि निधनं देवं परभुं नारायणं परम 18 बरह्मणः सदनात तस्य परं सथानं परकाशते देवाश च यत्नात पश्यन्ति दिव्यं तेजॊमयं शिवम 19 अत्यर्कानल दीप्तं तत सथानं विष्णॊर महात्मनः सवयैव परभया राजन दुष्प्रेक्ष्यं देवदानवैः 20 तद वै जयॊतींषि सर्वाणि पराप्य भासन्ति नॊ ऽपि च सवयं विभुर अदीनात्मा तत्र हय अभिविराजते 21 यतयस तत्र गच्छन्ति भक्त्या नारायणं हरिम परेण तपसा युक्ता भाविताः कर्मभिः शुभैः 22 यॊगसिद्धा महात्मानस तमॊ मॊहविवर्जिताः तत्र गत्वा पुनर नेमं लॊकम आयान्ति भारत 23 सथानम एतन महाभाग धरुवम अक्षयम अव्ययम ईष्वरस्य सदा हय एतत परणमात्र युधिष्ठिर 24 एतं जयॊतींषि सर्वाणि परकर्षन भगवान अपि कुरुते वितमः कर्मा आदित्यॊ ऽभिप्रदक्षिणम 25 अस्तं पराप्य ततः संध्याम अतिक्रम्य दिवाकरः उदीचीं भजते काष्ठां दिशम एष विभावसुः 26 स मेरुम अनुवृत्तः सन पुनर गच्छति पाण्डव परान्न्मुखः सविता देवः सर्वभूतहिते रतः 27 स मासं विभजन कालं बहुधा पर्व संधिषु तथैव भगवान सॊमॊ नक्षत्रैः सह गच्छति 28 एवम एव परिक्रम्य महामेरुम अतन्द्रितः भावयन सर्वभूतानि पुनर गच्छति मन्दरम 29 तथा तमिस्रहा देवॊ मयूखैर भावयञ जगत मार्गम एतद असंबाधम आदित्यः परिवर्तते 30 सिसृक्षुः शिशिराण्य एष दक्षिणां भजते दिशम ततः सर्वाणि भूतानि कालः शिशिरम ऋच्छति 31 सथावराणां च भूतानां जङ्गमानां च तेजसा तेजांसि समुपादत्ते निवृत्तः सन विभावसुः 32 ततः सवेदः कलमस तन्द्री गलानिश च भजते नरान पराणिभिः सततं सवप्नॊ हय अभीक्ष्णं च निषेव्यते 33 एवम एतद अनिर्देश्यं मार्गम आवृत्य भानुमान पुनः सृजति वर्षाणि भगवान भावयन परजाः 34 वृष्टिं मारुत संतापैः सुखैः सथावरजङ्गमान वर्धयन सुमहातेजा पुनः परतिनिवर्तते 35 एवम एष चरन पार्थ कालचक्रम अतन्द्रितः परकर्षन सर्वभूतानि सविता परिवर्तते 36 संतता गतिर एतस्य नैष तिष्ठति पाण्डव आदायैव तु भूतानां तेजॊ विसृजते पुनः 37 विभजन सर्वभूतानाम आयुः कर्म च भारत अहॊरात्रान कलाः काष्ठाः सृजत्य एष सदा विभुः |
1
[vai] tataḥ sūryodaye dhaumyaḥ kṛtvāhnikam ariṃdama ārṣṭiṣeṇena sahitaḥ pāṇḍavān abhyavartata 2 te 'bhivādyārṣṭiṣeṇasya pādau dhaumyasya caiva ha tataḥ prāñjalayaḥ sarve brāhmaṇāṃs tān apūjayan 3 tato yudhiṣṭhiraṃ daumyo gṛhītvā dakṣiṇe kare prācīṃ diśam abhiprekṣya maharṣir idam abravīt 4 asau sāgaraparyantāṃ bhūmim āvṛtya tiṣṭhati śaira rājo mahārāja mandaro 'bhivirājate 5 indra vaiśravaṇāv etāṃ diśaṃ pāṇḍava rakṣataḥ parvataiś ca vanāntaiś ca kānakaiś copaśobhitām 6 etad āhur mahendrasya rājño vaiśvaraṇasya ca ṛśayaḥ sarvadharmajñāḥ sadma tāta manīṣiṇaḥ 7 ataś codyantam ādityam upatiṣṭhanti vai prajāḥ ṛṣayaś cāpi dharmajñāḥ siddhāḥ sādhyāś ca devatāḥ 8 yamas tu rājā dharmātmā sarvaprāṇabhṛtāṃ prabhuḥ pretasattvagatīm etāṃ dakṣiṇām āśrito diśam 9 etat saṃyamanaṃ puṇyam atīvādbhuta darśanam pretarājasya bhavanam ṛddhyā paramayā yutam 10 yaṃ prāpya savitā rājan satyena pratitiṣṭhati astaṃ parvatarājānam etam āhur manīṣiṇaḥ 11 etaṃ parvatarājānaṃ samudraṃ ca mahodadhim āvasan varuṇo rājā bhūtāni parirakṣati 12 udīcīṃ dīpayann eṣa diśaṃ tiṣṭhati kīrtimān mahāmerur mahābhāga śivo brahmavidāṃ gatiḥ 13 yasmin brahma sado caiva tiṣṭhate ca prajāpatiḥ bhūtātmā visṛjan sarvaṃ yat kiṃ cij jaṅgamāgamam 14 yān āhur brahmaṇaḥ putrān mānasān dakṣa saptamān teṣām api mahāmeruḥ sthānaṃ śivam anāmayam 15 atraiva pratitiṣṭhanti punar atrodayanti ca sapta devarṣayas tāta vasiṣṭhapramukhāḥ sadā 16 deśaṃ virajasaṃ paśya meror śikharam uttamam yatrātma tṛptair adhyāste devaiḥ saha pitāmahaḥ 17 yam āhuḥ sarvabhūtānāṃ prakṛteḥ prakṛtiṃ dhruvam anādi nidhanaṃ devaṃ prabhuṃ nārāyaṇaṃ param 18 brahmaṇaḥ sadanāt tasya paraṃ sthānaṃ prakāśate devāś ca yatnāt paśyanti divyaṃ tejomayaṃ śivam 19 atyarkānala dīptaṃ tat sthānaṃ viṣṇor mahātmanaḥ svayaiva prabhayā rājan duṣprekṣyaṃ devadānavaiḥ 20 tad vai jyotīṃṣi sarvāṇi prāpya bhāsanti no 'pi ca svayaṃ vibhur adīnātmā tatra hy abhivirājate 21 yatayas tatra gacchanti bhaktyā nārāyaṇaṃ harim pareṇa tapasā yuktā bhāvitāḥ karmabhiḥ śubhaiḥ 22 yogasiddhā mahātmānas tamo mohavivarjitāḥ tatra gatvā punar nemaṃ lokam āyānti bhārata 23 sthānam etan mahābhāga dhruvam akṣayam avyayam īṣvarasya sadā hy etat praṇamātra yudhiṣṭhira 24 etaṃ jyotīṃṣi sarvāṇi prakarṣan bhagavān api kurute vitamaḥ karmā ādityo 'bhipradakṣiṇam 25 astaṃ prāpya tataḥ saṃdhyām atikramya divākaraḥ udīcīṃ bhajate kāṣṭhāṃ diśam eṣa vibhāvasuḥ 26 sa merum anuvṛttaḥ san punar gacchati pāṇḍava prānnmukhaḥ savitā devaḥ sarvabhūtahite rataḥ 27 sa māsaṃ vibhajan kālaṃ bahudhā parva saṃdhiṣu tathaiva bhagavān somo nakṣatraiḥ saha gacchati 28 evam eva parikramya mahāmerum atandritaḥ bhāvayan sarvabhūtāni punar gacchati mandaram 29 tathā tamisrahā devo mayūkhair bhāvayañ jagat mārgam etad asaṃbādham ādityaḥ parivartate 30 sisṛkṣuḥ śiśirāṇy eṣa dakṣiṇāṃ bhajate diśam tataḥ sarvāṇi bhūtāni kālaḥ śiśiram ṛcchati 31 sthāvarāṇāṃ ca bhūtānāṃ jaṅgamānāṃ ca tejasā tejāṃsi samupādatte nivṛttaḥ san vibhāvasuḥ 32 tataḥ svedaḥ klamas tandrī glāniś ca bhajate narān prāṇibhiḥ satataṃ svapno hy abhīkṣṇaṃ ca niṣevyate 33 evam etad anirdeśyaṃ mārgam āvṛtya bhānumān punaḥ sṛjati varṣāṇi bhagavān bhāvayan prajāḥ 34 vṛṣṭiṃ māruta saṃtāpaiḥ sukhaiḥ sthāvarajaṅgamān vardhayan sumahātejā punaḥ pratinivartate 35 evam eṣa caran pārtha kālacakram atandritaḥ prakarṣan sarvabhūtāni savitā parivartate 36 saṃtatā gatir etasya naiṣa tiṣṭhati pāṇḍava ādāyaiva tu bhūtānāṃ tejo visṛjate punaḥ 37 vibhajan sarvabhūtānām āyuḥ karma ca bhārata ahorātrān kalāḥ kāṣṭhāḥ sṛjaty eṣa sadā vibhuḥ |
The Mahabharata in Sanskrit
Book 3
Chapter 161
|
1
[वै] तस्मिन नगेन्द्रे वसतां तु तेषां; महात्मनां सद वरतम आस्थितानाम रतिः परमॊदश च बभूव तेषाम; आकाङ्क्षतां दर्शनम अर्जुनस्य 2 तान वीर्ययुक्तान सुविशुद्धसत्त्वांस; तेजस्विनः सत्यघृति परधानान संप्रीयमाणा बहवॊ ऽभिजग्मुर; गन्धर्वसंघाश च महर्षयश च 3 तं पादपैः पुष्पधरैर उपेतं; नगॊत्तमं पराप्य महारथानाम मनःप्रसादः परमॊ बभूव; यथा दिवं पराप्य मरुद्गणानाम 4 मयूरहंसस्वननादितानि; पुष्पॊपकीर्णानि महाचलस्य शृङ्गाणि सानूनि च पश्यमाना; गिरेः परं हर्षम अवाप्य तस्थुः 5 साक्षात कुबेरेण कृताश च तस्मिन; नगॊत्तमे संवृतकूलरॊधसः कादम्ब कारण्डवहंसजुष्टाः; पद्माकुलाः पुष्करिणीर अपश्यन 6 करीदा परदेशांश च समृद्धरूपान; सुचित्र माल्यावृत जातशॊभान मणिप्रवेकान सुमनॊहरांश च; यथा भवेयुर धनदस्य राज्ञः 7 अनेकवर्णैश च सुगन्धिभिश च; महाद्रुमैः संततम अभ्रमालिभिः तपः परधानाः सततं चरन्तः; शृङ्गं गिरेश चिन्तयितुं न शेकुः 8 सवतेजसा तस्य गतॊत्तमस्य; महौषधीनां च तथा परभावात विभक्तभावॊ न बभूव कश चिद; अहर निशानां पुरुषप्रवीर 9 यम आस्थितः सथावरजङ्गमानि; विभावसुर भावयते ऽमितौजः तस्यॊदयं चास्तमयं च वीरास; तत्र सथितास ते ददृशुर नृसिंहाः 10 रवे तमिस्रागम निर्गमांस ते; तथॊदयं चास्तमयं च वीराः समावृताः परेक्ष्य तमॊनुदस्य; गभस्तिजालैः परदिशॊ दिशश च 11 सवाध्यायवन्तः सततक्रियाश च; धर्मप्रधानाश च शुचिव्रताश च सत्ये सथितास तस्य महारथस्य; सत्यव्रतस्यागमन परतीक्षाः 12 इहैव हर्षॊ ऽसतु समागतानां; कषिप्रं कृतास्त्रेण धनंजयेन इति बरुवन्तः परमाशिषस ते; पार्थास तपॊयॊगपरा बभूवुः 13 दृष्ट्वा विचित्राणि गिरौ वनानि; किरीटिनं चिन्तयताम अभीक्ष्णम बभूव रात्रिर दिवसश च तेषां; संवत्सरेणैव समानरूपः 14 यदैव दौम्यानुमते महात्मा; कृत्वा जटाः परव्रजितः स जिष्णुः तदैव तेषां न बभूव हर्षः; कुतॊ रतिस तद्गतमानसानाम 15 भरातुर नियॊगात तु युधिष्ठिरस्य; वनाद असौ वारणमत्तगामी यत काम्यकात परव्रजितः स जिष्णुस; तदैव ते शॊकहता बभूवुः 16 तथा तु तं चिन्तयतां सिताश्वम; अस्त्रार्थिनं वासवम अभ्युपेतम मासॊ ऽथ कृच्छ्रेण तदा वयतीतस; तस्मिन नगे भारत भारतानाम 17 ततः कदाचिद धरि संप्रयुक्तं; महेन्द्र वाहं सहसॊपयातम विद्युत्प्रभं परेक्ष्य महारथानां; हर्षॊ ऽरजुनं चिन्तयतां बभूव 18 स दीप्यमानः सहसान्तरिक्षं; परकाशयन मातलिसंगृहीतः बभौ महॊल्केव घनान्तरस्था; शिखेव चाग्नेर जवलिता विधूमा 19 तम आस्थितः संददृशे किरीटी; सरग्वी वराण्य आभरणानि बिभ्रत धनंजयॊ वर्ज धरप्रभावः; शरिया जवलन पर्वतम आजगाम 20 स शैलम आसाद्य किरीटमाली; महेन्द्र वाहाद अवरुह्य तस्मात धौम्यस्य पादाव अभिवाद्य पूर्वम; अजातशत्रॊस तदनन्तरं च 21 कृकॊदरस्यापि ववन्द पादौ; माद्री सुताभ्याम अभिवादितश च समेत्य कृष्णां परिसान्त्व्य चैनां; परह्वॊ ऽभवद भरातुर उपह्वरे सः 22 बभूव तेषां परमः परहर्षस; तेनाप्रमेयेण समागतानाम स चापि तान परेक्ष्य किरीटमाली; ननन्द राजानम अभिप्रशंसन 23 यम आस्थितः सप्त जघान पूगान; दितेः सुतानां नमुचेर निहन्ता तम इन्द्र वाहं समुपेत्य पार्थाः; परदक्षिणं चक्रुर अदीनसत्त्वाः 24 ते मालतेश चक्रुर अतीव हृष्टाः; सत्कारम अग्र्यं सुरराजतुल्यम सर्वं यथावच च दिवौकसस तान; पप्रच्छुर एनं कुरुराजपुत्राः 25 तान अप्य असौ मातलिर अभ्यनन्दत; पितेव पुत्रान अनुशिष्य चैनान ययौ रथेनाप्रतिम परभेण; पुनः सकाशं तरिदिवेश्वरस्य 26 गते तु तस्मिन वरदेव वाहे; शक्रात्मजः सर्वरिपुप्रमाथी शक्रेण दत्तानि ददौ महात्मा; महाधनान्य उत्तमरूपवन्ति दिवाकराभाणि विभूषणानि; परीतः परियायै सुत सॊममात्रे 27 ततः स तेषां कुरुपुंगवानां; तेषां च सूर्याग्निसमप्रभाणाम विप्रर्षभाणाम उपविश्य मध्ये; सर्वं यथावत कथयां बभूव 28 एवं मयास्त्राण्य उपशिक्षितानि; शक्राच च वाताच च शिवाच च साक्षात तथैव शीलेन समाधिना च; परीताः सुरा मे सहिताः सहेन्द्राः 29 संक्षेपतॊ वै स विशुद्धकर्मा; तेभ्यः समाख्याय दिवि परवेशम माद्री सुताभ्यां सहितः किरीटी; सुष्वाप ताम आवसतिं परतीतः |
1
[vai] tasmin nagendre vasatāṃ tu teṣāṃ; mahātmanāṃ sad vratam āsthitānām ratiḥ pramodaś ca babhūva teṣām; ākāṅkṣatāṃ darśanam arjunasya 2 tān vīryayuktān suviśuddhasattvāṃs; tejasvinaḥ satyaghṛti pradhānān saṃprīyamāṇā bahavo 'bhijagmur; gandharvasaṃghāś ca maharṣayaś ca 3 taṃ pādapaiḥ puṣpadharair upetaṃ; nagottamaṃ prāpya mahārathānām manaḥprasādaḥ paramo babhūva; yathā divaṃ prāpya marudgaṇānām 4 mayūrahaṃsasvananāditāni; puṣpopakīrṇāni mahācalasya śṛṅgāṇi sānūni ca paśyamānā; gireḥ paraṃ harṣam avāpya tasthuḥ 5 sākṣāt kubereṇa kṛtāś ca tasmin; nagottame saṃvṛtakūlarodhasaḥ kādamba kāraṇḍavahaṃsajuṣṭāḥ; padmākulāḥ puṣkariṇīr apaśyan 6 krīdā pradeśāṃś ca samṛddharūpān; sucitra mālyāvṛta jātaśobhān maṇipravekān sumanoharāṃś ca; yathā bhaveyur dhanadasya rājñaḥ 7 anekavarṇaiś ca sugandhibhiś ca; mahādrumaiḥ saṃtatam abhramālibhiḥ tapaḥ pradhānāḥ satataṃ carantaḥ; śṛṅgaṃ gireś cintayituṃ na śekuḥ 8 svatejasā tasya gatottamasya; mahauṣadhīnāṃ ca tathā prabhāvāt vibhaktabhāvo na babhūva kaś cid; ahar niśānāṃ puruṣapravīra 9 yam āsthitaḥ sthāvarajaṅgamāni; vibhāvasur bhāvayate 'mitaujaḥ tasyodayaṃ cāstamayaṃ ca vīrās; tatra sthitās te dadṛśur nṛsiṃhāḥ 10 rave tamisrāgama nirgamāṃs te; tathodayaṃ cāstamayaṃ ca vīrāḥ samāvṛtāḥ prekṣya tamonudasya; gabhastijālaiḥ pradiśo diśaś ca 11 svādhyāyavantaḥ satatakriyāś ca; dharmapradhānāś ca śucivratāś ca satye sthitās tasya mahārathasya; satyavratasyāgamana pratīkṣāḥ 12 ihaiva harṣo 'stu samāgatānāṃ; kṣipraṃ kṛtāstreṇa dhanaṃjayena iti bruvantaḥ paramāśiṣas te; pārthās tapoyogaparā babhūvuḥ 13 dṛṣṭvā vicitrāṇi girau vanāni; kirīṭinaṃ cintayatām abhīkṣṇam babhūva rātrir divasaś ca teṣāṃ; saṃvatsareṇaiva samānarūpaḥ 14 yadaiva daumyānumate mahātmā; kṛtvā jaṭāḥ pravrajitaḥ sa jiṣṇuḥ tadaiva teṣāṃ na babhūva harṣaḥ; kuto ratis tadgatamānasānām 15 bhrātur niyogāt tu yudhiṣṭhirasya; vanād asau vāraṇamattagāmī yat kāmyakāt pravrajitaḥ sa jiṣṇus; tadaiva te śokahatā babhūvuḥ 16 tathā tu taṃ cintayatāṃ sitāśvam; astrārthinaṃ vāsavam abhyupetam māso 'tha kṛcchreṇa tadā vyatītas; tasmin nage bhārata bhāratānām 17 tataḥ kadācid dhari saṃprayuktaṃ; mahendra vāhaṃ sahasopayātam vidyutprabhaṃ prekṣya mahārathānāṃ; harṣo 'rjunaṃ cintayatāṃ babhūva 18 sa dīpyamānaḥ sahasāntarikṣaṃ; prakāśayan mātalisaṃgṛhītaḥ babhau maholkeva ghanāntarasthā; śikheva cāgner jvalitā vidhūmā 19 tam āsthitaḥ saṃdadṛśe kirīṭī; sragvī varāṇy ābharaṇāni bibhrat dhanaṃjayo varja dharaprabhāvaḥ; śriyā jvalan parvatam ājagāma 20 sa śailam āsādya kirīṭamālī; mahendra vāhād avaruhya tasmāt dhaumyasya pādāv abhivādya pūrvam; ajātaśatros tadanantaraṃ ca 21 kṛkodarasyāpi vavanda pādau; mādrī sutābhyām abhivāditaś ca sametya kṛṣṇāṃ parisāntvya caināṃ; prahvo 'bhavad bhrātur upahvare saḥ 22 babhūva teṣāṃ paramaḥ praharṣas; tenāprameyeṇa samāgatānām sa cāpi tān prekṣya kirīṭamālī; nananda rājānam abhipraśaṃsan 23 yam āsthitaḥ sapta jaghāna pūgān; diteḥ sutānāṃ namucer nihantā tam indra vāhaṃ samupetya pārthāḥ; pradakṣiṇaṃ cakrur adīnasattvāḥ 24 te mālateś cakrur atīva hṛṣṭāḥ; satkāram agryaṃ surarājatulyam sarvaṃ yathāvac ca divaukasas tān; papracchur enaṃ kururājaputrāḥ 25 tān apy asau mātalir abhyanandat; piteva putrān anuśiṣya cainān yayau rathenāpratima prabheṇa; punaḥ sakāśaṃ tridiveśvarasya 26 gate tu tasmin varadeva vāhe; śakrātmajaḥ sarvaripupramāthī śakreṇa dattāni dadau mahātmā; mahādhanāny uttamarūpavanti divākarābhāṇi vibhūṣaṇāni; prītaḥ priyāyai suta somamātre 27 tataḥ sa teṣāṃ kurupuṃgavānāṃ; teṣāṃ ca sūryāgnisamaprabhāṇām viprarṣabhāṇām upaviśya madhye; sarvaṃ yathāvat kathayāṃ babhūva 28 evaṃ mayāstrāṇy upaśikṣitāni; śakrāc ca vātāc ca śivāc ca sākṣāt tathaiva śīlena samādhinā ca; prītāḥ surā me sahitāḥ sahendrāḥ 29 saṃkṣepato vai sa viśuddhakarmā; tebhyaḥ samākhyāya divi praveśam mādrī sutābhyāṃ sahitaḥ kirīṭī; suṣvāpa tām āvasatiṃ pratītaḥ |
The Mahabharata in Sanskrit
Book 3
Chapter 162
|
1
[वै] एतस्मिन्न एव काले तु सर्ववादित्र निस्वनः बभूव तुमुलः शब्दस तव अन्तरिक्षे दिवौकसाम 2 रथनेमि सवनश चैव घण्टा शब्दश च भारत पृथग वयालमृगाणां च पक्षिणां चैव सर्वशः 3 तं समन्ताद अनुययुर गन्धर्वाप्सरसस तथा विमानैः सूर्यसंकाशैर देवराजम अरिंदमम 4 ततः स हरिभिर युक्तं जाम्बूनदपरिष्कृतम मेघनादिनम आरुह्य शरिया परमया जवलन 5 पार्थान अभ्याजगामाशु देवराजः पुरंदरः आगत्य च सहस्राक्षॊ रथाद अवरुरॊह वै 6 तं दृष्ट्वैव महात्मानं धर्मराजॊ युधिष्ठिरः भरातृभिः सहितः शरीमान देवराजम उपागमत 7 पूजयाम आस चैवाथ विधिवद भूरिदक्षिणः यथार्हम अमितात्मानं विधिदृष्टेन कर्मणा 8 धनंजयश च तेजस्वी परणिपत्य पुरंदरम भृत्यवत परणतस तस्थौ देवराज सपीपतः 9 आप्यायत महातेजा कुन्तीपुत्रॊ युधिष्ठिरः धनंजयम अभिप्रेक्ष्य विनीतं सथितम अन्तिके 10 जटिलं देवराजस्य तपॊ युक्तम अकल्मषम हर्षेण महताविष्टः फल्गुनस्याथ दर्शनात 11 तं तथादीन मनसं राजानं हर्षसंप्लुतम उवाच वचनं धीमान देवराजः पुरंदरः 12 तवम इमाम्पृथिवीं राजन परशासिष्यति पाण्डव सवस्ति पराप्नुहि कौन्तेय काम्यकं पुनर आश्रमम 13 अस्त्राणि लब्धानि च पाण्डवेन; सर्वाणि मत्तः परयतेन राजन कृतप्रियश चास्मि धनंजयेन; जेतुं न शक्यस तरिभिर एष लॊकैः 14 एवम उक्त्वा सहस्राक्षः कुन्तीपुत्रं युधिष्ठिरम जगाम तरिदिवं हृष्टः सतूयमानॊ महर्षिभिः 15 धनेष्वर गृहस्थानां पाण्डवानां समागमम शक्रेण य इमं विद्वान अधीयीत समाहितः 16 संवत्सरं बरह्मचारी नियतः संशितव्रतः स जीवेत निराबाधः सुसुखी शरदां शतम |
1
[vai] etasminn eva kāle tu sarvavāditra nisvanaḥ babhūva tumulaḥ śabdas tv antarikṣe divaukasām 2 rathanemi svanaś caiva ghaṇṭā śabdaś ca bhārata pṛthag vyālamṛgāṇāṃ ca pakṣiṇāṃ caiva sarvaśaḥ 3 taṃ samantād anuyayur gandharvāpsarasas tathā vimānaiḥ sūryasaṃkāśair devarājam ariṃdamam 4 tataḥ sa haribhir yuktaṃ jāmbūnadapariṣkṛtam meghanādinam āruhya śriyā paramayā jvalan 5 pārthān abhyājagāmāśu devarājaḥ puraṃdaraḥ āgatya ca sahasrākṣo rathād avaruroha vai 6 taṃ dṛṣṭvaiva mahātmānaṃ dharmarājo yudhiṣṭhiraḥ bhrātṛbhiḥ sahitaḥ śrīmān devarājam upāgamat 7 pūjayām āsa caivātha vidhivad bhūridakṣiṇaḥ yathārham amitātmānaṃ vidhidṛṣṭena karmaṇā 8 dhanaṃjayaś ca tejasvī praṇipatya puraṃdaram bhṛtyavat praṇatas tasthau devarāja sapīpataḥ 9 āpyāyata mahātejā kuntīputro yudhiṣṭhiraḥ dhanaṃjayam abhiprekṣya vinītaṃ sthitam antike 10 jaṭilaṃ devarājasya tapo yuktam akalmaṣam harṣeṇa mahatāviṣṭaḥ phalgunasyātha darśanāt 11 taṃ tathādīna manasaṃ rājānaṃ harṣasaṃplutam uvāca vacanaṃ dhīmān devarājaḥ puraṃdaraḥ 12 tvam imāmpṛthivīṃ rājan praśāsiṣyati pāṇḍava svasti prāpnuhi kaunteya kāmyakaṃ punar āśramam 13 astrāṇi labdhāni ca pāṇḍavena; sarvāṇi mattaḥ prayatena rājan kṛtapriyaś cāsmi dhanaṃjayena; jetuṃ na śakyas tribhir eṣa lokaiḥ 14 evam uktvā sahasrākṣaḥ kuntīputraṃ yudhiṣṭhiram jagāma tridivaṃ hṛṣṭaḥ stūyamāno maharṣibhiḥ 15 dhaneṣvara gṛhasthānāṃ pāṇḍavānāṃ samāgamam śakreṇa ya imaṃ vidvān adhīyīta samāhitaḥ 16 saṃvatsaraṃ brahmacārī niyataḥ saṃśitavrataḥ sa jīveta nirābādhaḥ susukhī śaradāṃ śatam |
The Mahabharata in Sanskrit
Book 3
Chapter 163
|
1
[वै] यथागतं गते शक्रे भरातृभिः सह संगतः कृष्णया चैव बीभत्सुर धर्मपुत्रम अपूजयत 2 अभिवादयमानं तु मूर्ध्न्य उपाघ्राय पाण्डवम हर्षगद्गदया वाचा परहृष्टॊ ऽरजुनम अब्रवीत 3 कथम अर्जुन कालॊ ऽयं सवर्गे वयतिगतस तव कथं चास्त्राण्य अवाप्तानि देवराजश च तॊषितः 4 सम्यग वा ते गृहीतानि कच चिद अस्त्राणि भारत कच चित सुराधिपः परीतॊ रुद्रश चास्त्राण्य अदात तव 5 यथादृष्टश च ते शक्रॊ भगवान वा पिनाक धृक यथा चास्त्राण्य अवाप्तानि यथा चाराधितश च ते 6 यथॊक्तवांस्स तवां भगवाञ शतक्रतुर अरिंदम कृतप्रियस तवयास्मीति तच च ते किं परियं कृतम एतद इच्छाम्य अहं शरॊतुं विस्तरेण महाद्युते 7 यथा तुष्टॊ महादेवॊ देवराजश च ते ऽनघ यच चापि वज्रपानेस ते परियं कृतम अरिंदम एतद आख्याहि मे सर्वम अखिलेन धनंजय 8 [अर्ज] शृणु हन्त महाराज विधिना येन दृष्टवान शतक्रतुम अहं देवं भगवन्तं च शंकरम 9 विद्याम अधीत्य तां राजंस तवयॊक्ताम अरिमर्दन भवता च समादिष्टस तपसे परस्थितॊ वनम 10 भृगुतुङ्गम अथॊ गत्वा काम्यकाद आस्थितस तपः एकरात्रॊडितः कं चिद अपश्यं बराह्मणं पथि 11 स माम अपृच्छत कौन्तेय कवासि गन्ता बरवीहि मे तस्मा अवितथं सर्वम अब्रुवं कुरुनन्दन 12 स तथ्यं मम तच छरुत्वा बराह्मणॊ राजसत्तम अपूजयत मां राजन परीतिमांश चाभवन मयि 13 ततॊ माम अब्रवीत परीतस तप आतिष्ठ भारत तपस्वी नचिरेण तवं दरक्ष्यसे विबुधाधिपम 14 ततॊ ऽहं वचनात तस्य गिरिम आरुह्य शैशिरम तपॊ ऽतप्यं महाराज मासं मूलफलाशनः 15 दवितीयश चापि मे मासॊ जलं भक्षयतॊ गतः निराहारस तृतीये ऽथ मासे पाण्डवनन्दन 16 ऊर्ध्वबाहुश चतुर्थं तु मासम अस्मि सथितस तदा न च मे हीयते पराणस तद अद्भुतम इवाभवत 17 चतुर्थे समतिक्रान्ते परथमे दिवसे गते वराहसंस्थितं भूतं मत्समीपम उपागमत 18 निघ्नन परॊथेन पृथिवीं विलिखंश चरणैर अपि संमार्जञ जठरेणॊर्वीं विवर्तंश च मुहुर मुहुः 19 अनु तस्यापरं भूतं महत कैरात संस्थितम धनुर बाणासिमत पराप्तं सत्रीगणानुगतं तदा 20 ततॊ ऽहं धनुर आदाय तथाक्षय्यौ महेषुधी अताडयं शरेणाथ तद भूतं लॊमहर्षणम 21 युगपत तत किरातश च विकृष्य बलवद धनुः अभ्याजघ्ने दृधतरं कम्पयन्न इव मे मनः 22 स तु माम अब्रवीद राजन मम पूर्वपरिग्रहः मृगया धर्मम उत्सृज्य किमर्थं ताडितस तवया 23 एष ते निशितैर बाणैर दर्पं हन्मि सथिरॊ भव सवर्ष्मवान महाकायस ततॊ माम अभ्यधावत 24 ततॊ गिरिम इवात्यर्थम आवृणॊन मां महाशरैः तं चाहं शरवर्षेण महता समवाकिरम 25 ततः शरैर दीप्तमुखैः पत्रितैर अनुमन्त्रितैः परत्यविध्यम अहं तं तु वज्रैर इव शिलॊच्चयम 26 तस्य तच छतधा रूपम अभवच च सहस्रधा तानि चास्य शरीराणि शरैर अहम अताडयम 27 पुनस तानि शरीराणि एकीभूतानि भारत अदृश्यन्त महाराज तान्य अहं वयधमं पुनः 28 अणुर बृहच छिरा भूत्वा बृहच चाणु शिरः पुनः एकीभूतस तदा राजन सॊ ऽभयवर्तत मां युधि 29 यदाभिभवितुं बाणैर नैव शक्नॊमि तं रणे ततॊ ऽहम अस्त्रम आतिष्ठं वायव्यं भरतर्षभ 30 न चैनम अशकं हन्तुं तद अद्भुतम इवाभवत तस्मिन परतिहते चास्त्रे विस्मयॊ मे महान अभूत 31 भूयश चैव महाराज सविशेषम अहं ततः अस्त्रपूगेन महता रणे भूतम अवाकिरम 32 सथूणाकर्ण मयॊ जालं शरवर्षं शलॊल्बणम शैलास्त्रम अश्मवर्षं च समास्थायाहम अभ्ययाम जग्रास परहसंस तानि सर्वाण्य अस्त्राणि मे ऽनघ 33 तेषु सर्वेषु शान्तेषु बरह्मास्त्रम अहम आदिशम ततः परज्वलितैर बाणैः सर्वतः सॊपचीयत उपचीयमानश च मया महास्त्रेण वयवर्धत 34 ततः संतापितॊ लॊकॊ मत्प्रसूतेन तेजसा कषणेन हि दिशः खं च सर्वतॊ ऽभिविदीपितम 35 तद अप्य अस्त्रं महातेजा कषणेनैव वयशातयत बरह्मास्त्रे तु हते राजन भयं मां महद आविशत 36 ततॊ ऽहं धनुर आदाय तथाक्षय्यौ महेषुधी सहसाभ्यहनं भूतं तान्य अप्य अस्त्राण्य अभक्षयत 37 हतेष्व अस्त्रेषु सर्वेषु भक्षितेष्व आयुधेषु च मम तस्य च भूतस्य बाहुयुद्धम अवर्तत 38 वयायाममुष्टिभिः कृत्वा तलैर अपि समाहतौ अपातयच च तद भूतं निश्चेष्टॊ हय अगमं महीम 39 ततः परहस्य तद भूतं तत्रैवान्तरधीयत सह सत्रीभिर महाराज पश्यतॊ मे ऽदभुतॊपमम 40 एवं कृत्वा स भगवांस ततॊ ऽनयद रूपम आत्मनः दिव्यम एव मरा राजवसानॊ ऽदभुतम अम्बरम 41 हित्वा किरात रूपं च भगवांस तरिदशेश्वरः सवरूपं दिव्यम आस्थाय तस्थौ तत्र महेश्वरः 42 अदृश्यत ततः साक्षाद भगवान गॊवृषध्वजः उमा सहायॊ हरि दृग बहुरूपः पिनाक धृक 43 स माम अभ्येत्य समरे तथैवाभिमुखं सथितम शूलपाणिर अथॊवाच तुष्टॊ ऽसमीति परंतप 44 ततस तद धनुर आदाय तूणौ चाक्षय्य सायकौ परादान ममैव भगवान वरयस्वेति चाब्रवीत 45 तुष्टॊ ऽसमि तव कौन्तेय बरूहि किं करवाणि ते यत ते मनॊगतं वीर तद बरूहि वितराम्य अहम अमरत्वम अपाहाय बरूहि यत ते मनॊगतम 46 ततः पराञ्जलिर एवाहम अस्त्रेषु गतमानसः परणम्य शिरसा शर्वं ततॊ वचनम आददे 47 भगवान मे परसन्नश चेद ईप्सितॊ ऽयं वरॊ मम अस्त्राणीच्छाम्य अहं जञातुं यानि देवेषु कानि चित ददानीत्य एव भगवान अब्रवीत तर्यम्बकश च माम 48 रौद्रम अस्त्रं मदीयं तवाम उपस्थास्यति पाण्डव परददौ च मम परीतः सॊ ऽसत्रं पाशुपतं परभुः 49 उवाच च महादेवॊ दत्त्वा मे ऽसत्रं सनातनम न परयॊज्यं भवेद एतन मानुषेषु कथं चन 50 पीड्यमानेन बलवत परयॊज्यं ते धनंजय अस्त्राणां परतिघाते च सर्वथैव परयॊजयेः 51 तद अप्रतिहतं दिव्यं सर्वास्त्रप्रतिषेधनम मूर्तिमन मे सथितं पार्श्वे परसन्ने गॊवृषध्वजे 52 उत्सादनम अमित्राणां परसेना निकर्तनम दुरासदं दुष्प्रहसं सुरदानव राक्षसैः 53 अनुज्ञ्षातस तव अहं तेन तत्रैव समुपाविशम परेक्षितश चैव मे देवस तत्रैवान्तरधीयत |
1
[vai] yathāgataṃ gate śakre bhrātṛbhiḥ saha saṃgataḥ kṛṣṇayā caiva bībhatsur dharmaputram apūjayat 2 abhivādayamānaṃ tu mūrdhny upāghrāya pāṇḍavam harṣagadgadayā vācā prahṛṣṭo 'rjunam abravīt 3 katham arjuna kālo 'yaṃ svarge vyatigatas tava kathaṃ cāstrāṇy avāptāni devarājaś ca toṣitaḥ 4 samyag vā te gṛhītāni kac cid astrāṇi bhārata kac cit surādhipaḥ prīto rudraś cāstrāṇy adāt tava 5 yathādṛṣṭaś ca te śakro bhagavān vā pināka dhṛk yathā cāstrāṇy avāptāni yathā cārādhitaś ca te 6 yathoktavāṃss tvāṃ bhagavāñ śatakratur ariṃdama kṛtapriyas tvayāsmīti tac ca te kiṃ priyaṃ kṛtam etad icchāmy ahaṃ śrotuṃ vistareṇa mahādyute 7 yathā tuṣṭo mahādevo devarājaś ca te 'nagha yac cāpi vajrapānes te priyaṃ kṛtam ariṃdama etad ākhyāhi me sarvam akhilena dhanaṃjaya 8 [arj] śṛṇu hanta mahārāja vidhinā yena dṛṣṭavān śatakratum ahaṃ devaṃ bhagavantaṃ ca śaṃkaram 9 vidyām adhītya tāṃ rājaṃs tvayoktām arimardana bhavatā ca samādiṣṭas tapase prasthito vanam 10 bhṛgutuṅgam atho gatvā kāmyakād āsthitas tapaḥ ekarātroḍitaḥ kaṃ cid apaśyaṃ brāhmaṇaṃ pathi 11 sa mām apṛcchat kaunteya kvāsi gantā bravīhi me tasmā avitathaṃ sarvam abruvaṃ kurunandana 12 sa tathyaṃ mama tac chrutvā brāhmaṇo rājasattama apūjayata māṃ rājan prītimāṃś cābhavan mayi 13 tato mām abravīt prītas tapa ātiṣṭha bhārata tapasvī nacireṇa tvaṃ drakṣyase vibudhādhipam 14 tato 'haṃ vacanāt tasya girim āruhya śaiśiram tapo 'tapyaṃ mahārāja māsaṃ mūlaphalāśanaḥ 15 dvitīyaś cāpi me māso jalaṃ bhakṣayato gataḥ nirāhāras tṛtīye 'tha māse pāṇḍavanandana 16 ūrdhvabāhuś caturthaṃ tu māsam asmi sthitas tadā na ca me hīyate prāṇas tad adbhutam ivābhavat 17 caturthe samatikrānte prathame divase gate varāhasaṃsthitaṃ bhūtaṃ matsamīpam upāgamat 18 nighnan prothena pṛthivīṃ vilikhaṃś caraṇair api saṃmārjañ jaṭhareṇorvīṃ vivartaṃś ca muhur muhuḥ 19 anu tasyāparaṃ bhūtaṃ mahat kairāta saṃsthitam dhanur bāṇāsimat prāptaṃ strīgaṇānugataṃ tadā 20 tato 'haṃ dhanur ādāya tathākṣayyau maheṣudhī atāḍayaṃ śareṇātha tad bhūtaṃ lomaharṣaṇam 21 yugapat tat kirātaś ca vikṛṣya balavad dhanuḥ abhyājaghne dṛdhataraṃ kampayann iva me manaḥ 22 sa tu mām abravīd rājan mama pūrvaparigrahaḥ mṛgayā dharmam utsṛjya kimarthaṃ tāḍitas tvayā 23 eṣa te niśitair bāṇair darpaṃ hanmi sthiro bhava savarṣmavān mahākāyas tato mām abhyadhāvata 24 tato girim ivātyartham āvṛṇon māṃ mahāśaraiḥ taṃ cāhaṃ śaravarṣeṇa mahatā samavākiram 25 tataḥ śarair dīptamukhaiḥ patritair anumantritaiḥ pratyavidhyam ahaṃ taṃ tu vajrair iva śiloccayam 26 tasya tac chatadhā rūpam abhavac ca sahasradhā tāni cāsya śarīrāṇi śarair aham atāḍayam 27 punas tāni śarīrāṇi ekībhūtāni bhārata adṛśyanta mahārāja tāny ahaṃ vyadhamaṃ punaḥ 28 aṇur bṛhac chirā bhūtvā bṛhac cāṇu śiraḥ punaḥ ekībhūtas tadā rājan so 'bhyavartata māṃ yudhi 29 yadābhibhavituṃ bāṇair naiva śaknomi taṃ raṇe tato 'ham astram ātiṣṭhaṃ vāyavyaṃ bharatarṣabha 30 na cainam aśakaṃ hantuṃ tad adbhutam ivābhavat tasmin pratihate cāstre vismayo me mahān abhūt 31 bhūyaś caiva mahārāja saviśeṣam ahaṃ tataḥ astrapūgena mahatā raṇe bhūtam avākiram 32 sthūṇākarṇa mayo jālaṃ śaravarṣaṃ śalolbaṇam śailāstram aśmavarṣaṃ ca samāsthāyāham abhyayām jagrāsa prahasaṃs tāni sarvāṇy astrāṇi me 'nagha 33 teṣu sarveṣu śānteṣu brahmāstram aham ādiśam tataḥ prajvalitair bāṇaiḥ sarvataḥ sopacīyata upacīyamānaś ca mayā mahāstreṇa vyavardhata 34 tataḥ saṃtāpito loko matprasūtena tejasā kṣaṇena hi diśaḥ khaṃ ca sarvato 'bhividīpitam 35 tad apy astraṃ mahātejā kṣaṇenaiva vyaśātayat brahmāstre tu hate rājan bhayaṃ māṃ mahad āviśat 36 tato 'haṃ dhanur ādāya tathākṣayyau maheṣudhī sahasābhyahanaṃ bhūtaṃ tāny apy astrāṇy abhakṣayat 37 hateṣv astreṣu sarveṣu bhakṣiteṣv āyudheṣu ca mama tasya ca bhūtasya bāhuyuddham avartata 38 vyāyāmamuṣṭibhiḥ kṛtvā talair api samāhatau apātayac ca tad bhūtaṃ niśceṣṭo hy agamaṃ mahīm 39 tataḥ prahasya tad bhūtaṃ tatraivāntaradhīyata saha strībhir mahārāja paśyato me 'dbhutopamam 40 evaṃ kṛtvā sa bhagavāṃs tato 'nyad rūpam ātmanaḥ divyam eva marā rājavasāno 'dbhutam ambaram 41 hitvā kirāta rūpaṃ ca bhagavāṃs tridaśeśvaraḥ svarūpaṃ divyam āsthāya tasthau tatra maheśvaraḥ 42 adṛśyata tataḥ sākṣād bhagavān govṛṣadhvajaḥ umā sahāyo hari dṛg bahurūpaḥ pināka dhṛk 43 sa mām abhyetya samare tathaivābhimukhaṃ sthitam śūlapāṇir athovāca tuṣṭo 'smīti paraṃtapa 44 tatas tad dhanur ādāya tūṇau cākṣayya sāyakau prādān mamaiva bhagavān varayasveti cābravīt 45 tuṣṭo 'smi tava kaunteya brūhi kiṃ karavāṇi te yat te manogataṃ vīra tad brūhi vitarāmy aham amaratvam apāhāya brūhi yat te manogatam 46 tataḥ prāñjalir evāham astreṣu gatamānasaḥ praṇamya śirasā śarvaṃ tato vacanam ādade 47 bhagavān me prasannaś ced īpsito 'yaṃ varo mama astrāṇīcchāmy ahaṃ jñātuṃ yāni deveṣu kāni cit dadānīty eva bhagavān abravīt tryambakaś ca mām 48 raudram astraṃ madīyaṃ tvām upasthāsyati pāṇḍava pradadau ca mama prītaḥ so 'straṃ pāśupataṃ prabhuḥ 49 uvāca ca mahādevo dattvā me 'straṃ sanātanam na prayojyaṃ bhaved etan mānuṣeṣu kathaṃ cana 50 pīḍyamānena balavat prayojyaṃ te dhanaṃjaya astrāṇāṃ pratighāte ca sarvathaiva prayojayeḥ 51 tad apratihataṃ divyaṃ sarvāstrapratiṣedhanam mūrtiman me sthitaṃ pārśve prasanne govṛṣadhvaje 52 utsādanam amitrāṇāṃ parasenā nikartanam durāsadaṃ duṣprahasaṃ suradānava rākṣasaiḥ 53 anujñṣātas tv ahaṃ tena tatraiva samupāviśam prekṣitaś caiva me devas tatraivāntaradhīyata |
The Mahabharata in Sanskrit
Book 3
Chapter 164
|
1
[अर्ज] ततस ताम अवसं परीतॊ रजनीं तत्र भारत परसादाद देवदेवस्य तर्यम्बकस्य महात्मनः 2 वयुषितॊ रजनीं चाहं कृत्वा पूर्वाह्णिक करियाम अपश्यं तं दविजश्रेष्ठं दृष्टवान अस्मि यं पुरा 3 तस्मै चाहं यथावृत्तं सर्वम एव नयवेदयम भगवन्तं महादेवं समेतॊ ऽसमीति भारत 4 स माम उवाच राजेन्द्र परीयमाणॊ दविजॊत्तमः दृष्टस तवया महादेवॊ यथा नान्येन केन चित 5 समेत्य लॊकपालैस तु सर्वैर वैवस्वतादिभिः दरष्टास्य अनघ देवेन्द्रं स च ते ऽसत्राणि दास्यति 6 एवम उक्त्वा स मां राजन्न आश्लिष्य च पुनः पुनः अगच्छत स यथाकामं बराह्मणः सूर्यसंनिभः 7 अथापराह्णे तस्याह्नः परावात पुण्यः समीरणः पुनर नवम इमं लॊकं कुर्वन्न इव सपत्नहन 8 दिव्यानि चैव माल्यानि सुगन्धीनि नवानि च शैशिरस्य गिरेः पादे परादुरासन समीपतः 9 वादित्राणि च दिव्यानि सुघॊषाणि समन्ततः सतुतयश चेन्द्र संयुक्ता अश्रूयन्त मनॊहराः 10 गणाश चाप्सरसां तत्र गन्धर्वाणां तथैव च पुरस्ताद देवदेवस्य जगुर गीतानि सर्वशः 11 मरुतां च गणास तत्र देव यानैर उपागमन महेन्द्रानुचरा ये च देव सद्म निवासिनः 12 ततॊ मरुत्वान हरिभिर युक्तैर वाहैः सवलंकृतैः शची सहायस तत्रायात सह सर्वैस तदामरैः 13 एतस्मिन्न एव काले तु कुबेरॊ नरवाहनः दर्शयाम आस मां राजँल लक्ष्म्या परमया युतः 14 दक्षिणस्यां दिशि यमं परत्यपश्यं वयवस्थितम वरुणं देवराजं च यथास्थानम अवस्थितम 15 ते माम ऊचुर महाराज सान्त्वयित्वा सुरर्षभाः सव्यसाचिन समीक्षस्व लॊकपालान अवस्थितान 16 सुरकार्यार्थ सिद्ध्यर्थं दृष्टवान असि शंकरम अस्मत्तॊ ऽपि गृहाण तवम अस्त्राणीति समन्ततः 17 ततॊ ऽहं परयतॊ भूत्वा परणिपत्य सुरर्षभान परत्यगृह्णं तदास्त्राणि महान्ति विधिवत परभॊ 18 गृहीतास्त्रस ततॊ देवैर अनुज्ञ्षातॊ ऽसमि भारत अथ देवा ययुः सर्वे यथागतम अरिंदम 19 मघवान अपि देवेशॊ रथम आरुह्य सुप्रभम उवाच भगवान वाक्यं समयन्न इव सुरारिहा 20 पुरैवागमनाद अस्माद वेदाहं तवां धनंजय अतः परं तव अहं वै तवां दर्शये भरतर्षभ 21 तवया हि तीर्थेषु पुरा समाप्लावः कृतॊ ऽसकृत तपश चेदं पुरा तप्तं सवर्गं गन्तासि पाण्डव 22 भूयॊ चैव तु तप्तव्यं तपॊ परमदारुणम उवाच भगवान सर्वं तपसश चॊपपादनम 23 मातलिर मन्नियॊगात तवां तरिदिवं परापयिष्यति विदितस तवं हि देवानाम ऋषीणां च महात्मनाम 24 ततॊ ऽहम अब्रुवं शक्रं परसीद भगवन मम आचार्यं वरये तवाहम अस्त्रार्थं तरिदशेश्वर 25 [इन्द्र] करूरं कर्मास्त्रवित तात करिष्यसि परंतप यदर्थम अस्त्राणीप्सुस तवं तं कामं पाण्डवाप्नुहि 26 [अर्ज] ततॊ ऽहम अब्रुवं नाहं दिव्यान्य अस्त्राणि शत्रुहन मानुषेषु परयॊक्ष्यामि विनास्त्र परतिघातनम 27 तानि दिव्यानि मे ऽसत्राणि परयच्छ विबुधाधिप लॊकांश चास्त्रजितान पश्चाल लभेयं सुरपुंगव 28 [इन्द्र] परीक्षार्थं मयैतत ते वाक्यम उक्तं धनंजय ममात्मजस्य वचनं सूपपन्नम इदं तव 29 शिक्ष मे भवनं गत्वा सर्वाण्य अस्त्राणि भारत वायॊर अग्नेर वसुभ्यॊ ऽथ वरुणात समरुद्गणात 30 साध्यं पैतामहं चैव गन्धर्वॊरगरक्षसाम वैष्णवानि च सर्वाणि नैरृतानि तथैव च मद्गतानि च यानीह सर्वास्त्राणि कुरूद्वह 31 [अर्ज] एवम उक्त्वा तु मां शक्रस तत्रैवान्तरधीयत अथापश्यं हरि युजं रथम ऐन्द्रम उपस्थितम दिव्यं मायामयं पुण्यं यत्तं मातलिना नृप 32 लॊकपालेषु यातेषु माम उवाचाथ मातलिः दरष्टुम इच्छति शक्रस तवां देवराजॊ महाद्युते 33 संसिद्धस तवं महाबाहॊ कुरु कार्यम अनुत्तमम पश्य पुण्यकृतां लॊकान सशरीरॊ दिवं वरज 34 इत्य उक्तॊ ऽहं मातलिना गिरिम आमन्त्र्य शैशिरम परदक्षिणम उपावृत्य समारॊहं रथॊत्तमम 35 चॊदयाम आस सहयान मनॊमारुतरंहसः मातलिर हयशास्त्रज्ञॊ यथावद भूरिदक्षिणः 36 अवैक्षन्त च मे वक्त्रं सथितस्याथ स सारथिः तथा भरान्ते रथे राजन विस्मितश चेदम अब्रवीत 37 अत्यद्भुतम इदं मे ऽदय विचित्रं परतिभाति माम यद आस्थितॊ रथं दिव्यं पदा न चलितॊ भवान 38 देवराजॊ ऽपि हि मया नित्यम अत्रॊपलक्षितः विचलन परथमॊत्पाते हयानां भरतर्षभ 39 तवं पुनः सथित एवात्र रथे भरान्ते कुरूद्वह अतिशक्रम इदं सत्त्वं तवेति परतिभाति मे 40 इत्य उक्त्वाकाशम आविश्य मातलिर विबुधालयान दर्शयाम आस मे राजन विमानानि च भारत 41 नन्दनादीनि देवानां वनानि बहुलान्य उत दर्शयाम आस मे परीत्या मातलिः शक्रसारथिः 42 ततः शक्रस्य भवनम अपश्यम अमरावतीम दिव्यैः कामफलैर वृक्षै रत्नैश च समलंकृताम 43 न तां भासयते सूर्यॊ न शीतॊष्णे न च कलमः रजः पङ्कॊ न च तमस तत्रास्ति न जरा नृप 44 न तत्र शॊकॊ दैन्यं वा वैवर्ण्यं चॊपलक्ष्यते दिवौकसां महाराज न च गलानिर अरिंदम 45 न करॊधलॊभौ तत्रास्ताम अशुभं च विशां पते नित्यतुष्टाश च हृष्टाश च पराणिनः सुरवेश्मनि 46 नित्यपुष्पफलास तत्र पादपा हरितछदाः पुष्करिण्यश च विविधाः पद्मसौगन्धिकायुताः 47 शीतस तत्र ववौ वायुः सुगन्धॊ जीवनः शुचिः सर्वरत्नविचित्रा च भूमिः पुष्पविभूषिता 48 मृगद्विजाश च बहवॊ रुचिरा मधुरस्वराः विमानयायिनश चात्र दृश्यन्ते बहवॊ ऽमराः 49 ततॊ ऽपश्यं वसून रुद्रान साध्यांश च समरुद्गणान आदित्यान अश्विनौ चैव तान सर्वान परत्यपूजयम 50 ते मां वीर्येण यशसा तेजसा च बलेन च अस्त्रैश चाप्य अन्वजानन्त संप्राम विजयेन च 51 परविश्य तां पुरीं रम्यां देवगन्धर्वसेविताम देवराजं सहस्राक्षम उपातिष्ठं कृताञ्जलिः 52 ददाव अर्धासनं परीतः शक्रॊ मे ददतां वरः बहुमानाच च गात्राणि पस्पर्श मम वासवः 53 तत्राहं देवगन्धर्वैः सहितॊ भुरि दक्षिण अस्त्रार्थम अवसं सवर्गे कुर्वाणॊ सत्राणि भारत 54 विश्वावसॊश च मे पुत्रश चित्रसेनॊ ऽभवत सखा स च गान्धर्वम अखिलं गराहयाम आस मां नृप 55 ततॊ ऽहम अवसं राजन गृहीतास्त्रः सुपूजितः सुखं शक्रस्य भवने सर्वकामसमन्वितः 56 शृण्वन वै गीतशब्दं च तूर्यशब्दं च पुष्कलम पश्यंश चाप्सरसः शरेष्ठा नृत्यमानाः परंतप 57 तत सर्वम अनवज्ञाय तथ्यं विज्ज्ञाय भारत अत्यर्थं परतिगृह्याहम अस्त्रेष्व एव वयवस्थितः 58 ततॊ ऽतुष्यत सहस्राक्षस तेन कामेन मे विभुः एवं मे वसतॊ राजन्न एष कालॊ ऽतयगाद दिवि |
1
[arj] tatas tām avasaṃ prīto rajanīṃ tatra bhārata prasādād devadevasya tryambakasya mahātmanaḥ 2 vyuṣito rajanīṃ cāhaṃ kṛtvā pūrvāhṇika kriyām apaśyaṃ taṃ dvijaśreṣṭhaṃ dṛṣṭavān asmi yaṃ purā 3 tasmai cāhaṃ yathāvṛttaṃ sarvam eva nyavedayam bhagavantaṃ mahādevaṃ sameto 'smīti bhārata 4 sa mām uvāca rājendra prīyamāṇo dvijottamaḥ dṛṣṭas tvayā mahādevo yathā nānyena kena cit 5 sametya lokapālais tu sarvair vaivasvatādibhiḥ draṣṭāsy anagha devendraṃ sa ca te 'strāṇi dāsyati 6 evam uktvā sa māṃ rājann āśliṣya ca punaḥ punaḥ agacchat sa yathākāmaṃ brāhmaṇaḥ sūryasaṃnibhaḥ 7 athāparāhṇe tasyāhnaḥ prāvāt puṇyaḥ samīraṇaḥ punar navam imaṃ lokaṃ kurvann iva sapatnahan 8 divyāni caiva mālyāni sugandhīni navāni ca śaiśirasya gireḥ pāde prādurāsan samīpataḥ 9 vāditrāṇi ca divyāni sughoṣāṇi samantataḥ stutayaś cendra saṃyuktā aśrūyanta manoharāḥ 10 gaṇāś cāpsarasāṃ tatra gandharvāṇāṃ tathaiva ca purastād devadevasya jagur gītāni sarvaśaḥ 11 marutāṃ ca gaṇās tatra deva yānair upāgaman mahendrānucarā ye ca deva sadma nivāsinaḥ 12 tato marutvān haribhir yuktair vāhaiḥ svalaṃkṛtaiḥ śacī sahāyas tatrāyāt saha sarvais tadāmaraiḥ 13 etasminn eva kāle tu kubero naravāhanaḥ darśayām āsa māṃ rājaṁl lakṣmyā paramayā yutaḥ 14 dakṣiṇasyāṃ diśi yamaṃ pratyapaśyaṃ vyavasthitam varuṇaṃ devarājaṃ ca yathāsthānam avasthitam 15 te mām ūcur mahārāja sāntvayitvā surarṣabhāḥ savyasācin samīkṣasva lokapālān avasthitān 16 surakāryārtha siddhyarthaṃ dṛṣṭavān asi śaṃkaram asmatto 'pi gṛhāṇa tvam astrāṇīti samantataḥ 17 tato 'haṃ prayato bhūtvā praṇipatya surarṣabhān pratyagṛhṇaṃ tadāstrāṇi mahānti vidhivat prabho 18 gṛhītāstras tato devair anujñṣāto 'smi bhārata atha devā yayuḥ sarve yathāgatam ariṃdama 19 maghavān api deveśo ratham āruhya suprabham uvāca bhagavān vākyaṃ smayann iva surārihā 20 puraivāgamanād asmād vedāhaṃ tvāṃ dhanaṃjaya ataḥ paraṃ tv ahaṃ vai tvāṃ darśaye bharatarṣabha 21 tvayā hi tīrtheṣu purā samāplāvaḥ kṛto 'sakṛt tapaś cedaṃ purā taptaṃ svargaṃ gantāsi pāṇḍava 22 bhūyo caiva tu taptavyaṃ tapo paramadāruṇam uvāca bhagavān sarvaṃ tapasaś copapādanam 23 mātalir manniyogāt tvāṃ tridivaṃ prāpayiṣyati viditas tvaṃ hi devānām ṛṣīṇāṃ ca mahātmanām 24 tato 'ham abruvaṃ śakraṃ prasīda bhagavan mama ācāryaṃ varaye tvāham astrārthaṃ tridaśeśvara 25 [indra] krūraṃ karmāstravit tāta kariṣyasi paraṃtapa yadartham astrāṇīpsus tvaṃ taṃ kāmaṃ pāṇḍavāpnuhi 26 [arj] tato 'ham abruvaṃ nāhaṃ divyāny astrāṇi śatruhan mānuṣeṣu prayokṣyāmi vināstra pratighātanam 27 tāni divyāni me 'strāṇi prayaccha vibudhādhipa lokāṃś cāstrajitān paścāl labheyaṃ surapuṃgava 28 [indra] parīkṣārthaṃ mayaitat te vākyam uktaṃ dhanaṃjaya mamātmajasya vacanaṃ sūpapannam idaṃ tava 29 śikṣa me bhavanaṃ gatvā sarvāṇy astrāṇi bhārata vāyor agner vasubhyo 'tha varuṇāt samarudgaṇāt 30 sādhyaṃ paitāmahaṃ caiva gandharvoragarakṣasām vaiṣṇavāni ca sarvāṇi nairṛtāni tathaiva ca madgatāni ca yānīha sarvāstrāṇi kurūdvaha 31 [arj] evam uktvā tu māṃ śakras tatraivāntaradhīyata athāpaśyaṃ hari yujaṃ ratham aindram upasthitam divyaṃ māyāmayaṃ puṇyaṃ yattaṃ mātalinā nṛpa 32 lokapāleṣu yāteṣu mām uvācātha mātaliḥ draṣṭum icchati śakras tvāṃ devarājo mahādyute 33 saṃsiddhas tvaṃ mahābāho kuru kāryam anuttamam paśya puṇyakṛtāṃ lokān saśarīro divaṃ vraja 34 ity ukto 'haṃ mātalinā girim āmantrya śaiśiram pradakṣiṇam upāvṛtya samārohaṃ rathottamam 35 codayām āsa sahayān manomārutaraṃhasaḥ mātalir hayaśāstrajño yathāvad bhūridakṣiṇaḥ 36 avaikṣanta ca me vaktraṃ sthitasyātha sa sārathiḥ tathā bhrānte rathe rājan vismitaś cedam abravīt 37 atyadbhutam idaṃ me 'dya vicitraṃ pratibhāti mām yad āsthito rathaṃ divyaṃ padā na calito bhavān 38 devarājo 'pi hi mayā nityam atropalakṣitaḥ vicalan prathamotpāte hayānāṃ bharatarṣabha 39 tvaṃ punaḥ sthita evātra rathe bhrānte kurūdvaha atiśakram idaṃ sattvaṃ taveti pratibhāti me 40 ity uktvākāśam āviśya mātalir vibudhālayān darśayām āsa me rājan vimānāni ca bhārata 41 nandanādīni devānāṃ vanāni bahulāny uta darśayām āsa me prītyā mātaliḥ śakrasārathiḥ 42 tataḥ śakrasya bhavanam apaśyam amarāvatīm divyaiḥ kāmaphalair vṛkṣai ratnaiś ca samalaṃkṛtām 43 na tāṃ bhāsayate sūryo na śītoṣṇe na ca klamaḥ rajaḥ paṅko na ca tamas tatrāsti na jarā nṛpa 44 na tatra śoko dainyaṃ vā vaivarṇyaṃ copalakṣyate divaukasāṃ mahārāja na ca glānir ariṃdama 45 na krodhalobhau tatrāstām aśubhaṃ ca viśāṃ pate nityatuṣṭāś ca hṛṣṭāś ca prāṇinaḥ suraveśmani 46 nityapuṣpaphalās tatra pādapā haritachadāḥ puṣkariṇyaś ca vividhāḥ padmasaugandhikāyutāḥ 47 śītas tatra vavau vāyuḥ sugandho jīvanaḥ śuciḥ sarvaratnavicitrā ca bhūmiḥ puṣpavibhūṣitā 48 mṛgadvijāś ca bahavo rucirā madhurasvarāḥ vimānayāyinaś cātra dṛśyante bahavo 'marāḥ 49 tato 'paśyaṃ vasūn rudrān sādhyāṃś ca samarudgaṇān ādityān aśvinau caiva tān sarvān pratyapūjayam 50 te māṃ vīryeṇa yaśasā tejasā ca balena ca astraiś cāpy anvajānanta saṃprāma vijayena ca 51 praviśya tāṃ purīṃ ramyāṃ devagandharvasevitām devarājaṃ sahasrākṣam upātiṣṭhaṃ kṛtāñjaliḥ 52 dadāv ardhāsanaṃ prītaḥ śakro me dadatāṃ varaḥ bahumānāc ca gātrāṇi pasparśa mama vāsavaḥ 53 tatrāhaṃ devagandharvaiḥ sahito bhuri dakṣiṇa astrārtham avasaṃ svarge kurvāṇo strāṇi bhārata 54 viśvāvasoś ca me putraś citraseno 'bhavat sakhā sa ca gāndharvam akhilaṃ grāhayām āsa māṃ nṛpa 55 tato 'ham avasaṃ rājan gṛhītāstraḥ supūjitaḥ sukhaṃ śakrasya bhavane sarvakāmasamanvitaḥ 56 śṛṇvan vai gītaśabdaṃ ca tūryaśabdaṃ ca puṣkalam paśyaṃś cāpsarasaḥ śreṣṭhā nṛtyamānāḥ paraṃtapa 57 tat sarvam anavajñāya tathyaṃ vijjñāya bhārata atyarthaṃ pratigṛhyāham astreṣv eva vyavasthitaḥ 58 tato 'tuṣyat sahasrākṣas tena kāmena me vibhuḥ evaṃ me vasato rājann eṣa kālo 'tyagād divi |
The Mahabharata in Sanskrit
Book 3
Chapter 165
|
1
[अर्ज] कृतास्त्रम अभिविश्वस्तम अथ मां हरिवाहनः संस्पृश्य मूर्ध्नि पाणिभ्याम इदं वचनम अब्रवीत 2 न तवम अद्य युधा जेतुं शक्यः सुरगणैर अपि किं पुनर मानुषे लॊके मानुषैर अकृतात्मभिः अप्रमेयॊ ऽपरधृष्यश च युद्धेष्व अप्रतिमस तथा 3 अथाब्रवीत पुनर देवः संप्रहृष्टतनूरुहः अस्त्रयुद्धे समॊ वीर न ते कश चिद भविष्यति 4 अप्रमत्तः सदा दक्षः सत्यवादी जितेन्द्रियः बरह्मण्यश चास्त्रविच चासि शूराश चासि कुरूद्वह 5 अस्त्राणि समवाप्तानि तवया दश च पञ्च च पञ्चभिर विधिभिः पार्थ न तवया विद्यते समः 6 परयॊगम उपसंहारम आवृत्तिं च धनंजय परायश्चित्तं च वेत्थ तवं परतिघातं च सर्वशः 7 तव गुर्वर्थकालॊ ऽयम उपपन्नः परंतप परतिजानीष्व तं कर्तुम अतॊ वेत्स्याम्य अहं परम 8 ततॊ ऽहम अब्रुवं राजन देवराजम इदं वचः विषह्यं चेन मया कर्तुं कृतम एव निबॊध तत 9 ततॊ माम अब्रवीद राजन परहस्य बलवृत्रहा नाविषह्यं तवाद्यास्ति तरिषु लॊकेषु किं चन 10 निवातकवचा नाम दानवा मम शत्रवः समुद्रकुक्षिम आश्रित्य दुर्गे परतिवसन्त्य उत 11 तिस्रः कॊट्यः समाखातास तुल्यरूपबलप्रभाः तांस तत्र जहि कौन्तेय गुर्वर्थस ते भविष्यति 12 ततॊ मातलिसंयुक्तं मयूरसमरॊमभिः हयैर उपेतं परादान मे रथं दिव्यं महाप्रभम 13 बबन्ध चैव मे मूर्ध्नि कितीटम इदम उत्तमम सवरूपसदृशं चैव परादाद अङ्गविभूषणम 14 अभेद्यं कवचं चेदं सपर्शरूपवद उत्तमम अजरां जयाम इमां चापि गाण्डीवे समयॊजयत 15 ततः परायाम अहं तेन सयन्दनेन विराजता येनाजयद देवपतिर बलिं वैरॊचनिं पुरा 16 ततॊ देवाः सर्व एव तेन घॊषेण बॊधितः मन्वाना देवराजं मां समाजग्मुर विशां पते दृष्ट्वा च माम अपृच्छन्त किं करिष्यसि फल्गुन 17 तान अब्रुवं यथा भूतम इदं कर्तास्मि संयुगे निवातकवचानां तु परस्थितं मां वधैषिणम निबॊधत महाभागाः शिवं चाशास्त मे ऽनघाः 18 तुष्टुवुर मां परसन्नास ते यथा देवं पुरंदरम रथेनानेन मघवा जितवाञ शम्बरं युधि नमुचिं बलवृत्रौ च परह्लाद नरकाव अपि 19 बहूनि च सहस्राणि परयुतान्य अर्बुदानि च रथेनानेन दैत्यानां जितवान मघवान युधि 20 तवम अप्य एतेन कौन्तेय निवातकवचान रणे विजेता युधि विक्रम्य पुरेव मघवान वशी 21 अयं च शङ्खप्रवरॊ येन जेतासि दानवान अनेन विजिता लॊकाः शक्रेणापि महात्मना 22 परदीयमानं देवैस तु देवदत्तं जलॊद्भवम परत्यहृह्णं जयायैनं सतूयमानस तदामरैः 23 स शङ्खी कवची बाणी परगृहीतशरासनः दानवालयम अत्युग्रं परयातॊ ऽसमि युयुत्सया |
1
[arj] kṛtāstram abhiviśvastam atha māṃ harivāhanaḥ saṃspṛśya mūrdhni pāṇibhyām idaṃ vacanam abravīt 2 na tvam adya yudhā jetuṃ śakyaḥ suragaṇair api kiṃ punar mānuṣe loke mānuṣair akṛtātmabhiḥ aprameyo 'pradhṛṣyaś ca yuddheṣv apratimas tathā 3 athābravīt punar devaḥ saṃprahṛṣṭatanūruhaḥ astrayuddhe samo vīra na te kaś cid bhaviṣyati 4 apramattaḥ sadā dakṣaḥ satyavādī jitendriyaḥ brahmaṇyaś cāstravic cāsi śūrāś cāsi kurūdvaha 5 astrāṇi samavāptāni tvayā daśa ca pañca ca pañcabhir vidhibhiḥ pārtha na tvayā vidyate samaḥ 6 prayogam upasaṃhāram āvṛttiṃ ca dhanaṃjaya prāyaścittaṃ ca vettha tvaṃ pratighātaṃ ca sarvaśaḥ 7 tava gurvarthakālo 'yam upapannaḥ paraṃtapa pratijānīṣva taṃ kartum ato vetsyāmy ahaṃ param 8 tato 'ham abruvaṃ rājan devarājam idaṃ vacaḥ viṣahyaṃ cen mayā kartuṃ kṛtam eva nibodha tat 9 tato mām abravīd rājan prahasya balavṛtrahā nāviṣahyaṃ tavādyāsti triṣu lokeṣu kiṃ cana 10 nivātakavacā nāma dānavā mama śatravaḥ samudrakukṣim āśritya durge prativasanty uta 11 tisraḥ koṭyaḥ samākhātās tulyarūpabalaprabhāḥ tāṃs tatra jahi kaunteya gurvarthas te bhaviṣyati 12 tato mātalisaṃyuktaṃ mayūrasamaromabhiḥ hayair upetaṃ prādān me rathaṃ divyaṃ mahāprabham 13 babandha caiva me mūrdhni kitīṭam idam uttamam svarūpasadṛśaṃ caiva prādād aṅgavibhūṣaṇam 14 abhedyaṃ kavacaṃ cedaṃ sparśarūpavad uttamam ajarāṃ jyām imāṃ cāpi gāṇḍīve samayojayat 15 tataḥ prāyām ahaṃ tena syandanena virājatā yenājayad devapatir baliṃ vairocaniṃ purā 16 tato devāḥ sarva eva tena ghoṣeṇa bodhitaḥ manvānā devarājaṃ māṃ samājagmur viśāṃ pate dṛṣṭvā ca mām apṛcchanta kiṃ kariṣyasi phalguna 17 tān abruvaṃ yathā bhūtam idaṃ kartāsmi saṃyuge nivātakavacānāṃ tu prasthitaṃ māṃ vadhaiṣiṇam nibodhata mahābhāgāḥ śivaṃ cāśāsta me 'naghāḥ 18 tuṣṭuvur māṃ prasannās te yathā devaṃ puraṃdaram rathenānena maghavā jitavāñ śambaraṃ yudhi namuciṃ balavṛtrau ca prahlāda narakāv api 19 bahūni ca sahasrāṇi prayutāny arbudāni ca rathenānena daityānāṃ jitavān maghavān yudhi 20 tvam apy etena kaunteya nivātakavacān raṇe vijetā yudhi vikramya pureva maghavān vaśī 21 ayaṃ ca śaṅkhapravaro yena jetāsi dānavān anena vijitā lokāḥ śakreṇāpi mahātmanā 22 pradīyamānaṃ devais tu devadattaṃ jalodbhavam pratyahṛhṇaṃ jayāyainaṃ stūyamānas tadāmaraiḥ 23 sa śaṅkhī kavacī bāṇī pragṛhītaśarāsanaḥ dānavālayam atyugraṃ prayāto 'smi yuyutsayā |
The Mahabharata in Sanskrit
Book 3
Chapter 166
|
1
[अर्ज] ततॊ ऽहं सतूयमानस तु तत्र तत्र महर्षिभिः अपश्यम उदधिं भीमम अपां पतिम अथाव्ययम 2 फेनवत्यः परकीर्णाश च संहताश च समुच्छ्रिताः उर्मयश चात्र दृश्यन्ते चलन्त इव पर्वताः नावः सहस्रशस तत्र रत्नपूर्णाः समन्ततः 3 तिमिंगिलाः कच्छपाश च तथा तिमितिमिंगिलाः मकराश चात्र दृश्यन्ते जले मग्ना इवाद्रयः 4 शङ्खानां च सहस्राणि मग्नान्य अप्सु समन्ततः दृश्यन्ते सम यथा रात्रौ तारास तन्व अभ्रसंवृताः 5 तथा सहस्रशस तत्र रत्नसंघा लवन्त्य उत वायुश च घूर्णते भीमस तद अद्भुतम इवाभवत 6 तम अतीत्य महावेगं सर्वाम्भॊ निधिम उत्तमम अपश्यं दानकाकीर्णं तद दैत्य पुरम अन्तिकात 7 तत्रैव मातलिस तूर्णं निपत्य पृथिवीतले नादयन रथघॊषेण तत पुरं समुपाद्रवत 8 रथघॊषं तु तं शरुत्वा सतनयित्नॊर इवाम्बरे मन्वाना देवराजं मां संविग्ना दानवाभवन 9 सर्वे संभ्रान्तमनसः शरचाप धराः सथिताः तथा शूलासिपरशु गदामुसलपाणयः 10 ततॊ दवाराणि पिदधुर दानवास तरस्तचेतसः संविधाय पुरे रक्षां न सम कश चन दृश्यते 11 ततः शङ्खम उपादाय देवदत्तं महास्वनम पुरम आसुरम आश्लिष्य पराधमं तं शनैर अहम 12 स तु शब्दॊ दिवं सतब्ध्वा परतिशब्दम अजीजनत वित्रेसुश च निलिल्युश च भूतानि सुमहान्त्य अपि 13 ततॊ निवातकवचाः सर्व एव समन्ततः दंशिता विविधैस तराणैर विविधायुधपाणयः 14 आयसैश च महाशूलैर गदाभिर मुसलैर अपि पट्टिशैः करवालैश च रथचक्रैश च भारत 15 शतघ्नीभिर भुशुण्डीभिः खड्गैश चित्रैः सवलंकृतैः परगृहीतैर दितेः पुत्राः परादुरासन सहस्रशः 16 ततॊ विचार्य बहुधा रथमार्गेषु तान हयान पराचॊदयत समे देशे मातलिर भरतर्षभ 17 तेन तेषां परणुन्नानाम आशुत्वाच छीघ्र गामिनाम नान्वपश्यं तदा किं चित तन मे ऽदभुतम इवाभवत 18 ततस ते दानवास तत्र यॊधव्रातान्य अनेकशः विकृतस्वररूपाणि भृशं सर्वाण्य अचॊदयन 19 तेन शब्देन महता समुद्रे पर्वतॊपमाः आप्लवन्त गतैः सत्त्वैर मत्स्याः शतसहस्रशः 20 ततॊ वेगेन महता दानवा माम उपाद्रवन विमुञ्चन्तः शितान बाणाञ शतशॊ ऽथ सहस्रशः 21 स संप्रहारस तुमुलस तेषां मम च भारत अवर्तत महाघॊरॊ निवातकवचान्तकः 22 ततॊ देवर्षयश चैव दानवर्षिगनाश च ये बरह्मर्षयश च सिद्धाश च समाजग्मुर महामृधे 23 ते वै माम अनुरूपाभिर मधुराभिर जयैषिणः अस्तुवन मुनयॊ वाग्भिर यथेन्द्रं तारकामये |
1
[arj] tato 'haṃ stūyamānas tu tatra tatra maharṣibhiḥ apaśyam udadhiṃ bhīmam apāṃ patim athāvyayam 2 phenavatyaḥ prakīrṇāś ca saṃhatāś ca samucchritāḥ urmayaś cātra dṛśyante calanta iva parvatāḥ nāvaḥ sahasraśas tatra ratnapūrṇāḥ samantataḥ 3 timiṃgilāḥ kacchapāś ca tathā timitimiṃgilāḥ makarāś cātra dṛśyante jale magnā ivādrayaḥ 4 śaṅkhānāṃ ca sahasrāṇi magnāny apsu samantataḥ dṛśyante sma yathā rātrau tārās tanv abhrasaṃvṛtāḥ 5 tathā sahasraśas tatra ratnasaṃghā lavanty uta vāyuś ca ghūrṇate bhīmas tad adbhutam ivābhavat 6 tam atītya mahāvegaṃ sarvāmbho nidhim uttamam apaśyaṃ dānakākīrṇaṃ tad daitya puram antikāt 7 tatraiva mātalis tūrṇaṃ nipatya pṛthivītale nādayan rathaghoṣeṇa tat puraṃ samupādravat 8 rathaghoṣaṃ tu taṃ śrutvā stanayitnor ivāmbare manvānā devarājaṃ māṃ saṃvignā dānavābhavan 9 sarve saṃbhrāntamanasaḥ śaracāpa dharāḥ sthitāḥ tathā śūlāsiparaśu gadāmusalapāṇayaḥ 10 tato dvārāṇi pidadhur dānavās trastacetasaḥ saṃvidhāya pure rakṣāṃ na sma kaś cana dṛśyate 11 tataḥ śaṅkham upādāya devadattaṃ mahāsvanam puram āsuram āśliṣya prādhamaṃ taṃ śanair aham 12 sa tu śabdo divaṃ stabdhvā pratiśabdam ajījanat vitresuś ca nililyuś ca bhūtāni sumahānty api 13 tato nivātakavacāḥ sarva eva samantataḥ daṃśitā vividhais trāṇair vividhāyudhapāṇayaḥ 14 āyasaiś ca mahāśūlair gadābhir musalair api paṭṭiśaiḥ karavālaiś ca rathacakraiś ca bhārata 15 śataghnībhir bhuśuṇḍībhiḥ khaḍgaiś citraiḥ svalaṃkṛtaiḥ pragṛhītair diteḥ putrāḥ prādurāsan sahasraśaḥ 16 tato vicārya bahudhā rathamārgeṣu tān hayān prācodayat same deśe mātalir bharatarṣabha 17 tena teṣāṃ praṇunnānām āśutvāc chīghra gāminām nānvapaśyaṃ tadā kiṃ cit tan me 'dbhutam ivābhavat 18 tatas te dānavās tatra yodhavrātāny anekaśaḥ vikṛtasvararūpāṇi bhṛśaṃ sarvāṇy acodayan 19 tena śabdena mahatā samudre parvatopamāḥ āplavanta gataiḥ sattvair matsyāḥ śatasahasraśaḥ 20 tato vegena mahatā dānavā mām upādravan vimuñcantaḥ śitān bāṇāñ śataśo 'tha sahasraśaḥ 21 sa saṃprahāras tumulas teṣāṃ mama ca bhārata avartata mahāghoro nivātakavacāntakaḥ 22 tato devarṣayaś caiva dānavarṣiganāś ca ye brahmarṣayaś ca siddhāś ca samājagmur mahāmṛdhe 23 te vai mām anurūpābhir madhurābhir jayaiṣiṇaḥ astuvan munayo vāgbhir yathendraṃ tārakāmaye |
The Mahabharata in Sanskrit
Book 3
Chapter 167
|
1
[अर्ज] ततॊ निवातकवचाः सर्वे वेगेन भारत अभ्यद्रवन मां सहिताः परगृहीतायुधा रणे 2 आच्छिद्य रथपन्थानम उत्क्रॊशन्तॊ महारथाः आवृत्य सर्वतस ते मां शरवर्षैर अवाकिरन 3 ततॊ ऽपरे महावीर्याः शूलपट्टिशपाणयः शूलानि च भुशुण्डीश च मुमुचुर दानवा मयि 4 तच छूलवर्षं सुमहद गदा शक्तिसमाकुलम अनिशं सृज्यमानं तैर अपतन मद रथॊपरि 5 अन्ये माम अभ्यधावन्त निवातकवचा युधि शितशस्त्रायुधा रौद्राः कालरूपाः परहारिणः 6 तान अहं विविधैर बाणैर वेगबद्भिर अजिह्मगैः गाण्डीवमुक्तैर अभ्यघ्नम एकैकं दशभिर मृधे ते कृता विमिखाः सर्वे मत परयुक्तैः शिलाशितैः 7 ततॊ मातलिना तूर्णं हयास ते संप्रचॊदिताः रथमार्गाद बहूंस तत्र विचेरुर वातरंहसः सुसंयता मातलिना परामथ्नन्त दितेः सुतान 8 शतं शतास ते हरयस तस्मिन युक्ता महारथे तदा मातलिना यत्ता वयचरन्न अल्पका इव 9 तेषां चरणपातेन रथनेमि सवनेन च मम बाणनिपातैश च हतास ते शतशॊ ऽसुराः 10 गतासवस तथा चान्ये परगृहीतशरासनाः हतसारथयस तत्र वयकृष्यन्त तुरंगमैः 11 ते दिषॊ विदिशः सर्वाः परतिरुध्य परहारिणः निघ्नन्ति विविधैः शस्त्रैस ततॊ मे वयथितं मनः 12 ततॊ ऽहं मातलेर वीर्यम अपश्यं परमाद्भुतम अश्वांस तथा वेगवतॊ यद अयत्नाद अधारयत 13 ततॊ ऽहं लघुभिश चित्रैर अस्त्रैस तान असुरान रणे सायुधान अछिनं राजञ शतशॊ ऽथ सहस्रशः 14 एवं मे चरतस तत्र सर्वयत्नेन शत्रुहन परीतिमान अभवद वीरॊ मातलिः शक्रसारथिः 15 वध्यमानास ततस ते तु हयैस तेन रथेन च अगमन परक्षयं के चिन नयवर्तन्त तथापरे 16 सपर्धमाना इवास्माभिर निवातकवचा रणे शरवर्षैर महद्भिर मां समन्तात परत्यवारयन 17 ततॊ ऽहं लघुभिश चैत्रैर बरह्मास्त्र परिमन्त्रितैः वयधमं सायकैर आशु शतशॊ ऽथ सहस्रशः 18 ततः संपीड्यमानास ते करॊधाविष्टा महासुराः अपीडयन मां सहिताः शरशूलासि वृष्टिभिः 19 ततॊ ऽहम अस्त्रम आतिष्ठं परमं तिग्मतेजसम दयितं देवराजस्य माधवं नाम भारत 20 ततः खड्गांस तरिशूलांश च तॊमरांश च सहस्रशः अस्त्रवीर्येण शतधा तैर मुक्तान अहम अच्छिनम 21 छित्त्वा परहरणान्य एषां ततस तान अपि सर्वशः परत्यविध्यम अहं रॊषाद दशभिर दशभिः शरैः 22 गाण्डीवाद धि तदा संख्ये यथा भरमरपङ्क्तयः निष्पतन्ति तथा बाणास तन मातलिर अपूजयत 23 तेषाम अपि तु बाणास ते बहुत्वाच छलभा इव अवाकिरन मां बलवत तान अहं वयधमं शरैः 24 वध्यमानास ततस ते तु निवातकवचाः पुनः शरवर्षैर महद्भिर मां समन्तात पर्यवारयन 25 शरवेगान निहत्याहम अस्त्रैः शरविघातिभिः जवलद्भिः परमैः शीघ्रैस तान अविध्यं सहस्रशः 26 तेषां छिन्नानि गात्राणि विसृजन्ति सम शॊणितम परावृषीवातिवृष्टानि शृङ्गाणीव धरा भृताम 27 इन्द्राशनिसमस्पर्शैर वेगवद्भिर अजिह्मगैः मद्बाणैर वध्यमानास ते समुद्विग्नाः सम दानवाः 28 शतधा भिन्नदेहान्त्राः कषीणप्रहरणौजसः ततॊ निवातकवचा माम अयुध्यन्त मायया |
1
[arj] tato nivātakavacāḥ sarve vegena bhārata abhyadravan māṃ sahitāḥ pragṛhītāyudhā raṇe 2 ācchidya rathapanthānam utkrośanto mahārathāḥ āvṛtya sarvatas te māṃ śaravarṣair avākiran 3 tato 'pare mahāvīryāḥ śūlapaṭṭiśapāṇayaḥ śūlāni ca bhuśuṇḍīś ca mumucur dānavā mayi 4 tac chūlavarṣaṃ sumahad gadā śaktisamākulam aniśaṃ sṛjyamānaṃ tair apatan mad rathopari 5 anye mām abhyadhāvanta nivātakavacā yudhi śitaśastrāyudhā raudrāḥ kālarūpāḥ prahāriṇaḥ 6 tān ahaṃ vividhair bāṇair vegabadbhir ajihmagaiḥ gāṇḍīvamuktair abhyaghnam ekaikaṃ daśabhir mṛdhe te kṛtā vimikhāḥ sarve mat prayuktaiḥ śilāśitaiḥ 7 tato mātalinā tūrṇaṃ hayās te saṃpracoditāḥ rathamārgād bahūṃs tatra vicerur vātaraṃhasaḥ susaṃyatā mātalinā prāmathnanta diteḥ sutān 8 śataṃ śatās te harayas tasmin yuktā mahārathe tadā mātalinā yattā vyacarann alpakā iva 9 teṣāṃ caraṇapātena rathanemi svanena ca mama bāṇanipātaiś ca hatās te śataśo 'surāḥ 10 gatāsavas tathā cānye pragṛhītaśarāsanāḥ hatasārathayas tatra vyakṛṣyanta turaṃgamaiḥ 11 te diṣo vidiśaḥ sarvāḥ pratirudhya prahāriṇaḥ nighnanti vividhaiḥ śastrais tato me vyathitaṃ manaḥ 12 tato 'haṃ mātaler vīryam apaśyaṃ paramādbhutam aśvāṃs tathā vegavato yad ayatnād adhārayat 13 tato 'haṃ laghubhiś citrair astrais tān asurān raṇe sāyudhān achinaṃ rājañ śataśo 'tha sahasraśaḥ 14 evaṃ me caratas tatra sarvayatnena śatruhan prītimān abhavad vīro mātaliḥ śakrasārathiḥ 15 vadhyamānās tatas te tu hayais tena rathena ca agaman prakṣayaṃ ke cin nyavartanta tathāpare 16 spardhamānā ivāsmābhir nivātakavacā raṇe śaravarṣair mahadbhir māṃ samantāt pratyavārayan 17 tato 'haṃ laghubhiś caitrair brahmāstra parimantritaiḥ vyadhamaṃ sāyakair āśu śataśo 'tha sahasraśaḥ 18 tataḥ saṃpīḍyamānās te krodhāviṣṭā mahāsurāḥ apīḍayan māṃ sahitāḥ śaraśūlāsi vṛṣṭibhiḥ 19 tato 'ham astram ātiṣṭhaṃ paramaṃ tigmatejasam dayitaṃ devarājasya mādhavaṃ nāma bhārata 20 tataḥ khaḍgāṃs triśūlāṃś ca tomarāṃś ca sahasraśaḥ astravīryeṇa śatadhā tair muktān aham acchinam 21 chittvā praharaṇāny eṣāṃ tatas tān api sarvaśaḥ pratyavidhyam ahaṃ roṣād daśabhir daśabhiḥ śaraiḥ 22 gāṇḍīvād dhi tadā saṃkhye yathā bhramarapaṅktayaḥ niṣpatanti tathā bāṇās tan mātalir apūjayat 23 teṣām api tu bāṇās te bahutvāc chalabhā iva avākiran māṃ balavat tān ahaṃ vyadhamaṃ śaraiḥ 24 vadhyamānās tatas te tu nivātakavacāḥ punaḥ śaravarṣair mahadbhir māṃ samantāt paryavārayan 25 śaravegān nihatyāham astraiḥ śaravighātibhiḥ jvaladbhiḥ paramaiḥ śīghrais tān avidhyaṃ sahasraśaḥ 26 teṣāṃ chinnāni gātrāṇi visṛjanti sma śoṇitam prāvṛṣīvātivṛṣṭāni śṛṅgāṇīva dharā bhṛtām 27 indrāśanisamasparśair vegavadbhir ajihmagaiḥ madbāṇair vadhyamānās te samudvignāḥ sma dānavāḥ 28 śatadhā bhinnadehāntrāḥ kṣīṇapraharaṇaujasaḥ tato nivātakavacā mām ayudhyanta māyayā |
The Mahabharata in Sanskrit
Book 3
Chapter 168
|
1
[अर्ज] ततॊ ऽशमवर्षं सुमहत परादुरासीत समन्ततः नगमात्रैर महाघॊरैस तन मां दृढम अपीडयत 2 तद अहं वज्रसंकाशैः शरैर इन्द्रास्त्र चॊदितैः अचूर्णयं वेगवद्भिः शतधैकैकम आहवे 3 चूर्ण्यमाने ऽशमवर्षे तु पावकः समजायत तत्राश्म चूर्णम अपतत पावकप्रकरा इव 4 ततॊ ऽशमवर्षे निहते जलवर्षं महत्तरम धाराभिर अक्षमात्राभिः परादुरासीन ममान्तके 5 नभसः परयुता धारास तिग्मवीर्याः सहस्रशः आवृण्वन सर्वतॊ वयॊम दिशश चॊपदिशस तथा 6 धाराणां च निपातेन वायॊर विस्फूर्जितेन च गर्जितेन च दैत्यानां न पराज्ञायत किं चन 7 धारा दिवि च संबद्धा वसुधायां च सर्वशः वयामॊहयन्त मां तत्र निपतन्त्यॊ ऽनिशं भुवि 8 तत्रॊपदिष्टम इन्द्रेण दिव्यम अस्त्रं विशॊषणम दीप्तं पराहिणवं घॊरम अशुष्यत तेन तज जलम 9 हते ऽशमवर्षे तु मया जलवर्षे च शॊषिते मुमुचुर दानवा मायाम अग्निं वायुं च मानद 10 ततॊ ऽहम अग्निं वयधमं सलिलास्त्रेण सर्वशः शैलेन च महास्त्रेण वायॊर वेगम अधारयम 11 तस्यां परतिहतायां तु दानवा युद्धदुर्मदाः पराकुर्वन विविधा माया यौगपद्येन भारत 12 ततॊ वर्षं परादुरभूत सुमहन मॊम हर्षणम अस्त्राणां घॊररूपाणाम अग्नेर वायॊस तथाश्मनाम 13 सा तु मायामयी वृष्टिः पीडयाम आस मां युधि अथ घॊरं तमस तीव्रं परादुरासीत समन्ततः 14 तमसा संवृते लॊके घॊरेण परुषेण च तुरगा विमुखाश चासन परास्खलच चापि मातलिः 15 हस्ताद धिरण्मयश चास्य परतॊदः परापतद भुवि असकृच चाह मां भीतः कवासीति भरतर्षभ 16 मां च भीर आविशत तीव्रा तस्मिन विगतचेतसि स च मां विगतज्ञानः संत्रस्त इदम अब्रवीत 17 सुराणाम असुराणां च संग्रामः सुमहान अभूत अमृतार्थे पुरा पार्थ स च दृष्टॊ मयानघ 18 शम्बरस्य वधे चापि संग्रामः सुमहान अभूत सारथ्यं देवराजस्य तत्रापि कृतवान अहम 19 तथैव वृत्रस्य वधे संगृहीता हया मया वैरॊचनेर मया युद्धं दृष्टं चापि सुदारुणम 20 एते मया महाघॊराः संग्रामाः पर्युपासिताः न चापि विगतज्ञानॊ भूतपूर्वॊ ऽसमि पाण्डव 21 पितामहेन संहारः परजानां विहितॊ धरुवम न हि युद्धम इदं युक्तम अन्यत्र जगतः कषयात 22 तस्य तद वचनं शरुत्वा संस्तभ्यात्मानम आत्मना मॊहयिष्यन दानवानाम अहं मायामयं बलम 23 अब्रुवं मातलिं भीतं पश्य मे भुजयॊर बलम अस्त्राणां च परभावं मे धनुषॊ गाण्डिवस्य च 24 अद्यास्त्र माययैतेषां मायाम एतां सुदारुणाम विनिहन्मि तमश चॊग्रं मा भैः सूत सथिरॊ भव 25 एवम उक्त्वाहम असृजम अस्त्रमायां नराधिप मॊहिनीं सर्वशत्रूणां हिताय तरिदिवौकसाम 26 पीड्यमानासु मायासु तासु तास्व असुरेश्वराः पुनर बहुविधा मायाः पराकुर्वन्न अमितौजसः 27 पुनः परकाशम अभवत तमसा गरस्यते पुनः वरजत्य अदर्शनं लॊकः पुनर अप्सु निमज्जति 28 सुसंगृहीतैर हरिभिः परकाशे सति मातलिः वयचरत सयन्दनाग्र्येण संग्रामे लॊमहर्षणे 29 ततः पर्यपतन्न उग्रा निवातकवचा मयि तान अहं विवरं दृष्ट्वा पराहिण्वं यमसादनम 30 वर्तमाने तथा युद्धे निवातकवचान्तके नापश्यं सहसा सर्वान दानवान माययावृतान |
1
[arj] tato 'śmavarṣaṃ sumahat prādurāsīt samantataḥ nagamātrair mahāghorais tan māṃ dṛḍham apīḍayat 2 tad ahaṃ vajrasaṃkāśaiḥ śarair indrāstra coditaiḥ acūrṇayaṃ vegavadbhiḥ śatadhaikaikam āhave 3 cūrṇyamāne 'śmavarṣe tu pāvakaḥ samajāyata tatrāśma cūrṇam apatat pāvakaprakarā iva 4 tato 'śmavarṣe nihate jalavarṣaṃ mahattaram dhārābhir akṣamātrābhiḥ prādurāsīn mamāntake 5 nabhasaḥ prayutā dhārās tigmavīryāḥ sahasraśaḥ āvṛṇvan sarvato vyoma diśaś copadiśas tathā 6 dhārāṇāṃ ca nipātena vāyor visphūrjitena ca garjitena ca daityānāṃ na prājñāyata kiṃ cana 7 dhārā divi ca saṃbaddhā vasudhāyāṃ ca sarvaśaḥ vyāmohayanta māṃ tatra nipatantyo 'niśaṃ bhuvi 8 tatropadiṣṭam indreṇa divyam astraṃ viśoṣaṇam dīptaṃ prāhiṇavaṃ ghoram aśuṣyat tena taj jalam 9 hate 'śmavarṣe tu mayā jalavarṣe ca śoṣite mumucur dānavā māyām agniṃ vāyuṃ ca mānada 10 tato 'ham agniṃ vyadhamaṃ salilāstreṇa sarvaśaḥ śailena ca mahāstreṇa vāyor vegam adhārayam 11 tasyāṃ pratihatāyāṃ tu dānavā yuddhadurmadāḥ prākurvan vividhā māyā yaugapadyena bhārata 12 tato varṣaṃ prādurabhūt sumahan moma harṣaṇam astrāṇāṃ ghorarūpāṇām agner vāyos tathāśmanām 13 sā tu māyāmayī vṛṣṭiḥ pīḍayām āsa māṃ yudhi atha ghoraṃ tamas tīvraṃ prādurāsīt samantataḥ 14 tamasā saṃvṛte loke ghoreṇa paruṣeṇa ca turagā vimukhāś cāsan prāskhalac cāpi mātaliḥ 15 hastād dhiraṇmayaś cāsya pratodaḥ prāpatad bhuvi asakṛc cāha māṃ bhītaḥ kvāsīti bharatarṣabha 16 māṃ ca bhīr āviśat tīvrā tasmin vigatacetasi sa ca māṃ vigatajñānaḥ saṃtrasta idam abravīt 17 surāṇām asurāṇāṃ ca saṃgrāmaḥ sumahān abhūt amṛtārthe purā pārtha sa ca dṛṣṭo mayānagha 18 śambarasya vadhe cāpi saṃgrāmaḥ sumahān abhūt sārathyaṃ devarājasya tatrāpi kṛtavān aham 19 tathaiva vṛtrasya vadhe saṃgṛhītā hayā mayā vairocaner mayā yuddhaṃ dṛṣṭaṃ cāpi sudāruṇam 20 ete mayā mahāghorāḥ saṃgrāmāḥ paryupāsitāḥ na cāpi vigatajñāno bhūtapūrvo 'smi pāṇḍava 21 pitāmahena saṃhāraḥ prajānāṃ vihito dhruvam na hi yuddham idaṃ yuktam anyatra jagataḥ kṣayāt 22 tasya tad vacanaṃ śrutvā saṃstabhyātmānam ātmanā mohayiṣyan dānavānām ahaṃ māyāmayaṃ balam 23 abruvaṃ mātaliṃ bhītaṃ paśya me bhujayor balam astrāṇāṃ ca prabhāvaṃ me dhanuṣo gāṇḍivasya ca 24 adyāstra māyayaiteṣāṃ māyām etāṃ sudāruṇām vinihanmi tamaś cograṃ mā bhaiḥ sūta sthiro bhava 25 evam uktvāham asṛjam astramāyāṃ narādhipa mohinīṃ sarvaśatrūṇāṃ hitāya tridivaukasām 26 pīḍyamānāsu māyāsu tāsu tāsv asureśvarāḥ punar bahuvidhā māyāḥ prākurvann amitaujasaḥ 27 punaḥ prakāśam abhavat tamasā grasyate punaḥ vrajaty adarśanaṃ lokaḥ punar apsu nimajjati 28 susaṃgṛhītair haribhiḥ prakāśe sati mātaliḥ vyacarat syandanāgryeṇa saṃgrāme lomaharṣaṇe 29 tataḥ paryapatann ugrā nivātakavacā mayi tān ahaṃ vivaraṃ dṛṣṭvā prāhiṇvaṃ yamasādanam 30 vartamāne tathā yuddhe nivātakavacāntake nāpaśyaṃ sahasā sarvān dānavān māyayāvṛtān |
The Mahabharata in Sanskrit
Book 3
Chapter 169
|
1
[अर्ज] अदृश्यमानास ते दैत्या यॊधयन्ति सम मायया अदृश्यान अस्त्रवीर्येण तान अप्य अहम अयॊधयम 2 गाण्डीवमुक्ता विशिखाः सम्यग अस्त्रप्रचॊदिताः अच्छिन्दन्न उत्तमाङ्गानि यत्र यत्र सम ते ऽभवन 3 ततॊ निवातवकचा वध्यमाना मया युधि संहृत्य मायां सहसा पराविशन पुरम आत्मनः 4 वयपयातेषु दैत्येषु परादुर्भूते च दर्शने अपश्यं दानवांस तत्र हताञ शतसहस्रशः 5 विनिष्पिष्टानि तत्रैषां शस्त्राण्य आभरणानि च कूटशः सम परदृश्यन्ते गात्राणि कवचानि च 6 हयानां नान्तरं हय आसीत पदाद विचलितुं पदम उत्पत्य सहसा तस्थुर अन्तरिक्षगमास ततः 7 ततॊ निवातकवचा वयॊम संछाद्य केवलम अदृश्या हय अभ्यवर्तन्त विसृजन्तः शिलॊच्चयान 8 अन्तर्भूमि गताश चान्ये हयानां चरणान्य अथ नयगृह्णन दानवा घॊरा रथचक्रे च भारत 9 विनिगृह्य हरीन अश्वान रथं च मम युध्यतः सर्वतॊ माम अचिन्वन्त सरथं धरणीधरैः 10 पर्वतैर उपचीयद्भिः पतमानैस तथापरैः स देशॊ यत्र वर्ताम गुहेव समपद्यत 11 पर्वतैश छाद्यमानॊ ऽहं निगृहीतैश च वाजिभिः अगच्छं परमाम आर्तिं मातलिस तद अलक्षयत 12 लक्षयित्वा तु मां भीतम इदं वचनम अब्रवीत अर्जुनार्जुन मा भैस तवं वज्रम अस्त्रम उदीरय 13 ततॊ ऽहं तस्य तद वाक्यं शरुत्वा वज्रम उदीरयम देवराजस्य दयितं वज्रम अस्त्रं नराधिप 14 अचलं सथानम आसाद्य गाण्डीवम अनुमन्त्र्य च अमुञ्चं वज्रसंस्पर्शान आयसान निशिताञ शरान 15 ततॊ मायाश च ताः सर्वा निवातकवचांश च तान ते वज्रचॊदिता बाणा वज्रभूताः समाविशन 16 ते वज्रवेगाभिहता दानवाः पर्वतॊपमाः इतरेतरम आश्लिष्य नयपतन पृथिवीतले 17 अन्तर्भूमौ तु ये ऽगृह्णन दानवा रथवाजिनः अनुप्रविश्य तान बाणाः पराहिण्वन यमसादनम 18 हतैर निवातकवचैर निरसैः पर्वतॊपमैः समाच्छाद्यत देशः स विकीर्णैर इव पर्वतैः 19 न हयानां कषतिः का चिन न रथस्य न मातलेः मम चादृश्यत तदा तद अद्भुतम इवाभवत 20 ततॊ मां परहसन राजन मातलिः परत्यभाषत नैतद अर्जुन देवेषु तवयि वीर्यं यदीक्ष्यते 21 हतेष्व असुरसंघेषु दारास तेषां तु सर्वशः पराक्रॊशन नगरे तस्मिन यथा शरदि लक्ष्मणाः 22 ततॊ मातलिना सार्धम अहं तत पुरम अभ्ययाम तरासयन रथघॊषेण निवातकवचस्त्रियः 23 तान दृष्ट्वा दशसाहस्रान मयूरसदृशान हयान रथं च रविसंकाशं पराद्रवन गणशः सत्रियः 24 ताभिर आभरणैः शब्दस तरासिताभिः समीरितः शिलानाम इव शैलेषु पतन्तीनाम अभूत तदा 25 वित्रस्ता दैत्य नार्यस ताः सवानि वेश्मान्य अथाविशन बहुरत्नविचित्राणि शातकुम्भमयानि च 26 तद अद्भुताकारम अहं दृष्ट्वा नगरम उत्तमम विशिष्टं देव नगराद अपृच्छं मातलिं ततः 27 इदम एवंविधं कस्माद देवता नाविशन्त्य उत पुरंदर पुराद धीदं विशिष्टम इति लक्षये 28 [मा] आसीद इदं पुरा पार्थ देवराजस्य नः पुरम ततॊ निवातकवचैर इतः परच्याविताः सुराः 29 तपस तप्त्वा महत तीव्रं परसाद्य च पितामहम इदं वृतं निवासाय देवेभ्यश चाभयं युधि 30 ततः शक्रेण भगवान सवयम्भूर अभिचॊदितः विधत्तां भगवान अत्रेत्य आत्मनॊ हितकाम्यया 31 तत उक्तॊ भगवता दिष्टम अत्रेति वासवः भवितान्तस तवम एवैषां देहेनान्येन वृत्रहन 32 तत एषां वधार्थाय शक्रॊ ऽसत्राणि ददौ तव न हि शक्याः सुरैर हन्तुं य एते निहतास तवया 33 कालस्य परिणामेन ततस तवम इह भारत एषाम अन्तकरः पराप्तस तत तवया च कृतं तथा 34 दानवानां विनाशार्थं महास्त्राणां महद बलम गराहितस तवं महेन्द्रेण पुरुषेन्द्र तद उत्तमम 35 [अर्ज] ततः परविश्य नगरं दानवांश च निहत्य तान पुनर मातलिना सार्धम अगच्छं देव सद्म तत |
1
[arj] adṛśyamānās te daityā yodhayanti sma māyayā adṛśyān astravīryeṇa tān apy aham ayodhayam 2 gāṇḍīvamuktā viśikhāḥ samyag astrapracoditāḥ acchindann uttamāṅgāni yatra yatra sma te 'bhavan 3 tato nivātavakacā vadhyamānā mayā yudhi saṃhṛtya māyāṃ sahasā prāviśan puram ātmanaḥ 4 vyapayāteṣu daityeṣu prādurbhūte ca darśane apaśyaṃ dānavāṃs tatra hatāñ śatasahasraśaḥ 5 viniṣpiṣṭāni tatraiṣāṃ śastrāṇy ābharaṇāni ca kūṭaśaḥ sma pradṛśyante gātrāṇi kavacāni ca 6 hayānāṃ nāntaraṃ hy āsīt padād vicalituṃ padam utpatya sahasā tasthur antarikṣagamās tataḥ 7 tato nivātakavacā vyoma saṃchādya kevalam adṛśyā hy abhyavartanta visṛjantaḥ śiloccayān 8 antarbhūmi gatāś cānye hayānāṃ caraṇāny atha nyagṛhṇan dānavā ghorā rathacakre ca bhārata 9 vinigṛhya harīn aśvān rathaṃ ca mama yudhyataḥ sarvato mām acinvanta sarathaṃ dharaṇīdharaiḥ 10 parvatair upacīyadbhiḥ patamānais tathāparaiḥ sa deśo yatra vartāma guheva samapadyata 11 parvataiś chādyamāno 'haṃ nigṛhītaiś ca vājibhiḥ agacchaṃ paramām ārtiṃ mātalis tad alakṣayat 12 lakṣayitvā tu māṃ bhītam idaṃ vacanam abravīt arjunārjuna mā bhais tvaṃ vajram astram udīraya 13 tato 'haṃ tasya tad vākyaṃ śrutvā vajram udīrayam devarājasya dayitaṃ vajram astraṃ narādhipa 14 acalaṃ sthānam āsādya gāṇḍīvam anumantrya ca amuñcaṃ vajrasaṃsparśān āyasān niśitāñ śarān 15 tato māyāś ca tāḥ sarvā nivātakavacāṃś ca tān te vajracoditā bāṇā vajrabhūtāḥ samāviśan 16 te vajravegābhihatā dānavāḥ parvatopamāḥ itaretaram āśliṣya nyapatan pṛthivītale 17 antarbhūmau tu ye 'gṛhṇan dānavā rathavājinaḥ anupraviśya tān bāṇāḥ prāhiṇvan yamasādanam 18 hatair nivātakavacair nirasaiḥ parvatopamaiḥ samācchādyata deśaḥ sa vikīrṇair iva parvataiḥ 19 na hayānāṃ kṣatiḥ kā cin na rathasya na mātaleḥ mama cādṛśyata tadā tad adbhutam ivābhavat 20 tato māṃ prahasan rājan mātaliḥ pratyabhāṣata naitad arjuna deveṣu tvayi vīryaṃ yadīkṣyate 21 hateṣv asurasaṃgheṣu dārās teṣāṃ tu sarvaśaḥ prākrośan nagare tasmin yathā śaradi lakṣmaṇāḥ 22 tato mātalinā sārdham ahaṃ tat puram abhyayām trāsayan rathaghoṣeṇa nivātakavacastriyaḥ 23 tān dṛṣṭvā daśasāhasrān mayūrasadṛśān hayān rathaṃ ca ravisaṃkāśaṃ prādravan gaṇaśaḥ striyaḥ 24 tābhir ābharaṇaiḥ śabdas trāsitābhiḥ samīritaḥ śilānām iva śaileṣu patantīnām abhūt tadā 25 vitrastā daitya nāryas tāḥ svāni veśmāny athāviśan bahuratnavicitrāṇi śātakumbhamayāni ca 26 tad adbhutākāram ahaṃ dṛṣṭvā nagaram uttamam viśiṣṭaṃ deva nagarād apṛcchaṃ mātaliṃ tataḥ 27 idam evaṃvidhaṃ kasmād devatā nāviśanty uta puraṃdara purād dhīdaṃ viśiṣṭam iti lakṣaye 28 [mā] āsīd idaṃ purā pārtha devarājasya naḥ puram tato nivātakavacair itaḥ pracyāvitāḥ surāḥ 29 tapas taptvā mahat tīvraṃ prasādya ca pitāmaham idaṃ vṛtaṃ nivāsāya devebhyaś cābhayaṃ yudhi 30 tataḥ śakreṇa bhagavān svayambhūr abhicoditaḥ vidhattāṃ bhagavān atrety ātmano hitakāmyayā 31 tata ukto bhagavatā diṣṭam atreti vāsavaḥ bhavitāntas tvam evaiṣāṃ dehenānyena vṛtrahan 32 tata eṣāṃ vadhārthāya śakro 'strāṇi dadau tava na hi śakyāḥ surair hantuṃ ya ete nihatās tvayā 33 kālasya pariṇāmena tatas tvam iha bhārata eṣām antakaraḥ prāptas tat tvayā ca kṛtaṃ tathā 34 dānavānāṃ vināśārthaṃ mahāstrāṇāṃ mahad balam grāhitas tvaṃ mahendreṇa puruṣendra tad uttamam 35 [arj] tataḥ praviśya nagaraṃ dānavāṃś ca nihatya tān punar mātalinā sārdham agacchaṃ deva sadma tat |
The Mahabharata in Sanskrit
Book 3
Chapter 170
|
1
[अर्ज] निवर्तमानेन मया महद दृष्टं ततॊ ऽपरम पुरं कामचरं दिव्यं पावकार्क समप्रभम 2 दरुमै रत्नमयैश चैत्रैर भास्वरैश च पतत्रिभिः पौलॊमैः कालकेयैश च नित्यहृष्टैर अधिष्ठितम 3 गॊपुराट्टालकॊपेतं चतुर्द्वारं दुरासदम सर्वरत्नमयं दिव्यम अद्भुतॊपमदर्शनम दरुमैः पुष्पफलॊपेतैर दिव्यरत्नमयैर वृतम 4 तथा पतत्रिभिर दिव्यैर उपेतं सुमनॊहरैः असुरैर नित्यमुदितैः शूलर्ष्टि मुसलायुधैः चापमुद्गर हस्तैश च सरग्विभिः सर्वतॊवृतम 5 तद अहं परेक्ष्य दैत्यानां पुरम अद्भुतदर्शनम अपृच्छं मातलिं राजन किम इदं दृश्यतेति वै 6 [मा] पुलॊमा नाम दैतेयी कालका च महासुरी दिव्यं वर्षसहस्रं ते चेरतुः परमं तपः तपसॊ ऽनते ततस ताभ्यां सवयम्भूर अददाद वरम 7 अगृह्णीतां वरं ते तु सुतानाम अल्पदुःखताम अवध्यतां च राजेन्द्र सुरराक्षस पन्नगैः 8 रमणीयं पुरं चेदं खचरं सुकृतप्रभम सर्वरत्नैः समुदितं दुर्धर्षम अमरैर अपि सयक्षगन्धर्वगणैः पन्नगासुरराक्षसैः 9 सर्वकामगुणॊपेतं वीतशॊकम अनामयम बरह्मणा भरतश्रेष्ठ कालकेय कृते कृतम 10 तद एतत खचरं दिव्यं चरत्य अमर वर्जितम पौलॊमाध्युषितं वीर कालकेयैश च दानवैः 11 हिरण्यपुरम इत्य एतत खयायते नगरं महत रक्षितं कालकेयैश च पौलॊमैश च महासुरैः 12 त एते मुदिता नित्यम अवध्याः सर्वदैवतैः निवसन्त्य अत्र राजेन्द्र गतॊद्वेगा निरुत्सुकाः मानुषॊ मृत्युर एतेषां निर्दिष्टॊ बरह्मणा पुरा 13 [अर्ज] सुरासुरैर अवध्यांस तान अहं जञात्वा ततः परभॊ अब्रुवं मातलिं हृष्टॊ याह्य एतत पुरम अञ्जसा 14 तरिदशेश दविषॊ यावत कषयम अस्त्रैर नयाम्य अहम न कथंचिद धि मे पापा न वध्या ये सुरद्विषः 15 उवाह मां ततः शीघ्रं हिरण्यपुरम अन्तिकात रथेन तेन दिव्येन हरियुक्तेन मातलिः 16 ते माम आलक्ष्य दैतेया विचित्राभरणाम्बराः समुत्पेतुर महावेगा रथान आस्थाय दंशिताः 17 ततॊ नालीकनाराचैर भल्लशक्त्यृष्टि तॊमरैः अभ्यघ्नन दानवेन्द्रा मां करुद्धास तीव्रपराक्रमाः 18 तद अहं चास्त्रवर्षेण महता परत्यवारयम शस्त्रवर्षं महद राजन विद्या बलम उपाश्रितः 19 वयामॊहयं च तान सर्वान रथमार्गैश चरन रणे ते ऽनयॊन्यम अभिसंमूढाः पातयन्ति सम दानवाः 20 तेषाम अहं विमूढानाम अन्यॊन्यम अभिधावताम शिरांसि विशिखैर दीप्तैर वयहरं शतसंघशः 21 ते वध्यमाना दैतेयाः पुरम आस्थाय तत पुनः खम उत्पेतुः सनगरा मायाम आस्थाय दानवीम 22 ततॊ ऽहं शरवर्षेण महता परत्यवारयम मार्गम आवृत्य दैत्यानां गतिं चैषाम अवारयम 23 तत पुरं खचरं दिव्यं कामगं दिव्यवर्चसम दैतेयैर वरदानेन धार्यते सम यथासुखम 24 अन्तर्भूमौ निपतितं पुनर ऊर्ध्वं परतिष्ठते पुनस तिर्यक परयात्य आशु पुनर अप्सु निमज्जति 25 अमरावतिसंकाशं पुरं कामगमं तु तत अहम अस्त्रैर बहुविधैः परत्यगृह्णं नराधिप 26 ततॊ ऽहं शरजालेन दिव्यास्त्रमुदितेन च नयगृह्णं सह दैतेयैस तत पुरं भरतर्षभ 27 विक्षतं चायसैर बाणैर मत परयुक्तैर अजिह्मगैः महीम अभ्यपतद राजन परभग्नं पुरम आसुरम 28 ते वध्यमाना मद्बाणैर वज्रवेगैर अयस्मयैः पर्यभ्रमन्त वै राजन्न असुराः कालचॊदिताः 29 ततॊ मातलिर अप्य आशु पुरस्तात्ल निपतन्न इव महीम अवातरत कषिप्रं रथेनादित्यवर्चसा 30 ततॊ रथसहस्राणि षष्टिस तेषाम अमर्षिणाम युयुत्सूनां मया सार्धं पर्यवर्तन्त भारत 31 तान अहं निशितैर बाणैर वयधमं गार्ध्रवाजितैः ते युद्धे संन्यवर्तन्त समुद्रस्य यथॊर्मयः 32 नेमे शक्या मानुषेण युद्धेनेति परचिन्त्य वै ततॊ ऽहम आनुपूर्व्येण सर्वाण्य अस्त्राण्य अयॊजयम 33 ततस तानि सहस्राणि रथानां चित्रयॊधिनाम अस्त्राणि मम दिव्यानि परत्यघ्नञ शनकैर इव 34 रथमार्गान विचित्रांस ते विचरन्तॊ महारथाः परत्यदृश्यन्त संग्रामे शतशॊ ऽथ सहस्रशः 35 विचित्रमुकुटापीडा विचित्रकवच धवजाः विचित्राभरणाश चैव नन्दयन्तीव मे मनः 36 अहं तु शरवर्षैस तान अस्त्रप्रमुदितै रणे नाशक्नुवं पीडयितुं ते तु मां पर्यपीडयन 37 तैः पीड्यमानॊ बहुभिः कृतास्त्रैः कुशलैर युधि वयथितॊ ऽसमि महायुद्धे भयं चागान महन मम 38 ततॊ ऽहं देवदेवाय रुद्राय परणतॊ रणे सवस्ति भूतेभ्य इत्य उक्त्वा महास्त्रं समयॊजयम यत तद रौद्रम इति खयातं सर्वामित्र विनाशनम 39 ततॊ ऽपश्यं तरिशिरसं पुरुषं नव लॊचनम तरिमुखं षड भुजं दीप्तम अर्कज्वलन मूर्धजम लॊलिहानैर महानागैः कृतशीर्षम अमित्रहन 40 विभीस ततस तद अस्त्रं तु घॊरं रौद्रं सनातनम दृष्ट्वा गाण्डीवसंयॊगम आनीय भरतर्षभ 41 नमस्कृत्वा तरिनेत्राय शर्वायामित तेजसे मुक्तवान दानवेन्द्राणां पराभावाय भारत 42 मुक्तमात्रे ततस तस्मिन रूपाण्य आसन सहस्रशः मृगाणाम अथ सिंहानां वयाघ्राणां च विशां पते ऋक्षाणां महिषाणां च पन्नगानां तथा गवाम 43 गजानां सृमराणां च शरभाणां च सर्वशः ऋषभाणां वराहाणां मार्जाराणां तथैव च शालावृकाणां परेतानां भुरुण्डानां च सर्वशः 44 गृध्राणां गरुडानां च मकराणां तथैव च पिशाचानां सयक्षाणां तथैव च सुरद्विषाम 45 गुह्यकानां च संग्रामे नैरृतानां तथैव च झषाणां गजवक्त्राणाम उलूकानां तथैव च 46 मीनकूर्म समूहानां नानाशस्त्रासि पाणिनाम तथैव यातु दानानां गदा मुद्गरधारिणाम 47 एतैश चान्यैश च बहुभिर नानारूपधरैस तथा सर्वम आसीज जगद वयाप्तं तस्मिन्न अस्त्रे विसर्जिते 48 तरिषिरॊभिश चतुर्दंष्ट्रैश चतुरास्यैश चतुर्भुजैः अनेकरूपसंयुक्तैर मांसं मेदॊ वसाशिभिः अभीक्ष्णं वध्यमानास ते दानवा ये समागताः 49 अर्कज्वलन तेजॊभिर वज्राशनिसमप्रभैः अदिर सारमयैश चान्यैर बाणैर अरिविदारणैः नयहनं दानवान सर्वान मुहूर्तेनैव भारत 50 गाण्डीवास्त्र परणुन्नांस तान गतासून नभसश चयुतान दृष्ट्वाहं पराणमं भूयस तरिपुरघ्नाय वेधसे 51 तथा रौद्रास्त्र निष्पिष्टान दिव्याभरणभूषितान निशाम्य परमं हर्षम अगमद देव सारथिः 52 तद असह्यं कृतं कर्म देवैर अपि दुरासदम दृष्ट्वा मां पूजयाम आस मातलिः शक्रसारथिः 53 उवाच चेदं वचनं परीयमाणः कृताञ्जलिः सुरासुरैर असह्यं हि कर्म यत साधितं तवया न हय एतत संयुगे कर्तुम अपि शक्तः सुरेश्वरः 54 सुरासुरैर अवध्यं हि पुरम एतत खगं महत तवया विमथितं वीर सववीर्यास्त्र तपॊबलात 55 विध्वस्ते ऽथ पुरे तस्मिन दानवेषु हतेषु च विनदन्त्यः सत्रियः सर्वा निष्पेतुर नगराद बहिः 56 परकीर्णकेश्यॊ वयथिताः कुरर्य इव दुःखिताः पेतुः पुत्रान पितॄन भरातॄञ शॊचमाना महीतले 57 रुदन्त्यॊ दीनकण्ठ्यस ता विनदन्त्यॊ हतेश्वराः उरांसि पाणिभिर घनन्त्यः परस्रस्तस्रग्वि भूषणाः 58 तच छॊकयुक्तम अश्रीकं दुःखदैन्य समाहतम न बभौ दानव पुरं हतत्विट्कं हतेश्वरम 59 गन्धर्वनगराकारं हतनागम इव हरदम शुष्कवृक्षम इवारण्यम अदृश्यम अभवत पुरम 60 मां तु संहृष्टमनसं कषिप्रं मातलिर आनयत देवराजस्य भवनं कृतकर्माणम आहवात 61 हिरण्यपुरम आरुज्य निहत्य च महासुरान निवातकवचांश चैव ततॊ ऽहं शक्रम आगमम 62 मम कर्म च देवेन्द्रं मातलिर विस्तरेण तत सर्वं विश्रावयाम आस यथा भूतं महाद्युते 63 हिरण्यपुरघातं च मायानां चनिवारणम निवातकवचानां च वधं संख्ये महौजसाम 64 तच छरुत्वा भगवान परीतः सहस्राक्षः पुरंदरः मरुद्भिः सहितः शरीमान साधु साध्व इत्य अथाब्रवीत 65 ततॊ मां देवराजॊ वै समाश्वास्य पुनः पुनः अब्रवीद विबुधैः सार्धम इदं सुमधुरं वचः 66 अतिदेवासुरं कर्मकृतम एत तवया रणे गुर्वर्थश च महापार्थ कृतः शत्रून घनता मम 67 एवम एव सदा भाव्यं सथिरेणाजौ धनंजय असंमूढेन चास्त्राणां कर्तव्यं परतिपादनम 68 अविषह्यॊ रणे हि तवं देवदानवराक्षसैः सयक्षासुरगन्धर्वैः सपक्षिगणपन्नगैः 69 वसुधां चापि कौन्तेय तवद बाहुबलनिर्जिताम पालयिष्यति धर्मात्मा कुन्तीपुत्रॊ युधिष्ठिरः |
1
[arj] nivartamānena mayā mahad dṛṣṭaṃ tato 'param puraṃ kāmacaraṃ divyaṃ pāvakārka samaprabham 2 drumai ratnamayaiś caitrair bhāsvaraiś ca patatribhiḥ paulomaiḥ kālakeyaiś ca nityahṛṣṭair adhiṣṭhitam 3 gopurāṭṭālakopetaṃ caturdvāraṃ durāsadam sarvaratnamayaṃ divyam adbhutopamadarśanam drumaiḥ puṣpaphalopetair divyaratnamayair vṛtam 4 tathā patatribhir divyair upetaṃ sumanoharaiḥ asurair nityamuditaiḥ śūlarṣṭi musalāyudhaiḥ cāpamudgara hastaiś ca sragvibhiḥ sarvatovṛtam 5 tad ahaṃ prekṣya daityānāṃ puram adbhutadarśanam apṛcchaṃ mātaliṃ rājan kim idaṃ dṛśyateti vai 6 [mā] pulomā nāma daiteyī kālakā ca mahāsurī divyaṃ varṣasahasraṃ te ceratuḥ paramaṃ tapaḥ tapaso 'nte tatas tābhyāṃ svayambhūr adadād varam 7 agṛhṇītāṃ varaṃ te tu sutānām alpaduḥkhatām avadhyatāṃ ca rājendra surarākṣasa pannagaiḥ 8 ramaṇīyaṃ puraṃ cedaṃ khacaraṃ sukṛtaprabham sarvaratnaiḥ samuditaṃ durdharṣam amarair api sayakṣagandharvagaṇaiḥ pannagāsurarākṣasaiḥ 9 sarvakāmaguṇopetaṃ vītaśokam anāmayam brahmaṇā bharataśreṣṭha kālakeya kṛte kṛtam 10 tad etat khacaraṃ divyaṃ caraty amara varjitam paulomādhyuṣitaṃ vīra kālakeyaiś ca dānavaiḥ 11 hiraṇyapuram ity etat khyāyate nagaraṃ mahat rakṣitaṃ kālakeyaiś ca paulomaiś ca mahāsuraiḥ 12 ta ete muditā nityam avadhyāḥ sarvadaivataiḥ nivasanty atra rājendra gatodvegā nirutsukāḥ mānuṣo mṛtyur eteṣāṃ nirdiṣṭo brahmaṇā purā 13 [arj] surāsurair avadhyāṃs tān ahaṃ jñātvā tataḥ prabho abruvaṃ mātaliṃ hṛṣṭo yāhy etat puram añjasā 14 tridaśeśa dviṣo yāvat kṣayam astrair nayāmy aham na kathaṃcid dhi me pāpā na vadhyā ye suradviṣaḥ 15 uvāha māṃ tataḥ śīghraṃ hiraṇyapuram antikāt rathena tena divyena hariyuktena mātaliḥ 16 te mām ālakṣya daiteyā vicitrābharaṇāmbarāḥ samutpetur mahāvegā rathān āsthāya daṃśitāḥ 17 tato nālīkanārācair bhallaśaktyṛṣṭi tomaraiḥ abhyaghnan dānavendrā māṃ kruddhās tīvraparākramāḥ 18 tad ahaṃ cāstravarṣeṇa mahatā pratyavārayam śastravarṣaṃ mahad rājan vidyā balam upāśritaḥ 19 vyāmohayaṃ ca tān sarvān rathamārgaiś caran raṇe te 'nyonyam abhisaṃmūḍhāḥ pātayanti sma dānavāḥ 20 teṣām ahaṃ vimūḍhānām anyonyam abhidhāvatām śirāṃsi viśikhair dīptair vyaharaṃ śatasaṃghaśaḥ 21 te vadhyamānā daiteyāḥ puram āsthāya tat punaḥ kham utpetuḥ sanagarā māyām āsthāya dānavīm 22 tato 'haṃ śaravarṣeṇa mahatā pratyavārayam mārgam āvṛtya daityānāṃ gatiṃ caiṣām avārayam 23 tat puraṃ khacaraṃ divyaṃ kāmagaṃ divyavarcasam daiteyair varadānena dhāryate sma yathāsukham 24 antarbhūmau nipatitaṃ punar ūrdhvaṃ pratiṣṭhate punas tiryak prayāty āśu punar apsu nimajjati 25 amarāvatisaṃkāśaṃ puraṃ kāmagamaṃ tu tat aham astrair bahuvidhaiḥ pratyagṛhṇaṃ narādhipa 26 tato 'haṃ śarajālena divyāstramuditena ca nyagṛhṇaṃ saha daiteyais tat puraṃ bharatarṣabha 27 vikṣataṃ cāyasair bāṇair mat prayuktair ajihmagaiḥ mahīm abhyapatad rājan prabhagnaṃ puram āsuram 28 te vadhyamānā madbāṇair vajravegair ayasmayaiḥ paryabhramanta vai rājann asurāḥ kālacoditāḥ 29 tato mātalir apy āśu purastātl nipatann iva mahīm avātarat kṣipraṃ rathenādityavarcasā 30 tato rathasahasrāṇi ṣaṣṭis teṣām amarṣiṇām yuyutsūnāṃ mayā sārdhaṃ paryavartanta bhārata 31 tān ahaṃ niśitair bāṇair vyadhamaṃ gārdhravājitaiḥ te yuddhe saṃnyavartanta samudrasya yathormayaḥ 32 neme śakyā mānuṣeṇa yuddheneti pracintya vai tato 'ham ānupūrvyeṇa sarvāṇy astrāṇy ayojayam 33 tatas tāni sahasrāṇi rathānāṃ citrayodhinām astrāṇi mama divyāni pratyaghnañ śanakair iva 34 rathamārgān vicitrāṃs te vicaranto mahārathāḥ pratyadṛśyanta saṃgrāme śataśo 'tha sahasraśaḥ 35 vicitramukuṭāpīḍā vicitrakavaca dhvajāḥ vicitrābharaṇāś caiva nandayantīva me manaḥ 36 ahaṃ tu śaravarṣais tān astrapramuditai raṇe nāśaknuvaṃ pīḍayituṃ te tu māṃ paryapīḍayan 37 taiḥ pīḍyamāno bahubhiḥ kṛtāstraiḥ kuśalair yudhi vyathito 'smi mahāyuddhe bhayaṃ cāgān mahan mama 38 tato 'haṃ devadevāya rudrāya praṇato raṇe svasti bhūtebhya ity uktvā mahāstraṃ samayojayam yat tad raudram iti khyātaṃ sarvāmitra vināśanam 39 tato 'paśyaṃ triśirasaṃ puruṣaṃ nava locanam trimukhaṃ ṣaḍ bhujaṃ dīptam arkajvalana mūrdhajam lolihānair mahānāgaiḥ kṛtaśīrṣam amitrahan 40 vibhīs tatas tad astraṃ tu ghoraṃ raudraṃ sanātanam dṛṣṭvā gāṇḍīvasaṃyogam ānīya bharatarṣabha 41 namaskṛtvā trinetrāya śarvāyāmita tejase muktavān dānavendrāṇāṃ parābhāvāya bhārata 42 muktamātre tatas tasmin rūpāṇy āsan sahasraśaḥ mṛgāṇām atha siṃhānāṃ vyāghrāṇāṃ ca viśāṃ pate ṛkṣāṇāṃ mahiṣāṇāṃ ca pannagānāṃ tathā gavām 43 gajānāṃ sṛmarāṇāṃ ca śarabhāṇāṃ ca sarvaśaḥ ṛṣabhāṇāṃ varāhāṇāṃ mārjārāṇāṃ tathaiva ca śālāvṛkāṇāṃ pretānāṃ bhuruṇḍānāṃ ca sarvaśaḥ 44 gṛdhrāṇāṃ garuḍānāṃ ca makarāṇāṃ tathaiva ca piśācānāṃ sayakṣāṇāṃ tathaiva ca suradviṣām 45 guhyakānāṃ ca saṃgrāme nairṛtānāṃ tathaiva ca jhaṣāṇāṃ gajavaktrāṇām ulūkānāṃ tathaiva ca 46 mīnakūrma samūhānāṃ nānāśastrāsi pāṇinām tathaiva yātu dānānāṃ gadā mudgaradhāriṇām 47 etaiś cānyaiś ca bahubhir nānārūpadharais tathā sarvam āsīj jagad vyāptaṃ tasminn astre visarjite 48 triṣirobhiś caturdaṃṣṭraiś caturāsyaiś caturbhujaiḥ anekarūpasaṃyuktair māṃsaṃ medo vasāśibhiḥ abhīkṣṇaṃ vadhyamānās te dānavā ye samāgatāḥ 49 arkajvalana tejobhir vajrāśanisamaprabhaiḥ adir sāramayaiś cānyair bāṇair arividāraṇaiḥ nyahanaṃ dānavān sarvān muhūrtenaiva bhārata 50 gāṇḍīvāstra praṇunnāṃs tān gatāsūn nabhasaś cyutān dṛṣṭvāhaṃ prāṇamaṃ bhūyas tripuraghnāya vedhase 51 tathā raudrāstra niṣpiṣṭān divyābharaṇabhūṣitān niśāmya paramaṃ harṣam agamad deva sārathiḥ 52 tad asahyaṃ kṛtaṃ karma devair api durāsadam dṛṣṭvā māṃ pūjayām āsa mātaliḥ śakrasārathiḥ 53 uvāca cedaṃ vacanaṃ prīyamāṇaḥ kṛtāñjaliḥ surāsurair asahyaṃ hi karma yat sādhitaṃ tvayā na hy etat saṃyuge kartum api śaktaḥ sureśvaraḥ 54 surāsurair avadhyaṃ hi puram etat khagaṃ mahat tvayā vimathitaṃ vīra svavīryāstra tapobalāt 55 vidhvaste 'tha pure tasmin dānaveṣu hateṣu ca vinadantyaḥ striyaḥ sarvā niṣpetur nagarād bahiḥ 56 prakīrṇakeśyo vyathitāḥ kurarya iva duḥkhitāḥ petuḥ putrān pitṝn bhrātṝñ śocamānā mahītale 57 rudantyo dīnakaṇṭhyas tā vinadantyo hateśvarāḥ urāṃsi pāṇibhir ghnantyaḥ prasrastasragvi bhūṣaṇāḥ 58 tac chokayuktam aśrīkaṃ duḥkhadainya samāhatam na babhau dānava puraṃ hatatviṭkaṃ hateśvaram 59 gandharvanagarākāraṃ hatanāgam iva hradam śuṣkavṛkṣam ivāraṇyam adṛśyam abhavat puram 60 māṃ tu saṃhṛṣṭamanasaṃ kṣipraṃ mātalir ānayat devarājasya bhavanaṃ kṛtakarmāṇam āhavāt 61 hiraṇyapuram ārujya nihatya ca mahāsurān nivātakavacāṃś caiva tato 'haṃ śakram āgamam 62 mama karma ca devendraṃ mātalir vistareṇa tat sarvaṃ viśrāvayām āsa yathā bhūtaṃ mahādyute 63 hiraṇyapuraghātaṃ ca māyānāṃ canivāraṇam nivātakavacānāṃ ca vadhaṃ saṃkhye mahaujasām 64 tac chrutvā bhagavān prītaḥ sahasrākṣaḥ puraṃdaraḥ marudbhiḥ sahitaḥ śrīmān sādhu sādhv ity athābravīt 65 tato māṃ devarājo vai samāśvāsya punaḥ punaḥ abravīd vibudhaiḥ sārdham idaṃ sumadhuraṃ vacaḥ 66 atidevāsuraṃ karmakṛtam eta tvayā raṇe gurvarthaś ca mahāpārtha kṛtaḥ śatrūn ghnatā mama 67 evam eva sadā bhāvyaṃ sthireṇājau dhanaṃjaya asaṃmūḍhena cāstrāṇāṃ kartavyaṃ pratipādanam 68 aviṣahyo raṇe hi tvaṃ devadānavarākṣasaiḥ sayakṣāsuragandharvaiḥ sapakṣigaṇapannagaiḥ 69 vasudhāṃ cāpi kaunteya tvad bāhubalanirjitām pālayiṣyati dharmātmā kuntīputro yudhiṣṭhiraḥ |
The Mahabharata in Sanskrit
Book 3
Chapter 171
|
1
[अर्ज] ततॊ माम अभिविश्वस्तं संरूढशरविक्षतम देवराजॊ ऽनुगृह्येदं काले वचनम अब्रवीत 2 दिव्यान्य अस्त्राणि सर्वाणि तवयि तिष्ठन्ति भारत न तवाभिभवितुं शक्तॊ मानुषॊ भुवि कश चन 3 भीष्मॊ दरॊणः कृपः कर्णः शकुनिः सह राजभिः संग्रामस्थस्य ते पुत्र कलां नार्हन्ति षॊडशीम 4 इदं च मे तनुत्राणं परायच्छन मघवान परभुः अभेद्यं कवचं दिव्यं सरजं चैव हिरण्मयीम 5 देवदत्तं च मे शङ्खं देवः परादान महारवम दिव्यं चेदं किरीटं मे सवयम इन्द्रॊ युयॊज ह 6 ततॊ दिव्यानि वस्त्राणि दिव्यान्य आभरणानि च परादाच छक्रॊ ममैतानि रुचिराणि बृहन्ति च 7 एवं संपूजितस तत्र सुखम अस्म्य उषितॊ नृप इन्द्रस्य भवने पुण्ये गन्धर्वशिशुभिः सह 8 ततॊ माम अब्रवीच छक्रः परीतिमान अमरैः सह समयॊ ऽरजुन गन्तुं ते भरातरॊ हि समरन्ति ते 9 एवम इन्द्रस्य भवने पञ्चवर्षाणि भारत उषितानि मया राजन समरता दयूतजं कलिम 10 ततॊ भवन्तम अद्राक्षं भरातृभिः परिवारितम गन्धमादनम आसाद्य पर्वतस्यास्य मूर्धनि 11 [य] दिष्ट्या धनंजयास्त्राणि तवया पराप्तानि भारत दिष्ट्या चाराधितॊ राजा देवानाम ईश्वरः परभुः 12 दिष्ट्या च भगवान सथाणुर देव्या सह परंतप साक्षाद दृष्टः सुयुद्धेन तॊषितश च तवयानघ 13 दिष्ट्या च लॊकपालैस तवं समेतस्ल भरतर्षभ दिष्ट्या वर्धामहे सर्वे दिष्ट्यासि पुनरागतः 14 अद्य कृत्स्नाम इमां देवीं विजितां पुरमालिनीम मन्ये च धृतराष्ट्रस्य पुत्रान अपि वशीकृतान 15 तानि तव इच्छामि ते दरष्टुं दिव्यान्य अस्त्राणि भारत यैस तथा वीर्यवन्तस ते निवातकवचा हता 16 [अर्ज] शवःप्रभाते भवान दरष्टा दिव्यान्य अस्त्राणि सर्वशः निवातकवचा घॊरा यैर मया विनिपातिताः 17 [वै] एवम आगमनं तत्र कथयित्वा धनंजयः भरातृभिः सहितः सर्वै रजनीं ताम उवास ह |
1
[arj] tato mām abhiviśvastaṃ saṃrūḍhaśaravikṣatam devarājo 'nugṛhyedaṃ kāle vacanam abravīt 2 divyāny astrāṇi sarvāṇi tvayi tiṣṭhanti bhārata na tvābhibhavituṃ śakto mānuṣo bhuvi kaś cana 3 bhīṣmo droṇaḥ kṛpaḥ karṇaḥ śakuniḥ saha rājabhiḥ saṃgrāmasthasya te putra kalāṃ nārhanti ṣoḍaśīm 4 idaṃ ca me tanutrāṇaṃ prāyacchan maghavān prabhuḥ abhedyaṃ kavacaṃ divyaṃ srajaṃ caiva hiraṇmayīm 5 devadattaṃ ca me śaṅkhaṃ devaḥ prādān mahāravam divyaṃ cedaṃ kirīṭaṃ me svayam indro yuyoja ha 6 tato divyāni vastrāṇi divyāny ābharaṇāni ca prādāc chakro mamaitāni rucirāṇi bṛhanti ca 7 evaṃ saṃpūjitas tatra sukham asmy uṣito nṛpa indrasya bhavane puṇye gandharvaśiśubhiḥ saha 8 tato mām abravīc chakraḥ prītimān amaraiḥ saha samayo 'rjuna gantuṃ te bhrātaro hi smaranti te 9 evam indrasya bhavane pañcavarṣāṇi bhārata uṣitāni mayā rājan smaratā dyūtajaṃ kalim 10 tato bhavantam adrākṣaṃ bhrātṛbhiḥ parivāritam gandhamādanam āsādya parvatasyāsya mūrdhani 11 [y] diṣṭyā dhanaṃjayāstrāṇi tvayā prāptāni bhārata diṣṭyā cārādhito rājā devānām īśvaraḥ prabhuḥ 12 diṣṭyā ca bhagavān sthāṇur devyā saha paraṃtapa sākṣād dṛṣṭaḥ suyuddhena toṣitaś ca tvayānagha 13 diṣṭyā ca lokapālais tvaṃ sametasl bharatarṣabha diṣṭyā vardhāmahe sarve diṣṭyāsi punarāgataḥ 14 adya kṛtsnām imāṃ devīṃ vijitāṃ puramālinīm manye ca dhṛtarāṣṭrasya putrān api vaśīkṛtān 15 tāni tv icchāmi te draṣṭuṃ divyāny astrāṇi bhārata yais tathā vīryavantas te nivātakavacā hatā 16 [arj] śvaḥprabhāte bhavān draṣṭā divyāny astrāṇi sarvaśaḥ nivātakavacā ghorā yair mayā vinipātitāḥ 17 [vai] evam āgamanaṃ tatra kathayitvā dhanaṃjayaḥ bhrātṛbhiḥ sahitaḥ sarvai rajanīṃ tām uvāsa ha |
The Mahabharata in Sanskrit
Book 3
Chapter 172
|
1
[वै] तस्यां रजन्यां वयुष्टायां धर्मराजॊ युधिष्ठिरः उत्थायावश्य कार्याणि कृतवान भरतृभिः सह 2 ततः संचॊदयाम आस सॊ ऽरजुनं भरातृनन्दनम दर्शयास्त्राणि कौन्तेय यैर जिता दानवास तवया 3 ततॊ धनंजयॊ राजन देवैर दत्तानि पाण्डवः अस्त्राणि तानि दिव्यानि दर्शयाम आस भारत 4 यथान्यायं महातेजा शौचं परमम आस्थितः गिरिकूबरं पादपाङ्गं शुभवेणुत्रिवेणुकम पार्थिवं रथम आस्थाय शॊभमानॊ धनंजयः 5 ततः सुदंशितस तेन कवचेन सुवर्चसा धनुर आदाय गाण्डीवं देवदत्तं च वारिजम 6 शॊशुभ्यमानः कौन्तेय आनुपूर्व्यान महाभुजः अस्त्राणि तानि दिव्यानि दर्शनायॊपचक्रमे 7 अथ परयॊक्ष्यमाणेन दिव्यान्य अस्त्राणि तेन वै समाक्रान्ता मही पद्भ्यां समकम्पत सद्रुमा 8 कषुभिताः सरितश चैव तथैव च महॊदधिः शैलाश चापि वयशीर्यन्त न ववौ च समीरणः 9 न बभासे सहस्रांशुर न जज्वाल च पावकः न वेदाः परतिभान्ति सम दविजातीनां कथं चन 10 अन्तर्भूमि गता ये च पराणिनॊ जनमेजय पीड्यमानाः समुत्थाय पाण्डवं पर्यवारयन 11 वेपमानाः पराञ्जलयस ते सर्वे पिहिताननाः दह्यमानास तदास्त्रैस तैर याचन्ति सम धनंजयम 12 ततॊ बरह्मर्षयश चैव सिधाश चैव सुरर्षयः जङ्गमानि च भूतानि सर्वाण्य एवावतस्थिरे 13 राजर्षयश च परवरास तथैव च दिवौकसः यक्षराक्षस गन्धर्वास तथैव च पतत्रिणः 14 ततः पितामहश चैव लॊकपालाश च सर्वशः भगवांश च महादेवः सगणॊ ऽभयाययौ तदा 15 ततॊ वायुर महाराज दिव्यैर माल्यैः सुगन्धिभिः अभितः पाण्डवांश चित्रैर अवचक्रे समन्ततः 16 जगुश च गाथा विविधा गन्धर्वाः सुरचॊदिताः ननृतुः संघशश चैव राजन्न अप्सरसां गणाः 17 तस्मिंस तु तुमुले काले नारदः सुरचॊदितः आगम्याह वचॊ पार्थं शरवणीयम इदं नृप 18 अर्जुनार्जुन मा युङ्क्ष्व दिव्यान्य अस्त्राणि भारत नैतानि निरधिष्ठाने परयुज्यन्ते कदा चन 19 अधिष्ठाने न वानार्तः परयुञ्जीत कदा चन परयॊगे सुमहान दॊषॊ हय अस्त्राणां कुरुनन्दन 20 एतानि रक्ष्यमाणानि धनंजय यथागमम बलवन्ति सुखार्हाणि भविष्यन्ति न संशयः 21 अरक्ष्यमाणान्य एतानि तरैलॊक्यस्यापि पाण्डव भवन्ति सम विनाशाय मैवं भूयॊ कृथाः कव चित 22 अजातशत्रॊ तवं चैव दरक्ष्यसे तानि संयुगे यॊज्यमानानि पार्थेन दविषताम अवमर्दने 23 निवार्याथ ततः पार्थं सर्वे देवा यथागतम जग्मुर अन्ये च ये तत्र समाजग्मुर नरर्षभ 24 तेषु सर्वेषु कौरव्य परतियातेषु पाण्डवाः तस्मिन्न एव वने हृष्टास त ऊषुः सह कृष्णया |
1
[vai] tasyāṃ rajanyāṃ vyuṣṭāyāṃ dharmarājo yudhiṣṭhiraḥ utthāyāvaśya kāryāṇi kṛtavān bhratṛbhiḥ saha 2 tataḥ saṃcodayām āsa so 'rjunaṃ bhrātṛnandanam darśayāstrāṇi kaunteya yair jitā dānavās tvayā 3 tato dhanaṃjayo rājan devair dattāni pāṇḍavaḥ astrāṇi tāni divyāni darśayām āsa bhārata 4 yathānyāyaṃ mahātejā śaucaṃ paramam āsthitaḥ girikūbaraṃ pādapāṅgaṃ śubhaveṇutriveṇukam pārthivaṃ ratham āsthāya śobhamāno dhanaṃjayaḥ 5 tataḥ sudaṃśitas tena kavacena suvarcasā dhanur ādāya gāṇḍīvaṃ devadattaṃ ca vārijam 6 śośubhyamānaḥ kaunteya ānupūrvyān mahābhujaḥ astrāṇi tāni divyāni darśanāyopacakrame 7 atha prayokṣyamāṇena divyāny astrāṇi tena vai samākrāntā mahī padbhyāṃ samakampata sadrumā 8 kṣubhitāḥ saritaś caiva tathaiva ca mahodadhiḥ śailāś cāpi vyaśīryanta na vavau ca samīraṇaḥ 9 na babhāse sahasrāṃśur na jajvāla ca pāvakaḥ na vedāḥ pratibhānti sma dvijātīnāṃ kathaṃ cana 10 antarbhūmi gatā ye ca prāṇino janamejaya pīḍyamānāḥ samutthāya pāṇḍavaṃ paryavārayan 11 vepamānāḥ prāñjalayas te sarve pihitānanāḥ dahyamānās tadāstrais tair yācanti sma dhanaṃjayam 12 tato brahmarṣayaś caiva sidhāś caiva surarṣayaḥ jaṅgamāni ca bhūtāni sarvāṇy evāvatasthire 13 rājarṣayaś ca pravarās tathaiva ca divaukasaḥ yakṣarākṣasa gandharvās tathaiva ca patatriṇaḥ 14 tataḥ pitāmahaś caiva lokapālāś ca sarvaśaḥ bhagavāṃś ca mahādevaḥ sagaṇo 'bhyāyayau tadā 15 tato vāyur mahārāja divyair mālyaiḥ sugandhibhiḥ abhitaḥ pāṇḍavāṃś citrair avacakre samantataḥ 16 jaguś ca gāthā vividhā gandharvāḥ suracoditāḥ nanṛtuḥ saṃghaśaś caiva rājann apsarasāṃ gaṇāḥ 17 tasmiṃs tu tumule kāle nāradaḥ suracoditaḥ āgamyāha vaco pārthaṃ śravaṇīyam idaṃ nṛpa 18 arjunārjuna mā yuṅkṣva divyāny astrāṇi bhārata naitāni niradhiṣṭhāne prayujyante kadā cana 19 adhiṣṭhāne na vānārtaḥ prayuñjīta kadā cana prayoge sumahān doṣo hy astrāṇāṃ kurunandana 20 etāni rakṣyamāṇāni dhanaṃjaya yathāgamam balavanti sukhārhāṇi bhaviṣyanti na saṃśayaḥ 21 arakṣyamāṇāny etāni trailokyasyāpi pāṇḍava bhavanti sma vināśāya maivaṃ bhūyo kṛthāḥ kva cit 22 ajātaśatro tvaṃ caiva drakṣyase tāni saṃyuge yojyamānāni pārthena dviṣatām avamardane 23 nivāryātha tataḥ pārthaṃ sarve devā yathāgatam jagmur anye ca ye tatra samājagmur nararṣabha 24 teṣu sarveṣu kauravya pratiyāteṣu pāṇḍavāḥ tasminn eva vane hṛṣṭās ta ūṣuḥ saha kṛṣṇayā |
The Mahabharata in Sanskrit
Book 3
Chapter 173
|
1
[जनम] तस्मिन कृतास्त्रे रथिनां परधाने; परत्यागते भवनाद वृत्र हन्तुः अतः परं किम अकुर्वन्त पार्थाः; समेत्य शूरेण धनंजयेन 2 [वै] वनेषु तेष्व एव तु ते नरेन्द्राः; सहार्जुनेनेन्द्र समेन वीराः तस्मिंश च शैलप्रवरे सुरम्ये; धनेश्वराक्रीड गता विजह्रुः 3 वेश्मानि तान्य अप्रतिमानि पश्यन; करीडाश च नानाद्रुमसंनिकर्षाः चचार धवी बहुधा नरेन्द्रः; सॊ ऽसत्रेषु यत्तः सततं किरीटी 4 अवाप्य वासं नरदेव पुत्राः; परसादजं वैश्वरणस्य राज्ञः न पराणिनां ते सपृहयन्ति राजञ; शिवश च कालः स बभूव तेषाम 5 समेत्य पार्थेन यथैक रात्रम; ऊषुः समास तत्र तदा चतस्रः पूर्वाश च सॊ ता दश पाण्डवानां; शिवा बभूवुर वसतां वनेषु 6 ततॊ ऽबरवीद वायुसुतस तरस्वी; जिष्णुश च राजानम उपॊपविश्य यमौ च वीरौ सुरराजकल्पाव; एकान्तम आस्थाय हितं परियं च 7 तव परतिज्ञां कुरुराजसत्यां; चिकीर्षमाणास तवद अनु परियं च ततॊ ऽनुगच्छाम वनाय अपास्य; सुयॊधनं सानुचरं निहन्तुम 8 एका दशं वर्षम इदं वसामः; सुयॊधनेनात्त सुखाः सुखार्हाः तं वञ्चयित्वाधम बुद्धिशीलम; अज्ञातवासं सुखम आप्नुयामः 9 तवाज्ञया पार्थिव निर्विशङ्का; विहाय मानं विचरन वनानि समीपवासेन विलॊभितास ते; जञास्यन्ति नास्मान अपकृष्ट देशान 10 संवत्सरं तं तु विहृत्य गूढं; नराधमं तं सुखम उद्धरेम निर्यात्य वैरं सफलं सपुष्पं; तस्मै नरेन्द्राधमपूरुषाय 11 सुयॊधनायानुचरैर वृताय; ततॊ महीम आहर धर्मराज सवर्गॊपमं शैलम इमं चरद्भिः; शक्यॊ विहन्तुं नरदेव शॊकः 12 कीर्तिश च ते भारत पुण्यगन्धा; नश्येत लॊकेषु चराचरेषु तत पराप्य राज्यं कुरुपुंगवानां; शक्यं महत पराप्तम अथ करियाश च 13 इदं तु शक्यं सततं नरेन्द्र; पराप्तुं तवया यल लभसे कुबेरात कुरुष्व बुद्धिं दविषतां वधाय; कृतागसां भारत निग्रहे च 14 तेजस तवॊग्रं न सहेत राजन; समेत्य साक्षाद अपि वज्रपाणिः न हि वयथां जातु करिष्यतस तौ; समेत्य देवैर अपि धर्मराज 15 तवदर्थसिद्ध्यर्थम अभिप्रवृत्तौ; सुपर्णकेतुश च शिनेश च नप्ता यथैव कृष्णॊ ऽपरतिमॊ बलेन; तथैव राजन स शिनिप्रवीरः 16 तवार्थ सिद्ध्यर्थम अभिप्रवृत्तौ; यथैव कृष्णः सह यादवैस तैः तथैव चावां नरदेव वर्य; यमौ च वीरौ कृतिनौ परयॊगे तवदर्थयॊगप्रभव परधानाः; समं करिष्याम परान समेत्य 17 ततस तद आज्ञाय मतं महात्मा; तेषां स धर्मस्य सुतॊ वरिष्ठः परदक्षिणं वैश्रवणाधिवासं; चकार धर्मार्थविद उत्तमौजः 18 आमन्त्र्य वेश्मानि नदीः सरांसि; सर्वाणि रक्षांसि च धर्मराजः यथागतं मार्गम अवेक्षमाणः; पुनर गिरिं चैव निरीक्षमाणः 19 समाप्तकर्मा सहितः सुहृद्भिर; जित्वा सपत्नां परतिलभ्य राज्यम शैलेन्द्र भूयस तपसे धृतात्मा; दरष्टा तवास्मीति मतिं चकार 20 वृतः स सर्वैर अनुजैर दविजैश च; तेनैव मार्गेण पतिः कुरूणाम उवाह चैनां सगणांस तथैव; घटॊत्कचः पर्वतनिर्झरेषु 21 तान परस्थितान परीतिमना महर्षिः; पितेव पुत्रान अनुशिष्य सर्वान स लॊमशः परीतमना जगाम; दिवौकसां पुण्यतमं निवासम 22 तेनानुशिष्टार्ष्टिषेणेन चैव; तीर्थानि रम्याणि तपॊवनानि महान्ति चान्यानि सरांसि पार्थाः; संपश्यमानाः परययुर नराग्र्याः |
1
[janam] tasmin kṛtāstre rathināṃ pradhāne; pratyāgate bhavanād vṛtra hantuḥ ataḥ paraṃ kim akurvanta pārthāḥ; sametya śūreṇa dhanaṃjayena 2 [vai] vaneṣu teṣv eva tu te narendrāḥ; sahārjunenendra samena vīrāḥ tasmiṃś ca śailapravare suramye; dhaneśvarākrīḍa gatā vijahruḥ 3 veśmāni tāny apratimāni paśyan; krīḍāś ca nānādrumasaṃnikarṣāḥ cacāra dhavī bahudhā narendraḥ; so 'streṣu yattaḥ satataṃ kirīṭī 4 avāpya vāsaṃ naradeva putrāḥ; prasādajaṃ vaiśvaraṇasya rājñaḥ na prāṇināṃ te spṛhayanti rājañ; śivaś ca kālaḥ sa babhūva teṣām 5 sametya pārthena yathaika rātram; ūṣuḥ samās tatra tadā catasraḥ pūrvāś ca so tā daśa pāṇḍavānāṃ; śivā babhūvur vasatāṃ vaneṣu 6 tato 'bravīd vāyusutas tarasvī; jiṣṇuś ca rājānam upopaviśya yamau ca vīrau surarājakalpāv; ekāntam āsthāya hitaṃ priyaṃ ca 7 tava pratijñāṃ kururājasatyāṃ; cikīrṣamāṇās tvad anu priyaṃ ca tato 'nugacchāma vanāy apāsya; suyodhanaṃ sānucaraṃ nihantum 8 ekā daśaṃ varṣam idaṃ vasāmaḥ; suyodhanenātta sukhāḥ sukhārhāḥ taṃ vañcayitvādhama buddhiśīlam; ajñātavāsaṃ sukham āpnuyāmaḥ 9 tavājñayā pārthiva nirviśaṅkā; vihāya mānaṃ vicaran vanāni samīpavāsena vilobhitās te; jñāsyanti nāsmān apakṛṣṭa deśān 10 saṃvatsaraṃ taṃ tu vihṛtya gūḍhaṃ; narādhamaṃ taṃ sukham uddharema niryātya vairaṃ saphalaṃ sapuṣpaṃ; tasmai narendrādhamapūruṣāya 11 suyodhanāyānucarair vṛtāya; tato mahīm āhara dharmarāja svargopamaṃ śailam imaṃ caradbhiḥ; śakyo vihantuṃ naradeva śokaḥ 12 kīrtiś ca te bhārata puṇyagandhā; naśyeta lokeṣu carācareṣu tat prāpya rājyaṃ kurupuṃgavānāṃ; śakyaṃ mahat prāptam atha kriyāś ca 13 idaṃ tu śakyaṃ satataṃ narendra; prāptuṃ tvayā yal labhase kuberāt kuruṣva buddhiṃ dviṣatāṃ vadhāya; kṛtāgasāṃ bhārata nigrahe ca 14 tejas tavograṃ na saheta rājan; sametya sākṣād api vajrapāṇiḥ na hi vyathāṃ jātu kariṣyatas tau; sametya devair api dharmarāja 15 tvadarthasiddhyartham abhipravṛttau; suparṇaketuś ca śineś ca naptā yathaiva kṛṣṇo 'pratimo balena; tathaiva rājan sa śinipravīraḥ 16 tavārtha siddhyartham abhipravṛttau; yathaiva kṛṣṇaḥ saha yādavais taiḥ tathaiva cāvāṃ naradeva varya; yamau ca vīrau kṛtinau prayoge tvadarthayogaprabhava pradhānāḥ; samaṃ kariṣyāma parān sametya 17 tatas tad ājñāya mataṃ mahātmā; teṣāṃ sa dharmasya suto variṣṭhaḥ pradakṣiṇaṃ vaiśravaṇādhivāsaṃ; cakāra dharmārthavid uttamaujaḥ 18 āmantrya veśmāni nadīḥ sarāṃsi; sarvāṇi rakṣāṃsi ca dharmarājaḥ yathāgataṃ mārgam avekṣamāṇaḥ; punar giriṃ caiva nirīkṣamāṇaḥ 19 samāptakarmā sahitaḥ suhṛdbhir; jitvā sapatnāṃ pratilabhya rājyam śailendra bhūyas tapase dhṛtātmā; draṣṭā tavāsmīti matiṃ cakāra 20 vṛtaḥ sa sarvair anujair dvijaiś ca; tenaiva mārgeṇa patiḥ kurūṇām uvāha caināṃ sagaṇāṃs tathaiva; ghaṭotkacaḥ parvatanirjhareṣu 21 tān prasthitān prītimanā maharṣiḥ; piteva putrān anuśiṣya sarvān sa lomaśaḥ prītamanā jagāma; divaukasāṃ puṇyatamaṃ nivāsam 22 tenānuśiṣṭārṣṭiṣeṇena caiva; tīrthāni ramyāṇi tapovanāni mahānti cānyāni sarāṃsi pārthāḥ; saṃpaśyamānāḥ prayayur narāgryāḥ |
The Mahabharata in Sanskrit
Book 3
Chapter 174
|
1
[वै] नगॊत्तमं परस्रवणैर उपेतं; दिशां गजैः किंनरपक्षिभिश च सुखं निवासं जहतां हि तेषां; न परीतिर आसीद भरतर्षभाणाम 2 ततस तु तेषां पुनर एव हर्षः; कैलासम आलॊक्य महान बभूव कुबेर कान्तं भरतर्षभाणां; महीधरं वारिधरप्रकाशम 3 समुच्छ्रयान पर्वतसंनिरॊधान; गॊष्ठान गिरीणां गिरिसेतुमालाः बहून परपातांश च समीक्ष्य वीराः; सथलानि निम्नानि च तत्र तत्र 4 तथैव चान्यानि महावनानि; मृगद्विजानेकप सेवितानि आलॊकयन्तॊ ऽभिययुः परतीतास; ते धन्विनः खड्गधरा नराग्र्याः 5 वनानि रम्याणि सरांसि नद्यॊ; गुहा गिरीणां गिरिगह्वराणि एते निवासाः सततं बभूवुर; निशानिशं पराप्य नरर्षभाणाम 6 ते दुर्ग वासं बहुधा निरुष्य; वयतीत्य कैलासम अचिन्त्यरूपम आसेदुर अत्यर्थ मनॊरमं वै; तम आश्रमाग्र्यं वृषपर्वणस ते 7 समेत्य राज्ञा वृषपर्वणस ते; परत्यर्चितास तेन च वीतमॊहाः शशंसिरे विस्तरशः परवासं; शिवं यथावद वृषपर्वणस ते 8 सुखॊषितास तत्र त एकरात्रं; पुण्याश्रमे देवमहर्षिजुष्टे अभ्याययुस ते बदरीं विशालां; सुखेन वीराः पुनर एव वासम 9 ऊषुस ततस तत्र महानुभावा; नारायण सथानगता नराग्र्याः कुबेर कान्तां नलिनीं विशॊकाः; संपश्यमानाः सुरसिद्धजुष्टाम 10 तां चाथ दृष्ट्वा नलिनीं विशॊकाः; पाण्डॊः सुताः सर्वनरप्रवीराः ते रेमिरे नन्दनवासम एत्य; दविजर्षयॊ वीतभया यथैव 11 ततः करमेणॊपययुर नृवीरा; यथागतेनैव पथा समग्राः विहृत्य मासं सुखिनॊ बदर्यां; किरात राज्ञॊ विषयं सुबाहॊः 12 चीनांस तुखारान दरदान सदार्वान; देशान कुणिन्दस्य च भूरि रत्नान अतीत्य दुर्गं हिमवत्प्रदेशं; पुरं सुबाहॊर ददृशुर नृवीराः 13 शरुत्वा च तान पार्थिव पुत्रपौत्रान; पराप्तान सुबाहुर विषये समग्रान परत्युद्ययौ परीतियुतः स राजा; तं चाभ्यनन्दन वृषभाः कुरूणाम 14 समेत्य राज्ञा तु सुबाहुना ते; सूतैर विशॊक परमुखैश च सर्वैः सहेन्द्रसेनैः परिचारकैश च; पौरॊगवैर ये च महानसस्थाः 15 सुखॊषितास तत्र त एकरात्रं; सुतान उपादाय रथांश च सर्वान घटॊत्कचं सानुचरं विसृज्य; ततॊ ऽभययुर यामुनम अद्रिराजम 16 तस्मिन गिरौ परस्रवणॊपपन्ने; हिमॊत्तरीयारुण पाण्डुसानौ विशाख यूपं समुपेत्य चक्रुस; तदा निवासं पुरुषप्रवीराः 17 वराहनानामृगपक्षिजुष्टं; महद वनं चैत्ररथ परकाशम शिवेन यात्वा मृगया परधानाः; संवत्सरं तत्र वने विजह्रुः 18 तत्राससादातिबलं भुजंगं; कषुधार्दितं मृत्युम इवॊग्ररूपम वृकॊदरः पर्वत कन्दरायां; विषादमॊहव्यथितान्तर आत्मा 19 दवीपॊ ऽभवद यत्र वृकॊदरस्य; युधिष्ठिरॊ धर्मभृतां वरिष्ठः अमॊक्षयद यस तम अनन्त तेजा; गराहेण संवेष्ठित सर्वगात्रम 20 ते दवादशं वर्षम अथॊपयान्तं; वने विहर्तुं कुरवः परतीताः तस्माद वनाच चैत्ररथ परकाशाच; छरिया जवलन्तस तपसा च युक्ताः 21 ततश च यात्वा मरुधन्व पार्श्वं; सदा धनुर्वेद रतिप्रधानाः सरस्वतीम एत्य निवासकामाः; सरस ततॊ दवैतवनं परतीयुः 22 समीक्ष्य तान दैतवने निविष्टान; निवासिनस तत्र ततॊ ऽभिजग्मुः तपॊ दमाचार समाधियुक्तास; तृणॊद पात्राहरणाश्म कुट्टाः 23 पलक्षाक्ष रौहीतक वेतसाश च; सनुहा बदर्यः खदिराः शिरीषाः बिल्वेङ्गुदाः पीलु शमी करीराः; सरस्वती तीररुहा बभूवुः 24 तां यक्षगन्धर्वमहर्षिकान्ताम; आयाग भूताम इव देवतानाम सरस्वतीं परीतियुताश चरन्तः; सुखं विजह्रुर नरदेव पुत्राः |
1
[vai] nagottamaṃ prasravaṇair upetaṃ; diśāṃ gajaiḥ kiṃnarapakṣibhiś ca sukhaṃ nivāsaṃ jahatāṃ hi teṣāṃ; na prītir āsīd bharatarṣabhāṇām 2 tatas tu teṣāṃ punar eva harṣaḥ; kailāsam ālokya mahān babhūva kubera kāntaṃ bharatarṣabhāṇāṃ; mahīdharaṃ vāridharaprakāśam 3 samucchrayān parvatasaṃnirodhān; goṣṭhān girīṇāṃ girisetumālāḥ bahūn prapātāṃś ca samīkṣya vīrāḥ; sthalāni nimnāni ca tatra tatra 4 tathaiva cānyāni mahāvanāni; mṛgadvijānekapa sevitāni ālokayanto 'bhiyayuḥ pratītās; te dhanvinaḥ khaḍgadharā narāgryāḥ 5 vanāni ramyāṇi sarāṃsi nadyo; guhā girīṇāṃ girigahvarāṇi ete nivāsāḥ satataṃ babhūvur; niśāniśaṃ prāpya nararṣabhāṇām 6 te durga vāsaṃ bahudhā niruṣya; vyatītya kailāsam acintyarūpam āsedur atyartha manoramaṃ vai; tam āśramāgryaṃ vṛṣaparvaṇas te 7 sametya rājñā vṛṣaparvaṇas te; pratyarcitās tena ca vītamohāḥ śaśaṃsire vistaraśaḥ pravāsaṃ; śivaṃ yathāvad vṛṣaparvaṇas te 8 sukhoṣitās tatra ta ekarātraṃ; puṇyāśrame devamaharṣijuṣṭe abhyāyayus te badarīṃ viśālāṃ; sukhena vīrāḥ punar eva vāsam 9 ūṣus tatas tatra mahānubhāvā; nārāyaṇa sthānagatā narāgryāḥ kubera kāntāṃ nalinīṃ viśokāḥ; saṃpaśyamānāḥ surasiddhajuṣṭām 10 tāṃ cātha dṛṣṭvā nalinīṃ viśokāḥ; pāṇḍoḥ sutāḥ sarvanarapravīrāḥ te remire nandanavāsam etya; dvijarṣayo vītabhayā yathaiva 11 tataḥ krameṇopayayur nṛvīrā; yathāgatenaiva pathā samagrāḥ vihṛtya māsaṃ sukhino badaryāṃ; kirāta rājño viṣayaṃ subāhoḥ 12 cīnāṃs tukhārān daradān sadārvān; deśān kuṇindasya ca bhūri ratnān atītya durgaṃ himavatpradeśaṃ; puraṃ subāhor dadṛśur nṛvīrāḥ 13 śrutvā ca tān pārthiva putrapautrān; prāptān subāhur viṣaye samagrān pratyudyayau prītiyutaḥ sa rājā; taṃ cābhyanandan vṛṣabhāḥ kurūṇām 14 sametya rājñā tu subāhunā te; sūtair viśoka pramukhaiś ca sarvaiḥ sahendrasenaiḥ paricārakaiś ca; paurogavair ye ca mahānasasthāḥ 15 sukhoṣitās tatra ta ekarātraṃ; sutān upādāya rathāṃś ca sarvān ghaṭotkacaṃ sānucaraṃ visṛjya; tato 'bhyayur yāmunam adrirājam 16 tasmin girau prasravaṇopapanne; himottarīyāruṇa pāṇḍusānau viśākha yūpaṃ samupetya cakrus; tadā nivāsaṃ puruṣapravīrāḥ 17 varāhanānāmṛgapakṣijuṣṭaṃ; mahad vanaṃ caitraratha prakāśam śivena yātvā mṛgayā pradhānāḥ; saṃvatsaraṃ tatra vane vijahruḥ 18 tatrāsasādātibalaṃ bhujaṃgaṃ; kṣudhārditaṃ mṛtyum ivograrūpam vṛkodaraḥ parvata kandarāyāṃ; viṣādamohavyathitāntar ātmā 19 dvīpo 'bhavad yatra vṛkodarasya; yudhiṣṭhiro dharmabhṛtāṃ variṣṭhaḥ amokṣayad yas tam ananta tejā; grāheṇa saṃveṣṭhita sarvagātram 20 te dvādaśaṃ varṣam athopayāntaṃ; vane vihartuṃ kuravaḥ pratītāḥ tasmād vanāc caitraratha prakāśāc; chriyā jvalantas tapasā ca yuktāḥ 21 tataś ca yātvā marudhanva pārśvaṃ; sadā dhanurveda ratipradhānāḥ sarasvatīm etya nivāsakāmāḥ; saras tato dvaitavanaṃ pratīyuḥ 22 samīkṣya tān daitavane niviṣṭān; nivāsinas tatra tato 'bhijagmuḥ tapo damācāra samādhiyuktās; tṛṇoda pātrāharaṇāśma kuṭṭāḥ 23 plakṣākṣa rauhītaka vetasāś ca; snuhā badaryaḥ khadirāḥ śirīṣāḥ bilveṅgudāḥ pīlu śamī karīrāḥ; sarasvatī tīraruhā babhūvuḥ 24 tāṃ yakṣagandharvamaharṣikāntām; āyāga bhūtām iva devatānām sarasvatīṃ prītiyutāś carantaḥ; sukhaṃ vijahrur naradeva putrāḥ |
The Mahabharata in Sanskrit
Book 3
Chapter 175
|
1
[जनम] कथं नागायुतप्राणॊ भीमसेनॊ महाबलः भयम आहारयत तीव्रं तस्माद अजगरान मुने 2 पौलस्त्य यॊ ऽऽहवयद युद्धे धनदं बलदर्पितः नलिन्यां कदनं कृत्वा वराणां यक्षरक्षसाम 3 तं शंससि भयाविष्टम आपन्नम अरिकर्षणम एतद इच्छाम्य अहं शरॊतुं परं कौतूहलं हि मे 4 [वै] बह्वाश्चर्ये वने तेषां वसताम उग्रधन्विनाम पराप्तानाम आश्रमाद राजन राजर्षेर वृषपर्वणः 5 यदृच्छया धनुः पानिर बद्धखड्गॊ वृकॊदरः ददर्श तद वनं रम्यदेवगन्धर्वसेवितम 6 स ददर्श शुभान देशान गिरेर हिमवतस तदा देवर्षिसिद्धचरितान अप्सरॊगणसेवितान 7 चकॊरैश चक्रवाकैश च पक्षिभिर जीव जीविकैः कॊलिकैर भृङ्गराजैश च तत्र तत्र विनादितान 8 नित्यपुष्पफलैर वृक्षैर हिमसंस्पर्श कॊमलैः उपेतान बहुल छायैर मनॊ नयननन्दनैः 9 स संपश्यन गिरिनदीर वैडूद्य मणिसंनिभैः सलिलैर हिमसंस्पर्शैर हंसकारण्डवायुतैः 10 वनानि देवदारूणां मेघानाम इव वागुराः हरिचन्दन मिश्राणि तुङ्गकालीयकान्य अपि 11 मृगयां परिधावन स समेषु मरुधन्वसु विध्यन मृगाञ शरैः शुद्धैश चचार सुमहाबलः 12 स ददर्श महाकायं भुजङ्गं लॊमहर्षणम गिरिदुर्गे समापन्नं कायेनावृत्य कन्दरम 13 पर्वताभॊगवर्ष्माणं भॊगैश चन्द्रार्कमण्डलैः चित्राङ्गम अजिनैश चित्रैर हरिद्रा सदृशछविम 14 गुहाकारेण वक्त्रेण चतुर्दंष्ट्रेण राजता दीप्ताक्षेणातिताम्रेण लिहन्तं सृक्किणी मुहुः 15 तरासनं सर्वभूतानां कालान्तकयमॊपमम निःश्वासक्ष्वेड नादेन भर्त्सयन्तम इव सथितम 16 स भीम सहसाभ्येत्य पृदाकुः कषुधितॊ भृशम जग्राहाजगरॊ गराहॊ भुजयॊर उभयॊर बलात 17 तेन संस्पृष्ट मात्रस्य भिमसेनस्य वै तदा संज्ञा मुमॊह सहसा वरदानेन तस्य ह 18 दशनागसहस्राणि धारयन्ति हि यद बलम तद बलं भीमसेनस्य भुजयॊर असमं परैः 19 स तेजस्वी तथा तेन भुजगेन वशीकृतः विस्फुरञ शनकैर भीमॊ न शशाक विचेष्टितुम 20 नागायुत समप्राणः सिंहस्कन्धॊ महाभुजः गृहीतॊ वयजहात सत्त्वं वरदानेन मॊहितः 21 स हि परयत्नम अकरॊत तीव्रम आत्मविमॊक्षणे न चैनम अशकद वीरः कथं चित परतिबाधितुम |
1
[janam] kathaṃ nāgāyutaprāṇo bhīmaseno mahābalaḥ bhayam āhārayat tīvraṃ tasmād ajagarān mune 2 paulastya yo ''hvayad yuddhe dhanadaṃ baladarpitaḥ nalinyāṃ kadanaṃ kṛtvā varāṇāṃ yakṣarakṣasām 3 taṃ śaṃsasi bhayāviṣṭam āpannam arikarṣaṇam etad icchāmy ahaṃ śrotuṃ paraṃ kautūhalaṃ hi me 4 [vai] bahvāścarye vane teṣāṃ vasatām ugradhanvinām prāptānām āśramād rājan rājarṣer vṛṣaparvaṇaḥ 5 yadṛcchayā dhanuḥ pānir baddhakhaḍgo vṛkodaraḥ dadarśa tad vanaṃ ramyadevagandharvasevitam 6 sa dadarśa śubhān deśān girer himavatas tadā devarṣisiddhacaritān apsarogaṇasevitān 7 cakoraiś cakravākaiś ca pakṣibhir jīva jīvikaiḥ kolikair bhṛṅgarājaiś ca tatra tatra vināditān 8 nityapuṣpaphalair vṛkṣair himasaṃsparśa komalaiḥ upetān bahula chāyair mano nayananandanaiḥ 9 sa saṃpaśyan girinadīr vaiḍūdya maṇisaṃnibhaiḥ salilair himasaṃsparśair haṃsakāraṇḍavāyutaiḥ 10 vanāni devadārūṇāṃ meghānām iva vāgurāḥ haricandana miśrāṇi tuṅgakālīyakāny api 11 mṛgayāṃ paridhāvan sa sameṣu marudhanvasu vidhyan mṛgāñ śaraiḥ śuddhaiś cacāra sumahābalaḥ 12 sa dadarśa mahākāyaṃ bhujaṅgaṃ lomaharṣaṇam giridurge samāpannaṃ kāyenāvṛtya kandaram 13 parvatābhogavarṣmāṇaṃ bhogaiś candrārkamaṇḍalaiḥ citrāṅgam ajinaiś citrair haridrā sadṛśachavim 14 guhākāreṇa vaktreṇa caturdaṃṣṭreṇa rājatā dīptākṣeṇātitāmreṇa lihantaṃ sṛkkiṇī muhuḥ 15 trāsanaṃ sarvabhūtānāṃ kālāntakayamopamam niḥśvāsakṣveḍa nādena bhartsayantam iva sthitam 16 sa bhīma sahasābhyetya pṛdākuḥ kṣudhito bhṛśam jagrāhājagaro grāho bhujayor ubhayor balāt 17 tena saṃspṛṣṭa mātrasya bhimasenasya vai tadā saṃjñā mumoha sahasā varadānena tasya ha 18 daśanāgasahasrāṇi dhārayanti hi yad balam tad balaṃ bhīmasenasya bhujayor asamaṃ paraiḥ 19 sa tejasvī tathā tena bhujagena vaśīkṛtaḥ visphurañ śanakair bhīmo na śaśāka viceṣṭitum 20 nāgāyuta samaprāṇaḥ siṃhaskandho mahābhujaḥ gṛhīto vyajahāt sattvaṃ varadānena mohitaḥ 21 sa hi prayatnam akarot tīvram ātmavimokṣaṇe na cainam aśakad vīraḥ kathaṃ cit pratibādhitum |
The Mahabharata in Sanskrit
Book 3
Chapter 176
|
1
[वै] स भीमसेनस तेजस्वी तथा सर्पवशं गतः चिन्तयाम आस सर्पस्य वीर्यम अत्यद्भुतं महत 2 उवाच च महासर्पं कामया बरूहि पन्नग कस तवं भॊ भुजग शरेष्ठ किं मया च करिष्यसि 3 पाण्डवॊ भिमसेनॊ ऽहं धर्मराजाद अनन्तरः नागायुत समप्राणॊ तवया नीतः कथं वशम 4 सिंहाः केसरिणॊ वयाघ्रा महिषा वारणास तथा समागताश च बहुशॊ निहताश च मया मृधे 5 दानवाश च पिशाचाश च राक्षसाश च महाबलाः भुजवेगम अशक्ता मे सॊढुं पन्नगसत्तम 6 किं नु विद्या बलं किं वा वरदानम अथॊ तव उद्यॊगम अपि कुर्वाणॊ वशगॊ ऽसमि कृतस तवया 7 असत्यॊ विक्रमॊ नॄणाम इति मे निश्चिता मतिः यथेदं मे तवया नागबलं परतिहतं महत 8 इत्य एवं वादिनं वीरं भीमम अक्लिष्टकारिणम भॊगेन महता सर्पः समन्तात पर्यवेष्टयत 9 निगृह्य तं महाबाहुं ततः स भुजगस तदा विमुच्यास्य भुजौ पीनाव इदं वचनम अब्रवीत 10 दिष्ट्या तवं कषुधितस्याद्य देवैर भक्षॊ महाभुज दिष्ट्या कालस्य महतः परियाः पराणा हि देहिनाम 11 यथा तव इदं मया पराप्तं भुजंगत्वम अरिंदम तद अवश्यं मया खयाप्यं तवाद्य शृणु सत्तम 12 इमाम अवस्थां संप्राप्तॊ हय अहं कॊपान मनीषिणाम शापस्यान्तं परिप्रेप्सुः सर्पस्य कथयामि तत 13 नहुषॊ नाम राजर्षिर वयक्तं ते शरॊत्रम आगतः तवैव पूर्वः पूर्वेषाम आयॊर वंशकरः सुतः 14 सॊ ऽहं शापाद अगस्त्यस्य बराह्मणान अवमन्य च इमाम अवस्थाम आपन्नः पश्य दैवम इदं मम 15 तवां चेद अवध्यम आयान्तम अतीव परियदर्शनम अहम अद्यॊपयॊक्ष्यामि विधानं पश्य यादृशम 16 न हि मे मुच्यते कश चित कथं चिद गरहणं गतः गजॊ वा महिषॊ वापि षष्ठे काले नरॊत्तम 17 नासि केवलसर्पेण तिर्यग्यॊनिषु वर्तता गृहीतः कौरवश्रेष्ठ वरदानम इदं मम 18 पतता हि विमानाग्रान मया शक्रासनाद दरुतम कुरु शापान्तम इत्य उक्तॊ भगवान मुनिसत्तमः 19 स माम उवाच तेजस्वी कृपयाभिपरिप्लुतः मॊक्षस ते भविता राजन कस्माच चित कालपर्ययात 20 ततॊ ऽसमि पतितॊ भूमौ न च माम अजहात समृतिः समार्तम अस्ति पुराणं मे यथैवाधिगतं तथा 21 यस तु ते वयाहृतान परश्नान परतिब्रूयाद विशेषवित स तवां मॊक्षयिता शापाद इति माम अब्रवीद ऋषिः 22 गृहीतस्य तवया राजन पराणिनॊ ऽपि बलीयसः सत्त्वभ्रंशॊ ऽधिकस्यापि सर्वस्याशु भविष्यति 23 इति चाप्य अहम अश्रौषं वचस तेषां दयावताम मयि संजातहार्दानाम अथ ते ऽनतर्हिता दविजाः 24 सॊ ऽहं परमदुष्कर्मा वसामि निरये ऽशुचौ सर्पयॊनिम इमां पराप्य कालाकाङ्क्षी महाद्युते 25 तम उवाच महाबाहुर भीमसेनॊ भुजंगमम न ते कुप्ये महासर्पन चात्मानं विगर्हये 26 यस्माद अभावी भावी वा मनुष्यः सुखदुःखयॊः आगमे यदि वापाये न तत्र गरपयेन मनः 27 दैवं पुरुषकारेण कॊ निवर्तितुम अर्हति दैवम एव परं मन्ये पुरुषार्थॊ निरर्थकः 28 पश्य दैपॊपघाताद धि भुजवीर्यव्यपाश्रयम इमाम अवस्थां संप्राप्तम अनिमित्तम इहाद्य माम 29 किं तु नाद्यानुशॊचामि तथात्मानं विनाशितम यथा तु विपिने नयस्तान भरातॄन राज्यपरिच्युतान 30 हिमवांश च सुदुर्गॊ ऽयं यक्षराक्षस संकुलः मां च ते समुदीक्षन्तः परपतिष्यन्ति विह्वलाः 31 विनष्टम अथ वा शरुत्वा भविष्यन्ति निरुद्यमाः धर्मशीला मया तेहि बाध्यन्ते राज्यगृद्धिना 32 अथ वा नार्जुनॊ धीमान विषादम उपयास्यति सर्वास्त्रविद अनाधृष्यॊ देवगन्धर्वराक्षसैः 33 समर्थः स महाबाहुर एकाह्ना समहा बलः देवराजम अपि सथानात परच्यावयितुम ओजसा 34 किं पुनर धृतराष्ट्रस्य पुत्रं दुर्द्यूत देविनम विद्विष्टं सर्वलॊकस्य दम्भलॊभ परायणम 35 मातरं चैव शॊचामि कृपणां पुत्रगृद्धिनीम यस्माकं नित्यम आशास्ते महत्त्वम अधिकं परैः 36 कथं नु तस्यानाथाया मद विनाशाद भुजंगम अफलास ते भविष्यन्ति मयि सर्वे मनॊरथाः 37 नकुलः सहदेवश च यमजौ गुरुवर्तिनौ मद्बाहुबलसंस्तब्धौ नित्यं पुरुषमानिनौ 38 निरुत्साहौ भविष्येते भरष्टवीर्यपराक्रमौ मद विनाशात परिद्यूनाव इति मे वर्तते मतिः 39 एवंविधं बहु तदा विललाप वृकॊदरः भुजंगभॊग संरुद्धॊ नाशकच च विचेष्टितुम 40 युधिष्ठिरस तु कौन्तेय बभूवास्वस्थ चेतनः अनिष्ट दर्शनान घॊरान उत्पातान परिचिन्तयन 41 दारुणं हय अशिवं नादं शिवा दक्षिणतः सथिता दीप्तायां दिशि वित्रस्ता रौति तस्याश्रमस्य ह 42 एकपक्षाक्षि चरणा वर्तिका घॊरदर्शना रुधिरं वमन्ती ददृशे परत्यादित्यम अपस्वरा 43 परववाव अनिलॊ रूक्षश चण्डः शर्कर कर्षणः अपसव्यानि सर्वाणि मृगपक्षिरुतानि च 44 पृष्ठतॊ वायसः कृष्णॊ याहि याहीति वाशति मुहुर मुहुः परस्फुरति दक्षिणॊ ऽसय भुजस तथा 45 हृदयं चरणश चापि वामॊ ऽसय परिवर्तते सव्यस्याक्ष्णॊ विकारश चाप्य अनिष्टः समपद्यत 46 स धर्मराजॊ मेधावी शङ्कमानॊ महद भयम दरौपदीं परिपप्रच्छ कव भीम इति भारत 47 शशंस तस्मै पाञ्चाली चिरयातं वृकॊदरम स परतस्थे महाबाहुर धौम्येन सहितॊ नृपः 48 दरौपद्या रक्षणं कार्यम इत्य उवाच धनंजयम नकुलं सहदेवं च वयादिदेश दविजान परति 49 स तस्य पदम उन्नीय तस्माद एवाश्रमात परभुः ददर्श पृथिवीं चिह्नैर भीमस्य परिचिह्निताम 50 धावतस तस्य वीरस्य मृगार्थे वातरंहसः ऊरुवातविनिर्भग्नान दरुमान वयावर्तितान पथि 51 स गत्वा तैस तदा चिह्नैर ददर्श गिरिगह्वरे गृहीतं भुजगेन्द्रेण निश्चेष्टम अनुजं तथा |
1
[vai] sa bhīmasenas tejasvī tathā sarpavaśaṃ gataḥ cintayām āsa sarpasya vīryam atyadbhutaṃ mahat 2 uvāca ca mahāsarpaṃ kāmayā brūhi pannaga kas tvaṃ bho bhujaga śreṣṭha kiṃ mayā ca kariṣyasi 3 pāṇḍavo bhimaseno 'haṃ dharmarājād anantaraḥ nāgāyuta samaprāṇo tvayā nītaḥ kathaṃ vaśam 4 siṃhāḥ kesariṇo vyāghrā mahiṣā vāraṇās tathā samāgatāś ca bahuśo nihatāś ca mayā mṛdhe 5 dānavāś ca piśācāś ca rākṣasāś ca mahābalāḥ bhujavegam aśaktā me soḍhuṃ pannagasattama 6 kiṃ nu vidyā balaṃ kiṃ vā varadānam atho tava udyogam api kurvāṇo vaśago 'smi kṛtas tvayā 7 asatyo vikramo nṝṇām iti me niścitā matiḥ yathedaṃ me tvayā nāgabalaṃ pratihataṃ mahat 8 ity evaṃ vādinaṃ vīraṃ bhīmam akliṣṭakāriṇam bhogena mahatā sarpaḥ samantāt paryaveṣṭayat 9 nigṛhya taṃ mahābāhuṃ tataḥ sa bhujagas tadā vimucyāsya bhujau pīnāv idaṃ vacanam abravīt 10 diṣṭyā tvaṃ kṣudhitasyādya devair bhakṣo mahābhuja diṣṭyā kālasya mahataḥ priyāḥ prāṇā hi dehinām 11 yathā tv idaṃ mayā prāptaṃ bhujaṃgatvam ariṃdama tad avaśyaṃ mayā khyāpyaṃ tavādya śṛṇu sattama 12 imām avasthāṃ saṃprāpto hy ahaṃ kopān manīṣiṇām śāpasyāntaṃ pariprepsuḥ sarpasya kathayāmi tat 13 nahuṣo nāma rājarṣir vyaktaṃ te śrotram āgataḥ tavaiva pūrvaḥ pūrveṣām āyor vaṃśakaraḥ sutaḥ 14 so 'haṃ śāpād agastyasya brāhmaṇān avamanya ca imām avasthām āpannaḥ paśya daivam idaṃ mama 15 tvāṃ ced avadhyam āyāntam atīva priyadarśanam aham adyopayokṣyāmi vidhānaṃ paśya yādṛśam 16 na hi me mucyate kaś cit kathaṃ cid grahaṇaṃ gataḥ gajo vā mahiṣo vāpi ṣaṣṭhe kāle narottama 17 nāsi kevalasarpeṇa tiryagyoniṣu vartatā gṛhītaḥ kauravaśreṣṭha varadānam idaṃ mama 18 patatā hi vimānāgrān mayā śakrāsanād drutam kuru śāpāntam ity ukto bhagavān munisattamaḥ 19 sa mām uvāca tejasvī kṛpayābhipariplutaḥ mokṣas te bhavitā rājan kasmāc cit kālaparyayāt 20 tato 'smi patito bhūmau na ca mām ajahāt smṛtiḥ smārtam asti purāṇaṃ me yathaivādhigataṃ tathā 21 yas tu te vyāhṛtān praśnān pratibrūyād viśeṣavit sa tvāṃ mokṣayitā śāpād iti mām abravīd ṛṣiḥ 22 gṛhītasya tvayā rājan prāṇino 'pi balīyasaḥ sattvabhraṃśo 'dhikasyāpi sarvasyāśu bhaviṣyati 23 iti cāpy aham aśrauṣaṃ vacas teṣāṃ dayāvatām mayi saṃjātahārdānām atha te 'ntarhitā dvijāḥ 24 so 'haṃ paramaduṣkarmā vasāmi niraye 'śucau sarpayonim imāṃ prāpya kālākāṅkṣī mahādyute 25 tam uvāca mahābāhur bhīmaseno bhujaṃgamam na te kupye mahāsarpana cātmānaṃ vigarhaye 26 yasmād abhāvī bhāvī vā manuṣyaḥ sukhaduḥkhayoḥ āgame yadi vāpāye na tatra grapayen manaḥ 27 daivaṃ puruṣakāreṇa ko nivartitum arhati daivam eva paraṃ manye puruṣārtho nirarthakaḥ 28 paśya daipopaghātād dhi bhujavīryavyapāśrayam imām avasthāṃ saṃprāptam animittam ihādya mām 29 kiṃ tu nādyānuśocāmi tathātmānaṃ vināśitam yathā tu vipine nyastān bhrātṝn rājyaparicyutān 30 himavāṃś ca sudurgo 'yaṃ yakṣarākṣasa saṃkulaḥ māṃ ca te samudīkṣantaḥ prapatiṣyanti vihvalāḥ 31 vinaṣṭam atha vā śrutvā bhaviṣyanti nirudyamāḥ dharmaśīlā mayā tehi bādhyante rājyagṛddhinā 32 atha vā nārjuno dhīmān viṣādam upayāsyati sarvāstravid anādhṛṣyo devagandharvarākṣasaiḥ 33 samarthaḥ sa mahābāhur ekāhnā samahā balaḥ devarājam api sthānāt pracyāvayitum ojasā 34 kiṃ punar dhṛtarāṣṭrasya putraṃ durdyūta devinam vidviṣṭaṃ sarvalokasya dambhalobha parāyaṇam 35 mātaraṃ caiva śocāmi kṛpaṇāṃ putragṛddhinīm yasmākaṃ nityam āśāste mahattvam adhikaṃ paraiḥ 36 kathaṃ nu tasyānāthāyā mad vināśād bhujaṃgama aphalās te bhaviṣyanti mayi sarve manorathāḥ 37 nakulaḥ sahadevaś ca yamajau guruvartinau madbāhubalasaṃstabdhau nityaṃ puruṣamāninau 38 nirutsāhau bhaviṣyete bhraṣṭavīryaparākramau mad vināśāt paridyūnāv iti me vartate matiḥ 39 evaṃvidhaṃ bahu tadā vilalāpa vṛkodaraḥ bhujaṃgabhoga saṃruddho nāśakac ca viceṣṭitum 40 yudhiṣṭhiras tu kaunteya babhūvāsvastha cetanaḥ aniṣṭa darśanān ghorān utpātān paricintayan 41 dāruṇaṃ hy aśivaṃ nādaṃ śivā dakṣiṇataḥ sthitā dīptāyāṃ diśi vitrastā rauti tasyāśramasya ha 42 ekapakṣākṣi caraṇā vartikā ghoradarśanā rudhiraṃ vamantī dadṛśe pratyādityam apasvarā 43 pravavāv anilo rūkṣaś caṇḍaḥ śarkara karṣaṇaḥ apasavyāni sarvāṇi mṛgapakṣirutāni ca 44 pṛṣṭhato vāyasaḥ kṛṣṇo yāhi yāhīti vāśati muhur muhuḥ prasphurati dakṣiṇo 'sya bhujas tathā 45 hṛdayaṃ caraṇaś cāpi vāmo 'sya parivartate savyasyākṣṇo vikāraś cāpy aniṣṭaḥ samapadyata 46 sa dharmarājo medhāvī śaṅkamāno mahad bhayam draupadīṃ paripapraccha kva bhīma iti bhārata 47 śaśaṃsa tasmai pāñcālī cirayātaṃ vṛkodaram sa pratasthe mahābāhur dhaumyena sahito nṛpaḥ 48 draupadyā rakṣaṇaṃ kāryam ity uvāca dhanaṃjayam nakulaṃ sahadevaṃ ca vyādideśa dvijān prati 49 sa tasya padam unnīya tasmād evāśramāt prabhuḥ dadarśa pṛthivīṃ cihnair bhīmasya paricihnitām 50 dhāvatas tasya vīrasya mṛgārthe vātaraṃhasaḥ ūruvātavinirbhagnān drumān vyāvartitān pathi 51 sa gatvā tais tadā cihnair dadarśa girigahvare gṛhītaṃ bhujagendreṇa niśceṣṭam anujaṃ tathā |
The Mahabharata in Sanskrit
Book 3
Chapter 177
|
1
[वै] युधिष्ठिरस तम आसाद्य सर्पभॊगाभिवेष्टितम दयितं भरतरं वीरम इदं वचनम अब्रवीत 2 कुन्ती मातः कथम इमाम आपदं तवम अवाप्तवान कश चायं पर्वताभॊगप्रतिमः पन्नगॊत्तमः 3 स धर्मराजम आलक्ष्य भराता भरातरम अग्रजम कथयाम आस तत सर्वं गरहणादि विचेष्टितम 4 [य] देवॊ वा यदि वा दैत्य उरगॊ वा भवान यदि सत्यं सर्पवचॊ बरूहि पृच्छति तवां युधिष्ठिरः 5 किम आहृत्य विदित्वा वा परीतिस ते सयाद भुजंगम किमाहारं परयच्छामि कथं मुञ्चेद भवान इमम 6 [सर्प] नहुषॊ नाम राजाहम आसं पूर्वस तवानघ परथितः पञ्चमः सॊमाद आयॊःपुत्रॊ नराधिप 7 करतुभिस तपसा चैव सवाध्यायेन दमेन च तरैलॊक्यैश्वर्यम अव्यग्रं पराप्तॊ विक्रमणेन च 8 तद ऐश्वर्यं समासाद्य दर्पॊ माम अगमत तदा सहस्रं हि दविजातीनाम उवाह शिबिलां मम 9 ऐश्वर्यमदमत्तॊ ऽहम अवमन्य ततॊ दविजान इमाम अगस्त्येन दशाम आनीतः पृथिवीपते 10 न तु माम अजहात परज्ञा यावद अद्येति पाण्डव तस्यैवानुग्रहाद राजन्न अगस्त्यस्य महात्मनः 11 षष्ठे काले ममाहारः पराप्तॊ ऽयम अनुजस तव नाहम एनं विमॊक्ष्यामि न चान्यम अभिकामये 12 परश्नान उच्चारितांस तु तवं वयाहरिष्यसि चेन मम अथ पश्चाद विमॊक्ष्यामि भरातरं ते वृकॊदरम 13 [य] बरूहि सर्पयथाकामं परतिवक्ष्यामि ते वचः अपि चेच छक्नुयां परीतिम आहर्तुं ते भुजंगम 14 वेद्यं यद बराह्मणेनेह तद भवान वेत्ति केवलम सर्पराजततः शरुत्वा परतिवक्ष्यामि ते वचः 15 [सर्प] बराह्मणः कॊ भवेद राजन वेद्यं किं च युधिष्ठिर बरवीह्य अतिमतिं तवां हि वाक्यैर अनुमिमीमहे 16 [य] सत्यं दानं कषमा शीलम आनृशंस्यं दमॊ घृणा दृश्यन्ते यत्र नागेन्द्र स बराह्मण इति समृतः 17 वेद्यं सर्पपरं बरह्म निर्दुःखम असुखं च यत यत्र गत्वा न शॊचन्ति भवतः किं विवक्षितम 18 [सर्प] चातुर्वर्ण्यं परमाणं च सत्यं च बरह्म चैव ह शूद्रेष्व अपि च सत्यं च दानम अक्रॊध एव च आनृशंस्यम अहिंसा च घृणा चैव युधिष्ठिर 19 वेद्यं यच चाथ निर्दुःखम असुखं च नराधिप ताभ्यां हीनं पदं चान्यन न तद अस्तीति लक्षये 20 [य] शूद्रे चैतद भवेल लक्ष्यं दविजे तच च न विद्यते न वै शूद्रॊ भवेच छूद्रॊ बराह्मणॊ न च बराह्मणः 21 यत्रैतल लक्ष्यते सर्पवृत्तं स बराह्मणः समृतः यत्रैतन न भवेत सर्पतं शूद्रम इति निर्दिशेत 22 यत पुनर भवता परॊक्तं न वेद्यं विद्यतेति ह ताभ्यां हीनम अतीत्यात्र पदं नास्तीति चेद अपि 23 एवम एतन मतं सर्पताभ्यां हीनं न विद्यते यथा शीतॊष्णयॊर मध्ये भवेन नॊष्णं न शीतता 24 एवं वै सुखदुःखाभ्यां हीनम अस्ति पदं कव चित एषा मम मतिः सर्पयथा वा मन्यते भवान 25 [सर्प] यदि ते वृत्ततॊ राजन बराह्मणः परसमीक्षितः वयर्था जातिस तदायुष्मन कृतिर यावन न दृश्यते 26 [य] जातिर अत्र महासर्पमनुष्यत्वे महामते संकरात सर्ववर्णानां दुष्परीक्ष्येति मे मतिः 27 सर्वे सर्वास्व अपत्यानि जनयन्ति यदा नराः वान मैथुनम अथॊ जन्म मरणं च समं नृणाम 28 इदम आर्षं परमाणं च ये यजामह इत्य अपि तस्माच छीलं परधानेष्टं विदुर ये तत्त्वदर्शिनः 29 परान्न्न नाभिर वर्धनात पुंसॊ जातकर्म विधीयते तत्रास्य माता सावित्री पिता तव आचार्य उच्यते 30 वृत्त्या शूद्र समॊ हय एष यावद वेदे न जायते अस्मिन्न एवं मतिद्वैधे मनुः सवायम्भुवॊ ऽबरवीत 31 कृतकृत्याः पुनर वर्णा यदि वृत्तं न विद्यते संकरस तत्र नागेन्द्र बलवान परसमीक्षितः 32 यत्रेदानीं महासर्पसंस्कृतं वृत्तम इष्यते तं बराह्मणम अहं पूर्वम उक्तवान भुजगॊत्तम 33 [सर्प] शरुतं विदितवेद्यस्य तव वाक्यं युधिष्ठिर भक्षयेयम अहं कस्माद भरातरं ते वृकॊदरम |
1
[vai] yudhiṣṭhiras tam āsādya sarpabhogābhiveṣṭitam dayitaṃ bhrataraṃ vīram idaṃ vacanam abravīt 2 kuntī mātaḥ katham imām āpadaṃ tvam avāptavān kaś cāyaṃ parvatābhogapratimaḥ pannagottamaḥ 3 sa dharmarājam ālakṣya bhrātā bhrātaram agrajam kathayām āsa tat sarvaṃ grahaṇādi viceṣṭitam 4 [y] devo vā yadi vā daitya urago vā bhavān yadi satyaṃ sarpavaco brūhi pṛcchati tvāṃ yudhiṣṭhiraḥ 5 kim āhṛtya viditvā vā prītis te syād bhujaṃgama kimāhāraṃ prayacchāmi kathaṃ muñced bhavān imam 6 [sarpa] nahuṣo nāma rājāham āsaṃ pūrvas tavānagha prathitaḥ pañcamaḥ somād āyoḥputro narādhipa 7 kratubhis tapasā caiva svādhyāyena damena ca trailokyaiśvaryam avyagraṃ prāpto vikramaṇena ca 8 tad aiśvaryaṃ samāsādya darpo mām agamat tadā sahasraṃ hi dvijātīnām uvāha śibilāṃ mama 9 aiśvaryamadamatto 'ham avamanya tato dvijān imām agastyena daśām ānītaḥ pṛthivīpate 10 na tu mām ajahāt prajñā yāvad adyeti pāṇḍava tasyaivānugrahād rājann agastyasya mahātmanaḥ 11 ṣaṣṭhe kāle mamāhāraḥ prāpto 'yam anujas tava nāham enaṃ vimokṣyāmi na cānyam abhikāmaye 12 praśnān uccāritāṃs tu tvaṃ vyāhariṣyasi cen mama atha paścād vimokṣyāmi bhrātaraṃ te vṛkodaram 13 [y] brūhi sarpayathākāmaṃ prativakṣyāmi te vacaḥ api cec chaknuyāṃ prītim āhartuṃ te bhujaṃgama 14 vedyaṃ yad brāhmaṇeneha tad bhavān vetti kevalam sarparājatataḥ śrutvā prativakṣyāmi te vacaḥ 15 [sarpa] brāhmaṇaḥ ko bhaved rājan vedyaṃ kiṃ ca yudhiṣṭhira bravīhy atimatiṃ tvāṃ hi vākyair anumimīmahe 16 [y] satyaṃ dānaṃ kṣamā śīlam ānṛśaṃsyaṃ damo ghṛṇā dṛśyante yatra nāgendra sa brāhmaṇa iti smṛtaḥ 17 vedyaṃ sarpaparaṃ brahma nirduḥkham asukhaṃ ca yat yatra gatvā na śocanti bhavataḥ kiṃ vivakṣitam 18 [sarpa] cāturvarṇyaṃ pramāṇaṃ ca satyaṃ ca brahma caiva ha śūdreṣv api ca satyaṃ ca dānam akrodha eva ca ānṛśaṃsyam ahiṃsā ca ghṛṇā caiva yudhiṣṭhira 19 vedyaṃ yac cātha nirduḥkham asukhaṃ ca narādhipa tābhyāṃ hīnaṃ padaṃ cānyan na tad astīti lakṣaye 20 [y] śūdre caitad bhavel lakṣyaṃ dvije tac ca na vidyate na vai śūdro bhavec chūdro brāhmaṇo na ca brāhmaṇaḥ 21 yatraital lakṣyate sarpavṛttaṃ sa brāhmaṇaḥ smṛtaḥ yatraitan na bhavet sarpataṃ śūdram iti nirdiśet 22 yat punar bhavatā proktaṃ na vedyaṃ vidyateti ha tābhyāṃ hīnam atītyātra padaṃ nāstīti ced api 23 evam etan mataṃ sarpatābhyāṃ hīnaṃ na vidyate yathā śītoṣṇayor madhye bhaven noṣṇaṃ na śītatā 24 evaṃ vai sukhaduḥkhābhyāṃ hīnam asti padaṃ kva cit eṣā mama matiḥ sarpayathā vā manyate bhavān 25 [sarpa] yadi te vṛttato rājan brāhmaṇaḥ prasamīkṣitaḥ vyarthā jātis tadāyuṣman kṛtir yāvan na dṛśyate 26 [y] jātir atra mahāsarpamanuṣyatve mahāmate saṃkarāt sarvavarṇānāṃ duṣparīkṣyeti me matiḥ 27 sarve sarvāsv apatyāni janayanti yadā narāḥ vān maithunam atho janma maraṇaṃ ca samaṃ nṛṇām 28 idam ārṣaṃ pramāṇaṃ ca ye yajāmaha ity api tasmāc chīlaṃ pradhāneṣṭaṃ vidur ye tattvadarśinaḥ 29 prānnn nābhir vardhanāt puṃso jātakarma vidhīyate tatrāsya mātā sāvitrī pitā tv ācārya ucyate 30 vṛttyā śūdra samo hy eṣa yāvad vede na jāyate asminn evaṃ matidvaidhe manuḥ svāyambhuvo 'bravīt 31 kṛtakṛtyāḥ punar varṇā yadi vṛttaṃ na vidyate saṃkaras tatra nāgendra balavān prasamīkṣitaḥ 32 yatredānīṃ mahāsarpasaṃskṛtaṃ vṛttam iṣyate taṃ brāhmaṇam ahaṃ pūrvam uktavān bhujagottama 33 [sarpa] śrutaṃ viditavedyasya tava vākyaṃ yudhiṣṭhira bhakṣayeyam ahaṃ kasmād bhrātaraṃ te vṛkodaram |
The Mahabharata in Sanskrit
Book 3
Chapter 178
|
1
[य] भवान एतादृशॊ लॊके वेदवेदाङ्गपारगः बरूहि किं कुर्वतः कर्म भवेद गतिर अनुत्तमा 2 [सर्प] पात्रे दत्त्वा परियाण्य उक्त्वा सत्यम उक्त्वा च भारत अहिंसा निरतः सवर्गं गच्छेद इति मतिर मम 3 [य] दानाद वा सर्पसत्याद वा किम अतॊ गुरु दृश्यते अहिंसा परिययॊश चैव गुरुलाघवम उच्यताम 4 [सर्प] दाने रतत्वं सत्यं च अहिंसा परियम एव च एषां कार्यगरीयस्त्वाद दृश्यते गुरुलाघवम 5 कस्माच चिद दानयॊगाद धि सत्यम एव विशिष्यते सत्यवाक्याच च राजेन्द्र किं चिद दानं विशिष्यते 6 एवम एव महेष्वास परियवाक्यान महीपते अहिंसा दृश्यते गुर्वी ततश च परियम इष्यते 7 एवम एतद भवेद राजन कार्यापेक्षम अनन्तरम यद अभिप्रेतम अन्यत ते बरूहि यावद बरवीम्य अहम 8 [य] कथं सवर्गे गतिः सर्पकर्मणां च फलं धरुवम अशरीरस्य दृश्येत विषयांश च बरवीहि मे 9 [सर्प] तिस्रॊ वै गतयॊ राजन परिदृष्टाः सवकर्मभिः मानुष्यं सवर्गवासश च तिर्यग्यॊनिश च तत तरिधा 10 तत्र वै मानुषाल लॊकाद दानादिभिर अतन्द्रितः अहिंसार्थ समायुक्तैः कारणैः सवर्गम अश्नुते 11 विपरीतैश च राजेन्द्र कारणैर मानुषॊ भवेत तिर्यग्यॊनिस तथा तात विशेषश चात्र वक्ष्यते 12 कामक्रॊधसमायुक्तॊ हिंसा लॊभसमन्वितः मनुष्यत्वात परिभ्रष्टस तिर्यग्यॊनौ परसूयते 13 तिर्यग्यॊन्यां पृथग्भावॊ मनुष्यत्वे विधीयते गवादिभ्यस तथाश्वेभ्यॊ देवत्वम अपि दृश्यते 14 सॊ ऽयम एता गतीः सर्वा जन्तुश चरति कार्यवान नित्ये महति चात्मानम अवस्थापयते नृप 15 जातॊ जातश च बलवान भुङ्क्ते चात्मा स देहवान फलार्थस तात निष्पृक्तः परजा लक्षणभावनः 16 [य] शब्दे सपर्शे च रूपे च तथैव रसगन्धयॊः तस्याधिष्ठानम अव्यग्रं बरूहि सर्पयथातथम 17 किं न गृह्णासि विषयान युगपत तवं महामते एतावद उच्यतां चॊक्तं सर्वं पन्नगसत्तम 18 [सर्प] यद आत्मद्रव्यम आयुष्मन देहसंश्रयणान्वितम करणाधिष्ठितं भॊगान उपभुङ्क्ते यथाविधि 19 जञानं चैवात्र बुद्धिश च मनॊ च भरतर्षभ तस्य भॊगाधिकरणे करणानि निबॊध मे 20 मनसा तात पर्येति करमशॊ विषयान इमान विषयायतनस्थेन भूतात्मा कषेत्रनिःसृतः 21 अत्र चापि नरव्याघ्र मनॊ जन्तॊर विधीयते तस्माद युगपद अस्यात्र गरहणं नॊपपद्यते 22 स आत्मा पुरुषव्याघ्र भरुवॊर अन्तरम आश्रितः दरव्येषु सृजते बुद्धिं विविधेषु परावरम 23 बुद्धेर उत्तरकालं च वेदना दृश्यते बुधैः एष वै राजशार्दूल विधिः कषेत्रज्ञभावनः 24 [य] मनसॊ चापि बुद्धेश च बरूहि मे लक्षणं परम एतद अध्यात्मविदुषां परं कार्यं विधीयते 25 [सर्प] बुद्धिर आत्मानुगा तात उत्पातेन विधीयते तद आश्रिता हि संज्ञैषा विधिस तस्यैषणे भवेत 26 बुद्धेर गुणविधिर नास्ति मनस तु गुणवद भवेत बुद्धिर उत्पद्यते कार्ये मनस तूत्पन्नम एव हि 27 एतद विशेषणं तात मनॊ बुद्ध्यॊर मयेरितम तवम अप्य अत्राभिसंबुद्धः कथं वा मन्यते भवान 28 [य] अहॊ बुद्धिमतां शरेष्ठ शुभा बुद्धिर इयं तव विदितं वेदितव्यं ते कस्मान माम अनुपृच्छसि 29 सर्वज्ञं तवां कथं मॊह आविशत सवर्गवासिनम एवम अद्भुतकर्माणम इति मे संशयॊ महान 30 [सर्प] सुप्रज्ञम अपि चेच छूरम ऋद्धिर मॊहयते नरम वर्तमानः सुखे सर्वॊ नावैतीति मतिर मम 31 सॊ ऽहम ऐश्वर्यमॊहेन मदाविष्टॊ युधिष्ठिर पतितः परतिसंबुद्धस तवां तु संबॊधयाम्य अहम 32 कृतं कार्यं महाराज तवया मम परंतप कषीणः शापः सुकृच्छ्रॊ मे तवया संभाष्य साधुना 33 अहं हि दिवि दिव्येन विमानेन चरन पुरा अभिमानेन मत्तः सन कं चिन नान्यम अचिन्तयम 34 बरह्मर्षिदेवगन्धर्वयक्षराक्षस किंनराः करान मम परयच्छन्ति सर्वे तरैलॊक्यवासिनः 35 चक्षुषा यं परपश्यामि पराणिनं पृथिवीपतौ तस्य तेजॊ हराम्य आशु तद धि दृष्टिबलं मम 36 बरह्मर्षीणां सहस्रं हि उवाह शिबिकां मम स माम अपनयॊ राजन भरंशयाम आस वै शरियः 37 तत्र हय अगस्त्यः पादेन वहन पृष्टॊ मया मुनिः अदृष्टेन ततॊ ऽसम्य उक्तॊ धवंस सर्पेति वै रुषा 38 ततस तस्माद विमानाग्रात परच्युतश चयुत भूषणः परपतन बुबुधे ऽऽतमानं वयाली भूतम अधॊमुखम 39 अयाचं तम अहं विप्रं शापस्यान्तॊ भवेद इति अज्ञानात संप्रवृत्तस्य भगवन कषन्तुम अर्हसि 40 ततः स माम उवाचेदं परपतन्तं कृपान्वितः युधिष्ठिरॊ धर्मराजः शापात तवां मॊक्षयिष्यति 41 अभिमानस्य घॊरस्य बलस्य च नराधिप फले कषीणे महाराज फलं पुण्यम अवाप्स्यसि 42 ततॊ मे विस्मयॊ जातस तद दृष्ट्वा तपसॊ बलम बरह्म च बराह्मणत्वं च येन तवाहम अचूचुदम 43 सत्यं दमस तपॊयॊगम अहिंसा दाननित्यता साधकानि सदा पुंसां न जातिर न कुलं नृप 44 अरिष्ट एष ते भराता भीमॊ मुक्तॊ महाभुजः सवस्ति ते ऽसतु महाराज गमिष्यामि दिवं पुनः 45 [वै] इत्य उक्त्वाजगरं देहं तयक्त्वा स नहुषॊ नृपः दिव्यं वपुः समास्थाय गतस तरिदिवम एव ह 46 युधिष्ठिरॊ ऽपि धर्मात्मा भरात्रा भीमेन संगतः धौम्येन सहितः शरीमान आश्रमं पुनर अभ्यगात 47 ततॊ दविजेभ्यः सर्वेभ्यः समेतेभ्यॊ यथातथम कथयाम आस तत सर्वं धर्मराजॊ युधिष्ठिरः 48 तच छरुत्वा ते दविजाः सर्वे भरातरश चास्य ते तरयः आसन सुव्रीडिता राजन दरौपदी च यशस्विनी 49 ते तु सर्वे दविजश्रेष्ठाः पाण्डवानां हितेप्सया मैवम इत्य अब्रुवन भीमं गर्हयन्तॊ ऽसय साहसम 50 पाण्डवास तु भयान मुक्तं परेक्ष्य भीमं महाबलम हर्षम आहारयां चक्रुर विजह्रुश च मुदा युताः |
1
[y] bhavān etādṛśo loke vedavedāṅgapāragaḥ brūhi kiṃ kurvataḥ karma bhaved gatir anuttamā 2 [sarpa] pātre dattvā priyāṇy uktvā satyam uktvā ca bhārata ahiṃsā nirataḥ svargaṃ gacched iti matir mama 3 [y] dānād vā sarpasatyād vā kim ato guru dṛśyate ahiṃsā priyayoś caiva gurulāghavam ucyatām 4 [sarpa] dāne ratatvaṃ satyaṃ ca ahiṃsā priyam eva ca eṣāṃ kāryagarīyastvād dṛśyate gurulāghavam 5 kasmāc cid dānayogād dhi satyam eva viśiṣyate satyavākyāc ca rājendra kiṃ cid dānaṃ viśiṣyate 6 evam eva maheṣvāsa priyavākyān mahīpate ahiṃsā dṛśyate gurvī tataś ca priyam iṣyate 7 evam etad bhaved rājan kāryāpekṣam anantaram yad abhipretam anyat te brūhi yāvad bravīmy aham 8 [y] kathaṃ svarge gatiḥ sarpakarmaṇāṃ ca phalaṃ dhruvam aśarīrasya dṛśyeta viṣayāṃś ca bravīhi me 9 [sarpa] tisro vai gatayo rājan paridṛṣṭāḥ svakarmabhiḥ mānuṣyaṃ svargavāsaś ca tiryagyoniś ca tat tridhā 10 tatra vai mānuṣāl lokād dānādibhir atandritaḥ ahiṃsārtha samāyuktaiḥ kāraṇaiḥ svargam aśnute 11 viparītaiś ca rājendra kāraṇair mānuṣo bhavet tiryagyonis tathā tāta viśeṣaś cātra vakṣyate 12 kāmakrodhasamāyukto hiṃsā lobhasamanvitaḥ manuṣyatvāt paribhraṣṭas tiryagyonau prasūyate 13 tiryagyonyāṃ pṛthagbhāvo manuṣyatve vidhīyate gavādibhyas tathāśvebhyo devatvam api dṛśyate 14 so 'yam etā gatīḥ sarvā jantuś carati kāryavān nitye mahati cātmānam avasthāpayate nṛpa 15 jāto jātaś ca balavān bhuṅkte cātmā sa dehavān phalārthas tāta niṣpṛktaḥ prajā lakṣaṇabhāvanaḥ 16 [y] śabde sparśe ca rūpe ca tathaiva rasagandhayoḥ tasyādhiṣṭhānam avyagraṃ brūhi sarpayathātatham 17 kiṃ na gṛhṇāsi viṣayān yugapat tvaṃ mahāmate etāvad ucyatāṃ coktaṃ sarvaṃ pannagasattama 18 [sarpa] yad ātmadravyam āyuṣman dehasaṃśrayaṇānvitam karaṇādhiṣṭhitaṃ bhogān upabhuṅkte yathāvidhi 19 jñānaṃ caivātra buddhiś ca mano ca bharatarṣabha tasya bhogādhikaraṇe karaṇāni nibodha me 20 manasā tāta paryeti kramaśo viṣayān imān viṣayāyatanasthena bhūtātmā kṣetraniḥsṛtaḥ 21 atra cāpi naravyāghra mano jantor vidhīyate tasmād yugapad asyātra grahaṇaṃ nopapadyate 22 sa ātmā puruṣavyāghra bhruvor antaram āśritaḥ dravyeṣu sṛjate buddhiṃ vividheṣu parāvaram 23 buddher uttarakālaṃ ca vedanā dṛśyate budhaiḥ eṣa vai rājaśārdūla vidhiḥ kṣetrajñabhāvanaḥ 24 [y] manaso cāpi buddheś ca brūhi me lakṣaṇaṃ param etad adhyātmaviduṣāṃ paraṃ kāryaṃ vidhīyate 25 [sarpa] buddhir ātmānugā tāta utpātena vidhīyate tad āśritā hi saṃjñaiṣā vidhis tasyaiṣaṇe bhavet 26 buddher guṇavidhir nāsti manas tu guṇavad bhavet buddhir utpadyate kārye manas tūtpannam eva hi 27 etad viśeṣaṇaṃ tāta mano buddhyor mayeritam tvam apy atrābhisaṃbuddhaḥ kathaṃ vā manyate bhavān 28 [y] aho buddhimatāṃ śreṣṭha śubhā buddhir iyaṃ tava viditaṃ veditavyaṃ te kasmān mām anupṛcchasi 29 sarvajñaṃ tvāṃ kathaṃ moha āviśat svargavāsinam evam adbhutakarmāṇam iti me saṃśayo mahān 30 [sarpa] suprajñam api cec chūram ṛddhir mohayate naram vartamānaḥ sukhe sarvo nāvaitīti matir mama 31 so 'ham aiśvaryamohena madāviṣṭo yudhiṣṭhira patitaḥ pratisaṃbuddhas tvāṃ tu saṃbodhayāmy aham 32 kṛtaṃ kāryaṃ mahārāja tvayā mama paraṃtapa kṣīṇaḥ śāpaḥ sukṛcchro me tvayā saṃbhāṣya sādhunā 33 ahaṃ hi divi divyena vimānena caran purā abhimānena mattaḥ san kaṃ cin nānyam acintayam 34 brahmarṣidevagandharvayakṣarākṣasa kiṃnarāḥ karān mama prayacchanti sarve trailokyavāsinaḥ 35 cakṣuṣā yaṃ prapaśyāmi prāṇinaṃ pṛthivīpatau tasya tejo harāmy āśu tad dhi dṛṣṭibalaṃ mama 36 brahmarṣīṇāṃ sahasraṃ hi uvāha śibikāṃ mama sa mām apanayo rājan bhraṃśayām āsa vai śriyaḥ 37 tatra hy agastyaḥ pādena vahan pṛṣṭo mayā muniḥ adṛṣṭena tato 'smy ukto dhvaṃsa sarpeti vai ruṣā 38 tatas tasmād vimānāgrāt pracyutaś cyuta bhūṣaṇaḥ prapatan bubudhe ''tmānaṃ vyālī bhūtam adhomukham 39 ayācaṃ tam ahaṃ vipraṃ śāpasyānto bhaved iti ajñānāt saṃpravṛttasya bhagavan kṣantum arhasi 40 tataḥ sa mām uvācedaṃ prapatantaṃ kṛpānvitaḥ yudhiṣṭhiro dharmarājaḥ śāpāt tvāṃ mokṣayiṣyati 41 abhimānasya ghorasya balasya ca narādhipa phale kṣīṇe mahārāja phalaṃ puṇyam avāpsyasi 42 tato me vismayo jātas tad dṛṣṭvā tapaso balam brahma ca brāhmaṇatvaṃ ca yena tvāham acūcudam 43 satyaṃ damas tapoyogam ahiṃsā dānanityatā sādhakāni sadā puṃsāṃ na jātir na kulaṃ nṛpa 44 ariṣṭa eṣa te bhrātā bhīmo mukto mahābhujaḥ svasti te 'stu mahārāja gamiṣyāmi divaṃ punaḥ 45 [vai] ity uktvājagaraṃ dehaṃ tyaktvā sa nahuṣo nṛpaḥ divyaṃ vapuḥ samāsthāya gatas tridivam eva ha 46 yudhiṣṭhiro 'pi dharmātmā bhrātrā bhīmena saṃgataḥ dhaumyena sahitaḥ śrīmān āśramaṃ punar abhyagāt 47 tato dvijebhyaḥ sarvebhyaḥ sametebhyo yathātatham kathayām āsa tat sarvaṃ dharmarājo yudhiṣṭhiraḥ 48 tac chrutvā te dvijāḥ sarve bhrātaraś cāsya te trayaḥ āsan suvrīḍitā rājan draupadī ca yaśasvinī 49 te tu sarve dvijaśreṣṭhāḥ pāṇḍavānāṃ hitepsayā maivam ity abruvan bhīmaṃ garhayanto 'sya sāhasam 50 pāṇḍavās tu bhayān muktaṃ prekṣya bhīmaṃ mahābalam harṣam āhārayāṃ cakrur vijahruś ca mudā yutāḥ |
The Mahabharata in Sanskrit
Book 3
Chapter 179
|
1
[वै] निदाघान्तकरः कालः सर्वभूतसुखावहः तत्रैव वसतां तेषां परावृट समभिपद्यत 2 छादयन्तॊ महाघॊषाः खं दिशश च बलाहकाः परववर्षुर दिवारात्रम असिताः सततं तदा 3 तपात्यय निकेताश च शतशॊ ऽथ सहस्रशः अपेतार्क परभा जालाः सविद्युद्विमलप्रभाः 4 विरूढ शष्पा पृथिवी मत्तदंश सरीसृपा बभूव पयसा सिक्ता शान्तधूमरजॊ ऽरुणा 5 न सम परज्ञायते किं चिद अम्भसा समवस्तृते समं वा विषमं वापि नद्यॊ वा सथावराणि वा 6 कषुब्धतॊया महाघॊषाः शवसमाना इवाशुगाः सिन्धवः शॊभयां चक्रुः काननानि तपात्यये 7 नदतां काननान्तेषु शरूयन्ते विविधाः सवनाः वृष्टिभिस ताड्यमानानां वराहमृगपक्षिणाम 8 सतॊकताः शिखिनश चैव पुंस्कॊकिल गणैः सह मत्ताः परिपतन्ति सम दर्दुराश चैव दर्पिताः 9 तथा बहुविधाकारा परावृष मेघानुनादिता अभ्यतीता शिवा तेषां चरतां मरुधन्वसु 10 करौञ्च हंसगणाकीर्णा शरत परणिहिताभवत रूड्ध कक्षवनप्रस्था परसन्नजलनिम्नगा 11 विमलाकाश नक्षत्रा शरत तेषां शिवाभवत मृगद्विजसमाकीर्णा पाण्डवानां महात्मनाम 12 पश्यन्तः शान्तरजसः कषपा जलदशीतलाः गरहनक्षत्रसंघैश च सॊमेन च विराजिताः 13 कुमुदैः पुण्डरीकैश च शीतवारि धराः शिवाः नदीः पुष्करिणीश चैव ददृशुः समलंकृताः 14 आकाशनीकाश तटां नीप नीवार संकुलाम बभूव चरतां हर्षः पुण्यतीर्थां सरस्वतीम 15 ते वै मुमुदिरे वीराः परसन्नसलिलां शिवाम पश्यन्तॊ दृढधन्वानः परिपूर्णां सरस्वतीम 16 तेषां पुण्यतमा रात्रिः पर्व संधौ सम शारदी तत्रैव वसताम आसीत कार्तिकी जनमेजय 17 पुण्यकृद्भिर महासत्त्वैस तापसैः सह पाण्डवाः तत सर्वं भरतश्रेष्ठाः समूहुर यॊगम उत्तमम 18 तमिस्राभ्युदिते तस्मिन धौम्येन सह पाण्डवाः सूतैः पौरॊगवैश चैव काम्यकं परययुर वनम |
1
[vai] nidāghāntakaraḥ kālaḥ sarvabhūtasukhāvahaḥ tatraiva vasatāṃ teṣāṃ prāvṛṭ samabhipadyata 2 chādayanto mahāghoṣāḥ khaṃ diśaś ca balāhakāḥ pravavarṣur divārātram asitāḥ satataṃ tadā 3 tapātyaya niketāś ca śataśo 'tha sahasraśaḥ apetārka prabhā jālāḥ savidyudvimalaprabhāḥ 4 virūḍha śaṣpā pṛthivī mattadaṃśa sarīsṛpā babhūva payasā siktā śāntadhūmarajo 'ruṇā 5 na sma prajñāyate kiṃ cid ambhasā samavastṛte samaṃ vā viṣamaṃ vāpi nadyo vā sthāvarāṇi vā 6 kṣubdhatoyā mahāghoṣāḥ śvasamānā ivāśugāḥ sindhavaḥ śobhayāṃ cakruḥ kānanāni tapātyaye 7 nadatāṃ kānanānteṣu śrūyante vividhāḥ svanāḥ vṛṣṭibhis tāḍyamānānāṃ varāhamṛgapakṣiṇām 8 stokatāḥ śikhinaś caiva puṃskokila gaṇaiḥ saha mattāḥ paripatanti sma dardurāś caiva darpitāḥ 9 tathā bahuvidhākārā prāvṛṣ meghānunāditā abhyatītā śivā teṣāṃ caratāṃ marudhanvasu 10 krauñca haṃsagaṇākīrṇā śarat praṇihitābhavat rūḍdha kakṣavanaprasthā prasannajalanimnagā 11 vimalākāśa nakṣatrā śarat teṣāṃ śivābhavat mṛgadvijasamākīrṇā pāṇḍavānāṃ mahātmanām 12 paśyantaḥ śāntarajasaḥ kṣapā jaladaśītalāḥ grahanakṣatrasaṃghaiś ca somena ca virājitāḥ 13 kumudaiḥ puṇḍarīkaiś ca śītavāri dharāḥ śivāḥ nadīḥ puṣkariṇīś caiva dadṛśuḥ samalaṃkṛtāḥ 14 ākāśanīkāśa taṭāṃ nīpa nīvāra saṃkulām babhūva caratāṃ harṣaḥ puṇyatīrthāṃ sarasvatīm 15 te vai mumudire vīrāḥ prasannasalilāṃ śivām paśyanto dṛḍhadhanvānaḥ paripūrṇāṃ sarasvatīm 16 teṣāṃ puṇyatamā rātriḥ parva saṃdhau sma śāradī tatraiva vasatām āsīt kārtikī janamejaya 17 puṇyakṛdbhir mahāsattvais tāpasaiḥ saha pāṇḍavāḥ tat sarvaṃ bharataśreṣṭhāḥ samūhur yogam uttamam 18 tamisrābhyudite tasmin dhaumyena saha pāṇḍavāḥ sūtaiḥ paurogavaiś caiva kāmyakaṃ prayayur vanam |
The Mahabharata in Sanskrit
Book 3
Chapter 180
|
1
[वै] काम्यकं पराप्य कौन्तेया युधिष्ठिरपुरॊगमाः कृतातिथ्या मुनिगणैर निषेदुः सह कृष्णया 2 ततस तान परिविश्वस्तान वसतः पाण्डुनन्दनान बराह्मणा बहवस तत्र समन्तात पर्यवारयन 3 अथाब्रवीद दविजः कश चिद अर्जुनस्य परियः सखा एष्यतीह महाबाहुर वशीशौरिर उदारधीः 4 विदिता हि हरेर यूयम इहायाताः कुरूद्वहाः सदा हि दर्शनाकाङ्क्षी शरेयॊ ऽनवेषी च वॊ हरिः 5 बहु वत्सर जीवी च मार्कण्डेयॊ महातपः सवाध्यायतपसा युक्तः कषिप्रं युष्मान समेष्यति 6 तथैव तस्य बरुवतः परत्यदृष्यत केशवः सैङ्क्य सुग्रीव युक्तेन रथेन रथिनां वरः 7 मघवान इव पौलॊम्या सहितः सत्यभामया उपायाद देवकीपुत्रॊ दिदृक्षुः कुरुसत्तमान 8 अवतीर्य रथात कृष्णॊ धर्मराजं यथाविधि ववन्दे मुदितॊ धीमान भीमं च बलिनां वरम 9 पूजयाम आस दौम्यं च यमाभ्याम अभिवादितः परिष्वज्य गुडाकेशं दरौपदीं पर्यसान्त्वयत 10 स दृष्ट्वा फल्गुनं वीरं चिरस्य परियम आगतम पर्यष्वजत दाशार्हः पुनः पुनर अरिंदमम 11 तथैव सत्यभामापि दरौपदीं परिषस्वजे पाण्डवानां परियं भार्यां कृष्णस्य महिषी परिया 12 ततस ते पाण्डवाः सर्वे सभार्याः सपुरॊहिताः आनर्चुः पुण्डरीकाक्षं परिवव्रुश च सर्वशः 13 कृष्णस तु पार्थेन समेत्य विद्वान; धनंजयेनासुरतर्जनेन बभौ यथा भूप पतिर महात्मा; समेत्य साक्षाद भगवान गुहेन 14 ततः समस्तानि किरीटमाली; वनेषु वृत्तानि गदाग्रजाय उक्त्वा यथावत पुनर अन्वपृच्छत; कथं सुभद्रा च तथाभुमन्युः 15 स पूजयित्वा मधुहा यथावन; पार्थांश च कृष्णां च पुरॊहितं च उवाच राजानम अभिप्रशंसन; युधिष्ठिरं तत्र सहॊपविश्य 16 धर्मः परः पाण्डव राज्यलाभात; तस्यार्थम आहुस तप एव राजन सत्यार्जवाभ्यां चरता सवधर्मं; जितस तवायं च परश च लॊकः 17 अघीतम अग्रे चरता वरतानि सम्यग; धनुर्वेदम अवाप्य कृत्स्नम कषात्रेण धर्मण वसूनि लब्ध्वा; सर्वे हय अवाप्ताः करतवः पुराणाः 18 न गराम्यधर्मेषु रतिस तवास्ति; कामान न किं चित कुरुषे नरेन्द्र न चार्थलॊभात परजहासि धर्मं; तस्मात सवभावाद असि धर्मराजः 19 धानं च सत्यं च तपॊ च राजञ; शरद्धा च शान्तिश च धृतिः कषमा च अवाप्य राष्ट्राणि वसूनि भॊगान; एषा परा पार्थ सदा रतिस ते 20 यदा जनौघः कुरुजाङ्गलानां; कृष्णां सभायाम अवशाम अपश्यत अपेतधर्मव्यवहार वृत्तं; सहेत तत पाण्डव कस तवदन्यः 21 असंशयं सर्वसमृद्धकामः; कषिप्रं परजाः पालयितासि सम्यक इमे वयं निग्रहणे कुरूणां; यदि परतिज्ञा भवतः समाप्ता 22 धौम्यं च कृष्णां च युधिष्ठिरं च; यमौ च भीमं च दशार्ह सिंहः उवाच दिष्ट्या भवतां शिवेन; पराप्तः किरीटी मुदितः कृतास्त्रः 23 परॊवाच कृष्णाम अपि याज्ञसेनीं; दशार्ह भर्ता सहितः सुहृद्भिः कृष्णे धनुर्वेद रतिप्रधानाः; सत्यव्रतास ते शिशवः सुशीलाः सद्भिः सदैवाचरितं समाधिं; चरन्ति पुत्रास तव याज्ञसेनि 24 राज्येन राष्ट्रैश च निमन्त्र्यमाणाः; पित्रा च कृष्णे तव सॊदरैश च न यज्ञसेनस्य न मातुलानां; गृहेषु बाला रतिम आप्नुवन्ति 25 आनर्तम एवाभिमुखाः शिवेन; गत्वा धनुर्वेद रतिप्रधानाः तवात्मजा वृष्णिपुरं परविश्य; न दैवतेभ्यः सपृहयन्ति कृष्णे 26 यथा तवम एवार्हसि तेषु वृत्तिं; परयॊक्तुम आर्या च यथैव कुन्ती तेष्व अप्रमादेन सदा करॊति; तथाच भूयॊ च तथा सुभद्रा 27 यथानिरुद्धस्य यथाभिमन्यॊर; यथा सुनीथस्य यथैव भानॊः तथा विनेता च गतिश च कृष्णे; तवात्मजानाम अपि रौक्मिणेयः 28 गदासिचर्म गरहणेषु शूरान; अस्त्रेषु शिक्षासु रथाश्वयाने सम्यग विनेता विनयत्य अतन्द्रीस; तांश चाभिमन्युः सततं कुमारः 29 स चापि सम्यक परणिधाय शिक्षाम; अस्त्राणि चैषां गुरुवत परदाय तवात्मजानां च तथाभिमन्यॊः; पराक्रमैस तुष्यति रौक्मिणेयः 30 यदा विहारं परसमीक्षमाणाः; परयान्ति पुत्रास तव याज्ञसेनि एकैकम एषाम अनुयान्ति तत्र; रथाश च यानानि च दन्तिनश च 31 अथाब्रवीद धर्मराजं तु कृष्णॊ; दशार्ह यॊधाः कुकुरान्धकाश च एते निदेशं तव पालयन्ति तिष्ठन्ति; यत्रेच्छसि तत्र राजन 32 आवर्ततां कार्मुकवेगवाता; हलायुध परग्रहणा मधूनाम सेना तवार्थेषु नरेन्द्र यत्ता; ससादि पत्त्यश्वरथा सनागा 33 परस्थाप्यतां पाण्डव धार्तराष्ट्रः; सुयॊधनः पापकृतां वरिष्ठः स सानुबन्धः ससुहृद गनश च; सौभस्य सौभाधिपतेश च मार्गम 34 कामतथा तिष्ठ नरेन्द्र तस्मिन; यथा कृतस ते समयः सभायाम दाशार्ह यॊधैस तु ससादि यॊधं; परतीक्षतां नागपुरं भवन्तम 35 वयपेतमनुर वयपनीतपाप्मा; विहृत्य यत्रेच्छसि तत्र कामम ततः समृद्धं परथमं विशॊकः; परपत्स्यसे नागपुरं सराष्ट्रम 36 ततस तद आज्ञाय मतं महात्मा; यथावद उक्तं पुरुषॊत्तमेन परशस्य विप्रेक्ष्य च धर्मराजः; कृताञ्जलिः केशवम इत्य उवाच 37 असंशयं केशव पाण्डवानां; भवान गतिस तवच छरणा हि पार्थाः कालॊदये तच च ततश च भूयॊ; कर्ता भवान कर्म न संशयॊ ऽसति 38 यथाप्रतिज्ञं विहृतश च कालः; सर्वाः समा दवादश निर्जनेषु अज्ञातचर्यां विधिवत समाप्य; भवद्गताः केशव पाण्डवेयाः 39 [वै] तथा वदति वार्ष्णेये धर्मराजे व भारत अथ पश्चात पतॊ वृद्धॊ बहुवर्षसहस्रधृक परत्यदृष्यत धर्मात्मा मार्कण्डेयॊ महातपः 40 तम आगतम ऋषिं वृद्धं बहुवर्षसहस्रिणम आनर्चुर बराह्मणाः सर्वे कृष्णश च सह पाण्डवैः 41 तम अर्चितं सुविष्वस्तम आसीनम ऋषिसत्तमम बराह्मणानां पतेनाह पाण्डवानां च केशवः 42 शुश्रूषवः पाण्डवास ते बराह्मणाश च समागताः दरौपदी सत्यभामा च तथाहं परमं वचः 43 पुरावृत्ताः कथाः पुण्याः सद आचाराः सनातनाः राज्ञां सत्रीणाम ऋषीणां च मार्कण्डेय विचक्ष्व नः 44 तेषु तत्रॊपविष्टेषु देवर्षिर अपि नारदः आजगाम विशुद्धात्मा पाण्डवान अवलॊककः 45 तम अप्य अथ महात्मानं सर्वे तु पुरुषर्षभाः पाद्यार्घ्याभ्यां यथान्यायम उपतस्थुर मनीषिणम 46 नारदस तव अथ देवर्षिर जञात्वा तांस तु कृतक्षणान मार्कण्डेयस्य वदतस तां कथाम अन्वमॊदत 47 उवाच चैनं कालज्ञः समयन्न इव स नारदः बरह्मर्षे कथ्यतां यत ते पाण्डवेषु विवक्षितम 48 एवम उक्तः परत्युवाच मार्कण्डेयॊ महातपः कषणं कुरुध्वं विपुलम आख्यातव्यं भविष्यति 49 एवम उक्ताः कषणं चक्रुः पाण्डवाः सह तैर दविजैः मध्यंदिने यथादित्यं परेक्षन्तस तं महामुनिम |
1
[vai] kāmyakaṃ prāpya kaunteyā yudhiṣṭhirapurogamāḥ kṛtātithyā munigaṇair niṣeduḥ saha kṛṣṇayā 2 tatas tān pariviśvastān vasataḥ pāṇḍunandanān brāhmaṇā bahavas tatra samantāt paryavārayan 3 athābravīd dvijaḥ kaś cid arjunasya priyaḥ sakhā eṣyatīha mahābāhur vaśīśaurir udāradhīḥ 4 viditā hi harer yūyam ihāyātāḥ kurūdvahāḥ sadā hi darśanākāṅkṣī śreyo 'nveṣī ca vo hariḥ 5 bahu vatsara jīvī ca mārkaṇḍeyo mahātapaḥ svādhyāyatapasā yuktaḥ kṣipraṃ yuṣmān sameṣyati 6 tathaiva tasya bruvataḥ pratyadṛṣyata keśavaḥ saiṅkya sugrīva yuktena rathena rathināṃ varaḥ 7 maghavān iva paulomyā sahitaḥ satyabhāmayā upāyād devakīputro didṛkṣuḥ kurusattamān 8 avatīrya rathāt kṛṣṇo dharmarājaṃ yathāvidhi vavande mudito dhīmān bhīmaṃ ca balināṃ varam 9 pūjayām āsa daumyaṃ ca yamābhyām abhivāditaḥ pariṣvajya guḍākeśaṃ draupadīṃ paryasāntvayat 10 sa dṛṣṭvā phalgunaṃ vīraṃ cirasya priyam āgatam paryaṣvajata dāśārhaḥ punaḥ punar ariṃdamam 11 tathaiva satyabhāmāpi draupadīṃ pariṣasvaje pāṇḍavānāṃ priyaṃ bhāryāṃ kṛṣṇasya mahiṣī priyā 12 tatas te pāṇḍavāḥ sarve sabhāryāḥ sapurohitāḥ ānarcuḥ puṇḍarīkākṣaṃ parivavruś ca sarvaśaḥ 13 kṛṣṇas tu pārthena sametya vidvān; dhanaṃjayenāsuratarjanena babhau yathā bhūpa patir mahātmā; sametya sākṣād bhagavān guhena 14 tataḥ samastāni kirīṭamālī; vaneṣu vṛttāni gadāgrajāya uktvā yathāvat punar anvapṛcchat; kathaṃ subhadrā ca tathābhumanyuḥ 15 sa pūjayitvā madhuhā yathāvan; pārthāṃś ca kṛṣṇāṃ ca purohitaṃ ca uvāca rājānam abhipraśaṃsan; yudhiṣṭhiraṃ tatra sahopaviśya 16 dharmaḥ paraḥ pāṇḍava rājyalābhāt; tasyārtham āhus tapa eva rājan satyārjavābhyāṃ caratā svadharmaṃ; jitas tavāyaṃ ca paraś ca lokaḥ 17 aghītam agre caratā vratāni samyag; dhanurvedam avāpya kṛtsnam kṣātreṇa dharmaṇa vasūni labdhvā; sarve hy avāptāḥ kratavaḥ purāṇāḥ 18 na grāmyadharmeṣu ratis tavāsti; kāmān na kiṃ cit kuruṣe narendra na cārthalobhāt prajahāsi dharmaṃ; tasmāt svabhāvād asi dharmarājaḥ 19 dhānaṃ ca satyaṃ ca tapo ca rājañ; śraddhā ca śāntiś ca dhṛtiḥ kṣamā ca avāpya rāṣṭrāṇi vasūni bhogān; eṣā parā pārtha sadā ratis te 20 yadā janaughaḥ kurujāṅgalānāṃ; kṛṣṇāṃ sabhāyām avaśām apaśyat apetadharmavyavahāra vṛttaṃ; saheta tat pāṇḍava kas tvadanyaḥ 21 asaṃśayaṃ sarvasamṛddhakāmaḥ; kṣipraṃ prajāḥ pālayitāsi samyak ime vayaṃ nigrahaṇe kurūṇāṃ; yadi pratijñā bhavataḥ samāptā 22 dhaumyaṃ ca kṛṣṇāṃ ca yudhiṣṭhiraṃ ca; yamau ca bhīmaṃ ca daśārha siṃhaḥ uvāca diṣṭyā bhavatāṃ śivena; prāptaḥ kirīṭī muditaḥ kṛtāstraḥ 23 provāca kṛṣṇām api yājñasenīṃ; daśārha bhartā sahitaḥ suhṛdbhiḥ kṛṣṇe dhanurveda ratipradhānāḥ; satyavratās te śiśavaḥ suśīlāḥ sadbhiḥ sadaivācaritaṃ samādhiṃ; caranti putrās tava yājñaseni 24 rājyena rāṣṭraiś ca nimantryamāṇāḥ; pitrā ca kṛṣṇe tava sodaraiś ca na yajñasenasya na mātulānāṃ; gṛheṣu bālā ratim āpnuvanti 25 ānartam evābhimukhāḥ śivena; gatvā dhanurveda ratipradhānāḥ tavātmajā vṛṣṇipuraṃ praviśya; na daivatebhyaḥ spṛhayanti kṛṣṇe 26 yathā tvam evārhasi teṣu vṛttiṃ; prayoktum āryā ca yathaiva kuntī teṣv apramādena sadā karoti; tathāca bhūyo ca tathā subhadrā 27 yathāniruddhasya yathābhimanyor; yathā sunīthasya yathaiva bhānoḥ tathā vinetā ca gatiś ca kṛṣṇe; tavātmajānām api raukmiṇeyaḥ 28 gadāsicarma grahaṇeṣu śūrān; astreṣu śikṣāsu rathāśvayāne samyag vinetā vinayaty atandrīs; tāṃś cābhimanyuḥ satataṃ kumāraḥ 29 sa cāpi samyak praṇidhāya śikṣām; astrāṇi caiṣāṃ guruvat pradāya tavātmajānāṃ ca tathābhimanyoḥ; parākramais tuṣyati raukmiṇeyaḥ 30 yadā vihāraṃ prasamīkṣamāṇāḥ; prayānti putrās tava yājñaseni ekaikam eṣām anuyānti tatra; rathāś ca yānāni ca dantinaś ca 31 athābravīd dharmarājaṃ tu kṛṣṇo; daśārha yodhāḥ kukurāndhakāś ca ete nideśaṃ tava pālayanti tiṣṭhanti; yatrecchasi tatra rājan 32 āvartatāṃ kārmukavegavātā; halāyudha pragrahaṇā madhūnām senā tavārtheṣu narendra yattā; sasādi pattyaśvarathā sanāgā 33 prasthāpyatāṃ pāṇḍava dhārtarāṣṭraḥ; suyodhanaḥ pāpakṛtāṃ variṣṭhaḥ sa sānubandhaḥ sasuhṛd ganaś ca; saubhasya saubhādhipateś ca mārgam 34 kāmatathā tiṣṭha narendra tasmin; yathā kṛtas te samayaḥ sabhāyām dāśārha yodhais tu sasādi yodhaṃ; pratīkṣatāṃ nāgapuraṃ bhavantam 35 vyapetamanur vyapanītapāpmā; vihṛtya yatrecchasi tatra kāmam tataḥ samṛddhaṃ prathamaṃ viśokaḥ; prapatsyase nāgapuraṃ sarāṣṭram 36 tatas tad ājñāya mataṃ mahātmā; yathāvad uktaṃ puruṣottamena praśasya viprekṣya ca dharmarājaḥ; kṛtāñjaliḥ keśavam ity uvāca 37 asaṃśayaṃ keśava pāṇḍavānāṃ; bhavān gatis tvac charaṇā hi pārthāḥ kālodaye tac ca tataś ca bhūyo; kartā bhavān karma na saṃśayo 'sti 38 yathāpratijñaṃ vihṛtaś ca kālaḥ; sarvāḥ samā dvādaśa nirjaneṣu ajñātacaryāṃ vidhivat samāpya; bhavadgatāḥ keśava pāṇḍaveyāḥ 39 [vai] tathā vadati vārṣṇeye dharmarāje va bhārata atha paścāt pato vṛddho bahuvarṣasahasradhṛk pratyadṛṣyata dharmātmā mārkaṇḍeyo mahātapaḥ 40 tam āgatam ṛṣiṃ vṛddhaṃ bahuvarṣasahasriṇam ānarcur brāhmaṇāḥ sarve kṛṣṇaś ca saha pāṇḍavaiḥ 41 tam arcitaṃ suviṣvastam āsīnam ṛṣisattamam brāhmaṇānāṃ patenāha pāṇḍavānāṃ ca keśavaḥ 42 śuśrūṣavaḥ pāṇḍavās te brāhmaṇāś ca samāgatāḥ draupadī satyabhāmā ca tathāhaṃ paramaṃ vacaḥ 43 purāvṛttāḥ kathāḥ puṇyāḥ sad ācārāḥ sanātanāḥ rājñāṃ strīṇām ṛṣīṇāṃ ca mārkaṇḍeya vicakṣva naḥ 44 teṣu tatropaviṣṭeṣu devarṣir api nāradaḥ ājagāma viśuddhātmā pāṇḍavān avalokakaḥ 45 tam apy atha mahātmānaṃ sarve tu puruṣarṣabhāḥ pādyārghyābhyāṃ yathānyāyam upatasthur manīṣiṇam 46 nāradas tv atha devarṣir jñātvā tāṃs tu kṛtakṣaṇān mārkaṇḍeyasya vadatas tāṃ kathām anvamodata 47 uvāca cainaṃ kālajñaḥ smayann iva sa nāradaḥ brahmarṣe kathyatāṃ yat te pāṇḍaveṣu vivakṣitam 48 evam uktaḥ pratyuvāca mārkaṇḍeyo mahātapaḥ kṣaṇaṃ kurudhvaṃ vipulam ākhyātavyaṃ bhaviṣyati 49 evam uktāḥ kṣaṇaṃ cakruḥ pāṇḍavāḥ saha tair dvijaiḥ madhyaṃdine yathādityaṃ prekṣantas taṃ mahāmunim |
The Mahabharata in Sanskrit
Book 3
Chapter 181
|
1
[वै] तं विवक्षन्तम आलक्ष्य कुरुराजॊ महामुनिम कथा संजननार्थाय चॊदयाम आस पाण्डवः 2 भवान दैवतदैत्यानाम ऋषीणां च महात्मनाम राजर्षीणां च सर्वेषां चरितज्ञः सनातनः 3 सेव्यश चॊपासितव्यश च मतॊ नः काङ्क्षितश चिरम अयं च देवकीपुत्रः पराप्तॊ ऽसमान अवलॊककः 4 भवत्य एव हि मे बुद्धिर दृष्ट्वात्मानं सुखाच चयुतम धार्तराष्ट्रांश च दुर्वृत्तन्न ऋध्यतः परेक्ष्य सर्वशः 5 कर्मणः पुरुषः कर्ता शुभस्याप्य अशुभस्य च सवफलं तद उपाश्नाति कथं कर्ता सविद ईश्वरः 6 अथ वा सुखदुःखेषु नृणां बरह्मविदां वर इह वा कृतम अन्वेति परदेहाथ वा पुनः 7 देही च देहं संत्यज्य मृग्यमाणः शुभाशुभैः कथं संयुज्यते परेत्य इह वा दविजसत्तम 8 ऐह लौकिकम एवैतद उताहॊ पारलौकिकम कव च कर्माणि तिष्ठन्ति जन्तॊःप्रेतस्य भार्गव 9 [मार्क] तवद युक्तॊ ऽयम अनुप्रश्नॊ यथावद वदतां वर विदितं वेदितव्यं ते सथित्य अर्थम अनुपृच्छसि 10 अत्र ते वर्तयिष्यामि तद इहैकमनः शृणु यथेहामुत्र च नरः सुखदुःखम उपाश्नुते 11 निर्मलानि शरीराणि विशुद्धानि शरीरिणाम ससर्ज धर्मतन्त्राणि पूर्वॊत्पन्नः परजापतिः 12 अमॊघबलसंकल्पाः सुव्रताः सत्यवादिनः बरह्मभूता नराः पुण्याः पुराणाः कुरुनन्दन 13 सर्वे देवैः समायान्ति सवच्छन्देन नभस्तलम ततश च पुनर आयान्ति सर्वे सवच्छन्दचारिणः 14 सवच्छन्दमरणाश चासन नराः सवच्छन्दजीविनः अल्पबाधा निरातङ्का सिद्धार्था निरुपद्रवाः 15 दरष्टारॊ देवसंघानाम ऋषीणां च महात्मनाम परत्यक्षाः सर्वधर्माणां दान्ता विगतमत्सराः 16 आसन वर्षसहस्राणि तथा पुत्रसहस्रिणः ततः कालान्तरे ऽनयस्मिन पृथिवीतलचारिणः 17 कामक्रॊधाभिभूतास ते माया वयाजॊपजीविनः लॊभमॊहाभिभूताश च तयक्ता देवैस ततॊ नराः 18 अशुभैः कर्मभिः पापास तिर्यङ नरकगामिनः संसारेषु विचित्रेषु पच्यमानाः पुनः पुनः 19 मॊघेष्टा मॊघसंकल्पा मॊघज्ञाना विचेतसः सर्वातिशङ्किनश चैव संवृत्ताः कलेशभागिनः अशुभैः कर्मभिश चापि परायशः परिचिह्निताः 20 दौष्कुल्या वयाधिबहुला दुरात्मानॊ ऽपरतापिनः भवन्त्य अल्पायुषः पापा रौद्रकर्मफलॊदयाः नाथन्तः सर्वकामानां नास्तिका भिन्नसेतवः 21 जन्तॊःप्रेतस्य कौन्तेय गतिः सवैर इह कर्मभिः पराज्ञस्य हीनबुद्धेश च कर्म कॊशः कव तिष्ठति 22 कवस्थस तत समुपाश्नाति सुकृतं यदि वेतरत इति ते दर्शनं यच च तत्राप्य अनुनयं शृणु 23 अयम आदि शरीरेण देव सृष्टेन मानवः शुभानाम अशुभानां च कुरुते संचयं महत 24 आयुषॊ ऽनते परहायेदं कषीणप्रायं कलेवरम संभवत्य एव युगपद यॊनौ नास्त्य अन्तरा भवः 25 तत्रास्य सवकृतं कर्म छायेवानुगतं सदा फलत्य अथ सुखार्हॊ वा दुःखार्हॊ वापि जायते 26 कृतान्तविधिसंयुक्तः सजन्तुर लक्षणैः शुभैः अशुभैर वा निरादानॊ लक्ष्यते जञानदृष्टिभिः 27 एषा तावद अबुद्धीनां गतिर उक्ता युधिष्ठिर अतः परं जञानवतां निबॊध गतिम उत्तमाम 28 मनुष्यास तप्ततपसः सर्वागम परायणाः सथिरव्रताः सत्यपरा गुरुशुश्रूषणे रताः 29 सुशीलाः शुक्लजातीयाः कषान्ता दान्ताः सुतेजसः शुभयॊन्यन्तरगताः परायशः शुभलक्षणाः 30 जितेन्द्रियत्वाद वशिनः शुल्कत्वान मन्दरॊगिणः अल्पबाध परित्रासाद भवन्ति निरुपद्रवाः 31 चयवन्तं जायमानं च गर्भस्थं चैव सर्वशः सवम आत्मानं परं चैव बुध्यन्ते जञानचक्षुषः कर्मभूमिम इमां पराप्य पुनर यान्ति सुरालयम 32 किं चिद दैवाद धठात किं चित किं चिद एव सवकर्मभिः पराप्नुवन्ति नरा राजन मा ते ऽसत्व अन्या विचारणा 33 इमाम अत्रॊपमां चापि निबॊध वदतां वर मनुष्यलॊके यच छरेयॊ परं मन्ये युधिष्ठिर 34 इह वैकस्य नामुत्र अमुत्रैकस्य नॊ इह इह चामुत्र चैकस्य नामुत्रैकस्य नॊ इह 35 धनानि येषां विपुलानि सन्ति; नित्यं रमन्ते सुविभूषिताङ्गाः तेषाम अयं शत्रुवरघ्न लॊकॊ; नासौ सदा देहसुखे रतानाम 36 ये यॊगयुक्तास तपसि परसक्ताः; सवाध्यायशीला जरयन्ति देहान जितेन्द्रिया भूतहिते निविष्टास; तेषाम असौ नायम अरिघ्न लॊकः 37 ये धर्मम एव परथमं चरन्ति; धर्मेण लब्ध्वा च धनानि काले दारान अवाप्य करतुभिर यजन्ते; तेषाम अयं चैव परश च लॊकः 38 ये नैव विद्यां न तपॊ न दानं; न चापि मूढाः परजने यतन्ते न चाधिगच्छन्ति सुखान्य अभाग्यास; तेषाम अयं चैव परश च नास्ति 39 सर्वे भवन्तस तव अतिवीर्यसत्त्वा; दिव्यौजसः संहननॊपपन्नाः लॊकाद अमुष्माद अवनिं परपन्नाः; सवधीत विद्याः सुरकार्यहेतॊः 40 कृत्वैव कर्माणि महानि शूरास; तपॊ दमाचार विहारशीलाः देवान ऋषीन परेतगणांश च सर्वान; संतर्पयित्वा विधिना परेण 41 सवर्गं परं पुण्यकृतां निवासं; करमेण संप्राप्स्यथ कर्मभिः सवैः मा भूद विशङ्का तव कौरवेन्द्र; दृष्ट्वात्मनः कलेशम इमं सुखार्ह |
1
[vai] taṃ vivakṣantam ālakṣya kururājo mahāmunim kathā saṃjananārthāya codayām āsa pāṇḍavaḥ 2 bhavān daivatadaityānām ṛṣīṇāṃ ca mahātmanām rājarṣīṇāṃ ca sarveṣāṃ caritajñaḥ sanātanaḥ 3 sevyaś copāsitavyaś ca mato naḥ kāṅkṣitaś ciram ayaṃ ca devakīputraḥ prāpto 'smān avalokakaḥ 4 bhavaty eva hi me buddhir dṛṣṭvātmānaṃ sukhāc cyutam dhārtarāṣṭrāṃś ca durvṛttann ṛdhyataḥ prekṣya sarvaśaḥ 5 karmaṇaḥ puruṣaḥ kartā śubhasyāpy aśubhasya ca svaphalaṃ tad upāśnāti kathaṃ kartā svid īśvaraḥ 6 atha vā sukhaduḥkheṣu nṛṇāṃ brahmavidāṃ vara iha vā kṛtam anveti paradehātha vā punaḥ 7 dehī ca dehaṃ saṃtyajya mṛgyamāṇaḥ śubhāśubhaiḥ kathaṃ saṃyujyate pretya iha vā dvijasattama 8 aiha laukikam evaitad utāho pāralaukikam kva ca karmāṇi tiṣṭhanti jantoḥpretasya bhārgava 9 [mārk] tvad yukto 'yam anupraśno yathāvad vadatāṃ vara viditaṃ veditavyaṃ te sthity artham anupṛcchasi 10 atra te vartayiṣyāmi tad ihaikamanaḥ śṛṇu yathehāmutra ca naraḥ sukhaduḥkham upāśnute 11 nirmalāni śarīrāṇi viśuddhāni śarīriṇām sasarja dharmatantrāṇi pūrvotpannaḥ prajāpatiḥ 12 amoghabalasaṃkalpāḥ suvratāḥ satyavādinaḥ brahmabhūtā narāḥ puṇyāḥ purāṇāḥ kurunandana 13 sarve devaiḥ samāyānti svacchandena nabhastalam tataś ca punar āyānti sarve svacchandacāriṇaḥ 14 svacchandamaraṇāś cāsan narāḥ svacchandajīvinaḥ alpabādhā nirātaṅkā siddhārthā nirupadravāḥ 15 draṣṭāro devasaṃghānām ṛṣīṇāṃ ca mahātmanām pratyakṣāḥ sarvadharmāṇāṃ dāntā vigatamatsarāḥ 16 āsan varṣasahasrāṇi tathā putrasahasriṇaḥ tataḥ kālāntare 'nyasmin pṛthivītalacāriṇaḥ 17 kāmakrodhābhibhūtās te māyā vyājopajīvinaḥ lobhamohābhibhūtāś ca tyaktā devais tato narāḥ 18 aśubhaiḥ karmabhiḥ pāpās tiryaṅ narakagāminaḥ saṃsāreṣu vicitreṣu pacyamānāḥ punaḥ punaḥ 19 mogheṣṭā moghasaṃkalpā moghajñānā vicetasaḥ sarvātiśaṅkinaś caiva saṃvṛttāḥ kleśabhāginaḥ aśubhaiḥ karmabhiś cāpi prāyaśaḥ paricihnitāḥ 20 dauṣkulyā vyādhibahulā durātmāno 'pratāpinaḥ bhavanty alpāyuṣaḥ pāpā raudrakarmaphalodayāḥ nāthantaḥ sarvakāmānāṃ nāstikā bhinnasetavaḥ 21 jantoḥpretasya kaunteya gatiḥ svair iha karmabhiḥ prājñasya hīnabuddheś ca karma kośaḥ kva tiṣṭhati 22 kvasthas tat samupāśnāti sukṛtaṃ yadi vetarat iti te darśanaṃ yac ca tatrāpy anunayaṃ śṛṇu 23 ayam ādi śarīreṇa deva sṛṣṭena mānavaḥ śubhānām aśubhānāṃ ca kurute saṃcayaṃ mahat 24 āyuṣo 'nte prahāyedaṃ kṣīṇaprāyaṃ kalevaram saṃbhavaty eva yugapad yonau nāsty antarā bhavaḥ 25 tatrāsya svakṛtaṃ karma chāyevānugataṃ sadā phalaty atha sukhārho vā duḥkhārho vāpi jāyate 26 kṛtāntavidhisaṃyuktaḥ sajantur lakṣaṇaiḥ śubhaiḥ aśubhair vā nirādāno lakṣyate jñānadṛṣṭibhiḥ 27 eṣā tāvad abuddhīnāṃ gatir uktā yudhiṣṭhira ataḥ paraṃ jñānavatāṃ nibodha gatim uttamām 28 manuṣyās taptatapasaḥ sarvāgama parāyaṇāḥ sthiravratāḥ satyaparā guruśuśrūṣaṇe ratāḥ 29 suśīlāḥ śuklajātīyāḥ kṣāntā dāntāḥ sutejasaḥ śubhayonyantaragatāḥ prāyaśaḥ śubhalakṣaṇāḥ 30 jitendriyatvād vaśinaḥ śulkatvān mandarogiṇaḥ alpabādha paritrāsād bhavanti nirupadravāḥ 31 cyavantaṃ jāyamānaṃ ca garbhasthaṃ caiva sarvaśaḥ svam ātmānaṃ paraṃ caiva budhyante jñānacakṣuṣaḥ karmabhūmim imāṃ prāpya punar yānti surālayam 32 kiṃ cid daivād dhaṭhāt kiṃ cit kiṃ cid eva svakarmabhiḥ prāpnuvanti narā rājan mā te 'stv anyā vicāraṇā 33 imām atropamāṃ cāpi nibodha vadatāṃ vara manuṣyaloke yac chreyo paraṃ manye yudhiṣṭhira 34 iha vaikasya nāmutra amutraikasya no iha iha cāmutra caikasya nāmutraikasya no iha 35 dhanāni yeṣāṃ vipulāni santi; nityaṃ ramante suvibhūṣitāṅgāḥ teṣām ayaṃ śatruvaraghna loko; nāsau sadā dehasukhe ratānām 36 ye yogayuktās tapasi prasaktāḥ; svādhyāyaśīlā jarayanti dehān jitendriyā bhūtahite niviṣṭās; teṣām asau nāyam arighna lokaḥ 37 ye dharmam eva prathamaṃ caranti; dharmeṇa labdhvā ca dhanāni kāle dārān avāpya kratubhir yajante; teṣām ayaṃ caiva paraś ca lokaḥ 38 ye naiva vidyāṃ na tapo na dānaṃ; na cāpi mūḍhāḥ prajane yatante na cādhigacchanti sukhāny abhāgyās; teṣām ayaṃ caiva paraś ca nāsti 39 sarve bhavantas tv ativīryasattvā; divyaujasaḥ saṃhananopapannāḥ lokād amuṣmād avaniṃ prapannāḥ; svadhīta vidyāḥ surakāryahetoḥ 40 kṛtvaiva karmāṇi mahāni śūrās; tapo damācāra vihāraśīlāḥ devān ṛṣīn pretagaṇāṃś ca sarvān; saṃtarpayitvā vidhinā pareṇa 41 svargaṃ paraṃ puṇyakṛtāṃ nivāsaṃ; krameṇa saṃprāpsyatha karmabhiḥ svaiḥ mā bhūd viśaṅkā tava kauravendra; dṛṣṭvātmanaḥ kleśam imaṃ sukhārha |
The Mahabharata in Sanskrit
Book 3
Chapter 182
|
1
[वै] मार्कण्डेयं महात्मानम ऊचुः पाण्डुसुतास तदा माहात्म्यं दविजमुख्यानां शरॊतुम इच्छाम कथ्यताम 2 एवम उक्तः स भगवान मार्कण्डेयॊ महातपः उवाच सुमहातेजा सर्वशास्त्रविशारदः 3 हैहयानां कुलकरॊ राजा परपुरंजयः कुमारॊ रूपसंपन्नॊ मृगयाम अचरद बली 4 चरमाणस तु सॊ ऽरण्ये तृणवीरुत समावृते कृष्णाजिनॊत्तरासङ्गं ददर्श मुनिम अन्तिके स तेन निहतॊ ऽरण्ये मन्यमानेन वै मृगम 5 वयथितः कर्म तत कृत्वा शॊकॊपहतचेतनः जगाम हैहयानां वै सकाशं परथितात्मनाम 6 राज्ञां राजीवनेत्रासौ कुमारः पृथिवीपते तेषां च तद यथावृत्तं कथयाम आस वै तदा 7 तं चापि हिंसितं तात मुनिं मूलफलाशिनम शरुत्वा दृष्ट्वाच ते तत्र बभूवुर दीनमानसाः 8 कस्यायम इति ते सर्वे मार्गमाणास ततस ततः जग्मुश चारिष्टनेमेस ते तार्क्ष्यस्याश्रमम अञ्जसा 9 ते ऽभिवाद्य महात्मानं तं मुनिं संशितव्रतम तस्थुः सर्वे सतु मुनिस तेषां पूजाम अथाहरत 10 ते तम ऊचुर महात्मानं न वयं सत्क्रियां मुने तवत्तॊ ऽरहाः कर्म दॊषेण बराह्मणॊ हिंसितॊ हि नः 11 तान अब्रवीत स विप्रर्षिः कथं वॊ बराह्मणॊ हतः कव चासौ बरूत सहिताः पश्यध्वं मे तपॊबलम 12 ते तु तत सर्वम अखिलम आख्यायास्मै यथातथम नापश्यंस तम ऋषिं तत्र गतासुं ते समागताः अन्वेषमाणाः सव्रीडाः सवप्नवद गतमानसाः 13 तान अब्रवीत तत्र मुनिस तार्क्ष्यः परपुरंजयः सयाद अयं बराह्मणः सॊ ऽथ यॊ युष्माभिर निवाशितः पुत्रॊ हय अयं मम नृपास तपॊबलसमन्वितः 14 ते तु दृष्ट्वैव तम ऋषिं विस्मयं परमं गताः महद आश्चर्यम इति वै विब्रुवाणा महीपते 15 मृतॊ हय अयम अतॊ दृष्टः कथं जीवितम आप्तवान किम एतत तपसॊ वीर्यं यनायं जीवितः पुनः शरॊतुम इच्छाम विप्रर्षे यदि शरॊतव्यम इत्य उत 16 स तान उवाच नास्माकं मृत्युः परभवते नृपाः कारणं वः परवक्ष्यामि हेतुयॊगं समासतः 17 सत्यम एवाभिजानीमॊ नानृते कुर्महे मनः सवधर्मम अनुतिष्ठामस तस्मान मृत्युभयं न नः 18 यद बराह्मणानां कुशलं तद एषां कथयामहे नैषां दुश्चरितं बरूमस तस्मान मृत्युभयं न नः 19 अतिथीन अन्नपानेन भृत्यान अत्यशनेन च तेजस्वि देशवासाच च तस्मान मृत्युभयं न नः 20 एतद वै लेश मात्रं वः समाख्यातं विमत्सराः गच्छध्वं सहिताः सर्वे न पापाद भयम अस्ति वः 21 एवम अस्त्व इति ते सर्वे परतिपूज्य महामुनिम सवदेशम अगमन हृष्टा राजानॊ भरतर्षभ |
1
[vai] mārkaṇḍeyaṃ mahātmānam ūcuḥ pāṇḍusutās tadā māhātmyaṃ dvijamukhyānāṃ śrotum icchāma kathyatām 2 evam uktaḥ sa bhagavān mārkaṇḍeyo mahātapaḥ uvāca sumahātejā sarvaśāstraviśāradaḥ 3 haihayānāṃ kulakaro rājā parapuraṃjayaḥ kumāro rūpasaṃpanno mṛgayām acarad balī 4 caramāṇas tu so 'raṇye tṛṇavīrut samāvṛte kṛṣṇājinottarāsaṅgaṃ dadarśa munim antike sa tena nihato 'raṇye manyamānena vai mṛgam 5 vyathitaḥ karma tat kṛtvā śokopahatacetanaḥ jagāma haihayānāṃ vai sakāśaṃ prathitātmanām 6 rājñāṃ rājīvanetrāsau kumāraḥ pṛthivīpate teṣāṃ ca tad yathāvṛttaṃ kathayām āsa vai tadā 7 taṃ cāpi hiṃsitaṃ tāta muniṃ mūlaphalāśinam śrutvā dṛṣṭvāca te tatra babhūvur dīnamānasāḥ 8 kasyāyam iti te sarve mārgamāṇās tatas tataḥ jagmuś cāriṣṭanemes te tārkṣyasyāśramam añjasā 9 te 'bhivādya mahātmānaṃ taṃ muniṃ saṃśitavratam tasthuḥ sarve satu munis teṣāṃ pūjām athāharat 10 te tam ūcur mahātmānaṃ na vayaṃ satkriyāṃ mune tvatto 'rhāḥ karma doṣeṇa brāhmaṇo hiṃsito hi naḥ 11 tān abravīt sa viprarṣiḥ kathaṃ vo brāhmaṇo hataḥ kva cāsau brūta sahitāḥ paśyadhvaṃ me tapobalam 12 te tu tat sarvam akhilam ākhyāyāsmai yathātatham nāpaśyaṃs tam ṛṣiṃ tatra gatāsuṃ te samāgatāḥ anveṣamāṇāḥ savrīḍāḥ svapnavad gatamānasāḥ 13 tān abravīt tatra munis tārkṣyaḥ parapuraṃjayaḥ syād ayaṃ brāhmaṇaḥ so 'tha yo yuṣmābhir nivāśitaḥ putro hy ayaṃ mama nṛpās tapobalasamanvitaḥ 14 te tu dṛṣṭvaiva tam ṛṣiṃ vismayaṃ paramaṃ gatāḥ mahad āścaryam iti vai vibruvāṇā mahīpate 15 mṛto hy ayam ato dṛṣṭaḥ kathaṃ jīvitam āptavān kim etat tapaso vīryaṃ yanāyaṃ jīvitaḥ punaḥ śrotum icchāma viprarṣe yadi śrotavyam ity uta 16 sa tān uvāca nāsmākaṃ mṛtyuḥ prabhavate nṛpāḥ kāraṇaṃ vaḥ pravakṣyāmi hetuyogaṃ samāsataḥ 17 satyam evābhijānīmo nānṛte kurmahe manaḥ svadharmam anutiṣṭhāmas tasmān mṛtyubhayaṃ na naḥ 18 yad brāhmaṇānāṃ kuśalaṃ tad eṣāṃ kathayāmahe naiṣāṃ duścaritaṃ brūmas tasmān mṛtyubhayaṃ na naḥ 19 atithīn annapānena bhṛtyān atyaśanena ca tejasvi deśavāsāc ca tasmān mṛtyubhayaṃ na naḥ 20 etad vai leśa mātraṃ vaḥ samākhyātaṃ vimatsarāḥ gacchadhvaṃ sahitāḥ sarve na pāpād bhayam asti vaḥ 21 evam astv iti te sarve pratipūjya mahāmunim svadeśam agaman hṛṣṭā rājāno bharatarṣabha |
The Mahabharata in Sanskrit
Book 3
Chapter 183
|
1
[मार्क] भूय एव तु माहात्म्यं बराह्मणानां निबॊध मे वैन्यॊ नामेह राजर्षिर अश्वमेधाय दीक्षितः तम अत्रिर गन्तुम आरेभे वित्तार्थम इति नः शरुतम 2 भूयॊ ऽथ नानुरुध्यत स धर्मव्यक्ति निदर्शनात संचिन्त्य स महातेजा वनम एवान्वरॊचयत धर्मपत्नीं समाहूय पुत्रांश चेदम उवाच ह 3 पराप्स्यामः फलम अत्यन्तं बहुलं निरुपद्रवम अरण्यगमनं कषिप्रं रॊचतां वॊ गुनाधिकम 4 तं भार्या परत्युवाचेदं धर्मम एवानुरुध्यती वैनं गत्वा महात्मानम अर्थयस्व धनं बहु स ते दास्यति राजर्षिर यजमानॊ ऽरथिने धनम 5 तत आदाय विप्रर्षे परतिगृह्य धनं बहु भृत्यान सुतान संविभज्य ततॊ वरज यथेप्सितम एष वै परमॊ धर्मधर्मविद्भिर उदाहृतः 6 [अत्रि] कथितॊ मे महाभागे गौतमेन महात्मना वैन्यॊ धर्मार्थसंयुक्तः सत्यव्रतसमन्वितः 7 किं तव अस्ति तत्र दवेष्टारॊ निवसन्ति हि मे दविजाः यथा मे गौतमः पराह ततॊ न वयवसाम्य अहम 8 तत्र सम वाचं कल्याणीं धर्मकामार्थ संहिताम मयॊक्ताम अन्यथा बरूयुस ततस ते वै निरर्थकाम 9 गमिष्यामि महाप्राज्ञे रॊचते मे वचस तव गाश च मे दास्यते वैन्यः परभूतं चार्थसंचयम 10 [मार्क] एवम उक्त्वा जगामाशु वैन्य यज्ञं महातपः गत्वा च यज्ञायतनम अत्रिस तुष्टाव तं नृपम 11 राजन वैन्य तवम ईशश च भुवि तवं परथमॊ नृपः सतुवन्ति तवां मुनिगणास तवद अन्यॊ नास्ति धर्मवित 12 तम अब्रवीद ऋषिस तत्र वच करुद्धॊ महातपः मैवम अत्रे पुनर बरूया न ते परज्ञा समाहिता अत्र नः परथमं सथाता महेन्द्रॊ वै परजापतिः 13 अथात्रिर अपि राजेन्द्र गौतमं परत्यभाषत अयम एव विधाता च यथैवेन्द्रः परजापतिः तवम एव मुह्यसे मॊहान न परज्ञानं तवास्ति ह 14 [गौतम] जानामि नाहं मुह्यामि तवं विवक्षुर विमुह्यसे सतॊष्यसे ऽभयुदय परेप्सुस तस्य दर्शनसंश्रयात 15 न वेत्थ परमं धर्मं न चावैषि परयॊजनम बालस तवम असि मूढश च वृद्धः केवापि हेतुना 16 [मार्क] विवदन्तौ तथा तौ तु मुनीनां दर्शने सथितौ ये तस्य यज्ञे संवृत्तास ते ऽपृच्छन्त कथं तव इमौ 17 परवेशः केन दत्तॊ ऽयम अनयॊर वैन्य संसदि उच्चैः समभिभाषन्तौ केन कार्येण विष्ठितौ 18 ततः परमधर्मात्मा काश्यपः सर्वधर्मवित विवादिनाव अनुप्राप्तौ ताव उभौ परत्यवेदयत 19 अथाब्रवीत सदस्यांस तु गौतमॊ मुनिसत्तमान आवयॊर वयाहृतं परश्नं शृणुत दविजपुंगवाः वैन्यॊ विधातेत्य आहात्रिर अत्र नः संशयॊ महान 20 शरुत्वैव तु महात्मानॊ मुनयॊ ऽभयद्रवन दरुतम सनत्कुमारं धर्मज्ञं संशय छेदनाय वै 21 स च तेषां वचॊ शरुत्वा यथातत्त्वं महातपः परत्युवाचाथ तान एवं धर्मार्थसहितं वचः 22 [सनत्कुमार] बरह्मक्षत्रेण सहितं कषत्रं च बरह्मणा सह राजा वै परथमॊ धर्मः परजानां पतिर एव च स एव शक्रः शुक्रश च स धाता स बृहस्पतिः 23 परजापतिर विराट सम्राट कषत्रियॊ भूपतिर नृपः य एभिः सतूयते शब्दैः कस तं नार्चितुम अर्हति 24 पुरा यॊनिर युधाजिच च अभिया मुदितॊ भवः सवर्णेता सहजिद बभ्रुर इति राजाभिधीयते 25 सत्यमन्युर युधाजीवः सत्यधर्मप्रवर्तकः अधर्माद ऋषयॊ भीता बलं कषत्रे समादधन 26 आदित्यॊ दिवि देवेषु तमॊनुदति तेजसा तथैव नृपतिर भूमाव अधर्मं नुदते भृशम 27 अतॊ राज्ञः परधानत्वं शास्त्रप्रामाण्य दर्शनात उत्तरः सिध्यते पक्षॊ येन राजेति भाषितम 28 [मार्क] ततः स राजा संहृष्टः सिद्धे पक्षे महामनः तम अत्रिम अब्रवीत परीतः पूर्वं येनाभिसंस्तुतः 29 यस्मात सर्वमनुष्येषु जयायांसं माम इहाब्रवीः सर्वदेवैश च विप्रर्षे संमितं शरेष्ठम एव च तस्मात ते ऽहं परदास्यामि विविधं वसु भूरि च 30 दासी सहस्रं शयामानां सुवस्त्राणाम अलंकृतम दशकॊट्यॊ हिरण्यस्य रुक्मभारांस तथा दश एतद ददानि ते विप्र सर्वज्ञस तवं हि मे मतः 31 तद अत्रिर नयायतः सर्वं परतिगृह्य महामनः परत्याजगाम तेजस्वी गृहान एव महातपः 32 परदाय च धनं परीतः पुत्रेभ्यः परयतात्मवान तपॊ समभिसंधाय वनम एवान्वपद्यत |
1
[mārk] bhūya eva tu māhātmyaṃ brāhmaṇānāṃ nibodha me vainyo nāmeha rājarṣir aśvamedhāya dīkṣitaḥ tam atrir gantum ārebhe vittārtham iti naḥ śrutam 2 bhūyo 'tha nānurudhyat sa dharmavyakti nidarśanāt saṃcintya sa mahātejā vanam evānvarocayat dharmapatnīṃ samāhūya putrāṃś cedam uvāca ha 3 prāpsyāmaḥ phalam atyantaṃ bahulaṃ nirupadravam araṇyagamanaṃ kṣipraṃ rocatāṃ vo gunādhikam 4 taṃ bhāryā pratyuvācedaṃ dharmam evānurudhyatī vainaṃ gatvā mahātmānam arthayasva dhanaṃ bahu sa te dāsyati rājarṣir yajamāno 'rthine dhanam 5 tata ādāya viprarṣe pratigṛhya dhanaṃ bahu bhṛtyān sutān saṃvibhajya tato vraja yathepsitam eṣa vai paramo dharmadharmavidbhir udāhṛtaḥ 6 [atri] kathito me mahābhāge gautamena mahātmanā vainyo dharmārthasaṃyuktaḥ satyavratasamanvitaḥ 7 kiṃ tv asti tatra dveṣṭāro nivasanti hi me dvijāḥ yathā me gautamaḥ prāha tato na vyavasāmy aham 8 tatra sma vācaṃ kalyāṇīṃ dharmakāmārtha saṃhitām mayoktām anyathā brūyus tatas te vai nirarthakām 9 gamiṣyāmi mahāprājñe rocate me vacas tava gāś ca me dāsyate vainyaḥ prabhūtaṃ cārthasaṃcayam 10 [mārk] evam uktvā jagāmāśu vainya yajñaṃ mahātapaḥ gatvā ca yajñāyatanam atris tuṣṭāva taṃ nṛpam 11 rājan vainya tvam īśaś ca bhuvi tvaṃ prathamo nṛpaḥ stuvanti tvāṃ munigaṇās tvad anyo nāsti dharmavit 12 tam abravīd ṛṣis tatra vaca kruddho mahātapaḥ maivam atre punar brūyā na te prajñā samāhitā atra naḥ prathamaṃ sthātā mahendro vai prajāpatiḥ 13 athātrir api rājendra gautamaṃ pratyabhāṣata ayam eva vidhātā ca yathaivendraḥ prajāpatiḥ tvam eva muhyase mohān na prajñānaṃ tavāsti ha 14 [gautama] jānāmi nāhaṃ muhyāmi tvaṃ vivakṣur vimuhyase stoṣyase 'bhyudaya prepsus tasya darśanasaṃśrayāt 15 na vettha paramaṃ dharmaṃ na cāvaiṣi prayojanam bālas tvam asi mūḍhaś ca vṛddhaḥ kevāpi hetunā 16 [mārk] vivadantau tathā tau tu munīnāṃ darśane sthitau ye tasya yajñe saṃvṛttās te 'pṛcchanta kathaṃ tv imau 17 praveśaḥ kena datto 'yam anayor vainya saṃsadi uccaiḥ samabhibhāṣantau kena kāryeṇa viṣṭhitau 18 tataḥ paramadharmātmā kāśyapaḥ sarvadharmavit vivādināv anuprāptau tāv ubhau pratyavedayat 19 athābravīt sadasyāṃs tu gautamo munisattamān āvayor vyāhṛtaṃ praśnaṃ śṛṇuta dvijapuṃgavāḥ vainyo vidhātety āhātrir atra naḥ saṃśayo mahān 20 śrutvaiva tu mahātmāno munayo 'bhyadravan drutam sanatkumāraṃ dharmajñaṃ saṃśaya chedanāya vai 21 sa ca teṣāṃ vaco śrutvā yathātattvaṃ mahātapaḥ pratyuvācātha tān evaṃ dharmārthasahitaṃ vacaḥ 22 [sanatkumāra] brahmakṣatreṇa sahitaṃ kṣatraṃ ca brahmaṇā saha rājā vai prathamo dharmaḥ prajānāṃ patir eva ca sa eva śakraḥ śukraś ca sa dhātā sa bṛhaspatiḥ 23 prajāpatir virāṭ samrāṭ kṣatriyo bhūpatir nṛpaḥ ya ebhiḥ stūyate śabdaiḥ kas taṃ nārcitum arhati 24 purā yonir yudhājic ca abhiyā mudito bhavaḥ svarṇetā sahajid babhrur iti rājābhidhīyate 25 satyamanyur yudhājīvaḥ satyadharmapravartakaḥ adharmād ṛṣayo bhītā balaṃ kṣatre samādadhan 26 ādityo divi deveṣu tamonudati tejasā tathaiva nṛpatir bhūmāv adharmaṃ nudate bhṛśam 27 ato rājñaḥ pradhānatvaṃ śāstraprāmāṇya darśanāt uttaraḥ sidhyate pakṣo yena rājeti bhāṣitam 28 [mārk] tataḥ sa rājā saṃhṛṣṭaḥ siddhe pakṣe mahāmanaḥ tam atrim abravīt prītaḥ pūrvaṃ yenābhisaṃstutaḥ 29 yasmāt sarvamanuṣyeṣu jyāyāṃsaṃ mām ihābravīḥ sarvadevaiś ca viprarṣe saṃmitaṃ śreṣṭham eva ca tasmāt te 'haṃ pradāsyāmi vividhaṃ vasu bhūri ca 30 dāsī sahasraṃ śyāmānāṃ suvastrāṇām alaṃkṛtam daśakoṭyo hiraṇyasya rukmabhārāṃs tathā daśa etad dadāni te vipra sarvajñas tvaṃ hi me mataḥ 31 tad atrir nyāyataḥ sarvaṃ pratigṛhya mahāmanaḥ pratyājagāma tejasvī gṛhān eva mahātapaḥ 32 pradāya ca dhanaṃ prītaḥ putrebhyaḥ prayatātmavān tapo samabhisaṃdhāya vanam evānvapadyata |
The Mahabharata in Sanskrit
Book 3
Chapter 184
|
1
[मार्क] अत्रैव च सरस्वत्या गीतं परपुरंजय पृष्टया मुनिना वीर शृणु तर्क्षेण धीमता 2 [तार्क्स्य] किं नु शरेयॊ पुरुषस्येह भद्रे; कथं कुर्वन न चयवते सवधर्मात आचक्ष्व मे चारुसर्वाङ्गि सर्वं; तवयानुशिष्टॊ न चयवेयं सवधर्मात 3 कथं चाग्निं जुहुयां पूजये वा; कस्मिन काले केन धर्मॊ न नश्येत एतत सर्वं सुभगे परब्रवीहि; यथा लॊकान विरजः संचरेयम 4 [मार्क] एवं पृष्टा परीतियुक्तेन तेन; शुश्रूषुम ईक्ष्यॊत्तम बुद्धियुक्तम तार्क्ष्यं विप्रं धर्मयुक्तं हितं च; सरस्वती वाक्यम इदं बभाषे 5 [सरस] यॊ बरह्म जानाति यथाप्रदेशं; सवाध्यायनित्यः शुचिर अप्रमत्तः स वै पुरॊ देवपुरस्य गन्ता; सहामरैः पराप्नुयात परीतियॊगम 6 तत्र सम रम्या विपुला विशॊकाः; सुपुष्पिताः पुष्करिण्यः सुपुण्याः अकर्दमा मीनवत्यः सुतीर्था; हिरण्मयैर आवृताः पुण्डरीकैः 7 तासां तीरेष्व आसते पुण्यकर्मा; महीयमानः पृथग अप्सरॊभिः सुपुण्य गन्धाभिर अलंकृताभिर; हिरण्यवर्णाभिर अतीव हृष्टः 8 परं लॊकं गॊप्रदास तव आप्नुवन्ति; दत्त्वानड्वाहं सूर्यलॊकं वरजन्ति वासॊ दत्त्वा चन्द्रमसः स लॊकं; दत्त्वा हिरण्यम अमृतत्वम एति 9 धेनुं दत्त्व सुव्रतां साधु दॊहां; कल्याणवत साम पलायिनीं च यावन्ति रॊमाणि भवन्ति तस्यास; तावद वर्षाण्य अश्नुते सवर्गलॊकम 10 अनड्वाहं सुव्रतं यॊ ददाति; हलस्य वॊड्धारम अनन्तवीर्यम धुरं धुरं बलवन्तं युवानं; पराप्नॊति लॊकान दश धेनुदस्य 11 यः सप्त वर्षाणि जुहॊति तार्क्ष्य; हव्यं तव अग्नौ सुव्रतः साधु शीलः सप्तावरान सप्त पूर्वान पुनाति; पितामहान आत्मनः कर्मभिः सवैः 12 [तार्क्स्य] किम अग्निहॊत्रस्य वरतं पुराणम; आचक्ष्व मे पृच्छतश चारुरूपे तवयानुशिष्टॊ ऽहम इहाद्य विद्यां; यद अग्निहॊत्रस्य वरतं पुराणम 13 [सरस] न चाशुचिर नाप्य अनिर्णिक्तपाणिर; नाब्रह्मविज जुहुयान नाविपश्चित बुभुक्षवः शुचि कामा हि देवा; नाश्रद्दधानाद धि हविर जुषन्ति 14 नाश्रॊत्रियं देव हव्ये नियुञ्ज्यान; मॊघं परा सिञ्चति तादृशॊ हि अपूर्णम अश्रॊत्रियम आह तार्क्ष्य; न वै तादृग जुहुयाद अग्निहॊत्रम 15 कृशानुं ये जुह्वति शरद्दधानाः; सत्यव्रता हुतशिष्टाशिनश च गवां लॊकं पराप्य ते पुण्यगन्धं; पश्यन्ति देवं परमं चापि सत्यम 16 [तार्क्स्य] कषेत्रज्ञभूतां परलॊकभावे; कर्मॊदये बुद्धिम अतिप्रविष्टाम परज्ञां च देवीं सुभगे विमृश्य; पृच्छामि तवां का हय असि चारुरूपे 17 [सरस] अग्निहॊत्राद अहम अभ्यागतास्मि; विप्रर्षभाणां संशय चछेदनाय तवत संयॊगाद अहम एतद अब्रुवं; भावे सथिता तथ्यम अर्थं यथावत 18 [तार्क्स्य] न हि तवया सदृशी का चिद अस्ति; विभ्राजसे हय अतिमात्रं यथा शरीः रूपं च ते दिव्यम अत्यन्तकान्तं; परज्ञां च देवीं सुभगे बिभर्षि 19 [सरस] शरेष्ठानि यानि दविपदां वरिष्ठ; यज्ञेषु विद्वन्न उपपादयन्ति तैर एवाहं संप्रवृद्धा भवामि; आप्यायिता रूपवती च विप्र 20 यच चापि दरव्यम उपयुज्यते ह; वानस्पत्यम आयसं पार्थिवं वा दिव्येन रूपेण च परज्ञया च; तेनैव सिद्धिर इति विद्धि विद्वन 21 [तार्क्स्य] इदं शरेयॊ परमं मन्यमाना; वयायच्छन्ते मुनयः संप्रतीताः आचक्ष्व मे तं परमं विशॊकं; मॊक्षं परं यं परविशन्ति धीराः 22 [सरस] तं वै परं वेदविदः परपन्नाः; परं परेभ्यः परथितं पुराणम सवाध्यायदानव्रतपुण्ययॊगैस; तपॊधना वीतशॊका विमुक्ताः 23 तस्याथ मध्ये वेतसः पुण्यगन्धः; सहस्रशाखॊ विमलॊ विभाति तस्य मूलात सरितः परस्रवन्ति; मधूदक परस्रवणा रमण्यः 24 शाखां शाखां महानद्यः संयान्ति सिकता समाः धाना पूपा मांसशाकाः सदा पायसकर्दमाः 25 यस्मिन्न अग्निमुखा देवाः सेन्द्राः सह मरुद्गणैः ईजिरे करतुभिः शरेष्ठैस तत पदं परमं मुने |
1
[mārk] atraiva ca sarasvatyā gītaṃ parapuraṃjaya pṛṣṭayā muninā vīra śṛṇu tarkṣeṇa dhīmatā 2 [tārksya] kiṃ nu śreyo puruṣasyeha bhadre; kathaṃ kurvan na cyavate svadharmāt ācakṣva me cārusarvāṅgi sarvaṃ; tvayānuśiṣṭo na cyaveyaṃ svadharmāt 3 kathaṃ cāgniṃ juhuyāṃ pūjaye vā; kasmin kāle kena dharmo na naśyet etat sarvaṃ subhage prabravīhi; yathā lokān virajaḥ saṃcareyam 4 [mārk] evaṃ pṛṣṭā prītiyuktena tena; śuśrūṣum īkṣyottama buddhiyuktam tārkṣyaṃ vipraṃ dharmayuktaṃ hitaṃ ca; sarasvatī vākyam idaṃ babhāṣe 5 [saras] yo brahma jānāti yathāpradeśaṃ; svādhyāyanityaḥ śucir apramattaḥ sa vai puro devapurasya gantā; sahāmaraiḥ prāpnuyāt prītiyogam 6 tatra sma ramyā vipulā viśokāḥ; supuṣpitāḥ puṣkariṇyaḥ supuṇyāḥ akardamā mīnavatyaḥ sutīrthā; hiraṇmayair āvṛtāḥ puṇḍarīkaiḥ 7 tāsāṃ tīreṣv āsate puṇyakarmā; mahīyamānaḥ pṛthag apsarobhiḥ supuṇya gandhābhir alaṃkṛtābhir; hiraṇyavarṇābhir atīva hṛṣṭaḥ 8 paraṃ lokaṃ gopradās tv āpnuvanti; dattvānaḍvāhaṃ sūryalokaṃ vrajanti vāso dattvā candramasaḥ sa lokaṃ; dattvā hiraṇyam amṛtatvam eti 9 dhenuṃ dattva suvratāṃ sādhu dohāṃ; kalyāṇavat sāma palāyinīṃ ca yāvanti romāṇi bhavanti tasyās; tāvad varṣāṇy aśnute svargalokam 10 anaḍvāhaṃ suvrataṃ yo dadāti; halasya voḍdhāram anantavīryam dhuraṃ dhuraṃ balavantaṃ yuvānaṃ; prāpnoti lokān daśa dhenudasya 11 yaḥ sapta varṣāṇi juhoti tārkṣya; havyaṃ tv agnau suvrataḥ sādhu śīlaḥ saptāvarān sapta pūrvān punāti; pitāmahān ātmanaḥ karmabhiḥ svaiḥ 12 [tārksya] kim agnihotrasya vrataṃ purāṇam; ācakṣva me pṛcchataś cārurūpe tvayānuśiṣṭo 'ham ihādya vidyāṃ; yad agnihotrasya vrataṃ purāṇam 13 [saras] na cāśucir nāpy anirṇiktapāṇir; nābrahmavij juhuyān nāvipaścit bubhukṣavaḥ śuci kāmā hi devā; nāśraddadhānād dhi havir juṣanti 14 nāśrotriyaṃ deva havye niyuñjyān; moghaṃ parā siñcati tādṛśo hi apūrṇam aśrotriyam āha tārkṣya; na vai tādṛg juhuyād agnihotram 15 kṛśānuṃ ye juhvati śraddadhānāḥ; satyavratā hutaśiṣṭāśinaś ca gavāṃ lokaṃ prāpya te puṇyagandhaṃ; paśyanti devaṃ paramaṃ cāpi satyam 16 [tārksya] kṣetrajñabhūtāṃ paralokabhāve; karmodaye buddhim atipraviṣṭām prajñāṃ ca devīṃ subhage vimṛśya; pṛcchāmi tvāṃ kā hy asi cārurūpe 17 [saras] agnihotrād aham abhyāgatāsmi; viprarṣabhāṇāṃ saṃśaya cchedanāya tvat saṃyogād aham etad abruvaṃ; bhāve sthitā tathyam arthaṃ yathāvat 18 [tārksya] na hi tvayā sadṛśī kā cid asti; vibhrājase hy atimātraṃ yathā śrīḥ rūpaṃ ca te divyam atyantakāntaṃ; prajñāṃ ca devīṃ subhage bibharṣi 19 [saras] śreṣṭhāni yāni dvipadāṃ variṣṭha; yajñeṣu vidvann upapādayanti tair evāhaṃ saṃpravṛddhā bhavāmi; āpyāyitā rūpavatī ca vipra 20 yac cāpi dravyam upayujyate ha; vānaspatyam āyasaṃ pārthivaṃ vā divyena rūpeṇa ca prajñayā ca; tenaiva siddhir iti viddhi vidvan 21 [tārksya] idaṃ śreyo paramaṃ manyamānā; vyāyacchante munayaḥ saṃpratītāḥ ācakṣva me taṃ paramaṃ viśokaṃ; mokṣaṃ paraṃ yaṃ praviśanti dhīrāḥ 22 [saras] taṃ vai paraṃ vedavidaḥ prapannāḥ; paraṃ parebhyaḥ prathitaṃ purāṇam svādhyāyadānavratapuṇyayogais; tapodhanā vītaśokā vimuktāḥ 23 tasyātha madhye vetasaḥ puṇyagandhaḥ; sahasraśākho vimalo vibhāti tasya mūlāt saritaḥ prasravanti; madhūdaka prasravaṇā ramaṇyaḥ 24 śākhāṃ śākhāṃ mahānadyaḥ saṃyānti sikatā samāḥ dhānā pūpā māṃsaśākāḥ sadā pāyasakardamāḥ 25 yasminn agnimukhā devāḥ sendrāḥ saha marudgaṇaiḥ ījire kratubhiḥ śreṣṭhais tat padaṃ paramaṃ mune |
The Mahabharata in Sanskrit
Book 3
Chapter 185
|
1
[वै] ततः स पाण्डवॊ भूयॊ मार्कण्डेयम उवाच ह कथयस्वेह चरितं मनॊर वैवस्वतस्य मे 2 [मार्क] विवस्तवः सुतॊ राजन परमर्षिः परतापवान बभूव नरशार्दूल परजापतिसमद्युतिः 3 ओजसा तेजसा लक्ष्म्या तपसा च विशेषतः अतिचक्राम पितरं मनुः सवं च पितामहम 4 ऊर्ध्वबाहुर विशालायां बदर्यां स नराधिपः एकपादस्थितस तीव्रं चचार सुमहत तपः 5 अवाक्शिरास तथा चापि नेत्रैर अनिमिषैर दृढम सॊ ऽतप्यत तपॊ घॊरं वर्षाणाम अयुतं तदा 6 तं कदा चित तपस्यन्तम आर्द्र चीरजटा धरम वीरिणी तीरम आगम्य मत्स्यॊ वचनम अब्रवीत 7 भगवन कषुद्रमत्स्यॊ ऽसमि बलवद्भ्यॊ भयं मम मत्स्येभ्यॊ हि ततॊ मां तवं तरातुम अर्हसि सुव्रत 8 दुर्बलं बलवन्तॊ हि मत्स्यं मत्स्या विशेषतः भक्षयन्ति यथा वृत्तिर विहिता नः सनातनी 9 तस्माद भयौघान महतॊ मज्जन्तं मां विशेषतः तरातुम अर्हसि कर्तास्मि कृते परतिकृतं तव 10 स मत्स्यवचनं शरुत्वा कृपयाभिपरिप्लुतः मनुर वैवस्वतॊ ऽगृह्णात तं मत्स्यं पाणिना सवयम 11 उदकान्तम उपानीय मत्स्यं वैवस्वतॊ मनुः अलिञ्जरे पराक्षिपत स चन्द्रांशुसदृशप्रभम 12 स तत्र ववृधे राजन मत्स्यः परमसत्कृतः पुत्रवच चाकरॊत तस्मिन मनुर भावं विशेषतः 13 अथ कालेन महता स मत्स्यः सुमहान अभूत अलिञ्जरे जले चैव नासौ समभवत किल 14 अथ मत्स्यॊ मनुं दृष्ट्वा पुनर एवाभ्यभाषत भगवन साधु मे ऽदयान्यत सथानं संप्रतिपादय 15 उद्धृत्यालिञ्जरात तस्मात ततः स भगवान मुनिः तं मत्स्यम अनयद वापीं महतीं स मनुस तदा 16 तत्र तं पराक्षिपच चापि मनुः परपुरंजय अथावर्धत मत्स्यः स पुनर वर्षगणान बहून 17 दवियॊजनायता वापी विस्तृता चापि यॊजनम तस्यां नासौ समभवन मत्स्यॊ राजीवलॊचन विचेष्टितुं वा कौन्तेय मत्स्यॊ वाप्यां विशां पते 18 मनुं मत्यस ततॊ दृष्ट्वा पुनर एवाभ्यभाषत नयमां भगवन साधॊ समुद्रमहिषीं परभॊ गङ्गां तत्र निवत्स्यामि यथा वा तात मन्यसे 19 एवं कुतॊ मनुर मत्स्याम अनयद भगवान वशी नदीं गङ्गां तत्र चैनं सवयं पराक्षिपद अच्युतः 20 स तत्र ववृधे मत्स्यः किं चित कालम अरिंदम ततः पुनर मनुं दृष्ट्वा मत्स्यॊ वचनम अब्रवीत 21 गङ्गायां हि न शक्नॊमि बृहत्त्वाच चेष्टितुं परभॊ समुद्रं नयमाम आशु परसीद भगवन्न इति 22 उद्धृत्य गङ्गा सलिलात ततॊ मत्स्यं मनुः सवयम समुद्रम अनयत पार्थ तत्र चैनम अवासृजत 23 सुमहान अपि मत्स्यः सन स मनॊर मनसस तदा आसीद यथेष्ट हार्यश च सपर्शगन्धसुखैश च वै 24 यदा समुद्रे परक्षिप्तः स मत्स्यॊ मनुना तदा तत एनम इदं वाक्यं समयमान इवाब्रवीत 25 भगवन कृता हि मे रक्षा तवया सर्वा विशेषतः पराप्तकालं तु यत कार्यं तवया तच छरूयतां मम 26 अचिराद भगवन भौमम इदं सथावरजङ्गमम सर्वम एव महाभाग परलयं वै गमिष्यति 27 संप्रक्षालन कालॊ ऽयं लॊकानां समुपस्थितः तस्मात तवां बॊधयाम्य अद्य तत ते हितम अनुत्तमम 28 तरसानां सथावराणां च यच चेङ्गं यच च नेङ्गति तस्य सर्वस्य संप्राप्तः कालः परमदारुणः 29 नौश च कारयितव्या ते दृढा युक्तवटाकरा तत्र सप्तर्षिभिः सार्धम आरुहेथा महामुने 30 बीजानि चैव सर्वाणि यथॊक्तनि मया पुरा तस्याम आरॊहयेर नावि सुसंगुप्तानि भागशः 31 नौस्थश च मां परतीक्षेथास तदा मुनिजनप्रिय आगमिष्याम्य अहं शृङ्गी विज्ञेयस तेन तापस 32 एवम एत तवया कार्यम आपृष्टॊ ऽसि वरजाम्य अहम नातिशङ्क्यम इदं चापि वचनं ते ममाभिभॊ 33 एवं करिष्य इति तं स मत्स्यं परत्यभाषत जग्मतुश च यथाकामम अनुज्ञाप्य परस्परम 34 ततॊ मनुर महाराज यथॊक्तं मत्यकेन ह बीजान्य आदाय सर्वाणि सागरं पुप्लुवे तदा नावा तु शुभया वीर महॊर्मिणम अरिंदम 35 चिन्तयाम आस च मनुस तं मत्स्यं पृथिवीपते स च तच चिन्तितं जञात्वा मत्स्यः परपुरंजय शृङ्गी तत्राजगामाशु तदा भरतसत्तम 36 तं दृष्ट्वा मनुजेन्द्रेन्द्र मनुर मत्स्यं जलार्णवे शृङ्गिणं तं यथॊक्तेन रूपेणाद्रिम इवॊच्छ्रितम 37 वटाकरमयं पाशम अथ मत्स्यस्य मूधनि मनुर मनुजशार्दूल तस्मिञ शृङ्गे नयवेशयत 38 संयतस तेन पाशेन मत्स्यः परपुरंजय वेगेन महता नावं पराकर्षल लवणाम्भसि 39 स ततार तया नावा समुद्रं मनुजेश्वर नृत्यमानम इवॊर्मीभिर गर्जमानम इवाम्भसा 40 कषॊभ्यमाणा महावातैः सा नौस तस्मिन महॊदधौ धूर्णते चपलेव सत्री मत्ता परपुरंजय 41 नैव भूमिर न च दिशः परदिशॊ वा चकाशिरे सर्वम आम्भसम एवासीत खं दयौश च नरपुंगव 42 एवं भूते तदा लॊके संकुले भरतर्षभ अदृश्यन्त सप्तर्षयॊ मनुर मत्स्यः सहैव ह 43 एवं बहून वर्षगणांस तां नावं सॊ ऽथ मत्स्यकः चकर्षातन्द्रितॊ राजंस तस्मिन सलिलसंचये 44 ततॊ हिमवतः शृङ्गं यत परं पुरुषर्षभ तत्राकर्षत ततॊ नावं स मत्स्यः कुरुनन्दन 45 ततॊ ऽबरवीत तदा मत्स्यस तान ऋषीन परहसञ शनैः अस्मिन हिमवतः शृङ्गे नावं बध्नीत माचिरम 46 सा बद्धा तत्र तैस तूर्णम ऋषिभिर भरतर्षभ नौर मत्स्यस्य वचॊ शरुत्वा शृङ्गे हिमवतस तदा 47 तच च नौबन्धनं नाम शृङ्गं हिमवतः परम खयातम अद्यापि कौन्तेय तद विद्धि भरतर्षभ 48 अथाब्रवीद अनिमिषस तान ऋषीन सहितांस तदा अहं परजापतिर बरह्मा मत्परं नाधिगम्यते मत्स्यरूपेण यूयं च मयास्मान मॊक्षिता भयात 49 मनुना च परजाः सर्वाः सदेवासुरमानवाः सरष्टव्याः सर्वलॊकाश च यच चेङ्गं यच च नेङ्गति 50 तपसा चातितीव्रेण परतिभास्य भविष्यति मत्प्रसादात परजा सर्गे न च मॊहं गमिष्यति 51 इत्य उक्त्वा वचनं मत्स्यः कषणेनादर्शनं गतः सरष्टुकामः परजाश चापि मनुर वैवस्वतः सवयम परमूढॊ ऽभूत परजा सर्गे तपस तेपे महत ततः 52 तपसा महता युक्तः सॊ ऽथ सरष्टुं परचक्रमे सर्वाः परजा मनुः साक्षाद यथावद भरतर्षभ 53 इत्य एतन मात्यकं नाम पुराणं परिकीर्तितम आख्यानम इदम आख्यातं सर्वपापहरं मया 54 य इदं शृणुयान नित्यं मनॊश चरितम आदितः स सुखी सर्वसिद्धार्थः सवर्गलॊकम इयान नरः |
1
[vai] tataḥ sa pāṇḍavo bhūyo mārkaṇḍeyam uvāca ha kathayasveha caritaṃ manor vaivasvatasya me 2 [mārk] vivastavaḥ suto rājan paramarṣiḥ pratāpavān babhūva naraśārdūla prajāpatisamadyutiḥ 3 ojasā tejasā lakṣmyā tapasā ca viśeṣataḥ aticakrāma pitaraṃ manuḥ svaṃ ca pitāmaham 4 ūrdhvabāhur viśālāyāṃ badaryāṃ sa narādhipaḥ ekapādasthitas tīvraṃ cacāra sumahat tapaḥ 5 avākśirās tathā cāpi netrair animiṣair dṛḍham so 'tapyata tapo ghoraṃ varṣāṇām ayutaṃ tadā 6 taṃ kadā cit tapasyantam ārdra cīrajaṭā dharam vīriṇī tīram āgamya matsyo vacanam abravīt 7 bhagavan kṣudramatsyo 'smi balavadbhyo bhayaṃ mama matsyebhyo hi tato māṃ tvaṃ trātum arhasi suvrata 8 durbalaṃ balavanto hi matsyaṃ matsyā viśeṣataḥ bhakṣayanti yathā vṛttir vihitā naḥ sanātanī 9 tasmād bhayaughān mahato majjantaṃ māṃ viśeṣataḥ trātum arhasi kartāsmi kṛte pratikṛtaṃ tava 10 sa matsyavacanaṃ śrutvā kṛpayābhipariplutaḥ manur vaivasvato 'gṛhṇāt taṃ matsyaṃ pāṇinā svayam 11 udakāntam upānīya matsyaṃ vaivasvato manuḥ aliñjare prākṣipat sa candrāṃśusadṛśaprabham 12 sa tatra vavṛdhe rājan matsyaḥ paramasatkṛtaḥ putravac cākarot tasmin manur bhāvaṃ viśeṣataḥ 13 atha kālena mahatā sa matsyaḥ sumahān abhūt aliñjare jale caiva nāsau samabhavat kila 14 atha matsyo manuṃ dṛṣṭvā punar evābhyabhāṣata bhagavan sādhu me 'dyānyat sthānaṃ saṃpratipādaya 15 uddhṛtyāliñjarāt tasmāt tataḥ sa bhagavān muniḥ taṃ matsyam anayad vāpīṃ mahatīṃ sa manus tadā 16 tatra taṃ prākṣipac cāpi manuḥ parapuraṃjaya athāvardhata matsyaḥ sa punar varṣagaṇān bahūn 17 dviyojanāyatā vāpī vistṛtā cāpi yojanam tasyāṃ nāsau samabhavan matsyo rājīvalocana viceṣṭituṃ vā kaunteya matsyo vāpyāṃ viśāṃ pate 18 manuṃ matyas tato dṛṣṭvā punar evābhyabhāṣata nayamāṃ bhagavan sādho samudramahiṣīṃ prabho gaṅgāṃ tatra nivatsyāmi yathā vā tāta manyase 19 evaṃ kuto manur matsyām anayad bhagavān vaśī nadīṃ gaṅgāṃ tatra cainaṃ svayaṃ prākṣipad acyutaḥ 20 sa tatra vavṛdhe matsyaḥ kiṃ cit kālam ariṃdama tataḥ punar manuṃ dṛṣṭvā matsyo vacanam abravīt 21 gaṅgāyāṃ hi na śaknomi bṛhattvāc ceṣṭituṃ prabho samudraṃ nayamām āśu prasīda bhagavann iti 22 uddhṛtya gaṅgā salilāt tato matsyaṃ manuḥ svayam samudram anayat pārtha tatra cainam avāsṛjat 23 sumahān api matsyaḥ san sa manor manasas tadā āsīd yatheṣṭa hāryaś ca sparśagandhasukhaiś ca vai 24 yadā samudre prakṣiptaḥ sa matsyo manunā tadā tata enam idaṃ vākyaṃ smayamāna ivābravīt 25 bhagavan kṛtā hi me rakṣā tvayā sarvā viśeṣataḥ prāptakālaṃ tu yat kāryaṃ tvayā tac chrūyatāṃ mama 26 acirād bhagavan bhaumam idaṃ sthāvarajaṅgamam sarvam eva mahābhāga pralayaṃ vai gamiṣyati 27 saṃprakṣālana kālo 'yaṃ lokānāṃ samupasthitaḥ tasmāt tvāṃ bodhayāmy adya tat te hitam anuttamam 28 trasānāṃ sthāvarāṇāṃ ca yac ceṅgaṃ yac ca neṅgati tasya sarvasya saṃprāptaḥ kālaḥ paramadāruṇaḥ 29 nauś ca kārayitavyā te dṛḍhā yuktavaṭākarā tatra saptarṣibhiḥ sārdham āruhethā mahāmune 30 bījāni caiva sarvāṇi yathoktani mayā purā tasyām ārohayer nāvi susaṃguptāni bhāgaśaḥ 31 nausthaś ca māṃ pratīkṣethās tadā munijanapriya āgamiṣyāmy ahaṃ śṛṅgī vijñeyas tena tāpasa 32 evam eta tvayā kāryam āpṛṣṭo 'si vrajāmy aham nātiśaṅkyam idaṃ cāpi vacanaṃ te mamābhibho 33 evaṃ kariṣya iti taṃ sa matsyaṃ pratyabhāṣata jagmatuś ca yathākāmam anujñāpya parasparam 34 tato manur mahārāja yathoktaṃ matyakena ha bījāny ādāya sarvāṇi sāgaraṃ pupluve tadā nāvā tu śubhayā vīra mahormiṇam ariṃdama 35 cintayām āsa ca manus taṃ matsyaṃ pṛthivīpate sa ca tac cintitaṃ jñātvā matsyaḥ parapuraṃjaya śṛṅgī tatrājagāmāśu tadā bharatasattama 36 taṃ dṛṣṭvā manujendrendra manur matsyaṃ jalārṇave śṛṅgiṇaṃ taṃ yathoktena rūpeṇādrim ivocchritam 37 vaṭākaramayaṃ pāśam atha matsyasya mūdhani manur manujaśārdūla tasmiñ śṛṅge nyaveśayat 38 saṃyatas tena pāśena matsyaḥ parapuraṃjaya vegena mahatā nāvaṃ prākarṣal lavaṇāmbhasi 39 sa tatāra tayā nāvā samudraṃ manujeśvara nṛtyamānam ivormībhir garjamānam ivāmbhasā 40 kṣobhyamāṇā mahāvātaiḥ sā naus tasmin mahodadhau dhūrṇate capaleva strī mattā parapuraṃjaya 41 naiva bhūmir na ca diśaḥ pradiśo vā cakāśire sarvam āmbhasam evāsīt khaṃ dyauś ca narapuṃgava 42 evaṃ bhūte tadā loke saṃkule bharatarṣabha adṛśyanta saptarṣayo manur matsyaḥ sahaiva ha 43 evaṃ bahūn varṣagaṇāṃs tāṃ nāvaṃ so 'tha matsyakaḥ cakarṣātandrito rājaṃs tasmin salilasaṃcaye 44 tato himavataḥ śṛṅgaṃ yat paraṃ puruṣarṣabha tatrākarṣat tato nāvaṃ sa matsyaḥ kurunandana 45 tato 'bravīt tadā matsyas tān ṛṣīn prahasañ śanaiḥ asmin himavataḥ śṛṅge nāvaṃ badhnīta māciram 46 sā baddhā tatra tais tūrṇam ṛṣibhir bharatarṣabha naur matsyasya vaco śrutvā śṛṅge himavatas tadā 47 tac ca naubandhanaṃ nāma śṛṅgaṃ himavataḥ param khyātam adyāpi kaunteya tad viddhi bharatarṣabha 48 athābravīd animiṣas tān ṛṣīn sahitāṃs tadā ahaṃ prajāpatir brahmā matparaṃ nādhigamyate matsyarūpeṇa yūyaṃ ca mayāsmān mokṣitā bhayāt 49 manunā ca prajāḥ sarvāḥ sadevāsuramānavāḥ sraṣṭavyāḥ sarvalokāś ca yac ceṅgaṃ yac ca neṅgati 50 tapasā cātitīvreṇa pratibhāsya bhaviṣyati matprasādāt prajā sarge na ca mohaṃ gamiṣyati 51 ity uktvā vacanaṃ matsyaḥ kṣaṇenādarśanaṃ gataḥ sraṣṭukāmaḥ prajāś cāpi manur vaivasvataḥ svayam pramūḍho 'bhūt prajā sarge tapas tepe mahat tataḥ 52 tapasā mahatā yuktaḥ so 'tha sraṣṭuṃ pracakrame sarvāḥ prajā manuḥ sākṣād yathāvad bharatarṣabha 53 ity etan mātyakaṃ nāma purāṇaṃ parikīrtitam ākhyānam idam ākhyātaṃ sarvapāpaharaṃ mayā 54 ya idaṃ śṛṇuyān nityaṃ manoś caritam āditaḥ sa sukhī sarvasiddhārthaḥ svargalokam iyān naraḥ |
The Mahabharata in Sanskrit
Book 3
Chapter 186
|
1
[वै] ततः स पुनर एवाथ मार्कण्डेयं यशस्विनम पप्रच्छ विनयॊपेतॊ धर्मराजॊ युधिष्ठिरः 2 नैके युगसहस्रान्तास तवया दृष्टा महामुने न चापीह समः कश चिद आयुषा तव विद्यते वर्जयित्वा महात्मानं बराह्मणं परमेष्ठिनम 3 अनन्तरिक्षे लॊके ऽसमिन देवदानव वर्जिते तवम एव परलये विप्र बराह्मणम उपतिष्ठसि 4 परलये चापि निर्वृत्ते परबुद्धे च पितामहे तवम एव सृज्यमानानि भूतानीह परपश्यसि 5 चतुर्विधानि विप्रर्षे यथावत परमेष्ठिना वायुभूता दिशः कृत्वा विक्षिप्यापस ततस ततः 6 तवया लॊकगुरुः साक्षात सर्वलॊकपितामहः आराधितॊ दविजश्रेष्ठ तत्परेण समाधिना 7 तस्मात सर्वान्तकॊ मृत्युर जरा वा देहनाशिनी न तवा विशति विप्रर्षे परसादात परमेष्ठिनः 8 यदा नैव रविर नाग्निर न वायुर न च चन्द्रमः नैवान्तरिक्षं नैवॊर्वी शेषं भवति किं चन 9 तस्मिन्न एकार्णवे लॊके नष्टे सथावरजङ्गमे नष्टे देवासुरगणे समुत्सन्न महॊरगे 10 शयानम अमितात्मानं पद्मे पद्मनिकेतनम तवम एकः सर्वभूतेशं बरह्माणम उपतिष्ठसि 11 एतत परत्यक्षतः सर्वं पूर्ववृत्तं दविजॊत्तम तस्माद इच्छामहे शरॊतुं सर्वहेत्व आत्मिकां कथाम 12 अनुभूतं हि बहुशस तवयैकेन दविजॊत्तम न ते ऽसत्य अविदितं किं चित सर्वलॊकेषु नित्यदा 13 [मार्क] हन्त ते कथयिष्यामि नमस्कृत्वा सवयम्भुवे पुरुषाय पुराणाय शाश्वतायाव्ययाय च 14 य एष पृथुदीर्घाक्षः पीतवासा जनार्दनः एष कर्ता विकर्ता च सर्वभावन भूतकृत 15 अचिन्त्यं महद आश्चर्यं पवित्रम अपि चॊत्तमम अनादि निधनं भूतं विश्वम अक्षयम अव्ययम 16 एष कर्ता न करियते कारणं चापि पौरुषे यॊ हय एनं पुरुषं वेत्ति देवा अपि न तं विदुः 17 सर्वम आश्चर्यम एवैतन निर्वृत्तं राजसत्तम आदितॊ मनुजव्याघ्रकृत्स्नस्य जगतः कषये 18 चत्वार्य आहुः सहस्राणि वर्षाणां तत कृतं युगम तस्य तावच छती संध्या संध्यांशश च ततः परम 19 तरीणि वर्षसहस्राणि तरेया युगम इहॊच्यते तस्य तावच छती संध्या संध्यांशश च ततः परम 20 तथा वर्षसहस्रे दवे दवापरं परिमाणतः तस्यापि दविशती संध्या संख्यांशश च ततः परम 21 सहस्रम एकं वर्षाणां ततः कलियुगं समृतम तस्य वर्षशतं संध्या संध्यांशश च ततः परम संध्यासंध्यांशयॊस तुल्यं परमाणम उपधारय 22 कषीणे कलियुगे चैव परवर्तति कृतं युगम एषा दवादश साहस्री युगाख्या परिकीर्तिता 23 एतत सहस्रपर्यन्तम अहर बराह्मम उदाहृतम विश्वं हि बरह्मभवने सर्वशः परिवर्तते लॊकानां मनुजव्याघ्रप्रलयं तं विदुर बुधाः 24 अल्पावशिष्टे तु तदा युगान्ते भरतर्षभ सहस्रान्ते नराः सर्वे परायशॊ ऽनृतवादिनः 25 यज्ञप्रतिनिधिः पार्थ दानप्रतिनिधिस तथा वरतप्रति निधिश चैव तस्मिन काले परवर्तते 26 बराह्मणाः शूद्र कर्माणस तथा शूद्रा धनार्जकाः कषत्रधर्मेण वाप्य अत्र वर्तयन्ति गते युगे 27 निवृत्तयज्ञस्वाध्यायाः पिण्डॊदकविवर्जिताः बराह्मणाः सर्वभक्षाश च भविष्यन्ति कलौ युगे 28 अजपा बराह्मणास तात शूद्रा जप परायणाः विपरीते तदा लॊके पूर्वरूपं कषयस्य तत 29 बहवॊ मेच्छ राजानः पृथिव्यां मनुजाधिप मिथ्यानुशासिनः पापा मृषावादपरायणाः 30 आन्ध्राः शकाः पुलिन्दाश च यवनाश च नराधिपाः काम्बॊजा और्णिकाः शूद्रास तथाभीरा नरॊत्तम 31 न तदा बराह्मणः कश चित सवधर्मम उपजीवति कषत्रिया अपि वैश्याश च विकर्मस्था नराधिप 32 अल्पायुषः सवल्प बला अल्पतेजः पराक्रमाः अल्पदेहाल्प साराश च तथा सत्याल्प भाषिणः 33 बहु शून्या जनपदा मृगव्यालावृता दिशः युगान्ते समनुप्राप्ते वृथा च बरह्मचारिणः भॊगादिनस तथा शूद्रा बराह्मणाश चार्यवादिनः 34 युगान्ते मनुजव्याघ्रभवन्ति बहु जन्तवः न तथा घराणयुक्ताश च सर्वगन्धा विशां पते रसाश च मनुजव्याघ्रन तथा सवादु यॊगिनः 35 बहु परजा हरस्वदेहाः शीलाचार विवर्जिताः मुखे भगाः सत्रियॊ राजन भविष्यन्ति युगक्षये 36 अट्टशूला जनपदाः शिव शूलाश चतुष्पथाः केशशूलाः सत्रियॊ राजन भविष्यन्ति युगक्षये 37 अल्पक्षीरास तथा गावॊ भविष्यन्ति जनाधिप अल्पपुष्पफलाश चापि पादपा बहु वायसाः 38 बरह्म वध्यावलॊप्तानां तथा मिथ्याभिशंसिनाम नृपाणां पृथिवीपाल परतिगृह्णन्ति वै दविजाः 39 लॊभमॊहपरीताश च मिथ्या धर्मध्वजावृताः भिक्षार्थं पृथिवीपाल चञ्चूर्यन्ते दविजैर दिशः 40 करभार भयात पुंसॊ गृहस्थाः परिमॊषकाः मुनिछद्माकृति छन्ना वाणिज्यम उपजीवते 41 मिथ्या च नखरॊमाणि धारयन्ति नरास तदा अर्थलॊभान नरव्याघ्र वृथा च बरह्मचारिणः 42 आश्रमेषु वृथाचाराः पानपा गुरुतल्पगाः ऐह लौकिकम ईहन्ते मांसशॊणितवर्धनम 43 बहु पाषण्ड संकीर्णाः परान्न गुणवादिनः आश्रमा मनुजव्याघ्रन भवन्ति युगक्षये 44 यथर्तु वर्षी भगवान न तथा पाकशासनः न तदा सर्वबीजानि सम्यग रॊहन्ति भारत अधर्मफलम अत्यर्थं तदा भवति चानघ 45 तथा च पृथिवीपाल यॊ भवेद धर्मसंयुतः अल्पायुः स हि मन्तव्यॊ न हि धर्मॊ ऽसति कश चन 46 भूयिष्ठं कूटमानैश च पण्यं विक्रीणते जनाः वणिजश च नरव्याघ्र बहु माया भवन्त्य उत 47 धर्मिष्ठाः परिहीयन्ते पापीयान वर्धते जनः धर्मस्य बलहानिः सयाद अधर्मश च बली तथा 48 अल्पायुषॊ दरिद्राश च धर्मिष्ठा मानवास तदा दीर्घायुषः समृद्धाश च विधर्माणॊ युगक्षये 49 अधर्मिष्ठैर उपायैश च परजा वयवहरन्त्य उत संचयेनापि चाल्पेन भवन्त्य आढ्या मदान्विताः 50 धनं विश्वासतॊ नयस्तं मिथॊ भूयिष्ठशॊ नराः हर्तुं वयवसिता राजन मायाचार समन्विताः 51 पुरुषादानि सत्त्वानि पक्षिणॊ ऽथ मृगास तथा नगराणां विहारेषु चैत्येष्व अपि च शेरते 52 सप्त वर्षाष्ट वर्षाश च सत्रियॊ गर्भधरा नृप दश दवादश वर्षाणां पुंसां पुत्रः परजायते 53 भवन्ति षॊडशे वर्षे नराः पलितिनस तथा आयुः कषयॊ मनुष्याणां कषिप्रम एव परपद्यते 54 कषीणे युगे महाराज तरुणा वृद्धशीलिनः तरुणानां च यच छीलं तद वृद्धेषु परजायते 55 विपरीतास तदा नार्यॊ वञ्चयित्वा रहॊ पतीन वयुच्चरन्त्य अपि दुःशीला दासैः पशुभिर एव च 56 तस्मिन युगसहस्रान्ते संप्राप्ते चायुषः कषये अनावृष्टिर महाराज जायते बहु वार्षिकी 57 ततस तान्य अल्पसाराणि सत्त्वानि कषुधितानि च परलयं यान्ति भूयिष्ठं पृथिव्यां पृथिवीपते 58 ततॊ दिनकरैर दीप्तैः सप्तभिर मनुजाधिप पीयते सलिलं सर्वं समुद्रेषु सरित्सु च 59 यच च काष्ठं तृणं चापि शुष्कं चार्द्रं च भारत सर्वं तद भस्मसाद भूतं दृश्यते भरतर्षभः 60 ततः संवर्तकॊ वह्निर वायुना सह भारत लॊकम आविशते पूर्वम आदित्यैर उपशॊषितम 61 ततः स पृथिवीं भित्त्वा समाविश्य रसातलम देवदानव यक्षाणां भयं जनयते महत 62 निर्दहन नागलॊकं च यच च किं चित कषिताव इह अधस्तात पृथिवीपाल सर्वं नाशयते कषणात 63 ततॊ यॊजनविंशानां सहस्राणि शतानि च निर्दहत्य अशिवॊ वायुः स च संवर्तकॊ ऽनलः 64 सदेवासुरगन्धर्वं सयक्षॊरग राक्षसम ततॊ दहति दीप्तः स सर्वम एव जगद विभुः 65 ततॊ गजकुलप्रख्यास तडिन माला विभूषिताः उत्तिष्ठन्ति महामेघा नभस्य अद्भुतदर्शनाः 66 के चिन नीलॊत्पलश्यामाः के चित कुमुदसंनिभाः के चित किञ्जल्कसंकाशाः के चित पीताः पयॊधराः 67 के चिद धारिद्र संकाशाः काकाण्डक निभास तथा के चित कमलपत्राभाः केचिद धिङ्गुलक परभाः 68 के चित पुरवराकाराः के चिद गजकुलॊपमाः के चिद अञ्जनसंकाशाः के चिन मकरसंस्थिताः विद्युन्माला पिनद्धाङ्गाः समुत्तिष्ठन्ति वै घनाः 69 घॊररूपा महाराज घॊरस्वननिनादिताः ततॊ जलधराः सर्वे वयाप्नुवन्ति नभस्तलम 70 तैर इयं पृथिवी सर्वा सपर्वतवनाकरा आपूर्यते महाराज सलिलौघपरिप्लुता 71 ततस ते जलदा घॊरा राविणः पुरुषर्षभ सर्वतः पलावयन्त्य आशु चॊदिताः परमेष्ठिना 72 वर्षमाणा महत तॊयं पूरयन्तॊ वसुंधराम सुघॊरम अशिवं रौद्रं नाशयन्ति च पावकम 73 ततॊ दवादश वर्षाणि पयॊदास त उपप्लवे धाराभिः पूरयन्तॊ वै चॊद्यमाना महात्मना 74 ततः समुद्रः सवां वेलाम अतिक्रामति भारत पर्वताश च विशीर्यन्ते मही चापि विशीर्यते 75 सर्वतः सहसा भरान्तास ते पयॊदा नभस्तलम संवेष्टयित्वा नश्यन्ति वायुवेगपराहताः 76 ततस तं मारुतं घॊरं सवयम्भूर मनुजाधिप आदि पद्मालयस्ल देवः पीत्वा सवपिति भारत 77 तस्मिन्न एकार्णवे घॊरे नष्टे सथावरजङ्गमे नष्टे देवासुरगणे यक्षाराक्षस वर्जिते 78 निर्मनुष्ये महीपाल निःश्वापद महीरुहे अनन्तरिक्षे लॊके ऽसमिन भरमाम्य एकॊ ऽहम आदृतः 79 एकार्णवे जले घॊरे विचरन पार्थिवॊत्तम अपश्यन सर्वभूतानि वैक्लव्यम अगमं परम 80 ततः सुदीर्घं गत्वा तु पलवमानॊ नराधिप शरान्तः कव चिन न शरणं लभाम्य अहम अतन्द्रितः 81 ततः कदा चित पश्यामि तस्मिन सलिलसंप्लवे नयग्रॊधं सुमहान्तं वै विशालं पृथिवीपते 82 शाखायां तस्य वृक्षस्य विस्तीर्णायां नराधिप पर्यङ्के पृथिवीपाल दिव्यास्तरण संस्तृते 83 उपविष्टं महाराज पूर्णेन्दुसदृशाननम फुल्लपद्मविशालाक्षं बालं पश्यामि भारत 84 ततॊ मे पृथिवीपाल विस्मयः सुमहान अभूत कथं तव अयं शिशुः शेते लॊके नाशम उपागते 85 तपसा चिन्तयंश चापि तं शिशुं नॊपलक्षये भूतं भव्यं भविष्यच च जानन्न अपि नराधिप 86 अतसी पुष्पवर्णाभः शरीवत्स कृतलक्षणः साक्षाल लक्ष्म्या इवावासः स तदा परतिभाति मे 87 ततॊ माम अब्रवीद बालः स पद्मनिभ लॊचनः शरीवत्स धारी दयुतिमान वाक्यं शरुतिसुखावहम 88 जानामि तवा परिश्रान्तं तात विश्रामकाङ्क्षिणम मार्कण्डेय इहास्स्व तवं यावद इच्छसि भार्गव 89 अभ्यन्तरं शरीरं मे परविश्य मुनिसत्तम आस्स्व भॊ विहितॊ वासः परसादस ते कृतॊ मया 90 ततॊ बालेन तेनैवम उक्तस्यासीत तदा मम निर्वेदॊ जीविते दीर्घे मनुष्यत्व च भारत 91 ततॊ बालेन तेनास्यं सहसा विवृतं कृतम तस्याहम अवशॊ वक्त्रं दैवयॊगात परवेशितः 92 ततः परविष्टस तत कुक्षिं सहसा मनुजाधिप सराष्ट्रनगराकीर्णां कृत्स्नां पश्यामि मेदिनीम 93 गङ्गां शतद्रुं सीतां च यमुनाम अथ कौशिकीम चर्मण्वतीं वेत्रवतीं चन्द्रभागां सरस्वतीम 94 सिन्धुं चैव विपाशां च नदीं गॊदावरीम अपि वस्वॊकसारां नलिनीं नर्मदां चैव भारत 95 नदीं ताम्रां च वेण्णां च पुण्यतॊयां शुभावहाम सुवेणां कृष्णवेणां च इरामां च महानदीम शॊणं च पुरुषव्याघ्र विशल्यां कम्पुनाम अपि 96 एताश चान्याश च नद्यॊ ऽहं पृथिव्यां या नरॊत्तम परिक्रामन परपश्यामि तस्य कुक्षौ महात्मनः 97 ततः समुद्रं पश्यामि यादॊगणनिषेवितम रत्नाकरम अमित्रघ्न निधानं पयसॊ महत 98 ततः पश्यामि गगनं चन्द्रसूर्यविराजितम जाज्वल्यमानं तेजॊभिः पावकार्क समप्रभैः पश्यामि च महीं राजन कानकैर उपशॊभिताम 99 यजन्ते हि तदा राजन बराह्मणा बहुभिः सवैः कषत्रियाश च परवर्तन्ते सर्ववर्णानुरञ्जने 100 वैश्याः कृषिं यथान्यायं कारयन्ति नराधिप शुश्रूषायां च निरता दविजानां वृषलास तथा 101 ततः परिपतन राजंस तस्य कुक्षौ महात्मनः हिमवन्तं च पश्यामि हेमकूटं च पर्वतम 102 निषधं चापि पश्यामि शवेतं च रजता चितम पश्यामि च महीपाल पर्वतं गन्धमादनम 103 मन्दरं मनुजव्याघ्रनीलं चापि महागिरिम पश्यामि च महाराज मेरुं कनकपर्वतम 104 महेन्द्रं चैव पश्यामि विन्ध्यं च गिरिम उत्तमम मलयं चापि पश्यामि पारियात्रं च पर्वतम 105 एते चान्ये च बहवॊ यावन्तः पृथिवीधराः तस्यॊदरे मया दृष्टाः सर्वरत्नविभूषिताः 106 सिंहान वयाघ्रान वराहांश च नागांश च मनुजाधिप पृथिव्यां यानि चान्यानि सत्त्वानि जगतीपते तानि सर्वाण्य अहं तत्र पश्यन पर्यचरं तदा 107 कुक्षौ तस्य नरव्याघ्र परविष्टः संचरन दिशः शक्रादींश चापि पश्यामि कृत्स्नान देवगणांस तथा 108 गन्धर्वाप्सरसॊ यक्षान ऋषींश चैव महीपते दैत्यदानव संघांश च ये चान्ये सुरशत्रवः 109 यच च किं चिन मया लॊके दृष्टं सथावरजङ्गमम तद अपश्यम अहं सर्वं तस्य कुक्षौ महात्मनः फलाहारः परविचरन कृत्स्नं जगद इदं तदा 110 अन्तः शरीरे तस्याहं वर्षाणाम अधिकं शतम न च पश्यामि तस्याहम अन्तं देहस्य कुत्र चित 111 सततं धावमानश च चिन्तयानॊ विशां पते आसादयामि नैतान्तं तस्य राजन महात्मनः 112 ततस तम एव शरणं गतॊ ऽसमि विधिवत तदा वरेण्यं वरदं देवं मनसा कर्मणैव च 113 ततॊ ऽहं सहसा राजन वायुवेगेन निःसृतः महात्मानॊ मुखात तस्य विवृतात पुरुषॊत्तम 114 ततस तस्यैव शाखायां नयग्रॊघस्य विशां पते आस्ते मनुजशार्दूल कृत्स्नम आदाय वै जगत 115 तेनैव बाल वेषेण शरीवत्स कृतलक्षणम आसीनं तं नरव्याघ्र पश्याम्य अमिततेजसम 116 ततॊ माम अब्रवीद वीर स बालः परहसन्न इव शरीवत्स धारी दयुतिमान पीतवासा महाद्युतिः 117 अपीदानीं शरीरे ऽसमिन मामके मुनिसत्तम उषितस तवं सुविश्रान्तॊ मार्कण्डेय बरवीहि मे 118 मुहूर्ताद अथ मे दृष्टिः परादुर्भूता पुनर नवा यया निर्मुक्तम आत्मानम अपश्यं लब्धचेतसम 119 तस्य ताम्रतलौ तात चरणौ सुप्रतिष्ठितौ सुजातौ मृदु रक्ताभिर अङ्गुलीभिर अलंकृतौ 120 परयतेन मया मूर्ध्ना गृहीत्वा हय अभिवन्दितौ दृष्ट्वापरिमितं तस्य परभावम अमितौजसः 121 विनयेनाञ्जलिं कृत्वा परयत्नेनॊपगम्य च दृष्टॊ मया स भूतात्मा देवः कमललॊचनः 122 तम अहं पराञ्जलिर भूत्वा नमस्कृत्येदम अब्रुवम जञातुम इच्छामि देव तवां मायां चेमां तवॊत्तमाम 123 आस्येनानुप्रविष्टॊ ऽहं शरीरं भगवंस तव दृष्टवान अखिलाँल लॊकान समस्ताज जठरे तव 124 तव देव शरीरस्था देवदानवराक्षसाः यक्षगन्धर्वनागाश च जगत सथावरजङ्गमम 125 तवत्प्रसादाच च मे देव समृतिर न परिहीयते दरुतम अन्तः शरीरे ते सततं परिधावतः 126 इच्छामि पुण्डरीकाक्ष जञातुं तवाहम अनिन्दित इह भूत्वा शिशुः साक्षात किं भवान अवतिष्ठते पीत्वा जगद इदं विश्वम एतद आख्यातुम अर्हसि 127 किमर्थं च जगत सर्वं शरीरस्थं तवानघ कियन्तं च तवया कालम इह सथेयम अरिंदम 128 एतद इच्छामि देवेश शरॊतुं बराह्मण काम्यया तवत्तः कमलपत्राक्ष विस्तरेण यथातथम महद धयेतद अचिन्त्यं च यद अहं दृष्टवान परभॊ 129 इत्य उक्तः स मया शरीमान देवदेवॊ महाद्युतिः सान्त्वयन माम इदं वाक्यम उवाच वदतां वरः |
1
[vai] tataḥ sa punar evātha mārkaṇḍeyaṃ yaśasvinam papraccha vinayopeto dharmarājo yudhiṣṭhiraḥ 2 naike yugasahasrāntās tvayā dṛṣṭā mahāmune na cāpīha samaḥ kaś cid āyuṣā tava vidyate varjayitvā mahātmānaṃ brāhmaṇaṃ parameṣṭhinam 3 anantarikṣe loke 'smin devadānava varjite tvam eva pralaye vipra brāhmaṇam upatiṣṭhasi 4 pralaye cāpi nirvṛtte prabuddhe ca pitāmahe tvam eva sṛjyamānāni bhūtānīha prapaśyasi 5 caturvidhāni viprarṣe yathāvat parameṣṭhinā vāyubhūtā diśaḥ kṛtvā vikṣipyāpas tatas tataḥ 6 tvayā lokaguruḥ sākṣāt sarvalokapitāmahaḥ ārādhito dvijaśreṣṭha tatpareṇa samādhinā 7 tasmāt sarvāntako mṛtyur jarā vā dehanāśinī na tvā viśati viprarṣe prasādāt parameṣṭhinaḥ 8 yadā naiva ravir nāgnir na vāyur na ca candramaḥ naivāntarikṣaṃ naivorvī śeṣaṃ bhavati kiṃ cana 9 tasminn ekārṇave loke naṣṭe sthāvarajaṅgame naṣṭe devāsuragaṇe samutsanna mahorage 10 śayānam amitātmānaṃ padme padmaniketanam tvam ekaḥ sarvabhūteśaṃ brahmāṇam upatiṣṭhasi 11 etat pratyakṣataḥ sarvaṃ pūrvavṛttaṃ dvijottama tasmād icchāmahe śrotuṃ sarvahetv ātmikāṃ kathām 12 anubhūtaṃ hi bahuśas tvayaikena dvijottama na te 'sty aviditaṃ kiṃ cit sarvalokeṣu nityadā 13 [mārk] hanta te kathayiṣyāmi namaskṛtvā svayambhuve puruṣāya purāṇāya śāśvatāyāvyayāya ca 14 ya eṣa pṛthudīrghākṣaḥ pītavāsā janārdanaḥ eṣa kartā vikartā ca sarvabhāvana bhūtakṛt 15 acintyaṃ mahad āścaryaṃ pavitram api cottamam anādi nidhanaṃ bhūtaṃ viśvam akṣayam avyayam 16 eṣa kartā na kriyate kāraṇaṃ cāpi pauruṣe yo hy enaṃ puruṣaṃ vetti devā api na taṃ viduḥ 17 sarvam āścaryam evaitan nirvṛttaṃ rājasattama ādito manujavyāghrakṛtsnasya jagataḥ kṣaye 18 catvāry āhuḥ sahasrāṇi varṣāṇāṃ tat kṛtaṃ yugam tasya tāvac chatī saṃdhyā saṃdhyāṃśaś ca tataḥ param 19 trīṇi varṣasahasrāṇi treyā yugam ihocyate tasya tāvac chatī saṃdhyā saṃdhyāṃśaś ca tataḥ param 20 tathā varṣasahasre dve dvāparaṃ parimāṇataḥ tasyāpi dviśatī saṃdhyā saṃkhyāṃśaś ca tataḥ param 21 sahasram ekaṃ varṣāṇāṃ tataḥ kaliyugaṃ smṛtam tasya varṣaśataṃ saṃdhyā saṃdhyāṃśaś ca tataḥ param saṃdhyāsaṃdhyāṃśayos tulyaṃ pramāṇam upadhāraya 22 kṣīṇe kaliyuge caiva pravartati kṛtaṃ yugam eṣā dvādaśa sāhasrī yugākhyā parikīrtitā 23 etat sahasraparyantam ahar brāhmam udāhṛtam viśvaṃ hi brahmabhavane sarvaśaḥ parivartate lokānāṃ manujavyāghrapralayaṃ taṃ vidur budhāḥ 24 alpāvaśiṣṭe tu tadā yugānte bharatarṣabha sahasrānte narāḥ sarve prāyaśo 'nṛtavādinaḥ 25 yajñapratinidhiḥ pārtha dānapratinidhis tathā vrataprati nidhiś caiva tasmin kāle pravartate 26 brāhmaṇāḥ śūdra karmāṇas tathā śūdrā dhanārjakāḥ kṣatradharmeṇa vāpy atra vartayanti gate yuge 27 nivṛttayajñasvādhyāyāḥ piṇḍodakavivarjitāḥ brāhmaṇāḥ sarvabhakṣāś ca bhaviṣyanti kalau yuge 28 ajapā brāhmaṇās tāta śūdrā japa parāyaṇāḥ viparīte tadā loke pūrvarūpaṃ kṣayasya tat 29 bahavo meccha rājānaḥ pṛthivyāṃ manujādhipa mithyānuśāsinaḥ pāpā mṛṣāvādaparāyaṇāḥ 30 āndhrāḥ śakāḥ pulindāś ca yavanāś ca narādhipāḥ kāmbojā aurṇikāḥ śūdrās tathābhīrā narottama 31 na tadā brāhmaṇaḥ kaś cit svadharmam upajīvati kṣatriyā api vaiśyāś ca vikarmasthā narādhipa 32 alpāyuṣaḥ svalpa balā alpatejaḥ parākramāḥ alpadehālpa sārāś ca tathā satyālpa bhāṣiṇaḥ 33 bahu śūnyā janapadā mṛgavyālāvṛtā diśaḥ yugānte samanuprāpte vṛthā ca brahmacāriṇaḥ bhogādinas tathā śūdrā brāhmaṇāś cāryavādinaḥ 34 yugānte manujavyāghrabhavanti bahu jantavaḥ na tathā ghrāṇayuktāś ca sarvagandhā viśāṃ pate rasāś ca manujavyāghrana tathā svādu yoginaḥ 35 bahu prajā hrasvadehāḥ śīlācāra vivarjitāḥ mukhe bhagāḥ striyo rājan bhaviṣyanti yugakṣaye 36 aṭṭaśūlā janapadāḥ śiva śūlāś catuṣpathāḥ keśaśūlāḥ striyo rājan bhaviṣyanti yugakṣaye 37 alpakṣīrās tathā gāvo bhaviṣyanti janādhipa alpapuṣpaphalāś cāpi pādapā bahu vāyasāḥ 38 brahma vadhyāvaloptānāṃ tathā mithyābhiśaṃsinām nṛpāṇāṃ pṛthivīpāla pratigṛhṇanti vai dvijāḥ 39 lobhamohaparītāś ca mithyā dharmadhvajāvṛtāḥ bhikṣārthaṃ pṛthivīpāla cañcūryante dvijair diśaḥ 40 karabhāra bhayāt puṃso gṛhasthāḥ parimoṣakāḥ munichadmākṛti channā vāṇijyam upajīvate 41 mithyā ca nakharomāṇi dhārayanti narās tadā arthalobhān naravyāghra vṛthā ca brahmacāriṇaḥ 42 āśrameṣu vṛthācārāḥ pānapā gurutalpagāḥ aiha laukikam īhante māṃsaśoṇitavardhanam 43 bahu pāṣaṇḍa saṃkīrṇāḥ parānna guṇavādinaḥ āśramā manujavyāghrana bhavanti yugakṣaye 44 yathartu varṣī bhagavān na tathā pākaśāsanaḥ na tadā sarvabījāni samyag rohanti bhārata adharmaphalam atyarthaṃ tadā bhavati cānagha 45 tathā ca pṛthivīpāla yo bhaved dharmasaṃyutaḥ alpāyuḥ sa hi mantavyo na hi dharmo 'sti kaś cana 46 bhūyiṣṭhaṃ kūṭamānaiś ca paṇyaṃ vikrīṇate janāḥ vaṇijaś ca naravyāghra bahu māyā bhavanty uta 47 dharmiṣṭhāḥ parihīyante pāpīyān vardhate janaḥ dharmasya balahāniḥ syād adharmaś ca balī tathā 48 alpāyuṣo daridrāś ca dharmiṣṭhā mānavās tadā dīrghāyuṣaḥ samṛddhāś ca vidharmāṇo yugakṣaye 49 adharmiṣṭhair upāyaiś ca prajā vyavaharanty uta saṃcayenāpi cālpena bhavanty āḍhyā madānvitāḥ 50 dhanaṃ viśvāsato nyastaṃ mitho bhūyiṣṭhaśo narāḥ hartuṃ vyavasitā rājan māyācāra samanvitāḥ 51 puruṣādāni sattvāni pakṣiṇo 'tha mṛgās tathā nagarāṇāṃ vihāreṣu caityeṣv api ca śerate 52 sapta varṣāṣṭa varṣāś ca striyo garbhadharā nṛpa daśa dvādaśa varṣāṇāṃ puṃsāṃ putraḥ prajāyate 53 bhavanti ṣoḍaśe varṣe narāḥ palitinas tathā āyuḥ kṣayo manuṣyāṇāṃ kṣipram eva prapadyate 54 kṣīṇe yuge mahārāja taruṇā vṛddhaśīlinaḥ taruṇānāṃ ca yac chīlaṃ tad vṛddheṣu prajāyate 55 viparītās tadā nāryo vañcayitvā raho patīn vyuccaranty api duḥśīlā dāsaiḥ paśubhir eva ca 56 tasmin yugasahasrānte saṃprāpte cāyuṣaḥ kṣaye anāvṛṣṭir mahārāja jāyate bahu vārṣikī 57 tatas tāny alpasārāṇi sattvāni kṣudhitāni ca pralayaṃ yānti bhūyiṣṭhaṃ pṛthivyāṃ pṛthivīpate 58 tato dinakarair dīptaiḥ saptabhir manujādhipa pīyate salilaṃ sarvaṃ samudreṣu saritsu ca 59 yac ca kāṣṭhaṃ tṛṇaṃ cāpi śuṣkaṃ cārdraṃ ca bhārata sarvaṃ tad bhasmasād bhūtaṃ dṛśyate bharatarṣabhaḥ 60 tataḥ saṃvartako vahnir vāyunā saha bhārata lokam āviśate pūrvam ādityair upaśoṣitam 61 tataḥ sa pṛthivīṃ bhittvā samāviśya rasātalam devadānava yakṣāṇāṃ bhayaṃ janayate mahat 62 nirdahan nāgalokaṃ ca yac ca kiṃ cit kṣitāv iha adhastāt pṛthivīpāla sarvaṃ nāśayate kṣaṇāt 63 tato yojanaviṃśānāṃ sahasrāṇi śatāni ca nirdahaty aśivo vāyuḥ sa ca saṃvartako 'nalaḥ 64 sadevāsuragandharvaṃ sayakṣoraga rākṣasam tato dahati dīptaḥ sa sarvam eva jagad vibhuḥ 65 tato gajakulaprakhyās taḍin mālā vibhūṣitāḥ uttiṣṭhanti mahāmeghā nabhasy adbhutadarśanāḥ 66 ke cin nīlotpalaśyāmāḥ ke cit kumudasaṃnibhāḥ ke cit kiñjalkasaṃkāśāḥ ke cit pītāḥ payodharāḥ 67 ke cid dhāridra saṃkāśāḥ kākāṇḍaka nibhās tathā ke cit kamalapatrābhāḥ kecid dhiṅgulaka prabhāḥ 68 ke cit puravarākārāḥ ke cid gajakulopamāḥ ke cid añjanasaṃkāśāḥ ke cin makarasaṃsthitāḥ vidyunmālā pinaddhāṅgāḥ samuttiṣṭhanti vai ghanāḥ 69 ghorarūpā mahārāja ghorasvananināditāḥ tato jaladharāḥ sarve vyāpnuvanti nabhastalam 70 tair iyaṃ pṛthivī sarvā saparvatavanākarā āpūryate mahārāja salilaughapariplutā 71 tatas te jaladā ghorā rāviṇaḥ puruṣarṣabha sarvataḥ plāvayanty āśu coditāḥ parameṣṭhinā 72 varṣamāṇā mahat toyaṃ pūrayanto vasuṃdharām sughoram aśivaṃ raudraṃ nāśayanti ca pāvakam 73 tato dvādaśa varṣāṇi payodās ta upaplave dhārābhiḥ pūrayanto vai codyamānā mahātmanā 74 tataḥ samudraḥ svāṃ velām atikrāmati bhārata parvatāś ca viśīryante mahī cāpi viśīryate 75 sarvataḥ sahasā bhrāntās te payodā nabhastalam saṃveṣṭayitvā naśyanti vāyuvegaparāhatāḥ 76 tatas taṃ mārutaṃ ghoraṃ svayambhūr manujādhipa ādi padmālayasl devaḥ pītvā svapiti bhārata 77 tasminn ekārṇave ghore naṣṭe sthāvarajaṅgame naṣṭe devāsuragaṇe yakṣārākṣasa varjite 78 nirmanuṣye mahīpāla niḥśvāpada mahīruhe anantarikṣe loke 'smin bhramāmy eko 'ham ādṛtaḥ 79 ekārṇave jale ghore vicaran pārthivottama apaśyan sarvabhūtāni vaiklavyam agamaṃ param 80 tataḥ sudīrghaṃ gatvā tu plavamāno narādhipa śrāntaḥ kva cin na śaraṇaṃ labhāmy aham atandritaḥ 81 tataḥ kadā cit paśyāmi tasmin salilasaṃplave nyagrodhaṃ sumahāntaṃ vai viśālaṃ pṛthivīpate 82 śākhāyāṃ tasya vṛkṣasya vistīrṇāyāṃ narādhipa paryaṅke pṛthivīpāla divyāstaraṇa saṃstṛte 83 upaviṣṭaṃ mahārāja pūrṇendusadṛśānanam phullapadmaviśālākṣaṃ bālaṃ paśyāmi bhārata 84 tato me pṛthivīpāla vismayaḥ sumahān abhūt kathaṃ tv ayaṃ śiśuḥ śete loke nāśam upāgate 85 tapasā cintayaṃś cāpi taṃ śiśuṃ nopalakṣaye bhūtaṃ bhavyaṃ bhaviṣyac ca jānann api narādhipa 86 atasī puṣpavarṇābhaḥ śrīvatsa kṛtalakṣaṇaḥ sākṣāl lakṣmyā ivāvāsaḥ sa tadā pratibhāti me 87 tato mām abravīd bālaḥ sa padmanibha locanaḥ śrīvatsa dhārī dyutimān vākyaṃ śrutisukhāvaham 88 jānāmi tvā pariśrāntaṃ tāta viśrāmakāṅkṣiṇam mārkaṇḍeya ihāssva tvaṃ yāvad icchasi bhārgava 89 abhyantaraṃ śarīraṃ me praviśya munisattama āssva bho vihito vāsaḥ prasādas te kṛto mayā 90 tato bālena tenaivam uktasyāsīt tadā mama nirvedo jīvite dīrghe manuṣyatva ca bhārata 91 tato bālena tenāsyaṃ sahasā vivṛtaṃ kṛtam tasyāham avaśo vaktraṃ daivayogāt praveśitaḥ 92 tataḥ praviṣṭas tat kukṣiṃ sahasā manujādhipa sarāṣṭranagarākīrṇāṃ kṛtsnāṃ paśyāmi medinīm 93 gaṅgāṃ śatadruṃ sītāṃ ca yamunām atha kauśikīm carmaṇvatīṃ vetravatīṃ candrabhāgāṃ sarasvatīm 94 sindhuṃ caiva vipāśāṃ ca nadīṃ godāvarīm api vasvokasārāṃ nalinīṃ narmadāṃ caiva bhārata 95 nadīṃ tāmrāṃ ca veṇṇāṃ ca puṇyatoyāṃ śubhāvahām suveṇāṃ kṛṣṇaveṇāṃ ca irāmāṃ ca mahānadīm śoṇaṃ ca puruṣavyāghra viśalyāṃ kampunām api 96 etāś cānyāś ca nadyo 'haṃ pṛthivyāṃ yā narottama parikrāman prapaśyāmi tasya kukṣau mahātmanaḥ 97 tataḥ samudraṃ paśyāmi yādogaṇaniṣevitam ratnākaram amitraghna nidhānaṃ payaso mahat 98 tataḥ paśyāmi gaganaṃ candrasūryavirājitam jājvalyamānaṃ tejobhiḥ pāvakārka samaprabhaiḥ paśyāmi ca mahīṃ rājan kānakair upaśobhitām 99 yajante hi tadā rājan brāhmaṇā bahubhiḥ savaiḥ kṣatriyāś ca pravartante sarvavarṇānurañjane 100 vaiśyāḥ kṛṣiṃ yathānyāyaṃ kārayanti narādhipa śuśrūṣāyāṃ ca niratā dvijānāṃ vṛṣalās tathā 101 tataḥ paripatan rājaṃs tasya kukṣau mahātmanaḥ himavantaṃ ca paśyāmi hemakūṭaṃ ca parvatam 102 niṣadhaṃ cāpi paśyāmi śvetaṃ ca rajatā citam paśyāmi ca mahīpāla parvataṃ gandhamādanam 103 mandaraṃ manujavyāghranīlaṃ cāpi mahāgirim paśyāmi ca mahārāja meruṃ kanakaparvatam 104 mahendraṃ caiva paśyāmi vindhyaṃ ca girim uttamam malayaṃ cāpi paśyāmi pāriyātraṃ ca parvatam 105 ete cānye ca bahavo yāvantaḥ pṛthivīdharāḥ tasyodare mayā dṛṣṭāḥ sarvaratnavibhūṣitāḥ 106 siṃhān vyāghrān varāhāṃś ca nāgāṃś ca manujādhipa pṛthivyāṃ yāni cānyāni sattvāni jagatīpate tāni sarvāṇy ahaṃ tatra paśyan paryacaraṃ tadā 107 kukṣau tasya naravyāghra praviṣṭaḥ saṃcaran diśaḥ śakrādīṃś cāpi paśyāmi kṛtsnān devagaṇāṃs tathā 108 gandharvāpsaraso yakṣān ṛṣīṃś caiva mahīpate daityadānava saṃghāṃś ca ye cānye suraśatravaḥ 109 yac ca kiṃ cin mayā loke dṛṣṭaṃ sthāvarajaṅgamam tad apaśyam ahaṃ sarvaṃ tasya kukṣau mahātmanaḥ phalāhāraḥ pravicaran kṛtsnaṃ jagad idaṃ tadā 110 antaḥ śarīre tasyāhaṃ varṣāṇām adhikaṃ śatam na ca paśyāmi tasyāham antaṃ dehasya kutra cit 111 satataṃ dhāvamānaś ca cintayāno viśāṃ pate āsādayāmi naitāntaṃ tasya rājan mahātmanaḥ 112 tatas tam eva śaraṇaṃ gato 'smi vidhivat tadā vareṇyaṃ varadaṃ devaṃ manasā karmaṇaiva ca 113 tato 'haṃ sahasā rājan vāyuvegena niḥsṛtaḥ mahātmāno mukhāt tasya vivṛtāt puruṣottama 114 tatas tasyaiva śākhāyāṃ nyagroghasya viśāṃ pate āste manujaśārdūla kṛtsnam ādāya vai jagat 115 tenaiva bāla veṣeṇa śrīvatsa kṛtalakṣaṇam āsīnaṃ taṃ naravyāghra paśyāmy amitatejasam 116 tato mām abravīd vīra sa bālaḥ prahasann iva śrīvatsa dhārī dyutimān pītavāsā mahādyutiḥ 117 apīdānīṃ śarīre 'smin māmake munisattama uṣitas tvaṃ suviśrānto mārkaṇḍeya bravīhi me 118 muhūrtād atha me dṛṣṭiḥ prādurbhūtā punar navā yayā nirmuktam ātmānam apaśyaṃ labdhacetasam 119 tasya tāmratalau tāta caraṇau supratiṣṭhitau sujātau mṛdu raktābhir aṅgulībhir alaṃkṛtau 120 prayatena mayā mūrdhnā gṛhītvā hy abhivanditau dṛṣṭvāparimitaṃ tasya prabhāvam amitaujasaḥ 121 vinayenāñjaliṃ kṛtvā prayatnenopagamya ca dṛṣṭo mayā sa bhūtātmā devaḥ kamalalocanaḥ 122 tam ahaṃ prāñjalir bhūtvā namaskṛtyedam abruvam jñātum icchāmi deva tvāṃ māyāṃ cemāṃ tavottamām 123 āsyenānupraviṣṭo 'haṃ śarīraṃ bhagavaṃs tava dṛṣṭavān akhilāṁl lokān samastāj jaṭhare tava 124 tava deva śarīrasthā devadānavarākṣasāḥ yakṣagandharvanāgāś ca jagat sthāvarajaṅgamam 125 tvatprasādāc ca me deva smṛtir na parihīyate drutam antaḥ śarīre te satataṃ paridhāvataḥ 126 icchāmi puṇḍarīkākṣa jñātuṃ tvāham anindita iha bhūtvā śiśuḥ sākṣāt kiṃ bhavān avatiṣṭhate pītvā jagad idaṃ viśvam etad ākhyātum arhasi 127 kimarthaṃ ca jagat sarvaṃ śarīrasthaṃ tavānagha kiyantaṃ ca tvayā kālam iha stheyam ariṃdama 128 etad icchāmi deveśa śrotuṃ brāhmaṇa kāmyayā tvattaḥ kamalapatrākṣa vistareṇa yathātatham mahad dhyetad acintyaṃ ca yad ahaṃ dṛṣṭavān prabho 129 ity uktaḥ sa mayā śrīmān devadevo mahādyutiḥ sāntvayan mām idaṃ vākyam uvāca vadatāṃ varaḥ |
The Mahabharata in Sanskrit
Book 3
Chapter 187
|
1
[देव] कामं देवापि मां विप्र न विजानन्ति तत्त्वतः तवत परीत्या तु परवक्ष्यामि यथेदं विसृजाम्य अहम 2 पितृभक्तॊ ऽसि विप्रर्षे मां चैव शरणं गतः अतॊ दृष्टॊ ऽसमि ते साक्षाद बरह्मचर्यं च ते महत 3 आपॊ नारा इति परॊक्ताः संज्ञा नाम कृतं मया तेन नारायणॊ ऽसम्य उक्तॊ मम तद धययनं सदा 4 अहं नारायणॊ नाम परभवः शाश्वतॊ ऽवययः विधाता सर्वभूतानां संहर्ता च दविजॊत्तम 5 अहं विष्णुर अहं बरह्मा शक्रश चाहं सुराधिपः अहं वैश्रवणॊ राजा यमः परेताधिपस तथा 6 अहं शिवश च सॊमश च कश्यपश च परजापतिः अहं धाता विधाता च यज्ञश चाहं दविजॊत्तम 7 अग्निर आस्यं कषितिः पादौ चन्द्रादित्यौ च लॊचने सदिशं च नभॊ कायॊ वायुर मनसि मे सथितः 8 मया करतुशतैर इष्टं बहुभिः सवाप्तदक्षिणैः यजन्ते वेदविदुषॊ मां देवयजने सथितम 9 पृथिव्यां कषत्रियेन्द्राश च पार्थिवाः सवर्गकाङ्क्षिणः यजन्ते मां तथा वैश्याः सवर्गलॊकजिगीषवः 10 चतुःसमुद्र पर्यन्तां मेरुमन्दर भूषणाम शेषॊ भूत्वाहम एवैतां धारयामि वसुंधराम 11 वाराहं रूपम आस्थाय मयेयं जगती पुरा मज्जमाना जले विप्र वीर्येणासीत समुद्धृता 12 अग्निश च वडवा वक्त्रॊ भूत्वाहं दविजसत्तम पिबाम्य अपः समाविद्धास ताश चैव विसृजाम्य अहम 13 बरह्म वक्त्रं भुजौ कषत्रम ऊरू मे संश्रिता विशः पादौ शूद्रा भजन्ते मे विक्रमेण करमेण च 14 ऋग्वेदः सामवेदश च यजुर्वेदॊ ऽपय अथर्वणः मत्तः परादुर्भवन्त्य एते माम एव परविशन्ति च 15 यतयः शान्ति परमा यतात्मानॊ मुमुक्षवः कामक्रॊधद्वेषमुक्ता निःसङ्गा वीतकल्मषाः 16 सत्त्वस्था निरहंकारा नित्यम अध्यात्मकॊविदाः माम एव सततं विप्राश चिन्तयन्त उपासते 17 अहं संवर्तकॊ जयॊतिर अहं सर्वर्तकॊ यमः अहं संवर्तकः सूर्यॊ अहं संवर्तकॊ ऽनिलः 18 तारा रूपाणि दृश्यन्ते यान्य एतानि नभस्तले मम रूपाण्य अथैतानि विद्धि तवं दविजसत्तम 19 रत्नाकराः समुद्राश च सर्व एव चतुर्दिशम वसनं शयनं चैव निलयं चैव विद्धि मे 20 कामं करॊधं च हर्षं च भयं मॊहं तथैव च ममैव विद्धि रूपाणि सर्वाण्य एतानि सत्तम 21 पराप्नुवन्ति नरा विप्र यत्कृत्वा कर्मशॊभनम सत्यं दानं तपॊ चॊग्रम अहिंसा चैव जन्तुषु 22 मद्विधानेन विहिता मम देहविहारिणः मयाभिभूत विज्ञाना विचेष्टन्ते न कामतः 23 सम्यग वेदम अधीयाना यजन्तॊ विविधैर मखैः शान्तात्मानॊ जितक्रॊधाः पराप्नुवन्ति दविजातयः 24 पराप्तुं न शक्यॊ यॊ विद्वन नरैर दुष्कृतकर्मभिः लॊभाभिभूतैः कृपणैर अनार्यैर अकृतात्मभिः 25 तं मां महाफलं विद्धि पदं सुकृतकर्मणः दुष्प्रापं विप्र मूढानां मार्गं यॊगैर निषेवितम 26 यदा यदा च धर्मस्य गलानिर भवति सत्तम अभ्युत्थानम अधर्मस्य तदात्मानं सृजाम्य अहम 27 दैत्या हिंसानुरक्ताश च अवध्याः सुरसत्तमैः राक्षसाश चापि लॊके ऽसमिन यदॊत्पत्स्यन्ति दारुणाः 28 तदाहं संप्रसूयामि गृहेषु शुभकर्मणाम परविष्टॊ मानुषं देहं सर्वं परशमयाम्य अहम 29 सृष्ट्वा देवमनुष्यांश च गन्धर्वॊरगराक्षसान सथावराणि च भूतानि संहराम्य आत्ममायया 30 कर्मकाले पुनर देहम अनुचिन्त्य सृजाम्य अहम परविश्य मानुषं देहं मर्यादा बन्धकारणात 31 शवेतः कृतयुगे वर्णः पीतस तरेतायुगे मम रक्तॊ दवापरम आसाद्य कृष्णः कलियुगे तथा 32 तरयॊ भागा हय अधर्मस्य तस्मिन काले भवन्त्य उत अन्तकाले च संप्राप्ते कालॊ भूत्वातिदारुणः तरैलॊक्यं नाशयाम्य एकः कृत्स्नं सथावरजङ्गमम 33 अहं तरिवर्त्मा सर्वात्मा सर्वलॊकसुखावहः अभिभूः सर्वगॊ ऽनन्तॊ हृषीकेश उरु करमः 34 कालचक्रं नयाम्य एकॊ बरह्मन्न अहम अरूपि वै शमनं सर्वभूतानां सर्वलॊककृतॊद्यमम 35 एवं परणिहितः सम्यङ मयात्मा मुनिसत्तम सर्वभूतेषु विप्रेन्द्र न च मां वेत्ति कश चन 36 यच च किं चित तवया पराप्तं मयि कलेषात्मकं दविज सुखॊदयाय तत सर्वं शरेयसे च तवानघ 37 यच च किं चित तवया लॊके दृष्टं सथावरजङ्गमम विहितः सर्वथैवासौ ममात्मा मुनिसत्तम 38 अर्धं मम शरीरस्य सर्वलॊकपितामहः अहं नारायणॊ नाम शङ्खचक्रगदाधरः 39 यावद युगानां विप्रर्षे सहस्रपरिवर्तनम तावत सवपिमि विश्वात्मा सर्वलॊकपितामहः 40 एवं सर्वम अहं कालम इहासे मुनिसत्तम अशिशुः शिशुरूपेण यावद बरह्मा न बुध्यते 41 मया च विप्र दत्तॊ ऽयं वरस ते बरह्मरूपिणा असकृत परितुष्टेन विप्रर्षिगणपूजित 42 सर्वम एकार्णवं दृष्ट्वा नष्टं सथावरजङ्गमम विक्लवॊ ऽसि मया जञातस ततस ते दर्शितं जगत 43 अभ्यन्तरं शरीरस्य परविष्टॊ ऽसि यदा मम दृष्ट्वा लॊकं समस्तं च विस्मितॊ नावबुध्यसे 44 ततॊ ऽसि वक्त्राद विप्रर्षे दरुतं निःसारितॊ मया आख्यातस ते मया चात्मा दुर्ज्ञेयॊ ऽपि सुरासुरैः 45 यावत स भगवान बरह्मा न बुध्यति महातपः तावत तवम इह विप्रर्षे विश्रब्धश चर वै सुखम 46 ततॊ विभुद्धे तस्मिंस तु सर्वलॊकपितामहे एकीभूतॊ हि सरक्ष्यामि शरीराद दविजसत्तम 47 आकाशं पृथिवीं जयॊतिर वायुं सलिलम एव च लॊके यच च भवेच छेषम इह सथावरजङ्गमम 48 [मार्क] इत्य उक्त्वान्तर्हितस तात स देवः परमाद्भुतः परजाश चेमाः परपश्यामि विचित्रा बहुधा कृताः 49 एतद दृष्टं मया राजंस तस्मिन पराप्ते युगक्षये आश्चर्यं भरतश्रेष्ठ सर्वधर्मभृतां वर 50 यः स देवॊ मया दृष्टः पुरा पद्मनिभेक्षणः स एष पुरुषव्याघ्र संबन्धी ते जनार्दनः 51 अस्यैव वरदानाद धि समृतिर न परजहाति माम दीर्घम आयुश च कौन्तेय सवच्छन्दमरणं तथा 52 स एष कृष्णॊ वार्ष्णेयः पुराणपुरुषॊ विभुः आस्ते हरिर अचिन्त्यात्मा करीडन्न इव महाभुजः 53 एष धाता विधाता च संहर्ता चैव सात्वतः शरीवत्स वक्षा गॊविन्दः परजापतिपतिः परभुः 54 दृष्ट्वेमं वृष्णिशार्दूलं समृतिर माम इयम आगता आदिदेवम अजं विष्णुं पुरुषं पीतवाससम 55 सर्वेषाम एव भूतानां पिता माता च माधवः गच्छध्वम एनं शरणं शरण्यं कौरवर्षभाः |
1
[deva] kāmaṃ devāpi māṃ vipra na vijānanti tattvataḥ tvat prītyā tu pravakṣyāmi yathedaṃ visṛjāmy aham 2 pitṛbhakto 'si viprarṣe māṃ caiva śaraṇaṃ gataḥ ato dṛṣṭo 'smi te sākṣād brahmacaryaṃ ca te mahat 3 āpo nārā iti proktāḥ saṃjñā nāma kṛtaṃ mayā tena nārāyaṇo 'smy ukto mama tad dhyayanaṃ sadā 4 ahaṃ nārāyaṇo nāma prabhavaḥ śāśvato 'vyayaḥ vidhātā sarvabhūtānāṃ saṃhartā ca dvijottama 5 ahaṃ viṣṇur ahaṃ brahmā śakraś cāhaṃ surādhipaḥ ahaṃ vaiśravaṇo rājā yamaḥ pretādhipas tathā 6 ahaṃ śivaś ca somaś ca kaśyapaś ca prajāpatiḥ ahaṃ dhātā vidhātā ca yajñaś cāhaṃ dvijottama 7 agnir āsyaṃ kṣitiḥ pādau candrādityau ca locane sadiśaṃ ca nabho kāyo vāyur manasi me sthitaḥ 8 mayā kratuśatair iṣṭaṃ bahubhiḥ svāptadakṣiṇaiḥ yajante vedaviduṣo māṃ devayajane sthitam 9 pṛthivyāṃ kṣatriyendrāś ca pārthivāḥ svargakāṅkṣiṇaḥ yajante māṃ tathā vaiśyāḥ svargalokajigīṣavaḥ 10 catuḥsamudra paryantāṃ merumandara bhūṣaṇām śeṣo bhūtvāham evaitāṃ dhārayāmi vasuṃdharām 11 vārāhaṃ rūpam āsthāya mayeyaṃ jagatī purā majjamānā jale vipra vīryeṇāsīt samuddhṛtā 12 agniś ca vaḍavā vaktro bhūtvāhaṃ dvijasattama pibāmy apaḥ samāviddhās tāś caiva visṛjāmy aham 13 brahma vaktraṃ bhujau kṣatram ūrū me saṃśritā viśaḥ pādau śūdrā bhajante me vikrameṇa krameṇa ca 14 ṛgvedaḥ sāmavedaś ca yajurvedo 'py atharvaṇaḥ mattaḥ prādurbhavanty ete mām eva praviśanti ca 15 yatayaḥ śānti paramā yatātmāno mumukṣavaḥ kāmakrodhadveṣamuktā niḥsaṅgā vītakalmaṣāḥ 16 sattvasthā nirahaṃkārā nityam adhyātmakovidāḥ mām eva satataṃ viprāś cintayanta upāsate 17 ahaṃ saṃvartako jyotir ahaṃ sarvartako yamaḥ ahaṃ saṃvartakaḥ sūryo ahaṃ saṃvartako 'nilaḥ 18 tārā rūpāṇi dṛśyante yāny etāni nabhastale mama rūpāṇy athaitāni viddhi tvaṃ dvijasattama 19 ratnākarāḥ samudrāś ca sarva eva caturdiśam vasanaṃ śayanaṃ caiva nilayaṃ caiva viddhi me 20 kāmaṃ krodhaṃ ca harṣaṃ ca bhayaṃ mohaṃ tathaiva ca mamaiva viddhi rūpāṇi sarvāṇy etāni sattama 21 prāpnuvanti narā vipra yatkṛtvā karmaśobhanam satyaṃ dānaṃ tapo cogram ahiṃsā caiva jantuṣu 22 madvidhānena vihitā mama dehavihāriṇaḥ mayābhibhūta vijñānā viceṣṭante na kāmataḥ 23 samyag vedam adhīyānā yajanto vividhair makhaiḥ śāntātmāno jitakrodhāḥ prāpnuvanti dvijātayaḥ 24 prāptuṃ na śakyo yo vidvan narair duṣkṛtakarmabhiḥ lobhābhibhūtaiḥ kṛpaṇair anāryair akṛtātmabhiḥ 25 taṃ māṃ mahāphalaṃ viddhi padaṃ sukṛtakarmaṇaḥ duṣprāpaṃ vipra mūḍhānāṃ mārgaṃ yogair niṣevitam 26 yadā yadā ca dharmasya glānir bhavati sattama abhyutthānam adharmasya tadātmānaṃ sṛjāmy aham 27 daityā hiṃsānuraktāś ca avadhyāḥ surasattamaiḥ rākṣasāś cāpi loke 'smin yadotpatsyanti dāruṇāḥ 28 tadāhaṃ saṃprasūyāmi gṛheṣu śubhakarmaṇām praviṣṭo mānuṣaṃ dehaṃ sarvaṃ praśamayāmy aham 29 sṛṣṭvā devamanuṣyāṃś ca gandharvoragarākṣasān sthāvarāṇi ca bhūtāni saṃharāmy ātmamāyayā 30 karmakāle punar deham anucintya sṛjāmy aham praviśya mānuṣaṃ dehaṃ maryādā bandhakāraṇāt 31 śvetaḥ kṛtayuge varṇaḥ pītas tretāyuge mama rakto dvāparam āsādya kṛṣṇaḥ kaliyuge tathā 32 trayo bhāgā hy adharmasya tasmin kāle bhavanty uta antakāle ca saṃprāpte kālo bhūtvātidāruṇaḥ trailokyaṃ nāśayāmy ekaḥ kṛtsnaṃ sthāvarajaṅgamam 33 ahaṃ trivartmā sarvātmā sarvalokasukhāvahaḥ abhibhūḥ sarvago 'nanto hṛṣīkeśa uru kramaḥ 34 kālacakraṃ nayāmy eko brahmann aham arūpi vai śamanaṃ sarvabhūtānāṃ sarvalokakṛtodyamam 35 evaṃ praṇihitaḥ samyaṅ mayātmā munisattama sarvabhūteṣu viprendra na ca māṃ vetti kaś cana 36 yac ca kiṃ cit tvayā prāptaṃ mayi kleṣātmakaṃ dvija sukhodayāya tat sarvaṃ śreyase ca tavānagha 37 yac ca kiṃ cit tvayā loke dṛṣṭaṃ sthāvarajaṅgamam vihitaḥ sarvathaivāsau mamātmā munisattama 38 ardhaṃ mama śarīrasya sarvalokapitāmahaḥ ahaṃ nārāyaṇo nāma śaṅkhacakragadādharaḥ 39 yāvad yugānāṃ viprarṣe sahasraparivartanam tāvat svapimi viśvātmā sarvalokapitāmahaḥ 40 evaṃ sarvam ahaṃ kālam ihāse munisattama aśiśuḥ śiśurūpeṇa yāvad brahmā na budhyate 41 mayā ca vipra datto 'yaṃ varas te brahmarūpiṇā asakṛt parituṣṭena viprarṣigaṇapūjita 42 sarvam ekārṇavaṃ dṛṣṭvā naṣṭaṃ sthāvarajaṅgamam viklavo 'si mayā jñātas tatas te darśitaṃ jagat 43 abhyantaraṃ śarīrasya praviṣṭo 'si yadā mama dṛṣṭvā lokaṃ samastaṃ ca vismito nāvabudhyase 44 tato 'si vaktrād viprarṣe drutaṃ niḥsārito mayā ākhyātas te mayā cātmā durjñeyo 'pi surāsuraiḥ 45 yāvat sa bhagavān brahmā na budhyati mahātapaḥ tāvat tvam iha viprarṣe viśrabdhaś cara vai sukham 46 tato vibhuddhe tasmiṃs tu sarvalokapitāmahe ekībhūto hi srakṣyāmi śarīrād dvijasattama 47 ākāśaṃ pṛthivīṃ jyotir vāyuṃ salilam eva ca loke yac ca bhavec cheṣam iha sthāvarajaṅgamam 48 [mārk] ity uktvāntarhitas tāta sa devaḥ paramādbhutaḥ prajāś cemāḥ prapaśyāmi vicitrā bahudhā kṛtāḥ 49 etad dṛṣṭaṃ mayā rājaṃs tasmin prāpte yugakṣaye āścaryaṃ bharataśreṣṭha sarvadharmabhṛtāṃ vara 50 yaḥ sa devo mayā dṛṣṭaḥ purā padmanibhekṣaṇaḥ sa eṣa puruṣavyāghra saṃbandhī te janārdanaḥ 51 asyaiva varadānād dhi smṛtir na prajahāti mām dīrgham āyuś ca kaunteya svacchandamaraṇaṃ tathā 52 sa eṣa kṛṣṇo vārṣṇeyaḥ purāṇapuruṣo vibhuḥ āste harir acintyātmā krīḍann iva mahābhujaḥ 53 eṣa dhātā vidhātā ca saṃhartā caiva sātvataḥ śrīvatsa vakṣā govindaḥ prajāpatipatiḥ prabhuḥ 54 dṛṣṭvemaṃ vṛṣṇiśārdūlaṃ smṛtir mām iyam āgatā ādidevam ajaṃ viṣṇuṃ puruṣaṃ pītavāsasam 55 sarveṣām eva bhūtānāṃ pitā mātā ca mādhavaḥ gacchadhvam enaṃ śaraṇaṃ śaraṇyaṃ kauravarṣabhāḥ |
The Mahabharata in Sanskrit
Book 3
Chapter 188
|
1
[वै] एवम उक्तास तु ते पार्था यमौ च पुरुषर्षभौ दरौपद्या कृष्णया सार्धं नमश चक्रुर जनार्दनम 2 स चैतान पुरुषव्याघ्र साम्ना परमवल्गुना सान्त्वयाम आस मानार्हान मन्यमानॊ यथाविधि 3 युधिष्ठिरस तु कौन्तेयॊ मार्कण्डेयं महामुनिम पुनः पप्रच्छ साम्राज्ये भविष्यां जगतॊ गतिम 4 आश्चर्यभूतं भवतः शरुतं नॊ वदतां वर मुने भार्गव यद्वृत्तं युगादौ परभवाप्ययौ 5 अस्मिन कलियुगे ऽपय अस्ति पुनः कौतूहलं मम समाकुलेषु धर्मेषु किं नु शेषं भविष्यति 6 किं वीर्या मानवास तत्र किमाहारविहारिणः किमायुषः किं वसना भविष्यन्ति युगक्षये 7 कां च काष्ठां समासाद्य पुनः संपत्स्यते कृतम विस्तरेण मुने बरूहि विचित्राणीह भाषसे 8 इत्य उक्तः स मुनिश्रेष्ठः पुनर एवाभ्यभाषत रमयन वृष्णिशार्दूलं पाण्डवांश च महामुनिः 9 [मार्क] भविष्यं सर्वलॊकस्य वृत्तान्तं भरतर्षभ कलुषं कालम आसाद्य कथ्यमानं निबॊध मे 10 कृते चतुष्पात सकलॊ निर्व्याजॊपाधि वर्जितः वृषः परतिष्ठितॊ धर्मॊ मनुष्येष्व अभवत पुरा 11 अधर्मपादविद्धस तु तरिभिर अंशैः परतिष्ठितः तरेतायां दवापरे ऽरधेन वयामिश्रॊ धर्म उच्यते 12 तरिभिर अंशैर अधर्मस तु लॊकान आक्रम्य तिष्ठति चतुर्थांशेन धर्मस तु मनुष्यान उपतिष्ठति 13 आयुर वीर्यम अथॊ बुद्धिर बलं तेजॊ च पाण्डव मनुष्याणाम अनुयुगं हरसतीति निबॊध मे 14 राजानॊ बराह्मणा वैश्याः शूद्राश चैव युधिष्ठिर वयाजैर धर्मं चरिष्यन्ति धर्मव्वैतंसिका नराः 15 सत्यं संक्षेप्स्यते लॊके नरैः पण्डितमानिभिः सत्यहान्या ततस तेषाम आयुर अल्पं भविष्यति 16 आयुषः परक्षयाद विद्यां न शक्ष्यन्त्य उपशिक्षितुम विद्या हीनान अविज्ञानाल लॊभॊ ऽपय अभिभविष्यति 17 लॊभक्रॊधपरा मूढाः कामसक्ताश च मानवाः वैरबद्धा भविष्यन्ति परस्परवधेप्सवः 18 बराह्मणाः कषत्रिया वैश्याः संकीर्यन्तः परस्परम शूद्र तुल्या भविष्यन्ति तपः सत्यविवर्जिताः 19 अन्त्या मध्या भविष्यन्ति मध्याश चान्तावसायिनः ईदृशॊ भविता लॊकॊ युगान्ते पर्युपस्थिते 20 वस्त्राणां परवरा शाणी धान्यानां कॊर दूषकाः भार्या मित्राश च पुरुषा भविष्यन्ति युगक्षये 21 मत्स्यामिषेण जीवन्तॊ दुहन्तश चाप्य अजैडकम गॊषु नष्टासु पुरुषा भविष्यन्ति युगक्षये 22 अन्यॊन्यं परिमुष्णन्तॊ हिंसयन्तश च मानवाः अजपा नास्तिकाः सतेना भविष्यन्ति युगक्षये 23 सरित तीरेषु कुद्दालैर वापयिष्यन्ति चौषधीः ताश चाप्य अल्पफलास तेषां भविष्यन्ति युगक्षये 24 शराद्धे दैवे च पुरुषा ये च नित्यं धृतव्रताः ते ऽपि लॊभसमायुक्ता भॊक्ष्यन्तीह परस्परम 25 पिता पुत्रस्य भॊक्ता च पितुः पुत्रस तथैव च अतिक्रान्तानि भॊज्यानि भविष्यन्ति युगक्षये 26 न वरतानि चरिष्यन्ति बराह्मणा वेद निन्दकाः न यक्ष्यन्ति न हॊष्यन्ति हेतुवादविलॊभिताः 27 निम्ने कृषिं करिष्यन्ति यॊक्ष्यन्ति धुरि धेनुकाः एकहायन वत्सांश च वाहयिष्यन्ति मानवाः 28 पुत्रः पितृवधं कृत्वा पिता पुत्रवधं तथा निरुद्वेगॊ बृहद वादी न निन्दाम उपलप्स्यते 29 मलेच्छ भूतं जगत सर्वं निश्क्रियं यज्ञवर्जितम भविष्यति निरानन्दम अनुत्सवम अथॊ तथा 30 परायशः कृपणानां हि तथा बन्धुमताम अपि विधवानां च वित्तानि हरिष्यन्तीह मानवाः 31 अल्पवीर्यबलाः सतब्धा लॊभमॊहपरायणाः तत्कथादानसंतुष्टा दुष्टानाम अपि मानवाः परिग्रहं करिष्यन्ति पापाचारपरिग्रहाः 32 संघातयन्तः कौन्तेय राजानः पापबुद्धयः परस्परवधॊद्युक्ता मूर्खाः पण्डितमानिनः भविष्यन्ति युगस्यान्ते कषत्रिया लॊककण्टकाः 33 अरक्षितारॊ लुब्धाश च मानाहंकार दर्पिताः केवलं दण्डरुचयॊ भविष्यन्ति युगक्षये 34 आक्रम्याक्रम्य साधूनां दारांश चैव धनानि च भॊक्ष्यन्ते निरनुक्रॊशा रुदताम अपि भारत 35 न कन्यां याचते कश चिन नापि कन्या परदीयते सवयं गराहा भविष्यन्ति युगान्ते पर्युपस्थिते 36 राजानश चाप्य असंतुष्टाः परार्थान मूढचेतसः सर्वॊपायैर हरिष्यन्ति युगान्ते पर्युपस्थिते 37 मलेच्छी भूतं जगत सर्वं भविष्यति च भारत हस्तॊ हस्तं परिमुषेद युगान्ते पर्युपस्थिते 38 सत्यं संक्षिप्यते लॊके नरैः पण्डितमानिभिः सथविरा बालमतयॊ बालाः सथविर बुद्धयः 39 भीरवः शूरमानीनः शूरा भीरु विषादिनः न विश्वसन्ति चान्यॊन्यं युगान्ते पर्युपस्थिते 40 एकाहार्यं जगत सर्वं लॊभमॊहव्यवस्थितम अधर्मॊ वर्धति महान न च धर्मः परवर्तते 41 बराह्मणाः कषत्रिया वैश्या न शिष्यन्ति जनाधिप एकवर्णस तदा लॊकॊ भविष्यति युगक्षये 42 न कषंस्यति पिता पुत्रं पुत्रश च पितरं तथा भार्या च पतिशुश्रूषां न करिष्यति का चन 43 ये यवान्ना जनपदा गॊधूमान्नास तथैव च तान देशान संश्रयिष्यन्ति युगान्ते पर्युपस्थिते 44 सवैराहाराश च पुरुषा यॊषितश च विशां पते अन्यॊन्यं न सहिष्यन्ति युगान्ते पर्युपस्थिते 45 मलेच्छ भूतं जगत सर्वं भविष्यति युधिष्ठिर न शराद्धैर हि पितॄंश चापि तर्पयिष्यन्ति मानवाः 46 न कश चित कस्य चिच छरॊता न कश चित कस्य चिद गुरुः तमॊ गरस्तस तदा लॊकॊ भविष्यति नराधिप 47 परमायुश च भविता तदा वर्षाणि षॊडश ततः पराणान विमॊक्ष्यन्ति युगान्ते पर्युपस्थिते 48 पञ्चमे वाथ षष्ठे वा वर्षे कन्या परसूयते सप्त वर्षाष्ट वर्षाश च परजास्यन्ति नरास तदा 49 पत्यौ सत्री तु तदा राजन पुरुषॊ वा सत्रियं परति युगान्ते राजशार्दूल न तॊषम उपयास्यति 50 अल्पद्रव्या वृथा लिङ्गा हिंसा च परभविष्यति न कश चित कस्य चिद दाता भविष्यति युगक्षये 51 अट्टशूला जनपदाः शिव शूलाश चतुष्पथाः केशशूलाः सत्रियश चापि भविष्यन्ति युगक्षये 52 मलेच्छाः करूराः सर्वभक्षा दारुणाः सर्वकर्मसु भाविनः पश्चिमे काले मनुष्या नात्र संशयः 53 करयविक्रयकाले च सर्वः सर्वस्य वञ्चनम युगान्ते भरतश्रेष्ठ वृत्ति लॊभात करिष्यति 54 जञानानि चाप्य अविज्ञाय करिष्यन्ति करियास तथा आत्मछन्देन वर्तन्ते युगान्ते पर्युपस्थिते 55 सवभावात करूरकर्माणश चान्यॊन्यम अभिशङ्किनः भवितारॊ जनाः सर्वे संप्राप्ते युगसंक्षये 56 आरामांश चैव वृक्षांश च नाशयिष्यन्ति निर्व्यथाः भविता संक्षयॊ लॊके जीवितस्य च देहिनाम 57 तथा लॊभाभिभूताश च चरिष्यन्ति महीम इमाम बराह्मणाश च भविष्यन्ति बरह्म सवानि च भुञ्जते 58 हाहाकृता दविजाश चैव भयार्ता वृषलार्दिताः तरातारम अलभन्तॊ वै भरमिष्यन्ति महीम इमाम 59 जीवितान्तकरा रौद्राः करूराः पराणिविहिंसकाः यदा भविष्यन्ति नरास तदा संक्षेप्स्यते युगम 60 आश्रयिष्यन्ति च नदीः पर्वतान विषमाणि च परधावमाना वित्रस्ता दविजाः कुरुकुलॊद्वह 61 दस्यु परपीडिता राजन काका इव दविजॊत्तमाः कुराजभिश च सततं करभार परपीडिताः 62 धैर्यं तयक्त्वा महीपाल दारुणे युगसंक्षये विकर्माणि करिष्यन्ति शूद्राणां परिचारकाः 63 शूद्रा धर्मं परवक्ष्यन्ति बराह्मणाः पर्युपासकाः शरॊतारश च भविष्यन्ति परामाण्येन वयवस्थिताः 64 विपरीतश च लॊकॊ ऽयं भविष्यत्य अधरॊत्तरः एडूकान पूजयिष्यन्ति वर्जयिष्यन्ति देवताः शूद्राः परिचरिष्यन्ति न दविजान युगसंक्षये 65 आश्रमेषु महर्षीणां बराह्मणावसथेषु च देवस्थानेषु चैत्येषु नागानाम आलयेषु च 66 एडूक चिह्ना पृथिवी न देव गृहभूषिता भविष्यति युगे कषीणे तद युगान्तस्य लक्षणम 67 यदा रौद्रा धर्महीना मांसादाः पानपास तथा भविष्यन्ति नरा नित्यं तदा संक्षेप्स्यते युगम 68 पुष्पे पुष्पं यदा राजन फले फलम उपाश्रितम परजास्यति महाराज तदा संक्षेप्स्यते युगम 69 अकालवर्षी पर्जन्यॊ भविष्यति गते युगे अक्रमेण मनुष्याणां भविष्यति तदा करिया विरॊधम अथ यास्यन्ति वृषला बराह्मणैः सह 70 मही मलेच्छ समाकीर्णा भविष्यति ततॊ ऽचिरात करभार भयाद विप्रा भजिष्यन्ति दिशॊ दश 71 निर्विशेषा जनपदा नरावृष्टिभिर अर्दिताः आश्रमान अभिपत्स्यन्ति फलमूलॊपजीविनः 72 एवं पर्याकुले लॊके मर्यादा न भविष्यति न सथास्यन्त्य उपदेशे च शिष्या विप्रियकारिणः 73 आचार्यॊपनिधिश चैव वत्स्यते तदनन्तरम अर्थयुक्त्या परवत्स्यन्ति मित्र संबन्धिबान्धवाः अभावः सर्वभूतानां युगान्ते च भविष्यति 74 दिशः परज्वलिताः सर्वा नक्षत्राणि चलानि च जयॊतींषि परतिकूलानि वाताः पर्याकुलास तथा उल्का पाताश च बहवॊ महाभयनिदर्शकाः 75 षड्भिर अन्यैश च सहितॊ भास्करः परतपिष्यति तुमुलाश चापि निर्ह्रादा दिग दाहाश चापि सर्वशः कबन्धान्तर्हितॊ भानुर उदयास्तमये तदा 76 अकालवर्षी च तदा भविष्यति सहस्रदृक सस्यानि च न रॊक्ष्यन्ति युगान्ते पर्युपस्थिते 77 अभीक्ष्णं करूर वादिन्यः परुषा रुदितप्रियाः भर्तॄणां वचने चैव न सथास्यन्ति तदा सत्रियः 78 पुत्राश च मातापितरौ हनिष्यन्ति युगक्षये सूदयिष्यन्ति च पतीन सत्रियः पुत्रान अपाश्रिताः 79 अपर्वणि महाराज सूर्यं राहुर उपैष्यति युगान्ते हुतभुक चापि सर्वतः परज्वलिष्यति 80 पानीयं भॊजनं चैव याचमानास तदाध्वगाः न लप्स्यन्ते निवासं च निरस्ताः पथि शेरते 81 निर्घातवायसा नागाः शकुनाः समृगद्विजाः रूक्षा वाचॊ विमॊक्ष्यन्ति युगान्ते पर्युपस्थिते 82 मित्र संबन्धिनश चापि संत्यक्ष्यन्ति नरास तदा जनं परिजनं चापि युगान्ते पर्युपस्थिते 83 अथ देशान दिशश चापि पत्तनानि पुराणि च करमशः संश्रयिष्यन्ति युगान्ते पर्युपस्थिते 84 हा तात हा सुतेत्य एवं तदा वाचः सुदारुणाः विक्रॊशमानश चान्यॊन्यं जनॊ गां पर्यटिष्यति 85 ततस तुमुलसंघाते वर्तमाने युगक्षये दविजातिपूर्वकॊ लॊकः करमेण परभविष्यति 86 ततः कालान्तरे ऽनयस्मिन पुनर लॊकविवृद्धये भविष्यति पुनर दैवम अनुकूलं यदृच्छया 87 यदा चन्द्रश च सूर्यश च तथा तिष्यबृहस्पती एकाराशौ समेष्यन्ति परपत्स्यति तदा कृतम 88 कालवर्षी च पर्जन्यॊ नक्षत्राणि शुभानि च परदक्षिणा गरहाश चापि भविष्यन्त्य अनुलॊमगाः कषेमं सुभिक्षम आरॊग्यं भविष्यति निरामयम 89 कल्किर विष्णुयशा नाम दविजः कालप्रचॊदितः उत्पत्स्यते महावीर्यॊ महाबुद्धिपराक्रमः 90 संभूतः संभल गरामे बराह्मणावसथे शुभे मनसा तस्य सर्वाणि वाहनान्य आयुधानि च उपस्थास्यन्ति यॊधाश च शस्त्राणि कवचानि च 91 स धर्मविजयी राजा चक्रवर्ती भविष्यति स चेमं संकुलं लॊकं परसादम उपनेष्यति 92 उत्थितॊ बराह्मणॊ दीप्तः कषयान्तकृद उदारधीः स संक्षेपॊ हि सर्वस्य युगस्य परिवर्तकः 93 स सर्वत्रगतान कषुद्रान बराह्मणैः परिवारितः उत्सादयिष्यति तदा सर्वान मलेच्छ गणान दविजः |
1
[vai] evam uktās tu te pārthā yamau ca puruṣarṣabhau draupadyā kṛṣṇayā sārdhaṃ namaś cakrur janārdanam 2 sa caitān puruṣavyāghra sāmnā paramavalgunā sāntvayām āsa mānārhān manyamāno yathāvidhi 3 yudhiṣṭhiras tu kaunteyo mārkaṇḍeyaṃ mahāmunim punaḥ papraccha sāmrājye bhaviṣyāṃ jagato gatim 4 āścaryabhūtaṃ bhavataḥ śrutaṃ no vadatāṃ vara mune bhārgava yadvṛttaṃ yugādau prabhavāpyayau 5 asmin kaliyuge 'py asti punaḥ kautūhalaṃ mama samākuleṣu dharmeṣu kiṃ nu śeṣaṃ bhaviṣyati 6 kiṃ vīryā mānavās tatra kimāhāravihāriṇaḥ kimāyuṣaḥ kiṃ vasanā bhaviṣyanti yugakṣaye 7 kāṃ ca kāṣṭhāṃ samāsādya punaḥ saṃpatsyate kṛtam vistareṇa mune brūhi vicitrāṇīha bhāṣase 8 ity uktaḥ sa muniśreṣṭhaḥ punar evābhyabhāṣata ramayan vṛṣṇiśārdūlaṃ pāṇḍavāṃś ca mahāmuniḥ 9 [mārk] bhaviṣyaṃ sarvalokasya vṛttāntaṃ bharatarṣabha kaluṣaṃ kālam āsādya kathyamānaṃ nibodha me 10 kṛte catuṣpāt sakalo nirvyājopādhi varjitaḥ vṛṣaḥ pratiṣṭhito dharmo manuṣyeṣv abhavat purā 11 adharmapādaviddhas tu tribhir aṃśaiḥ pratiṣṭhitaḥ tretāyāṃ dvāpare 'rdhena vyāmiśro dharma ucyate 12 tribhir aṃśair adharmas tu lokān ākramya tiṣṭhati caturthāṃśena dharmas tu manuṣyān upatiṣṭhati 13 āyur vīryam atho buddhir balaṃ tejo ca pāṇḍava manuṣyāṇām anuyugaṃ hrasatīti nibodha me 14 rājāno brāhmaṇā vaiśyāḥ śūdrāś caiva yudhiṣṭhira vyājair dharmaṃ cariṣyanti dharmavvaitaṃsikā narāḥ 15 satyaṃ saṃkṣepsyate loke naraiḥ paṇḍitamānibhiḥ satyahānyā tatas teṣām āyur alpaṃ bhaviṣyati 16 āyuṣaḥ prakṣayād vidyāṃ na śakṣyanty upaśikṣitum vidyā hīnān avijñānāl lobho 'py abhibhaviṣyati 17 lobhakrodhaparā mūḍhāḥ kāmasaktāś ca mānavāḥ vairabaddhā bhaviṣyanti parasparavadhepsavaḥ 18 brāhmaṇāḥ kṣatriyā vaiśyāḥ saṃkīryantaḥ parasparam śūdra tulyā bhaviṣyanti tapaḥ satyavivarjitāḥ 19 antyā madhyā bhaviṣyanti madhyāś cāntāvasāyinaḥ īdṛśo bhavitā loko yugānte paryupasthite 20 vastrāṇāṃ pravarā śāṇī dhānyānāṃ kora dūṣakāḥ bhāryā mitrāś ca puruṣā bhaviṣyanti yugakṣaye 21 matsyāmiṣeṇa jīvanto duhantaś cāpy ajaiḍakam goṣu naṣṭāsu puruṣā bhaviṣyanti yugakṣaye 22 anyonyaṃ parimuṣṇanto hiṃsayantaś ca mānavāḥ ajapā nāstikāḥ stenā bhaviṣyanti yugakṣaye 23 sarit tīreṣu kuddālair vāpayiṣyanti cauṣadhīḥ tāś cāpy alpaphalās teṣāṃ bhaviṣyanti yugakṣaye 24 śrāddhe daive ca puruṣā ye ca nityaṃ dhṛtavratāḥ te 'pi lobhasamāyuktā bhokṣyantīha parasparam 25 pitā putrasya bhoktā ca pituḥ putras tathaiva ca atikrāntāni bhojyāni bhaviṣyanti yugakṣaye 26 na vratāni cariṣyanti brāhmaṇā veda nindakāḥ na yakṣyanti na hoṣyanti hetuvādavilobhitāḥ 27 nimne kṛṣiṃ kariṣyanti yokṣyanti dhuri dhenukāḥ ekahāyana vatsāṃś ca vāhayiṣyanti mānavāḥ 28 putraḥ pitṛvadhaṃ kṛtvā pitā putravadhaṃ tathā nirudvego bṛhad vādī na nindām upalapsyate 29 mleccha bhūtaṃ jagat sarvaṃ niśkriyaṃ yajñavarjitam bhaviṣyati nirānandam anutsavam atho tathā 30 prāyaśaḥ kṛpaṇānāṃ hi tathā bandhumatām api vidhavānāṃ ca vittāni hariṣyantīha mānavāḥ 31 alpavīryabalāḥ stabdhā lobhamohaparāyaṇāḥ tatkathādānasaṃtuṣṭā duṣṭānām api mānavāḥ parigrahaṃ kariṣyanti pāpācāraparigrahāḥ 32 saṃghātayantaḥ kaunteya rājānaḥ pāpabuddhayaḥ parasparavadhodyuktā mūrkhāḥ paṇḍitamāninaḥ bhaviṣyanti yugasyānte kṣatriyā lokakaṇṭakāḥ 33 arakṣitāro lubdhāś ca mānāhaṃkāra darpitāḥ kevalaṃ daṇḍarucayo bhaviṣyanti yugakṣaye 34 ākramyākramya sādhūnāṃ dārāṃś caiva dhanāni ca bhokṣyante niranukrośā rudatām api bhārata 35 na kanyāṃ yācate kaś cin nāpi kanyā pradīyate svayaṃ grāhā bhaviṣyanti yugānte paryupasthite 36 rājānaś cāpy asaṃtuṣṭāḥ parārthān mūḍhacetasaḥ sarvopāyair hariṣyanti yugānte paryupasthite 37 mlecchī bhūtaṃ jagat sarvaṃ bhaviṣyati ca bhārata hasto hastaṃ parimuṣed yugānte paryupasthite 38 satyaṃ saṃkṣipyate loke naraiḥ paṇḍitamānibhiḥ sthavirā bālamatayo bālāḥ sthavira buddhayaḥ 39 bhīravaḥ śūramānīnaḥ śūrā bhīru viṣādinaḥ na viśvasanti cānyonyaṃ yugānte paryupasthite 40 ekāhāryaṃ jagat sarvaṃ lobhamohavyavasthitam adharmo vardhati mahān na ca dharmaḥ pravartate 41 brāhmaṇāḥ kṣatriyā vaiśyā na śiṣyanti janādhipa ekavarṇas tadā loko bhaviṣyati yugakṣaye 42 na kṣaṃsyati pitā putraṃ putraś ca pitaraṃ tathā bhāryā ca patiśuśrūṣāṃ na kariṣyati kā cana 43 ye yavānnā janapadā godhūmānnās tathaiva ca tān deśān saṃśrayiṣyanti yugānte paryupasthite 44 svairāhārāś ca puruṣā yoṣitaś ca viśāṃ pate anyonyaṃ na sahiṣyanti yugānte paryupasthite 45 mleccha bhūtaṃ jagat sarvaṃ bhaviṣyati yudhiṣṭhira na śrāddhair hi pitṝṃś cāpi tarpayiṣyanti mānavāḥ 46 na kaś cit kasya cic chrotā na kaś cit kasya cid guruḥ tamo grastas tadā loko bhaviṣyati narādhipa 47 paramāyuś ca bhavitā tadā varṣāṇi ṣoḍaśa tataḥ prāṇān vimokṣyanti yugānte paryupasthite 48 pañcame vātha ṣaṣṭhe vā varṣe kanyā prasūyate sapta varṣāṣṭa varṣāś ca prajāsyanti narās tadā 49 patyau strī tu tadā rājan puruṣo vā striyaṃ prati yugānte rājaśārdūla na toṣam upayāsyati 50 alpadravyā vṛthā liṅgā hiṃsā ca prabhaviṣyati na kaś cit kasya cid dātā bhaviṣyati yugakṣaye 51 aṭṭaśūlā janapadāḥ śiva śūlāś catuṣpathāḥ keśaśūlāḥ striyaś cāpi bhaviṣyanti yugakṣaye 52 mlecchāḥ krūrāḥ sarvabhakṣā dāruṇāḥ sarvakarmasu bhāvinaḥ paścime kāle manuṣyā nātra saṃśayaḥ 53 krayavikrayakāle ca sarvaḥ sarvasya vañcanam yugānte bharataśreṣṭha vṛtti lobhāt kariṣyati 54 jñānāni cāpy avijñāya kariṣyanti kriyās tathā ātmachandena vartante yugānte paryupasthite 55 svabhāvāt krūrakarmāṇaś cānyonyam abhiśaṅkinaḥ bhavitāro janāḥ sarve saṃprāpte yugasaṃkṣaye 56 ārāmāṃś caiva vṛkṣāṃś ca nāśayiṣyanti nirvyathāḥ bhavitā saṃkṣayo loke jīvitasya ca dehinām 57 tathā lobhābhibhūtāś ca cariṣyanti mahīm imām brāhmaṇāś ca bhaviṣyanti brahma svāni ca bhuñjate 58 hāhākṛtā dvijāś caiva bhayārtā vṛṣalārditāḥ trātāram alabhanto vai bhramiṣyanti mahīm imām 59 jīvitāntakarā raudrāḥ krūrāḥ prāṇivihiṃsakāḥ yadā bhaviṣyanti narās tadā saṃkṣepsyate yugam 60 āśrayiṣyanti ca nadīḥ parvatān viṣamāṇi ca pradhāvamānā vitrastā dvijāḥ kurukulodvaha 61 dasyu prapīḍitā rājan kākā iva dvijottamāḥ kurājabhiś ca satataṃ karabhāra prapīḍitāḥ 62 dhairyaṃ tyaktvā mahīpāla dāruṇe yugasaṃkṣaye vikarmāṇi kariṣyanti śūdrāṇāṃ paricārakāḥ 63 śūdrā dharmaṃ pravakṣyanti brāhmaṇāḥ paryupāsakāḥ śrotāraś ca bhaviṣyanti prāmāṇyena vyavasthitāḥ 64 viparītaś ca loko 'yaṃ bhaviṣyaty adharottaraḥ eḍūkān pūjayiṣyanti varjayiṣyanti devatāḥ śūdrāḥ paricariṣyanti na dvijān yugasaṃkṣaye 65 āśrameṣu maharṣīṇāṃ brāhmaṇāvasatheṣu ca devasthāneṣu caityeṣu nāgānām ālayeṣu ca 66 eḍūka cihnā pṛthivī na deva gṛhabhūṣitā bhaviṣyati yuge kṣīṇe tad yugāntasya lakṣaṇam 67 yadā raudrā dharmahīnā māṃsādāḥ pānapās tathā bhaviṣyanti narā nityaṃ tadā saṃkṣepsyate yugam 68 puṣpe puṣpaṃ yadā rājan phale phalam upāśritam prajāsyati mahārāja tadā saṃkṣepsyate yugam 69 akālavarṣī parjanyo bhaviṣyati gate yuge akrameṇa manuṣyāṇāṃ bhaviṣyati tadā kriyā virodham atha yāsyanti vṛṣalā brāhmaṇaiḥ saha 70 mahī mleccha samākīrṇā bhaviṣyati tato 'cirāt karabhāra bhayād viprā bhajiṣyanti diśo daśa 71 nirviśeṣā janapadā narāvṛṣṭibhir arditāḥ āśramān abhipatsyanti phalamūlopajīvinaḥ 72 evaṃ paryākule loke maryādā na bhaviṣyati na sthāsyanty upadeśe ca śiṣyā vipriyakāriṇaḥ 73 ācāryopanidhiś caiva vatsyate tadanantaram arthayuktyā pravatsyanti mitra saṃbandhibāndhavāḥ abhāvaḥ sarvabhūtānāṃ yugānte ca bhaviṣyati 74 diśaḥ prajvalitāḥ sarvā nakṣatrāṇi calāni ca jyotīṃṣi pratikūlāni vātāḥ paryākulās tathā ulkā pātāś ca bahavo mahābhayanidarśakāḥ 75 ṣaḍbhir anyaiś ca sahito bhāskaraḥ pratapiṣyati tumulāś cāpi nirhrādā dig dāhāś cāpi sarvaśaḥ kabandhāntarhito bhānur udayāstamaye tadā 76 akālavarṣī ca tadā bhaviṣyati sahasradṛk sasyāni ca na rokṣyanti yugānte paryupasthite 77 abhīkṣṇaṃ krūra vādinyaḥ paruṣā ruditapriyāḥ bhartṝṇāṃ vacane caiva na sthāsyanti tadā striyaḥ 78 putrāś ca mātāpitarau haniṣyanti yugakṣaye sūdayiṣyanti ca patīn striyaḥ putrān apāśritāḥ 79 aparvaṇi mahārāja sūryaṃ rāhur upaiṣyati yugānte hutabhuk cāpi sarvataḥ prajvaliṣyati 80 pānīyaṃ bhojanaṃ caiva yācamānās tadādhvagāḥ na lapsyante nivāsaṃ ca nirastāḥ pathi śerate 81 nirghātavāyasā nāgāḥ śakunāḥ samṛgadvijāḥ rūkṣā vāco vimokṣyanti yugānte paryupasthite 82 mitra saṃbandhinaś cāpi saṃtyakṣyanti narās tadā janaṃ parijanaṃ cāpi yugānte paryupasthite 83 atha deśān diśaś cāpi pattanāni purāṇi ca kramaśaḥ saṃśrayiṣyanti yugānte paryupasthite 84 hā tāta hā sutety evaṃ tadā vācaḥ sudāruṇāḥ vikrośamānaś cānyonyaṃ jano gāṃ paryaṭiṣyati 85 tatas tumulasaṃghāte vartamāne yugakṣaye dvijātipūrvako lokaḥ krameṇa prabhaviṣyati 86 tataḥ kālāntare 'nyasmin punar lokavivṛddhaye bhaviṣyati punar daivam anukūlaṃ yadṛcchayā 87 yadā candraś ca sūryaś ca tathā tiṣyabṛhaspatī ekārāśau sameṣyanti prapatsyati tadā kṛtam 88 kālavarṣī ca parjanyo nakṣatrāṇi śubhāni ca pradakṣiṇā grahāś cāpi bhaviṣyanty anulomagāḥ kṣemaṃ subhikṣam ārogyaṃ bhaviṣyati nirāmayam 89 kalkir viṣṇuyaśā nāma dvijaḥ kālapracoditaḥ utpatsyate mahāvīryo mahābuddhiparākramaḥ 90 saṃbhūtaḥ saṃbhala grāme brāhmaṇāvasathe śubhe manasā tasya sarvāṇi vāhanāny āyudhāni ca upasthāsyanti yodhāś ca śastrāṇi kavacāni ca 91 sa dharmavijayī rājā cakravartī bhaviṣyati sa cemaṃ saṃkulaṃ lokaṃ prasādam upaneṣyati 92 utthito brāhmaṇo dīptaḥ kṣayāntakṛd udāradhīḥ sa saṃkṣepo hi sarvasya yugasya parivartakaḥ 93 sa sarvatragatān kṣudrān brāhmaṇaiḥ parivāritaḥ utsādayiṣyati tadā sarvān mleccha gaṇān dvijaḥ |
The Mahabharata in Sanskrit
Book 3
Chapter 189
|
1
[मार्क] ततश चॊरक्षयं कृत्वा दविजेभ्यः पृथिवीम इमाम वाजिमेधे महायज्ञे विधिवत कल्पयिष्यति 2 सथापयित्वा स मर्यादाः सवयम्भुविहिताः शुभाः वनं पुण्ययशः कर्मा जरावान संश्रयिष्यति 3 तच छीलम अनुवर्त्स्यन्ते मनुष्या लॊकवासिनः विप्रैश चॊरक्शये चैव कृते कषेमं भविश्यते 4 कृष्णाजिनानि शक्तीश च तरिशूलान्य आयुधानि च सथापयन विप्र शार्दूलॊ देशेषु विजितेषु च 5 संस्तूयमानॊ विप्रेन्द्रैर मानयानॊ दविजॊत्तमान कल्किश चरिष्यति महीं सदा दस्यु वधे रतः 6 हा तात हा सुतेत्य एवं तास ता वाचः सुदारुणाः विक्रॊशमानान सुभृशं दस्यून नेष्यति संशयम 7 ततॊ ऽधर्मविनाशॊ वै धर्मवृद्धिश च भारत भविष्यति कृते पराप्ते करियावांश च जनस तथा 8 आरामाश चैव चैत्याश च तटाकान्य अवटास तथा यज्ञक्रियाश च विविधा भविष्यन्ति कृते युगे 9 बराह्मणाः साधवश चैव मुनयश च तपस्विनः आश्रमाः सह पाषण्डाः सथिताः सत्ये जनाः परजाः 10 जास्यन्ति सर्वबीजानि उप्यमानानि चैव ह सर्वेष्व ऋतुषु राजेन्द्र सर्वं सस्यं भविष्यति 11 नरा दानेषु निरता वरतेषु नियमेषु च जपयज्ञपरा विप्रा धर्मकामा मुदा युताः पालयिष्यन्ति राजानॊ धर्मेणेमां वसुंधराम 12 वयवहार रता वैश्या भविष्यन्ति कृते युगे षष कर्मनिरता विप्राः कषत्रिया रक्षणे रताः 13 शुश्रूषायां रताः शूद्रास तथा वर्णत्रयस्य च एष धर्मः कृतयुगे तरेतायां दवापरे तथा पश्चिमे युगकाले च यः स ते संप्रकीर्तितः 14 सर्वलॊकस्य विदिता युगसंख्या च पाण्डव एतत ते सर्वम आख्यातम अतीतानागतं मया वायुप्रॊक्तम अनुस्मृत्य पुराणम ऋषिसंस्तुतम 15 एवं संसारमार्गा मे बहुशश चिरजीविना दृष्टाश चैवानुभूताश च तांस ते कथितवान अहम 16 इदं चैवापरं भूयॊ सह भरातृभिर अच्युत धर्मसंशय मॊक्षार्थं निबॊध वचनं मम 17 धर्मे तवयात्मा संयॊज्यॊ नित्यं धर्मभृतां वर धर्मात्मा हि सुखं राजा परेत्य चेह च नन्दति 18 निबॊध च शुभां वाणीं यां परवक्ष्यामि ते ऽनघ न बराह्मणे परिभवः कर्तव्यस ते कदा चन बराह्मणॊ रुषितॊ हन्याद अपि लॊकान परतिज्ञया 19 [वै] मार्कण्डेय वचॊ शरुत्वा कुरूणां परवरॊ नृपः उवाच वचनं धीमान परमं परमद्युतिः 20 कस्मिन धर्मे मया सथेयं परजाः संरक्षता मुने कथं च वर्तमानॊ वै न चयवेयं सवधर्मतः 21 [मार्क] दयावान सर्वभूतेषु हितॊ रक्तॊ ऽनसूयकः अपत्यानाम इव सवेषां परजानां रक्षणे रतः चर धर्मं तयजाधर्मं पितॄन देवांश च पूजय 22 परमादाद यत्कृतं ते ऽभूत संयद दानेन तज जय अलं ते मानम आश्रित्य सततं परवान भव 23 विजित्य पृथिवीं सर्वां मॊदमानः सुखी भव एष भूतॊ भविष्यश च धर्मस ते समुदीरितः 24 न ते ऽसत्य अविदितं किं चिद अतीतानागतं भुवि तस्माद इमं परिक्लेशं तवं तात हृदि मा कृथाः 25 एष कालॊ महाबाहॊ अपि सर्वदिवौकसाम मुह्यन्ति हि परजास तात कालेनाभिप्रचॊदिताः 26 मा च ते ऽतर विचारॊ भूद यन मयॊक्तं तवानघ अतिशङ्क्य वचॊ हय एतद धर्मलॊपॊ भवेत तव 27 जातासि परथिते वंशे कुरूणां भरतर्षभ कर्मणा मनसा वाचा सर्वम एतत समाचर 28 [य] यत तवयॊक्तं दविजश्रेष्ठ वाक्यं शरुतिमनॊहरम तथा करिष्ये यत्नेन भवतः शासनं विभॊ 29 न मे लॊभॊ ऽसति विप्रेन्द्र न भयं न च मत्सरः करिष्यामि हि तत सर्वम उक्तं यत ते मयि परभॊ 30 [वै] शरुत्वा तु वचनं तस्य पाण्डवस्य महात्मनः परहृष्टाः पाण्डवा राजन सहिताः शार्ङ्गधन्वना 31 तथा कथां शुभां शरुत्वा मार्कण्डेयस्य धीमतः विस्मिताः समपद्यन्त पुराणस्य निवेदनात |
1
[mārk] tataś corakṣayaṃ kṛtvā dvijebhyaḥ pṛthivīm imām vājimedhe mahāyajñe vidhivat kalpayiṣyati 2 sthāpayitvā sa maryādāḥ svayambhuvihitāḥ śubhāḥ vanaṃ puṇyayaśaḥ karmā jarāvān saṃśrayiṣyati 3 tac chīlam anuvartsyante manuṣyā lokavāsinaḥ vipraiś corakśaye caiva kṛte kṣemaṃ bhaviśyate 4 kṛṣṇājināni śaktīś ca triśūlāny āyudhāni ca sthāpayan vipra śārdūlo deśeṣu vijiteṣu ca 5 saṃstūyamāno viprendrair mānayāno dvijottamān kalkiś cariṣyati mahīṃ sadā dasyu vadhe rataḥ 6 hā tāta hā sutety evaṃ tās tā vācaḥ sudāruṇāḥ vikrośamānān subhṛśaṃ dasyūn neṣyati saṃśayam 7 tato 'dharmavināśo vai dharmavṛddhiś ca bhārata bhaviṣyati kṛte prāpte kriyāvāṃś ca janas tathā 8 ārāmāś caiva caityāś ca taṭākāny avaṭās tathā yajñakriyāś ca vividhā bhaviṣyanti kṛte yuge 9 brāhmaṇāḥ sādhavaś caiva munayaś ca tapasvinaḥ āśramāḥ saha pāṣaṇḍāḥ sthitāḥ satye janāḥ prajāḥ 10 jāsyanti sarvabījāni upyamānāni caiva ha sarveṣv ṛtuṣu rājendra sarvaṃ sasyaṃ bhaviṣyati 11 narā dāneṣu niratā vrateṣu niyameṣu ca japayajñaparā viprā dharmakāmā mudā yutāḥ pālayiṣyanti rājāno dharmeṇemāṃ vasuṃdharām 12 vyavahāra ratā vaiśyā bhaviṣyanti kṛte yuge ṣaṣ karmaniratā viprāḥ kṣatriyā rakṣaṇe ratāḥ 13 śuśrūṣāyāṃ ratāḥ śūdrās tathā varṇatrayasya ca eṣa dharmaḥ kṛtayuge tretāyāṃ dvāpare tathā paścime yugakāle ca yaḥ sa te saṃprakīrtitaḥ 14 sarvalokasya viditā yugasaṃkhyā ca pāṇḍava etat te sarvam ākhyātam atītānāgataṃ mayā vāyuproktam anusmṛtya purāṇam ṛṣisaṃstutam 15 evaṃ saṃsāramārgā me bahuśaś cirajīvinā dṛṣṭāś caivānubhūtāś ca tāṃs te kathitavān aham 16 idaṃ caivāparaṃ bhūyo saha bhrātṛbhir acyuta dharmasaṃśaya mokṣārthaṃ nibodha vacanaṃ mama 17 dharme tvayātmā saṃyojyo nityaṃ dharmabhṛtāṃ vara dharmātmā hi sukhaṃ rājā pretya ceha ca nandati 18 nibodha ca śubhāṃ vāṇīṃ yāṃ pravakṣyāmi te 'nagha na brāhmaṇe paribhavaḥ kartavyas te kadā cana brāhmaṇo ruṣito hanyād api lokān pratijñayā 19 [vai] mārkaṇḍeya vaco śrutvā kurūṇāṃ pravaro nṛpaḥ uvāca vacanaṃ dhīmān paramaṃ paramadyutiḥ 20 kasmin dharme mayā stheyaṃ prajāḥ saṃrakṣatā mune kathaṃ ca vartamāno vai na cyaveyaṃ svadharmataḥ 21 [mārk] dayāvān sarvabhūteṣu hito rakto 'nasūyakaḥ apatyānām iva sveṣāṃ prajānāṃ rakṣaṇe rataḥ cara dharmaṃ tyajādharmaṃ pitṝn devāṃś ca pūjaya 22 pramādād yatkṛtaṃ te 'bhūt saṃyad dānena taj jaya alaṃ te mānam āśritya satataṃ paravān bhava 23 vijitya pṛthivīṃ sarvāṃ modamānaḥ sukhī bhava eṣa bhūto bhaviṣyaś ca dharmas te samudīritaḥ 24 na te 'sty aviditaṃ kiṃ cid atītānāgataṃ bhuvi tasmād imaṃ parikleśaṃ tvaṃ tāta hṛdi mā kṛthāḥ 25 eṣa kālo mahābāho api sarvadivaukasām muhyanti hi prajās tāta kālenābhipracoditāḥ 26 mā ca te 'tra vicāro bhūd yan mayoktaṃ tavānagha atiśaṅkya vaco hy etad dharmalopo bhavet tava 27 jātāsi prathite vaṃśe kurūṇāṃ bharatarṣabha karmaṇā manasā vācā sarvam etat samācara 28 [y] yat tvayoktaṃ dvijaśreṣṭha vākyaṃ śrutimanoharam tathā kariṣye yatnena bhavataḥ śāsanaṃ vibho 29 na me lobho 'sti viprendra na bhayaṃ na ca matsaraḥ kariṣyāmi hi tat sarvam uktaṃ yat te mayi prabho 30 [vai] śrutvā tu vacanaṃ tasya pāṇḍavasya mahātmanaḥ prahṛṣṭāḥ pāṇḍavā rājan sahitāḥ śārṅgadhanvanā 31 tathā kathāṃ śubhāṃ śrutvā mārkaṇḍeyasya dhīmataḥ vismitāḥ samapadyanta purāṇasya nivedanāt |
The Mahabharata in Sanskrit
Book 3
Chapter 190
|
1
[वै] भूय एव बराह्मणमहाभाग्यं वक्तुम अर्हसीत्य अब्रवीत पाण्डवेयॊ मार्कण्डेयम 2 अथाचष्ट मार्कण्डेयः 3 अयॊध्यायाम इक्षुवाकु कुलॊत्पन्नः पार्थिवः परिक्षिन नाम मृगयाम अगमत 4 तम एकाश्वेन मृगम अनुसरन्तं मृगॊ दूरम अपाहरत 5 अथाध्वनि जातश्रमः कषुत्तृष्णाभिभूतश च कस्मिंश चिद उद्देशे नीलं वनषण्डम अपश्यत तच च विवेश 6 ततस तस्य वनषण्डस्य मध्ये ऽतीव रमणीयं सरॊ दृष्ट्वा साश्वैव वयगाहत 7 अथाश्वस्तः स बिस मृणालम अश्वस्याग्रे निक्षिप्य पुष्करिणी तीरे समाविशत 8 ततः शयानॊ मधुरं गीतशब्दम अशृणॊत 9 स शरुत्वा अचिन्तयत नेह मनुष्यगतिं पश्यामि कस्य खल्व अयं गीतशब्देति 10 अथापश्यत कन्यां परमरूपदर्शनीयां पुष्पाण्य अवचिन्वतीं गायन्तीं च 11 अथ सा राज्ञः समीपे पर्यक्रामत 12 ताम अब्रवीद राजा कस्यासि सुभगे तवम इति 13 सा परत्युवाच 14 तां राजॊवाच अर्थी तवयाहम इति 15 अथॊवाच कन्या समयेनाहं शक्या तवया लब्धुम नान्यथेति 16 तां राजा समयम अपृच्छत 17 ततः कन्येदम उवाच उदकं मे न दर्शयितव्यम इति 18 स राजा बाढम इत्य उक्त्वा तां समागम्य तया सहास्ते 19 तत्रैवासीने राजनि सेनान्वगच्छत पदेनानुपदं दृष्ट्वा राजानं परिवार्यातिष्ठत 20 पर्याश्वस्तश च राजा तयैव सह शिबिकया परायाद अविघाटितया सवनगरम अनुप्राप्य रहसि तया सह रमन्न आस्ते नान्यत किं चनापश्यत 21 अथ परधानामात्यस तस्याभ्याश चराः सत्रियॊ ऽपृच्छत किम अत्र परयॊजनं वर्ततेति 22 अथाब्रुवंस ताः सत्रियः अपूर्वम इव पश्यामॊदकं नात्र नीयतेति 23 अथामात्यॊ ऽनुदकं वनं कारयित्वॊदार वृक्षं बहुमूलपुष्पफलं रहस्य उपगम्य राजानम अब्रवीत वनम इदम उदारम अनुदकम साध्व अत्र रम्यताम इति 24 स तस्य वचनात तयैव सहदेव्या तद वनं पराविशत स कदा चित तस्मिन वने रम्ये तयैव सह वयवहरत अथ कषुत तृष्णार्दितः शरान्तॊ ऽतिमात्रम अतिमुक्तागारम अपश्यत 25 तत परविश्य राजा सह परियया सुधा तलसुकृतां विमलसलिलपूर्णां वापीम अपश्यत 26 दृष्ट्वैव च तां तस्यैव तीरे सहैव तया देव्या वयतिष्ठत 27 अथ तां देवीं स राजाब्रवीत साधुव अवतर वापी सलिलम इति 28 सा तद वचॊ शरुत्वावतीर्य वापीं नयमज्जत न पुनर उदमज्जत 29 तां मृगयमाणॊ राजा नापश्यत 30 वापीम अपि निःस्राव्य मण्डूकं शवभ्रमुखे दृष्ट्वा करुद्धाज्ञापयाम आस सर्वमण्डूक वधः करियताम इति यॊ मयार्थी स मृतकरि मण्डूकैर उपायनैर माम उपतिष्ठेद इति 31 अथ मण्डूकवधे घॊरे करियमाणे दिक्षु सर्वासु मण्डूकान भयम आविशत ते भीता मण्डूकराज्ञे यथावृत्तं नयवेदयन 32 ततॊ मण्डूकराट तापस वेषधारी राजानम अभ्यगच्छत 33 उपेत्य चैनम उवाच मा राजन करॊधवशं गमः परसादं कुरु नार्हसि मण्डूकानाम अनपराधिनां वधं कर्तुम इति 34 शलॊकौ चात्र भवतः मा मण्डूकाञ जिघांस तवं कॊपं संधार्ययाच्युत परक्षीयते धनॊद्रेकॊ जनानाम अविजानताम 35 परतिजानीहि नैतांस तवं पराप्य करॊधं विमॊक्ष्यसे अलं कृत्वा तवाधर्मं मण्डूकैः किं हतैर हि ते 36 तम एवं वादिनम इष्टजनशॊकपरीतात्मा राजा परॊवाच न हि कषम्यते तन मया हनिष्याम्य एतान एतैर दुरात्मभिः परिया मे भक्षिता सर्वथैव मे वध्या मण्डूकाः नार्हसि विद्वन माम उपरॊद्धुम इति 37 स तद वाक्यम उपलभ्य वयथितेन्द्रिय मनः परॊवाच परसीद राजन अहम आयुर नाम मण्डूकराजः मम सा दुहिता सुशॊभना नाम तस्या दौःशील्यम एतत बहवॊ हि राजानस तया विप्रलब्ध पूर्वेति 38 तम अब्रवीद राजा तयास्म्य अर्थी स मे दीयताम इति 39 अथैनां राज्ञे पितादात अब्रवीच चैनाम एनं राजानं शुश्रूषस्वेति 40 सॊवाच दुहितरम यस्मात तवया राजानॊ विप्रलब्धास तस्माद अब्रह्मण्यानि तवापत्यानि भविष्यन्त्य अनृतकत्वात तवेति 41 स च राजा ताम उपलभ्य तस्यां सुरत गुणनिबद्धहृदयॊ लॊकत्रयैश्वर्यम इवॊपलभ्य हर्षबाष्पकलया वाच परणिपत्याभिपूज्य मण्डूकराजानम अब्रवीत अनुगृहीतॊ ऽसमीति 42 स च मण्डूकराजॊ जामातरम अनुज्ञाप्य यथागतम अगच्छत 43 अथ कस्य चित कालस्य तस्यां कुमारास तरयस तस्य राज्ञः संबभूवुः शलॊ दलॊ बलश चेति ततस तेषां जयेष्ठं शलं समये पिता राज्ये ऽभिषिच्य तपसि धृतात्मा वनं जगाम 44 अथ कदा चिच छिलॊ मृगयाम अचरत मृगं चासाद्य रथेनान्वधावत 45 सूतं चॊवाच शीघ्रं मां वहस्वेति 46 स तथॊक्तः सूतॊ राजानम अब्रवीत मा करियताम अनुबन्धः नैष शक्यस तवया मृगॊ गरहीतुं यद्य अपि ते रथे युक्तौ वाम्य सयाताम इति 47 ततॊ ऽबरवीद राजा सूतम आचक्ष्व मे वाम्य हन्मि वा तवाम इति 48 सैवम उक्तॊ राजभयभीतॊ वामदेव शापभीतश च सन्न आचख्यौ राज्ञे वामदेवस्याश्वौ वाम्य मनॊजवाव इति 49 अथैनम एवं बरुवाणम अब्रवीद राजा वामदेवाश्रमं याहीति 50 स गत्वा वामदेवाश्रमं तम ऋषिम अब्रवीत भगवन मृगॊ मया विद्धः पालयते तं संभावयेयम अर्हसि मे वाम्य दातुम इति 51 तम अब्रवीद ऋषिः ददानि ते वाम्य कृतकार्येण भवता ममैव निर्यात्यौ कषिप्रम इति 52 स च ताव अश्वौ परतिगृह्यानुज्ञाप्य चर्षिं परायाद वाम्य संयुक्तेन रथेन मृगं परति गच्छंश चाब्रवीत सूतम अश्वरत्नाव इमाव अयॊग्यौ बराह्मणानाम नैतौ परतिदेयौ वामदेवायेति 53 एवम उक्त्वा मृगम अवाप्य सवनगरम एत्याश्वावन्तःपुरे ऽसथापयत 54 अथर्षिश चिन्तयाम आस तरुणॊ राजपुत्रः कल्याणं पत्रम आसाद्य रमते न मे परतिनिर्यातयति अहॊ कष्टम इति 55 मनसा निश्चित्य मासि पूर्णे शिष्यम अब्रवीत गच्छात्रेय राजानं बरूहि यदि पर्याप्तं निर्यातयॊपाध्याय वाम्येति 56 स गत्वैवं तं राजानम अब्रवीत 57 तं राजा परत्युवाच राज्ञाम एतद वाहनम अनर्हा बराह्मणा रत्नानाम एवंविधानाम किं च बराह्मणानाम अश्वैः कार्यम साधु परतिगम्यताम इति 58 स गत्वैवम उपाध्यायायाचष्ट 59 तच छरुत्वा वचनम अप्रियं वामदेवः करॊधपरीतात्मा सवयम एव राजानम अभिगम्याश्वार्थम अभ्यचॊदयत न चादाद राजा 60 [वाम] परयच्छ वाम्यौ मम पार्थिव तवं; कृतं हि ते कार्यम अन्यैर अशक्यम मा तवा वधीद वरुणॊ घॊरपाशैर; बरह्मक्षत्रस्यान्तरे वर्तमानः 61 [राजा] अनड्वाहौ सुव्रतौ साधु दान्ताव; एतद विप्राणां वाहनं वामदेव ताभ्यां याहि तवं यत्र कामॊ महर्षे; छन्दांसि वै तवादृशं संवहन्ति 62 [वाम] छन्दांसि वै मादृशं संवहन्ति; लॊके ऽमुष्मिन पार्थिव यानि सन्ति अस्मिंस तु लॊके मम यानम एतद; अस्मद्विधानाम अपरेषां च राजन 63 [राजा] चत्वारॊ वा गर्दभास तवां वहन्तु; शरेष्ठाश्वतर्यॊ हरयॊ वा तुरंगाः तैस तवं याहि कषत्रियस्यैष वाहॊ; मम वाम्यौ न तवैतौ हि विद्धि 64 [वाम] घॊरं वरतं बराह्मणस्यैतद आहुर; एतद राजन यद इहाजीवमानः अयस्मया घॊररूपा महान्तॊ; वहन्तु तवां शितशूलाश चतुर्धा 65 [राजा] ये तवा विदुर बराह्मणं वामदेव; वाचा हन्तुं मनसा कर्मणा वा ते तवां सशिष्यम इह पातयन्तु; मद्वाक्यनुन्नाः शितशूलासि हस्ताः 66 [वाम] नानुयॊगा बराह्मणानां भवन्ति; वाचा राजन मनसा कर्मणा वा यस तव एवं बरह्म तपसान्वेति; विद्वांस तेन शरेष्ठॊ भवति हि जीवमानः 67 [मार्क] एवम उक्ते वामदेवेन राजन; समुत्तस्थू राक्षसा घॊररूपाः तैः शूलहस्तैर वध्यमानः स राजा; परॊवाचेदं वाक्यम उच्चैस तदानीम 68 इक्ष्वाकवॊ यदि बरह्मन दलॊ वा; विधेया मे यदि वान्ये विशॊ ऽपि नॊत्स्रक्ष्ये ऽहं वामदेवस्य वाम्यौ; नैवंविधा धर्मशीला भवन्ति 69 एवं बरुवन्न एव स यातुधानैर; हतॊ जगामाशु महीं कषितीशः ततॊ विदित्वा नृपतिं निपातितम; इक्ष्वाकवॊ वै दलम अभ्यषिञ्चन 70 राज्ये तदा तत्र गत्वा स विप्रः; परॊवाचेदं वचनं वामदेवः दलं राजानं बराह्मणानां हि देयम; एवं राजन सर्वधर्मेषु दृष्टम 71 बिभेषि चेत तवम अधर्मान नरेन्द्र; परयच्छ मे शीघ्रम एवाद्य वाम्यौ एतच छरुत्वा वामदेवस्य वाक्यं; स पार्थिवः सूतम उवाच रॊषात 72 एकं हि मे सायकं चित्ररूपं; दिग्धं विषेणाहर संगृहीतम येन विद्धॊ वामदेवः शयीत; संदश्यमानः शवभिर आर्तरूपः 73 [वाम] जानामि पुत्रं दशवर्षं तवाहं; जातं महिष्यां शयेनजितं नरेन्द्र तं जहि तवं मद्वचनात परणुन्नस; तूर्णं परियं सायकैर घॊररूपैः 74 [मार्क] एवम उक्तॊ वामदेवेन राजन्न; अन्तःपुरे राजपुत्रं जघान स सायकस तिग्मतेजा विसृष्टः; शरुत्वा दलस तच च वाक्यं बभाषे 75 इक्ष्वाकवॊ हन्त चरामि वः परियं; निहन्मीमं विप्रम अद्य परमथ्य आनीयताम अपरस तिग्मतेजाः; पश्यध्वं मे वीर्यम अद्य कषितीशाः 76 [वाम] यं तवम एनं सायकं घॊररूपं; विषेण दिग्धं मम संदधासि न तवम एनं शरवर्यं विमॊक्तुं; संधातुं वा शक्ष्यसि मानवेन्द्र 77 [राजा] इक्ष्वाकवः पश्यत मां गृहीतं; न वै शक्नॊम्य एष शरं विमॊक्तुम न चास्य कर्तुं नाशम अभ्युत्सहामि; आयुष्मान वै जीवतु वामदेवः 78 [वाम] संस्पृशैनां महिषीं सायकेन; ततस तस्माद एनसॊ मॊक्ष्यसे तवम 79 [मार्क] ततस तथा कृतवान पार्थिवस तु; ततॊ मुनिं राजपुत्री बभाषे यथा युक्तं वामदेवाहम एनं; दिने दिने संविशन्ती वयशंसम बराह्मणेभ्यॊ मृगयन्ती सूनृतानि; तथा बरह्मन पुण्यलॊकं लभेयम 80 [वाम] तवया तरातं राजकुलं शुभेक्षणे; वरं वृणीष्वाप्रतिमं ददानि ते परशाधीमं सवजनं राजपुत्रि; इक्ष्वाकुराज्यं सुमहच चाप्य अनिन्द्ये 81 [राजपुत्री] वरं वृणे भगवन्न एकम एव; विमुच्यतां किल्बिषाद अद्य भर्ता शिवेन चाध्याहि सपुत्रबान्धवं; वरॊ वृतॊ हय एष मया दविजाग्र्य 82 [मार्क] शरुत्वा वचॊ स मुनी राजपुत्र्यास; तथास्त्व इति पराह कुरुप्रवीर ततः स राजा मुदितॊ बभूव; वाम्यौ चास्मै संप्रददौ परणम्य |
1
[vai] bhūya eva brāhmaṇamahābhāgyaṃ vaktum arhasīty abravīt pāṇḍaveyo mārkaṇḍeyam 2 athācaṣṭa mārkaṇḍeyaḥ 3 ayodhyāyām ikṣuvāku kulotpannaḥ pārthivaḥ parikṣin nāma mṛgayām agamat 4 tam ekāśvena mṛgam anusarantaṃ mṛgo dūram apāharat 5 athādhvani jātaśramaḥ kṣuttṛṣṇābhibhūtaś ca kasmiṃś cid uddeśe nīlaṃ vanaṣaṇḍam apaśyat tac ca viveśa 6 tatas tasya vanaṣaṇḍasya madhye 'tīva ramaṇīyaṃ saro dṛṣṭvā sāśvaiva vyagāhata 7 athāśvastaḥ sa bisa mṛṇālam aśvasyāgre nikṣipya puṣkariṇī tīre samāviśat 8 tataḥ śayāno madhuraṃ gītaśabdam aśṛṇot 9 sa śrutvā acintayat neha manuṣyagatiṃ paśyāmi kasya khalv ayaṃ gītaśabdeti 10 athāpaśyat kanyāṃ paramarūpadarśanīyāṃ puṣpāṇy avacinvatīṃ gāyantīṃ ca 11 atha sā rājñaḥ samīpe paryakrāmat 12 tām abravīd rājā kasyāsi subhage tvam iti 13 sā pratyuvāca 14 tāṃ rājovāca arthī tvayāham iti 15 athovāca kanyā samayenāhaṃ śakyā tvayā labdhum nānyatheti 16 tāṃ rājā samayam apṛcchat 17 tataḥ kanyedam uvāca udakaṃ me na darśayitavyam iti 18 sa rājā bāḍham ity uktvā tāṃ samāgamya tayā sahāste 19 tatraivāsīne rājani senānvagacchat padenānupadaṃ dṛṣṭvā rājānaṃ parivāryātiṣṭhat 20 paryāśvastaś ca rājā tayaiva saha śibikayā prāyād avighāṭitayā svanagaram anuprāpya rahasi tayā saha ramann āste nānyat kiṃ canāpaśyat 21 atha pradhānāmātyas tasyābhyāśa carāḥ striyo 'pṛcchat kim atra prayojanaṃ vartateti 22 athābruvaṃs tāḥ striyaḥ apūrvam iva paśyāmodakaṃ nātra nīyateti 23 athāmātyo 'nudakaṃ vanaṃ kārayitvodāra vṛkṣaṃ bahumūlapuṣpaphalaṃ rahasy upagamya rājānam abravīt vanam idam udāram anudakam sādhv atra ramyatām iti 24 sa tasya vacanāt tayaiva sahadevyā tad vanaṃ prāviśat sa kadā cit tasmin vane ramye tayaiva saha vyavaharat atha kṣut tṛṣṇārditaḥ śrānto 'timātram atimuktāgāram apaśyat 25 tata praviśya rājā saha priyayā sudhā talasukṛtāṃ vimalasalilapūrṇāṃ vāpīm apaśyat 26 dṛṣṭvaiva ca tāṃ tasyaiva tīre sahaiva tayā devyā vyatiṣṭhat 27 atha tāṃ devīṃ sa rājābravīt sādhuv avatara vāpī salilam iti 28 sā tad vaco śrutvāvatīrya vāpīṃ nyamajjat na punar udamajjat 29 tāṃ mṛgayamāṇo rājā nāpaśyat 30 vāpīm api niḥsrāvya maṇḍūkaṃ śvabhramukhe dṛṣṭvā kruddhājñāpayām āsa sarvamaṇḍūka vadhaḥ kriyatām iti yo mayārthī sa mṛtakari maṇḍūkair upāyanair mām upatiṣṭhed iti 31 atha maṇḍūkavadhe ghore kriyamāṇe dikṣu sarvāsu maṇḍūkān bhayam āviśat te bhītā maṇḍūkarājñe yathāvṛttaṃ nyavedayan 32 tato maṇḍūkarāṭ tāpasa veṣadhārī rājānam abhyagacchat 33 upetya cainam uvāca mā rājan krodhavaśaṃ gamaḥ prasādaṃ kuru nārhasi maṇḍūkānām anaparādhināṃ vadhaṃ kartum iti 34 ślokau cātra bhavataḥ mā maṇḍūkāñ jighāṃsa tvaṃ kopaṃ saṃdhāryayācyuta prakṣīyate dhanodreko janānām avijānatām 35 pratijānīhi naitāṃs tvaṃ prāpya krodhaṃ vimokṣyase alaṃ kṛtvā tavādharmaṃ maṇḍūkaiḥ kiṃ hatair hi te 36 tam evaṃ vādinam iṣṭajanaśokaparītātmā rājā provāca na hi kṣamyate tan mayā haniṣyāmy etān etair durātmabhiḥ priyā me bhakṣitā sarvathaiva me vadhyā maṇḍūkāḥ nārhasi vidvan mām uparoddhum iti 37 sa tad vākyam upalabhya vyathitendriya manaḥ provāca prasīda rājan aham āyur nāma maṇḍūkarājaḥ mama sā duhitā suśobhanā nāma tasyā dauḥśīlyam etat bahavo hi rājānas tayā vipralabdha pūrveti 38 tam abravīd rājā tayāsmy arthī sa me dīyatām iti 39 athaināṃ rājñe pitādāt abravīc cainām enaṃ rājānaṃ śuśrūṣasveti 40 sovāca duhitaram yasmāt tvayā rājāno vipralabdhās tasmād abrahmaṇyāni tavāpatyāni bhaviṣyanty anṛtakatvāt taveti 41 sa ca rājā tām upalabhya tasyāṃ surata guṇanibaddhahṛdayo lokatrayaiśvaryam ivopalabhya harṣabāṣpakalayā vāca praṇipatyābhipūjya maṇḍūkarājānam abravīt anugṛhīto 'smīti 42 sa ca maṇḍūkarājo jāmātaram anujñāpya yathāgatam agacchat 43 atha kasya cit kālasya tasyāṃ kumārās trayas tasya rājñaḥ saṃbabhūvuḥ śalo dalo balaś ceti tatas teṣāṃ jyeṣṭhaṃ śalaṃ samaye pitā rājye 'bhiṣicya tapasi dhṛtātmā vanaṃ jagāma 44 atha kadā cic chilo mṛgayām acarat mṛgaṃ cāsādya rathenānvadhāvat 45 sūtaṃ covāca śīghraṃ māṃ vahasveti 46 sa tathoktaḥ sūto rājānam abravīt mā kriyatām anubandhaḥ naiṣa śakyas tvayā mṛgo grahītuṃ yady api te rathe yuktau vāmya syātām iti 47 tato 'bravīd rājā sūtam ācakṣva me vāmya hanmi vā tvām iti 48 saivam ukto rājabhayabhīto vāmadeva śāpabhītaś ca sann ācakhyau rājñe vāmadevasyāśvau vāmya manojavāv iti 49 athainam evaṃ bruvāṇam abravīd rājā vāmadevāśramaṃ yāhīti 50 sa gatvā vāmadevāśramaṃ tam ṛṣim abravīt bhagavan mṛgo mayā viddhaḥ pālayate taṃ saṃbhāvayeyam arhasi me vāmya dātum iti 51 tam abravīd ṛṣiḥ dadāni te vāmya kṛtakāryeṇa bhavatā mamaiva niryātyau kṣipram iti 52 sa ca tāv aśvau pratigṛhyānujñāpya carṣiṃ prāyād vāmya saṃyuktena rathena mṛgaṃ prati gacchaṃś cābravīt sūtam aśvaratnāv imāv ayogyau brāhmaṇānām naitau pratideyau vāmadevāyeti 53 evam uktvā mṛgam avāpya svanagaram etyāśvāvantaḥpure 'sthāpayat 54 atharṣiś cintayām āsa taruṇo rājaputraḥ kalyāṇaṃ patram āsādya ramate na me pratiniryātayati aho kaṣṭam iti 55 manasā niścitya māsi pūrṇe śiṣyam abravīt gacchātreya rājānaṃ brūhi yadi paryāptaṃ niryātayopādhyāya vāmyeti 56 sa gatvaivaṃ taṃ rājānam abravīt 57 taṃ rājā pratyuvāca rājñām etad vāhanam anarhā brāhmaṇā ratnānām evaṃvidhānām kiṃ ca brāhmaṇānām aśvaiḥ kāryam sādhu pratigamyatām iti 58 sa gatvaivam upādhyāyāyācaṣṭa 59 tac chrutvā vacanam apriyaṃ vāmadevaḥ krodhaparītātmā svayam eva rājānam abhigamyāśvārtham abhyacodayat na cādād rājā 60 [vāma] prayaccha vāmyau mama pārthiva tvaṃ; kṛtaṃ hi te kāryam anyair aśakyam mā tvā vadhīd varuṇo ghorapāśair; brahmakṣatrasyāntare vartamānaḥ 61 [rājā] anaḍvāhau suvratau sādhu dāntāv; etad viprāṇāṃ vāhanaṃ vāmadeva tābhyāṃ yāhi tvaṃ yatra kāmo maharṣe; chandāṃsi vai tvādṛśaṃ saṃvahanti 62 [vāma] chandāṃsi vai mādṛśaṃ saṃvahanti; loke 'muṣmin pārthiva yāni santi asmiṃs tu loke mama yānam etad; asmadvidhānām apareṣāṃ ca rājan 63 [rājā] catvāro vā gardabhās tvāṃ vahantu; śreṣṭhāśvataryo harayo vā turaṃgāḥ tais tvaṃ yāhi kṣatriyasyaiṣa vāho; mama vāmyau na tavaitau hi viddhi 64 [vāma] ghoraṃ vrataṃ brāhmaṇasyaitad āhur; etad rājan yad ihājīvamānaḥ ayasmayā ghorarūpā mahānto; vahantu tvāṃ śitaśūlāś caturdhā 65 [rājā] ye tvā vidur brāhmaṇaṃ vāmadeva; vācā hantuṃ manasā karmaṇā vā te tvāṃ saśiṣyam iha pātayantu; madvākyanunnāḥ śitaśūlāsi hastāḥ 66 [vāma] nānuyogā brāhmaṇānāṃ bhavanti; vācā rājan manasā karmaṇā vā yas tv evaṃ brahma tapasānveti; vidvāṃs tena śreṣṭho bhavati hi jīvamānaḥ 67 [mārk] evam ukte vāmadevena rājan; samuttasthū rākṣasā ghorarūpāḥ taiḥ śūlahastair vadhyamānaḥ sa rājā; provācedaṃ vākyam uccais tadānīm 68 ikṣvākavo yadi brahman dalo vā; vidheyā me yadi vānye viśo 'pi notsrakṣye 'haṃ vāmadevasya vāmyau; naivaṃvidhā dharmaśīlā bhavanti 69 evaṃ bruvann eva sa yātudhānair; hato jagāmāśu mahīṃ kṣitīśaḥ tato viditvā nṛpatiṃ nipātitam; ikṣvākavo vai dalam abhyaṣiñcan 70 rājye tadā tatra gatvā sa vipraḥ; provācedaṃ vacanaṃ vāmadevaḥ dalaṃ rājānaṃ brāhmaṇānāṃ hi deyam; evaṃ rājan sarvadharmeṣu dṛṣṭam 71 bibheṣi cet tvam adharmān narendra; prayaccha me śīghram evādya vāmyau etac chrutvā vāmadevasya vākyaṃ; sa pārthivaḥ sūtam uvāca roṣāt 72 ekaṃ hi me sāyakaṃ citrarūpaṃ; digdhaṃ viṣeṇāhara saṃgṛhītam yena viddho vāmadevaḥ śayīta; saṃdaśyamānaḥ śvabhir ārtarūpaḥ 73 [vāma] jānāmi putraṃ daśavarṣaṃ tavāhaṃ; jātaṃ mahiṣyāṃ śyenajitaṃ narendra taṃ jahi tvaṃ madvacanāt praṇunnas; tūrṇaṃ priyaṃ sāyakair ghorarūpaiḥ 74 [mārk] evam ukto vāmadevena rājann; antaḥpure rājaputraṃ jaghāna sa sāyakas tigmatejā visṛṣṭaḥ; śrutvā dalas tac ca vākyaṃ babhāṣe 75 ikṣvākavo hanta carāmi vaḥ priyaṃ; nihanmīmaṃ vipram adya pramathya ānīyatām aparas tigmatejāḥ; paśyadhvaṃ me vīryam adya kṣitīśāḥ 76 [vāma] yaṃ tvam enaṃ sāyakaṃ ghorarūpaṃ; viṣeṇa digdhaṃ mama saṃdadhāsi na tvam enaṃ śaravaryaṃ vimoktuṃ; saṃdhātuṃ vā śakṣyasi mānavendra 77 [rājā] ikṣvākavaḥ paśyata māṃ gṛhītaṃ; na vai śaknomy eṣa śaraṃ vimoktum na cāsya kartuṃ nāśam abhyutsahāmi; āyuṣmān vai jīvatu vāmadevaḥ 78 [vāma] saṃspṛśaināṃ mahiṣīṃ sāyakena; tatas tasmād enaso mokṣyase tvam 79 [mārk] tatas tathā kṛtavān pārthivas tu; tato muniṃ rājaputrī babhāṣe yathā yuktaṃ vāmadevāham enaṃ; dine dine saṃviśantī vyaśaṃsam brāhmaṇebhyo mṛgayantī sūnṛtāni; tathā brahman puṇyalokaṃ labheyam 80 [vāma] tvayā trātaṃ rājakulaṃ śubhekṣaṇe; varaṃ vṛṇīṣvāpratimaṃ dadāni te praśādhīmaṃ svajanaṃ rājaputri; ikṣvākurājyaṃ sumahac cāpy anindye 81 [rājaputrī] varaṃ vṛṇe bhagavann ekam eva; vimucyatāṃ kilbiṣād adya bhartā śivena cādhyāhi saputrabāndhavaṃ; varo vṛto hy eṣa mayā dvijāgrya 82 [mārk] śrutvā vaco sa munī rājaputryās; tathāstv iti prāha kurupravīra tataḥ sa rājā mudito babhūva; vāmyau cāsmai saṃpradadau praṇamya |
The Mahabharata in Sanskrit
Book 3
Chapter 191
|
1
[वै] मार्कण्डेयम ऋषयः पाण्डवाश च पर्यपृच्छन अस्ति कश चिद भवतश चिरजाततरेति 2 स तान उवाच अस्ति खलु राजर्षिर इन्द्रद्युम्नॊ नाम कषीणपुण्यस तरिदिवात परच्युतः कीर्तिस ते वयुच्छिन्नेति स माम उपातिष्ठत अथ परत्यभिजानाति मां भवान इति 3 तम अहम अब्रुवम न वयं रासायनिकाः शरीरॊपतापेनात्मनः समारभामहे ऽरथानाम अनुष्ठानम 4 अस्ति खलु हिमवति पराकारकर्णॊ नामॊलूकः स भवन्तं यदि जानीयात परकृष्टे चाध्वनि हिमवान तत्रासौ परतिवसतीति 5 स माम अश्वॊ भूत्वा तत्रावहद यत्र बभूवॊलूकः 6 अथैनं स राजर्षिः पर्यपृच्छत परत्यभिजानाति मां भवान इति 7 स मुहूर्तं धयात्वाब्रवीद एनम नाभिजाने भवन्तम इति 8 सैवम उक्तॊ राजर्षिर इन्द्रद्युमः पुनस तम उलूकम अब्रवीत अस्ति कश चिद भवतश चिरजाततरेति 9 सैवम उक्तॊ ऽबरवीद एनम अस्ति खल्व इन्द्रद्युम्नसरॊ नाम तस्मिन नाडीजङ्घॊ नाम बकः परतिवसति सॊ ऽसमत्तश चिरजाततरः तं पृच्छेति 10 ततेन्द्रद्युम्नॊ मां चॊलूकं चादाय तत सरॊ ऽगच्छद यत्रासौ नाडीजङ्घॊ नाम बकॊ बभूव 11 सॊ ऽसमाभिः पृष्टः भवान इन्द्रद्युनं राजानं परत्यभिजानातीति 12 सैवम उक्तॊ ऽबरवीन मुहूर्तं धयात्वा नाभिजानाम्य अहम इन्द्रद्युम्नं राजानम इति 13 ततः सॊ ऽसमाभिः पृष्टः अस्ति कश चिद अन्यॊ भवतश चिरजाततरेति 14 स नॊ ऽबरवीद अस्ति खल्व इहैव सरस्य अकूपारॊ नाम कच्छपः परतिवसति स मत्तश चिरजाततरेति स यदि कथं चिद अभिजानीयाद इमं राजानं तम अकूपारं पृच्छामेति 15 ततः स बकस तम अकूपारं कच्छपं विज्ञापयाम आस अस्त्य अस्माकम अभिप्रेतं भवन्तं कं चिद अर्थम अभिप्रष्टुम साध्व आगम्यतां तावद इति 16 एतच छरुत्वा स कच्छपस तस्मात सरसॊत्थायाभ्यगच्छद यत्र तिष्ठामॊ वयं तस्य सरसस तीरे 17 आगतं चैनं वयम अपृच्छाम भवान इन्द्रद्युम्नं राजानम अभिजानातीति 18 स मुहूर्तं धयात्वा बाष्पपूर्णनयन उद्विग्नहृदयॊ वेपमानॊ विसंज्ञकल्पः पराञ्जलिर अब्रवीत किम अहम एनं न परत्यभिजानामि अहं हय अनेन सहस्रकृत्वः पूर्वम अग्निचितिषूपहित पूर्वः सरश चेदम अस्य दक्षिणादत्ताभिर गॊभिर अतिक्रममाणाभिः कृतम अत्र चाहं परतिवसामीति 19 अथैतत कच्छपेनॊदाहृतं शरुत्वा समनन्तरं देवलॊकाद देव रथः परादुरासीत 20 वाचॊ चाश्रूयन्तेन्द्रद्युम्नं परति परस्तुतस ते सवर्गः यथॊचितं सथानम अभिपद्यस्व कीर्तिमान असि अव्यग्रॊ याहीति 21 दिवं सपृशति भूमिं च शब्दः पुण्यस्य कर्मणः यावत स शब्दॊ भवति तावत पुरुष उच्यते 22 अकीर्तिः कीर्त्यते यस्य लॊके भूतस्य कस्य चित पतत्य एवाधमाँल लॊकान यावच छब्दः स कीर्त्यते 23 तस्मात कल्याण वृत्तः सयाद अत्यन्ताय नरॊ भुवि विहाय वृत्तं पापिष्ठं धर्मम एवाभिसंश्रयेत 24 इत्य एतच छरुत्वा स राजाब्रवीत तिष्ठ तावद यावद इदानीम इमौ वृद्धौ यथास्थानं परतिपादयामीति 25 स मां पराकारकर्णं चॊलूकं यथॊचिते सथाने परतिपाद्य तेनैव यानेन संसिद्धॊ यथॊचितं सथानं परतिपन्नः 26 एतन मयानुभूतं चिरजीविना दृष्टम इति पाण्डवान उवाच मार्कण्डेयः 27 पाण्डवाश चॊचुः परीताः साधु शॊभनं कृतं भवता राजानम इन्द्रद्युम्नं सवर्गलॊकाच चयुतं सवे सथाने सवर्गे पुनः परतिपादयतेति 28 अथैनाम अब्रवीद असौ ननु देवकीपुत्रेणापि कृष्णेन नरके मज्जमानॊ राजर्षिर नृगस तस्मात कृच्छ्रात समुद्धृत्य पुनः सवर्गं परतिपादितेति |
1
[vai] mārkaṇḍeyam ṛṣayaḥ pāṇḍavāś ca paryapṛcchan asti kaś cid bhavataś cirajātatareti 2 sa tān uvāca asti khalu rājarṣir indradyumno nāma kṣīṇapuṇyas tridivāt pracyutaḥ kīrtis te vyucchinneti sa mām upātiṣṭhat atha pratyabhijānāti māṃ bhavān iti 3 tam aham abruvam na vayaṃ rāsāyanikāḥ śarīropatāpenātmanaḥ samārabhāmahe 'rthānām anuṣṭhānam 4 asti khalu himavati prākārakarṇo nāmolūkaḥ sa bhavantaṃ yadi jānīyāt prakṛṣṭe cādhvani himavān tatrāsau prativasatīti 5 sa mām aśvo bhūtvā tatrāvahad yatra babhūvolūkaḥ 6 athainaṃ sa rājarṣiḥ paryapṛcchat pratyabhijānāti māṃ bhavān iti 7 sa muhūrtaṃ dhyātvābravīd enam nābhijāne bhavantam iti 8 saivam ukto rājarṣir indradyumaḥ punas tam ulūkam abravīt asti kaś cid bhavataś cirajātatareti 9 saivam ukto 'bravīd enam asti khalv indradyumnasaro nāma tasmin nāḍījaṅgho nāma bakaḥ prativasati so 'smattaś cirajātataraḥ taṃ pṛccheti 10 tatendradyumno māṃ colūkaṃ cādāya tat saro 'gacchad yatrāsau nāḍījaṅgho nāma bako babhūva 11 so 'smābhiḥ pṛṣṭaḥ bhavān indradyunaṃ rājānaṃ pratyabhijānātīti 12 saivam ukto 'bravīn muhūrtaṃ dhyātvā nābhijānāmy aham indradyumnaṃ rājānam iti 13 tataḥ so 'smābhiḥ pṛṣṭaḥ asti kaś cid anyo bhavataś cirajātatareti 14 sa no 'bravīd asti khalv ihaiva sarasy akūpāro nāma kacchapaḥ prativasati sa mattaś cirajātatareti sa yadi kathaṃ cid abhijānīyād imaṃ rājānaṃ tam akūpāraṃ pṛcchāmeti 15 tataḥ sa bakas tam akūpāraṃ kacchapaṃ vijñāpayām āsa asty asmākam abhipretaṃ bhavantaṃ kaṃ cid artham abhipraṣṭum sādhv āgamyatāṃ tāvad iti 16 etac chrutvā sa kacchapas tasmāt sarasotthāyābhyagacchad yatra tiṣṭhāmo vayaṃ tasya sarasas tīre 17 āgataṃ cainaṃ vayam apṛcchāma bhavān indradyumnaṃ rājānam abhijānātīti 18 sa muhūrtaṃ dhyātvā bāṣpapūrṇanayan udvignahṛdayo vepamāno visaṃjñakalpaḥ prāñjalir abravīt kim aham enaṃ na pratyabhijānāmi ahaṃ hy anena sahasrakṛtvaḥ pūrvam agnicitiṣūpahita pūrvaḥ saraś cedam asya dakṣiṇādattābhir gobhir atikramamāṇābhiḥ kṛtam atra cāhaṃ prativasāmīti 19 athaitat kacchapenodāhṛtaṃ śrutvā samanantaraṃ devalokād deva rathaḥ prādurāsīt 20 vāco cāśrūyantendradyumnaṃ prati prastutas te svargaḥ yathocitaṃ sthānam abhipadyasva kīrtimān asi avyagro yāhīti 21 divaṃ spṛśati bhūmiṃ ca śabdaḥ puṇyasya karmaṇaḥ yāvat sa śabdo bhavati tāvat puruṣa ucyate 22 akīrtiḥ kīrtyate yasya loke bhūtasya kasya cit pataty evādhamāṁl lokān yāvac chabdaḥ sa kīrtyate 23 tasmāt kalyāṇa vṛttaḥ syād atyantāya naro bhuvi vihāya vṛttaṃ pāpiṣṭhaṃ dharmam evābhisaṃśrayet 24 ity etac chrutvā sa rājābravīt tiṣṭha tāvad yāvad idānīm imau vṛddhau yathāsthānaṃ pratipādayāmīti 25 sa māṃ prākārakarṇaṃ colūkaṃ yathocite sthāne pratipādya tenaiva yānena saṃsiddho yathocitaṃ sthānaṃ pratipannaḥ 26 etan mayānubhūtaṃ cirajīvinā dṛṣṭam iti pāṇḍavān uvāca mārkaṇḍeyaḥ 27 pāṇḍavāś cocuḥ prītāḥ sādhu śobhanaṃ kṛtaṃ bhavatā rājānam indradyumnaṃ svargalokāc cyutaṃ sve sthāne svarge punaḥ pratipādayateti 28 athainām abravīd asau nanu devakīputreṇāpi kṛṣṇena narake majjamāno rājarṣir nṛgas tasmāt kṛcchrāt samuddhṛtya punaḥ svargaṃ pratipāditeti |
The Mahabharata in Sanskrit
Book 3
Chapter 192
|
1
[वै] युधिष्ठिरॊ धर्मराजः पप्रच्छ भरतर्षभ मार्कण्डेयं तपॊवृद्धं दीर्यायुर अम अकल्मषम 2 विदितास तव धर्मज्ञ देवदानवराक्षसाः राजवंशाश च विविधा ऋषिवंशाश च शाश्वताः न ते ऽसत्य अविदितं किं चिद अस्मिँल लॊके दविजॊत्तम 3 कथां वेत्सि मुने दिव्यां मनुष्यॊरगरक्षसाम एतद इच्छाम्य अहं शरॊतुं तत्त्वेन कथितं दविज 4 कुवलाश्व इति खयात इक्ष्वाकुर अपराजितः कथं नाम विपर्यासाद धुन्धुमारत्वम आगतः 5 एतद इच्छामि तत्त्वेन जञातुं भार्गव सत्तम विपर्यस्तं यथा नाम कुवलाश्वस्य धीमतः 6 [मार्क] हन्त ते कथयिष्यामि शृणु राजन युधिष्ठिर धर्मिष्ठम इदम आख्यानं दुन्धु मारस्य तच छृणु 7 यथा स राजा इक्ष्वाकुः कुवलाश्वॊ महीपतिः धुन्धुमारत्वम अगमत तच छृणुष्व महीपते 8 महर्षिर विश्रुतस तात उत्तङ्क इति भारत मरुधन्वसु रम्येषु आश्रमस तस्य कौरव 9 उत्तङ्कस तु महाराज तपॊ ऽतप्यत सुदुश्चरम आरिराधयिषुर विष्णुं बहून वर्षगणान विभॊ 10 तस्य परीतः स भगवान साक्षाद दर्शनम एयिवान दृष्ट्वैव चर्षिः परह्वस तं तुष्टाव विविधैर सतवैः 11 तवया देव परजाः सर्वाः सदेवासुरमानवाः सथावराणि च भूतानि जङ्गमानि तथैव च बरह्म वेदाश च वेद्यं च तवया सृष्टं महाद्युते 12 शिरस ते गगनं देव नेत्रे शशिदिवाकरौ निःश्वासः पनवश चापि तेजॊ ऽगनिश च तवाच्युत बाहवस ते दिशः सर्वाः कुक्षिश चापि महार्णवः 13 ऊरू ते पर्वता देवखं नाभिर मधुसूदन पादौ ते पृथिवी देवी रॊमाण्य ओषधयस तथा 14 इन्द्र सॊमाग्निवरुणा देवासुरमहॊरगाः परह्वास तवाम उपतिष्ठन्ति सतुवन्तॊ विविधैः सतवैः 15 तवया वयाप्तानि सर्वाणि भूतानि भुवनेश्वर यॊगिनः सुमहावीर्याः सतुवन्ति तवां महर्षयः 16 तवयि तुष्टे जगत सवस्थं तवयि करुद्धे महद भयम भयानाम अपनेतासि तवम एकः पुरुषॊत्तम 17 देवानां मानुषाणां च सर्वभूतसुखावहः तरिभिर विक्रमणैर देवत्रयॊ लॊकास तवयाहृताः असुराणां समृद्धानां विनाशश च तवया कृतः 18 तव विक्रमणैर देवा निर्वाणम अगमन परम पराभवं च दैत्येन्द्रास तवयि करुद्धेमहा दयुते 19 तवं हि कर्ता विकर्ता च भूतानाम इह सर्वशः आराधयित्वा तवां देवाः सुखम एधन्ति सर्वशः 20 एवं सतुतॊ हृषीकेश उत्तङ्केन महात्मना उत्तङ्कम अब्रवीद विष्णुः परीतस ते ऽहं वरं वृणु 21 [उत्तन्क] पर्याप्तॊ मे वरह्य एष यद अहं दृष्टवान हरिम पुरुषं शाश्वतं दिव्यं सरष्टारं जगतः परभुम 22 [विस्णु] परीतस ते ऽहम अलौल्येन भक्त्या च दविजसत्तम अवश्यं हि तवया बरह्मन मत्तॊ गराह्यॊ वरद्विज 23 एवं संछन्द्यमानस तु वरेण हरिणा तदा उत्तङ्कः पराञ्जलिर वव्रे वरं भरतसत्तम 24 यदि मे भगवान परीतः पुण्डरीकनिभेक्षणः धर्मे सत्ये दमे चैव बुद्धिर भवतु मे सदा अभ्यासश च भवेद भक्त्या तवयि नित्यं महेश्वर 25 [विस्णु] सर्वम एतद धि भविता मत्प्रसादात तव दविज परतिभास्यति यॊगश च येन युक्तॊ दिवौकसाम तरयाणाम अपि लॊकानां महत कार्यं करिष्यसि 26 उत्सादनार्थं लॊकानां धुन्धुर नाम महासुरः तपस्यति तपॊ घॊरं शृणु यस तं हनिष्यति 27 बृहदश्व इति खयातॊ भविष्यति महीपतिः तस्य पुत्रः शुचिर दान्तः कुवलाश्व इति शरुतः 28 स यॊगबलम आस्थाय मामकं पार्थिवॊत्तमः शासनात तव विप्रर्षे धुन्धुमारॊ भविष्यति 29 उत्तङ्कम एवम उक्त्वा तु विष्णुर अन्तरधीयत |
1
[vai] yudhiṣṭhiro dharmarājaḥ papraccha bharatarṣabha mārkaṇḍeyaṃ tapovṛddhaṃ dīryāyur am akalmaṣam 2 viditās tava dharmajña devadānavarākṣasāḥ rājavaṃśāś ca vividhā ṛṣivaṃśāś ca śāśvatāḥ na te 'sty aviditaṃ kiṃ cid asmiṁl loke dvijottama 3 kathāṃ vetsi mune divyāṃ manuṣyoragarakṣasām etad icchāmy ahaṃ śrotuṃ tattvena kathitaṃ dvija 4 kuvalāśva iti khyāta ikṣvākur aparājitaḥ kathaṃ nāma viparyāsād dhundhumāratvam āgataḥ 5 etad icchāmi tattvena jñātuṃ bhārgava sattama viparyastaṃ yathā nāma kuvalāśvasya dhīmataḥ 6 [mārk] hanta te kathayiṣyāmi śṛṇu rājan yudhiṣṭhira dharmiṣṭham idam ākhyānaṃ dundhu mārasya tac chṛṇu 7 yathā sa rājā ikṣvākuḥ kuvalāśvo mahīpatiḥ dhundhumāratvam agamat tac chṛṇuṣva mahīpate 8 maharṣir viśrutas tāta uttaṅka iti bhārata marudhanvasu ramyeṣu āśramas tasya kaurava 9 uttaṅkas tu mahārāja tapo 'tapyat suduścaram ārirādhayiṣur viṣṇuṃ bahūn varṣagaṇān vibho 10 tasya prītaḥ sa bhagavān sākṣād darśanam eyivān dṛṣṭvaiva carṣiḥ prahvas taṃ tuṣṭāva vividhair stavaiḥ 11 tvayā deva prajāḥ sarvāḥ sadevāsuramānavāḥ sthāvarāṇi ca bhūtāni jaṅgamāni tathaiva ca brahma vedāś ca vedyaṃ ca tvayā sṛṣṭaṃ mahādyute 12 śiras te gaganaṃ deva netre śaśidivākarau niḥśvāsaḥ panavaś cāpi tejo 'gniś ca tavācyuta bāhavas te diśaḥ sarvāḥ kukṣiś cāpi mahārṇavaḥ 13 ūrū te parvatā devakhaṃ nābhir madhusūdana pādau te pṛthivī devī romāṇy oṣadhayas tathā 14 indra somāgnivaruṇā devāsuramahoragāḥ prahvās tvām upatiṣṭhanti stuvanto vividhaiḥ stavaiḥ 15 tvayā vyāptāni sarvāṇi bhūtāni bhuvaneśvara yoginaḥ sumahāvīryāḥ stuvanti tvāṃ maharṣayaḥ 16 tvayi tuṣṭe jagat svasthaṃ tvayi kruddhe mahad bhayam bhayānām apanetāsi tvam ekaḥ puruṣottama 17 devānāṃ mānuṣāṇāṃ ca sarvabhūtasukhāvahaḥ tribhir vikramaṇair devatrayo lokās tvayāhṛtāḥ asurāṇāṃ samṛddhānāṃ vināśaś ca tvayā kṛtaḥ 18 tava vikramaṇair devā nirvāṇam agaman param parābhavaṃ ca daityendrās tvayi kruddhemahā dyute 19 tvaṃ hi kartā vikartā ca bhūtānām iha sarvaśaḥ ārādhayitvā tvāṃ devāḥ sukham edhanti sarvaśaḥ 20 evaṃ stuto hṛṣīkeśa uttaṅkena mahātmanā uttaṅkam abravīd viṣṇuḥ prītas te 'haṃ varaṃ vṛṇu 21 [uttanka] paryāpto me varahy eṣa yad ahaṃ dṛṣṭavān harim puruṣaṃ śāśvataṃ divyaṃ sraṣṭāraṃ jagataḥ prabhum 22 [visṇu] prītas te 'ham alaulyena bhaktyā ca dvijasattama avaśyaṃ hi tvayā brahman matto grāhyo varadvija 23 evaṃ saṃchandyamānas tu vareṇa hariṇā tadā uttaṅkaḥ prāñjalir vavre varaṃ bharatasattama 24 yadi me bhagavān prītaḥ puṇḍarīkanibhekṣaṇaḥ dharme satye dame caiva buddhir bhavatu me sadā abhyāsaś ca bhaved bhaktyā tvayi nityaṃ maheśvara 25 [visṇu] sarvam etad dhi bhavitā matprasādāt tava dvija pratibhāsyati yogaś ca yena yukto divaukasām trayāṇām api lokānāṃ mahat kāryaṃ kariṣyasi 26 utsādanārthaṃ lokānāṃ dhundhur nāma mahāsuraḥ tapasyati tapo ghoraṃ śṛṇu yas taṃ haniṣyati 27 bṛhadaśva iti khyāto bhaviṣyati mahīpatiḥ tasya putraḥ śucir dāntaḥ kuvalāśva iti śrutaḥ 28 sa yogabalam āsthāya māmakaṃ pārthivottamaḥ śāsanāt tava viprarṣe dhundhumāro bhaviṣyati 29 uttaṅkam evam uktvā tu viṣṇur antaradhīyata |
The Mahabharata in Sanskrit
Book 3
Chapter 193
|
1
[मार्क] इक्ष्वाकौ संस्थिते राजञ शशादः पृथिवीम इमाम पराप्तः परमधर्मात्मा सॊ ऽयॊध्यायां नृपॊ ऽभवत 2 शशादस्य तु दायादः ककुत्स्थॊ नाम वीर्यवान अनेनाश चापि काकुत्स्थः पृथुश चानेनसः सुतः 3 विष्वगश्वः पृथॊःपुत्रस तस्माद आर्द्रस तु जज्ञिवान आर्द्रस्य युवनाश्वस तु शरावस्तस तस्य चात्मजः 4 जज्ञे शरावस्तकॊ राजा शरावस्ती येन निर्मिता शरावस्तस्य तु दायादॊ बृहदश्वॊ महाबलः बृहदश्व सुतश चापि कुवलाश्व इति समृतः 5 कुवलाश्वस्य पुत्राणां सहस्राण्य एकविंशतिः सर्वे विद्यासु निष्णाता बलवन्तॊ दुरासदाः 6 कुवलाश्वस तु पितृतॊ गुनैर अभ्यधिकॊ ऽभवत समये तं ततॊ राज्ये बृहदश्वॊ ऽभयषेचयत कुवलाश्वं महाराज शूरम उत्तमधार्मिकम 7 पुत्र संक्रामित शरीस तु बृहदश्वॊ महीपतिः जगाम तपसे धीमांस तपॊवनम अमित्रहा 8 अथ शुश्राव राजर्षिं तम उत्तङ्कॊ युधिष्ठिर वनं संप्रस्थितं राजन बृहदश्वं दविजॊत्तमः 9 तम उत्तङ्कॊ महातेजा सर्वास्त्रविदुषां वरम नयवारयद अमेयात्मा समासाद्य नरॊत्तमम 10 [उत्तन्क] भवता रक्षणं कार्यं तत तावत कर्तुम अर्हसि निरुद्विग्ना वयं राजंस तवत्प्रसादाद वसेमहि 11 तवया हि पृथिवी राजन रक्ष्यमाणा महात्मना भविष्यति निरुद्विग्ना नारण्यं गन्तुम अर्हसि 12 पालने हि महान धर्मः परजानाम इह दृश्यते न तथा दृश्यते ऽरण्ये मा ते भूद बुद्धिर ईदृशी 13 ईदृशॊ न हि राजेन्द्र धर्मः कव चन दृश्यते परजानां पालने यॊ वै पुरा राजर्षिभिः कृतः रक्षितव्याः परजा राज्ञा तास तवं रक्षितुम अर्हसि 14 निरुद्विग्नस तपॊ चर्तुं न हि शक्नॊमि पार्थिव ममाश्रमसमीपे वै समेषु मरुधन्वसु 15 समुद्रॊ बालुका पूर्ण उजानक इति समृतः बहुयॊजनविस्तीर्णॊ बहुयॊजनम आयतः 16 तत्र रौद्रॊ दानवेन्द्रॊ महावीर्यपराक्रमः मधुकैटभयॊः पुत्रॊ धुन्धुर नाम सुदारुणः 17 अन्तर्भूमि गतॊ राजन वसत्य अमितविक्रमः तं निहत्य महाराज वनं तवं गन्तुम अर्हसि 18 शेते लॊकविनाशाय तप आस्थाय दारुणम तरिदशानां विनाशाय लॊकानां चापि पार्थिव 19 अवध्यॊ देवतानां स दैत्यानाम अथ रक्षसाम नागानाम अथ यक्षाणां गन्धर्वाणां च सर्वशः अवाप्य स वरं राजन सर्वलॊकपितामहात 20 तं विनाशय भद्रं ते मा ते बुद्धिर अतॊ ऽनयथा पराप्स्यसे महतीं कीर्तिं शाश्वतीम अव्ययां धरुवाम 21 करूरस्य सवपतस तस्य वालुकान्तर्हितस्य वै संवत्सरस्य पर्यन्ते निःश्वासः संप्रवर्तते यदा तदा भूश चलति सशैलवनकानना 22 तस्य निःश्वासवातेन रज उद्धूयते महत आदित्यपथम आवृत्य सप्ताहं भूमिकम्पनम सविस्फुलिङ्गं सज्वालं सधूमं हय अति दारुणम 23 तेन राजन न शक्नॊमि तस्मिन सथातुं सव आश्रमे तं विनाशय राजेन्द्र लॊकानां हितकाम्यया लॊकाः सवस्था भवन्त्व अद्य तस्मिन विनिहते ऽसुरे 24 तवं हि तस्य विनाशाय पर्याप्त इति मे मतिः तेजसा तव तेजॊ च विष्णुर आप्याययिष्यति 25 विष्णुना च वरॊ दत्तॊ मम पूर्वं ततॊ वधे यस तं महासुरं रौद्रं वधिष्यति महीपतिः तेजस तं वैष्णवम इति परवेक्ष्यति दुरासदम 26 तत तेजस तवं समाधाय राजेन्द्र भुवि दुःसहम तं निषूदय संदुष्टं दैत्यं रौद्रपराक्रमम 27 न हि धुन्धुर महातेजा तेजसाल्पेन शक्यते निर्दग्धुं पृथिवीपाल स हि वर्षशतैर अपि |
1
[mārk] ikṣvākau saṃsthite rājañ śaśādaḥ pṛthivīm imām prāptaḥ paramadharmātmā so 'yodhyāyāṃ nṛpo 'bhavat 2 śaśādasya tu dāyādaḥ kakutstho nāma vīryavān anenāś cāpi kākutsthaḥ pṛthuś cānenasaḥ sutaḥ 3 viṣvagaśvaḥ pṛthoḥputras tasmād ārdras tu jajñivān ārdrasya yuvanāśvas tu śrāvastas tasya cātmajaḥ 4 jajñe śrāvastako rājā śrāvastī yena nirmitā śrāvastasya tu dāyādo bṛhadaśvo mahābalaḥ bṛhadaśva sutaś cāpi kuvalāśva iti smṛtaḥ 5 kuvalāśvasya putrāṇāṃ sahasrāṇy ekaviṃśatiḥ sarve vidyāsu niṣṇātā balavanto durāsadāḥ 6 kuvalāśvas tu pitṛto gunair abhyadhiko 'bhavat samaye taṃ tato rājye bṛhadaśvo 'bhyaṣecayat kuvalāśvaṃ mahārāja śūram uttamadhārmikam 7 putra saṃkrāmita śrīs tu bṛhadaśvo mahīpatiḥ jagāma tapase dhīmāṃs tapovanam amitrahā 8 atha śuśrāva rājarṣiṃ tam uttaṅko yudhiṣṭhira vanaṃ saṃprasthitaṃ rājan bṛhadaśvaṃ dvijottamaḥ 9 tam uttaṅko mahātejā sarvāstraviduṣāṃ varam nyavārayad ameyātmā samāsādya narottamam 10 [uttanka] bhavatā rakṣaṇaṃ kāryaṃ tat tāvat kartum arhasi nirudvignā vayaṃ rājaṃs tvatprasādād vasemahi 11 tvayā hi pṛthivī rājan rakṣyamāṇā mahātmanā bhaviṣyati nirudvignā nāraṇyaṃ gantum arhasi 12 pālane hi mahān dharmaḥ prajānām iha dṛśyate na tathā dṛśyate 'raṇye mā te bhūd buddhir īdṛśī 13 īdṛśo na hi rājendra dharmaḥ kva cana dṛśyate prajānāṃ pālane yo vai purā rājarṣibhiḥ kṛtaḥ rakṣitavyāḥ prajā rājñā tās tvaṃ rakṣitum arhasi 14 nirudvignas tapo cartuṃ na hi śaknomi pārthiva mamāśramasamīpe vai sameṣu marudhanvasu 15 samudro bālukā pūrṇa ujānaka iti smṛtaḥ bahuyojanavistīrṇo bahuyojanam āyataḥ 16 tatra raudro dānavendro mahāvīryaparākramaḥ madhukaiṭabhayoḥ putro dhundhur nāma sudāruṇaḥ 17 antarbhūmi gato rājan vasaty amitavikramaḥ taṃ nihatya mahārāja vanaṃ tvaṃ gantum arhasi 18 śete lokavināśāya tapa āsthāya dāruṇam tridaśānāṃ vināśāya lokānāṃ cāpi pārthiva 19 avadhyo devatānāṃ sa daityānām atha rakṣasām nāgānām atha yakṣāṇāṃ gandharvāṇāṃ ca sarvaśaḥ avāpya sa varaṃ rājan sarvalokapitāmahāt 20 taṃ vināśaya bhadraṃ te mā te buddhir ato 'nyathā prāpsyase mahatīṃ kīrtiṃ śāśvatīm avyayāṃ dhruvām 21 krūrasya svapatas tasya vālukāntarhitasya vai saṃvatsarasya paryante niḥśvāsaḥ saṃpravartate yadā tadā bhūś calati saśailavanakānanā 22 tasya niḥśvāsavātena raja uddhūyate mahat ādityapatham āvṛtya saptāhaṃ bhūmikampanam savisphuliṅgaṃ sajvālaṃ sadhūmaṃ hy ati dāruṇam 23 tena rājan na śaknomi tasmin sthātuṃ sva āśrame taṃ vināśaya rājendra lokānāṃ hitakāmyayā lokāḥ svasthā bhavantv adya tasmin vinihate 'sure 24 tvaṃ hi tasya vināśāya paryāpta iti me matiḥ tejasā tava tejo ca viṣṇur āpyāyayiṣyati 25 viṣṇunā ca varo datto mama pūrvaṃ tato vadhe yas taṃ mahāsuraṃ raudraṃ vadhiṣyati mahīpatiḥ tejas taṃ vaiṣṇavam iti pravekṣyati durāsadam 26 tat tejas tvaṃ samādhāya rājendra bhuvi duḥsaham taṃ niṣūdaya saṃduṣṭaṃ daityaṃ raudraparākramam 27 na hi dhundhur mahātejā tejasālpena śakyate nirdagdhuṃ pṛthivīpāla sa hi varṣaśatair api |
The Mahabharata in Sanskrit
Book 3
Chapter 194
|
1
[मार्क] स एवम उक्तॊ राजर्षिर उत्तङ्केनापराजितः उत्तङ्कं कौरवश्रेष्ठ कृताञ्जलिर अथाब्रवीत 2 न ते ऽभिगमनं बरह्मन मॊघम एतद भविष्यति पुत्रॊ ममायं भगवन कुवलाश्व इति समृतः 3 धृतिमान कषिप्रकारी च वीर्येणाप्रतिमॊ भुवि परियं वै सर्वम एतत ते करिष्यति न संशयः 4 पुत्रैः परिवृतः सर्वैः शूरैः परिघबाहुभिः विसर्जयस्व मां बरह्मन नयस्तशस्त्रॊ ऽसमि सांप्रतम 5 तथास्त्व इति च तेनॊक्तॊ मुनिनामित तेजसा स तम आदिश्य तनयम उत्तङ्काय महात्मने करियताम इति राजर्षिर जगाम वनम उत्तमम 6 [य] क एष भगवन दैत्यॊ महावीर्यस तपॊधन कस्य पुत्रॊ ऽथ नप्ता वा एतद इच्छामि वेदितुम 7 एवं महाबलॊ दैत्यॊ न शरुतॊ मे तपॊधन एतद इच्छामि भगवन याथातथ्येन वेदितुम सर्वम एव महाप्राज्ञ विस्तरेण तपॊधन 8 [मार्क] शृणु राजन्न इदं सर्वं यथावृत्तं नराधिप एकार्णवे तदा घॊरे नष्टे सथावरजङ्गमे परनष्टेषु च भूतेषु सर्वेषु भरतर्षभ 9 परभवः सर्वभूतानां शाश्वतः पुरुषॊ ऽवययः सुष्वाप भगवान विष्णुर अप शय्याम एक एव ह नागस्य भॊगे महति शेषस्यामित तेजसः 10 लॊककर्ता महाभाग भगवान अच्युतॊ हरिः नागभॊगेन महता परिरभ्य महीम इमाम 11 सवपतस तस्य देवस्य पद्मं सूर्यसमप्रभम नाभ्यां विनिःसृतं तत्र यत्रॊत्पन्नः पितामहः साक्षाल लॊकगुरुर बरह्मा पद्मे सूर्येन्दुसप्रभे 12 चतुर्वेदश चतुर्मूर्तिस तथैव च चतुर्मुखः सवप्रभावाद दुराधर्षॊ महाबलपराक्रमः 13 कस्य चित तव अथ कालस्य दानवौ वीर्यवत्तरौ मधुश च कैटभश चैव दृष्टवन्तौ हरिं परभुम 14 शयानं शयने दिव्ये नागभॊगे महाद्युतिम बहुयॊजनविस्तीर्णे बहु यॊगनम आयते 15 किरीटकौस्तुभ धरं पीतकौशेयवाससम दीप्यमानं शरिया राजंस तेजसा वपुषा तथा सहस्रसूर्यप्रतिमम अद्भुतॊपमदर्शनम 16 विस्मयः सुमहान आसीन मधुकैटभयॊस तदा दृष्ट्वा पितामहं चैव पद्मे पद्मनिभेक्षणम 17 वित्रासयेताम अथ तौ बरह्माणम अमितौजसम वित्रस्यमानॊ बहुशॊ बरह्मा ताभ्यां महायशः अकम्पयत पद्मनालं ततॊ ऽबुध्यत केशवः 18 अथापश्यत गॊविन्दॊ दानवौ वीर्तवत्तरौ दृष्ट्वा ताव अब्रवीद देवः सवागतं वां महाबलौ ददानि वां वरं शरेष्ठं परीतिर हि मम जायते 19 तौ परहस्य हृषीकेशं महावीर्यौ महासुरौ परत्यब्रूतां महाराज सहितौ मधुसूदनम 20 आवां वरय देव तवं वरदौ सवः सुरॊत्तम दातारौ सवॊ वरं तुभ्यं तद बरवीह्य अविचारयन 21 [भग] परतिगृह्णे वरं वीराव ईप्सितश च वरॊ मम युवां हि वीर्यसंपन्नौ न वाम अस्ति समः पुमान 22 वध्यत्वम उपगच्छेतां मम सत्यपराक्रमौ एतद इच्छाम्य अहं कामं पराप्तुं लॊकहिताय वै 23 [म-क] अनृतं नॊक्तपूर्वं नौ सवैरेष्व अपि कुतॊ ऽनयथा सत्ये धर्मे च निरतौ विद्ध्य आवां पुरुषॊत्तम 24 बले रूपे च वीर्ये च शमे च न समॊ ऽसति नौ धर्मे तपसि दाने च शीलसत्त्वदमेषु च 25 उपप्लवॊ महान अस्मान उपावर्तत केशव उक्तं परतिकुरुष्व तवं कालॊ हि दुरतिक्रमः 26 आवाम इच्छावहे देवकृतम एकं तवया विभॊ अनावृते ऽसमिन्न आकाशे वधं सुरवरॊत्तम 27 पुत्रत्वम अभिगच्छाव तव चैव सुलॊचन वर एष वृतॊ देव तद विद्धि सुरसत्तम 28 [भग] बाढम एवं करिष्यामि सर्वम एतद भविष्यति 29 [म-क] विचिन्त्य तव अथ गॊविन्दॊ नापश्यद यद अनावृतम अवकाशं पृथिव्यां वा दिवि वा मधुसूदनः 30 सवकाव अनावृताव ऊरू दृष्ट्वा देववरस तदा मधुकैटभयॊ राजञ शिरसी मधुसूदनः चक्रेण शितधारेण नयकृन्तत महायशः |
1
[mārk] sa evam ukto rājarṣir uttaṅkenāparājitaḥ uttaṅkaṃ kauravaśreṣṭha kṛtāñjalir athābravīt 2 na te 'bhigamanaṃ brahman mogham etad bhaviṣyati putro mamāyaṃ bhagavan kuvalāśva iti smṛtaḥ 3 dhṛtimān kṣiprakārī ca vīryeṇāpratimo bhuvi priyaṃ vai sarvam etat te kariṣyati na saṃśayaḥ 4 putraiḥ parivṛtaḥ sarvaiḥ śūraiḥ parighabāhubhiḥ visarjayasva māṃ brahman nyastaśastro 'smi sāṃpratam 5 tathāstv iti ca tenokto munināmita tejasā sa tam ādiśya tanayam uttaṅkāya mahātmane kriyatām iti rājarṣir jagāma vanam uttamam 6 [y] ka eṣa bhagavan daityo mahāvīryas tapodhana kasya putro 'tha naptā vā etad icchāmi veditum 7 evaṃ mahābalo daityo na śruto me tapodhana etad icchāmi bhagavan yāthātathyena veditum sarvam eva mahāprājña vistareṇa tapodhana 8 [mārk] śṛṇu rājann idaṃ sarvaṃ yathāvṛttaṃ narādhipa ekārṇave tadā ghore naṣṭe sthāvarajaṅgame pranaṣṭeṣu ca bhūteṣu sarveṣu bharatarṣabha 9 prabhavaḥ sarvabhūtānāṃ śāśvataḥ puruṣo 'vyayaḥ suṣvāpa bhagavān viṣṇur ap śayyām eka eva ha nāgasya bhoge mahati śeṣasyāmita tejasaḥ 10 lokakartā mahābhāga bhagavān acyuto hariḥ nāgabhogena mahatā parirabhya mahīm imām 11 svapatas tasya devasya padmaṃ sūryasamaprabham nābhyāṃ viniḥsṛtaṃ tatra yatrotpannaḥ pitāmahaḥ sākṣāl lokagurur brahmā padme sūryendusaprabhe 12 caturvedaś caturmūrtis tathaiva ca caturmukhaḥ svaprabhāvād durādharṣo mahābalaparākramaḥ 13 kasya cit tv atha kālasya dānavau vīryavattarau madhuś ca kaiṭabhaś caiva dṛṣṭavantau hariṃ prabhum 14 śayānaṃ śayane divye nāgabhoge mahādyutim bahuyojanavistīrṇe bahu yoganam āyate 15 kirīṭakaustubha dharaṃ pītakauśeyavāsasam dīpyamānaṃ śriyā rājaṃs tejasā vapuṣā tathā sahasrasūryapratimam adbhutopamadarśanam 16 vismayaḥ sumahān āsīn madhukaiṭabhayos tadā dṛṣṭvā pitāmahaṃ caiva padme padmanibhekṣaṇam 17 vitrāsayetām atha tau brahmāṇam amitaujasam vitrasyamāno bahuśo brahmā tābhyāṃ mahāyaśaḥ akampayat padmanālaṃ tato 'budhyata keśavaḥ 18 athāpaśyata govindo dānavau vīrtavattarau dṛṣṭvā tāv abravīd devaḥ svāgataṃ vāṃ mahābalau dadāni vāṃ varaṃ śreṣṭhaṃ prītir hi mama jāyate 19 tau prahasya hṛṣīkeśaṃ mahāvīryau mahāsurau pratyabrūtāṃ mahārāja sahitau madhusūdanam 20 āvāṃ varaya deva tvaṃ varadau svaḥ surottama dātārau svo varaṃ tubhyaṃ tad bravīhy avicārayan 21 [bhag] pratigṛhṇe varaṃ vīrāv īpsitaś ca varo mama yuvāṃ hi vīryasaṃpannau na vām asti samaḥ pumān 22 vadhyatvam upagacchetāṃ mama satyaparākramau etad icchāmy ahaṃ kāmaṃ prāptuṃ lokahitāya vai 23 [m-k] anṛtaṃ noktapūrvaṃ nau svaireṣv api kuto 'nyathā satye dharme ca niratau viddhy āvāṃ puruṣottama 24 bale rūpe ca vīrye ca śame ca na samo 'sti nau dharme tapasi dāne ca śīlasattvadameṣu ca 25 upaplavo mahān asmān upāvartata keśava uktaṃ pratikuruṣva tvaṃ kālo hi duratikramaḥ 26 āvām icchāvahe devakṛtam ekaṃ tvayā vibho anāvṛte 'sminn ākāśe vadhaṃ suravarottama 27 putratvam abhigacchāva tava caiva sulocana vara eṣa vṛto deva tad viddhi surasattama 28 [bhag] bāḍham evaṃ kariṣyāmi sarvam etad bhaviṣyati 29 [m-k] vicintya tv atha govindo nāpaśyad yad anāvṛtam avakāśaṃ pṛthivyāṃ vā divi vā madhusūdanaḥ 30 svakāv anāvṛtāv ūrū dṛṣṭvā devavaras tadā madhukaiṭabhayo rājañ śirasī madhusūdanaḥ cakreṇa śitadhāreṇa nyakṛntata mahāyaśaḥ |
The Mahabharata in Sanskrit
Book 3
Chapter 195
|
1
[मार्क] धुन्धुर नाम महातेजा तयॊः पुत्रॊ महाद्युतिः स तपॊ ऽतप्यत महन महावीर्यपराक्रमः 2 अतिष्ठद एकपादेन कृशॊ धमनि संततः तस्मै बरह्मा ददौ परीतॊ वरं वव्रे स च परभॊ 3 देवदानव यक्षाणां सर्पगन्धर्वरक्षसाम अवध्यॊ ऽहं भवेयं वै वर एष वृतॊ मया 4 एवं भवतु गच्छेति तम उवाच पितामहः स एवम उक्तस तत पादौ मूर्ध्ना सपृश्य जगाम ह 5 स तु धुन्धुर वरं लब्ध्वा महावीर्यपराक्रमः अनुस्मरन पितृवधं ततॊ विष्णुम उपाद्रवत 6 स तु देवान सगन्धर्वाञ जित्वा धुन्धुर अमर्षणः बबाध सर्वान असकृद देवान विष्णुं च वै भृशम 7 समुद्रॊ बालुका पूर्ण उज्जानक इति समृतः आगम्य च स दुष्टात्मा तं देशं भरतर्षभ बाधते सम परं शक्त्या तम उत्तङ्काश्रमं परभॊ 8 अन्तर्भूमि गतस तत्र वालुकान्तर्हितस तदा मधुकैटभयॊः पुत्रॊ धुन्धुर भीमपराक्रमः 9 शेते लॊकविनाशाय तपॊबलसमाश्रितः उत्तङ्कस्याश्रमाभ्याशे निःश्वसन पावकार्चिषः 10 एतस्मिन्न एव काले तु संभृत्य बलवाहनः कुवलाश्वॊ नरपतिर अन्वितॊ बलशालिनाम 11 सहस्रैर एकविंशत्या पुत्राणाम अरिमर्दनः परायाद उत्तङ्क सहितॊ धुन्धॊस तस्य निवेशनम 12 तम आविशत ततॊ विष्णुर भगवांस तेजसा परभुः उत्तङ्कस्य नियॊगेन लॊकानां हितकाम्यया 13 तस्मिन परयाते दुर्धर्षे दिवि शब्दॊ महान अभूत एष शरीमान नृपसुतॊ धुन्धुमारॊ भविष्यति 14 दिव्यैश च पुष्पैस तं देवाः समन्तात पर्यवाकिरन देवदुन्दुभयश चैव नेदुः सवयम उदीरिताः 15 शीतश च वायुः परववौ परयाणे तस्य धीमतः विपांसुलां महीं कुर्वन ववर्ष च सुरेश्वरः 16 अन्तरिक्षे विमानानि देवतानां युधिष्ठिर तत्रैव समदृश्यन्त धुन्धुर यत्र महासुरः 17 कुवलाश्वस्य धुन्धॊश च युद्धकौतूहलान्विताः देवगन्धर्वसहिताः समवैक्षन महर्षयः 18 नारायणेन कौरव्य तेजसाप्यायितस तदा स गतॊ नृपतिः कषिप्रं पुत्रैस तैः सर्वतॊदिशम 19 अर्णवं खानयाम आस कुवलाश्वॊ महीपतिः कुवलाश्वस्य पुत्रैस तु तस्मिन वै वालुकार्णवे 20 सप्तभिर दिवसैः खात्वा दृष्टॊ धुन्धुर महाबलः आसीद घॊरं वपुस तस्य वालुकान्तर्हितं महत दीप्यमानं यथा सूर्यस तेजसा भरतर्षभ 21 ततॊ धुन्धुर महाराज दिशम आश्रित्य पश्चिमाम सुप्तॊ ऽभूद राजशार्दूल कालानलसमद्युतिः 22 कुवलाश्वस्य पुत्रैस तु सर्वतः परिवारितः अभिदुर्तः शरैस तीक्ष्णैर गदाभिर मुसलैर अपि पट्टिषैः परिघैः परासैः खड्गैश च विमलैः शितैः 23 स वध्यमानः संक्रुद्धः समुत्तस्थौ महाबलः करुद्धश चाभक्षयत तेषां शस्त्राणि विविधानि च 24 आस्याद वमन पावकं स संवर्तक समं तदा तान सर्वान नृपतेः पुत्रान अदहत सवेन तेजसा 25 मुखजेनाग्निना करुद्धॊ लॊकान उद्वर्तयन्न इव कषणेन राजशार्दूल पुरेव कपिलः परभुः सगरस्यात्मजान करुद्धस तद अद्भुतम इवाभवत 26 तेषु करॊधाग्निदग्धेषु तदा भरतसत्तम तं परबुद्धं महात्मानं कुम्भकर्णम इवापरम आससाद महातेजा कुवलाश्वॊ महीपतिः 27 तस्य वारि महाराज सुस्राव बहु देहतः तद आपीयत तत तेजॊ राजा वारिमयं नृप यॊगी यॊगेन वह्निं च शमयाम आस वारिणा 28 बरह्मास्त्रेण तदा राजा दैत्यं करूप पराक्रमम ददाह भरतश्रेष्ठ सर्वलॊकाभयाय वै 29 सॊ ऽसत्रेण दग्ध्वा राजर्षिः कुवलाश्वॊ महासुरम सुरशत्रुम अमित्रघ्नस तरिलॊकेश इवापरः धुधुमार इति खयातॊ नाम्ना समभवत ततः 30 परीतैश च तरिदशैः सर्वैर महर्षिसहितैस तदा वरं वृणीष्वेत्य उक्तः स पराञ्जलिः परणतस तदा अतीव मुदितॊ राजन्न इदं वचनम अब्रवीत 31 दद्यां वित्तं दविजाग्र्येभ्यः शत्रूणां चापि दुर्जयः सख्यं च विष्णुना मे सयाद भूतेष्व अद्रॊह एव च धर्मे रतिश च सततं सवर्गे वासस तथाक्षयः 32 तथास्त्व इति ततॊ देवैः परीतैर उक्तः स पार्थिवः ऋषिभिश च सगन्धर्वैर उत्तङ्केन च धीमता 33 सभाज्य चैनं विविधैर आशीर्वादैस ततॊ नृपम देवा महर्षयश चैव सवानि सथानानि भेजिरे 34 तस्य पुत्रास तरयः शिष्टा युधिष्ठिर तदाभवन दृढाश्वः कपिलाश्वश च चन्द्राश्वश चैव भारत तेभ्यः परम्परा राजन्न इक्ष्वाकूणां महात्मनाम 35 एवं स निहतस तेन कुवलाश्वेन सत्तम धुन्धुर दैत्यॊ महावीर्यॊ मधुकैटभयॊः सुतः 36 कुवलाश्वस तु नृपतिर धुन्धुमार इति समृतः नाम्ना च गुणसंयुक्तस तदा परभृति सॊ ऽभवत 37 एतत ते सर्वम आख्यातं यन मां तवं परिपृच्छसि धौन्धुमारम उपाख्यानं परथितं यस्य कर्मणा 38 इदं तु पुन्यम आख्यानं विष्णॊः समनुकीर्तनम शृणुयाद यः स धर्मात्मा पुत्रवांश च भवेन नरः 39 आयुस्मान धृतिमांश चैव शरुत्वा भवति पर्वसु न व वयाधिभयं किं चित पराप्नॊति विगतज्वरः |
1
[mārk] dhundhur nāma mahātejā tayoḥ putro mahādyutiḥ sa tapo 'tapyata mahan mahāvīryaparākramaḥ 2 atiṣṭhad ekapādena kṛśo dhamani saṃtataḥ tasmai brahmā dadau prīto varaṃ vavre sa ca prabho 3 devadānava yakṣāṇāṃ sarpagandharvarakṣasām avadhyo 'haṃ bhaveyaṃ vai vara eṣa vṛto mayā 4 evaṃ bhavatu gaccheti tam uvāca pitāmahaḥ sa evam uktas tat pādau mūrdhnā spṛśya jagāma ha 5 sa tu dhundhur varaṃ labdhvā mahāvīryaparākramaḥ anusmaran pitṛvadhaṃ tato viṣṇum upādravat 6 sa tu devān sagandharvāñ jitvā dhundhur amarṣaṇaḥ babādha sarvān asakṛd devān viṣṇuṃ ca vai bhṛśam 7 samudro bālukā pūrṇa ujjānaka iti smṛtaḥ āgamya ca sa duṣṭātmā taṃ deśaṃ bharatarṣabha bādhate sma paraṃ śaktyā tam uttaṅkāśramaṃ prabho 8 antarbhūmi gatas tatra vālukāntarhitas tadā madhukaiṭabhayoḥ putro dhundhur bhīmaparākramaḥ 9 śete lokavināśāya tapobalasamāśritaḥ uttaṅkasyāśramābhyāśe niḥśvasan pāvakārciṣaḥ 10 etasminn eva kāle tu saṃbhṛtya balavāhanaḥ kuvalāśvo narapatir anvito balaśālinām 11 sahasrair ekaviṃśatyā putrāṇām arimardanaḥ prāyād uttaṅka sahito dhundhos tasya niveśanam 12 tam āviśat tato viṣṇur bhagavāṃs tejasā prabhuḥ uttaṅkasya niyogena lokānāṃ hitakāmyayā 13 tasmin prayāte durdharṣe divi śabdo mahān abhūt eṣa śrīmān nṛpasuto dhundhumāro bhaviṣyati 14 divyaiś ca puṣpais taṃ devāḥ samantāt paryavākiran devadundubhayaś caiva neduḥ svayam udīritāḥ 15 śītaś ca vāyuḥ pravavau prayāṇe tasya dhīmataḥ vipāṃsulāṃ mahīṃ kurvan vavarṣa ca sureśvaraḥ 16 antarikṣe vimānāni devatānāṃ yudhiṣṭhira tatraiva samadṛśyanta dhundhur yatra mahāsuraḥ 17 kuvalāśvasya dhundhoś ca yuddhakautūhalānvitāḥ devagandharvasahitāḥ samavaikṣan maharṣayaḥ 18 nārāyaṇena kauravya tejasāpyāyitas tadā sa gato nṛpatiḥ kṣipraṃ putrais taiḥ sarvatodiśam 19 arṇavaṃ khānayām āsa kuvalāśvo mahīpatiḥ kuvalāśvasya putrais tu tasmin vai vālukārṇave 20 saptabhir divasaiḥ khātvā dṛṣṭo dhundhur mahābalaḥ āsīd ghoraṃ vapus tasya vālukāntarhitaṃ mahat dīpyamānaṃ yathā sūryas tejasā bharatarṣabha 21 tato dhundhur mahārāja diśam āśritya paścimām supto 'bhūd rājaśārdūla kālānalasamadyutiḥ 22 kuvalāśvasya putrais tu sarvataḥ parivāritaḥ abhidurtaḥ śarais tīkṣṇair gadābhir musalair api paṭṭiṣaiḥ parighaiḥ prāsaiḥ khaḍgaiś ca vimalaiḥ śitaiḥ 23 sa vadhyamānaḥ saṃkruddhaḥ samuttasthau mahābalaḥ kruddhaś cābhakṣayat teṣāṃ śastrāṇi vividhāni ca 24 āsyād vaman pāvakaṃ sa saṃvartaka samaṃ tadā tān sarvān nṛpateḥ putrān adahat svena tejasā 25 mukhajenāgninā kruddho lokān udvartayann iva kṣaṇena rājaśārdūla pureva kapilaḥ prabhuḥ sagarasyātmajān kruddhas tad adbhutam ivābhavat 26 teṣu krodhāgnidagdheṣu tadā bharatasattama taṃ prabuddhaṃ mahātmānaṃ kumbhakarṇam ivāparam āsasāda mahātejā kuvalāśvo mahīpatiḥ 27 tasya vāri mahārāja susrāva bahu dehataḥ tad āpīyata tat tejo rājā vārimayaṃ nṛpa yogī yogena vahniṃ ca śamayām āsa vāriṇā 28 brahmāstreṇa tadā rājā daityaṃ krūpa parākramam dadāha bharataśreṣṭha sarvalokābhayāya vai 29 so 'streṇa dagdhvā rājarṣiḥ kuvalāśvo mahāsuram suraśatrum amitraghnas trilokeśa ivāparaḥ dhudhumāra iti khyāto nāmnā samabhavat tataḥ 30 prītaiś ca tridaśaiḥ sarvair maharṣisahitais tadā varaṃ vṛṇīṣvety uktaḥ sa prāñjaliḥ praṇatas tadā atīva mudito rājann idaṃ vacanam abravīt 31 dadyāṃ vittaṃ dvijāgryebhyaḥ śatrūṇāṃ cāpi durjayaḥ sakhyaṃ ca viṣṇunā me syād bhūteṣv adroha eva ca dharme ratiś ca satataṃ svarge vāsas tathākṣayaḥ 32 tathāstv iti tato devaiḥ prītair uktaḥ sa pārthivaḥ ṛṣibhiś ca sagandharvair uttaṅkena ca dhīmatā 33 sabhājya cainaṃ vividhair āśīrvādais tato nṛpam devā maharṣayaś caiva svāni sthānāni bhejire 34 tasya putrās trayaḥ śiṣṭā yudhiṣṭhira tadābhavan dṛḍhāśvaḥ kapilāśvaś ca candrāśvaś caiva bhārata tebhyaḥ paramparā rājann ikṣvākūṇāṃ mahātmanām 35 evaṃ sa nihatas tena kuvalāśvena sattama dhundhur daityo mahāvīryo madhukaiṭabhayoḥ sutaḥ 36 kuvalāśvas tu nṛpatir dhundhumāra iti smṛtaḥ nāmnā ca guṇasaṃyuktas tadā prabhṛti so 'bhavat 37 etat te sarvam ākhyātaṃ yan māṃ tvaṃ paripṛcchasi dhaundhumāram upākhyānaṃ prathitaṃ yasya karmaṇā 38 idaṃ tu punyam ākhyānaṃ viṣṇoḥ samanukīrtanam śṛṇuyād yaḥ sa dharmātmā putravāṃś ca bhaven naraḥ 39 āyusmān dhṛtimāṃś caiva śrutvā bhavati parvasu na va vyādhibhayaṃ kiṃ cit prāpnoti vigatajvaraḥ |
The Mahabharata in Sanskrit
Book 3
Chapter 196
|
1
[वै] ततॊ युधिष्ठिरॊ राजा मार्कण्डेयं महाद्युतिम पप्रच्छ भरतश्रेष्ठ धर्मप्रश्नं सुदुर्वचम 2 शरॊतुम इच्छामि भगवन सत्रीणां माहात्म्यम उत्तमम कथ्यमानं तवया विप्र सूक्ष्मं धर्मं च तत्त्वतः 3 परत्यक्षेण हि विप्रर्षौ देवा दृश्यन्ति सत्तम सूर्यचन्द्रमसौ वायुः पृथिवी बह्निर एव च 4 पिता माता च भगवन गाव एव च सत्तम यच चान्यद एव विहितं तच चापि भृगुनन्दन 5 मन्ये ऽहं गुरुवत सर्वम एकपत्न्यस तथा सत्रियः पतिव्रतानां शुश्रूषा दुष्करा परतिभाति मे 6 पतिव्रतानां माहात्म्यं वक्तुम अर्हसि नः परभॊ निरुध्य चेन्द्रियग्रामं मनॊ संरुध्य चानघ पतिं दैवतवच चापि चिन्तयन्त्यः सथिता हि याः 7 भगवन दुष्करं हय एतत परतिभाति मम परभॊ माता पितृषु शुश्रूषा सत्रीणां भर्तृषु च दविज 8 सत्रीणां धर्मात सुघॊराद धि नान्यं पश्यामि दुष्करम साध्व आचाराः सत्रियॊ बरह्मन यत कुर्वन्ति सदादृताः दुष्करं बत कुर्वन्ति पितरॊ मातरश च वै 9 एप पत्न्यश च या नार्यॊ याश च सत्यं वदन्त्य उत कुक्षिणा दश मासांश च गर्भं संधारयन्ति याः नार्यः कालेन संभूय किम अद्भुततरं ततः 10 संशयं परमं पराप्य वेदानाम अतुलाम अपि परजायन्ते सुतान नार्यॊ दुःखेन महता विभॊ पुष्णन्ति चापि महता सनेहेन दविजसत्तम 11 ये च करूरेषु सर्वेषु वर्तमाना जुगुप्सिताः सवकर्म कुर्वन्ति सदा दुष्करं तच च मे मतम 12 कषत्रधर्मसमाचारं तथ्यं चाख्याहि मे दविज धर्मः सुदुर्लभॊ विप्र नृशंसेन दुरात्मना 13 एतद इच्छामि भगवन परश्नं परश्नविदां वर शरॊतुं भृगुकुलश्रेष्ठ शुश्रूषे तव सुव्रत 14 [मार्क] हन्त ते सर्वम आख्यास्ये परश्नम एतं सुदुर्वचम तत्त्वेन भरतश्रेष्ठ गदतस तन निबॊध मे 15 मातरं सदृशीं तात पितॄन अन्ये च मन्यते कुष्करं कुरुते माता विवर्धयति या परजाः 16 तपसा देवतेज्याभिर वन्दनेन तितिक्षया अभिचारैर उपायैश च ईहन्ते पितरः सुतान 17 एवं कृच्छ्रेण महता पुत्रं पराप्य सुदुर्लभम चिन्तयन्ति सदा वीर दीदृशॊ ऽयं भविष्यति 18 आशंसते च पुत्रेषु पिता माता च भारत यशॊ कीर्तिम अथैश्वर्यं परजा धर्मं तथैव च 19 तयॊर आशां तु सफलां यः करॊति स धर्मवित पिता माता च राजेन्द्र तुष्यतॊ यस्य नित्यदा इह परेत्य च तस्याथ कीर्तिर धर्मश च शाश्वतः 20 नैव यज्ञः सत्रियः कश चिन न शराद्धं नॊपवासकम या तु भर्तरि शुश्रूषा तया सवर्गम उपाश्नुते 21 एतत परकरणं राजन्न अधिकृत्य युधिष्ठिर परतिव्रतानां नियतं धर्मं चावहितः शृणु |
1
[vai] tato yudhiṣṭhiro rājā mārkaṇḍeyaṃ mahādyutim papraccha bharataśreṣṭha dharmapraśnaṃ sudurvacam 2 śrotum icchāmi bhagavan strīṇāṃ māhātmyam uttamam kathyamānaṃ tvayā vipra sūkṣmaṃ dharmaṃ ca tattvataḥ 3 pratyakṣeṇa hi viprarṣau devā dṛśyanti sattama sūryacandramasau vāyuḥ pṛthivī bahnir eva ca 4 pitā mātā ca bhagavan gāva eva ca sattama yac cānyad eva vihitaṃ tac cāpi bhṛgunandana 5 manye 'haṃ guruvat sarvam ekapatnyas tathā striyaḥ pativratānāṃ śuśrūṣā duṣkarā pratibhāti me 6 pativratānāṃ māhātmyaṃ vaktum arhasi naḥ prabho nirudhya cendriyagrāmaṃ mano saṃrudhya cānagha patiṃ daivatavac cāpi cintayantyaḥ sthitā hi yāḥ 7 bhagavan duṣkaraṃ hy etat pratibhāti mama prabho mātā pitṛṣu śuśrūṣā strīṇāṃ bhartṛṣu ca dvija 8 strīṇāṃ dharmāt sughorād dhi nānyaṃ paśyāmi duṣkaram sādhv ācārāḥ striyo brahman yat kurvanti sadādṛtāḥ duṣkaraṃ bata kurvanti pitaro mātaraś ca vai 9 epa patnyaś ca yā nāryo yāś ca satyaṃ vadanty uta kukṣiṇā daśa māsāṃś ca garbhaṃ saṃdhārayanti yāḥ nāryaḥ kālena saṃbhūya kim adbhutataraṃ tataḥ 10 saṃśayaṃ paramaṃ prāpya vedānām atulām api prajāyante sutān nāryo duḥkhena mahatā vibho puṣṇanti cāpi mahatā snehena dvijasattama 11 ye ca krūreṣu sarveṣu vartamānā jugupsitāḥ svakarma kurvanti sadā duṣkaraṃ tac ca me matam 12 kṣatradharmasamācāraṃ tathyaṃ cākhyāhi me dvija dharmaḥ sudurlabho vipra nṛśaṃsena durātmanā 13 etad icchāmi bhagavan praśnaṃ praśnavidāṃ vara śrotuṃ bhṛgukulaśreṣṭha śuśrūṣe tava suvrata 14 [mārk] hanta te sarvam ākhyāsye praśnam etaṃ sudurvacam tattvena bharataśreṣṭha gadatas tan nibodha me 15 mātaraṃ sadṛśīṃ tāta pitṝn anye ca manyate kuṣkaraṃ kurute mātā vivardhayati yā prajāḥ 16 tapasā devatejyābhir vandanena titikṣayā abhicārair upāyaiś ca īhante pitaraḥ sutān 17 evaṃ kṛcchreṇa mahatā putraṃ prāpya sudurlabham cintayanti sadā vīra dīdṛśo 'yaṃ bhaviṣyati 18 āśaṃsate ca putreṣu pitā mātā ca bhārata yaśo kīrtim athaiśvaryaṃ prajā dharmaṃ tathaiva ca 19 tayor āśāṃ tu saphalāṃ yaḥ karoti sa dharmavit pitā mātā ca rājendra tuṣyato yasya nityadā iha pretya ca tasyātha kīrtir dharmaś ca śāśvataḥ 20 naiva yajñaḥ striyaḥ kaś cin na śrāddhaṃ nopavāsakam yā tu bhartari śuśrūṣā tayā svargam upāśnute 21 etat prakaraṇaṃ rājann adhikṛtya yudhiṣṭhira prativratānāṃ niyataṃ dharmaṃ cāvahitaḥ śṛṇu |
The Mahabharata in Sanskrit
Book 3
Chapter 197
|
1
[मार्क] कश चिद दविजातिप्रवरॊ वेदाध्यायी तपॊधनः तपस्वी धर्मशीलश च कौशिकॊ नाम भारत 2 साङ्गॊपनिषदान वेदान अधीते दविजसत्तमः स वृक्षमूले कस्मिंश चिद वेदान उच्चारयन सथितः 3 उपरिष्टाच च वृक्षस्य बलाका संन्यलीयत तया पुरीषम उत्सृष्टं बराह्मणस्य तदॊपरि 4 ताम अवेक्ष्य ततः करुद्धः समपध्यायत दविजः भृषं करॊधाभिभूतेन बलाका सा निरीक्षिता 5 अपध्याता च विप्रेण नयपतद वसुधातले बलाकां पतितां दृष्ट्वा गतसत्त्वाम अचेतनाम कारुण्याद अभिसंतप्तः पर्यशॊचत तां दविजः 6 अकार्यं कृतवान अस्मि रग दवेषबलात कृतः इत्य उक्त्वा बहुशॊ विद्वान गरामं भैक्षाय संश्रितः 7 गरामे शुचीनि परचरन कुलानि भरतर्षभ परविष्टस तत कुलं यत्र पूर्वं चरितवांस तु सः 8 देहीति याचमानॊ वै तिष्ठेत्य उक्तः सत्रिया ततः शौचं तु यावत कुरुते भाजनस्य कुटुम्बिनी 9 एतस्मिन्न अन्तरे राजन कषुधा संपीडितॊ भृषम भर्ता परविष्टः सहसा तस्या भरतसत्तम 10 सा तु दृष्ट्वा पतिं साध्वी बराह्मणं वयपहाय तम पाद्यम आचमनीयं च ददौ भर्त्रे तथासनम 11 परह्वा पर्यचरच चापि भर्तारम असितेक्षणा आहारेणाथ भक्षैश च वाक्यैः सुमधुरैस तथा 12 उच्छिष्टं भुञ्जते भर्तुः सा तु नित्यं युधिष्ठिर दैवतं च पतिं मेने भर्तुश चित्तानुसारिणी 13 न कर्मणा न मनसा नात्यश्नान नापि चापिबत तं सर्वभावॊपगता पतिशुश्रूषणे रता 14 साध्व आचारा शुचिर दक्षा कुटुम्बस्य हितैषिणी भर्तुश चापि हितं यत तत सततं सानुवर्तते 15 देवतातिथिभृत्यानां शवश्रू शवशुरयॊस तथा शुश्रूषणपरा नित्यं सततं संयतेन्द्रिया 16 सा बराह्मणं दता दृष्ट्वा संस्थितं भैक्ष काङ्क्षिणम कुर्वती पतिशुश्रूषां सस्माराथ शुभेक्षणा 17 वरीडिता साभवत साध्वी तदा भरतसत्तम भिक्षाम आदाय विप्राय निर्जगाम यशस्विनी 18 [बरा] किम इदं भवति तवं मां तिष्ठेत्य उक्त्वा वराङ्गने उपरॊधं कृतवती न विसर्जितवत्य असि 19 [मार्क] बराह्मणं करॊधसंतप्तं जवलन्तम इव तेजसा दृष्ट्वा साध्वी मनुष्येन्द्र सान्त्वपूर्वं वचॊ ऽबरवीत 20 कषन्तुम अर्हसि मे विप्र भर्ता मे दैवतं महत स चापि कषुधितः शरान्तः पराप्तः शुश्रूषितॊ मया 21 [बरा] बराह्मणा न गरीयांसॊ गरीयांस ते पतिः कृतः गृहस्थ धर्मे वर्तन्ती बराह्मणान अवमन्यसे 22 इन्द्रॊ ऽपय एषां परणमते किं पुनर मानुषा भुवि अवलिप्ते न जानीषे वृद्धानां न शरुतं तवया बराह्मणा हय अग्निसदृषा दहेयुः पृथिवीम अपि 23 [सत्री] नावजानाम्य अहं विप्रान देवैस तुल्यान मनस्विनः अपराधम इमं विप्र कषन्तुम अर्हसि मे ऽनघ 24 जानामि तेजॊ विप्राणां महाभाग्यं च धीमताम अपेयः सागरः करॊधात कृतॊ हि लवणॊदकः 25 तथैव दीप्ततपसां मुनीनां भावितात्मनाम येषां करॊधाग्निर अद्यापि दण्डके नॊपशाम्यति 26 बरह्मणानां परिभवाद वतापिश च दुरात्मवान अगस्त्यम ऋषिम आसाद्य जीर्णः करूरॊ महासुरः 27 परभावा बहवश चापि शरूयन्ते बरह्मवादिनम करॊधः सुविपुलॊ बरह्मन परसादश च महात्मनाम 28 अस्मिंस तव अतिक्रमे बरह्मन कषन्तुम अर्हसि मे ऽनघ पतिशुश्रूषया धर्मॊ यः स मे रॊचते दविज 29 दैवतेष्व अपि सर्वेषु भर्ता मे दैवतं परम अविशेषेण तस्याहं कुर्यां धर्मं दविजॊत्तम 30 शुश्रूषायाः फलं पश्य पत्युर बराह्मण यादृशम बलाका हि तवया दग्धा रॊषात तद विदितं मम 31 करॊधः शत्रुः शरीरस्थॊ मनुष्याणां दविजॊत्तम यः करॊधमॊहौ तयजति तं देवा बराह्मणं विदुः 32 यॊ वदेद इह सत्यानि गुरुं संतॊषयेत च हिंसितश च न हिंसेत तं देवा बराह्मणं विदुः 33 जितेन्द्रियॊ धर्मपरः सवाध्यायनिरतः शुचिः कामक्रॊधौ वशे यस्य तं देवा बराह्मणं विदुः 34 यस्य चात्मसमॊ लॊकॊ धर्मज्ञस्य मनस्विनः सर्वधर्मेषु च रतस तं देवा बराह्मणं विदुः 35 यॊ ऽधयापयेद अधीयीत यजेद वा याजयीत वा दद्याद वापि यथाशक्ति तं देवा बराह्मणं विदुः 36 बरह्मचारी च वेदान्यॊ अधीयीत दविजॊत्तमः सवाख्याये चाप्रमत्तॊ वै तं देवा बराह्मणं विदुः 37 यद बराह्मणानां कुशलं तद एषां परिकीर्ययेत सत्यं तथा वयहरतां नानृते रमते मनः 38 धनं तु बराह्मणस्याहुः सवाध्यायं दमम आर्जवम इन्द्रियाणां निग्रहं च शाश्वतं दविजसत्तम सत्यार्जवे धर्मम आहुः परं धर्मविदॊ जनाः 39 दुर्ज्ञेयः शाश्वतॊ धर्मः स तु सत्ये परतिष्ठितः शरुतिप्रमाणॊ धर्मः सयाद इति वृद्धानुशासनम 40 बहुधा दृश्यते धर्मः सूक्ष्म एव दविजॊत्तम भवान अपि च धर्मज्ञः सवाध्यायनिरतः शुचिः न तु तत्त्वेन भगवन धर्मान वेत्सीति मे मतिः 41 माता पितृभ्यां शुश्रूषुः सत्यवादी जितेन्द्रियः मिथिलायां वसन वयाधः स ते धर्मान परवक्ष्यति तत्र गच्छस्व भद्रं ते यथाकामं दविजॊत्तम 42 अत्युक्तम अपि मे सर्वं कषन्तुम अर्हस्य अनिन्दित सत्रियॊ हय अवध्याः सर्वेषां ये धर्मविदुषॊ जनाः 43 [बरा] परीतॊ ऽसमि तव भद्रं ते गतः करॊधश च शॊभने उपालम्भस तवया हय उक्तॊ मम निःश्रेयसं परम सवस्ति ते ऽसतु गमिष्यामि साधयिष्यामि शॊभने 44 [मार्क] तया विसृष्ट्टॊ निर्गम्य सवम एव भवनं ययौ विनिन्दन स दविजॊ ऽऽतमानं कौशिकॊ नरसत्तम |
1
[mārk] kaś cid dvijātipravaro vedādhyāyī tapodhanaḥ tapasvī dharmaśīlaś ca kauśiko nāma bhārata 2 sāṅgopaniṣadān vedān adhīte dvijasattamaḥ sa vṛkṣamūle kasmiṃś cid vedān uccārayan sthitaḥ 3 upariṣṭāc ca vṛkṣasya balākā saṃnyalīyata tayā purīṣam utsṛṣṭaṃ brāhmaṇasya tadopari 4 tām avekṣya tataḥ kruddhaḥ samapadhyāyata dvijaḥ bhṛṣaṃ krodhābhibhūtena balākā sā nirīkṣitā 5 apadhyātā ca vipreṇa nyapatad vasudhātale balākāṃ patitāṃ dṛṣṭvā gatasattvām acetanām kāruṇyād abhisaṃtaptaḥ paryaśocata tāṃ dvijaḥ 6 akāryaṃ kṛtavān asmi raga dveṣabalāt kṛtaḥ ity uktvā bahuśo vidvān grāmaṃ bhaikṣāya saṃśritaḥ 7 grāme śucīni pracaran kulāni bharatarṣabha praviṣṭas tat kulaṃ yatra pūrvaṃ caritavāṃs tu saḥ 8 dehīti yācamāno vai tiṣṭhety uktaḥ striyā tataḥ śaucaṃ tu yāvat kurute bhājanasya kuṭumbinī 9 etasminn antare rājan kṣudhā saṃpīḍito bhṛṣam bhartā praviṣṭaḥ sahasā tasyā bharatasattama 10 sā tu dṛṣṭvā patiṃ sādhvī brāhmaṇaṃ vyapahāya tam pādyam ācamanīyaṃ ca dadau bhartre tathāsanam 11 prahvā paryacarac cāpi bhartāram asitekṣaṇā āhāreṇātha bhakṣaiś ca vākyaiḥ sumadhurais tathā 12 ucchiṣṭaṃ bhuñjate bhartuḥ sā tu nityaṃ yudhiṣṭhira daivataṃ ca patiṃ mene bhartuś cittānusāriṇī 13 na karmaṇā na manasā nātyaśnān nāpi cāpibat taṃ sarvabhāvopagatā patiśuśrūṣaṇe ratā 14 sādhv ācārā śucir dakṣā kuṭumbasya hitaiṣiṇī bhartuś cāpi hitaṃ yat tat satataṃ sānuvartate 15 devatātithibhṛtyānāṃ śvaśrū śvaśurayos tathā śuśrūṣaṇaparā nityaṃ satataṃ saṃyatendriyā 16 sā brāhmaṇaṃ datā dṛṣṭvā saṃsthitaṃ bhaikṣa kāṅkṣiṇam kurvatī patiśuśrūṣāṃ sasmārātha śubhekṣaṇā 17 vrīḍitā sābhavat sādhvī tadā bharatasattama bhikṣām ādāya viprāya nirjagāma yaśasvinī 18 [brā] kim idaṃ bhavati tvaṃ māṃ tiṣṭhety uktvā varāṅgane uparodhaṃ kṛtavatī na visarjitavaty asi 19 [mārk] brāhmaṇaṃ krodhasaṃtaptaṃ jvalantam iva tejasā dṛṣṭvā sādhvī manuṣyendra sāntvapūrvaṃ vaco 'bravīt 20 kṣantum arhasi me vipra bhartā me daivataṃ mahat sa cāpi kṣudhitaḥ śrāntaḥ prāptaḥ śuśrūṣito mayā 21 [brā] brāhmaṇā na garīyāṃso garīyāṃs te patiḥ kṛtaḥ gṛhastha dharme vartantī brāhmaṇān avamanyase 22 indro 'py eṣāṃ praṇamate kiṃ punar mānuṣā bhuvi avalipte na jānīṣe vṛddhānāṃ na śrutaṃ tvayā brāhmaṇā hy agnisadṛṣā daheyuḥ pṛthivīm api 23 [strī] nāvajānāmy ahaṃ viprān devais tulyān manasvinaḥ aparādham imaṃ vipra kṣantum arhasi me 'nagha 24 jānāmi tejo viprāṇāṃ mahābhāgyaṃ ca dhīmatām apeyaḥ sāgaraḥ krodhāt kṛto hi lavaṇodakaḥ 25 tathaiva dīptatapasāṃ munīnāṃ bhāvitātmanām yeṣāṃ krodhāgnir adyāpi daṇḍake nopaśāmyati 26 brahmaṇānāṃ paribhavād vatāpiś ca durātmavān agastyam ṛṣim āsādya jīrṇaḥ krūro mahāsuraḥ 27 prabhāvā bahavaś cāpi śrūyante brahmavādinam krodhaḥ suvipulo brahman prasādaś ca mahātmanām 28 asmiṃs tv atikrame brahman kṣantum arhasi me 'nagha patiśuśrūṣayā dharmo yaḥ sa me rocate dvija 29 daivateṣv api sarveṣu bhartā me daivataṃ param aviśeṣeṇa tasyāhaṃ kuryāṃ dharmaṃ dvijottama 30 śuśrūṣāyāḥ phalaṃ paśya patyur brāhmaṇa yādṛśam balākā hi tvayā dagdhā roṣāt tad viditaṃ mama 31 krodhaḥ śatruḥ śarīrastho manuṣyāṇāṃ dvijottama yaḥ krodhamohau tyajati taṃ devā brāhmaṇaṃ viduḥ 32 yo vaded iha satyāni guruṃ saṃtoṣayeta ca hiṃsitaś ca na hiṃseta taṃ devā brāhmaṇaṃ viduḥ 33 jitendriyo dharmaparaḥ svādhyāyanirataḥ śuciḥ kāmakrodhau vaśe yasya taṃ devā brāhmaṇaṃ viduḥ 34 yasya cātmasamo loko dharmajñasya manasvinaḥ sarvadharmeṣu ca ratas taṃ devā brāhmaṇaṃ viduḥ 35 yo 'dhyāpayed adhīyīta yajed vā yājayīta vā dadyād vāpi yathāśakti taṃ devā brāhmaṇaṃ viduḥ 36 brahmacārī ca vedānyo adhīyīta dvijottamaḥ svākhyāye cāpramatto vai taṃ devā brāhmaṇaṃ viduḥ 37 yad brāhmaṇānāṃ kuśalaṃ tad eṣāṃ parikīryayet satyaṃ tathā vyaharatāṃ nānṛte ramate manaḥ 38 dhanaṃ tu brāhmaṇasyāhuḥ svādhyāyaṃ damam ārjavam indriyāṇāṃ nigrahaṃ ca śāśvataṃ dvijasattama satyārjave dharmam āhuḥ paraṃ dharmavido janāḥ 39 durjñeyaḥ śāśvato dharmaḥ sa tu satye pratiṣṭhitaḥ śrutipramāṇo dharmaḥ syād iti vṛddhānuśāsanam 40 bahudhā dṛśyate dharmaḥ sūkṣma eva dvijottama bhavān api ca dharmajñaḥ svādhyāyanirataḥ śuciḥ na tu tattvena bhagavan dharmān vetsīti me matiḥ 41 mātā pitṛbhyāṃ śuśrūṣuḥ satyavādī jitendriyaḥ mithilāyāṃ vasan vyādhaḥ sa te dharmān pravakṣyati tatra gacchasva bhadraṃ te yathākāmaṃ dvijottama 42 atyuktam api me sarvaṃ kṣantum arhasy anindita striyo hy avadhyāḥ sarveṣāṃ ye dharmaviduṣo janāḥ 43 [brā] prīto 'smi tava bhadraṃ te gataḥ krodhaś ca śobhane upālambhas tvayā hy ukto mama niḥśreyasaṃ param svasti te 'stu gamiṣyāmi sādhayiṣyāmi śobhane 44 [mārk] tayā visṛṣṭṭo nirgamya svam eva bhavanaṃ yayau vinindan sa dvijo ''tmānaṃ kauśiko narasattama |
The Mahabharata in Sanskrit
Book 3
Chapter 198
|
1
[मार्क] चिन्तयित्वा तद आश्चर्यं सत्रिया परॊक्तम अशेषतः विनिन्दन स दविजॊ ऽऽतमानम आगः कृत इवाबभौ 2 चिन्तयानः स धर्मस्य सूक्ष्मां गतिम अथाब्रवीत शरद्दधानेन भाव्यं वै गच्छामि मिथिलाम अहम 3 कृतात्मा धर्मवित तस्यां वयाधॊ निवसते किल तं गच्छाम्य अहम अद्यैव धर्मं परष्टुं तपॊधनम 4 इति संचिन्त्य मनसा शरद्दधानः सत्रिया वचः बलाका परत्ययेनासौ धर्म्यैश च वचनैः शुभैः संप्रतस्थे स मिथिलां कौतूहलसमन्वितः 5 अतिक्रामन्न अरण्यानि गरामांश च नगराणि च ततॊ जगाम मिथिलां जनकेन सुरक्षिताम 6 धर्मसेतु समाकीर्णां यज्ञॊत्सव वतीं शुभाम गॊपुराट्टालकवतीं गृहप्राकारशॊभिताम 7 परविश्य स पुरीं रम्यां विमानैर बहुभिर वृताम पण्यैश च बहुभिर युक्तां सुविभक्तमहापथाम 8 अश्वै रथैस तथा नागैर यानैश च बहुभिर वृताम हृष्टपुष्ट जनाकीर्णां नित्यॊत्सव समाकुलाम 9 सॊ ऽपश्यद बहु वृत्तान्तां बराह्मणः समतिक्रमन धर्मव्याधम अपृच्छच च स चास्य कथितॊ दविजैः 10 अपश्यत तत्र गत्वा तं सूना मध्ये वयवस्थितम मार्गमाहिष मांसानि विक्रीणन्तं तपस्विनम आकुलत्वात तु करेतॄणाम एकान्ते संस्थितॊ दविजः 11 स तु जञात्वा दविजं पराप्तं सहसा संभ्रमॊत्थितः आजगाम यतॊ विप्रः सथित एकान्त आसने 12 [वयाध] अभिवादये तवा भगवन सवागतं ते दविजॊत्तम अहं वयाधस तु भद्रं ते किं करॊमि परशाधि माम 13 एकपत्न्या यद उक्तॊ ऽसि गच्छ तवं मिथिलाम इति जानाम्य एतद अहं सर्वं यदर्थं तवम इहागतः 14 [मार्क] शरुत्वा तु तस्य तद वाक्यं स विप्रॊ भृशहर्षितः दवितीयम इदम आश्चर्यम इत्य अचिन्तयत दविजः 15 अदेशस्थं हि ते सथानम इति वयाधॊ ऽबरवीद दविजम गृहं गच्छाव भगवन यदि रॊचयसे ऽनघ 16 बाढम इत्य एव संहृष्टॊ विप्रॊ वचनम अब्रवीत अग्रतस तु दविजं कृत्वा स जगाम गरहान परति 17 परविश्य च गृहं रम्यम आसनेनाभिपूजितः पाद्यम आचमनीयं च परतिगृह्य दविजॊत्तमः 18 ततः सुखॊपविष्टस तं वयाधं वचनम अब्रवीत कर्मैतद वै न सदृशं भवतः परतिभाति मे अनुतप्ये भृशं तात तव घॊरेण कर्मणा 19 [वयाध] कुलॊचितम इदं कर्म पितृपैतामहं मम वर्तमानस्य मे धर्मे सवे मन्युं मा कृथा दविज 20 धात्रा तु विहितं पूर्वं कर्म सवं पालयाम्य अहम परयत्नाच च गुरू वृद्धौ शुश्रूषे ऽहं दविजॊत्तम 21 सत्यं वदे नाभ्यसूये यथाशक्ति ददामि च देवतातिथिभृत्यानाम अवशिष्टेन वर्तये 22 न कुत्सयाम्य अहं किं चिन न गर्हे बलवत्तरम कृतम अन्वेति कर्तारं पुरा कर्म दविजॊत्तम 23 कृषिगॊरक्ष्य वाणिज्यम इह लॊकस्य जीवनम दण्डनीतिस तरयी विद्या तेन लॊका भवन्त्य उत 24 कर्म शूद्रे कृषिर वैश्ये संग्रामः कषत्रिये समृतः बरह्मचर्यं तपॊ मन्त्राः सत्यं च बराह्मणे सदा 25 राजा परशास्ति धर्मेण सवकर्म निरताः परजाः विकर्माणश च ये के चित तान युनक्ति सवकर्मसु 26 भेतव्यं हि सदा राज्ञां परजानाम अधिपा हि ते मारयन्ति विकर्मस्थं लुब्धा मृगम इवेषुभिः 27 जनकस्येह विप्रर्षे विकर्मस्थॊ न विद्यते सवकर्म निरता वर्णाश चत्वारापि दविजॊत्तम 28 स एष जनकॊ राजा दुर्वृत्तम अपि चेत सुतम दण्ड्यं दण्डे निक्षिपति तथा न गलाति धार्मिकम 29 सुयुक्तचारॊ नृपतिः सर्वं धर्मेण पश्यति शरीश च राज्यं च दण्डश च कषत्रियाणां दविजॊत्तम 30 राजानॊ हि सवधर्मेण शरियम इच्छन्ति भूयसीम सर्वेषाम एव वर्णानां तराता राजा भवत्य उत 31 परेण हि हतान बरह्मन वराहमहिषान अहम न सवयं हन्मि विप्रर्षे विक्रीणामि सदा तव अहम 32 न भक्षयामि मांसानि ऋतुगामी तथा हय अहम सदॊपवासी च तथा नक्तभॊजी तथा दविज 33 अशीलश चापि पुरुषॊ भूत्वा भवति शीलवान पराणि हिंसा रतश चापि भवते धार्मिकः पुनः 34 वयभिचारान नरेन्द्राणां धर्मः संकीर्यते महान अधर्मॊ वर्धते चापि संकीर्यन्ते तथा परजाः 35 उरुण्डा वामनाः कुब्जाः सथूलशीर्षास तथैव च कलीबाश चान्धाश च जायन्ते बधिरा लम्बचूचुकाः पार्थिवानाम अधर्मत्वात परजानाम अभवः सदा 36 स एष राजा जनकः सर्वं धर्मेण पश्यति अनुगृह्णन परजाः सर्वाः सवधर्मनिरताः सदा 37 ये चैव मां परशंसन्ति ये च निन्दन्ति मानवाः सर्वान सुपरिणीतेन कर्मणा तॊषयाम्य अहम 38 ये जीवन्ति सवधर्मेण संभुञ्जन्ते च पार्थिवाः न किं चिद उपजीवन्ति दक्षा उत्थान शीलिनः 39 शक्त्यान्न दानं सततं तितिक्षा धर्मनित्यता यथार्हं परतिपूजा च सर्वभूतेषु वै दया तयागान नान्यत्र मर्त्यानां गुणास तिष्ठन्ति पूरुषे 40 मृषावादं परिहरेत कुर्यात परियम अयाचितः न च कामान न संरम्भान न दवेषाद धर्मम उत्सृजेत 41 परिये नातिभृशं हृष्येद अप्रिये न च संज्वरेत न मुह्येद अर्थकृच्छ्रेषु न च धर्मं परित्यजेत 42 कर्म चेत किं चिद अन्यत सयाद इतरन न समाचरेत यत कल्याणम अभिध्यायेत तत्रात्मानं नियॊजयेत 43 न पापं परति पापः सयात साधुर एव सदा भवेत आत्मनैव हतः पापॊ यः पापं कर्तुम इच्छति 44 कर्म चैतद असाधूनां वृजिनानाम असाधुवत न धर्मॊ ऽसतीति मन्वानाः शुचीन अवहसन्ति ये अश्रद्दधाना धर्मस्य ते नश्यन्ति न संशयः 45 महादृतिर इवाध्मातः पापॊ भवति नित्यदा मूढानाम अवलिप्तानाम असारं भाषितं भवेत दर्शयत्य अन्तरात्मानं दिवा रूपम इवांशुमान 46 न लॊके राजते मूर्खः केवलात्म परशंसया अपि चेह मृजा हीनः कृतविद्यः परकाशते 47 अब्रुवन कस्य चिन निन्दाम आत्मपूजाम अवर्णयन न कश चिद गुणसंपन्नः परकाशॊ भुवि दृश्यते 48 विकर्मणा तप्यमानः पापाद विपरिमुच्यते नैतत कुर्यां पुनर इति दवितीयात परिमुच्यते 49 कर्मणा येन तेनेह पापाद दविज वरॊत्तम एवं शरुतिर इयं बरह्मन धर्मेषु परिदृश्यते 50 पापान्य अबुद्ध्वेह पुरा कृतानि; पराग धर्मशीलॊ विनिहन्ति पश्चात धर्मॊ बरह्मन नुदते पूरुषाणां; यत कुर्वते पापम इह परमादात 51 पापं कृत्वा हि मन्येत नाहम अस्मीति पूरुषः चिकीर्षेद एव कल्याणं शरद्दधानॊ ऽनसूयकः 52 वसनस्येव छिद्राणि साधूनां विवृणॊति यः पापं चेत पुरुषः कृत्वा कल्याणम अभिपद्यते मुच्यते सर्वपापेभ्यॊ महाभ्रैर इव चन्द्रमाः 53 यथादित्यः समुद्यन वै तमॊ सर्वं वयपॊहति एवं कल्याणम आतिष्ठन सर्वपापैः परमुच्यते 54 पापानां विद्ध्य अधिष्ठानं लॊभम एव दविजॊत्तम लुब्धाः पापं वयवस्यन्ति नरा नातिबहु शरुताः अधर्मा धर्मरूपेण तृणैः कूपा इवावृताः 55 तेषां दमः पवित्राणि परलापा धर्मसंश्रिताः सर्वं हि विद्यते तेषु शिष्टाचारः सुदुर्लभः 56 [मार्क] स तु विप्रॊ महाप्राज्ञॊ धर्मव्याधम अपृच्छत शिष्टाचारं कथम अहं विद्याम इति नरॊत्तम एतन महामते वयाध परब्रवीहि यथातथम 57 [वयाध] यज्ञॊ दानं तपॊ वेदाः सत्यं च दविजसत्तम पञ्चैतानि पवित्राणि शिष्टाचारेषु नित्यदा 58 कामक्रॊधौ वशे कृत्वा दम्भं लॊभम अनार्जवम धर्म इत्य एव संतुष्टास ते शिष्टाः शिष्टसंमताः 59 न तेषां विद्यते ऽवृत्तं यज्ञस्वाध्यायशीलिनाम आचार पालनं चैव दवितीयं शिष्टलक्षणम 60 गुरुशुश्रूषणं सत्यम अक्रॊधॊ दानम एव च एतच चतुष्टयं बरह्मञ शिष्टाचारेषु नित्यदा 61 शिष्टाचारे मनॊ कृत्वा परतिष्ठाप्य च सर्वशः याम अयं लभते तुष्टिं सा न शक्या हय अतॊ ऽनयथा 62 वेदस्यॊपनिषत सत्यं सत्यस्यॊपनिषद दमः दमस्यॊपनिषत तयागः शिष्टाचारेषु नित्यदा 63 ये तु धर्मम असूयन्ते बुद्धिमॊहान्विता नराः अपथा गच्छतां तेषाम अनुयातापि पीड्यते 64 ये तु शिष्टाः सुनियताः शरुतित्यागपरायणाः धर्म्यं पन्थानम आरूढाः सत्यधर्मपरायणाः 65 नियच्छन्ति परां बुद्धिं शिष्टाचारान्विता नराः उपाध्याय मते युक्ताः सथित्या धर्मार्थदर्शिनः 66 नास्तिकान भिन्नमर्यादान करूरान पापमतौ सथितान तयज ताञ जञानम आश्रित्य धार्मिकान उपसेव्य च 67 काललॊभ गरहाकीर्णां पञ्चेन्द्रिय जलां नदीम नावं धृतिमयीं कृत्वा जन्म दुर्गाणि संतर 68 करमेण संचितॊ धर्मॊ बुद्धियॊगमयॊ महान शिष्टाचारे भवेत साधू रागः शुक्लेव वाससि 69 अहिंसा सत्यवचनं सर्वभूतहितं परम अहिंसा परमॊ धर्मः स च सत्ये परतिष्ठितः सत्ये कृत्वा परतिष्ठां तु परवर्तन्ते परवृत्तयः 70 सत्यम एव गरीयस तु शिष्टाचार निषेवितम आचारश च सतां धर्मः सन्तश चाचार लक्षणः 71 यॊ यथा परकृतिर जन्तुः सवां सवां परकृतिम अश्नुते पापात्मा करॊधकामादीन दॊषान आप्नॊत्य अनात्मवान 72 आरम्भॊ नयाययुक्तॊ यः स हि धर्म इति समृतः अनाचारस तव अधर्मेति एतच छिष्टानुशासनम 73 अक्रुध्यन्तॊ ऽनसूयन्तॊ निरहंकार मत्सराः ऋजवः शम संपन्नाः शिष्टाचारा भवन्ति ते 74 तरैविद्य वृद्धाः शुचयश वृत्तवन्तॊ मनस्विनः गुरुशुश्रूषवॊ दान्ताः शिष्टाचारा भवन्त्य उत 75 तेषाम अदीनसत्त्वानां दुष्कराचार कर्मणाम सवैः कर्मभिः सत्कृतानां घॊरत्वं संप्रणश्यति 76 तं सद आचारम आश्चर्यं पुराणं शाश्वतं धरुवम धर्मं धर्मेण पश्यन्तः सवर्गं यान्ति मनीषिणः 77 आस्तिका मानहीनाश च दविजातिजनपूजकाः शरुतवृत्तॊपसंपन्नास ते सन्तः सवर्गगामिनः 78 वेदॊक्तः परमॊ धर्मॊ धर्मशास्त्रेषु चापरः शिष्टाचीर्णश च शिष्टानां तरिविधं धर्मलक्षणम 79 पारणं चापि विद्यानां तीर्थानाम अवगाहनम कषमा सत्यार्जवं शौचं शिष्टाचार निदर्शनम 80 सर्वभूतदयावन्तॊ अहिंसा निरताः सदा परुषं न परभाषन्ते सदा सन्तॊ दविज परियाः 81 शुभानाम अशुभानां च कर्मणां फलसंचये विपाकम अभिजानन्ति ते शिष्टाः शिष्टसंमताः 82 नयायॊपेता गुणॊपेताः सर्वलॊकहितैषिणः सन्तः सवर्गजितः शुक्लाः संनिविष्टाश च सत्पथे 83 दातारः संविभक्तारॊ दीनानुग्रह कारिणः सर्वभूतदयावन्तस ते शिष्टाः शिष्टसंमताः 84 सर्वपूज्याः शरुतधनास तथैव च तपस्विनः दाननित्याः सुखाँल लॊकान आप्नुवन्तीह च शरियम 85 पीडया च कलत्रस्य भृत्यानां च समाहिताः अतिशक्त्या परयच्छन्ति सन्तः सद्भिः समागताः 86 लॊकयात्रां च पश्यन्तॊ धर्मम आत्महितानि च एवं सन्तॊ वर्तमाना एधन्ते शाश्वतीः समाः 87 अहिंसा सत्यवचनम आनृशंस्यम अथार्जवम अद्रॊहॊ नातिमानश च हरीस तितिक्षा दमः शमः 88 धीमन्तॊ धृतिमन्तश च भूतानाम अनुकम्पकाः अकाम दवेषसंयुक्तास ते सन्तॊ लॊकसत्कृताः 89 तरीण्य एव तु पदान्य आहुः सतां वृत्तम अनुत्तमम न दरुह्येच चैव दद्याच च सत्यं चैव सदा वदेत 90 सर्वत्र च दयावन्तः सन्तः करुणवेदिनः गच्छन्तीह सुसंतुष्टा धर्म्यं पन्थानम उत्तमम शिष्टाचारा महात्मानॊ येषां धर्मः सुनिश्चितः 91 अनसूया कषमा शान्तिः संतॊषः परियवादिता कामक्रॊधपरित्यागः शिष्टाचार निषेवणम 92 कर्मणा शरुतसंपन्नं सतां मार्गम अनुत्तमम शिष्टाचारं निषेवन्ते नित्यं धर्मेष्व अतन्द्रिताः 93 परज्ञा परासादम आरुह्य मुह्यतॊ महतॊ जनान परेक्षन्तॊ लॊकवृत्तानि विविधानि दविजॊत्तम अतिपुण्यानि पापानि तानि दविज वरॊत्तम 94 एतत ते सर्वम आख्यातं यथा परज्ञं यथा शरुतम शिष्टाचार गुणान बरह्मन पुरस्कृत्य दविजर्षभ |
1
[mārk] cintayitvā tad āścaryaṃ striyā proktam aśeṣataḥ vinindan sa dvijo ''tmānam āgaḥ kṛta ivābabhau 2 cintayānaḥ sa dharmasya sūkṣmāṃ gatim athābravīt śraddadhānena bhāvyaṃ vai gacchāmi mithilām aham 3 kṛtātmā dharmavit tasyāṃ vyādho nivasate kila taṃ gacchāmy aham adyaiva dharmaṃ praṣṭuṃ tapodhanam 4 iti saṃcintya manasā śraddadhānaḥ striyā vacaḥ balākā pratyayenāsau dharmyaiś ca vacanaiḥ śubhaiḥ saṃpratasthe sa mithilāṃ kautūhalasamanvitaḥ 5 atikrāmann araṇyāni grāmāṃś ca nagarāṇi ca tato jagāma mithilāṃ janakena surakṣitām 6 dharmasetu samākīrṇāṃ yajñotsava vatīṃ śubhām gopurāṭṭālakavatīṃ gṛhaprākāraśobhitām 7 praviśya sa purīṃ ramyāṃ vimānair bahubhir vṛtām paṇyaiś ca bahubhir yuktāṃ suvibhaktamahāpathām 8 aśvai rathais tathā nāgair yānaiś ca bahubhir vṛtām hṛṣṭapuṣṭa janākīrṇāṃ nityotsava samākulām 9 so 'paśyad bahu vṛttāntāṃ brāhmaṇaḥ samatikraman dharmavyādham apṛcchac ca sa cāsya kathito dvijaiḥ 10 apaśyat tatra gatvā taṃ sūnā madhye vyavasthitam mārgamāhiṣa māṃsāni vikrīṇantaṃ tapasvinam ākulatvāt tu kretṝṇām ekānte saṃsthito dvijaḥ 11 sa tu jñātvā dvijaṃ prāptaṃ sahasā saṃbhramotthitaḥ ājagāma yato vipraḥ sthita ekānta āsane 12 [vyādha] abhivādaye tvā bhagavan svāgataṃ te dvijottama ahaṃ vyādhas tu bhadraṃ te kiṃ karomi praśādhi mām 13 ekapatnyā yad ukto 'si gaccha tvaṃ mithilām iti jānāmy etad ahaṃ sarvaṃ yadarthaṃ tvam ihāgataḥ 14 [mārk] śrutvā tu tasya tad vākyaṃ sa vipro bhṛśaharṣitaḥ dvitīyam idam āścaryam ity acintayata dvijaḥ 15 adeśasthaṃ hi te sthānam iti vyādho 'bravīd dvijam gṛhaṃ gacchāva bhagavan yadi rocayase 'nagha 16 bāḍham ity eva saṃhṛṣṭo vipro vacanam abravīt agratas tu dvijaṃ kṛtvā sa jagāma grahān prati 17 praviśya ca gṛhaṃ ramyam āsanenābhipūjitaḥ pādyam ācamanīyaṃ ca pratigṛhya dvijottamaḥ 18 tataḥ sukhopaviṣṭas taṃ vyādhaṃ vacanam abravīt karmaitad vai na sadṛśaṃ bhavataḥ pratibhāti me anutapye bhṛśaṃ tāta tava ghoreṇa karmaṇā 19 [vyādha] kulocitam idaṃ karma pitṛpaitāmahaṃ mama vartamānasya me dharme sve manyuṃ mā kṛthā dvija 20 dhātrā tu vihitaṃ pūrvaṃ karma svaṃ pālayāmy aham prayatnāc ca gurū vṛddhau śuśrūṣe 'haṃ dvijottama 21 satyaṃ vade nābhyasūye yathāśakti dadāmi ca devatātithibhṛtyānām avaśiṣṭena vartaye 22 na kutsayāmy ahaṃ kiṃ cin na garhe balavattaram kṛtam anveti kartāraṃ purā karma dvijottama 23 kṛṣigorakṣya vāṇijyam iha lokasya jīvanam daṇḍanītis trayī vidyā tena lokā bhavanty uta 24 karma śūdre kṛṣir vaiśye saṃgrāmaḥ kṣatriye smṛtaḥ brahmacaryaṃ tapo mantrāḥ satyaṃ ca brāhmaṇe sadā 25 rājā praśāsti dharmeṇa svakarma niratāḥ prajāḥ vikarmāṇaś ca ye ke cit tān yunakti svakarmasu 26 bhetavyaṃ hi sadā rājñāṃ prajānām adhipā hi te mārayanti vikarmasthaṃ lubdhā mṛgam iveṣubhiḥ 27 janakasyeha viprarṣe vikarmastho na vidyate svakarma niratā varṇāś catvārāpi dvijottama 28 sa eṣa janako rājā durvṛttam api cet sutam daṇḍyaṃ daṇḍe nikṣipati tathā na glāti dhārmikam 29 suyuktacāro nṛpatiḥ sarvaṃ dharmeṇa paśyati śrīś ca rājyaṃ ca daṇḍaś ca kṣatriyāṇāṃ dvijottama 30 rājāno hi svadharmeṇa śriyam icchanti bhūyasīm sarveṣām eva varṇānāṃ trātā rājā bhavaty uta 31 pareṇa hi hatān brahman varāhamahiṣān aham na svayaṃ hanmi viprarṣe vikrīṇāmi sadā tv aham 32 na bhakṣayāmi māṃsāni ṛtugāmī tathā hy aham sadopavāsī ca tathā naktabhojī tathā dvija 33 aśīlaś cāpi puruṣo bhūtvā bhavati śīlavān prāṇi hiṃsā rataś cāpi bhavate dhārmikaḥ punaḥ 34 vyabhicārān narendrāṇāṃ dharmaḥ saṃkīryate mahān adharmo vardhate cāpi saṃkīryante tathā prajāḥ 35 uruṇḍā vāmanāḥ kubjāḥ sthūlaśīrṣās tathaiva ca klībāś cāndhāś ca jāyante badhirā lambacūcukāḥ pārthivānām adharmatvāt prajānām abhavaḥ sadā 36 sa eṣa rājā janakaḥ sarvaṃ dharmeṇa paśyati anugṛhṇan prajāḥ sarvāḥ svadharmaniratāḥ sadā 37 ye caiva māṃ praśaṃsanti ye ca nindanti mānavāḥ sarvān supariṇītena karmaṇā toṣayāmy aham 38 ye jīvanti svadharmeṇa saṃbhuñjante ca pārthivāḥ na kiṃ cid upajīvanti dakṣā utthāna śīlinaḥ 39 śaktyānna dānaṃ satataṃ titikṣā dharmanityatā yathārhaṃ pratipūjā ca sarvabhūteṣu vai dayā tyāgān nānyatra martyānāṃ guṇās tiṣṭhanti pūruṣe 40 mṛṣāvādaṃ pariharet kuryāt priyam ayācitaḥ na ca kāmān na saṃrambhān na dveṣād dharmam utsṛjet 41 priye nātibhṛśaṃ hṛṣyed apriye na ca saṃjvaret na muhyed arthakṛcchreṣu na ca dharmaṃ parityajet 42 karma cet kiṃ cid anyat syād itaran na samācaret yat kalyāṇam abhidhyāyet tatrātmānaṃ niyojayet 43 na pāpaṃ prati pāpaḥ syāt sādhur eva sadā bhavet ātmanaiva hataḥ pāpo yaḥ pāpaṃ kartum icchati 44 karma caitad asādhūnāṃ vṛjinānām asādhuvat na dharmo 'stīti manvānāḥ śucīn avahasanti ye aśraddadhānā dharmasya te naśyanti na saṃśayaḥ 45 mahādṛtir ivādhmātaḥ pāpo bhavati nityadā mūḍhānām avaliptānām asāraṃ bhāṣitaṃ bhavet darśayaty antarātmānaṃ divā rūpam ivāṃśumān 46 na loke rājate mūrkhaḥ kevalātma praśaṃsayā api ceha mṛjā hīnaḥ kṛtavidyaḥ prakāśate 47 abruvan kasya cin nindām ātmapūjām avarṇayan na kaś cid guṇasaṃpannaḥ prakāśo bhuvi dṛśyate 48 vikarmaṇā tapyamānaḥ pāpād viparimucyate naitat kuryāṃ punar iti dvitīyāt parimucyate 49 karmaṇā yena teneha pāpād dvija varottama evaṃ śrutir iyaṃ brahman dharmeṣu paridṛśyate 50 pāpāny abuddhveha purā kṛtāni; prāg dharmaśīlo vinihanti paścāt dharmo brahman nudate pūruṣāṇāṃ; yat kurvate pāpam iha pramādāt 51 pāpaṃ kṛtvā hi manyeta nāham asmīti pūruṣaḥ cikīrṣed eva kalyāṇaṃ śraddadhāno 'nasūyakaḥ 52 vasanasyeva chidrāṇi sādhūnāṃ vivṛṇoti yaḥ pāpaṃ cet puruṣaḥ kṛtvā kalyāṇam abhipadyate mucyate sarvapāpebhyo mahābhrair iva candramāḥ 53 yathādityaḥ samudyan vai tamo sarvaṃ vyapohati evaṃ kalyāṇam ātiṣṭhan sarvapāpaiḥ pramucyate 54 pāpānāṃ viddhy adhiṣṭhānaṃ lobham eva dvijottama lubdhāḥ pāpaṃ vyavasyanti narā nātibahu śrutāḥ adharmā dharmarūpeṇa tṛṇaiḥ kūpā ivāvṛtāḥ 55 teṣāṃ damaḥ pavitrāṇi pralāpā dharmasaṃśritāḥ sarvaṃ hi vidyate teṣu śiṣṭācāraḥ sudurlabhaḥ 56 [mārk] sa tu vipro mahāprājño dharmavyādham apṛcchata śiṣṭācāraṃ katham ahaṃ vidyām iti narottama etan mahāmate vyādha prabravīhi yathātatham 57 [vyādha] yajño dānaṃ tapo vedāḥ satyaṃ ca dvijasattama pañcaitāni pavitrāṇi śiṣṭācāreṣu nityadā 58 kāmakrodhau vaśe kṛtvā dambhaṃ lobham anārjavam dharma ity eva saṃtuṣṭās te śiṣṭāḥ śiṣṭasaṃmatāḥ 59 na teṣāṃ vidyate 'vṛttaṃ yajñasvādhyāyaśīlinām ācāra pālanaṃ caiva dvitīyaṃ śiṣṭalakṣaṇam 60 guruśuśrūṣaṇaṃ satyam akrodho dānam eva ca etac catuṣṭayaṃ brahmañ śiṣṭācāreṣu nityadā 61 śiṣṭācāre mano kṛtvā pratiṣṭhāpya ca sarvaśaḥ yām ayaṃ labhate tuṣṭiṃ sā na śakyā hy ato 'nyathā 62 vedasyopaniṣat satyaṃ satyasyopaniṣad damaḥ damasyopaniṣat tyāgaḥ śiṣṭācāreṣu nityadā 63 ye tu dharmam asūyante buddhimohānvitā narāḥ apathā gacchatāṃ teṣām anuyātāpi pīḍyate 64 ye tu śiṣṭāḥ suniyatāḥ śrutityāgaparāyaṇāḥ dharmyaṃ panthānam ārūḍhāḥ satyadharmaparāyaṇāḥ 65 niyacchanti parāṃ buddhiṃ śiṣṭācārānvitā narāḥ upādhyāya mate yuktāḥ sthityā dharmārthadarśinaḥ 66 nāstikān bhinnamaryādān krūrān pāpamatau sthitān tyaja tāñ jñānam āśritya dhārmikān upasevya ca 67 kālalobha grahākīrṇāṃ pañcendriya jalāṃ nadīm nāvaṃ dhṛtimayīṃ kṛtvā janma durgāṇi saṃtara 68 krameṇa saṃcito dharmo buddhiyogamayo mahān śiṣṭācāre bhavet sādhū rāgaḥ śukleva vāsasi 69 ahiṃsā satyavacanaṃ sarvabhūtahitaṃ param ahiṃsā paramo dharmaḥ sa ca satye pratiṣṭhitaḥ satye kṛtvā pratiṣṭhāṃ tu pravartante pravṛttayaḥ 70 satyam eva garīyas tu śiṣṭācāra niṣevitam ācāraś ca satāṃ dharmaḥ santaś cācāra lakṣaṇaḥ 71 yo yathā prakṛtir jantuḥ svāṃ svāṃ prakṛtim aśnute pāpātmā krodhakāmādīn doṣān āpnoty anātmavān 72 ārambho nyāyayukto yaḥ sa hi dharma iti smṛtaḥ anācāras tv adharmeti etac chiṣṭānuśāsanam 73 akrudhyanto 'nasūyanto nirahaṃkāra matsarāḥ ṛjavaḥ śama saṃpannāḥ śiṣṭācārā bhavanti te 74 traividya vṛddhāḥ śucayaś vṛttavanto manasvinaḥ guruśuśrūṣavo dāntāḥ śiṣṭācārā bhavanty uta 75 teṣām adīnasattvānāṃ duṣkarācāra karmaṇām svaiḥ karmabhiḥ satkṛtānāṃ ghoratvaṃ saṃpraṇaśyati 76 taṃ sad ācāram āścaryaṃ purāṇaṃ śāśvataṃ dhruvam dharmaṃ dharmeṇa paśyantaḥ svargaṃ yānti manīṣiṇaḥ 77 āstikā mānahīnāś ca dvijātijanapūjakāḥ śrutavṛttopasaṃpannās te santaḥ svargagāminaḥ 78 vedoktaḥ paramo dharmo dharmaśāstreṣu cāparaḥ śiṣṭācīrṇaś ca śiṣṭānāṃ trividhaṃ dharmalakṣaṇam 79 pāraṇaṃ cāpi vidyānāṃ tīrthānām avagāhanam kṣamā satyārjavaṃ śaucaṃ śiṣṭācāra nidarśanam 80 sarvabhūtadayāvanto ahiṃsā niratāḥ sadā paruṣaṃ na prabhāṣante sadā santo dvija priyāḥ 81 śubhānām aśubhānāṃ ca karmaṇāṃ phalasaṃcaye vipākam abhijānanti te śiṣṭāḥ śiṣṭasaṃmatāḥ 82 nyāyopetā guṇopetāḥ sarvalokahitaiṣiṇaḥ santaḥ svargajitaḥ śuklāḥ saṃniviṣṭāś ca satpathe 83 dātāraḥ saṃvibhaktāro dīnānugraha kāriṇaḥ sarvabhūtadayāvantas te śiṣṭāḥ śiṣṭasaṃmatāḥ 84 sarvapūjyāḥ śrutadhanās tathaiva ca tapasvinaḥ dānanityāḥ sukhāṁl lokān āpnuvantīha ca śriyam 85 pīḍayā ca kalatrasya bhṛtyānāṃ ca samāhitāḥ atiśaktyā prayacchanti santaḥ sadbhiḥ samāgatāḥ 86 lokayātrāṃ ca paśyanto dharmam ātmahitāni ca evaṃ santo vartamānā edhante śāśvatīḥ samāḥ 87 ahiṃsā satyavacanam ānṛśaṃsyam athārjavam adroho nātimānaś ca hrīs titikṣā damaḥ śamaḥ 88 dhīmanto dhṛtimantaś ca bhūtānām anukampakāḥ akāma dveṣasaṃyuktās te santo lokasatkṛtāḥ 89 trīṇy eva tu padāny āhuḥ satāṃ vṛttam anuttamam na druhyec caiva dadyāc ca satyaṃ caiva sadā vadet 90 sarvatra ca dayāvantaḥ santaḥ karuṇavedinaḥ gacchantīha susaṃtuṣṭā dharmyaṃ panthānam uttamam śiṣṭācārā mahātmāno yeṣāṃ dharmaḥ suniścitaḥ 91 anasūyā kṣamā śāntiḥ saṃtoṣaḥ priyavāditā kāmakrodhaparityāgaḥ śiṣṭācāra niṣevaṇam 92 karmaṇā śrutasaṃpannaṃ satāṃ mārgam anuttamam śiṣṭācāraṃ niṣevante nityaṃ dharmeṣv atandritāḥ 93 prajñā prāsādam āruhya muhyato mahato janān prekṣanto lokavṛttāni vividhāni dvijottama atipuṇyāni pāpāni tāni dvija varottama 94 etat te sarvam ākhyātaṃ yathā prajñaṃ yathā śrutam śiṣṭācāra guṇān brahman puraskṛtya dvijarṣabha |
The Mahabharata in Sanskrit
Book 3
Chapter 199
|
1
[मार्क] स तु विप्रम अथॊवाच धर्मव्याधॊ युधिष्ठिर यद अहं हय आचरे कर्म घॊरम एतद असंशयम 2 विधिस तु बलवान बरह्मन दुस्तरं हि पुराकृतम पुराकृतस्य पापस्य कर्म दॊषॊ भवत्य अयम दॊषस्यैतस्य वै बरह्मन विघाते यत्नवान अहम 3 विधिना विहिते पूर्वं निमित्तं घातकॊ भवेत निमित्तभूता हि वयं कर्मणॊ ऽसय दविजॊत्तम 4 येषां हतानां मांसानि विक्रीणामॊ वयं दविज तेषाम अपि भवेद धर्म उपभॊगेन भक्षणात देवतातिथिभृत्यानां पितॄणां परतिपूजनात 5 ओषध्यॊ वीरुधश चापि पशवॊ मृगपक्षिणः अन्नाद्य भूता लॊकस्य इत्य अपि शरूयते शरुतिः 6 आत्ममांस परदानेन शिबिर औशीनरॊ नृपः सवर्गं सुदुर्लभं पराप्तः कषमावान दविजसत्तम 7 राज्ञॊ महानसे पूर्वं रन्तिदेवस्य वै दविज दवे सहस्रे तु वध्येते पशूनाम अन्वहं तदा 8 समांसं ददतॊ हय अन्नं रन्तिदेवस्य नित्यशः अतुला कीर्तिर अभवन नृपस्य दविजसत्तम चातुर्मास्येषु पशवॊ वध्यन्त इति नित्यशः 9 अग्नयॊ मांसकामाश च इत्य अपि शरूयते शरुतिः यज्ञेषु पशवॊ बरह्मन वध्यन्ते सततं दविजैः संस्कृताः किल मन्त्रैश च ते ऽपि सवर्गम अवाप्नुवन 10 यदि नैवाग्नयॊ बरह्मन मांसकामाभवन पुरा भक्ष्यं नैव भवेन मांसं कस्य चिद दविजसत्तम 11 अत्रापि विधिर उक्तश च मुनिभिर मांसभक्षणे देवतानां पितॄणां च भुङ्क्ते दत्त्वा तु यः सदा यथाविधि यथाश्रद्धं न स दुष्यति भक्षणात 12 अमांसाशी भवत्य एवम इत्य अपि शरूयते शरुतिः भार्यां गच्छन बरह्मचारी ऋतौ भवति बराह्मणः 13 सत्यानृते विनिश्चित्य अत्रापि विधिर उच्यते सौदासेन पुरा राज्ञा मानुषा भक्षिता दविज शापाभिभूतेन भृशम अत्र किं परतिभाति ते 14 सवधर्म इति कृत्वा तु न तयजामि दविजॊत्तम पुरा कृतम इति जञात्वा जीवाम्य एतेन कर्मणा 15 सवकर्म तयजतॊ बरह्मन्न अधर्म इह दृश्यते सवकर्म निरतॊ यस तु स धर्म इति निश्चयः 16 पूर्वं हि विहितं कर्म देहिनं न विमुञ्चति धात्रा विधिर अयं दृष्टॊ बहुधा कर्म निर्णये 17 दरष्टव्यं तु भवेत पराज्ञ करूरे कर्मणि वर्तता कथं कर्म शुभं कुर्यां कथं मुच्ये पराभवात कर्मणस तस्य घॊरस्य बहुधा निर्णयॊ भवेत 18 दाने च सत्यवाक्ये च गुरुशुश्रूषणे तथा दविजातिपूजने चाहं धर्मे च निरतः सदा अतिवादातिमानाभ्यां निवृत्तॊ ऽसमि दविजॊत्तम 19 कृषिं साध्व इति मन्यन्ते तत्र हिंसा परा समृता कर्षन्तॊ लाङ्गलैः पुंसॊ घनन्ति भूमिशयान बहून जीवान अन्यांश च बहुशस तत्र किं परतिभाति ते 20 धान्यबीजानि यान्य आहुर वरीह्य आदीनि दविजॊत्तम सर्वाण्य एतानि जीवन्ति तत्र किं परतिभाति ते 21 अध्याक्रम्य पशूं चापि घनन्ति वै भक्षयन्ति च वृक्षान अथौषधीश चैव अछिन्दन्ति पुरुषा दविज 22 जीवा हि बहवॊ बरह्मन वृक्षेषु च फलेषु च उदके बहवश चापि तत्र किं परतिभाति ते 23 सर्वं वयाप्तम इदं बरह्मन पराणिभिः पराणिजीवनैः मत्स्या गरसन्ते मत्स्यांश च तत्र किं परतिभाति ते 24 सत्त्वैः सत्त्वानि जीवन्ति बहुधा दविजसत्तम पराणिनॊ ऽनयॊन्यभक्षाश च तत्र किं परतिभाति ते 25 चङ्क्रम्यमाणा जीवांश च धरणी संश्रितान बहून पद्भ्यां घनन्ति नरा विप्र तत्र किं परतिभाति ते 26 उपविष्टाः शयानाश च घनन्ति जीवान अनेकशः जञानविज्ञानवन्तश च तत्र किं परतिभाति ते 27 जीवैर गरस्तम इदं सर्वम आकाशं पृथिवी तथा अविज्ञानाच च हिंसन्ति तत्र किं परतिभाति ते 28 अहिंसेति यद उक्तं हि पुरुषैर विस्मितैः पुरा के न हिंसन्ति जीवन वै लॊके ऽसमिन दविजसत्तम बहु संचिन्त्य इह वै नास्ति कश चिद अहिंसकः 29 अहिंसायां तु निरता यतयॊ दविजसत्तम कुर्वन्त्य एव हि हिंसां ते यत्नाद अल्पतरा भवेत 30 आलक्ष्याश चैव पुरुषाः कुले जाता महागुणाः महाघॊराणि कर्माणि कृत्वा लज्जन्ति वै न च 31 सुहृदः सुहृदॊ ऽनयांश च दुर्हृदश चापि दुर्हृदः सम्यक परवृत्तान पुरुषान न सम्यग अनुपश्यतः 32 समृद्धैश च न नन्दन्ति बान्धवा बान्धवैर अपि गुरूंश चैव विनिन्दन्ति मूढाः पण्डितमानिनः 33 बहु लॊके विपर्यस्तं दृश्यते दविजसत्तम धर्मयुक्तम अधर्मं च तत्र किं परतिभाति ते 34 वक्तुं बहुविधं शक्यं धर्माधर्मेषु कर्मसु सवकर्म निरतॊ यॊ हि स यशॊ पराप्नुयान महत |
1
[mārk] sa tu vipram athovāca dharmavyādho yudhiṣṭhira yad ahaṃ hy ācare karma ghoram etad asaṃśayam 2 vidhis tu balavān brahman dustaraṃ hi purākṛtam purākṛtasya pāpasya karma doṣo bhavaty ayam doṣasyaitasya vai brahman vighāte yatnavān aham 3 vidhinā vihite pūrvaṃ nimittaṃ ghātako bhavet nimittabhūtā hi vayaṃ karmaṇo 'sya dvijottama 4 yeṣāṃ hatānāṃ māṃsāni vikrīṇāmo vayaṃ dvija teṣām api bhaved dharma upabhogena bhakṣaṇāt devatātithibhṛtyānāṃ pitṝṇāṃ pratipūjanāt 5 oṣadhyo vīrudhaś cāpi paśavo mṛgapakṣiṇaḥ annādya bhūtā lokasya ity api śrūyate śrutiḥ 6 ātmamāṃsa pradānena śibir auśīnaro nṛpaḥ svargaṃ sudurlabhaṃ prāptaḥ kṣamāvān dvijasattama 7 rājño mahānase pūrvaṃ rantidevasya vai dvija dve sahasre tu vadhyete paśūnām anvahaṃ tadā 8 samāṃsaṃ dadato hy annaṃ rantidevasya nityaśaḥ atulā kīrtir abhavan nṛpasya dvijasattama cāturmāsyeṣu paśavo vadhyanta iti nityaśaḥ 9 agnayo māṃsakāmāś ca ity api śrūyate śrutiḥ yajñeṣu paśavo brahman vadhyante satataṃ dvijaiḥ saṃskṛtāḥ kila mantraiś ca te 'pi svargam avāpnuvan 10 yadi naivāgnayo brahman māṃsakāmābhavan purā bhakṣyaṃ naiva bhaven māṃsaṃ kasya cid dvijasattama 11 atrāpi vidhir uktaś ca munibhir māṃsabhakṣaṇe devatānāṃ pitṝṇāṃ ca bhuṅkte dattvā tu yaḥ sadā yathāvidhi yathāśraddhaṃ na sa duṣyati bhakṣaṇāt 12 amāṃsāśī bhavaty evam ity api śrūyate śrutiḥ bhāryāṃ gacchan brahmacārī ṛtau bhavati brāhmaṇaḥ 13 satyānṛte viniścitya atrāpi vidhir ucyate saudāsena purā rājñā mānuṣā bhakṣitā dvija śāpābhibhūtena bhṛśam atra kiṃ pratibhāti te 14 svadharma iti kṛtvā tu na tyajāmi dvijottama purā kṛtam iti jñātvā jīvāmy etena karmaṇā 15 svakarma tyajato brahmann adharma iha dṛśyate svakarma nirato yas tu sa dharma iti niścayaḥ 16 pūrvaṃ hi vihitaṃ karma dehinaṃ na vimuñcati dhātrā vidhir ayaṃ dṛṣṭo bahudhā karma nirṇaye 17 draṣṭavyaṃ tu bhavet prājña krūre karmaṇi vartatā kathaṃ karma śubhaṃ kuryāṃ kathaṃ mucye parābhavāt karmaṇas tasya ghorasya bahudhā nirṇayo bhavet 18 dāne ca satyavākye ca guruśuśrūṣaṇe tathā dvijātipūjane cāhaṃ dharme ca nirataḥ sadā ativādātimānābhyāṃ nivṛtto 'smi dvijottama 19 kṛṣiṃ sādhv iti manyante tatra hiṃsā parā smṛtā karṣanto lāṅgalaiḥ puṃso ghnanti bhūmiśayān bahūn jīvān anyāṃś ca bahuśas tatra kiṃ pratibhāti te 20 dhānyabījāni yāny āhur vrīhy ādīni dvijottama sarvāṇy etāni jīvanti tatra kiṃ pratibhāti te 21 adhyākramya paśūṃ cāpi ghnanti vai bhakṣayanti ca vṛkṣān athauṣadhīś caiv achindanti puruṣā dvija 22 jīvā hi bahavo brahman vṛkṣeṣu ca phaleṣu ca udake bahavaś cāpi tatra kiṃ pratibhāti te 23 sarvaṃ vyāptam idaṃ brahman prāṇibhiḥ prāṇijīvanaiḥ matsyā grasante matsyāṃś ca tatra kiṃ pratibhāti te 24 sattvaiḥ sattvāni jīvanti bahudhā dvijasattama prāṇino 'nyonyabhakṣāś ca tatra kiṃ pratibhāti te 25 caṅkramyamāṇā jīvāṃś ca dharaṇī saṃśritān bahūn padbhyāṃ ghnanti narā vipra tatra kiṃ pratibhāti te 26 upaviṣṭāḥ śayānāś ca ghnanti jīvān anekaśaḥ jñānavijñānavantaś ca tatra kiṃ pratibhāti te 27 jīvair grastam idaṃ sarvam ākāśaṃ pṛthivī tathā avijñānāc ca hiṃsanti tatra kiṃ pratibhāti te 28 ahiṃseti yad uktaṃ hi puruṣair vismitaiḥ purā ke na hiṃsanti jīvan vai loke 'smin dvijasattama bahu saṃcintya iha vai nāsti kaś cid ahiṃsakaḥ 29 ahiṃsāyāṃ tu niratā yatayo dvijasattama kurvanty eva hi hiṃsāṃ te yatnād alpatarā bhavet 30 ālakṣyāś caiva puruṣāḥ kule jātā mahāguṇāḥ mahāghorāṇi karmāṇi kṛtvā lajjanti vai na ca 31 suhṛdaḥ suhṛdo 'nyāṃś ca durhṛdaś cāpi durhṛdaḥ samyak pravṛttān puruṣān na samyag anupaśyataḥ 32 samṛddhaiś ca na nandanti bāndhavā bāndhavair api gurūṃś caiva vinindanti mūḍhāḥ paṇḍitamāninaḥ 33 bahu loke viparyastaṃ dṛśyate dvijasattama dharmayuktam adharmaṃ ca tatra kiṃ pratibhāti te 34 vaktuṃ bahuvidhaṃ śakyaṃ dharmādharmeṣu karmasu svakarma nirato yo hi sa yaśo prāpnuyān mahat |
The Mahabharata in Sanskrit
Book 3
Chapter 200
|
1
[मार्क] धर्मव्याधस तु निपुणं पुनर एव युधिष्ठिर विप्रर्षभम उवाचेदं सर्वधर्मभृतां वरः 2 शरुतिप्रमाणॊ धर्मॊ हि वृद्धानाम इति भाषितम सूक्ष्मा गतिर हि धर्मस्य बहुशाखा हय अनन्तिका 3 पराणात्यये विवाहे च वक्तव्यम अनृतं भवेत अनृतं च भवेत सत्यं सत्यं चैवानृतं भवेत 4 यद भूतहितम अत्यन्तं तत सत्यम इति धारणा विपर्यय कृतॊ धर्मः पश्य धर्मस्य सूक्ष्मताम 5 यत करॊत्य अशुभं कर्म शुभं वा दविजसत्तम अवश्यं तत समाप्नॊति पुरुषॊ नात्र संशयः 6 विषमां च दशां पराप्य देवान गर्हति वै भृशम आत्मनः कर्म दॊषाणि न विजानात्य अपण्डितः 7 मूढॊ नैकृतिकाश चापि चपलश च दविजॊत्तम सुखदुःखविपर्यासॊ यदा समुपपद्यते नैनं परज्ञा सुनीतं वा तरायते नैव पौरुषम 8 यॊ यम इच्छेद यथाकामं तं तं कामं समश्नुयात यदि सयाद अपराधीनं पुरुषस्य करियाफलम 9 संयताश चापि दक्षाश च मतिमन्तश च मानवाः दृश्यन्ते निष्फलाः सन्तः परहीणाः सर्वकर्मभिः 10 भूतानाम अपरः कश चिद धिंसायां सततॊत्थितः वञ्चनायां च लॊकस्य स सुखेनेह जीवति 11 अचेष्टमानम आसीनं शरीः कं चिद उपतिष्ठति कश चित कर्माणि कुर्वन हि न पराप्यम अधिगच्छति 12 देवान इष्ट्वा तपस तप्त्वा कृपणैः पुत्रगृद्धिभिः दश मासधृता गर्भे जायन्ते कुलपांसनाः 13 अपरे धनधान्यैश च भॊगैश च पितृसंचितैः विपुलैर अभिजायन्ते लब्धास तैर एव मङ्गलैः 14 कर्मजा हि मनुष्याणां रॊगा नास्त्य अत्र संशयः आधिभिश चैव बाध्यन्ते वयाधैः कषुद्रमृगा इव 15 ते चापि कुशलैर वैद्यैर निपुणैः संभृतौषधैः वयाधयॊ विनिवार्यन्ते मृगा वयाधैर इव दविज 16 येषाम अस्ति च भॊक्तव्यं गरहणी दॊषपीडिताः न शक्नुवन्ति ते भॊक्तुं पश्य धर्मभृतां वर 17 अपरे बाहुबलिनः कलिश्यन्ते बहवॊ जनाः दुःखेन चाधिगच्छन्ति भॊजनं दविजसत्तम 18 इति लॊकम अनाक्रन्दं मॊहशॊकपरिप्लुतम सरॊतसासकृद आक्षिप्तं हरियमाणं बलीयसा 19 न मरियेयुर न जीर्येयुः सर्वे सयुः सार्वकामिकाः नाप्रियं परतिपश्येयुर वशित्वं यदि वै भवेत 20 उपर्य उपरि लॊकस्य सर्वॊ गन्तुं समीहते यतते च यथाशक्ति न च तद वर्तते तथा 21 बहवः संप्रदृश्यन्ते तुल्यनक्षत्र मङ्गलाः महच च फलवैषम्यं दृश्यते कर्म संधिषु 22 न कश चिद ईशते बरह्मन सवयं गराहस्य सत्तम कर्मणां पराकृतानां वै इह सिद्धिः परदृश्यते 23 यथा शरुतिर इयं बरह्मञ जीवः किल सनातनः शरीरम अध्रुवं लॊके सर्वेषां पराणिनाम इह 24 वध्यमाने शरीरे तु देहनाशॊ भवत्य उत जीवः संक्रमते ऽनयत्र कर्मबन्धनिबन्धनः 25 [बरा] कथं धर्मभृतां शरेष्ठ जीवॊ भवति शाश्वतः एतद इच्छाम्य अहं जञातु तत्त्वेन वदतां वर 26 [वयाध] न जीवनाशॊ ऽसति हि देहभेदे; मिथ्यैतद आहुर मरियतेति मूढाः जीवस तु देहान्तरितः परयाति; दशार्धतैवास्य शरीरभेदः 27 अन्यॊ हि नाश्नाति कृतं हि कर्म; स एव कर्ता सुखदुःखभागी यत तेन किं चिद धि कृतं हि कर्म; तद अश्नुते नास्ति कृतस्य नाशः 28 अपुण्य शीलाश च भवन्ति पुण्या; नरॊत्तमाः पापकृतॊ भवन्ति नरॊ ऽनुयातस तव इह कर्मभिः सवैस; ततः समुत्पद्यति भावितस तैः 29 [बरा] कथं संभवते यॊनौ कथं वा पुण्यपापयॊः जातीः पुण्या हय अपुण्याश च कथं गच्छति सत्तम 30 [वयध] गर्भाधान समायुक्तं कर्मेदं संप्रदृश्यते समासेन तु ते कषिप्रं परवक्ष्यामि दविजॊत्तम 31 यथा संभृत संभारः पुनर एव परजायते शुभकृच छुभयॊनीषु पापकृत पापयॊनिषु 32 शुभैः परयॊगैर देवत्वं वयामिश्रैर मानुषॊ भवेत मॊहनीयैर वियॊनीषु तव अधॊ गामी च किल्बिषैः 33 जातिमृत्युजरादुःखैः सततं समभिद्रुतः संसारे पच्यमानश च दॊषैर आत्मकृतैर नरः 34 तिर्यग्यॊनिसहस्राणि गत्वा नरकम एव च जीवाः संपरिवर्तन्ते कर्मबन्धनिबन्धनाः 35 जन्तुस तु कर्मभिस तैस तैः सवकृतैः परेत्य दुःखितः तद्दुःखप्रतिघातार्थम अपुण्यां यॊनिम अश्नुते 36 ततः कर्म समादत्ते पुनर अन्यन नवं बहु पच्यते तु पुनस तेन भुक्त्वापथ्यम इवातुरः 37 अजस्रम एव दुःखार्तॊ ऽदुःखितः सुखसंज्ञितः ततॊ ऽनिवृत्त बन्धत्वात कर्मणाम उदयाद अपि परिक्रामति संसारे चक्रवद बहु वेदनः 38 स चेन निवृत्तबन्धस तु विशुद्धश चापि कर्मभिः पराप्नॊति सुकृताँल लॊकान यत्र गत्वा न शॊचति 39 पापं कुर्वन पापवृत्तः पापस्यान्तं न गच्छति तस्मात पुण्यं यतेत कर्तुं वर्जयेत च पातकम 40 अनसूयुः कृतज्ञश च कल्याणान्य एव सेवते सुखानि धर्मम अर्थं च सवर्गं च लभते नरः 41 संस्कृतस्य हि दान्तस्य नियतस्य यतात्मनः पराज्ञस्यानन्तरा वृत्तिर इह लॊके परत्र च 42 सतां धर्मेण वर्तेत करियां शिष्टवद आचरेत असंक्लेशेन लॊकस्य वृत्तिं लिप्सेत वै दविज 43 सन्ति हय आगतविज्ञानाः शिष्टाः शास्त्रविचक्षणाः सवधर्मेण करिया लॊके कर्मणः सॊ ऽपय असंकरः 44 पराज्ञॊ धर्मेण रमते धर्मं चैवॊपजीवति तस्य धर्माद अवाप्तेषु धनेषु दविजसत्तम तस्यैव सिञ्चते मूलं गुणान पश्यति यत्र वै 45 धर्मात्मा भवति हय एवं चित्तं चास्य परसीदति स मैत्र जनसंतुष्ट इह परेत्य च नन्दति 46 शब्दं सपर्शं तथारूपं गन्धान इष्टांश च सत्तम परभुत्वं लभते चापि धर्मस्यैतत फलं विदुः 47 धर्मस्य च फलं लब्ध्वा न तृप्यति महाद्विज अतृप्यमाणॊ निर्वेदम आदत्ते जञानचक्षुषा 48 परज्ञा चक्षुर नर इह दॊषं नैवानुरुध्यते विरज्यति यथाकामं न च धर्मं विमुञ्चति 49 सत्यत्यागे च यतते दृष्ट्वा लॊकं कषयात्मकम ततॊ मॊक्षे परयतते नानुपायाद उपायतः 50 एवं निर्वेदम आदत्ते पापं कर्म जहाति च धार्मिकश चापि भवति मॊक्षं च लभते परम 51 तपॊ निःश्रेयसं जन्तॊस तस्य मूलं शमॊ दमः तेन सर्वान अवाप्नॊति कामान यान मनसेच्छति 52 इन्द्रियाणां निरॊधेन सत्येन च दमेन च बरह्मणः पदम आप्नॊति यत परं दविजसत्तम 53 [बरा] इन्द्रियाणि तु यान्य आहुः कानि तानि यतव्रत निग्रहश च कथं कार्यॊ निग्रहस्य च किं फलम 54 कथं च फलम आप्नॊति तेषां धर्मभृतां वर एतद इच्छामि तत्त्वेन धर्मं जञातुं सुधार्मिक |
1
[mārk] dharmavyādhas tu nipuṇaṃ punar eva yudhiṣṭhira viprarṣabham uvācedaṃ sarvadharmabhṛtāṃ varaḥ 2 śrutipramāṇo dharmo hi vṛddhānām iti bhāṣitam sūkṣmā gatir hi dharmasya bahuśākhā hy anantikā 3 prāṇātyaye vivāhe ca vaktavyam anṛtaṃ bhavet anṛtaṃ ca bhavet satyaṃ satyaṃ caivānṛtaṃ bhavet 4 yad bhūtahitam atyantaṃ tat satyam iti dhāraṇā viparyaya kṛto dharmaḥ paśya dharmasya sūkṣmatām 5 yat karoty aśubhaṃ karma śubhaṃ vā dvijasattama avaśyaṃ tat samāpnoti puruṣo nātra saṃśayaḥ 6 viṣamāṃ ca daśāṃ prāpya devān garhati vai bhṛśam ātmanaḥ karma doṣāṇi na vijānāty apaṇḍitaḥ 7 mūḍho naikṛtikāś cāpi capalaś ca dvijottama sukhaduḥkhaviparyāso yadā samupapadyate nainaṃ prajñā sunītaṃ vā trāyate naiva pauruṣam 8 yo yam icched yathākāmaṃ taṃ taṃ kāmaṃ samaśnuyāt yadi syād aparādhīnaṃ puruṣasya kriyāphalam 9 saṃyatāś cāpi dakṣāś ca matimantaś ca mānavāḥ dṛśyante niṣphalāḥ santaḥ prahīṇāḥ sarvakarmabhiḥ 10 bhūtānām aparaḥ kaś cid dhiṃsāyāṃ satatotthitaḥ vañcanāyāṃ ca lokasya sa sukheneha jīvati 11 aceṣṭamānam āsīnaṃ śrīḥ kaṃ cid upatiṣṭhati kaś cit karmāṇi kurvan hi na prāpyam adhigacchati 12 devān iṣṭvā tapas taptvā kṛpaṇaiḥ putragṛddhibhiḥ daśa māsadhṛtā garbhe jāyante kulapāṃsanāḥ 13 apare dhanadhānyaiś ca bhogaiś ca pitṛsaṃcitaiḥ vipulair abhijāyante labdhās tair eva maṅgalaiḥ 14 karmajā hi manuṣyāṇāṃ rogā nāsty atra saṃśayaḥ ādhibhiś caiva bādhyante vyādhaiḥ kṣudramṛgā iva 15 te cāpi kuśalair vaidyair nipuṇaiḥ saṃbhṛtauṣadhaiḥ vyādhayo vinivāryante mṛgā vyādhair iva dvija 16 yeṣām asti ca bhoktavyaṃ grahaṇī doṣapīḍitāḥ na śaknuvanti te bhoktuṃ paśya dharmabhṛtāṃ vara 17 apare bāhubalinaḥ kliśyante bahavo janāḥ duḥkhena cādhigacchanti bhojanaṃ dvijasattama 18 iti lokam anākrandaṃ mohaśokapariplutam srotasāsakṛd ākṣiptaṃ hriyamāṇaṃ balīyasā 19 na mriyeyur na jīryeyuḥ sarve syuḥ sārvakāmikāḥ nāpriyaṃ pratipaśyeyur vaśitvaṃ yadi vai bhavet 20 upary upari lokasya sarvo gantuṃ samīhate yatate ca yathāśakti na ca tad vartate tathā 21 bahavaḥ saṃpradṛśyante tulyanakṣatra maṅgalāḥ mahac ca phalavaiṣamyaṃ dṛśyate karma saṃdhiṣu 22 na kaś cid īśate brahman svayaṃ grāhasya sattama karmaṇāṃ prākṛtānāṃ vai iha siddhiḥ pradṛśyate 23 yathā śrutir iyaṃ brahmañ jīvaḥ kila sanātanaḥ śarīram adhruvaṃ loke sarveṣāṃ prāṇinām iha 24 vadhyamāne śarīre tu dehanāśo bhavaty uta jīvaḥ saṃkramate 'nyatra karmabandhanibandhanaḥ 25 [brā] kathaṃ dharmabhṛtāṃ śreṣṭha jīvo bhavati śāśvataḥ etad icchāmy ahaṃ jñātu tattvena vadatāṃ vara 26 [vyādha] na jīvanāśo 'sti hi dehabhede; mithyaitad āhur mriyateti mūḍhāḥ jīvas tu dehāntaritaḥ prayāti; daśārdhataivāsya śarīrabhedaḥ 27 anyo hi nāśnāti kṛtaṃ hi karma; sa eva kartā sukhaduḥkhabhāgī yat tena kiṃ cid dhi kṛtaṃ hi karma; tad aśnute nāsti kṛtasya nāśaḥ 28 apuṇya śīlāś ca bhavanti puṇyā; narottamāḥ pāpakṛto bhavanti naro 'nuyātas tv iha karmabhiḥ svais; tataḥ samutpadyati bhāvitas taiḥ 29 [brā] kathaṃ saṃbhavate yonau kathaṃ vā puṇyapāpayoḥ jātīḥ puṇyā hy apuṇyāś ca kathaṃ gacchati sattama 30 [vyadha] garbhādhāna samāyuktaṃ karmedaṃ saṃpradṛśyate samāsena tu te kṣipraṃ pravakṣyāmi dvijottama 31 yathā saṃbhṛta saṃbhāraḥ punar eva prajāyate śubhakṛc chubhayonīṣu pāpakṛt pāpayoniṣu 32 śubhaiḥ prayogair devatvaṃ vyāmiśrair mānuṣo bhavet mohanīyair viyonīṣu tv adho gāmī ca kilbiṣaiḥ 33 jātimṛtyujarāduḥkhaiḥ satataṃ samabhidrutaḥ saṃsāre pacyamānaś ca doṣair ātmakṛtair naraḥ 34 tiryagyonisahasrāṇi gatvā narakam eva ca jīvāḥ saṃparivartante karmabandhanibandhanāḥ 35 jantus tu karmabhis tais taiḥ svakṛtaiḥ pretya duḥkhitaḥ tadduḥkhapratighātārtham apuṇyāṃ yonim aśnute 36 tataḥ karma samādatte punar anyan navaṃ bahu pacyate tu punas tena bhuktvāpathyam ivāturaḥ 37 ajasram eva duḥkhārto 'duḥkhitaḥ sukhasaṃjñitaḥ tato 'nivṛtta bandhatvāt karmaṇām udayād api parikrāmati saṃsāre cakravad bahu vedanaḥ 38 sa cen nivṛttabandhas tu viśuddhaś cāpi karmabhiḥ prāpnoti sukṛtāṁl lokān yatra gatvā na śocati 39 pāpaṃ kurvan pāpavṛttaḥ pāpasyāntaṃ na gacchati tasmāt puṇyaṃ yatet kartuṃ varjayeta ca pātakam 40 anasūyuḥ kṛtajñaś ca kalyāṇāny eva sevate sukhāni dharmam arthaṃ ca svargaṃ ca labhate naraḥ 41 saṃskṛtasya hi dāntasya niyatasya yatātmanaḥ prājñasyānantarā vṛttir iha loke paratra ca 42 satāṃ dharmeṇa varteta kriyāṃ śiṣṭavad ācaret asaṃkleśena lokasya vṛttiṃ lipseta vai dvija 43 santi hy āgatavijñānāḥ śiṣṭāḥ śāstravicakṣaṇāḥ svadharmeṇa kriyā loke karmaṇaḥ so 'py asaṃkaraḥ 44 prājño dharmeṇa ramate dharmaṃ caivopajīvati tasya dharmād avāpteṣu dhaneṣu dvijasattama tasyaiva siñcate mūlaṃ guṇān paśyati yatra vai 45 dharmātmā bhavati hy evaṃ cittaṃ cāsya prasīdati sa maitra janasaṃtuṣṭa iha pretya ca nandati 46 śabdaṃ sparśaṃ tathārūpaṃ gandhān iṣṭāṃś ca sattama prabhutvaṃ labhate cāpi dharmasyaitat phalaṃ viduḥ 47 dharmasya ca phalaṃ labdhvā na tṛpyati mahādvija atṛpyamāṇo nirvedam ādatte jñānacakṣuṣā 48 prajñā cakṣur nara iha doṣaṃ naivānurudhyate virajyati yathākāmaṃ na ca dharmaṃ vimuñcati 49 satyatyāge ca yatate dṛṣṭvā lokaṃ kṣayātmakam tato mokṣe prayatate nānupāyād upāyataḥ 50 evaṃ nirvedam ādatte pāpaṃ karma jahāti ca dhārmikaś cāpi bhavati mokṣaṃ ca labhate param 51 tapo niḥśreyasaṃ jantos tasya mūlaṃ śamo damaḥ tena sarvān avāpnoti kāmān yān manasecchati 52 indriyāṇāṃ nirodhena satyena ca damena ca brahmaṇaḥ padam āpnoti yat paraṃ dvijasattama 53 [brā] indriyāṇi tu yāny āhuḥ kāni tāni yatavrata nigrahaś ca kathaṃ kāryo nigrahasya ca kiṃ phalam 54 kathaṃ ca phalam āpnoti teṣāṃ dharmabhṛtāṃ vara etad icchāmi tattvena dharmaṃ jñātuṃ sudhārmika |
The Mahabharata in Sanskrit
Book 3
Chapter 201
|
1
[मार्क] एवम उक्तस तु विप्रेण धर्मव्याधॊ युधिष्ठिर परत्युवाच यथा विप्रं तच छृणुष्व नराधिप 2 [वयध] विज्ञानार्थं मनुष्याणां मनॊ पूर्वं परवर्तते तत पराप्य कामं भजते करॊधं च दविजसत्तम 3 ततस तदर्थं यतते कर्म चारभते महत इष्टानां रूपगन्धानाम अभ्यासं च निषेवते 4 ततॊ रागः परभवति दवेषश च तदनन्तरम ततॊ लॊभः परभवति मॊहश च तदनन्तरम 5 तस्य लॊभाभिभूतस्य रागद्वेषहतस्य च न धर्मे जायते बुद्धिर वयाजाद धर्मं करॊति च 6 वयाजेन चरते धर्मम अर्थं वयाजेन रॊचते वयाजेन सिध्यमानेषु धनेषु दविजसत्तम तत्रैव रमते बुद्धिस ततः पापं चिकीर्षति 7 सुहृद्भिर वार्यमाणश च पण्डितैश च दविजॊत्तम उत्तरं शरुतिसंबद्धं बरवीति शरुतियॊजितम 8 अधर्मस तरिविधस तस्य वर्धते रागदॊषतः पापं चिन्तयते चापि बरवीति च करॊति च 9 तस्याधर्मप्रवृत्तस्य गुणा नश्यन्ति साधवः एकशीलाश च मित्रत्वं भजन्ते पापकर्मिणः 10 स तेनासुखम आप्नॊति परत्र च विहन्यते पापात्मा भवति हय एवं धर्मलाभं तु मे शृणु 11 यस तव एतान परज्ञया दॊषान पूर्वम एवानुपश्यति कुशलः सुखदुःखेषु साधूंश चाप्य उपसेवते तस्य साधु समारम्भाद बुद्धिर धर्मेषु जायते 12 [बरा] बरवीसि सूनृतं धर्मं यस्य वक्ता न विद्यते दिव्यप्रभावः सुमहान ऋषिर एव मतॊ ऽसि मे 13 [वयध] बराह्मणा वै महाभागाः पितरॊ ऽगरभुजः सदा तेषां सर्वात्मना कार्यं परियं लॊके मनीषिणा 14 यत तेषां च परियं तत ते वक्ष्यामि दविजसत्तम नमस्कृत्वा बराह्मणेभ्यॊ बराह्मीं विद्यां निबॊध मे 15 इदं विश्वं जगत सर्वम अजय्यं चापि सर्वशः महाभूतात्मकं बरह्मन्नातः परतरं भवेत 16 महाभूतानि खं वायुर अग्निर आपस तथा च भूः शब्दः सपर्शश च रूपं च रसॊ गन्धश च तद गुणाः 17 तेषाम अपि गुणाः सर्वे गुणवृत्तिः परस्परम पूर्वपूर्व गुणाः सर्वे करमशॊ गुणिषु तरिषु 18 षष्ठस तु चेतना नाम मन इत्य अभिधीयते सप्तमी तु भवेद बुद्धिर अहंकारस ततः परम 19 इन्द्रियाणि च पञ्चैव रजॊ सत्त्वं तमस तथा इत्य एष सप्त दशकॊ राशिर अव्यक्तसंज्ञकः 20 सर्वैर इहेन्द्रियार्थैस तु वयक्ताव्यक्तैः सुसंवृतः चतुर्विंशक इत्य एष वयक्ताव्यक्तमयॊ गुणः एतत ते सर्वम आख्यातं किं भूयॊ शरॊतुम इच्छसि |
1
[mārk] evam uktas tu vipreṇa dharmavyādho yudhiṣṭhira pratyuvāca yathā vipraṃ tac chṛṇuṣva narādhipa 2 [vyadha] vijñānārthaṃ manuṣyāṇāṃ mano pūrvaṃ pravartate tat prāpya kāmaṃ bhajate krodhaṃ ca dvijasattama 3 tatas tadarthaṃ yatate karma cārabhate mahat iṣṭānāṃ rūpagandhānām abhyāsaṃ ca niṣevate 4 tato rāgaḥ prabhavati dveṣaś ca tadanantaram tato lobhaḥ prabhavati mohaś ca tadanantaram 5 tasya lobhābhibhūtasya rāgadveṣahatasya ca na dharme jāyate buddhir vyājād dharmaṃ karoti ca 6 vyājena carate dharmam arthaṃ vyājena rocate vyājena sidhyamāneṣu dhaneṣu dvijasattama tatraiva ramate buddhis tataḥ pāpaṃ cikīrṣati 7 suhṛdbhir vāryamāṇaś ca paṇḍitaiś ca dvijottama uttaraṃ śrutisaṃbaddhaṃ bravīti śrutiyojitam 8 adharmas trividhas tasya vardhate rāgadoṣataḥ pāpaṃ cintayate cāpi bravīti ca karoti ca 9 tasyādharmapravṛttasya guṇā naśyanti sādhavaḥ ekaśīlāś ca mitratvaṃ bhajante pāpakarmiṇaḥ 10 sa tenāsukham āpnoti paratra ca vihanyate pāpātmā bhavati hy evaṃ dharmalābhaṃ tu me śṛṇu 11 yas tv etān prajñayā doṣān pūrvam evānupaśyati kuśalaḥ sukhaduḥkheṣu sādhūṃś cāpy upasevate tasya sādhu samārambhād buddhir dharmeṣu jāyate 12 [brā] bravīsi sūnṛtaṃ dharmaṃ yasya vaktā na vidyate divyaprabhāvaḥ sumahān ṛṣir eva mato 'si me 13 [vyadha] brāhmaṇā vai mahābhāgāḥ pitaro 'grabhujaḥ sadā teṣāṃ sarvātmanā kāryaṃ priyaṃ loke manīṣiṇā 14 yat teṣāṃ ca priyaṃ tat te vakṣyāmi dvijasattama namaskṛtvā brāhmaṇebhyo brāhmīṃ vidyāṃ nibodha me 15 idaṃ viśvaṃ jagat sarvam ajayyaṃ cāpi sarvaśaḥ mahābhūtātmakaṃ brahmannātaḥ parataraṃ bhavet 16 mahābhūtāni khaṃ vāyur agnir āpas tathā ca bhūḥ śabdaḥ sparśaś ca rūpaṃ ca raso gandhaś ca tad guṇāḥ 17 teṣām api guṇāḥ sarve guṇavṛttiḥ parasparam pūrvapūrva guṇāḥ sarve kramaśo guṇiṣu triṣu 18 ṣaṣṭhas tu cetanā nāma mana ity abhidhīyate saptamī tu bhaved buddhir ahaṃkāras tataḥ param 19 indriyāṇi ca pañcaiva rajo sattvaṃ tamas tathā ity eṣa sapta daśako rāśir avyaktasaṃjñakaḥ 20 sarvair ihendriyārthais tu vyaktāvyaktaiḥ susaṃvṛtaḥ caturviṃśaka ity eṣa vyaktāvyaktamayo guṇaḥ etat te sarvam ākhyātaṃ kiṃ bhūyo śrotum icchasi |
The Mahabharata in Sanskrit
Book 3
Chapter 202
|
1
[मार्क] एवम उक्तः स विप्रस तु धर्मव्याधेन भारत कथाम अकथयद भूयॊ मनसः परीतिवर्धनीम 2 [बरा] महाभूतानि यान्य आहुः पञ्च धर्मविदां वर एकैकस्य गुणान सम्यक पञ्चानाम अपि मे वद 3 [वयध] भूमिर आपस तथा जयॊतिर वायुर आकाशम एव च गुणॊत्तराणि सर्वाणि तेषां वक्ष्यामि ते गुणान 4 भूमिः पञ्च गुणा बरह्मन्न उदकं च चतुर्गुणम गुणास तरयस तेजसि च तरयश चाकाशवातयॊः 5 शब्दः सपर्शश च रूपं च रसश चापि दविजॊत्तम एते गुणाः पञ्च भूमेः सर्वेभ्यॊ गुणवत्तराः 6 शब्दः सपर्शश च रूपं च तेजसॊ ऽथ गुणास तरयः अपाम एते गुणा बरह्मन कीर्तिमास तव सुव्रत 7 शब्दः सपर्शश च रूपं च तेजसॊ ऽथ गुणास तरयः शब्दः सपर्शश च वायौ तु शब्द आकाश एव च 8 एते पञ्चदश बरह्मन गुणा भूतेषु पञ्चसु वर्तन्ते सर्वभूतेषु येषु लॊकाः परतिष्ठिताः अन्यॊन्यं नातिवर्तन्ते संपच च भवति दविज 9 यदा तु विषमी भावम आचरन्ति चराचराः तदा देही देहम अन्यं वयतिरॊहति कालतः 10 आनुपूर्व्या विनश्यन्ति जायन्ते चानुपूर्वशः तत्र तत्र हि दृश्यन्ते धातवः पाञ्चभौतिकाः यैर आवृतम इदं सर्वं जगत सथावरजङ्गमम 11 इन्द्रियैः सृज्यते यद यत तत तद वयक्तम इति समृतम अव्यक्तम इति विज्ञेयं लिङ्गग्राह्यम अतीन्द्रियम 12 यथा सवं गराहकान्य एषां शब्दादीनाम इमानि तु इन्द्रियाणि यदा देही धारयन्न इह तप्यते 13 लॊके विततम आत्मानं लॊकं चात्मनि पश्यति परावरज्ञः सक्तः सन सर्वभूतानि पश्यति 14 पश्यतः सर्वभूतानि सर्वावस्थासु सर्वदा बरह्मभूतस्य संयॊगॊ नाशुभेनॊपपद्यते 15 जञानमूलात्मकं कलेशम अतिवृत्तस्य मॊहजम लॊकॊ बुद्धिप्रकाशेन जञेय मार्गेण दृश्यते 16 अनादि निधनं जन्तुम आत्मयॊनिं सदाव्ययम अनौपम्यम अमूर्तं च भगवान आह बुद्धिमान तपॊ मूलम इदं सर्वं यन मां विप्रानुपृच्छसि 17 इन्द्रियाण्य एव तत सर्वं यत सवर्गनरकाव उभौ निगृहीत विसृष्टानि सवर्गाय नरकाय च 18 एष यॊगविधिः कृत्स्नॊ यावद इन्द्रियधारणम एतन मूलं हि तपसः कृत्स्नस्य नरकस्य च 19 इन्द्रियाणां परसङ्गेन दॊषम ऋच्छत्य असंशयम संनियम्य तु तान्य एव ततः सिद्धिम अवाप्नुते 20 षण्णाम आत्मनि नित्यानाम ऐश्वर्यं यॊ ऽधिगच्छति न स पापैः कुतॊ ऽनर्थैर युज्यते विजितेन्द्रियः 21 रथः शरीरं पुरुषस्य दृष्टम; आत्मा नियतेन्द्रियाण्य आहुर अश्वान तैर अप्रमत्तः कुशली सदश्वैर; दान्तैः सुखं याति रथीव धीरः 22 षण्णाम आत्मनि नित्यानाम इन्द्रियाणां परमाथिनाम यॊ धीरॊ धारयेद रश्मीन स सयात परमसारथिः 23 इन्द्रियाणां परसृष्टानां हयानाम इव वर्त्मसु धृतिं कुर्वीत सारथ्ये धृत्या तानि जयेद धरुवम 24 इन्द्रियाणां हि चरतां यन मनॊ ऽनुविधीयते तद अस्य हरते बुद्धिं नावं वायुर इवाम्भसि 25 येषु विप्रतिपद्यन्ते षट्सु मॊहात फलागमे तेष्व अध्यवसिताध्यायी विन्दते धयानजं फलम |
1
[mārk] evam uktaḥ sa vipras tu dharmavyādhena bhārata kathām akathayad bhūyo manasaḥ prītivardhanīm 2 [brā] mahābhūtāni yāny āhuḥ pañca dharmavidāṃ vara ekaikasya guṇān samyak pañcānām api me vada 3 [vyadha] bhūmir āpas tathā jyotir vāyur ākāśam eva ca guṇottarāṇi sarvāṇi teṣāṃ vakṣyāmi te guṇān 4 bhūmiḥ pañca guṇā brahmann udakaṃ ca caturguṇam guṇās trayas tejasi ca trayaś cākāśavātayoḥ 5 śabdaḥ sparśaś ca rūpaṃ ca rasaś cāpi dvijottama ete guṇāḥ pañca bhūmeḥ sarvebhyo guṇavattarāḥ 6 śabdaḥ sparśaś ca rūpaṃ ca tejaso 'tha guṇās trayaḥ apām ete guṇā brahman kīrtimās tava suvrata 7 śabdaḥ sparśaś ca rūpaṃ ca tejaso 'tha guṇās trayaḥ śabdaḥ sparśaś ca vāyau tu śabda ākāśa eva ca 8 ete pañcadaśa brahman guṇā bhūteṣu pañcasu vartante sarvabhūteṣu yeṣu lokāḥ pratiṣṭhitāḥ anyonyaṃ nātivartante saṃpac ca bhavati dvija 9 yadā tu viṣamī bhāvam ācaranti carācarāḥ tadā dehī deham anyaṃ vyatirohati kālataḥ 10 ānupūrvyā vinaśyanti jāyante cānupūrvaśaḥ tatra tatra hi dṛśyante dhātavaḥ pāñcabhautikāḥ yair āvṛtam idaṃ sarvaṃ jagat sthāvarajaṅgamam 11 indriyaiḥ sṛjyate yad yat tat tad vyaktam iti smṛtam avyaktam iti vijñeyaṃ liṅgagrāhyam atīndriyam 12 yathā svaṃ grāhakāny eṣāṃ śabdādīnām imāni tu indriyāṇi yadā dehī dhārayann iha tapyate 13 loke vitatam ātmānaṃ lokaṃ cātmani paśyati parāvarajñaḥ saktaḥ san sarvabhūtāni paśyati 14 paśyataḥ sarvabhūtāni sarvāvasthāsu sarvadā brahmabhūtasya saṃyogo nāśubhenopapadyate 15 jñānamūlātmakaṃ kleśam ativṛttasya mohajam loko buddhiprakāśena jñeya mārgeṇa dṛśyate 16 anādi nidhanaṃ jantum ātmayoniṃ sadāvyayam anaupamyam amūrtaṃ ca bhagavān āha buddhimān tapo mūlam idaṃ sarvaṃ yan māṃ viprānupṛcchasi 17 indriyāṇy eva tat sarvaṃ yat svarganarakāv ubhau nigṛhīta visṛṣṭāni svargāya narakāya ca 18 eṣa yogavidhiḥ kṛtsno yāvad indriyadhāraṇam etan mūlaṃ hi tapasaḥ kṛtsnasya narakasya ca 19 indriyāṇāṃ prasaṅgena doṣam ṛcchaty asaṃśayam saṃniyamya tu tāny eva tataḥ siddhim avāpnute 20 ṣaṇṇām ātmani nityānām aiśvaryaṃ yo 'dhigacchati na sa pāpaiḥ kuto 'narthair yujyate vijitendriyaḥ 21 rathaḥ śarīraṃ puruṣasya dṛṣṭam; ātmā niyatendriyāṇy āhur aśvān tair apramattaḥ kuśalī sadaśvair; dāntaiḥ sukhaṃ yāti rathīva dhīraḥ 22 ṣaṇṇām ātmani nityānām indriyāṇāṃ pramāthinām yo dhīro dhārayed raśmīn sa syāt paramasārathiḥ 23 indriyāṇāṃ prasṛṣṭānāṃ hayānām iva vartmasu dhṛtiṃ kurvīta sārathye dhṛtyā tāni jayed dhruvam 24 indriyāṇāṃ hi caratāṃ yan mano 'nuvidhīyate tad asya harate buddhiṃ nāvaṃ vāyur ivāmbhasi 25 yeṣu vipratipadyante ṣaṭsu mohāt phalāgame teṣv adhyavasitādhyāyī vindate dhyānajaṃ phalam |
The Mahabharata in Sanskrit
Book 3
Chapter 203
|
1
[मार्क] एवं तु सूक्ष्मे कथिते धर्मव्याजेन भारत बराह्मणः स पुनः सूक्ष्मं पप्रच्छ सुसमाहितः 2 [बरा] सत्त्वस्य रजसश चैव तमसश च यथातथम गुणांस तत्त्वेन मे बरूहि यथावद इह पृच्छतः 3 [वयध] हन्त ते कथयिष्यामि यन मां तवं परिपृच्छसि एषां गुणान पृथक्त्वेन निबॊध गदतॊ मम 4 मॊहात्मकं तमस तेषां रज एषां परवर्तकम परकाशबहुलत्वाच च सत्त्वं जयाय इहॊच्यते 5 अविद्या बहुलॊ मूढः सवप्नशीलॊ विचेतनः दुर्दृशीकस तमॊ धवस्तः सक्रॊधस तामसॊ ऽलसः 6 परवृत्त वाक्यॊ मन्त्री च यॊ ऽनुराग्य अभ्यसूयकः विवित्समानॊ विप्रर्षे सतब्धॊ मानी स राजसः 7 परकाशबहुलॊ धीरॊ निर्विवित्सॊ ऽनसूयकः अक्रॊधनॊ नरॊ धीमान दान्तश चैव स सात्त्विकः 8 सात्त्विकस तव अथ संबुद्धॊ लॊकवृत्तेन कलिश्यते यदा बुध्यति बॊद्धव्यं लॊकवृत्तं जुगुप्सते 9 वैराग्यस्य हि रूपं तु पुर्वम एव परवर्तते मृदुर भवत्य अहंकारः परसीदत्य आर्जवं च यत 10 ततॊ ऽसय सर्वद्वन्द्वानि परशाम्यन्ति परस्परम न चास्य संयमॊ नाम कव चिद भवति कश चन 11 शूद्रयॊनौ हि जातस्य सवगुणान उपतिष्ठतः वैश्यत्वं भवति बरह्मन कषत्रियत्वं तथैव च 12 आज्रवे वर्तमानस्य बराह्मण्यम अभिजायते गुणास ते कीर्तिताः सर्वे किं भूयॊ शरॊतुम इच्छसि 13 [बरा] पार्थिवं धातुम आसाद्य शारीरॊ ऽगनिः कथं भवेत अवकाश विशेषेण कथं वर्तयते ऽनिलः 14 [मार्क] परश्नम एतं समुद्दिष्टं बराह्मणेन युधिष्ठिर वयाधः स कथयाम आस बराह्मणाय महात्मने 15 [वयध] मूर्धानम आश्रितॊ वह्निः शरीरं परिपालयन पराणॊ मूर्धनि चाग्नौ च वर्तमानॊ विचेष्टते भूतं भव्यं भविष्यच च सर्वं पराणे परतिष्ठितम 16 शरेष्ठं तद एव भूतानां बरह्म जयॊतिर उपास्महे सजन्तुः सर्वभूतात्मा पुरुषः स सनातनः मनॊ बुद्धिर अहंकारॊ भूतानां विषयश च सः 17 एवं तव इह स सर्वत्र पराणेन परिपाल्यते पृष्ठतस तु समानेन सवां सवां गतिम उपाश्रितः 18 बस्ति मूले गुदे चैव पावकः समुपाश्रितः वहन मूत्रं पुरीषं चाप्य अपानः परिवर्तते 19 परयत्ने कर्मणि बले य एकस तरिषु वर्तते उदान इति तं पराहुर अध्यात्मविदुषॊ जनाः 20 संधौ संधौ संनिविष्टः सर्वेष्व अपि तथानिलः शरीरेषु मनुष्याणां वयान इत्य उपदिष्यते 21 धातुष्व अग्निस तु विततः स तु वायुसमीरितः रसान धतूंश च दॊषांश च वर्तयन परिधावति 22 पराणानां संनिपातात तु संनिपातः परजायते उष्मा चाग्निर इति जञेयॊ यॊ ऽननं पचति देहिनाम 23 अपानॊदानयॊर मध्ये पराणव्यानौ समाहितौ समन्वितस तव अधिष्ठानं सम्यक पचति पावकः 24 तस्यापि पायुपर्यन्तस तथा सयाद उदसंज्ञितः सरॊतांसि तस्माज जायन्ते सर्वप्राणेषु देहिनाम 25 अग्निवेगवहः पराणॊ गुदान्ते परतिहन्यते स ऊर्ध्वम आगम्य पुनः समुत्क्षिपति पावकम 26 पक्वाशयस तव अधॊ नाभ्या ऊर्ध्वम आमाशयः सथितः नाभिमध्ये शरीरस्य पराणाः सर्वे परतिष्ठिताः 27 परवृत्ता हृदयात सर्वास तिर्यग ऊर्ध्वम अधस तथा वहन्त्य अन्नरसान नाड्यॊ दश पराणप्रचॊदिताः 28 यॊगिनाम एष मार्गस तु येन गच्छन्ति तत्परम जितक्लमासना धीरा मूर्धन्य आत्मानम आदधुः एवं सर्वेषु विततौ पराणापानौ हि देहिषु 29 एकादश विकारात्मा कला संभारसंभृतः मूर्तिमन्तं हि तं विद्धि नित्यं कर्म जितात्मकम 30 तस्मिन यः संस्थितॊ हय अग्निर नित्यं सथाल्यम इवाहितः आत्मानं तं विजानीहि नित्यं यॊगजितात्मकम 31 देवॊ यः संस्थितस तस्मिन्न अब्बिन्दुर इव पुष्करे कषेत्रज्ञं तं विजानीहि नित्यं तयागजितात्मकम 32 जीवात्मकानि जानीहि रजॊ सत्त्वं तमस तथा जीवम आत्मगुणं विद्धि तथात्मानं परात्मकम 33 सचेतनं जीवगुणं वदन्ति; स चेष्टते चेष्टयते च सर्वम ततः परं कषेत्रविदॊ वदन्ति; पराकल्पयद यॊ भुवनानि सप्त 34 एवं सर्वेषु भूतेषु भूतात्मा न परकाशते दृश्यते तव अग्र्यया बुद्ध्या सूक्ष्मया जञानवेदिभिः 35 चित्तस्य हि परसादेन हन्ति कर्म शुभाशुभम परसन्नात्मात्मनि सथित्वा सुखम आनन्त्यम अश्नुते 36 लक्षणं तु परसादस्य यथा तृप्तः सुखं सवपेत निवाते वा यथा दीपॊ दीप्येत कुशलदीपितः 37 पूर्वरात्रे परे चैव युञ्जानः सततं मनः लब्धाहारॊ विशुद्धात्मा पश्यन्न आत्मानम आत्मनि 38 परदीप्तेनेव दीपेन मनॊ दीपेन पश्यति दृष्ट्वात्मानं निरात्मानं तदा स तु विमुच्यते 39 सर्वॊपायैस तु लॊभस्य करॊधस्य च विनिग्रहः एतत पवित्रं यज्ञानां तपॊ वै संक्रमॊ मतः 40 नित्यं करॊधात तपॊ रक्षेच छरियं रक्षेत मत्सरात विद्यां मानापमानाभ्याम आत्मानं तु परमादतः 41 आनृशंस्यं परॊ धर्मः कषमा च परमं बलम आत्मज्ञानं परं जञानं परं सत्यव्रतं वरतम 42 सत्यस्य वचनं शरेयॊ सत्यं जञानं हितं भवेत यद भूतहितम अत्यन्तं तद वै सत्यं परं मतम 43 यस्य सर्वे समारम्भा निराशीर बन्धनाः सदा तवागे यस्य हुतं सर्वं स तयागी स च बुद्धिमान 44 यतॊ न गुरुर अप्य एनं चयावयेद उपपादयन तं विद्याद बरह्मणॊ यॊगं वियॊगं यॊगसंज्ञितम 45 न हिंस्यात सर्वभूतानि मैत्रायण गतश चरेत नेदं जीवितम आसाद्य वैरं कुर्वीत केन चित 46 आकिंचन्यं सुसंतॊषॊ निराशित्वम अचापलम एतद एव परं जञानं सद आत्मज्ञानम उत्तमम 47 परिग्रहं परित्यज्य भव बुद्ध्या यतव्रतः अशॊकं सथानम आतिष्ठेन निश्चलं परेत्य चेह च 48 तपॊनित्येन दान्तेन मुनिना संतयात्मना अजितं जेतुकामेन भाव्यं सङ्गेष्व असङ्गिना 49 गुणागुणम अनासङ्गम एककार्यम अनन्तरम एतद बराह्मण ते वृत्तम आहुर एकपदं सुखम 50 परित्यजति यॊ दुःखं सुखं चाप्य उभयं नरः बरह्म पराप्नॊति सॊ ऽतयन्तम असङ्गेन च गच्छति 51 यथा शरुतम इदं सर्वं समासेन दविजॊत्तम एतत ते सर्वम आख्यात्म किं भूयॊ शरॊतुम इच्छसि |
1
[mārk] evaṃ tu sūkṣme kathite dharmavyājena bhārata brāhmaṇaḥ sa punaḥ sūkṣmaṃ papraccha susamāhitaḥ 2 [brā] sattvasya rajasaś caiva tamasaś ca yathātatham guṇāṃs tattvena me brūhi yathāvad iha pṛcchataḥ 3 [vyadha] hanta te kathayiṣyāmi yan māṃ tvaṃ paripṛcchasi eṣāṃ guṇān pṛthaktvena nibodha gadato mama 4 mohātmakaṃ tamas teṣāṃ raja eṣāṃ pravartakam prakāśabahulatvāc ca sattvaṃ jyāya ihocyate 5 avidyā bahulo mūḍhaḥ svapnaśīlo vicetanaḥ durdṛśīkas tamo dhvastaḥ sakrodhas tāmaso 'lasaḥ 6 pravṛtta vākyo mantrī ca yo 'nurāgy abhyasūyakaḥ vivitsamāno viprarṣe stabdho mānī sa rājasaḥ 7 prakāśabahulo dhīro nirvivitso 'nasūyakaḥ akrodhano naro dhīmān dāntaś caiva sa sāttvikaḥ 8 sāttvikas tv atha saṃbuddho lokavṛttena kliśyate yadā budhyati boddhavyaṃ lokavṛttaṃ jugupsate 9 vairāgyasya hi rūpaṃ tu purvam eva pravartate mṛdur bhavaty ahaṃkāraḥ prasīdaty ārjavaṃ ca yat 10 tato 'sya sarvadvandvāni praśāmyanti parasparam na cāsya saṃyamo nāma kva cid bhavati kaś cana 11 śūdrayonau hi jātasya svaguṇān upatiṣṭhataḥ vaiśyatvaṃ bhavati brahman kṣatriyatvaṃ tathaiva ca 12 ājrave vartamānasya brāhmaṇyam abhijāyate guṇās te kīrtitāḥ sarve kiṃ bhūyo śrotum icchasi 13 [brā] pārthivaṃ dhātum āsādya śārīro 'gniḥ kathaṃ bhavet avakāśa viśeṣeṇa kathaṃ vartayate 'nilaḥ 14 [mārk] praśnam etaṃ samuddiṣṭaṃ brāhmaṇena yudhiṣṭhira vyādhaḥ sa kathayām āsa brāhmaṇāya mahātmane 15 [vyadha] mūrdhānam āśrito vahniḥ śarīraṃ paripālayan prāṇo mūrdhani cāgnau ca vartamāno viceṣṭate bhūtaṃ bhavyaṃ bhaviṣyac ca sarvaṃ prāṇe pratiṣṭhitam 16 śreṣṭhaṃ tad eva bhūtānāṃ brahma jyotir upāsmahe sajantuḥ sarvabhūtātmā puruṣaḥ sa sanātanaḥ mano buddhir ahaṃkāro bhūtānāṃ viṣayaś ca saḥ 17 evaṃ tv iha sa sarvatra prāṇena paripālyate pṛṣṭhatas tu samānena svāṃ svāṃ gatim upāśritaḥ 18 basti mūle gude caiva pāvakaḥ samupāśritaḥ vahan mūtraṃ purīṣaṃ cāpy apānaḥ parivartate 19 prayatne karmaṇi bale ya ekas triṣu vartate udāna iti taṃ prāhur adhyātmaviduṣo janāḥ 20 saṃdhau saṃdhau saṃniviṣṭaḥ sarveṣv api tathānilaḥ śarīreṣu manuṣyāṇāṃ vyāna ity upadiṣyate 21 dhātuṣv agnis tu vitataḥ sa tu vāyusamīritaḥ rasān dhatūṃś ca doṣāṃś ca vartayan paridhāvati 22 prāṇānāṃ saṃnipātāt tu saṃnipātaḥ prajāyate uṣmā cāgnir iti jñeyo yo 'nnaṃ pacati dehinām 23 apānodānayor madhye prāṇavyānau samāhitau samanvitas tv adhiṣṭhānaṃ samyak pacati pāvakaḥ 24 tasyāpi pāyuparyantas tathā syād udasaṃjñitaḥ srotāṃsi tasmāj jāyante sarvaprāṇeṣu dehinām 25 agnivegavahaḥ prāṇo gudānte pratihanyate sa ūrdhvam āgamya punaḥ samutkṣipati pāvakam 26 pakvāśayas tv adho nābhyā ūrdhvam āmāśayaḥ sthitaḥ nābhimadhye śarīrasya prāṇāḥ sarve pratiṣṭhitāḥ 27 pravṛttā hṛdayāt sarvās tiryag ūrdhvam adhas tathā vahanty annarasān nāḍyo daśa prāṇapracoditāḥ 28 yoginām eṣa mārgas tu yena gacchanti tatparam jitaklamāsanā dhīrā mūrdhany ātmānam ādadhuḥ evaṃ sarveṣu vitatau prāṇāpānau hi dehiṣu 29 ekādaśa vikārātmā kalā saṃbhārasaṃbhṛtaḥ mūrtimantaṃ hi taṃ viddhi nityaṃ karma jitātmakam 30 tasmin yaḥ saṃsthito hy agnir nityaṃ sthālyam ivāhitaḥ ātmānaṃ taṃ vijānīhi nityaṃ yogajitātmakam 31 devo yaḥ saṃsthitas tasminn abbindur iva puṣkare kṣetrajñaṃ taṃ vijānīhi nityaṃ tyāgajitātmakam 32 jīvātmakāni jānīhi rajo sattvaṃ tamas tathā jīvam ātmaguṇaṃ viddhi tathātmānaṃ parātmakam 33 sacetanaṃ jīvaguṇaṃ vadanti; sa ceṣṭate ceṣṭayate ca sarvam tataḥ paraṃ kṣetravido vadanti; prākalpayad yo bhuvanāni sapta 34 evaṃ sarveṣu bhūteṣu bhūtātmā na prakāśate dṛśyate tv agryayā buddhyā sūkṣmayā jñānavedibhiḥ 35 cittasya hi prasādena hanti karma śubhāśubham prasannātmātmani sthitvā sukham ānantyam aśnute 36 lakṣaṇaṃ tu prasādasya yathā tṛptaḥ sukhaṃ svapet nivāte vā yathā dīpo dīpyet kuśaladīpitaḥ 37 pūrvarātre pare caiva yuñjānaḥ satataṃ manaḥ labdhāhāro viśuddhātmā paśyann ātmānam ātmani 38 pradīpteneva dīpena mano dīpena paśyati dṛṣṭvātmānaṃ nirātmānaṃ tadā sa tu vimucyate 39 sarvopāyais tu lobhasya krodhasya ca vinigrahaḥ etat pavitraṃ yajñānāṃ tapo vai saṃkramo mataḥ 40 nityaṃ krodhāt tapo rakṣec chriyaṃ rakṣeta matsarāt vidyāṃ mānāpamānābhyām ātmānaṃ tu pramādataḥ 41 ānṛśaṃsyaṃ paro dharmaḥ kṣamā ca paramaṃ balam ātmajñānaṃ paraṃ jñānaṃ paraṃ satyavrataṃ vratam 42 satyasya vacanaṃ śreyo satyaṃ jñānaṃ hitaṃ bhavet yad bhūtahitam atyantaṃ tad vai satyaṃ paraṃ matam 43 yasya sarve samārambhā nirāśīr bandhanāḥ sadā tvāge yasya hutaṃ sarvaṃ sa tyāgī sa ca buddhimān 44 yato na gurur apy enaṃ cyāvayed upapādayan taṃ vidyād brahmaṇo yogaṃ viyogaṃ yogasaṃjñitam 45 na hiṃsyāt sarvabhūtāni maitrāyaṇa gataś caret nedaṃ jīvitam āsādya vairaṃ kurvīta kena cit 46 ākiṃcanyaṃ susaṃtoṣo nirāśitvam acāpalam etad eva paraṃ jñānaṃ sad ātmajñānam uttamam 47 parigrahaṃ parityajya bhava buddhyā yatavrataḥ aśokaṃ sthānam ātiṣṭhen niścalaṃ pretya ceha ca 48 taponityena dāntena muninā saṃtayātmanā ajitaṃ jetukāmena bhāvyaṃ saṅgeṣv asaṅginā 49 guṇāguṇam anāsaṅgam ekakāryam anantaram etad brāhmaṇa te vṛttam āhur ekapadaṃ sukham 50 parityajati yo duḥkhaṃ sukhaṃ cāpy ubhayaṃ naraḥ brahma prāpnoti so 'tyantam asaṅgena ca gacchati 51 yathā śrutam idaṃ sarvaṃ samāsena dvijottama etat te sarvam ākhyātma kiṃ bhūyo śrotum icchasi |
The Mahabharata in Sanskrit
Book 3
Chapter 204
|
1
[मार्क] एवं संकथिते कृत्स्ने मॊक्षधर्मे युधिष्ठिर दृढं परीतिमना विप्रॊ धर्मव्याधम उवाच ह 2 नयाययुक्तम इदं सर्वं भवता परिकीर्तितम न ते ऽसत्य अविदितं किं चिद धर्मेष्व इह हि दृश्यते 3 [वयध] परत्यक्षं मम यॊ धर्मस तं पश्य दविजसत्तम येन सिद्धिर इयं पराप्ता मया बराह्मणपुंगव 4 उत्तिष्ठ भगवन कषिप्रं परविश्याभ्यन्तरं गृहम दरष्टुम अर्हसि धर्मज्ञ मातरं पितरं च मे 5 [मार्क] इत्य उक्तः स परविश्याथ ददर्श परमार्चितम सौधं हृद्यं चतुर्शालम अतीव च मनॊहरम 6 देवता गृहसंकाशं दैवतैश च सुपूजितम शयनासनसंबाधं गन्धैश च परमैर युतम 7 तत्र शुक्लाम्बर धरौ पितराव अस्य पूजितौ कृताहारौ सुतुष्टौ ताव उपविष्टौ वरासने धर्मव्याधस तुतौ दृष्ट्वा पादेषु शिरसापतत 8 [वृद्धौ] उत्तिष्ठॊत्तिष्ठ धर्मज्ञ धर्मस तवाम अभिरक्षतु परीतौ सवस तव शौचेन दीर्घम आयुर अवाप्नुहि सत पुत्रेण तवया पुत्र नित्यकालं सुपूजितौ 9 न ते ऽनयद दैवतं किं चिद दैवतेष्व अपि वर्तते परयतत्वाद दविजातीनां दमेनासि समन्वितः 10 पितुः पितामहा ये च तथैव परपितामहाः परीतास ते सततं पुत्र दमेनावां च पूजया 11 मनसा कर्मणा वाचा शुश्रूषा नैव हीयते न चान्या वितथा बुद्धिर दृश्यते सांप्रतं तव 12 जामदग्न्येन रामेण यथा वृद्धौ सुपूजितौ तथा तवया कृतं सर्वं तद विशिष्टं च पुत्रक 13 [मार्क] ततस तं बराह्मणं ताभ्यां धर्मव्याधॊ नयवेदयत तौ सवागतेन तं विप्रम अर्चयाम आसतुस तदा 14 परतिगृह्य च तां पूजां दविजः पप्रच्छ ताव उभौ सपुत्राभ्यां सभृत्याभ्यां कच चिद वां कुशलं गृहे अनामयं च वां कच चित सदैवेह शरीरयॊः 15 [वृद्धौ] कुशलं नॊ गृहे विप्र भृत्यवर्गे च सर्वशः कच चित तवम अप्य अविघ्नेन संप्राप्तॊ भगवन्न इह 16 [मार्क] बाढम इत्य एव तौ विप्रः परत्युवाच मुदान्वितः धर्मव्याधस तु तं विप्रम अर्थवद वाक्यम अब्रवीत 17 पिता माता च भगवन्न एतौ मे दैवतं परम यद दैवतेभ्यः कर्तव्यं तद एताभ्यां करॊम्य अहम 18 तरयस्त्रिंशद यथा देवाः सर्वे शक्रपुरॊगमाः संपूज्याः सर्वलॊकस्य तथा वृत्ताव इमौ मम 19 उपहारान आहरन्तॊ देवतानां यथा दविजाः कुर्वते तद्वद एताभ्यां करॊम्य अहम अतन्द्रितः 20 एतौ मे परमं बरह्मन पिता माता च दैवतम एतौ पुष्पैः फलै रत्नैस तॊषयामि सदा दविज 21 एताव एवाग्नयॊ मह्यं यान वदन्ति मनीषिणः यज्ञा वेदाश च चत्वारः सर्वम एतौ मम दविज 22 एतदर्थं मम पराणा भार्या पुत्राः सुहृज्जनाः सपुत्रदारः शुश्रूषां नित्यम एव करॊम्य अहम 23 सवयं च सनापयाम्य एतौ तथा पादौ परधावये आहारं संप्रयच्छामि सवयं च दविजसत्तम 24 अनुकूलाः कथा वच्मि विप्रियं परिवर्जयन अधर्मेणापि संयुक्तं परियम आभ्यां करॊम्य अहम 25 धर्मम एव गुरुं जञात्वा करॊमि दविजसत्तम अतन्द्रितः सदा विप्र शुश्रूषां वै करॊम्य अहम 26 पञ्चैव गुरवॊ बरह्मन पुरुषस्य बभूषतः पिता माताग्निर आत्मा च गुरुश च दविजसत्तम 27 एतेषु यस तु वर्तेत सम्यग एव दविजॊत्तम भवेयुर अग्नयस तस्य परिचीर्णास तुनित्यशः गार्हस्थ्ये वर्तमानस्य धर्म एष सनातनः |
1
[mārk] evaṃ saṃkathite kṛtsne mokṣadharme yudhiṣṭhira dṛḍhaṃ prītimanā vipro dharmavyādham uvāca ha 2 nyāyayuktam idaṃ sarvaṃ bhavatā parikīrtitam na te 'sty aviditaṃ kiṃ cid dharmeṣv iha hi dṛśyate 3 [vyadha] pratyakṣaṃ mama yo dharmas taṃ paśya dvijasattama yena siddhir iyaṃ prāptā mayā brāhmaṇapuṃgava 4 uttiṣṭha bhagavan kṣipraṃ praviśyābhyantaraṃ gṛham draṣṭum arhasi dharmajña mātaraṃ pitaraṃ ca me 5 [mārk] ity uktaḥ sa praviśyātha dadarśa paramārcitam saudhaṃ hṛdyaṃ caturśālam atīva ca manoharam 6 devatā gṛhasaṃkāśaṃ daivataiś ca supūjitam śayanāsanasaṃbādhaṃ gandhaiś ca paramair yutam 7 tatra śuklāmbara dharau pitarāv asya pūjitau kṛtāhārau sutuṣṭau tāv upaviṣṭau varāsane dharmavyādhas tutau dṛṣṭvā pādeṣu śirasāpatat 8 [vṛddhau] uttiṣṭhottiṣṭha dharmajña dharmas tvām abhirakṣatu prītau svas tava śaucena dīrgham āyur avāpnuhi sat putreṇa tvayā putra nityakālaṃ supūjitau 9 na te 'nyad daivataṃ kiṃ cid daivateṣv api vartate prayatatvād dvijātīnāṃ damenāsi samanvitaḥ 10 pituḥ pitāmahā ye ca tathaiva prapitāmahāḥ prītās te satataṃ putra damenāvāṃ ca pūjayā 11 manasā karmaṇā vācā śuśrūṣā naiva hīyate na cānyā vitathā buddhir dṛśyate sāṃprataṃ tava 12 jāmadagnyena rāmeṇa yathā vṛddhau supūjitau tathā tvayā kṛtaṃ sarvaṃ tad viśiṣṭaṃ ca putraka 13 [mārk] tatas taṃ brāhmaṇaṃ tābhyāṃ dharmavyādho nyavedayat tau svāgatena taṃ vipram arcayām āsatus tadā 14 pratigṛhya ca tāṃ pūjāṃ dvijaḥ papraccha tāv ubhau saputrābhyāṃ sabhṛtyābhyāṃ kac cid vāṃ kuśalaṃ gṛhe anāmayaṃ ca vāṃ kac cit sadaiveha śarīrayoḥ 15 [vṛddhau] kuśalaṃ no gṛhe vipra bhṛtyavarge ca sarvaśaḥ kac cit tvam apy avighnena saṃprāpto bhagavann iha 16 [mārk] bāḍham ity eva tau vipraḥ pratyuvāca mudānvitaḥ dharmavyādhas tu taṃ vipram arthavad vākyam abravīt 17 pitā mātā ca bhagavann etau me daivataṃ param yad daivatebhyaḥ kartavyaṃ tad etābhyāṃ karomy aham 18 trayastriṃśad yathā devāḥ sarve śakrapurogamāḥ saṃpūjyāḥ sarvalokasya tathā vṛttāv imau mama 19 upahārān āharanto devatānāṃ yathā dvijāḥ kurvate tadvad etābhyāṃ karomy aham atandritaḥ 20 etau me paramaṃ brahman pitā mātā ca daivatam etau puṣpaiḥ phalai ratnais toṣayāmi sadā dvija 21 etāv evāgnayo mahyaṃ yān vadanti manīṣiṇaḥ yajñā vedāś ca catvāraḥ sarvam etau mama dvija 22 etadarthaṃ mama prāṇā bhāryā putrāḥ suhṛjjanāḥ saputradāraḥ śuśrūṣāṃ nityam eva karomy aham 23 svayaṃ ca snāpayāmy etau tathā pādau pradhāvaye āhāraṃ saṃprayacchāmi svayaṃ ca dvijasattama 24 anukūlāḥ kathā vacmi vipriyaṃ parivarjayan adharmeṇāpi saṃyuktaṃ priyam ābhyāṃ karomy aham 25 dharmam eva guruṃ jñātvā karomi dvijasattama atandritaḥ sadā vipra śuśrūṣāṃ vai karomy aham 26 pañcaiva guravo brahman puruṣasya babhūṣataḥ pitā mātāgnir ātmā ca guruś ca dvijasattama 27 eteṣu yas tu varteta samyag eva dvijottama bhaveyur agnayas tasya paricīrṇās tunityaśaḥ gārhasthye vartamānasya dharma eṣa sanātanaḥ |
The Mahabharata in Sanskrit
Book 3
Chapter 205
|
1
[मार्क] गुरू निवेद्य विप्राय तौ मातापितराव उभौ पुनर एव स धर्मात्मा वयाधॊ बराह्मणम अब्रवीत 2 परवृत्त चक्षुर जातॊ ऽसमि संपश्य तपसॊ बलम यदर्थम उक्तॊ ऽसि तया गच्छस्व मिथिलाम इति 3 पतिशुश्रूष परया दान्तया सत्यशीलया मिथिलायां वसन वयाधः स ते धर्मान परवक्ष्यति 4 [बरा] पतिव्रतायाः सत्यायाः शीलाढ्याया यतव्रत संस्मृत्य वाक्यं धर्मज्ञ गुणवान असि मे मतः 5 [वयध] यत तदा तवं दविजश्रेष्ठ तयॊक्तॊ मां परति परभॊ दृष्टम एतत तया सम्यग एकपत्न्या न संशयः 6 तवद अनुग्रह बुद्ध्या तु विप्रैतद दर्शितं मया वाक्यं च शृणु मे तात यत ते वक्ष्ये हितं दविज 7 तवया विनिकृता माता पिता च दविजसत्तम अनिसृष्टॊ ऽसि निष्क्रान्तॊ गृहात ताभ्याम अनिन्दित वेदॊच्चारण कार्यार्थम अयुक्तं तत तवया कृतम 8 तव शॊकेन वृद्धौ ताव अन्धौ जातौ तपस्विनौ तौ परसादयितुं गच्छ मा तवा धर्मॊ ऽतयगान महान 9 तपस्वी तवं महात्मा च धर्मे च निरतः सदा सर्वम एतद अपार्थं ते कषिप्रं तौ संप्रसादय 10 शरद्दधस्य मम बरह्मन नान्यथा कर्तुम अर्हसि गम्यताम अद्य विप्रर्षे शरेयस ते कथयाम्य अहम 11 [बरा] यद एतद उक्तं भवता सर्वं सत्यम असंशयम परीतॊ ऽसमि तव धर्मज्ञ साध्व आचार गुणान्वित 12 [वयध] दैवतप्रतिमॊ हि तवं यस तवं धर्मम अनुव्रतः पुराणं शाश्वतं दिव्यं दुष्प्रापम अकृतात्मभिः 13 अतन्द्रितः कुरु कषिप्रं मातापित्रॊर हि पूजनम अतः परम अहं धर्मं नान्यं पश्यामि कं चन 14 [बरा] इहाहम आगतॊ दिष्ट्या दिष्ट्या मे संगतं तवया ईदृशा दुर्लभा लॊके नरा धर्मप्रदर्शकाः 15 एकॊ नरसहस्रेषु धर्मविद विद्यते न वा परीतॊ ऽसमि तव सत्येन भद्रं ते पुरुषॊत्तम 16 पतमानॊ हि नरके भवतास्मि समुद्धृतः भवितव्यम अथैवं च यद दृष्टॊ ऽसि मयानघ 17 राजा ययातिर दौहित्रैः पतितस तारितॊ यथा सद्भिः पुरुषशार्दूल तथाहं भवता तव इह 18 माता पितृभ्यां शुश्रूषां करिष्ये वचनात तव नाकृतात्मा वेदयति धर्माधर्मविनिश्चयम 19 दुर्ज्ञेयः शाश्वतॊ धर्मः शूद्रयॊनौ हि वर्तता न तवां शूद्रम अहं मन्ये भवितव्यं हि कारणम येन कर्म विपाकेन परातेयं शूद्रता तवया 20 एतद इच्छामि विज्ञातुं तत्त्वेन हि महामते कामया बरूहि मे तथ्यं सर्वं तवं परयतात्मवान 21 [वयध] अनतिक्रमणीया हि बराह्मणा वै दविजॊत्तम शृणु सर्वम इदं वृत्तं पूर्वदेहे ममानघ 22 अहं हि बराह्मणः पूर्वम आसं दविज वरात्मज वेदाध्यायी सुकुशलॊ वेदाङ्गानां चपारगः आत्मदॊषकृतैर बरह्मन्न अवस्था पराप्तवान इमाम 23 कश चिद राजा मम सखा धनुर्वेदपरायणः संसर्गाद धनुषि शरेष्ठस ततॊ ऽहम अभवं दविज 24 एतस्मिन्न एव काले तु मृगयां निर्गतॊ नृपः सहितॊ यॊधमुख्यैश च मन्त्रिभिश च सुसंवृतः ततॊ ऽभयहन मृगांस तत्र सुबहून आश्रमं परति 25 अथ कषिप्तः शरॊ घॊरॊ मयापि दविजसत्तम ताडितश च मुनिस तेन शरेणानतपर्वणा 26 भूमौ निपतितॊ बरह्मन्न उवाच परतिनादयन नापराध्याम्य अहं किं चित केन पापम इदं कृतम 27 मन्वानस तं मृगं चाहं संप्राप्तः सहसा मुनिम अपश्यं तम ऋषिं विद्धं शरेणानतपर्वणा तम उग्रतपसं विप्रं निष्टनन्तं महीतले 28 अकार्य करणाच चापि भृशं मे वयथितं मनः अजानता कृतम इदं मयेत्य अथ तम अब्रुवम कषन्तुम अर्हसि मे बरह्मन्न इति चॊक्तॊ मया मुनिः 29 ततः परत्यब्रवीद वाक्यम ऋशिर मां करॊधमूर्च्छितः वयाधस तवं भविता करूर शूद्रयॊनाव इति दविज |
1
[mārk] gurū nivedya viprāya tau mātāpitarāv ubhau punar eva sa dharmātmā vyādho brāhmaṇam abravīt 2 pravṛtta cakṣur jāto 'smi saṃpaśya tapaso balam yadartham ukto 'si tayā gacchasva mithilām iti 3 patiśuśrūṣa parayā dāntayā satyaśīlayā mithilāyāṃ vasan vyādhaḥ sa te dharmān pravakṣyati 4 [brā] pativratāyāḥ satyāyāḥ śīlāḍhyāyā yatavrata saṃsmṛtya vākyaṃ dharmajña guṇavān asi me mataḥ 5 [vyadha] yat tadā tvaṃ dvijaśreṣṭha tayokto māṃ prati prabho dṛṣṭam etat tayā samyag ekapatnyā na saṃśayaḥ 6 tvad anugraha buddhyā tu vipraitad darśitaṃ mayā vākyaṃ ca śṛṇu me tāta yat te vakṣye hitaṃ dvija 7 tvayā vinikṛtā mātā pitā ca dvijasattama anisṛṣṭo 'si niṣkrānto gṛhāt tābhyām anindita vedoccāraṇa kāryārtham ayuktaṃ tat tvayā kṛtam 8 tava śokena vṛddhau tāv andhau jātau tapasvinau tau prasādayituṃ gaccha mā tvā dharmo 'tyagān mahān 9 tapasvī tvaṃ mahātmā ca dharme ca nirataḥ sadā sarvam etad apārthaṃ te kṣipraṃ tau saṃprasādaya 10 śraddadhasya mama brahman nānyathā kartum arhasi gamyatām adya viprarṣe śreyas te kathayāmy aham 11 [brā] yad etad uktaṃ bhavatā sarvaṃ satyam asaṃśayam prīto 'smi tava dharmajña sādhv ācāra guṇānvita 12 [vyadha] daivatapratimo hi tvaṃ yas tvaṃ dharmam anuvrataḥ purāṇaṃ śāśvataṃ divyaṃ duṣprāpam akṛtātmabhiḥ 13 atandritaḥ kuru kṣipraṃ mātāpitror hi pūjanam ataḥ param ahaṃ dharmaṃ nānyaṃ paśyāmi kaṃ cana 14 [brā] ihāham āgato diṣṭyā diṣṭyā me saṃgataṃ tvayā īdṛśā durlabhā loke narā dharmapradarśakāḥ 15 eko narasahasreṣu dharmavid vidyate na vā prīto 'smi tava satyena bhadraṃ te puruṣottama 16 patamāno hi narake bhavatāsmi samuddhṛtaḥ bhavitavyam athaivaṃ ca yad dṛṣṭo 'si mayānagha 17 rājā yayātir dauhitraiḥ patitas tārito yathā sadbhiḥ puruṣaśārdūla tathāhaṃ bhavatā tv iha 18 mātā pitṛbhyāṃ śuśrūṣāṃ kariṣye vacanāt tava nākṛtātmā vedayati dharmādharmaviniścayam 19 durjñeyaḥ śāśvato dharmaḥ śūdrayonau hi vartatā na tvāṃ śūdram ahaṃ manye bhavitavyaṃ hi kāraṇam yena karma vipākena prāteyaṃ śūdratā tvayā 20 etad icchāmi vijñātuṃ tattvena hi mahāmate kāmayā brūhi me tathyaṃ sarvaṃ tvaṃ prayatātmavān 21 [vyadha] anatikramaṇīyā hi brāhmaṇā vai dvijottama śṛṇu sarvam idaṃ vṛttaṃ pūrvadehe mamānagha 22 ahaṃ hi brāhmaṇaḥ pūrvam āsaṃ dvija varātmaja vedādhyāyī sukuśalo vedāṅgānāṃ capāragaḥ ātmadoṣakṛtair brahmann avasthā prāptavān imām 23 kaś cid rājā mama sakhā dhanurvedaparāyaṇaḥ saṃsargād dhanuṣi śreṣṭhas tato 'ham abhavaṃ dvija 24 etasminn eva kāle tu mṛgayāṃ nirgato nṛpaḥ sahito yodhamukhyaiś ca mantribhiś ca susaṃvṛtaḥ tato 'bhyahan mṛgāṃs tatra subahūn āśramaṃ prati 25 atha kṣiptaḥ śaro ghoro mayāpi dvijasattama tāḍitaś ca munis tena śareṇānataparvaṇā 26 bhūmau nipatito brahmann uvāca pratinādayan nāparādhyāmy ahaṃ kiṃ cit kena pāpam idaṃ kṛtam 27 manvānas taṃ mṛgaṃ cāhaṃ saṃprāptaḥ sahasā munim apaśyaṃ tam ṛṣiṃ viddhaṃ śareṇānataparvaṇā tam ugratapasaṃ vipraṃ niṣṭanantaṃ mahītale 28 akārya karaṇāc cāpi bhṛśaṃ me vyathitaṃ manaḥ ajānatā kṛtam idaṃ mayety atha tam abruvam kṣantum arhasi me brahmann iti cokto mayā muniḥ 29 tataḥ pratyabravīd vākyam ṛśir māṃ krodhamūrcchitaḥ vyādhas tvaṃ bhavitā krūra śūdrayonāv iti dvija |
The Mahabharata in Sanskrit
Book 3
Chapter 206
|
1
[वयध] एवं शप्तॊ ऽहम ऋषिणा तदा दविजवरॊत्तम अभिप्रसादयम ऋषिं गिरा वाक्यं विशारदम 2 अजानता मयाकार्यम इदम अद्य कृतं मुने कषन्तुम अर्हसि तत सर्वं परसीद भगवन्न इति 3 [रसिर] नान्यथा भविता शाप एवम एतद असंशयम आनृशंस्याद अहं किं चित कर्तानुग्रहम अद्य ते 4 शूद्रयॊनौ वर्तमानॊ धर्मज्ञॊ भविता हय असि मातापित्रॊश च शुश्रूषां करिष्यसि न संशयः 5 तया शुश्रूषया सिद्धिं महतीं समवाप्स्यसि जातिस्रमश च भविता सवर्गं चैव गमिष्यसि शापक्षयान्ते निर्वृत्ते भवितासि पुनर दविजः 6 [वयध] एवं शप्तः पुरा तेन ऋषिणास्म्य उग्रतेजसा परसादश च कृतस तेन ममैवं दविपदां वर 7 शरं चॊद्धृतवान अस्मि तस्य वै दविजसत्तम आश्रमं च मया नीतॊ न च पराणैर वययुज्यत 8 एतत ते सर्वम आख्यातं यथा मम पुराभवत अभितश चापि गन्तव्यं मया सवर्गं दविजॊत्तम 9 [बरा] एवम एतानि पुरुषा दुःखानि च सुखानि च पराप्नुवन्ति महाबुद्धे नॊत्कण्ठां कर्तुम अर्हसि दुष्करं हि कृतं तात जानता जातिम आत्मनः 10 कर्म दॊषश च वै विद्वन्न आत्मजातिकृतेन वै कं चित कालं मृष्यतां वै ततॊ ऽसि भविता दविजः सांप्रतं च मतॊ मे ऽसि बराह्मणॊ नात्र संशयः 11 बराह्मणः पतनीयेषु वर्तमानॊ विकर्मसु दाम्भिकॊ दुष्कृतप्रायः शूद्रेण सदृशॊ भवेत 12 यस तु शूद्रॊ दमे सत्ये धर्मे च सततॊत्थितः तं बराह्मणम अहं मन्ये वृत्तेन हि भवेद दविजः 13 कर्म दॊषेण विषमा गतिम आप्नॊति दारुणाम कषीणदॊषम अहं मन्ये चाभितस तवां नरॊत्तम 14 कर्तुम अर्हसि नॊत्कण्ठां तवद्विधा हय अविषादिनः लॊकवृत्तान्तवृत्तज्ञा नित्यं धर्मपरायणाः 15 [वयध] परज्ञया मानसं दुःखं हन्याच छारीरम औषधैः एतद विज्ञानसामर्थ्यं न बालैः समतां वरजेत 16 अनिष्ट संप्रयॊगाच च विप्रयॊगात परियस्य च मानुषा मानसैर दुःखैर युज्यन्ते अल्पबुद्धयः 17 गुणैर भूतानि युज्यन्ते वियुज्यन्ते तथैव च सर्वाणि नैतद एकस्य शॊकस्थानं हि विद्यते 18 अनिष्टेनान्वितं पश्यंस तथा कषिप्रं विरज्यते ततश च परतिकुर्वन्ति यदि पश्यन्त्य उपक्रमम शॊचतॊ न भवेत किं चित केवलं परितप्यते 19 परित्यजन्ति ये दुःखं सुखं वाप्य उभयं नराः त एव सुखम एधन्ते जञानतृप्ता मनीषिणः 20 असंतॊष परा मूढाः संतॊषं यान्ति पण्डिताः असंतॊषस्य नास्त्य अन्तस तुष्टिस तु परमं सुखम न शॊचन्ति गताध्वानः पश्यन्तः परमां गतिम 21 न विषादे मनॊ कार्यं विषादॊ विषम उत्तमम मारयत्य अकृतप्रज्ञं बालं करुद्ध इवॊरगः 22 यं विषादाभिभवति विषमे समुपस्थिते तेजसा तस्य हीनस्य पुरुषार्थॊ न विद्यते 23 अवश्यं करियमाणस्य कर्मणॊ दृश्यते फलम न हि निर्वेदम आगम्य किं चित पराप्नॊति शॊभनम 24 अथाप्य उपायं पश्येत दुःखस्य परिमॊक्षणे अशॊचन्न आरभेतैव युक्तश चाव्यसनी भवेत 25 भूतेष्व अभावं संचिन्त्य ये तु बुद्धेः परं गताः न शॊचन्ति कृतप्रज्ञाः पश्यन्तः परमां गतिम 26 न शॊचामि च वै विद्वन कालाकाङ्क्षी सथितॊ ऽसम्य अहम एतैर निर्दशनैर बरह्मन नावसीदामि सत्तम 27 [बरा] कृतप्रज्ञॊ ऽसि मेधावी बुद्धिश च विपुला तव नाहं भवन्तं शॊचामि जञानतृप्तॊ ऽसि धर्मवित 28 आपृच्छे तवां सवस्ति ते ऽसतु धर्मस तवा परिरक्षतु अप्रमादस तु कर्तव्यॊ धर्मे धर्मभृतां वर 29 [मार्क] बाढम इत्य एव तं वयाधः कृताञ्जलिर उवाच ह परदक्षिणम अथॊ कृत्वा परस्थितॊ दविजसत्तमः 30 स तु गत्वा दविजः सर्वां शुश्रूषां कृतवांस तदा माता पितृभ्यां वृद्धाभ्यां यथान्यायं सुसंशितः 31 एतत ते सर्वम आख्यातं निखिलेन युधिष्ठिर पृष्टवान असि यं तात धर्मं धर्मभृतां वर 32 पतिव्रताया माहात्म्यं बराह्मणस्य च सत्तम माता पित्रॊश च शुश्रूषा वयाधे धर्मश च कीर्तितः 33 [य] अत्यद्भुतम इदं बरह्मन धर्माख्यानम अनुत्तमम सर्वधर्मभृतां शरेष्ठ कथितं दविजसत्तम 34 सुखश्रव्यतया विद्वन मुहूर्तम इव मे गतम न हि तृप्तॊ ऽसमि भगवाञ शृण्वानॊ धर्मम उत्तमम |
1
[vyadha] evaṃ śapto 'ham ṛṣiṇā tadā dvijavarottama abhiprasādayam ṛṣiṃ girā vākyaṃ viśāradam 2 ajānatā mayākāryam idam adya kṛtaṃ mune kṣantum arhasi tat sarvaṃ prasīda bhagavann iti 3 [rsir] nānyathā bhavitā śāpa evam etad asaṃśayam ānṛśaṃsyād ahaṃ kiṃ cit kartānugraham adya te 4 śūdrayonau vartamāno dharmajño bhavitā hy asi mātāpitroś ca śuśrūṣāṃ kariṣyasi na saṃśayaḥ 5 tayā śuśrūṣayā siddhiṃ mahatīṃ samavāpsyasi jātisramaś ca bhavitā svargaṃ caiva gamiṣyasi śāpakṣayānte nirvṛtte bhavitāsi punar dvijaḥ 6 [vyadha] evaṃ śaptaḥ purā tena ṛṣiṇāsmy ugratejasā prasādaś ca kṛtas tena mamaivaṃ dvipadāṃ vara 7 śaraṃ coddhṛtavān asmi tasya vai dvijasattama āśramaṃ ca mayā nīto na ca prāṇair vyayujyata 8 etat te sarvam ākhyātaṃ yathā mama purābhavat abhitaś cāpi gantavyaṃ mayā svargaṃ dvijottama 9 [brā] evam etāni puruṣā duḥkhāni ca sukhāni ca prāpnuvanti mahābuddhe notkaṇṭhāṃ kartum arhasi duṣkaraṃ hi kṛtaṃ tāta jānatā jātim ātmanaḥ 10 karma doṣaś ca vai vidvann ātmajātikṛtena vai kaṃ cit kālaṃ mṛṣyatāṃ vai tato 'si bhavitā dvijaḥ sāṃprataṃ ca mato me 'si brāhmaṇo nātra saṃśayaḥ 11 brāhmaṇaḥ patanīyeṣu vartamāno vikarmasu dāmbhiko duṣkṛtaprāyaḥ śūdreṇa sadṛśo bhavet 12 yas tu śūdro dame satye dharme ca satatotthitaḥ taṃ brāhmaṇam ahaṃ manye vṛttena hi bhaved dvijaḥ 13 karma doṣeṇa viṣamā gatim āpnoti dāruṇām kṣīṇadoṣam ahaṃ manye cābhitas tvāṃ narottama 14 kartum arhasi notkaṇṭhāṃ tvadvidhā hy aviṣādinaḥ lokavṛttāntavṛttajñā nityaṃ dharmaparāyaṇāḥ 15 [vyadha] prajñayā mānasaṃ duḥkhaṃ hanyāc chārīram auṣadhaiḥ etad vijñānasāmarthyaṃ na bālaiḥ samatāṃ vrajet 16 aniṣṭa saṃprayogāc ca viprayogāt priyasya ca mānuṣā mānasair duḥkhair yujyante alpabuddhayaḥ 17 guṇair bhūtāni yujyante viyujyante tathaiva ca sarvāṇi naitad ekasya śokasthānaṃ hi vidyate 18 aniṣṭenānvitaṃ paśyaṃs tathā kṣipraṃ virajyate tataś ca pratikurvanti yadi paśyanty upakramam śocato na bhavet kiṃ cit kevalaṃ paritapyate 19 parityajanti ye duḥkhaṃ sukhaṃ vāpy ubhayaṃ narāḥ ta eva sukham edhante jñānatṛptā manīṣiṇaḥ 20 asaṃtoṣa parā mūḍhāḥ saṃtoṣaṃ yānti paṇḍitāḥ asaṃtoṣasya nāsty antas tuṣṭis tu paramaṃ sukham na śocanti gatādhvānaḥ paśyantaḥ paramāṃ gatim 21 na viṣāde mano kāryaṃ viṣādo viṣam uttamam mārayaty akṛtaprajñaṃ bālaṃ kruddha ivoragaḥ 22 yaṃ viṣādābhibhavati viṣame samupasthite tejasā tasya hīnasya puruṣārtho na vidyate 23 avaśyaṃ kriyamāṇasya karmaṇo dṛśyate phalam na hi nirvedam āgamya kiṃ cit prāpnoti śobhanam 24 athāpy upāyaṃ paśyeta duḥkhasya parimokṣaṇe aśocann ārabhetaiva yuktaś cāvyasanī bhavet 25 bhūteṣv abhāvaṃ saṃcintya ye tu buddheḥ paraṃ gatāḥ na śocanti kṛtaprajñāḥ paśyantaḥ paramāṃ gatim 26 na śocāmi ca vai vidvan kālākāṅkṣī sthito 'smy aham etair nirdaśanair brahman nāvasīdāmi sattama 27 [brā] kṛtaprajño 'si medhāvī buddhiś ca vipulā tava nāhaṃ bhavantaṃ śocāmi jñānatṛpto 'si dharmavit 28 āpṛcche tvāṃ svasti te 'stu dharmas tvā parirakṣatu apramādas tu kartavyo dharme dharmabhṛtāṃ vara 29 [mārk] bāḍham ity eva taṃ vyādhaḥ kṛtāñjalir uvāca ha pradakṣiṇam atho kṛtvā prasthito dvijasattamaḥ 30 sa tu gatvā dvijaḥ sarvāṃ śuśrūṣāṃ kṛtavāṃs tadā mātā pitṛbhyāṃ vṛddhābhyāṃ yathānyāyaṃ susaṃśitaḥ 31 etat te sarvam ākhyātaṃ nikhilena yudhiṣṭhira pṛṣṭavān asi yaṃ tāta dharmaṃ dharmabhṛtāṃ vara 32 pativratāyā māhātmyaṃ brāhmaṇasya ca sattama mātā pitroś ca śuśrūṣā vyādhe dharmaś ca kīrtitaḥ 33 [y] atyadbhutam idaṃ brahman dharmākhyānam anuttamam sarvadharmabhṛtāṃ śreṣṭha kathitaṃ dvijasattama 34 sukhaśravyatayā vidvan muhūrtam iva me gatam na hi tṛpto 'smi bhagavāñ śṛṇvāno dharmam uttamam |
The Mahabharata in Sanskrit
Book 3
Chapter 207
|
1
[वै] शरुत्वेमां धर्मसंयुक्तां धर्मराजः कथां शुभाम पुनः पप्रच्छ तम ऋषिं मार्कण्डेयं तपस्विनम 2 [य] कथम अग्निर वनं यातः कथं चाप्य अङ्गिराः पुरा नष्टे ऽगनौ हव्यम अवहद अग्निर भूत्वा महान ऋषिः 3 अग्निर यदा तव एक एव बहुत्वं चास्य कर्मसु दृश्यते भगवन सर्वम एतद इच्छामि वेदितुम 4 कुमारश च यथॊत्पन्नॊ यथा चाग्नेः सुतॊ ऽभवत यथा रुद्राच च संभूतॊ गङ्गायां कृत्तिकासु च 5 एतद इच्छाम्य अहं तवत्तः शरॊतुं भार्गवनन्दन कौतूहलसमाविष्टॊ यथातथ्यं महामुने 6 [मार्क] अत्राप्य उदाहरन्तीमम इतिहासं पुरातनम यथा करुद्धॊ हुतवहस तपस तप्तुं वनं गतः 7 यथा च भगवान अग्निः सवयम एवाङ्गिराभवत संतापयन सवप्रभया नाशयंस तिमिराणि च 8 आश्रमस्थॊ महाभागॊ हव्यवाहं विशेषयन तथा स भूत्वा तु तदा जगत सर्वं परकाशयन 9 तपॊ चरंश च हुतभुक संतप्तस तस्य तेजसा भृशं गलानश च तेजस्वी न स किं चित परजज्ञिवान 10 अथ संचिन्तयाम आस भगवान हव्यवाहनः अन्यॊ ऽगनिर इह लॊकानां बरह्मणा संप्रवर्तितः अग्नित्वं विप्रनष्टं हि तप्यमानस्य मे तपः 11 कथम अग्निः पुनर अहं भवेयम इति चिन्त्य सः अपश्यद अग्निवल लॊकांस तापयन्तं महामुनिम 12 सॊपासर्पच छनैर भीतस तम उवाच तदाङ्गिराः शीघ्रम एव भवस्वाग्निस तवं पुनर लॊकभावनः विज्ञातश चासि लॊकेषु तरिषु संस्थान चारिषु 13 तवम अग्ने परथमः सृष्टॊ बरह्मणा तिमिरापहः सवस्थानं परतिपद्यस्व शीघ्रम एव तमॊनुद 14 [अग्नि] नष्टकीर्तिर अहं लॊके भवाञ जातॊ हुताशनः भवन्तम एव जञास्यन्ति पावकं न तु मां जनाः 15 निक्षिपाम्य अहम अग्नित्वं तवम अग्निः परथमॊ भव भविष्यामि दवितीयॊ ऽहं पराजापत्यक एव च 16 [अन्गिरस] कुरु पुण्यं परकास्व अर्ग्यं भवाग्निस तिमिरापहः मां च देवकुरुष्वाग्ने परथमं पुत्रम अञ्जसा 17 [मार्क] तच छरुत्वाङ्गिरसॊ वाक्यं जातवेदास तथाकरॊत राजन बृहस्पतिर नाम तस्याप्य अङ्गिरसः सुतः 18 जञात्वा परथमजं तं तु वह्नेर आङ्गिरसं सुतम उपेत्य देवाः पप्रच्छुः कारणं तत्र भारत 19 स तु पृष्टस तदा देवैस ततः कारणम अब्रवीत परत्यगृह्णंस तु देवाश च तद वचॊ ऽङगिरसस तदा 20 तत्र नानाविधान अग्नीन परवक्ष्यामि महाप्रभान कर्मभिर बहुभिः खयातान नानात्वं बराह्मणेष्व इह |
1
[vai] śrutvemāṃ dharmasaṃyuktāṃ dharmarājaḥ kathāṃ śubhām punaḥ papraccha tam ṛṣiṃ mārkaṇḍeyaṃ tapasvinam 2 [y] katham agnir vanaṃ yātaḥ kathaṃ cāpy aṅgirāḥ purā naṣṭe 'gnau havyam avahad agnir bhūtvā mahān ṛṣiḥ 3 agnir yadā tv eka eva bahutvaṃ cāsya karmasu dṛśyate bhagavan sarvam etad icchāmi veditum 4 kumāraś ca yathotpanno yathā cāgneḥ suto 'bhavat yathā rudrāc ca saṃbhūto gaṅgāyāṃ kṛttikāsu ca 5 etad icchāmy ahaṃ tvattaḥ śrotuṃ bhārgavanandana kautūhalasamāviṣṭo yathātathyaṃ mahāmune 6 [mārk] atrāpy udāharantīmam itihāsaṃ purātanam yathā kruddho hutavahas tapas taptuṃ vanaṃ gataḥ 7 yathā ca bhagavān agniḥ svayam evāṅgirābhavat saṃtāpayan svaprabhayā nāśayaṃs timirāṇi ca 8 āśramastho mahābhāgo havyavāhaṃ viśeṣayan tathā sa bhūtvā tu tadā jagat sarvaṃ prakāśayan 9 tapo caraṃś ca hutabhuk saṃtaptas tasya tejasā bhṛśaṃ glānaś ca tejasvī na sa kiṃ cit prajajñivān 10 atha saṃcintayām āsa bhagavān havyavāhanaḥ anyo 'gnir iha lokānāṃ brahmaṇā saṃpravartitaḥ agnitvaṃ vipranaṣṭaṃ hi tapyamānasya me tapaḥ 11 katham agniḥ punar ahaṃ bhaveyam iti cintya saḥ apaśyad agnival lokāṃs tāpayantaṃ mahāmunim 12 sopāsarpac chanair bhītas tam uvāca tadāṅgirāḥ śīghram eva bhavasvāgnis tvaṃ punar lokabhāvanaḥ vijñātaś cāsi lokeṣu triṣu saṃsthāna cāriṣu 13 tvam agne prathamaḥ sṛṣṭo brahmaṇā timirāpahaḥ svasthānaṃ pratipadyasva śīghram eva tamonuda 14 [agni] naṣṭakīrtir ahaṃ loke bhavāñ jāto hutāśanaḥ bhavantam eva jñāsyanti pāvakaṃ na tu māṃ janāḥ 15 nikṣipāmy aham agnitvaṃ tvam agniḥ prathamo bhava bhaviṣyāmi dvitīyo 'haṃ prājāpatyaka eva ca 16 [angiras] kuru puṇyaṃ prakāsv argyaṃ bhavāgnis timirāpahaḥ māṃ ca devakuruṣvāgne prathamaṃ putram añjasā 17 [mārk] tac chrutvāṅgiraso vākyaṃ jātavedās tathākarot rājan bṛhaspatir nāma tasyāpy aṅgirasaḥ sutaḥ 18 jñātvā prathamajaṃ taṃ tu vahner āṅgirasaṃ sutam upetya devāḥ papracchuḥ kāraṇaṃ tatra bhārata 19 sa tu pṛṣṭas tadā devais tataḥ kāraṇam abravīt pratyagṛhṇaṃs tu devāś ca tad vaco 'ṅgirasas tadā 20 tatra nānāvidhān agnīn pravakṣyāmi mahāprabhān karmabhir bahubhiḥ khyātān nānātvaṃ brāhmaṇeṣv iha |
The Mahabharata in Sanskrit
Book 3
Chapter 208
|
1
[मार्क] बरह्मणॊ यस तृतीयस तु पुत्रः कुरुकुलॊद्वह तस्यापव सुता भार्या परजास तस्यापि मे शृणु 2 बृहज्ज्यॊतिर बृहत्कीर्तिर बृहद्ब्रह्मा बृहन्मनाः बृहन्मन्त्रॊ बृहद्भासस तथा राजन बृहस्पतिः 3 परजासु तासु सर्वासु रूपेणाप्रतिमाभवत देवी भानुमती नाम परथमाङ्गिरसः सुता 4 भूतानाम एव सर्वेषां यस्यां रागस तदाभवत रागाद रागेति याम आहुर दवितीयाङ्गिरसः सुता 5 यां कपर्दि सुताम आहुर दृश्यादृश्येति देहिनः तनुत्वात सा सिनीवाली तृतीयाङ्गिरसः सुता 6 पश्यत्य अर्चिष्मती भाभिर हविर भिश च हविष्मती षष्ठम अङ्गिरसः कन्यां पुण्याम आहुर हविष्मतीम 7 महामखेष्व आङ्गिरषी दीप्तिमत्सु महामती महामतीति विख्याता सप्तमी कथ्यते सुता 8 यां तु दृष्ट्वा भगवतीं जनः कुहुकुहायते एकानंशेति याम आहुः कुहूम अङ्ग्निरसः सुताम |
1
[mārk] brahmaṇo yas tṛtīyas tu putraḥ kurukulodvaha tasyāpava sutā bhāryā prajās tasyāpi me śṛṇu 2 bṛhajjyotir bṛhatkīrtir bṛhadbrahmā bṛhanmanāḥ bṛhanmantro bṛhadbhāsas tathā rājan bṛhaspatiḥ 3 prajāsu tāsu sarvāsu rūpeṇāpratimābhavat devī bhānumatī nāma prathamāṅgirasaḥ sutā 4 bhūtānām eva sarveṣāṃ yasyāṃ rāgas tadābhavat rāgād rāgeti yām āhur dvitīyāṅgirasaḥ sutā 5 yāṃ kapardi sutām āhur dṛśyādṛśyeti dehinaḥ tanutvāt sā sinīvālī tṛtīyāṅgirasaḥ sutā 6 paśyaty arciṣmatī bhābhir havir bhiś ca haviṣmatī ṣaṣṭham aṅgirasaḥ kanyāṃ puṇyām āhur haviṣmatīm 7 mahāmakheṣv āṅgiraṣī dīptimatsu mahāmatī mahāmatīti vikhyātā saptamī kathyate sutā 8 yāṃ tu dṛṣṭvā bhagavatīṃ janaḥ kuhukuhāyate ekānaṃśeti yām āhuḥ kuhūm aṅgnirasaḥ sutām |
The Mahabharata in Sanskrit
Book 3
Chapter 209
|
1
[मार्क] बृहस्पतेश चान्द्रमसी भार्याभूद या यशस्विनी अग्नीन साजनयत पुण्याञ शडेकां चापि पुत्रिकाम 2 आहुतिष्व एव यस्याग्नेर हविर आज्यं विधीयते सॊ ऽगनिर बृहस्पतेः पुत्रः शम्युर नाम महाप्रभः 3 चातुर्मास्येषु यस्येष्ट्याम अश्वमेधे ऽगरजः पशुः दीप्तॊ जवालैर अनेकाभिर अग्निर एकॊ ऽथ वीर्यवान 4 शम्यॊर अप्रतिमा भार्या सत्या सत्या च धर्मजा अग्निस तस्य सुतॊ दीप्तस तिस्रः कन्याश च सुव्रताः 5 परथमेनाज्य भागेन पूज्यते यॊ ऽगनिर अध्वरे अग्निस तस्य भरद्वाजः परथमः पुत्र उच्यते 6 पौर्णमास्येषु सर्वेषु हविर आज्यं सरुवॊद्यतम भरतॊ नामतः सॊ ऽगनिर दवितीयः शम्युतः सुतः 7 तिस्रः कन्या भवन्त्य अन्या यासां स भरतः पतिः भरतस तु सुतस तस्य भवत्य एका च पुत्रिका 8 भरतॊ भरतस्याग्नेः पावकस तु परजापतेः महान अत्यर्थम अहितस तथा भरतसत्तम 9 भरद्वाजस्य भार्या तु वीरा वीरश च पिण्डदः पराहुर आज्येन तस्येज्यां सॊमस्येव दविजाः शनैः 10 हविषा यॊ दवितीयेन सॊमेन सह युज्यते रथप्रभू रथध्वानः कुम्भरेताः स उच्यते 11 सरय्वां जनयत सिद्धिं भानुं भाभिः समावृणॊत आग्नेयम आनयन नित्यम आह्वानेष्व एष कथ्यते 12 यस तु न चयवते नित्यं यशसा वर्चसा शरिया अग्निर निश्च्यवनॊ नाम पृथिवीं सतौति केवलम 13 विपाप्मा कलुषैर मुक्तॊ विशुद्धश चार्चिषा जवलन विपापॊ ऽगनिः सुतस तस्य सत्यः समयकर्मसु 14 आक्रॊशतां हि भूतानां यः करॊति हि निष्कृतिम अग्निः सनिष्कृतिर नाम शॊभयत्य अभिसेवितः 15 अनुकूजन्ति येनेह वेदनार्ताः सवयं जनाः तस्य पुत्रः सवनॊ नाम पवकः स रुजस्करः 16 यस तु विश्वस्य जगतॊ बुद्धिम आक्रम्य तिष्ठति तं पराहुर अध्यात्मविदॊ विश्वजिन नाम पावकम 17 अन्तराग्निः शरितॊ यॊ हि भुक्तं पचति देहिनाम स यज्ञे विश्वभुन नाम सर्वलॊकेषु भारत 18 बरह्मचारी यतात्मा च सततं विपुलव्रतः बराह्मणाः पूजयन्त्य एनं पाकयज्ञेषु पावकम 19 परथितॊ गॊपतिर नाम नदी यस्याभवत परिया तस्मिन सर्वाणि कर्माणि करियन्ते कर्म कर्तृभिः 20 वडवामुखः पिबत्य अम्भॊ यॊ ऽसौ परमदारुणः ऊर्ध्वभाग ऊर्ध्वभान नाम कविः पराणाश्रितस तु सः 21 उदग दवारं हविर यस्य गृहे नित्यं परदीयते ततः सविष्टं भवेद आज्यं सविष्टकृत परमः समृतः 22 यः परशान्तेषु भूतेषु मन्युर भवति पावकः करॊधस्य तु रसॊ जज्ञे मन्यती चाथ पुत्रिका सवाहेति दारुणा करूरा सर्वभूतेषु तिष्ठति 23 तरिदिवे यस्य सदृशॊ नास्ति रूपेण कश चन अतुल्यत्वात कृतॊ देवैर नाम्ना कामस तु पावकः 24 संहर्षाद धारयन करॊधं धन्वी सरग्वी रथे सथितः समरे नाशयेच छत्रून अमॊघॊ नाम पावकः 25 उक्थॊ नाम महाभाग तरिभिर उक्थैर अभिष्टुतः महावाचं तव अजनयत सकामाश्वं हि यं विदुः |
1
[mārk] bṛhaspateś cāndramasī bhāryābhūd yā yaśasvinī agnīn sājanayat puṇyāñ śaḍekāṃ cāpi putrikām 2 āhutiṣv eva yasyāgner havir ājyaṃ vidhīyate so 'gnir bṛhaspateḥ putraḥ śamyur nāma mahāprabhaḥ 3 cāturmāsyeṣu yasyeṣṭyām aśvamedhe 'grajaḥ paśuḥ dīpto jvālair anekābhir agnir eko 'tha vīryavān 4 śamyor apratimā bhāryā satyā satyā ca dharmajā agnis tasya suto dīptas tisraḥ kanyāś ca suvratāḥ 5 prathamenājya bhāgena pūjyate yo 'gnir adhvare agnis tasya bharadvājaḥ prathamaḥ putra ucyate 6 paurṇamāsyeṣu sarveṣu havir ājyaṃ sruvodyatam bharato nāmataḥ so 'gnir dvitīyaḥ śamyutaḥ sutaḥ 7 tisraḥ kanyā bhavanty anyā yāsāṃ sa bharataḥ patiḥ bharatas tu sutas tasya bhavaty ekā ca putrikā 8 bharato bharatasyāgneḥ pāvakas tu prajāpateḥ mahān atyartham ahitas tathā bharatasattama 9 bharadvājasya bhāryā tu vīrā vīraś ca piṇḍadaḥ prāhur ājyena tasyejyāṃ somasyeva dvijāḥ śanaiḥ 10 haviṣā yo dvitīyena somena saha yujyate rathaprabhū rathadhvānaḥ kumbharetāḥ sa ucyate 11 sarayvāṃ janayat siddhiṃ bhānuṃ bhābhiḥ samāvṛṇot āgneyam ānayan nityam āhvāneṣv eṣa kathyate 12 yas tu na cyavate nityaṃ yaśasā varcasā śriyā agnir niścyavano nāma pṛthivīṃ stauti kevalam 13 vipāpmā kaluṣair mukto viśuddhaś cārciṣā jvalan vipāpo 'gniḥ sutas tasya satyaḥ samayakarmasu 14 ākrośatāṃ hi bhūtānāṃ yaḥ karoti hi niṣkṛtim agniḥ saniṣkṛtir nāma śobhayaty abhisevitaḥ 15 anukūjanti yeneha vedanārtāḥ svayaṃ janāḥ tasya putraḥ svano nāma pavakaḥ sa rujaskaraḥ 16 yas tu viśvasya jagato buddhim ākramya tiṣṭhati taṃ prāhur adhyātmavido viśvajin nāma pāvakam 17 antarāgniḥ śrito yo hi bhuktaṃ pacati dehinām sa yajñe viśvabhun nāma sarvalokeṣu bhārata 18 brahmacārī yatātmā ca satataṃ vipulavrataḥ brāhmaṇāḥ pūjayanty enaṃ pākayajñeṣu pāvakam 19 prathito gopatir nāma nadī yasyābhavat priyā tasmin sarvāṇi karmāṇi kriyante karma kartṛbhiḥ 20 vaḍavāmukhaḥ pibaty ambho yo 'sau paramadāruṇaḥ ūrdhvabhāg ūrdhvabhān nāma kaviḥ prāṇāśritas tu saḥ 21 udag dvāraṃ havir yasya gṛhe nityaṃ pradīyate tataḥ sviṣṭaṃ bhaved ājyaṃ sviṣṭakṛt paramaḥ smṛtaḥ 22 yaḥ praśānteṣu bhūteṣu manyur bhavati pāvakaḥ krodhasya tu raso jajñe manyatī cātha putrikā svāheti dāruṇā krūrā sarvabhūteṣu tiṣṭhati 23 tridive yasya sadṛśo nāsti rūpeṇa kaś cana atulyatvāt kṛto devair nāmnā kāmas tu pāvakaḥ 24 saṃharṣād dhārayan krodhaṃ dhanvī sragvī rathe sthitaḥ samare nāśayec chatrūn amogho nāma pāvakaḥ 25 uktho nāma mahābhāga tribhir ukthair abhiṣṭutaḥ mahāvācaṃ tv ajanayat sakāmāśvaṃ hi yaṃ viduḥ |
The Mahabharata in Sanskrit
Book 3
Chapter 210
|
1
[मार्क] काश्यपॊ हय अथ वासिष्ठः पराणश च पराणपुत्रकः अग्निर आङ्गिरसश चैव चयवनस तरिषु वर्चकः 2 अचरन्त तपस तीव्रं पुत्रार्थे बहु वार्षिकम पुत्रं लभेम धर्मिष्ठं यशसा बरह्मणा समम 3 महाव्याहृतिभिर धयातः पञ्चभिस तैस तदा तव अथ जज्ञे तेजॊमयॊ ऽरचिष्मान पञ्च वर्णः परभावनः 4 समिद्धॊ ऽगनिः शिरस तस्य बाहू सूर्यनिभौ तथा तवङ नेत्रे च सुवर्णाभे कृष्णे जङ्घे च भारत 5 पञ्च वर्णः स तपसा कृतस तैः पञ्चभिर जनैः पाञ्चजन्यः शरुतॊ वेदे पञ्च वंशकरस तु सः 6 दशवर्षसहस्राणि तपस तप्त्वा महातपाः जनयत पावकं घॊरं पितॄणां स परजाः सृजन 7 बृहद्रथंतरं मूर्ध्नॊ वक्त्राच च तरसा हरौ शिवं नाभ्यां बलाद इन्द्रं वाय्वग्नी पराणतॊ ऽसृजत 8 बाहुभ्याम अनुदात्तौ च विश्वे भूतानि चैव ह एतान सृष्ट्वा ततः पञ्च पितॄणाम असृजत सुतान 9 बृहदूर्जस्य परणिधिः काश्यपस्य बृहत्तरः भानुर अङ्गिरसॊ वीरः पुत्रॊ वर्चस्य सौभरः 10 पराणस्य चानुदात्तश च वयाख्याताः पञ्च वंशजाः देवान यज्ञमुषश चान्यान सृजन पञ्चदशॊत्तरान 11 अभीमम अतिभीमं च भीमं भीमबलाबलम एतान यज्ञमुषः पञ्च देवान अभ्यसृजत तपः 12 सुमित्रं मित्रवन्तं च मित्रज्ञं मित्रवर्धनम मित्र धर्माणम इत्य एतान देवान अभ्यसृजत तपः 13 सुरप्रवीरं वीरं च सुकेशं च सुवर्चसम सुराणाम अपि हन्तारं पञ्चैतान असृजत तपः 14 तरिविधं संस्थिता हय एते पञ्च पञ्च पृथक पृथक मुष्णन्त्य अत्र सथिता हय एते सवर्गतॊ यज्ञयाजिनः 15 तेषाम इष्टं हरन्त्य एते निघ्नन्ति च महद भुवि सपर्धया हव्यवाहानां निघ्नन्त्य एते हरन्ति च 16 हविर वेद्यां तद आदानं कुशलैः संप्रवर्तितम तद एते नॊपसर्पन्ति यत्र चाग्निः सथितॊ भवेत 17 चितॊ ऽगनिर उद्वहन यज्ञं पक्षाभ्यां तान परबाधते मन्त्रैः परशमिता हय एते नेष्टं मुष्णन्ति यज्ञियम 18 बृहदुक्थ तपस्यैव पुत्रॊ भूमिम उपाश्रितः अग्निहॊत्रे हूयमाने पृथिव्यां सद्भिर इज्यते 19 रथंतरश च तपसः पुत्राग्निः परिपठ्यते मित्र विन्दाय वै तस्य हविर अध्वर्यवॊ विदुः मुमुदे परमप्रीतः सह पुत्रैर महायशाः |
1
[mārk] kāśyapo hy atha vāsiṣṭhaḥ prāṇaś ca prāṇaputrakaḥ agnir āṅgirasaś caiva cyavanas triṣu varcakaḥ 2 acaranta tapas tīvraṃ putrārthe bahu vārṣikam putraṃ labhema dharmiṣṭhaṃ yaśasā brahmaṇā samam 3 mahāvyāhṛtibhir dhyātaḥ pañcabhis tais tadā tv atha jajñe tejomayo 'rciṣmān pañca varṇaḥ prabhāvanaḥ 4 samiddho 'gniḥ śiras tasya bāhū sūryanibhau tathā tvaṅ netre ca suvarṇābhe kṛṣṇe jaṅghe ca bhārata 5 pañca varṇaḥ sa tapasā kṛtas taiḥ pañcabhir janaiḥ pāñcajanyaḥ śruto vede pañca vaṃśakaras tu saḥ 6 daśavarṣasahasrāṇi tapas taptvā mahātapāḥ janayat pāvakaṃ ghoraṃ pitṝṇāṃ sa prajāḥ sṛjan 7 bṛhadrathaṃtaraṃ mūrdhno vaktrāc ca tarasā harau śivaṃ nābhyāṃ balād indraṃ vāyvagnī prāṇato 'sṛjat 8 bāhubhyām anudāttau ca viśve bhūtāni caiva ha etān sṛṣṭvā tataḥ pañca pitṝṇām asṛjat sutān 9 bṛhadūrjasya praṇidhiḥ kāśyapasya bṛhattaraḥ bhānur aṅgiraso vīraḥ putro varcasya saubharaḥ 10 prāṇasya cānudāttaś ca vyākhyātāḥ pañca vaṃśajāḥ devān yajñamuṣaś cānyān sṛjan pañcadaśottarān 11 abhīmam atibhīmaṃ ca bhīmaṃ bhīmabalābalam etān yajñamuṣaḥ pañca devān abhyasṛjat tapaḥ 12 sumitraṃ mitravantaṃ ca mitrajñaṃ mitravardhanam mitra dharmāṇam ity etān devān abhyasṛjat tapaḥ 13 surapravīraṃ vīraṃ ca sukeśaṃ ca suvarcasam surāṇām api hantāraṃ pañcaitān asṛjat tapaḥ 14 trividhaṃ saṃsthitā hy ete pañca pañca pṛthak pṛthak muṣṇanty atra sthitā hy ete svargato yajñayājinaḥ 15 teṣām iṣṭaṃ haranty ete nighnanti ca mahad bhuvi spardhayā havyavāhānāṃ nighnanty ete haranti ca 16 havir vedyāṃ tad ādānaṃ kuśalaiḥ saṃpravartitam tad ete nopasarpanti yatra cāgniḥ sthito bhavet 17 cito 'gnir udvahan yajñaṃ pakṣābhyāṃ tān prabādhate mantraiḥ praśamitā hy ete neṣṭaṃ muṣṇanti yajñiyam 18 bṛhaduktha tapasyaiva putro bhūmim upāśritaḥ agnihotre hūyamāne pṛthivyāṃ sadbhir ijyate 19 rathaṃtaraś ca tapasaḥ putrāgniḥ paripaṭhyate mitra vindāya vai tasya havir adhvaryavo viduḥ mumude paramaprītaḥ saha putrair mahāyaśāḥ |
The Mahabharata in Sanskrit
Book 3
Chapter 211
|
1
[मार्क] गुरुभिर नियमैर युक्तॊ भरतॊ नाम पावकः अग्निः पुष्टिमतिर नाम तुष्टः पुष्टिं परयच्छति भरत्य एष परजाः सर्वास ततॊ भरत उच्यते 2 अग्निर यस तु शिवॊ नाम शक्तिपूजा परश च सः दुःखार्तानां स सर्वेषां शिव कृत सततं शिवः 3 तपसस तु फलं दृष्ट्वा संप्रवृद्धं तपॊ महत उद्धर्तु कामॊ मतिमान पुत्रॊ जज्ञे पुरंदरः 4 ऊष्मा चैवॊष्मणॊ जज्ञे सॊ ऽगनिर भूतेषु लक्ष्यते अग्निश चापि मनुर नाम पराजापत्यम अकारयत 5 शम्भुम अग्निम अथ पराहुर बराह्मणा वेदपारगाः आवसथ्यं दविजाः पराहुर दीप्तम अग्निं महाप्रभम 6 ऊर्जः करान हव्यवाहान सुवर्णसदृशप्रभान अग्निस तपॊ हय अजनयत पञ्च यज्ञसुतान इह 7 परशान्ते ऽगनिर महाभाग परिश्रन्तॊ गवां पतिः असुराञ जनयन घॊरान मर्त्यांश चैव पृथग्विधान 8 तपसश च मनुं पुत्रं भानुं चाप्य अङ्गिरासृजत बृहद्भानुं तु तं पराहुर बराह्मणा वेदपारगाः 9 भानॊर भार्या सुप्रजा तु बृहद्भासा तु सॊमजा असृजेतां तु षट पुत्राञ शृणु तासां परजा विधम 10 दुर्बलानां तु भूतानां तनुं यः संप्रयच्छति तम अग्निं बलदं पराहौः परथमं भानुतः सुतम 11 यः परशान्तेषु भूतेषु मन्युर भवति दारुणः अग्निः स मन्युमान नाम दवितीयॊ भानुतः सुतः 12 दर्शे च पौर्णमासे च यस्येह हविर उच्यते विष्णुर नामेह यॊ ऽगनिस तु धृतिमान नाम सॊ ऽङगिराः 13 इन्द्रेण सहितं यस्य हविर आग्रयणं समृतम अग्निर आग्रयणॊ नाम भानॊर एवान्वयस तु सः 14 चातुर्भास्येषु नित्यानां हविषां यॊ निरग्रहः चतुर्भिः सहितः पुत्रैर भानॊर एवान्वयस तु सः 15 निशां तव अजनयत कन्याम अग्नीषॊमाव उभौ तथा मनॊर एवाभवद भार्या सुषुवे पञ्च पावकान 16 पूज्यते हविषाग्र्येण चातुर्मास्येषु पावकः पर्जन्यसहितः शरीमान अग्निर वैश्वानरस तु सः 17 अस्य लॊकस्य सर्वस्य यः पतिः परिपठ्यते सॊ ऽगनिर विश्वपतिर नाम दवितीयॊ वै मनॊः सुतः ततः सविष्टं भवेद आज्यं सविष्टकृत परमः समृतः 18 कन्या सा रॊहिणी नाम हिरण्यकशिपॊः सुता कर्मणासौ बभौ भार्या स वह्निः स परजापतिः 19 पराणम आश्रित्य यॊ देहं परवर्तयति देहिनाम तस्य संनिहितॊ नाम शब्दरूपस्य साधनः 20 शुक्लकृष्ण गतिर देवॊ यॊ बिभर्ति हुताशनम अकल्मषः कल्मषाणां कर्ता करॊधाश्रितस तु सः 21 कपिलं परमर्षिं च यं पराहुर यतयः सदा अग्निः स कपिलॊ नाम सांख्ययॊगप्रवर्तकः 22 अग्निर यच्छति भूतानि येन भूतानि नित्यदा कर्मस्व इह विचित्रेषु सॊ ऽगरणीर वह्निर उच्यते 23 इमान अन्यान समसृजत पावकान परथितान भुवि अग्निहॊत्रस्य दुष्टस्य परायच्श्चित्तार्थम अल्बणान 24 संस्पृशेयुर यदान्यॊन्यं कथं चिद वायुनाग्नयः इष्टिर अष्टाकपालेन कार्या वै शुचये ऽगनये 25 दक्षिणाग्निर यदा दवाभ्यां संसृजेत तदा किल इष्टिर अष्टाकपालेन कार्या वै वीतये ऽगनये 26 यद्य अग्नयॊ हि सपृश्येयुर निवेशस्था दवाग्निना इष्टिर अष्टाकपालेन कार्या तु शुचये ऽगनये 27 अग्निं रजस्वला चेत सत्री संस्पृशेद अग्निहॊत्रिकम इष्टिर अष्टाकपालेन कार्या दस्युमते ऽगनये 28 मृतः शरूयेत यॊ जीवन परेयुः पशवॊ यथा इष्टिर अष्टाकपालेन कर्तव्याभिमते ऽगनये 29 आर्तॊ न जुहुयाद अग्निं तरिरात्रं यस तु बराह्मणः इष्टिर अष्टाकपालेन कार्या सयाद उत्तराग्नये 30 दर्शं च पौर्णमासं च यस्य तिष्ठेत परतिष्ठितम इष्टिर अष्टाकपालेन कार्या पथिकृते ऽगनये 31 सूतिकाग्निर यदा चाग्निं संस्पृशेद अग्निहॊत्रिकम इष्टिर अष्टाकपालेन कार्या चाग्निमते ऽगनये |
1
[mārk] gurubhir niyamair yukto bharato nāma pāvakaḥ agniḥ puṣṭimatir nāma tuṣṭaḥ puṣṭiṃ prayacchati bharaty eṣa prajāḥ sarvās tato bharata ucyate 2 agnir yas tu śivo nāma śaktipūjā paraś ca saḥ duḥkhārtānāṃ sa sarveṣāṃ śiva kṛt satataṃ śivaḥ 3 tapasas tu phalaṃ dṛṣṭvā saṃpravṛddhaṃ tapo mahat uddhartu kāmo matimān putro jajñe puraṃdaraḥ 4 ūṣmā caivoṣmaṇo jajñe so 'gnir bhūteṣu lakṣyate agniś cāpi manur nāma prājāpatyam akārayat 5 śambhum agnim atha prāhur brāhmaṇā vedapāragāḥ āvasathyaṃ dvijāḥ prāhur dīptam agniṃ mahāprabham 6 ūrjaḥ karān havyavāhān suvarṇasadṛśaprabhān agnis tapo hy ajanayat pañca yajñasutān iha 7 praśānte 'gnir mahābhāga pariśranto gavāṃ patiḥ asurāñ janayan ghorān martyāṃś caiva pṛthagvidhān 8 tapasaś ca manuṃ putraṃ bhānuṃ cāpy aṅgirāsṛjat bṛhadbhānuṃ tu taṃ prāhur brāhmaṇā vedapāragāḥ 9 bhānor bhāryā suprajā tu bṛhadbhāsā tu somajā asṛjetāṃ tu ṣaṭ putrāñ śṛṇu tāsāṃ prajā vidham 10 durbalānāṃ tu bhūtānāṃ tanuṃ yaḥ saṃprayacchati tam agniṃ baladaṃ prāhauḥ prathamaṃ bhānutaḥ sutam 11 yaḥ praśānteṣu bhūteṣu manyur bhavati dāruṇaḥ agniḥ sa manyumān nāma dvitīyo bhānutaḥ sutaḥ 12 darśe ca paurṇamāse ca yasyeha havir ucyate viṣṇur nāmeha yo 'gnis tu dhṛtimān nāma so 'ṅgirāḥ 13 indreṇa sahitaṃ yasya havir āgrayaṇaṃ smṛtam agnir āgrayaṇo nāma bhānor evānvayas tu saḥ 14 cāturbhāsyeṣu nityānāṃ haviṣāṃ yo niragrahaḥ caturbhiḥ sahitaḥ putrair bhānor evānvayas tu saḥ 15 niśāṃ tv ajanayat kanyām agnīṣomāv ubhau tathā manor evābhavad bhāryā suṣuve pañca pāvakān 16 pūjyate haviṣāgryeṇa cāturmāsyeṣu pāvakaḥ parjanyasahitaḥ śrīmān agnir vaiśvānaras tu saḥ 17 asya lokasya sarvasya yaḥ patiḥ paripaṭhyate so 'gnir viśvapatir nāma dvitīyo vai manoḥ sutaḥ tataḥ sviṣṭaṃ bhaved ājyaṃ sviṣṭakṛt paramaḥ smṛtaḥ 18 kanyā sā rohiṇī nāma hiraṇyakaśipoḥ sutā karmaṇāsau babhau bhāryā sa vahniḥ sa prajāpatiḥ 19 prāṇam āśritya yo dehaṃ pravartayati dehinām tasya saṃnihito nāma śabdarūpasya sādhanaḥ 20 śuklakṛṣṇa gatir devo yo bibharti hutāśanam akalmaṣaḥ kalmaṣāṇāṃ kartā krodhāśritas tu saḥ 21 kapilaṃ paramarṣiṃ ca yaṃ prāhur yatayaḥ sadā agniḥ sa kapilo nāma sāṃkhyayogapravartakaḥ 22 agnir yacchati bhūtāni yena bhūtāni nityadā karmasv iha vicitreṣu so 'graṇīr vahnir ucyate 23 imān anyān samasṛjat pāvakān prathitān bhuvi agnihotrasya duṣṭasya prāyacścittārtham albaṇān 24 saṃspṛśeyur yadānyonyaṃ kathaṃ cid vāyunāgnayaḥ iṣṭir aṣṭākapālena kāryā vai śucaye 'gnaye 25 dakṣiṇāgnir yadā dvābhyāṃ saṃsṛjeta tadā kila iṣṭir aṣṭākapālena kāryā vai vītaye 'gnaye 26 yady agnayo hi spṛśyeyur niveśasthā davāgninā iṣṭir aṣṭākapālena kāryā tu śucaye 'gnaye 27 agniṃ rajasvalā cet strī saṃspṛśed agnihotrikam iṣṭir aṣṭākapālena kāryā dasyumate 'gnaye 28 mṛtaḥ śrūyeta yo jīvan pareyuḥ paśavo yathā iṣṭir aṣṭākapālena kartavyābhimate 'gnaye 29 ārto na juhuyād agniṃ trirātraṃ yas tu brāhmaṇaḥ iṣṭir aṣṭākapālena kāryā syād uttarāgnaye 30 darśaṃ ca paurṇamāsaṃ ca yasya tiṣṭhet pratiṣṭhitam iṣṭir aṣṭākapālena kāryā pathikṛte 'gnaye 31 sūtikāgnir yadā cāgniṃ saṃspṛśed agnihotrikam iṣṭir aṣṭākapālena kāryā cāgnimate 'gnaye |
The Mahabharata in Sanskrit
Book 3
Chapter 212
|
1
[मार्क] आपस्य मुदिता भार्या सहस्य परमा परिया भूपतिर भुव भर्ता च जनयत पावकं परम 2 भूतानां चापि सर्वेषां यं पराहुः पावकं पतिम आत्मा भुवन भर्तेति सान्वयेषु दविजातिषु 3 महतां चैव भूतानां सर्वेषाम इह यः पतिः भगवान स महातेजा नित्यं चरति पावकः 4 अग्निर गृहपतिर नाम नित्यं यज्ञेषु पूज्यते हुतं वहति यॊ हव्यम अस्य लॊकस्य पावकः 5 अपां गर्भॊ महाभागः सहपुत्रॊ महाद्भुतः भूपतिर भुव भर्ता च महतः पतिर उच्यते 6 दहन मृतानि भूतानि तस्याग्निर भरतॊ ऽभवत अग्निष्टॊमे च नियतः करतुश्रेष्ठॊ भरस्य तु 7 आयान्तं नियतं दृष्ट्वा परविवेशार्णवं भयात देवास तं नाधिगच्छन्ति मार्गमाणा यथा दिशम 8 दृष्ट्वा तव अग्निर अथर्वाणं ततॊ वचनम अब्रवीत देवानां वह हव्यं तवम अहं वीर सुदुर्बलः अथर्वन गच्छ मध्व अक्षं परियम एतत कुरुष्व मे 9 परेष्यचाग्निर अथर्वाणम अन्यं देशं ततॊ ऽगमत मत्स्यास तस्य समाचख्युः करुद्धस तान अग्निर अब्रवीत 10 भक्ष्या वै विविधैर भावैर भविष्यथ शरीरिणाम अथर्वाणं तथा चापि हव्यवाहॊ ऽबरवीद वचः 11 अनुनीयमानॊ ऽपि भृशं देववाक्याद धि तेन सः नैच्छद वॊढुं हविः सर्वं शरीरं च समत्यजत 12 स तच छरीरं संत्यज्य परविवेश धरां तदा भूमिं सपृष्ट्वासृजद धातून पृथक्पृथग अतीव हि 13 आस्यात सुगन्धि तेजश च अस्थिभ्यॊ देवदारु च शलेष्मणः सफटिकं तस्य पित्तान मरकतं तथा 14 यकृत कृष्णायसं तस्य तरिभिर एव बभुः परजाः नखास तस्याभ्र पटलं शिरा जालानि विद्रुमम शरीराद विविधाश चान्ये धातवॊ ऽसयाभवन नृप 15 एवं तयक्त्वा शरीरं तु परमे तपसि सथितः भृग्वङ्गिरादिभिर भूयस तपसॊत्थापितस तदा 16 भृशं जज्वाल तेजस्वी तपसाप्यायितः शिखी दृष्ट्वा ऋषीन भयाच चापि परविवेश महार्णवम 17 तस्मिन नष्टे जगद भीतम अथर्वाणम अथाश्रितम अर्चयाम आसुर एवैनम अथर्वाणं सुरर्षयः 18 अथर्वा तव असृजल लॊकान आत्मनालॊक्य पावकम मिषतां सर्वभूतानाम उन्ममाथ महार्णवम 19 एवम अग्निर भगवता नष्टः पूर्वम अथर्वणा आहूतः सर्वभूतानां हव्यं वहति सर्वदा 20 एवं तव अजनयद धिष्ण्यान वेदॊक्तान विबुधान बहून विचरन विविधान देशान भरममाणस तु तत्र वै 21 सिन्धुवर्जं पञ्च नद्यॊ देविकाथ सरस्वती गङ्गा च शतकुम्भा च शरयूर गण्डसाह्वया 22 चर्मण्वती मही चैव मेध्या मेधातिथिस तथा ताम्रावती वेत्रवती नद्यस तिस्रॊ ऽथ कौशिकी 23 तमसा नर्मदा चैव नदी गॊदावरी तथा वेण्णा परवेणी भीमा च मेद्रथा चैव भारत 24 भारती सुप्रयॊगा च कावेरी मुर्मुरा तथा कृष्णा च कृष्णवेण्णा च कपिला शॊण एव च एता नद्यस तु धिष्ण्यानां मातरॊ याः परकीर्तिताः 25 अद्भुतस्य परिया भार्या तस्याः पुत्रॊ विडूरथः यावन्तः पावकाः परॊक्ताः सॊमास तावन्त एव च 26 अत्रेश चाप्य अन्वये जाता बरह्मणॊ मानसाः परजाः अत्रिः पुत्रान सरष्टुकामस तान एवात्मन्य अधारयत तस्य तद बरह्मणः कायान निर्हरन्ति हुताशनाः 27 एवम एते महात्मानः कीर्तितास ते ऽगनयॊ मया अप्रमेया यथॊत्पन्नाः शरीमन्तस तिमिरापहाः 28 अद्भुतस्य तु माहात्म्यं यथा वेदेषु कीर्तितम तादृशं विद्धि सर्वेषाम एकॊ हय एष हुताशनः 29 एक एवैष भगवान विज्ञेयः परथमॊ ऽङगिराः बहुधानिःसृतः कायाज जयॊतिष्टॊमः करतुर यथा 30 इत्य एष वंशः सुमहान अग्नीनां कीर्तितॊ मया पावितॊ विविधैर मन्त्रैर हव्यं वहति देहिनाम |
1
[mārk] āpasya muditā bhāryā sahasya paramā priyā bhūpatir bhuva bhartā ca janayat pāvakaṃ param 2 bhūtānāṃ cāpi sarveṣāṃ yaṃ prāhuḥ pāvakaṃ patim ātmā bhuvana bharteti sānvayeṣu dvijātiṣu 3 mahatāṃ caiva bhūtānāṃ sarveṣām iha yaḥ patiḥ bhagavān sa mahātejā nityaṃ carati pāvakaḥ 4 agnir gṛhapatir nāma nityaṃ yajñeṣu pūjyate hutaṃ vahati yo havyam asya lokasya pāvakaḥ 5 apāṃ garbho mahābhāgaḥ sahaputro mahādbhutaḥ bhūpatir bhuva bhartā ca mahataḥ patir ucyate 6 dahan mṛtāni bhūtāni tasyāgnir bharato 'bhavat agniṣṭome ca niyataḥ kratuśreṣṭho bharasya tu 7 āyāntaṃ niyataṃ dṛṣṭvā praviveśārṇavaṃ bhayāt devās taṃ nādhigacchanti mārgamāṇā yathā diśam 8 dṛṣṭvā tv agnir atharvāṇaṃ tato vacanam abravīt devānāṃ vaha havyaṃ tvam ahaṃ vīra sudurbalaḥ atharvan gaccha madhv akṣaṃ priyam etat kuruṣva me 9 preṣyacāgnir atharvāṇam anyaṃ deśaṃ tato 'gamat matsyās tasya samācakhyuḥ kruddhas tān agnir abravīt 10 bhakṣyā vai vividhair bhāvair bhaviṣyatha śarīriṇām atharvāṇaṃ tathā cāpi havyavāho 'bravīd vacaḥ 11 anunīyamāno 'pi bhṛśaṃ devavākyād dhi tena saḥ naicchad voḍhuṃ haviḥ sarvaṃ śarīraṃ ca samatyajat 12 sa tac charīraṃ saṃtyajya praviveśa dharāṃ tadā bhūmiṃ spṛṣṭvāsṛjad dhātūn pṛthakpṛthag atīva hi 13 āsyāt sugandhi tejaś ca asthibhyo devadāru ca śleṣmaṇaḥ sphaṭikaṃ tasya pittān marakataṃ tathā 14 yakṛt kṛṣṇāyasaṃ tasya tribhir eva babhuḥ prajāḥ nakhās tasyābhra paṭalaṃ śirā jālāni vidrumam śarīrād vividhāś cānye dhātavo 'syābhavan nṛpa 15 evaṃ tyaktvā śarīraṃ tu parame tapasi sthitaḥ bhṛgvaṅgirādibhir bhūyas tapasotthāpitas tadā 16 bhṛśaṃ jajvāla tejasvī tapasāpyāyitaḥ śikhī dṛṣṭvā ṛṣīn bhayāc cāpi praviveśa mahārṇavam 17 tasmin naṣṭe jagad bhītam atharvāṇam athāśritam arcayām āsur evainam atharvāṇaṃ surarṣayaḥ 18 atharvā tv asṛjal lokān ātmanālokya pāvakam miṣatāṃ sarvabhūtānām unmamātha mahārṇavam 19 evam agnir bhagavatā naṣṭaḥ pūrvam atharvaṇā āhūtaḥ sarvabhūtānāṃ havyaṃ vahati sarvadā 20 evaṃ tv ajanayad dhiṣṇyān vedoktān vibudhān bahūn vicaran vividhān deśān bhramamāṇas tu tatra vai 21 sindhuvarjaṃ pañca nadyo devikātha sarasvatī gaṅgā ca śatakumbhā ca śarayūr gaṇḍasāhvayā 22 carmaṇvatī mahī caiva medhyā medhātithis tathā tāmrāvatī vetravatī nadyas tisro 'tha kauśikī 23 tamasā narmadā caiva nadī godāvarī tathā veṇṇā praveṇī bhīmā ca medrathā caiva bhārata 24 bhāratī suprayogā ca kāverī murmurā tathā kṛṣṇā ca kṛṣṇaveṇṇā ca kapilā śoṇa eva ca etā nadyas tu dhiṣṇyānāṃ mātaro yāḥ prakīrtitāḥ 25 adbhutasya priyā bhāryā tasyāḥ putro viḍūrathaḥ yāvantaḥ pāvakāḥ proktāḥ somās tāvanta eva ca 26 atreś cāpy anvaye jātā brahmaṇo mānasāḥ prajāḥ atriḥ putrān sraṣṭukāmas tān evātmany adhārayat tasya tad brahmaṇaḥ kāyān nirharanti hutāśanāḥ 27 evam ete mahātmānaḥ kīrtitās te 'gnayo mayā aprameyā yathotpannāḥ śrīmantas timirāpahāḥ 28 adbhutasya tu māhātmyaṃ yathā vedeṣu kīrtitam tādṛśaṃ viddhi sarveṣām eko hy eṣa hutāśanaḥ 29 eka evaiṣa bhagavān vijñeyaḥ prathamo 'ṅgirāḥ bahudhāniḥsṛtaḥ kāyāj jyotiṣṭomaḥ kratur yathā 30 ity eṣa vaṃśaḥ sumahān agnīnāṃ kīrtito mayā pāvito vividhair mantrair havyaṃ vahati dehinām |
The Mahabharata in Sanskrit
Book 3
Chapter 213
|
1
[मार्क] अग्नीनां विविधॊ वंशः पीर्तितस ते मयानघ शृणु जन्म तु कौरव्य कार्त्तिकेयस्य धीमतः 2 अद्भुतस्याद्भुतं पुत्रं परवक्ष्याम्य अमितौजसम जातं सप्तर्षिभार्याभिर बरह्मण्यं कीर्तिवर्धनम 3 देवासुराः पुरा यत्ता विनिघ्नन्तः परस्परम तत्राजयन सदा देवान दानवा घॊररूपिणः 4 वध्यमानं बलं दृष्ट्वा बहुशस तैः पुरंदरः सवसैन्यनायकार्थाय चिन्ताम आप भृशं तदा 5 देवसेनां दानवैर यॊ भग्नां दृष्ट्वा महाबलः पालयेद वीर्यम आश्रित्य स जञेयः पुरुषॊ मया 6 स शैलं मानसं गत्वा धयायन्न अर्थम इमं भृशम शुश्रावार्तस्वरं घॊरम अथ मुक्तं सत्रिया तदा 7 अभिधावतु मा कश चित पुरुषस तरातुचैव ह पतिं च मे परदिशतु सवयं वा पतिर अस्तु मे 8 पुरंदरस तु ताम आह मा भैर नास्ति भयं तव एवम उक्त्वा ततॊ ऽपश्यत केशिनं सथितम अग्रतः 9 किरीटिनं गदापाणिं धातुमन्तम इवाचलम हस्ते गृहीत्वा तां कन्याम अथैनं वासवॊ ऽबरवीत 10 अनार्यकर्मन कस्मात तवम इमां कन्यां जिहीर्षसि वर्जिणं मां विजानीहि विरमास्याः परबाधनात 11 [केषिन] विसृजस्व तवम एवैनां शक्रैषा परार्थिता मया कषमं ते जीवतॊ गन्तुं सवपुरं पाकशासन 12 [मार्क] एवम उक्त्वा गदां केशी चिक्षेपेन्द्र वधाय वै ताम आपतन्तीं चिच्छेद मध्ये वज्रेण वासवः 13 अथास्य शैलशिखरं केशी करुद्धॊ वयवासृजत तद आपतन्तं संप्रेक्ष्य शैलशृङ्गं शतक्रतुः बिभेद राजन वज्रेण भुवि तन निपपात ह 14 पतता तु तदा केशी तेन शृङ्गेण ताडितः हित्वा कन्यां महाभागां पराद्रवद भृशपीडितः 15 अपयाते ऽसुरे तस्मिंस तां कन्यां वासवॊ ऽबरवीत कासि कस्यासि किं चेह कुरुषे तवं शुभानने 16 [कन्या] अहं परजापतेः कन्या देवसेनेति विश्रुता भगिनी दैत्यसेना मे सा पूर्वं केशिना हृता 17 सहैवावां भगिन्यौ तु सखीभिः सह मानसम आगच्छावेह रत्यर्थम अनुज्ञाप्य परजापतिम 18 नित्यं चावां परार्थयते हर्तुं केशी महासुरः इच्छत्य एनं दैत्यसेना न तव अहं पाकशासन 19 सा हृता तेन भगवन मुक्ताहं तवद बलेन तु तवया देवेन्द्र निर्दिष्टं पतिम इच्छामि दुर्जयम 20 [इन्द्र] मम मातृस्वसेया तवं माता दाक्षायणी मम आख्यातं तव अहम इच्छामि सवयम आत्मबलं तवया 21 [कन्या] अबलाहं महाबाहॊ पतिस तु बलवान मम वरदानात पितुर भावी सुरासुरनमस्कृतः 22 [इन्द्र] कीदृशं वै बलं देवि पत्युस तव भविष्यति एतद इच्छाम्य अहं शरॊतुं तव वाक्यम अनिन्दिते 23 [कन्या] देवदानव यक्षाणां किंनरॊरगरक्षसाम जेता स दृष्टॊ दुष्टानां महावीर्यॊ महाबलः 24 यस तु सर्वाणि भूतानि तवया सह विजेष्यति स हि मे भविता भर्ता बरह्मण्यः कीर्तिवर्धनः 25 [मार्क] इन्द्रस तस्या वचॊ शरुत्वा दुःखितॊ ऽचिन्तयद भृशम अस्या देव्याः पतिर नास्ति यादृशं संप्रभाषते 26 अथापश्यत स उदये भास्करं भास्करद्युतिः सॊमं चैव महाभागं विशमानं दिवाकरम 27 अमावास्यां संप्रवृत्तं मुहूर्तं रौद्रम एव च देवासुरं च संग्रामं सॊ ऽपश्यद उदये गिरौ 28 लॊहितैश च घनैर युक्तां पूर्वां संध्यां शतक्रतुः अपश्यल लॊहितॊदं च भगवान वरुणालयम 29 भृगुभिश चाङ्गिरॊभिश च हुतं मन्त्रैः पृथग्विधैः हव्यं गृहीत्वा वह्निं च परविशन्तं दिवाकरम 30 पर्व चैव चतुर्विंशं तदा सूर्यम उपस्थितम तथा धर्मगतं रौद्रं सॊमं सूर्यगतं च तम 31 समालॊक्यैकताम एव शशिनॊ भास्करस्य च समवायं तु तं रौद्रं दृष्ट्वा शक्रॊ वयचिन्तयत 32 एष रौद्रश च संघातॊ महान युक्तश च तेजसा सॊमस्य वह्नि सूर्याभ्याम अद्भुतॊ ऽयं समागमः जनयेद यं सुतं सॊमः सॊ ऽसया देव्याः पतिर भवेत 33 अग्निश्च चैतैर गुणैर युक्तः सर्वैर अग्निश च देवता एष चेज जनयेद गर्भं सॊ ऽसया देव्याः पतिर भवेत 34 एवं संचिन्त्य भगवान बरह्मलॊकं तदा गतः गृहीत्वा देवसेनां ताम अवन्दत स पितामहम उवाच चास्या देव्यास तवं साधु शूरं पतिं दिश 35 [बरह्मा] यथैतच चिन्तितं कार्यं तवया दानव सूदन तथा स भविता गर्भॊ बलवान उरुविक्रमः 36 स भविष्यति सेनानीस तवया सह शतक्रतॊ अस्या देव्याः पतिश चैव स भविष्यति वीर्यवान 37 [मार्क] एतच छरुत्वा नमस तस्मै कृत्वासौ सह कन्यया तत्राभ्यगच्छद देवेन्द्रॊ यत्र देवर्षयॊ ऽभवन वसिष्ठप्रमुखा मुख्या विप्रेन्द्राः सुमहाव्रताः 38 भागार्थं तपसॊपात्तं तेषां सॊमं तथाध्वरे पिपासवॊ ययुर देवाः शतक्रतु पुरॊगमाः 39 इष्टिं कृत्वा यथान्यायं सुसमिद्धे हुताशने जुहुवुस ते महात्मानॊ हव्यं सर्वदिवौकसाम 40 समाहूतॊ हुतवहः सॊ ऽदभुतः सूर्यमण्डलात विनिःसृत्याययौ वह्निर वाग्यतॊ विधिवत परभुः आगम्याहवनीयं वै तैर दविजैर मन्त्रतॊ हुतम 41 स तत्र विविधं हव्यं परतिगृह्य हुताशनः ऋषिभ्यॊ भरतश्रेष्ठ परायच्छत दिवौकसाम 42 निष्क्रामंश चाप्य अपश्यत स पत्नीस तेषां महात्मनाम सवेष्व आश्रमेषूपविष्टाः सनायन्तीश च यथासुखम 43 रुक्मवेदिनिभास तास तु चन्द्रलेखा इवामलाः हुताशनार्चि परतिमाः सर्वास तारा इवाद्भुताः 44 स तद्गतेन मनसा बभूव कषुभितेन्द्रियः पत्नीर दृष्ट्वा दविजेन्द्राणां वह्निः कामवशं ययौ 45 स भूयॊ चिन्तयाम आस न नयाय्यं कषुभितॊ ऽसमि यत साध्वीः पत्नीर दविजेन्द्राणाम अकामाः कामयाम्य अहम 46 नैताः शक्या मया दरष्टुं सप्रष्टुं वाप्य अनिमित्ततः गार्हपत्यं समाविश्य तस्मात पश्याम्य अभीक्ष्णशः 47 संस्पृशन्न इव सर्वास ताः शिखाभिः काञ्चनप्रभाः पश्यमानश च मुमुदे गार्हपत्यं समाश्रितः 48 निरुष्य तत्र सुचिरम एवं वह्निर वशंगतः मनस तासु विनिक्षिप्य कामयानॊ वराङ्गनाः 49 कामसंतप्त हृदयॊ देहत्यागे सुनिश्चितः अलाभे बराह्मण सत्रीणाम अग्निर वनम उपागतः 50 सवाहा तं दक्षदुहिता परथमं कामयत तदा सा तस्य छिद्रम अन्वैच्छच चिरात परभृति भामिनी अप्रमत्तस्य दैवस्य न चापश्यद अनिन्दिता 51 सा तं जञात्वा यथावत तु वह्निं वनम उपागतम तत्त्वतः कामसंतप्तं चिन्तयाम आस भामिनी 52 अहं सप्तर्षिपत्नीनां कृत्वा रूपाणि पावकम कामयिष्यामि कामार्तं तासां रूपेण मॊहितम एवं कृते परीतिर अस्य कामावाप्तिश च मे भवेत |
1
[mārk] agnīnāṃ vividho vaṃśaḥ pīrtitas te mayānagha śṛṇu janma tu kauravya kārttikeyasya dhīmataḥ 2 adbhutasyādbhutaṃ putraṃ pravakṣyāmy amitaujasam jātaṃ saptarṣibhāryābhir brahmaṇyaṃ kīrtivardhanam 3 devāsurāḥ purā yattā vinighnantaḥ parasparam tatrājayan sadā devān dānavā ghorarūpiṇaḥ 4 vadhyamānaṃ balaṃ dṛṣṭvā bahuśas taiḥ puraṃdaraḥ svasainyanāyakārthāya cintām āpa bhṛśaṃ tadā 5 devasenāṃ dānavair yo bhagnāṃ dṛṣṭvā mahābalaḥ pālayed vīryam āśritya sa jñeyaḥ puruṣo mayā 6 sa śailaṃ mānasaṃ gatvā dhyāyann artham imaṃ bhṛśam śuśrāvārtasvaraṃ ghoram atha muktaṃ striyā tadā 7 abhidhāvatu mā kaś cit puruṣas trātucaiva ha patiṃ ca me pradiśatu svayaṃ vā patir astu me 8 puraṃdaras tu tām āha mā bhair nāsti bhayaṃ tava evam uktvā tato 'paśyat keśinaṃ sthitam agrataḥ 9 kirīṭinaṃ gadāpāṇiṃ dhātumantam ivācalam haste gṛhītvā tāṃ kanyām athainaṃ vāsavo 'bravīt 10 anāryakarman kasmāt tvam imāṃ kanyāṃ jihīrṣasi varjiṇaṃ māṃ vijānīhi viramāsyāḥ prabādhanāt 11 [keṣin] visṛjasva tvam evaināṃ śakraiṣā prārthitā mayā kṣamaṃ te jīvato gantuṃ svapuraṃ pākaśāsana 12 [mārk] evam uktvā gadāṃ keśī cikṣependra vadhāya vai tām āpatantīṃ ciccheda madhye vajreṇa vāsavaḥ 13 athāsya śailaśikharaṃ keśī kruddho vyavāsṛjat tad āpatantaṃ saṃprekṣya śailaśṛṅgaṃ śatakratuḥ bibheda rājan vajreṇa bhuvi tan nipapāta ha 14 patatā tu tadā keśī tena śṛṅgeṇa tāḍitaḥ hitvā kanyāṃ mahābhāgāṃ prādravad bhṛśapīḍitaḥ 15 apayāte 'sure tasmiṃs tāṃ kanyāṃ vāsavo 'bravīt kāsi kasyāsi kiṃ ceha kuruṣe tvaṃ śubhānane 16 [kanyā] ahaṃ prajāpateḥ kanyā devaseneti viśrutā bhaginī daityasenā me sā pūrvaṃ keśinā hṛtā 17 sahaivāvāṃ bhaginyau tu sakhībhiḥ saha mānasam āgacchāveha ratyartham anujñāpya prajāpatim 18 nityaṃ cāvāṃ prārthayate hartuṃ keśī mahāsuraḥ icchaty enaṃ daityasenā na tv ahaṃ pākaśāsana 19 sā hṛtā tena bhagavan muktāhaṃ tvad balena tu tvayā devendra nirdiṣṭaṃ patim icchāmi durjayam 20 [indra] mama mātṛsvaseyā tvaṃ mātā dākṣāyaṇī mama ākhyātaṃ tv aham icchāmi svayam ātmabalaṃ tvayā 21 [kanyā] abalāhaṃ mahābāho patis tu balavān mama varadānāt pitur bhāvī surāsuranamaskṛtaḥ 22 [indra] kīdṛśaṃ vai balaṃ devi patyus tava bhaviṣyati etad icchāmy ahaṃ śrotuṃ tava vākyam anindite 23 [kanyā] devadānava yakṣāṇāṃ kiṃnaroragarakṣasām jetā sa dṛṣṭo duṣṭānāṃ mahāvīryo mahābalaḥ 24 yas tu sarvāṇi bhūtāni tvayā saha vijeṣyati sa hi me bhavitā bhartā brahmaṇyaḥ kīrtivardhanaḥ 25 [mārk] indras tasyā vaco śrutvā duḥkhito 'cintayad bhṛśam asyā devyāḥ patir nāsti yādṛśaṃ saṃprabhāṣate 26 athāpaśyat sa udaye bhāskaraṃ bhāskaradyutiḥ somaṃ caiva mahābhāgaṃ viśamānaṃ divākaram 27 amāvāsyāṃ saṃpravṛttaṃ muhūrtaṃ raudram eva ca devāsuraṃ ca saṃgrāmaṃ so 'paśyad udaye girau 28 lohitaiś ca ghanair yuktāṃ pūrvāṃ saṃdhyāṃ śatakratuḥ apaśyal lohitodaṃ ca bhagavān varuṇālayam 29 bhṛgubhiś cāṅgirobhiś ca hutaṃ mantraiḥ pṛthagvidhaiḥ havyaṃ gṛhītvā vahniṃ ca praviśantaṃ divākaram 30 parva caiva caturviṃśaṃ tadā sūryam upasthitam tathā dharmagataṃ raudraṃ somaṃ sūryagataṃ ca tam 31 samālokyaikatām eva śaśino bhāskarasya ca samavāyaṃ tu taṃ raudraṃ dṛṣṭvā śakro vyacintayat 32 eṣa raudraś ca saṃghāto mahān yuktaś ca tejasā somasya vahni sūryābhyām adbhuto 'yaṃ samāgamaḥ janayed yaṃ sutaṃ somaḥ so 'syā devyāḥ patir bhavet 33 agniśc caitair guṇair yuktaḥ sarvair agniś ca devatā eṣa cej janayed garbhaṃ so 'syā devyāḥ patir bhavet 34 evaṃ saṃcintya bhagavān brahmalokaṃ tadā gataḥ gṛhītvā devasenāṃ tām avandat sa pitāmaham uvāca cāsyā devyās tvaṃ sādhu śūraṃ patiṃ diśa 35 [brahmā] yathaitac cintitaṃ kāryaṃ tvayā dānava sūdana tathā sa bhavitā garbho balavān uruvikramaḥ 36 sa bhaviṣyati senānīs tvayā saha śatakrato asyā devyāḥ patiś caiva sa bhaviṣyati vīryavān 37 [mārk] etac chrutvā namas tasmai kṛtvāsau saha kanyayā tatrābhyagacchad devendro yatra devarṣayo 'bhavan vasiṣṭhapramukhā mukhyā viprendrāḥ sumahāvratāḥ 38 bhāgārthaṃ tapasopāttaṃ teṣāṃ somaṃ tathādhvare pipāsavo yayur devāḥ śatakratu purogamāḥ 39 iṣṭiṃ kṛtvā yathānyāyaṃ susamiddhe hutāśane juhuvus te mahātmāno havyaṃ sarvadivaukasām 40 samāhūto hutavahaḥ so 'dbhutaḥ sūryamaṇḍalāt viniḥsṛtyāyayau vahnir vāgyato vidhivat prabhuḥ āgamyāhavanīyaṃ vai tair dvijair mantrato hutam 41 sa tatra vividhaṃ havyaṃ pratigṛhya hutāśanaḥ ṛṣibhyo bharataśreṣṭha prāyacchata divaukasām 42 niṣkrāmaṃś cāpy apaśyat sa patnīs teṣāṃ mahātmanām sveṣv āśrameṣūpaviṣṭāḥ snāyantīś ca yathāsukham 43 rukmavedinibhās tās tu candralekhā ivāmalāḥ hutāśanārci pratimāḥ sarvās tārā ivādbhutāḥ 44 sa tadgatena manasā babhūva kṣubhitendriyaḥ patnīr dṛṣṭvā dvijendrāṇāṃ vahniḥ kāmavaśaṃ yayau 45 sa bhūyo cintayām āsa na nyāyyaṃ kṣubhito 'smi yat sādhvīḥ patnīr dvijendrāṇām akāmāḥ kāmayāmy aham 46 naitāḥ śakyā mayā draṣṭuṃ spraṣṭuṃ vāpy animittataḥ gārhapatyaṃ samāviśya tasmāt paśyāmy abhīkṣṇaśaḥ 47 saṃspṛśann iva sarvās tāḥ śikhābhiḥ kāñcanaprabhāḥ paśyamānaś ca mumude gārhapatyaṃ samāśritaḥ 48 niruṣya tatra suciram evaṃ vahnir vaśaṃgataḥ manas tāsu vinikṣipya kāmayāno varāṅganāḥ 49 kāmasaṃtapta hṛdayo dehatyāge suniścitaḥ alābhe brāhmaṇa strīṇām agnir vanam upāgataḥ 50 svāhā taṃ dakṣaduhitā prathamaṃ kāmayat tadā sā tasya chidram anvaicchac cirāt prabhṛti bhāminī apramattasya daivasya na cāpaśyad aninditā 51 sā taṃ jñātvā yathāvat tu vahniṃ vanam upāgatam tattvataḥ kāmasaṃtaptaṃ cintayām āsa bhāminī 52 ahaṃ saptarṣipatnīnāṃ kṛtvā rūpāṇi pāvakam kāmayiṣyāmi kāmārtaṃ tāsāṃ rūpeṇa mohitam evaṃ kṛte prītir asya kāmāvāptiś ca me bhavet |
The Mahabharata in Sanskrit
Book 3
Chapter 214
|
1
[मार्क] शिवा भार्या तवाङ्गिरसः शीलरूपगुणान्विता तस्याः सा परथमं रूपं कृत्वा देवी जनाधिप जगाम पावकाभ्याशं तं चॊवाच वराङ्गना 2 माम अग्ने कामसंतप्तां तवं कामयितुम अर्हसि करिष्यसि न चेद एवं मृतां माम उपधारय 3 अहम अङ्गिरसॊ भार्या शिवा नाम हुताशन सखीभिः सहिता पराप्ता मन्त्रयित्वा विनिश्चयम 4 [अग्नि] कथं मां तवं विजानीषे कामार्तम इतराः कथम यास तवया कीर्तिताः सर्वाः सप्तर्षीणां परियाः सत्रियः 5 [षिवा] अस्माकं तवं परियॊ नित्यं बिभीमस तु वयं तव तवच चित्तम इङ्गितैर जञात्वा परेषितास्मि तवान्तिकम 6 मैथुनायेह संप्राप्ता कामं पराप्तं दरुतं चर मातरॊ मां परतीक्षन्ते गमिष्यामि हुताशन 7 [मार्क] ततॊ ऽगनिर उपयेमे तां शिवां परीतिमुदा युतः परीत्या देवी च संयुक्ता शुक्रं जग्राह पाणिना 8 अचिन्तयन ममेदं ये रूपं दरक्ष्यन्ति कानने ते बराह्मणीनाम अनृतं दॊषं वक्ष्यन्ति पावके 9 तस्माद एतद दरक्ष्यमाणा गरुडी संभवाम्य अहम वनान निर्गमनं चैव सुखं मम भविष्यति 10 सुपर्णी सा तदा भूत्वा निर्जगाम महावनात अपश्यत पर्वतं शवेतं शरस्तम्बैः सुसंवृतम 11 दृष्टी विषैः सप्त शीर्षैर गुप्तं भॊगिभिर अद्भुतैः रक्षॊभिश च पिशाचैश च रौद्रैर भूतगणैस तथा राक्षसीभिश च संपूर्णम अनेकैश च मृगद्विजैः 12 सा तत्र सहसा गत्वा शैलपृष्ठं सुदुर्गमम पराक्षिपत काञ्चने कुण्डे शुक्रं सा तवरिता सती 13 शिष्टानाम अपि सा देवी सप्तर्षीणां महात्मनाम पत्नी सरूपतां कृत्वा कामयाम आस पावकम 14 दिव्यरूपम अरुन्धत्याः कर्तुं न शकितं तया तस्यास तपः परभावेण भर्तृशुश्रूषणेन च 15 षट्कृत्वस तत तु निक्षिप्तम अग्ने रेतॊ कुरूत्तम तस्मिन कुण्टे परतिपदि कामिन्या सवाहया तदा 16 तत सकन्नं तेजसा तत्र संभृतं जनयत सुतम ऋषिभिः पूजितं सकन्नम अनयत सकन्दतां ततः 17 षट्शिरा दविगुणश्रॊत्रॊ दवादशाक्षि भुजक्रमः एकग्रीपस तव एककायः कुमारः समपद्यत 18 दवितीयायाम अभिव्यक्तस तृतीयायां शिशुर बभौ अङ्गप्रत्यङ्ग संभूतश चतुर्थ्याम अभवद गुहः 19 लॊहिताभ्रेण महता संवृतः सह विद्युता लॊहिताभ्रे सुमहति भाति सूर्य इवॊदितः 20 गृहीतं तु धनुस तेन विपुलं लॊमहर्षणम नयस्तं यत तरिपुरघ्नेन सुरारिविनिकृन्तनम 21 तद्गृहीत्वा धनुःश्रेष्ठं ननाद बलवांस तदा संमॊहयन्न इवेमां स तरीँल लॊकान सचराचरान 22 तस्य तं निनदं शरुत्वा महामेघौघनिस्वनम उत्पेततुर महानागौ चित्रश चैरावतश च ह 23 ताव आपतन्तौ संप्रेक्ष्य स बालार्कसमद्युथिः दवाभ्यां गृहीत्वा पाणिभ्यां शक्तिं चान्येन पाणिना अपरेणाग्निदायादस ताम्रचूडं भुजेन सः 24 महाकायम उपश्लिष्टं कुक्कुटं बलिनां वरम गृहीत्वा वयनदद भीमं चिक्रीड च महाबलः 25 दवाभ्यां भुजाभ्यां बलवान गृहीत्वा शङ्खम उत्तमम पराध्मापयत भूतानां तरासनं बलिनाम अपि 26 दवाभ्यां भुजाभ्याम आकाशं बहुशॊ निजघान सः करीडन भाति महासेनस तरीँल लॊकान वदनैः पिबन पर्वताग्रे ऽपरमेयात्मा रश्मिमान उदये यथा 27 स तस्य पर्वतस्याग्रे निषण्णॊ ऽदभुतविक्रमः वयलॊकयद अमेयात्मा मुखैर नानाविधैर दिशः स पश्यन विविधान भावांश चकार निनदं पुनः 28 तस्य तं निनदं शरुत्वा नयपतन बहुधा जनाः भीताश चॊद्विग्न मनसस तम एव शरणं ययुः 29 ये तु तं संश्रिता देवं नानावर्णास तदा जनाः तान अप्य आहुः पारिषदान बराह्मणाः सुमहाबलान 30 स तूत्थाय महाबाहुर उपसान्त्व्य च ताञ जनान धनुर विकृष्य वयसृजद बाणाञ शवेते महागिरौ 31 बिभेद स शरैः शैलं करौञ्चं हिमवतः सुतम तेन हंसाश च गृघ्राश च मेरुं गच्छन्ति पर्वतम 32 स विशीर्णॊ ऽपतच छैलॊ भृशम आर्तस्वरान रुवन तस्मिन निपतिते तव अन्ये नेदुः शैला भृशं भयात 33 स तं नादं भृशार्तानां शरुत्वापि बलिनां वरः न पराव्यथद अमेयात्मा शक्तिम उद्यम्य चानदत 34 सा तदा विपुला शक्तिः कषिप्ता तेन महात्मना बिभेद शिखरं घॊरं शवेतस्य तरसा गिरौ 35 स तेनाभिहतॊ दीनॊ गिरिः शवेतॊ ऽचलैः सह उत्पपात महीं तयक्त्वा भीतस तस्मान महात्मनः 36 ततः परव्यथिता भूमिर वयशीर्यत समन्ततः आर्ता सकन्दं समासाद्य पुनर बलवती बभौ 37 पर्वताश च नमस्कृत्य तम एव पृथिवीं गताः अथायम अभजल लॊकः सकन्द शुक्लस्य पञ्चमीम |
1
[mārk] śivā bhāryā tvāṅgirasaḥ śīlarūpaguṇānvitā tasyāḥ sā prathamaṃ rūpaṃ kṛtvā devī janādhipa jagāma pāvakābhyāśaṃ taṃ covāca varāṅganā 2 mām agne kāmasaṃtaptāṃ tvaṃ kāmayitum arhasi kariṣyasi na ced evaṃ mṛtāṃ mām upadhāraya 3 aham aṅgiraso bhāryā śivā nāma hutāśana sakhībhiḥ sahitā prāptā mantrayitvā viniścayam 4 [agni] kathaṃ māṃ tvaṃ vijānīṣe kāmārtam itarāḥ katham yās tvayā kīrtitāḥ sarvāḥ saptarṣīṇāṃ priyāḥ striyaḥ 5 [ṣivā] asmākaṃ tvaṃ priyo nityaṃ bibhīmas tu vayaṃ tava tvac cittam iṅgitair jñātvā preṣitāsmi tavāntikam 6 maithunāyeha saṃprāptā kāmaṃ prāptaṃ drutaṃ cara mātaro māṃ pratīkṣante gamiṣyāmi hutāśana 7 [mārk] tato 'gnir upayeme tāṃ śivāṃ prītimudā yutaḥ prītyā devī ca saṃyuktā śukraṃ jagrāha pāṇinā 8 acintayan mamedaṃ ye rūpaṃ drakṣyanti kānane te brāhmaṇīnām anṛtaṃ doṣaṃ vakṣyanti pāvake 9 tasmād etad drakṣyamāṇā garuḍī saṃbhavāmy aham vanān nirgamanaṃ caiva sukhaṃ mama bhaviṣyati 10 suparṇī sā tadā bhūtvā nirjagāma mahāvanāt apaśyat parvataṃ śvetaṃ śarastambaiḥ susaṃvṛtam 11 dṛṣṭī viṣaiḥ sapta śīrṣair guptaṃ bhogibhir adbhutaiḥ rakṣobhiś ca piśācaiś ca raudrair bhūtagaṇais tathā rākṣasībhiś ca saṃpūrṇam anekaiś ca mṛgadvijaiḥ 12 sā tatra sahasā gatvā śailapṛṣṭhaṃ sudurgamam prākṣipat kāñcane kuṇḍe śukraṃ sā tvaritā satī 13 śiṣṭānām api sā devī saptarṣīṇāṃ mahātmanām patnī sarūpatāṃ kṛtvā kāmayām āsa pāvakam 14 divyarūpam arundhatyāḥ kartuṃ na śakitaṃ tayā tasyās tapaḥ prabhāveṇa bhartṛśuśrūṣaṇena ca 15 ṣaṭkṛtvas tat tu nikṣiptam agne reto kurūttama tasmin kuṇṭe pratipadi kāminyā svāhayā tadā 16 tat skannaṃ tejasā tatra saṃbhṛtaṃ janayat sutam ṛṣibhiḥ pūjitaṃ skannam anayat skandatāṃ tataḥ 17 ṣaṭśirā dviguṇaśrotro dvādaśākṣi bhujakramaḥ ekagrīpas tv ekakāyaḥ kumāraḥ samapadyata 18 dvitīyāyām abhivyaktas tṛtīyāyāṃ śiśur babhau aṅgapratyaṅga saṃbhūtaś caturthyām abhavad guhaḥ 19 lohitābhreṇa mahatā saṃvṛtaḥ saha vidyutā lohitābhre sumahati bhāti sūrya ivoditaḥ 20 gṛhītaṃ tu dhanus tena vipulaṃ lomaharṣaṇam nyastaṃ yat tripuraghnena surārivinikṛntanam 21 tadgṛhītvā dhanuḥśreṣṭhaṃ nanāda balavāṃs tadā saṃmohayann ivemāṃ sa trīṁl lokān sacarācarān 22 tasya taṃ ninadaṃ śrutvā mahāmeghaughanisvanam utpetatur mahānāgau citraś cairāvataś ca ha 23 tāv āpatantau saṃprekṣya sa bālārkasamadyuthiḥ dvābhyāṃ gṛhītvā pāṇibhyāṃ śaktiṃ cānyena pāṇinā apareṇāgnidāyādas tāmracūḍaṃ bhujena saḥ 24 mahākāyam upaśliṣṭaṃ kukkuṭaṃ balināṃ varam gṛhītvā vyanadad bhīmaṃ cikrīḍa ca mahābalaḥ 25 dvābhyāṃ bhujābhyāṃ balavān gṛhītvā śaṅkham uttamam prādhmāpayata bhūtānāṃ trāsanaṃ balinām api 26 dvābhyāṃ bhujābhyām ākāśaṃ bahuśo nijaghāna saḥ krīḍan bhāti mahāsenas trīṁl lokān vadanaiḥ piban parvatāgre 'prameyātmā raśmimān udaye yathā 27 sa tasya parvatasyāgre niṣaṇṇo 'dbhutavikramaḥ vyalokayad ameyātmā mukhair nānāvidhair diśaḥ sa paśyan vividhān bhāvāṃś cakāra ninadaṃ punaḥ 28 tasya taṃ ninadaṃ śrutvā nyapatan bahudhā janāḥ bhītāś codvigna manasas tam eva śaraṇaṃ yayuḥ 29 ye tu taṃ saṃśritā devaṃ nānāvarṇās tadā janāḥ tān apy āhuḥ pāriṣadān brāhmaṇāḥ sumahābalān 30 sa tūtthāya mahābāhur upasāntvya ca tāñ janān dhanur vikṛṣya vyasṛjad bāṇāñ śvete mahāgirau 31 bibheda sa śaraiḥ śailaṃ krauñcaṃ himavataḥ sutam tena haṃsāś ca gṛghrāś ca meruṃ gacchanti parvatam 32 sa viśīrṇo 'patac chailo bhṛśam ārtasvarān ruvan tasmin nipatite tv anye neduḥ śailā bhṛśaṃ bhayāt 33 sa taṃ nādaṃ bhṛśārtānāṃ śrutvāpi balināṃ varaḥ na prāvyathad ameyātmā śaktim udyamya cānadat 34 sā tadā vipulā śaktiḥ kṣiptā tena mahātmanā bibheda śikharaṃ ghoraṃ śvetasya tarasā girau 35 sa tenābhihato dīno giriḥ śveto 'calaiḥ saha utpapāta mahīṃ tyaktvā bhītas tasmān mahātmanaḥ 36 tataḥ pravyathitā bhūmir vyaśīryata samantataḥ ārtā skandaṃ samāsādya punar balavatī babhau 37 parvatāś ca namaskṛtya tam eva pṛthivīṃ gatāḥ athāyam abhajal lokaḥ skanda śuklasya pañcamīm |
The Mahabharata in Sanskrit
Book 3
Chapter 215
|
1
[मार्क] ऋषयस तु महाघॊरान दृष्ट्वॊत्पातान पृथग्विधान अकुर्वञ शान्तिम उद्विग्ना लॊकानां मॊक भावनाः 2 निवसन्ति वने ये तु तस्मिंश चैत्ररथे जनाः ते ऽबरुवन्न एष नॊ ऽनर्थः पावकेनाहृतॊ महान संगम्य षड्भिः पत्नीभिः सप्तर्षीणाम इति सम ह 3 अपरे गरुडीम आहुस तवयानर्थॊ ऽयम आहृतः यैर दृष्टा सा तदा देवी तस्या रूपेण गच्छती न तु तत सवाहया कर्मकृतं जानाति वै जनः 4 सुपर्णी तु वचॊ शरुत्वा ममायं तनयस तव इति उपगम्य शनैः सकन्दम आहाहं जननी तव 5 अथ सप्तर्षयः शरुत्वा जातं पुत्रं महौजसम तत्यजुः षट तदा पत्नीर विना देवीम अरुन्धतीम 6 षड्भिर एव तदा जातम आहुस तद वनवासिनः सप्तर्षीन आह च सवाहा मम पुत्रॊ ऽयम इत्य उत अहं जाने नैतद एवम इति राजन पुनः पुनः 7 विश्वामित्रस तु कृत्वेष्टिं सप्तर्षीणां महामुनिः पावकं कामसंतप्तम अदृष्टः पृष्ठतॊ ऽनवगात तत तेन निखिलं सर्वम अवबुद्धं यथातथम 8 विश्वामित्रस तु परथमं कुमारं शरणं गतः सतवं दिव्यं संप्रचक्रे महासेनस्य चापि सः 9 मङ्गलानि च सर्वाणि कौमाराणि तरयॊदश जातकर्मादिकास तस्य करियाश चक्रे महामुनिः 10 षड वक्त्रस्य तु माहात्म्यं कुक्कुटस्य च साधनम शक्त्या देव्याः साधनं च तथा पारिषदाम अपि 11 विश्वामित्रश चकारैतत कर्म लॊकहिताय वै तस्माद ऋषिः कुमारस्य विश्वामित्राभवत परियः 12 अन्वजानाच च सवाहाया रूपान्यत्वं महामुनिः अब्रवीच च मुनी सर्वान नापराध्यन्ति वै सत्रियः शरुत्वा तु तत्त्वतस तस्मात ते पत्नीः सर्वतॊ ऽतयजन 13 सकन्दं शरुत्वा ततॊ देवा वासवं सहिताब्रुवन अविषह्य बलं सकन्दं जहि शक्राशु माचिरम 14 यदि वा न निहन्स्य एनम अद्येन्द्रॊ ऽयं भविष्यति तरैलॊक्यं संनिगृह्यास्मांस तवां च शक्र महाबलः 15 स तान उवाच वयथितॊ बालॊ ऽयं सुमहाबलः सरष्टारम अपि लॊकानां युधि विक्रम्य नाशयेत 16 सर्वास तवयाभिगच्छन्तु सकन्दं लॊकस्य मातरः कामवीर्या घनन्तु चैनं तथेत्य उक्त्वा च ता ययुः 17 तम अप्रतिबलं दृष्ट्वा विषण्णवनदास तु ताः अशक्यॊ ऽयं विचिन्त्यैवं तम एव शरणं ययुः 18 ऊचुश चापि तवम अस्माकं पुत्रास्माभिर धृतं जगत अभिनन्दस्व नः सर्वाः परस्नुताः सनेहविक्लवाः 19 ताः संपूज्य महासेनः कामांश चासां परदाय सः अपश्यद अग्निम आयान्तं पितरं बलिनां बली 20 स तु संपूजितस तेन सह मातृगणेन ह परिवार्य महासेनं रक्षमाणः सथितः सथिरम 21 सर्वासां या तु मातॄणां नारी करॊधसमुद्भवा धात्री सा पुत्रवत सकन्दं शूलहस्ताभ्यरक्षत 22 लॊहितस्यॊदधेः कन्या करूरा लॊहितभॊजना परिष्वज्य महासेनं पुत्रवत पर्यरक्षत 23 अग्निर भूत्वा नैगमेयश छाग वक्त्रॊ बहु परजः रमयाम आस शैलस्थं बालं करीडनकैर इव |
1
[mārk] ṛṣayas tu mahāghorān dṛṣṭvotpātān pṛthagvidhān akurvañ śāntim udvignā lokānāṃ moka bhāvanāḥ 2 nivasanti vane ye tu tasmiṃś caitrarathe janāḥ te 'bruvann eṣa no 'narthaḥ pāvakenāhṛto mahān saṃgamya ṣaḍbhiḥ patnībhiḥ saptarṣīṇām iti sma ha 3 apare garuḍīm āhus tvayānartho 'yam āhṛtaḥ yair dṛṣṭā sā tadā devī tasyā rūpeṇa gacchatī na tu tat svāhayā karmakṛtaṃ jānāti vai janaḥ 4 suparṇī tu vaco śrutvā mamāyaṃ tanayas tv iti upagamya śanaiḥ skandam āhāhaṃ jananī tava 5 atha saptarṣayaḥ śrutvā jātaṃ putraṃ mahaujasam tatyajuḥ ṣaṭ tadā patnīr vinā devīm arundhatīm 6 ṣaḍbhir eva tadā jātam āhus tad vanavāsinaḥ saptarṣīn āha ca svāhā mama putro 'yam ity uta ahaṃ jāne naitad evam iti rājan punaḥ punaḥ 7 viśvāmitras tu kṛtveṣṭiṃ saptarṣīṇāṃ mahāmuniḥ pāvakaṃ kāmasaṃtaptam adṛṣṭaḥ pṛṣṭhato 'nvagāt tat tena nikhilaṃ sarvam avabuddhaṃ yathātatham 8 viśvāmitras tu prathamaṃ kumāraṃ śaraṇaṃ gataḥ stavaṃ divyaṃ saṃpracakre mahāsenasya cāpi saḥ 9 maṅgalāni ca sarvāṇi kaumārāṇi trayodaśa jātakarmādikās tasya kriyāś cakre mahāmuniḥ 10 ṣaḍ vaktrasya tu māhātmyaṃ kukkuṭasya ca sādhanam śaktyā devyāḥ sādhanaṃ ca tathā pāriṣadām api 11 viśvāmitraś cakāraitat karma lokahitāya vai tasmād ṛṣiḥ kumārasya viśvāmitrābhavat priyaḥ 12 anvajānāc ca svāhāyā rūpānyatvaṃ mahāmuniḥ abravīc ca munī sarvān nāparādhyanti vai striyaḥ śrutvā tu tattvatas tasmāt te patnīḥ sarvato 'tyajan 13 skandaṃ śrutvā tato devā vāsavaṃ sahitābruvan aviṣahya balaṃ skandaṃ jahi śakrāśu māciram 14 yadi vā na nihansy enam adyendro 'yaṃ bhaviṣyati trailokyaṃ saṃnigṛhyāsmāṃs tvāṃ ca śakra mahābalaḥ 15 sa tān uvāca vyathito bālo 'yaṃ sumahābalaḥ sraṣṭāram api lokānāṃ yudhi vikramya nāśayet 16 sarvās tvayābhigacchantu skandaṃ lokasya mātaraḥ kāmavīryā ghnantu cainaṃ tathety uktvā ca tā yayuḥ 17 tam apratibalaṃ dṛṣṭvā viṣaṇṇavanadās tu tāḥ aśakyo 'yaṃ vicintyaivaṃ tam eva śaraṇaṃ yayuḥ 18 ūcuś cāpi tvam asmākaṃ putrāsmābhir dhṛtaṃ jagat abhinandasva naḥ sarvāḥ prasnutāḥ snehaviklavāḥ 19 tāḥ saṃpūjya mahāsenaḥ kāmāṃś cāsāṃ pradāya saḥ apaśyad agnim āyāntaṃ pitaraṃ balināṃ balī 20 sa tu saṃpūjitas tena saha mātṛgaṇena ha parivārya mahāsenaṃ rakṣamāṇaḥ sthitaḥ sthiram 21 sarvāsāṃ yā tu mātṝṇāṃ nārī krodhasamudbhavā dhātrī sā putravat skandaṃ śūlahastābhyarakṣata 22 lohitasyodadheḥ kanyā krūrā lohitabhojanā pariṣvajya mahāsenaṃ putravat paryarakṣata 23 agnir bhūtvā naigameyaś chāga vaktro bahu prajaḥ ramayām āsa śailasthaṃ bālaṃ krīḍanakair iva |
The Mahabharata in Sanskrit
Book 3
Chapter 216
|
1
[मार्क] गरहाः सॊपग्रहाश चैव ऋषयॊ मातरस तथा हुताशनमुखाश चापि दीप्ताः पारिषदां गणाः 2 एते चान्ये च बहवॊ घॊरास तरिदिववासिनः परिवार्य महासेनं सथिता मातृगणैः सह 3 संदिग्धं विजयं दृष्ट्वा विजयेप्सुः सुरेश्वरः आरुह्यैरावत सकन्धं परययौ दैवतैः सह विजिघांसुर महासेनम इन्द्रस तूर्णतरं ययौ 4 उग्रं तच च महावेगं देवानीकं महाप्रभम विचित्रध्वजसंनाहं नाना वाहन कार्मुकम परवराम्बर संवीतं शरिया जुष्टम अलंकृतम 5 विजिघांसुं तद आयान्तं कुमारः शक्रम अभ्ययात विनदन पथि शक्रस तु दरुतं याति महाबलः संहर्षयन देवसेनां जिघांसुः पावकात्मजम 6 संपूज्यमानस तरिदशैस तथैव परमर्षिभिः समीपम उपसंप्राप्तः कार्त्तिकेयस्य वासवः 7 सिंहनादं ततश चक्रे देवेशः सहितः सुरैः गुहॊ ऽपि शब्दं तं शरुत्वा वयनदत सागरॊ यथा 8 तस्य शब्देन महता समुद्धूतॊदधि परभम बभ्राम तत्र तत्रैव देवसैन्यम अचेतनम 9 जिघांसून उपसंप्राप्तान देवान दृष्ट्वा स पावकिः विससर्ज मुखात करुद्धः परवृद्धाः पावकार्चिषः ता देवसैन्यान्य अदहन वेष्टमानानि भूतले 10 ते परदीप्तशिरॊ देहाः परदीप्तायुध वाहनाः परच्युताः सहसा भान्ति चित्रास तारागणा इव 11 दह्यमानाः परपन्नास ते शरणं पावकात्मजम देवा वज्रधरं तयक्त्वा ततः शान्तिम उपागताः 12 तयक्तॊ देवैस ततः सकन्दे वज्रं शक्राभ्यवासृजत तद विसृष्टं जघानाशु पार्श्वं सकन्दस्य दक्षिणम बिभेद च महाराज पार्श्वं तस्य महात्मनः 13 वज्रप्रहारात सकन्दस्य संजातः पुरुषॊ ऽपरः युवा काञ्चनसंनाहः शक्तिधृग दिव्यकुण्डलः यद वज्रविशनाज जातॊ विशाखस तेन सॊ ऽभवत 14 तं जातम अपरं दृष्ट्वा कालानलसमद्युतिम भयाद इन्द्रस ततः सकन्दं पराञ्जलिः शरणं गतः 15 तस्याभयं ददौ सकन्दः सह सैन्यस्य सत्तम ततः परहृष्टास तरिदशा वादित्राण्य अभ्यवादयन |
1
[mārk] grahāḥ sopagrahāś caiva ṛṣayo mātaras tathā hutāśanamukhāś cāpi dīptāḥ pāriṣadāṃ gaṇāḥ 2 ete cānye ca bahavo ghorās tridivavāsinaḥ parivārya mahāsenaṃ sthitā mātṛgaṇaiḥ saha 3 saṃdigdhaṃ vijayaṃ dṛṣṭvā vijayepsuḥ sureśvaraḥ āruhyairāvata skandhaṃ prayayau daivataiḥ saha vijighāṃsur mahāsenam indras tūrṇataraṃ yayau 4 ugraṃ tac ca mahāvegaṃ devānīkaṃ mahāprabham vicitradhvajasaṃnāhaṃ nānā vāhana kārmukam pravarāmbara saṃvītaṃ śriyā juṣṭam alaṃkṛtam 5 vijighāṃsuṃ tad āyāntaṃ kumāraḥ śakram abhyayāt vinadan pathi śakras tu drutaṃ yāti mahābalaḥ saṃharṣayan devasenāṃ jighāṃsuḥ pāvakātmajam 6 saṃpūjyamānas tridaśais tathaiva paramarṣibhiḥ samīpam upasaṃprāptaḥ kārttikeyasya vāsavaḥ 7 siṃhanādaṃ tataś cakre deveśaḥ sahitaḥ suraiḥ guho 'pi śabdaṃ taṃ śrutvā vyanadat sāgaro yathā 8 tasya śabdena mahatā samuddhūtodadhi prabham babhrāma tatra tatraiva devasainyam acetanam 9 jighāṃsūn upasaṃprāptān devān dṛṣṭvā sa pāvakiḥ visasarja mukhāt kruddhaḥ pravṛddhāḥ pāvakārciṣaḥ tā devasainyāny adahan veṣṭamānāni bhūtale 10 te pradīptaśiro dehāḥ pradīptāyudha vāhanāḥ pracyutāḥ sahasā bhānti citrās tārāgaṇā iva 11 dahyamānāḥ prapannās te śaraṇaṃ pāvakātmajam devā vajradharaṃ tyaktvā tataḥ śāntim upāgatāḥ 12 tyakto devais tataḥ skande vajraṃ śakrābhyavāsṛjat tad visṛṣṭaṃ jaghānāśu pārśvaṃ skandasya dakṣiṇam bibheda ca mahārāja pārśvaṃ tasya mahātmanaḥ 13 vajraprahārāt skandasya saṃjātaḥ puruṣo 'paraḥ yuvā kāñcanasaṃnāhaḥ śaktidhṛg divyakuṇḍalaḥ yad vajraviśanāj jāto viśākhas tena so 'bhavat 14 taṃ jātam aparaṃ dṛṣṭvā kālānalasamadyutim bhayād indras tataḥ skandaṃ prāñjaliḥ śaraṇaṃ gataḥ 15 tasyābhayaṃ dadau skandaḥ saha sainyasya sattama tataḥ prahṛṣṭās tridaśā vāditrāṇy abhyavādayan |
The Mahabharata in Sanskrit
Book 3
Chapter 217
|
1
[मार्क] सकन्दस्य पार्षदान घॊराञ शृणुष्वाद्भुत दर्शनान वज्रप्रहारात सकन्दस्य जज्ञुस तत्र कुमारकाः ये हरन्ति शिशूञ जातान गर्भस्थांश चैव दारुणाः 2 वज्रप्रहारात कन्याश च जज्ञिरे ऽसय महाबलाः कुमाराश च विशाखं तं पितृत्वे समकल्पयन 3 स भूत्वा भगवान संख्ये रक्षंश छाग मुखस तदा वृतः कन्या गणैः सर्वैर आत्मनीनैश च पुत्रकैः 4 मातॄणां परेक्षतीनां च भद्रशाखश च कौशलः ततः कुमार पितरं सकन्दम आहुर जना भुवि 5 रुद्रम अग्निम उमां सवाहां परदेशेषु महाबलाम यजन्ति पुत्र कामाश च पुत्रिणश च सदा जनाः 6 यास तास तव अजनयत कन्यास तपॊ नाम हुताशनः किं करॊमीति ताः सकन्दं संप्राप्ताः समभाषत 7 [मातरह] भवेम सर्वलॊकस्य वयं मातर उत्तमाः परसादात तव पूज्याश च परियम एतत कुरुष्व नः 8 [मार्क] सॊ ऽबरवीद बाढम इत्य एवं भविष्यध्वं पृथग्विधाः अशिवाश च शिवाश चैव पुनः पुनर उदारधीः 9 ततः संकल्प्य पुत्रत्वे सकंदं मातृगणॊ ऽगमत काकी च हलिमा चैव रुद्राथ बृहली तथा आर्या पलाला वै मित्रा सत्न्प्तैताः शुशु मातरः 10 एतासां वीर्यसंपन्नः शिशुर नामातिदारुणः सकन्द परसादजः पुत्रॊ लॊहिताक्षॊ भयंकरः 11 एष वीराष्टकः परॊक्तः सकन्द मातृगणॊद्भवः छाग वक्त्रेण सहितॊ नवकः परिकीर्यते 12 षष्ठं छागमयं वक्त्रं सकन्दस्यैवेति विद्धि तत षष षिरॊ ऽभयन्तरं राजन नित्यं मातृगणार्चितम 13 षण्णां तु परवरं तस्य शीर्षाणाम इह शब्द्यते शक्तिं येनासृजद दिव्यां भद्रशाख इति सम ह 14 इत्य एतद विविधाकारं वृत्तं शुक्लस्य पञ्चमीम तत्र युद्धं महाघॊरं वृत्तं षष्ठ्यां जनाधिप |
1
[mārk] skandasya pārṣadān ghorāñ śṛṇuṣvādbhuta darśanān vajraprahārāt skandasya jajñus tatra kumārakāḥ ye haranti śiśūñ jātān garbhasthāṃś caiva dāruṇāḥ 2 vajraprahārāt kanyāś ca jajñire 'sya mahābalāḥ kumārāś ca viśākhaṃ taṃ pitṛtve samakalpayan 3 sa bhūtvā bhagavān saṃkhye rakṣaṃś chāga mukhas tadā vṛtaḥ kanyā gaṇaiḥ sarvair ātmanīnaiś ca putrakaiḥ 4 mātṝṇāṃ prekṣatīnāṃ ca bhadraśākhaś ca kauśalaḥ tataḥ kumāra pitaraṃ skandam āhur janā bhuvi 5 rudram agnim umāṃ svāhāṃ pradeśeṣu mahābalām yajanti putra kāmāś ca putriṇaś ca sadā janāḥ 6 yās tās tv ajanayat kanyās tapo nāma hutāśanaḥ kiṃ karomīti tāḥ skandaṃ saṃprāptāḥ samabhāṣata 7 [mātarah] bhavema sarvalokasya vayaṃ mātara uttamāḥ prasādāt tava pūjyāś ca priyam etat kuruṣva naḥ 8 [mārk] so 'bravīd bāḍham ity evaṃ bhaviṣyadhvaṃ pṛthagvidhāḥ aśivāś ca śivāś caiva punaḥ punar udāradhīḥ 9 tataḥ saṃkalpya putratve skaṃdaṃ mātṛgaṇo 'gamat kākī ca halimā caiva rudrātha bṛhalī tathā āryā palālā vai mitrā satnptaitāḥ śuśu mātaraḥ 10 etāsāṃ vīryasaṃpannaḥ śiśur nāmātidāruṇaḥ skanda prasādajaḥ putro lohitākṣo bhayaṃkaraḥ 11 eṣa vīrāṣṭakaḥ proktaḥ skanda mātṛgaṇodbhavaḥ chāga vaktreṇa sahito navakaḥ parikīryate 12 ṣaṣṭhaṃ chāgamayaṃ vaktraṃ skandasyaiveti viddhi tat ṣaṣ ṣiro 'bhyantaraṃ rājan nityaṃ mātṛgaṇārcitam 13 ṣaṇṇāṃ tu pravaraṃ tasya śīrṣāṇām iha śabdyate śaktiṃ yenāsṛjad divyāṃ bhadraśākha iti sma ha 14 ity etad vividhākāraṃ vṛttaṃ śuklasya pañcamīm tatra yuddhaṃ mahāghoraṃ vṛttaṃ ṣaṣṭhyāṃ janādhipa |
The Mahabharata in Sanskrit
Book 3
Chapter 218
|
1
[मार्क] उपविष्टं ततः सकन्दं हिरण्यकवच सरजम हिरण्यचूड मुकुटं हिरण्याक्षं महाप्रभम 2 लॊहिताम्बर संवीतं तीक्ष्णदंष्ट्रं मनॊरमम सर्वलक्षणसंपन्नं तरैलॊक्यस्यापि सुप्रियम 3 ततस तं वरदं शूरं युवानं मृष्टकुण्डलम अभजत पद्मरूपा शरीः सवयम एव शरीरिणी 4 शरिया जुष्टः पृथु यशाः स कुमार वरस तदा निषण्णॊ दृश्यते भूतैः पौर्णमास्यां यथा शशी 5 अपूजयन महात्मानॊ बराह्मणास तं महाबलम इदम आहुस तदा चैव सकन्दं तत्र महर्षयः 6 हिरण्यवर्णभद्रं ते लॊकानां शंकरॊ भव तवया षष रात्रजातेन सर्वे लॊका वशीकृताः 7 अभयं च पुनर दत्तं तवयैवैषां सुरॊत्तम तस्माद इन्द्रॊ भवान अस्तु तरैलॊक्यस्याभयंकरः 8 [सकन्द] किम इन्द्रः सर्वलॊकानां करॊतीह तपॊधनाः कथं देव गनांश चैव पाति नित्यं सुरेश्वरः 9 [रसयह] इन्द्रॊ दिशति भूतानां बलं तेजॊ परजाः सुखम तुष्टः परयच्छति तथा सर्वान दायान सुरेश्वरः 10 दुर्वृत्तानां संहरति वृत्तस्थानां परयच्छति अनुशास्ति च भूतानि कार्येषु बलसूदनः 11 असूर्ये च भवेत सूर्यस तथाचन्द्रे च चन्द्रमाः भवत्य अग्निश च वायुश च पृथिव्य आपश च कारणैः 12 एतद इन्द्रेण कर्तव्यम इन्द्रे हि विपुलं बलम तवं च वीर बलश्रेष्ठस तस्माद इन्द्रॊ भवस्व नः 13 [षक्र] भवस्वेन्द्रॊ महाबाहॊ सर्वेषां नः सुखावहः अभिषिच्यस्व चैवाद्य पराप्तरूपॊ ऽसि सत्तम 14 [सकन्द] शाधि तवम एव तरैलॊक्यम अव्यग्रॊ विजये रतः अहं ते किंकरः शक्र न ममेन्द्रत्वम ईप्सितम 15 [षक्र] बलं तवाद्भुतं वीर तवं देवानाम अरीञ जहि अवज्ञास्यन्ति मां लॊका वीर्येण तव विस्मिताः 16 इन्द्रत्वे ऽपि सथितं वीर बलहीनं पराजितम आवयॊश च मिथॊ भेदे परयतिष्यन्त्य अतन्द्रिताः 17 भेदिते च तवयि विभॊ लॊकॊ दवैधम उपेष्यति दविधा भूतेषु लॊकेषु निश्चितेष्व आवयॊस तथा विग्रहः संप्रवर्तेत भूतभेदान महाबल 18 तत्र तवं मां रणे तात यथाश्रद्धं विजेष्यसि तस्माद इन्द्रॊ भवान अद्य भविता मा विचारय 19 [सकन्द] तवम एव राजा भद्रं ते तरैलॊक्यस्य ममैव च करॊमि किं च ते शक्र शासनं तद बरवीहि मे 20 [षक्र] यदि सत्यम इदं वाक्यं निश्चयाद भाषितं तवया यदि वा शासनं सकन्द कर्तुम इच्छसि मे शृणु 21 अभिषिच्यस्व देवानां सेनापत्ये महाबल अहम इन्द्रॊ भविष्यामि तव वाक्यान महाबल 22 [सकन्द] दानवानां विनाशाय देवानाम अर्थसिद्धये गॊब्राह्मणस्य तराणार्थं सेनापत्ये ऽभिषिञ्च माम 23 [मार्क] सॊ ऽभिषिक्तॊ मघवता सर्वैर देवगणैः सह अतीव शुशुभे तत्र पूज्यमानॊ महर्षिभिः 24 तस्य तत काञ्चनं छत्रं धरियमाणं वयरॊचत यथैव सुसमिद्धस्य पावकस्यात्म मण्डलम 25 विश्वकर्म कृता चास्य दिव्या माला हिरण्मयी आबद्धा तरिपुरघ्नेन सवयम एव यशस्विना 26 आगम्य मनुजव्याघ्रसहदेव्या परंतप अर्चयाम आस सुप्रीतॊ भगवान गॊवृषध्वजः 27 रुद्रम अग्निं दविजाः पराहू रुद्र सूनुस ततस तु सः रुद्रेण शुक्रम उत्सृष्टं तच छवेतः पर्वतॊ ऽभवत पावकस्येन्द्रियं शवेते कृत्तिकाभिः कृतं नगे 28 पूज्यमानं तु रुद्रेण दृष्ट्वा सर्वे दिवौकसः रुद्र सूनुं ततः पराहुर गुहं गुणवतां वरम 29 अनुप्रविश्य रुद्रेण वह्निं जातॊ हय अयं शिशुः तत्र जातस ततः सकन्दॊ रुद्र सूनुस ततॊ ऽभवत 30 रुद्रस्य वह्नेः सवाहायाः षण्णां सत्रीणां च तेजसा जातः सकन्दः सुरश्रेष्ठॊ रुद्र सूनुस ततॊ ऽभवत 31 अरजे वाससी रक्ते वसानः पावकात्मजः भाति दीप्तवपुः शरीमान रक्ताभ्राभ्याम इवांशुमान 32 कुक्कुटश चाग्निना दत्तस तस्य केतुर अलंकृतः रथे समुच्छ्रितॊ भाति कालाग्निर इव लॊहितः 33 विवेश कवचं चास्य शरीरं सहजं ततः युध्यमानस्य देहस्य परादुर्भवति तत सदा 34 शक्तिर वर्म बलं तेजॊ कान्तत्वं सत्यम अक्षतिः बरह्मण्यत्वम असंमॊहॊ भक्तानां परिरक्षणम 35 निकृन्तनं च शत्रूणां लॊकानां चाभिरक्षणम सकन्देन सह जातानि सर्वाण्य एव जनाधिप 36 एवं देवगणैः सर्वैः सॊ ऽभिषिक्तः सवलंकृतः बभौ परतीतः सुमनाः परिपूर्णेन्दु दर्शनः 37 इष्टैः सवाध्यायघॊषैश च देव तूर्यरवैर अपि देवगन्धर्वगीतैश च सर्वैर अप्सरसां गणैः 38 एतैश चान्यैश च विविधैर हृष्टतुष्टैर अलंकृतैः करीडन्न इव तदा देवैर अभिषिक्तः स पावकिः 39 अभिषिक्तं महासेनम अपश्यन्त दिवौकसः विनिहत्य तमॊ सूर्यं यथेहाभ्युदितं तथा 40 अथैनम अभ्ययुः सर्वा देव सेनाः सहस्रशः अस्माकं तवं पतिर इति बरुवाणाः सर्वतॊदिशम 41 ताः समासाद्य भगवान सर्वभूतगणैर वृतः अर्चितश च सतुतश चैव सान्त्वयाम आस ता अपि 42 शतक्रतुश चाभिषिच्य सकन्दं सेनापतिं तदा सस्मार तां देव सेनां या सा तेन विमॊक्षिता 43 अयं तस्याः पतिर नूनं विहितॊ बरह्मणा सवयम इति चिन्त्यानयाम आस देवसेनां सवलंकृताम 44 सकन्दं चॊवाच बलभिद इयं कन्या सुरॊत्तम अजाते तवयि निर्दिष्टा तव पत्नी सवयम्भुवा 45 तस्मात तवम अस्या विधिवत पाणिं मन्त्रपुरस्कृतम गृहाण दक्षिणं देव्याः पाणिना पद्मवर्चसम 46 एवम उक्तः स जग्राह तस्याः पाणिं यथाविधि बृहस्पतिर मन्त्रविधं जजाप च जुहाव च 47 एवं सकन्दस्य महिषीं देवसेनां विदुर बुधाः षष्ठीं यां बराह्मणाः पराहुर लक्ष्मीम आशां सुखप्रदाम सिनीवालीं कुहूं चैव सद्वृत्तिम अपराजिताम 48 यदा सकन्दः पतिर लब्धः शाश्वतॊ देवसेनया तदा तम आश्रयल लक्ष्मीः सवयं देवी शरीरिणी 49 शरीजुष्टः पञ्चमीं सकन्दस तस्माच छरी पञ्चमी समृता षष्ठ्यां कृतार्थॊ ऽभूद यस्मात तस्मात षष्ठी महातिथिः |
1
[mārk] upaviṣṭaṃ tataḥ skandaṃ hiraṇyakavaca srajam hiraṇyacūḍa mukuṭaṃ hiraṇyākṣaṃ mahāprabham 2 lohitāmbara saṃvītaṃ tīkṣṇadaṃṣṭraṃ manoramam sarvalakṣaṇasaṃpannaṃ trailokyasyāpi supriyam 3 tatas taṃ varadaṃ śūraṃ yuvānaṃ mṛṣṭakuṇḍalam abhajat padmarūpā śrīḥ svayam eva śarīriṇī 4 śriyā juṣṭaḥ pṛthu yaśāḥ sa kumāra varas tadā niṣaṇṇo dṛśyate bhūtaiḥ paurṇamāsyāṃ yathā śaśī 5 apūjayan mahātmāno brāhmaṇās taṃ mahābalam idam āhus tadā caiva skandaṃ tatra maharṣayaḥ 6 hiraṇyavarṇabhadraṃ te lokānāṃ śaṃkaro bhava tvayā ṣaṣ rātrajātena sarve lokā vaśīkṛtāḥ 7 abhayaṃ ca punar dattaṃ tvayaivaiṣāṃ surottama tasmād indro bhavān astu trailokyasyābhayaṃkaraḥ 8 [skanda] kim indraḥ sarvalokānāṃ karotīha tapodhanāḥ kathaṃ deva ganāṃś caiva pāti nityaṃ sureśvaraḥ 9 [rsayah] indro diśati bhūtānāṃ balaṃ tejo prajāḥ sukham tuṣṭaḥ prayacchati tathā sarvān dāyān sureśvaraḥ 10 durvṛttānāṃ saṃharati vṛttasthānāṃ prayacchati anuśāsti ca bhūtāni kāryeṣu balasūdanaḥ 11 asūrye ca bhavet sūryas tathācandre ca candramāḥ bhavaty agniś ca vāyuś ca pṛthivy āpaś ca kāraṇaiḥ 12 etad indreṇa kartavyam indre hi vipulaṃ balam tvaṃ ca vīra balaśreṣṭhas tasmād indro bhavasva naḥ 13 [ṣakra] bhavasvendro mahābāho sarveṣāṃ naḥ sukhāvahaḥ abhiṣicyasva caivādya prāptarūpo 'si sattama 14 [skanda] śādhi tvam eva trailokyam avyagro vijaye rataḥ ahaṃ te kiṃkaraḥ śakra na mamendratvam īpsitam 15 [ṣakra] balaṃ tavādbhutaṃ vīra tvaṃ devānām arīñ jahi avajñāsyanti māṃ lokā vīryeṇa tava vismitāḥ 16 indratve 'pi sthitaṃ vīra balahīnaṃ parājitam āvayoś ca mitho bhede prayatiṣyanty atandritāḥ 17 bhedite ca tvayi vibho loko dvaidham upeṣyati dvidhā bhūteṣu lokeṣu niściteṣv āvayos tathā vigrahaḥ saṃpravarteta bhūtabhedān mahābala 18 tatra tvaṃ māṃ raṇe tāta yathāśraddhaṃ vijeṣyasi tasmād indro bhavān adya bhavitā mā vicāraya 19 [skanda] tvam eva rājā bhadraṃ te trailokyasya mamaiva ca karomi kiṃ ca te śakra śāsanaṃ tad bravīhi me 20 [ṣakra] yadi satyam idaṃ vākyaṃ niścayād bhāṣitaṃ tvayā yadi vā śāsanaṃ skanda kartum icchasi me śṛṇu 21 abhiṣicyasva devānāṃ senāpatye mahābala aham indro bhaviṣyāmi tava vākyān mahābala 22 [skanda] dānavānāṃ vināśāya devānām arthasiddhaye gobrāhmaṇasya trāṇārthaṃ senāpatye 'bhiṣiñca mām 23 [mārk] so 'bhiṣikto maghavatā sarvair devagaṇaiḥ saha atīva śuśubhe tatra pūjyamāno maharṣibhiḥ 24 tasya tat kāñcanaṃ chatraṃ dhriyamāṇaṃ vyarocata yathaiva susamiddhasya pāvakasyātma maṇḍalam 25 viśvakarma kṛtā cāsya divyā mālā hiraṇmayī ābaddhā tripuraghnena svayam eva yaśasvinā 26 āgamya manujavyāghrasahadevyā paraṃtapa arcayām āsa suprīto bhagavān govṛṣadhvajaḥ 27 rudram agniṃ dvijāḥ prāhū rudra sūnus tatas tu saḥ rudreṇa śukram utsṛṣṭaṃ tac chvetaḥ parvato 'bhavat pāvakasyendriyaṃ śvete kṛttikābhiḥ kṛtaṃ nage 28 pūjyamānaṃ tu rudreṇa dṛṣṭvā sarve divaukasaḥ rudra sūnuṃ tataḥ prāhur guhaṃ guṇavatāṃ varam 29 anupraviśya rudreṇa vahniṃ jāto hy ayaṃ śiśuḥ tatra jātas tataḥ skando rudra sūnus tato 'bhavat 30 rudrasya vahneḥ svāhāyāḥ ṣaṇṇāṃ strīṇāṃ ca tejasā jātaḥ skandaḥ suraśreṣṭho rudra sūnus tato 'bhavat 31 araje vāsasī rakte vasānaḥ pāvakātmajaḥ bhāti dīptavapuḥ śrīmān raktābhrābhyām ivāṃśumān 32 kukkuṭaś cāgninā dattas tasya ketur alaṃkṛtaḥ rathe samucchrito bhāti kālāgnir iva lohitaḥ 33 viveśa kavacaṃ cāsya śarīraṃ sahajaṃ tataḥ yudhyamānasya dehasya prādurbhavati tat sadā 34 śaktir varma balaṃ tejo kāntatvaṃ satyam akṣatiḥ brahmaṇyatvam asaṃmoho bhaktānāṃ parirakṣaṇam 35 nikṛntanaṃ ca śatrūṇāṃ lokānāṃ cābhirakṣaṇam skandena saha jātāni sarvāṇy eva janādhipa 36 evaṃ devagaṇaiḥ sarvaiḥ so 'bhiṣiktaḥ svalaṃkṛtaḥ babhau pratītaḥ sumanāḥ paripūrṇendu darśanaḥ 37 iṣṭaiḥ svādhyāyaghoṣaiś ca deva tūryaravair api devagandharvagītaiś ca sarvair apsarasāṃ gaṇaiḥ 38 etaiś cānyaiś ca vividhair hṛṣṭatuṣṭair alaṃkṛtaiḥ krīḍann iva tadā devair abhiṣiktaḥ sa pāvakiḥ 39 abhiṣiktaṃ mahāsenam apaśyanta divaukasaḥ vinihatya tamo sūryaṃ yathehābhyuditaṃ tathā 40 athainam abhyayuḥ sarvā deva senāḥ sahasraśaḥ asmākaṃ tvaṃ patir iti bruvāṇāḥ sarvatodiśam 41 tāḥ samāsādya bhagavān sarvabhūtagaṇair vṛtaḥ arcitaś ca stutaś caiva sāntvayām āsa tā api 42 śatakratuś cābhiṣicya skandaṃ senāpatiṃ tadā sasmāra tāṃ deva senāṃ yā sā tena vimokṣitā 43 ayaṃ tasyāḥ patir nūnaṃ vihito brahmaṇā svayam iti cintyānayām āsa devasenāṃ svalaṃkṛtām 44 skandaṃ covāca balabhid iyaṃ kanyā surottama ajāte tvayi nirdiṣṭā tava patnī svayambhuvā 45 tasmāt tvam asyā vidhivat pāṇiṃ mantrapuraskṛtam gṛhāṇa dakṣiṇaṃ devyāḥ pāṇinā padmavarcasam 46 evam uktaḥ sa jagrāha tasyāḥ pāṇiṃ yathāvidhi bṛhaspatir mantravidhaṃ jajāpa ca juhāva ca 47 evaṃ skandasya mahiṣīṃ devasenāṃ vidur budhāḥ ṣaṣṭhīṃ yāṃ brāhmaṇāḥ prāhur lakṣmīm āśāṃ sukhapradām sinīvālīṃ kuhūṃ caiva sadvṛttim aparājitām 48 yadā skandaḥ patir labdhaḥ śāśvato devasenayā tadā tam āśrayal lakṣmīḥ svayaṃ devī śarīriṇī 49 śrījuṣṭaḥ pañcamīṃ skandas tasmāc chrī pañcamī smṛtā ṣaṣṭhyāṃ kṛtārtho 'bhūd yasmāt tasmāt ṣaṣṭhī mahātithiḥ |
The Mahabharata in Sanskrit
Book 3
Chapter 219
|
1
[मार्क] शरिया जुष्टं महासेहं देव सेनापतिं कृतम सप्तर्षिपत्न्यः षड देव्यस तत सकाशम अथागमन 2 ऋषिभिः संप्ररित्यक्ता धर्मयुक्ता महाव्रताः दरुतम आगम्य चॊचुस ता देव सेनापतिं परभुम 3 वयं पुत्र परित्यक्ता भर्तृभिर देव संमितैः अकारणाद रुषा तात पुण्यस्थानात परिच्युताः 4 अस्माभिः किल जातस तवम इति केनाप्य उदाहृतम असत्यम एतत संश्रुत्य तस्मान नस तरातुम अर्हसि 5 अक्षयश च भवेत सवर्गस तवत्प्रसादाद धि नः परभॊ तवां पुत्रं चाप्य अभीप्सामः कृत्वैतद अनृणॊ भव 6 [सकन्द] मातरॊ हि भवत्यॊ मे सुतॊ वॊ ऽहम अनिन्दिताः यच चाभीप्सथ तत सर्वं संभविष्यति वस तथा 7 [आर्कण्डेय] एवम उक्ते ततः शक्रं किं कार्यम इति सॊ ऽबरवीत उक्तः सकन्देन बरूहीति सॊ ऽबरवीद वासवस ततः 8 अभिजित सपर्धमाना तु रॊहिण्या कन्यसी सवसा इच्छन्ती जयेष्ठतां देवी तपस तप्तुं वनं गता 9 तत्र मूढॊ ऽसमि भद्रं ते नक्षत्रं गगनाच चयुतम कालं तव इमं परं सकन्द बरह्मणा सह चिन्तय 10 धनिष्ठादिस तदा कालॊ बरह्मणा परिनिर्मितः रॊहिण्याद्यॊ ऽभवत पूर्वम एवं संख्या समाभवत 11 एवम उक्ते तु शक्रेण तरिविदं कृत्तिका गताः नक्षत्रं शकटाकारं भाति तद वह्नि दैवतम 12 विनता चाब्रवीत सकन्दं मम तवं पिण्डदः सुतः इच्छामि नित्यम एवाहं तवया पुत्र सहासितुम 13 [सकन्द] एवम अस्तु नमस ते ऽसतु पुत्रस्नेहात परशाधि माम सनुषया पूज्यमाना वै देवि वत्स्यसि नित्यदा 14 [मार्क] अथ मातृगणः सर्वः सकन्दं वचनम अब्रवीत वयं सर्वस्य लॊकस्य मातरः कविभिः सतुताः इच्छामॊ मातरस तुभ्यं भवितुं पूजयस्व नः 15 [सकन्द] मातरस तु भवत्यॊ मे भवतीनाम अहं सुतः उच्यतां यन मया कार्यं भवतीनाम अथेप्सितम 16 [मातरस] यास तु ता मातरः पूर्वं लॊकस्यास्य परकल्पिताः अस्माकं तद भवेत सथानं तासां चैव न तद भवेत 17 भवेम पूज्या लॊकस्य न ताः पूज्याः सुरर्षभ परजास्माकं हृतास ताभिस तवत्कृते ताः परयच्छ नः 18 [सकन्द] दत्ताः परजा न ताः शक्या भवतीभिर निषेवितुम अन्यां वः कां परयच्छामि परजां यां मनसेच्छथ 19 [मातरस] इच्छाम तासां मातॄणां परजा भॊक्तुं परयच्छ नः तवया सह पृथग भूता ये च तासाम अथेश्वराः 20 [सकन्द] परजा वॊ दद्मि कष्टं तु भवतीभिर उदाहृतम परिरक्षत भद्रं वः परजाः साधु नमस्कृताः 21 परिरक्षाम भद्रं ते परजाः सकन्द यथेच्छसि तवया नॊ रॊचते सकन्द सह वासश चिरं परभॊ 22 [सकन्द] यावत षॊडशवर्षाणि भवन्ति तरुणाः परजाः परबाधत मनुष्याणां तावद रूपैः पृथग्विधैः 23 अहं च वः परदास्यामि रौद्रम आत्मानम अव्ययम परमं तेन सहिता सुखं वत्स्यथ पूजिताः 24 [मार्क] ततः शरीरात सकन्दस्य पुरुषः काञ्चनप्रभः भॊक्तुं परजाः स मर्त्यानां निष्पपात महाबलः 25 अपतत स तदा भूमौ विसंज्ञॊ ऽथ कषुधान्वितः सकन्देन सॊ ऽभयनुज्ञातॊ रौद्ररूपॊ ऽभवद गरहः सकन्दापस्मारम इत्य आहुर गरहं तं दविजसत्तमाः 26 विनता तु महारौद्रा कथ्यते शकुनिग्रहः पूतनां राक्षसीं पराहुस तं विद्यात पूतना गरहम 27 कष्टा दारुणरूपेण घॊररूपा निशाचरी पिशाची दारुणाकारा कथ्यते शीतपूतना गर्भान सा मानुषीणां तु हरते घॊरदर्शना 28 अदितिं रेवतीं पराहुर गरहस तस्यास तु रैवतः सॊ ऽपि बालाञ शिशून घॊरॊ बाधते वै महाग्रहः 29 दैत्यानां या दितिर माता ताम आहुर मुखमण्डिकाम अत्यर्थं शिशुमांसेन संप्रहृष्टा दुरासदा 30 कुमाराश च कुमार्यश च ये परॊक्ताः सकन्द संभवाः ते ऽपि गर्भभुजः सर्वे कौरव्य सुमहाग्रहाः 31 तासाम एव कुमारीणां पतयस ते परकीर्तिताः अज्ञायमाना हृज्णन्ति बालकान रौद्रकर्मिणः 32 गवां माता तु या पराज्ञैः कथ्यते सुरभिर नृप शकुनिस ताम अथारुह्य सह भुङ्क्ते शिशून भुवि 33 सरमा नाम या माता शुनां देवी जनाधिप सापि गर्भान समादत्ते मानुषीणां सदैव हि 34 पादपानां चया माता करञ्ज निलया हि सा करञ्जे तां नमस्यन्ति तस्मात पुत्रार्थिनॊ नराः 35 इमे तव अष्टादशान्ये वै गरहा मांसमधु परियाः दविपञ्चरात्रं तिष्ठन्ति सततं सूतिका गृहे 36 कद्रूः सूक्ष्मवपुर भूत्वा गर्भिणीं परविशेद यदा भुङ्क्ते सा तत्र तं गर्भं सा तु नागं परसूयते 37 गन्धर्वाणां तु या माता सा गर्भं गृह्य गच्छति ततॊ विलीन गर्भा सा मानुषी भुवि दृश्यते 38 या जनित्री तव अप्सरसां गर्भम आस्ते परगृह्य सा उपविष्टं ततॊ गर्भं कथयन्ति मनीषिणः 39 लॊहितस्यॊदधेः कन्या धात्री सकन्दस्य सा समृता लॊहितायनिर इत्य एवं कदम्बे सा हि पूज्यते 40 पुरुषेषु यथा रुद्रस तथार्या परमदास्व अपि आर्या माता कुमारस्य पृथक कामार्थम इज्यते 41 एवम एते कुमाराणां मया परॊक्ता महाग्रहाः यावत षॊडशवर्षाणि अशिवास ते शिवास ततः 42 ये च मातृगणाः परॊक्ताः पुरुषाश चैव ये गरहाः सर्वे सकन्दग्रहा नाम जञेया नित्यं शरीरिभिः 43 तेषां परशमनं कार्यं सनानं धूपम अथाञ्जनम बलिकर्मॊपहारश च सकन्दस्येज्या विशेषतः 44 एवम एते ऽरचिताः सर्वे परयच्छन्ति शुभं नृणाम आयुर वीर्यं च राजेन्द्र सम्यक पूजा नमस्कृताः 45 ऊर्ध्वं तु षॊडशाद वर्षाद ये भवन्ति गरहा नृणाम तान अहं संप्रवक्ष्यामि नमस्कृत्य महेश्वरम 46 यः पश्यति नरॊ देवाड जाग्रद वा शयितॊ ऽपि वा उन्माद्यति स तु कषिप्रं तं तु देव गरहं विदुः 47 आसीनश च शयानश च यः पश्यति नरः पितॄन उन्माद्यति स तु कषिप्रं स जञेयस तु पितृग्रहः 48 अवमन्यति यः सिद्धान करुद्धाश चापि शपन्ति यम उन्माद्यति स तु कषिप्रं जञेयः सिद्धग्रहस तु सः 49 उपाघ्राति च यॊ गन्धान रसांश चापि पृथग्विधान उन्माद्यति स तु कषिप्रं स जञेयॊ राक्षसॊ गरहः 50 गन्धर्वाश चापि यं दिव्याः संस्पृशन्ति नरं भुवि उन्माद्यति स तु कषिप्रं गरहॊ गान्धर्व एव सः 51 आविशन्ति च यं यक्षाः पुरुषं कालपर्यये उन्माद्यति स तु कषिप्रं जञेयॊ यक्षग्रहस तु सः 52 अधिरॊहन्ति यं नित्यं पिशाचाः पुरुषं कव चित उन्माद्यति स तु कषिप्रं पैशाचं तं गरहं विदुः 53 यस्य दॊषैः परकुपितं चित्तं मुह्यति देहिनः उन्माद्यति स तु कषिप्रं साधनं तस्य शास्त्रतः 54 वैक्लव्याच च भयाच चैव गॊराणां चापि दर्शनात उन्माद्यति स तु कषिप्रं सत्त्वं तस्य तु साधनम 55 कश चित करीडितु कामॊ वै भॊक्तुकामस तथापरः अभिकामस तथैवान्य इत्य एष तरिविधॊ गरहः 56 यावत सप्तति वर्षाणि भवन्त्य एते गरहा नृणाम अतः परं देहिनां तु गरहतुल्यॊ भवेज जवरः 57 अप्रकीर्णेन्द्रियं दान्तं शुचिं नित्यम अतन्द्रितम आस्तिकं शरद्दधानं च वर्जयन्ति सदा गरहाः 58 इत्य एष ते गरहॊद्देशॊ मानुषाणां परकीर्तितः न सपृशन्ति गरहा भक्तान नरान देवं महेश्वरम |
1
[mārk] śriyā juṣṭaṃ mahāsehaṃ deva senāpatiṃ kṛtam saptarṣipatnyaḥ ṣaḍ devyas tat sakāśam athāgaman 2 ṛṣibhiḥ saṃprarityaktā dharmayuktā mahāvratāḥ drutam āgamya cocus tā deva senāpatiṃ prabhum 3 vayaṃ putra parityaktā bhartṛbhir deva saṃmitaiḥ akāraṇād ruṣā tāta puṇyasthānāt paricyutāḥ 4 asmābhiḥ kila jātas tvam iti kenāpy udāhṛtam asatyam etat saṃśrutya tasmān nas trātum arhasi 5 akṣayaś ca bhavet svargas tvatprasādād dhi naḥ prabho tvāṃ putraṃ cāpy abhīpsāmaḥ kṛtvaitad anṛṇo bhava 6 [skanda] mātaro hi bhavatyo me suto vo 'ham aninditāḥ yac cābhīpsatha tat sarvaṃ saṃbhaviṣyati vas tathā 7 [ārkaṇḍeya] evam ukte tataḥ śakraṃ kiṃ kāryam iti so 'bravīt uktaḥ skandena brūhīti so 'bravīd vāsavas tataḥ 8 abhijit spardhamānā tu rohiṇyā kanyasī svasā icchantī jyeṣṭhatāṃ devī tapas taptuṃ vanaṃ gatā 9 tatra mūḍho 'smi bhadraṃ te nakṣatraṃ gaganāc cyutam kālaṃ tv imaṃ paraṃ skanda brahmaṇā saha cintaya 10 dhaniṣṭhādis tadā kālo brahmaṇā parinirmitaḥ rohiṇyādyo 'bhavat pūrvam evaṃ saṃkhyā samābhavat 11 evam ukte tu śakreṇa trividaṃ kṛttikā gatāḥ nakṣatraṃ śakaṭākāraṃ bhāti tad vahni daivatam 12 vinatā cābravīt skandaṃ mama tvaṃ piṇḍadaḥ sutaḥ icchāmi nityam evāhaṃ tvayā putra sahāsitum 13 [skanda] evam astu namas te 'stu putrasnehāt praśādhi mām snuṣayā pūjyamānā vai devi vatsyasi nityadā 14 [mārk] atha mātṛgaṇaḥ sarvaḥ skandaṃ vacanam abravīt vayaṃ sarvasya lokasya mātaraḥ kavibhiḥ stutāḥ icchāmo mātaras tubhyaṃ bhavituṃ pūjayasva naḥ 15 [skanda] mātaras tu bhavatyo me bhavatīnām ahaṃ sutaḥ ucyatāṃ yan mayā kāryaṃ bhavatīnām athepsitam 16 [mātaras] yās tu tā mātaraḥ pūrvaṃ lokasyāsya prakalpitāḥ asmākaṃ tad bhavet sthānaṃ tāsāṃ caiva na tad bhavet 17 bhavema pūjyā lokasya na tāḥ pūjyāḥ surarṣabha prajāsmākaṃ hṛtās tābhis tvatkṛte tāḥ prayaccha naḥ 18 [skanda] dattāḥ prajā na tāḥ śakyā bhavatībhir niṣevitum anyāṃ vaḥ kāṃ prayacchāmi prajāṃ yāṃ manasecchatha 19 [mātaras] icchāma tāsāṃ mātṝṇāṃ prajā bhoktuṃ prayaccha naḥ tvayā saha pṛthag bhūtā ye ca tāsām atheśvarāḥ 20 [skanda] prajā vo dadmi kaṣṭaṃ tu bhavatībhir udāhṛtam parirakṣata bhadraṃ vaḥ prajāḥ sādhu namaskṛtāḥ 21 parirakṣāma bhadraṃ te prajāḥ skanda yathecchasi tvayā no rocate skanda saha vāsaś ciraṃ prabho 22 [skanda] yāvat ṣoḍaśavarṣāṇi bhavanti taruṇāḥ prajāḥ prabādhata manuṣyāṇāṃ tāvad rūpaiḥ pṛthagvidhaiḥ 23 ahaṃ ca vaḥ pradāsyāmi raudram ātmānam avyayam paramaṃ tena sahitā sukhaṃ vatsyatha pūjitāḥ 24 [mārk] tataḥ śarīrāt skandasya puruṣaḥ kāñcanaprabhaḥ bhoktuṃ prajāḥ sa martyānāṃ niṣpapāta mahābalaḥ 25 apatat sa tadā bhūmau visaṃjño 'tha kṣudhānvitaḥ skandena so 'bhyanujñāto raudrarūpo 'bhavad grahaḥ skandāpasmāram ity āhur grahaṃ taṃ dvijasattamāḥ 26 vinatā tu mahāraudrā kathyate śakunigrahaḥ pūtanāṃ rākṣasīṃ prāhus taṃ vidyāt pūtanā graham 27 kaṣṭā dāruṇarūpeṇa ghorarūpā niśācarī piśācī dāruṇākārā kathyate śītapūtanā garbhān sā mānuṣīṇāṃ tu harate ghoradarśanā 28 aditiṃ revatīṃ prāhur grahas tasyās tu raivataḥ so 'pi bālāñ śiśūn ghoro bādhate vai mahāgrahaḥ 29 daityānāṃ yā ditir mātā tām āhur mukhamaṇḍikām atyarthaṃ śiśumāṃsena saṃprahṛṣṭā durāsadā 30 kumārāś ca kumāryaś ca ye proktāḥ skanda saṃbhavāḥ te 'pi garbhabhujaḥ sarve kauravya sumahāgrahāḥ 31 tāsām eva kumārīṇāṃ patayas te prakīrtitāḥ ajñāyamānā hṛjṇanti bālakān raudrakarmiṇaḥ 32 gavāṃ mātā tu yā prājñaiḥ kathyate surabhir nṛpa śakunis tām athāruhya saha bhuṅkte śiśūn bhuvi 33 saramā nāma yā mātā śunāṃ devī janādhipa sāpi garbhān samādatte mānuṣīṇāṃ sadaiva hi 34 pādapānāṃ cayā mātā karañja nilayā hi sā karañje tāṃ namasyanti tasmāt putrārthino narāḥ 35 ime tv aṣṭādaśānye vai grahā māṃsamadhu priyāḥ dvipañcarātraṃ tiṣṭhanti satataṃ sūtikā gṛhe 36 kadrūḥ sūkṣmavapur bhūtvā garbhiṇīṃ praviśed yadā bhuṅkte sā tatra taṃ garbhaṃ sā tu nāgaṃ prasūyate 37 gandharvāṇāṃ tu yā mātā sā garbhaṃ gṛhya gacchati tato vilīna garbhā sā mānuṣī bhuvi dṛśyate 38 yā janitrī tv apsarasāṃ garbham āste pragṛhya sā upaviṣṭaṃ tato garbhaṃ kathayanti manīṣiṇaḥ 39 lohitasyodadheḥ kanyā dhātrī skandasya sā smṛtā lohitāyanir ity evaṃ kadambe sā hi pūjyate 40 puruṣeṣu yathā rudras tathāryā pramadāsv api āryā mātā kumārasya pṛthak kāmārtham ijyate 41 evam ete kumārāṇāṃ mayā proktā mahāgrahāḥ yāvat ṣoḍaśavarṣāṇi aśivās te śivās tataḥ 42 ye ca mātṛgaṇāḥ proktāḥ puruṣāś caiva ye grahāḥ sarve skandagrahā nāma jñeyā nityaṃ śarīribhiḥ 43 teṣāṃ praśamanaṃ kāryaṃ snānaṃ dhūpam athāñjanam balikarmopahāraś ca skandasyejyā viśeṣataḥ 44 evam ete 'rcitāḥ sarve prayacchanti śubhaṃ nṛṇām āyur vīryaṃ ca rājendra samyak pūjā namaskṛtāḥ 45 ūrdhvaṃ tu ṣoḍaśād varṣād ye bhavanti grahā nṛṇām tān ahaṃ saṃpravakṣyāmi namaskṛtya maheśvaram 46 yaḥ paśyati naro devāḍ jāgrad vā śayito 'pi vā unmādyati sa tu kṣipraṃ taṃ tu deva grahaṃ viduḥ 47 āsīnaś ca śayānaś ca yaḥ paśyati naraḥ pitṝn unmādyati sa tu kṣipraṃ sa jñeyas tu pitṛgrahaḥ 48 avamanyati yaḥ siddhān kruddhāś cāpi śapanti yam unmādyati sa tu kṣipraṃ jñeyaḥ siddhagrahas tu saḥ 49 upāghrāti ca yo gandhān rasāṃś cāpi pṛthagvidhān unmādyati sa tu kṣipraṃ sa jñeyo rākṣaso grahaḥ 50 gandharvāś cāpi yaṃ divyāḥ saṃspṛśanti naraṃ bhuvi unmādyati sa tu kṣipraṃ graho gāndharva eva saḥ 51 āviśanti ca yaṃ yakṣāḥ puruṣaṃ kālaparyaye unmādyati sa tu kṣipraṃ jñeyo yakṣagrahas tu saḥ 52 adhirohanti yaṃ nityaṃ piśācāḥ puruṣaṃ kva cit unmādyati sa tu kṣipraṃ paiśācaṃ taṃ grahaṃ viduḥ 53 yasya doṣaiḥ prakupitaṃ cittaṃ muhyati dehinaḥ unmādyati sa tu kṣipraṃ sādhanaṃ tasya śāstrataḥ 54 vaiklavyāc ca bhayāc caiva gorāṇāṃ cāpi darśanāt unmādyati sa tu kṣipraṃ sattvaṃ tasya tu sādhanam 55 kaś cit krīḍitu kāmo vai bhoktukāmas tathāparaḥ abhikāmas tathaivānya ity eṣa trividho grahaḥ 56 yāvat saptati varṣāṇi bhavanty ete grahā nṛṇām ataḥ paraṃ dehināṃ tu grahatulyo bhavej jvaraḥ 57 aprakīrṇendriyaṃ dāntaṃ śuciṃ nityam atandritam āstikaṃ śraddadhānaṃ ca varjayanti sadā grahāḥ 58 ity eṣa te grahoddeśo mānuṣāṇāṃ prakīrtitaḥ na spṛśanti grahā bhaktān narān devaṃ maheśvaram |
The Mahabharata in Sanskrit
Book 3
Chapter 220
|
1
[मार्क] यदा सकन्देन मातॄणाम एवम एतत परियं कृतम अथैनम अब्रवीत सवाहा मम पुत्रस तवम औरसः 2 इच्छाम्य अहं तवया दत्तां परीतिं परमदुर्लभाम ताम अब्रवीत ततः सकन्दः परीतिम इच्छसि कीदृशीम 3 [सवाहा] दक्षस्याहं परिया कन्या सवाहा नाम महाभुज बाल्यात परभृति नित्यं च जातकामा हुताशने 4 न च मां कामिनीं पुत्रसम्यग जानाति पावकः इच्छामि शाश्वतं वासं वस्तुं पुत्र सहाग्निना 5 [सकन्द] हव्यं कव्यं च यत किं चिद दविजा मन्त्रपुरस्कृतम हॊष्यन्त्य अग्नौ सदा देवि सवाहेत्य उक्त्वा समुद्यतम 6 अद्य परभृति दास्यन्ति सुवृत्ताः सत्पथे सथिताः एवम अग्निस तवया सार्धं सदा वत्स्यति शॊभने 7 [मार्क] एवम उक्ता ततः सवाहा तुष्टा सकन्देन पूजिता पावकेन समायुक्ता भर्त्रा सकन्दम अपूजयत 8 ततॊ बरह्मा महासेनं परजापतिर अथाब्रवीत अभिगच्छ महादेवं पितरं तरिपुरार्दनम 9 रुद्रेणाग्निं समाविश्य सवाहाम आविश्य चॊमया हितार्थं सर्वलॊकानां जातस तवम अपराजितः 10 उमा यॊन्यां च रुद्रेण शुक्रं सिक्तं महात्मना आस्ते गिरौ निपतितं मिञ्जिका मिञ्जिकं यतः 11 संभूतं लॊहितॊदे तु शॊक्र शेषम अवापतत सूर्यरश्मिषु चाप्य अन्यद अन्यच चैवापतद भुवि आसक्तम अन्यद वृक्षेषु तद एवं पञ्चधापतत 12 त एते विविधाकारा गणा जञेया मनीषिभिः तव पारिषदा घॊरा य एते पिशिताशनाः 13 एवम अस्त्व इति चाप्य उक्त्वा महासेनॊ महेश्वरम अपूजयद अमेयात्मा पितरं पितृवत्सलः 14 अर्कपुष्पैस तु ते पञ्च गणाः पूज्या धनार्थिभि वयाधिप्रशमनार्थं च तेषां पूजां समाचरेत 15 मिञ्जिका मिञ्जिकं चैव मिथुनं रुद्र संभवम नमः कार्यं सदैवेह बालानां हितम इच्छता 16 सत्रियॊ मानुषमांसादा वृद्धिका नाम नामतः वृक्षेषु जातास ता देव्यॊ नमः कार्याः परजार्थिभिः 17 एवम एते पिशाचानाम असंख्येया गणाः समृताः घण्टायाः सपताकायाः शृणु मे संभवं नृप 18 ऐरावतस्य घण्टे दवे वैजयन्त्याव इति शरुते गुहस्य ते सवयं दत्ते शक्रेणानाय्य धीमता 19 एका तत्र विशाखस्य घण्टा सकन्दस्य चापरा पताका कार्त्तिकेयस्य विशाखस्य च लॊहिता 20 यानि करीडनकान्य अस्य देवैर दत्तानि वै तदा तैर एव रमते देवॊ महासेनॊ महाबलः 21 स संवृतः पिशाचानां गणैर देवगणैस तथा शुशुभे काञ्चने शैले दीप्यमानः शरिया वृतः 22 तेन वीरेण शुशुभे स शैलः शुभकाननः आदित्येणेवांशुमता मन्दरश चारुकन्दरः 23 संतानकवनैः फुल्लैः करवीर वनैर अपि पारिजात वनैश चैव जपा शॊकवनैस तथा 24 कदम्बतरुषण्डैश च दिव्यैर मृगगणैर अपि दिव्यैः पक्षिगणैश चैव शुशुभे शवेतपर्वतः 25 तत्र देवगणाः सर्वे सर्वे चैव महर्षयः मेघतूर्य रवाश चैव कषुब्धॊदधि समस्वनाः 26 तत्र दिव्याश च गन्धर्वा नृत्यन्त्य अप्सरसस तथा हृष्टानां तत्र भूतानां शरूयते निनदॊ महान 27 एवं सेन्द्रं जगत सर्वं शवेतपर्वतसंस्थितम परहृष्टं परेक्षते सकन्दं न च गलायति दर्शनात |
1
[mārk] yadā skandena mātṝṇām evam etat priyaṃ kṛtam athainam abravīt svāhā mama putras tvam aurasaḥ 2 icchāmy ahaṃ tvayā dattāṃ prītiṃ paramadurlabhām tām abravīt tataḥ skandaḥ prītim icchasi kīdṛśīm 3 [svāhā] dakṣasyāhaṃ priyā kanyā svāhā nāma mahābhuja bālyāt prabhṛti nityaṃ ca jātakāmā hutāśane 4 na ca māṃ kāminīṃ putrasamyag jānāti pāvakaḥ icchāmi śāśvataṃ vāsaṃ vastuṃ putra sahāgninā 5 [skanda] havyaṃ kavyaṃ ca yat kiṃ cid dvijā mantrapuraskṛtam hoṣyanty agnau sadā devi svāhety uktvā samudyatam 6 adya prabhṛti dāsyanti suvṛttāḥ satpathe sthitāḥ evam agnis tvayā sārdhaṃ sadā vatsyati śobhane 7 [mārk] evam uktā tataḥ svāhā tuṣṭā skandena pūjitā pāvakena samāyuktā bhartrā skandam apūjayat 8 tato brahmā mahāsenaṃ prajāpatir athābravīt abhigaccha mahādevaṃ pitaraṃ tripurārdanam 9 rudreṇāgniṃ samāviśya svāhām āviśya comayā hitārthaṃ sarvalokānāṃ jātas tvam aparājitaḥ 10 umā yonyāṃ ca rudreṇa śukraṃ siktaṃ mahātmanā āste girau nipatitaṃ miñjikā miñjikaṃ yataḥ 11 saṃbhūtaṃ lohitode tu śokra śeṣam avāpatat sūryaraśmiṣu cāpy anyad anyac caivāpatad bhuvi āsaktam anyad vṛkṣeṣu tad evaṃ pañcadhāpatat 12 ta ete vividhākārā gaṇā jñeyā manīṣibhiḥ tava pāriṣadā ghorā ya ete piśitāśanāḥ 13 evam astv iti cāpy uktvā mahāseno maheśvaram apūjayad ameyātmā pitaraṃ pitṛvatsalaḥ 14 arkapuṣpais tu te pañca gaṇāḥ pūjyā dhanārthibhi vyādhipraśamanārthaṃ ca teṣāṃ pūjāṃ samācaret 15 miñjikā miñjikaṃ caiva mithunaṃ rudra saṃbhavam namaḥ kāryaṃ sadaiveha bālānāṃ hitam icchatā 16 striyo mānuṣamāṃsādā vṛddhikā nāma nāmataḥ vṛkṣeṣu jātās tā devyo namaḥ kāryāḥ prajārthibhiḥ 17 evam ete piśācānām asaṃkhyeyā gaṇāḥ smṛtāḥ ghaṇṭāyāḥ sapatākāyāḥ śṛṇu me saṃbhavaṃ nṛpa 18 airāvatasya ghaṇṭe dve vaijayantyāv iti śrute guhasya te svayaṃ datte śakreṇānāyya dhīmatā 19 ekā tatra viśākhasya ghaṇṭā skandasya cāparā patākā kārttikeyasya viśākhasya ca lohitā 20 yāni krīḍanakāny asya devair dattāni vai tadā tair eva ramate devo mahāseno mahābalaḥ 21 sa saṃvṛtaḥ piśācānāṃ gaṇair devagaṇais tathā śuśubhe kāñcane śaile dīpyamānaḥ śriyā vṛtaḥ 22 tena vīreṇa śuśubhe sa śailaḥ śubhakānanaḥ ādityeṇevāṃśumatā mandaraś cārukandaraḥ 23 saṃtānakavanaiḥ phullaiḥ karavīra vanair api pārijāta vanaiś caiva japā śokavanais tathā 24 kadambataruṣaṇḍaiś ca divyair mṛgagaṇair api divyaiḥ pakṣigaṇaiś caiva śuśubhe śvetaparvataḥ 25 tatra devagaṇāḥ sarve sarve caiva maharṣayaḥ meghatūrya ravāś caiva kṣubdhodadhi samasvanāḥ 26 tatra divyāś ca gandharvā nṛtyanty apsarasas tathā hṛṣṭānāṃ tatra bhūtānāṃ śrūyate ninado mahān 27 evaṃ sendraṃ jagat sarvaṃ śvetaparvatasaṃsthitam prahṛṣṭaṃ prekṣate skandaṃ na ca glāyati darśanāt |
The Mahabharata in Sanskrit
Book 3
Chapter 221
|
1
[मार्क] यदाभिषिक्तॊ भगवान सेनापत्येन पावकिः तदा संप्रस्थितः शरीमान हृष्टॊ भद्र वटं हरः रथेनादित्यवर्णेन पार्वत्या सहितः परभुः 2 सहस्रं तस्य सिंहानां तस्मिन युक्तं रथॊत्तमे उत्पपात दिवं शुभ्रं कालेनाभिप्रचॊदितः 3 ते पिबन्त इवाकाशं तरासयन्तश चराचरान सिंहा नभस्य अगच्छन्त नदन्तश चारु केसराः 4 तस्मिन रथे पशुपतिः सथितॊ भात्य उमया सह विद्युता सहितः सूर्यः सेन्द्रचापे घने यथा 5 अग्रतस तस्य भगवान धनेशॊ गुह्यकैः सह आस्थाय रुचिरं याति पुष्पकं नरवाहनः 6 ऐरावतं समास्थाय शक्रश चापि सुरैः सह पृष्ठतॊ ऽनुययौ यान्तं वरदं वृषभध्वजम 7 जम्भकैर यक्षरक्षॊभिः सरग्विभिः समलंकृतः यात्य अमॊघॊ महायक्षॊ दक्षिणं पक्षम आस्थितः 8 तस्य दक्षिणतॊ देवा मरुतश चित्रयॊधिनः गच्छन्ति वसुभिः सार्धं रुद्रैश च सह संगताः 9 यमश च मृत्युना सार्धं सर्वतः परिवारितः घॊरैर वयाधिशतैर याति घॊररूपवपुस तथा 10 यमस्य पृष्ठतश चैव घॊरस तरिशिखरः शितः विजयॊ नाम रुद्रस्य याति शूलः सवलंकृतः 11 तम उग्रपाशॊ वरुणॊ भगवान सलिलेश्वरः परिवार्य शनैर याति यादॊभिर विविधैर वृतः 12 पृष्ठतॊ विजयस्यापि याति रुद्रस्य पट्टिशः गदामुसलशक्त्याद्यैर वृतः परहरणॊत्तमैः 13 पट्टिशं तव अन्वगाद राजंश छत्रं रौद्रं महाप्रभम कमण्डलुश चाप्य अनु तं महर्षिगणसंवृतः 14 तस्य दक्षिणतॊ भाति दण्डॊ गच्छञ शरिया वृतः भृग्वङ्गिरॊभिः सहितॊ देवैश चाप्य अभिपूजितः 15 एषां तु पृष्ठतॊ रुद्रॊ विमले सयन्दने सथितः याति संहर्षयन सर्वांस तेजसा तरिदिवौकसः 16 ऋषयश चैव देवाश च गन्धर्वा भुजगास तथा नद्यॊ नदा दरुमाश चैव तथैवाप्सरसां गणाः 17 नक्षत्राणि गरहाश चैव देवानां शिशवश च ये सत्रियश च विविधाकारा यान्ति रुद्रस्य पृष्ठतः सृजन्त्यः पुष्पवर्षाणि चारुरूपा वराङ्गनाः 18 पर्जन्यश चाप्य अनुययौ नमस्कृत्य पिनाकिनम छत्रं तु पाण्डुरं सॊमस तस्य मूर्धन्य अधारयत चामरे चापि वायुश च गृहीत्वाग्निश च विष्ठितौ 19 शक्रश च पृष्ठतस तस्य याति राजञ शरिया वृतः सह राजर्षिभिः सर्वैः सतुवानॊ वृषकेतनम 20 गौरी विद्याथ गान्धारि केशिनी मित्र साह्वया सावित्र्या सह सर्वास ताः पार्वत्या यान्ति पृष्ठतः 21 तत्र विद्या गणाः सर्वे ये के चित कविभिः कृताः यस्य कुर्वन्ति वचनं सेन्द्रा देवाश चमूमुखे 22 स गृहीत्वा पताकां तु यात्य अग्रे राक्षसॊ गरहः वयापृतस तु शमशाने यॊ नित्यं रुद्रस्य वै सखा पिङ्गलॊ नाम यक्षेन्द्रॊ लॊकस्यानन्द दायकः 23 एभिः स सहितस तत्र ययौ देवॊ यथासुखम अग्रतः पृष्ठतश चैव न हि तस्य गतिर धरुवा 24 रुद्रं सत कर्मभिर मर्त्याः पूजयन्तीह दैवतम शिवम इत्य एव यं पराहुर ईशं रुद्रं पिनाकिनम भावैस तु विविधाकारैः पूजयन्ति महेश्वरम 25 देव सेनापतिस तव एवं देव सेनाभिर आवृतः अनुगच्छति देवेशं बरह्मण्यः कृत्तिका सुतः 26 अथाब्रवीन महासेनं महादेवॊ बृहद्वचः सप्तमं मारुत सकन्धं रक्षनित्यम अतन्द्रितः 27 [सकन्द] सप्तमं मारुत सकन्धं पालयिष्याम्य अहं परभॊ यद अन्यद अपि मे कार्यं देव तद वद माचिरम 28 [रुद्र] कार्येष्व अहं तवया पुत्र संद्रष्टव्यः सदैव हि दर्शनान मम भक्त्या च शरेयॊ परम अवाप्स्यसि 29 [मार्क] इत्य उक्त्वा विससर्जैनं परिष्वज्य महेष्वरः विसर्जिते ततः सकन्दे बभूवौत्पातिकं महत सहसैव महाराज देवान सर्वान परमॊहयत 30 जज्वाल खं सनक्षत्रं परमूढं भुवनं भृशम चचाल वयनदच चॊर्वी तमॊ भूतं जगत परभॊ 31 ततस तद दारुणं दृष्ट्वा कषुभितः शंकरस तदा उमा चैव महाभागा देवाश च समहर्षयः 32 ततस तेषु परमूढेषु पर्वताम्बुद संनिभम नानाप्रहरणं घॊरम अदृश्यत महद बलम 33 तद धि घॊरम असंख्येयं गर्जच च विविधा गिरः अभ्यद्रवद रणे देवान भगवन्तं च शंकरम 34 तैर विसृष्टान्य अनीकेषु बाणजालान्य अनेकशः पर्वताश च शतघ्न्यश च परासाश च परिघा गदाः 35 निपतद्भिश च तैर घॊरैर देवानीकं महायुधैः कषणेन वयद्रवत सर्वं विमुखं चाप्य अदृश्यत 36 निकृत्तयॊधनागाश्वं कृत्तायुध महारथम दानवैर अर्दितं सैन्यं देवानां विमुखं बभौ 37 असुरैर वध्यमानं तत पावकैर इव काननम अपतद दुग्ध भूयिष्ठं महाद्रुम वनं यथा 38 ते विभिन्नशिरॊ देहाः परच्यवन्ते दिवौकसः न नाथम अध्यगच्छन्त वध्यमाना महारणे 39 अथ तद विद्रुतं सैन्यं दृष्ट्वा देवः पुरंदरः आश्वासयन्न उवाचेदं बलवद दानवार्दितम 40 भयं तयजत भद्रं वः शूराः शस्त्राणि गृह्णत कुरुध्वं विक्रमे बुद्धिं मा वः का चिद वयथा भवेत 41 जयतैनान सुदुर्वृत्तान दानवान घॊरदर्शनान अभिद्रवत भद्रं वॊ मया सह महासुरान 42 शक्रस्य वचनं शरुत्वा समाश्वस्ता दिवौकसः दानवान परत्ययुध्यन्त शक्रं कृत्वा वयपाश्रयम 43 ततस ते तरिदशाः सर्वे मरुतश च महाबलाः परत्युद्ययुर महावेगाः साध्याश च वसुभिः सह 44 तैर विसृष्टान्य अनीकेषु करुद्धैः शस्त्राणि संयुगे शराश च दैत्य कायेषु पिबन्ति समासृग उल्बणम 45 तेषां देहान विनिर्भिद्य शरास ते निशितास तदा निष्पतन्तॊ अदृश्यन्त नगेभ्य इव पन्नगाः 46 तानि दैत्य शरीराणि निर्भिन्नानि सम सायकैः अपतन भूतले राजंश छिन्नाभ्राणीव सर्वशः 47 ततस तद दानवं सैन्यं सर्वैर देवगणैर युधि तरासितं विविधैर बाणैः कृतं चैव पराङ्मुखम 48 अथॊत्क्रुष्टं तदा हृष्टैः सर्वैर देवैर उदायुधैः संहतानि च तूर्याणि तदा सर्वाण्य अनेकशः 49 एवम अन्यॊन्यसंयुक्तं युद्धम आसीत सुदारुणम देवानां दानवानां च मांसशॊणितकर्दमम 50 अनयॊ देवलॊकस्य सहसैव वयदृश्यत तथा हि दानवा घॊरा विनिघ्नन्ति दिवौकसः 51 ततस तूर्यप्रणादश च भेरीणां च महास्वनाः बभूवुर दानवेन्द्राणां सिंहनादाश च दारुणाः 52 अथ दैत्य बलाद घॊरान निष्पपात महाबलः दानवॊ महिषॊ नाम परगृह्य विपुलं गिरिम 53 ते तं घनैर इवादित्यं दृष्ट्वा संपरिवारितम समुद्यतगिरिं राजन वयद्रवन्त दिवौकसः 54 अथाभिद्रुत्य महिषॊ देवांश चिक्षेप तं गिरिम पतता तेन गिरिणा देवसैन्यस्य पार्थिव भीमरूपेण निहतम अयुतं परापतद भुवि 55 अथ तैर दानवैः सार्धं महिषस तरासयन सुरान अभ्यद्रवद रणे तूर्णं सिंहः कषुद्रमृगान इव 56 तम आपतन्तं महिषं दृष्ट्वा सेन्द्रा दिवौकसः वयद्रवन्त रणे भीता विशीर्णायुध केतनाः 57 ततः स महिषः करुद्धस तूर्णं रुद्र रथं ययौ अभिद्रुत्य च जग्राह रुद्रस्य रथकूबरम 58 यदा रुद्र रथं करुद्धॊ महिषः सहसा गतः रेसतू रॊदसी गाढं मुमुहुश च महर्षयः 59 वयनदंश च महाकाया दैत्या जलधरॊपमाः आसीच च निश्चितं तेषां जितम अस्माभिर इत्य उत 60 तथा भूते तु भगवान नावधीन महिषं रणे सस्मार च तदा सकन्दं मृत्युं तस्य दुरात्मनः 61 महिषॊ ऽपि रथं दृष्ट्वा रौद्रं रुद्रस्य नानदत देवान संत्रासयंश चापि दैत्यांश चापि परहर्षयन 62 ततस तस्मिन भये घॊरे देवानां समुपस्थिते आजगाम महासेनः करॊधात सूर्य इव जवलन 63 लॊहिताम्बर संवीतॊ लॊहितस्रग्वि भूषणः लॊहितास्यॊ महाबाहुर हिरण्यकवचः परभुः 64 रथम आदित्यसंकाशम आस्थितः कनकप्रभम तं दृष्ट्वा दैत्य सेना सा वयद्रवत सहसा रणे 65 स चापि तां परज्वलितां महिषस्य विदारिणीम मुमॊच शक्तिं राजेन्द्र महासेनॊ महाबलः 66 सा मुक्ताभ्यहनच छक्तिर महिषस्य शिरॊमहत पपात भिन्ने शिरसि महिषस तयक्तजीवितः 67 कषिप्ताक्षिप्ता तु सा शक्तिर हत्वा शत्रून सहस्रशः सकन्द हस्तम अनुप्राप्ता दृश्यते देवदानवैः 68 परायॊ शरैर विनिहता महासेनेन धीमता शेषा दैत्य गणा घॊरा भीतास तरस्ता दुरासदैः सकन्दस्य पार्षदैर हत्वा भक्षिताः शतसंघशः 69 दानवान भक्षयन्तस ते परपिबन्तश च शॊणितम कषणान निर्दानवं सर्वम अकार्षुर भृशहर्षिताः 70 तमांसीव यथा सूर्यॊ वृक्षान अग्निर घनान खगः तथा सकन्दॊ ऽजयच छत्रून सवेन वीर्येण कीर्तिमान 71 संपूज्यमानस तरिदशैर अभिवाद्य महेश्वरम शुशुभे कृत्तिका पुत्रः परकीर्णांशुर इवांशुमान 72 नष्टशत्रुर यदा सकन्दः परयातश च महेश्वरम अथाब्रवीन महासेनं परिष्वज्य पुरंदरः 73 बरह्मदत्तवरः सकन्द तवयायं महिषॊ हतः देवास तृणमया यस्य बभूवुर जयतां वर सॊ ऽयं तवया महाबाहॊ शमितॊ देवकण्टकः 74 शतं महिषतुल्यानां दानवानां तवया रणे निहतं देवशत्रूणां यैर वयं पूर्वतापिताः 75 तावकैर भक्षिताश चान्ये दानवाः शतसंघशः अजेयस तवं रणे ऽरीणाम उमापतिर इव परभुः 76 एतत ते परथमं देवख्यातं कर्म भविष्यति तरिषु लॊकेषु कीर्तिश च तवाक्षय्या भविष्यति वशगाश च भविष्यन्ति सुरास तव सुरात्मज 77 महासेनेत्य एवम उक्त्वा निवृत्तः सह दैवतैः अनुज्ञातॊ भगवता तयम्बकेन शचीपतिः 78 गतॊ भद्र वटं रुद्रॊ निवृत्ताश च दिवौकसः उक्ताश च देवा रुद्रेण सकन्दं पश्यत माम इव 79 स हत्वा दानव गणान पूज्यमानॊ महर्षिभिः एकाह्नैवाजयत सर्वं तरैलॊक्यं वह्निनन्दनः 80 सकन्दस्य य इदं जन्म पठते सुसमाहितः स पुष्टिम इह संप्राप्य सकन्द सालॊक्यताम इयात |
1
[mārk] yadābhiṣikto bhagavān senāpatyena pāvakiḥ tadā saṃprasthitaḥ śrīmān hṛṣṭo bhadra vaṭaṃ haraḥ rathenādityavarṇena pārvatyā sahitaḥ prabhuḥ 2 sahasraṃ tasya siṃhānāṃ tasmin yuktaṃ rathottame utpapāta divaṃ śubhraṃ kālenābhipracoditaḥ 3 te pibanta ivākāśaṃ trāsayantaś carācarān siṃhā nabhasy agacchanta nadantaś cāru kesarāḥ 4 tasmin rathe paśupatiḥ sthito bhāty umayā saha vidyutā sahitaḥ sūryaḥ sendracāpe ghane yathā 5 agratas tasya bhagavān dhaneśo guhyakaiḥ saha āsthāya ruciraṃ yāti puṣpakaṃ naravāhanaḥ 6 airāvataṃ samāsthāya śakraś cāpi suraiḥ saha pṛṣṭhato 'nuyayau yāntaṃ varadaṃ vṛṣabhadhvajam 7 jambhakair yakṣarakṣobhiḥ sragvibhiḥ samalaṃkṛtaḥ yāty amogho mahāyakṣo dakṣiṇaṃ pakṣam āsthitaḥ 8 tasya dakṣiṇato devā marutaś citrayodhinaḥ gacchanti vasubhiḥ sārdhaṃ rudraiś ca saha saṃgatāḥ 9 yamaś ca mṛtyunā sārdhaṃ sarvataḥ parivāritaḥ ghorair vyādhiśatair yāti ghorarūpavapus tathā 10 yamasya pṛṣṭhataś caiva ghoras triśikharaḥ śitaḥ vijayo nāma rudrasya yāti śūlaḥ svalaṃkṛtaḥ 11 tam ugrapāśo varuṇo bhagavān salileśvaraḥ parivārya śanair yāti yādobhir vividhair vṛtaḥ 12 pṛṣṭhato vijayasyāpi yāti rudrasya paṭṭiśaḥ gadāmusalaśaktyādyair vṛtaḥ praharaṇottamaiḥ 13 paṭṭiśaṃ tv anvagād rājaṃś chatraṃ raudraṃ mahāprabham kamaṇḍaluś cāpy anu taṃ maharṣigaṇasaṃvṛtaḥ 14 tasya dakṣiṇato bhāti daṇḍo gacchañ śriyā vṛtaḥ bhṛgvaṅgirobhiḥ sahito devaiś cāpy abhipūjitaḥ 15 eṣāṃ tu pṛṣṭhato rudro vimale syandane sthitaḥ yāti saṃharṣayan sarvāṃs tejasā tridivaukasaḥ 16 ṛṣayaś caiva devāś ca gandharvā bhujagās tathā nadyo nadā drumāś caiva tathaivāpsarasāṃ gaṇāḥ 17 nakṣatrāṇi grahāś caiva devānāṃ śiśavaś ca ye striyaś ca vividhākārā yānti rudrasya pṛṣṭhataḥ sṛjantyaḥ puṣpavarṣāṇi cārurūpā varāṅganāḥ 18 parjanyaś cāpy anuyayau namaskṛtya pinākinam chatraṃ tu pāṇḍuraṃ somas tasya mūrdhany adhārayat cāmare cāpi vāyuś ca gṛhītvāgniś ca viṣṭhitau 19 śakraś ca pṛṣṭhatas tasya yāti rājañ śriyā vṛtaḥ saha rājarṣibhiḥ sarvaiḥ stuvāno vṛṣaketanam 20 gaurī vidyātha gāndhāri keśinī mitra sāhvayā sāvitryā saha sarvās tāḥ pārvatyā yānti pṛṣṭhataḥ 21 tatra vidyā gaṇāḥ sarve ye ke cit kavibhiḥ kṛtāḥ yasya kurvanti vacanaṃ sendrā devāś camūmukhe 22 sa gṛhītvā patākāṃ tu yāty agre rākṣaso grahaḥ vyāpṛtas tu śmaśāne yo nityaṃ rudrasya vai sakhā piṅgalo nāma yakṣendro lokasyānanda dāyakaḥ 23 ebhiḥ sa sahitas tatra yayau devo yathāsukham agrataḥ pṛṣṭhataś caiva na hi tasya gatir dhruvā 24 rudraṃ sat karmabhir martyāḥ pūjayantīha daivatam śivam ity eva yaṃ prāhur īśaṃ rudraṃ pinākinam bhāvais tu vividhākāraiḥ pūjayanti maheśvaram 25 deva senāpatis tv evaṃ deva senābhir āvṛtaḥ anugacchati deveśaṃ brahmaṇyaḥ kṛttikā sutaḥ 26 athābravīn mahāsenaṃ mahādevo bṛhadvacaḥ saptamaṃ māruta skandhaṃ rakṣanityam atandritaḥ 27 [skanda] saptamaṃ māruta skandhaṃ pālayiṣyāmy ahaṃ prabho yad anyad api me kāryaṃ deva tad vada māciram 28 [rudra] kāryeṣv ahaṃ tvayā putra saṃdraṣṭavyaḥ sadaiva hi darśanān mama bhaktyā ca śreyo param avāpsyasi 29 [mārk] ity uktvā visasarjainaṃ pariṣvajya maheṣvaraḥ visarjite tataḥ skande babhūvautpātikaṃ mahat sahasaiva mahārāja devān sarvān pramohayat 30 jajvāla khaṃ sanakṣatraṃ pramūḍhaṃ bhuvanaṃ bhṛśam cacāla vyanadac corvī tamo bhūtaṃ jagat prabho 31 tatas tad dāruṇaṃ dṛṣṭvā kṣubhitaḥ śaṃkaras tadā umā caiva mahābhāgā devāś ca samaharṣayaḥ 32 tatas teṣu pramūḍheṣu parvatāmbuda saṃnibham nānāpraharaṇaṃ ghoram adṛśyata mahad balam 33 tad dhi ghoram asaṃkhyeyaṃ garjac ca vividhā giraḥ abhyadravad raṇe devān bhagavantaṃ ca śaṃkaram 34 tair visṛṣṭāny anīkeṣu bāṇajālāny anekaśaḥ parvatāś ca śataghnyaś ca prāsāś ca parighā gadāḥ 35 nipatadbhiś ca tair ghorair devānīkaṃ mahāyudhaiḥ kṣaṇena vyadravat sarvaṃ vimukhaṃ cāpy adṛśyata 36 nikṛttayodhanāgāśvaṃ kṛttāyudha mahāratham dānavair arditaṃ sainyaṃ devānāṃ vimukhaṃ babhau 37 asurair vadhyamānaṃ tat pāvakair iva kānanam apatad dugdha bhūyiṣṭhaṃ mahādruma vanaṃ yathā 38 te vibhinnaśiro dehāḥ pracyavante divaukasaḥ na nātham adhyagacchanta vadhyamānā mahāraṇe 39 atha tad vidrutaṃ sainyaṃ dṛṣṭvā devaḥ puraṃdaraḥ āśvāsayann uvācedaṃ balavad dānavārditam 40 bhayaṃ tyajata bhadraṃ vaḥ śūrāḥ śastrāṇi gṛhṇata kurudhvaṃ vikrame buddhiṃ mā vaḥ kā cid vyathā bhavet 41 jayatainān sudurvṛttān dānavān ghoradarśanān abhidravata bhadraṃ vo mayā saha mahāsurān 42 śakrasya vacanaṃ śrutvā samāśvastā divaukasaḥ dānavān pratyayudhyanta śakraṃ kṛtvā vyapāśrayam 43 tatas te tridaśāḥ sarve marutaś ca mahābalāḥ pratyudyayur mahāvegāḥ sādhyāś ca vasubhiḥ saha 44 tair visṛṣṭāny anīkeṣu kruddhaiḥ śastrāṇi saṃyuge śarāś ca daitya kāyeṣu pibanti smāsṛg ulbaṇam 45 teṣāṃ dehān vinirbhidya śarās te niśitās tadā niṣpatanto adṛśyanta nagebhya iva pannagāḥ 46 tāni daitya śarīrāṇi nirbhinnāni sma sāyakaiḥ apatan bhūtale rājaṃś chinnābhrāṇīva sarvaśaḥ 47 tatas tad dānavaṃ sainyaṃ sarvair devagaṇair yudhi trāsitaṃ vividhair bāṇaiḥ kṛtaṃ caiva parāṅmukham 48 athotkruṣṭaṃ tadā hṛṣṭaiḥ sarvair devair udāyudhaiḥ saṃhatāni ca tūryāṇi tadā sarvāṇy anekaśaḥ 49 evam anyonyasaṃyuktaṃ yuddham āsīt sudāruṇam devānāṃ dānavānāṃ ca māṃsaśoṇitakardamam 50 anayo devalokasya sahasaiva vyadṛśyata tathā hi dānavā ghorā vinighnanti divaukasaḥ 51 tatas tūryapraṇādaś ca bherīṇāṃ ca mahāsvanāḥ babhūvur dānavendrāṇāṃ siṃhanādāś ca dāruṇāḥ 52 atha daitya balād ghorān niṣpapāta mahābalaḥ dānavo mahiṣo nāma pragṛhya vipulaṃ girim 53 te taṃ ghanair ivādityaṃ dṛṣṭvā saṃparivāritam samudyatagiriṃ rājan vyadravanta divaukasaḥ 54 athābhidrutya mahiṣo devāṃś cikṣepa taṃ girim patatā tena giriṇā devasainyasya pārthiva bhīmarūpeṇa nihatam ayutaṃ prāpatad bhuvi 55 atha tair dānavaiḥ sārdhaṃ mahiṣas trāsayan surān abhyadravad raṇe tūrṇaṃ siṃhaḥ kṣudramṛgān iva 56 tam āpatantaṃ mahiṣaṃ dṛṣṭvā sendrā divaukasaḥ vyadravanta raṇe bhītā viśīrṇāyudha ketanāḥ 57 tataḥ sa mahiṣaḥ kruddhas tūrṇaṃ rudra rathaṃ yayau abhidrutya ca jagrāha rudrasya rathakūbaram 58 yadā rudra rathaṃ kruddho mahiṣaḥ sahasā gataḥ resatū rodasī gāḍhaṃ mumuhuś ca maharṣayaḥ 59 vyanadaṃś ca mahākāyā daityā jaladharopamāḥ āsīc ca niścitaṃ teṣāṃ jitam asmābhir ity uta 60 tathā bhūte tu bhagavān nāvadhīn mahiṣaṃ raṇe sasmāra ca tadā skandaṃ mṛtyuṃ tasya durātmanaḥ 61 mahiṣo 'pi rathaṃ dṛṣṭvā raudraṃ rudrasya nānadat devān saṃtrāsayaṃś cāpi daityāṃś cāpi praharṣayan 62 tatas tasmin bhaye ghore devānāṃ samupasthite ājagāma mahāsenaḥ krodhāt sūrya iva jvalan 63 lohitāmbara saṃvīto lohitasragvi bhūṣaṇaḥ lohitāsyo mahābāhur hiraṇyakavacaḥ prabhuḥ 64 ratham ādityasaṃkāśam āsthitaḥ kanakaprabham taṃ dṛṣṭvā daitya senā sā vyadravat sahasā raṇe 65 sa cāpi tāṃ prajvalitāṃ mahiṣasya vidāriṇīm mumoca śaktiṃ rājendra mahāseno mahābalaḥ 66 sā muktābhyahanac chaktir mahiṣasya śiromahat papāta bhinne śirasi mahiṣas tyaktajīvitaḥ 67 kṣiptākṣiptā tu sā śaktir hatvā śatrūn sahasraśaḥ skanda hastam anuprāptā dṛśyate devadānavaiḥ 68 prāyo śarair vinihatā mahāsenena dhīmatā śeṣā daitya gaṇā ghorā bhītās trastā durāsadaiḥ skandasya pārṣadair hatvā bhakṣitāḥ śatasaṃghaśaḥ 69 dānavān bhakṣayantas te prapibantaś ca śoṇitam kṣaṇān nirdānavaṃ sarvam akārṣur bhṛśaharṣitāḥ 70 tamāṃsīva yathā sūryo vṛkṣān agnir ghanān khagaḥ tathā skando 'jayac chatrūn svena vīryeṇa kīrtimān 71 saṃpūjyamānas tridaśair abhivādya maheśvaram śuśubhe kṛttikā putraḥ prakīrṇāṃśur ivāṃśumān 72 naṣṭaśatrur yadā skandaḥ prayātaś ca maheśvaram athābravīn mahāsenaṃ pariṣvajya puraṃdaraḥ 73 brahmadattavaraḥ skanda tvayāyaṃ mahiṣo hataḥ devās tṛṇamayā yasya babhūvur jayatāṃ vara so 'yaṃ tvayā mahābāho śamito devakaṇṭakaḥ 74 śataṃ mahiṣatulyānāṃ dānavānāṃ tvayā raṇe nihataṃ devaśatrūṇāṃ yair vayaṃ pūrvatāpitāḥ 75 tāvakair bhakṣitāś cānye dānavāḥ śatasaṃghaśaḥ ajeyas tvaṃ raṇe 'rīṇām umāpatir iva prabhuḥ 76 etat te prathamaṃ devakhyātaṃ karma bhaviṣyati triṣu lokeṣu kīrtiś ca tavākṣayyā bhaviṣyati vaśagāś ca bhaviṣyanti surās tava surātmaja 77 mahāsenety evam uktvā nivṛttaḥ saha daivataiḥ anujñāto bhagavatā tyambakena śacīpatiḥ 78 gato bhadra vaṭaṃ rudro nivṛttāś ca divaukasaḥ uktāś ca devā rudreṇa skandaṃ paśyata mām iva 79 sa hatvā dānava gaṇān pūjyamāno maharṣibhiḥ ekāhnaivājayat sarvaṃ trailokyaṃ vahninandanaḥ 80 skandasya ya idaṃ janma paṭhate susamāhitaḥ sa puṣṭim iha saṃprāpya skanda sālokyatām iyāt |
The Mahabharata in Sanskrit
Book 3
Chapter 222
|
1
[वै] उपासीनेषु विप्रेषु पाण्डवेषु महात्मसु दरौपदी सत्यभामा च विविशाते तदा समम जाहस्यमाने सुप्रीते सुखं तत्र निषीदतुः 2 चिरस्य दृष्ट्वा राजेन्द्र ते ऽनयॊन्यस्य परियंवदे कथयाम आसतुश चैत्राः कथाः कुरु यदुक्षिताम 3 अथाब्रवीत सत्यभामा कृष्णस्य महिषी परिया सात्राजिती याज्ञसेनीं रहसीदं सुमध्यमा 4 केन दरौपदि वृत्तेन पाण्डवान उपतिष्ठसि लॊकपालॊपमान वीरान यूनः परमसंमतान कथं च वशगास तुभ्यं न कुप्यन्ति च ते शुभे 5 तव वश्याहि सततं पाण्डवाः परियदर्शने मुखप्रेक्षाश च ते सर्वे तत्त्वम एतद बरवीहि मे 6 वरतचर्या तपॊ वापि सनानमन्त्रौषधानि वा विद्या वीर्यं मूलवीर्यं जपहॊमस तथागदाः 7 मम आचक्ष्व पाञ्चालि यशस्यं भग वेदनम येन कृष्णे भवेन नित्यं मम कृष्णॊ वशानुगः 8 एवम उक्त्वा सत्यभामा विरराम यशस्विनी पतिव्रता महाभागा दरौपदी परत्युवाच ताम 9 असत सत्रीणां समाचारं सत्ये माम अनुपृच्छसि असद आचरिते मार्गे कथं सयाद अनुकीर्तनम 10 अनुप्रश्नः संशयॊ वा नैतत तवय्य उपपद्यते तथा हय उपेता बुद्ध्या तवं कृष्टस्य महिषी परिया 11 यदैव भर्ता जानीयान मन्त्रमूलपरां सत्रियम उद्विजेत तदैवास्याः सर्वाद वेश्म गताद इव 12 उद्विग्नस्य कुतः शान्तिर अशान्तस्य कुतः सुखम न जातु वशगॊ भर्ता सत्रियाः सयान मन्त्रकारणात 13 अमित्रप्रहितांश चापि गदान परमदारुणान मूलप्रवादैर हि विषं परयच्छन्ति जिघांसवः 14 जिह्वया यानि पुरुषस तवचा वाप्य उपसेवते तत्र चूर्णानि दत्तानि हन्युः कषिप्रम असंशयम 15 जलॊदर समायुक्ताः शवित्रिणः पलितास तथा अपुमांसः कृताः सत्रीभिर जडान्धबधिरास तथा 16 पापानुगास तु पापास ताः पतीन उपसृजन्त्य उत न जातु विप्रियं भर्तुः सत्रिया कार्यं कथं चन 17 वर्ताम्य अहं तु यां वृत्तिं पाण्डवेषु महात्मसु तां सर्वां शृणु मे सत्यां सत्यभामे यशस्विनि 18 अहंकारं विहायाहं कामक्रॊधौ च सर्वदा सदारान पाण्डवान नित्यं परयतॊपचराम्य अहम 19 परणयं परतिसंगृह्य निधायात्मानम आत्मनि शुश्रूषुर निरभीमाना पतीनां चित्तरक्षणी 20 दुर्व्याहृताच छङ्कमाना दुःखिता ददुरवेक्षितात दुरासिताद दुर्व्रजिताद इङ्गिताध्यासिताद अपि 21 सूर्यवैश्वानर निभान सॊमकल्पान महारथान सेवे चक्षुर्हणः पार्थान उग्रतेजः परतापिनः 22 देवॊ मनुष्यॊ गन्धर्वॊ युवा चापि सवलंकृतः दरव्यवान अभिरूपॊ वा न मे ऽनयः पुरुषॊ मतः 23 नाभुक्तवति नास्नाते नासंविष्टे च भर्तरि न संविशामि नाश्नामि सदा कर्म करेष्व अपि 24 कषेत्राद वनाद वा गरामाद वा भर्तारं गृहम आगतम परत्युत्थायाभिनन्दामि आसनेनॊदकेन च 25 परमृष्ट भाण्डा मृष्टान्ना काले भॊजनदायिनी संयता गुप्तधान्या च सुसंमृष्ट निवेशना 26 अतिरस्कृत संभाषा दुःस्त्रियॊ नानुसेवती अनुकूलवती नित्यं भवाम्य अनलसा सदा 27 अनर्मे चापि हसनं दवारि सथानम अभीक्ष्णशः अवस्करे चिरस्थानं निष्कुटेषु च वर्जये 28 अतिहासातिरॊषौ च करॊधस्थानं च वर्जये निरताहं सदा सत्ये भर्तॄणाम उपसेनवे सर्वथा भर्तृरहितं न ममेष्टं कथं चन 29 यदा परवसते भर्ता कुटुम्बार्थेन केन चित सुमनॊवर्णकापेता भवामि वरतचारिणी 30 यच च भर्ता न पिबति यच च भर्ता न खादति यच च नाश्नाति मे भर्ता सर्वं तद वर्जयाम्य अहम 31 यथॊपदेशं नियता वर्तमाना वराङ्गने सवलंकृता सुप्रयता भर्तुः परियहिते रता 32 ये च धर्माः कुटुम्बेषु शवश्र्वा मे कथिताः पुरा भिक्षा बलिश्राधम इति सथाली पाकाश च पर्वसु मान्यानां मानसत्कारा ये चान्ये विदिता मया 33 तान सर्वान अनुवर्तामि दिवारात्रम अतन्द्रिता विनयान नियमांश चापि सदा सर्वात्मना शरिता 34 मृदून सतः सत्यशीलान सत्यधर्मानुपालिनः आशीविषान इव करुद्धान पतीन परिचराम्य अहम 35 पत्याश्रयॊ हि मे धर्मॊ मतः सत्रीणां सनातनः स देवः सागतिर नान्या तस्य का विप्रियं चरेत 36 अहं पतीन नातिशये नात्यश्ने नातिभूषये नापि परिवदे शवश्रूं सर्वदा परियन्त्रिता 37 अवधानेन सुभगे नित्यॊत्थानतयैव च भर्तारॊ वशगा मह्यं गुरुशुश्रूषणेन च 38 नित्यम आर्याम अहं कुन्तीं वीरसूं सत्यवादिनीम सवयं परिचराम्य एका सनानाच छादनभॊजनैः 39 नैताम अतिशये जातु वस्त्रभूषण भॊजनैः नापि परिवदे चाहं तां पृथां पृथिवीसमाम 40 अष्टाव अग्रे बराह्मणानां सहस्राणि सम नित्यदा भुञ्जते रुक्मपात्रीषु युधिष्ठिर निवेशने 41 अष्टाशीति सहस्राणि सनातका गृहमेधिनः तरिंशद दासीक एकैकॊ यान बिभर्ति युधिष्ठिरः 42 दशान्यानि सहस्राणि येषाम अन्नं सुसंस्कृतम हरियते रुक्मपात्रीभिर यतीनाम ऊर्ध्वरेतसाम 43 तान सर्वान अग्रहारेण बराह्मणान बरह्मवादिनः यथार्हं पूजयामि सम पानाच छादनभॊजनैः 44 शतं दासी सहस्राणि कौन्तेयस्य महात्मनः कम्बुकेयूर धारिण्यॊ निष्ककण्ठ्यॊ सवलंकृताः 45 महार्हमाल्याभरणाः सुवर्णाश चन्दनॊक्षिताः मणीन हेमच बिभ्रत्यॊ नृत्यगीतविशारदाः 46 तासां नाम च रूपं च भॊजनाच छादनानि च सर्वासाम एव वेदाहं कर्म चैव कृताकृतम 47 शतं दासी सहस्राणि कुन्तीपुत्रस्य धीमतः पात्री हस्ता दिवारात्रम अतिथीन भॊजयन्त्य उत 48 शतम अश्वसहस्राणि दशनागायुतानि च युधिष्ठिरस्यानुयात्रम इन्द्रप्रस्थ निवासिनः 49 एतद आसीत तदा राज्ञॊ यन महीं पर्यपालयत येषां संख्या विधिं चैव परदिशामि शृणॊमि च 50 अन्तःपुराणां सर्वेषां भृत्यानां चैव सर्वशः आ गॊपालाविपालेभ्यः सर्वं वेद कृताकृतम 51 सर्वं राज्ञः समुदयम आयं च वययम एव च एकाहं वेद्मि कल्याणि पाण्डवानां यशस्विनाम 52 मयि सर्वं समासज्य कुटुम्बं भरतर्षभाः उपासन रताः सर्वे घटन्ते सम शुभानने 53 तम अहं भारम आसक्तम अनाधृष्यं दुरात्मभिः सुखं सर्वं परित्यज्य रात्र्यहानि घटामि वै 54 अधृष्यं वरुणस्येव निधिपूर्णम इवॊदधिम एकाहं वेद्मि कॊशं वै पतीनां धर्मचारिणाम 55 अनिशायां निशायां च सहायाः कषुत्पिपासयॊः आराधयन्त्याः कौरव्यांस तुल्या रात्रिर अहॊ च मे 56 परथमं परतिबुध्यामि चरमं संविशामि च नित्यकालम अहं सत्ये एतत संवननं मम 57 एतज जानाम्य अहं कर्तुं भर्तृसंवननं महत असत सत्रीणां समाचारं नाहं कुर्यां न कामये 58 तच छरुत्वा धर्मसहितं वयाहृतं कृष्णया तदा उवाच सत्या सत्कृत्य पाञ्चालीं धर्मचारिणीम 59 अभिपन्नास्मि पाञ्चालि याज्ञसेनि कषमस्व मे कामकारः सखीनां हि सॊपहासं परभाषितुम |
1
[vai] upāsīneṣu vipreṣu pāṇḍaveṣu mahātmasu draupadī satyabhāmā ca viviśāte tadā samam jāhasyamāne suprīte sukhaṃ tatra niṣīdatuḥ 2 cirasya dṛṣṭvā rājendra te 'nyonyasya priyaṃvade kathayām āsatuś caitrāḥ kathāḥ kuru yadukṣitām 3 athābravīt satyabhāmā kṛṣṇasya mahiṣī priyā sātrājitī yājñasenīṃ rahasīdaṃ sumadhyamā 4 kena draupadi vṛttena pāṇḍavān upatiṣṭhasi lokapālopamān vīrān yūnaḥ paramasaṃmatān kathaṃ ca vaśagās tubhyaṃ na kupyanti ca te śubhe 5 tava vaśyāhi satataṃ pāṇḍavāḥ priyadarśane mukhaprekṣāś ca te sarve tattvam etad bravīhi me 6 vratacaryā tapo vāpi snānamantrauṣadhāni vā vidyā vīryaṃ mūlavīryaṃ japahomas tathāgadāḥ 7 mama ācakṣva pāñcāli yaśasyaṃ bhaga vedanam yena kṛṣṇe bhaven nityaṃ mama kṛṣṇo vaśānugaḥ 8 evam uktvā satyabhāmā virarāma yaśasvinī pativratā mahābhāgā draupadī pratyuvāca tām 9 asat strīṇāṃ samācāraṃ satye mām anupṛcchasi asad ācarite mārge kathaṃ syād anukīrtanam 10 anupraśnaḥ saṃśayo vā naitat tvayy upapadyate tathā hy upetā buddhyā tvaṃ kṛṣṭasya mahiṣī priyā 11 yadaiva bhartā jānīyān mantramūlaparāṃ striyam udvijeta tadaivāsyāḥ sarvād veśma gatād iva 12 udvignasya kutaḥ śāntir aśāntasya kutaḥ sukham na jātu vaśago bhartā striyāḥ syān mantrakāraṇāt 13 amitraprahitāṃś cāpi gadān paramadāruṇān mūlapravādair hi viṣaṃ prayacchanti jighāṃsavaḥ 14 jihvayā yāni puruṣas tvacā vāpy upasevate tatra cūrṇāni dattāni hanyuḥ kṣipram asaṃśayam 15 jalodara samāyuktāḥ śvitriṇaḥ palitās tathā apumāṃsaḥ kṛtāḥ strībhir jaḍāndhabadhirās tathā 16 pāpānugās tu pāpās tāḥ patīn upasṛjanty uta na jātu vipriyaṃ bhartuḥ striyā kāryaṃ kathaṃ cana 17 vartāmy ahaṃ tu yāṃ vṛttiṃ pāṇḍaveṣu mahātmasu tāṃ sarvāṃ śṛṇu me satyāṃ satyabhāme yaśasvini 18 ahaṃkāraṃ vihāyāhaṃ kāmakrodhau ca sarvadā sadārān pāṇḍavān nityaṃ prayatopacarāmy aham 19 praṇayaṃ pratisaṃgṛhya nidhāyātmānam ātmani śuśrūṣur nirabhīmānā patīnāṃ cittarakṣaṇī 20 durvyāhṛtāc chaṅkamānā duḥkhitā dduravekṣitāt durāsitād durvrajitād iṅgitādhyāsitād api 21 sūryavaiśvānara nibhān somakalpān mahārathān seve cakṣurhaṇaḥ pārthān ugratejaḥ pratāpinaḥ 22 devo manuṣyo gandharvo yuvā cāpi svalaṃkṛtaḥ dravyavān abhirūpo vā na me 'nyaḥ puruṣo mataḥ 23 nābhuktavati nāsnāte nāsaṃviṣṭe ca bhartari na saṃviśāmi nāśnāmi sadā karma kareṣv api 24 kṣetrād vanād vā grāmād vā bhartāraṃ gṛham āgatam pratyutthāyābhinandāmi āsanenodakena ca 25 pramṛṣṭa bhāṇḍā mṛṣṭānnā kāle bhojanadāyinī saṃyatā guptadhānyā ca susaṃmṛṣṭa niveśanā 26 atiraskṛta saṃbhāṣā duḥstriyo nānusevatī anukūlavatī nityaṃ bhavāmy analasā sadā 27 anarme cāpi hasanaṃ dvāri sthānam abhīkṣṇaśaḥ avaskare cirasthānaṃ niṣkuṭeṣu ca varjaye 28 atihāsātiroṣau ca krodhasthānaṃ ca varjaye niratāhaṃ sadā satye bhartṝṇām upasenave sarvathā bhartṛrahitaṃ na mameṣṭaṃ kathaṃ cana 29 yadā pravasate bhartā kuṭumbārthena kena cit sumanovarṇakāpetā bhavāmi vratacāriṇī 30 yac ca bhartā na pibati yac ca bhartā na khādati yac ca nāśnāti me bhartā sarvaṃ tad varjayāmy aham 31 yathopadeśaṃ niyatā vartamānā varāṅgane svalaṃkṛtā suprayatā bhartuḥ priyahite ratā 32 ye ca dharmāḥ kuṭumbeṣu śvaśrvā me kathitāḥ purā bhikṣā baliśrādham iti sthālī pākāś ca parvasu mānyānāṃ mānasatkārā ye cānye viditā mayā 33 tān sarvān anuvartāmi divārātram atandritā vinayān niyamāṃś cāpi sadā sarvātmanā śritā 34 mṛdūn sataḥ satyaśīlān satyadharmānupālinaḥ āśīviṣān iva kruddhān patīn paricarāmy aham 35 patyāśrayo hi me dharmo mataḥ strīṇāṃ sanātanaḥ sa devaḥ sāgatir nānyā tasya kā vipriyaṃ caret 36 ahaṃ patīn nātiśaye nātyaśne nātibhūṣaye nāpi parivade śvaśrūṃ sarvadā pariyantritā 37 avadhānena subhage nityotthānatayaiva ca bhartāro vaśagā mahyaṃ guruśuśrūṣaṇena ca 38 nityam āryām ahaṃ kuntīṃ vīrasūṃ satyavādinīm svayaṃ paricarāmy ekā snānāc chādanabhojanaiḥ 39 naitām atiśaye jātu vastrabhūṣaṇa bhojanaiḥ nāpi parivade cāhaṃ tāṃ pṛthāṃ pṛthivīsamām 40 aṣṭāv agre brāhmaṇānāṃ sahasrāṇi sma nityadā bhuñjate rukmapātrīṣu yudhiṣṭhira niveśane 41 aṣṭāśīti sahasrāṇi snātakā gṛhamedhinaḥ triṃśad dāsīka ekaiko yān bibharti yudhiṣṭhiraḥ 42 daśānyāni sahasrāṇi yeṣām annaṃ susaṃskṛtam hriyate rukmapātrībhir yatīnām ūrdhvaretasām 43 tān sarvān agrahāreṇa brāhmaṇān brahmavādinaḥ yathārhaṃ pūjayāmi sma pānāc chādanabhojanaiḥ 44 śataṃ dāsī sahasrāṇi kaunteyasya mahātmanaḥ kambukeyūra dhāriṇyo niṣkakaṇṭhyo svalaṃkṛtāḥ 45 mahārhamālyābharaṇāḥ suvarṇāś candanokṣitāḥ maṇīn hemaca bibhratyo nṛtyagītaviśāradāḥ 46 tāsāṃ nāma ca rūpaṃ ca bhojanāc chādanāni ca sarvāsām eva vedāhaṃ karma caiva kṛtākṛtam 47 śataṃ dāsī sahasrāṇi kuntīputrasya dhīmataḥ pātrī hastā divārātram atithīn bhojayanty uta 48 śatam aśvasahasrāṇi daśanāgāyutāni ca yudhiṣṭhirasyānuyātram indraprastha nivāsinaḥ 49 etad āsīt tadā rājño yan mahīṃ paryapālayat yeṣāṃ saṃkhyā vidhiṃ caiva pradiśāmi śṛṇomi ca 50 antaḥpurāṇāṃ sarveṣāṃ bhṛtyānāṃ caiva sarvaśaḥ ā gopālāvipālebhyaḥ sarvaṃ veda kṛtākṛtam 51 sarvaṃ rājñaḥ samudayam āyaṃ ca vyayam eva ca ekāhaṃ vedmi kalyāṇi pāṇḍavānāṃ yaśasvinām 52 mayi sarvaṃ samāsajya kuṭumbaṃ bharatarṣabhāḥ upāsana ratāḥ sarve ghaṭante sma śubhānane 53 tam ahaṃ bhāram āsaktam anādhṛṣyaṃ durātmabhiḥ sukhaṃ sarvaṃ parityajya rātryahāni ghaṭāmi vai 54 adhṛṣyaṃ varuṇasyeva nidhipūrṇam ivodadhim ekāhaṃ vedmi kośaṃ vai patīnāṃ dharmacāriṇām 55 aniśāyāṃ niśāyāṃ ca sahāyāḥ kṣutpipāsayoḥ ārādhayantyāḥ kauravyāṃs tulyā rātrir aho ca me 56 prathamaṃ pratibudhyāmi caramaṃ saṃviśāmi ca nityakālam ahaṃ satye etat saṃvananaṃ mama 57 etaj jānāmy ahaṃ kartuṃ bhartṛsaṃvananaṃ mahat asat strīṇāṃ samācāraṃ nāhaṃ kuryāṃ na kāmaye 58 tac chrutvā dharmasahitaṃ vyāhṛtaṃ kṛṣṇayā tadā uvāca satyā satkṛtya pāñcālīṃ dharmacāriṇīm 59 abhipannāsmi pāñcāli yājñaseni kṣamasva me kāmakāraḥ sakhīnāṃ hi sopahāsaṃ prabhāṣitum |
The Mahabharata in Sanskrit
Book 3
Chapter 223
|
1
[दरौ] इमं तु ते मार्गम अपेतदॊषं; वक्ष्यामि चित्तग्रहणाय भर्तुः यस्मिन यथावत सखिवर्तमाना; भर्तारम आच्छेत्स्यसि कामिनीभ्यः 2 नैतादृशं दैवतम अस्ति सत्ये; सर्वेषु लॊकेषु सदैवतेषु यथा पतिस तस्य हि सर्वकामा; लभ्याः परसादे कुपितश च हन्यात 3 तस्माद अपत्यं विविधाश च भॊगाः; शय्यासनान्य अद्भुतदर्शनानि वस्त्राणि माल्यानि तथैव गन्धाः; सवर्गश च लॊकॊ विषमा च कीर्तिः 4 सुखं सुखेनेह न जातु लभ्यं; दुःखेन साध्वी लभते सुखानि सा कृष्णम आराधय सौहृदेन; परेम्णा च नित्यं परतिकर्मणा च 5 तथाशनैश चारुभिर अग्र्यमाल्यैर; दाक्षिण्ययॊगैर विविधैश च गन्धैः अस्याः परियॊ ऽसमीति यथा विदित्वा; तवाम एव संश्लिष्यति सर्वभावैः 6 शरुत्वा सवरं दवारगतस्य भर्तुः; परत्युत्थिता तिष्ठ गृहस्य मध्ये दृष्ट्वा परविष्टं तवरितासनेन; पाद्येन चैव परतिपूजय तवम 7 संप्रेषितायाम अथ चैव दास्याम; उत्थाय सर्वं सवयम एव कुर्याः जानातु कृष्णस तव भावम एतं; सर्वात्मना मां भजतीति सत्ये 8 तवत्संनिधे यत कथयेत पतिस ते; यद्य अप्य अगुह्यं परिरक्षितव्यम का चित सपत्नी तव वासुदेवं; परत्यादिशेत तेन भवेद विरागः 9 परियांश च रक्तांश च हितांश च भर्तुस; तान भॊजयेथा विविधैर उपायैः दवेष्यैर अपक्षैर अहितैश च तस्य; भिद्यस्व नित्यं कुहकॊद्धतैश च 10 मदं परमादं पुरुषेषु हित्वा; संयच्छ भावं परतिगृह्य मौनम परद्युम्न साम्बाव अपि ते कुमारौ; नॊपासितव्यौ रहिते कदा चित 11 महाकुलीनाभिर अपापिकाभिः; सत्रीभिः सतीभिस तव सख्यम अस्तु चण्डाश च शौण्डाश च महाशनाश च; चौराश च दुष्टाश चपलाश च वर्ज्याः 12 एतद यशस्यं भग वेदनं च; सवर्ग्यं तथा शत्रुनिबर्हणं च महार्हमाल्याभरणाङ्गरागा; भर्तारम आराधय पुण्यगन्धा |
1
[drau] imaṃ tu te mārgam apetadoṣaṃ; vakṣyāmi cittagrahaṇāya bhartuḥ yasmin yathāvat sakhivartamānā; bhartāram ācchetsyasi kāminībhyaḥ 2 naitādṛśaṃ daivatam asti satye; sarveṣu lokeṣu sadaivateṣu yathā patis tasya hi sarvakāmā; labhyāḥ prasāde kupitaś ca hanyāt 3 tasmād apatyaṃ vividhāś ca bhogāḥ; śayyāsanāny adbhutadarśanāni vastrāṇi mālyāni tathaiva gandhāḥ; svargaś ca loko viṣamā ca kīrtiḥ 4 sukhaṃ sukheneha na jātu labhyaṃ; duḥkhena sādhvī labhate sukhāni sā kṛṣṇam ārādhaya sauhṛdena; premṇā ca nityaṃ pratikarmaṇā ca 5 tathāśanaiś cārubhir agryamālyair; dākṣiṇyayogair vividhaiś ca gandhaiḥ asyāḥ priyo 'smīti yathā viditvā; tvām eva saṃśliṣyati sarvabhāvaiḥ 6 śrutvā svaraṃ dvāragatasya bhartuḥ; pratyutthitā tiṣṭha gṛhasya madhye dṛṣṭvā praviṣṭaṃ tvaritāsanena; pādyena caiva pratipūjaya tvam 7 saṃpreṣitāyām atha caiva dāsyām; utthāya sarvaṃ svayam eva kuryāḥ jānātu kṛṣṇas tava bhāvam etaṃ; sarvātmanā māṃ bhajatīti satye 8 tvatsaṃnidhe yat kathayet patis te; yady apy aguhyaṃ parirakṣitavyam kā cit sapatnī tava vāsudevaṃ; pratyādiśet tena bhaved virāgaḥ 9 priyāṃś ca raktāṃś ca hitāṃś ca bhartus; tān bhojayethā vividhair upāyaiḥ dveṣyair apakṣair ahitaiś ca tasya; bhidyasva nityaṃ kuhakoddhataiś ca 10 madaṃ pramādaṃ puruṣeṣu hitvā; saṃyaccha bhāvaṃ pratigṛhya maunam pradyumna sāmbāv api te kumārau; nopāsitavyau rahite kadā cit 11 mahākulīnābhir apāpikābhiḥ; strībhiḥ satībhis tava sakhyam astu caṇḍāś ca śauṇḍāś ca mahāśanāś ca; caurāś ca duṣṭāś capalāś ca varjyāḥ 12 etad yaśasyaṃ bhaga vedanaṃ ca; svargyaṃ tathā śatrunibarhaṇaṃ ca mahārhamālyābharaṇāṅgarāgā; bhartāram ārādhaya puṇyagandhā |
The Mahabharata in Sanskrit
Book 3
Chapter 224
|
1
[वै] मार्कण्डेयाधिभिर विप्रैः पाण्डवैश च महात्मभिः कथाभिर अनुकूलाभिः सहासित्वा जनार्दनः 2 ततस तैः संविदं कृत्वा यथावन मधुसूदनः आरुरुक्षू रथं सत्याम आह्वयाम आस केशवः 3 सत्यभामा ततस तत्र सवजित्वा दरुपदात्मजाम उवाच वचनं हृद्यं यथा भावसमाहितम 4 कृष्णे मा भूत तवॊत्कण्ठा मा वयथा मा परजागरः भर्तृभिर देवसंकाशैर जितां पराप्स्यसि मेदिनीम 5 न हय एवं शीलसंपन्ना नैवं पूजित लक्षणाः पराप्नुवन्ति चिरं कलेशं यथा तवम असितेक्षणे 6 अवश्यं च तवया भूमिर इयं निहतकण्टका भर्तृभिः सह भॊक्तव्या निर्द्वन्द्वेति शरुतं मया 7 धार्तराष्ट्र वधं कृत्वा वौराणि परतियात्य च युधिष्ठिरस्थां पृथिवीं दरष्टासि दरुपदात्मजे 8 यास ताः परव्राजमानां तवां पराहसन दर्पमॊहिताः ताः कषिप्रं हतसंकल्पा दरक्ष्यसि तवं कुरु सत्रियः 9 तव दुःखॊपपन्नाया यैर आचरितम अप्रियम विद्धि संप्रस्थितान सर्वांस तान कृष्णे यमसादनम 10 पुत्रस ते परतिविन्ध्यश च सुत सॊमस तथा विभुः शरुतकर्मार्जुनिश चैव शतानीकश च नाकुलिः सहदेवाच च यॊ जातः शरुतसेनस तवात्मजः 11 सर्वे कुशलिनॊ वीराः कृतास्त्राश च सुतास तव अभिमन्युर इव परीता दवारवत्यां रता भृशम 12 तवम इवैषां सुभद्राच परीत्या सर्वात्मना सथिता परीयते भावनिर्द्वन्द्वा तेभ्यश च विगतज्वरा 13 भेजे सर्वात्मना चैव परद्युम्न जननी तथा भानुप्रभृतिभिश चैनान विशिनष्टि च केशवः 14 भॊजनाच छादने चैषां नित्यं मे शवशुरः सथितः रामप्रभृतयः सर्वे भजन्त्य अन्धकवृष्णयः तुल्यॊ हि परणयस तेषां परद्युम्नस्य च भामिनि 15 एवमादि परियं परीत्या हृद्यम उक्त्वा मनॊऽनुगम गमनाय मनॊ चक्रे वासुदेव रथं परति 16 तां कृष्णां कृष्ण महिषी चकाराभिप्रदक्षिणम आरुरॊह रथं शौरेः सत्यभामा च भामिनी 17 समयित्वा तु यदुश्रेष्ठॊ दरौपदीं परिसान्त्व्य च उपावर्त्य ततः शीघ्रैर हयैः परायात परंतपः |
1
[vai] mārkaṇḍeyādhibhir vipraiḥ pāṇḍavaiś ca mahātmabhiḥ kathābhir anukūlābhiḥ sahāsitvā janārdanaḥ 2 tatas taiḥ saṃvidaṃ kṛtvā yathāvan madhusūdanaḥ ārurukṣū rathaṃ satyām āhvayām āsa keśavaḥ 3 satyabhāmā tatas tatra svajitvā drupadātmajām uvāca vacanaṃ hṛdyaṃ yathā bhāvasamāhitam 4 kṛṣṇe mā bhūt tavotkaṇṭhā mā vyathā mā prajāgaraḥ bhartṛbhir devasaṃkāśair jitāṃ prāpsyasi medinīm 5 na hy evaṃ śīlasaṃpannā naivaṃ pūjita lakṣaṇāḥ prāpnuvanti ciraṃ kleśaṃ yathā tvam asitekṣaṇe 6 avaśyaṃ ca tvayā bhūmir iyaṃ nihatakaṇṭakā bhartṛbhiḥ saha bhoktavyā nirdvandveti śrutaṃ mayā 7 dhārtarāṣṭra vadhaṃ kṛtvā vaurāṇi pratiyātya ca yudhiṣṭhirasthāṃ pṛthivīṃ draṣṭāsi drupadātmaje 8 yās tāḥ pravrājamānāṃ tvāṃ prāhasan darpamohitāḥ tāḥ kṣipraṃ hatasaṃkalpā drakṣyasi tvaṃ kuru striyaḥ 9 tava duḥkhopapannāyā yair ācaritam apriyam viddhi saṃprasthitān sarvāṃs tān kṛṣṇe yamasādanam 10 putras te prativindhyaś ca suta somas tathā vibhuḥ śrutakarmārjuniś caiva śatānīkaś ca nākuliḥ sahadevāc ca yo jātaḥ śrutasenas tavātmajaḥ 11 sarve kuśalino vīrāḥ kṛtāstrāś ca sutās tava abhimanyur iva prītā dvāravatyāṃ ratā bhṛśam 12 tvam ivaiṣāṃ subhadrāca prītyā sarvātmanā sthitā prīyate bhāvanirdvandvā tebhyaś ca vigatajvarā 13 bheje sarvātmanā caiva pradyumna jananī tathā bhānuprabhṛtibhiś cainān viśinaṣṭi ca keśavaḥ 14 bhojanāc chādane caiṣāṃ nityaṃ me śvaśuraḥ sthitaḥ rāmaprabhṛtayaḥ sarve bhajanty andhakavṛṣṇayaḥ tulyo hi praṇayas teṣāṃ pradyumnasya ca bhāmini 15 evamādi priyaṃ prītyā hṛdyam uktvā mano'nugam gamanāya mano cakre vāsudeva rathaṃ prati 16 tāṃ kṛṣṇāṃ kṛṣṇa mahiṣī cakārābhipradakṣiṇam āruroha rathaṃ śaureḥ satyabhāmā ca bhāminī 17 smayitvā tu yaduśreṣṭho draupadīṃ parisāntvya ca upāvartya tataḥ śīghrair hayaiḥ prāyāt paraṃtapaḥ |
The Mahabharata in Sanskrit
Book 3
Chapter 225
|
1
[जनम] एवं वने वर्तमाना नराग्र्याः; शीतॊष्णवातातप कर्शिताङ्गाः सरस तद आसाद्य वनं च पुण्यं; ततः परं किम अकुर्वन्त पार्थाः 2 [वै] सरस तद आसाद्य तु पाण्डुपुत्रा; जनं समुत्सृज्य विधाय चैषाम वनानि रम्याण्य अथ पर्वतांश च; नदी परदेशांश च तदा विचेरुः 3 तथा वने तान वसतः परवीरान; सवाध्यायवन्तश च तपॊधनाश च अभ्याययुर वेद विदः पुराणास; तान पूजयाम आसुर अथॊ नराग्र्याः 4 ततः कदा चित कुशलः कथासु; विप्रॊ ऽभयगच्छद भुवि कौरवेयान स तैः समेत्याथ यदृच्छयैव; वैचित्रवीर्यं नृपम अभ्यगच्छत 5 अथॊपविष्टः परतिसत्कृतश च; वृद्धेन राज्ञा कुरुसत्तमेन परचॊदितः सन कथयां बभूव; धर्मानिलेन्द्र परभवान यमौ च 6 कृशांश च वातातपकर्शिताङ्गान; दुःखस्य चॊग्रस्य मुखे परपन्नान तां चाप्य अनाथाम इव वीर नाथां; कृष्णां परिक्लेश गुणेन युक्ताम 7 ततः कथां तस्य निशम्य राजा; वैचित्रवीर्यः कृपयाभितप्तः वने सथितान पार्थिव पुत्रपौत्राञ; शरुत्वा तदा दुःखनदीं परपन्नान 8 परॊवाच दैत्याभिहतान्तर आत्मा; निःश्वासबास्पॊपहतः स पार्थान वाचं कथं चित सथिरताम उपेत्य; तत सर्वम आत्मप्रभवं विचिन्त्य 9 कथं नु सत्यः शुचिर आर्य वृत्तॊ; जयेष्ठः सुतानां मम धर्मराजः अजातशत्रुः पृथिवीतलस्थः; शेते पुरा राङ्कव कूटशायी 10 परबॊद्यते मागध सूत पूगैर; नित्यं सतुवद्भिः सवयम इन्द्रकल्पः पतत्रिसंघैः स जघन्यरात्रे; परबॊध्यते नूनम इडा तलस्थः 11 कथं नु वातातपकर्शिताङ्गॊ; वृकॊदरः कॊपपरिप्लुताङ्गः शेते पृथिव्याम अतथॊचिताङ्गः; कृष्णा समक्षं वसुधातलस्थः 12 तथार्जुनः सुकुमारॊ मनस्वी; वशे सथितॊ धर्मसुतस्य राज्ञः विदूयमानैर इव सर्ग गात्रैर; धरुवं न शेते वसतीर अमर्षात 13 यमौ च कृष्णां च युधिष्ठिरं च; भीमं च दृष्ट्वा सुखविप्रयुक्तान विनिःश्वसन सर्प इवॊग्रतेजा; धरुवं न शेते वसतीर अमर्षात 14 तथा यमौ चाप्य असुखौ सुखार्हौ; समृद्धरूपाव अमरौ दिवीव परजागरस्थौ धरुवम अप्रशान्तौ; धर्मेण सत्येन च वार्यमाणौ 15 समीरणेनापि समॊ बलेन; समीरणस्यैव सुतॊ बलीयान स धर्मपाशेन सितॊग्र तेजा; धरुवं विनिःश्वस्य सहत्य अमर्षम 16 स चापि भूमौ परिवर्तमानॊ; वधं सुतानां मम काङ्क्षमाणः सत्येन धर्मेण च वार्यमाणः; कालं परतीक्षत्य अधिकॊ रणे ऽनयैः 17 अजातशत्रौ तु जिते निकृत्या; दुःशासनॊ यत परुषाण्य अवॊचत तानि परविष्टानि वृकॊदराङ्गं; दहन्ति मर्माग्निर इवेन्धनानि 18 न पापकं धयास्यति धर्मपुत्रॊ; धनंजयश चाप्य अनुवर्तते तम अरण्यवासेन विवर्धते तु; भीमस्य कॊपॊ ऽगनिर इवानलेन 19 स तेन कॊपेन विदीर्यमाणः; करं करेणाभिनिपीड्य वीरः विनिःश्वसत्य उष्णम अतीव घॊरं; दहन्न इवेमान मम पुत्रपौत्रान 20 गाण्डीवधन्वा च वृकॊदरश च; संरम्भिणाव अन्तककालकल्पौ न शेषयेतां युधि शत्रुसेनां; शरान किरन्ताव अशनिप्रकाशान 21 दुर्यॊधनः शकुनिः सूतपुत्रॊ; दुःशासनश चापि सुमन्दचेताः मधु परपश्यन्ति न तु परपातं; वृकॊदरं चैव धनंजयं च 22 शुभाशुभं पुरुषः कर्मकृत्वा; परतीक्षते तस्य फलं सम कर्ता स तेन युज्यत्य अवशः फलेन; मॊक्षः कथं सयात पुरुषस्य तस्मात 23 कषेत्रे सुकृष्टे हय उपिते च बीजे; देवे च वर्षत्य ऋतुकालयुक्तम न सयात फलं तस्य कुतः परसिद्धिर; अन्यत्र दैवाद इति चिन्तयामि 24 कृतं मताक्षेण यथा न साधु साधु; परवृत्तेन च पाण्डवेन मया च दुष्पुत्र वशानुगेन; यथा कुरूणाम अयम अन्तकालः 25 धरुवं परवास्यत्य असमीरितॊ ऽपि; धरुवं परजास्यत्य उत गर्भिणी या धरुवं दिनादौ रजनी परणाशस; तथा कषपादौ च दिनप्रणाशः 26 करियेत कस्मान न परे च कुर्युर; वित्तं न दद्युः पुरुषाः कथं चित पराप्यार्थ कालं च भवेद अनर्थः; कथं नु तत सयाद इति तत कुतः सयात 27 कथं न भिद्येत न च सरवेत; न च परसिच्येद इति रक्षितव्यम अरक्ष्यमाणः शतधा विशीर्येद; धरुवं न नाशॊ ऽसति कृतस्य लॊके 28 गतॊ हय अरण्याद अपि शक्र लॊकं; धनंजयः पश्यत वीर्यम अस्य अस्त्राणि दिव्यानि चतुर्विधानि; जञात्वा पुनर लॊकम इमं परपन्नः 29 सवर्गं हि गत्वा सशरीर एव; कॊ मानुषः पुनर आगन्तुम इच्छेत अन्यत्र कालॊपहतान अनेकान; समीक्षमाणस तु कुरून मुमूर्षान 30 धनुर गराहश चार्जुनः सव्यसाची; धनुश च तद गाण्डिवं लॊकसारम अस्त्राणि दिव्यानि च तानि तस्य; तरयस्य तेजॊ परसहेत कॊ नु 31 निशम्य तद वचनं पार्थिवस्य; दुर्यॊधनॊ रहिते सौबलश च अबॊधयत कर्णम उपेत्य सर्वं; स चाप्य अहृष्टॊ ऽभवद अल्पचेताः |
1
[janam] evaṃ vane vartamānā narāgryāḥ; śītoṣṇavātātapa karśitāṅgāḥ saras tad āsādya vanaṃ ca puṇyaṃ; tataḥ paraṃ kim akurvanta pārthāḥ 2 [vai] saras tad āsādya tu pāṇḍuputrā; janaṃ samutsṛjya vidhāya caiṣām vanāni ramyāṇy atha parvatāṃś ca; nadī pradeśāṃś ca tadā viceruḥ 3 tathā vane tān vasataḥ pravīrān; svādhyāyavantaś ca tapodhanāś ca abhyāyayur veda vidaḥ purāṇās; tān pūjayām āsur atho narāgryāḥ 4 tataḥ kadā cit kuśalaḥ kathāsu; vipro 'bhyagacchad bhuvi kauraveyān sa taiḥ sametyātha yadṛcchayaiva; vaicitravīryaṃ nṛpam abhyagacchat 5 athopaviṣṭaḥ pratisatkṛtaś ca; vṛddhena rājñā kurusattamena pracoditaḥ san kathayāṃ babhūva; dharmānilendra prabhavān yamau ca 6 kṛśāṃś ca vātātapakarśitāṅgān; duḥkhasya cograsya mukhe prapannān tāṃ cāpy anāthām iva vīra nāthāṃ; kṛṣṇāṃ parikleśa guṇena yuktām 7 tataḥ kathāṃ tasya niśamya rājā; vaicitravīryaḥ kṛpayābhitaptaḥ vane sthitān pārthiva putrapautrāñ; śrutvā tadā duḥkhanadīṃ prapannān 8 provāca daityābhihatāntar ātmā; niḥśvāsabāspopahataḥ sa pārthān vācaṃ kathaṃ cit sthiratām upetya; tat sarvam ātmaprabhavaṃ vicintya 9 kathaṃ nu satyaḥ śucir ārya vṛtto; jyeṣṭhaḥ sutānāṃ mama dharmarājaḥ ajātaśatruḥ pṛthivītalasthaḥ; śete purā rāṅkava kūṭaśāyī 10 prabodyate māgadha sūta pūgair; nityaṃ stuvadbhiḥ svayam indrakalpaḥ patatrisaṃghaiḥ sa jaghanyarātre; prabodhyate nūnam iḍā talasthaḥ 11 kathaṃ nu vātātapakarśitāṅgo; vṛkodaraḥ kopapariplutāṅgaḥ śete pṛthivyām atathocitāṅgaḥ; kṛṣṇā samakṣaṃ vasudhātalasthaḥ 12 tathārjunaḥ sukumāro manasvī; vaśe sthito dharmasutasya rājñaḥ vidūyamānair iva sarga gātrair; dhruvaṃ na śete vasatīr amarṣāt 13 yamau ca kṛṣṇāṃ ca yudhiṣṭhiraṃ ca; bhīmaṃ ca dṛṣṭvā sukhaviprayuktān viniḥśvasan sarpa ivogratejā; dhruvaṃ na śete vasatīr amarṣāt 14 tathā yamau cāpy asukhau sukhārhau; samṛddharūpāv amarau divīva prajāgarasthau dhruvam apraśāntau; dharmeṇa satyena ca vāryamāṇau 15 samīraṇenāpi samo balena; samīraṇasyaiva suto balīyān sa dharmapāśena sitogra tejā; dhruvaṃ viniḥśvasya sahaty amarṣam 16 sa cāpi bhūmau parivartamāno; vadhaṃ sutānāṃ mama kāṅkṣamāṇaḥ satyena dharmeṇa ca vāryamāṇaḥ; kālaṃ pratīkṣaty adhiko raṇe 'nyaiḥ 17 ajātaśatrau tu jite nikṛtyā; duḥśāsano yat paruṣāṇy avocat tāni praviṣṭāni vṛkodarāṅgaṃ; dahanti marmāgnir ivendhanāni 18 na pāpakaṃ dhyāsyati dharmaputro; dhanaṃjayaś cāpy anuvartate tam araṇyavāsena vivardhate tu; bhīmasya kopo 'gnir ivānalena 19 sa tena kopena vidīryamāṇaḥ; karaṃ kareṇābhinipīḍya vīraḥ viniḥśvasaty uṣṇam atīva ghoraṃ; dahann ivemān mama putrapautrān 20 gāṇḍīvadhanvā ca vṛkodaraś ca; saṃrambhiṇāv antakakālakalpau na śeṣayetāṃ yudhi śatrusenāṃ; śarān kirantāv aśaniprakāśān 21 duryodhanaḥ śakuniḥ sūtaputro; duḥśāsanaś cāpi sumandacetāḥ madhu prapaśyanti na tu prapātaṃ; vṛkodaraṃ caiva dhanaṃjayaṃ ca 22 śubhāśubhaṃ puruṣaḥ karmakṛtvā; pratīkṣate tasya phalaṃ sma kartā sa tena yujyaty avaśaḥ phalena; mokṣaḥ kathaṃ syāt puruṣasya tasmāt 23 kṣetre sukṛṣṭe hy upite ca bīje; deve ca varṣaty ṛtukālayuktam na syāt phalaṃ tasya kutaḥ prasiddhir; anyatra daivād iti cintayāmi 24 kṛtaṃ matākṣeṇa yathā na sādhu sādhu; pravṛttena ca pāṇḍavena mayā ca duṣputra vaśānugena; yathā kurūṇām ayam antakālaḥ 25 dhruvaṃ pravāsyaty asamīrito 'pi; dhruvaṃ prajāsyaty uta garbhiṇī yā dhruvaṃ dinādau rajanī praṇāśas; tathā kṣapādau ca dinapraṇāśaḥ 26 kriyeta kasmān na pare ca kuryur; vittaṃ na dadyuḥ puruṣāḥ kathaṃ cit prāpyārtha kālaṃ ca bhaved anarthaḥ; kathaṃ nu tat syād iti tat kutaḥ syāt 27 kathaṃ na bhidyeta na ca sraveta; na ca prasicyed iti rakṣitavyam arakṣyamāṇaḥ śatadhā viśīryed; dhruvaṃ na nāśo 'sti kṛtasya loke 28 gato hy araṇyād api śakra lokaṃ; dhanaṃjayaḥ paśyata vīryam asya astrāṇi divyāni caturvidhāni; jñātvā punar lokam imaṃ prapannaḥ 29 svargaṃ hi gatvā saśarīra eva; ko mānuṣaḥ punar āgantum icchet anyatra kālopahatān anekān; samīkṣamāṇas tu kurūn mumūrṣān 30 dhanur grāhaś cārjunaḥ savyasācī; dhanuś ca tad gāṇḍivaṃ lokasāram astrāṇi divyāni ca tāni tasya; trayasya tejo prasaheta ko nu 31 niśamya tad vacanaṃ pārthivasya; duryodhano rahite saubalaś ca abodhayat karṇam upetya sarvaṃ; sa cāpy ahṛṣṭo 'bhavad alpacetāḥ |
The Mahabharata in Sanskrit
Book 3
Chapter 226
|
1
[वै] धृतराष्ट्रस्य तद वाक्यं निशम्य सह सौबलः दुर्यॊधनम इदं काले कर्णॊ वचनम अब्रवीत 2 परव्राज्य पाण्डवान वीरान सवेन वीर्येण भारत भुङ्क्ष्वेमां पृथिवीम एकॊ दिवं शम्बरहा यथा 3 पराच्याश च दाक्षिणात्याश च परतीच्यॊदीच्यवासिनः कृताः करप्रदाः सर्वे राजानस ते नराधिप 4 या हि सा दीप्यमानेव पाण्डवान भजते पुरा साद्य लक्ष्मीस तवया राजन्न अवाप्ता भरातृभिः सह 5 इन्द्रप्रस्थ गते यां तां दीप्यमानां युधिष्ठिरे अपश्याम शरियं राजन्न अचिरं शॊककर्शिताः 6 सा तु बुद्धिबलेनेयं राज्ञस तस्माद युधिष्ठिरात तवयाक्षिप्ता महाबाहॊ दीप्यमानेव दृश्यते 7 तथैव तव राजेन्द्र राजानः परवीरहन शासने ऽधिष्ठिताः सर्वे किं कुर्म इति वादिनः 8 तवाद्य पृथिवी राजन निखिला सागराम्बरा सपर्वतवना देवी सग्राम नगराकरा नाना वनॊद्देशवती पत्तनैर उपशॊभिता 9 वन्द्यमानॊ दविजै राजन पूज्यमानश च राजभिः पौरुषाद दिवि देवेषु भराजसे रश्मिवान इव 10 रुद्रैर इव यमॊ राजा मरुद्भिर इव वासवः कुरुभिस तवं वृतॊ राजन भासि नक्षत्रराड इव 11 ये सम ते नाद्रियन्ते ऽऽजञां नॊद्विजन्ते कदा च न पश्यामस ताञ शरिया हीनान पाण्डवान वनवासिनः 12 शरूयन्ते हि महाराज सरॊ दवैतवनं परति वसन्तः पाण्डवाः सार्धं बराह्मणैर वनवासिभिः 13 स परयाहि महाराज शरिया परमया युतः परतपन पाण्डुपुत्रांस तवं रश्मिवान इव तेजसा 14 सथितॊ राज्ये चयुतान राज्याच छरिया हीनाञ शरिया वृतः असमृद्धान समृद्धार्थः पश्य पाण्डुसुतान नृप 15 महाभिजन संपन्नं भद्रे महति संस्थितम पाण्डवास तवाभिवीक्षन्तां ययातिम इव नाहुषम 16 यां शरियं सुहृदश चैव दुर्हृदश च विशां पते पश्यन्ति पुरुषे दीप्तां सा समर्था भवत्य उत 17 समस्थॊ विषमस्थान हि दुर्हृदॊ यॊ ऽभिवीक्षते जगतीस्थान इवाद्रिस्थः किं ततः परमं सुखम 18 न पुत्र धनलाभेन न राज्येनापि विन्दति परीतिं नृपतिशार्दूल याम अमित्राघ दर्शनात 19 किं नु तस्य सुखं न सयाद आश्रमे यॊ धनंजयम अभिवीक्षेत सिद्धार्थॊ वकलाजिन वाससम 20 सुवाससॊ हि ते भार्या वकलाजिन वाससम पश्यन्त्व असुखितां कृष्णां सा च निर्विद्यतां पुनः विनिन्दतां तथात्मानं जीवितं च धनच्युता 21 न तथा हि सभामध्ये तस्या भवितुम अर्हति वैमनस्य यथादृष्ट्वा तव भार्याः सवलंकृताः 22 एवम उक्त्वा तु राजानं कर्णः शकुनिना सह तूष्णीं बभूवतुर उभौ वाक्यान्ते जनमेजय |
1
[vai] dhṛtarāṣṭrasya tad vākyaṃ niśamya saha saubalaḥ duryodhanam idaṃ kāle karṇo vacanam abravīt 2 pravrājya pāṇḍavān vīrān svena vīryeṇa bhārata bhuṅkṣvemāṃ pṛthivīm eko divaṃ śambarahā yathā 3 prācyāś ca dākṣiṇātyāś ca pratīcyodīcyavāsinaḥ kṛtāḥ karapradāḥ sarve rājānas te narādhipa 4 yā hi sā dīpyamāneva pāṇḍavān bhajate purā sādya lakṣmīs tvayā rājann avāptā bhrātṛbhiḥ saha 5 indraprastha gate yāṃ tāṃ dīpyamānāṃ yudhiṣṭhire apaśyāma śriyaṃ rājann aciraṃ śokakarśitāḥ 6 sā tu buddhibaleneyaṃ rājñas tasmād yudhiṣṭhirāt tvayākṣiptā mahābāho dīpyamāneva dṛśyate 7 tathaiva tava rājendra rājānaḥ paravīrahan śāsane 'dhiṣṭhitāḥ sarve kiṃ kurma iti vādinaḥ 8 tavādya pṛthivī rājan nikhilā sāgarāmbarā saparvatavanā devī sagrāma nagarākarā nānā vanoddeśavatī pattanair upaśobhitā 9 vandyamāno dvijai rājan pūjyamānaś ca rājabhiḥ pauruṣād divi deveṣu bhrājase raśmivān iva 10 rudrair iva yamo rājā marudbhir iva vāsavaḥ kurubhis tvaṃ vṛto rājan bhāsi nakṣatrarāḍ iva 11 ye sma te nādriyante ''jñāṃ nodvijante kadā ca na paśyāmas tāñ śriyā hīnān pāṇḍavān vanavāsinaḥ 12 śrūyante hi mahārāja saro dvaitavanaṃ prati vasantaḥ pāṇḍavāḥ sārdhaṃ brāhmaṇair vanavāsibhiḥ 13 sa prayāhi mahārāja śriyā paramayā yutaḥ pratapan pāṇḍuputrāṃs tvaṃ raśmivān iva tejasā 14 sthito rājye cyutān rājyāc chriyā hīnāñ śriyā vṛtaḥ asamṛddhān samṛddhārthaḥ paśya pāṇḍusutān nṛpa 15 mahābhijana saṃpannaṃ bhadre mahati saṃsthitam pāṇḍavās tvābhivīkṣantāṃ yayātim iva nāhuṣam 16 yāṃ śriyaṃ suhṛdaś caiva durhṛdaś ca viśāṃ pate paśyanti puruṣe dīptāṃ sā samarthā bhavaty uta 17 samastho viṣamasthān hi durhṛdo yo 'bhivīkṣate jagatīsthān ivādristhaḥ kiṃ tataḥ paramaṃ sukham 18 na putra dhanalābhena na rājyenāpi vindati prītiṃ nṛpatiśārdūla yām amitrāgha darśanāt 19 kiṃ nu tasya sukhaṃ na syād āśrame yo dhanaṃjayam abhivīkṣeta siddhārtho vakalājina vāsasam 20 suvāsaso hi te bhāryā vakalājina vāsasam paśyantv asukhitāṃ kṛṣṇāṃ sā ca nirvidyatāṃ punaḥ vinindatāṃ tathātmānaṃ jīvitaṃ ca dhanacyutā 21 na tathā hi sabhāmadhye tasyā bhavitum arhati vaimanasya yathādṛṣṭvā tava bhāryāḥ svalaṃkṛtāḥ 22 evam uktvā tu rājānaṃ karṇaḥ śakuninā saha tūṣṇīṃ babhūvatur ubhau vākyānte janamejaya |
The Mahabharata in Sanskrit
Book 3
Chapter 227
|
1
[वै] कर्णस्य वचनं शरुत्वा राजा दुर्यॊधनस तदा हृष्टॊ भूत्वा पुनर दीन इदं वचनम अब्रवीत 2 बरवीषि यद इदं कर्ण सर्वं मे मनसि सथितम न तव अभ्यनुज्ञां लप्स्यामि गमने यत्र पाण्डवाः 3 परिदेवति तान वीरान धृतराष्ट्रॊ महीपतिः मन्यते ऽभयधिकांश चापि तपॊयॊगेन पाण्डवान 4 अथ वाप्य अनुबुध्येत नृपॊ ऽसमाकं चिकीर्षितम एवम अप्य आयतिं रक्षन नाभ्यनुज्ञातुम अर्हति 5 न हि दवैतवने किं चिद विद्यते ऽनयत परयॊजनम उत्सादनम ऋते तेषां वनस्थानां मम दविषाम 6 जानासि हि यथा कषत्ता दयूतकाल उपस्थिते अब्रवीद यच च मां तवां च सौबलं च वचस तदा 7 तानि पूर्वाणि वाक्यानि यच चान्यत परिदेवितम विचिन्त्य नाधिगच्छामि गमनायेतराय वा 8 ममापि हि महान हर्षॊ यद अहं भीम फल्गुनौ कलिष्टाव अरण्ये पश्येयं कृष्णया सहिताव इति 9 न तथा पराप्नुयां परीतिम अवाप्य वसुधाम अपि दृष्ट्वा यथा पाण्डुसुतान वल्लकाजिन वाससः 10 किं नु सयाद अधिकं तस्माद यद अहं दरुपदात्मजाम दरौपदीं कर्ण पश्येयं काषायवसनां वने 11 यदि मां धर्मराजश च भीमसेनश च पाण्डवः युक्तं परमया लक्ष्म्या पश्येतां जीवितं भवेत 12 उपायं न तु पश्यामि येन गच्छेम तद वनम यथा चाभ्यनुजानीयाद गच्छन्तं मां महीपतिः 13 स सौबलेन सहितस तथा दुःशासनेन च उपायं पश्य निपुणं येन गच्छेम तद वनम 14 अहम अप्य अद्य निश्चित्य गमनायेतराय वा काल्यम एव गमिष्यामि समीपं पार्थिवस्य ह 15 मयि तत्रॊपविष्टे तु भीष्मे च कुरुसत्तमे उपायॊ यॊ भवेद दृष्टस तं बरूयाः सह सौबलः 16 ततॊ भीष्मस्य राज्ञश च निशम्य गमनं परति वयवसायं करिष्ये ऽहम अनुनीय पितामहम 17 तथेत्य उक्त्वा तु ते सर्वे जग्मुर आवसथान परति वयुषितायां रजन्यां तु कर्णॊ राजानम अभ्ययात 18 ततॊ दुर्यॊधनं कर्णः परहसन्न इदम अब्रवीत उपायः परिदृष्टॊ ऽयं तं निबॊध जनेश्वर 19 घॊषा दवैतवने सर्वे तवत्प्रतीक्षा नराधिप घॊषयात्रापदेशेन गमिष्यामॊ न संशयः 20 उचितं हि सदा गन्तुं घॊषयात्रां विशां पते एवं च तवां पिता राजन समनुज्ञातुम अर्हति 21 तथा कथयमानौ तौ घॊषयात्रा विनिश्चयम गान्धारराजः शकुनिः परत्युवाच हसन्न इव 22 उपायॊ ऽयं मया दृष्टॊ गमनाय निरामयः अनुज्ञास्यति नॊ राजा चॊदयिष्यति चाप्य उत 23 घॊषा दवैतवने सर्वे तवत्प्रतीक्षा नराधिप घॊषयात्रापदेशेन गमिष्यामॊ न संशयः 24 ततः परहसिताः सर्वे ते ऽनयॊन्यस्य तलान ददुः तद एव च विनिश्चित्य ददृशुः कुरुसत्तमम |
1
[vai] karṇasya vacanaṃ śrutvā rājā duryodhanas tadā hṛṣṭo bhūtvā punar dīna idaṃ vacanam abravīt 2 bravīṣi yad idaṃ karṇa sarvaṃ me manasi sthitam na tv abhyanujñāṃ lapsyāmi gamane yatra pāṇḍavāḥ 3 paridevati tān vīrān dhṛtarāṣṭro mahīpatiḥ manyate 'bhyadhikāṃś cāpi tapoyogena pāṇḍavān 4 atha vāpy anubudhyeta nṛpo 'smākaṃ cikīrṣitam evam apy āyatiṃ rakṣan nābhyanujñātum arhati 5 na hi dvaitavane kiṃ cid vidyate 'nyat prayojanam utsādanam ṛte teṣāṃ vanasthānāṃ mama dviṣām 6 jānāsi hi yathā kṣattā dyūtakāla upasthite abravīd yac ca māṃ tvāṃ ca saubalaṃ ca vacas tadā 7 tāni pūrvāṇi vākyāni yac cānyat paridevitam vicintya nādhigacchāmi gamanāyetarāya vā 8 mamāpi hi mahān harṣo yad ahaṃ bhīma phalgunau kliṣṭāv araṇye paśyeyaṃ kṛṣṇayā sahitāv iti 9 na tathā prāpnuyāṃ prītim avāpya vasudhām api dṛṣṭvā yathā pāṇḍusutān vallakājina vāsasaḥ 10 kiṃ nu syād adhikaṃ tasmād yad ahaṃ drupadātmajām draupadīṃ karṇa paśyeyaṃ kāṣāyavasanāṃ vane 11 yadi māṃ dharmarājaś ca bhīmasenaś ca pāṇḍavaḥ yuktaṃ paramayā lakṣmyā paśyetāṃ jīvitaṃ bhavet 12 upāyaṃ na tu paśyāmi yena gacchema tad vanam yathā cābhyanujānīyād gacchantaṃ māṃ mahīpatiḥ 13 sa saubalena sahitas tathā duḥśāsanena ca upāyaṃ paśya nipuṇaṃ yena gacchema tad vanam 14 aham apy adya niścitya gamanāyetarāya vā kālyam eva gamiṣyāmi samīpaṃ pārthivasya ha 15 mayi tatropaviṣṭe tu bhīṣme ca kurusattame upāyo yo bhaved dṛṣṭas taṃ brūyāḥ saha saubalaḥ 16 tato bhīṣmasya rājñaś ca niśamya gamanaṃ prati vyavasāyaṃ kariṣye 'ham anunīya pitāmaham 17 tathety uktvā tu te sarve jagmur āvasathān prati vyuṣitāyāṃ rajanyāṃ tu karṇo rājānam abhyayāt 18 tato duryodhanaṃ karṇaḥ prahasann idam abravīt upāyaḥ paridṛṣṭo 'yaṃ taṃ nibodha janeśvara 19 ghoṣā dvaitavane sarve tvatpratīkṣā narādhipa ghoṣayātrāpadeśena gamiṣyāmo na saṃśayaḥ 20 ucitaṃ hi sadā gantuṃ ghoṣayātrāṃ viśāṃ pate evaṃ ca tvāṃ pitā rājan samanujñātum arhati 21 tathā kathayamānau tau ghoṣayātrā viniścayam gāndhārarājaḥ śakuniḥ pratyuvāca hasann iva 22 upāyo 'yaṃ mayā dṛṣṭo gamanāya nirāmayaḥ anujñāsyati no rājā codayiṣyati cāpy uta 23 ghoṣā dvaitavane sarve tvatpratīkṣā narādhipa ghoṣayātrāpadeśena gamiṣyāmo na saṃśayaḥ 24 tataḥ prahasitāḥ sarve te 'nyonyasya talān daduḥ tad eva ca viniścitya dadṛśuḥ kurusattamam |
The Mahabharata in Sanskrit
Book 3
Chapter 228
|
1
[वै] धृतराष्ट्रं ततः सर्वे ददृशुर जनमेजय पृष्ट्वा सुखम अथॊ राज्ञः पृष्ट्वा राज्ञा च भारत 2 ततस तैर विहितः पूर्वं समङ्गॊ नाम बल्लवः समीपस्थास तदा गावॊ धृतराष्ट्रे नयवेदयत 3 अनन्तरं च राधेयः शकुनिश च विशां पते आहतुः पार्थिवश्रेष्ठं धृतराष्ट्रं जनाधिपम 4 रमणीयेषु देशेषु घॊषाः संप्रति कौरव समारणा समयः पराप्तॊ वत्सानाम अपि चाङ्कनम 5 मृगया चॊचिता राजन्न अस्मिन काले सुतस्य ते दुर्यॊधनस्य गमनं तवम अनुज्ञातुम अर्हसि 6 [धृत] मृगया शॊभना तात गवां च समवेक्षणम विश्रम्भस तु न गन्तव्यॊ बल्लवानाम इति समरे 7 ते तु तत्र नरव्याघ्राः समीप इति नः शरुतम अतॊ नाभ्यनुजानामि गमनं तत्र वः सवयम 8 छद्मना निर्जितास ते हि कर्शिताश च महावने तपॊनित्याश च राधेय समर्थाश च महारथाः 9 धर्मराजॊ न संक्रुध्येद भीमसेनस तव अमर्षणः यज्ञसेनस्य दुहिता तेज एव तु केवलम 10 यूयं चाप्य अपराध्येयुर दर्पमॊहसमन्विताः ततॊ विनिर्दहेयुस ते तपसा हि समन्विताः 11 अथ वा सायुधा वीरा मनुनाभिपरिप्लुताः सहिता बद्धनिस्त्रिंशा दहेयुः शस्त्रतेजसा 12 अथ यूयं बहुत्वात तान आरभध्वं कथं चन अनार्यं परमं तः सयाद अशक्यं तच च मे मतम 13 उषितॊ हि महाबाहुर इन्द्रलॊके धनंजयः दिव्यान्य अस्त्राण्य अवाप्याथ ततः परत्यागतॊ वनम 14 अकृतास्त्रेण पृथिवी जिता बीभत्सुना पुरा किं पुनः स कृतास्त्रॊ ऽदय न हन्याद वॊ महारथः 15 अथ वा मद्वचॊ शरुत्वा तत्र यत्ता भविष्यथ उद्विग्नवासॊ विश्रम्भाद दुःखं तत्र भविष्यति 16 अथ वा सैनिकाः के चिद अपकुर्युर युधिष्ठिरे तद अबुद्धि कृतं कर्म दॊषम उत्पादयेच च वः 17 तस्माद गच्छन्तु पुरुषाः समारणायाप्त कारिणः न सवयं तत्र गमनं रॊचये तव भारत 18 [षकुनि] धर्मज्ञः पाण्डवॊ जयेष्ठः परतिज्ञातं च संसदि तेन दवादश वर्षाणि वस्तव्यानीति भारत 19 अनुवृत्ताश च ते सर्वे पाण्डवा धर्मचारिणः युधिष्ठिरश च कौन्तेयॊ न नः कॊपं करिष्यति 20 मृगयां चैव नॊ गन्तुम इच्छा संवर्धते भृशम समारणं च चिकीर्षामॊ न तु पाण्डव दर्शनम 21 न चानार्य समाचारः कश चित तत्र भविष्यति न च तत्र गमिष्यामॊ यत्र तेषां परतिश्रयः 22 [वै] एवम उक्तः शकुनिना धृतराष्ट्रॊ जनेश्वरः दुर्यॊधनं सहामात्यम अनुजज्ञे न कामतः 23 अनुज्ञातस तु गान्धारिः कर्णेन सहितस तदा निर्ययौ भरतश्रेष्ठॊ बलेन महता वृतः 24 दुःशासनेन च तथा सौबलेन च देविना संवृतॊ भरातृभिश चान्यैः सत्रीभिश चापि सहस्रशः 25 तं निर्यान्तं महाबाहुं दरष्टुं दवैतवनं सरः पौराश चानुययुः सर्वे सह दारा वनं च तत 26 अष्टौ रथसहस्राणि तरीणि नागायुतानि च पत्तयॊ बहुसाहस्रा हयाश च नवतिः शताः 27 शकटापण वेश्याश च वणिजॊ बन्दिनस तथा नराश च मृगया शीलाः शतशॊ ऽथ सहस्रशः 28 ततः परयाणे नृपतेः सुमहान अभवत सवनः परावृषीव महावायॊर उद्धतस्य विशां पते 29 गव्यूति मात्रे नयवसद राजा दुर्यॊधनस तदा परयातॊ वाहनैः सर्वैस ततॊ दवैतवनं सरः |
1
[vai] dhṛtarāṣṭraṃ tataḥ sarve dadṛśur janamejaya pṛṣṭvā sukham atho rājñaḥ pṛṣṭvā rājñā ca bhārata 2 tatas tair vihitaḥ pūrvaṃ samaṅgo nāma ballavaḥ samīpasthās tadā gāvo dhṛtarāṣṭre nyavedayat 3 anantaraṃ ca rādheyaḥ śakuniś ca viśāṃ pate āhatuḥ pārthivaśreṣṭhaṃ dhṛtarāṣṭraṃ janādhipam 4 ramaṇīyeṣu deśeṣu ghoṣāḥ saṃprati kaurava smāraṇā samayaḥ prāpto vatsānām api cāṅkanam 5 mṛgayā cocitā rājann asmin kāle sutasya te duryodhanasya gamanaṃ tvam anujñātum arhasi 6 [dhṛt] mṛgayā śobhanā tāta gavāṃ ca samavekṣaṇam viśrambhas tu na gantavyo ballavānām iti smare 7 te tu tatra naravyāghrāḥ samīpa iti naḥ śrutam ato nābhyanujānāmi gamanaṃ tatra vaḥ svayam 8 chadmanā nirjitās te hi karśitāś ca mahāvane taponityāś ca rādheya samarthāś ca mahārathāḥ 9 dharmarājo na saṃkrudhyed bhīmasenas tv amarṣaṇaḥ yajñasenasya duhitā teja eva tu kevalam 10 yūyaṃ cāpy aparādhyeyur darpamohasamanvitāḥ tato vinirdaheyus te tapasā hi samanvitāḥ 11 atha vā sāyudhā vīrā manunābhipariplutāḥ sahitā baddhanistriṃśā daheyuḥ śastratejasā 12 atha yūyaṃ bahutvāt tān ārabhadhvaṃ kathaṃ cana anāryaṃ paramaṃ taḥ syād aśakyaṃ tac ca me matam 13 uṣito hi mahābāhur indraloke dhanaṃjayaḥ divyāny astrāṇy avāpyātha tataḥ pratyāgato vanam 14 akṛtāstreṇa pṛthivī jitā bībhatsunā purā kiṃ punaḥ sa kṛtāstro 'dya na hanyād vo mahārathaḥ 15 atha vā madvaco śrutvā tatra yattā bhaviṣyatha udvignavāso viśrambhād duḥkhaṃ tatra bhaviṣyati 16 atha vā sainikāḥ ke cid apakuryur yudhiṣṭhire tad abuddhi kṛtaṃ karma doṣam utpādayec ca vaḥ 17 tasmād gacchantu puruṣāḥ smāraṇāyāpta kāriṇaḥ na svayaṃ tatra gamanaṃ rocaye tava bhārata 18 [ṣakuni] dharmajñaḥ pāṇḍavo jyeṣṭhaḥ pratijñātaṃ ca saṃsadi tena dvādaśa varṣāṇi vastavyānīti bhārata 19 anuvṛttāś ca te sarve pāṇḍavā dharmacāriṇaḥ yudhiṣṭhiraś ca kaunteyo na naḥ kopaṃ kariṣyati 20 mṛgayāṃ caiva no gantum icchā saṃvardhate bhṛśam smāraṇaṃ ca cikīrṣāmo na tu pāṇḍava darśanam 21 na cānārya samācāraḥ kaś cit tatra bhaviṣyati na ca tatra gamiṣyāmo yatra teṣāṃ pratiśrayaḥ 22 [vai] evam uktaḥ śakuninā dhṛtarāṣṭro janeśvaraḥ duryodhanaṃ sahāmātyam anujajñe na kāmataḥ 23 anujñātas tu gāndhāriḥ karṇena sahitas tadā niryayau bharataśreṣṭho balena mahatā vṛtaḥ 24 duḥśāsanena ca tathā saubalena ca devinā saṃvṛto bhrātṛbhiś cānyaiḥ strībhiś cāpi sahasraśaḥ 25 taṃ niryāntaṃ mahābāhuṃ draṣṭuṃ dvaitavanaṃ saraḥ paurāś cānuyayuḥ sarve saha dārā vanaṃ ca tat 26 aṣṭau rathasahasrāṇi trīṇi nāgāyutāni ca pattayo bahusāhasrā hayāś ca navatiḥ śatāḥ 27 śakaṭāpaṇa veśyāś ca vaṇijo bandinas tathā narāś ca mṛgayā śīlāḥ śataśo 'tha sahasraśaḥ 28 tataḥ prayāṇe nṛpateḥ sumahān abhavat svanaḥ prāvṛṣīva mahāvāyor uddhatasya viśāṃ pate 29 gavyūti mātre nyavasad rājā duryodhanas tadā prayāto vāhanaiḥ sarvais tato dvaitavanaṃ saraḥ |
The Mahabharata in Sanskrit
Book 3
Chapter 229
|
1
[वै] अथ दुर्यॊधनॊ राजा तत्र तत्र वने वसन जगाम घॊषान अभितस तत्र चक्रे निवेशनम 2 रमणीये समाज्ञाते सॊदके समहीरुहे देशे सर्वगुणॊपेते चक्रुर आवसथं नराः 3 तथैव तत समीपस्थान पृथग आवसथान बहून कर्णस्य शकुनेश चैव भरातॄणां चैव सर्वशः 4 ददर्श स तदा गावः शतशॊ ऽथ सहस्रशः अङ्कैर लक्षैश च ताः सर्वा लक्षयाम आस पार्थिवः 5 अङ्कयाम आस वत्सांश च जज्ञे चॊपसृतास तव अपि बाल वत्साश च या गावः कालयाम आस ता अपि 6 अथ स समारणं कृत्वा लक्षयित्वा तरिहायनान वृतॊ गॊपालकैः परीतॊ वयहरत कुरुनन्दनः 7 स च पौरजनः सर्वः सैनिकाश च सहस्रशः यथॊपजॊषं चिक्रीडुर वने तस्मिन यथामराः 8 ततॊ गॊपाः परगातारः कुशला नृत्तवादिते धार्तराष्ट्रम उपातिष्ठन कन्याश चैव सवलंकृताः 9 स सत्रीगणवृतॊ राजा परहृष्टः परददौ वसु तेभ्यॊ यथार्हम अन्नानि पानानि विविधानि च 10 ततस ते सहिताः सर्वे तरक्षून महिषान मृगान गवयर्क्ष वराहांश च समन्तात पर्यकालयन 11 स ताञ शरैर विनिर्भिन्दन गजान बध्नन महावने रमणीयेषु देशेषु गराहयाम आस वै मृगान 12 गॊरसान उपयुञ्जान उपभॊगांश च भारत पश्यन सुरमणीयानि पुष्पितानि वनानि च 13 मत्तभ्रमर जुष्टानि बर्हिणाभिरुतानि च अगच्छद आनुपूर्व्येण पुण्यं दवैतवनं सरः ऋद्ध्या परमया युक्तॊ महेन्द्र इव वज्रभृत 14 यदृच्छया च तद अहॊ धर्मपुत्रॊ युधिष्ठिरः ईजे राजर्षियज्ञेन सद्यस्केन विशां पते दिव्येन विधिना राजा वन्येन कुरुसत्तमः 15 कृत्वा निवेशम अभितः सरसस तस्य कौरवः दरौपद्या सहितॊ धीमान धर्मपत्न्या नराधिपः 16 ततॊ दुर्यॊधनः परेष्यान आदिदेश सहानुजः आक्रीडावसथाः कषिप्रं करियन्ताम इति भारत 17 ते तथेत्य एव कौरव्यम उक्त्वा वचनकारिणः चिकीर्षन्तस तदाक्रीडाञ जग्मुर दवैतवनं सरः 18 सेनाग्रं धार्तराष्ट्रस्य पराप्तं दवैतवनं सरः परविशन्तं वनद्वारि गन्धर्वाः समवारयन 19 तत्र गन्धर्वराजॊ वै पूर्वम एव विशां पते कुबेरभवनाद राजन्न आजगाम गणावृतः 20 गणैर अप्सरसां चैव तरिदशानां तथात्मजैः विहारशीलः करीडार्थं तेन तत संवृतं सरः 21 तेन तत संवृतं दृष्ट्वा ते राजपरिचारकाः परतिजग्मुस ततॊ राजन यत्र दुर्यॊधनॊ नृपः 22 स तु तेषां वचॊ शरुत्वा सैनिकान युद्धदुर्मदान परेषयाम आस कौरव्य उत्सारयत तान इति 23 तस्य तद वचनं शरुत्वा राज्ञः सेनाग्रयायिनः सरॊ दवैतवनं गत्वा गन्धर्वान इदम अब्रुवन 24 राजा दुर्यॊधनॊ नाम धृतराष्ट्र सुतॊ बली विजिहीर्षुर इहायाति तदर्थम अपसर्पत 25 एवम उक्तास तु गन्धर्वाः परहसन्तॊ विशां पते परत्यब्रुवंस तान पुरुषान इदं सुपरुषं वचः 26 न चेतयति वॊ राजा मन्दबुद्धिः सुयॊधनः यॊ ऽसमान आज्ञापयत्य एवं वश्यान इव दिवौकसः 27 यूयं मुमूर्षवश चापि मन्दप्रज्ञा न संशयः ये तस्य वचनाद एवम अस्मान बरूत विचेतसः 28 गच्छत तवरिताः सर्वे यत्र राजा स कौरवः दवेष्यं माद्यैव गच्छध्वं धर्मराज निवेशनम 29 एवम उक्तास तु गन्धर्वै राज्ञः सेनाग्रयायिनः संप्राद्रवन्यतॊ राजा धृतराष्ट्र सुतॊ ऽभवत |
1
[vai] atha duryodhano rājā tatra tatra vane vasan jagāma ghoṣān abhitas tatra cakre niveśanam 2 ramaṇīye samājñāte sodake samahīruhe deśe sarvaguṇopete cakrur āvasathaṃ narāḥ 3 tathaiva tat samīpasthān pṛthag āvasathān bahūn karṇasya śakuneś caiva bhrātṝṇāṃ caiva sarvaśaḥ 4 dadarśa sa tadā gāvaḥ śataśo 'tha sahasraśaḥ aṅkair lakṣaiś ca tāḥ sarvā lakṣayām āsa pārthivaḥ 5 aṅkayām āsa vatsāṃś ca jajñe copasṛtās tv api bāla vatsāś ca yā gāvaḥ kālayām āsa tā api 6 atha sa smāraṇaṃ kṛtvā lakṣayitvā trihāyanān vṛto gopālakaiḥ prīto vyaharat kurunandanaḥ 7 sa ca paurajanaḥ sarvaḥ sainikāś ca sahasraśaḥ yathopajoṣaṃ cikrīḍur vane tasmin yathāmarāḥ 8 tato gopāḥ pragātāraḥ kuśalā nṛttavādite dhārtarāṣṭram upātiṣṭhan kanyāś caiva svalaṃkṛtāḥ 9 sa strīgaṇavṛto rājā prahṛṣṭaḥ pradadau vasu tebhyo yathārham annāni pānāni vividhāni ca 10 tatas te sahitāḥ sarve tarakṣūn mahiṣān mṛgān gavayarkṣa varāhāṃś ca samantāt paryakālayan 11 sa tāñ śarair vinirbhindan gajān badhnan mahāvane ramaṇīyeṣu deśeṣu grāhayām āsa vai mṛgān 12 gorasān upayuñjāna upabhogāṃś ca bhārata paśyan suramaṇīyāni puṣpitāni vanāni ca 13 mattabhramara juṣṭāni barhiṇābhirutāni ca agacchad ānupūrvyeṇa puṇyaṃ dvaitavanaṃ saraḥ ṛddhyā paramayā yukto mahendra iva vajrabhṛt 14 yadṛcchayā ca tad aho dharmaputro yudhiṣṭhiraḥ īje rājarṣiyajñena sadyaskena viśāṃ pate divyena vidhinā rājā vanyena kurusattamaḥ 15 kṛtvā niveśam abhitaḥ sarasas tasya kauravaḥ draupadyā sahito dhīmān dharmapatnyā narādhipaḥ 16 tato duryodhanaḥ preṣyān ādideśa sahānujaḥ ākrīḍāvasathāḥ kṣipraṃ kriyantām iti bhārata 17 te tathety eva kauravyam uktvā vacanakāriṇaḥ cikīrṣantas tadākrīḍāñ jagmur dvaitavanaṃ saraḥ 18 senāgraṃ dhārtarāṣṭrasya prāptaṃ dvaitavanaṃ saraḥ praviśantaṃ vanadvāri gandharvāḥ samavārayan 19 tatra gandharvarājo vai pūrvam eva viśāṃ pate kuberabhavanād rājann ājagāma gaṇāvṛtaḥ 20 gaṇair apsarasāṃ caiva tridaśānāṃ tathātmajaiḥ vihāraśīlaḥ krīḍārthaṃ tena tat saṃvṛtaṃ saraḥ 21 tena tat saṃvṛtaṃ dṛṣṭvā te rājaparicārakāḥ pratijagmus tato rājan yatra duryodhano nṛpaḥ 22 sa tu teṣāṃ vaco śrutvā sainikān yuddhadurmadān preṣayām āsa kauravya utsārayata tān iti 23 tasya tad vacanaṃ śrutvā rājñaḥ senāgrayāyinaḥ saro dvaitavanaṃ gatvā gandharvān idam abruvan 24 rājā duryodhano nāma dhṛtarāṣṭra suto balī vijihīrṣur ihāyāti tadartham apasarpata 25 evam uktās tu gandharvāḥ prahasanto viśāṃ pate pratyabruvaṃs tān puruṣān idaṃ suparuṣaṃ vacaḥ 26 na cetayati vo rājā mandabuddhiḥ suyodhanaḥ yo 'smān ājñāpayaty evaṃ vaśyān iva divaukasaḥ 27 yūyaṃ mumūrṣavaś cāpi mandaprajñā na saṃśayaḥ ye tasya vacanād evam asmān brūta vicetasaḥ 28 gacchata tvaritāḥ sarve yatra rājā sa kauravaḥ dveṣyaṃ mādyaiva gacchadhvaṃ dharmarāja niveśanam 29 evam uktās tu gandharvai rājñaḥ senāgrayāyinaḥ saṃprādravanyato rājā dhṛtarāṣṭra suto 'bhavat |
The Mahabharata in Sanskrit
Book 3
Chapter 230
|
1
[वै] ततस ते सहिताः सर्वे दुर्यॊधनम उपागमन अब्रुवंश च महाराज यद ऊचुः कौरवं परति 2 गन्धर्वैर वारिते सैन्ये धार्तराष्ट्रः परतापवान अमर्षपूर्णः सैन्यानि परत्यभाषत भारत 3 शासतैनान अधर्मज्ञान मम विप्रियकारिणः यदि परक्रीडितॊ देवैः सर्वैः सह शतक्रतुः 4 दुर्यॊधन वचॊ शरुत्वा धार्तराष्ट्रा महाबलाः सर्व एवाभिसंनद्धा यॊधाश चापि सहस्रशः 5 ततः परमथ्य गन्धर्वांस तद वनं विविशुर बलात सिंहनादेन महता पूरयन्तॊ दिशॊ दश 6 ततॊ ऽपरैर अवार्यन्त गन्धर्वैः कुरु सैनिकाः ते वार्यमाणा गन्धर्वैः साम्नैव वसुधाधिप तान अनादृत्य गन्धर्वांस तद वनं विविशुर महत 7 यदा वाचा न तिष्ठन्ति धार्तराष्ट्राः सराजकाः ततस ते खेचराः सर्वे चित्रसेने नयवेदयन 8 गन्धर्वराजस तान सर्वान अब्रवीत कौरवान परति अनार्याञ शासतेत्य एवं चित्रसेनॊ ऽतयमर्षणः 9 अनुज्ञातास तु गन्धर्वाश चित्रसेनेन भारत परगृहीतायुधाः सर्वे धार्तराष्ट्रान अभिद्रवन 10 तान दृष्ट्वा पततः शीघ्रान गन्धर्वान उद्यतायुधान सर्वे ते पराद्रवन संख्ये धार्तराष्ट्रस्य पश्यतः 11 तान दृष्ट्वा दरवतः सर्वान धार्तराष्ट्रान पराङ्मुखान वैकर्तनस तदा वीरॊ नासीत तत्र पराङ्मुखः 12 आपतन्तीं तु संप्रेक्ष्य गन्धर्वाणां महाचमूम महता शरवर्षेण राधेयः परत्यवारयत 13 कषुरपैर विशिखैर भल्लैर वत्सदन्तैस तथायसैः गन्धर्वाञ शतशाभ्यघ्नँल लघुत्वात सूतनन्दनः 14 पातयन्न उत्तमाङ्गानि गन्धर्वाणां महारथाः कषणेन वयधमत सर्वां चित्रसेनस्य वाहिनीम 15 ते वध्यमाना गन्धर्वाः सूतपुत्रेण धीमता भूय एवाभ्यवर्तन्त शतशॊ ऽथ सहस्रशः 16 गन्धर्वभूता पृथिवी कषणेन समपद्यत आपतद्भिर महावेगैश चित्रसेनस्य सैनिकैः 17 अथ दुर्यॊधनॊ राजा शकुनिश चापि सौबलः दुःशासनॊ विकर्णश च ये चान्ये धृतराष्ट्रजाः नयहनंस तत तदा सैन्यं रथैर गरुड निस्वनैः 18 भूयॊ च यॊधयाम आसुः कृत्वा कर्णम अथाग्रतः महता रथघॊषेण हयचारेण चाप्य उत वैकर्तनं परीप्सन्तॊ गन्धर्वान समवारयन 19 ततः संन्यपतन सर्वे गन्धर्वाः कौरवैः सह तदा सुतुमुलं युद्धम अभवल लॊमहर्षणम 20 ततस ते मृदवॊ ऽभूवन गन्धर्वाः शरपीडिताः उच्चुक्रुशुश च कौरव्या गन्धर्वान परेक्ष्य पीडितान 21 गन्धर्वांस तरासितान दृष्ट्वा चित्रसेनॊ ऽतयमर्षणः उत्पपातासनात करुद्धॊ वधे तेषां समाहितः 22 ततॊ मायास्त्रम आस्थाय युयुधे चित्रमार्गवित तयामुह्यन्त कौरव्याश चित्रसेनस्य मायया 23 एकैकॊ हि तदा यॊधॊ धार्तराष्ट्रस्य भारत पर्यवर्तत गन्धर्वैर दशभिर दशभिः सह 24 ततः संपीड्यमानास ते बलेन महता तदा पराद्रवन्त रणे भीता यत्र राजा युधिष्ठिरः 25 भज्यमानेष्व अनीकेषु धार्तराष्ट्रेषु सर्वशः कर्णॊ वैकर्तनॊ राजंस तस्थौ गिरिर इवाचलः 26 दुर्यॊधनश च कर्णश च शकुनिश चापि सौबलः गन्धर्वान यॊधयां चक्रुः समरे भृशविक्षताः 27 सर्व एव तु गन्धर्वाः शतशॊ ऽथ सहस्रशः जिघांसमानाः सहिताः कर्णम अभ्यद्रवन रणे 28 असिभिः पट्टिशैः शूलैर गदाभिश च महाबलाः सूतपुत्रं जिघांसन्तः समन्तात पर्यवारयन 29 अन्ये ऽसय युगमच छिन्दन धवजम अन्ये नयपातयन ईषाम अन्ये हयान अन्ये सूतम अन्ये नयपातयन 30 अन्ये छत्रं वरूथं च वन्धुरं च तथापरे गन्धर्वा बहुसाहस्राः खण्डशॊ ऽभयहनन रथम 31 ततॊ रथाद अवप्लुत्य सूतपुत्रॊ ऽसि चर्म भृत विकर्ण रथम आस्थाय मॊक्षायाश्वान अचॊदयत |
1
[vai] tatas te sahitāḥ sarve duryodhanam upāgaman abruvaṃś ca mahārāja yad ūcuḥ kauravaṃ prati 2 gandharvair vārite sainye dhārtarāṣṭraḥ pratāpavān amarṣapūrṇaḥ sainyāni pratyabhāṣata bhārata 3 śāsatainān adharmajñān mama vipriyakāriṇaḥ yadi prakrīḍito devaiḥ sarvaiḥ saha śatakratuḥ 4 duryodhana vaco śrutvā dhārtarāṣṭrā mahābalāḥ sarva evābhisaṃnaddhā yodhāś cāpi sahasraśaḥ 5 tataḥ pramathya gandharvāṃs tad vanaṃ viviśur balāt siṃhanādena mahatā pūrayanto diśo daśa 6 tato 'parair avāryanta gandharvaiḥ kuru sainikāḥ te vāryamāṇā gandharvaiḥ sāmnaiva vasudhādhipa tān anādṛtya gandharvāṃs tad vanaṃ viviśur mahat 7 yadā vācā na tiṣṭhanti dhārtarāṣṭrāḥ sarājakāḥ tatas te khecarāḥ sarve citrasene nyavedayan 8 gandharvarājas tān sarvān abravīt kauravān prati anāryāñ śāsatety evaṃ citraseno 'tyamarṣaṇaḥ 9 anujñātās tu gandharvāś citrasenena bhārata pragṛhītāyudhāḥ sarve dhārtarāṣṭrān abhidravan 10 tān dṛṣṭvā patataḥ śīghrān gandharvān udyatāyudhān sarve te prādravan saṃkhye dhārtarāṣṭrasya paśyataḥ 11 tān dṛṣṭvā dravataḥ sarvān dhārtarāṣṭrān parāṅmukhān vaikartanas tadā vīro nāsīt tatra parāṅmukhaḥ 12 āpatantīṃ tu saṃprekṣya gandharvāṇāṃ mahācamūm mahatā śaravarṣeṇa rādheyaḥ pratyavārayat 13 kṣurapair viśikhair bhallair vatsadantais tathāyasaiḥ gandharvāñ śataśābhyaghnaṁl laghutvāt sūtanandanaḥ 14 pātayann uttamāṅgāni gandharvāṇāṃ mahārathāḥ kṣaṇena vyadhamat sarvāṃ citrasenasya vāhinīm 15 te vadhyamānā gandharvāḥ sūtaputreṇa dhīmatā bhūya evābhyavartanta śataśo 'tha sahasraśaḥ 16 gandharvabhūtā pṛthivī kṣaṇena samapadyata āpatadbhir mahāvegaiś citrasenasya sainikaiḥ 17 atha duryodhano rājā śakuniś cāpi saubalaḥ duḥśāsano vikarṇaś ca ye cānye dhṛtarāṣṭrajāḥ nyahanaṃs tat tadā sainyaṃ rathair garuḍa nisvanaiḥ 18 bhūyo ca yodhayām āsuḥ kṛtvā karṇam athāgrataḥ mahatā rathaghoṣeṇa hayacāreṇa cāpy uta vaikartanaṃ parīpsanto gandharvān samavārayan 19 tataḥ saṃnyapatan sarve gandharvāḥ kauravaiḥ saha tadā sutumulaṃ yuddham abhaval lomaharṣaṇam 20 tatas te mṛdavo 'bhūvan gandharvāḥ śarapīḍitāḥ uccukruśuś ca kauravyā gandharvān prekṣya pīḍitān 21 gandharvāṃs trāsitān dṛṣṭvā citraseno 'tyamarṣaṇaḥ utpapātāsanāt kruddho vadhe teṣāṃ samāhitaḥ 22 tato māyāstram āsthāya yuyudhe citramārgavit tayāmuhyanta kauravyāś citrasenasya māyayā 23 ekaiko hi tadā yodho dhārtarāṣṭrasya bhārata paryavartata gandharvair daśabhir daśabhiḥ saha 24 tataḥ saṃpīḍyamānās te balena mahatā tadā prādravanta raṇe bhītā yatra rājā yudhiṣṭhiraḥ 25 bhajyamāneṣv anīkeṣu dhārtarāṣṭreṣu sarvaśaḥ karṇo vaikartano rājaṃs tasthau girir ivācalaḥ 26 duryodhanaś ca karṇaś ca śakuniś cāpi saubalaḥ gandharvān yodhayāṃ cakruḥ samare bhṛśavikṣatāḥ 27 sarva eva tu gandharvāḥ śataśo 'tha sahasraśaḥ jighāṃsamānāḥ sahitāḥ karṇam abhyadravan raṇe 28 asibhiḥ paṭṭiśaiḥ śūlair gadābhiś ca mahābalāḥ sūtaputraṃ jighāṃsantaḥ samantāt paryavārayan 29 anye 'sya yugamac chindan dhvajam anye nyapātayan īṣām anye hayān anye sūtam anye nyapātayan 30 anye chatraṃ varūthaṃ ca vandhuraṃ ca tathāpare gandharvā bahusāhasrāḥ khaṇḍaśo 'bhyahanan ratham 31 tato rathād avaplutya sūtaputro 'si carma bhṛt vikarṇa ratham āsthāya mokṣāyāśvān acodayat |
The Mahabharata in Sanskrit
Book 3
Chapter 231
|
1
[वै] गन्धर्वैस तु महाराज भग्ने कर्णे महारथे संप्राद्रवच चमूः सर्वा धार्तराष्ट्रस्य पश्यतः 2 तान दृष्ट्वा दरवतः सर्वान धार्तराष्ट्रान पराङ्मुखान दुर्यॊधनॊ महाराज नासीत तत्र पराङ्मुखः 3 ताम आपतन्तीं संप्रेक्ष्य गन्धर्वाणां महाचमूम महता शरवर्षेण सॊ ऽभयवर्षद अरिंदमः 4 अचिन्त्यशरवर्षं तु गन्धर्वास तस्य तं रथम दुर्यॊधनं जिघांसन्तः समन्तात पर्यवारयन 5 युगमीषां वरूथं च तथैव धवजसारथी अश्वांस तरिवेणुं तल्पं च तिलशॊ ऽभयहनद रथम 6 दुर्यॊधनं चित्रसेनॊ विरथं पतितं भुवि अभिद्रुत्य महाबाहुर जीवग्राहम अथाग्रहीत 7 तस्मिन गृहीते राजेन्द्र सथितं दुःशासनं रथे पर्यगृह्णन्त गन्धर्वाः परिवार्य समन्ततः 8 विविंशतिं चित्रसेनम आदायान्ये परदुद्रुवुः विन्दानुविन्दाव अपरे राजदारांश च सर्वशः 9 सैन्यास तु धार्तराष्ट्रस्य गन्धर्वैः समभिद्रुताः पूर्वं परभग्नैः सहिताः पाण्डवान अभ्ययुस तदा 10 शकटापण वेश्याश च यानयुग्यं च सर्वशः शरणं पाण्डवाञ जग्मुर हरियमाणे महीपतौ 11 परियदर्शनॊ महाबाहुर धार्तराष्ट्रॊ महाबलः गन्धर्वैर हरियते राजा पार्थास तम अनुधावत 12 दुःशासनॊ दुर्विषहॊ दुर्मुखॊ दुर्जयस तथा बद्ध्वा हरियन्ते गन्धर्वै राजदाराश च सर्वशः 13 इति दुर्यॊधनामात्याः करॊशन्तॊ राजगृद्धिनः आर्ता दीनस्वराः सर्वे युधिष्ठिरम उपागमन 14 तांस तथा वयथितान दीनान भिक्षमाणान युधिष्ठिरम वृद्धान दुर्यॊधनामात्यान भिमसेनॊ ऽभयभाषत 15 अन्यथा वर्तमानानाम अर्थॊ जातायम अन्यथा अस्माभिर यद अनुष्ठेयं गन्धर्वैस तद अनुष्ठितम 16 दुर्मन्त्रितम इदं तात राज्ञॊ दुर्द्यूत देविनः दवेष्टारम अन्ये कलीबस्य पातयन्तीति नः शरुतम 17 तद इदं कृतं नः परत्यक्षं गन्धर्वै रतिमानुषम दिष्ट्या लॊके पुमान अस्ति कश चिद अस्मत्प्रिये सथितः येनास्माकं हृतॊ भार आसीनानां सुखावहः 18 शीतवातातप सहांस तपसा चैव कर्शितान समस्थॊ विषमस्थान हि दरष्टुम इच्छति दुर्मतिः 19 अधर्मचारिणस तस्य कौरव्यस्य दुरात्मनः ये शीलम अनुवर्तन्ते ते पश्यन्ति पराभवम 20 अधर्मॊ हि कृतस तेन येनैतद उपशिक्षितम अनृशंसास तु कौन्तेयास तस्याध्यक्षान बरवीमि वः 21 एवं बरुवाणं कौन्तेयं भीमसेनम अमर्षणम न कालः परुषस्यायम इति राजाभ्यभाषत |
1
[vai] gandharvais tu mahārāja bhagne karṇe mahārathe saṃprādravac camūḥ sarvā dhārtarāṣṭrasya paśyataḥ 2 tān dṛṣṭvā dravataḥ sarvān dhārtarāṣṭrān parāṅmukhān duryodhano mahārāja nāsīt tatra parāṅmukhaḥ 3 tām āpatantīṃ saṃprekṣya gandharvāṇāṃ mahācamūm mahatā śaravarṣeṇa so 'bhyavarṣad ariṃdamaḥ 4 acintyaśaravarṣaṃ tu gandharvās tasya taṃ ratham duryodhanaṃ jighāṃsantaḥ samantāt paryavārayan 5 yugamīṣāṃ varūthaṃ ca tathaiva dhvajasārathī aśvāṃs triveṇuṃ talpaṃ ca tilaśo 'bhyahanad ratham 6 duryodhanaṃ citraseno virathaṃ patitaṃ bhuvi abhidrutya mahābāhur jīvagrāham athāgrahīt 7 tasmin gṛhīte rājendra sthitaṃ duḥśāsanaṃ rathe paryagṛhṇanta gandharvāḥ parivārya samantataḥ 8 viviṃśatiṃ citrasenam ādāyānye pradudruvuḥ vindānuvindāv apare rājadārāṃś ca sarvaśaḥ 9 sainyās tu dhārtarāṣṭrasya gandharvaiḥ samabhidrutāḥ pūrvaṃ prabhagnaiḥ sahitāḥ pāṇḍavān abhyayus tadā 10 śakaṭāpaṇa veśyāś ca yānayugyaṃ ca sarvaśaḥ śaraṇaṃ pāṇḍavāñ jagmur hriyamāṇe mahīpatau 11 priyadarśano mahābāhur dhārtarāṣṭro mahābalaḥ gandharvair hriyate rājā pārthās tam anudhāvata 12 duḥśāsano durviṣaho durmukho durjayas tathā baddhvā hriyante gandharvai rājadārāś ca sarvaśaḥ 13 iti duryodhanāmātyāḥ krośanto rājagṛddhinaḥ ārtā dīnasvarāḥ sarve yudhiṣṭhiram upāgaman 14 tāṃs tathā vyathitān dīnān bhikṣamāṇān yudhiṣṭhiram vṛddhān duryodhanāmātyān bhimaseno 'bhyabhāṣata 15 anyathā vartamānānām artho jātāyam anyathā asmābhir yad anuṣṭheyaṃ gandharvais tad anuṣṭhitam 16 durmantritam idaṃ tāta rājño durdyūta devinaḥ dveṣṭāram anye klībasya pātayantīti naḥ śrutam 17 tad idaṃ kṛtaṃ naḥ pratyakṣaṃ gandharvai ratimānuṣam diṣṭyā loke pumān asti kaś cid asmatpriye sthitaḥ yenāsmākaṃ hṛto bhāra āsīnānāṃ sukhāvahaḥ 18 śītavātātapa sahāṃs tapasā caiva karśitān samastho viṣamasthān hi draṣṭum icchati durmatiḥ 19 adharmacāriṇas tasya kauravyasya durātmanaḥ ye śīlam anuvartante te paśyanti parābhavam 20 adharmo hi kṛtas tena yenaitad upaśikṣitam anṛśaṃsās tu kaunteyās tasyādhyakṣān bravīmi vaḥ 21 evaṃ bruvāṇaṃ kaunteyaṃ bhīmasenam amarṣaṇam na kālaḥ paruṣasyāyam iti rājābhyabhāṣata |
The Mahabharata in Sanskrit
Book 3
Chapter 232
|
1
[य] अस्मान अभिगतांस तात भयार्ताञ शरणैषिणः कौरवान विषमप्राप्तान कथं बरूयास तम ईदृशम 2 भवन्ति भेदा जञातीनां कलहाश च वृकॊदर परसक्तानि च वैराणि जञातिधर्मॊ न नश्यति 3 यदा तु कश चिज जञातीनां बाह्यः परार्थयते कुलम न मर्षयन्ति तत सन्तॊ बाह्येनाभिप्रमर्षणम 4 जानाति हय एष दुर्बुद्धिर अस्मान इह चिरॊषितान स एष परिभूयास्मान अकार्षीद इदम अप्रियम 5 दुर्यॊधनस्य गरहणाद गन्धर्वेण बलाद रणे सत्रीणां बाह्याभिमर्शाच च हतं भवति नः कुलम 6 शरणं च परपन्नानां तराणार्थं च कुलस्य नः उत्तिष्ठध्वं नरव्याघ्राः सज्जीभवत माचिरम 7 अर्जुनश च यमौ चैव तवं च भीमापराजितः मॊक्षयध्वं धार्तराष्ट्रं हरियमाणं सुयॊधनम 8 एते रथा नरव्याघ्राः सर्वशस्त्रसमन्विताः इन्द्रसेनादिभिः सूतैः संयताः कनकध्वजाः 9 एतान आस्थाय वै तात गन्धर्वान यॊद्धुम आहवे सुयॊधनस्य मॊक्षाय परयतध्वम अतन्द्रिताः 10 य एव कश चिद राजन्यः शरणार्थम इहागतम परं शक्त्याभिरक्षेत किं पुनस तवं वृकॊदर 11 क इहान्यॊ भवेत तराणम अभिधावेति चॊदितः पराञ्जलिं शरणापन्नं दृष्ट्वा शत्रुम अपि धरुवम 12 वरप्रदानं राज्यं च पुत्र जन्म च पाण्डव शत्रॊश च मॊक्षणं कलेशात तरीणि चैकं च तत समम 13 किं हय अभ्यधिकम एतस्माद यद आपन्नः सुयॊधनः तवद बाहुबलम आश्रित्य जीवितं परिमार्गति 14 सवयम एव परधावेयं यदि न सयाद वृकॊदर विततॊ ऽयं करतुर वीर न हि मे ऽतर विचारणा 15 साम्नैव तु यथा भीम मॊक्षयेथाः सुयॊधनम तथा सर्वैर उपायैस तवं यतेथाः कुरुनन्दन 16 न साम्ना परतिपद्येत यदि गन्धर्वराड असौ पराक्रमेण मृदुना मॊक्षयेथाः सुयॊधनम 17 अथासौ मृदु युद्धेन न मुञ्चेद भीमकौरवान सर्वॊपायैर विमॊच्यास ते निगृह्य परिपन्थिनः 18 एतावद धि मया शक्यं संदेष्टुं वै वृकॊदर वैताने कर्मणि तते वर्तमाने च भारत 19 [वै] अजातशत्रॊर वचनं तच छरुत्वा तु धनंजयः परतिजज्ञे गुरॊर वाक्यं कौरवाणां विमॊक्षणम 20 [अर्ज] यदि साम्ना न मॊक्ष्यन्ति गन्धवा धृतराष्ट्रजान अद्य गन्धर्वराजस्य भूमिः पास्यति शॊणितम 21 [वै] अर्जुनस्य तु तां शरुत्वा परतिज्ञां सत्यवादिनः कौरवाणां तदा राजन पुनः परत्यागतं मनः |
1
[y] asmān abhigatāṃs tāta bhayārtāñ śaraṇaiṣiṇaḥ kauravān viṣamaprāptān kathaṃ brūyās tam īdṛśam 2 bhavanti bhedā jñātīnāṃ kalahāś ca vṛkodara prasaktāni ca vairāṇi jñātidharmo na naśyati 3 yadā tu kaś cij jñātīnāṃ bāhyaḥ prārthayate kulam na marṣayanti tat santo bāhyenābhipramarṣaṇam 4 jānāti hy eṣa durbuddhir asmān iha ciroṣitān sa eṣa paribhūyāsmān akārṣīd idam apriyam 5 duryodhanasya grahaṇād gandharveṇa balād raṇe strīṇāṃ bāhyābhimarśāc ca hataṃ bhavati naḥ kulam 6 śaraṇaṃ ca prapannānāṃ trāṇārthaṃ ca kulasya naḥ uttiṣṭhadhvaṃ naravyāghrāḥ sajjībhavata māciram 7 arjunaś ca yamau caiva tvaṃ ca bhīmāparājitaḥ mokṣayadhvaṃ dhārtarāṣṭraṃ hriyamāṇaṃ suyodhanam 8 ete rathā naravyāghrāḥ sarvaśastrasamanvitāḥ indrasenādibhiḥ sūtaiḥ saṃyatāḥ kanakadhvajāḥ 9 etān āsthāya vai tāta gandharvān yoddhum āhave suyodhanasya mokṣāya prayatadhvam atandritāḥ 10 ya eva kaś cid rājanyaḥ śaraṇārtham ihāgatam paraṃ śaktyābhirakṣeta kiṃ punas tvaṃ vṛkodara 11 ka ihānyo bhavet trāṇam abhidhāveti coditaḥ prāñjaliṃ śaraṇāpannaṃ dṛṣṭvā śatrum api dhruvam 12 varapradānaṃ rājyaṃ ca putra janma ca pāṇḍava śatroś ca mokṣaṇaṃ kleśāt trīṇi caikaṃ ca tat samam 13 kiṃ hy abhyadhikam etasmād yad āpannaḥ suyodhanaḥ tvad bāhubalam āśritya jīvitaṃ parimārgati 14 svayam eva pradhāveyaṃ yadi na syād vṛkodara vitato 'yaṃ kratur vīra na hi me 'tra vicāraṇā 15 sāmnaiva tu yathā bhīma mokṣayethāḥ suyodhanam tathā sarvair upāyais tvaṃ yatethāḥ kurunandana 16 na sāmnā pratipadyeta yadi gandharvarāḍ asau parākrameṇa mṛdunā mokṣayethāḥ suyodhanam 17 athāsau mṛdu yuddhena na muñced bhīmakauravān sarvopāyair vimocyās te nigṛhya paripanthinaḥ 18 etāvad dhi mayā śakyaṃ saṃdeṣṭuṃ vai vṛkodara vaitāne karmaṇi tate vartamāne ca bhārata 19 [vai] ajātaśatror vacanaṃ tac chrutvā tu dhanaṃjayaḥ pratijajñe guror vākyaṃ kauravāṇāṃ vimokṣaṇam 20 [arj] yadi sāmnā na mokṣyanti gandhavā dhṛtarāṣṭrajān adya gandharvarājasya bhūmiḥ pāsyati śoṇitam 21 [vai] arjunasya tu tāṃ śrutvā pratijñāṃ satyavādinaḥ kauravāṇāṃ tadā rājan punaḥ pratyāgataṃ manaḥ |
The Mahabharata in Sanskrit
Book 3
Chapter 233
|
1
[वै] युधिष्ठिरवचः शरुत्वा भीमसेनपुरॊगमाः परहृष्टवदनाः सर्वे समुत्तस्थुर नरर्षभाः 2 अभेद्यानि ततः सर्वे समनह्यन्त भारत जाम्बूनदविचित्राणि कवचानि महारथाः 3 ते दंशिता रथैः सर्वे धवजिनः सशरासनाः पाण्डवाः परत्यदृश्यन्त जवलिता इव पावकाः 4 तान रथान साधु संपन्नान संयुक्ताञ जवनैर हयैः आस्थाय रथशार्दूलाः शीघ्रम एव ययुस ततः 5 ततः कौरव सैन्यानां परादुरासीन महास्वनः परयातान सहितान दृष्ट्वा पाण्डुपुत्रान महारथान 6 जितकाशिनश च खचरास तवरिताश च महारथाः कषणेनैव वने तस्मिन समाजग्मुर अभीतवत 7 नयवर्तन्त ततः सर्वे गन्धर्वा जितकाशिनः दृष्ट्वा रथगतान वीरान पाण्डवांश चतुरॊ रणे 8 तांस तु विभ्राजतॊ दृष्ट्वा लॊकपालान इवॊद्यतान वयूढानीका वयतिष्ठन्त गन्धमादनवासिनः 9 राज्ञस तु वचनं शरुत्वा धर्मराजस्य धीमतः करमेण मृदुना युद्धम उपक्रामन्त भारत 10 न तु गन्धर्वराजस्य सैनिका मन्दचेतसः शक्यन्ते मृदुना शरेयॊ परतिपादयितुं तदा 11 ततस तान युधि दुर्धर्षः सव्यसाची परंतपः सान्त्वपूर्वम इदं वाक्यम उवाच खचरान रणे 12 नैतद गन्धर्वराजस्य युक्तं कर्म जुगुप्सितम परदाराभिमर्शश च मानुषैश च समागमः 13 उत्सृजध्वं महावीर्यान धृतराष्ट्र सुतान इमान दारांश चैषां विमुञ्चध्वं धर्मराजस्य शासनात 14 एवम उक्तास तु गन्धर्वाः पाण्डवेन यशस्विना उत्स्मयन्तस तदा पार्थम इदं वचनम अब्रुवन 15 एकस्यैव वयं तात कुर्याम वचनं भुवि यस्य शासनम आज्ञाय चराम विगतज्वराः 16 तेनैकेन यथादिष्टं तथा वर्ताम भारत न शास्ता विद्यते ऽसमाकम अन्यस तस्मात सुरेश्वरात 17 एवम उक्तस तु गन्धर्वैः कुन्तीपुत्रॊ धनंजयः गन्धर्वान पुनर एवेदं वचनं परत्यभाषत 18 यदि साम्ना न मॊक्षध्वं गन्धर्वा धृतराष्ट्रजम मॊक्षयिष्यामि विक्रम्य सवयम एव सुयॊधनम 19 एवम उक्त्वा ततः पार्थः सव्यसाची धनंजयः ससर्व निशितान बाणान खचरान खचरान परति 20 तथैव शरवर्षेण गन्धर्वास ते बलॊत्कटाः पाण्डवान अभ्यवर्तन्त पाण्डवाश च दिवौकसः 21 ततः सुतुमुलं युद्धं गन्धर्वाणां तरस्विनाम बभूव भीमवेगानां पाण्डवानां च भारत |
1
[vai] yudhiṣṭhiravacaḥ śrutvā bhīmasenapurogamāḥ prahṛṣṭavadanāḥ sarve samuttasthur nararṣabhāḥ 2 abhedyāni tataḥ sarve samanahyanta bhārata jāmbūnadavicitrāṇi kavacāni mahārathāḥ 3 te daṃśitā rathaiḥ sarve dhvajinaḥ saśarāsanāḥ pāṇḍavāḥ pratyadṛśyanta jvalitā iva pāvakāḥ 4 tān rathān sādhu saṃpannān saṃyuktāñ javanair hayaiḥ āsthāya rathaśārdūlāḥ śīghram eva yayus tataḥ 5 tataḥ kaurava sainyānāṃ prādurāsīn mahāsvanaḥ prayātān sahitān dṛṣṭvā pāṇḍuputrān mahārathān 6 jitakāśinaś ca khacarās tvaritāś ca mahārathāḥ kṣaṇenaiva vane tasmin samājagmur abhītavat 7 nyavartanta tataḥ sarve gandharvā jitakāśinaḥ dṛṣṭvā rathagatān vīrān pāṇḍavāṃś caturo raṇe 8 tāṃs tu vibhrājato dṛṣṭvā lokapālān ivodyatān vyūḍhānīkā vyatiṣṭhanta gandhamādanavāsinaḥ 9 rājñas tu vacanaṃ śrutvā dharmarājasya dhīmataḥ krameṇa mṛdunā yuddham upakrāmanta bhārata 10 na tu gandharvarājasya sainikā mandacetasaḥ śakyante mṛdunā śreyo pratipādayituṃ tadā 11 tatas tān yudhi durdharṣaḥ savyasācī paraṃtapaḥ sāntvapūrvam idaṃ vākyam uvāca khacarān raṇe 12 naitad gandharvarājasya yuktaṃ karma jugupsitam paradārābhimarśaś ca mānuṣaiś ca samāgamaḥ 13 utsṛjadhvaṃ mahāvīryān dhṛtarāṣṭra sutān imān dārāṃś caiṣāṃ vimuñcadhvaṃ dharmarājasya śāsanāt 14 evam uktās tu gandharvāḥ pāṇḍavena yaśasvinā utsmayantas tadā pārtham idaṃ vacanam abruvan 15 ekasyaiva vayaṃ tāta kuryāma vacanaṃ bhuvi yasya śāsanam ājñāya carāma vigatajvarāḥ 16 tenaikena yathādiṣṭaṃ tathā vartāma bhārata na śāstā vidyate 'smākam anyas tasmāt sureśvarāt 17 evam uktas tu gandharvaiḥ kuntīputro dhanaṃjayaḥ gandharvān punar evedaṃ vacanaṃ pratyabhāṣata 18 yadi sāmnā na mokṣadhvaṃ gandharvā dhṛtarāṣṭrajam mokṣayiṣyāmi vikramya svayam eva suyodhanam 19 evam uktvā tataḥ pārthaḥ savyasācī dhanaṃjayaḥ sasarva niśitān bāṇān khacarān khacarān prati 20 tathaiva śaravarṣeṇa gandharvās te balotkaṭāḥ pāṇḍavān abhyavartanta pāṇḍavāś ca divaukasaḥ 21 tataḥ sutumulaṃ yuddhaṃ gandharvāṇāṃ tarasvinām babhūva bhīmavegānāṃ pāṇḍavānāṃ ca bhārata |
The Mahabharata in Sanskrit
Book 3
Chapter 234
|
1
[वै] ततॊ दिव्यास्त्रसंपन्ना गन्धर्वा हेममालिनः विसृजन्तः शरान दीप्तान समन्तात पर्यवारयन 2 चत्वारः पाण्डवा वीरा गन्धर्वाश च सहस्रशः रणे संन्यपतन राजंस तद अद्भुतम इवाभवत 3 यथा कर्णस्य च रथॊ धार्तराष्ट्रस्य चॊभयॊः गन्धर्वैः शतशॊ छिन्नौ तथा तेषां परचक्रिरे 4 तान समापततॊ राजन गन्धर्वाञ शतशॊ रणे परत्यगृह्णन नरव्याघ्राः शरवर्षैर अनेकशः 5 अवकीर्यमाणाः खगमाः शरवर्षैः समन्ततः न शेकुः पाण्डुपुत्राणां समीपे परिवर्तितुम 6 अभिक्रुद्धान अभिप्रेक्ष्य गन्धर्वान अर्जुनस तदा लक्षयित्वाथ दिव्यानि महास्त्राण्य उपचक्रमे 7 सहस्राणां सहस्रं स पराहिणॊद यमसादनम आग्नेयेनार्जुनः संख्ये गन्धर्वाणां बलॊत्कटः 8 तथा भीमॊ महेष्वासः संयुगे बलिनां वरः गन्धर्वाञ शतशॊ राजञ जघान निशितैः शरैः 9 माद्रीपुत्राव अपि तथा युध्यमानौ बलॊत्कटौ परिगृह्याग्रतॊ राजञ जघ्नतुः शतशः परान 10 ते वध्यमाना गन्धर्वा दिव्यैर अस्त्रैर महात्मभिः उत्पेतुः खम उपादाय धृतराष्ट्र सुतांस ततः 11 तान उत्पतिष्णून बुद्ध्वा तु कुन्तीपुत्रॊ धनंजयः महता शरजालेन समन्तात पर्यवारयत 12 ते बद्धाः शरजालेन शकुन्ता इव पञ्जरे ववर्षुर अर्जुनं करॊधाद गदा शक्त्यृष्टि वृष्टिभिः 13 गदा शक्त्यसि वृष्टीस ता निहत्य स महास्त्रवित गात्राणि चाहनद भल्लैर गन्धर्वाणां धनंजयः 14 शिरॊभिः परपतद भिश च चरणैर बाहुभिस तथा अश्मवृष्टिर इवाभाति परेषाम अभवद भयम 15 ते वध्यमाना गन्धर्वाः पाण्डवेन महात्मना भूमिष्ठम अन्तरिक्षस्थाः शरवर्षैर अवाकिरन 16 तेषां तु शरवर्षाणि सव्यसाची परंतपः अस्त्रैः संवार्य तेजस्वी गन्धर्वान परत्यविध्यत 17 सथूणाकर्णेन्द्रजालं च सौरं चापि तथार्जुनः आग्नेयं चापि सौम्यं च ससर्ज कुरुनन्दनः 18 ते दह्यमाना गन्हर्वाः कुन्तीपुत्रस्य सायकैः दैतेया इव शक्रेण विषादम अगमन परम 19 ऊर्ध्वम आक्रममाणाश च शरजालेन वारिताः विसर्पमाणा भल्लैश च वार्यन्ते सव्यसाचिना 20 गन्धर्वांस तरासितान दृष्ट्वा कुन्तीपुत्रेण धीमता चित्रसेनॊ गदां गृह्य सव्यसाचिनम आद्रवत 21 तस्याभिपततस तूर्णं गदाहस्तस्य संयुगे गदां सर्वायसीं पार्थः शरैश चिच्छेद सप्तधा 22 सगदां बहुधा दृष्ट्वा कृत्तां बाणैस तरस्विना संवृत्य विद्ययात्मानं यॊधयाम आस पाण्डवम अस्त्राणि तस्य दिव्यानि यॊधयाम आस खे सथितः 23 गन्हर्व राजॊ बलवान माययान्तर्हितस तदा अन्तर्हितं समालक्ष्य परहरन्तम अथार्जुनः ताडयाम आस खचरैर दिव्यास्त्रप्रतिमन्त्रितैः 24 अन्तर्धानवधं चास्य चक्रे करुद्धॊ ऽरजुनस तदा शब्दवेद्यम उपाश्रित्य बहुरूपॊ धनंजयः 25 स वद्यमानस तैर अस्त्रैर अर्जुनेन महात्मना अथास्य दर्शयाम आस तदात्मानं परियं सखा 26 चित्रसेनम अथालक्ष्य सखायं युधि दुर्बलम संजहारास्त्रम अथ तत परसृष्टं पाण्डवर्षभः 27 दृष्ट्वा तु पाण्डवाः सर्वे संहृतास्त्रं धनंजयम संजह्रुः परदुतान अश्वाञ शरवेगान धनूंषि च 28 चित्रसेनश च भीमश च सव्यसाची यमाव अपि पृष्ट्वा कौशलम अन्यॊन्यं रथेष्व एवावतस्थिरे |
1
[vai] tato divyāstrasaṃpannā gandharvā hemamālinaḥ visṛjantaḥ śarān dīptān samantāt paryavārayan 2 catvāraḥ pāṇḍavā vīrā gandharvāś ca sahasraśaḥ raṇe saṃnyapatan rājaṃs tad adbhutam ivābhavat 3 yathā karṇasya ca ratho dhārtarāṣṭrasya cobhayoḥ gandharvaiḥ śataśo chinnau tathā teṣāṃ pracakrire 4 tān samāpatato rājan gandharvāñ śataśo raṇe pratyagṛhṇan naravyāghrāḥ śaravarṣair anekaśaḥ 5 avakīryamāṇāḥ khagamāḥ śaravarṣaiḥ samantataḥ na śekuḥ pāṇḍuputrāṇāṃ samīpe parivartitum 6 abhikruddhān abhiprekṣya gandharvān arjunas tadā lakṣayitvātha divyāni mahāstrāṇy upacakrame 7 sahasrāṇāṃ sahasraṃ sa prāhiṇod yamasādanam āgneyenārjunaḥ saṃkhye gandharvāṇāṃ balotkaṭaḥ 8 tathā bhīmo maheṣvāsaḥ saṃyuge balināṃ varaḥ gandharvāñ śataśo rājañ jaghāna niśitaiḥ śaraiḥ 9 mādrīputrāv api tathā yudhyamānau balotkaṭau parigṛhyāgrato rājañ jaghnatuḥ śataśaḥ parān 10 te vadhyamānā gandharvā divyair astrair mahātmabhiḥ utpetuḥ kham upādāya dhṛtarāṣṭra sutāṃs tataḥ 11 tān utpatiṣṇūn buddhvā tu kuntīputro dhanaṃjayaḥ mahatā śarajālena samantāt paryavārayat 12 te baddhāḥ śarajālena śakuntā iva pañjare vavarṣur arjunaṃ krodhād gadā śaktyṛṣṭi vṛṣṭibhiḥ 13 gadā śaktyasi vṛṣṭīs tā nihatya sa mahāstravit gātrāṇi cāhanad bhallair gandharvāṇāṃ dhanaṃjayaḥ 14 śirobhiḥ prapatad bhiś ca caraṇair bāhubhis tathā aśmavṛṣṭir ivābhāti pareṣām abhavad bhayam 15 te vadhyamānā gandharvāḥ pāṇḍavena mahātmanā bhūmiṣṭham antarikṣasthāḥ śaravarṣair avākiran 16 teṣāṃ tu śaravarṣāṇi savyasācī paraṃtapaḥ astraiḥ saṃvārya tejasvī gandharvān pratyavidhyata 17 sthūṇākarṇendrajālaṃ ca sauraṃ cāpi tathārjunaḥ āgneyaṃ cāpi saumyaṃ ca sasarja kurunandanaḥ 18 te dahyamānā ganharvāḥ kuntīputrasya sāyakaiḥ daiteyā iva śakreṇa viṣādam agaman param 19 ūrdhvam ākramamāṇāś ca śarajālena vāritāḥ visarpamāṇā bhallaiś ca vāryante savyasācinā 20 gandharvāṃs trāsitān dṛṣṭvā kuntīputreṇa dhīmatā citraseno gadāṃ gṛhya savyasācinam ādravat 21 tasyābhipatatas tūrṇaṃ gadāhastasya saṃyuge gadāṃ sarvāyasīṃ pārthaḥ śaraiś ciccheda saptadhā 22 sagadāṃ bahudhā dṛṣṭvā kṛttāṃ bāṇais tarasvinā saṃvṛtya vidyayātmānaṃ yodhayām āsa pāṇḍavam astrāṇi tasya divyāni yodhayām āsa khe sthitaḥ 23 ganharva rājo balavān māyayāntarhitas tadā antarhitaṃ samālakṣya praharantam athārjunaḥ tāḍayām āsa khacarair divyāstrapratimantritaiḥ 24 antardhānavadhaṃ cāsya cakre kruddho 'rjunas tadā śabdavedyam upāśritya bahurūpo dhanaṃjayaḥ 25 sa vadyamānas tair astrair arjunena mahātmanā athāsya darśayām āsa tadātmānaṃ priyaṃ sakhā 26 citrasenam athālakṣya sakhāyaṃ yudhi durbalam saṃjahārāstram atha tat prasṛṣṭaṃ pāṇḍavarṣabhaḥ 27 dṛṣṭvā tu pāṇḍavāḥ sarve saṃhṛtāstraṃ dhanaṃjayam saṃjahruḥ pradutān aśvāñ śaravegān dhanūṃṣi ca 28 citrasenaś ca bhīmaś ca savyasācī yamāv api pṛṣṭvā kauśalam anyonyaṃ ratheṣv evāvatasthire |
The Mahabharata in Sanskrit
Book 3
Chapter 235
|
1
[वै] ततॊ ऽरजुनश चित्रसेनं परहसन्न इदम अब्रवीत मध्ये गन्धर्वसैन्यानां महेष्वासॊ महाद्युतिः 2 किं ते वयवसितं वीर कौरवाणां विनिग्रहे किमर्थं च सदारॊ ऽयं निगृहीतः सुयॊधनः 3 [चित्र] विदितॊ ऽयम अभिप्रायस ततस्थेन महात्मना दुर्यॊधनस्य पापस्य कर्णस्य च धनंजय 4 वनस्थान भवतॊ जञात्वा कलिश्यमानान अनर्हवत इमे ऽवहसितुं पराप्ता दरौपदीं च यशस्विनीम 5 जञात्वा चिकीर्षितं चैषां माम उवाच सुरेश्वरः गच्छ दुर्यॊधनं बद्ध्वा सामात्यं तवम इहानय 6 धनंजयश च ते रक्ष्यः सह भरातृभिर आहवे स हि परियः सखा तुभ्यं शिष्यश च तव पाण्टवः 7 वचनाद देवराजस्य ततॊ ऽसमीहागतॊ दरुतम अयं दुरात्मा बद्धश च गमिष्यामि सुरालयम 8 [अर्ज] उत्सृज्यतां चित्रसेन भरातास्माकं सुयॊधनः धर्मराजस्य संदेशान मम चेद इच्छसि परियम 9 [चित्र] पापॊ ऽयं नित्यसंदुष्टॊ न विमॊक्षणम अर्हति परलब्धा धर्मराजस्य कृष्णायाश च धनंजय 10 नेदं चिकीर्षितं तस्य कुन्तीपुत्रॊ महाव्रतः जानाति धर्मराजॊ हि शरुत्वा कुरु यथेच्छसि 11 [वै] ते सर्व एव राजानम अभिजग्मुर युधिष्ठिरम अभिगम्य च तत सर्वं शशंसुस तस्य दुष्कृतम 12 अजातशत्रुस तच छरुत्वा गन्धर्वस्य वचस तदा मॊक्षयाम आस तान सर्वान गन्धर्वान परशशंस च 13 दिष्ट्या भवद्भिर बलिभिः शक्तैः सर्वैर न हिंसितः दुर्वृत्तॊ दार्तराष्ट्रॊ ऽयं सामात्यज्ञाति बान्धवः 14 उपकारॊ महांस तात कृतॊ ऽयं मम खेचराः कुलं न परिभूतं मे मॊक्षेणास्य दुरात्मनः 15 आज्ञापयध्वम इष्टानि परीयामॊ दर्शनेन वः पराप्य सर्वान अभिप्रायांस ततॊ वरजत माचिरम 16 अनुज्ञातास तु गन्धर्वाः पाण्डुपुत्रेण धीमता सहाप्सरॊभिः संहृष्टाश चित्रसेन मुखा ययुः 17 देवराड अपि गन्धर्वान मृतांस तान समजीवयत दिव्येनामृत वर्षेण ये हताः कौरवैर युधि 18 जञातींस तान अवमुच्याथ राजदारांश च सर्वशः कृत्वा च दुष्करं कर्म परीतियुक्ताश च पाण्डवाः 19 सस्त्री कुमारैः कुरुभिः पूज्यमाना महारथाः बभ्राजिरे महात्मानः कुरुमध्ये यथाग्नयः 20 ततॊ दुर्यॊधनं मुच्य भरातृभिः सहितं तदा युधिष्ठिरः सप्रणयम इदं वचनम अब्रवीत 21 मा सम तात पुनः कार्षीर ईदृशं साहसं कव चित न हि साहस कर्तारः सुखम एधन्ति भारत 22 सवस्तिमान सहितः सर्वैर भरातृभिः कुरुनन्दन गृहान वरज यथाकामं वैमनस्यं च मा कृथाः 23 पाण्डवेनाभ्यनुज्ञातॊ राजा दुर्यॊधनस तदा विदीर्यमाणॊ वरीडेन जगाम गनरं परति 24 तस्मिन गते कौरवेये कुन्तीपुत्रॊ युधिष्ठिरः भरातृभिः सहितॊ वीरः पूज्यमानॊ दविजातिभिः 25 तपॊधनैश च तैः सर्वैर वृतः शक्र इवामरैः वने दवैतवने तस्मिन विजहार मुदा युतः |
1
[vai] tato 'rjunaś citrasenaṃ prahasann idam abravīt madhye gandharvasainyānāṃ maheṣvāso mahādyutiḥ 2 kiṃ te vyavasitaṃ vīra kauravāṇāṃ vinigrahe kimarthaṃ ca sadāro 'yaṃ nigṛhītaḥ suyodhanaḥ 3 [citra] vidito 'yam abhiprāyas tatasthena mahātmanā duryodhanasya pāpasya karṇasya ca dhanaṃjaya 4 vanasthān bhavato jñātvā kliśyamānān anarhavat ime 'vahasituṃ prāptā draupadīṃ ca yaśasvinīm 5 jñātvā cikīrṣitaṃ caiṣāṃ mām uvāca sureśvaraḥ gaccha duryodhanaṃ baddhvā sāmātyaṃ tvam ihānaya 6 dhanaṃjayaś ca te rakṣyaḥ saha bhrātṛbhir āhave sa hi priyaḥ sakhā tubhyaṃ śiṣyaś ca tava pāṇṭavaḥ 7 vacanād devarājasya tato 'smīhāgato drutam ayaṃ durātmā baddhaś ca gamiṣyāmi surālayam 8 [arj] utsṛjyatāṃ citrasena bhrātāsmākaṃ suyodhanaḥ dharmarājasya saṃdeśān mama ced icchasi priyam 9 [citra] pāpo 'yaṃ nityasaṃduṣṭo na vimokṣaṇam arhati pralabdhā dharmarājasya kṛṣṇāyāś ca dhanaṃjaya 10 nedaṃ cikīrṣitaṃ tasya kuntīputro mahāvrataḥ jānāti dharmarājo hi śrutvā kuru yathecchasi 11 [vai] te sarva eva rājānam abhijagmur yudhiṣṭhiram abhigamya ca tat sarvaṃ śaśaṃsus tasya duṣkṛtam 12 ajātaśatrus tac chrutvā gandharvasya vacas tadā mokṣayām āsa tān sarvān gandharvān praśaśaṃsa ca 13 diṣṭyā bhavadbhir balibhiḥ śaktaiḥ sarvair na hiṃsitaḥ durvṛtto dārtarāṣṭro 'yaṃ sāmātyajñāti bāndhavaḥ 14 upakāro mahāṃs tāta kṛto 'yaṃ mama khecarāḥ kulaṃ na paribhūtaṃ me mokṣeṇāsya durātmanaḥ 15 ājñāpayadhvam iṣṭāni prīyāmo darśanena vaḥ prāpya sarvān abhiprāyāṃs tato vrajata māciram 16 anujñātās tu gandharvāḥ pāṇḍuputreṇa dhīmatā sahāpsarobhiḥ saṃhṛṣṭāś citrasena mukhā yayuḥ 17 devarāḍ api gandharvān mṛtāṃs tān samajīvayat divyenāmṛta varṣeṇa ye hatāḥ kauravair yudhi 18 jñātīṃs tān avamucyātha rājadārāṃś ca sarvaśaḥ kṛtvā ca duṣkaraṃ karma prītiyuktāś ca pāṇḍavāḥ 19 sastrī kumāraiḥ kurubhiḥ pūjyamānā mahārathāḥ babhrājire mahātmānaḥ kurumadhye yathāgnayaḥ 20 tato duryodhanaṃ mucya bhrātṛbhiḥ sahitaṃ tadā yudhiṣṭhiraḥ sapraṇayam idaṃ vacanam abravīt 21 mā sma tāta punaḥ kārṣīr īdṛśaṃ sāhasaṃ kva cit na hi sāhasa kartāraḥ sukham edhanti bhārata 22 svastimān sahitaḥ sarvair bhrātṛbhiḥ kurunandana gṛhān vraja yathākāmaṃ vaimanasyaṃ ca mā kṛthāḥ 23 pāṇḍavenābhyanujñāto rājā duryodhanas tadā vidīryamāṇo vrīḍena jagāma ganaraṃ prati 24 tasmin gate kauraveye kuntīputro yudhiṣṭhiraḥ bhrātṛbhiḥ sahito vīraḥ pūjyamāno dvijātibhiḥ 25 tapodhanaiś ca taiḥ sarvair vṛtaḥ śakra ivāmaraiḥ vane dvaitavane tasmin vijahāra mudā yutaḥ |
The Mahabharata in Sanskrit
Book 3
Chapter 236
|
1
[जनम] शत्रुभिर जितबद्धस्य पाण्डवैश च महात्मभिः मॊक्षितस्य युधा पश्चान मानस्थस्य दुरात्मनः 2 कत्थनस्यावलिप्तस्य गर्वितस्य च नित्यशः सदा च पौरुषाद आर्यैः पाण्डवान अवमन्यतः 3 दुर्यॊधनस्य पापस्य नित्याहंकार वादिनः परवेशॊ हास्तिनपुरे दुष्करः परतिभाति मे 4 तस्य लज्जान्वितस्यैव शॊकव्याकुल चेतसः परवेशं विस्तरेण तवं वैशम्पायन कीर्तय 5 [वै] धर्मराज निसृष्टस तु धार्तराष्ट्रः सुयॊधनः लज्जयाधॊमुखः सीदन्न उपासर्पत सुदुःखितः 6 सवपुरं परययौ राजा चतुरङ्ग बलानुगः शॊकॊपहतया बुद्ध्या चिन्तयानः पराभवम 7 विचुम्य पथि यानानि देशे सुयवसॊदके संनिविष्टः शुभे रम्ये भूमिभागे यथेप्सितम हस्त्यश्वरथपातातं यथास्थानं नयवेशयत 8 अथॊपविष्टं राजानं पर्यङ्के जवलनप्रभे उपप्लुतं यथा सॊमं राहुणा रात्रिसंक्षये उपगम्याब्रवीत कर्णॊ दुर्यॊधनम इदं तदा 9 दिष्ट्या जीवसि गान्धारे दिष्ट्या नः संगमः पुनः दिष्ट्या तवया जिताश चैव गन्धर्वाः कामरूपिणः 10 दिष्ट्या समग्रान पश्यामि भरातॄंस ते कुरुनन्दन विजिगीषून रणान मुक्तान निर्जितारीन महारथान 11 अहं तव अभिद्रुतः सर्वैर गन्धर्वैः पश्यतस तव नाशक्नुवं सथापयितुं दीर्यमाणां सववाहिनीम 12 शरक्षताङ्गश च भृशं वयपयातॊ ऽभिपीडितः इदं तव अत्यद्भुतं मन्ये यद युष्मान इह भारत 13 अरिष्टान अक्षतांश चापि सदार धनवाहनान विमुक्तान संप्रपश्यामि तस्माद युद्धाद अमानुषात 14 नैतस्य कर्ता लॊके ऽसमिन पुमान विद्येत भारत यत्कृतं ते महाराज सह भरातृभिर आहवे 15 एवम उक्तस तु कर्णेन राजा दुर्यॊधनस तदा उवाचावाक शिरा राजन बाष्पगद्गदया गिरा |
1
[janam] śatrubhir jitabaddhasya pāṇḍavaiś ca mahātmabhiḥ mokṣitasya yudhā paścān mānasthasya durātmanaḥ 2 katthanasyāvaliptasya garvitasya ca nityaśaḥ sadā ca pauruṣād āryaiḥ pāṇḍavān avamanyataḥ 3 duryodhanasya pāpasya nityāhaṃkāra vādinaḥ praveśo hāstinapure duṣkaraḥ pratibhāti me 4 tasya lajjānvitasyaiva śokavyākula cetasaḥ praveśaṃ vistareṇa tvaṃ vaiśampāyana kīrtaya 5 [vai] dharmarāja nisṛṣṭas tu dhārtarāṣṭraḥ suyodhanaḥ lajjayādhomukhaḥ sīdann upāsarpat suduḥkhitaḥ 6 svapuraṃ prayayau rājā caturaṅga balānugaḥ śokopahatayā buddhyā cintayānaḥ parābhavam 7 vicumya pathi yānāni deśe suyavasodake saṃniviṣṭaḥ śubhe ramye bhūmibhāge yathepsitam hastyaśvarathapātātaṃ yathāsthānaṃ nyaveśayat 8 athopaviṣṭaṃ rājānaṃ paryaṅke jvalanaprabhe upaplutaṃ yathā somaṃ rāhuṇā rātrisaṃkṣaye upagamyābravīt karṇo duryodhanam idaṃ tadā 9 diṣṭyā jīvasi gāndhāre diṣṭyā naḥ saṃgamaḥ punaḥ diṣṭyā tvayā jitāś caiva gandharvāḥ kāmarūpiṇaḥ 10 diṣṭyā samagrān paśyāmi bhrātṝṃs te kurunandana vijigīṣūn raṇān muktān nirjitārīn mahārathān 11 ahaṃ tv abhidrutaḥ sarvair gandharvaiḥ paśyatas tava nāśaknuvaṃ sthāpayituṃ dīryamāṇāṃ svavāhinīm 12 śarakṣatāṅgaś ca bhṛśaṃ vyapayāto 'bhipīḍitaḥ idaṃ tv atyadbhutaṃ manye yad yuṣmān iha bhārata 13 ariṣṭān akṣatāṃś cāpi sadāra dhanavāhanān vimuktān saṃprapaśyāmi tasmād yuddhād amānuṣāt 14 naitasya kartā loke 'smin pumān vidyeta bhārata yatkṛtaṃ te mahārāja saha bhrātṛbhir āhave 15 evam uktas tu karṇena rājā duryodhanas tadā uvācāvāk śirā rājan bāṣpagadgadayā girā |
The Mahabharata in Sanskrit
Book 3
Chapter 237
|
1
[दुर] अजानतस ते राधेय नाभ्यसूयाम्य अहं वचः जानासि तवं जिताञ शत्रून गन्धर्वांस तेजसा मया 2 आयॊधितास तु गन्धर्वाः सुचिरं सॊदरैर ममम मया सह महाबाहॊ कृतश चॊभयतः कषयः 3 मायाधिकास तव अयुध्यन्त यदा शूरा वियद गताः तदा नॊ नसमं युद्धम अभवत सह खेचरैः 4 पराजयं च पराप्ताः सम रणे बन्धनम एव च सभृत्यामात्य पुत्राश च सदार धनवाहनाः उच्चैर आकाशमार्गेण हरियामस तैः सुदुःखिताः 5 अथ नः सैनिकाः के चिद अमात्याश च महारथान उपगम्याब्रुवन दीनाः पाण्डवाञ शरणप्रदान 6 एष दुर्यॊधनॊ राजा धार्तराष्ट्रः सहानुजः सामात्यदारॊ हरियते गन्धर्वैर दिवम आस्थितैः 7 तं मॊक्षयत भद्रं वः सह दारं नराधिपम परामर्शॊ मा भविष्यत कुरु दारेषु सर्वशः 8 एवम उक्ते तु धर्मात्मा जयेष्ठः पाण्डुसुतस तदा परसाद्य सॊदरान सर्वान आज्ञापयत मॊक्षणे 9 अथागम्य तम उद्देशं पाण्डवाः पुरुषर्षभाः सान्त्वपूर्वम अयाचन्त शक्ताः सन्तॊ महारथाः 10 यदा चास्मान न मुमुचुर गन्धर्वाः सान्त्विता अपि ततॊ ऽरजुनश च भीमश च यमजौ च बलॊत्कटौ मुमुचुः शरवर्षाणि गन्धर्वान परत्यनेकशः 11 अथ सर्वे रणं मुक्त्वा परयाताः खचरा दिवम अस्मान एवाभिकर्षन्तॊ दीनान मुदितमानसाः 12 ततः समन्तात पश्यामि शरजालेन वेष्टितम अमानुषाणि चास्त्राणि परयुञ्जानं धनंजयम 13 समावृता दिशॊ देष्ट्वा पाण्डवेन शितैः शरैः धनंजय सखात्मानं दर्शयाम आस वै तदा 14 चित्रसेनः पाण्डवेन समाश्लिष्य परंतपः कुशलं परिपप्रच्छ तैः पृष्टश चाप्य अनामयम 15 ते समेत्य तथान्यॊन्यं संनाहान विप्रमुच्य च एकीभूतास ततॊ वीरा गन्धर्वाः सह पाण्डवैः अपूजयेताम अन्यॊन्यं चित्रसेन धनंजयौ |
1
[dur] ajānatas te rādheya nābhyasūyāmy ahaṃ vacaḥ jānāsi tvaṃ jitāñ śatrūn gandharvāṃs tejasā mayā 2 āyodhitās tu gandharvāḥ suciraṃ sodarair mamam mayā saha mahābāho kṛtaś cobhayataḥ kṣayaḥ 3 māyādhikās tv ayudhyanta yadā śūrā viyad gatāḥ tadā no nasamaṃ yuddham abhavat saha khecaraiḥ 4 parājayaṃ ca prāptāḥ sma raṇe bandhanam eva ca sabhṛtyāmātya putrāś ca sadāra dhanavāhanāḥ uccair ākāśamārgeṇa hriyāmas taiḥ suduḥkhitāḥ 5 atha naḥ sainikāḥ ke cid amātyāś ca mahārathān upagamyābruvan dīnāḥ pāṇḍavāñ śaraṇapradān 6 eṣa duryodhano rājā dhārtarāṣṭraḥ sahānujaḥ sāmātyadāro hriyate gandharvair divam āsthitaiḥ 7 taṃ mokṣayata bhadraṃ vaḥ saha dāraṃ narādhipam parāmarśo mā bhaviṣyat kuru dāreṣu sarvaśaḥ 8 evam ukte tu dharmātmā jyeṣṭhaḥ pāṇḍusutas tadā prasādya sodarān sarvān ājñāpayata mokṣaṇe 9 athāgamya tam uddeśaṃ pāṇḍavāḥ puruṣarṣabhāḥ sāntvapūrvam ayācanta śaktāḥ santo mahārathāḥ 10 yadā cāsmān na mumucur gandharvāḥ sāntvitā api tato 'rjunaś ca bhīmaś ca yamajau ca balotkaṭau mumucuḥ śaravarṣāṇi gandharvān pratyanekaśaḥ 11 atha sarve raṇaṃ muktvā prayātāḥ khacarā divam asmān evābhikarṣanto dīnān muditamānasāḥ 12 tataḥ samantāt paśyāmi śarajālena veṣṭitam amānuṣāṇi cāstrāṇi prayuñjānaṃ dhanaṃjayam 13 samāvṛtā diśo deṣṭvā pāṇḍavena śitaiḥ śaraiḥ dhanaṃjaya sakhātmānaṃ darśayām āsa vai tadā 14 citrasenaḥ pāṇḍavena samāśliṣya paraṃtapaḥ kuśalaṃ paripapraccha taiḥ pṛṣṭaś cāpy anāmayam 15 te sametya tathānyonyaṃ saṃnāhān vipramucya ca ekībhūtās tato vīrā gandharvāḥ saha pāṇḍavaiḥ apūjayetām anyonyaṃ citrasena dhanaṃjayau |
The Mahabharata in Sanskrit
Book 3
Chapter 238
|
1
[दुर] चित्रसेनं समागम्य परहसन्न अर्जुनस तदा इदं वचनम अक्लीबम अब्रवीत परवीरहा 2 भरातॄन अर्हसि नॊ वीर मॊक्तुं गन्धर्वसत्तम अनर्हा धर्षणं हीमे जीवमानेषु पाण्डुषु 3 एवम उक्तस तु गन्धर्वः पाण्डवेन महात्मना उवाच यत कर्ण वयं मन्त्रयन्तॊ विनिर्गताः दरष्टारः सम सुखाद धीनान सदारान पाण्डवान इति 4 तस्मिन्न उच्चार्यमाणे तु गन्धर्वेण वचस्य अथ भूमेर विवरम अन्वैच्छं परवेष्टुं वरीडयान्वितः 5 युधिष्ठिरम अथागम्य गन्धर्वाः सह पाण्डवैः अस्मद दुर्मन्त्रितं तस्मै बद्धांश चास्मान नयवेदयन 6 सत्रीसमक्षम अहं दीनॊ बद्धः शत्रुवशं गतः युधिष्ठिरस्यॊपहृतः किं नु दुःखम अतः परम 7 ये मे निराकृता नित्यं रिपुर येषाम अहं सदा तैर मॊक्षितॊ ऽहं दुर्बुद्धिर दत्तं तैर जीवितं च मे 8 पराप्तः सयां यद्य अहं वीरवधं तस्मिन महारणे शरेयस तद भविता मह्यम एवं भूतं न जीवितम 9 भवेद यशॊ पृथिव्यां मे खयातं गन्धर्वतॊ वधात पराप्ताश च लॊकाः पुण्याः सयुर महेन्द्र सदने ऽकषयाः 10 यत तव अद्य मे वयवसितं तच छृणुध्वं नरर्षभाः इह परायम उपासिष्ये यूयं वरजत वै गृहान भरातरश चैव मे सर्वे परयान्त्व अद्य पुरं परति 11 कर्णप्रभृतयश चैव सुहृदॊ बान्धवाश च ये दुःशासनं पुरक्कृत्य परयान्त्व अद्य पुरं परति 12 न हय अहं परतियास्यामि पुरं शत्रुनिराकृतः शत्रुमानापहॊ भूत्वा सुहृदां मानकृत तथा 13 स सुहृच्छॊकदॊ भूत्वा शत्रूणां हर्षवर्धनः वारणाह्वयम आसाद्य किं वक्ष्यामि जनाधिपम 14 भीष्मॊ दरॊणः कृपॊ दरौणिर विदुरः संजयस तथा बाह्लीकः सॊमदत्तश च ये चान्ये वृद्धसंमताः 15 बराह्मणाः शरेणि मुख्याश च तथॊदासीन वृत्तयः किं मां वक्ष्यन्ति किं चापि परतिवक्ष्यामि तान अहम 16 रिपूणां शिरसि सथित्वा तथा विक्रम्य चॊरसि आत्मदॊषात परिभ्रष्टः कथं वक्ष्यामि तान अहम 17 दुर्विनीताः शरियं पराप्य विद्याम ऐश्वर्यम एव च तिष्ठन्ति नचिरं भद्रे यथाहं मदगर्वितः 18 अहॊ बत यथेदं मे कष्टं दुश्चरितं कृतम सवयं दुर्बुद्धिना मॊहाद येन पराप्तॊ ऽसमि संशयम 19 तस्मात परायम उपासिष्ये न हि शक्ष्यामि जीवितुम चेतयानॊ हि कॊ जीवेत कृच्छ्राच छत्रुभिर उद्धृतः 20 शत्रुभिश चावहसितॊ मानी पौरुषवर्जितः पाण्डवैर विक्रमाढ्यैश च सावमानम अवेक्षितः 21 [वै] एवं चिन्तापरिगतॊ दुःशासनम अथाब्रवीत दुःशासन निबॊधेदं वचनं मम भारत 22 परतीच्छ तवं मया दत्तम अभिषेकं नृपॊ भव परशाधि पृथिवीं सफीतां कर्ण सौबल पालिताम 23 भरातॄन पालय विस्रब्धं मरुतॊ वृत्रहा यथा बान्धवास तवॊपजीवन्तु देवा इव शतक्रतुम 24 बराह्मणेषु सदा वृत्तिं कुर्वीथाश चाप्रमादतः बन्धूनां सुहृदां चैव भवेथास तवं गतिः सदा 25 जञातींश चाप्य अनुपश्येथा विष्णुर देवगणान इव गुरवः पालनीयास ते गच्छ पालय मेदिनीम 26 नन्दयन सुहृदः सर्वाञ शात्रवांश चावभर्त्सयन कण्ठे चैनं परिष्वज्य गम्यताम इत्य उवाच ह 27 तस्य तद वचनं शरुत्वा दीनॊ दुःशासनॊ ऽबरवीत अश्रुकण्ठः सुदुःखार्तः पराञ्जलिः परणिपत्य च सगद्गदम इदं वाक्यं भरातरं जयेष्ठम आत्मनः 28 परसीदेत्य अपतद भूमौ दूयमानेन चेतसा दुःखितः पादयॊस तस्य नेत्रजं जलम उत्सृजन 29 उक्तवांश च नरव्याघ्रॊ नैतद एवं भविष्यति विरीयेत सनगा भूमिर दयौश चापि शकलीभवेत रविर आत्मप्रभां जह्यात सॊमः शीतांशुतां तयजेत 30 वायुः शैघ्र्यम अथॊ जह्याद धिमवांश च परिव्रजेत शुष्येत तॊयं समुद्रेषु वह्निर अप्य उष्णतां तयजेत 31 न चाहं तवदृते राजन परशासेयं वसुंधराम पुनः पुनः परसीदेति वाक्यं चेदम उवाच ह तवम एव नः कुले राजा भविष्यसि शतं समाः 32 एवम उक्त्वा स राजेन्द्र सस्वनं पररुरॊद ह पादौ संगृह्य मानार्हौ भरातुर जयेष्ठस्य भारत 33 तथा तौ दुःखितौ दृष्ट्वा दुःशासन सुयॊधनौ अभिगम्य वयथाविष्टः कर्णस तौ परत्यभाषत 34 विषीदथः किं कौरव्यौ बालिश्यात पराकृताव इव न शॊकः शॊचमानस्य विनिवर्तेत कस्य चित 35 यदा च शॊचतः शॊकॊ वयसनं नापकर्षति सामर्थ्यं किं तव अतः शॊके शॊचमानौ परपश्यथः धृतिं गृह्णीत मा शत्रूञ शॊचन्तौ नन्दयिष्यथः 36 कर्तव्यं हि कृतं राजन पाण्डवैस तव मॊक्षणम नित्यम एव रियं कार्यं राज्ञॊ विषयवासिभिः पाल्यमानास तवया ते हि निवसन्ति गतज्वराः 37 नार्हस्य एवंगते मन्युं कर्तुं पराकृतवद यथा विषण्णास तव सॊदर्यास तवयि परायं समास्थिते उत्तिष्ठ वरज भद्रं ते समाश्वसय सॊदरान 38 राजन्न अद्यावगच्छामि तवेह लघुसत्त्वताम किम अत्र चित्रं यद वीर मॊक्षितः पाण्डवैर असि सद्यॊ वशं समापन्नः शत्रूणां शत्रुकर्शन 39 सेना जीवैश च कौरव्य तथा विषयवासिभिः अज्ञातैर यदि वा जञातैः कर्तव्यं नृपतेः परियम 40 परायॊ परधानाः पुरुषाः कषॊभयन्त्य अरिवाहिनीम निगृह्यन्ते च युद्धेषु मॊक्ष्यन्ते च सवसैनिकैः 41 सेना जीवाश च ये राज्ञां विषये सन्ति मानवाः तैः संगम्य नृपार्थाय यतितव्यं यथातथम 42 यद्य एवं पाण्डवै राजन भवद्विषयवासिभिः यदृच्छया मॊक्षितॊ ऽदय तत्र का परिदेवना 43 न चैतत साधु यद राजन पाण्डवास तवां नृपॊत्तम सवसेनया संप्रयान्तं नानुयान्ति सम पृष्ठतः 44 शूराश च बलवन्तश च संयुगेष्व अपलायिनः भवतस ते सभायां वै परेष्यतां पूर्वम आगताः 45 पाण्डवेयानि रत्नानि तवम अद्याप्य उपभुञ्जसे सत्त्वस्थान पाण्डवान पश्य न ते परायम उपाविशन उत्तिष्ठ राजन भद्रं ते न चिन्तां कर्तुम अर्हसि 46 अवश्यम एव नृपते राज्ञॊ विषयवासिभिः परियाण्य आचरितव्यानि तत्र का परिदेवना 47 मद्वाक्यम एतद राजेन्द्र यद्य एवं न करिष्यसि सथास्यामीह भवत पादौ शुश्रूषन्न अरिमर्दन 48 नॊत्सहे जीवितुम अहं तवद्विहीनॊ नरर्षभ परायॊपविष्टस तु नृपराज्ञां हास्यॊ भविष्यसि 49 [वै] एवम उक्तस तु कर्णेन राजा दुर्यॊधनस तदा नैवॊत्थातुं मनॊ चक्रे सवर्गाय कृतनिश्चयः |
1
[dur] citrasenaṃ samāgamya prahasann arjunas tadā idaṃ vacanam aklībam abravīt paravīrahā 2 bhrātṝn arhasi no vīra moktuṃ gandharvasattama anarhā dharṣaṇaṃ hīme jīvamāneṣu pāṇḍuṣu 3 evam uktas tu gandharvaḥ pāṇḍavena mahātmanā uvāca yat karṇa vayaṃ mantrayanto vinirgatāḥ draṣṭāraḥ sma sukhād dhīnān sadārān pāṇḍavān iti 4 tasminn uccāryamāṇe tu gandharveṇa vacasy atha bhūmer vivaram anvaicchaṃ praveṣṭuṃ vrīḍayānvitaḥ 5 yudhiṣṭhiram athāgamya gandharvāḥ saha pāṇḍavaiḥ asmad durmantritaṃ tasmai baddhāṃś cāsmān nyavedayan 6 strīsamakṣam ahaṃ dīno baddhaḥ śatruvaśaṃ gataḥ yudhiṣṭhirasyopahṛtaḥ kiṃ nu duḥkham ataḥ param 7 ye me nirākṛtā nityaṃ ripur yeṣām ahaṃ sadā tair mokṣito 'haṃ durbuddhir dattaṃ tair jīvitaṃ ca me 8 prāptaḥ syāṃ yady ahaṃ vīravadhaṃ tasmin mahāraṇe śreyas tad bhavitā mahyam evaṃ bhūtaṃ na jīvitam 9 bhaved yaśo pṛthivyāṃ me khyātaṃ gandharvato vadhāt prāptāś ca lokāḥ puṇyāḥ syur mahendra sadane 'kṣayāḥ 10 yat tv adya me vyavasitaṃ tac chṛṇudhvaṃ nararṣabhāḥ iha prāyam upāsiṣye yūyaṃ vrajata vai gṛhān bhrātaraś caiva me sarve prayāntv adya puraṃ prati 11 karṇaprabhṛtayaś caiva suhṛdo bāndhavāś ca ye duḥśāsanaṃ purakkṛtya prayāntv adya puraṃ prati 12 na hy ahaṃ pratiyāsyāmi puraṃ śatrunirākṛtaḥ śatrumānāpaho bhūtvā suhṛdāṃ mānakṛt tathā 13 sa suhṛcchokado bhūtvā śatrūṇāṃ harṣavardhanaḥ vāraṇāhvayam āsādya kiṃ vakṣyāmi janādhipam 14 bhīṣmo droṇaḥ kṛpo drauṇir viduraḥ saṃjayas tathā bāhlīkaḥ somadattaś ca ye cānye vṛddhasaṃmatāḥ 15 brāhmaṇāḥ śreṇi mukhyāś ca tathodāsīna vṛttayaḥ kiṃ māṃ vakṣyanti kiṃ cāpi prativakṣyāmi tān aham 16 ripūṇāṃ śirasi sthitvā tathā vikramya corasi ātmadoṣāt paribhraṣṭaḥ kathaṃ vakṣyāmi tān aham 17 durvinītāḥ śriyaṃ prāpya vidyām aiśvaryam eva ca tiṣṭhanti naciraṃ bhadre yathāhaṃ madagarvitaḥ 18 aho bata yathedaṃ me kaṣṭaṃ duścaritaṃ kṛtam svayaṃ durbuddhinā mohād yena prāpto 'smi saṃśayam 19 tasmāt prāyam upāsiṣye na hi śakṣyāmi jīvitum cetayāno hi ko jīvet kṛcchrāc chatrubhir uddhṛtaḥ 20 śatrubhiś cāvahasito mānī pauruṣavarjitaḥ pāṇḍavair vikramāḍhyaiś ca sāvamānam avekṣitaḥ 21 [vai] evaṃ cintāparigato duḥśāsanam athābravīt duḥśāsana nibodhedaṃ vacanaṃ mama bhārata 22 pratīccha tvaṃ mayā dattam abhiṣekaṃ nṛpo bhava praśādhi pṛthivīṃ sphītāṃ karṇa saubala pālitām 23 bhrātṝn pālaya visrabdhaṃ maruto vṛtrahā yathā bāndhavās tvopajīvantu devā iva śatakratum 24 brāhmaṇeṣu sadā vṛttiṃ kurvīthāś cāpramādataḥ bandhūnāṃ suhṛdāṃ caiva bhavethās tvaṃ gatiḥ sadā 25 jñātīṃś cāpy anupaśyethā viṣṇur devagaṇān iva guravaḥ pālanīyās te gaccha pālaya medinīm 26 nandayan suhṛdaḥ sarvāñ śātravāṃś cāvabhartsayan kaṇṭhe cainaṃ pariṣvajya gamyatām ity uvāca ha 27 tasya tad vacanaṃ śrutvā dīno duḥśāsano 'bravīt aśrukaṇṭhaḥ suduḥkhārtaḥ prāñjaliḥ praṇipatya ca sagadgadam idaṃ vākyaṃ bhrātaraṃ jyeṣṭham ātmanaḥ 28 prasīdety apatad bhūmau dūyamānena cetasā duḥkhitaḥ pādayos tasya netrajaṃ jalam utsṛjan 29 uktavāṃś ca naravyāghro naitad evaṃ bhaviṣyati virīyet sanagā bhūmir dyauś cāpi śakalībhavet ravir ātmaprabhāṃ jahyāt somaḥ śītāṃśutāṃ tyajet 30 vāyuḥ śaighryam atho jahyād dhimavāṃś ca parivrajet śuṣyet toyaṃ samudreṣu vahnir apy uṣṇatāṃ tyajet 31 na cāhaṃ tvadṛte rājan praśāseyaṃ vasuṃdharām punaḥ punaḥ prasīdeti vākyaṃ cedam uvāca ha tvam eva naḥ kule rājā bhaviṣyasi śataṃ samāḥ 32 evam uktvā sa rājendra sasvanaṃ praruroda ha pādau saṃgṛhya mānārhau bhrātur jyeṣṭhasya bhārata 33 tathā tau duḥkhitau dṛṣṭvā duḥśāsana suyodhanau abhigamya vyathāviṣṭaḥ karṇas tau pratyabhāṣata 34 viṣīdathaḥ kiṃ kauravyau bāliśyāt prākṛtāv iva na śokaḥ śocamānasya vinivarteta kasya cit 35 yadā ca śocataḥ śoko vyasanaṃ nāpakarṣati sāmarthyaṃ kiṃ tv ataḥ śoke śocamānau prapaśyathaḥ dhṛtiṃ gṛhṇīta mā śatrūñ śocantau nandayiṣyathaḥ 36 kartavyaṃ hi kṛtaṃ rājan pāṇḍavais tava mokṣaṇam nityam eva riyaṃ kāryaṃ rājño viṣayavāsibhiḥ pālyamānās tvayā te hi nivasanti gatajvarāḥ 37 nārhasy evaṃgate manyuṃ kartuṃ prākṛtavad yathā viṣaṇṇās tava sodaryās tvayi prāyaṃ samāsthite uttiṣṭha vraja bhadraṃ te samāśvasaya sodarān 38 rājann adyāvagacchāmi taveha laghusattvatām kim atra citraṃ yad vīra mokṣitaḥ pāṇḍavair asi sadyo vaśaṃ samāpannaḥ śatrūṇāṃ śatrukarśana 39 senā jīvaiś ca kauravya tathā viṣayavāsibhiḥ ajñātair yadi vā jñātaiḥ kartavyaṃ nṛpateḥ priyam 40 prāyo pradhānāḥ puruṣāḥ kṣobhayanty arivāhinīm nigṛhyante ca yuddheṣu mokṣyante ca svasainikaiḥ 41 senā jīvāś ca ye rājñāṃ viṣaye santi mānavāḥ taiḥ saṃgamya nṛpārthāya yatitavyaṃ yathātatham 42 yady evaṃ pāṇḍavai rājan bhavadviṣayavāsibhiḥ yadṛcchayā mokṣito 'dya tatra kā paridevanā 43 na caitat sādhu yad rājan pāṇḍavās tvāṃ nṛpottama svasenayā saṃprayāntaṃ nānuyānti sma pṛṣṭhataḥ 44 śūrāś ca balavantaś ca saṃyugeṣv apalāyinaḥ bhavatas te sabhāyāṃ vai preṣyatāṃ pūrvam āgatāḥ 45 pāṇḍaveyāni ratnāni tvam adyāpy upabhuñjase sattvasthān pāṇḍavān paśya na te prāyam upāviśan uttiṣṭha rājan bhadraṃ te na cintāṃ kartum arhasi 46 avaśyam eva nṛpate rājño viṣayavāsibhiḥ priyāṇy ācaritavyāni tatra kā paridevanā 47 madvākyam etad rājendra yady evaṃ na kariṣyasi sthāsyāmīha bhavat pādau śuśrūṣann arimardana 48 notsahe jīvitum ahaṃ tvadvihīno nararṣabha prāyopaviṣṭas tu nṛparājñāṃ hāsyo bhaviṣyasi 49 [vai] evam uktas tu karṇena rājā duryodhanas tadā naivotthātuṃ mano cakre svargāya kṛtaniścayaḥ |
The Mahabharata in Sanskrit
Book 3
Chapter 239
|
1
[वै] परायॊपविष्टं राजानं दुर्यॊधनम अमर्षणम उवाच सान्त्वयन राजञ शकुनिः सौबलस तदा 2 सम्यग उक्तं हि कर्णेन तच छरुतं कौरव तवया मयाहृतां शरियं सफीतां मॊहात समपहाय किम तवम अबुद्ध्या नृप वरप्राणान उत्स्रष्टुम इच्छसि 3 अद्य चाप्य अवगच्छामि न वृद्धाः सेवितास तवया यः समुत्पतितं हर्षं दैन्यं वा न नियच्छति स नश्यति शरियं पराप्य पात्रम आमम इवाम्भसि 4 अतिभीरुम अतिक्लीबं दीर्घसूत्रं परमादिनम वयसनाद विषयाक्रान्तं न भजन्ति नृपं शरियः 5 सत्कृतस्य हि ते शॊकॊ विपरीते कथं भवेत मा कृतं शॊभनं पार्थैः शॊकम आलम्ब्य नाशय 6 यत्र हर्षस तवया कार्यः सत्कर्तव्याश च पाण्डवाः तत्र शॊचसि राजेन्द्र विपरीतम इदं तव 7 परसीद मा तयजात्मानं तुष्टश च सुकृतं समर परयच्छ राज्यं पार्थानां यशॊधर्मम अवाप्नुहि 8 करियाम एतां समाज्ञाय कृतघ्नॊ न भविष्यसि सौभ्रात्रं पाण्डवैः कृत्वा समवस्थाप्य चैव तान पित्र्यं राज्यं परयच्छैषां ततः सुखम अवाप्नुहि 9 शकुनेस तु वचॊ शरुत्वा दुःशासनम अवेक्ष्य च पादयॊः पतितं वीरं विक्लवं भरातृसौहृदात 10 बाहुभ्यां साधुजाताभ्यां दुःशासनम अरिंदमम उत्थाप्य संपरिष्वज्य परीत्याजिघ्रत मूर्धनि 11 कर्ण सौबलयॊश चापि संस्मृत्य वचनान्य असौ निर्वेदं परमं गत्वा राजा दुर्यॊधनस तदा वरीडयाभिपरीतात्मा नैराश्यम अगमत परम 12 सुहृदां चैव तच छरुत्वा समन्युर इदम अब्रवीत न धर्मधनसौख्येन नैश्वर्येण न चाज्ञया नैव भॊगैश च मे कार्यं मा विहन्यत गच्छत 13 निश्चितेयं मम मतिः सथिता परायॊपवेशने गच्छध्वं नगरं सर्वे पूज्याश च गुरवॊ मम 14 त एवम उक्ताः परत्यूचू राजानम अरिमर्दनम या गतिस तव राजेन्द्र सास्माकम अपि भारत कथं वा संप्रवेक्ष्यामस तवद्विहीनाः पुरं वयम 15 ससुहृद्भिर अमात्यैश च भरातृभिः सवजनेन च बहुप्रकारम अप्य उक्तॊ निश्चयान न वयचाल्यत 16 दर्भप्रस्तरम आस्तीर्य निश्चयाद धृतराष्टजः संस्पृश्यापॊ शुचिर भूत्वा भूतलं समुपाश्रितः 17 कुशचीराम्बर धरः परं नियमम आस्थितः वाग्यतॊ राजशार्दूलः सस्वर्गगतिकाङ्क्षया मनसॊपचितिं कृत्वा निरस्य च बहिष्क्रियाः 18 अथ तं निश्चयं तस्य बुद्ध्वा दैतेय दानवाः पातालवासिनॊ रौद्राः पूर्वं देवैर विनिर्जिताः 19 ते सवपक्ष कषयं तं तु जञात्वा दुर्यॊधनस्य वै आह्वानाय तदा चक्रुः कर्म वैतान संभवम 20 बृहस्पत्युशनॊक्तैश च मन्त्रैर मन्त्रविशारदाः अथर्ववेद परॊक्तैश च याश चॊपनिषदि करियाः मन्त्रजप्य समायुक्तास तास तदा समवर्तयन 21 जुह्वत्य अग्नौ हविः कषीरं मन्त्रवत सुसमाहिताः बराह्मणा वेदवेदाङ्गपारगाः सुदृढ वरताः 22 कर्मसिद्धौ तदा तत्र जृम्भमाणा महाद्भुता कृत्या समुत्थिता राजन किं करॊमीति चाब्रवीत 23 आहुर दैत्याश चतां तत्र सुप्रीतेनान्तरात्मना परायॊपविष्टं राजानं धार्तराष्ट्रम इहानय 24 तथेति च परतिश्रुत्य सा कृत्या परययौ तदा निमेषाद अगमच चापि यत्र राजा सुयॊधनः 25 समादाय च राजानं परविवेश रसातलम दानवानां मुहूर्ताच च तम आनीतं नयवेदयत 26 तम आनीतं नृपं दृष्ट्वा रात्रौ संहत्य दानवाः परहृष्टमनसः सर्वे किं चिद उत्फुल्ललॊचनाः साभिमानम इदं वाक्यं दुर्यॊधनम अथाब्रुवन |
1
[vai] prāyopaviṣṭaṃ rājānaṃ duryodhanam amarṣaṇam uvāca sāntvayan rājañ śakuniḥ saubalas tadā 2 samyag uktaṃ hi karṇena tac chrutaṃ kaurava tvayā mayāhṛtāṃ śriyaṃ sphītāṃ mohāt samapahāya kim tvam abuddhyā nṛpa varaprāṇān utsraṣṭum icchasi 3 adya cāpy avagacchāmi na vṛddhāḥ sevitās tvayā yaḥ samutpatitaṃ harṣaṃ dainyaṃ vā na niyacchati sa naśyati śriyaṃ prāpya pātram āmam ivāmbhasi 4 atibhīrum atiklībaṃ dīrghasūtraṃ pramādinam vyasanād viṣayākrāntaṃ na bhajanti nṛpaṃ śriyaḥ 5 satkṛtasya hi te śoko viparīte kathaṃ bhavet mā kṛtaṃ śobhanaṃ pārthaiḥ śokam ālambya nāśaya 6 yatra harṣas tvayā kāryaḥ satkartavyāś ca pāṇḍavāḥ tatra śocasi rājendra viparītam idaṃ tava 7 prasīda mā tyajātmānaṃ tuṣṭaś ca sukṛtaṃ smara prayaccha rājyaṃ pārthānāṃ yaśodharmam avāpnuhi 8 kriyām etāṃ samājñāya kṛtaghno na bhaviṣyasi saubhrātraṃ pāṇḍavaiḥ kṛtvā samavasthāpya caiva tān pitryaṃ rājyaṃ prayacchaiṣāṃ tataḥ sukham avāpnuhi 9 śakunes tu vaco śrutvā duḥśāsanam avekṣya ca pādayoḥ patitaṃ vīraṃ viklavaṃ bhrātṛsauhṛdāt 10 bāhubhyāṃ sādhujātābhyāṃ duḥśāsanam ariṃdamam utthāpya saṃpariṣvajya prītyājighrata mūrdhani 11 karṇa saubalayoś cāpi saṃsmṛtya vacanāny asau nirvedaṃ paramaṃ gatvā rājā duryodhanas tadā vrīḍayābhiparītātmā nairāśyam agamat param 12 suhṛdāṃ caiva tac chrutvā samanyur idam abravīt na dharmadhanasaukhyena naiśvaryeṇa na cājñayā naiva bhogaiś ca me kāryaṃ mā vihanyata gacchata 13 niściteyaṃ mama matiḥ sthitā prāyopaveśane gacchadhvaṃ nagaraṃ sarve pūjyāś ca guravo mama 14 ta evam uktāḥ pratyūcū rājānam arimardanam yā gatis tava rājendra sāsmākam api bhārata kathaṃ vā saṃpravekṣyāmas tvadvihīnāḥ puraṃ vayam 15 sasuhṛdbhir amātyaiś ca bhrātṛbhiḥ svajanena ca bahuprakāram apy ukto niścayān na vyacālyata 16 darbhaprastaram āstīrya niścayād dhṛtarāṣṭajaḥ saṃspṛśyāpo śucir bhūtvā bhūtalaṃ samupāśritaḥ 17 kuśacīrāmbara dharaḥ paraṃ niyamam āsthitaḥ vāgyato rājaśārdūlaḥ sasvargagatikāṅkṣayā manasopacitiṃ kṛtvā nirasya ca bahiṣkriyāḥ 18 atha taṃ niścayaṃ tasya buddhvā daiteya dānavāḥ pātālavāsino raudrāḥ pūrvaṃ devair vinirjitāḥ 19 te svapakṣa kṣayaṃ taṃ tu jñātvā duryodhanasya vai āhvānāya tadā cakruḥ karma vaitāna saṃbhavam 20 bṛhaspatyuśanoktaiś ca mantrair mantraviśāradāḥ atharvaveda proktaiś ca yāś copaniṣadi kriyāḥ mantrajapya samāyuktās tās tadā samavartayan 21 juhvaty agnau haviḥ kṣīraṃ mantravat susamāhitāḥ brāhmaṇā vedavedāṅgapāragāḥ sudṛḍha vratāḥ 22 karmasiddhau tadā tatra jṛmbhamāṇā mahādbhutā kṛtyā samutthitā rājan kiṃ karomīti cābravīt 23 āhur daityāś catāṃ tatra suprītenāntarātmanā prāyopaviṣṭaṃ rājānaṃ dhārtarāṣṭram ihānaya 24 tatheti ca pratiśrutya sā kṛtyā prayayau tadā nimeṣād agamac cāpi yatra rājā suyodhanaḥ 25 samādāya ca rājānaṃ praviveśa rasātalam dānavānāṃ muhūrtāc ca tam ānītaṃ nyavedayat 26 tam ānītaṃ nṛpaṃ dṛṣṭvā rātrau saṃhatya dānavāḥ prahṛṣṭamanasaḥ sarve kiṃ cid utphullalocanāḥ sābhimānam idaṃ vākyaṃ duryodhanam athābruvan |
The Mahabharata in Sanskrit
Book 3
Chapter 240
|
1
[दानवाह] भॊः सुयॊधन राजेन्द्र भरतानां कुलॊद्वह शूरैः परिवृतॊ नित्यं तथैव च महात्मभिः 2 अकार्षीः साहसम इदं कस्मात परायॊपवेशनम आत्मत्यागी हय अवाग याति वाच्यतां चायशस्करीम 3 न हि कार्यविरुद्धेषु बह्व अपायेषु कर्मसु मूलघातिषु सज्जन्ते बुद्धिमन्तॊ भवद्विधाः 4 नियच्छैतां मतिं राजन धर्मार्थसुखनाशिनीम यशः परताप धैर्यघ्नीं शत्रूणां हर्षवर्धनीम 5 शरूयतां च परभॊ तत्त्वं दिव्यतां चात्मनॊ नृप निर्माणं च शरीरस्य ततॊ धैर्यम अवाप्नुहि 6 पुरा तवं तपसास्माभिर लब्धॊ देवान महेश्वरात पूर्वकायश च सर्वस ते निर्मितॊ वज्रसंचयैः 7 अस्तैर अभेद्यः शस्तैश चाप्य अधः कायश च ते ऽनघ कृतः पुष्पमयॊ देव्या रूपतः सत्रीमनॊहरः 8 एवम ईश्वर संयुक्तस तव देहॊ नृपॊत्तम देव्या च राजशार्दूल दिव्यस तवं हि न मानुषः 9 कषत्रियाश च महावीर्या भगदत्तपुरॊगमाः दिव्यास्त्रविदुषः शूराः कषपयिष्यन्ति ते रिपून 10 तद अलं ते विषादेन भयं तव न विद्यते साह्यार्थं च हि ते वीराः संभूता भुवि दानवाः 11 भीष्मद्रॊणकृपादींश च परवेक्ष्यन्त्य अपरे ऽसुराः यैर आविष्टा घृणां तयक्त्वा यॊत्स्यन्ते तव वैरिभिः 12 नैव पुत्रान न च भरातॄन न पितॄन न च बान्धवान नैव शिष्यान न च जञातीन न बालान सथविरान न च 13 युधि संप्रहरिष्यन्तॊ मॊक्ष्यन्ति कुरुसत्तम निःस्नेहा दानवाविष्टाः समाक्रान्तान्तर आत्मनि 14 परहरिष्यन्ति बन्धुभ्यः सनेहम उत्सृज्य दूरतः हृष्टाः पुरुषशार्दूलाः कलुषीकृतमानसाः अविज्ञान विमूढाश च दैवाच च विधिनिर्मितात 15 वयाभाषमाणाश चान्यॊन्यं न मे जीवन विमॊक्ष्यसे सर्वशस्त्रास्त्रमॊक्षेण पौरुषे समवस्थिताः शलाघमानाः कुरुश्रेष्ठ करिष्यन्ति जनक्षयम 16 ते ऽपि शक्त्या महात्मानः परतियॊत्स्यन्ति पाण्डवाः वधं चैषां करिष्यन्ति दैवयुक्ता महाबलाः 17 दैत्य रक्षॊगणाश चापि संभूताः कषत्रयॊनिषु यॊत्स्यन्ति युधि विक्रम्य शत्रुभिस तव पार्थिव गदाभिर मुसलैः खड्गैः शस्त्रैर उच्चावचैस तथा 18 यच च ते ऽनतर्गतं वीर भयम अर्जुन संभवम तत्रापि विहितॊ ऽसमाभिर वधॊपायॊ ऽरजुनस्य वै 19 हतस्य नरकस्यात्मा कर्ण मूर्तिम उपाश्रितः तद वैरं संस्मरन वीर यॊत्स्यते केशवार्जुनौ 20 स ते विक्रमशौण्डीरॊ रणे पार्थं विजेष्यति कर्णः परहरतां शरेष्ठः सर्वांश चारीन महारथः 21 जञात्वैतच छद्मना वज्री रक्षार्थं सव्यसाचिनः कुण्डले कवचं चैव कर्णस्यापहरिष्यति 22 तस्माद अस्माभिर अप्य अत्र दैत्याः शतसहस्रशः नियुक्ता राक्षसश चैव ये ते संशप्तका इति परख्यातास ते ऽरजुनं वीरं निहनिष्यन्ति मा शुचः 23 असपत्ना तवया हीयं भॊक्तव्या वसुधा नृप मा विषादं नयस्वास्मान नैतत तवय्य उपपद्यते विनष्टे तवयि चास्माकं पक्षॊ हीयेत कौरव 24 गच्छ वीर न ते बुद्धिर अन्या कार्या कथंचनन तवम अस्माकं गतिर नित्यं देवतानां च पाण्डवाः 25 [वै] एवम उक्त्वा परिष्वज्य दैत्यास तं राजजुञ्जरम समाश्वास्य च दुर्धर्षं पुत्रवद दानवर्षभाः 26 सथिरां कृत्वा बुद्धिम अस्य परियाण्य उक्त्वा च भारत गम्यताम इत्य अनुज्ञाय जयम आप्नुहि चेत्य अथ 27 तैर विसृष्टं महाबाहुं कृत्या सैवानयत पुनः तम एव देशं यत्रासौ तदा परायम उपाविशत 28 परतिनिक्षिप्य तं वीरं कृत्या समभिपूज्य च अनुज्ञाता च राज्ञा सा तत्रैवान्तरधीयत 29 गतायाम अथ तस्यां तु राजा दुर्यॊधनस तदा सवप्नभूतम इदं सर्वम अचिन्तयत भारत विजेष्यमै रणे पाण्डून इति तस्याभवन मतिः 30 कर्णं संशप्तकांश चैव पार्थस्यामित्र घातिनः अमन्यत वधे युक्तान समर्थांश च सुयॊधनः 31 एवम आशा दृढा तस्य धार्तराष्ट्रस्य दुर्मतेः विनिर्जये पाण्डवानाम अभवद भरतर्षभ 32 कर्णॊ ऽपय आविष्ट चित्तात्मा नरकस्यान्तर आत्मना अर्जुनस्य वधे करूराम अकरॊत स मतिं तदा 33 संशप्तकाश च ते वीरा राक्षसाविष्ट चेतसः रजस तमॊभ्याम आक्रान्ताः फल्गुनस्य वधैषिणः 34 भीष्मद्रॊणकृपाद्याश च दानवाक्रान्त चेतसः न तथा पाण्डुपुत्राणां सनेहवन्तॊ विशां पते न चाचचक्षे कस्मै चिद एतद राजा सुयॊधनः 35 दुर्यॊधनं निशान्ते च कर्णॊ वैकर्तनॊ ऽबरवीत समयन्न इवाञ्जलिं कृत्वा पार्थिवं हेतुमद वचः 36 न मृतॊ जयते शत्रूञ जीवन भद्राणि पश्यति मृतस्य भद्राणि कुतः कौरवेय कुतॊ जयः न कालॊ ऽदय विषादस्य भयस्य मरणस्य वा 37 परिष्वज्याब्रवीच चैनं भुजाभ्यां स महाभुजः उत्तिष्ठ राजन किं शेषे कस्माच छॊचसि शत्रुहन शत्रून परताप्य वीर्येण स कथं मर्तुम इच्छसि 38 अथ वा ते भयं जातं दृष्ट्वार्जुन पराक्रमम सत्यं ते परतिजानामि वधिष्यामि रणे ऽरजुनम 39 गते तरयॊदशे वर्षे सत्येनायुधम आलभे आनयिष्याम्य अहं पार्थान वशं तव जनाधिप 40 एवम उक्तस तु कर्णेन दैत्यानां वचनात तथा परणिपातेन चान्येषाम उदतिष्ठत सुयॊधनः दैत्यानां तद वचॊ शरुत्वा हृदि कृत्वा सथिरां मतिम 41 ततॊ मनुजशार्दूलॊ यॊजयाम आस वाहिनीम रथनागाश्वकलिलां पदातिजनसंकुलाम 42 गङ्गौघप्रतिमा राजन परयाता सा महाचमूः शवेतछत्रैः पताकाभिश चामरैश च सुपाण्डुरैः 43 रथैर नागैः पदातैश च शुशुभे ऽतीव संकुला वयपेताभ्र घने काले दयौर इवाव्यक्त शारदी 44 जयाशीर्भिर दविजेन्द्रैस तु सतूयमानॊ ऽधिराजवत गृह्णन्न अञ्जलिमालाश च धार्तराष्ट्रॊ जनाधिपः 45 सुयॊधनॊ ययाव अग्रे शरिया परमया जवलन कर्णेन सार्धं राजेन्द्र सौबलेन च देविना 46 दुःशासनादयश चास्य भरातरः सर्व एव ते भूरिश्रवाः सॊमदत्तॊ महाराजश च बाह्लिकः 47 रथैर नानाविधाकारैर हयैर गजवरैस तथा परयान्तं नृप सिंहं तम अनुजग्मुः कुरूद्वहाः कालेनाल्पेन राजंस ते विविशुः सवपुरं तदा |
1
[dānavāh] bhoḥ suyodhana rājendra bharatānāṃ kulodvaha śūraiḥ parivṛto nityaṃ tathaiva ca mahātmabhiḥ 2 akārṣīḥ sāhasam idaṃ kasmāt prāyopaveśanam ātmatyāgī hy avāg yāti vācyatāṃ cāyaśaskarīm 3 na hi kāryaviruddheṣu bahv apāyeṣu karmasu mūlaghātiṣu sajjante buddhimanto bhavadvidhāḥ 4 niyacchaitāṃ matiṃ rājan dharmārthasukhanāśinīm yaśaḥ pratāpa dhairyaghnīṃ śatrūṇāṃ harṣavardhanīm 5 śrūyatāṃ ca prabho tattvaṃ divyatāṃ cātmano nṛpa nirmāṇaṃ ca śarīrasya tato dhairyam avāpnuhi 6 purā tvaṃ tapasāsmābhir labdho devān maheśvarāt pūrvakāyaś ca sarvas te nirmito vajrasaṃcayaiḥ 7 astair abhedyaḥ śastaiś cāpy adhaḥ kāyaś ca te 'nagha kṛtaḥ puṣpamayo devyā rūpataḥ strīmanoharaḥ 8 evam īśvara saṃyuktas tava deho nṛpottama devyā ca rājaśārdūla divyas tvaṃ hi na mānuṣaḥ 9 kṣatriyāś ca mahāvīryā bhagadattapurogamāḥ divyāstraviduṣaḥ śūrāḥ kṣapayiṣyanti te ripūn 10 tad alaṃ te viṣādena bhayaṃ tava na vidyate sāhyārthaṃ ca hi te vīrāḥ saṃbhūtā bhuvi dānavāḥ 11 bhīṣmadroṇakṛpādīṃś ca pravekṣyanty apare 'surāḥ yair āviṣṭā ghṛṇāṃ tyaktvā yotsyante tava vairibhiḥ 12 naiva putrān na ca bhrātṝn na pitṝn na ca bāndhavān naiva śiṣyān na ca jñātīn na bālān sthavirān na ca 13 yudhi saṃprahariṣyanto mokṣyanti kurusattama niḥsnehā dānavāviṣṭāḥ samākrāntāntar ātmani 14 prahariṣyanti bandhubhyaḥ sneham utsṛjya dūrataḥ hṛṣṭāḥ puruṣaśārdūlāḥ kaluṣīkṛtamānasāḥ avijñāna vimūḍhāś ca daivāc ca vidhinirmitāt 15 vyābhāṣamāṇāś cānyonyaṃ na me jīvan vimokṣyase sarvaśastrāstramokṣeṇa pauruṣe samavasthitāḥ ślāghamānāḥ kuruśreṣṭha kariṣyanti janakṣayam 16 te 'pi śaktyā mahātmānaḥ pratiyotsyanti pāṇḍavāḥ vadhaṃ caiṣāṃ kariṣyanti daivayuktā mahābalāḥ 17 daitya rakṣogaṇāś cāpi saṃbhūtāḥ kṣatrayoniṣu yotsyanti yudhi vikramya śatrubhis tava pārthiva gadābhir musalaiḥ khaḍgaiḥ śastrair uccāvacais tathā 18 yac ca te 'ntargataṃ vīra bhayam arjuna saṃbhavam tatrāpi vihito 'smābhir vadhopāyo 'rjunasya vai 19 hatasya narakasyātmā karṇa mūrtim upāśritaḥ tad vairaṃ saṃsmaran vīra yotsyate keśavārjunau 20 sa te vikramaśauṇḍīro raṇe pārthaṃ vijeṣyati karṇaḥ praharatāṃ śreṣṭhaḥ sarvāṃś cārīn mahārathaḥ 21 jñātvaitac chadmanā vajrī rakṣārthaṃ savyasācinaḥ kuṇḍale kavacaṃ caiva karṇasyāpahariṣyati 22 tasmād asmābhir apy atra daityāḥ śatasahasraśaḥ niyuktā rākṣasaś caiva ye te saṃśaptakā iti prakhyātās te 'rjunaṃ vīraṃ nihaniṣyanti mā śucaḥ 23 asapatnā tvayā hīyaṃ bhoktavyā vasudhā nṛpa mā viṣādaṃ nayasvāsmān naitat tvayy upapadyate vinaṣṭe tvayi cāsmākaṃ pakṣo hīyeta kaurava 24 gaccha vīra na te buddhir anyā kāryā kathaṃcanan tvam asmākaṃ gatir nityaṃ devatānāṃ ca pāṇḍavāḥ 25 [vai] evam uktvā pariṣvajya daityās taṃ rājajuñjaram samāśvāsya ca durdharṣaṃ putravad dānavarṣabhāḥ 26 sthirāṃ kṛtvā buddhim asya priyāṇy uktvā ca bhārata gamyatām ity anujñāya jayam āpnuhi cety atha 27 tair visṛṣṭaṃ mahābāhuṃ kṛtyā saivānayat punaḥ tam eva deśaṃ yatrāsau tadā prāyam upāviśat 28 pratinikṣipya taṃ vīraṃ kṛtyā samabhipūjya ca anujñātā ca rājñā sā tatraivāntaradhīyata 29 gatāyām atha tasyāṃ tu rājā duryodhanas tadā svapnabhūtam idaṃ sarvam acintayata bhārata vijeṣyamai raṇe pāṇḍūn iti tasyābhavan matiḥ 30 karṇaṃ saṃśaptakāṃś caiva pārthasyāmitra ghātinaḥ amanyata vadhe yuktān samarthāṃś ca suyodhanaḥ 31 evam āśā dṛḍhā tasya dhārtarāṣṭrasya durmateḥ vinirjaye pāṇḍavānām abhavad bharatarṣabha 32 karṇo 'py āviṣṭa cittātmā narakasyāntar ātmanā arjunasya vadhe krūrām akarot sa matiṃ tadā 33 saṃśaptakāś ca te vīrā rākṣasāviṣṭa cetasaḥ rajas tamobhyām ākrāntāḥ phalgunasya vadhaiṣiṇaḥ 34 bhīṣmadroṇakṛpādyāś ca dānavākrānta cetasaḥ na tathā pāṇḍuputrāṇāṃ snehavanto viśāṃ pate na cācacakṣe kasmai cid etad rājā suyodhanaḥ 35 duryodhanaṃ niśānte ca karṇo vaikartano 'bravīt smayann ivāñjaliṃ kṛtvā pārthivaṃ hetumad vacaḥ 36 na mṛto jayate śatrūñ jīvan bhadrāṇi paśyati mṛtasya bhadrāṇi kutaḥ kauraveya kuto jayaḥ na kālo 'dya viṣādasya bhayasya maraṇasya vā 37 pariṣvajyābravīc cainaṃ bhujābhyāṃ sa mahābhujaḥ uttiṣṭha rājan kiṃ śeṣe kasmāc chocasi śatruhan śatrūn pratāpya vīryeṇa sa kathaṃ martum icchasi 38 atha vā te bhayaṃ jātaṃ dṛṣṭvārjuna parākramam satyaṃ te pratijānāmi vadhiṣyāmi raṇe 'rjunam 39 gate trayodaśe varṣe satyenāyudham ālabhe ānayiṣyāmy ahaṃ pārthān vaśaṃ tava janādhipa 40 evam uktas tu karṇena daityānāṃ vacanāt tathā praṇipātena cānyeṣām udatiṣṭhat suyodhanaḥ daityānāṃ tad vaco śrutvā hṛdi kṛtvā sthirāṃ matim 41 tato manujaśārdūlo yojayām āsa vāhinīm rathanāgāśvakalilāṃ padātijanasaṃkulām 42 gaṅgaughapratimā rājan prayātā sā mahācamūḥ śvetachatraiḥ patākābhiś cāmaraiś ca supāṇḍuraiḥ 43 rathair nāgaiḥ padātaiś ca śuśubhe 'tīva saṃkulā vyapetābhra ghane kāle dyaur ivāvyakta śāradī 44 jayāśīrbhir dvijendrais tu stūyamāno 'dhirājavat gṛhṇann añjalimālāś ca dhārtarāṣṭro janādhipaḥ 45 suyodhano yayāv agre śriyā paramayā jvalan karṇena sārdhaṃ rājendra saubalena ca devinā 46 duḥśāsanādayaś cāsya bhrātaraḥ sarva eva te bhūriśravāḥ somadatto mahārājaś ca bāhlikaḥ 47 rathair nānāvidhākārair hayair gajavarais tathā prayāntaṃ nṛpa siṃhaṃ tam anujagmuḥ kurūdvahāḥ kālenālpena rājaṃs te viviśuḥ svapuraṃ tadā |
The Mahabharata in Sanskrit
Book 3
Chapter 241
|
1
[जनम] वसमानेषु पार्थेषु वने तस्मिन महात्मसु धार्तराष्ट्रा महेष्वासाः किम अकुर्वन्त सत्तम 2 कर्णॊ वैकर्तनश चापि शकुनिश च महाबलः भीष्मद्रॊणकृपाश चैव तन मे शंसितुम अर्हसि 3 [वै] एवंगतेषु पार्थेषु विसृष्टे च सुयॊधने आगते हास्तिनपुरं मॊक्षिते पाण्डुनन्दनैः भीष्मॊ ऽबरवीन महाराज धार्तराष्ट्रम इदं वचः 4 उक्तं तात मया पूर्वं गच्छतस ते तपॊवनम गमनं मे न रुचितं तव तन न कृतं च ते 5 ततः पराप्तं तवया वीर गरहणं शत्रुभिर बलात मॊक्षितश चासि धर्मज्ञैः पाण्डवैर न च लज्जसे 6 परत्यक्षं तव गान्धारे ससैन्यस्य विशां पते सूतपुत्रॊ ऽपयाद भीतॊ गन्धर्वाणां तदा रणात करॊशतस तव राजेन्द्र ससैन्यस्य नृपात्मज 7 दृष्टस ते विक्रमश चैव पाण्डवानां महात्मनाम कर्णस्य च महाबाहॊ सूतपुत्रस्य दुर्मतेः 8 न चापि पादभाक कर्णः पाण्डवानां नृपॊत्तम धनुर्वेदे च शौर्ये च धर्मे वा धर्मवत्सल 9 तस्य ते ऽहं कषमं मन्ये पाण्डवैस तैर महात्मभिः संधिं संधिविदां शरेष्ठ कुलस्यास्य विवृद्धये 10 एवम उक्तस तु भीष्मेण धार्तराष्ट्रॊ जनेश्वरः परहस्य सहसा राजन विप्रतस्थे ससौबलः 11 तं तु परस्थितम आज्ञाय कर्ण दुःशासनादयः अनुजग्मुर महेष्वासा धार्तराष्ट्रं महाबलम 12 तांस तु संप्रस्थितान दृष्ट्वा भीष्मः कुरुपितामहः लज्जया वरीडितॊ राजञ जगाम सवं निवेशनम 13 गते भीष्मे मरा राजधार्तराष्ट्रॊ जनाधिपः पुनर आगम्य तं देशम अमन्त्रयत मन्त्रिभिः 14 किम अस्माकं भवेच छरेयॊ किं कार्यम अवशिष्यते कथं नु सुकृतं च सयान मन्त्रयाम आस भारत 15 [कण] दुर्यॊधन निबॊधेदं यत तवा वक्ष्यामि कौरव शरुत्वा च तत तथा सर्वं कर्तुम अर्हस्य अरिंदम 16 तवाद्य पृथिवी वीर निःसपत्ना नृपॊत्तम तां पालय यथा शक्रॊ हतशत्रुर महामनाः 17 [वै] एवम उक्तस तु कर्णेन कर्णं राजाब्रवीत पुनः न किं चिद दुर्लभं तस्य यस्य तवं पुरुषर्षभ 18 सहायश चानुरक्तश च मदर्थं च समुद्यतः अभिप्रायस तु मे कश चित तं वै शृणु यथातथम 19 राजसूयं पाण्डवस्य दृष्ट्वा करतुवरं तदा मम सपृहा समुत्पन्ना तां संपादय सूजत 20 एवम उक्तस ततः कर्णॊ राजानम इदम अब्रवीत तवाद्य पृथिवीपाला वश्याः सर्वे नृपॊत्तम 21 आहूयन्तां दविज वराः संभाराश च यथाविधि संभ्रियन्तां कुरुश्रेष्ठ यज्ञॊपकरणानि च 22 ऋत्विजश च समाहूता यथॊक्तं वेदपारगाः करियां कुर्वन्तु ते राजन यथाशास्त्रम अरिंदम 23 बह्व अन्नपानसंयुक्तः सुसमृद्धगुनान्वितः परवर्ततां महायज्ञस तवापि भरतर्षभ 24 एवम उक्तस तु कर्णेन धार्तराष्टॊ विशां पते पुरॊहितं समानाय्य इदं वचनम अब्रवीत 25 राजसूयं करतुश्रेष्ठं समाप्तवरदक्षिणम आहर तवं मम कृते यथान्यायं यथाक्रमम 26 स एवम उक्तॊ नृपतिम उवाच दविजपुंगवः न स शक्यः करतुश्रेष्ठॊ जीवमाने युधिष्ठिरे आहर्तुं कौरवश्रेष्ठ कुले तव नृपॊत्तम 27 दीर्घायुर जीवति च वै धृतराष्ट्रः पिता तव अतश चापि विरुद्धस ते करतुर एष नृपॊत्तम 28 अस्ति तव अन्यन महत सत्रं राजसूय समं परभॊ तेन तवं यज राजेन्द्र शृणु चेदं वचॊ मम 29 य इमे पृथिवीपालाः करदास तव पार्थिव ते करान संप्रयच्छन्तु सुवर्णं च कृताकृतम 30 तेन ते करियताम अद्य लाङ्गलं नृपसत्तम यज्ञवाटस्य ते भूमिः कृष्यतां तेन भारत 31 तत्र यज्ञॊ नृपश्रेष्ठ परभूतान्नः सुसंस्कृतः परवर्ततां यथान्यायं सर्वतॊ हय अनिवारितः 32 एष ते वैष्णवॊ नामयज्ञः सत्पुरुषॊचितः एतेन नेष्टवान कश चिद ऋते विष्णुं पुरातनम 33 राजसूयं करतुश्रेष्ठं सपर्धत्य एष महाक्रतुः अस्माकं रॊचते चैव शरेयॊ च तव भारत अविघ्न च भवेद एष सफला सयात सपृहा तव 34 एवम उक्तस तु तैर विप्रैर धार्तराष्ट्रॊ महीपतिः कर्णं च सौबलं चैव भरातॄंश चैवेदम अब्रवीत 35 रॊचते मे वचॊ कृत्स्नं बराह्मणानां न संशयः रॊचते यदि युष्माकं तन मा परब्रूत माचिरम 36 एवम उक्तास तु ते सर्वे तथेत्य ऊचुर नराधिपम संदिदेश ततॊ राजा वयापार सथान यथाक्रमम 37 हलस्य करणे चापि वयादिष्टाः सर्वशिल्पिनः यथॊक्तं च नृपश्रेष्ठ कृतं सर्वं यथाक्रमम |
1
[janam] vasamāneṣu pārtheṣu vane tasmin mahātmasu dhārtarāṣṭrā maheṣvāsāḥ kim akurvanta sattama 2 karṇo vaikartanaś cāpi śakuniś ca mahābalaḥ bhīṣmadroṇakṛpāś caiva tan me śaṃsitum arhasi 3 [vai] evaṃgateṣu pārtheṣu visṛṣṭe ca suyodhane āgate hāstinapuraṃ mokṣite pāṇḍunandanaiḥ bhīṣmo 'bravīn mahārāja dhārtarāṣṭram idaṃ vacaḥ 4 uktaṃ tāta mayā pūrvaṃ gacchatas te tapovanam gamanaṃ me na rucitaṃ tava tan na kṛtaṃ ca te 5 tataḥ prāptaṃ tvayā vīra grahaṇaṃ śatrubhir balāt mokṣitaś cāsi dharmajñaiḥ pāṇḍavair na ca lajjase 6 pratyakṣaṃ tava gāndhāre sasainyasya viśāṃ pate sūtaputro 'payād bhīto gandharvāṇāṃ tadā raṇāt krośatas tava rājendra sasainyasya nṛpātmaja 7 dṛṣṭas te vikramaś caiva pāṇḍavānāṃ mahātmanām karṇasya ca mahābāho sūtaputrasya durmateḥ 8 na cāpi pādabhāk karṇaḥ pāṇḍavānāṃ nṛpottama dhanurvede ca śaurye ca dharme vā dharmavatsala 9 tasya te 'haṃ kṣamaṃ manye pāṇḍavais tair mahātmabhiḥ saṃdhiṃ saṃdhividāṃ śreṣṭha kulasyāsya vivṛddhaye 10 evam uktas tu bhīṣmeṇa dhārtarāṣṭro janeśvaraḥ prahasya sahasā rājan vipratasthe sasaubalaḥ 11 taṃ tu prasthitam ājñāya karṇa duḥśāsanādayaḥ anujagmur maheṣvāsā dhārtarāṣṭraṃ mahābalam 12 tāṃs tu saṃprasthitān dṛṣṭvā bhīṣmaḥ kurupitāmahaḥ lajjayā vrīḍito rājañ jagāma svaṃ niveśanam 13 gate bhīṣme marā rājadhārtarāṣṭro janādhipaḥ punar āgamya taṃ deśam amantrayata mantribhiḥ 14 kim asmākaṃ bhavec chreyo kiṃ kāryam avaśiṣyate kathaṃ nu sukṛtaṃ ca syān mantrayām āsa bhārata 15 [kaṇa] duryodhana nibodhedaṃ yat tvā vakṣyāmi kaurava śrutvā ca tat tathā sarvaṃ kartum arhasy ariṃdama 16 tavādya pṛthivī vīra niḥsapatnā nṛpottama tāṃ pālaya yathā śakro hataśatrur mahāmanāḥ 17 [vai] evam uktas tu karṇena karṇaṃ rājābravīt punaḥ na kiṃ cid durlabhaṃ tasya yasya tvaṃ puruṣarṣabha 18 sahāyaś cānuraktaś ca madarthaṃ ca samudyataḥ abhiprāyas tu me kaś cit taṃ vai śṛṇu yathātatham 19 rājasūyaṃ pāṇḍavasya dṛṣṭvā kratuvaraṃ tadā mama spṛhā samutpannā tāṃ saṃpādaya sūjata 20 evam uktas tataḥ karṇo rājānam idam abravīt tavādya pṛthivīpālā vaśyāḥ sarve nṛpottama 21 āhūyantāṃ dvija varāḥ saṃbhārāś ca yathāvidhi saṃbhriyantāṃ kuruśreṣṭha yajñopakaraṇāni ca 22 ṛtvijaś ca samāhūtā yathoktaṃ vedapāragāḥ kriyāṃ kurvantu te rājan yathāśāstram ariṃdama 23 bahv annapānasaṃyuktaḥ susamṛddhagunānvitaḥ pravartatāṃ mahāyajñas tavāpi bharatarṣabha 24 evam uktas tu karṇena dhārtarāṣṭo viśāṃ pate purohitaṃ samānāyya idaṃ vacanam abravīt 25 rājasūyaṃ kratuśreṣṭhaṃ samāptavaradakṣiṇam āhara tvaṃ mama kṛte yathānyāyaṃ yathākramam 26 sa evam ukto nṛpatim uvāca dvijapuṃgavaḥ na sa śakyaḥ kratuśreṣṭho jīvamāne yudhiṣṭhire āhartuṃ kauravaśreṣṭha kule tava nṛpottama 27 dīrghāyur jīvati ca vai dhṛtarāṣṭraḥ pitā tava ataś cāpi viruddhas te kratur eṣa nṛpottama 28 asti tv anyan mahat satraṃ rājasūya samaṃ prabho tena tvaṃ yaja rājendra śṛṇu cedaṃ vaco mama 29 ya ime pṛthivīpālāḥ karadās tava pārthiva te karān saṃprayacchantu suvarṇaṃ ca kṛtākṛtam 30 tena te kriyatām adya lāṅgalaṃ nṛpasattama yajñavāṭasya te bhūmiḥ kṛṣyatāṃ tena bhārata 31 tatra yajño nṛpaśreṣṭha prabhūtānnaḥ susaṃskṛtaḥ pravartatāṃ yathānyāyaṃ sarvato hy anivāritaḥ 32 eṣa te vaiṣṇavo nāmayajñaḥ satpuruṣocitaḥ etena neṣṭavān kaś cid ṛte viṣṇuṃ purātanam 33 rājasūyaṃ kratuśreṣṭhaṃ spardhaty eṣa mahākratuḥ asmākaṃ rocate caiva śreyo ca tava bhārata avighna ca bhaved eṣa saphalā syāt spṛhā tava 34 evam uktas tu tair viprair dhārtarāṣṭro mahīpatiḥ karṇaṃ ca saubalaṃ caiva bhrātṝṃś caivedam abravīt 35 rocate me vaco kṛtsnaṃ brāhmaṇānāṃ na saṃśayaḥ rocate yadi yuṣmākaṃ tan mā prabrūta māciram 36 evam uktās tu te sarve tathety ūcur narādhipam saṃdideśa tato rājā vyāpāra sthān yathākramam 37 halasya karaṇe cāpi vyādiṣṭāḥ sarvaśilpinaḥ yathoktaṃ ca nṛpaśreṣṭha kṛtaṃ sarvaṃ yathākramam |
The Mahabharata in Sanskrit
Book 3
Chapter 242
|
1
[वै] ततस तु शिल्पिनः सर्वे अमात्यप्रवराश च ह विदुरश च महाप्राज्ञॊ धार्तराष्ट्रे नयवेदयत 2 सज्जं करतुवरं राजन कालप्राप्तं च भारत सौवर्णं च कृतं दिव्यं लाङ्गलं सुमहाधनम 3 एतच छरुत्वा नृपश्रेष्ठॊ धार्तराष्ट्रॊ विशां पते आज्ञापयाम आस नृपः करतुराजप्रवर्तनम 4 ततः परववृते यज्ञः परभूतान्नः सुसंस्कृतः दीक्षितश चापि गान्धारिर यथा शास्तं यथाक्रमम 5 परहृष्टॊ धृतराष्ट्रॊ ऽभूद विदुरश च महायशाः भीष्मॊ दरॊणः कृपः कर्णॊ गान्धारी च यशस्विनी 6 निमन्त्रणार्थं दूतांश च परेषयाम आस शीघ्रगान पार्थिवानां च राजेन्द्र बराह्मणानां तथैव च ते परयाता यथॊद्दिष्टं दूतास तवरितवाहनाः 7 तत्र कं चित परयातं तु दूतं दुःशासनॊ ऽबरवीत गच्छ दवैतवनं शीघ्रं पाण्डवान पापपूरुषान निमन्त्रय यथान्यायं विप्रांस तस्मिन महावने 8 स गत्वा पाण्डवावासम उवाचाभिप्रणम्य तान दुर्यॊधनॊ महाराज यजते नृपसत्तमः 9 सववीर्यार्जितम अर्थौघम अवाप्य कुरुनन्दनः तत्र गच्छन्ति राजानॊ बराह्मणाश च ततस ततः 10 अहं तु परेषितॊ राजन कौरवेण महात्मना आमन्त्रयति वॊ राजा धार्तराष्ट्रॊ जनेश्वरः मनॊ ऽभिलषितं राज्ञस तं करतुं दरष्टुम अर्हथ 11 ततॊ युधिष्ठिरॊ राजा तच छरुत्वा दूत भाषितम अब्रवीन नृपशार्दूलॊ दिष्ट्या राजा सुयॊधनः यजते करतुमुख्येन पूर्वेषां कीर्तिवर्धनः 12 वयम अप्य उपयास्यामॊ न तव इदानीं कथं चन समयः परिपाल्यॊ नॊ यावद वर्षं तरयॊदशम 13 शरुत्वैतद धर्मराजस्य भीमॊ वचनम अब्रवीत तदा तु नृपतिर गन्ता धम राजॊ युधिष्ठिरः 14 अस्त्रशस्त्रप्रदीप्ते ऽगनौ यदा तं पातयिष्यति वर्षात तरयॊदशाद ऊर्ध्वं रणसत्रे नराधिपः 15 यदा करॊधहविर मॊक्ता धार्तराष्ट्रेषु पाण्डवः आगन्तारस तदा समेति वाच्यस ते स सुयॊधनः 16 शेषास तु पाण्डवा राजन नैवॊचुः किं चिद अप्रियम दूतश चापि यथावृत्तं धार्तराष्ट्रे नयवेदयत 17 अथाजग्मुर नरश्रेष्ठा नानाजनपदेश्वराः बराह्मणाश च महाभागा धार्तराष्ट्र पुरं परति 18 ते तव अर्चिता यथाशास्त्रं यथा वर्णं यथाक्रमम मुदा परमया युक्ताः परीत्या चापि नरेश्वर 19 धृतराष्ट्रॊ ऽपि राजेन्द्र संवृतः सर्वकौरवैः हर्षेण महता युक्तॊ विदुरं परत्यभाषत 20 यथासुखी जनः सर्वः कषत्तः सयाद अन्नसंयुतः तुष्येच च यज्ञसदने तथा कषिप्रं विधीयताम 21 विदुरस तव एवम आज्ञप्तः सर्ववर्णान अरिंदम यथा परमाणतॊ विद्वान पूजयाम आस धर्मवित 22 भक्ष्यभॊज्यान्न पानेन माल्यैश चापि सुगन्धिभिः वासॊभिर विविधैश चैव यॊजयाम आस हृष्टवत 23 कृत्वा हय अवभृथं वीरॊ यथाशास्त्रं यथाक्रमम सान्त्वयित्वा च राजेन्द्रॊ दत्त्वा च विविधं वसु विसर्जयाम आस नृपान बराह्मणांश च सहस्रशः 24 विसर्जयित्वा स नृपान भरातृभिः परिवारितः विवेश हास्तिनपुरं सहितः कर्ण सौबलैः |
1
[vai] tatas tu śilpinaḥ sarve amātyapravarāś ca ha viduraś ca mahāprājño dhārtarāṣṭre nyavedayat 2 sajjaṃ kratuvaraṃ rājan kālaprāptaṃ ca bhārata sauvarṇaṃ ca kṛtaṃ divyaṃ lāṅgalaṃ sumahādhanam 3 etac chrutvā nṛpaśreṣṭho dhārtarāṣṭro viśāṃ pate ājñāpayām āsa nṛpaḥ kraturājapravartanam 4 tataḥ pravavṛte yajñaḥ prabhūtānnaḥ susaṃskṛtaḥ dīkṣitaś cāpi gāndhārir yathā śāstaṃ yathākramam 5 prahṛṣṭo dhṛtarāṣṭro 'bhūd viduraś ca mahāyaśāḥ bhīṣmo droṇaḥ kṛpaḥ karṇo gāndhārī ca yaśasvinī 6 nimantraṇārthaṃ dūtāṃś ca preṣayām āsa śīghragān pārthivānāṃ ca rājendra brāhmaṇānāṃ tathaiva ca te prayātā yathoddiṣṭaṃ dūtās tvaritavāhanāḥ 7 tatra kaṃ cit prayātaṃ tu dūtaṃ duḥśāsano 'bravīt gaccha dvaitavanaṃ śīghraṃ pāṇḍavān pāpapūruṣān nimantraya yathānyāyaṃ viprāṃs tasmin mahāvane 8 sa gatvā pāṇḍavāvāsam uvācābhipraṇamya tān duryodhano mahārāja yajate nṛpasattamaḥ 9 svavīryārjitam arthaugham avāpya kurunandanaḥ tatra gacchanti rājāno brāhmaṇāś ca tatas tataḥ 10 ahaṃ tu preṣito rājan kauraveṇa mahātmanā āmantrayati vo rājā dhārtarāṣṭro janeśvaraḥ mano 'bhilaṣitaṃ rājñas taṃ kratuṃ draṣṭum arhatha 11 tato yudhiṣṭhiro rājā tac chrutvā dūta bhāṣitam abravīn nṛpaśārdūlo diṣṭyā rājā suyodhanaḥ yajate kratumukhyena pūrveṣāṃ kīrtivardhanaḥ 12 vayam apy upayāsyāmo na tv idānīṃ kathaṃ cana samayaḥ paripālyo no yāvad varṣaṃ trayodaśam 13 śrutvaitad dharmarājasya bhīmo vacanam abravīt tadā tu nṛpatir gantā dhama rājo yudhiṣṭhiraḥ 14 astraśastrapradīpte 'gnau yadā taṃ pātayiṣyati varṣāt trayodaśād ūrdhvaṃ raṇasatre narādhipaḥ 15 yadā krodhahavir moktā dhārtarāṣṭreṣu pāṇḍavaḥ āgantāras tadā smeti vācyas te sa suyodhanaḥ 16 śeṣās tu pāṇḍavā rājan naivocuḥ kiṃ cid apriyam dūtaś cāpi yathāvṛttaṃ dhārtarāṣṭre nyavedayat 17 athājagmur naraśreṣṭhā nānājanapadeśvarāḥ brāhmaṇāś ca mahābhāgā dhārtarāṣṭra puraṃ prati 18 te tv arcitā yathāśāstraṃ yathā varṇaṃ yathākramam mudā paramayā yuktāḥ prītyā cāpi nareśvara 19 dhṛtarāṣṭro 'pi rājendra saṃvṛtaḥ sarvakauravaiḥ harṣeṇa mahatā yukto viduraṃ pratyabhāṣata 20 yathāsukhī janaḥ sarvaḥ kṣattaḥ syād annasaṃyutaḥ tuṣyec ca yajñasadane tathā kṣipraṃ vidhīyatām 21 viduras tv evam ājñaptaḥ sarvavarṇān ariṃdama yathā pramāṇato vidvān pūjayām āsa dharmavit 22 bhakṣyabhojyānna pānena mālyaiś cāpi sugandhibhiḥ vāsobhir vividhaiś caiva yojayām āsa hṛṣṭavat 23 kṛtvā hy avabhṛthaṃ vīro yathāśāstraṃ yathākramam sāntvayitvā ca rājendro dattvā ca vividhaṃ vasu visarjayām āsa nṛpān brāhmaṇāṃś ca sahasraśaḥ 24 visarjayitvā sa nṛpān bhrātṛbhiḥ parivāritaḥ viveśa hāstinapuraṃ sahitaḥ karṇa saubalaiḥ |
The Mahabharata in Sanskrit
Book 3
Chapter 243
|
1
[वै] परविशन्तं महाराज सूतास तुष्टुवुर अच्युतम जनाश चापि महेष्वासं तुष्टुवू राजसत्तमम 2 लाजैश चन्दनचूर्णैश चाप्य अवकीर्य जनास तदा ऊचुर दिष्ट्या नृपाविघ्नात समाप्तॊ ऽयं करतुस तव 3 अपरे तव अब्रुवंस तत्र वातिकास तं महीपतिम युधिष्ठिरस्य यज्ञेन न समॊ हय एष तु करतुः नैव तस्य करतॊर एष कलाम अर्हति षॊडशीम 4 एवं तत्राब्रुवन के चिद वातिकास तं नरेश्वरम सुहृदस तव अब्रुवंस तत्र अति सर्वान अयं करतुः 5 ययातिर नहुषश चापि मान्धाता भरतस तथा करतुम एनं समाहृत्य पूताः सर्वे दिवं गताः 6 एता वाचः शुभाः शृण्वन सुहृदां भरतर्षभ परविवेश पुरं हृष्टः सववेश्म च नराधिपः 7 अभिवाद्य ततः पादौ मातापित्रॊर विशां पते भीष्मद्रॊणपृपाणां च विदुरस्य च धीमतः 8 अभिवादितः कनीयॊभिर भरातृभिर भरातृवत्सलः निषसादासने मुख्ये भरातृभिः परिवारितः 9 तम उत्थाय महाराज सूतपुत्रॊ ऽबरवीद वचः दिष्ट्या ते भरतश्रेष्ठ समाप्तॊ ऽयं महाक्रतुः 10 हतेषु युधि पार्थेषु राजसूये तथा तवया आहृते ऽहं नरश्रेष्ठ तवां सभाजयिता पुनः 11 तम अब्रवीन महाराजॊ धार्तराष्ट्रॊ महायशः सत्यम एतत तवया वीर पाण्डवेषु दुरात्मसु 12 निहतेषु नरश्रेष्ठ पराप्ते चापि महाक्रतौ राजसूये पुनर वीर तवं मां संवर्धयिष्यसि 13 एवम उक्त्वा महाप्राज्ञः कर्णम आश्लिष्य भारत राजसूयं करतुश्रेष्ठं चिन्तयाम आस कौरवः 14 सॊ ऽबरवीत सुहृदश चापि पार्श्वस्थान नृपसत्तमः कदा तु तं करतुवरं राजसूयं महाधनम निहत्य पाण्डवान सर्वान आहरिष्यामि कौरवाः 15 तम अब्रवीत तदा कर्णः शृणु मे राजकुञ्जर पादौ न धावये तावद यावन न निहतॊ ऽरजुनः 16 अथॊत्क्रुष्टं महेष्वासैर धार्तराष्ट्रैर महारथैः परतिज्ञाते फल्गुनस्य वधे कर्णेन संयुगे विजितांश चाप्य अमन्यन्त पाण्डवान धृतराष्ट्रजाः 17 दुर्यॊधनॊ ऽपि राजेन्द्र विसृज्य नरपुंगवान परविवेश गृहं शरीमान यथा चैत्ररथं परभुः ते ऽपि सर्वे महेष्वासा जग्मुर वेश्मानि भारत 18 पाण्डवाश च महेष्वासा दूतवाक्यप्रचॊदिताः चिन्तयन्तस तम एवाथं नालभन्त सुखं कव चित 19 भूयॊ च चारै राजेन्द्र परवृत्तिर उपपादिता परतिज्ञा सूतपुत्रस्य विजयस्य वधं परति 20 एतच छरुत्वा धर्मसुतः समुद्विग्नॊ नराधिप अभेद्यकवचं मत्वा कर्णम अद्भुतविक्रमम अनुस्मरंश च संक्लेशान न शान्तिम उपयाति सः 21 तस्य चिन्तापरीतस्य बुद्धिजज्ञे महात्मनः बहु वयालमृगाकीर्णं तयक्तुं दवैतवनं वनम 22 धार्तराष्ट्रॊ ऽपि नृपतिः परशशास वसुंधराम भरातृभिः सहितॊ वीरैर भीष्मद्रॊणकृपैस तथा 23 संगम्य सूतपुत्रेण कर्णेनाहव शॊभिना दुर्यॊधनः परिये नित्यं वर्तमानॊ महीपतिः पूजयाम आस विप्रेन्द्रान करतुभिर भूरिदक्षिणैः 24 भरातॄणां च परियं राजन स चकार परंतपः निश्चित्य मनसा वीरॊ दत्तभुक्त फलं धनम |
1
[vai] praviśantaṃ mahārāja sūtās tuṣṭuvur acyutam janāś cāpi maheṣvāsaṃ tuṣṭuvū rājasattamam 2 lājaiś candanacūrṇaiś cāpy avakīrya janās tadā ūcur diṣṭyā nṛpāvighnāt samāpto 'yaṃ kratus tava 3 apare tv abruvaṃs tatra vātikās taṃ mahīpatim yudhiṣṭhirasya yajñena na samo hy eṣa tu kratuḥ naiva tasya krator eṣa kalām arhati ṣoḍaśīm 4 evaṃ tatrābruvan ke cid vātikās taṃ nareśvaram suhṛdas tv abruvaṃs tatra ati sarvān ayaṃ kratuḥ 5 yayātir nahuṣaś cāpi māndhātā bharatas tathā kratum enaṃ samāhṛtya pūtāḥ sarve divaṃ gatāḥ 6 etā vācaḥ śubhāḥ śṛṇvan suhṛdāṃ bharatarṣabha praviveśa puraṃ hṛṣṭaḥ svaveśma ca narādhipaḥ 7 abhivādya tataḥ pādau mātāpitror viśāṃ pate bhīṣmadroṇapṛpāṇāṃ ca vidurasya ca dhīmataḥ 8 abhivāditaḥ kanīyobhir bhrātṛbhir bhrātṛvatsalaḥ niṣasādāsane mukhye bhrātṛbhiḥ parivāritaḥ 9 tam utthāya mahārāja sūtaputro 'bravīd vacaḥ diṣṭyā te bharataśreṣṭha samāpto 'yaṃ mahākratuḥ 10 hateṣu yudhi pārtheṣu rājasūye tathā tvayā āhṛte 'haṃ naraśreṣṭha tvāṃ sabhājayitā punaḥ 11 tam abravīn mahārājo dhārtarāṣṭro mahāyaśaḥ satyam etat tvayā vīra pāṇḍaveṣu durātmasu 12 nihateṣu naraśreṣṭha prāpte cāpi mahākratau rājasūye punar vīra tvaṃ māṃ saṃvardhayiṣyasi 13 evam uktvā mahāprājñaḥ karṇam āśliṣya bhārata rājasūyaṃ kratuśreṣṭhaṃ cintayām āsa kauravaḥ 14 so 'bravīt suhṛdaś cāpi pārśvasthān nṛpasattamaḥ kadā tu taṃ kratuvaraṃ rājasūyaṃ mahādhanam nihatya pāṇḍavān sarvān āhariṣyāmi kauravāḥ 15 tam abravīt tadā karṇaḥ śṛṇu me rājakuñjara pādau na dhāvaye tāvad yāvan na nihato 'rjunaḥ 16 athotkruṣṭaṃ maheṣvāsair dhārtarāṣṭrair mahārathaiḥ pratijñāte phalgunasya vadhe karṇena saṃyuge vijitāṃś cāpy amanyanta pāṇḍavān dhṛtarāṣṭrajāḥ 17 duryodhano 'pi rājendra visṛjya narapuṃgavān praviveśa gṛhaṃ śrīmān yathā caitrarathaṃ prabhuḥ te 'pi sarve maheṣvāsā jagmur veśmāni bhārata 18 pāṇḍavāś ca maheṣvāsā dūtavākyapracoditāḥ cintayantas tam evāthaṃ nālabhanta sukhaṃ kva cit 19 bhūyo ca cārai rājendra pravṛttir upapāditā pratijñā sūtaputrasya vijayasya vadhaṃ prati 20 etac chrutvā dharmasutaḥ samudvigno narādhipa abhedyakavacaṃ matvā karṇam adbhutavikramam anusmaraṃś ca saṃkleśān na śāntim upayāti saḥ 21 tasya cintāparītasya buddhijajñe mahātmanaḥ bahu vyālamṛgākīrṇaṃ tyaktuṃ dvaitavanaṃ vanam 22 dhārtarāṣṭro 'pi nṛpatiḥ praśaśāsa vasuṃdharām bhrātṛbhiḥ sahito vīrair bhīṣmadroṇakṛpais tathā 23 saṃgamya sūtaputreṇa karṇenāhava śobhinā duryodhanaḥ priye nityaṃ vartamāno mahīpatiḥ pūjayām āsa viprendrān kratubhir bhūridakṣiṇaiḥ 24 bhrātṝṇāṃ ca priyaṃ rājan sa cakāra paraṃtapaḥ niścitya manasā vīro dattabhukta phalaṃ dhanam |
The Mahabharata in Sanskrit
Book 3
Chapter 244
|
1
[जनम] दुर्यॊधनं मॊचयित्वा पाण्डुपुत्रा महाबलाः किम अकार्षुर वने तस्मिंस तन ममाख्यातुम अर्हसि 2 [वै] ततः शयानं कौन्तेयं रात्रौ दवैतवने मृगाः सवप्नान्ते दर्शयाम आसुर बाष्पकण्ठा युधिष्ठिरम 3 तान अब्रवीत स राजेन्द्रॊ वेपमानान कृताञ्जलीन बरूत यद वक्तुकामाः सथ के भवन्तः किम इष्यते 4 एवम उक्ताः पाण्डवेन कौन्तेयेन यशस्विना परत्यब्रुवन मृगास तत्र हतशेषा युधिष्ठिरम 5 वयं मृगा दवैतवने हतशिष्टाः सम भारत नॊत्सीदेम महाराज करियतां वासपर्ययः 6 भवन्तॊ भरातरः शूराः सर्व एवास्त्र कॊविदाः कुलान्य अल्पावशिष्टानि कृतवन्तॊ वनौकसाम 7 बीजभूता वयं के चिद अवशिष्टा महामते विवर्धेमहि राजेन्द्र परसादात ते युधिष्ठिर 8 तान वेपमानान वित्रस्तान बीजमात्रावशेषितान मृगान दृष्ट्वा सुदुःखार्तॊ धर्मराजॊ युधिष्ठिरः 9 तांस तथेत्य अब्रवीद राजा सर्वभूतहिते रतः तथ्यं भवन्तॊ बरुवते करिष्यामि च तत तथा 10 इत्य एवं परतिबुद्धः स रात्र्यन्ते राजसत्तमः अब्रवीत सहितान भरातॄन दयापन्नॊ मृगान परति 11 उक्तॊ रात्रौ मृगैर अस्मि सवप्नान्ते हतशेषितैः तनु भूताः सम भद्रं ते दया नः करियताम इति 12 ते सत्यम आहुः कर्तव्या दयास्माभिर वनौकसाम साष्ट मासं हि नॊ वर्षं यद एनान उपयुञ्ज्महे 13 पुनर बहुमृगं रम्यं काम्यकं काननॊत्तमम मरु भूमेः शिरॊ खयातं तृणबिन्दु सरॊ परति तत्रेमा वसतीः शिष्टा विहरन्तॊ रमेमहि 14 ततस ते पाण्डवाः शीघ्रं परययुर धर्मकॊविदाः बराह्मणैः सहिता राजन ये च तत्र सहॊषिताः इन्द्रसेनादिभिश चैव परेष्यैर अनुगतास तदा 15 ते यात्वानुसृतैर मार्गैः सवन्नैः शुचि जलान्वितैः ददृशुः काम्यकं पुण्यम आश्रमं तापसायुतम 16 विविशुस ते सम कौरव्या वृता विप्रर्षभैर तदा तद वनं भरतश्रेष्ठाः सवर्गं सुकृतिनॊ यथा |
1
[janam] duryodhanaṃ mocayitvā pāṇḍuputrā mahābalāḥ kim akārṣur vane tasmiṃs tan mamākhyātum arhasi 2 [vai] tataḥ śayānaṃ kaunteyaṃ rātrau dvaitavane mṛgāḥ svapnānte darśayām āsur bāṣpakaṇṭhā yudhiṣṭhiram 3 tān abravīt sa rājendro vepamānān kṛtāñjalīn brūta yad vaktukāmāḥ stha ke bhavantaḥ kim iṣyate 4 evam uktāḥ pāṇḍavena kaunteyena yaśasvinā pratyabruvan mṛgās tatra hataśeṣā yudhiṣṭhiram 5 vayaṃ mṛgā dvaitavane hataśiṣṭāḥ sma bhārata notsīdema mahārāja kriyatāṃ vāsaparyayaḥ 6 bhavanto bhrātaraḥ śūrāḥ sarva evāstra kovidāḥ kulāny alpāvaśiṣṭāni kṛtavanto vanaukasām 7 bījabhūtā vayaṃ ke cid avaśiṣṭā mahāmate vivardhemahi rājendra prasādāt te yudhiṣṭhira 8 tān vepamānān vitrastān bījamātrāvaśeṣitān mṛgān dṛṣṭvā suduḥkhārto dharmarājo yudhiṣṭhiraḥ 9 tāṃs tathety abravīd rājā sarvabhūtahite rataḥ tathyaṃ bhavanto bruvate kariṣyāmi ca tat tathā 10 ity evaṃ pratibuddhaḥ sa rātryante rājasattamaḥ abravīt sahitān bhrātṝn dayāpanno mṛgān prati 11 ukto rātrau mṛgair asmi svapnānte hataśeṣitaiḥ tanu bhūtāḥ sma bhadraṃ te dayā naḥ kriyatām iti 12 te satyam āhuḥ kartavyā dayāsmābhir vanaukasām sāṣṭa māsaṃ hi no varṣaṃ yad enān upayuñjmahe 13 punar bahumṛgaṃ ramyaṃ kāmyakaṃ kānanottamam maru bhūmeḥ śiro khyātaṃ tṛṇabindu saro prati tatremā vasatīḥ śiṣṭā viharanto ramemahi 14 tatas te pāṇḍavāḥ śīghraṃ prayayur dharmakovidāḥ brāhmaṇaiḥ sahitā rājan ye ca tatra sahoṣitāḥ indrasenādibhiś caiva preṣyair anugatās tadā 15 te yātvānusṛtair mārgaiḥ svannaiḥ śuci jalānvitaiḥ dadṛśuḥ kāmyakaṃ puṇyam āśramaṃ tāpasāyutam 16 viviśus te sma kauravyā vṛtā viprarṣabhair tadā tad vanaṃ bharataśreṣṭhāḥ svargaṃ sukṛtino yathā |
The Mahabharata in Sanskrit
Cite this text
The Mahabharata in Sanskrit, part 2 of 12. . Hermetic Cloud, https://hermeticcloud.com/library/the-mahabharata-in-sanskrit-part-2/. Public-domain text reproduced in full; markup only.