The Mahabharata in Sanskrit. Parallel Devanagari and Romanization.
The Mahabharata in Sanskrit
Book 5
Chapter 49
|
1
[धृ] किम असौ पाण्डवॊ राजा धर्मपुत्रॊ ऽभयभाषत शरुत्वेमा बहुलाः सेनाः परत्यर्थेन समागताः 2 किम इच्छत्य अभिसंरम्भाद यॊत्स्यमानॊ युधिष्ठिरः कस्य सविद भरातृपुत्राणां चिन्तासु मुखम ईक्षते 3 के सविद एनं वारयन्ति शाम्य युध्येति वा पुनः निकृत्या कॊपितं मन्दैर धर्मज्ञं धर्मचारिणम 4 [सम्जय] राज्ञॊ मुखम उदीक्षन्ते पाञ्चालाः पाण्डवैः सह युधिष्ठिरस्य भद्रं ते स सर्वान अनुशास्ति च 5 पृथग बूताः पाण्डवानां पाञ्चालानां रथव्रजाः आयान्तम अभिनन्दन्ति कुन्तीपुत्रं युधिष्ठिरम 6 तमः सूर्यम इवॊद्यन्तं कौन्तेयं दीप्ततेजसम पाञ्चालाः परतिनन्दन्ति तेजॊराशिम इवॊद्यतम 7 आ गॊपालावि पालेभ्यॊ नन्दमानं युधिष्ठिरम पाञ्चालाः केकया मत्स्याः परतिनन्दन्ति पाण्डवम 8 बराह्मण्यॊ राजपुत्र्यश च विशां दुहितरश च याः करीडन्त्यॊ ऽभिसमायान्ति पार्थं संनद्धम ईक्षितुम 9 संजयाचक्ष्व केनास्मान पाण्डवा अभ्ययुञ्जत धृष्टद्युम्नेन सेनान्या सॊमकाः किंबला इव 10 गावल्गणिस तु तत पृष्टः सभायां कुरुसंसदि निःश्वस्य सुभृशं दीर्घं मुहुः संचिन्तयन्न इव तत्रानिमित्ततॊ दैवात सूतं कश्मलम आविशत 11 तदाचचक्षे पुरुषः सभायां राजसंसदि संजयॊ ऽयं महाराज मूर्च्छितः पतितॊ भुवि वाचं न सृजते कांचिद धीन परज्ञॊ ऽलपचेतनः 12 अपश्यत संजयॊ नूनं कुन्तीपुत्रान महारथान तैर अस्य पुरुषव्याघ्रैर भृशम उद्वेजितं मनः 13 संजयश चेतनां लब्ध्वा परत्याश्वस्येदम अब्रवीत धृतराष्ट्रं महाराज सभायां कुरुसंसदि 14 दृष्टवान अस्मि राजेन्द्र कुन्तीपुत्रान महारथान मत्स्यराजगृहावासाद अवरॊधेन कर्शितान शृणु यैर हि महाराज पाण्डवा अभ्ययुञ्जत 15 यॊ नैव रॊषान न भयान न कामान नार्थकारणात न हेतुवादाद धमात्मा सत्यं जह्यात कथं चन 16 यः परमाणं महाराज धर्मे धर्मभृतां वरः अजातशत्रुणा तेन पाण्डवा अभ्ययुञ्जत 17 यस्य बाहुबले तुल्यः पृथिव्यां नास्ति कश चन यॊ वै सर्वान महीपालान वशे चक्रे धनुर्धरः तेन वॊ भीमसेनेन पाण्डवा अभ्ययुञ्जत 18 निःसृतानां जतु गृहाद धिडिम्बात पुरुषादकात य एषाम अभवद दवीपः कुन्तीपुत्रॊ वृकॊदरः 19 याज्ञसेनीम अथॊ यत्र सिन्धुराजॊ ऽपकृष्टवान तत्रैषाम अभवद दवीपः कुन्तीपुत्रॊ वृकॊदरः 20 यश च तान संगतान सर्वान पाण्डवान वारणावते दह्यतॊ मॊचयाम आस तेन वस ते ऽभययुञ्जत 21 कृष्णायाश चरता परीतिं येन करॊधवशा हताः परविश्य विषमं घॊरं पर्वतं गन्धमादनम 22 यस्य नामायुतं वीर्यं भुजयॊः सारम अर्पितम तेन वॊ भीमसेनेन पाण्डवा अभ्ययुञ्जत 23 कृष्ण दवितीयॊ विक्रम्य तुष्ट्यर्थं जातवेदसः अजयद यः पुरा वीरॊ युध्यमानं पुरंदरम 24 यः स साक्षान महादेवं गिरिशं शूलपाणिनम तॊषयाम आस युद्धेन देवदेवम उमापतिम 25 यश च सर्वान वशे चक्रे लॊकपालान धनुर्धरः तेन वॊ विजयेनाजौ पाण्डवा अभ्ययुञ्जत 26 यः परतीचीं दिशं चक्रे वशे मेच्छ गनायुताम स तत्र नकुलॊ यॊद्धा चित्रयॊधी वयवस्थितः 27 तेन वॊ दर्शनीयेन वीरेणाति धनुर्भृता माद्रीपुत्रेण कौरव्य पाण्डवा अभ्ययुञ्जत 28 यः काशीन अङ्गमगधान कलिङ्गांश च युधाजयत तेन वः सहदेवेन पाण्डवा अभ्ययुञ्जत 29 यस्य वीर्येण सदृशाश चत्वारॊ भुवि मानवाः अश्वत्थामा धृष्टकेतुः परद्युम्नॊ रुक्मिर एव च 30 तेन वः सहदेवेन पाण्डवा अभ्ययुञ्जत यवीयसा नृवीरेण माद्री नन्दिकरेण च 31 तपश चचार या घॊरं काशिकन्या पुरा सती भीष्मस्य वधम इच्छन्ती परेत्यापि भरतर्षभ 32 पाञ्चालस्य सुता जज्ञे दैवाच च स पुनः पुमान सत्रीपुंसॊः पुरुषव्याघ्र यः स वेद गुणागुणान 33 यः कलिङ्गान समापेदे पाञ्चालॊ युद्धदुर्मदः शिखण्डिना वः कुरवः कृतास्त्रेणाभ्ययुञ्जत 34 यां यक्षः पुरुषं चक्रे भीष्मस्य निधने किल महेष्वासेन रौद्रेण पाण्डवा अभ्ययुञ्जत 35 महेष्वासा राजपुत्रा भारतः पञ्च केकयाः सुमृष्टकवचाः शूरास तैश च वस ते ऽभययुञ्जत 36 यॊ दीर्घबाहुः कषिप्रास्त्रॊ धृतिमान सत्यविक्रमः तेन वॊ वृष्णिवीरेण युयुधानेन संगरः 37 य आसीच छरणं काले पाण्डवानां महात्मनाम रणे तेन विराटेन पाण्डवा अभ्ययुञ्जत 38 यः स काशिपती राजा वाराणस्यां महारथः स तेषाम अभवद यॊधा तेन वस ते ऽभययुञ्जत 39 शिशुभिर दुर्जयैः संख्ये दरौपदेयैर महात्मभिः आशीविषसमस्पर्शैः पाण्डवा अभ्ययुञ्जत 40 यः कृष्ण सदृशॊ वीर्ये युधिष्ठिर समॊ दमे तेनाभिमन्युना संख्ये पाण्डवा अभ्ययुञ्जत 41 यश चैवाप्रतिमॊ वीर्ये धृष्टकेतुर महायशाः दुःसहः समरे करुद्धः शैशुपालिर महारथः तेन वश चेदिराजेन पाण्डवा अभ्ययुञ्जत 42 यः संश्रयः पाण्डवानां देवानाम इव वासवः तेन वॊ वासुदेवेन पाण्डवा अभ्ययुञ्जत 43 तथा चेदिपतेर भराता शरभॊ भरतर्षभ करकर्षेण सहितस ताभ्यां वस ते ऽभययुञ्जत 44 जारा संधिः सहदेवॊ जयत्सेनश च ताव उभौ दरुपदश च महातेजा बलेन महता वृतः तयक्तात्मा पाण्डवार्थाय यॊत्स्यमानॊ वयवस्थितः 45 एते चान्ये च बहवः पराच्यॊदीच्या महीक्षितः शतशॊ यान अपाश्रित्य धर्मराजॊ वयवस्थितः |
1
[dhṛ] kim asau pāṇḍavo rājā dharmaputro 'bhyabhāṣata śrutvemā bahulāḥ senāḥ pratyarthena samāgatāḥ 2 kim icchaty abhisaṃrambhād yotsyamāno yudhiṣṭhiraḥ kasya svid bhrātṛputrāṇāṃ cintāsu mukham īkṣate 3 ke svid enaṃ vārayanti śāmya yudhyeti vā punaḥ nikṛtyā kopitaṃ mandair dharmajñaṃ dharmacāriṇam 4 [samjaya] rājño mukham udīkṣante pāñcālāḥ pāṇḍavaiḥ saha yudhiṣṭhirasya bhadraṃ te sa sarvān anuśāsti ca 5 pṛthag būtāḥ pāṇḍavānāṃ pāñcālānāṃ rathavrajāḥ āyāntam abhinandanti kuntīputraṃ yudhiṣṭhiram 6 tamaḥ sūryam ivodyantaṃ kaunteyaṃ dīptatejasam pāñcālāḥ pratinandanti tejorāśim ivodyatam 7 ā gopālāvi pālebhyo nandamānaṃ yudhiṣṭhiram pāñcālāḥ kekayā matsyāḥ pratinandanti pāṇḍavam 8 brāhmaṇyo rājaputryaś ca viśāṃ duhitaraś ca yāḥ krīḍantyo 'bhisamāyānti pārthaṃ saṃnaddham īkṣitum 9 saṃjayācakṣva kenāsmān pāṇḍavā abhyayuñjata dhṛṣṭadyumnena senānyā somakāḥ kiṃbalā iva 10 gāvalgaṇis tu tat pṛṣṭaḥ sabhāyāṃ kurusaṃsadi niḥśvasya subhṛśaṃ dīrghaṃ muhuḥ saṃcintayann iva tatrānimittato daivāt sūtaṃ kaśmalam āviśat 11 tadācacakṣe puruṣaḥ sabhāyāṃ rājasaṃsadi saṃjayo 'yaṃ mahārāja mūrcchitaḥ patito bhuvi vācaṃ na sṛjate kāṃcid dhīna prajño 'lpacetanaḥ 12 apaśyat saṃjayo nūnaṃ kuntīputrān mahārathān tair asya puruṣavyāghrair bhṛśam udvejitaṃ manaḥ 13 saṃjayaś cetanāṃ labdhvā pratyāśvasyedam abravīt dhṛtarāṣṭraṃ mahārāja sabhāyāṃ kurusaṃsadi 14 dṛṣṭavān asmi rājendra kuntīputrān mahārathān matsyarājagṛhāvāsād avarodhena karśitān śṛṇu yair hi mahārāja pāṇḍavā abhyayuñjata 15 yo naiva roṣān na bhayān na kāmān nārthakāraṇāt na hetuvādād dhamātmā satyaṃ jahyāt kathaṃ cana 16 yaḥ pramāṇaṃ mahārāja dharme dharmabhṛtāṃ varaḥ ajātaśatruṇā tena pāṇḍavā abhyayuñjata 17 yasya bāhubale tulyaḥ pṛthivyāṃ nāsti kaś cana yo vai sarvān mahīpālān vaśe cakre dhanurdharaḥ tena vo bhīmasenena pāṇḍavā abhyayuñjata 18 niḥsṛtānāṃ jatu gṛhād dhiḍimbāt puruṣādakāt ya eṣām abhavad dvīpaḥ kuntīputro vṛkodaraḥ 19 yājñasenīm atho yatra sindhurājo 'pakṛṣṭavān tatraiṣām abhavad dvīpaḥ kuntīputro vṛkodaraḥ 20 yaś ca tān saṃgatān sarvān pāṇḍavān vāraṇāvate dahyato mocayām āsa tena vas te 'bhyayuñjata 21 kṛṣṇāyāś caratā prītiṃ yena krodhavaśā hatāḥ praviśya viṣamaṃ ghoraṃ parvataṃ gandhamādanam 22 yasya nāmāyutaṃ vīryaṃ bhujayoḥ sāram arpitam tena vo bhīmasenena pāṇḍavā abhyayuñjata 23 kṛṣṇa dvitīyo vikramya tuṣṭyarthaṃ jātavedasaḥ ajayad yaḥ purā vīro yudhyamānaṃ puraṃdaram 24 yaḥ sa sākṣān mahādevaṃ giriśaṃ śūlapāṇinam toṣayām āsa yuddhena devadevam umāpatim 25 yaś ca sarvān vaśe cakre lokapālān dhanurdharaḥ tena vo vijayenājau pāṇḍavā abhyayuñjata 26 yaḥ pratīcīṃ diśaṃ cakre vaśe meccha ganāyutām sa tatra nakulo yoddhā citrayodhī vyavasthitaḥ 27 tena vo darśanīyena vīreṇāti dhanurbhṛtā mādrīputreṇa kauravya pāṇḍavā abhyayuñjata 28 yaḥ kāśīn aṅgamagadhān kaliṅgāṃś ca yudhājayat tena vaḥ sahadevena pāṇḍavā abhyayuñjata 29 yasya vīryeṇa sadṛśāś catvāro bhuvi mānavāḥ aśvatthāmā dhṛṣṭaketuḥ pradyumno rukmir eva ca 30 tena vaḥ sahadevena pāṇḍavā abhyayuñjata yavīyasā nṛvīreṇa mādrī nandikareṇa ca 31 tapaś cacāra yā ghoraṃ kāśikanyā purā satī bhīṣmasya vadham icchantī pretyāpi bharatarṣabha 32 pāñcālasya sutā jajñe daivāc ca sa punaḥ pumān strīpuṃsoḥ puruṣavyāghra yaḥ sa veda guṇāguṇān 33 yaḥ kaliṅgān samāpede pāñcālo yuddhadurmadaḥ śikhaṇḍinā vaḥ kuravaḥ kṛtāstreṇābhyayuñjata 34 yāṃ yakṣaḥ puruṣaṃ cakre bhīṣmasya nidhane kila maheṣvāsena raudreṇa pāṇḍavā abhyayuñjata 35 maheṣvāsā rājaputrā bhārataḥ pañca kekayāḥ sumṛṣṭakavacāḥ śūrās taiś ca vas te 'bhyayuñjata 36 yo dīrghabāhuḥ kṣiprāstro dhṛtimān satyavikramaḥ tena vo vṛṣṇivīreṇa yuyudhānena saṃgaraḥ 37 ya āsīc charaṇaṃ kāle pāṇḍavānāṃ mahātmanām raṇe tena virāṭena pāṇḍavā abhyayuñjata 38 yaḥ sa kāśipatī rājā vārāṇasyāṃ mahārathaḥ sa teṣām abhavad yodhā tena vas te 'bhyayuñjata 39 śiśubhir durjayaiḥ saṃkhye draupadeyair mahātmabhiḥ āśīviṣasamasparśaiḥ pāṇḍavā abhyayuñjata 40 yaḥ kṛṣṇa sadṛśo vīrye yudhiṣṭhira samo dame tenābhimanyunā saṃkhye pāṇḍavā abhyayuñjata 41 yaś caivāpratimo vīrye dhṛṣṭaketur mahāyaśāḥ duḥsahaḥ samare kruddhaḥ śaiśupālir mahārathaḥ tena vaś cedirājena pāṇḍavā abhyayuñjata 42 yaḥ saṃśrayaḥ pāṇḍavānāṃ devānām iva vāsavaḥ tena vo vāsudevena pāṇḍavā abhyayuñjata 43 tathā cedipater bhrātā śarabho bharatarṣabha karakarṣeṇa sahitas tābhyāṃ vas te 'bhyayuñjata 44 jārā saṃdhiḥ sahadevo jayatsenaś ca tāv ubhau drupadaś ca mahātejā balena mahatā vṛtaḥ tyaktātmā pāṇḍavārthāya yotsyamāno vyavasthitaḥ 45 ete cānye ca bahavaḥ prācyodīcyā mahīkṣitaḥ śataśo yān apāśritya dharmarājo vyavasthitaḥ |
The Mahabharata in Sanskrit
Book 5
Chapter 50
|
1
[धृ] सर्व एते महॊत्साहा ये तवया परिकीर्तिताः एकतस तव एव ते सर्वे समेता भीम एकतः 2 भीमसेनाद धि मे भूयॊ भयं संजायते महत करुद्धाद अमर्षणात तात वयाघ्राद इव महारुरॊः 3 जागर्मि रात्रयः सर्वा दीर्घम उष्णं च निःश्वसन भीतॊ वृकॊदरात तात सिंहात पशुर इवाबलः 4 न हि तस्य महाबाहॊर अक्र परतिमतेजसः सैन्ये ऽसमिन परतिपश्यामि य एनं विषहेद युधि 5 अमर्षणश च कौन्तेयॊ दृढवैरश च पाण्डवः अनर्म हासी सॊन्मादस तिर्यक परेक्षी महास्वनः 6 महावेगॊ महॊत्साहॊ महाबाहुर महाबलः मन्दानां मम पुत्राणां युद्धेनान्तं करिष्यति 7 ऊरुग्राहगृहीतानां गदां बिभ्रद वृकॊदरः कुरूणाम ऋषभॊ युद्धे दण्डपाणिर इवान्तकः 8 सैक्यायसमयीं घॊरां गदां काञ्चनभूषिताम मनसाहं परपश्यामि बरह्मदण्डम इवॊद्यतम 9 यथा रुरूणां यूथेषु सिंहॊ जातबलश चरेत मामकेषु तथा भीमॊ बलेषु विचरिष्यति 10 सर्वेषां मम पुत्राणां स एकः करूर विक्रमः बह्व आशीविप्रतीपश च बाल्ये ऽपि रभसः सदा 11 उद्वेपते मे हृदयं यदा दुर्यॊधनादयः बाल्ये ऽपि तेन युध्यन्तॊ वारणेनेव मर्दिताः 12 तस्य वीर्येण संक्लिष्टा नित्यम एव सुता मम स एव हेतुर भेदस्य भीमॊ भीमपराक्रमः 13 गरसमानम अनीकानि नरवारणवाजिनाम पश्यामीवाग्रतॊ भीमं करॊधमूर्छितम आहवे 14 अस्त्रे दरॊणार्जुन समं वायुवेगसमं जवे संजयाचक्ष्व मे शूरं भीमसेनम अमर्षणम 15 अतिलाभं तु मन्ये ऽहं यत तेन रिपुघातिना तदैव न हताः सर्वे मम पुत्रा मनस्विना 16 येन भीमबला यक्षा राक्षसाश च समाहताः कथं तस्य रणे वेगं मानुषः परसहिष्यति 17 न स जातु वशे तस्थौ मम बालॊ ऽपि संजय किं पुनर मम दुष्पुत्रैः कलिष्टः संप्रति पाण्डवः 18 निष्ठुरः स च नैष्ठुर्याद भज्येद अपि न संनमेत तिर्यक परेक्षी संहतभ्रूः कथं शाम्येद वृकॊदरः 19 बृहद अंसॊ ऽपरतिबलॊ गौरस ताल इवॊद्गतः परमाणतॊ भीमसेनः परादेशेनाधिकॊ ऽरजुनात 20 जवेन वाजिनॊ ऽतयेति बलेनात्येति कुञ्जरान अव्यक्तजल्पी मध्व अक्षॊ मध्यमः पाण्डवॊ बली 21 इति बाल्ये शरुतः पूर्वं मया वयास मुखात पुरा रूपतॊ वीर्यतश चैव याथातथ्येन पाण्डवः 22 आयसेन स दण्डेन रथान नागान हयान नरान हनिष्यति रणे करुद्धॊ भीमः परहरतां वरः 23 अमर्षी नित्यसंरब्धॊ रौद्रः करूरपराक्रमः मम तात परतीपानि कुर्वन पूर्वं विमानितः 24 निष्कीर्णाम आयसीं सथूलां सुपर्वां काञ्चनीं गदाम शतघ्नीं शतनिर्ह्रादां कथं शक्ष्यन्ति मे सुताः 25 अपारम अप्लवागाधं समुद्रं शरवेगिनम भीमसेनमयं दुर्गं तात मन्दास तितीर्षवः 26 करॊशतॊ मे न शृण्वन्ति बालाः पण्डितमानिनः विषमं नावबुध्यन्ते परपातं मधु दर्शिनः 27 संयुगं ये करिष्यन्ति नररूपेण वायुना नियतं चॊदिता धात्रा सिंहेनेव महामृगाः 28 शैक्यां तात चतुष्किष्कुं षड अस्रिम अमितौजसम परहितां दुःखसंस्पर्शां कथं शक्ष्यन्ति मे सुताः 29 गदां भरामयतस तस्य भिन्दतॊ हस्तिमस्तकान सृक्किणी लेलिहानस्य बाष्पम उत्सृजतॊ मुहुः 30 उद्दिश्य पातान पततः कुर्वतॊ भैरवान रवान परतीपान पततॊ मत्तान कुञ्जरान परतिगर्जतः 31 विगाह्य रथमार्गेषु वरान उद्दिश्य निघ्नतः अग्नेः परज्वलितस्येव अपि मुच्येत मे परजा 32 वीथीं कुर्वन महाबाहुर दरावयन मम वाहिनीम नृत्यन्न इव गदापाणिर युगान्तं दर्शयिष्यति 33 परभिन्न इव मातङ्गः परभञ्जन पुष्पितान दरुमान परवेक्ष्यति रणे सेनां पुत्राणां मे वृकॊदरः 34 कुर्वन रथान विपुरुषान विध्वजान भग्नपुष्करान आरुजन पुरुषव्याघ्रॊ रथिनः सादिनस तथा 35 गङ्गा वेग इवानूपांस तीरजान विविधान दरुमान परवेक्ष्यति महासेनां पुत्राणां मम संजय 36 वशं नूनं गमिष्यन्ति भीमसेनबलार्दिताः मम पुत्राश च भृत्याश च राजानश चैव संजय 37 येन राजा महावीर्यः परविश्यान्तःपुरं पुरा वासुदेवसहायेन जरासंधॊ निपातितः 38 कृत्स्नेयं पृथिवी देवी जरासंधेन धीमता मागधेन्द्रेण बलिना वशे कृत्वा परतापिता 39 भीष्म परतापात कुरवॊ नयेनान्धकवृष्णयः ते न तस्य वशं जग्मुः केवलं दैवम एव वा 40 स गत्वा पाण्डुपुत्रेण तरसा बाहुशालिना अनायुधेन वीरेण निहतः किं ततॊ ऽधिकम 41 दीर्घकालेन संसिक्तं विषम आशीविषॊ यथा स मॊक्ष्यति रणे तेजः पुत्रेषु मम संजय 42 महेन्द्र इव वज्रेण दानवान देव सत्तमः भीमसेनॊ गदापाणिः सूदयिष्यति मे सुतान 43 अविषह्यम अनावार्यं तीव्रवेगपराक्रमम पश्यामीवातिताम्राक्षम आपतन्तं वृकॊदरम 44 अगदस्याप्य अधनुषॊ विरथस्य विवर्मणः बाहुभ्यां युध्यमानस्य कस तिष्ठेद अग्रतः पुमान 45 भीष्मॊ दरॊणश च विप्रॊ ऽयं कृपः शारद्वतस तथा जानन्त्य एते यथैवाहं वीर्यज्ञस तस्य धीमतः 46 आर्य वरतं तु जानन्तः संगरान न बिभित्सवः सेनामुखेषु सथास्यन्ति मामकानां नरर्षभाः 47 बलीयः सर्वतॊ दिष्टं पुरुषस्य विशेषतः पश्यन्न अपि जयं तेषां न नियच्छामि यत सुतान 48 ते पुराणं महेष्वासा मार्गम ऐन्द्रं समास्थिताः तयक्ष्यन्ति तुमुले पराणान रक्षन्तः पार्थिवं यशः 49 यथैषां मामकास तात तथैषां पाण्डवा अपि पौत्रा भीष्मस्य शिष्याश च दरॊणस्य च कृपस्य च 50 यत तव अस्मद आश्रयं किं चिद दत्तम इष्टं च संजय तस्यापचितिम आर्यत्वात कर्तारः सथविरास तरयः 51 आददानस्य शस्त्रं हि कषत्रधर्मं परीप्सतः निधनं बराह्मणस्याजौ वरम एवाहुर उत्तमम 52 स वै शॊचामि सर्वान वै ये युयुत्सन्ति पाण्डवान विक्रुष्टं विदुरेणादौ तद एतद भयम आगतम 53 न तु मन्ये विघाताय जञानं दुःखस्य संजय भवत्य अतिबले हय एतज जञानम अप्य उपघातकम 54 ऋषयॊ हय अपि निर्मुक्ताः पश्यन्तॊ लॊकसंग्रहान सुखे भवन्ति सुखिनस तथा दुःखेन दुःखिताः 55 किं पुनर यॊ ऽहम आसक्तस तत्र तत्र सहस्रधा पुत्रेषु राज्यदारेषु पौत्रेष्व अपि च बन्धुषु 56 संशये तु महत्य अस्मिन किं नु मे कषमम उत्तमम विनाशं हय एव पश्यामि कुरूणाम अनुचिन्तयन 57 दयूतप्रमुखम आभाति कुरूणां वयसनं महत मन्देनैश्वर्यकामेन लॊभात पापम इदं कृतम 58 मन्ये पर्याय धर्मॊ ऽयं कालस्यात्यन्त गामिनः चक्रे परधिर इवासक्तॊ नास्य शक्यं पलायितुम 59 किं नु कार्यं कथं कुर्यां कव नु गच्छामि संजय एते नश्यन्ति कुरवॊ मन्दाः कालवशं गताः 60 अवशॊ ऽहं पुरा तात पुत्राणां निहते शते शरॊष्यामि निनदं सत्रीणां कथं मां मरणं सपृशेत 61 यथा निदाघे जवलनः समिद्धॊ; दहेत कक्षं वायुना चॊद्यमानः गदाहस्तः पाण्डवस तद्वद एव; हन्ता मदीयान सहितॊ ऽरजुनेन |
1
[dhṛ] sarva ete mahotsāhā ye tvayā parikīrtitāḥ ekatas tv eva te sarve sametā bhīma ekataḥ 2 bhīmasenād dhi me bhūyo bhayaṃ saṃjāyate mahat kruddhād amarṣaṇāt tāta vyāghrād iva mahāruroḥ 3 jāgarmi rātrayaḥ sarvā dīrgham uṣṇaṃ ca niḥśvasan bhīto vṛkodarāt tāta siṃhāt paśur ivābalaḥ 4 na hi tasya mahābāhor akra pratimatejasaḥ sainye 'smin pratipaśyāmi ya enaṃ viṣahed yudhi 5 amarṣaṇaś ca kaunteyo dṛḍhavairaś ca pāṇḍavaḥ anarma hāsī sonmādas tiryak prekṣī mahāsvanaḥ 6 mahāvego mahotsāho mahābāhur mahābalaḥ mandānāṃ mama putrāṇāṃ yuddhenāntaṃ kariṣyati 7 ūrugrāhagṛhītānāṃ gadāṃ bibhrad vṛkodaraḥ kurūṇām ṛṣabho yuddhe daṇḍapāṇir ivāntakaḥ 8 saikyāyasamayīṃ ghorāṃ gadāṃ kāñcanabhūṣitām manasāhaṃ prapaśyāmi brahmadaṇḍam ivodyatam 9 yathā rurūṇāṃ yūtheṣu siṃho jātabalaś caret māmakeṣu tathā bhīmo baleṣu vicariṣyati 10 sarveṣāṃ mama putrāṇāṃ sa ekaḥ krūra vikramaḥ bahv āśīvipratīpaś ca bālye 'pi rabhasaḥ sadā 11 udvepate me hṛdayaṃ yadā duryodhanādayaḥ bālye 'pi tena yudhyanto vāraṇeneva marditāḥ 12 tasya vīryeṇa saṃkliṣṭā nityam eva sutā mama sa eva hetur bhedasya bhīmo bhīmaparākramaḥ 13 grasamānam anīkāni naravāraṇavājinām paśyāmīvāgrato bhīmaṃ krodhamūrchitam āhave 14 astre droṇārjuna samaṃ vāyuvegasamaṃ jave saṃjayācakṣva me śūraṃ bhīmasenam amarṣaṇam 15 atilābhaṃ tu manye 'haṃ yat tena ripughātinā tadaiva na hatāḥ sarve mama putrā manasvinā 16 yena bhīmabalā yakṣā rākṣasāś ca samāhatāḥ kathaṃ tasya raṇe vegaṃ mānuṣaḥ prasahiṣyati 17 na sa jātu vaśe tasthau mama bālo 'pi saṃjaya kiṃ punar mama duṣputraiḥ kliṣṭaḥ saṃprati pāṇḍavaḥ 18 niṣṭhuraḥ sa ca naiṣṭhuryād bhajyed api na saṃnamet tiryak prekṣī saṃhatabhrūḥ kathaṃ śāmyed vṛkodaraḥ 19 bṛhad aṃso 'pratibalo gauras tāla ivodgataḥ pramāṇato bhīmasenaḥ prādeśenādhiko 'rjunāt 20 javena vājino 'tyeti balenātyeti kuñjarān avyaktajalpī madhv akṣo madhyamaḥ pāṇḍavo balī 21 iti bālye śrutaḥ pūrvaṃ mayā vyāsa mukhāt purā rūpato vīryataś caiva yāthātathyena pāṇḍavaḥ 22 āyasena sa daṇḍena rathān nāgān hayān narān haniṣyati raṇe kruddho bhīmaḥ praharatāṃ varaḥ 23 amarṣī nityasaṃrabdho raudraḥ krūraparākramaḥ mama tāta pratīpāni kurvan pūrvaṃ vimānitaḥ 24 niṣkīrṇām āyasīṃ sthūlāṃ suparvāṃ kāñcanīṃ gadām śataghnīṃ śatanirhrādāṃ kathaṃ śakṣyanti me sutāḥ 25 apāram aplavāgādhaṃ samudraṃ śaraveginam bhīmasenamayaṃ durgaṃ tāta mandās titīrṣavaḥ 26 krośato me na śṛṇvanti bālāḥ paṇḍitamāninaḥ viṣamaṃ nāvabudhyante prapātaṃ madhu darśinaḥ 27 saṃyugaṃ ye kariṣyanti nararūpeṇa vāyunā niyataṃ coditā dhātrā siṃheneva mahāmṛgāḥ 28 śaikyāṃ tāta catuṣkiṣkuṃ ṣaḍ asrim amitaujasam prahitāṃ duḥkhasaṃsparśāṃ kathaṃ śakṣyanti me sutāḥ 29 gadāṃ bhrāmayatas tasya bhindato hastimastakān sṛkkiṇī lelihānasya bāṣpam utsṛjato muhuḥ 30 uddiśya pātān patataḥ kurvato bhairavān ravān pratīpān patato mattān kuñjarān pratigarjataḥ 31 vigāhya rathamārgeṣu varān uddiśya nighnataḥ agneḥ prajvalitasyeva api mucyeta me prajā 32 vīthīṃ kurvan mahābāhur drāvayan mama vāhinīm nṛtyann iva gadāpāṇir yugāntaṃ darśayiṣyati 33 prabhinna iva mātaṅgaḥ prabhañjan puṣpitān drumān pravekṣyati raṇe senāṃ putrāṇāṃ me vṛkodaraḥ 34 kurvan rathān vipuruṣān vidhvajān bhagnapuṣkarān ārujan puruṣavyāghro rathinaḥ sādinas tathā 35 gaṅgā vega ivānūpāṃs tīrajān vividhān drumān pravekṣyati mahāsenāṃ putrāṇāṃ mama saṃjaya 36 vaśaṃ nūnaṃ gamiṣyanti bhīmasenabalārditāḥ mama putrāś ca bhṛtyāś ca rājānaś caiva saṃjaya 37 yena rājā mahāvīryaḥ praviśyāntaḥpuraṃ purā vāsudevasahāyena jarāsaṃdho nipātitaḥ 38 kṛtsneyaṃ pṛthivī devī jarāsaṃdhena dhīmatā māgadhendreṇa balinā vaśe kṛtvā pratāpitā 39 bhīṣma pratāpāt kuravo nayenāndhakavṛṣṇayaḥ te na tasya vaśaṃ jagmuḥ kevalaṃ daivam eva vā 40 sa gatvā pāṇḍuputreṇa tarasā bāhuśālinā anāyudhena vīreṇa nihataḥ kiṃ tato 'dhikam 41 dīrghakālena saṃsiktaṃ viṣam āśīviṣo yathā sa mokṣyati raṇe tejaḥ putreṣu mama saṃjaya 42 mahendra iva vajreṇa dānavān deva sattamaḥ bhīmaseno gadāpāṇiḥ sūdayiṣyati me sutān 43 aviṣahyam anāvāryaṃ tīvravegaparākramam paśyāmīvātitāmrākṣam āpatantaṃ vṛkodaram 44 agadasyāpy adhanuṣo virathasya vivarmaṇaḥ bāhubhyāṃ yudhyamānasya kas tiṣṭhed agrataḥ pumān 45 bhīṣmo droṇaś ca vipro 'yaṃ kṛpaḥ śāradvatas tathā jānanty ete yathaivāhaṃ vīryajñas tasya dhīmataḥ 46 ārya vrataṃ tu jānantaḥ saṃgarān na bibhitsavaḥ senāmukheṣu sthāsyanti māmakānāṃ nararṣabhāḥ 47 balīyaḥ sarvato diṣṭaṃ puruṣasya viśeṣataḥ paśyann api jayaṃ teṣāṃ na niyacchāmi yat sutān 48 te purāṇaṃ maheṣvāsā mārgam aindraṃ samāsthitāḥ tyakṣyanti tumule prāṇān rakṣantaḥ pārthivaṃ yaśaḥ 49 yathaiṣāṃ māmakās tāta tathaiṣāṃ pāṇḍavā api pautrā bhīṣmasya śiṣyāś ca droṇasya ca kṛpasya ca 50 yat tv asmad āśrayaṃ kiṃ cid dattam iṣṭaṃ ca saṃjaya tasyāpacitim āryatvāt kartāraḥ sthavirās trayaḥ 51 ādadānasya śastraṃ hi kṣatradharmaṃ parīpsataḥ nidhanaṃ brāhmaṇasyājau varam evāhur uttamam 52 sa vai śocāmi sarvān vai ye yuyutsanti pāṇḍavān vikruṣṭaṃ vidureṇādau tad etad bhayam āgatam 53 na tu manye vighātāya jñānaṃ duḥkhasya saṃjaya bhavaty atibale hy etaj jñānam apy upaghātakam 54 ṛṣayo hy api nirmuktāḥ paśyanto lokasaṃgrahān sukhe bhavanti sukhinas tathā duḥkhena duḥkhitāḥ 55 kiṃ punar yo 'ham āsaktas tatra tatra sahasradhā putreṣu rājyadāreṣu pautreṣv api ca bandhuṣu 56 saṃśaye tu mahaty asmin kiṃ nu me kṣamam uttamam vināśaṃ hy eva paśyāmi kurūṇām anucintayan 57 dyūtapramukham ābhāti kurūṇāṃ vyasanaṃ mahat mandenaiśvaryakāmena lobhāt pāpam idaṃ kṛtam 58 manye paryāya dharmo 'yaṃ kālasyātyanta gāminaḥ cakre pradhir ivāsakto nāsya śakyaṃ palāyitum 59 kiṃ nu kāryaṃ kathaṃ kuryāṃ kva nu gacchāmi saṃjaya ete naśyanti kuravo mandāḥ kālavaśaṃ gatāḥ 60 avaśo 'haṃ purā tāta putrāṇāṃ nihate śate śroṣyāmi ninadaṃ strīṇāṃ kathaṃ māṃ maraṇaṃ spṛśet 61 yathā nidāghe jvalanaḥ samiddho; dahet kakṣaṃ vāyunā codyamānaḥ gadāhastaḥ pāṇḍavas tadvad eva; hantā madīyān sahito 'rjunena |
The Mahabharata in Sanskrit
Book 5
Chapter 51
|
1
[धृ] यस्य वै नानृता वाचः परवृत्ता अनुशुश्रुमः तरैलॊक्यम अपि तस्य सयाद यॊधा यस्य धनंजयः 2 तस्यैव च न पश्यामि युधि गाण्डीवधन्वनः अनिशं चिन्तयानॊ ऽपि यः परतीयाद रथेन तम 3 अस्यतः कर्णिनालीकान मार्गणान हृदयच छिदः परत्येता न समः कश चिद युधि गाण्डीवधन्वनः 4 दरॊणकर्णौ परतीयातां यदि वीरौ नरर्षभौ माहात्म्यात संशयॊ लॊके न तव अस्ति विजयॊ मम 5 घृणी कर्णः परमादी च आचार्यः सथविरॊ गुरुः समर्थॊ बलवान पार्थॊ दृढधन्वा जितक्लमः भवेत सुतुमुलं युद्धं सर्वशॊ ऽपय अपराजयः 6 सर्वे हय अस्त्रविदः शूराः सर्वे पराप्ता महद यशः अपि सर्मामरैश्वर्यं तयजेयुर न पुनर जयम वधे नूनं भवेच छान्तिस तयॊर वा फल्गुनस्य वा 7 न तु जेतार्जुनस्यास्ति हन्ता चास्य न विद्यते मन्युस तस्य कथं शाम्येन मन्दान परति य उत्थितः 8 अन्ये ऽपय अस्त्राणि जानन्ति जीयन्ते च जयन्ति च एकान्तविजयस तव एव शरूयते फल्गुनस्य ह 9 तरयस तरिंशत समाहूय खाण्डवे ऽगनिम अतर्पयत जिगाय च सुरान सर्वान नास्य वेद्मि पराजयम 10 यस्य यन्ता हृषीकेशः शीलवृत्तसमॊ युधि धरुवस तस्य जयस तात यथेन्द्रस्य जयस तथा 11 कृष्णाव एकरथे यत्ताव अधिज्यं गाण्डिवं धनुः युगपत तरीणि तेजांसि समेतान्य अनुशुश्रुमः 12 नैव नॊ ऽसति धनुस तादृङ न यॊद्धा न च सारथिः तच च मन्दा न जानन्ति दुर्यॊधन वशानुगाः 13 शेषयेद अशनिर दीप्तॊ निपतन मूर्ध्नि संजय न तु शेषं शराः कुर्युर अस्तास तात किरीटिना 14 अपि चास्यन्न इवाभाति निघ्नन्न इव च फल्गुनः उद्धरन्न इव कायेभ्यः शिरांसि शरवृष्टिभिः 15 अपि बाणमयं तेजः परदीप्तम इव सर्वतः गाण्डीवेद्धं दहेताजौ पुत्राणां मम वाहिनीम 16 अपि सा रथघॊषेण भयार्ता सव्यसाचिनः वित्रस्ता बहुला सेना भारती परतिभाति मे 17 यथा कक्षं दहत्य अग्निः परवृद्धः सर्वतश चरन महार्चिर अनिलॊद्धूतस तद्वद धक्ष्यति मामकान 18 यदॊद्वमन निशितान बाणसंघान; सथाताततायी समरे किरीटी सृष्टॊ ऽनतकः सर्वहरॊ विधात्रा; यथा भवेत तद्वद अवारणीयः 19 यदा हय अभीक्ष्णं सुबहून परकाराञ; शरॊतास्मि तान आवसथे कुरूणाम तेषां समन्ताच च तथा रणाग्रे; कषयः किलायं भरतान उपैति |
1
[dhṛ] yasya vai nānṛtā vācaḥ pravṛttā anuśuśrumaḥ trailokyam api tasya syād yodhā yasya dhanaṃjayaḥ 2 tasyaiva ca na paśyāmi yudhi gāṇḍīvadhanvanaḥ aniśaṃ cintayāno 'pi yaḥ pratīyād rathena tam 3 asyataḥ karṇinālīkān mārgaṇān hṛdayac chidaḥ pratyetā na samaḥ kaś cid yudhi gāṇḍīvadhanvanaḥ 4 droṇakarṇau pratīyātāṃ yadi vīrau nararṣabhau māhātmyāt saṃśayo loke na tv asti vijayo mama 5 ghṛṇī karṇaḥ pramādī ca ācāryaḥ sthaviro guruḥ samartho balavān pārtho dṛḍhadhanvā jitaklamaḥ bhavet sutumulaṃ yuddhaṃ sarvaśo 'py aparājayaḥ 6 sarve hy astravidaḥ śūrāḥ sarve prāptā mahad yaśaḥ api sarmāmaraiśvaryaṃ tyajeyur na punar jayam vadhe nūnaṃ bhavec chāntis tayor vā phalgunasya vā 7 na tu jetārjunasyāsti hantā cāsya na vidyate manyus tasya kathaṃ śāmyen mandān prati ya utthitaḥ 8 anye 'py astrāṇi jānanti jīyante ca jayanti ca ekāntavijayas tv eva śrūyate phalgunasya ha 9 trayas triṃśat samāhūya khāṇḍave 'gnim atarpayat jigāya ca surān sarvān nāsya vedmi parājayam 10 yasya yantā hṛṣīkeśaḥ śīlavṛttasamo yudhi dhruvas tasya jayas tāta yathendrasya jayas tathā 11 kṛṣṇāv ekarathe yattāv adhijyaṃ gāṇḍivaṃ dhanuḥ yugapat trīṇi tejāṃsi sametāny anuśuśrumaḥ 12 naiva no 'sti dhanus tādṛṅ na yoddhā na ca sārathiḥ tac ca mandā na jānanti duryodhana vaśānugāḥ 13 śeṣayed aśanir dīpto nipatan mūrdhni saṃjaya na tu śeṣaṃ śarāḥ kuryur astās tāta kirīṭinā 14 api cāsyann ivābhāti nighnann iva ca phalgunaḥ uddharann iva kāyebhyaḥ śirāṃsi śaravṛṣṭibhiḥ 15 api bāṇamayaṃ tejaḥ pradīptam iva sarvataḥ gāṇḍīveddhaṃ dahetājau putrāṇāṃ mama vāhinīm 16 api sā rathaghoṣeṇa bhayārtā savyasācinaḥ vitrastā bahulā senā bhāratī pratibhāti me 17 yathā kakṣaṃ dahaty agniḥ pravṛddhaḥ sarvataś caran mahārcir aniloddhūtas tadvad dhakṣyati māmakān 18 yadodvaman niśitān bāṇasaṃghān; sthātātatāyī samare kirīṭī sṛṣṭo 'ntakaḥ sarvaharo vidhātrā; yathā bhavet tadvad avāraṇīyaḥ 19 yadā hy abhīkṣṇaṃ subahūn prakārāñ; śrotāsmi tān āvasathe kurūṇām teṣāṃ samantāc ca tathā raṇāgre; kṣayaḥ kilāyaṃ bharatān upaiti |
The Mahabharata in Sanskrit
Book 5
Chapter 52
|
1
[धृ] यथैव पाण्डवाः सर्वे पराक्रान्ता जिगीषवः तथैवाभिसरास तेषां तयक्तात्मानॊ जये धृताः 2 तवम एव हि पराक्रान्तान आचक्षीथाः परान मम पाञ्चालान केकयान मत्स्यान मागधान वत्सभूमिपान 3 यश च सेन्द्रान इमाँल लॊकान इच्छन कुर्याद वशे बली स शरेष्ठॊ जगतः कृष्णः पाण्डवानां जये धृतः 4 समस्ताम अर्जुनाद विद्यां सात्यकिः कषिप्रम आप्तवान शैनेयः समरे सथाता बीजवत परवपञ शरान 5 धृष्टद्युम्नश च पाञ्चाल्यः करूरकर्मा महारथः मामकेषु रणं कर्ता बलेषु परमास्त्रवित 6 युधिष्ठिरस्य च करॊधाद अर्जुनस्य च विक्रमात यमाभ्यां भीमसेनाच च भयं मे तात जायते 7 अमानुषं मनुष्येन्द्रैर जालं विततम अन्तरा मम सेनां हनिष्यन्ति ततः करॊशामि संजय 8 दर्शनीयॊ मनस्वी च लक्ष्मीवान बरह्म वर्चसी मेधावी सुकृतप्रज्ञॊ धर्मात्मा पाण्डुनन्दनः 9 मित्रामात्यैः सुसंपन्नः संपन्नॊ यॊज्य यॊजकैः भरातृभिः शवशुरैः पुत्रैर उपपन्नॊ महारथैः 10 धृत्या च पुरुषव्याघॊर नैभृत्येन च पाण्डवः अनृशंसॊ वदान्यश च हरीमान सत्यपराक्रमः 11 बहुश्रुतः कृतात्मा च वृद्धसेवी जितेन्द्रियः तं सर्वगुणसंपन्नं समिद्धम इव पावकम 12 तपन्तम इव कॊ मन्दः पतिष्यति पतंगवत पाण्डवाग्निम अनावार्यं मुमूर्षुर मूढ चेतनः 13 तनुर उच्चः शिखी राजा शुद्धजाम्बूनदप्रभः मन्दानां मम पुत्राणां युद्धेनान्तं करिष्यति 14 तैर अयुद्धं साधु मन्ये कुरवस तन निबॊधत युद्धे विनाशः कृत्स्नस्य कुलस्य भविता धरुवम 15 एषा मे परमा शान्तिर यया शाम्यति मे मनः यदि तव अयुद्धम इष्टं वॊ वयं शान्त्यै यतामहे 16 न तु नः शिक्षमाणानाम उपेक्षेत युधिष्ठिरः जुगुप्सति हय अधर्मेण माम एवॊद्धिश्य कारणम |
1
[dhṛ] yathaiva pāṇḍavāḥ sarve parākrāntā jigīṣavaḥ tathaivābhisarās teṣāṃ tyaktātmāno jaye dhṛtāḥ 2 tvam eva hi parākrāntān ācakṣīthāḥ parān mama pāñcālān kekayān matsyān māgadhān vatsabhūmipān 3 yaś ca sendrān imāṁl lokān icchan kuryād vaśe balī sa śreṣṭho jagataḥ kṛṣṇaḥ pāṇḍavānāṃ jaye dhṛtaḥ 4 samastām arjunād vidyāṃ sātyakiḥ kṣipram āptavān śaineyaḥ samare sthātā bījavat pravapañ śarān 5 dhṛṣṭadyumnaś ca pāñcālyaḥ krūrakarmā mahārathaḥ māmakeṣu raṇaṃ kartā baleṣu paramāstravit 6 yudhiṣṭhirasya ca krodhād arjunasya ca vikramāt yamābhyāṃ bhīmasenāc ca bhayaṃ me tāta jāyate 7 amānuṣaṃ manuṣyendrair jālaṃ vitatam antarā mama senāṃ haniṣyanti tataḥ krośāmi saṃjaya 8 darśanīyo manasvī ca lakṣmīvān brahma varcasī medhāvī sukṛtaprajño dharmātmā pāṇḍunandanaḥ 9 mitrāmātyaiḥ susaṃpannaḥ saṃpanno yojya yojakaiḥ bhrātṛbhiḥ śvaśuraiḥ putrair upapanno mahārathaiḥ 10 dhṛtyā ca puruṣavyāghor naibhṛtyena ca pāṇḍavaḥ anṛśaṃso vadānyaś ca hrīmān satyaparākramaḥ 11 bahuśrutaḥ kṛtātmā ca vṛddhasevī jitendriyaḥ taṃ sarvaguṇasaṃpannaṃ samiddham iva pāvakam 12 tapantam iva ko mandaḥ patiṣyati pataṃgavat pāṇḍavāgnim anāvāryaṃ mumūrṣur mūḍha cetanaḥ 13 tanur uccaḥ śikhī rājā śuddhajāmbūnadaprabhaḥ mandānāṃ mama putrāṇāṃ yuddhenāntaṃ kariṣyati 14 tair ayuddhaṃ sādhu manye kuravas tan nibodhata yuddhe vināśaḥ kṛtsnasya kulasya bhavitā dhruvam 15 eṣā me paramā śāntir yayā śāmyati me manaḥ yadi tv ayuddham iṣṭaṃ vo vayaṃ śāntyai yatāmahe 16 na tu naḥ śikṣamāṇānām upekṣeta yudhiṣṭhiraḥ jugupsati hy adharmeṇa mām evoddhiśya kāraṇam |
The Mahabharata in Sanskrit
Book 5
Chapter 53
|
1
[स] एवम एतन महाराज यथा वदसि भारत युद्धे विनाशः कषत्रस्य गाण्डीवेन परदृश्यते 2 इदं तु नाभिजानामि तव धीरस्य नित्यशः यत पुत्र वशम आगच्छेः सत्त्वज्ञः सव्यसाचिनः 3 नैष कालॊ महाराज तव शश्वत कृतागमः तवया हय एवादितः पार्था निकृता भरतर्षभ 4 पिता शरेष्ठः सुहृद यश च सम्यक परणिहितात्मवान आस्थ्येयं हि हितं तेन न दरॊग्धा गुरुर उच्यते 5 इदं जितम इदं लब्धम इति शरुत्वा पराजितान दयूतकाले महाराज समयसे सम कुमारवत 6 परुषाण्य उच्यमानान सम पुरा पार्थान उपेक्षसे कृत्स्नं राज्यं जयन्तीति परपातं नानुपश्यसि 7 पित्र्यं राज्यं महाराज कुरवस ते स जाङ्गलाः अथ वीरैर जितां भूमिम अखिलां परत्यपद्यथाः 8 बाहुवीर्यार्जिता भूमिस तव पार्थैर निवेदिता मयेदं कृतम इत्य एव मन्यसे राजसत्तम 9 गरस्तान गन्धर्वराजेन मज्जतॊ हय अप्लवे ऽमभसि आनिनाय पुनः पार्थः पुत्रांस ते राजसत्तम 10 कुमारवच च समयसे दयूते विनिकृतेषु यत पाण्डवेषु वनं राजन परव्रजत्सु पुनः पुनः 11 परवर्षतः शरव्रातान अर्जुनस्य शितान बहून अप्य अर्णवा विशुष्येयुः किं पुनर मांसयॊनयः 12 अस्यतां फल्गुनः शरेष्ठॊ गाण्डीवं धनुषां वरम केशवः सर्वभूतानां चक्राणां च सुदर्शनम 13 वानरॊ रॊचमानश च केतुः केतुमतां वरः एवम एतानि स रथॊ वहञ शवेतहयॊ रणे कषपयिष्यति नॊ राजन कालचक्रम इवॊद्यतम 14 तस्याद्य वसुधा राजन निखिला भरतर्षभ यस्य भीमार्जुनौ यॊधौ स राजा राजसत्तम 15 तथा भीम हतप्रायां मज्जन्तीं तव वाहिनीम दुर्यॊधनमुखा दृष्ट्वा कषयं यास्यन्ति कौरवाः 16 न हि भीम भयाद भीता लप्स्यन्ते विजयं विभॊ तव पुत्रा महाराज राजानश चानुसारिणः 17 मत्स्यास तवाम अद्य नार्जन्ति पाञ्चालाश च स केकयाः शाल्वेयाः शरसेनाश च सर्वे तवाम अवजानते पार्थं हय एते गताः सर्वे वीर्यज्ञास तस्य धीमतः 18 अनर्हान एव तु वधे धर्मयुक्तान विकर्मणा सर्वॊपायैर नियन्तव्यः सानुगः पापपूरुषः तव पुत्रॊ महाराज नात्र शॊचितुम अर्हसि 19 दयूतकाले मया चॊक्तं विदुरेण च धीमता यद इदं ते विलपितं पाण्डवान परति भारत अनीशेनेव राजेन्द्र सर्वम एतन निरर्थकम |
1
[s] evam etan mahārāja yathā vadasi bhārata yuddhe vināśaḥ kṣatrasya gāṇḍīvena pradṛśyate 2 idaṃ tu nābhijānāmi tava dhīrasya nityaśaḥ yat putra vaśam āgaccheḥ sattvajñaḥ savyasācinaḥ 3 naiṣa kālo mahārāja tava śaśvat kṛtāgamaḥ tvayā hy evāditaḥ pārthā nikṛtā bharatarṣabha 4 pitā śreṣṭhaḥ suhṛd yaś ca samyak praṇihitātmavān āsthyeyaṃ hi hitaṃ tena na drogdhā gurur ucyate 5 idaṃ jitam idaṃ labdham iti śrutvā parājitān dyūtakāle mahārāja smayase sma kumāravat 6 paruṣāṇy ucyamānān sma purā pārthān upekṣase kṛtsnaṃ rājyaṃ jayantīti prapātaṃ nānupaśyasi 7 pitryaṃ rājyaṃ mahārāja kuravas te sa jāṅgalāḥ atha vīrair jitāṃ bhūmim akhilāṃ pratyapadyathāḥ 8 bāhuvīryārjitā bhūmis tava pārthair niveditā mayedaṃ kṛtam ity eva manyase rājasattama 9 grastān gandharvarājena majjato hy aplave 'mbhasi ānināya punaḥ pārthaḥ putrāṃs te rājasattama 10 kumāravac ca smayase dyūte vinikṛteṣu yat pāṇḍaveṣu vanaṃ rājan pravrajatsu punaḥ punaḥ 11 pravarṣataḥ śaravrātān arjunasya śitān bahūn apy arṇavā viśuṣyeyuḥ kiṃ punar māṃsayonayaḥ 12 asyatāṃ phalgunaḥ śreṣṭho gāṇḍīvaṃ dhanuṣāṃ varam keśavaḥ sarvabhūtānāṃ cakrāṇāṃ ca sudarśanam 13 vānaro rocamānaś ca ketuḥ ketumatāṃ varaḥ evam etāni sa ratho vahañ śvetahayo raṇe kṣapayiṣyati no rājan kālacakram ivodyatam 14 tasyādya vasudhā rājan nikhilā bharatarṣabha yasya bhīmārjunau yodhau sa rājā rājasattama 15 tathā bhīma hataprāyāṃ majjantīṃ tava vāhinīm duryodhanamukhā dṛṣṭvā kṣayaṃ yāsyanti kauravāḥ 16 na hi bhīma bhayād bhītā lapsyante vijayaṃ vibho tava putrā mahārāja rājānaś cānusāriṇaḥ 17 matsyās tvām adya nārjanti pāñcālāś ca sa kekayāḥ śālveyāḥ śarasenāś ca sarve tvām avajānate pārthaṃ hy ete gatāḥ sarve vīryajñās tasya dhīmataḥ 18 anarhān eva tu vadhe dharmayuktān vikarmaṇā sarvopāyair niyantavyaḥ sānugaḥ pāpapūruṣaḥ tava putro mahārāja nātra śocitum arhasi 19 dyūtakāle mayā coktaṃ vidureṇa ca dhīmatā yad idaṃ te vilapitaṃ pāṇḍavān prati bhārata anīśeneva rājendra sarvam etan nirarthakam |
The Mahabharata in Sanskrit
Book 5
Chapter 54
|
1
[दुर] न भेतव्यं महाराज न शॊच्या भवता वयम समर्थाः सम परान राजन विजेतुं समरे विभॊ 2 वनं परव्राजितान पार्थान यद आयान मधुसूदनः महता बलचक्रेण परराष्ट्रावमर्दिना 3 केकया धृष्टकेतुश च धृष्टद्युम्नश च पार्षतः राजानश चान्वयुः पार्थान बहवॊ ऽनये ऽनुयायिनः 4 इन्द्रप्रस्थस्य चादूरात समाजग्मुर महारथाः वयगर्हयंश च संगम्य भवन्तं कुरुभिः सह 5 ते युधिष्ठिरम आसीनम अजिनैः परतिवासितम कृष्ण परधानाः संहत्य पर्युपासन्त भारत 6 परत्यादानं च राज्यस्य कार्यम ऊचुर नराधिपाः भवतः सानुबन्धस्य समुच्छेदं चिकीर्षवः 7 शरुत्वा चैतन मयॊक्तास तु भीष्मद्रॊणकृपास तदा जञातिक्षयभयाद राजन भीतेन भरतर्षभ 8 न ते सथास्यन्ति समये पाण्डवा इति मे मतिः समुच्छेदं हि नः कृत्स्नं वासुदेवश चिकीर्षति 9 ऋते च विदुरं सर्वे यूयं वध्या महात्मनः धृतराष्ट्रश च धर्मज्ञॊ न वध्यः कुरुसत्तमः 10 समुच्छेदं च कृत्स्नं नः कृत्वा तात जनार्दनः एकराज्यं कुरूणां सम चिकीर्षति युधिष्ठिरे 11 तत्र किं पराप्तकालं नः परणिपातः पलायनम पराणान वा संपरित्यज्य परतियुध्यामहे परान 12 परतियुद्धे तु नियतः सयाद अस्माकं पराजयः युधिष्ठिरस्य सर्वे हि पार्थिवा वशवर्तिनः 13 विरक्त राष्ट्राश च वयं मित्राणि कुपितानि नः धिक्कृताः पार्थिवैः सर्वैः सवजनेन च सर्वशः 14 परणिपाते तु दॊषॊ ऽसति बन्धूनां शाश्वतीः समाः पितरं तव एव शॊचामि परज्ञा नेत्रं जनेश्वरम मत्कृते दुःखम आपन्नं कलेशं पराप्तम अनन्तकम 15 कृतं हि तव पुत्रैश च परेषाम अवरॊधनम मत्प्रियार्थं पुरैवैतद विदितं ते नरॊत्तम 16 ते राज्ञॊ धृतराष्ट्रस्य सामात्यस्य महारथाः वैरं पतिकरिष्यन्ति कुलॊच्छेदेन पाण्डवाः 17 ततॊ दरॊणॊ ऽबरवीद भीष्मः कृपॊ दरौणिश च भारत मत्वा मां महतीं चिन्ताम आस्थितं वयथितेन्द्रियम 18 अभिद्रुग्धाः परे चेन नॊ न भेतव्यं परंतप असमर्थाः परे जेतुम अस्मान युधि जनेश्वर 19 एकैकशः समर्थाः समॊ विजेतुं सर्वपार्थिवान आगच्छन्तु विनेष्यामॊ दर्पम एषां शितैः शरैः 20 पुरैकेन हि भीष्मेण विजिताः सर्वपार्थिवाः मृते पितर्य अभिक्रुद्धॊ रथेनैकेन भारत 21 जघान सुबहूंस तेषां संरब्धः कुरुसत्तमः ततस ते शरणं जग्मुर देवव्रतम इमं भयात 22 स भीष्मः सुसमर्थॊ ऽयम अस्माभिः सहितॊ रणे परान विजेतुं तस्मात ते वयेतु भीर भरतर्षभ इत्य एषां निश्चयॊ हय आसीत तत कालम अमितौजसाम 23 पुरा परेषां पृथिवी कृत्स्नासीद वशवर्तिनी अस्मान पुनर अमी नाद्य समर्था जेतुम आहवे छिन्नपक्षाः परे हय अद्य वीर्यहीनाश च पाण्डवाः 24 अस्मत संस्था च पृथिवी वर्तते भरतर्षभ एकार्थाः सुखदुःखेषु मयानीताश च पार्थिवाः 25 अप्य अग्निं परविशेयुस ते समुद्रं वा परंतप मदर्थे पार्थिवाः सर्वे तद विद्धि कुरुसत्तम 26 उन्मत्तम इव चापि तवां परहसन्तीह दुःखितम विलपन्तं बहुविधं भीतं परविकत्थने 27 एषां हय एकैकशॊ राज्ञां समर्थः पाण्डवान परति आत्मानं मन्यते सर्वॊ वयेतु ते भयम आगतम 28 सर्वां समग्रां सेनां मे वासवॊ ऽपि न शक्नुयात हन्तुम अक्षय्य रूपेयं बरह्मणापि सवयम्भुवा 29 युधिष्ठिरः पुरं हित्वा पञ्च गरामान स याचति भीतॊ हि मामकात सैन्यात परभावाच चैव मे परभॊ 30 समर्थं मन्यसे यच च कुन्तीपुत्रं वृकॊदरम तन मिथ्या न हि मे कृत्स्नं परभावं वेत्थ भारत 31 मत्समॊ हि गदायुद्धे पृथिव्यां नास्ति कश चन नासीत कश चिद अतिक्रान्तॊ भविता न च कश चन 32 युक्तॊ दुःखॊचितश चाहं विद्या पारगतस तथा तस्मान न भीमान नान्येभ्यॊ भयं मे विद्यते कव चित 33 दुर्यॊधन समॊ नास्ति गदायाम इति निश्चयः संकर्षणस्य भद्रं ते यत तदैनम उपावसम 34 युद्धे संकर्षण समॊ बलेनाभ्यधिकॊ भुवि गदाप्रहारं भीमॊ मे न जातु विषहेद युधि 35 एकं परहारं यं दद्यां भीमाय रुषितॊ नृप स एवैनं नयेद घॊरं कषिप्रं वैवस्वतक्षयम 36 इच्छेयं च गदाहस्तं राजन दरष्टुं वृकॊदरम सुचिरं परार्थितॊ हय एष मम नित्यं मनॊरथः 37 गदया निहतॊ हय आजौ मम पार्थॊ वृकॊदरः विशीर्णगात्रः पृथिवीं परासुः परपतिष्यति 38 गदाप्रहाराभिहतॊ हिमवान अपि पर्वतः सकृन मया विशीर्येत गिरिः शतसहस्रधा 39 स चाप्य एतद विजानाति वासुदेवार्जुनौ तथा दुर्यॊधन समॊ नास्ति गदायाम इति निश्चयः 40 तत ते वृकॊदरमयं भयं वयृतु महाहवे वयपनेष्याम्य अहं हय एनं मा राजन विमना भव 41 तस्मिन मया हते कषिप्रम अर्जुनं बहवॊ रथाः तुल्यरूपा विशिष्टाश च कषेप्स्यन्ति भरतर्षभ 42 भीष्मॊ दरॊणः कृपॊ दरौणिः कर्णॊ भूरिश्रवास तथा पराग्ज्यॊतिषाधिपः शल्यः सिन्धुराजॊ जयद्रथः 43 एकैक एषां शक्तस तु हन्तुं भारत पाण्डवान समस्तास तु कषणेनैतान नेष्यन्ति यमसादनम 44 समग्रा पार्थिवी सेना पार्थम एकं धनंजयम कस्माद अशक्ता निर्जेतुम इति हेतुर न विद्यते 45 शरव्रातैस तु भीष्मेण शतशॊ ऽथ सहस्रशः दरॊण दरौणिकृपैश चैव गन्ता पार्थॊ यमक्षयम 46 पितामहॊ हि गाङ्गेयः शंतनॊर अधि भारत बरह्मर्षिसदृशॊ जज्ञे देवैर अपि दुरुत्सहः पित्रा हय उक्तः परसन्नेन नाकामस तवं मरिष्यसि 47 बरह्मर्षेश च भरद्वाजाद दरॊण्यां दरॊणॊ वयजायत दरॊणाज जज्ञे महाराज दरौणिश च परमास्त्रवित 48 कृपश चाचाय मुख्यॊ ऽयं महर्षेर गौतमाद अपि शरस्तम्बॊद्भवः शरीमान अवध्य इति मे मतिः 49 अयॊनिजं तरयं हय एतत पिता माता च मातुलः अश्वत्थाम्नॊ महाराज स च शूरः सथितॊ मम 50 सर्व एते महाराज देवकल्पा महारथाः शक्रस्यापि वयथां कुर्युः संयुगे भरतर्षभ 51 भीष्मद्रॊणकृपाणां च तुल्यः कर्णॊ मतॊ मम अनुज्ञातश च रामेण मत्समॊ ऽसीति भारत 52 कुण्डले रुचिरे चास्तां कर्णस्य सहजे शुभे ते शच्य अर्थे महेन्द्रेण याचितः स परंतपः अमॊघया महाराज शक्त्या परमभीमया 53 तस्य शक्त्यॊपगूढस्य कस्माज जीवेद धनंजयः विजयॊ मे धरुवं राजन फलं पाणाव इवाहितम अभिव्यक्तः परेषां च कृत्स्नॊ भुवि पराजयः 54 अह्ना हय एकेन भीष्मॊ ऽयम अयुतं हन्ति भारत तत समाश च महेष्वासा दरॊण दरौणिकृपा अपि 55 संशप्तानि च वृन्दानि कषत्रियाणां परंतप अर्जुनं वयम अस्मान वा धनंजय इति सम ह 56 तांश चालम इति मन्यन्ते सव्यसाचि वधे विभॊ पार्थिवाः स भवान राजन्न अकस्माद वयथते कथम 57 भीमसेने च निहते कॊ ऽनयॊ युध्येत भारत परेषां तन ममाचक्ष्व यदि वेत्थ परंतप 58 पञ्च ते भरातरः सर्वे धृष्टद्युम्नॊ ऽथ सात्यकिः परेषां सप्त ये राजन यॊधाः परमकं बलम 59 अस्माकं तु विशिष्टा ये भीष्मद्रॊणकृपादयः दरौणिर वैकर्तनः कर्णः सॊमदत्तॊ ऽथ बाह्लिकः 60 पराग्ज्यॊतिषाधिपः शल्य आवन्त्यॊ ऽथ जयद्रथः दुःशासनॊ दुर्मुखश च दुःसहश च विशां पते 61 शरुतायुश चित्रसेनश च पुरुमित्रॊ विविंशतिः शलॊ भूरिश्रवाश चॊभौ विकर्णश च तवात्मजः 62 अक्षौहिण्यॊ हि मे राजन दशैका च समाहृताः नयूनाः परेषां सप्तैव कस्मान मे सयात पराजयः 63 बलं तरिगुणतॊ हीनं यॊध्यं पराह बृहस्पतिः परेभ्यस तरिगुणा चेयं मम राजन्न अनीकिनी 64 गुणहीनं परेषां च बहु पश्यामि भारत गुणॊदयं बहुगुणम आत्मनश च विशां पते 65 एतत सर्वं समाज्ञाय बलाग्र्यं मम भारत नयूनतां पाण्डवानां च न मॊहं गन्तुम अर्हसि 66 इत्य उक्त्वा संजयं भूयः पर्यपृच्छत भारत विधित्सुः पराप्तकालानि जञात्वा परपुरंजयः |
1
[dur] na bhetavyaṃ mahārāja na śocyā bhavatā vayam samarthāḥ sma parān rājan vijetuṃ samare vibho 2 vanaṃ pravrājitān pārthān yad āyān madhusūdanaḥ mahatā balacakreṇa pararāṣṭrāvamardinā 3 kekayā dhṛṣṭaketuś ca dhṛṣṭadyumnaś ca pārṣataḥ rājānaś cānvayuḥ pārthān bahavo 'nye 'nuyāyinaḥ 4 indraprasthasya cādūrāt samājagmur mahārathāḥ vyagarhayaṃś ca saṃgamya bhavantaṃ kurubhiḥ saha 5 te yudhiṣṭhiram āsīnam ajinaiḥ prativāsitam kṛṣṇa pradhānāḥ saṃhatya paryupāsanta bhārata 6 pratyādānaṃ ca rājyasya kāryam ūcur narādhipāḥ bhavataḥ sānubandhasya samucchedaṃ cikīrṣavaḥ 7 śrutvā caitan mayoktās tu bhīṣmadroṇakṛpās tadā jñātikṣayabhayād rājan bhītena bharatarṣabha 8 na te sthāsyanti samaye pāṇḍavā iti me matiḥ samucchedaṃ hi naḥ kṛtsnaṃ vāsudevaś cikīrṣati 9 ṛte ca viduraṃ sarve yūyaṃ vadhyā mahātmanaḥ dhṛtarāṣṭraś ca dharmajño na vadhyaḥ kurusattamaḥ 10 samucchedaṃ ca kṛtsnaṃ naḥ kṛtvā tāta janārdanaḥ ekarājyaṃ kurūṇāṃ sma cikīrṣati yudhiṣṭhire 11 tatra kiṃ prāptakālaṃ naḥ praṇipātaḥ palāyanam prāṇān vā saṃparityajya pratiyudhyāmahe parān 12 pratiyuddhe tu niyataḥ syād asmākaṃ parājayaḥ yudhiṣṭhirasya sarve hi pārthivā vaśavartinaḥ 13 virakta rāṣṭrāś ca vayaṃ mitrāṇi kupitāni naḥ dhikkṛtāḥ pārthivaiḥ sarvaiḥ svajanena ca sarvaśaḥ 14 praṇipāte tu doṣo 'sti bandhūnāṃ śāśvatīḥ samāḥ pitaraṃ tv eva śocāmi prajñā netraṃ janeśvaram matkṛte duḥkham āpannaṃ kleśaṃ prāptam anantakam 15 kṛtaṃ hi tava putraiś ca pareṣām avarodhanam matpriyārthaṃ puraivaitad viditaṃ te narottama 16 te rājño dhṛtarāṣṭrasya sāmātyasya mahārathāḥ vairaṃ patikariṣyanti kulocchedena pāṇḍavāḥ 17 tato droṇo 'bravīd bhīṣmaḥ kṛpo drauṇiś ca bhārata matvā māṃ mahatīṃ cintām āsthitaṃ vyathitendriyam 18 abhidrugdhāḥ pare cen no na bhetavyaṃ paraṃtapa asamarthāḥ pare jetum asmān yudhi janeśvara 19 ekaikaśaḥ samarthāḥ smo vijetuṃ sarvapārthivān āgacchantu vineṣyāmo darpam eṣāṃ śitaiḥ śaraiḥ 20 puraikena hi bhīṣmeṇa vijitāḥ sarvapārthivāḥ mṛte pitary abhikruddho rathenaikena bhārata 21 jaghāna subahūṃs teṣāṃ saṃrabdhaḥ kurusattamaḥ tatas te śaraṇaṃ jagmur devavratam imaṃ bhayāt 22 sa bhīṣmaḥ susamartho 'yam asmābhiḥ sahito raṇe parān vijetuṃ tasmāt te vyetu bhīr bharatarṣabha ity eṣāṃ niścayo hy āsīt tat kālam amitaujasām 23 purā pareṣāṃ pṛthivī kṛtsnāsīd vaśavartinī asmān punar amī nādya samarthā jetum āhave chinnapakṣāḥ pare hy adya vīryahīnāś ca pāṇḍavāḥ 24 asmat saṃsthā ca pṛthivī vartate bharatarṣabha ekārthāḥ sukhaduḥkheṣu mayānītāś ca pārthivāḥ 25 apy agniṃ praviśeyus te samudraṃ vā paraṃtapa madarthe pārthivāḥ sarve tad viddhi kurusattama 26 unmattam iva cāpi tvāṃ prahasantīha duḥkhitam vilapantaṃ bahuvidhaṃ bhītaṃ paravikatthane 27 eṣāṃ hy ekaikaśo rājñāṃ samarthaḥ pāṇḍavān prati ātmānaṃ manyate sarvo vyetu te bhayam āgatam 28 sarvāṃ samagrāṃ senāṃ me vāsavo 'pi na śaknuyāt hantum akṣayya rūpeyaṃ brahmaṇāpi svayambhuvā 29 yudhiṣṭhiraḥ puraṃ hitvā pañca grāmān sa yācati bhīto hi māmakāt sainyāt prabhāvāc caiva me prabho 30 samarthaṃ manyase yac ca kuntīputraṃ vṛkodaram tan mithyā na hi me kṛtsnaṃ prabhāvaṃ vettha bhārata 31 matsamo hi gadāyuddhe pṛthivyāṃ nāsti kaś cana nāsīt kaś cid atikrānto bhavitā na ca kaś cana 32 yukto duḥkhocitaś cāhaṃ vidyā pāragatas tathā tasmān na bhīmān nānyebhyo bhayaṃ me vidyate kva cit 33 duryodhana samo nāsti gadāyām iti niścayaḥ saṃkarṣaṇasya bhadraṃ te yat tadainam upāvasam 34 yuddhe saṃkarṣaṇa samo balenābhyadhiko bhuvi gadāprahāraṃ bhīmo me na jātu viṣahed yudhi 35 ekaṃ prahāraṃ yaṃ dadyāṃ bhīmāya ruṣito nṛpa sa evainaṃ nayed ghoraṃ kṣipraṃ vaivasvatakṣayam 36 iccheyaṃ ca gadāhastaṃ rājan draṣṭuṃ vṛkodaram suciraṃ prārthito hy eṣa mama nityaṃ manorathaḥ 37 gadayā nihato hy ājau mama pārtho vṛkodaraḥ viśīrṇagātraḥ pṛthivīṃ parāsuḥ prapatiṣyati 38 gadāprahārābhihato himavān api parvataḥ sakṛn mayā viśīryeta giriḥ śatasahasradhā 39 sa cāpy etad vijānāti vāsudevārjunau tathā duryodhana samo nāsti gadāyām iti niścayaḥ 40 tat te vṛkodaramayaṃ bhayaṃ vyṛtu mahāhave vyapaneṣyāmy ahaṃ hy enaṃ mā rājan vimanā bhava 41 tasmin mayā hate kṣipram arjunaṃ bahavo rathāḥ tulyarūpā viśiṣṭāś ca kṣepsyanti bharatarṣabha 42 bhīṣmo droṇaḥ kṛpo drauṇiḥ karṇo bhūriśravās tathā prāgjyotiṣādhipaḥ śalyaḥ sindhurājo jayadrathaḥ 43 ekaika eṣāṃ śaktas tu hantuṃ bhārata pāṇḍavān samastās tu kṣaṇenaitān neṣyanti yamasādanam 44 samagrā pārthivī senā pārtham ekaṃ dhanaṃjayam kasmād aśaktā nirjetum iti hetur na vidyate 45 śaravrātais tu bhīṣmeṇa śataśo 'tha sahasraśaḥ droṇa drauṇikṛpaiś caiva gantā pārtho yamakṣayam 46 pitāmaho hi gāṅgeyaḥ śaṃtanor adhi bhārata brahmarṣisadṛśo jajñe devair api durutsahaḥ pitrā hy uktaḥ prasannena nākāmas tvaṃ mariṣyasi 47 brahmarṣeś ca bharadvājād droṇyāṃ droṇo vyajāyata droṇāj jajñe mahārāja drauṇiś ca paramāstravit 48 kṛpaś cācāya mukhyo 'yaṃ maharṣer gautamād api śarastambodbhavaḥ śrīmān avadhya iti me matiḥ 49 ayonijaṃ trayaṃ hy etat pitā mātā ca mātulaḥ aśvatthāmno mahārāja sa ca śūraḥ sthito mama 50 sarva ete mahārāja devakalpā mahārathāḥ śakrasyāpi vyathāṃ kuryuḥ saṃyuge bharatarṣabha 51 bhīṣmadroṇakṛpāṇāṃ ca tulyaḥ karṇo mato mama anujñātaś ca rāmeṇa matsamo 'sīti bhārata 52 kuṇḍale rucire cāstāṃ karṇasya sahaje śubhe te śacy arthe mahendreṇa yācitaḥ sa paraṃtapaḥ amoghayā mahārāja śaktyā paramabhīmayā 53 tasya śaktyopagūḍhasya kasmāj jīved dhanaṃjayaḥ vijayo me dhruvaṃ rājan phalaṃ pāṇāv ivāhitam abhivyaktaḥ pareṣāṃ ca kṛtsno bhuvi parājayaḥ 54 ahnā hy ekena bhīṣmo 'yam ayutaṃ hanti bhārata tat samāś ca maheṣvāsā droṇa drauṇikṛpā api 55 saṃśaptāni ca vṛndāni kṣatriyāṇāṃ paraṃtapa arjunaṃ vayam asmān vā dhanaṃjaya iti sma ha 56 tāṃś cālam iti manyante savyasāci vadhe vibho pārthivāḥ sa bhavān rājann akasmād vyathate katham 57 bhīmasene ca nihate ko 'nyo yudhyeta bhārata pareṣāṃ tan mamācakṣva yadi vettha paraṃtapa 58 pañca te bhrātaraḥ sarve dhṛṣṭadyumno 'tha sātyakiḥ pareṣāṃ sapta ye rājan yodhāḥ paramakaṃ balam 59 asmākaṃ tu viśiṣṭā ye bhīṣmadroṇakṛpādayaḥ drauṇir vaikartanaḥ karṇaḥ somadatto 'tha bāhlikaḥ 60 prāgjyotiṣādhipaḥ śalya āvantyo 'tha jayadrathaḥ duḥśāsano durmukhaś ca duḥsahaś ca viśāṃ pate 61 śrutāyuś citrasenaś ca purumitro viviṃśatiḥ śalo bhūriśravāś cobhau vikarṇaś ca tavātmajaḥ 62 akṣauhiṇyo hi me rājan daśaikā ca samāhṛtāḥ nyūnāḥ pareṣāṃ saptaiva kasmān me syāt parājayaḥ 63 balaṃ triguṇato hīnaṃ yodhyaṃ prāha bṛhaspatiḥ parebhyas triguṇā ceyaṃ mama rājann anīkinī 64 guṇahīnaṃ pareṣāṃ ca bahu paśyāmi bhārata guṇodayaṃ bahuguṇam ātmanaś ca viśāṃ pate 65 etat sarvaṃ samājñāya balāgryaṃ mama bhārata nyūnatāṃ pāṇḍavānāṃ ca na mohaṃ gantum arhasi 66 ity uktvā saṃjayaṃ bhūyaḥ paryapṛcchata bhārata vidhitsuḥ prāptakālāni jñātvā parapuraṃjayaḥ |
The Mahabharata in Sanskrit
Book 5
Chapter 55
|
1
[दुर] अक्षौहिणीः सप्त लब्ध्वा राजभिः सह संजय किं सविद इच्छति कौन्तेयॊ युद्धप्रेप्सुर युधिष्ठिरः 2 अतीव मुदितॊ राजन युद्धप्रेप्सुर युधिष्ठिरः भीमसेनार्जुनौ चॊभौ यमाव अपि न बिभ्यतः 3 रथं तु दिव्यं कौन्तेयः सर्वा विभ्राजयन दिशः मन्त्रं जिज्ञासमानः सन बीभत्सुः समयॊजयत 4 तम अपश्याम संनद्धं मेघं विद्युत्प्रभं यथा स मन्त्रान समभिध्याय हृष्यमाणॊ ऽभयभाषत 5 पूर्वरूपम इदं पश्य वयं जेष्याम संजय बीभत्सुर मां यथॊवाच तथावैम्य अहम अप्य उत 6 [दुर] परशंसस्य अभिनन्दंस तान पार्थान अक्षपराजितान अर्जुनस्य रथे बरूहि कथम अश्वाः कथं धवजः 7 भौवनः सह शक्रेण बहु चित्रं विशां पते रूपाणि कल्पयाम आस तवष्टा धात्रा सहाभिभॊ 8 धवजे हि तस्मिन रूपाणि चक्रुस ते देव मायया महाधनानि दिव्यानि महान्ति च लघूनि च 9 सर्वा दिशॊ यॊजनमात्रम अन्तरं; स तिर्यग ऊर्ध्वं च रुरॊध वै धवजः न संसज्जेत तरुभिः संवृतॊ ऽपि; तथा हि मायाविहिता भौवनेन 10 यथाकाशे शक्रधनुःप्रकाशते; न चैकवर्णं न च विद्म किं नु तत तथा धवजॊ विहितॊ भौवनेन; बह्व आकारं दृश्यते रूपम अस्य 11 यथाग्निधूमॊ दिवम एति रुद्ध्वा; वर्णान बिभ्रत तैजसं तच छरीरम तथा धवजॊ विहितॊ भौवनेन; न चेद भारॊ भविता नॊत रॊधः 12 शवेतास तस्मिन वातवेगाः सदश्वा; दिव्या युक्ताश चित्ररथेन दत्ताः शतं यत तत पूर्यते नित्यकालं; हतं हतं दत्तवरं पुरस्तात 13 तथा राज्ञॊ दन्तवर्णा बृहन्तॊ; रथे युक्ता भान्ति तद वीर्यतुल्याः ऋश्य परख्या भीमसेनस्य वाहा; रणे वायॊस तुल्यवेगा बभूवुः 14 कल्माषाङ्गास तित्तिरि चित्रपृष्ठा; भरात्रा दत्ताः परीयता फल्गुनेन भरातुर वीरस्य सवैस तुरंगैर विशिष्टा; मुदा युक्ताः सहदेवं वहन्ति 15 माद्रीपुत्रं नकुलं तव आजमीढं; महेन्द्रदत्ता हरयॊ वाजिमुख्याः समा वायॊर बलवन्तस तरस्विनॊ; वहन्ति वीरं वृत्र शत्रुं यथेन्द्रम 16 तुल्याश चैभिर वयसा विक्रमेण; जवेन चैवाप्रतिरूपाः सदश्वाः सौभद्रादीन दरौपदेयान कुमारान; वहन्त्य अश्वा देवदत्ता बृहन्तः |
1
[dur] akṣauhiṇīḥ sapta labdhvā rājabhiḥ saha saṃjaya kiṃ svid icchati kaunteyo yuddhaprepsur yudhiṣṭhiraḥ 2 atīva mudito rājan yuddhaprepsur yudhiṣṭhiraḥ bhīmasenārjunau cobhau yamāv api na bibhyataḥ 3 rathaṃ tu divyaṃ kaunteyaḥ sarvā vibhrājayan diśaḥ mantraṃ jijñāsamānaḥ san bībhatsuḥ samayojayat 4 tam apaśyāma saṃnaddhaṃ meghaṃ vidyutprabhaṃ yathā sa mantrān samabhidhyāya hṛṣyamāṇo 'bhyabhāṣata 5 pūrvarūpam idaṃ paśya vayaṃ jeṣyāma saṃjaya bībhatsur māṃ yathovāca tathāvaimy aham apy uta 6 [dur] praśaṃsasy abhinandaṃs tān pārthān akṣaparājitān arjunasya rathe brūhi katham aśvāḥ kathaṃ dhvajaḥ 7 bhauvanaḥ saha śakreṇa bahu citraṃ viśāṃ pate rūpāṇi kalpayām āsa tvaṣṭā dhātrā sahābhibho 8 dhvaje hi tasmin rūpāṇi cakrus te deva māyayā mahādhanāni divyāni mahānti ca laghūni ca 9 sarvā diśo yojanamātram antaraṃ; sa tiryag ūrdhvaṃ ca rurodha vai dhvajaḥ na saṃsajjet tarubhiḥ saṃvṛto 'pi; tathā hi māyāvihitā bhauvanena 10 yathākāśe śakradhanuḥprakāśate; na caikavarṇaṃ na ca vidma kiṃ nu tat tathā dhvajo vihito bhauvanena; bahv ākāraṃ dṛśyate rūpam asya 11 yathāgnidhūmo divam eti ruddhvā; varṇān bibhrat taijasaṃ tac charīram tathā dhvajo vihito bhauvanena; na ced bhāro bhavitā nota rodhaḥ 12 śvetās tasmin vātavegāḥ sadaśvā; divyā yuktāś citrarathena dattāḥ śataṃ yat tat pūryate nityakālaṃ; hataṃ hataṃ dattavaraṃ purastāt 13 tathā rājño dantavarṇā bṛhanto; rathe yuktā bhānti tad vīryatulyāḥ ṛśya prakhyā bhīmasenasya vāhā; raṇe vāyos tulyavegā babhūvuḥ 14 kalmāṣāṅgās tittiri citrapṛṣṭhā; bhrātrā dattāḥ prīyatā phalgunena bhrātur vīrasya svais turaṃgair viśiṣṭā; mudā yuktāḥ sahadevaṃ vahanti 15 mādrīputraṃ nakulaṃ tv ājamīḍhaṃ; mahendradattā harayo vājimukhyāḥ samā vāyor balavantas tarasvino; vahanti vīraṃ vṛtra śatruṃ yathendram 16 tulyāś caibhir vayasā vikrameṇa; javena caivāpratirūpāḥ sadaśvāḥ saubhadrādīn draupadeyān kumārān; vahanty aśvā devadattā bṛhantaḥ |
The Mahabharata in Sanskrit
Book 5
Chapter 56
|
1
[धृ] कांस तत्र संजयापश्यः परत्यर्थेन समागतान ये यॊत्स्यन्ते पाण्डवार्थे पुत्रस्य मम वाहिनीम 2 मुख्यम अन्धकवृष्णीनाम अपश्यं कृष्णम आगतम चेकितानं च तत्रैव युयुधानं च सत्यकिम 3 पृथग अक्षौहिणीभ्यां तौ पाण्डवान अभिसंश्रितौ महारथौ समाख्याताव उभौ पुरुषमानिनौ 4 अक्षौहिण्याथ पाञ्चाल्यॊ दशभिस तनयैर वृतः सत्यजित परमुखैर वीरैर धृष्टद्युम्नपुरॊगमैः 5 दरुपदॊ वर्धयन मानं शिखण्डिपरिपालितः उपायात सर्वसैन्यानां परतिच्छाद्य तदा वपुः 6 विराटः सह पुत्राभ्यां शङ्खेनैव उत्तरेण च सूर्यदत्तादिभिर वीरैर मदिराश्वपुरॊगमैः 7 सहितः पृथिवीपालॊ भरातृभिस तनयैस तथा अक्षौहिण्यैव सैन्यस्य वृतः पार्थं समाश्रितः 8 जारासंधिर मागधश च धृष्टकेतुश च चेदिराट पृथक्पृथग अनुप्राप्तौ पृथग अक्षौहिणी वृतौ 9 केकया भरातरः पञ्च सर्वे लॊहितक धवजाः अक्षौहिणीपरिवृताः पाण्डवान अभिसंश्रिताः 10 एतान एतावतस तत्र यान अपश्यं समागतान ये पाण्डवार्थे यॊत्स्यन्ति धार्तराष्ट्रस्य वाहिनीम 11 यॊ वेद मानुषं वयूहं दैवम आन्धर्वम आसुरम स तस्य सेना परमुखे धृष्टद्युम्नॊ महामनाः 12 भीष्मः शांतनवॊ राजन भागः कॢप्तः शिखण्डिनः तं विराटॊ ऽनु संयाता सह मत्स्यैः परहारिभिः 13 जयेष्टःस्य पाण्डुपुत्रस्य भागॊ मद्राधिपॊ बली तौ तु तत्राब्रुवन के चिद विषमौ नॊ मताव इति 14 दुर्यॊधनः सह सुतः सार्धं भरातृशतेन च पराच्याश च दाक्षिणात्याश च भीमसेनस्य भागतः 15 अर्जुनस्य तु भागेन कर्णॊ वैकर्तनॊ मतः अश्वत्थामा विकर्णश च सैन्धवश च जयद्रथः 16 अशक्याश चैव ये के चित पृथिव्यां शूरमानिनः सर्वांस तान अर्जुनः पार्थः कल्पयाम आस भागतः 17 महेष्वासा राजपुत्रा भरातरः पञ्च केकयाः केकयान एव भागेन कृत्वा यॊत्स्यन्ति संयुगे 18 तेषाम एव कृतॊ भागॊ मालवाः शाल्व केकयाः तरिगर्तानां च दवौ मुख्यौ यौ तौ संशप्तकाव इति 19 दुर्यॊधन सुताः सर्वे तथा दुःशासनस्य च सौभद्रेण कृतॊ भागॊ राजा चैव बृहद्बलः 20 दरुपदेया महेष्वासाः सुवर्णविकृतध्वजाः धृष्टद्युम्नमुखा दरॊणम अभियास्यन्ति भारत 21 चेकितानः सॊमदत्तं दवैरथे यॊद्धुम इच्छति भॊजं तु कृतवर्माणं युयुधानॊ युयुत्सति 22 सहदेवस तु माद्रेयः शूरः संक्रन्दनॊ युधि सवम अंशं कल्पयाम आस शयालं ते सुबलात्मजम 23 उलूकं चापि कैतव्यं ये च सारस्वता गणाः नकुलः कल्पयाम आस भागं माद्रवतीसुतः 24 ये चान्ये पार्थिवा राजन परत्युद्यास्यन्ति संयुगे समाह्वानेन तांश चापि पाण्डुपुत्रा अकल्पयन 25 एवम एषाम अनीकानि परविभक्तानि भागशः यत ते कार्यं सपुत्रस्य करियतां तद अकालिकम 26 न सन्ति सर्वे पुत्रा मे मूढा दुर्द्यूत देविनः येषां युद्धं बलवता भीमेन रणमूर्धनि 27 राजानः पार्थिवाः सर्वे परॊक्षिताः कालधर्मणा गाण्डीवाग्निं परवेक्ष्यन्ति पतङ्गा इव पावकम 28 विदुर्तां वाहिनीं मन्ये कृतवैरैर महात्मभिः तां रणे के ऽनुयास्यन्ति परभग्नां पाण्डवैर युधि 29 सर्वे हय अतिरथाः शूराः कीर्तिमन्तः परतापिनः सूर्यपावकयॊस तुल्यास तेजसा समितिंजयाः 30 येषां युधिष्ठिरॊ नेता गुप्ता च मधुसूदनः यॊधौ च पाण्डवौ वीरौ सव्यसाचि वृकॊदरौ 31 नकुलः सहदेवश च धृष्टद्युम्नश च पार्षतः सात्यकिर दरुपदश चैव धृष्टद्युम्नस्य चात्मजः 32 उत्तमौजाश च पाञ्चाल्यॊ युधामन्युश च दुर्जयः शिखण्डी कषत्रदेवश च तथा वैराटिर उत्तरः 33 काशयश चेदयश चैव मत्स्याः सर्वे च सृञ्जयाः विराट पुत्रॊ बभ्रूश च पाञ्चालाश च परभद्रकाः 34 येषाम इन्द्रॊ ऽपय अकामानां न हरेत पृथिवीम इमाम वीराणां रणदीराणां ये भिन्द्युः पर्वतान अपि 35 तान सर्वान गुणसंपन्नान अमनुष्यप्रतापिनः करॊशतॊ मम दुष्पुत्रॊ यॊद्धुम इच्छति संजय 36 [दुर] उभौ सव एकजातीयौ तथॊभौ भूमिगॊचरौ अथ कस्मात पाण्डवानाम एकतॊ मन्यसे जयम 37 पितामहं च दरॊणं च कृपं कर्णं च दुर्जयम जयद्रथं सॊमदत्तम अश्वत्थामानम एव च 38 सुचेतसॊ महेष्वासान इन्द्रॊ ऽपि सहितॊ ऽमरैः अशक्तः समरे जेतुं किं पुनर तात पाण्डवाः 39 सर्वा च पृथिवी सृष्टा मदर्थे तात पाण्डवान आर्यान धृतिमतः शूरान अग्निकल्पान परबाधितुम 40 न मामकान पाण्डवास ते समर्थाः परतिवीक्षितुम पराक्रान्तॊ हय अहं पाण्डून सपुत्रान यॊद्धुम आहवे 41 मत्प्रियं पार्थिवाः सर्वे ये चिकीर्षन्ति भारत ते तान आवारयिष्यन्ति ऐणेयान इव तन्तुना 42 महता रथवंशेन शरजालैश च मामकैः अभिद्रुता भविष्यन्ति पाञ्चालाः पानवैः सह 43 उन्मत्त इव मे पुत्रॊ विलपत्य एष संजय न हि शक्तॊ युधा जेतुं धर्मराजं युधिष्ठिरम 44 जानाति हि सदा भीष्मः पाण्डवानां यशस्विनाम बलवत्तां सपुत्राणां धर्मज्ञानां महात्मनाम 45 यतॊ नारॊचयम अहं विग्रहं तैर महात्मभिः किं तु संजय मे बरूहि पुनस तेषां विचेष्टितम 46 कस तांस तरस्विनॊ भूयः संदीपयति पाण्डवान अर्चिष्मतॊ महैष्वासान हविषा पावकान इव 47 धृष्टद्युम्नः सदैवैतान संदीपयति भारत युध्यध्वम इति मा भैष्ट युद्धाद भरतसत्तमाः 48 ये के चित पार्थिवास तत्र धार्तराष्ट्रेण संवृताः युद्धे समागमिष्यन्ति तुमुले कवचह्रदे 49 तान सर्वान आहवे करुद्धान सानुबन्धान समागतान अहम एकः समादास्ये तिमिर मत्स्यान इवौदकान 50 भीष्मं दरॊणं कृपं कर्णं दरौणिं शल्यं सुयॊधनम एतांश चापि निरॊत्स्यामि वेलेव मकरालयम 51 तथा बरुवाणं धर्मात्मा पराह राजा युधिष्ठिरः तव धैर्यं च वीर्यं च पाञ्चालाः पाण्डवैः सह सर्वे समधिरूढाः सम संग्रामान नः समुद्धर 52 जानामि तवां महाबाहॊ कषत्रधर्मे वयवस्थितम समर्थम एकं पर्याप्तं कौरवाणां युयुत्सताम भवता यद विधातव्यं तन नः शरेयः परंतप 53 संग्रामाद अपयातानां भग्नानां शरणैषिणाम पौरुषं दर्शयञ शूरॊ यस तिष्ठेद अग्रतः पुमान करीणीयात तं सहस्रेण नीतिमन नाम तत पदम 54 स तवं शूरश च वीरश च विक्रान्तश च नरर्षभ भयार्तानां परित्राता संयुगेषु न संशयः 55 एवं बरुवति कौन्तेये धर्मात्मनि युधिष्ठिरे धृष्टद्युम्न उवाचेदं मां वचॊ गतसाध्वसः 56 सर्वाञ जनपदान सूत यॊधा दुर्यॊधनस्य ये स बाह्लीकान कुरून बरूयाः परातिपेयाञ शरद्वतः 57 सूतपुत्रं तथा दरॊणं सह पुत्रं जयद्रथम दुःशासनं विकर्णं च तथा दुर्यॊधनं नृपम 58 भीष्मं चैव बरूहि गत्वा तवम आशु; युधिष्ठिरं साधुनैवाभ्युपेत मा वॊ वधीद अर्जुनॊ देव गुप्तः; कषिप्रं याचध्वं पाण्डवं लॊकवीरम 59 नैतादृशॊ हि यॊधॊ ऽसति पृथिव्याम इह कश चन यथाविधः सव्यसाची पाण्डवः शस्त्रवित्तमः 60 देवैर हि संभृतॊ दिव्यॊ रथॊ गाण्डीवधन्वनः न स जेयॊ मनुष्येण मा सम कृध्वं मनॊ युधि |
1
[dhṛ] kāṃs tatra saṃjayāpaśyaḥ pratyarthena samāgatān ye yotsyante pāṇḍavārthe putrasya mama vāhinīm 2 mukhyam andhakavṛṣṇīnām apaśyaṃ kṛṣṇam āgatam cekitānaṃ ca tatraiva yuyudhānaṃ ca satyakim 3 pṛthag akṣauhiṇībhyāṃ tau pāṇḍavān abhisaṃśritau mahārathau samākhyātāv ubhau puruṣamāninau 4 akṣauhiṇyātha pāñcālyo daśabhis tanayair vṛtaḥ satyajit pramukhair vīrair dhṛṣṭadyumnapurogamaiḥ 5 drupado vardhayan mānaṃ śikhaṇḍiparipālitaḥ upāyāt sarvasainyānāṃ praticchādya tadā vapuḥ 6 virāṭaḥ saha putrābhyāṃ śaṅkhenaiv uttareṇa ca sūryadattādibhir vīrair madirāśvapurogamaiḥ 7 sahitaḥ pṛthivīpālo bhrātṛbhis tanayais tathā akṣauhiṇyaiva sainyasya vṛtaḥ pārthaṃ samāśritaḥ 8 jārāsaṃdhir māgadhaś ca dhṛṣṭaketuś ca cedirāṭ pṛthakpṛthag anuprāptau pṛthag akṣauhiṇī vṛtau 9 kekayā bhrātaraḥ pañca sarve lohitaka dhvajāḥ akṣauhiṇīparivṛtāḥ pāṇḍavān abhisaṃśritāḥ 10 etān etāvatas tatra yān apaśyaṃ samāgatān ye pāṇḍavārthe yotsyanti dhārtarāṣṭrasya vāhinīm 11 yo veda mānuṣaṃ vyūhaṃ daivam āndharvam āsuram sa tasya senā pramukhe dhṛṣṭadyumno mahāmanāḥ 12 bhīṣmaḥ śāṃtanavo rājan bhāgaḥ kḷptaḥ śikhaṇḍinaḥ taṃ virāṭo 'nu saṃyātā saha matsyaiḥ prahāribhiḥ 13 jyeṣṭaḥsya pāṇḍuputrasya bhāgo madrādhipo balī tau tu tatrābruvan ke cid viṣamau no matāv iti 14 duryodhanaḥ saha sutaḥ sārdhaṃ bhrātṛśatena ca prācyāś ca dākṣiṇātyāś ca bhīmasenasya bhāgataḥ 15 arjunasya tu bhāgena karṇo vaikartano mataḥ aśvatthāmā vikarṇaś ca saindhavaś ca jayadrathaḥ 16 aśakyāś caiva ye ke cit pṛthivyāṃ śūramāninaḥ sarvāṃs tān arjunaḥ pārthaḥ kalpayām āsa bhāgataḥ 17 maheṣvāsā rājaputrā bhrātaraḥ pañca kekayāḥ kekayān eva bhāgena kṛtvā yotsyanti saṃyuge 18 teṣām eva kṛto bhāgo mālavāḥ śālva kekayāḥ trigartānāṃ ca dvau mukhyau yau tau saṃśaptakāv iti 19 duryodhana sutāḥ sarve tathā duḥśāsanasya ca saubhadreṇa kṛto bhāgo rājā caiva bṛhadbalaḥ 20 drupadeyā maheṣvāsāḥ suvarṇavikṛtadhvajāḥ dhṛṣṭadyumnamukhā droṇam abhiyāsyanti bhārata 21 cekitānaḥ somadattaṃ dvairathe yoddhum icchati bhojaṃ tu kṛtavarmāṇaṃ yuyudhāno yuyutsati 22 sahadevas tu mādreyaḥ śūraḥ saṃkrandano yudhi svam aṃśaṃ kalpayām āsa śyālaṃ te subalātmajam 23 ulūkaṃ cāpi kaitavyaṃ ye ca sārasvatā gaṇāḥ nakulaḥ kalpayām āsa bhāgaṃ mādravatīsutaḥ 24 ye cānye pārthivā rājan pratyudyāsyanti saṃyuge samāhvānena tāṃś cāpi pāṇḍuputrā akalpayan 25 evam eṣām anīkāni pravibhaktāni bhāgaśaḥ yat te kāryaṃ saputrasya kriyatāṃ tad akālikam 26 na santi sarve putrā me mūḍhā durdyūta devinaḥ yeṣāṃ yuddhaṃ balavatā bhīmena raṇamūrdhani 27 rājānaḥ pārthivāḥ sarve prokṣitāḥ kāladharmaṇā gāṇḍīvāgniṃ pravekṣyanti pataṅgā iva pāvakam 28 vidurtāṃ vāhinīṃ manye kṛtavairair mahātmabhiḥ tāṃ raṇe ke 'nuyāsyanti prabhagnāṃ pāṇḍavair yudhi 29 sarve hy atirathāḥ śūrāḥ kīrtimantaḥ pratāpinaḥ sūryapāvakayos tulyās tejasā samitiṃjayāḥ 30 yeṣāṃ yudhiṣṭhiro netā guptā ca madhusūdanaḥ yodhau ca pāṇḍavau vīrau savyasāci vṛkodarau 31 nakulaḥ sahadevaś ca dhṛṣṭadyumnaś ca pārṣataḥ sātyakir drupadaś caiva dhṛṣṭadyumnasya cātmajaḥ 32 uttamaujāś ca pāñcālyo yudhāmanyuś ca durjayaḥ śikhaṇḍī kṣatradevaś ca tathā vairāṭir uttaraḥ 33 kāśayaś cedayaś caiva matsyāḥ sarve ca sṛñjayāḥ virāṭa putro babhrūś ca pāñcālāś ca prabhadrakāḥ 34 yeṣām indro 'py akāmānāṃ na haret pṛthivīm imām vīrāṇāṃ raṇadīrāṇāṃ ye bhindyuḥ parvatān api 35 tān sarvān guṇasaṃpannān amanuṣyapratāpinaḥ krośato mama duṣputro yoddhum icchati saṃjaya 36 [dur] ubhau sva ekajātīyau tathobhau bhūmigocarau atha kasmāt pāṇḍavānām ekato manyase jayam 37 pitāmahaṃ ca droṇaṃ ca kṛpaṃ karṇaṃ ca durjayam jayadrathaṃ somadattam aśvatthāmānam eva ca 38 sucetaso maheṣvāsān indro 'pi sahito 'maraiḥ aśaktaḥ samare jetuṃ kiṃ punar tāta pāṇḍavāḥ 39 sarvā ca pṛthivī sṛṣṭā madarthe tāta pāṇḍavān āryān dhṛtimataḥ śūrān agnikalpān prabādhitum 40 na māmakān pāṇḍavās te samarthāḥ prativīkṣitum parākrānto hy ahaṃ pāṇḍūn saputrān yoddhum āhave 41 matpriyaṃ pārthivāḥ sarve ye cikīrṣanti bhārata te tān āvārayiṣyanti aiṇeyān iva tantunā 42 mahatā rathavaṃśena śarajālaiś ca māmakaiḥ abhidrutā bhaviṣyanti pāñcālāḥ pānavaiḥ saha 43 unmatta iva me putro vilapaty eṣa saṃjaya na hi śakto yudhā jetuṃ dharmarājaṃ yudhiṣṭhiram 44 jānāti hi sadā bhīṣmaḥ pāṇḍavānāṃ yaśasvinām balavattāṃ saputrāṇāṃ dharmajñānāṃ mahātmanām 45 yato nārocayam ahaṃ vigrahaṃ tair mahātmabhiḥ kiṃ tu saṃjaya me brūhi punas teṣāṃ viceṣṭitam 46 kas tāṃs tarasvino bhūyaḥ saṃdīpayati pāṇḍavān arciṣmato mahaiṣvāsān haviṣā pāvakān iva 47 dhṛṣṭadyumnaḥ sadaivaitān saṃdīpayati bhārata yudhyadhvam iti mā bhaiṣṭa yuddhād bharatasattamāḥ 48 ye ke cit pārthivās tatra dhārtarāṣṭreṇa saṃvṛtāḥ yuddhe samāgamiṣyanti tumule kavacahrade 49 tān sarvān āhave kruddhān sānubandhān samāgatān aham ekaḥ samādāsye timir matsyān ivaudakān 50 bhīṣmaṃ droṇaṃ kṛpaṃ karṇaṃ drauṇiṃ śalyaṃ suyodhanam etāṃś cāpi nirotsyāmi veleva makarālayam 51 tathā bruvāṇaṃ dharmātmā prāha rājā yudhiṣṭhiraḥ tava dhairyaṃ ca vīryaṃ ca pāñcālāḥ pāṇḍavaiḥ saha sarve samadhirūḍhāḥ sma saṃgrāmān naḥ samuddhara 52 jānāmi tvāṃ mahābāho kṣatradharme vyavasthitam samartham ekaṃ paryāptaṃ kauravāṇāṃ yuyutsatām bhavatā yad vidhātavyaṃ tan naḥ śreyaḥ paraṃtapa 53 saṃgrāmād apayātānāṃ bhagnānāṃ śaraṇaiṣiṇām pauruṣaṃ darśayañ śūro yas tiṣṭhed agrataḥ pumān krīṇīyāt taṃ sahasreṇa nītiman nāma tat padam 54 sa tvaṃ śūraś ca vīraś ca vikrāntaś ca nararṣabha bhayārtānāṃ paritrātā saṃyugeṣu na saṃśayaḥ 55 evaṃ bruvati kaunteye dharmātmani yudhiṣṭhire dhṛṣṭadyumna uvācedaṃ māṃ vaco gatasādhvasaḥ 56 sarvāñ janapadān sūta yodhā duryodhanasya ye sa bāhlīkān kurūn brūyāḥ prātipeyāñ śaradvataḥ 57 sūtaputraṃ tathā droṇaṃ saha putraṃ jayadratham duḥśāsanaṃ vikarṇaṃ ca tathā duryodhanaṃ nṛpam 58 bhīṣmaṃ caiva brūhi gatvā tvam āśu; yudhiṣṭhiraṃ sādhunaivābhyupeta mā vo vadhīd arjuno deva guptaḥ; kṣipraṃ yācadhvaṃ pāṇḍavaṃ lokavīram 59 naitādṛśo hi yodho 'sti pṛthivyām iha kaś cana yathāvidhaḥ savyasācī pāṇḍavaḥ śastravittamaḥ 60 devair hi saṃbhṛto divyo ratho gāṇḍīvadhanvanaḥ na sa jeyo manuṣyeṇa mā sma kṛdhvaṃ mano yudhi |
The Mahabharata in Sanskrit
Book 5
Chapter 57
|
1
[धृ] कषत्रतेजा बरह्म चारी कौमाराद अपि पाण्डवः तेन संयुगम एष्यन्ति मन्दा विलपतॊ मम 2 दुर्यॊधन निवर्तस्व युद्धाद भरतसत्तम न हि युद्धं परशंसन्ति सर्वावस्थम अरिंदम 3 अलम अर्धं पृथिव्यास ते सहामात्यस्य जीवितुम परयच्छ पाण्डुपुत्राणां यथॊचितम अरिंदम 4 एतद धि कुरवः सर्वे मन्यन्ते धर्मसंहितम यत तवं परशान्तिम इच्छेथाः पाण्डुपुत्रैर महात्मभिः 5 अङ्गेमां समवेक्षस्व पुत्र सवाम एव वाहिनीम जात एव तव सरावस तवं तु मॊहान न बुध्यसे 6 न हय अहं युद्धम इच्छामि नैतद इच्छति बाह्लिकः न च भीष्मॊ न च दरॊणॊ नाश्वत्थामा न संजयः 7 न सॊमदत्तॊ न शल्यॊ न कृपॊ युद्धम इच्छति सत्यव्रतः पुरुमित्रॊ जयॊ भूरिश्रवास तथा 8 येषु संप्रतितिष्ठेयुः कुरवः पीडिताः परैः ते युद्धं नाभिनन्दन्ति त तुभ्यं तात रॊचताम 9 न तवं करॊषि कामेन कर्णः कारयिता तव दुःशासनश च पापात्मा शकुनिश चापि सौबलः 10 नाहं भवति न दरॊणे नाश्वत्थाम्नि न संजये न विकर्णे न काम्बॊजे न कृपे न च बाह्लिके 11 सत्यव्रते पुरुमित्रे भूरिश्रवसि वा पुनः अन्येषु वा तावकेषु भारं कृत्वा समाह्वये 12 अहं च तात कर्णश च रणयज्ञं वितत्य वै युधिष्ठिरं पशुं कृत्वा दीक्षितौ भरतर्षभ 13 रथॊ वेदी सरुवः खड्गॊ गदा सरुक कवचं सदः चातुर्हॊत्रं च धुर्यॊ मे शरा दर्भा हविर यशः 14 आत्मयज्ञेन नृपते इष्ट्वा वैवस्वतं रणे विजित्य सवयम एष्यावॊ हतामित्रौ शरिया वृतौ 15 अहं च तात कर्णश च भराता दुःशासनश च मे एते वयं हनिष्यामः पाण्डवान समरे तरयः 16 अहं हि पाण्डवान हत्वा परशास्ता पृथिवीम इमाम मां वा हत्वा पाण्डुपुत्रा भॊक्तारः पृथिवीम इमाम 17 तयक्तं मे जीवितं राजन धनं राज्यं च पार्थिव न जातु पाण्डवैः सार्धं वसेयम अहम अच्युत 18 यावद धि सूच्यास तीक्ष्णाया विध्येद अग्रेण मारिष तावद अप्य अपरित्याज्यं भूमेर नः पाण्डवान परति 19 सर्वान वस तात शॊचामि तयक्तॊ दुर्यॊधनॊ मया ये मन्दम अनुयास्यध्वं यान्तं वैवस्वतक्षयम 20 रुरूणाम इव यूथेषु वयाघ्राः परहरतां वराः वरान वरान हनिष्यन्ति समेता युधि पाण्डवाः 21 परतीपम इव मे भाति युयुधानेन भारती वयता सीमन्तिनी तरस्ता परमृष्टा दीर्घवाहुना 22 संपूर्णं पूरयन भूयॊ बलं पार्थस्य माधवः शैनेयः समरे सथाता बीजवत परवपञ शरान 23 सेनामुखे परयुद्धानां भीमसेनॊ भविष्यति तं सर्वे संश्रयिष्यन्ति पराकारम अकुतॊभयम 24 यदा दरष्क्यसि भीमेन कुञ्जरान विनिपातितान विशीर्णदन्तान गिर्याभान भिन्नकुम्भान स शॊणितान 25 तान अभिप्रेक्ष्य संग्रामे विशीर्णान इव पर्वतान भीतॊ भीमस्य संस्पर्शात समर्तासि वचनस्य मे 26 निर्दग्धं भीमसेनेन सैन्यं हतरथद्विपम गतिम अग्नेर इव परेक्ष्य समर्तासि वचनस्य मे 27 महद वॊ भयम आगामि न चेच छाम्यथ पाण्डवैः गदया भीमसेनेन हताः शमम उपैष्यथ 28 महावनम इव छिन्नं यदा दरक्ष्यसि पातितम बलं कुरूणां संग्रामे तदा समर्तासि मे वचः 29 एतावद उक्त्वा राजा तु स सर्वान पृथिवीपतीन अनुभाष्य महाराज पुनः पप्रच्छ संजयम |
1
[dhṛ] kṣatratejā brahma cārī kaumārād api pāṇḍavaḥ tena saṃyugam eṣyanti mandā vilapato mama 2 duryodhana nivartasva yuddhād bharatasattama na hi yuddhaṃ praśaṃsanti sarvāvastham ariṃdama 3 alam ardhaṃ pṛthivyās te sahāmātyasya jīvitum prayaccha pāṇḍuputrāṇāṃ yathocitam ariṃdama 4 etad dhi kuravaḥ sarve manyante dharmasaṃhitam yat tvaṃ praśāntim icchethāḥ pāṇḍuputrair mahātmabhiḥ 5 aṅgemāṃ samavekṣasva putra svām eva vāhinīm jāta eva tava srāvas tvaṃ tu mohān na budhyase 6 na hy ahaṃ yuddham icchāmi naitad icchati bāhlikaḥ na ca bhīṣmo na ca droṇo nāśvatthāmā na saṃjayaḥ 7 na somadatto na śalyo na kṛpo yuddham icchati satyavrataḥ purumitro jayo bhūriśravās tathā 8 yeṣu saṃpratitiṣṭheyuḥ kuravaḥ pīḍitāḥ paraiḥ te yuddhaṃ nābhinandanti ta tubhyaṃ tāta rocatām 9 na tvaṃ karoṣi kāmena karṇaḥ kārayitā tava duḥśāsanaś ca pāpātmā śakuniś cāpi saubalaḥ 10 nāhaṃ bhavati na droṇe nāśvatthāmni na saṃjaye na vikarṇe na kāmboje na kṛpe na ca bāhlike 11 satyavrate purumitre bhūriśravasi vā punaḥ anyeṣu vā tāvakeṣu bhāraṃ kṛtvā samāhvaye 12 ahaṃ ca tāta karṇaś ca raṇayajñaṃ vitatya vai yudhiṣṭhiraṃ paśuṃ kṛtvā dīkṣitau bharatarṣabha 13 ratho vedī sruvaḥ khaḍgo gadā sruk kavacaṃ sadaḥ cāturhotraṃ ca dhuryo me śarā darbhā havir yaśaḥ 14 ātmayajñena nṛpate iṣṭvā vaivasvataṃ raṇe vijitya svayam eṣyāvo hatāmitrau śriyā vṛtau 15 ahaṃ ca tāta karṇaś ca bhrātā duḥśāsanaś ca me ete vayaṃ haniṣyāmaḥ pāṇḍavān samare trayaḥ 16 ahaṃ hi pāṇḍavān hatvā praśāstā pṛthivīm imām māṃ vā hatvā pāṇḍuputrā bhoktāraḥ pṛthivīm imām 17 tyaktaṃ me jīvitaṃ rājan dhanaṃ rājyaṃ ca pārthiva na jātu pāṇḍavaiḥ sārdhaṃ vaseyam aham acyuta 18 yāvad dhi sūcyās tīkṣṇāyā vidhyed agreṇa māriṣa tāvad apy aparityājyaṃ bhūmer naḥ pāṇḍavān prati 19 sarvān vas tāta śocāmi tyakto duryodhano mayā ye mandam anuyāsyadhvaṃ yāntaṃ vaivasvatakṣayam 20 rurūṇām iva yūtheṣu vyāghrāḥ praharatāṃ varāḥ varān varān haniṣyanti sametā yudhi pāṇḍavāḥ 21 pratīpam iva me bhāti yuyudhānena bhāratī vyatā sīmantinī trastā pramṛṣṭā dīrghavāhunā 22 saṃpūrṇaṃ pūrayan bhūyo balaṃ pārthasya mādhavaḥ śaineyaḥ samare sthātā bījavat pravapañ śarān 23 senāmukhe prayuddhānāṃ bhīmaseno bhaviṣyati taṃ sarve saṃśrayiṣyanti prākāram akutobhayam 24 yadā draṣkyasi bhīmena kuñjarān vinipātitān viśīrṇadantān giryābhān bhinnakumbhān sa śoṇitān 25 tān abhiprekṣya saṃgrāme viśīrṇān iva parvatān bhīto bhīmasya saṃsparśāt smartāsi vacanasya me 26 nirdagdhaṃ bhīmasenena sainyaṃ hatarathadvipam gatim agner iva prekṣya smartāsi vacanasya me 27 mahad vo bhayam āgāmi na cec chāmyatha pāṇḍavaiḥ gadayā bhīmasenena hatāḥ śamam upaiṣyatha 28 mahāvanam iva chinnaṃ yadā drakṣyasi pātitam balaṃ kurūṇāṃ saṃgrāme tadā smartāsi me vacaḥ 29 etāvad uktvā rājā tu sa sarvān pṛthivīpatīn anubhāṣya mahārāja punaḥ papraccha saṃjayam |
The Mahabharata in Sanskrit
Book 5
Chapter 58
|
1
[धृ] यद अब्रूतां महात्मानौ वासुदेवधनंजयौ तन मे बरूहि महाप्राज्ञ शुश्रूषे वचनं तव 2 शृणु राजन यथादृष्टौ मया कृष्ण धनंजयौ ऊचतुश चापि यद वीरौ तत ते वक्ष्यामि भारत 3 पादाङ्गुलीर अभिप्रेक्षन परयतॊ ऽहं कृताञ्जलिः शुद्धान्तं पराविशं राजन्न आख्यातुं नरदेवयॊः 4 नैवाभिमन्युर न यमौ तं देशम अभियान्ति वै यत्र कृष्णौ च कृष्णा च सत्यभामा च भामिनी 5 उभौ मध्वासवक्षीबाव उभौ चन्दनरूषितौ सरग्विणौ वरवस्त्रौ तौ दिव्याभरणभूषितौ 6 नैकरत्नविचित्रं तु काञ्चनं महद आसनम विविधास्तरणास्तीर्णं यत्रासाताम अरिंदमौ 7 अर्जुनॊत्सङ्गमौ पादौ केशवस्यॊपलक्षये अर्जुनस्य च कृष्णायां सत्यायां च महात्मनः 8 काञ्चनं पादपीठं तु पार्थॊ मे परादिशत तदा तद अहं पाणिना सपृष्ट्वा ततॊ भूमाव उपाविशम 9 ऊर्ध्वरेख तलौ पादौ पार्थस्य शुब लक्षणौ पादपीठाद अहपृतौ तत्रापश्यम अहं शुभौ 10 शयामौ बृहन्तौ तरुणौ शालस्कन्धाव इवॊद्गतौ एकासन गतौ दृष्ट्वा भयं मां महद आविशत 11 इन्द्र विष्णुसमावेतौ मन्दात्मा नावबुध्यते संश्रयाद दरॊण भीष्माभ्यां कर्णस्य च विकत्थनात 12 निदेशस्थाव इमौ यस्य मानसस तस्य सेत्स्यते संकल्पॊ धर्मराजस्य निश्चयॊ मे तदाभवत 13 सत्कृतश चान्न पानाभ्याम आच्छन्नॊ लब्धसत्क्रियः अञ्जलिं मूर्ध्नि संधाय तौ संदेशम अचॊदयम 14 धनुर बाणॊचितेनैक पाणिना शुभलक्षणम पादम आनमयन पार्थः केशवं समचॊदयत 15 इन्द्रकेतुर इवॊत्थाय सर्वाभरणभूषितः इन्द्रवीर्यॊपमः कृष्णः संविष्टॊ माभ्यभाषत 16 वाचं स वदतां शरेष्ठॊ हलादिनीं वचनक्षमाम तरासनीं धार्तराष्ट्राणां मृदुपूर्वां सुदारुणाम 17 वाचं तां वचनार्हस्य शिक्षाक्षर समन्विताम अश्रौषम अहम इष्टार्थां पश्चाद धृदय शॊषिणीम 18 [वासु] संजयेदं वचॊ बरूया धृतराष्ट्रं मनीषिणम शृण्वतः कुरुमुख्यस्य दरॊणस्यापि च शृण्वतः 19 यजध्वं विपुलैर यज्ञैर विप्रेभ्यॊ दत्तदक्षिणाः पुत्रैर दारैश च मॊदध्वं महद वॊ भयम आगतम 20 अर्थांस तयजत पात्रेभ्यः सुतान पराप्नुत कामजान परियं परियेभ्यश चरत राजा हि तवरते जये 21 ऋणम एतत परवृद्धं मे हृदयान नापसर्पति यद गॊविन्देति चुक्रॊश कृष्णा मां दूरवासिनम 22 तेजॊमयं दुराधर्षं गाण्डीवं यस्य कार्मुकम मद्द्वितीयेन तेनेह वैरं वः सव्यसाचिना 23 मद्द्वितीयं पुनः पार्थं कः परार्थयितुम इच्छति यॊ न कालपरीतॊ वाप्य अपि साक्षात पुरंदरः 24 बाहुभ्याम उद्वहेद भूमिं दहेत करुद्ध इमाः परजाः पातयेत तरिदिवाद देवान यॊ ऽरजुनं समरे जयेत 25 देवासुरमनुष्येषु यक्षगन्धर्वभॊगिषु न तं पश्याम्य अहं युद्धे पाण्डवं यॊ ऽभययाद रणे 26 यत तद विराटनगरे शरूयते महद अद्भुतम एकस्य च बहूनां च पर्याप्तं तन्निदर्शनम 27 एकेन पाण्डुपुत्रेण विराटनगरे यदा भग्नाः पलायन्त दिशः पर्याप्तं तन्निदर्शनम 28 बलं वीर्यं च तेजश च शीघ्रता लघुहस्तता अविषादश च धैर्यं च पार्थान नान्यथ विद्यते 29 इत्य अब्रवीद धृषीकेशः पार्थम उद्धर्षयन गिरा गर्जन समयवर्षीव गगने पाकशासनः 30 केशवस्य वचः शरुत्वा किरीटी शवेतवाहनः अर्जुनस तन महद वाक्यम अब्रवील लॊमहर्षणम |
1
[dhṛ] yad abrūtāṃ mahātmānau vāsudevadhanaṃjayau tan me brūhi mahāprājña śuśrūṣe vacanaṃ tava 2 śṛṇu rājan yathādṛṣṭau mayā kṛṣṇa dhanaṃjayau ūcatuś cāpi yad vīrau tat te vakṣyāmi bhārata 3 pādāṅgulīr abhiprekṣan prayato 'haṃ kṛtāñjaliḥ śuddhāntaṃ prāviśaṃ rājann ākhyātuṃ naradevayoḥ 4 naivābhimanyur na yamau taṃ deśam abhiyānti vai yatra kṛṣṇau ca kṛṣṇā ca satyabhāmā ca bhāminī 5 ubhau madhvāsavakṣībāv ubhau candanarūṣitau sragviṇau varavastrau tau divyābharaṇabhūṣitau 6 naikaratnavicitraṃ tu kāñcanaṃ mahad āsanam vividhāstaraṇāstīrṇaṃ yatrāsātām ariṃdamau 7 arjunotsaṅgamau pādau keśavasyopalakṣaye arjunasya ca kṛṣṇāyāṃ satyāyāṃ ca mahātmanaḥ 8 kāñcanaṃ pādapīṭhaṃ tu pārtho me prādiśat tadā tad ahaṃ pāṇinā spṛṣṭvā tato bhūmāv upāviśam 9 ūrdhvarekha talau pādau pārthasya śuba lakṣaṇau pādapīṭhād ahapṛtau tatrāpaśyam ahaṃ śubhau 10 śyāmau bṛhantau taruṇau śālaskandhāv ivodgatau ekāsana gatau dṛṣṭvā bhayaṃ māṃ mahad āviśat 11 indra viṣṇusamāvetau mandātmā nāvabudhyate saṃśrayād droṇa bhīṣmābhyāṃ karṇasya ca vikatthanāt 12 nideśasthāv imau yasya mānasas tasya setsyate saṃkalpo dharmarājasya niścayo me tadābhavat 13 satkṛtaś cānna pānābhyām ācchanno labdhasatkriyaḥ añjaliṃ mūrdhni saṃdhāya tau saṃdeśam acodayam 14 dhanur bāṇocitenaika pāṇinā śubhalakṣaṇam pādam ānamayan pārthaḥ keśavaṃ samacodayat 15 indraketur ivotthāya sarvābharaṇabhūṣitaḥ indravīryopamaḥ kṛṣṇaḥ saṃviṣṭo mābhyabhāṣata 16 vācaṃ sa vadatāṃ śreṣṭho hlādinīṃ vacanakṣamām trāsanīṃ dhārtarāṣṭrāṇāṃ mṛdupūrvāṃ sudāruṇām 17 vācaṃ tāṃ vacanārhasya śikṣākṣara samanvitām aśrauṣam aham iṣṭārthāṃ paścād dhṛdaya śoṣiṇīm 18 [vāsu] saṃjayedaṃ vaco brūyā dhṛtarāṣṭraṃ manīṣiṇam śṛṇvataḥ kurumukhyasya droṇasyāpi ca śṛṇvataḥ 19 yajadhvaṃ vipulair yajñair viprebhyo dattadakṣiṇāḥ putrair dāraiś ca modadhvaṃ mahad vo bhayam āgatam 20 arthāṃs tyajata pātrebhyaḥ sutān prāpnuta kāmajān priyaṃ priyebhyaś carata rājā hi tvarate jaye 21 ṛṇam etat pravṛddhaṃ me hṛdayān nāpasarpati yad govindeti cukrośa kṛṣṇā māṃ dūravāsinam 22 tejomayaṃ durādharṣaṃ gāṇḍīvaṃ yasya kārmukam maddvitīyena teneha vairaṃ vaḥ savyasācinā 23 maddvitīyaṃ punaḥ pārthaṃ kaḥ prārthayitum icchati yo na kālaparīto vāpy api sākṣāt puraṃdaraḥ 24 bāhubhyām udvahed bhūmiṃ dahet kruddha imāḥ prajāḥ pātayet tridivād devān yo 'rjunaṃ samare jayet 25 devāsuramanuṣyeṣu yakṣagandharvabhogiṣu na taṃ paśyāmy ahaṃ yuddhe pāṇḍavaṃ yo 'bhyayād raṇe 26 yat tad virāṭanagare śrūyate mahad adbhutam ekasya ca bahūnāṃ ca paryāptaṃ tannidarśanam 27 ekena pāṇḍuputreṇa virāṭanagare yadā bhagnāḥ palāyanta diśaḥ paryāptaṃ tannidarśanam 28 balaṃ vīryaṃ ca tejaś ca śīghratā laghuhastatā aviṣādaś ca dhairyaṃ ca pārthān nānyatha vidyate 29 ity abravīd dhṛṣīkeśaḥ pārtham uddharṣayan girā garjan samayavarṣīva gagane pākaśāsanaḥ 30 keśavasya vacaḥ śrutvā kirīṭī śvetavāhanaḥ arjunas tan mahad vākyam abravīl lomaharṣaṇam |
The Mahabharata in Sanskrit
Book 5
Chapter 59
|
1
[व] संजयस्य वचः शरुत्वा परज्ञा चक्षुर नरेश्वरः ततः संख्यातुम आरेभे तद वचॊ गुणदॊषतः 2 परसंख्याय च सौक्ष्म्येण गुणदॊषान विचक्षणः यथावन मतितत्त्वेन जय कामः सुतान परति 3 बलाबले विनिश्चित्य याथातथ्येन बुद्धिमान शक्तिं संख्यातुम आरेभे तदा वै मनुजाधिपः 4 देव मानुषयॊः शक्त्या तेजसा चैव पाण्डवान कुरूञ शक्त्याल्पतरया दुर्यॊधनम अथाब्रवीत 5 दुर्यॊधनेयं चिन्ता मे शश्वन नाप्य उपशाम्यति सत्यं हय एतद अहं मन्ये परत्यक्षं नानुमानतः 6 आत्मजेषु परं सनेहं सर्वभूतानि कुर्वते परियाणि चैषां कुर्वन्ति यथाशक्ति हितानि च 7 एवम एवॊपकर्तॄणां परायशॊ लक्षयामहे इच्छन्ति बहुलं सन्तः परतिकर्तुं महत परियम 8 अग्निः साचिव्य कर्ता सयात खाण्डवे तत कृतं समरन अर्जुनस्यातिभीमे ऽसमिन कुरु पाण्डुसमागमे 9 जातगृध्याभिपन्नाश च पाण्डवानाम अनेकशः धर्मादयॊ भविष्यन्ति समाहूता दिवौकसः 10 भीष्मद्रॊणकृपादीनां भयाद अशनिसंमितम रिरक्षिषन्तः संरम्भं गमिष्यन्तीति मे मतिः 11 ते देव सहिताः पार्था न शक्याः परतिवीक्षितुम मानुषेण नरव्याघ्रा वीर्यवन्तॊ ऽसत्रपारगाः 12 दुरासदं यस्य दिव्यं गाण्डीवं धनुर उत्तमम वारुणौ चाक्षयौ दिव्यौ शरपूर्णौ महेषुधी 13 वानरश च धवजॊ दिव्यॊ निःसङ्गॊ धूमवद गतिः रथश च चतुरन्तायां यस्य नास्ति समस तविषा 14 महामेघनिभश चापि निर्घॊषः शरूयते जनैः महाशनि समः शब्दः शात्रवाणां भयंकरः 15 यं चातिमानुषं वीर्ये कृत्स्नॊ लॊकॊ वयवस्यति देवानाम अपि जेतारं यं विदुः पार्थिवा रणे 16 शतानि पञ्च चैवेषून उद्वपन्न इव दृश्यते निमेषान्तरमात्रेण मुञ्चन दूरं च पातयन 17 यम आह भीष्मॊ दरॊणश च कृपॊ दरौणिस तथैव च मद्रराजस तथा शल्यॊ मध्यस्था ये च मानवाः 18 युद्धायावस्थितं पार्थं पार्थिवैर अतिमानुषैः अशक्यं रथशार्दूलं पराजेतुम अरिंदमम 19 कषिपत्य एकेन वेगेन पञ्चबाणशतानि यः सदृशं बाहुवीर्येण कार्तवीर्यस्य पाण्डवम 20 तम अर्जुनं महेष्वासं महेन्द्रॊपेन्द्र रक्षितम निघ्नन्तम इव पश्यामि विमर्दे ऽसमिन महामृधे 21 इत्य एवं चिन्तयन कृत्स्नम अहॊरात्राणि भारत अनिद्रॊ निःसुखश चास्मि कुरूणां शम चिन्तया 22 कषयॊदयॊ ऽयं सुमहान कुरूणां परत्युपस्थितः अस्य चेत कलहस्यान्तः शमाद अन्यॊ न विद्यते 23 शमॊ मे रॊचते नित्यं पार्थैस तात न विग्रहः कुरुभ्यॊ हि सदा मन्ये पाण्डवाञ शक्तिमत्तरान |
1
[v] saṃjayasya vacaḥ śrutvā prajñā cakṣur nareśvaraḥ tataḥ saṃkhyātum ārebhe tad vaco guṇadoṣataḥ 2 prasaṃkhyāya ca saukṣmyeṇa guṇadoṣān vicakṣaṇaḥ yathāvan matitattvena jaya kāmaḥ sutān prati 3 balābale viniścitya yāthātathyena buddhimān śaktiṃ saṃkhyātum ārebhe tadā vai manujādhipaḥ 4 deva mānuṣayoḥ śaktyā tejasā caiva pāṇḍavān kurūñ śaktyālpatarayā duryodhanam athābravīt 5 duryodhaneyaṃ cintā me śaśvan nāpy upaśāmyati satyaṃ hy etad ahaṃ manye pratyakṣaṃ nānumānataḥ 6 ātmajeṣu paraṃ snehaṃ sarvabhūtāni kurvate priyāṇi caiṣāṃ kurvanti yathāśakti hitāni ca 7 evam evopakartṝṇāṃ prāyaśo lakṣayāmahe icchanti bahulaṃ santaḥ pratikartuṃ mahat priyam 8 agniḥ sācivya kartā syāt khāṇḍave tat kṛtaṃ smaran arjunasyātibhīme 'smin kuru pāṇḍusamāgame 9 jātagṛdhyābhipannāś ca pāṇḍavānām anekaśaḥ dharmādayo bhaviṣyanti samāhūtā divaukasaḥ 10 bhīṣmadroṇakṛpādīnāṃ bhayād aśanisaṃmitam rirakṣiṣantaḥ saṃrambhaṃ gamiṣyantīti me matiḥ 11 te deva sahitāḥ pārthā na śakyāḥ prativīkṣitum mānuṣeṇa naravyāghrā vīryavanto 'strapāragāḥ 12 durāsadaṃ yasya divyaṃ gāṇḍīvaṃ dhanur uttamam vāruṇau cākṣayau divyau śarapūrṇau maheṣudhī 13 vānaraś ca dhvajo divyo niḥsaṅgo dhūmavad gatiḥ rathaś ca caturantāyāṃ yasya nāsti samas tviṣā 14 mahāmeghanibhaś cāpi nirghoṣaḥ śrūyate janaiḥ mahāśani samaḥ śabdaḥ śātravāṇāṃ bhayaṃkaraḥ 15 yaṃ cātimānuṣaṃ vīrye kṛtsno loko vyavasyati devānām api jetāraṃ yaṃ viduḥ pārthivā raṇe 16 śatāni pañca caiveṣūn udvapann iva dṛśyate nimeṣāntaramātreṇa muñcan dūraṃ ca pātayan 17 yam āha bhīṣmo droṇaś ca kṛpo drauṇis tathaiva ca madrarājas tathā śalyo madhyasthā ye ca mānavāḥ 18 yuddhāyāvasthitaṃ pārthaṃ pārthivair atimānuṣaiḥ aśakyaṃ rathaśārdūlaṃ parājetum ariṃdamam 19 kṣipaty ekena vegena pañcabāṇaśatāni yaḥ sadṛśaṃ bāhuvīryeṇa kārtavīryasya pāṇḍavam 20 tam arjunaṃ maheṣvāsaṃ mahendropendra rakṣitam nighnantam iva paśyāmi vimarde 'smin mahāmṛdhe 21 ity evaṃ cintayan kṛtsnam ahorātrāṇi bhārata anidro niḥsukhaś cāsmi kurūṇāṃ śama cintayā 22 kṣayodayo 'yaṃ sumahān kurūṇāṃ pratyupasthitaḥ asya cet kalahasyāntaḥ śamād anyo na vidyate 23 śamo me rocate nityaṃ pārthais tāta na vigrahaḥ kurubhyo hi sadā manye pāṇḍavāñ śaktimattarān |
The Mahabharata in Sanskrit
Book 5
Chapter 60
|
1
[व] पितुर एतद वचः शरुत्वा धार्तराष्ट्रॊ ऽतयमर्षणः आधाय विपुलं करॊधं पुनर एवेदम अब्रवीत 2 अशक्या देव सचिवाः पार्थाः सयुर इति यद भवान मन्यते तद्भयं वयेतु भवतॊ राजसत्तम 3 अकाम दवेषसंयॊगाद रॊहाल लॊभाच च भारत उपेक्षया च भावानां देवा देवत्वम आप्नुवन 4 इति दवैपायनॊ वयासॊ नारदश च महातपाः जामदग्न्यश च रामॊ नः कथाम अकथयत पुरा 5 नैव मानुषवद देवाः परवर्तन्ते कदा चन कामाल लॊभाद अनुक्रॊशाद दवेषाच च भरतर्षभ 6 यदि हय अग्निश च वायुश च धर्म इन्द्रॊ ऽशविनाव अपि कामयॊगात परवर्तेरन न पार्था दुःखम आप्नुयुः 7 तस्मान न भवता चिन्ता कार्यैषा सयात कदा चन दैवेष्व अपेक्षका हय एते शश्वद भावेषु भारत 8 अथ चेत कामसंयॊगाद दवेषाल लॊभाच च लक्ष्यते देवेषु देव परामाण्यं नैव तद विक्रमिष्यति 9 मयाभिमन्त्रितः शश्वज जातवेदाः परशंसति दिधक्षुः सकलाँल लॊकान परिक्षिप्य समन्ततः 10 यद वा परमकं तेजॊ येन युक्ता दिवौकसः ममाप्य अनुपमं भूयॊ देवेभ्यॊ विद्धि भारत 11 परदीर्यमाणां वसुधां गिरीणां शिखराणि च लॊकस्य पश्यतॊ राजन सथापयाम्य अभिमन्त्रणात 12 चेतनाचेतनस्यास्य जङ्गम सथावरस्य च विनाशाय समुत्पन्नं महाघॊरं महास्वनम 13 अश्मवर्षं च वायुं च शमयामीह नित्यशः जगतः पश्यतॊ ऽभीक्ष्णं भूतानाम अनुकम्पया 14 सतम्भितास्व अप्सु गच्छन्ति मया रथपदातयः देवासुराणां भावानाम अहम एकः परवर्तिता 15 अक्षौहिणीभिर यान देशान यामि कार्येण केन चित तत्रापॊ मे परवर्तन्ते यत्र यत्राभिकामये 16 भयानि विषये राजन वयालादीनि न सन्ति मे मत्तः सुप्तानि भूतानि न हिंसन्ति भयंकराः 17 निकामवर्णी पर्जन्यॊ राजन विषयवासिनाम धर्मिष्ठाश च परजाः सर्वा ईतयश च न सन्ति मे 18 अश्विनाव अथ वाय्वग्नी मरुद्भिः सह वृत्रहा धर्मश चैव मया दविष्टान नॊत्सहन्ते ऽभिरक्षितुम 19 यदि हय एते समर्थाः सयुर मद दविषस तरातुम ओजसा न सम तरयॊदश समाः पार्था दुःखम अवाप्नुयुः 20 नैव देवा न गन्धर्वा नासुरा न च राक्षसाः शक्तास तरातुं मया दविष्टं सत्यम एतद बरवीमि ते 21 यद अभिध्याम्य अहं शश्वच छुभं वा यदि वाशुभम नैतद विपन्नपूर्वं मे मित्रेष्व अरिषु चॊभयॊः 22 भविष्यतीदम इति वा यद बरवीमि परंतप नान्यथा भूतपूर्वं तत सत्यवाग इति मां विदुः 23 लॊकसाक्षिकम एतन मे माहात्म्यं दिष्कु विश्रुतम आश्वासनार्थं भवतः परॊक्तं न शलाघया नृप 24 न हय अहं शलाघनॊ राजन भूतपूर्वः कदा चन असद आचरितं हय एतद यद आत्मानं परशंसति 25 पाण्डवांश चैव मत्स्यांश च पाञ्चालान केकयैः सह सात्यकिं वासुदेवं च शरॊतासि विजितान मया 26 सरितः सागरं पराप्य यथा नश्यन्ति सर्वशः तथैव ते विनङ्क्ष्यन्ति माम आसाद्य सहान्वयाः 27 परा बुद्धिः परं तेजॊ वीर्यं च परमं मयि परा विद्या परॊ यॊगॊ मम तेभ्यॊ विशिष्यते 28 पितामहश च दरॊणश च कृपः शल्यः शलस तथा अस्त्रेषु यत परजानन्ति सर्वं तन मयि विद्यते 29 इत्य उक्त्वा संजयं भूयः पर्यपृच्छत भारत जञात्वा युयुत्सुः कार्याणि पराप्तकालम अरिंदम |
1
[v] pitur etad vacaḥ śrutvā dhārtarāṣṭro 'tyamarṣaṇaḥ ādhāya vipulaṃ krodhaṃ punar evedam abravīt 2 aśakyā deva sacivāḥ pārthāḥ syur iti yad bhavān manyate tadbhayaṃ vyetu bhavato rājasattama 3 akāma dveṣasaṃyogād rohāl lobhāc ca bhārata upekṣayā ca bhāvānāṃ devā devatvam āpnuvan 4 iti dvaipāyano vyāso nāradaś ca mahātapāḥ jāmadagnyaś ca rāmo naḥ kathām akathayat purā 5 naiva mānuṣavad devāḥ pravartante kadā cana kāmāl lobhād anukrośād dveṣāc ca bharatarṣabha 6 yadi hy agniś ca vāyuś ca dharma indro 'śvināv api kāmayogāt pravarteran na pārthā duḥkham āpnuyuḥ 7 tasmān na bhavatā cintā kāryaiṣā syāt kadā cana daiveṣv apekṣakā hy ete śaśvad bhāveṣu bhārata 8 atha cet kāmasaṃyogād dveṣāl lobhāc ca lakṣyate deveṣu deva prāmāṇyaṃ naiva tad vikramiṣyati 9 mayābhimantritaḥ śaśvaj jātavedāḥ praśaṃsati didhakṣuḥ sakalāṁl lokān parikṣipya samantataḥ 10 yad vā paramakaṃ tejo yena yuktā divaukasaḥ mamāpy anupamaṃ bhūyo devebhyo viddhi bhārata 11 pradīryamāṇāṃ vasudhāṃ girīṇāṃ śikharāṇi ca lokasya paśyato rājan sthāpayāmy abhimantraṇāt 12 cetanācetanasyāsya jaṅgama sthāvarasya ca vināśāya samutpannaṃ mahāghoraṃ mahāsvanam 13 aśmavarṣaṃ ca vāyuṃ ca śamayāmīha nityaśaḥ jagataḥ paśyato 'bhīkṣṇaṃ bhūtānām anukampayā 14 stambhitāsv apsu gacchanti mayā rathapadātayaḥ devāsurāṇāṃ bhāvānām aham ekaḥ pravartitā 15 akṣauhiṇībhir yān deśān yāmi kāryeṇa kena cit tatrāpo me pravartante yatra yatrābhikāmaye 16 bhayāni viṣaye rājan vyālādīni na santi me mattaḥ suptāni bhūtāni na hiṃsanti bhayaṃkarāḥ 17 nikāmavarṇī parjanyo rājan viṣayavāsinām dharmiṣṭhāś ca prajāḥ sarvā ītayaś ca na santi me 18 aśvināv atha vāyvagnī marudbhiḥ saha vṛtrahā dharmaś caiva mayā dviṣṭān notsahante 'bhirakṣitum 19 yadi hy ete samarthāḥ syur mad dviṣas trātum ojasā na sma trayodaśa samāḥ pārthā duḥkham avāpnuyuḥ 20 naiva devā na gandharvā nāsurā na ca rākṣasāḥ śaktās trātuṃ mayā dviṣṭaṃ satyam etad bravīmi te 21 yad abhidhyāmy ahaṃ śaśvac chubhaṃ vā yadi vāśubham naitad vipannapūrvaṃ me mitreṣv ariṣu cobhayoḥ 22 bhaviṣyatīdam iti vā yad bravīmi paraṃtapa nānyathā bhūtapūrvaṃ tat satyavāg iti māṃ viduḥ 23 lokasākṣikam etan me māhātmyaṃ diṣku viśrutam āśvāsanārthaṃ bhavataḥ proktaṃ na ślāghayā nṛpa 24 na hy ahaṃ ślāghano rājan bhūtapūrvaḥ kadā cana asad ācaritaṃ hy etad yad ātmānaṃ praśaṃsati 25 pāṇḍavāṃś caiva matsyāṃś ca pāñcālān kekayaiḥ saha sātyakiṃ vāsudevaṃ ca śrotāsi vijitān mayā 26 saritaḥ sāgaraṃ prāpya yathā naśyanti sarvaśaḥ tathaiva te vinaṅkṣyanti mām āsādya sahānvayāḥ 27 parā buddhiḥ paraṃ tejo vīryaṃ ca paramaṃ mayi parā vidyā paro yogo mama tebhyo viśiṣyate 28 pitāmahaś ca droṇaś ca kṛpaḥ śalyaḥ śalas tathā astreṣu yat prajānanti sarvaṃ tan mayi vidyate 29 ity uktvā saṃjayaṃ bhūyaḥ paryapṛcchata bhārata jñātvā yuyutsuḥ kāryāṇi prāptakālam ariṃdama |
The Mahabharata in Sanskrit
Book 5
Chapter 61
|
1
[व] तथा तु पृच्छन्तम अतीव पार्थान; वैचित्रवीर्यं तम अचिन्तयित्वा उवाच कर्णॊ धृतराष्ट्र पुत्रं; परहर्षयन संसदि कौरवाणाम 2 मिथ्याप्रतिज्ञाय मया यद अस्त्रं; रामाद धृतं बरह्म पुरं पुरस्तात विज्ञाय तेनास्मि तदैवम उक्तस; तवान्त काले ऽपरतिभास्यतीति 3 महापराधे हय अपि संनतेन; महर्षिणाहं गुरुणा च शप्तः शक्तः परदग्धुं हय अपि तिग्मतेजाः; स सागराम अप्य अवनिं महर्षिः 4 परसादितं हय अस्य मया मनॊ ऽभूच; छुश्रूषया सवेन च पौरुषेण ततस तद अस्त्रं मम सावशेषं; तस्मात समर्थॊ ऽसमि ममैष भारः 5 निमेष मात्रं तम ऋषिप्रसादम; अवाप्य पाञ्चाल करूषमत्स्यान निहत्य पार्थांश च सपुत्रपौत्राँल; लॊकान अहं शस्त्रजितान परपत्स्ये 6 पितामहस तिष्ठतु ते समीपे; दरॊणश च सर्वे च नरेन्द्रमुख्याः यथाप्रधानेन बलेन यात्वा; पार्थान हनिष्यामि ममैष भारः 7 एवं बरुवाणं तम उवाच भीष्मः; किं कत्थसे कालपरीत बुद्धे न कर्ण जानासि यथा परधाने; हते हताः सयुर धृतराष्ट्र पुत्राः 8 यत खाण्डवं दाहयता कृतं हि; कृष्ण दवितीयेन धनंजयेन शरुत्वैव तत कर्म नियन्तुम आत्मा; शक्यस तवया वै सह बान्धवेन 9 यां चापि शक्तिं तरिदशाधिपस ते; ददौ महामा भगवान महेन्द्रः भस्मीकृतां तां पतितां विशीर्णां; चक्राहतां दरक्ष्यसि केशवेन 10 यस ते शरः सर्पमुखॊ विभाति; सदाग्र्य माल्यैर महितः परयत्नात स पाण्डुपुत्राभिहतः शरौघैः; सह तवया यास्यति कर्ण नाशम 11 बाणस्य भौमस्य च कर्ण हन्ता; किरीटिनं रक्षति वासुदेवः यस तवादृशानां च गरीयसां च; हन्ता रिपूणां तुमुले परगाढे 12 [कर्ण] असंशयं वृष्णिपतिर यथॊक्तस; तथा च भूयश च ततॊ महात्मा अहं यद उक्तः परुषं तु किं चित; पितामहस तस्य फलं शृणॊतु 13 नयस्यामि शस्त्राणि न जातु संख्ये; पितामहॊ दरक्ष्यति मां सभायाम तवयि परशान्ते तु मम परभावं; दरक्ष्यन्ति सर्वे भुवि भूमिपालाः 14 इत्य एवम उक्त्वा स महाधनुष्मान; हित्वा सभां सवं भवनं जगाम भीष्मस तु दुर्यॊधनम एव राजन; मध्ये कुरूणां परहसन्न उवाच 15 सत्यप्रतिज्ञः किल सूतपुत्रस; तथा स भारं विषहेत कस्मात वयूहं परतिव्यूह्य शिरांसि भित्त्वा; लॊकक्षयं पश्यत भीमसेनात 16 आवन्त्यकालिङ्गजयद्रथेषु; वेदिध्वजे तिष्ठति बाह्लिके च अहं हनिष्यामि सदा परेषां; सहस्रशश चायुतशश च यॊधान 17 यदैव रामे भगवत्य अनिन्द्ये; बरह्म बरुवाणः कृतवांस तद अस्त्रम तदैव धर्मश च तपश च नष्टं; वैकर्तनस्याधम पुरुषस्य 18 अथॊक्त वाक्ये नृपतौ तु भीष्मे; निक्षिप्य शस्त्राणि गते च कर्णे वैचित्रवीर्यस्य सुतॊ ऽलपबुद्धिर; दुर्यॊधनः शांतनवं बभाषे |
1
[v] tathā tu pṛcchantam atīva pārthān; vaicitravīryaṃ tam acintayitvā uvāca karṇo dhṛtarāṣṭra putraṃ; praharṣayan saṃsadi kauravāṇām 2 mithyāpratijñāya mayā yad astraṃ; rāmād dhṛtaṃ brahma puraṃ purastāt vijñāya tenāsmi tadaivam uktas; tavānta kāle 'pratibhāsyatīti 3 mahāparādhe hy api saṃnatena; maharṣiṇāhaṃ guruṇā ca śaptaḥ śaktaḥ pradagdhuṃ hy api tigmatejāḥ; sa sāgarām apy avaniṃ maharṣiḥ 4 prasāditaṃ hy asya mayā mano 'bhūc; chuśrūṣayā svena ca pauruṣeṇa tatas tad astraṃ mama sāvaśeṣaṃ; tasmāt samartho 'smi mamaiṣa bhāraḥ 5 nimeṣa mātraṃ tam ṛṣiprasādam; avāpya pāñcāla karūṣamatsyān nihatya pārthāṃś ca saputrapautrāṁl; lokān ahaṃ śastrajitān prapatsye 6 pitāmahas tiṣṭhatu te samīpe; droṇaś ca sarve ca narendramukhyāḥ yathāpradhānena balena yātvā; pārthān haniṣyāmi mamaiṣa bhāraḥ 7 evaṃ bruvāṇaṃ tam uvāca bhīṣmaḥ; kiṃ katthase kālaparīta buddhe na karṇa jānāsi yathā pradhāne; hate hatāḥ syur dhṛtarāṣṭra putrāḥ 8 yat khāṇḍavaṃ dāhayatā kṛtaṃ hi; kṛṣṇa dvitīyena dhanaṃjayena śrutvaiva tat karma niyantum ātmā; śakyas tvayā vai saha bāndhavena 9 yāṃ cāpi śaktiṃ tridaśādhipas te; dadau mahāmā bhagavān mahendraḥ bhasmīkṛtāṃ tāṃ patitāṃ viśīrṇāṃ; cakrāhatāṃ drakṣyasi keśavena 10 yas te śaraḥ sarpamukho vibhāti; sadāgrya mālyair mahitaḥ prayatnāt sa pāṇḍuputrābhihataḥ śaraughaiḥ; saha tvayā yāsyati karṇa nāśam 11 bāṇasya bhaumasya ca karṇa hantā; kirīṭinaṃ rakṣati vāsudevaḥ yas tvādṛśānāṃ ca garīyasāṃ ca; hantā ripūṇāṃ tumule pragāḍhe 12 [karṇa] asaṃśayaṃ vṛṣṇipatir yathoktas; tathā ca bhūyaś ca tato mahātmā ahaṃ yad uktaḥ paruṣaṃ tu kiṃ cit; pitāmahas tasya phalaṃ śṛṇotu 13 nyasyāmi śastrāṇi na jātu saṃkhye; pitāmaho drakṣyati māṃ sabhāyām tvayi praśānte tu mama prabhāvaṃ; drakṣyanti sarve bhuvi bhūmipālāḥ 14 ity evam uktvā sa mahādhanuṣmān; hitvā sabhāṃ svaṃ bhavanaṃ jagāma bhīṣmas tu duryodhanam eva rājan; madhye kurūṇāṃ prahasann uvāca 15 satyapratijñaḥ kila sūtaputras; tathā sa bhāraṃ viṣaheta kasmāt vyūhaṃ prativyūhya śirāṃsi bhittvā; lokakṣayaṃ paśyata bhīmasenāt 16 āvantyakāliṅgajayadratheṣu; vedidhvaje tiṣṭhati bāhlike ca ahaṃ haniṣyāmi sadā pareṣāṃ; sahasraśaś cāyutaśaś ca yodhān 17 yadaiva rāme bhagavaty anindye; brahma bruvāṇaḥ kṛtavāṃs tad astram tadaiva dharmaś ca tapaś ca naṣṭaṃ; vaikartanasyādhama puruṣasya 18 athokta vākye nṛpatau tu bhīṣme; nikṣipya śastrāṇi gate ca karṇe vaicitravīryasya suto 'lpabuddhir; duryodhanaḥ śāṃtanavaṃ babhāṣe |
The Mahabharata in Sanskrit
Book 5
Chapter 62
|
1
[दुर] सदृशानां मनुष्येषु सर्वेषां तुल्यजन्मनाम कथम एकान्ततस तेषां पार्थानां मन्यसे जयम 2 सर्वे सम समजातीयाः सर्वे मानुषयॊनयः पितामह विजानीषे पार्थेषु विजयं कथम 3 नाहं भवति न दरॊणे न कृपे न च बाह्लिके अन्येषु च नरेन्द्रेषु पराक्रम्य समारभे 4 अहं वैकर्तनः कर्णॊ भराता दुःशासनश च मे पाण्डवान समरे पञ्च हनिष्यामः शितैः शरैः 5 ततॊ राजन महायज्ञैर विविधैर भूरिदक्षिणैः बराह्मणांस तर्पयिष्यामि गॊभिर अश्वैर धनेन च 6 शकुनीनाम इहार्थाय पाशं भूमाव अयॊजयत कश चिच छाकुनिकस ताथ पूर्वेषाम इति शुश्रुम 7 तस्मिन दवौ शकुनौ बद्धौ युगपत समपौरुषौ ताव उपादाय तं पाशं जग्मतुः खचराव उभौ 8 तौ विहायसम आक्रान्तौ दृष्ट्वा शाकुनिकस तदा अन्वधावद अनिर्विण्णॊ येन येन सम गच्छतः 9 तथा तम अनुधावन्तं मृगयुं शकुनार्थिनम आश्रमस्थॊ मुनिः कश चिद ददर्शाथ कृताह्निकः 10 ताव अन्तरिक्षगौ शीघ्रम अनुयान्तं मही चरम शलॊकेनानेन कौरव्य पप्रच्छ स मुनिस तदा 11 विचित्रम इदम आश्चर्यं मृगहन परतिभाति मे पलवमानौ हि खचरौ पदातिर अनुधावसि 12 [षाकुनिक] पाशम एकम उभाव एतौ सहितौ हरतॊ मम यत्र वै विवदिष्येते तत्र मे वशम एष्यतः 13 तौ विवादम अनुप्राप्तौ शकुनौ मृत्युसंधितौ विगृह्य च सुदुर्बुद्धी पृथिव्यां संनिपेततुः 14 तौ युध्यमानौ संरब्धौ मृत्युपाशवशानुगौ उपसृत्यापरिज्ञातॊ जग्राह मृगयुस तदा 15 एवं ये जञातयॊ ऽरथेषु मिथॊ गच्छन्ति विग्रहम ते ऽमित्रवशम आयान्ति शकुनाव इव विग्रहात 16 संभॊजनं संकथनं संप्रश्नॊ ऽथ समागमः एतानि जञातिकार्याणि न विरॊधः कदा चन 17 यस्मिन काले सुमनसः सर्वे वृद्धान उपासते सिंहगुप्तम इवारण्यम अप्रधृष्या भवन्ति ते 18 ये ऽरथं संततम आसाद्य दीना इव समासते शरियं ते संप्रयच्छन्ति दविषद्भ्यॊ भरतर्षभ 19 धूमायन्ते वयपेतानि जवलन्ति सहितानि च धृतराष्ट्रॊल्मुकानीव जञातयॊ भरतर्षभ 20 इदम अन्यत परवक्ष्यामि यथादृष्टं गिरौ मया शरुत्वा तद अपि कौरव्य यथा शरेयस तथा कुरु 21 वयं किरातैः सहिता गच्छामॊ गिरिम उत्तरम बराह्मणैर देवकल्पैश च विद्या जम्भक वातिकैः 22 कुञ्ज भूतं गिरिं सर्वम अभितॊ गन्धमादनम दीप्यमानौषधि गणं सिद्धगन्धर्वसेवितम 23 तत्र पश्यामहे सर्वे मधु पीतम अमाक्षिकम मरु परपाते विषमे निविष्टं कुम्भसंमितम 24 आशीविषै रक्ष्यमाणं कुबेर दयितं भृशम यत पराश्य पुरुषॊ मर्त्यॊ अमरत्वं निगच्छति 25 अचक्षुर लभते चक्षुर वृद्धॊ भवति वै युवा इति ते कथयन्ति सम बराह्मणा जम्भ साधकाः 26 ततः किरातास तद दृष्ट्वा परार्थयन्तॊ महीपते विनेशुर विषमे तस्मिन ससर्पे गिरिगह्वरे 27 तथैव तव पुत्रॊ ऽयं पृथिवीम एक इच्छति मधु पश्यति संमॊहात परपातं नानुपश्यति 28 दुर्यॊधनॊ यॊद्धुमनाः समरे सव्यसाचिना न च पश्यामि तेजॊ ऽसय विक्रमं वा तथाविधम 29 एकेन रथम आस्थाय पृथिवी येन निर्जिता परतीक्षमाणॊ यॊ वीरः कषमते वीक्षितं तव 30 दरुपदॊ मत्स्यराजश च संक्रुद्धश च धनंजयः न शेषयेयुः समरे वायुयुक्ता इवाग्नयः 31 अङ्के कुरुष्व राजानं धृतराष्ट्र युधिष्ठिरम युध्यतॊर हि दवयॊर युद्धे नैकान्तेन भवेज जयः |
1
[dur] sadṛśānāṃ manuṣyeṣu sarveṣāṃ tulyajanmanām katham ekāntatas teṣāṃ pārthānāṃ manyase jayam 2 sarve sma samajātīyāḥ sarve mānuṣayonayaḥ pitāmaha vijānīṣe pārtheṣu vijayaṃ katham 3 nāhaṃ bhavati na droṇe na kṛpe na ca bāhlike anyeṣu ca narendreṣu parākramya samārabhe 4 ahaṃ vaikartanaḥ karṇo bhrātā duḥśāsanaś ca me pāṇḍavān samare pañca haniṣyāmaḥ śitaiḥ śaraiḥ 5 tato rājan mahāyajñair vividhair bhūridakṣiṇaiḥ brāhmaṇāṃs tarpayiṣyāmi gobhir aśvair dhanena ca 6 śakunīnām ihārthāya pāśaṃ bhūmāv ayojayat kaś cic chākunikas tātha pūrveṣām iti śuśruma 7 tasmin dvau śakunau baddhau yugapat samapauruṣau tāv upādāya taṃ pāśaṃ jagmatuḥ khacarāv ubhau 8 tau vihāyasam ākrāntau dṛṣṭvā śākunikas tadā anvadhāvad anirviṇṇo yena yena sma gacchataḥ 9 tathā tam anudhāvantaṃ mṛgayuṃ śakunārthinam āśramastho muniḥ kaś cid dadarśātha kṛtāhnikaḥ 10 tāv antarikṣagau śīghram anuyāntaṃ mahī caram ślokenānena kauravya papraccha sa munis tadā 11 vicitram idam āścaryaṃ mṛgahan pratibhāti me plavamānau hi khacarau padātir anudhāvasi 12 [ṣākunika] pāśam ekam ubhāv etau sahitau harato mama yatra vai vivadiṣyete tatra me vaśam eṣyataḥ 13 tau vivādam anuprāptau śakunau mṛtyusaṃdhitau vigṛhya ca sudurbuddhī pṛthivyāṃ saṃnipetatuḥ 14 tau yudhyamānau saṃrabdhau mṛtyupāśavaśānugau upasṛtyāparijñāto jagrāha mṛgayus tadā 15 evaṃ ye jñātayo 'rtheṣu mitho gacchanti vigraham te 'mitravaśam āyānti śakunāv iva vigrahāt 16 saṃbhojanaṃ saṃkathanaṃ saṃpraśno 'tha samāgamaḥ etāni jñātikāryāṇi na virodhaḥ kadā cana 17 yasmin kāle sumanasaḥ sarve vṛddhān upāsate siṃhaguptam ivāraṇyam apradhṛṣyā bhavanti te 18 ye 'rthaṃ saṃtatam āsādya dīnā iva samāsate śriyaṃ te saṃprayacchanti dviṣadbhyo bharatarṣabha 19 dhūmāyante vyapetāni jvalanti sahitāni ca dhṛtarāṣṭrolmukānīva jñātayo bharatarṣabha 20 idam anyat pravakṣyāmi yathādṛṣṭaṃ girau mayā śrutvā tad api kauravya yathā śreyas tathā kuru 21 vayaṃ kirātaiḥ sahitā gacchāmo girim uttaram brāhmaṇair devakalpaiś ca vidyā jambhaka vātikaiḥ 22 kuñja bhūtaṃ giriṃ sarvam abhito gandhamādanam dīpyamānauṣadhi gaṇaṃ siddhagandharvasevitam 23 tatra paśyāmahe sarve madhu pītam amākṣikam maru prapāte viṣame niviṣṭaṃ kumbhasaṃmitam 24 āśīviṣai rakṣyamāṇaṃ kubera dayitaṃ bhṛśam yat prāśya puruṣo martyo amaratvaṃ nigacchati 25 acakṣur labhate cakṣur vṛddho bhavati vai yuvā iti te kathayanti sma brāhmaṇā jambha sādhakāḥ 26 tataḥ kirātās tad dṛṣṭvā prārthayanto mahīpate vineśur viṣame tasmin sasarpe girigahvare 27 tathaiva tava putro 'yaṃ pṛthivīm eka icchati madhu paśyati saṃmohāt prapātaṃ nānupaśyati 28 duryodhano yoddhumanāḥ samare savyasācinā na ca paśyāmi tejo 'sya vikramaṃ vā tathāvidham 29 ekena ratham āsthāya pṛthivī yena nirjitā pratīkṣamāṇo yo vīraḥ kṣamate vīkṣitaṃ tava 30 drupado matsyarājaś ca saṃkruddhaś ca dhanaṃjayaḥ na śeṣayeyuḥ samare vāyuyuktā ivāgnayaḥ 31 aṅke kuruṣva rājānaṃ dhṛtarāṣṭra yudhiṣṭhiram yudhyator hi dvayor yuddhe naikāntena bhavej jayaḥ |
The Mahabharata in Sanskrit
Book 5
Chapter 63
|
1
[धृ] दुर्यॊधन विजानीहि यत तवां वक्ष्यामि पुत्रक उत्पथं मन्यसे मार्गम अनभिज्ञ इवाध्वगः 2 पञ्चानां पाण्डुपुत्राणां यत तेजः परमिमीषसि पञ्चानाम इव भूतानां महतां सुमहात्मनाम 3 युधिष्ठिरं हि कौन्तेयं परं धर्मम इहास्थितम परां गतिम असंप्रेक्ष्य न तवं वेत्तुम इहार्हसि 4 भीमसेनं च कौन्तेयं यस्य नास्ति समॊ बले रणान्तकं तर्कयसे महावातम इव दरुमः 5 सर्वशस्त्रभृतां शरेष्ठं मेरुं शिखरिणाम इव युधि गाण्डीवधन्वानं कॊ नु युध्येत बुद्धिमान 6 धृष्टद्युम्नश च पाञ्चाल्यः कम इवाद्य न शातयेत शत्रुमध्ये शरान मुञ्चन देवराड अशनीम इव 7 सात्यकिश चापि दुर्धर्षः संमतॊ ऽनधकवृष्णिषु धवंसयिष्यति ते सेनां पाण्डवेय हिते रतः 8 यः पुनः परतिमानेन तरीँल लॊकान अतिरिच्यते तं कृष्णं पुण्डरीकाक्षं कॊ नु युध्येत बुद्धिमान 9 एकतॊ हय अस्य दाराश च जञातयश च स बान्धवाः आत्मा च पृथिवी चेयम एकतश च धनंजयः 10 वासुदेवॊ ऽपि दुर्धर्षॊ यतात्मा यत्र पाण्डवः अविषह्यं पृथिव्यापि तद बलं यत्र केशवः 11 तिष्ठ तात सतां वाक्ये सुहृदाम अर्थवादिनाम वृद्धं शांतनवं भीष्मं तितिक्षस्व पितामहम 12 मां च बरुवाणं शुश्रूष कुरूणाम अर्थवादिनम दरॊणं कृपं विकर्णं च महाराजं च बाह्लिकम 13 एते हय अपि यथैवाहं मन्तुम अर्हसि तांस तथा सर्वे धर्मविदॊ हय एते तुल्यस्नेहाश च भारत 14 यत तद विराटनगरे सह भरातृभिर अग्रतः उत्सृज्य गाः सुसंत्रस्तं बलं ते समशीर्यत 15 यच चैव तस्मिन नगरे शरूयते महद अद्भुतम एकस्य च बहूनां च पर्याप्तं तन्निदर्शनम 16 अर्जुनस तत तथाकार्षीत किं पुनः सर्व एव ते स भरातॄन अभिजानीहि वृत्त्या च परतिपादय |
1
[dhṛ] duryodhana vijānīhi yat tvāṃ vakṣyāmi putraka utpathaṃ manyase mārgam anabhijña ivādhvagaḥ 2 pañcānāṃ pāṇḍuputrāṇāṃ yat tejaḥ pramimīṣasi pañcānām iva bhūtānāṃ mahatāṃ sumahātmanām 3 yudhiṣṭhiraṃ hi kaunteyaṃ paraṃ dharmam ihāsthitam parāṃ gatim asaṃprekṣya na tvaṃ vettum ihārhasi 4 bhīmasenaṃ ca kaunteyaṃ yasya nāsti samo bale raṇāntakaṃ tarkayase mahāvātam iva drumaḥ 5 sarvaśastrabhṛtāṃ śreṣṭhaṃ meruṃ śikhariṇām iva yudhi gāṇḍīvadhanvānaṃ ko nu yudhyeta buddhimān 6 dhṛṣṭadyumnaś ca pāñcālyaḥ kam ivādya na śātayet śatrumadhye śarān muñcan devarāḍ aśanīm iva 7 sātyakiś cāpi durdharṣaḥ saṃmato 'ndhakavṛṣṇiṣu dhvaṃsayiṣyati te senāṃ pāṇḍaveya hite rataḥ 8 yaḥ punaḥ pratimānena trīṁl lokān atiricyate taṃ kṛṣṇaṃ puṇḍarīkākṣaṃ ko nu yudhyeta buddhimān 9 ekato hy asya dārāś ca jñātayaś ca sa bāndhavāḥ ātmā ca pṛthivī ceyam ekataś ca dhanaṃjayaḥ 10 vāsudevo 'pi durdharṣo yatātmā yatra pāṇḍavaḥ aviṣahyaṃ pṛthivyāpi tad balaṃ yatra keśavaḥ 11 tiṣṭha tāta satāṃ vākye suhṛdām arthavādinām vṛddhaṃ śāṃtanavaṃ bhīṣmaṃ titikṣasva pitāmaham 12 māṃ ca bruvāṇaṃ śuśrūṣa kurūṇām arthavādinam droṇaṃ kṛpaṃ vikarṇaṃ ca mahārājaṃ ca bāhlikam 13 ete hy api yathaivāhaṃ mantum arhasi tāṃs tathā sarve dharmavido hy ete tulyasnehāś ca bhārata 14 yat tad virāṭanagare saha bhrātṛbhir agrataḥ utsṛjya gāḥ susaṃtrastaṃ balaṃ te samaśīryata 15 yac caiva tasmin nagare śrūyate mahad adbhutam ekasya ca bahūnāṃ ca paryāptaṃ tannidarśanam 16 arjunas tat tathākārṣīt kiṃ punaḥ sarva eva te sa bhrātṝn abhijānīhi vṛttyā ca pratipādaya |
The Mahabharata in Sanskrit
Book 5
Chapter 64
|
1
[व] एवम उक्त्वा महाप्राज्ञॊ धृतराष्ट्रः सुयॊधनम पुनर एव महाभागः संजयं पर्यपृच्छत 2 बरूहि संजय यच छेषं वासुदेवाद अनन्तरम यद अर्जुन उवाच तवां परं कौतूहलं हि मे 3 वासुदेव वचः शरुत्वा कुन्तीपुत्रॊ धनंजयः उवाच काले दुर्धर्षॊ वासुदेवस्य शृण्वतः 4 पितामहं शांतनवं धृतराष्ट्रं च संजय दरॊणं कृपं च कर्णं च महाराजं च बाह्लिकम 5 दरौणिं च सॊमदत्तं च शकुनिं चापि सौबलम दुःशासनं शलं चैव पुरुमित्रं विविंशतिम 6 विकर्णं चित्रसेनं च जयत्सेनं च पार्थिवम विन्दानुविन्दाव आवन्त्यौ दुर्मुखं चापि कौरवम 7 सैन्धवं दुःसहं चैव भूरिश्रवसम एव च भगदत्तं च राजानं जलसंधं च पार्थिवम 8 ये चाप्य अन्ये पार्थिवास तत्र यॊद्धुं; समागताः कौरवाणां परियार्थम मुमूर्षवः पाण्डवाग्नौ परदीप्ते; समानीता धार्तराष्ट्रेण सूत 9 यथान्यायं कौशलं वन्दनं च; समागता मद्वचनेन वाच्याः इदं बरूयाः संजय राजमध्ये; सुयॊधनं पापकृतां परधानम 10 अमर्षणं दुर्मतिं राजपुत्रं; पापात्मानं धार्तराष्ट्रं सुलुब्धम सर्वं ममैतद वचनं समग्रं; सहामात्यं संजय शरावयेथाः 11 एवं परतिष्ठाप्य धनंजयॊ मां; ततॊ ऽरथवद धर्मवच चापि वाक्यम परॊवाचेदं वासुदेवं समीक्ष्य; पार्थॊ धीमाँल लॊहितान्तायताक्षः 12 यथा शरुतं ते वदतॊ महात्मनॊ; मधु परवीरस्य वचः समाहितम तथैव वाच्यं भवता हि मद्वचः; समागतेषु कषितिपेषु सर्वशः 13 शराग्निधूमे रथनेमि नादिते; धनुः सरुवेणास्त्र बलापहारिणा यथा न हॊमः करियते महामृधे; तथा समेत्य परयतध्वम आदृताः 14 न चेत परयच्छध्वम अमित्रघातिनॊ; युधिष्ठिरस्यांशम अभीप्सितं सवकम नयामि वः सवाश्वपदातिकुञ्जरान; दिशं पितॄणाम अशिवां शितैः शरैः 15 ततॊ ऽहम आमन्त्र्य चतुर्भुजं हरिं; धनंजयं चैव नमस्य स तवरः जवेन संप्राप्त इहामर दयुते; तवान्तिकं परापयितुं वचॊ महत |
1
[v] evam uktvā mahāprājño dhṛtarāṣṭraḥ suyodhanam punar eva mahābhāgaḥ saṃjayaṃ paryapṛcchata 2 brūhi saṃjaya yac cheṣaṃ vāsudevād anantaram yad arjuna uvāca tvāṃ paraṃ kautūhalaṃ hi me 3 vāsudeva vacaḥ śrutvā kuntīputro dhanaṃjayaḥ uvāca kāle durdharṣo vāsudevasya śṛṇvataḥ 4 pitāmahaṃ śāṃtanavaṃ dhṛtarāṣṭraṃ ca saṃjaya droṇaṃ kṛpaṃ ca karṇaṃ ca mahārājaṃ ca bāhlikam 5 drauṇiṃ ca somadattaṃ ca śakuniṃ cāpi saubalam duḥśāsanaṃ śalaṃ caiva purumitraṃ viviṃśatim 6 vikarṇaṃ citrasenaṃ ca jayatsenaṃ ca pārthivam vindānuvindāv āvantyau durmukhaṃ cāpi kauravam 7 saindhavaṃ duḥsahaṃ caiva bhūriśravasam eva ca bhagadattaṃ ca rājānaṃ jalasaṃdhaṃ ca pārthivam 8 ye cāpy anye pārthivās tatra yoddhuṃ; samāgatāḥ kauravāṇāṃ priyārtham mumūrṣavaḥ pāṇḍavāgnau pradīpte; samānītā dhārtarāṣṭreṇa sūta 9 yathānyāyaṃ kauśalaṃ vandanaṃ ca; samāgatā madvacanena vācyāḥ idaṃ brūyāḥ saṃjaya rājamadhye; suyodhanaṃ pāpakṛtāṃ pradhānam 10 amarṣaṇaṃ durmatiṃ rājaputraṃ; pāpātmānaṃ dhārtarāṣṭraṃ sulubdham sarvaṃ mamaitad vacanaṃ samagraṃ; sahāmātyaṃ saṃjaya śrāvayethāḥ 11 evaṃ pratiṣṭhāpya dhanaṃjayo māṃ; tato 'rthavad dharmavac cāpi vākyam provācedaṃ vāsudevaṃ samīkṣya; pārtho dhīmāṁl lohitāntāyatākṣaḥ 12 yathā śrutaṃ te vadato mahātmano; madhu pravīrasya vacaḥ samāhitam tathaiva vācyaṃ bhavatā hi madvacaḥ; samāgateṣu kṣitipeṣu sarvaśaḥ 13 śarāgnidhūme rathanemi nādite; dhanuḥ sruveṇāstra balāpahāriṇā yathā na homaḥ kriyate mahāmṛdhe; tathā sametya prayatadhvam ādṛtāḥ 14 na cet prayacchadhvam amitraghātino; yudhiṣṭhirasyāṃśam abhīpsitaṃ svakam nayāmi vaḥ svāśvapadātikuñjarān; diśaṃ pitṝṇām aśivāṃ śitaiḥ śaraiḥ 15 tato 'ham āmantrya caturbhujaṃ hariṃ; dhanaṃjayaṃ caiva namasya sa tvaraḥ javena saṃprāpta ihāmara dyute; tavāntikaṃ prāpayituṃ vaco mahat |
The Mahabharata in Sanskrit
Book 5
Chapter 65
|
1
[व] दुर्यॊधने धार्तराष्ट्रे तद वचॊ ऽपरतिनन्दति तूष्णींभूतेषु सर्वेषु समुत्तस्थुर नरेश्वराः 2 उत्थितेषु महाराज पृथिव्यां सर्वराजसु रहिते संजयं राजा परिप्रष्टुं परचक्रमे 3 आशंसमानॊ विजयं तेषां पुत्र वशानुगाः आत्मनश च परेषां च पाण्डवानां च निश्चयम 4 गावल्गणे बरूहि नः सारफल्गु; सवसेनायां यावद इहास्ति किं चित तवं पाण्डवानां निपुणं वेत्थ सर्वं; किम एषां जयायः किम उ तेषां कनीयः 5 तवम एतयॊः सारवित सर्वदर्शी; धर्मार्थयॊर निपुणॊ निश्चयज्ञः स मे पृष्टः संजय बरूहि सर्वं; युध्यमानाः कतरे ऽसमिन न सन्ति 6 न तवां बरूयां रहिते जातु किं चिद; असूया हि तवां परसहेत राजन आनयस्व पितरं संशितव्रतं; गांधारीं च महिषीम आजमीढ 7 तौ ते ऽसुयां विनयेतां नरेन्द्र; धर्मज्ञौ तौ निपुणौ निश्चयज्ञौ तयॊस तु तवां संमिधौ तद वदेयं; कृत्स्नं मतं वासुदेवार्जुनाभ्याम 8 ततस तन मतम आज्ञाय संजयस्यात्मजस्य च अभ्युपेत्य महाप्राज्ञः कृष्णद्वैपायनॊ ऽबरवीत 9 संपृच्छते धृतराष्ट्राय संजय; आचक्ष्व सर्वं यावद एषॊ ऽनुयुङ्क्ते सर्वं यावद वेत्थ तस्मिन यथावद; याथातथ्यं वासुदेवे ऽरजुने च |
1
[v] duryodhane dhārtarāṣṭre tad vaco 'pratinandati tūṣṇīṃbhūteṣu sarveṣu samuttasthur nareśvarāḥ 2 utthiteṣu mahārāja pṛthivyāṃ sarvarājasu rahite saṃjayaṃ rājā paripraṣṭuṃ pracakrame 3 āśaṃsamāno vijayaṃ teṣāṃ putra vaśānugāḥ ātmanaś ca pareṣāṃ ca pāṇḍavānāṃ ca niścayam 4 gāvalgaṇe brūhi naḥ sāraphalgu; svasenāyāṃ yāvad ihāsti kiṃ cit tvaṃ pāṇḍavānāṃ nipuṇaṃ vettha sarvaṃ; kim eṣāṃ jyāyaḥ kim u teṣāṃ kanīyaḥ 5 tvam etayoḥ sāravit sarvadarśī; dharmārthayor nipuṇo niścayajñaḥ sa me pṛṣṭaḥ saṃjaya brūhi sarvaṃ; yudhyamānāḥ katare 'smin na santi 6 na tvāṃ brūyāṃ rahite jātu kiṃ cid; asūyā hi tvāṃ prasaheta rājan ānayasva pitaraṃ saṃśitavrataṃ; gāṃdhārīṃ ca mahiṣīm ājamīḍha 7 tau te 'suyāṃ vinayetāṃ narendra; dharmajñau tau nipuṇau niścayajñau tayos tu tvāṃ saṃmidhau tad vadeyaṃ; kṛtsnaṃ mataṃ vāsudevārjunābhyām 8 tatas tan matam ājñāya saṃjayasyātmajasya ca abhyupetya mahāprājñaḥ kṛṣṇadvaipāyano 'bravīt 9 saṃpṛcchate dhṛtarāṣṭrāya saṃjaya; ācakṣva sarvaṃ yāvad eṣo 'nuyuṅkte sarvaṃ yāvad vettha tasmin yathāvad; yāthātathyaṃ vāsudeve 'rjune ca |
The Mahabharata in Sanskrit
Book 5
Chapter 66
|
1
[स] अर्जुनॊ वासुदेवश च धन्विनौ परमार्चितौ कामाद अन्यत्र संभूतौ सर्वाभावाय संमितौ 2 दयाम अन्तरं समास्थाय यथा युक्तं मनस्विनः चक्रं तद वासुदेवस्य मायया वर्तते विभॊ 3 सापह्नवं पाण्डवेषु पाण्डवानां सुसंमतम सारासार बलं जञात्वा तत समासेन मे शृणु 4 नरकं शम्बरं चैव कंसं चैद्यं च माधवः जितवान घॊरसंकाशान करीडन्न इव जनार्दनः 5 पृथिवीं चान्तरिक्षं च दयां चैव पुरुषॊत्तमः मनसैव विशिष्टात्मा नयत्य आत्मवशं वशी 6 भूयॊ भूयॊ हि यद राजन पृच्छसे पाण्डवान परति सारासार बलं जञातुं तन मे निगदतः शृणु 7 एकतॊ वा जगत कृत्स्नम एकतॊ वा जनार्दनः सारतॊ जगतः कृत्स्नाद अतिरिक्तॊ जनार्दनः 8 भस्म कुर्याज जगद इदं मनसैव जनार्दनः न तु कृत्स्नं जगच छक्तं भस्म कर्तुं जनार्दनम 9 यतः सत्यं यतॊ धर्मॊ यतॊ हरीर आर्जवं यतः ततॊ भवति गॊविन्दॊ यतः कृष्णस ततॊ जयः 10 पृथिवीं चान्तरिक्षं च दिवं च पुरुषॊत्तमः विचेष्टयति भूतात्मा करीडन्न इव जनार्दनः 11 स कृत्वा पाण्डवान सत्रं लॊकं संमॊहयन्न इव अधर्मनिरतान मूढान दग्धुम इच्छति ते सुतान 12 कालचक्रं जगच चक्रं युगचक्रं च केशवः आत्मयॊगेन भगवान परिवर्तयते ऽनिशम 13 कालस्य च हि मृत्यॊश च जङ्गम सथावरस्य च ईशते भगवान एकः सत्यम एतद बरवीमि ते 14 ईशन्न अपि महायॊगी सर्वस्य जगतॊ हरिः कर्माण्य आरभते कर्तुं कीनाश इव दुर्बलः 15 तेन वञ्चयते लॊकान मायायॊगेन केशवः ये तम एव परपद्यन्ते न ते मुह्यन्ति मानवाः |
1
[s] arjuno vāsudevaś ca dhanvinau paramārcitau kāmād anyatra saṃbhūtau sarvābhāvāya saṃmitau 2 dyām antaraṃ samāsthāya yathā yuktaṃ manasvinaḥ cakraṃ tad vāsudevasya māyayā vartate vibho 3 sāpahnavaṃ pāṇḍaveṣu pāṇḍavānāṃ susaṃmatam sārāsāra balaṃ jñātvā tat samāsena me śṛṇu 4 narakaṃ śambaraṃ caiva kaṃsaṃ caidyaṃ ca mādhavaḥ jitavān ghorasaṃkāśān krīḍann iva janārdanaḥ 5 pṛthivīṃ cāntarikṣaṃ ca dyāṃ caiva puruṣottamaḥ manasaiva viśiṣṭātmā nayaty ātmavaśaṃ vaśī 6 bhūyo bhūyo hi yad rājan pṛcchase pāṇḍavān prati sārāsāra balaṃ jñātuṃ tan me nigadataḥ śṛṇu 7 ekato vā jagat kṛtsnam ekato vā janārdanaḥ sārato jagataḥ kṛtsnād atirikto janārdanaḥ 8 bhasma kuryāj jagad idaṃ manasaiva janārdanaḥ na tu kṛtsnaṃ jagac chaktaṃ bhasma kartuṃ janārdanam 9 yataḥ satyaṃ yato dharmo yato hrīr ārjavaṃ yataḥ tato bhavati govindo yataḥ kṛṣṇas tato jayaḥ 10 pṛthivīṃ cāntarikṣaṃ ca divaṃ ca puruṣottamaḥ viceṣṭayati bhūtātmā krīḍann iva janārdanaḥ 11 sa kṛtvā pāṇḍavān satraṃ lokaṃ saṃmohayann iva adharmaniratān mūḍhān dagdhum icchati te sutān 12 kālacakraṃ jagac cakraṃ yugacakraṃ ca keśavaḥ ātmayogena bhagavān parivartayate 'niśam 13 kālasya ca hi mṛtyoś ca jaṅgama sthāvarasya ca īśate bhagavān ekaḥ satyam etad bravīmi te 14 īśann api mahāyogī sarvasya jagato hariḥ karmāṇy ārabhate kartuṃ kīnāśa iva durbalaḥ 15 tena vañcayate lokān māyāyogena keśavaḥ ye tam eva prapadyante na te muhyanti mānavāḥ |
The Mahabharata in Sanskrit
Book 5
Chapter 67
|
1
[धृ] कथं तवं माधवं वेत्थ सर्वलॊकमहेश्वरम कथम एनं न वेदाहं तन ममाचक्ष्व संजय 2 विद्या राजन न ते विद्या मम विद्या न हीयते विद्या हीनस तमॊ धवस्तॊ नाभिजानाति केशवम 3 विद्यया तात जानामि तरियुगं मधुसूदनम कर्तारम अकृतं देवं भूतानां परभवाप्ययम 4 गावल्गणे ऽतर का भक्तिर या ते नित्या जनार्दने यया तवम अभिजानासि तरियुगं मधुसूदनम 5 मायां न सेवे भद्रं ते न वृथाधर्मम आचरे शुद्धभावं गतॊ भक्त्या शास्त्राद वेद्मि जनार्दनम 6 दुर्यॊधन हृषीकेशं परपद्यस्व जनार्दनम आप्तॊ नः संजयस तात शरणं गच्छ केशवम 7 भगवान देवकीपुत्रॊ लॊकं चेन निहनिष्यति परवदन्न अर्जुने सख्यं नाहं गच्छे ऽदय केशवम 8 [तढृ] अवाग गान्धारि पुत्रास ते गच्छत्य एष सुदुर्मतिः ईर्ष्युर दुरात्मा मानी च शरेयसां वचनातिगः 9 [ग] ऐश्वर्यकामदुष्टात्मन वृद्धानां शासनातिग ऐश्वर्यजीविते हित्वा पितरं मां च बालिश 10 वर्धयन दुर्हृदां परीतिं मां च शॊकेन वर्धयन निहतॊ भीमसेनेन समर्तासि वचनं पितुः 11 दयितॊ ऽसि राजन कृष्णस्य धृतराष्ट्र निबॊध मे यस्य ते संजयॊ दूतॊ यस तवां शरेयसि यॊक्ष्यते 12 जानात्य एष हृषीकेशं पुराणं यच च वै नवम शुश्रूषमाणम एकाग्रं मॊक्ष्यते महतॊ भयात 13 वैचित्रवीर्य पुरुषाः करॊधहर्षतमॊ वृताः सिता बहुविधैः पाशैर ये न तुष्टाः सवकैर धनैः 14 यमस्य वशम आयान्ति काममूढाः पुनः पुनः अन्धनेत्रा यथैवान्धा नीयमानाः सवकर्मभिः 15 एष एकायनः पन्था येन यान्ति मनीषिणः तं दृष्ट्वा मृत्युम अत्येति महांस तत्र न सज्जते 16 अङ्गसंजय मे शंस पन्थानम अकुतॊभयम येन गत्वा हृषीकेशं पराप्नुयां शान्तिम उत्तमाम 17 नाकृतात्मा कृतात्मानं जातु विद्याज जनार्दनम आत्मनस तु करियॊपायॊ नान्यत्रेन्द्रिय निग्रहात 18 इन्द्रियाणाम उदीर्णानां कामत्यागॊ ऽपरमादतः अप्रमादॊ ऽविहिंसा च जञानयॊनिर असंशयम 19 इन्द्रियाणां यमे यत्तॊ भव राजन्न अतन्द्रितः बुद्धिश च मा ते चयवतु नियच्छैतां यतस ततः 20 एतज जञानं विदुर विप्रा धरुवम इन्द्रियधारणम एतज जञानं च पन्थाश च येन यान्ति मनीषिणः 21 अप्राप्यः केशवॊ राजन्न इन्द्रियौर अजितैर नृभिः आगमाधिगतॊ यॊगाद वशीतत्त्वे परसीदति |
1
[dhṛ] kathaṃ tvaṃ mādhavaṃ vettha sarvalokamaheśvaram katham enaṃ na vedāhaṃ tan mamācakṣva saṃjaya 2 vidyā rājan na te vidyā mama vidyā na hīyate vidyā hīnas tamo dhvasto nābhijānāti keśavam 3 vidyayā tāta jānāmi triyugaṃ madhusūdanam kartāram akṛtaṃ devaṃ bhūtānāṃ prabhavāpyayam 4 gāvalgaṇe 'tra kā bhaktir yā te nityā janārdane yayā tvam abhijānāsi triyugaṃ madhusūdanam 5 māyāṃ na seve bhadraṃ te na vṛthādharmam ācare śuddhabhāvaṃ gato bhaktyā śāstrād vedmi janārdanam 6 duryodhana hṛṣīkeśaṃ prapadyasva janārdanam āpto naḥ saṃjayas tāta śaraṇaṃ gaccha keśavam 7 bhagavān devakīputro lokaṃ cen nihaniṣyati pravadann arjune sakhyaṃ nāhaṃ gacche 'dya keśavam 8 [tḍhṛ] avāg gāndhāri putrās te gacchaty eṣa sudurmatiḥ īrṣyur durātmā mānī ca śreyasāṃ vacanātigaḥ 9 [g] aiśvaryakāmaduṣṭātman vṛddhānāṃ śāsanātiga aiśvaryajīvite hitvā pitaraṃ māṃ ca bāliśa 10 vardhayan durhṛdāṃ prītiṃ māṃ ca śokena vardhayan nihato bhīmasenena smartāsi vacanaṃ pituḥ 11 dayito 'si rājan kṛṣṇasya dhṛtarāṣṭra nibodha me yasya te saṃjayo dūto yas tvāṃ śreyasi yokṣyate 12 jānāty eṣa hṛṣīkeśaṃ purāṇaṃ yac ca vai navam śuśrūṣamāṇam ekāgraṃ mokṣyate mahato bhayāt 13 vaicitravīrya puruṣāḥ krodhaharṣatamo vṛtāḥ sitā bahuvidhaiḥ pāśair ye na tuṣṭāḥ svakair dhanaiḥ 14 yamasya vaśam āyānti kāmamūḍhāḥ punaḥ punaḥ andhanetrā yathaivāndhā nīyamānāḥ svakarmabhiḥ 15 eṣa ekāyanaḥ panthā yena yānti manīṣiṇaḥ taṃ dṛṣṭvā mṛtyum atyeti mahāṃs tatra na sajjate 16 aṅgasaṃjaya me śaṃsa panthānam akutobhayam yena gatvā hṛṣīkeśaṃ prāpnuyāṃ śāntim uttamām 17 nākṛtātmā kṛtātmānaṃ jātu vidyāj janārdanam ātmanas tu kriyopāyo nānyatrendriya nigrahāt 18 indriyāṇām udīrṇānāṃ kāmatyāgo 'pramādataḥ apramādo 'vihiṃsā ca jñānayonir asaṃśayam 19 indriyāṇāṃ yame yatto bhava rājann atandritaḥ buddhiś ca mā te cyavatu niyacchaitāṃ yatas tataḥ 20 etaj jñānaṃ vidur viprā dhruvam indriyadhāraṇam etaj jñānaṃ ca panthāś ca yena yānti manīṣiṇaḥ 21 aprāpyaḥ keśavo rājann indriyaur ajitair nṛbhiḥ āgamādhigato yogād vaśītattve prasīdati |
The Mahabharata in Sanskrit
Book 5
Chapter 68
|
1
[धृ] भूयॊ मे पुण्डरीकाक्षं संजयाचक्ष्व पृच्छते नाम कर्मार्थवित तात पराप्नुयां पुरुषॊत्तमम 2 शरुतं मे तस्य देवस्य नाम निर्वचनं शुभम यावत तत्राभिजाने ऽहम अप्रमेयॊ हि केशवः 3 वसनात सर्वभूतानां वसुत्वाद देव यॊनितः वासुदेवस ततॊ वेद्यॊ वृषत्वाद वृष्णिर उच्यते 4 मौनाद धयानाच च यॊगाच च विद्धि भारत माधवम सर्वतत्त्वलयाच चैव मधुहा मधुसूदनः 5 कृषिर भूवाचकः शब्दॊ णश च निर्वृति वाचकः कृष्णस तद्भावयॊगाच च कृष्णॊ भवति शाश्वतः 6 पुण्डरीकं परं धाम नित्यम अक्षयम अक्षरम तद्भावात पुण्डरीकाक्षॊ दस्यु तरासाज जनार्दनः 7 यतः सत्त्वं न चयवते यच च सत्त्वान न हीयते सत्त्वतः सात्वतस तस्माद अर्षभाद वृषभेक्षणः 8 न जायते जनित्र्यां यद अजस तस्माद अनीकजित देवानां सवप्रकाशत्वाद दमाद दामॊदरं विदुः 9 हर्षात सौख्यात सुखैश्वर्याद धृषीकेशत्वम अश्नुते बाहुभ्यां रॊदसी बिभ्रन महाबाहुर इति समृतः 10 अधॊ न कषीयते जातु यस्मात तस्माद अधॊक्षजः नराणाम अयनाच चापि तेन नारायणः समृतः पूरणात सदनाच चैव ततॊ ऽसौ पुरुषॊत्तमः 11 असतश च सतश चैव सर्वस्य परभवाप्ययात सर्वस्य च सदा जञानात सर्वम एनं परचक्षते 12 सत्ये परतिष्ठितः कृष्णः सत्यम अत्र परतिष्ठितम सत्यात सत्यं च गॊविन्दस तस्मात सत्यॊ ऽपि नामतः 13 विष्णुर विक्रमणाद एव जयनाज जिष्णुर उच्यते शाश्वतत्वाद अनन्तश च गॊविन्दॊ वेदनाद गवाम 14 अतत्त्वं कुरुते तत्त्वं तेन मॊहयते परजाः एवंविधॊ धर्मनित्यॊ भगवान मुनिभिः सह आगन्ता हिमहा बाहुर आनृशंस्यार्थम अच्युतः |
1
[dhṛ] bhūyo me puṇḍarīkākṣaṃ saṃjayācakṣva pṛcchate nāma karmārthavit tāta prāpnuyāṃ puruṣottamam 2 śrutaṃ me tasya devasya nāma nirvacanaṃ śubham yāvat tatrābhijāne 'ham aprameyo hi keśavaḥ 3 vasanāt sarvabhūtānāṃ vasutvād deva yonitaḥ vāsudevas tato vedyo vṛṣatvād vṛṣṇir ucyate 4 maunād dhyānāc ca yogāc ca viddhi bhārata mādhavam sarvatattvalayāc caiva madhuhā madhusūdanaḥ 5 kṛṣir bhūvācakaḥ śabdo ṇaś ca nirvṛti vācakaḥ kṛṣṇas tadbhāvayogāc ca kṛṣṇo bhavati śāśvataḥ 6 puṇḍarīkaṃ paraṃ dhāma nityam akṣayam akṣaram tadbhāvāt puṇḍarīkākṣo dasyu trāsāj janārdanaḥ 7 yataḥ sattvaṃ na cyavate yac ca sattvān na hīyate sattvataḥ sātvatas tasmād arṣabhād vṛṣabhekṣaṇaḥ 8 na jāyate janitryāṃ yad ajas tasmād anīkajit devānāṃ svaprakāśatvād damād dāmodaraṃ viduḥ 9 harṣāt saukhyāt sukhaiśvaryād dhṛṣīkeśatvam aśnute bāhubhyāṃ rodasī bibhran mahābāhur iti smṛtaḥ 10 adho na kṣīyate jātu yasmāt tasmād adhokṣajaḥ narāṇām ayanāc cāpi tena nārāyaṇaḥ smṛtaḥ pūraṇāt sadanāc caiva tato 'sau puruṣottamaḥ 11 asataś ca sataś caiva sarvasya prabhavāpyayāt sarvasya ca sadā jñānāt sarvam enaṃ pracakṣate 12 satye pratiṣṭhitaḥ kṛṣṇaḥ satyam atra pratiṣṭhitam satyāt satyaṃ ca govindas tasmāt satyo 'pi nāmataḥ 13 viṣṇur vikramaṇād eva jayanāj jiṣṇur ucyate śāśvatatvād anantaś ca govindo vedanād gavām 14 atattvaṃ kurute tattvaṃ tena mohayate prajāḥ evaṃvidho dharmanityo bhagavān munibhiḥ saha āgantā himahā bāhur ānṛśaṃsyārtham acyutaḥ |
The Mahabharata in Sanskrit
Book 5
Chapter 69
|
1
[धृ] चक्षुष्मतां वै सपृहयामि संजय; दरक्ष्यन्ति ये वासुदेवं समीपे विभ्राजमानं वपुषा परेण; परकाशयन्तं पर्दिशॊ दिशश च 2 ईरयन्तं भारतीं भारतानाम; अभ्यर्चनीयां शंकरीं सृञ्जयानाम बुभूषद्भिर गरहणीयाम अनिन्द्यां; परासूनाम अग्रहणीय रूपाम 3 समुद्यन्तं सात्वतम एकवीरं; परणेतारम ऋषभं यादवानाम निहन्तारं कषॊभणं शात्रवाणां; मुष्णन्तं च दविषतां वै यशांसि 4 दरष्टारॊ हि कुरवस तं समेता; महात्मानं शत्रुहणं वरेण्यम बरुवन्तं वाचम अनृशंस रूपां; वृष्णिश्रेष्ठं मॊहयन्तं मदीयान 5 ऋषिं सनातनतमं विपश्चितं; वाचः समुद्रं कलशं यतीनाम अरिष्टनेमिं गरुडं सुपर्णं; पतिं परजानां भुवनस्य धाम 6 सहस्रशीर्षं पुरुषं पुराणम; अनादिमध्यान्तम अनन्त कीर्तिम शुक्रस्य धातारम अजं जनित्रं; परं परेभ्यः शरणं परपद्ये 7 तरैलॊक्यनिर्माण करं जनित्रं; देवासुराणाम अथ नागरक्षसाम नराधिपानां विदुषां परधानम; इन्द्रानुजं तं शरणं परपद्ये |
1
[dhṛ] cakṣuṣmatāṃ vai spṛhayāmi saṃjaya; drakṣyanti ye vāsudevaṃ samīpe vibhrājamānaṃ vapuṣā pareṇa; prakāśayantaṃ pardiśo diśaś ca 2 īrayantaṃ bhāratīṃ bhāratānām; abhyarcanīyāṃ śaṃkarīṃ sṛñjayānām bubhūṣadbhir grahaṇīyām anindyāṃ; parāsūnām agrahaṇīya rūpām 3 samudyantaṃ sātvatam ekavīraṃ; praṇetāram ṛṣabhaṃ yādavānām nihantāraṃ kṣobhaṇaṃ śātravāṇāṃ; muṣṇantaṃ ca dviṣatāṃ vai yaśāṃsi 4 draṣṭāro hi kuravas taṃ sametā; mahātmānaṃ śatruhaṇaṃ vareṇyam bruvantaṃ vācam anṛśaṃsa rūpāṃ; vṛṣṇiśreṣṭhaṃ mohayantaṃ madīyān 5 ṛṣiṃ sanātanatamaṃ vipaścitaṃ; vācaḥ samudraṃ kalaśaṃ yatīnām ariṣṭanemiṃ garuḍaṃ suparṇaṃ; patiṃ prajānāṃ bhuvanasya dhāma 6 sahasraśīrṣaṃ puruṣaṃ purāṇam; anādimadhyāntam ananta kīrtim śukrasya dhātāram ajaṃ janitraṃ; paraṃ parebhyaḥ śaraṇaṃ prapadye 7 trailokyanirmāṇa karaṃ janitraṃ; devāsurāṇām atha nāgarakṣasām narādhipānāṃ viduṣāṃ pradhānam; indrānujaṃ taṃ śaraṇaṃ prapadye |
The Mahabharata in Sanskrit
Book 5
Chapter 70
|
1
[व] संजये परतियाते तु धर्मराजॊ युधिष्ठिरः अभ्यभाषत दाशार्हम ऋषभं सर्वसात्वताम 2 अयं स कालः संप्राप्तॊ मित्राणां मे जनार्दन न च तवदन्यं पश्यामि यॊ न आपत्सु तारयेत 3 तवां हि माधव संश्रित्य निर्भया मॊहदर्पितम धार्तराष्ट्रं सहामात्यं सवम अंशम अनुयुञ्ज्महे 4 यथा हि सर्वास्व आपत्सु पासि वृष्णीन अरिंदम तथा ते पाण्डवा रक्ष्याः पाह्य अस्मान महतॊ भयात 5 [भगवान] अयम अस्मि महाबाहॊ बरूहि यत ते विवक्षितम करिष्यामि हि तत सर्वं यत तवं वक्ष्यसि भारत 6 शरुतं ते धृतराष्ट्रस्य सपुत्रस्य चिकीर्षितम एतद धि सकलं कृष्ण संजयॊ मां यद अब्रवीत 7 तन मतं धृतराष्ट्रस्य सॊ ऽसयात्मा विवृतान्तरः यथॊक्तं दूत आचष्टे वध्यः सयाद अन्यथा बरुवन 8 अप्रदानेन राज्यस्य शान्तिम अस्मासु मार्गति लुब्धः पापेन मनसा चरन्न असमम आत्मनः 9 यत तद दवादश वर्षाणि वने निर्व्युषिता वयम छद्मना शरदं चैकां धृतराष्ट्रस्य शासनात 10 सथाता नः समये तस्मिन धृतराष्ट्र इति परभॊ नाहास्म समयं कृष्ण तद धि नॊ बराह्मणा विदुः 11 वृद्धॊ राजा धृतराष्ट्रः सवधर्मं नानुपश्यति पश्यन वा पुत्रगृद्धित्वान मन्दस्यान्वेति शासनम 12 सुयॊधन मते तिष्ठन राजास्मासु जनार्दन मिथ्या चरति लुब्धः संश चरन परियम इवात्मनः 13 इतॊ दुःखतरं किं नु यत्राहं मातरं ततः संविधातुं न शक्नॊमि मित्राणां वा जनार्दन 14 काशिभिश चेदिपाञ्चालैर मत्स्यैश च मधुसूदन भवता चैव नाथेन पञ्च गरामा वृता मया 15 कुश सथलं वृकस्थलम आसन्दी वारणावतम अवसानं च गॊविन्द किं चिद एवात्र पञ्चमम 16 पञ्च नस तात दीयन्तां गरामा वा नगराणि वा वसेम सहिता येषु मा च नॊ भरता नशन 17 न च तान अपि दुष्टात्मा धार्तराष्ट्रॊ ऽनुमन्यते सवाम्यम आत्मनि मत्वासाव अतॊ दुःखतरं नु किम 18 कुले जातस्य वृद्धस्य परवित्तेषु गृध्यतः लॊभः परज्ञानम आहन्ति परज्ञा हन्ति हता हरियम 19 हरीर हता बाधते धर्मं धर्मॊ हन्ति हतः शरियम शरीर हता पुरुषं हन्ति पुरुषस्यास्वता वधः 20 अस्वतॊ हि निवर्तन्ते जञातयः सुहृदर्त्विजः अपुष्पाद अफलाद वृक्षाद यथा तात पतत्रिणः 21 एतच च मरणं तात यद अस्मात पतिताद इव जञातयॊ विनिवर्तन्ते परेतसत्त्वाद इवासवः 22 नातः पापीयसीं कां चिद अवस्थां शम्बरॊ ऽबरवीत यत्र नैवाद्य न परातर भॊजनं पतिदृश्यते 23 धनम आहुः परं धर्मं धने सर्वं परतिष्ठितम जीवन्ति धनिनॊ लॊके मृता ये तव अधना नराः 24 ये धनाद अपकर्षन्ति नरं सवबलम आश्रिताः ते धर्मम अर्थं कामं च परमथ्नन्ति नरं च तम 25 एताम अवस्थां पराप्यैके मरणं वव्रिरे जनाः गरामायैके वनायैके नाशायैके पवव्रजुः 26 उन्मादम एके पुष्यन्ति यान्त्य अन्ये दविषतां वशम दास्यम एके निगच्छन्ति परेषाम अर्थहेतुना 27 आपद एवास्य मरणात पुरुषस्य गरीयसी शरियॊ विनाशस तद धयस्य निमित्तं धर्मकामयॊः 28 यद अस्य धर्म्यं मरणं शाश्वतं लॊकवर्त्म तत समन्तात सर्वभूतानां न तद अत्येति कश चन 29 न तथा बाध्यते कृष्ण परकृत्या निर्धनॊ जनः यथा भद्रां शरियं पराप्य तया हीनः सुखैधितः 30 स तदात्मापराधेन संप्राप्तॊ वयसनं महत सेन्द्रान गर्हयते देवान नात्मानं च कथं चन 31 न चास्मिन सर्वशास्त्राणि परतरन्ति निगर्हणाम सॊ ऽभिक्रुध्यति भृत्यानां सुहृदश चाभ्यसूयति 32 तं तदा मन्युर एवैति स भूयः संप्रमुह्यति स मॊहवशम आपन्नः करूरं कर्म निषेवते 33 पापकर्मात्ययायैव संकरं तेन पुष्यति संकरॊ नरकायैव सा काष्ठा पापकर्मणाम 34 न चेत परबुध्यते कृष्ण नरकायैव गच्छति तस्य परबॊधः परज्ञैव परज्ञा चक्षुर न रिष्यति 35 परज्ञा लाभे हि पुरुषः शास्त्राण्य एवान्ववेक्षते शास्त्रनित्यः पुनर धर्मं तस्य हरीर अङ्गम उत्तमम 36 हरीमान हि पापं परद्वेष्टि तस्य शरीर अभिवर्धते शरीमान स यावद भवति तावद भवति पूरुषः 37 धर्मनित्यः परशान्तात्मा कार्ययॊगवहः सदा नाधर्मे कुरुते बुद्धिं न च पापेषु वर्तते 38 अह्रीकॊ वा विमूढॊ वा नैव सत्री न पुनः पुमान नास्याधिकारॊ धर्मे ऽसति यथा शूद्रस तथैव सः 39 हरीमान अवति देवांश च पितॄन आत्मानम एव च तेनामृतत्वं वरजति सा काष्ठा पुण्यकर्मणाम 40 तद इदं मयि ते दृष्टं परत्यक्षं मधुसूदन यथा राज्यात परिभ्रष्टॊ वसामि वसतीर इमाः 41 ते वयं न शरियं हातुम अलं नयायेन केन चित अत्र नॊ यतमानानां वधश चेद अपि साधु तत 42 तत्र नः परथमः कल्पॊ यद वयं ते च माधव परशान्ताः समभूताश च शरियं तान अश्नुवीमहि 43 तत्रैषा परमा काष्ठा रौद्रकर्म कषयॊदया यद वयं हौरवान हत्वा तानि राष्ट्राण्य अशीमहि 44 ये पुनः सयुर असंबद्धा अनार्याः कृष्ण शत्रवः तेषाम अप्य अवधः कार्यः किं पुनर ये सयुर ईदृशाः 45 जञातयश च हि भूयिष्ठाः सहाया गुरवश च नः तेषां वधॊ ऽतिपापीयान किं नु युद्धे ऽसति शॊभनम 46 पापः कषत्रिय धर्मॊ ऽयं वयं च कषत्रबान्धवाः स नः सवधर्मॊ ऽधर्मॊ वा वृत्तिर अन्या विगर्हिता 47 शूद्रः करॊति शुश्रूषां वैश्या विपणि जीविनः वयं वधेन जीवामः कपालं बराह्मणैर वृतम 48 कषत्रियः कषत्रियं हन्ति मत्स्यॊ मत्स्येन जीवति शवा शवानं हन्ति दाशार्ह पश्य धर्मॊ यथागतः 49 युद्धे कृष्ण कलिर नित्यं पराणाः सीदन्ति संयुगे बलं तु नीतिमात्राय हठे जयपराजयौ 50 नात्मच छन्देन भूतानां जीवितं मरणं तथा नाप्य अकाले सुखं पराप्यं दुःखं वापि यदूत्तम 51 एकॊ हय अपि बहून हन्ति घनन्त्य एकं बहवॊ ऽपय उत शूरं कापुरुषॊ हन्ति अयशस्वी यशस्विनम 52 जयश चैवॊभयॊर दृष्ट उभयॊश च पराजयः तथैवापचयॊ दृष्टॊ वयपयाने कषयव्ययौ 53 सर्वथा वृजिनं युद्धं कॊ घनन न परतिहन्यते हतस्य च हृषीकेश समौ जयपराजयौ 54 पराजयश च मरणान मन्ये नैव विशिष्यते यस्य सयाद विजयः कृष्ण तस्याप्य अपचयॊ धरुवम 55 अन्ततॊ दयितं घनन्ति के चिद अप्य अपरे जनाः तस्याङ्गबलहीनस्य पुत्रान भरातॄन अपश्यतः निर्वेदॊ जीविते कृष्ण सर्वतश चॊपजायते 56 ये हय एव वीरा हरीमन्त आर्याः करुणवेदिनः त एव युद्धे हन्यन्ते यवीयान मुच्यते जनः 57 हत्वाप्य अनुशयॊ नित्यं परान अपि जनार्दन अनुबन्धश च पापॊ ऽतर शेषश चाप्य अवशिष्यते 58 शेषे हि बलम आसाद्य न शेषम अवषेषयेत सर्वॊच्छेदे च यतते वैरस्यान्त विधित्सया 59 जयॊ वैरं परसृजति दुःखम आस्ते पराजितः सुखं परशान्तः सवपिति हित्वा जयपराजयौ 60 जातवैरश च पुरुषॊ दुःखं सवपिति नित्यदा अनिर्वृतेन मनसा स सर्प इव वेश्मनि 61 उत्सादयति यः सर्वं यशसा स वियुज्यते अकीर्तिं सर्वभूतेषु शाश्वतीं स नियच्छति 62 न हि वैराणि शाम्यन्ति दीर्घकालकृतान्य अपि आख्यातारश च विद्यन्ते पुमांश चॊत्पद्यते कुले 63 न चापि वैरं वैरेण केशव वयुपशाम्यति हविषाग्निर यथा कृष्ण भूय एवाभिवर्धते 64 अतॊ ऽनयथा नास्ति शान्तिर नित्यम अन्तरम अन्ततः अन्तरं लिप्समानानाम अयं दॊषॊ निरन्तरः 65 पौरुषेयॊ हि बलवान आधिर हृदयबाधनः तस्य तयागेन वा शान्तिर निवृत्त्या मनसॊ ऽपि वा 66 अथ वा मूलघातेन दविषतां मधुसूदन फलनिर्वृत्तिर इद्धा सयात तन नृशंसतरं भवेत 67 या तु तयागेन शान्तिः सयात तद ऋते वध एव सः संशयाच च समुच्छेदाद दविषताम आत्मनस तथा 68 न च तयक्तुं तद इच्छामॊ न चेच्छामः कुलक्षयम अत्र या परणिपातेन शान्तिः सैव गरीयसी 69 सर्वथा यतमानानाम अयुद्धम अभिकाङ्क्षताम सान्त्वे परतिहते युद्धं परसिद्धम अपराक्रमम 70 परतिघातेन सान्त्वस्य दारुणं संप्रवर्तते तच छुनाम इव गॊपादे पण्डितैर उपलक्षितम 71 लाङ्गूलचालनं कष्वेडः परतिरावॊ विवर्तनम दन्तदर्शनम आरावस ततॊ युद्धं परवर्तते 72 तत्र यॊ बलवान कृष्ण जित्वा सॊ ऽतति तद आमिषम एवम एव मनुष्येषु विशेषॊ नास्ति कश चन 73 सर्वथा तव एतद उचितं दुर्बलेषु बलीयसाम अनादरॊ विरॊधश च परणिपाती हि दुर्बलः 74 पिता राजा च वृद्धश च सर्वथा मानम अर्हति तस्मान मान्यश च पूज्यश च धृतराष्ट्रॊ जनार्दन 75 पुत्रस्नेहस तु बलवान धृतराष्ट्रस्य माधव सपुत्रवशम आपन्नः परणिपातं परहास्यति 76 तत्र किं मन्यसे कृष्ण पराप्तकालम अनन्तरम कथम अर्थाच च धर्माच च न हीयेमहि माधव 77 ईदृशे हय अर्थकृच्छ्रे ऽसमिन कम अन्यं मधुसूदन उपसंप्रष्टुम अर्हामि तवाम ऋते पुरुषॊत्तम 78 परियश च परियकामश च गतिज्ञः सर्वकर्मणाम कॊ हि कृष्णास्ति नस तवादृक सर्वनिश्चयवित सुहृत 79 एवम उक्तः परत्युवाच धर्मराजं जनार्दनः उभयॊर एव वाम अर्थे यास्यामि कुरुसंसदम 80 शमं तत्र लभेयं चेद युष्मदर्थम अहापयन पुण्यं मे सुमहद राजंश चरितं सयान महाफलम 81 मॊचयेयं मृत्युपाशात संरब्धान कुरुसृञ्जयान पाण्डवान धार्तराष्ट्रांश च सर्वां च पृथिवीम इमाम 82 न ममैतन मतं कृष्ण यत तवं यायाः कुरून परति सुयॊधनः सूक्तम अपि न करिष्यति ते वचः 83 समेतं पार्थिवं कषत्रं सुयॊधन वशानुगम तेषां मध्यावतरणं तव कृष्ण न रॊचये 84 न हि नः परीणयेद दरव्यं न देवत्वं कुतः सुखम न च सर्वामरैश्वर्यं तव रॊधेन माधव 85 [भगवान] जानाम्य एतां महाराज धार्तराष्ट्रस्य पापताम अवाच्यास तु भविष्यामः सर्वलॊके महीक्षिताम 86 न चापि मम पर्याप्ताः सहिताः सर्वपार्थिवाः करुद्धस्य परमुखे सथातुं सिंहस्येवेतरे मृगाः 87 अथ चेत ते परवर्तेरन मयि किं चिद असांप्रतम निर्दहेयं कुरून सर्वान इति मे धीयते मतिः 88 न जातु गमनं तत्र भवेत पार्थ निरर्थकम अर्थप्राप्तिः कदा चित सयाद अन्ततॊ वाप्य अवाच्यता 89 यत तुभ्यं रॊचते कृष्ण सवस्ति पराप्नुहि कौरवान कृतार्थं सवस्तिमन्तं तवां दरक्ष्यामि पुनरागतम 90 विष्वक्सेन कुरून गत्वा भारताञ शमयेः परभॊ यथा सर्वे सुमनसः सह सयामः सुचेतसः 91 भराता चासि सखा चासि बीभत्सॊर मम च परियः सौहृदेनाविशङ्क्यॊ ऽसि सवस्ति पराप्नुहि भूतये 92 अस्मान वेत्थ परान वेत्थ वेत्थार्थं वेत्थ भाषितम यद यद अस्मद्धितं कृष्ण तत तद वाच्यः सुयॊधनः 93 यद यद धर्मेण संयुक्तम उपपद्येद धितं वचः तत तत केशव भाषेथाः सान्त्वं वा यदि वेतरत |
1
[v] saṃjaye pratiyāte tu dharmarājo yudhiṣṭhiraḥ abhyabhāṣata dāśārham ṛṣabhaṃ sarvasātvatām 2 ayaṃ sa kālaḥ saṃprāpto mitrāṇāṃ me janārdana na ca tvadanyaṃ paśyāmi yo na āpatsu tārayet 3 tvāṃ hi mādhava saṃśritya nirbhayā mohadarpitam dhārtarāṣṭraṃ sahāmātyaṃ svam aṃśam anuyuñjmahe 4 yathā hi sarvāsv āpatsu pāsi vṛṣṇīn ariṃdama tathā te pāṇḍavā rakṣyāḥ pāhy asmān mahato bhayāt 5 [bhagavān] ayam asmi mahābāho brūhi yat te vivakṣitam kariṣyāmi hi tat sarvaṃ yat tvaṃ vakṣyasi bhārata 6 śrutaṃ te dhṛtarāṣṭrasya saputrasya cikīrṣitam etad dhi sakalaṃ kṛṣṇa saṃjayo māṃ yad abravīt 7 tan mataṃ dhṛtarāṣṭrasya so 'syātmā vivṛtāntaraḥ yathoktaṃ dūta ācaṣṭe vadhyaḥ syād anyathā bruvan 8 apradānena rājyasya śāntim asmāsu mārgati lubdhaḥ pāpena manasā carann asamam ātmanaḥ 9 yat tad dvādaśa varṣāṇi vane nirvyuṣitā vayam chadmanā śaradaṃ caikāṃ dhṛtarāṣṭrasya śāsanāt 10 sthātā naḥ samaye tasmin dhṛtarāṣṭra iti prabho nāhāsma samayaṃ kṛṣṇa tad dhi no brāhmaṇā viduḥ 11 vṛddho rājā dhṛtarāṣṭraḥ svadharmaṃ nānupaśyati paśyan vā putragṛddhitvān mandasyānveti śāsanam 12 suyodhana mate tiṣṭhan rājāsmāsu janārdana mithyā carati lubdhaḥ saṃś caran priyam ivātmanaḥ 13 ito duḥkhataraṃ kiṃ nu yatrāhaṃ mātaraṃ tataḥ saṃvidhātuṃ na śaknomi mitrāṇāṃ vā janārdana 14 kāśibhiś cedipāñcālair matsyaiś ca madhusūdana bhavatā caiva nāthena pañca grāmā vṛtā mayā 15 kuśa sthalaṃ vṛkasthalam āsandī vāraṇāvatam avasānaṃ ca govinda kiṃ cid evātra pañcamam 16 pañca nas tāta dīyantāṃ grāmā vā nagarāṇi vā vasema sahitā yeṣu mā ca no bharatā naśan 17 na ca tān api duṣṭātmā dhārtarāṣṭro 'numanyate svāmyam ātmani matvāsāv ato duḥkhataraṃ nu kim 18 kule jātasya vṛddhasya paravitteṣu gṛdhyataḥ lobhaḥ prajñānam āhanti prajñā hanti hatā hriyam 19 hrīr hatā bādhate dharmaṃ dharmo hanti hataḥ śriyam śrīr hatā puruṣaṃ hanti puruṣasyāsvatā vadhaḥ 20 asvato hi nivartante jñātayaḥ suhṛdartvijaḥ apuṣpād aphalād vṛkṣād yathā tāta patatriṇaḥ 21 etac ca maraṇaṃ tāta yad asmāt patitād iva jñātayo vinivartante pretasattvād ivāsavaḥ 22 nātaḥ pāpīyasīṃ kāṃ cid avasthāṃ śambaro 'bravīt yatra naivādya na prātar bhojanaṃ patidṛśyate 23 dhanam āhuḥ paraṃ dharmaṃ dhane sarvaṃ pratiṣṭhitam jīvanti dhanino loke mṛtā ye tv adhanā narāḥ 24 ye dhanād apakarṣanti naraṃ svabalam āśritāḥ te dharmam arthaṃ kāmaṃ ca pramathnanti naraṃ ca tam 25 etām avasthāṃ prāpyaike maraṇaṃ vavrire janāḥ grāmāyaike vanāyaike nāśāyaike pavavrajuḥ 26 unmādam eke puṣyanti yānty anye dviṣatāṃ vaśam dāsyam eke nigacchanti pareṣām arthahetunā 27 āpad evāsya maraṇāt puruṣasya garīyasī śriyo vināśas tad dhyasya nimittaṃ dharmakāmayoḥ 28 yad asya dharmyaṃ maraṇaṃ śāśvataṃ lokavartma tat samantāt sarvabhūtānāṃ na tad atyeti kaś cana 29 na tathā bādhyate kṛṣṇa prakṛtyā nirdhano janaḥ yathā bhadrāṃ śriyaṃ prāpya tayā hīnaḥ sukhaidhitaḥ 30 sa tadātmāparādhena saṃprāpto vyasanaṃ mahat sendrān garhayate devān nātmānaṃ ca kathaṃ cana 31 na cāsmin sarvaśāstrāṇi prataranti nigarhaṇām so 'bhikrudhyati bhṛtyānāṃ suhṛdaś cābhyasūyati 32 taṃ tadā manyur evaiti sa bhūyaḥ saṃpramuhyati sa mohavaśam āpannaḥ krūraṃ karma niṣevate 33 pāpakarmātyayāyaiva saṃkaraṃ tena puṣyati saṃkaro narakāyaiva sā kāṣṭhā pāpakarmaṇām 34 na cet prabudhyate kṛṣṇa narakāyaiva gacchati tasya prabodhaḥ prajñaiva prajñā cakṣur na riṣyati 35 prajñā lābhe hi puruṣaḥ śāstrāṇy evānvavekṣate śāstranityaḥ punar dharmaṃ tasya hrīr aṅgam uttamam 36 hrīmān hi pāpaṃ pradveṣṭi tasya śrīr abhivardhate śrīmān sa yāvad bhavati tāvad bhavati pūruṣaḥ 37 dharmanityaḥ praśāntātmā kāryayogavahaḥ sadā nādharme kurute buddhiṃ na ca pāpeṣu vartate 38 ahrīko vā vimūḍho vā naiva strī na punaḥ pumān nāsyādhikāro dharme 'sti yathā śūdras tathaiva saḥ 39 hrīmān avati devāṃś ca pitṝn ātmānam eva ca tenāmṛtatvaṃ vrajati sā kāṣṭhā puṇyakarmaṇām 40 tad idaṃ mayi te dṛṣṭaṃ pratyakṣaṃ madhusūdana yathā rājyāt paribhraṣṭo vasāmi vasatīr imāḥ 41 te vayaṃ na śriyaṃ hātum alaṃ nyāyena kena cit atra no yatamānānāṃ vadhaś ced api sādhu tat 42 tatra naḥ prathamaḥ kalpo yad vayaṃ te ca mādhava praśāntāḥ samabhūtāś ca śriyaṃ tān aśnuvīmahi 43 tatraiṣā paramā kāṣṭhā raudrakarma kṣayodayā yad vayaṃ hauravān hatvā tāni rāṣṭrāṇy aśīmahi 44 ye punaḥ syur asaṃbaddhā anāryāḥ kṛṣṇa śatravaḥ teṣām apy avadhaḥ kāryaḥ kiṃ punar ye syur īdṛśāḥ 45 jñātayaś ca hi bhūyiṣṭhāḥ sahāyā guravaś ca naḥ teṣāṃ vadho 'tipāpīyān kiṃ nu yuddhe 'sti śobhanam 46 pāpaḥ kṣatriya dharmo 'yaṃ vayaṃ ca kṣatrabāndhavāḥ sa naḥ svadharmo 'dharmo vā vṛttir anyā vigarhitā 47 śūdraḥ karoti śuśrūṣāṃ vaiśyā vipaṇi jīvinaḥ vayaṃ vadhena jīvāmaḥ kapālaṃ brāhmaṇair vṛtam 48 kṣatriyaḥ kṣatriyaṃ hanti matsyo matsyena jīvati śvā śvānaṃ hanti dāśārha paśya dharmo yathāgataḥ 49 yuddhe kṛṣṇa kalir nityaṃ prāṇāḥ sīdanti saṃyuge balaṃ tu nītimātrāya haṭhe jayaparājayau 50 nātmac chandena bhūtānāṃ jīvitaṃ maraṇaṃ tathā nāpy akāle sukhaṃ prāpyaṃ duḥkhaṃ vāpi yadūttama 51 eko hy api bahūn hanti ghnanty ekaṃ bahavo 'py uta śūraṃ kāpuruṣo hanti ayaśasvī yaśasvinam 52 jayaś caivobhayor dṛṣṭa ubhayoś ca parājayaḥ tathaivāpacayo dṛṣṭo vyapayāne kṣayavyayau 53 sarvathā vṛjinaṃ yuddhaṃ ko ghnan na pratihanyate hatasya ca hṛṣīkeśa samau jayaparājayau 54 parājayaś ca maraṇān manye naiva viśiṣyate yasya syād vijayaḥ kṛṣṇa tasyāpy apacayo dhruvam 55 antato dayitaṃ ghnanti ke cid apy apare janāḥ tasyāṅgabalahīnasya putrān bhrātṝn apaśyataḥ nirvedo jīvite kṛṣṇa sarvataś copajāyate 56 ye hy eva vīrā hrīmanta āryāḥ karuṇavedinaḥ ta eva yuddhe hanyante yavīyān mucyate janaḥ 57 hatvāpy anuśayo nityaṃ parān api janārdana anubandhaś ca pāpo 'tra śeṣaś cāpy avaśiṣyate 58 śeṣe hi balam āsādya na śeṣam avaṣeṣayet sarvocchede ca yatate vairasyānta vidhitsayā 59 jayo vairaṃ prasṛjati duḥkham āste parājitaḥ sukhaṃ praśāntaḥ svapiti hitvā jayaparājayau 60 jātavairaś ca puruṣo duḥkhaṃ svapiti nityadā anirvṛtena manasā sa sarpa iva veśmani 61 utsādayati yaḥ sarvaṃ yaśasā sa viyujyate akīrtiṃ sarvabhūteṣu śāśvatīṃ sa niyacchati 62 na hi vairāṇi śāmyanti dīrghakālakṛtāny api ākhyātāraś ca vidyante pumāṃś cotpadyate kule 63 na cāpi vairaṃ vaireṇa keśava vyupaśāmyati haviṣāgnir yathā kṛṣṇa bhūya evābhivardhate 64 ato 'nyathā nāsti śāntir nityam antaram antataḥ antaraṃ lipsamānānām ayaṃ doṣo nirantaraḥ 65 pauruṣeyo hi balavān ādhir hṛdayabādhanaḥ tasya tyāgena vā śāntir nivṛttyā manaso 'pi vā 66 atha vā mūlaghātena dviṣatāṃ madhusūdana phalanirvṛttir iddhā syāt tan nṛśaṃsataraṃ bhavet 67 yā tu tyāgena śāntiḥ syāt tad ṛte vadha eva saḥ saṃśayāc ca samucchedād dviṣatām ātmanas tathā 68 na ca tyaktuṃ tad icchāmo na cecchāmaḥ kulakṣayam atra yā praṇipātena śāntiḥ saiva garīyasī 69 sarvathā yatamānānām ayuddham abhikāṅkṣatām sāntve pratihate yuddhaṃ prasiddham aparākramam 70 pratighātena sāntvasya dāruṇaṃ saṃpravartate tac chunām iva gopāde paṇḍitair upalakṣitam 71 lāṅgūlacālanaṃ kṣveḍaḥ pratirāvo vivartanam dantadarśanam ārāvas tato yuddhaṃ pravartate 72 tatra yo balavān kṛṣṇa jitvā so 'tti tad āmiṣam evam eva manuṣyeṣu viśeṣo nāsti kaś cana 73 sarvathā tv etad ucitaṃ durbaleṣu balīyasām anādaro virodhaś ca praṇipātī hi durbalaḥ 74 pitā rājā ca vṛddhaś ca sarvathā mānam arhati tasmān mānyaś ca pūjyaś ca dhṛtarāṣṭro janārdana 75 putrasnehas tu balavān dhṛtarāṣṭrasya mādhava saputravaśam āpannaḥ praṇipātaṃ prahāsyati 76 tatra kiṃ manyase kṛṣṇa prāptakālam anantaram katham arthāc ca dharmāc ca na hīyemahi mādhava 77 īdṛśe hy arthakṛcchre 'smin kam anyaṃ madhusūdana upasaṃpraṣṭum arhāmi tvām ṛte puruṣottama 78 priyaś ca priyakāmaś ca gatijñaḥ sarvakarmaṇām ko hi kṛṣṇāsti nas tvādṛk sarvaniścayavit suhṛt 79 evam uktaḥ pratyuvāca dharmarājaṃ janārdanaḥ ubhayor eva vām arthe yāsyāmi kurusaṃsadam 80 śamaṃ tatra labheyaṃ ced yuṣmadartham ahāpayan puṇyaṃ me sumahad rājaṃś caritaṃ syān mahāphalam 81 mocayeyaṃ mṛtyupāśāt saṃrabdhān kurusṛñjayān pāṇḍavān dhārtarāṣṭrāṃś ca sarvāṃ ca pṛthivīm imām 82 na mamaitan mataṃ kṛṣṇa yat tvaṃ yāyāḥ kurūn prati suyodhanaḥ sūktam api na kariṣyati te vacaḥ 83 sametaṃ pārthivaṃ kṣatraṃ suyodhana vaśānugam teṣāṃ madhyāvataraṇaṃ tava kṛṣṇa na rocaye 84 na hi naḥ prīṇayed dravyaṃ na devatvaṃ kutaḥ sukham na ca sarvāmaraiśvaryaṃ tava rodhena mādhava 85 [bhagavān] jānāmy etāṃ mahārāja dhārtarāṣṭrasya pāpatām avācyās tu bhaviṣyāmaḥ sarvaloke mahīkṣitām 86 na cāpi mama paryāptāḥ sahitāḥ sarvapārthivāḥ kruddhasya pramukhe sthātuṃ siṃhasyevetare mṛgāḥ 87 atha cet te pravarteran mayi kiṃ cid asāṃpratam nirdaheyaṃ kurūn sarvān iti me dhīyate matiḥ 88 na jātu gamanaṃ tatra bhavet pārtha nirarthakam arthaprāptiḥ kadā cit syād antato vāpy avācyatā 89 yat tubhyaṃ rocate kṛṣṇa svasti prāpnuhi kauravān kṛtārthaṃ svastimantaṃ tvāṃ drakṣyāmi punarāgatam 90 viṣvaksena kurūn gatvā bhāratāñ śamayeḥ prabho yathā sarve sumanasaḥ saha syāmaḥ sucetasaḥ 91 bhrātā cāsi sakhā cāsi bībhatsor mama ca priyaḥ sauhṛdenāviśaṅkyo 'si svasti prāpnuhi bhūtaye 92 asmān vettha parān vettha vetthārthaṃ vettha bhāṣitam yad yad asmaddhitaṃ kṛṣṇa tat tad vācyaḥ suyodhanaḥ 93 yad yad dharmeṇa saṃyuktam upapadyed dhitaṃ vacaḥ tat tat keśava bhāṣethāḥ sāntvaṃ vā yadi vetarat |
The Mahabharata in Sanskrit
Book 5
Chapter 71
|
1
[भगवान] संजयस्य शरुतं वाक्यं भवतश च शरुतं मया सर्वं जानाम्य अभिप्रायं तेषां च भवतश च यः 2 तव धर्माश्रिता बुद्धिस तेषां वैराश्रिता मतिः यद अयुद्धेन लभ्येत तत ते बहुमतं भवेत 3 न च तन नैष्ठिकं कर्म कषत्रियस्य विशां पते आहुर आश्रमिणः सर्वे यद भैक्षं कषत्रियश चरेत 4 जयॊ वधॊ वा संग्रामे धात्रा दिष्टः सनातनः सवधर्मः कषत्रियस्यैष कार्पण्यं न परशस्यते 5 न हि कार्पण्यम आस्थाय शक्या वृत्तिर युधिष्ठिर विक्रमस्व महाबाहॊ जहि शत्रून अरिंदम 6 अतिगृद्धाः कृतस्नेहा दीर्घकालं सहॊषिताः कृतमित्राः कृतबला धार्तराष्ट्राः परंतप 7 न पर्यायॊ ऽसति यत साम्यं तवयि कुर्युर विशां पते बलवत्तां हि मन्यन्ते भीष्मद्रॊणकृपादिभिः 8 यावच च मार्दवेनैतान राजन्न उपचरिष्यसि तावद एते हरिष्यन्ति तव राज्यम अरिंदम 9 नानुक्रॊशान न कार्पण्यान न च धर्मार्थकारणात अलं कर्तुं धारराष्ट्रास तव कामम अरिंदम 10 एतद एव निमित्तं ते पाण्डवास तु यथा तवयि नान्वतप्यन्त कौपीनं तावत कृत्वापि दुष्करम 11 पितामहस्य दरॊणस्य विदुरस्य च धीमतः पश्यतां कुरुमुख्यानां सर्वेषाम एव तत्त्वतः 12 दानशीलं मृदुं दान्तं धर्मकामम अनुव्रतम यत तवाम उपधिना राजन दयूतेनावञ्चयत तदा न चापत्रपते पापॊ नृशंसस तेन कर्मणा 13 तथाशीर समाचारे राजन मा परणयं कृथाः वध्यास ते सर्वलॊकस्य किं पुनस तव भारत 14 वाग्भिस तव अप्रतिरूपाभिर अतुदत स कनीयसम शलाघमानः परहृष्टः सन भाषते भरातृभिः सह 15 एतावत पाण्डवानां हि नास्ति किं चिद इह सवकम नामधेयं च गॊत्रं च तद अप्य एषां न शिष्यते 16 कालेन महता चैषां भविष्यति पराभवः परकृतिं ते भजिष्यन्ति नष्टप्रकृतयॊ जनाः 17 एताश चान्याश च परुषा वाचः स समुदीरयन शलाघते जञातिमध्ये सम तवयि पव्रजिते वनम 18 ये तत्रासन समानीतास ते दृष्ट्वा तवाम अनागसम अश्रुकण्ठा रुदन्तश च सभायाम आसते तदा 19 न चैनम अभ्यनन्दंस ते राजानॊ बराह्मणैः सह सर्वे दुर्यॊधनं तत्र निन्दन्ति सम सभासदः 20 कुलीनस्य च या निन्दा वधश चामित्रकर्शन महागुणॊ वधॊ राजन न तु निन्दा कुजीविका 21 तदैव निहतॊ राजन यदैव निरपत्रपः निन्दितश च महाराज पृथिव्यां सर्वराजसु 22 ईषत्कार्यॊ वधस तस्य यस्य चारित्रम ईदृशम परस्कम्भन परतिस्तब्धश छिन्नमूल इव दरुमः 23 वध्यः सर्प इवानार्यः सर्वलॊकस्य दुर्मतिः जह्य एनं तवम अमित्रघ्न मा राजन विचिकित्सिथाः 24 सर्वथा तवत कषमं चैतद रॊचते च ममानघ यत तवं पितरि भीष्मे च परणिपातं समाचरेः 25 अहं तु सर्वलॊकस्य गत्वा छेत्स्यामि संशयम येषाम अस्ति दविधा भावॊ राजन दुर्यॊधनं परति 26 मध्ये राज्ञाम अहं तत्र परातिपौरुषिकान गुणान तव संकीर्तयिष्यामि ये च तस्य वयतिक्रमाः 27 बरुवतस तत्र मे वाक्यं धर्मार्थसहितं हितम निशम्य पार्थिवाः सर्वे नानाजनपदेश्वराः 28 तवयि संप्रतिपत्स्यन्ते धर्मात्मा सत्यवाग इति तस्मिंश चाधिगमिष्यन्ति यथा लॊभाद अवर्तत 29 गर्हयिष्यामि चैवैनं पौरजानपदेष्व अपि वृद्धबालान उपादाय चातुर्वर्ण्यसमागमे 30 शमं चेद याचमानस तवं न धर्मं तत्र लप्स्यसे कुरून विगर्हयिष्यन्ति धृतराष्ट्रं च पार्थिवाः 31 तस्मिँल लॊकपरित्यक्ते किं कार्यम अवशिष्यते हते दुर्यॊधने राजन यद अन्यत करियताम इति 32 यात्वा चाहं कुरून सर्वान युष्मदर्थम अहापयन यतिष्ये परशमं कर्तुं लक्षयिष्ये च चेष्टितम 33 कौरवाणां परवृत्तिं च गत्वा युद्धाधिकारिकाम निशाम्य विनिवर्तिष्ये जयाय तव भारत 34 सर्वथा युद्धम एवाहम आशंसामि परैः सह निमित्तानि हि सर्वाणि तथा परादुर्भवन्ति मे 35 मृगाः शकुन्ताश च वदन्ति घॊरं; हस्त्यश्वमुख्येषु निशामुखेषु घॊराणि रूपाणि तथैव चाग्निर; वर्णान बहून पुष्यति घॊररूपान मनुष्यलॊकक्षपणॊ ऽथ घॊरॊ; नॊ चेद अनुप्राप्त इहान्तकः सयात 36 शस्त्राणि पत्रं कवचान रथांश च; नागान धवजांश च परतिपादयित्वा यॊधाश च सर्वे कृतनिश्रमास ते; भवन्तु हस्त्यश्वरथेषु यत्ताः सांग्रामिकं ते यद उपार्जनीयं; सर्वं समग्रं कुरु तन नरेन्द्र 37 दुर्यॊधनॊ न हय अलम अद्य दातुं; जीवंस तवैतन नृपते कथं चित यत ते पुरस्ताद अभवत समृद्धं; दयूते हृतं पाण्डवमुख्यराज्यम |
1
[bhagavān] saṃjayasya śrutaṃ vākyaṃ bhavataś ca śrutaṃ mayā sarvaṃ jānāmy abhiprāyaṃ teṣāṃ ca bhavataś ca yaḥ 2 tava dharmāśritā buddhis teṣāṃ vairāśritā matiḥ yad ayuddhena labhyeta tat te bahumataṃ bhavet 3 na ca tan naiṣṭhikaṃ karma kṣatriyasya viśāṃ pate āhur āśramiṇaḥ sarve yad bhaikṣaṃ kṣatriyaś caret 4 jayo vadho vā saṃgrāme dhātrā diṣṭaḥ sanātanaḥ svadharmaḥ kṣatriyasyaiṣa kārpaṇyaṃ na praśasyate 5 na hi kārpaṇyam āsthāya śakyā vṛttir yudhiṣṭhira vikramasva mahābāho jahi śatrūn ariṃdama 6 atigṛddhāḥ kṛtasnehā dīrghakālaṃ sahoṣitāḥ kṛtamitrāḥ kṛtabalā dhārtarāṣṭrāḥ paraṃtapa 7 na paryāyo 'sti yat sāmyaṃ tvayi kuryur viśāṃ pate balavattāṃ hi manyante bhīṣmadroṇakṛpādibhiḥ 8 yāvac ca mārdavenaitān rājann upacariṣyasi tāvad ete hariṣyanti tava rājyam ariṃdama 9 nānukrośān na kārpaṇyān na ca dharmārthakāraṇāt alaṃ kartuṃ dhārarāṣṭrās tava kāmam ariṃdama 10 etad eva nimittaṃ te pāṇḍavās tu yathā tvayi nānvatapyanta kaupīnaṃ tāvat kṛtvāpi duṣkaram 11 pitāmahasya droṇasya vidurasya ca dhīmataḥ paśyatāṃ kurumukhyānāṃ sarveṣām eva tattvataḥ 12 dānaśīlaṃ mṛduṃ dāntaṃ dharmakāmam anuvratam yat tvām upadhinā rājan dyūtenāvañcayat tadā na cāpatrapate pāpo nṛśaṃsas tena karmaṇā 13 tathāśīra samācāre rājan mā praṇayaṃ kṛthāḥ vadhyās te sarvalokasya kiṃ punas tava bhārata 14 vāgbhis tv apratirūpābhir atudat sa kanīyasam ślāghamānaḥ prahṛṣṭaḥ san bhāṣate bhrātṛbhiḥ saha 15 etāvat pāṇḍavānāṃ hi nāsti kiṃ cid iha svakam nāmadheyaṃ ca gotraṃ ca tad apy eṣāṃ na śiṣyate 16 kālena mahatā caiṣāṃ bhaviṣyati parābhavaḥ prakṛtiṃ te bhajiṣyanti naṣṭaprakṛtayo janāḥ 17 etāś cānyāś ca paruṣā vācaḥ sa samudīrayan ślāghate jñātimadhye sma tvayi pavrajite vanam 18 ye tatrāsan samānītās te dṛṣṭvā tvām anāgasam aśrukaṇṭhā rudantaś ca sabhāyām āsate tadā 19 na cainam abhyanandaṃs te rājāno brāhmaṇaiḥ saha sarve duryodhanaṃ tatra nindanti sma sabhāsadaḥ 20 kulīnasya ca yā nindā vadhaś cāmitrakarśana mahāguṇo vadho rājan na tu nindā kujīvikā 21 tadaiva nihato rājan yadaiva nirapatrapaḥ ninditaś ca mahārāja pṛthivyāṃ sarvarājasu 22 īṣatkāryo vadhas tasya yasya cāritram īdṛśam praskambhana pratistabdhaś chinnamūla iva drumaḥ 23 vadhyaḥ sarpa ivānāryaḥ sarvalokasya durmatiḥ jahy enaṃ tvam amitraghna mā rājan vicikitsithāḥ 24 sarvathā tvat kṣamaṃ caitad rocate ca mamānagha yat tvaṃ pitari bhīṣme ca praṇipātaṃ samācareḥ 25 ahaṃ tu sarvalokasya gatvā chetsyāmi saṃśayam yeṣām asti dvidhā bhāvo rājan duryodhanaṃ prati 26 madhye rājñām ahaṃ tatra prātipauruṣikān guṇān tava saṃkīrtayiṣyāmi ye ca tasya vyatikramāḥ 27 bruvatas tatra me vākyaṃ dharmārthasahitaṃ hitam niśamya pārthivāḥ sarve nānājanapadeśvarāḥ 28 tvayi saṃpratipatsyante dharmātmā satyavāg iti tasmiṃś cādhigamiṣyanti yathā lobhād avartata 29 garhayiṣyāmi caivainaṃ paurajānapadeṣv api vṛddhabālān upādāya cāturvarṇyasamāgame 30 śamaṃ ced yācamānas tvaṃ na dharmaṃ tatra lapsyase kurūn vigarhayiṣyanti dhṛtarāṣṭraṃ ca pārthivāḥ 31 tasmiṁl lokaparityakte kiṃ kāryam avaśiṣyate hate duryodhane rājan yad anyat kriyatām iti 32 yātvā cāhaṃ kurūn sarvān yuṣmadartham ahāpayan yatiṣye praśamaṃ kartuṃ lakṣayiṣye ca ceṣṭitam 33 kauravāṇāṃ pravṛttiṃ ca gatvā yuddhādhikārikām niśāmya vinivartiṣye jayāya tava bhārata 34 sarvathā yuddham evāham āśaṃsāmi paraiḥ saha nimittāni hi sarvāṇi tathā prādurbhavanti me 35 mṛgāḥ śakuntāś ca vadanti ghoraṃ; hastyaśvamukhyeṣu niśāmukheṣu ghorāṇi rūpāṇi tathaiva cāgnir; varṇān bahūn puṣyati ghorarūpān manuṣyalokakṣapaṇo 'tha ghoro; no ced anuprāpta ihāntakaḥ syāt 36 śastrāṇi patraṃ kavacān rathāṃś ca; nāgān dhvajāṃś ca pratipādayitvā yodhāś ca sarve kṛtaniśramās te; bhavantu hastyaśvaratheṣu yattāḥ sāṃgrāmikaṃ te yad upārjanīyaṃ; sarvaṃ samagraṃ kuru tan narendra 37 duryodhano na hy alam adya dātuṃ; jīvaṃs tavaitan nṛpate kathaṃ cit yat te purastād abhavat samṛddhaṃ; dyūte hṛtaṃ pāṇḍavamukhyarājyam |
The Mahabharata in Sanskrit
Book 5
Chapter 72
|
1
[भीम] यथा यथैव शान्तिः सयात कुरूणां मधुसूदन तथा तथैव भाषेथा मा सम युद्धेन भीषयेः 2 अमर्षी नित्यसंरब्धः शरेयॊ दवेषी महामनाः नॊग्रं दुर्यॊधनॊ वाच्यः साम्नैवैनं समाचरेः 3 परकृत्या पापसत्त्वश च तुल्यचेताश च दस्युभिः ऐश्वर्यमदमत्तश च कृतवैरश च पाण्डवैः 4 अदीर्घदर्शी निष्ठूरी कषेप्ता करूरपराक्रमः दीर्घमन्युर अनेयश च पापात्मा निकृतिप्रियः 5 मरियेतापि न भज्येत नैव जह्यात सवकं मतम तादृशेन शमं कृष्ण मये परमदुष्करम 6 सुहृदाम अप्य अवाचीनस तयक्तधर्मः परियानृतः परतिहन्त्य एव सुहृदां वाचश चैव मनांसि च 7 स मन्युवशम आपन्नः सवभावं दुष्टम आस्थितः सवभावात पापम अन्वेति तृणैस तुन्न इवॊरगः 8 दुर्यॊधनॊ हि यत सेनः सर्वथा विदितस तव यच छीलॊ यत सवभावश च यद बलॊ यत पराक्रमः 9 पुरा परसन्नाः कुरवः सह पुत्रास तथा वयम इन्द्र जयेष्ठा इवाभूम मॊदमानाः स बान्धवाः 10 दुर्यॊधनस्य करॊधेन भारता मधुसूदन धक्ष्यन्ते शिशिरापाये वनानीव हुताशनैः 11 अष्टादशेमे राजानः परख्याता मधुसूदन ये समुच्चिच्छिदुर जञातीन सुहृदश च स बान्धवान 12 असुराणां समृद्धानां जवलताम इव तेजसा पर्याय काले धर्मस्य पराप्ते बलिर अजायत 13 हैहयानाम उदावर्तॊ नीपानां जनमेजयः बहुलस तालजङ्घानां कृमीणाम उद्धतॊ वसुः 14 अज बिन्दुः सुवीराणां सुराष्ट्राणां कुशर्द्धिकः अर्कजश च बलीहानां चीनानां धौतमूलकः 15 हयग्रीवॊ विदेहानां वरप्रश च महौजसाम बाहुः सुन्दर वेगानां दीप्ताक्षाणां पुरूरवाः 16 सहजश चेदिमत्स्यानां परचेतानां बृहद्बलः धारणश चेन्द्र वत्सानां मुकुटानां विगाहनः 17 शमश च नन्दिवेगानाम इत्य एते कुलपांसनाः युगान्ते कृष्ण संभूताः कुलेषु पुरुषाधमाः 18 अप्य अयं नः कुरूणां सयाद युगान्ते कालसंभृतः दुर्यॊधनः कुलाङ्गारॊ जघन्यः पापपूरुषः 19 तस्मान मृदु शनैर एनं बरूया धर्मार्थसंहितम कामानुबन्ध बहुलं नॊग्रम उग्रपराक्रमम 20 अपि दुर्यॊधनं कृष्ण सर्वे वयम अधश चराः नीचैर भूत्वानुयास्यामॊ मा सम नॊ भरता नशन 21 अप्य उदासीनवृत्तिः सयाद यथा नः कुरुभिः सह वासुदेव तथा कार्यं न कुरून अनयः सपृशेत 22 वाच्यः पितामहॊ वृद्धॊ ये च कृष्ण सभासदः भरातॄणाम अस्तु सौभ्रात्रं धार्तराष्ट्रः परशाम्यताम 23 अहम एतद बरवीम्य एवं राजा चैव परशंसति अर्जुनॊ नैव युद्धार्थी भूयसी हि दयार्जुने |
1
[bhīma] yathā yathaiva śāntiḥ syāt kurūṇāṃ madhusūdana tathā tathaiva bhāṣethā mā sma yuddhena bhīṣayeḥ 2 amarṣī nityasaṃrabdhaḥ śreyo dveṣī mahāmanāḥ nograṃ duryodhano vācyaḥ sāmnaivainaṃ samācareḥ 3 prakṛtyā pāpasattvaś ca tulyacetāś ca dasyubhiḥ aiśvaryamadamattaś ca kṛtavairaś ca pāṇḍavaiḥ 4 adīrghadarśī niṣṭhūrī kṣeptā krūraparākramaḥ dīrghamanyur aneyaś ca pāpātmā nikṛtipriyaḥ 5 mriyetāpi na bhajyeta naiva jahyāt svakaṃ matam tādṛśena śamaṃ kṛṣṇa maye paramaduṣkaram 6 suhṛdām apy avācīnas tyaktadharmaḥ priyānṛtaḥ pratihanty eva suhṛdāṃ vācaś caiva manāṃsi ca 7 sa manyuvaśam āpannaḥ svabhāvaṃ duṣṭam āsthitaḥ svabhāvāt pāpam anveti tṛṇais tunna ivoragaḥ 8 duryodhano hi yat senaḥ sarvathā viditas tava yac chīlo yat svabhāvaś ca yad balo yat parākramaḥ 9 purā prasannāḥ kuravaḥ saha putrās tathā vayam indra jyeṣṭhā ivābhūma modamānāḥ sa bāndhavāḥ 10 duryodhanasya krodhena bhāratā madhusūdana dhakṣyante śiśirāpāye vanānīva hutāśanaiḥ 11 aṣṭādaśeme rājānaḥ prakhyātā madhusūdana ye samuccicchidur jñātīn suhṛdaś ca sa bāndhavān 12 asurāṇāṃ samṛddhānāṃ jvalatām iva tejasā paryāya kāle dharmasya prāpte balir ajāyata 13 haihayānām udāvarto nīpānāṃ janamejayaḥ bahulas tālajaṅghānāṃ kṛmīṇām uddhato vasuḥ 14 aja binduḥ suvīrāṇāṃ surāṣṭrāṇāṃ kuśarddhikaḥ arkajaś ca balīhānāṃ cīnānāṃ dhautamūlakaḥ 15 hayagrīvo videhānāṃ varapraś ca mahaujasām bāhuḥ sundara vegānāṃ dīptākṣāṇāṃ purūravāḥ 16 sahajaś cedimatsyānāṃ pracetānāṃ bṛhadbalaḥ dhāraṇaś cendra vatsānāṃ mukuṭānāṃ vigāhanaḥ 17 śamaś ca nandivegānām ity ete kulapāṃsanāḥ yugānte kṛṣṇa saṃbhūtāḥ kuleṣu puruṣādhamāḥ 18 apy ayaṃ naḥ kurūṇāṃ syād yugānte kālasaṃbhṛtaḥ duryodhanaḥ kulāṅgāro jaghanyaḥ pāpapūruṣaḥ 19 tasmān mṛdu śanair enaṃ brūyā dharmārthasaṃhitam kāmānubandha bahulaṃ nogram ugraparākramam 20 api duryodhanaṃ kṛṣṇa sarve vayam adhaś carāḥ nīcair bhūtvānuyāsyāmo mā sma no bharatā naśan 21 apy udāsīnavṛttiḥ syād yathā naḥ kurubhiḥ saha vāsudeva tathā kāryaṃ na kurūn anayaḥ spṛśet 22 vācyaḥ pitāmaho vṛddho ye ca kṛṣṇa sabhāsadaḥ bhrātṝṇām astu saubhrātraṃ dhārtarāṣṭraḥ praśāmyatām 23 aham etad bravīmy evaṃ rājā caiva praśaṃsati arjuno naiva yuddhārthī bhūyasī hi dayārjune |
The Mahabharata in Sanskrit
Book 5
Chapter 73
|
1
[वै] एतच छरुत्वा महाबाहुः केशवः परहसन्न इव अभूतपूर्वं भीमस्य मार्दवॊपगतं वचः 2 गिरेर इव लघुत्वं तच छीतत्वम इव पावके मत्वा रामानुजः शौरिः शार्ङ्गधन्वा वृकॊदरम 3 संतेजयंस तदा वाग्भिर मातरिश्वेव पावकम उवाच भीमम आसीनं कृपयाभिपरिप्लुतम 4 तवम अन्यदा भीमसेन युद्धम एव परशंससि वधाभिनन्दिनः करूरान धार्तराष्ट्रान मिमर्दिषुः 5 न च सवपिषि जागर्षि नयुब्जः शेषे परंतप घॊराम अशान्तां रुशतीं सदा वाचं परभाषसे 6 निःश्वसन्न अग्निवर्णेन सतप्तः सवेन मन्युना अप्रशान्त मना भीम स धूम इव पावकः 7 एकान्ते निष्टनञ शेषे भारार्त इव दुर्बलः अपि तवां के चिद उन्मत्तं मन्यन्ते ऽतद्विदॊ जनाः 8 आरुज्य वृक्षान निर्मूलान गजः परिभुजन्न इव निघ्नन पद्भिः कषितिं भीम निष्टनन परिधावसि 9 नास्मिञ जने ऽभिरमसे रहः कषियसि पाण्डव नान्यं निशि दिवा वापि कदा चिद अभिनन्दसि 10 अकस्मात समयमानश च रहस्य आस्से रुदन्न इव जान्वॊर मूर्धानम आधाय चिरम आस्से परमीलितः 11 भरुकुटिं च पुनः कुर्वन्न ओष्ठौ च विलिहन्न इव अभीक्ष्णं दृश्यसे भीम सर्वं तन मन्युकारितम 12 यथा पुरस्तात सविता दृश्यते शुक्रम उच्चरन यथा च पश्चान निर्मुक्तॊ धरुवं पर्येति रश्मिवान 13 तथा सत्यं बरवीम्य एतन नास्ति तस्य वयतिक्रमः हन्ताहं गदयाभ्येत्य दुर्यॊधनम अमर्षणम 14 इति सम मध्ये भरातॄणां सत्येनालभसे गदाम तस्य ते पशमे बुद्धिर धीयते ऽदय परंतप 15 अहॊ युद्धप्रतीपानि युद्धकाल उपस्थिते पश्यसीवाप्रतीपानि किं तवां भीर भीम विन्दति 16 अहॊ पार्थ निमित्तानि विपरीतानि पश्यसि सवप्नान्ते जागरान्ते च तस्मात परशमम इच्छसि 17 अहॊ नाशंससे किं चित पुंस्त्वं कलीब इवात्मनि कश्मलेनाभिपन्नॊ ऽसि तेन ते विकृतं मनः 18 उद्वेपते ते हृदयं मनस ते परविषीदति ऊरुस्तम्भगृहीतॊ ऽसि तस्मात परशमम इच्छसि 19 अनित्यं किल मर्त्यस्य चित्तं पार्थ चलाचलम वातवेगप्रचलिता अष्ठीला शाल्मलेर इव 20 तवैषा विकृता बुद्धिर गवां वाग इव मानुषी मनांसि पाण्डुपुत्राणां मज्जयत्य अप्लवान इव 21 इदं मे महद आश्चर्यं पर्वतस्येव सर्पणम यदीदृशं परभाषेथा भीमसेनासमं वचः 22 स दृष्ट्वा सवानि कर्माणि कुले जन्म च भारत उत्तिष्ठस्व विषादं मा कृथा वीर सथिरॊ भव 23 न चैतद अनुरूपं ते यत ते गलानिर अरिंदम यद ओजसा न लभते कषत्रियॊ न तद अश्नुते |
1
[vai] etac chrutvā mahābāhuḥ keśavaḥ prahasann iva abhūtapūrvaṃ bhīmasya mārdavopagataṃ vacaḥ 2 girer iva laghutvaṃ tac chītatvam iva pāvake matvā rāmānujaḥ śauriḥ śārṅgadhanvā vṛkodaram 3 saṃtejayaṃs tadā vāgbhir mātariśveva pāvakam uvāca bhīmam āsīnaṃ kṛpayābhipariplutam 4 tvam anyadā bhīmasena yuddham eva praśaṃsasi vadhābhinandinaḥ krūrān dhārtarāṣṭrān mimardiṣuḥ 5 na ca svapiṣi jāgarṣi nyubjaḥ śeṣe paraṃtapa ghorām aśāntāṃ ruśatīṃ sadā vācaṃ prabhāṣase 6 niḥśvasann agnivarṇena sataptaḥ svena manyunā apraśānta manā bhīma sa dhūma iva pāvakaḥ 7 ekānte niṣṭanañ śeṣe bhārārta iva durbalaḥ api tvāṃ ke cid unmattaṃ manyante 'tadvido janāḥ 8 ārujya vṛkṣān nirmūlān gajaḥ paribhujann iva nighnan padbhiḥ kṣitiṃ bhīma niṣṭanan paridhāvasi 9 nāsmiñ jane 'bhiramase rahaḥ kṣiyasi pāṇḍava nānyaṃ niśi divā vāpi kadā cid abhinandasi 10 akasmāt smayamānaś ca rahasy āsse rudann iva jānvor mūrdhānam ādhāya ciram āsse pramīlitaḥ 11 bhrukuṭiṃ ca punaḥ kurvann oṣṭhau ca vilihann iva abhīkṣṇaṃ dṛśyase bhīma sarvaṃ tan manyukāritam 12 yathā purastāt savitā dṛśyate śukram uccaran yathā ca paścān nirmukto dhruvaṃ paryeti raśmivān 13 tathā satyaṃ bravīmy etan nāsti tasya vyatikramaḥ hantāhaṃ gadayābhyetya duryodhanam amarṣaṇam 14 iti sma madhye bhrātṝṇāṃ satyenālabhase gadām tasya te paśame buddhir dhīyate 'dya paraṃtapa 15 aho yuddhapratīpāni yuddhakāla upasthite paśyasīvāpratīpāni kiṃ tvāṃ bhīr bhīma vindati 16 aho pārtha nimittāni viparītāni paśyasi svapnānte jāgarānte ca tasmāt praśamam icchasi 17 aho nāśaṃsase kiṃ cit puṃstvaṃ klība ivātmani kaśmalenābhipanno 'si tena te vikṛtaṃ manaḥ 18 udvepate te hṛdayaṃ manas te praviṣīdati ūrustambhagṛhīto 'si tasmāt praśamam icchasi 19 anityaṃ kila martyasya cittaṃ pārtha calācalam vātavegapracalitā aṣṭhīlā śālmaler iva 20 tavaiṣā vikṛtā buddhir gavāṃ vāg iva mānuṣī manāṃsi pāṇḍuputrāṇāṃ majjayaty aplavān iva 21 idaṃ me mahad āścaryaṃ parvatasyeva sarpaṇam yadīdṛśaṃ prabhāṣethā bhīmasenāsamaṃ vacaḥ 22 sa dṛṣṭvā svāni karmāṇi kule janma ca bhārata uttiṣṭhasva viṣādaṃ mā kṛthā vīra sthiro bhava 23 na caitad anurūpaṃ te yat te glānir ariṃdama yad ojasā na labhate kṣatriyo na tad aśnute |
The Mahabharata in Sanskrit
Book 5
Chapter 74
|
1
[व] तथॊक्तॊ वासुदेवेन नित्यमन्युर अमर्षणः सदश्ववत समाधावद बभाषे तदनन्तरम 2 अन्यथा मां चिकीर्षन्तम अन्यथा मन्यसे ऽचयुत परणीत भावम अत्यन्तं युधि सत्यपराक्रमम 3 वेत्थ दाशार्ह सत्त्वं मे दीर्घकालं सहॊषितः उत वा मां न जानासि पलवन हरद इवाल्पवः तस्माद अप्रतिरूपाभिर वाग्भिर मां तवं समर्छसि 4 कथं हि भीमसेनं मां जानन कश चन माधव बरूयाद अप्रतिरूपाणि यथा मां वक्तुम अर्हसि 5 तस्माद इदं परवक्ष्यामि वचनं वृष्णिनन्दन आत्मनः पौरुषं चैव बलं च न समं परैः 6 सर्वथा नार्य कर्मैतत परशंसा सवयम आत्मनः अतिवादापविद्धस तु वक्ष्यामि बलम आत्मनः 7 पश्येमे रॊदसी कृष्ण ययॊर आसन्न इमाः परजाः अचले चाप्य अनन्ते च परतिष्ठे सर्वमातरौ 8 यदीमे सहसा करुद्धे समेयातां शिले इव अमम एते निगृह्णीयां बाहुभ्यां सचराचरे 9 पश्यैतद अन्तरं बाह्वॊर महापरिघयॊर इव य एतत पराप्य मुच्येत न तं पश्यामि पूरुषम 10 हिमवांश च समुद्रश च वज्री च बलभित सवयम मयाभिपन्नं तरायेरन बलम आस्थाय न तरयः 11 युध्येयं कषत्रियान सर्वान पाण्डवेष्व आततायिनः अधः पादतलेनैतान अधिष्ठास्यामि भूतले 12 न हि तवं नाभिजानासि मम विक्रमम अच्युत यथा मया विनिर्जित्य राजानॊ वशगाः कृताः 13 अथ चेन मां न जानासि सूर्यस्येवॊद्यतः परभाम विगाढे युधि संबाधे वेत्स्यसे मां जनार्दन 14 किं मात्यवाक्षीः परुषैर वरणं सूच्या इवानघ यथामति बरवीम्य एतद विद्धि माम अधिकं ततः 15 दरष्टासि युधि संबाधे परवृत्ते वैशसे ऽहनि मया परणुन्नान मातङ्गान रथिनः सादिनस तथा 16 तथा नरान अभिक्रुद्धं निघ्नन्तं कषत्रियर्षभान दरष्टा मां तवं च लॊकश च विकर्षन्तं वरान वरान 17 न मे सीदन्ति मज्जानॊ न ममॊद्वेपते मनः सर्वलॊकाद अभिक्रुद्धान न भयं विद्यते मम 18 किं तु सौहृदम एवैतत कृपया मधुसूदन सर्वांस तितिक्षे संक्लेशान मा सम नॊ भरता नशन |
1
[v] tathokto vāsudevena nityamanyur amarṣaṇaḥ sadaśvavat samādhāvad babhāṣe tadanantaram 2 anyathā māṃ cikīrṣantam anyathā manyase 'cyuta praṇīta bhāvam atyantaṃ yudhi satyaparākramam 3 vettha dāśārha sattvaṃ me dīrghakālaṃ sahoṣitaḥ uta vā māṃ na jānāsi plavan hrada ivālpavaḥ tasmād apratirūpābhir vāgbhir māṃ tvaṃ samarchasi 4 kathaṃ hi bhīmasenaṃ māṃ jānan kaś cana mādhava brūyād apratirūpāṇi yathā māṃ vaktum arhasi 5 tasmād idaṃ pravakṣyāmi vacanaṃ vṛṣṇinandana ātmanaḥ pauruṣaṃ caiva balaṃ ca na samaṃ paraiḥ 6 sarvathā nārya karmaitat praśaṃsā svayam ātmanaḥ ativādāpaviddhas tu vakṣyāmi balam ātmanaḥ 7 paśyeme rodasī kṛṣṇa yayor āsann imāḥ prajāḥ acale cāpy anante ca pratiṣṭhe sarvamātarau 8 yadīme sahasā kruddhe sameyātāṃ śile iva amam ete nigṛhṇīyāṃ bāhubhyāṃ sacarācare 9 paśyaitad antaraṃ bāhvor mahāparighayor iva ya etat prāpya mucyeta na taṃ paśyāmi pūruṣam 10 himavāṃś ca samudraś ca vajrī ca balabhit svayam mayābhipannaṃ trāyeran balam āsthāya na trayaḥ 11 yudhyeyaṃ kṣatriyān sarvān pāṇḍaveṣv ātatāyinaḥ adhaḥ pādatalenaitān adhiṣṭhāsyāmi bhūtale 12 na hi tvaṃ nābhijānāsi mama vikramam acyuta yathā mayā vinirjitya rājāno vaśagāḥ kṛtāḥ 13 atha cen māṃ na jānāsi sūryasyevodyataḥ prabhām vigāḍhe yudhi saṃbādhe vetsyase māṃ janārdana 14 kiṃ mātyavākṣīḥ paruṣair vraṇaṃ sūcyā ivānagha yathāmati bravīmy etad viddhi mām adhikaṃ tataḥ 15 draṣṭāsi yudhi saṃbādhe pravṛtte vaiśase 'hani mayā praṇunnān mātaṅgān rathinaḥ sādinas tathā 16 tathā narān abhikruddhaṃ nighnantaṃ kṣatriyarṣabhān draṣṭā māṃ tvaṃ ca lokaś ca vikarṣantaṃ varān varān 17 na me sīdanti majjāno na mamodvepate manaḥ sarvalokād abhikruddhān na bhayaṃ vidyate mama 18 kiṃ tu sauhṛdam evaitat kṛpayā madhusūdana sarvāṃs titikṣe saṃkleśān mā sma no bharatā naśan |
The Mahabharata in Sanskrit
Book 5
Chapter 75
|
1
[भगवान] भावं जिज्ञासमानॊ ऽहं परणयाद इदम अब्रुवम न चाक्षेपान न पाण्डित्यान न करॊधान न विवक्षया 2 वेदाहं तव माहात्म्यम उत ते वेद यद बलम उत ते वेद कर्माणि न तवां परिभवाम्य अहम 3 यथा चात्मनि कल्याणं संभावयसि पाण्डव सहस्रगुणम अप्य एतत तवयि संभावयाम्य अहम 4 यादृशे च कुले जन्म सर्वराजाभिपूजिते बन्धुभिश च सुहृद्भिश च भीम तवम असि तादृशः 5 जिज्ञासन्तॊ हि धर्मस्य संदिग्धस्य वृकॊदर पर्यायं न वयवस्यन्ति दैवमानुषयॊर जनाः 6 स एव हेतुर भूत्वा हि पुरुषस्यार्तसिद्धिषु विनाशे ऽपि स एवास्य संदिग्धं कर्म पौरुषम 7 अन्यथा परिदृष्टानि कविभिर दॊषदर्शिभिः अन्यथा परिवर्तन्ते वेगा इव नभस्वतः 8 सुमन्त्रितं सुनीतं च नयायतश चॊपपादितम कृतं मानुष्यकं कर्म दैवेनापि विरुध्यते 9 दैवम अप्य अकृतं कर्म पौरुषेण विहन्यते शीतम उष्णं तथा वर्षं कषुत्पिपासे च भारत 10 यद अन्यद दिष्ट भावस्य पुरुषस्य सवयं कृतम तस्माद अनवरॊधश च विद्यते तत्र लक्षणम 11 लॊकस्य नान्यतॊ वृत्तिः पाण्डवान्यत्र कर्मणः एवं बुद्धिः परवर्तेत फलं सयाद उभयान्वयात 12 य एवं कृतबुद्धिः सन कर्मस्व एव परवर्तते नासिद्धौ वयथते तस्य न सिद्धौ हर्षम अश्नुते 13 तत्रेयम अर्थमात्रा मे भीमसेन विवक्षिता नैकान्त सिद्धिर मन्तव्या कुरुभिः सह संयुगे 14 नातिप्रणीत रश्मिः सयात तथा भवति पर्यये विषादम अर्छेद गलानिं वा एतदर्थं बरवीमि ते 15 शवॊभूते धृतराष्ट्रस्य समीपं पराप्य पाण्डव यतिष्ये परशमं कर्तुं युष्मदर्थम अहापयन 16 शमं चेत ते करिष्यन्ति ततॊ ऽनन्तं यशॊ मम भवतां च कृतः कामस तेषां च शरेय उत्तमम 17 ते चेद अभिनिवेक्ष्यन्ति नाभ्युपैष्यन्ति मे वचः कुरवॊ युद्धम एवात्र रौद्रं कर्म भविष्यति 18 अस्मिन युद्धे भीमसेन तवयि भारः समाहितः धूर अर्जुनेन धार्या सयाद वॊढव्य इतरॊ जनः 19 अहं हि यन्ता बीभत्सॊर भविता संयुगे सति धनंजयस्यैष कामॊ न हि युद्धं न कामये 20 तस्माद आशङ्कमानॊ ऽहं वृकॊदर मतिं तव तुदन्न अक्लीबया वाचा तेजस ते समदीपयम |
1
[bhagavān] bhāvaṃ jijñāsamāno 'haṃ praṇayād idam abruvam na cākṣepān na pāṇḍityān na krodhān na vivakṣayā 2 vedāhaṃ tava māhātmyam uta te veda yad balam uta te veda karmāṇi na tvāṃ paribhavāmy aham 3 yathā cātmani kalyāṇaṃ saṃbhāvayasi pāṇḍava sahasraguṇam apy etat tvayi saṃbhāvayāmy aham 4 yādṛśe ca kule janma sarvarājābhipūjite bandhubhiś ca suhṛdbhiś ca bhīma tvam asi tādṛśaḥ 5 jijñāsanto hi dharmasya saṃdigdhasya vṛkodara paryāyaṃ na vyavasyanti daivamānuṣayor janāḥ 6 sa eva hetur bhūtvā hi puruṣasyārtasiddhiṣu vināśe 'pi sa evāsya saṃdigdhaṃ karma pauruṣam 7 anyathā paridṛṣṭāni kavibhir doṣadarśibhiḥ anyathā parivartante vegā iva nabhasvataḥ 8 sumantritaṃ sunītaṃ ca nyāyataś copapāditam kṛtaṃ mānuṣyakaṃ karma daivenāpi virudhyate 9 daivam apy akṛtaṃ karma pauruṣeṇa vihanyate śītam uṣṇaṃ tathā varṣaṃ kṣutpipāse ca bhārata 10 yad anyad diṣṭa bhāvasya puruṣasya svayaṃ kṛtam tasmād anavarodhaś ca vidyate tatra lakṣaṇam 11 lokasya nānyato vṛttiḥ pāṇḍavānyatra karmaṇaḥ evaṃ buddhiḥ pravarteta phalaṃ syād ubhayānvayāt 12 ya evaṃ kṛtabuddhiḥ san karmasv eva pravartate nāsiddhau vyathate tasya na siddhau harṣam aśnute 13 tatreyam arthamātrā me bhīmasena vivakṣitā naikānta siddhir mantavyā kurubhiḥ saha saṃyuge 14 nātipraṇīta raśmiḥ syāt tathā bhavati paryaye viṣādam arched glāniṃ vā etadarthaṃ bravīmi te 15 śvobhūte dhṛtarāṣṭrasya samīpaṃ prāpya pāṇḍava yatiṣye praśamaṃ kartuṃ yuṣmadartham ahāpayan 16 śamaṃ cet te kariṣyanti tato 'nantaṃ yaśo mama bhavatāṃ ca kṛtaḥ kāmas teṣāṃ ca śreya uttamam 17 te ced abhinivekṣyanti nābhyupaiṣyanti me vacaḥ kuravo yuddham evātra raudraṃ karma bhaviṣyati 18 asmin yuddhe bhīmasena tvayi bhāraḥ samāhitaḥ dhūr arjunena dhāryā syād voḍhavya itaro janaḥ 19 ahaṃ hi yantā bībhatsor bhavitā saṃyuge sati dhanaṃjayasyaiṣa kāmo na hi yuddhaṃ na kāmaye 20 tasmād āśaṅkamāno 'haṃ vṛkodara matiṃ tava tudann aklībayā vācā tejas te samadīpayam |
The Mahabharata in Sanskrit
Book 5
Chapter 76
|
1
[अर्जुन] उक्तं युधिष्ठिरेणैव यावद वाच्यं जनार्दन तव वाक्यं तु मे शरुत्वा परतिभाति परंतप 2 नैव परशमम अत्र तवं मन्यसे सुकरं परभॊ लॊभाद वा धृतराष्ट्रस्य दैन्याद वा समुपस्थितात 3 अफलं मन्यसे चापि पुरुषस्य पराक्रमम न चान्तरेण कर्माणि पौरुषेण फलॊदयः 4 तद इदं भाषितं वाक्यं तथा च न तथैव च न चैतद एवं दरष्टव्यम असाध्यम इति किं चन 5 किं चैतन मन्यसे कृच्छ्रम अस्माकं पापम आदितः कुर्वन्ति तेषां कर्माणि येषां नास्ति फलॊदयः 6 संपाद्यमानं सम्यक च सयात कर्म सफलं परभॊ स तथा कृष्ण वर्तस्व यथा शर्म भवेत परैः 7 पाण्डवानां कुरूणां च भवान परमकः सुहृत सुराणाम असुराणां च यथा वीर परजापतिः 8 कुरूणां पाण्डवानां च परतिपत्स्व निरामयम अस्मद्धितम अनुष्ठातुं न मन्ये तव दुष्करम 9 एवं चेत कार्यताम एति कार्यं तव जनार्दन गमनाद एवम एव तवं करिष्यसि न संशयः 10 चिकीर्षितम अथान्यत ते तस्मिन वीर दुरात्मनि भविष्यति तथा सर्वं यथा तव चिकीर्षितम 11 शर्म तैः सह वा नॊ ऽसतु तव वा यच चिकीर्षितम विचार्यमाणॊ यः कामस तव कृष्ण स नॊ गुरुः 12 न स नार्हति दुष्टात्मा वधं ससुत बान्धवः येन धर्मसुते दृष्ट्वा न सा शरीर उपमर्षिता 13 यच चाप्य अपश्यतॊपायं धर्मिष्ठं मधुसूदन उपायेन नृशंसेन हृता दुर्द्यूत देविना 14 कथं हि पुरुषॊ जातः कषत्रियेषु धनुर्धरः समाहूतॊ निवर्तेत पराणत्यागे ऽपय उपस्थिते 15 अधमेण जितान दृष्ट्वा वने परव्रजितांस तथा वध्यतां मम वार्ष्णेय निर्गतॊ ऽसौ सुयॊधनः 16 न चैतद अद्भुतं कृष्ण मित्रार्थे यच चिकीर्षसि करिया कथं नु मुख्या सयान मृदुना वेतरेण वा 17 अथ वा मन्यसे जयायान वधस तेषाम अनन्तरम तद एव करियताम आशु न विचार्यम अतस तवया 18 जानासि हि यथा तेन दरौपदी पापबुद्धिना परिक्लिष्टा सभामध्ये तच च तस्यापि मर्षितम 19 स नाम सम्यग वर्तेत पाण्डवेष्व इति माधव न मे संजायते बुद्धिर बीजम उप्तम इवॊषरे 20 तस्माद यन मन्यसे युक्तं पाण्डवानां च यद धितम तद आशु कुरु वार्ष्णेय यन नः कार्यम अनन्तरम |
1
[arjuna] uktaṃ yudhiṣṭhireṇaiva yāvad vācyaṃ janārdana tava vākyaṃ tu me śrutvā pratibhāti paraṃtapa 2 naiva praśamam atra tvaṃ manyase sukaraṃ prabho lobhād vā dhṛtarāṣṭrasya dainyād vā samupasthitāt 3 aphalaṃ manyase cāpi puruṣasya parākramam na cāntareṇa karmāṇi pauruṣeṇa phalodayaḥ 4 tad idaṃ bhāṣitaṃ vākyaṃ tathā ca na tathaiva ca na caitad evaṃ draṣṭavyam asādhyam iti kiṃ cana 5 kiṃ caitan manyase kṛcchram asmākaṃ pāpam āditaḥ kurvanti teṣāṃ karmāṇi yeṣāṃ nāsti phalodayaḥ 6 saṃpādyamānaṃ samyak ca syāt karma saphalaṃ prabho sa tathā kṛṣṇa vartasva yathā śarma bhavet paraiḥ 7 pāṇḍavānāṃ kurūṇāṃ ca bhavān paramakaḥ suhṛt surāṇām asurāṇāṃ ca yathā vīra prajāpatiḥ 8 kurūṇāṃ pāṇḍavānāṃ ca pratipatsva nirāmayam asmaddhitam anuṣṭhātuṃ na manye tava duṣkaram 9 evaṃ cet kāryatām eti kāryaṃ tava janārdana gamanād evam eva tvaṃ kariṣyasi na saṃśayaḥ 10 cikīrṣitam athānyat te tasmin vīra durātmani bhaviṣyati tathā sarvaṃ yathā tava cikīrṣitam 11 śarma taiḥ saha vā no 'stu tava vā yac cikīrṣitam vicāryamāṇo yaḥ kāmas tava kṛṣṇa sa no guruḥ 12 na sa nārhati duṣṭātmā vadhaṃ sasuta bāndhavaḥ yena dharmasute dṛṣṭvā na sā śrīr upamarṣitā 13 yac cāpy apaśyatopāyaṃ dharmiṣṭhaṃ madhusūdana upāyena nṛśaṃsena hṛtā durdyūta devinā 14 kathaṃ hi puruṣo jātaḥ kṣatriyeṣu dhanurdharaḥ samāhūto nivarteta prāṇatyāge 'py upasthite 15 adhameṇa jitān dṛṣṭvā vane pravrajitāṃs tathā vadhyatāṃ mama vārṣṇeya nirgato 'sau suyodhanaḥ 16 na caitad adbhutaṃ kṛṣṇa mitrārthe yac cikīrṣasi kriyā kathaṃ nu mukhyā syān mṛdunā vetareṇa vā 17 atha vā manyase jyāyān vadhas teṣām anantaram tad eva kriyatām āśu na vicāryam atas tvayā 18 jānāsi hi yathā tena draupadī pāpabuddhinā parikliṣṭā sabhāmadhye tac ca tasyāpi marṣitam 19 sa nāma samyag varteta pāṇḍaveṣv iti mādhava na me saṃjāyate buddhir bījam uptam ivoṣare 20 tasmād yan manyase yuktaṃ pāṇḍavānāṃ ca yad dhitam tad āśu kuru vārṣṇeya yan naḥ kāryam anantaram |
The Mahabharata in Sanskrit
Book 5
Chapter 77
|
1
[भगवान] एवम एतन महाबाहॊ यथा वदसि पाण्डव सर्वं तव इदं समायत्तं बीभत्सॊ कर्मणॊर दवयॊः 2 कषेत्रं हि रसवच छुद्धं कर्षकेणॊपपादितम ऋते वर्षं न कौन्तेय जातु निर्वर्तयेत फलम 3 तत्र वै पौरुषं बरूयुर आसेकं यत्नकारितम तत्र चापि धरुवं पश्येच छॊषणं दैवकारितम 4 तद इदं निश्चितं बुद्ध्या पूर्वैर अपि महात्मभिः दैवे च मानुषे चैव संयुक्तं लॊककारणम 5 अहं हि तत करिष्यामि परं पुरुषकारतः दैवं तु न मया शक्यं कर्म कर्तुं कथं चन 6 स हि धर्मं च सत्यं च तयक्त्वा चरति दुर्मतिः न हि संतप्यते तेन तथारूपेण कर्मणा 7 तां चापि बुद्धिं पापिष्ठां वर्धयन्त्य अस्य मन्त्रिणः शकुनिः सूतपुत्रश च भराता दुःशासनस तथा 8 स हि तयागेन राज्यस्य न शमं समुपेष्यति अन्तरेण वधात पार्थ सानुबन्धः सुयॊधनः 9 न चापि परणिपातेन तयक्तुम इच्छति धर्मराट याच्यमानस तु राज्यं स न परदास्यति दुर्मतिः 10 न तु मन्ये स तद वाच्यॊ यद युधिष्ठिर शासनम उक्तं परयॊजनं तत्र धर्मराजेन भारत 11 तथा पापस तु तत सर्वं न करिष्यति कौरवः तस्मिंश चाक्रियमाणे ऽसौ लॊकवध्यॊ भविष्यति 12 मम चापि स वध्यॊ वै जगतश चापि भारत येन कौमारके यूयं सर्वे विप्रकृतास तथा 13 विप्रलुप्तं च वॊ राज्यं नृशंसेन दुरात्मना न चॊपशाम्यते पापः शरियं दृष्ट्वा युधिष्ठिरे 14 असकृच चाप्य अहं तेन तवत्कृते पार्थ भेदितः न मया तद्गृहीतं च पापं तस्य चिकीर्षितम 15 जानासि हि महाबाहॊ तवम अप्य अस्य परं मतम परियं चिकीर्षमाणं च धर्मराजस्य माम अपि 16 स जानंस तस्य चात्मानं मम चैव परं मतम अजानन्न इव चाकस्माद अर्जुनाद्याभिशङ्कसे 17 यच चापि परमं दिव्यं तच चाप्य अवगतं तवया विधानविहितं पार्थ कथं शर्म भवेत परैः 18 यत तु वाचा मया शक्यं कर्मणा चापि पाण्डव करिष्ये तद अहं पार्थ न तव आशंसे शमं परैः 19 कथं गॊहरणे बरूयाद इच्छञ शर्म तथाविधम याच्यमानॊ ऽपि भीष्मेण संवत्सरगते ऽधवनि 20 तदैव ते पराभूता यदा संकल्पितास तवया लवशः कषणशश चापि न च तुष्टः सुयॊधनः 21 सर्वथा तु मया कार्यं धर्मराजस्य शासनम विभाव्यं तस्य भूयश च कर्म पापं दुरात्मनः |
1
[bhagavān] evam etan mahābāho yathā vadasi pāṇḍava sarvaṃ tv idaṃ samāyattaṃ bībhatso karmaṇor dvayoḥ 2 kṣetraṃ hi rasavac chuddhaṃ karṣakeṇopapāditam ṛte varṣaṃ na kaunteya jātu nirvartayet phalam 3 tatra vai pauruṣaṃ brūyur āsekaṃ yatnakāritam tatra cāpi dhruvaṃ paśyec choṣaṇaṃ daivakāritam 4 tad idaṃ niścitaṃ buddhyā pūrvair api mahātmabhiḥ daive ca mānuṣe caiva saṃyuktaṃ lokakāraṇam 5 ahaṃ hi tat kariṣyāmi paraṃ puruṣakārataḥ daivaṃ tu na mayā śakyaṃ karma kartuṃ kathaṃ cana 6 sa hi dharmaṃ ca satyaṃ ca tyaktvā carati durmatiḥ na hi saṃtapyate tena tathārūpeṇa karmaṇā 7 tāṃ cāpi buddhiṃ pāpiṣṭhāṃ vardhayanty asya mantriṇaḥ śakuniḥ sūtaputraś ca bhrātā duḥśāsanas tathā 8 sa hi tyāgena rājyasya na śamaṃ samupeṣyati antareṇa vadhāt pārtha sānubandhaḥ suyodhanaḥ 9 na cāpi praṇipātena tyaktum icchati dharmarāṭ yācyamānas tu rājyaṃ sa na pradāsyati durmatiḥ 10 na tu manye sa tad vācyo yad yudhiṣṭhira śāsanam uktaṃ prayojanaṃ tatra dharmarājena bhārata 11 tathā pāpas tu tat sarvaṃ na kariṣyati kauravaḥ tasmiṃś cākriyamāṇe 'sau lokavadhyo bhaviṣyati 12 mama cāpi sa vadhyo vai jagataś cāpi bhārata yena kaumārake yūyaṃ sarve viprakṛtās tathā 13 vipraluptaṃ ca vo rājyaṃ nṛśaṃsena durātmanā na copaśāmyate pāpaḥ śriyaṃ dṛṣṭvā yudhiṣṭhire 14 asakṛc cāpy ahaṃ tena tvatkṛte pārtha bheditaḥ na mayā tadgṛhītaṃ ca pāpaṃ tasya cikīrṣitam 15 jānāsi hi mahābāho tvam apy asya paraṃ matam priyaṃ cikīrṣamāṇaṃ ca dharmarājasya mām api 16 sa jānaṃs tasya cātmānaṃ mama caiva paraṃ matam ajānann iva cākasmād arjunādyābhiśaṅkase 17 yac cāpi paramaṃ divyaṃ tac cāpy avagataṃ tvayā vidhānavihitaṃ pārtha kathaṃ śarma bhavet paraiḥ 18 yat tu vācā mayā śakyaṃ karmaṇā cāpi pāṇḍava kariṣye tad ahaṃ pārtha na tv āśaṃse śamaṃ paraiḥ 19 kathaṃ goharaṇe brūyād icchañ śarma tathāvidham yācyamāno 'pi bhīṣmeṇa saṃvatsaragate 'dhvani 20 tadaiva te parābhūtā yadā saṃkalpitās tvayā lavaśaḥ kṣaṇaśaś cāpi na ca tuṣṭaḥ suyodhanaḥ 21 sarvathā tu mayā kāryaṃ dharmarājasya śāsanam vibhāvyaṃ tasya bhūyaś ca karma pāpaṃ durātmanaḥ |
The Mahabharata in Sanskrit
Book 5
Chapter 78
|
1
[नकुल] उक्तं बहुविधं वाक्यं धर्मराजेन माधव धर्मज्ञेन वदान्येन धर्मयुक्तं च तत्त्वतः 2 मतम आज्ञाय राज्ञश च भीमसेनेन माधव संशमॊ बाहुवीर्यं च खयापितं माधवात्मनः 3 तथैव फल्गुनेनापि यद उक्तं तत तवया शरुतम आत्मनश च मतं वीर कथितं भवतासकृत 4 सर्वम एतद अतिक्रम्य शरुत्वा परमतं भवान यत पराप्तकालं मन्येथास तत कुर्याः पुरुषॊत्तम 5 तस्मिंस तस्मिन निमित्ते हि मतं भवति केशव पराप्तकालं मनुष्येण सवयं कार्यम अरिंदम 6 अन्यथा चिन्तितॊ हय अर्थः पुनर भवति सॊ ऽनयथा अनित्य मतयॊ लॊके नराः पुरुषसत्तम 7 अन्यथा बुद्धयॊ हय आसन्न अस्मासु वनवासिषु अदृश्येष्व अन्यथा कृष्ण दृश्येषु पुनर अन्यथा 8 अस्माकम अपि वार्ष्णेय वने विचरतां तदा न तथा परणयॊ राज्ये यथा संप्रति वर्तते 9 निवृत्तवनवासान नः शरुत्वा वीर समागताः अक्षौहिण्यॊ हि सप्तेमास तवत्प्रसादाज जनार्दन 10 इमान हि पुरुषव्याघ्रान अचिन्त्यबलपौरुषान आत्तशस्त्रान रणे दृष्ट्वा न वयथेद इह कः पुमान 11 स भवान कुरुमध्ये तं सान्त्वपूर्वं भयान्वितम बरूयाद वाक्यं यथा मन्दॊ न वयथेत सुयॊधनः 12 युधिष्ठिरं भीमसेनं बीभत्सुं चापराजितम सहदेवं च मां चैव तवां च रामं च केशव 13 सात्यकिं च महावीर्यं विराटं च सहात्मजम दरुपदं च सहामात्यं धृष्टद्युम्नं च पार्षतम 14 काशिराजं च विक्रान्तं धृष्टकेतुं च चेदिपम मांसशॊणितभृन मर्त्यः परतियुध्येत कॊ युधि 15 स भवान गमनाद एव साधयिष्यत्य असंशयम इष्टम अर्थं महाबाहॊ धर्मराजस्य केवलम 16 विदुरश चैव भीष्मश च दरॊणश च सह बाह्लिकः शरेयः समर्था विज्ञातुम उच्यमानं तवयानघ 17 ते चैनम अनुनेष्यन्ति धृतराष्ट्रं जनाधिपम तं च पापसमाचारं सहामात्यं सुयॊधनम 18 शरॊता चार्थस्य विदुरस तवं च वक्ता जनार्दन कम इवार्थं विवर्तन्तं सथापयेतां न वर्त्मनि |
1
[nakula] uktaṃ bahuvidhaṃ vākyaṃ dharmarājena mādhava dharmajñena vadānyena dharmayuktaṃ ca tattvataḥ 2 matam ājñāya rājñaś ca bhīmasenena mādhava saṃśamo bāhuvīryaṃ ca khyāpitaṃ mādhavātmanaḥ 3 tathaiva phalgunenāpi yad uktaṃ tat tvayā śrutam ātmanaś ca mataṃ vīra kathitaṃ bhavatāsakṛt 4 sarvam etad atikramya śrutvā paramataṃ bhavān yat prāptakālaṃ manyethās tat kuryāḥ puruṣottama 5 tasmiṃs tasmin nimitte hi mataṃ bhavati keśava prāptakālaṃ manuṣyeṇa svayaṃ kāryam ariṃdama 6 anyathā cintito hy arthaḥ punar bhavati so 'nyathā anitya matayo loke narāḥ puruṣasattama 7 anyathā buddhayo hy āsann asmāsu vanavāsiṣu adṛśyeṣv anyathā kṛṣṇa dṛśyeṣu punar anyathā 8 asmākam api vārṣṇeya vane vicaratāṃ tadā na tathā praṇayo rājye yathā saṃprati vartate 9 nivṛttavanavāsān naḥ śrutvā vīra samāgatāḥ akṣauhiṇyo hi saptemās tvatprasādāj janārdana 10 imān hi puruṣavyāghrān acintyabalapauruṣān āttaśastrān raṇe dṛṣṭvā na vyathed iha kaḥ pumān 11 sa bhavān kurumadhye taṃ sāntvapūrvaṃ bhayānvitam brūyād vākyaṃ yathā mando na vyatheta suyodhanaḥ 12 yudhiṣṭhiraṃ bhīmasenaṃ bībhatsuṃ cāparājitam sahadevaṃ ca māṃ caiva tvāṃ ca rāmaṃ ca keśava 13 sātyakiṃ ca mahāvīryaṃ virāṭaṃ ca sahātmajam drupadaṃ ca sahāmātyaṃ dhṛṣṭadyumnaṃ ca pārṣatam 14 kāśirājaṃ ca vikrāntaṃ dhṛṣṭaketuṃ ca cedipam māṃsaśoṇitabhṛn martyaḥ pratiyudhyeta ko yudhi 15 sa bhavān gamanād eva sādhayiṣyaty asaṃśayam iṣṭam arthaṃ mahābāho dharmarājasya kevalam 16 viduraś caiva bhīṣmaś ca droṇaś ca saha bāhlikaḥ śreyaḥ samarthā vijñātum ucyamānaṃ tvayānagha 17 te cainam anuneṣyanti dhṛtarāṣṭraṃ janādhipam taṃ ca pāpasamācāraṃ sahāmātyaṃ suyodhanam 18 śrotā cārthasya viduras tvaṃ ca vaktā janārdana kam ivārthaṃ vivartantaṃ sthāpayetāṃ na vartmani |
The Mahabharata in Sanskrit
Book 5
Chapter 79
|
1
[सहदेव] यद एतत कथितं राज्ञा धर्म एष सनातनः यथा तु युद्धम एव सयात तथा कार्यम अरिंदम 2 यदि परशमम इच्छेयुः कुरवः पाण्डवैः सह तथापि युद्धं दाशार्ह यॊजयेथाः सहैव तैः 3 कथं नु दृष्ट्वा पाञ्चालीं तथा कलिष्टां सभा गताम अवधेन परशाम्येत मम मन्युः सुयॊधने 4 यदि भीमार्जुनौ कृष्ण धर्मराजश च धार्मिकः धर्मम उत्सृज्य तेनाहं यॊद्धुम इच्छामि संयुगे 5 [सात्यकि] सत्यम आह महाबाहॊ सहदेवॊ महामतिः दुर्यॊधन वधे शान्तिस तस्य कॊपस्य मे भवेत 6 जानासि हि यथादृष्ट्वा चीराजिनधरान वने तवापि मन्युर उद्भूतॊ दुःखितान परेक्ष्य पाण्डवान 7 तस्मान माद्री सुतः शूरॊ यद आह पुरुषर्षभः वचनं सर्वयॊधानां तन मतं पुरुषॊत्तम 8 [व] एवं वदति वाक्यं तु युयुधाने महामतौ सुभीमः सिंहनादॊ ऽभूद यॊधानां तत्र सर्वशः 9 सर्वे हि सर्वतॊ वीरास तद वचः परत्यपूजयन साधु साध्व इति शैनेयं हर्षयन्तॊ युयुत्सवः |
1
[sahadeva] yad etat kathitaṃ rājñā dharma eṣa sanātanaḥ yathā tu yuddham eva syāt tathā kāryam ariṃdama 2 yadi praśamam iccheyuḥ kuravaḥ pāṇḍavaiḥ saha tathāpi yuddhaṃ dāśārha yojayethāḥ sahaiva taiḥ 3 kathaṃ nu dṛṣṭvā pāñcālīṃ tathā kliṣṭāṃ sabhā gatām avadhena praśāmyeta mama manyuḥ suyodhane 4 yadi bhīmārjunau kṛṣṇa dharmarājaś ca dhārmikaḥ dharmam utsṛjya tenāhaṃ yoddhum icchāmi saṃyuge 5 [sātyaki] satyam āha mahābāho sahadevo mahāmatiḥ duryodhana vadhe śāntis tasya kopasya me bhavet 6 jānāsi hi yathādṛṣṭvā cīrājinadharān vane tavāpi manyur udbhūto duḥkhitān prekṣya pāṇḍavān 7 tasmān mādrī sutaḥ śūro yad āha puruṣarṣabhaḥ vacanaṃ sarvayodhānāṃ tan mataṃ puruṣottama 8 [v] evaṃ vadati vākyaṃ tu yuyudhāne mahāmatau subhīmaḥ siṃhanādo 'bhūd yodhānāṃ tatra sarvaśaḥ 9 sarve hi sarvato vīrās tad vacaḥ pratyapūjayan sādhu sādhv iti śaineyaṃ harṣayanto yuyutsavaḥ |
The Mahabharata in Sanskrit
Book 5
Chapter 80
|
1
[व] राज्ञस तु वचनं शरुत्वा धर्मार्थसहितं हितम कृष्णा दाशार्हम आसीनम अब्रवीच छॊककर्षिता 2 सुता दरुपदराजस्य सवसितायत मूर्धजा संपूज्य सहदेवं च सात्यकिं च महारथम 3 भीमसेनं च संशान्तं दृष्ट्वा परमदुर्मनाः अश्रुपूर्णेक्षणा वाक्यम उवाचेदं मनस्विनी 4 विदितं ते महाबाहॊ धर्मज्ञ मधुसूदन यथा निकृतिम आस्थाय भरंशिताः पाण्डवाः सुखात 5 धृतराष्ट्रस्य पुत्रेण सामात्येन जनार्दन यथा च संजयॊ राज्ञा मन्त्रं रहसि शरावितः 6 युधिष्ठिरेण दाशार्ह तच चापि विदितं तव यथॊक्तः संजयश चैव तच च सर्वं शरुतं तवया 7 पञ्च नस तात दीयन्तां गरामा इति महाद्युते कुश सथलं वृकस्थलम आसन्दी वारणावतम 8 अवसानं महाबाहॊ किं चिद एव तु पञ्चमम इति दुर्यॊधनॊ वाच्यः सुहृदश चास्य केशव 9 तच चापि नाकरॊद वाक्यं शरुत्वा कृष्ण सुयॊधनः युधिष्ठिरस्य दाशार्ह हरीमतः संधिम इच्छतः 10 अप्रदानेन राज्यस्य यदि कृष्ण सुयॊधनः संधिम इच्छेन न कर्तव्यस तत्र गत्वा कथं चन 11 शक्ष्यन्ति हि महाबाहॊ पाण्डवाः सृञ्जयैः सह धार्तराष्ट्र बलं घॊरं करुद्धं परतिसमासितुम 12 न हि साम्ना न दानेन शक्यॊ ऽरथस तेषु कश चन तस्मात तेषु न कर्तव्या कृपा ते मधुसूदन 13 साम्ना दानेन वा कृष्ण ये न शाम्यन्ति शत्रवः मॊक्तव्यस तेषु दण्डः सयाज जीवितं परिरक्षता 14 तस्मात तेषु महादण्डः कषेप्तव्यः कषिप्रम अच्युत तवया चैव महाबाहॊ पाण्डवैः सह सृज्ञ्जयैः 15 एतत समर्थं पार्थानां तव चैव यशः करम करियमाणं भवेत कृष्ण कषत्रस्य च सुखावहम 16 कषत्रियेण हि हन्तव्यः कषत्रियॊ लॊभम आस्थितः अक्षत्रियॊ वा दाशार्ह सवधर्मम अनुतिष्ठता 17 अन्यत्र बराह्मणात तात सर्वपापेष्व अवस्थितात गुरुर हि सर्ववर्णानां बराह्मणः परसृताग्र भुज 18 यथा वध्ये भवेद दॊषॊ वध्यमाने जनार्दन स वध्यस्यावधे दृष्ट इति धर्मविदॊ विदुः 19 यथा तवां न सपृशेद एष दॊषः कृष्ण तथा कुरु पाण्डवैः सह दाशार्ह सृञ्जयैश च ससैनिकैः 20 पुनर उक्तं च वक्ष्यामि विश्रम्भेण जनार्दन का नु सीमन्तिनी मादृक पृथिव्याम अस्ति केशव 21 सुता दरुपदराजस्य वेदिमध्यात समुत्थिता धृष्टद्युम्नस्य भगिनी तव कृष्ण परिया सखी 22 आजमीढ कुलं पराप्ता सनुषा पाण्डॊर महात्मनः महिषी पाण्डुपुत्राणां पञ्चेन्द्र समवर्चसाम 23 सुता मे पञ्चभिर वीरैः पञ्च जाता महारथाः अभिमन्युर यथा कृष्ण तथा ते तव धर्मतः 24 साहं केशग्रहं पराप्ता परिक्लिष्टा सभां गता पश्यतां पाण्डुपुत्राणां तवयि जीवति केशव 25 जीवत्सु कौरवेयेषु पाञ्चालेष्व अथ वृष्णिषु दासी भूतास्मि पापानां सभामध्ये वयवस्थिता 26 निरामर्षेष्व अचेष्टेषु परेक्षमाणेषु पाण्डुषु तराहि माम इति गॊविन्द मनसा काङ्क्षितॊ ऽसि मे 27 यत्र मां भगवान राजा शवशुरॊ वाक्यम अब्रवीत वरं वृणीष्व पाञ्चालि वरार्हासि मतासि मे 28 अदासाः पाण्डवाः सन्तु सरथाः सायुधा इति मयॊक्ते यत्र निर्मुक्ता वनवासाय केशव 29 एवंविधानां दुःखानाम अभिज्ञॊ ऽसि जनार्दन तराहि मां पुण्डरीकाक्ष सभर्तृज्ञातिबान्धवाम 30 नन्व अहं कृष्ण भीष्मस्य धृतराष्ट्रस्य चॊभयॊः सनुषा भवामि धर्मेण साहं दासी कृताभवम 31 धिग बलं भीमसेनस्य धिक पार्थस्य धनुष्मताम यत्र दुर्यॊधनः कृष्ण मुहूर्तम अपि जीवति 32 यदि ते ऽहम अनुग्राह्या यदि ते ऽसति कृपा मयि धार्तराष्ट्रेषु वै कॊपः सर्वः कृष्ण विधीयताम 33 इत्य उक्त्वा मृदु संहारं वृजिनाग्रं सुदर्शनम सुनीलम असितापाङ्गी पुण्यगन्धाधिवासितम 34 सर्वलक्षणसंपन्नं महाभुजग वर्चसम केशपक्षं वरारॊहा गृह्य सव्येन पाणिना 35 पद्माक्षी पुण्डरीकाक्षम उपेत्य गजगामिनी अश्रुपूर्णेक्षणा कृष्णा कृष्णं वचनम अब्रवीत 36 अयं ते पुण्डरीकाक्ष दुःशासन करॊद्धृतः समर्तव्यः सर्वकालेषु परेषां संधिम इच्छता 37 यदि भीमार्जुनौ कृष्ण कृपणौ संधिकामुकौ पिता मे यॊत्स्यते वृद्धः सह पुत्रैर महारथैः 38 पञ्च चैव महावीर्याः पुत्रा मे मधुसूदन अभिमन्युं पुरस्कृत्य यॊत्स्यन्ति कुरुभिः सह 39 दुःशासन भुजं शयामं संछिन्नं पांसुगुण्ठितम यद्य अहं तं न पश्यामि का शान्तिर हृदयस्य मे 40 तरयॊदश हि वर्षाणि परतीक्षन्त्या गतानि मे निधाय हृदये मन्युं परदीप्तम इव पावकम 41 विदीर्यते मे हृदयं भीम वाक्शल्य पीडितम यॊ ऽयम अद्य महाबाहुर धर्मं समनुपश्यति 42 इत्य उक्त्वा बाष्पसन्नेन कण्ठेनायत लॊचना रुरॊद कृष्णा सॊत्कम्पं सस्वरं बाष्पगद्गदम 43 सतनौ पीनायतश्रॊणी सहिताव अभिवर्षती दरवी भूतम इवात्युष्णम उत्सृजद वारि नेत्रजम 44 ताम उवाच महाबाहुः केशवः परिसान्त्वयन अचिराद दरक्ष्यसे कृष्णे रुदतीर भरत सत्रियः 45 एवं ता भीरु रॊत्स्यन्ति निहतज्ञातिबान्धवाः हतमित्रा हतबला येषां करुद्धासि भामिनि 46 अहं च तत करिष्यामि भींमार्जुन यमैः सह युधिष्ठिर नियॊगेन दैवाच च विधिनिर्मितात 47 धार्तराष्ट्राः कालपक्वा न चेच छृण्वन्ति मे वचः शेष्यन्ते निहता भूमौ शवशृगालादनी कृताः 48 चलेद धि हिमवाञ शैलॊ मेदिनी शतधा भवेत दयौः पतेच च सनक्षत्रा न मे मॊघं वचॊ भवेत 49 सत्यं ते परतिजानामि कृष्णे बाष्पॊ निगृह्यताम हतामित्राञ शरिया युक्तान अचिराद दरक्ष्यसे पतीन |
1
[v] rājñas tu vacanaṃ śrutvā dharmārthasahitaṃ hitam kṛṣṇā dāśārham āsīnam abravīc chokakarṣitā 2 sutā drupadarājasya svasitāyata mūrdhajā saṃpūjya sahadevaṃ ca sātyakiṃ ca mahāratham 3 bhīmasenaṃ ca saṃśāntaṃ dṛṣṭvā paramadurmanāḥ aśrupūrṇekṣaṇā vākyam uvācedaṃ manasvinī 4 viditaṃ te mahābāho dharmajña madhusūdana yathā nikṛtim āsthāya bhraṃśitāḥ pāṇḍavāḥ sukhāt 5 dhṛtarāṣṭrasya putreṇa sāmātyena janārdana yathā ca saṃjayo rājñā mantraṃ rahasi śrāvitaḥ 6 yudhiṣṭhireṇa dāśārha tac cāpi viditaṃ tava yathoktaḥ saṃjayaś caiva tac ca sarvaṃ śrutaṃ tvayā 7 pañca nas tāta dīyantāṃ grāmā iti mahādyute kuśa sthalaṃ vṛkasthalam āsandī vāraṇāvatam 8 avasānaṃ mahābāho kiṃ cid eva tu pañcamam iti duryodhano vācyaḥ suhṛdaś cāsya keśava 9 tac cāpi nākarod vākyaṃ śrutvā kṛṣṇa suyodhanaḥ yudhiṣṭhirasya dāśārha hrīmataḥ saṃdhim icchataḥ 10 apradānena rājyasya yadi kṛṣṇa suyodhanaḥ saṃdhim icchen na kartavyas tatra gatvā kathaṃ cana 11 śakṣyanti hi mahābāho pāṇḍavāḥ sṛñjayaiḥ saha dhārtarāṣṭra balaṃ ghoraṃ kruddhaṃ pratisamāsitum 12 na hi sāmnā na dānena śakyo 'rthas teṣu kaś cana tasmāt teṣu na kartavyā kṛpā te madhusūdana 13 sāmnā dānena vā kṛṣṇa ye na śāmyanti śatravaḥ moktavyas teṣu daṇḍaḥ syāj jīvitaṃ parirakṣatā 14 tasmāt teṣu mahādaṇḍaḥ kṣeptavyaḥ kṣipram acyuta tvayā caiva mahābāho pāṇḍavaiḥ saha sṛjñjayaiḥ 15 etat samarthaṃ pārthānāṃ tava caiva yaśaḥ karam kriyamāṇaṃ bhavet kṛṣṇa kṣatrasya ca sukhāvaham 16 kṣatriyeṇa hi hantavyaḥ kṣatriyo lobham āsthitaḥ akṣatriyo vā dāśārha svadharmam anutiṣṭhatā 17 anyatra brāhmaṇāt tāta sarvapāpeṣv avasthitāt gurur hi sarvavarṇānāṃ brāhmaṇaḥ prasṛtāgra bhuj 18 yathā vadhye bhaved doṣo vadhyamāne janārdana sa vadhyasyāvadhe dṛṣṭa iti dharmavido viduḥ 19 yathā tvāṃ na spṛśed eṣa doṣaḥ kṛṣṇa tathā kuru pāṇḍavaiḥ saha dāśārha sṛñjayaiś ca sasainikaiḥ 20 punar uktaṃ ca vakṣyāmi viśrambheṇa janārdana kā nu sīmantinī mādṛk pṛthivyām asti keśava 21 sutā drupadarājasya vedimadhyāt samutthitā dhṛṣṭadyumnasya bhaginī tava kṛṣṇa priyā sakhī 22 ājamīḍha kulaṃ prāptā snuṣā pāṇḍor mahātmanaḥ mahiṣī pāṇḍuputrāṇāṃ pañcendra samavarcasām 23 sutā me pañcabhir vīraiḥ pañca jātā mahārathāḥ abhimanyur yathā kṛṣṇa tathā te tava dharmataḥ 24 sāhaṃ keśagrahaṃ prāptā parikliṣṭā sabhāṃ gatā paśyatāṃ pāṇḍuputrāṇāṃ tvayi jīvati keśava 25 jīvatsu kauraveyeṣu pāñcāleṣv atha vṛṣṇiṣu dāsī bhūtāsmi pāpānāṃ sabhāmadhye vyavasthitā 26 nirāmarṣeṣv aceṣṭeṣu prekṣamāṇeṣu pāṇḍuṣu trāhi mām iti govinda manasā kāṅkṣito 'si me 27 yatra māṃ bhagavān rājā śvaśuro vākyam abravīt varaṃ vṛṇīṣva pāñcāli varārhāsi matāsi me 28 adāsāḥ pāṇḍavāḥ santu sarathāḥ sāyudhā iti mayokte yatra nirmuktā vanavāsāya keśava 29 evaṃvidhānāṃ duḥkhānām abhijño 'si janārdana trāhi māṃ puṇḍarīkākṣa sabhartṛjñātibāndhavām 30 nanv ahaṃ kṛṣṇa bhīṣmasya dhṛtarāṣṭrasya cobhayoḥ snuṣā bhavāmi dharmeṇa sāhaṃ dāsī kṛtābhavam 31 dhig balaṃ bhīmasenasya dhik pārthasya dhanuṣmatām yatra duryodhanaḥ kṛṣṇa muhūrtam api jīvati 32 yadi te 'ham anugrāhyā yadi te 'sti kṛpā mayi dhārtarāṣṭreṣu vai kopaḥ sarvaḥ kṛṣṇa vidhīyatām 33 ity uktvā mṛdu saṃhāraṃ vṛjināgraṃ sudarśanam sunīlam asitāpāṅgī puṇyagandhādhivāsitam 34 sarvalakṣaṇasaṃpannaṃ mahābhujaga varcasam keśapakṣaṃ varārohā gṛhya savyena pāṇinā 35 padmākṣī puṇḍarīkākṣam upetya gajagāminī aśrupūrṇekṣaṇā kṛṣṇā kṛṣṇaṃ vacanam abravīt 36 ayaṃ te puṇḍarīkākṣa duḥśāsana karoddhṛtaḥ smartavyaḥ sarvakāleṣu pareṣāṃ saṃdhim icchatā 37 yadi bhīmārjunau kṛṣṇa kṛpaṇau saṃdhikāmukau pitā me yotsyate vṛddhaḥ saha putrair mahārathaiḥ 38 pañca caiva mahāvīryāḥ putrā me madhusūdana abhimanyuṃ puraskṛtya yotsyanti kurubhiḥ saha 39 duḥśāsana bhujaṃ śyāmaṃ saṃchinnaṃ pāṃsuguṇṭhitam yady ahaṃ taṃ na paśyāmi kā śāntir hṛdayasya me 40 trayodaśa hi varṣāṇi pratīkṣantyā gatāni me nidhāya hṛdaye manyuṃ pradīptam iva pāvakam 41 vidīryate me hṛdayaṃ bhīma vākśalya pīḍitam yo 'yam adya mahābāhur dharmaṃ samanupaśyati 42 ity uktvā bāṣpasannena kaṇṭhenāyata locanā ruroda kṛṣṇā sotkampaṃ sasvaraṃ bāṣpagadgadam 43 stanau pīnāyataśroṇī sahitāv abhivarṣatī dravī bhūtam ivātyuṣṇam utsṛjad vāri netrajam 44 tām uvāca mahābāhuḥ keśavaḥ parisāntvayan acirād drakṣyase kṛṣṇe rudatīr bharata striyaḥ 45 evaṃ tā bhīru rotsyanti nihatajñātibāndhavāḥ hatamitrā hatabalā yeṣāṃ kruddhāsi bhāmini 46 ahaṃ ca tat kariṣyāmi bhīṃmārjuna yamaiḥ saha yudhiṣṭhira niyogena daivāc ca vidhinirmitāt 47 dhārtarāṣṭrāḥ kālapakvā na cec chṛṇvanti me vacaḥ śeṣyante nihatā bhūmau śvaśṛgālādanī kṛtāḥ 48 caled dhi himavāñ śailo medinī śatadhā bhavet dyauḥ patec ca sanakṣatrā na me moghaṃ vaco bhavet 49 satyaṃ te pratijānāmi kṛṣṇe bāṣpo nigṛhyatām hatāmitrāñ śriyā yuktān acirād drakṣyase patīn |
The Mahabharata in Sanskrit
Book 5
Chapter 81
|
1
[अर्जुन] कुरूणाम अद्य सर्वेषां भवान सुहृद अनुत्तमः संबन्धी दयितॊ नित्यम उभयॊः पक्षयॊर अपि 2 पाण्डवैर धार्तराष्ट्राणां परतिपाद्यम अनामयम समर्थ परशमं चैषां कर्तुं तवम असि केशव 3 तवम इतः पुण्डरीकाक्ष सुयॊधनम अमर्षणम शान्त्य अर्थं भारतं बरूया यत तद वाच्यम अमित्रहन 4 तवया धर्मार्थयुक्तं चेद उक्तं शिवम अनामयम हितं नादास्यते बालॊ दिष्टस्य वशम एष्यति 5 [भ] धर्म्यम अस्मद्धितं चैव कुरूणां यद अनामयम एष यास्यामि राजानं धृतराष्ट्रम अभीष्प्सया 6 [व] ततॊ वयपेते तमसि सूर्ये विमल उद्गते मैत्रे मुहूर्ते संप्राप्ते मृद्व अर्चिषि दिवाकरे 7 कौमुदे मासि रेवत्यां शरद अन्ते हिमागमे सफीतसस्यमुखे काले कल्यः सत्त्ववतां वरः 8 मङ्गल्याः पुण्यनिर्घॊषा वाचः शृण्वंश च सूनृताः बराह्मणानां परतीतानाम ऋषीणाम इव वासवः 9 कृत्वा पौर्वाह्णिकं कृत्यं सनातः शुचिर अलंकृतः उपतस्थे विवस्वन्तं पावकं च जनार्दनः 10 ऋषभं पृष्ठ आलभ्य बराह्मणान अभिवाद्य च अग्निं परदक्षिणं कृत्वा पश्यन कल्याणम अग्रतः 11 तत परतिज्ञाय वचनं पाण्डवस्य जनार्दनः शिनेर नप्तारम आसीनम अभ्यभाषत सात्यकिम 12 रथ आरॊप्यतां शङ्खश चक्रं च गदया सह उपासङ्गाश च शक्त्यश च सर्वप्रहरणानि च 13 दुर्यॊधनॊ हि दुष्टात्मा कर्णश च सह सौबलः न च शत्रुर अवज्ञेयः पराकृतॊ ऽपि बलीयसा 14 ततस तन मतम आज्ञाय केशवस्य पुरःसराः परसस्रुर यॊजयिष्यन्तॊ रथं चक्रगदाभृतः 15 तं दीप्तम इव कालाग्निम आकाशगम इवाध्वगम चन्द्रसूर्यप्रकाशाभ्यां चक्राभ्यां समलंकृतम 16 अर्धचन्द्रैश च चन्द्रैश च मत्स्यैः समृगपक्षिभिः पुष्पैश च विविधैश चित्रं मणिरत्नैश च सर्वशः 17 तरुणादित्यसंकाशं बृहन्तं चारुदर्शनम मणिहेमविचित्राङ्गं सुध्वजं सुपताकिनम 18 सूपस्करम अनाधृष्यं वैयाघ्रपरिवारणम यशॊघ्नं परत्यमित्राणां यदूनां नन्दिवर्धनम 19 वाजिभिः सैन्यसुग्रीवम एध पुष्पबलाहकैः सनातैः संपादयां चक्रुः संपन्नैः सर्वसंपदा 20 महिमानं तु कृष्णस्य भूय एवाभिवर्धयन सुघॊषः पतगेन्द्रेण धवजेन युयुजे रथः 21 तं मेरुशिखरप्रख्यं मेघदुन्दुभि निस्वनम आरुरॊह रथं शौरिर विमानम इव पुण्यकृत 22 ततः सात्यकिम आरॊप्य परययौ पुरुषॊत्तमः पृथिवीं चान्तरिक्षं च रथगॊषेण नादयन 23 वयपॊढाभ्र घनः कालः कषणेन समपद्यत शिवश चानुववौ वायुः परशान्तम अभवद रविः 24 परदक्षिणानुलॊमाश च मङ्गल्या मृगपक्षिणः परयाणे वासुदेवस्य बभूवुर अनुयायिनः 25 मङ्गल्यार्थ पदैः शब्दैर अन्ववर्तन्त सर्वशः सारसाः शतपत्राश च हंसाश च मधुसूदनम 26 मन्त्राहुति महाहॊमैर हूयमानश च पावकः परदक्षिणशिखॊ भूत्वा विधूमः समपद्यत 27 वसिष्ठॊ वामदेवश च भूरिद्युम्नॊ गयः करथः शुक्रनारद वाल्मीका मरुतः कुशिकॊ भृगुः 28 बरह्म देवर्षयश चैव कृष्णं यदुसुखावहम परदक्षिणम अवर्तन्त सहिता वासवानुजम 29 एवम एतैर महाभागैर महर्षिगणसाधुभिः पूजितः परययौ कृष्णः कुरूणां सदनं परति 30 तं परयान्तम अनुप्रायात कुन्तीपुत्रॊ युधिष्ठिरः भीमसेनार्जुनौ चॊभौ माद्रीपुत्रौ च पाण्डवौ 31 चेकितानश च विक्रान्तॊ धृष्टकेतुश च चेदिपः दरुपदः काशिराजश च शिखण्डी च महारथः 32 धृष्टद्युम्नः सपुत्रश च विराटः केकयैः सह संसाधनार्थं परययुः कषत्रियाः कषत्रियर्षभम 33 ततॊ ऽनुव्रज्य गॊविन्दं धर्मराजॊ युधिष्ठिरः राज्ञां सकाशे दयुतिमान उवाचेदं वचस तदा 34 यॊ नैव कामान न भयान न लॊभान नार्थकारणात अन्यायम अनुवर्तेत सथिरबुद्धिर अलॊलुपः 35 धर्मज्ञॊ धृतिमान पराज्ञः सर्वभूतेषु केशवः ईश्वरः सर्वभूतानां देवदेवः परतापवान 36 तं सर्वगुणसंपन्नं शरीवत्स कृतलक्षणम संपरिष्वज्य कौन्तेयः संदेष्टुम उपचक्रमे 37 या सा बाल्यात परभृत्य अस्मान पर्यवर्धयताबला उपवासतपः शीला सदा सवस्त्ययने रता 38 देवतातिथिपूजासु गुरुशुश्रूषणे रता वत्सला परियपुत्रा च परियास्माकं जनार्दन 39 सुयॊधन भयाद या नॊ ऽतरायतामित्रकर्शन महतॊ मृत्युसंबाधाद उत्तरन नौर इवार्णवात 40 अस्मत कृते च सततं यया दुःखानि माधव अनुभूतान्य अदुःखार्हा तां सम पृच्छेर अनामयम 41 भृशम आश्वासयेश चैनां पुत्रशॊकपरिप्लुताम अभिवाद्य सवजेथाश च पाण्डवान परिकीर्तयन 42 ऊढात परभृति दुःखानि शवशुराणाम अरिंदम निकारान अतदर्हा च पश्यन्ती दुःखम अश्नुते 43 अपि जातु स कालः सयात कृष्ण दुःखविपर्ययः यद अहं मातरं कलिष्टां सुखे दध्याम अरिंदम 44 परव्रजन्तॊ ऽनवधावत सा कृपणा पुत्रगृद्धिनी रुदतीम अपहायैनाम उपगच्छाम यद वनम 45 न नूनं मरियते दुःखैः सा चेज जीवति केशव तथा पुत्राधिभिर गाढम आर्ता हय आनर्त सत्कृता 46 अभिवाद्या तु सा कृष्ण तवया मद्वचनाद विभॊ धृतराष्ट्रश च कौरव्यॊ राजानश च वयॊ ऽधिकाः 47 भीष्मं दरॊणं कृपं चैव महाराजं च बाह्लिकम दरौणिं च सॊमदत्तं च सर्वांश च भरतान पृथक 48 विदुरं च महाप्राज्ञं कुरूणां मन्त्रधारिणम अगाध बुद्धिं धर्मज्ञं सवजेथा मधुसूदन 49 इत्य उक्त्वा केशवं तत्र राजमध्ये युधिष्ठिरः अनुज्ञातॊ निववृते कृष्णं कृत्वा परदक्षिणम 50 वरजन्न एव तु बीभत्सुः सखायं पुरुषर्षभम अब्रवीत परवीरघ्नं दाशार्हम अपराजितम 51 यद अस्माकं विभॊ वृत्तं पुरा वै मन्त्रनिश्चये अर्धराज्यस्य गॊविन्द विदितं सर्वराजसु 52 तच चेद दद्याद असङ्गेन सत्कृत्यानवमन्य च परियं मे सयान महाबाहॊ मुच्येरन महतॊ भयात 53 अतश चेद अन्यथा कर्ता धार्तराष्ट्रॊ ऽनुपायवित अन्तं नूनं करिष्यामि कषत्रियाणां जनार्दन 54 एवम उक्ते पाण्डवेन पर्यहृष्यद वृकॊदरः मुहुर मुहुः करॊधवशात परवेपत च पाण्डवः 55 वेपमानश च कौन्तेयः पराक्रॊशन महतॊ रवान धनंजय वचः शरुत्वा हर्षॊत्सिक मना भृशम 56 तस्य तं निनदं शरुत्वा संप्रावेपन्त धन्विनः वाहनानि च सर्वाणि शकृन मूत्रं परसुस्रुवुः 57 इत्य उक्त्वा केशवं तत्र तथा चॊक्त्वा विनिश्चयम अनुज्ञातॊ निववृते परिष्वज्य जनार्दनम 58 तेषु राजसु सर्वेषु निवृत्तेषु जनार्दनः तूर्णम अभ्यपतद धृष्टः सैन्यसुग्रीव वाहनः 59 ते हया वासुदेवस्य दारुकेण परचॊदिताः पन्थानम आचेमुर इव गरसमाना इवाम्बरम 60 अथापश्यन महाबाहुर ऋषीन अध्वनि केशवः बराह्म्या शरिया दीप्यमानान सथितान उभयतः पथि 61 सॊ ऽवतीर्य रथात तूर्णम अभिवाद्य जनार्दनः यथावत तान ऋषीन सर्वान अभ्यभाषत पूजयन 62 कच चिल लॊकेषु कुशलं कच चिद धर्मः सवनुष्ठितः बराह्मणानां तरयॊ वर्णाः कच चित तिष्ठन्ति शासने 63 तेभ्यः परयुज्य तां पूजां परॊवाच मधुसूदनः भगवन्तः कव संसिद्धाः का वीथी भवताम इह 64 किं वा भगवतां कार्यम अहं किं करवाणि वः केनार्थेनॊपसंप्राप्ता भगवन्तॊ महीतलम 65 तम अब्रवीज जामदग्न्य उपेत्य मधुसूदनम परिष्वज्य च गॊविन्दं पुरा सुचरिते सखा 66 देवर्षयः पुण्यकृतॊ बराह्मणाश च बहुश्रुताः राजर्षयश च दाशार्ह मानयन्तस तपस्विनः 67 देवासुरस्य दरष्टारः पुराणस्य महाद्युते समेतं पार्थिवं कषत्रं दिदृक्षन्तश च सर्वतः 68 सभासदश च राजानस तवां च सत्यं जनार्दन एतन महत परेक्षणीयं दरष्टुं गच्छाम केशव 69 धर्मार्थसहिता वाचः शरॊतुम इच्छामि माधव तवयॊच्यमानाः कुरुषु राजमध्ये परंतप 70 भीष्मद्रॊणादयश चैव विदुरश च महामतिः तवं च यादव शार्दूलसभायां वै समेष्यथ 71 तव वाक्यानि दिव्यानि तत्र तेषां च माधव शरॊतुम इच्छामि गॊविन्द सत्यानि च शुभानि च 72 आपृष्टॊ ऽसि महाबाहॊ पुनर दरक्ष्यामहे वयम याह्य अविघ्नेन वै वीर दरक्ष्यामस तवां सभा गतम |
1
[arjuna] kurūṇām adya sarveṣāṃ bhavān suhṛd anuttamaḥ saṃbandhī dayito nityam ubhayoḥ pakṣayor api 2 pāṇḍavair dhārtarāṣṭrāṇāṃ pratipādyam anāmayam samartha praśamaṃ caiṣāṃ kartuṃ tvam asi keśava 3 tvam itaḥ puṇḍarīkākṣa suyodhanam amarṣaṇam śānty arthaṃ bhārataṃ brūyā yat tad vācyam amitrahan 4 tvayā dharmārthayuktaṃ ced uktaṃ śivam anāmayam hitaṃ nādāsyate bālo diṣṭasya vaśam eṣyati 5 [bha] dharmyam asmaddhitaṃ caiva kurūṇāṃ yad anāmayam eṣa yāsyāmi rājānaṃ dhṛtarāṣṭram abhīṣpsayā 6 [v] tato vyapete tamasi sūrye vimala udgate maitre muhūrte saṃprāpte mṛdv arciṣi divākare 7 kaumude māsi revatyāṃ śarad ante himāgame sphītasasyamukhe kāle kalyaḥ sattvavatāṃ varaḥ 8 maṅgalyāḥ puṇyanirghoṣā vācaḥ śṛṇvaṃś ca sūnṛtāḥ brāhmaṇānāṃ pratītānām ṛṣīṇām iva vāsavaḥ 9 kṛtvā paurvāhṇikaṃ kṛtyaṃ snātaḥ śucir alaṃkṛtaḥ upatasthe vivasvantaṃ pāvakaṃ ca janārdanaḥ 10 ṛṣabhaṃ pṛṣṭha ālabhya brāhmaṇān abhivādya ca agniṃ pradakṣiṇaṃ kṛtvā paśyan kalyāṇam agrataḥ 11 tat pratijñāya vacanaṃ pāṇḍavasya janārdanaḥ śiner naptāram āsīnam abhyabhāṣata sātyakim 12 ratha āropyatāṃ śaṅkhaś cakraṃ ca gadayā saha upāsaṅgāś ca śaktyaś ca sarvapraharaṇāni ca 13 duryodhano hi duṣṭātmā karṇaś ca saha saubalaḥ na ca śatrur avajñeyaḥ prākṛto 'pi balīyasā 14 tatas tan matam ājñāya keśavasya puraḥsarāḥ prasasrur yojayiṣyanto rathaṃ cakragadābhṛtaḥ 15 taṃ dīptam iva kālāgnim ākāśagam ivādhvagam candrasūryaprakāśābhyāṃ cakrābhyāṃ samalaṃkṛtam 16 ardhacandraiś ca candraiś ca matsyaiḥ samṛgapakṣibhiḥ puṣpaiś ca vividhaiś citraṃ maṇiratnaiś ca sarvaśaḥ 17 taruṇādityasaṃkāśaṃ bṛhantaṃ cārudarśanam maṇihemavicitrāṅgaṃ sudhvajaṃ supatākinam 18 sūpaskaram anādhṛṣyaṃ vaiyāghraparivāraṇam yaśoghnaṃ pratyamitrāṇāṃ yadūnāṃ nandivardhanam 19 vājibhiḥ sainyasugrīvam edha puṣpabalāhakaiḥ snātaiḥ saṃpādayāṃ cakruḥ saṃpannaiḥ sarvasaṃpadā 20 mahimānaṃ tu kṛṣṇasya bhūya evābhivardhayan sughoṣaḥ patagendreṇa dhvajena yuyuje rathaḥ 21 taṃ meruśikharaprakhyaṃ meghadundubhi nisvanam āruroha rathaṃ śaurir vimānam iva puṇyakṛt 22 tataḥ sātyakim āropya prayayau puruṣottamaḥ pṛthivīṃ cāntarikṣaṃ ca rathagoṣeṇa nādayan 23 vyapoḍhābhra ghanaḥ kālaḥ kṣaṇena samapadyata śivaś cānuvavau vāyuḥ praśāntam abhavad raviḥ 24 pradakṣiṇānulomāś ca maṅgalyā mṛgapakṣiṇaḥ prayāṇe vāsudevasya babhūvur anuyāyinaḥ 25 maṅgalyārtha padaiḥ śabdair anvavartanta sarvaśaḥ sārasāḥ śatapatrāś ca haṃsāś ca madhusūdanam 26 mantrāhuti mahāhomair hūyamānaś ca pāvakaḥ pradakṣiṇaśikho bhūtvā vidhūmaḥ samapadyata 27 vasiṣṭho vāmadevaś ca bhūridyumno gayaḥ krathaḥ śukranārada vālmīkā marutaḥ kuśiko bhṛguḥ 28 brahma devarṣayaś caiva kṛṣṇaṃ yadusukhāvaham pradakṣiṇam avartanta sahitā vāsavānujam 29 evam etair mahābhāgair maharṣigaṇasādhubhiḥ pūjitaḥ prayayau kṛṣṇaḥ kurūṇāṃ sadanaṃ prati 30 taṃ prayāntam anuprāyāt kuntīputro yudhiṣṭhiraḥ bhīmasenārjunau cobhau mādrīputrau ca pāṇḍavau 31 cekitānaś ca vikrānto dhṛṣṭaketuś ca cedipaḥ drupadaḥ kāśirājaś ca śikhaṇḍī ca mahārathaḥ 32 dhṛṣṭadyumnaḥ saputraś ca virāṭaḥ kekayaiḥ saha saṃsādhanārthaṃ prayayuḥ kṣatriyāḥ kṣatriyarṣabham 33 tato 'nuvrajya govindaṃ dharmarājo yudhiṣṭhiraḥ rājñāṃ sakāśe dyutimān uvācedaṃ vacas tadā 34 yo naiva kāmān na bhayān na lobhān nārthakāraṇāt anyāyam anuvarteta sthirabuddhir alolupaḥ 35 dharmajño dhṛtimān prājñaḥ sarvabhūteṣu keśavaḥ īśvaraḥ sarvabhūtānāṃ devadevaḥ pratāpavān 36 taṃ sarvaguṇasaṃpannaṃ śrīvatsa kṛtalakṣaṇam saṃpariṣvajya kaunteyaḥ saṃdeṣṭum upacakrame 37 yā sā bālyāt prabhṛty asmān paryavardhayatābalā upavāsatapaḥ śīlā sadā svastyayane ratā 38 devatātithipūjāsu guruśuśrūṣaṇe ratā vatsalā priyaputrā ca priyāsmākaṃ janārdana 39 suyodhana bhayād yā no 'trāyatāmitrakarśana mahato mṛtyusaṃbādhād uttaran naur ivārṇavāt 40 asmat kṛte ca satataṃ yayā duḥkhāni mādhava anubhūtāny aduḥkhārhā tāṃ sma pṛccher anāmayam 41 bhṛśam āśvāsayeś caināṃ putraśokapariplutām abhivādya svajethāś ca pāṇḍavān parikīrtayan 42 ūḍhāt prabhṛti duḥkhāni śvaśurāṇām ariṃdama nikārān atadarhā ca paśyantī duḥkham aśnute 43 api jātu sa kālaḥ syāt kṛṣṇa duḥkhaviparyayaḥ yad ahaṃ mātaraṃ kliṣṭāṃ sukhe dadhyām ariṃdama 44 pravrajanto 'nvadhāvat sā kṛpaṇā putragṛddhinī rudatīm apahāyainām upagacchāma yad vanam 45 na nūnaṃ mriyate duḥkhaiḥ sā cej jīvati keśava tathā putrādhibhir gāḍham ārtā hy ānarta satkṛtā 46 abhivādyā tu sā kṛṣṇa tvayā madvacanād vibho dhṛtarāṣṭraś ca kauravyo rājānaś ca vayo 'dhikāḥ 47 bhīṣmaṃ droṇaṃ kṛpaṃ caiva mahārājaṃ ca bāhlikam drauṇiṃ ca somadattaṃ ca sarvāṃś ca bharatān pṛthak 48 viduraṃ ca mahāprājñaṃ kurūṇāṃ mantradhāriṇam agādha buddhiṃ dharmajñaṃ svajethā madhusūdana 49 ity uktvā keśavaṃ tatra rājamadhye yudhiṣṭhiraḥ anujñāto nivavṛte kṛṣṇaṃ kṛtvā pradakṣiṇam 50 vrajann eva tu bībhatsuḥ sakhāyaṃ puruṣarṣabham abravīt paravīraghnaṃ dāśārham aparājitam 51 yad asmākaṃ vibho vṛttaṃ purā vai mantraniścaye ardharājyasya govinda viditaṃ sarvarājasu 52 tac ced dadyād asaṅgena satkṛtyānavamanya ca priyaṃ me syān mahābāho mucyeran mahato bhayāt 53 ataś ced anyathā kartā dhārtarāṣṭro 'nupāyavit antaṃ nūnaṃ kariṣyāmi kṣatriyāṇāṃ janārdana 54 evam ukte pāṇḍavena paryahṛṣyad vṛkodaraḥ muhur muhuḥ krodhavaśāt pravepata ca pāṇḍavaḥ 55 vepamānaś ca kaunteyaḥ prākrośan mahato ravān dhanaṃjaya vacaḥ śrutvā harṣotsika manā bhṛśam 56 tasya taṃ ninadaṃ śrutvā saṃprāvepanta dhanvinaḥ vāhanāni ca sarvāṇi śakṛn mūtraṃ prasusruvuḥ 57 ity uktvā keśavaṃ tatra tathā coktvā viniścayam anujñāto nivavṛte pariṣvajya janārdanam 58 teṣu rājasu sarveṣu nivṛtteṣu janārdanaḥ tūrṇam abhyapatad dhṛṣṭaḥ sainyasugrīva vāhanaḥ 59 te hayā vāsudevasya dārukeṇa pracoditāḥ panthānam ācemur iva grasamānā ivāmbaram 60 athāpaśyan mahābāhur ṛṣīn adhvani keśavaḥ brāhmyā śriyā dīpyamānān sthitān ubhayataḥ pathi 61 so 'vatīrya rathāt tūrṇam abhivādya janārdanaḥ yathāvat tān ṛṣīn sarvān abhyabhāṣata pūjayan 62 kac cil lokeṣu kuśalaṃ kac cid dharmaḥ svanuṣṭhitaḥ brāhmaṇānāṃ trayo varṇāḥ kac cit tiṣṭhanti śāsane 63 tebhyaḥ prayujya tāṃ pūjāṃ provāca madhusūdanaḥ bhagavantaḥ kva saṃsiddhāḥ kā vīthī bhavatām iha 64 kiṃ vā bhagavatāṃ kāryam ahaṃ kiṃ karavāṇi vaḥ kenārthenopasaṃprāptā bhagavanto mahītalam 65 tam abravīj jāmadagnya upetya madhusūdanam pariṣvajya ca govindaṃ purā sucarite sakhā 66 devarṣayaḥ puṇyakṛto brāhmaṇāś ca bahuśrutāḥ rājarṣayaś ca dāśārha mānayantas tapasvinaḥ 67 devāsurasya draṣṭāraḥ purāṇasya mahādyute sametaṃ pārthivaṃ kṣatraṃ didṛkṣantaś ca sarvataḥ 68 sabhāsadaś ca rājānas tvāṃ ca satyaṃ janārdana etan mahat prekṣaṇīyaṃ draṣṭuṃ gacchāma keśava 69 dharmārthasahitā vācaḥ śrotum icchāmi mādhava tvayocyamānāḥ kuruṣu rājamadhye paraṃtapa 70 bhīṣmadroṇādayaś caiva viduraś ca mahāmatiḥ tvaṃ ca yādava śārdūlasabhāyāṃ vai sameṣyatha 71 tava vākyāni divyāni tatra teṣāṃ ca mādhava śrotum icchāmi govinda satyāni ca śubhāni ca 72 āpṛṣṭo 'si mahābāho punar drakṣyāmahe vayam yāhy avighnena vai vīra drakṣyāmas tvāṃ sabhā gatam |
The Mahabharata in Sanskrit
Book 5
Chapter 82
|
1
[व] परयान्तं देवकीपुत्रं परवीर रुजॊ दश महारथा महाबाहुम अन्वयुः शस्त्रपाणयः 2 पदातीनां सहस्रं च सादिनां च परंतप भॊज्यं च विपुलं राजन परेष्याश च शतशॊ ऽपरे 3 [ज] कथं परयातॊ दाशार्हॊ महात्मा मधुसूदनः कानि वा वरजतस तस्य निमित्तानि महौजसः 4 [व] तस्य परयाणे यान्य आसन्न अद्भुतानि महात्मनः तानि मे शृणु दिव्यानि दैवान्य औत्पातिकानि च 5 अनभ्रे ऽशनिनिर्घॊषः सविद्युत्समजायत अन्वग एव च पर्जन्यः परावर्षद विघने भृशम 6 परत्यग ऊहुर महानद्यः पराङ्मुखाः सिन्धुसत्तमाः विपारीता दिशः सर्वा न पराज्ञायत किं चन 7 पराज्वलन्न अग्नयॊ राजन पृथिवीसमकम्पत उदपानाश च कुम्भाश च परासिञ्चञ शतशॊ जलम 8 तमः संवृतम अप्य आसीत सर्वं जगद इदं तदा न दिशॊ नादिशॊ राजन परज्ञायन्ते सम रेणुना 9 परादुरासीन महाञ शब्दः खे शरीरं न दृश्यते सर्वेषु राजन देशेषु तद अद्भुतम इवाभवत 10 परामथ्नाद धास्तिन पुरं वातॊ दक्षिणपश्चिमः आरुजन गणशॊ वृक्षान परुषॊ भीमनिस्वनः 11 यत्र यत्र तु वार्ष्णेयॊ वर्तते पथि भारत तत्र तत्र सुखॊ वायुः सर्वं चासीत परदक्षिणम 12 ववर्ष पुष्पवर्षं च कमलानि च भूरिशः समश च पन्था निर्दुःखॊ वयपेतकुश कण्टकः 13 स गच्छन बराह्मणै राजंस तत्र तत्र महाभुजः अर्च्यते मधुपर्कैश च सुमनॊभिर वसु परदः 14 तं किरन्ति महात्मानं वन्यैः पुष्पैः सुगन्धिभिः सत्रियः पथि समागम्य सर्वभूतहिते रतम 15 स शालिभवनं रम्यं सर्वसस्य समाचितम सुखं परमधर्मिष्ठम अत्यगाद भरतर्षभ 16 पश्यन बहु पशून गरामान रम्यान हृदयतॊषणान पुराणि च वयतिक्रामन राष्ट्राणि विविधानि च 17 नित्यहृष्टाः सुमनसॊ भारतैर अभिरक्षिताः नॊद्विग्नाः परचक्राणाम अनयानाम अकॊविदाः 18 उपप्लव्याद अथायान्तं जनाः पुरनिवासिनः पथ्य अतिष्ठन्त सहिता विष्वक्सेन दिदृक्षया 19 ते तु सर्वे सुनामानम अग्निम इद्धम इव परभुम अर्चयाम आसुर अर्च्यं तं देशातिथिम उपस्थितम 20 वृकस्थलं समासाद्य केशवः परवीरहा परकीर्णरश्माव आदित्ये विमले लॊहितायति 21 अवतीर्य रथात तूर्णं कृत्वा शौचं यथाविधि रथमॊचनम आदिश्य संध्याम उपविवेश ह 22 दारुकॊ ऽपि हयान मुक्त्वा परिचर्य च शास्त्रतः मुमॊच सर्वं वर्माणि मुक्त्वा चैनान अवासृजत 23 अभ्यतीत्य तु तत सर्वम उवाच मधुसूदनः युधिष्ठिरस्य कार्यार्थम इह वत्स्यामहे कषपाम 24 तस्य तन मतम आज्ञाय चक्रुर आवसथं नराः कषणेन चान्न पानानि गुणवन्ति समार्जयन 25 तस्मिन गरामे परधानास तु य आसन बराह्मणा नृप आर्याः कुलीना हरीमन्तॊ बराह्मीं वृत्तिम अनुष्ठिताः 26 ते ऽभिगम्य महात्मानं हृषीकेशम अरिंदमम पूजां चक्रुर यथान्यायम आशीर मङ्गलसंयुताम 27 ते पूजयित्वा दाशार्हं सर्वलॊकेषु पूजितम नयवेदयन्त वेश्मानि रत्नवन्ति महात्मने 28 तान परभुः कृतम इत्य उक्त्वा सत्कृत्य च यथार्हतः अभ्येत्य तेषां वेश्मानि पुनर आयात सहैव तैः 29 सुमृष्टं भॊजयित्वा च बराह्मणांस तत्र केशवः भुक्त्वा च सह तैः सर्वैर अवसत तां कषपां सुखम |
1
[v] prayāntaṃ devakīputraṃ paravīra rujo daśa mahārathā mahābāhum anvayuḥ śastrapāṇayaḥ 2 padātīnāṃ sahasraṃ ca sādināṃ ca paraṃtapa bhojyaṃ ca vipulaṃ rājan preṣyāś ca śataśo 'pare 3 [j] kathaṃ prayāto dāśārho mahātmā madhusūdanaḥ kāni vā vrajatas tasya nimittāni mahaujasaḥ 4 [v] tasya prayāṇe yāny āsann adbhutāni mahātmanaḥ tāni me śṛṇu divyāni daivāny autpātikāni ca 5 anabhre 'śaninirghoṣaḥ savidyutsamajāyata anvag eva ca parjanyaḥ prāvarṣad vighane bhṛśam 6 pratyag ūhur mahānadyaḥ prāṅmukhāḥ sindhusattamāḥ vipārītā diśaḥ sarvā na prājñāyata kiṃ cana 7 prājvalann agnayo rājan pṛthivīsamakampata udapānāś ca kumbhāś ca prāsiñcañ śataśo jalam 8 tamaḥ saṃvṛtam apy āsīt sarvaṃ jagad idaṃ tadā na diśo nādiśo rājan prajñāyante sma reṇunā 9 prādurāsīn mahāñ śabdaḥ khe śarīraṃ na dṛśyate sarveṣu rājan deśeṣu tad adbhutam ivābhavat 10 prāmathnād dhāstina puraṃ vāto dakṣiṇapaścimaḥ ārujan gaṇaśo vṛkṣān paruṣo bhīmanisvanaḥ 11 yatra yatra tu vārṣṇeyo vartate pathi bhārata tatra tatra sukho vāyuḥ sarvaṃ cāsīt pradakṣiṇam 12 vavarṣa puṣpavarṣaṃ ca kamalāni ca bhūriśaḥ samaś ca panthā nirduḥkho vyapetakuśa kaṇṭakaḥ 13 sa gacchan brāhmaṇai rājaṃs tatra tatra mahābhujaḥ arcyate madhuparkaiś ca sumanobhir vasu pradaḥ 14 taṃ kiranti mahātmānaṃ vanyaiḥ puṣpaiḥ sugandhibhiḥ striyaḥ pathi samāgamya sarvabhūtahite ratam 15 sa śālibhavanaṃ ramyaṃ sarvasasya samācitam sukhaṃ paramadharmiṣṭham atyagād bharatarṣabha 16 paśyan bahu paśūn grāmān ramyān hṛdayatoṣaṇān purāṇi ca vyatikrāman rāṣṭrāṇi vividhāni ca 17 nityahṛṣṭāḥ sumanaso bhāratair abhirakṣitāḥ nodvignāḥ paracakrāṇām anayānām akovidāḥ 18 upaplavyād athāyāntaṃ janāḥ puranivāsinaḥ pathy atiṣṭhanta sahitā viṣvaksena didṛkṣayā 19 te tu sarve sunāmānam agnim iddham iva prabhum arcayām āsur arcyaṃ taṃ deśātithim upasthitam 20 vṛkasthalaṃ samāsādya keśavaḥ paravīrahā prakīrṇaraśmāv āditye vimale lohitāyati 21 avatīrya rathāt tūrṇaṃ kṛtvā śaucaṃ yathāvidhi rathamocanam ādiśya saṃdhyām upaviveśa ha 22 dāruko 'pi hayān muktvā paricarya ca śāstrataḥ mumoca sarvaṃ varmāṇi muktvā cainān avāsṛjat 23 abhyatītya tu tat sarvam uvāca madhusūdanaḥ yudhiṣṭhirasya kāryārtham iha vatsyāmahe kṣapām 24 tasya tan matam ājñāya cakrur āvasathaṃ narāḥ kṣaṇena cānna pānāni guṇavanti samārjayan 25 tasmin grāme pradhānās tu ya āsan brāhmaṇā nṛpa āryāḥ kulīnā hrīmanto brāhmīṃ vṛttim anuṣṭhitāḥ 26 te 'bhigamya mahātmānaṃ hṛṣīkeśam ariṃdamam pūjāṃ cakrur yathānyāyam āśīr maṅgalasaṃyutām 27 te pūjayitvā dāśārhaṃ sarvalokeṣu pūjitam nyavedayanta veśmāni ratnavanti mahātmane 28 tān prabhuḥ kṛtam ity uktvā satkṛtya ca yathārhataḥ abhyetya teṣāṃ veśmāni punar āyāt sahaiva taiḥ 29 sumṛṣṭaṃ bhojayitvā ca brāhmaṇāṃs tatra keśavaḥ bhuktvā ca saha taiḥ sarvair avasat tāṃ kṣapāṃ sukham |
The Mahabharata in Sanskrit
Book 5
Chapter 83
|
1
[व] तथा दूतैः समाज्ञाय आयान्तं मधुसूदनम धृतराष्ट्रॊ ऽबरवीद भीष्मम अर्चयित्वा महाभुजम 2 दरॊणं च संजयं चैव विदुरं च महामतिम दुर्यॊधनं च सामात्यं हृष्टरॊमाब्रवीद इदम 3 अद्भुतं महद आश्चर्यं शरूयते कुरुनन्दन सत्रियॊ बालाश च वृद्धाश च कथयन्ति गृहे गृहे 4 सत्कृत्याचक्षते चान्ये तथैवान्ये समागताः पृथग वादाश च वर्तन्ते चत्वरेषु सभासु च 5 उपयास्यति दाशार्हः पाण्डवार्थे पराक्रमी स नॊ मान्यश च पूज्यश च सर्वथा मधुसूदनः 6 तस्मिन हि यात्रा लॊकस्य भूतानाम ईश्वरॊ हि सः तस्मिन धृतिश च वीर्यं च परज्ञा चौजश च माधवे 7 स मान्यतां नरश्रेष्ठः स हि धर्मः सनातनः पूजितॊ हि सुखाय सयाद असुखः सयाद अपूजितः 8 स चेत तुष्यति दाशार्ह उपचारैर अरिंदमः कृत्स्नान सर्वान अभिप्रायान पराप्स्यामः सर्वराजसु 9 तस्य पूजार्थम अद्यैव संविधत्स्व परंतप सभाः पथि विधीयन्तां सर्वकामसमाहिताः 10 यथा परीतिर महाबाहॊ तवयि जायेत तस्य वै तथा कुरुष्व गान्धारे कथं वा भीष्म मन्यसे 11 ततॊ भीष्मादयः सर्वे धृतराष्ट्रं जनाधिपम ऊचुः परमम इत्य एवं पूजयन्तॊ ऽसय तद वचः 12 तेषाम अनुमतं जञात्वा राजा दुर्यॊधनस तदा सभा वास्तूनि रम्याणि परदेष्टुम उपचक्रमे 13 ततॊ देशेषु देशेषु रमणीयेषु भागशः सर्वरत्नसमाकीर्णाः सभाश चक्रुर अनेकशः 14 आसनानि विचित्राणि युक्तानि विविधैर गुणैः सत्रियॊ गन्धान अलंकारान सूक्ष्माणि वसनानि च 15 गुणवन्त्य अन्नपानानि भॊज्यानि विविधानि च माल्यानि च सुगन्धीनि तानि राजा ददौ ततः 16 विशेषतश च वासार्थं सभां गरामे वृकस्थले विदधे कौरवॊ राजा बहुरत्नां मनॊरमाम 17 एतद विधाय वै सर्वं देवार्हम अतिमानुषम आचख्यौ धृतराष्ट्राय राजा दुर्यॊधनस तदा 18 ताः सभाः केशवः सर्वा रत्नानि विविधानि च असमीक्ष्यैव दाशार्ह उपायात कुरु सद्म तत |
1
[v] tathā dūtaiḥ samājñāya āyāntaṃ madhusūdanam dhṛtarāṣṭro 'bravīd bhīṣmam arcayitvā mahābhujam 2 droṇaṃ ca saṃjayaṃ caiva viduraṃ ca mahāmatim duryodhanaṃ ca sāmātyaṃ hṛṣṭaromābravīd idam 3 adbhutaṃ mahad āścaryaṃ śrūyate kurunandana striyo bālāś ca vṛddhāś ca kathayanti gṛhe gṛhe 4 satkṛtyācakṣate cānye tathaivānye samāgatāḥ pṛthag vādāś ca vartante catvareṣu sabhāsu ca 5 upayāsyati dāśārhaḥ pāṇḍavārthe parākramī sa no mānyaś ca pūjyaś ca sarvathā madhusūdanaḥ 6 tasmin hi yātrā lokasya bhūtānām īśvaro hi saḥ tasmin dhṛtiś ca vīryaṃ ca prajñā caujaś ca mādhave 7 sa mānyatāṃ naraśreṣṭhaḥ sa hi dharmaḥ sanātanaḥ pūjito hi sukhāya syād asukhaḥ syād apūjitaḥ 8 sa cet tuṣyati dāśārha upacārair ariṃdamaḥ kṛtsnān sarvān abhiprāyān prāpsyāmaḥ sarvarājasu 9 tasya pūjārtham adyaiva saṃvidhatsva paraṃtapa sabhāḥ pathi vidhīyantāṃ sarvakāmasamāhitāḥ 10 yathā prītir mahābāho tvayi jāyeta tasya vai tathā kuruṣva gāndhāre kathaṃ vā bhīṣma manyase 11 tato bhīṣmādayaḥ sarve dhṛtarāṣṭraṃ janādhipam ūcuḥ paramam ity evaṃ pūjayanto 'sya tad vacaḥ 12 teṣām anumataṃ jñātvā rājā duryodhanas tadā sabhā vāstūni ramyāṇi pradeṣṭum upacakrame 13 tato deśeṣu deśeṣu ramaṇīyeṣu bhāgaśaḥ sarvaratnasamākīrṇāḥ sabhāś cakrur anekaśaḥ 14 āsanāni vicitrāṇi yuktāni vividhair guṇaiḥ striyo gandhān alaṃkārān sūkṣmāṇi vasanāni ca 15 guṇavanty annapānāni bhojyāni vividhāni ca mālyāni ca sugandhīni tāni rājā dadau tataḥ 16 viśeṣataś ca vāsārthaṃ sabhāṃ grāme vṛkasthale vidadhe kauravo rājā bahuratnāṃ manoramām 17 etad vidhāya vai sarvaṃ devārham atimānuṣam ācakhyau dhṛtarāṣṭrāya rājā duryodhanas tadā 18 tāḥ sabhāḥ keśavaḥ sarvā ratnāni vividhāni ca asamīkṣyaiva dāśārha upāyāt kuru sadma tat |
The Mahabharata in Sanskrit
Book 5
Chapter 84
|
1
[धृ] उपप्लव्याद इह कषत्तर उपयातॊ जनार्दनः वृकस्थले निवसति स च परातर इहैषति 2 आहुकानाम अधिपतिः पुरॊगः सर्वसात्वताम महामना महावीर्यॊ महामात्रॊ जनार्दनः 3 सफीतस्य वृष्णिवंशस्य भर्ता गॊप्ता च माधवः तरयाणाम अपि लॊकानां भगवान परपितामहः 4 वृष्ण्यन्धकाः सुमनसॊ यस्य परज्ञाम उपासते आदित्या वसवॊ रुद्रा यथाबुद्धिं बृहस्पतेः 5 तस्मै पूजां परयॊक्ष्यामि दाशार्हाय महात्मने परत्यक्षं तव धर्मज्ञ तन मे कथयतः शृणु 6 एकवर्णैः सुकृष्णाङ्गैर बाह्लिजातैर हयॊत्तमैः चतुर्युक्तान रथांस तस्मै रौक्मान दास्यामि षॊडश 7 नित्यप्रभिन्नान मातङ्गान ईषा दन्तान परहारिणः अष्टानुचरम एकैकम अष्टौ दास्यामि केशवे 8 दासीनाम अप्रजातानां शुभानां रुक्मवर्चसाम शतम अस्मै परदास्यामि दासानाम अपि तावतः 9 आविकं भहु सुस्पर्शं पार्वतीयैर उपाहृतम तद अप्य अस्मै परदास्यामि सहस्राणि दशाष्ट च 10 अजिनानां सहस्राणि चीन देशॊद्भवानि च तान्य अप्य अस्मै परदास्यामि यावद अर्हति केशवः 11 दिवारात्रौ च भात्य एष सुतेजा विमलॊ मणिः तम अप्य अस्मै परदास्यामि तम अप्य अर्हति केशवः 12 एकेनापि पतत्य अह्ना यॊजनानि चतुर्दश यानम अश्वतरी युक्तं दास्ये तस्मै तद अप्य अहम 13 यावन्ति वाहनान्य अस्य यावन्तः पुरुषाश च ते ततॊ ऽषट गुणम अप्य अस्मै भॊज्यं दास्याम्य अहं सदा 14 मम पुत्राश च पौत्राश च सर्वे दुर्यॊधनाद ऋते परत्युद्यास्यन्ति दाशार्हं रथैर मृष्टैर अलंकृताः 15 सवलंकृताश च कल्याण्यः पादैर एव सहस्रशः वार मुख्या महाभागं परयुद्यास्यन्ति केशवम 16 नगराद अपि याः काश चिद गमिष्यन्ति जनार्दनम दरष्टुं कन्याश च कल्याण्यस ताश च यास्यन्त्य अनावृताः 17 सस्त्री पुरुषबालं हि नगरं मधुसूदनम उदीक्षते महात्मानं भानुमन्तम इव परजाः 18 महाध्वजपताकाश च करियन्तां सर्वतॊदिशम जलावसिक्तॊ विरजाः पन्थास तस्येति चान्वशात 19 दुःशासनस्य च गृहं दुर्यॊधन गृहाद वरम तद अस्य करियतां कषिप्रं सुसंमृष्टम अलंकृतम 20 एतद धि रुचिर आकारैः परासादैर उपशॊभितम शिवं च रमणीयं च सर्वर्तुसु महाधनम 21 सर्वम अस्मिन गृहे रत्नं मम दुर्यॊधनस्य च यद यद अर्हेत स वार्ष्णेयस तत तद देयम असंशयम |
1
[dhṛ] upaplavyād iha kṣattar upayāto janārdanaḥ vṛkasthale nivasati sa ca prātar ihaiṣati 2 āhukānām adhipatiḥ purogaḥ sarvasātvatām mahāmanā mahāvīryo mahāmātro janārdanaḥ 3 sphītasya vṛṣṇivaṃśasya bhartā goptā ca mādhavaḥ trayāṇām api lokānāṃ bhagavān prapitāmahaḥ 4 vṛṣṇyandhakāḥ sumanaso yasya prajñām upāsate ādityā vasavo rudrā yathābuddhiṃ bṛhaspateḥ 5 tasmai pūjāṃ prayokṣyāmi dāśārhāya mahātmane pratyakṣaṃ tava dharmajña tan me kathayataḥ śṛṇu 6 ekavarṇaiḥ sukṛṣṇāṅgair bāhlijātair hayottamaiḥ caturyuktān rathāṃs tasmai raukmān dāsyāmi ṣoḍaśa 7 nityaprabhinnān mātaṅgān īṣā dantān prahāriṇaḥ aṣṭānucaram ekaikam aṣṭau dāsyāmi keśave 8 dāsīnām aprajātānāṃ śubhānāṃ rukmavarcasām śatam asmai pradāsyāmi dāsānām api tāvataḥ 9 āvikaṃ bhahu susparśaṃ pārvatīyair upāhṛtam tad apy asmai pradāsyāmi sahasrāṇi daśāṣṭa ca 10 ajinānāṃ sahasrāṇi cīna deśodbhavāni ca tāny apy asmai pradāsyāmi yāvad arhati keśavaḥ 11 divārātrau ca bhāty eṣa sutejā vimalo maṇiḥ tam apy asmai pradāsyāmi tam apy arhati keśavaḥ 12 ekenāpi pataty ahnā yojanāni caturdaśa yānam aśvatarī yuktaṃ dāsye tasmai tad apy aham 13 yāvanti vāhanāny asya yāvantaḥ puruṣāś ca te tato 'ṣṭa guṇam apy asmai bhojyaṃ dāsyāmy ahaṃ sadā 14 mama putrāś ca pautrāś ca sarve duryodhanād ṛte pratyudyāsyanti dāśārhaṃ rathair mṛṣṭair alaṃkṛtāḥ 15 svalaṃkṛtāś ca kalyāṇyaḥ pādair eva sahasraśaḥ vāra mukhyā mahābhāgaṃ prayudyāsyanti keśavam 16 nagarād api yāḥ kāś cid gamiṣyanti janārdanam draṣṭuṃ kanyāś ca kalyāṇyas tāś ca yāsyanty anāvṛtāḥ 17 sastrī puruṣabālaṃ hi nagaraṃ madhusūdanam udīkṣate mahātmānaṃ bhānumantam iva prajāḥ 18 mahādhvajapatākāś ca kriyantāṃ sarvatodiśam jalāvasikto virajāḥ panthās tasyeti cānvaśāt 19 duḥśāsanasya ca gṛhaṃ duryodhana gṛhād varam tad asya kriyatāṃ kṣipraṃ susaṃmṛṣṭam alaṃkṛtam 20 etad dhi rucir ākāraiḥ prāsādair upaśobhitam śivaṃ ca ramaṇīyaṃ ca sarvartusu mahādhanam 21 sarvam asmin gṛhe ratnaṃ mama duryodhanasya ca yad yad arhet sa vārṣṇeyas tat tad deyam asaṃśayam |
The Mahabharata in Sanskrit
Book 5
Chapter 85
|
1
[वि] राजन बहुमतश चासि तरैलॊक्यस्यापि सत्तमः संभावितश च लॊकस्य संमतश चासि भारत 2 यत तवम एवंगते बरूयाः पश्चिमे वयसि सथितः शास्त्राद वा सुप्रतर्काद वा सुस्थिरः सथविरॊ हय असि 3 लॊखाश्मनीव भाः सूर्ये महॊर्मिर इव सागरे धर्मस तवयि महान राजन्न इति वयवसिताः परजाः 4 सदैव भावितॊ लॊकॊ गुणौघैस तव पार्थिव गुणानां रक्षणे नित्यं परयतस्व सबान्धवः 5 आर्जवं परतिपद्यस्व मा बाल्याद बहुधा नशीः राज्यं पुत्रांश च पौत्रांश च सुहृदश चापि सुप्रियान 6 यत तवं दित्ससि कृष्णाय राजन्न अतिथये बहु एतद अन्यच च दाशार्हः पृथिवीम अपि चार्हति 7 न तु तवं धर्मम उद्धिश्य तस्य वा परियकारणात एतद इच्छसि कृष्णाय सत्येनात्मानम आलभे 8 मायैषातत्त्वम एवैतच छद्मैतद भूरिदक्षिण जानामि ते मतं राजन गूढं बाह्येन कर्मणा 9 पञ्च पञ्चैव लिप्सन्ति गरामकान पानवा नृप न च दित्ससि तेभ्यस तांस तच छमं कः करिष्यति 10 अर्थेन तु महाबाहुं वार्ष्णेयं तवं जिहीर्षसि अनेनैवाभ्युपायेन पाण्डवेभ्यॊ बिभित्ससि 11 न च वित्तेन शक्यॊ ऽसौ नॊद्यमेन न गर्हया अन्यॊ धनंजयात कर्तुम एतत तत्त्वं बरवीमि ते 12 वेद कृष्णस्य माहात्म्यं वेदास्य दृढभक्तिताम अत्याज्यम अस्य जानामि पराणैस तुल्यं धनंजयम 13 अन्यत कुम्भाद अपां पुर्णाद अन्यत पादावसेचनात अन्यत कुशलसंप्रश्नान नैषिष्यति जनार्दनः 14 यत तव अस्य परियम आतिथ्यं मानार्हस्य महात्मनः तद अस्मै करियतां राजन मानार्हॊ हि जनार्दनः 15 आशंसमानः कल्याणं कुरून अभ्येति केशवः येनैव राजन्न अर्थेन तद एवास्मा उपाकुरु 16 शमम इच्छति दाशार्हस तव दुर्यॊधनस्य च पाण्डवानां च राजेन्द्र तद अस्य वचनं कुरु 17 पितासि राजन पुत्रास ते वृद्धस तवं शिशवः परे वर्तस्व पितृवत तेषु वर्तन्ते ते हि पुत्रवत |
1
[vi] rājan bahumataś cāsi trailokyasyāpi sattamaḥ saṃbhāvitaś ca lokasya saṃmataś cāsi bhārata 2 yat tvam evaṃgate brūyāḥ paścime vayasi sthitaḥ śāstrād vā supratarkād vā susthiraḥ sthaviro hy asi 3 lokhāśmanīva bhāḥ sūrye mahormir iva sāgare dharmas tvayi mahān rājann iti vyavasitāḥ prajāḥ 4 sadaiva bhāvito loko guṇaughais tava pārthiva guṇānāṃ rakṣaṇe nityaṃ prayatasva sabāndhavaḥ 5 ārjavaṃ pratipadyasva mā bālyād bahudhā naśīḥ rājyaṃ putrāṃś ca pautrāṃś ca suhṛdaś cāpi supriyān 6 yat tvaṃ ditsasi kṛṣṇāya rājann atithaye bahu etad anyac ca dāśārhaḥ pṛthivīm api cārhati 7 na tu tvaṃ dharmam uddhiśya tasya vā priyakāraṇāt etad icchasi kṛṣṇāya satyenātmānam ālabhe 8 māyaiṣātattvam evaitac chadmaitad bhūridakṣiṇa jānāmi te mataṃ rājan gūḍhaṃ bāhyena karmaṇā 9 pañca pañcaiva lipsanti grāmakān pānavā nṛpa na ca ditsasi tebhyas tāṃs tac chamaṃ kaḥ kariṣyati 10 arthena tu mahābāhuṃ vārṣṇeyaṃ tvaṃ jihīrṣasi anenaivābhyupāyena pāṇḍavebhyo bibhitsasi 11 na ca vittena śakyo 'sau nodyamena na garhayā anyo dhanaṃjayāt kartum etat tattvaṃ bravīmi te 12 veda kṛṣṇasya māhātmyaṃ vedāsya dṛḍhabhaktitām atyājyam asya jānāmi prāṇais tulyaṃ dhanaṃjayam 13 anyat kumbhād apāṃ purṇād anyat pādāvasecanāt anyat kuśalasaṃpraśnān naiṣiṣyati janārdanaḥ 14 yat tv asya priyam ātithyaṃ mānārhasya mahātmanaḥ tad asmai kriyatāṃ rājan mānārho hi janārdanaḥ 15 āśaṃsamānaḥ kalyāṇaṃ kurūn abhyeti keśavaḥ yenaiva rājann arthena tad evāsmā upākuru 16 śamam icchati dāśārhas tava duryodhanasya ca pāṇḍavānāṃ ca rājendra tad asya vacanaṃ kuru 17 pitāsi rājan putrās te vṛddhas tvaṃ śiśavaḥ pare vartasva pitṛvat teṣu vartante te hi putravat |
The Mahabharata in Sanskrit
Book 5
Chapter 86
|
1
[दुर] यद आह विरुदः कृष्णे सर्वं तत सत्यम उच्यते अनुरक्तॊ हय असंहार्यः पार्थान परति जनार्दनः 2 यत तु सत्कारसंयुक्तं देयं वसु जनार्दने अनेकरूपं राजेन्द्र न तद देयं कदा चन 3 देशः कालस तथायुक्तॊ न हि नार्हति केशवः मंस्यत्य अधॊक्षजॊ राजन भयाद अर्चति माम इति 4 अवमानश च यत्र सयात कषत्रियस्य विशां पते न तत कुर्याद बुधः कार्यम इति मे निश्चिता मतिः 5 स हि पूज्यतमॊ देवः कृष्णः कमललॊचनः तरयाणाम अपि लॊकानां विदितं मम सर्वथा 6 न तु तस्मिन परदेयं सयात तथा कार्यगतिः परभॊ विग्रहः समुपारब्धॊ न हि शाम्यत्य अविग्रहात 7 [व] तस्य तद वचनं शरुत्वा भीष्मः कुरुपितामहः वैचित्रवीर्यं राजानम इदं वचनम अब्रवीत 8 सत्कृतॊ ऽसत्कृतॊ वापि न करुध्येत जनार्दनः नालम अन्यम अवज्ञातुम अवज्ञातॊ ऽपि केशवः 9 यत तु कार्यं महाबाहॊ मनसा कार्यतां गतम सर्वॊपायैर न तच छक्यं केन चित कर्तुम अन्यथा 10 स यद बरूयान महाबाहुस तत कार्यम अविशङ्कया वासुदेवेन तीर्थेन कषिप्रं संशाम्य पाण्डवैः 11 धर्म्यम अर्थ्यं स धर्मात्मा धरुवं वक्ता जनार्दनः तस्मिन वाच्याः परिया वाचॊ भवता बान्धवैः सह 12 [दुर] न पर्यायॊ ऽसति यद राजञ शरियं निष्केवलाम अहम तैः सहेमाम उपाश्नीयां जीवञ जीवैः पितामह 13 इदं तु सुमहत कार्यं शृणु मे यत समर्थितम परायणं पाण्डवानां नियंस्यामि जनार्दनम 14 तस्मिन बद्धे भविष्यन्ति वृष्णयः पृथिवी तथा पाण्डवाश च विधेया मे स च परातर इहैष्यति 15 अत्रॊपायं यथा सम्यङ न बुध्येत जनार्दनः न चापायॊ भवेत कश चित तद भवान परब्रवीतु मे 16 [व] तस्य तद वचनं शरुत्वा घॊरं कृष्णाभिसंहितम धृतराष्ट्रः सहामात्यॊ वयथितॊ विमनाभवत 17 ततॊ दुर्यॊधनम इदं धृतराष्ट्रॊ ऽबरवीद वचः मैवं वॊचः परजा पाल नैष धर्मः सनातनः 18 दूतश च हि हृषीकेशः संबन्धी च परियश च नः अपापः कौरवेयेषु कथं बन्धनम अर्हति 19 [भीस्म] परीतॊ धृतराष्ट्रायं तव पुत्रः सुमन्दधीः वृणॊत्य अनर्थं नत्व अर्थं याच्यमानः सुहृद्गणैः 20 इमम उत्पथि वर्तन्तं पापं पापानुबन्धिनम वाक्यानि सुहृदां हित्वा तवम अप्य अस्यानुवर्तसे 21 कृष्णम अक्लिष्टकर्माणम आसाद्यायं सुदुर्मतिः तव पुत्रः सहामात्यः कषणेन न भविष्यति 22 पापस्यास्य नृशंसस्य तयक्तहर्मस्य दुर्मतेः नॊत्सहे ऽनर्थसंयुक्तां वाचं शरॊतुं कथं चन 23 [व] इत्य उक्त्वा भरतश्रेष्ठॊ वृद्धः परममन्युमान उत्थाय तस्मात परातिष्ठद भीष्मः सत्यपराक्रमः |
1
[dur] yad āha virudaḥ kṛṣṇe sarvaṃ tat satyam ucyate anurakto hy asaṃhāryaḥ pārthān prati janārdanaḥ 2 yat tu satkārasaṃyuktaṃ deyaṃ vasu janārdane anekarūpaṃ rājendra na tad deyaṃ kadā cana 3 deśaḥ kālas tathāyukto na hi nārhati keśavaḥ maṃsyaty adhokṣajo rājan bhayād arcati mām iti 4 avamānaś ca yatra syāt kṣatriyasya viśāṃ pate na tat kuryād budhaḥ kāryam iti me niścitā matiḥ 5 sa hi pūjyatamo devaḥ kṛṣṇaḥ kamalalocanaḥ trayāṇām api lokānāṃ viditaṃ mama sarvathā 6 na tu tasmin pradeyaṃ syāt tathā kāryagatiḥ prabho vigrahaḥ samupārabdho na hi śāmyaty avigrahāt 7 [v] tasya tad vacanaṃ śrutvā bhīṣmaḥ kurupitāmahaḥ vaicitravīryaṃ rājānam idaṃ vacanam abravīt 8 satkṛto 'satkṛto vāpi na krudhyeta janārdanaḥ nālam anyam avajñātum avajñāto 'pi keśavaḥ 9 yat tu kāryaṃ mahābāho manasā kāryatāṃ gatam sarvopāyair na tac chakyaṃ kena cit kartum anyathā 10 sa yad brūyān mahābāhus tat kāryam aviśaṅkayā vāsudevena tīrthena kṣipraṃ saṃśāmya pāṇḍavaiḥ 11 dharmyam arthyaṃ sa dharmātmā dhruvaṃ vaktā janārdanaḥ tasmin vācyāḥ priyā vāco bhavatā bāndhavaiḥ saha 12 [dur] na paryāyo 'sti yad rājañ śriyaṃ niṣkevalām aham taiḥ sahemām upāśnīyāṃ jīvañ jīvaiḥ pitāmaha 13 idaṃ tu sumahat kāryaṃ śṛṇu me yat samarthitam parāyaṇaṃ pāṇḍavānāṃ niyaṃsyāmi janārdanam 14 tasmin baddhe bhaviṣyanti vṛṣṇayaḥ pṛthivī tathā pāṇḍavāś ca vidheyā me sa ca prātar ihaiṣyati 15 atropāyaṃ yathā samyaṅ na budhyeta janārdanaḥ na cāpāyo bhavet kaś cit tad bhavān prabravītu me 16 [v] tasya tad vacanaṃ śrutvā ghoraṃ kṛṣṇābhisaṃhitam dhṛtarāṣṭraḥ sahāmātyo vyathito vimanābhavat 17 tato duryodhanam idaṃ dhṛtarāṣṭro 'bravīd vacaḥ maivaṃ vocaḥ prajā pāla naiṣa dharmaḥ sanātanaḥ 18 dūtaś ca hi hṛṣīkeśaḥ saṃbandhī ca priyaś ca naḥ apāpaḥ kauraveyeṣu kathaṃ bandhanam arhati 19 [bhīsma] parīto dhṛtarāṣṭrāyaṃ tava putraḥ sumandadhīḥ vṛṇoty anarthaṃ natv arthaṃ yācyamānaḥ suhṛdgaṇaiḥ 20 imam utpathi vartantaṃ pāpaṃ pāpānubandhinam vākyāni suhṛdāṃ hitvā tvam apy asyānuvartase 21 kṛṣṇam akliṣṭakarmāṇam āsādyāyaṃ sudurmatiḥ tava putraḥ sahāmātyaḥ kṣaṇena na bhaviṣyati 22 pāpasyāsya nṛśaṃsasya tyaktaharmasya durmateḥ notsahe 'narthasaṃyuktāṃ vācaṃ śrotuṃ kathaṃ cana 23 [v] ity uktvā bharataśreṣṭho vṛddhaḥ paramamanyumān utthāya tasmāt prātiṣṭhad bhīṣmaḥ satyaparākramaḥ |
The Mahabharata in Sanskrit
Book 5
Chapter 87
|
1
[व] परातर उत्थाय कृष्णस तु कृतवान सर्वम आह्निकम बराह्मणैर अभ्यनुज्ञातः परययौ नगरं परति 2 तं परयान्तं महाबाहुम अनुज्ञाप्य ततॊ नृप पर्यवर्तन्त ते सर्वे वृकस्थलनिवासिनः 3 धार्तराष्ट्रास तम आयान्तं परत्युज्जग्मुः सवलंकृताः दुर्यॊधनम ऋते सर्वे भीष्मद्रॊणकृपादयः 4 पौराश च बहुला राजन हृषीकेशं दिदृक्षवः यानैर बहुविधैर अन्ये पद्भिर एव तथापरे 5 स वै पथि समागम्य भीष्मेणाक्लिष्ट कर्मणा दरॊणेन धार्तराष्ट्रैश च तैर वृतॊ नगरं ययौ 6 कृष्ण संमाननार्थं च नगरं समलंकृतम बभूवू राजमार्गाश च बहुरत्नसमाचिताः 7 न सम कश चिद गृहे राजंस तद आसीद भरतर्षभ न सत्री न वृद्धॊ न शिशुर वासुदेव दिदृक्षया 8 राजमार्गे नरा न सम संभवन्त्य अवनिं गताः तथा हि सुमहद राजन हृषीकेश परवेशने 9 आवृतानि वरस्त्रीभिर गृहाणि सुमहान्त्य अपि परचलन्तीव भारेण दृश्यन्ते सम महीतले 10 तथा च गतिमन्तस ते वासुदेवस्य वाजिनः परनष्टगतयॊ ऽभूवन राजमार्गे नरैर वृते 11 स गृहं धृतराष्ट्रस्य पराविशच छत्रुकर्शनः पाण्डुरं पुण्डरीकाक्षः परासादैर उपशॊभितम 12 तिस्रः कक्ष्या वयतिक्रम्य केशवॊ राजवेश्मनः वैचित्र वीर्यं राजानम अभ्यगच्छद अरिंदमः 13 अह्यागच्छति दाशार्हे परज्ञा चक्षुर नरेश्वरः सहैव दरॊण भीष्माभ्याम उदतिष्ठन महायशाः 14 कृपश च सॊमदत्तश च महाराजश च बाह्लिकः आसनेभ्यॊ ऽचलन सर्वे पूजयन्तॊ जनार्दनम 15 ततॊ राजानम आसाद्य धृतराष्ट्रं यशस्विनम स भीष्मं पूजयाम आस वार्ष्णेयॊ वाग्भिर अञ्जसा 16 तेषु धर्मानुपूर्वीं तां परयुज्य मधुसूदनः यथा वयः समीयाय राजभिस तत्र माधवः 17 अथ दरॊणं सपुत्रं स बाह्लीकं च यशस्विनम कृपं च सॊमदत्तं च समीयाय जनार्दनः 18 तत्रासीद ऊर्जितं मृष्टं काञ्चनं महद आसनम शासनाद धृतराष्ट्रस्य तत्रॊपाविशद अच्युतः 19 अथ गां मधुपर्कं चाप्य उदकं च जनार्दने उपजह्रुर यथान्यायं धृतराष्ट्र पुरॊहिताः 20 कृतातिथ्यस तु गॊविन्दः सर्वान परिहसन कुरून आस्ते संबन्धकं कुर्वन कुरुभिः परिवारितः 21 सॊ ऽरचितॊ धृतराष्ट्रेण पूजितश च महायशाः राजानं समनुज्ञाप्य निराक्रामद अरिंदमः 22 तैः समेत्य यथान्यायं कुरुभिः कुरुसंसदि विदुरावसथं रम्यम उपातिष्ठत माधवः 23 विदुरः सर्वकल्याणैर अभिगम्य जनार्दनम अर्चयाम आस दाशार्हं सर्वकामैर उपस्थितम 24 कृतातिथ्यं तु गॊविन्दं विदुरः सर्वधर्मवित कुशलं पाण्डुपुत्राणाम अपृच्छन मधुसूदनम 25 परीयमाणस्य सुहृदॊ विदुषॊ बुद्धिसत्तमः धर्मनित्यस्य च तदा गतदॊषस्य धीमतः 26 तस्य सर्वं सविस्तारं पाण्डवानां विचेष्टितम कषत्तुर आचष्ट दाशार्हः सर्वप्रत्यक्षदर्शिवान |
1
[v] prātar utthāya kṛṣṇas tu kṛtavān sarvam āhnikam brāhmaṇair abhyanujñātaḥ prayayau nagaraṃ prati 2 taṃ prayāntaṃ mahābāhum anujñāpya tato nṛpa paryavartanta te sarve vṛkasthalanivāsinaḥ 3 dhārtarāṣṭrās tam āyāntaṃ pratyujjagmuḥ svalaṃkṛtāḥ duryodhanam ṛte sarve bhīṣmadroṇakṛpādayaḥ 4 paurāś ca bahulā rājan hṛṣīkeśaṃ didṛkṣavaḥ yānair bahuvidhair anye padbhir eva tathāpare 5 sa vai pathi samāgamya bhīṣmeṇākliṣṭa karmaṇā droṇena dhārtarāṣṭraiś ca tair vṛto nagaraṃ yayau 6 kṛṣṇa saṃmānanārthaṃ ca nagaraṃ samalaṃkṛtam babhūvū rājamārgāś ca bahuratnasamācitāḥ 7 na sma kaś cid gṛhe rājaṃs tad āsīd bharatarṣabha na strī na vṛddho na śiśur vāsudeva didṛkṣayā 8 rājamārge narā na sma saṃbhavanty avaniṃ gatāḥ tathā hi sumahad rājan hṛṣīkeśa praveśane 9 āvṛtāni varastrībhir gṛhāṇi sumahānty api pracalantīva bhāreṇa dṛśyante sma mahītale 10 tathā ca gatimantas te vāsudevasya vājinaḥ pranaṣṭagatayo 'bhūvan rājamārge narair vṛte 11 sa gṛhaṃ dhṛtarāṣṭrasya prāviśac chatrukarśanaḥ pāṇḍuraṃ puṇḍarīkākṣaḥ prāsādair upaśobhitam 12 tisraḥ kakṣyā vyatikramya keśavo rājaveśmanaḥ vaicitra vīryaṃ rājānam abhyagacchad ariṃdamaḥ 13 ahyāgacchati dāśārhe prajñā cakṣur nareśvaraḥ sahaiva droṇa bhīṣmābhyām udatiṣṭhan mahāyaśāḥ 14 kṛpaś ca somadattaś ca mahārājaś ca bāhlikaḥ āsanebhyo 'calan sarve pūjayanto janārdanam 15 tato rājānam āsādya dhṛtarāṣṭraṃ yaśasvinam sa bhīṣmaṃ pūjayām āsa vārṣṇeyo vāgbhir añjasā 16 teṣu dharmānupūrvīṃ tāṃ prayujya madhusūdanaḥ yathā vayaḥ samīyāya rājabhis tatra mādhavaḥ 17 atha droṇaṃ saputraṃ sa bāhlīkaṃ ca yaśasvinam kṛpaṃ ca somadattaṃ ca samīyāya janārdanaḥ 18 tatrāsīd ūrjitaṃ mṛṣṭaṃ kāñcanaṃ mahad āsanam śāsanād dhṛtarāṣṭrasya tatropāviśad acyutaḥ 19 atha gāṃ madhuparkaṃ cāpy udakaṃ ca janārdane upajahrur yathānyāyaṃ dhṛtarāṣṭra purohitāḥ 20 kṛtātithyas tu govindaḥ sarvān parihasan kurūn āste saṃbandhakaṃ kurvan kurubhiḥ parivāritaḥ 21 so 'rcito dhṛtarāṣṭreṇa pūjitaś ca mahāyaśāḥ rājānaṃ samanujñāpya nirākrāmad ariṃdamaḥ 22 taiḥ sametya yathānyāyaṃ kurubhiḥ kurusaṃsadi vidurāvasathaṃ ramyam upātiṣṭhata mādhavaḥ 23 viduraḥ sarvakalyāṇair abhigamya janārdanam arcayām āsa dāśārhaṃ sarvakāmair upasthitam 24 kṛtātithyaṃ tu govindaṃ viduraḥ sarvadharmavit kuśalaṃ pāṇḍuputrāṇām apṛcchan madhusūdanam 25 prīyamāṇasya suhṛdo viduṣo buddhisattamaḥ dharmanityasya ca tadā gatadoṣasya dhīmataḥ 26 tasya sarvaṃ savistāraṃ pāṇḍavānāṃ viceṣṭitam kṣattur ācaṣṭa dāśārhaḥ sarvapratyakṣadarśivān |
The Mahabharata in Sanskrit
Book 5
Chapter 88
|
1
[व] अथॊपगम्य विदुरम अपहाह्णे जनार्दनः पितृष्वसारं गॊविन्दः सॊ ऽभयगच्छद अरिंदमः 2 सा दृष्ट्वा कृष्णम आयान्तं परसन्नादित्य वर्चसम कण्ठे गृहीत्वा पराक्रॊशत पृथा पार्थान अनुस्मरन 3 तेषां सत्त्ववतां मध्ये गॊविन्दं सहचारिणम चिरस्य दृष्ट्वा वार्ष्णेयं बाष्पम आहारयत पृथा 4 साब्रवीत कृष्णम आसीनं कृतातिथ्यं युधां पतिम बाष्पगद्गद पूर्णेन मुखेन परिशुष्यता 5 ये ते बाल्यात परभृत्येव गुरुशुश्रूषणे रताः परस्परस्य सुहृदः संमताः समचेतसः 6 निकृत्या भरंशिता राज्याज जनार्हा निर्जनं गताः विनीतक्रॊधहर्शाश च बरह्मण्याः सत्यवादिनः 7 तयक्त्वा परिय सुखे पार्था रुदन्तीम अपहाय माम अहार्षुश च वनं यान्तः समूलं हृदयं मम 8 अतदर्हा महात्मानः कथं केशव पाण्डवाः ऊषुर महावने तात सिंहव्याघ्र गजाकुले 9 बाला विहीनाः पित्रा ते मया सततलालिताः अपश्यन्तः सवपितरौ कथम ऊषुर महावने 10 शङ्खदुन्दुभिनिर्घॊषैर मृदङ्गैर वैणवैर अपि पाण्डवाः समबॊध्यन्त बाल्यात परभृति केशव 11 ये सम वारणशब्देन हयानां हेषितेन च रथनेमि निनादैश च वयबॊध्यन्त सदा गृहे 12 शङ्खभेरी निनादेन वेणुवीणानुनादिना पुण्याहघॊषमिश्रेण पूज्यमाना दविजातिभिः 13 वस्त्रै रत्नैर अलंकारैः पूजयन्तॊ दविजन्मनः गीर्भिर मङ्गलयुक्ताभिर बाह्मणानां महात्मनाम 14 अर्चितैर अर्चनार्हैर्श च सतुब्वद्भिर अभिनन्दिताः परासादाग्रेष्व अबॊध्यन्त राङ्क वाजिन शायिनः 15 ते नूनं निनदं शरुत्वा शवापदानां महावने न समॊपयान्ति निद्रां वै अतदर्हा जनार्दन 16 भेरीमृदङ्गनिननैः शङ्खवैणव निस्वनैः सत्रीणां गीतनिनादैश च मधुरैर मधुसूदन 17 बन्दि मागध सूतैश च सतुवद्भिर बॊधिताः कथम महावने वयबॊध्यन्त शवापदानां रुतेन ते 18 हरीमान सत्यधृतिर दान्तॊ भूतानाम अनुकम्पिता कामद्वेषौ वशे कृत्वा सतां वर्त्मानुवर्तते 19 अम्बरीषस्य मान्धातुर ययातेर नहुषस्य च भरतस्य दिलीपस्य शिबेर औशीनरस्य च 20 राजर्षीणां पुराणानां धुरं धत्ते दुरुद्वहाम शीलवृत्तॊपसंपन्नॊ धर्मज्ञः सत्यसंगरः 21 राजा सर्वगुणॊपेतस तरैलॊक्यस्यापि यॊ भवेत अजातशत्रुर धर्मात्मा शुद्धजाम्बूनदप्रभः 22 शरेष्ठः कुरुषु सर्वेषु धर्मतः शरुतवृत्ततः परियदर्शनॊ दीर्घभुजः कथं कृष्ण युधिष्ठिरः 23 यः स नागायुत पराणॊ वातरंहा वृकॊदरः अमर्षी पाण्डवॊ नित्यं परियॊ भरातुः परियं करः 24 कीचकस्य च सज्ञातेर यॊ हन्ता मधुसूदन शूरः करॊधवशानां च हिडिम्बस्य बकस्य च 25 पराक्रमे शक्रसमॊ वायुवेगसमॊ जवे महेश्वर समः करॊधे भीमः परहरतां वरः 26 करॊधं बलम अमर्षं च यॊ निधाय परंतपः जितात्मा पाण्डवॊ ऽमर्षी भरातुस तिष्ठति शासने 27 तेजॊराशिं महात्मानं बलौघम अमितौजसम भीमं परदर्शनेनापि भीमसेनं जनार्दन तं ममाचक्ष्व वार्ष्णेय कथम अद्य वृकॊदरः 28 आस्ते परिघबाहुः स मध्यमः पाण्डवॊ ऽचयुत अर्जुनेनार्जुनॊ यः स कृष्ण बाहुसहस्रिणा दविबाहुः सपर्धते नित्यम अतीतेनापि केशव 29 कषिपत्य एकेन वेगेन पञ्चबाणशतानि यः इष्वस्त्रे सदृशे राज्ञः कार्तवीर्यस्य पाण्डवः 30 तेजसादित्यसदृशॊ महर्षिप्रतिमॊ दमे कषमया पृथिवी तुल्यं महेन्द्रसमविक्रमः 31 आधिराज्यं महद दीप्तं परथितं मधुसूदन आहृतं येन वीर्येण कुरूणां सर्वराजसु 32 यस्य बाहुबलं घॊरं कौरवाः पर्युपासते स सर्वरथिनां शरेष्ठ पाण्डवः सत्यविक्रमः 33 यॊ ऽपाश्रयः पाण्डवानां देवानाम इव वासवः स ते भराता सखा चैव कथम अद्य धनंजयः 34 दयावान सर्वभूतेषु हरीनिषेधॊ महास्त्रवित मृदुश च सुकुमारश च धार्मिकश च परियश च मे 35 सहदेवॊ महेष्वासः शूरः समितिशॊभनः भरातॄणां कृष्ण शुश्रूषुर धर्मार्थकुशलॊ युवा 36 सदैव सहदेवस्य भरातरॊ मधुसूदन वृत्तं कल्याण वृत्तस्य पूजयन्ति महात्मनः 37 जयेष्ठापचायिनं वीरं सहदेवं युधां पतिम शुश्रूषुं मम वार्ष्णेय माद्रीपुत्रं परचक्ष्व मे 38 सुकुमारॊ युवा शूरॊ दर्शनीयश च पाण्डवः भरातॄणां कृष्ण सर्वेषां परियः पराणॊ बहिश्चरः 39 चित्रयॊधी च नकुलॊ महेष्वासॊ महाबलः कच चित स कुशली कृष्ण वत्सॊ मम सुखैधितः 40 सुखॊचितम अदुःखार्हं सुकुमारं महारथम अपि जातु महाबाहॊ पश्येयं नकुलं पुनः 41 पक्ष्म संपातजे काले नकुलेन विनाकृता न लभामि सुखं वीर साद्य जीवामि पश्य माम 42 सर्वैः पुत्रैः परियतमा दरौपदी मे जनार्दन कुलीना शीलसंपन्ना सर्वैः समुदिता गुणैः 43 पुत्र लॊकात पतिलॊकान वृण्वाना सत्यवादिनी परियान पुत्रान परित्यज्य पाण्डवान अन्वपद्यत 44 महाभिजन संपन्ना सर्वकामैः सुपूजिता ईश्वरी सर्वकल्याणी दरौपदी कथम अच्युत 45 पतिभिः पञ्चभिः शूरैर अग्निकल्पैः परहारिभिः उपपन्ना महर्ष्वासैर दरौपदी दुःखभागिनी 46 चतुर्दशम इमं वर्षं यन नापश्यम अरिंदम पुत्राधिभिः परिद्यूनां दरौपदीं सत्यवादिनीम 47 न नूनं कर्मभिः पुण्यैर अश्नुते पुरुषः सुखम दरौपदी चेत तथा वृत्ता नाश्नुते सुखम अव्ययम 48 न परियॊ मम कृष्णाय बीभत्सुर न युधिष्ठिरः भीमसेनॊ यमौ वापि यद अपश्यं सभा गताम 49 न मे दुःखतरं किं चिद भूतपूर्वं ततॊ ऽधिकम यद दरौपदीं निवातस्थां शवशुराणां समीपगाम 50 आनायिताम अनार्येण करॊधलॊभानुवर्तिना सर्वे परैक्षन्त कुरव एकवस्त्रां सभा गताम 51 तत्रैव धृतराष्ट्रश च महाराजश च बाह्लिकः कृपश च सॊमदत्तश च निर्विण्णाः कुरवस तथा 52 तस्यां संसदि सर्वस्यां कषत्तारं पूजयाम्य अहम वृत्तेन हि भवत्य आर्यॊ न धनेन न विद्यया 53 तस्य कृष्ण महाबुद्धेर गम्भीरस्य महामनः कषत्तुः शीलम अलंकारॊ लॊकान विष्टभ्य तिष्ठति 54 सा शॊकार्ता च हृष्टा च दृष्ट्वा गॊविन्दम आगतम नानाविधानि दुःखानि सर्वाण्य एवान्वकीर्तयत 55 पूर्वैर आचरितं यत तत कुराजभिर अरिंदम अक्षद्यूतं मृगवधः कच चिद एषां सुखावहम 56 तन मां दहति यत कृष्णा सभायां कुरु संनिधौ धार्तराष्ट्रैः परिक्लिष्टा यथा न कुशलं तथा 57 निर्वासनं च नगरात परव्रज्या च परंतप नानाविधानां दुःखानाम आवासॊ ऽसमि जनार्दन अज्ञातचर्या बालानाम अवरॊधश च केशव 58 न सम कलेशतमं मे सयात पुत्रैः सह परंतप दुर्यॊधनेन निकृता वर्षम अद्य चतुर्दशम 59 दुःखाद अपि सुखं न सयाद यदि पुण्यफलक्षयः न मे विशेषॊ जात्व आसीद धार्तराष्ट्रेषु पाण्डवैः 60 तेन सत्येन कृष्ण तवां हतामित्रं शरिया वृतम अस्माद विमुक्तं संग्रामात पश्येयं पाण्डवैः सह नैव शक्याः पराजेतुं सत्त्वं हय एषां तथागतम 61 पितरं तव एव गर्हेयं नात्मानं न सुयॊधनम येनाहं कुन्तिभॊजाय धनं धूर्तैर इवार्पिता 62 बालां माम आर्यकस तुभ्यं करीडन्तीं कन्दु हस्तकाम अददात कुन्तिभॊजाय सखा सख्ये महात्मने 63 साहं पित्रा च निकृता शवशुरैश च परंतप अत्यन्तदुःखिता कृष्ण किं जीवितफलं मम 64 यन मा वाग अब्रवीन नक्तं सूतके सव्यसाचिनः पुत्रस ते पृथिवीं जेता यशश चास्य दिवं सपृशेत 65 हत्वा कुरून गरामजन्ये राज्यं पराप्य धनंजयः भरातृभिः सह कौन्तेयस तरीन मेधान आहरिष्यति 66 नाहं ताम अभ्यसूयामि नमॊ धर्माय वेधसे कृष्णाय महते नित्यं धर्मॊ धारयति परजाः 67 धर्मश चेद अस्ति वार्ष्णेय तथा सत्यं भविष्यति तवं चापि तत तथा कृष्ण सर्वं संपादयिष्यसि 68 न मां माधव वैधव्यं नार्थनाशॊ न वैरिता तथा शॊकाय भवति यथा पुत्रैर विनाभवः 69 याहं गाण्डीवधन्वानं सर्वशस्त्रभृतां वरम धनंजयं न पश्यामि का शान्तिर हृदयस्य मे 70 इदं चतुर्दशं वर्षं यन नापश्यं युधिष्ठिरम धनंजयं च गॊविन्द यमौ तं च वृकॊदरम 71 जीवनाशं परनष्टानां शराद्धं कुर्वन्ति मानवाः अर्थतस ते मम मृतास तेषां चाहं जनार्दन 72 बरूया माधव राजानं धर्मात्मानं युधिष्ठिरम भूयांस ते हीयते धर्मॊ मा पुत्रक वृथा कृथाः 73 पराश्रया वासुदेव या जीवामि धिग अस्तु माम वृत्तेः कृपण लब्धाया अप्रतिष्ठैव जयायसी 74 अथॊ धनंजयं बरूया नित्यॊद्युक्तं वृकॊदरम यदर्थं कषत्रिया सूते तस्य वॊ ऽतिक्रमिष्यति 75 अस्मिंश चेद आगते काले कालॊ वॊऽतिक्रमिष्यति लॊकसंभाविताः सन्तः सुनृशंसं करिष्यथ 76 नृशंसेन च वॊ युक्तांस तयजेयं शाश्वतीः समाः काले हि समनुप्राप्ते तयक्तव्यम अपि जीवितम 77 माद्रीपुत्रौ च वक्तव्यौ कषत्रधर्मरतौ सदा विक्रमेणार्जितान भॊगान वृणीतं जीविताद अपि 78 विक्रमाधिगता हय अर्थाः कषत्रधर्मेण जीवतः मनॊ मनुष्यस्य सदा परीणन्ति पुरुषॊत्तम 79 गत्वा बरूहि महाबाहॊ सर्वशस्त्रभृतां वरम अर्जुनं पाण्डवं वीरं दरौपद्याः पदवीं चर 80 विदितौ हि तवात्यन्तं करुद्धाव इव यथान्तकौ भीमार्जुनौ नयेतां हि देवान अपि परां गतिम 81 तयॊश चैतद अवज्ञानं यत सा कृष्णा सभां गता दुःशासनश च कर्णश च परुषाण्य अभ्यभाषताम 82 दुर्यॊधनॊ भीमसेनम अभ्यगच्छन मनस्विनम पश्यतां कुरुमुख्यानां तस्य दरक्ष्यति यत फलम 83 न हि वैरं समासाद्य परशाम्यति वृकॊदरः सुचिराद अपि भीमस्य न हि वैरं परशाम्यति यावदन्तं न नयति शात्रवाञ शत्रुकर्शनः 84 न दुःखं राज्यहरणं न च दयूते पराजयः परव्राजनं च पुत्राणां न मे तद्दुःखकारणम 85 यत तु सा बृहती शयामा एकवस्त्रा सभां गता अशृणॊत परुषा वाचस ततॊ दुःखतरं नु किम 86 सत्री धर्मिणी वरारॊहा कषत्रधर्मरता सदा नाध्यगच्छत तथा नाथं कृष्णा नाथवती सती 87 यस्या मम सपुत्रायास तवं नाथॊ मधुसूदन रामश च बलिनां शरेष्ठः परद्युम्नश च महारथः 88 साहम एवंविधं दुःखं सहे ऽदय पुरुषॊत्तम भीमे जीवति दुर्धर्षे विजये चापलायिनि 89 तत आश्वासयाम आस पुत्राधिभिर अभिप्लुताम पितृष्वसारं शॊचन्तीं शौरिः पार्थ सखः पृथाम 90 का नु सीमन्तिनी तवादृग लॊकेष्व अस्ति पितृष्वसः शूरस्य राज्ञॊ दुहिता आजमीढ कुलं गता 91 महाकुलीना भवती दरहाद धरदम इवागता ईश्वरी सर्वकल्याणी भर्ता परमपूजिता 92 वीरसूर वीर पत्नी च सर्वैः समुदिता गुणैः सुखदुःखे महाप्राज्ञे तवादृशी सॊढुम अर्हति 93 निद्रा तन्द्री करॊधहर्षौ कषुत्पिपासे हिमातपौ एतानि पार्था निर्जित्य नित्यं वीराः सुखे रताः 94 तयक्तग्राम्य सुखाः पार्था नित्यं वीर सुखप्रियाः न ते सवल्पेन तुष्येयुर महॊत्साहा महाबलाः 95 अन्तं धीरा निषेवन्ते मध्यं गराम्यसुखप्रियाः उत्तमांश च परिक्लेशान भॊगांश चातीव मानुषान 96 अन्तेषु रेमिरे धीरा न ते मध्येषु रेमिरे अन्तप्राप्तिं सुखाम आहुर दुःखम अन्तरम अन्तयॊः 97 अभिवादयन्ति भवतीं पाण्डवाः सह कृष्णया आत्मानं च कुशलिनं निवेद्याहुर अनामयम 98 अरॊगान सर्वसिद्धार्थान कषिप्रं दरक्ष्यसि पाण्डवान ईश्वरान सर्वलॊकस्य हतामित्राञ शरिया वृतान 99 एवम आश्वासिता कुन्ती परत्युवाच जनार्दनम पुत्राधिभिर अभिध्वस्ता निगृह्याबुद्धिजं तमः 100 यद यत तेषां महाबाहॊ पथ्यं सयान मधुसूदन यथा यथा तवं मन्येथाः कुर्याः कृष्ण तथा तथा 101 अविलॊपेन धर्मस्य अनिकृत्या परंतप परभावज्ञास्मि ते कृष्ण सत्यस्याभिजनस्य च 102 वयवस्थायां च मित्रेषु बुद्धिविक्रमयॊस तथा तवम एव नः कुले धर्मस तवं सत्यं तवं तपॊ महत 103 तवं तराता तवं महद बरह्म तवयि सर्वं परतिष्ठितम यथैवात्थ तथैवैतत तवयि सत्यं भविष्यति 104 ताम आमन्त्र्य च गॊविन्दः कृत्वा चाभिप्रदक्षिणम परातिष्ठत महाबाहुर दुर्यॊधन गृहान परति |
1
[v] athopagamya viduram apahāhṇe janārdanaḥ pitṛṣvasāraṃ govindaḥ so 'bhyagacchad ariṃdamaḥ 2 sā dṛṣṭvā kṛṣṇam āyāntaṃ prasannāditya varcasam kaṇṭhe gṛhītvā prākrośat pṛthā pārthān anusmaran 3 teṣāṃ sattvavatāṃ madhye govindaṃ sahacāriṇam cirasya dṛṣṭvā vārṣṇeyaṃ bāṣpam āhārayat pṛthā 4 sābravīt kṛṣṇam āsīnaṃ kṛtātithyaṃ yudhāṃ patim bāṣpagadgada pūrṇena mukhena pariśuṣyatā 5 ye te bālyāt prabhṛtyeva guruśuśrūṣaṇe ratāḥ parasparasya suhṛdaḥ saṃmatāḥ samacetasaḥ 6 nikṛtyā bhraṃśitā rājyāj janārhā nirjanaṃ gatāḥ vinītakrodhaharśāś ca brahmaṇyāḥ satyavādinaḥ 7 tyaktvā priya sukhe pārthā rudantīm apahāya mām ahārṣuś ca vanaṃ yāntaḥ samūlaṃ hṛdayaṃ mama 8 atadarhā mahātmānaḥ kathaṃ keśava pāṇḍavāḥ ūṣur mahāvane tāta siṃhavyāghra gajākule 9 bālā vihīnāḥ pitrā te mayā satatalālitāḥ apaśyantaḥ svapitarau katham ūṣur mahāvane 10 śaṅkhadundubhinirghoṣair mṛdaṅgair vaiṇavair api pāṇḍavāḥ samabodhyanta bālyāt prabhṛti keśava 11 ye sma vāraṇaśabdena hayānāṃ heṣitena ca rathanemi ninādaiś ca vyabodhyanta sadā gṛhe 12 śaṅkhabherī ninādena veṇuvīṇānunādinā puṇyāhaghoṣamiśreṇa pūjyamānā dvijātibhiḥ 13 vastrai ratnair alaṃkāraiḥ pūjayanto dvijanmanaḥ gīrbhir maṅgalayuktābhir bāhmaṇānāṃ mahātmanām 14 arcitair arcanārhairś ca stubvadbhir abhinanditāḥ prāsādāgreṣv abodhyanta rāṅka vājina śāyinaḥ 15 te nūnaṃ ninadaṃ śrutvā śvāpadānāṃ mahāvane na smopayānti nidrāṃ vai atadarhā janārdana 16 bherīmṛdaṅganinanaiḥ śaṅkhavaiṇava nisvanaiḥ strīṇāṃ gītaninādaiś ca madhurair madhusūdana 17 bandi māgadha sūtaiś ca stuvadbhir bodhitāḥ katham mahāvane vyabodhyanta śvāpadānāṃ rutena te 18 hrīmān satyadhṛtir dānto bhūtānām anukampitā kāmadveṣau vaśe kṛtvā satāṃ vartmānuvartate 19 ambarīṣasya māndhātur yayāter nahuṣasya ca bharatasya dilīpasya śiber auśīnarasya ca 20 rājarṣīṇāṃ purāṇānāṃ dhuraṃ dhatte durudvahām śīlavṛttopasaṃpanno dharmajñaḥ satyasaṃgaraḥ 21 rājā sarvaguṇopetas trailokyasyāpi yo bhavet ajātaśatrur dharmātmā śuddhajāmbūnadaprabhaḥ 22 śreṣṭhaḥ kuruṣu sarveṣu dharmataḥ śrutavṛttataḥ priyadarśano dīrghabhujaḥ kathaṃ kṛṣṇa yudhiṣṭhiraḥ 23 yaḥ sa nāgāyuta prāṇo vātaraṃhā vṛkodaraḥ amarṣī pāṇḍavo nityaṃ priyo bhrātuḥ priyaṃ karaḥ 24 kīcakasya ca sajñāter yo hantā madhusūdana śūraḥ krodhavaśānāṃ ca hiḍimbasya bakasya ca 25 parākrame śakrasamo vāyuvegasamo jave maheśvara samaḥ krodhe bhīmaḥ praharatāṃ varaḥ 26 krodhaṃ balam amarṣaṃ ca yo nidhāya paraṃtapaḥ jitātmā pāṇḍavo 'marṣī bhrātus tiṣṭhati śāsane 27 tejorāśiṃ mahātmānaṃ balaugham amitaujasam bhīmaṃ pradarśanenāpi bhīmasenaṃ janārdana taṃ mamācakṣva vārṣṇeya katham adya vṛkodaraḥ 28 āste parighabāhuḥ sa madhyamaḥ pāṇḍavo 'cyuta arjunenārjuno yaḥ sa kṛṣṇa bāhusahasriṇā dvibāhuḥ spardhate nityam atītenāpi keśava 29 kṣipaty ekena vegena pañcabāṇaśatāni yaḥ iṣvastre sadṛśe rājñaḥ kārtavīryasya pāṇḍavaḥ 30 tejasādityasadṛśo maharṣipratimo dame kṣamayā pṛthivī tulyaṃ mahendrasamavikramaḥ 31 ādhirājyaṃ mahad dīptaṃ prathitaṃ madhusūdana āhṛtaṃ yena vīryeṇa kurūṇāṃ sarvarājasu 32 yasya bāhubalaṃ ghoraṃ kauravāḥ paryupāsate sa sarvarathināṃ śreṣṭha pāṇḍavaḥ satyavikramaḥ 33 yo 'pāśrayaḥ pāṇḍavānāṃ devānām iva vāsavaḥ sa te bhrātā sakhā caiva katham adya dhanaṃjayaḥ 34 dayāvān sarvabhūteṣu hrīniṣedho mahāstravit mṛduś ca sukumāraś ca dhārmikaś ca priyaś ca me 35 sahadevo maheṣvāsaḥ śūraḥ samitiśobhanaḥ bhrātṝṇāṃ kṛṣṇa śuśrūṣur dharmārthakuśalo yuvā 36 sadaiva sahadevasya bhrātaro madhusūdana vṛttaṃ kalyāṇa vṛttasya pūjayanti mahātmanaḥ 37 jyeṣṭhāpacāyinaṃ vīraṃ sahadevaṃ yudhāṃ patim śuśrūṣuṃ mama vārṣṇeya mādrīputraṃ pracakṣva me 38 sukumāro yuvā śūro darśanīyaś ca pāṇḍavaḥ bhrātṝṇāṃ kṛṣṇa sarveṣāṃ priyaḥ prāṇo bahiścaraḥ 39 citrayodhī ca nakulo maheṣvāso mahābalaḥ kac cit sa kuśalī kṛṣṇa vatso mama sukhaidhitaḥ 40 sukhocitam aduḥkhārhaṃ sukumāraṃ mahāratham api jātu mahābāho paśyeyaṃ nakulaṃ punaḥ 41 pakṣma saṃpātaje kāle nakulena vinākṛtā na labhāmi sukhaṃ vīra sādya jīvāmi paśya mām 42 sarvaiḥ putraiḥ priyatamā draupadī me janārdana kulīnā śīlasaṃpannā sarvaiḥ samuditā guṇaiḥ 43 putra lokāt patilokān vṛṇvānā satyavādinī priyān putrān parityajya pāṇḍavān anvapadyata 44 mahābhijana saṃpannā sarvakāmaiḥ supūjitā īśvarī sarvakalyāṇī draupadī katham acyuta 45 patibhiḥ pañcabhiḥ śūrair agnikalpaiḥ prahāribhiḥ upapannā maharṣvāsair draupadī duḥkhabhāginī 46 caturdaśam imaṃ varṣaṃ yan nāpaśyam ariṃdama putrādhibhiḥ paridyūnāṃ draupadīṃ satyavādinīm 47 na nūnaṃ karmabhiḥ puṇyair aśnute puruṣaḥ sukham draupadī cet tathā vṛttā nāśnute sukham avyayam 48 na priyo mama kṛṣṇāya bībhatsur na yudhiṣṭhiraḥ bhīmaseno yamau vāpi yad apaśyaṃ sabhā gatām 49 na me duḥkhataraṃ kiṃ cid bhūtapūrvaṃ tato 'dhikam yad draupadīṃ nivātasthāṃ śvaśurāṇāṃ samīpagām 50 ānāyitām anāryeṇa krodhalobhānuvartinā sarve praikṣanta kurava ekavastrāṃ sabhā gatām 51 tatraiva dhṛtarāṣṭraś ca mahārājaś ca bāhlikaḥ kṛpaś ca somadattaś ca nirviṇṇāḥ kuravas tathā 52 tasyāṃ saṃsadi sarvasyāṃ kṣattāraṃ pūjayāmy aham vṛttena hi bhavaty āryo na dhanena na vidyayā 53 tasya kṛṣṇa mahābuddher gambhīrasya mahāmanaḥ kṣattuḥ śīlam alaṃkāro lokān viṣṭabhya tiṣṭhati 54 sā śokārtā ca hṛṣṭā ca dṛṣṭvā govindam āgatam nānāvidhāni duḥkhāni sarvāṇy evānvakīrtayat 55 pūrvair ācaritaṃ yat tat kurājabhir ariṃdama akṣadyūtaṃ mṛgavadhaḥ kac cid eṣāṃ sukhāvaham 56 tan māṃ dahati yat kṛṣṇā sabhāyāṃ kuru saṃnidhau dhārtarāṣṭraiḥ parikliṣṭā yathā na kuśalaṃ tathā 57 nirvāsanaṃ ca nagarāt pravrajyā ca paraṃtapa nānāvidhānāṃ duḥkhānām āvāso 'smi janārdana ajñātacaryā bālānām avarodhaś ca keśava 58 na sma kleśatamaṃ me syāt putraiḥ saha paraṃtapa duryodhanena nikṛtā varṣam adya caturdaśam 59 duḥkhād api sukhaṃ na syād yadi puṇyaphalakṣayaḥ na me viśeṣo jātv āsīd dhārtarāṣṭreṣu pāṇḍavaiḥ 60 tena satyena kṛṣṇa tvāṃ hatāmitraṃ śriyā vṛtam asmād vimuktaṃ saṃgrāmāt paśyeyaṃ pāṇḍavaiḥ saha naiva śakyāḥ parājetuṃ sattvaṃ hy eṣāṃ tathāgatam 61 pitaraṃ tv eva garheyaṃ nātmānaṃ na suyodhanam yenāhaṃ kuntibhojāya dhanaṃ dhūrtair ivārpitā 62 bālāṃ mām āryakas tubhyaṃ krīḍantīṃ kandu hastakām adadāt kuntibhojāya sakhā sakhye mahātmane 63 sāhaṃ pitrā ca nikṛtā śvaśuraiś ca paraṃtapa atyantaduḥkhitā kṛṣṇa kiṃ jīvitaphalaṃ mama 64 yan mā vāg abravīn naktaṃ sūtake savyasācinaḥ putras te pṛthivīṃ jetā yaśaś cāsya divaṃ spṛśet 65 hatvā kurūn grāmajanye rājyaṃ prāpya dhanaṃjayaḥ bhrātṛbhiḥ saha kaunteyas trīn medhān āhariṣyati 66 nāhaṃ tām abhyasūyāmi namo dharmāya vedhase kṛṣṇāya mahate nityaṃ dharmo dhārayati prajāḥ 67 dharmaś ced asti vārṣṇeya tathā satyaṃ bhaviṣyati tvaṃ cāpi tat tathā kṛṣṇa sarvaṃ saṃpādayiṣyasi 68 na māṃ mādhava vaidhavyaṃ nārthanāśo na vairitā tathā śokāya bhavati yathā putrair vinābhavaḥ 69 yāhaṃ gāṇḍīvadhanvānaṃ sarvaśastrabhṛtāṃ varam dhanaṃjayaṃ na paśyāmi kā śāntir hṛdayasya me 70 idaṃ caturdaśaṃ varṣaṃ yan nāpaśyaṃ yudhiṣṭhiram dhanaṃjayaṃ ca govinda yamau taṃ ca vṛkodaram 71 jīvanāśaṃ pranaṣṭānāṃ śrāddhaṃ kurvanti mānavāḥ arthatas te mama mṛtās teṣāṃ cāhaṃ janārdana 72 brūyā mādhava rājānaṃ dharmātmānaṃ yudhiṣṭhiram bhūyāṃs te hīyate dharmo mā putraka vṛthā kṛthāḥ 73 parāśrayā vāsudeva yā jīvāmi dhig astu mām vṛtteḥ kṛpaṇa labdhāyā apratiṣṭhaiva jyāyasī 74 atho dhanaṃjayaṃ brūyā nityodyuktaṃ vṛkodaram yadarthaṃ kṣatriyā sūte tasya vo 'tikramiṣyati 75 asmiṃś ced āgate kāle kālo vo'tikramiṣyati lokasaṃbhāvitāḥ santaḥ sunṛśaṃsaṃ kariṣyatha 76 nṛśaṃsena ca vo yuktāṃs tyajeyaṃ śāśvatīḥ samāḥ kāle hi samanuprāpte tyaktavyam api jīvitam 77 mādrīputrau ca vaktavyau kṣatradharmaratau sadā vikrameṇārjitān bhogān vṛṇītaṃ jīvitād api 78 vikramādhigatā hy arthāḥ kṣatradharmeṇa jīvataḥ mano manuṣyasya sadā prīṇanti puruṣottama 79 gatvā brūhi mahābāho sarvaśastrabhṛtāṃ varam arjunaṃ pāṇḍavaṃ vīraṃ draupadyāḥ padavīṃ cara 80 viditau hi tavātyantaṃ kruddhāv iva yathāntakau bhīmārjunau nayetāṃ hi devān api parāṃ gatim 81 tayoś caitad avajñānaṃ yat sā kṛṣṇā sabhāṃ gatā duḥśāsanaś ca karṇaś ca paruṣāṇy abhyabhāṣatām 82 duryodhano bhīmasenam abhyagacchan manasvinam paśyatāṃ kurumukhyānāṃ tasya drakṣyati yat phalam 83 na hi vairaṃ samāsādya praśāmyati vṛkodaraḥ sucirād api bhīmasya na hi vairaṃ praśāmyati yāvadantaṃ na nayati śātravāñ śatrukarśanaḥ 84 na duḥkhaṃ rājyaharaṇaṃ na ca dyūte parājayaḥ pravrājanaṃ ca putrāṇāṃ na me tadduḥkhakāraṇam 85 yat tu sā bṛhatī śyāmā ekavastrā sabhāṃ gatā aśṛṇot paruṣā vācas tato duḥkhataraṃ nu kim 86 strī dharmiṇī varārohā kṣatradharmaratā sadā nādhyagacchat tathā nāthaṃ kṛṣṇā nāthavatī satī 87 yasyā mama saputrāyās tvaṃ nātho madhusūdana rāmaś ca balināṃ śreṣṭhaḥ pradyumnaś ca mahārathaḥ 88 sāham evaṃvidhaṃ duḥkhaṃ sahe 'dya puruṣottama bhīme jīvati durdharṣe vijaye cāpalāyini 89 tata āśvāsayām āsa putrādhibhir abhiplutām pitṛṣvasāraṃ śocantīṃ śauriḥ pārtha sakhaḥ pṛthām 90 kā nu sīmantinī tvādṛg lokeṣv asti pitṛṣvasaḥ śūrasya rājño duhitā ājamīḍha kulaṃ gatā 91 mahākulīnā bhavatī drahād dhradam ivāgatā īśvarī sarvakalyāṇī bhartā paramapūjitā 92 vīrasūr vīra patnī ca sarvaiḥ samuditā guṇaiḥ sukhaduḥkhe mahāprājñe tvādṛśī soḍhum arhati 93 nidrā tandrī krodhaharṣau kṣutpipāse himātapau etāni pārthā nirjitya nityaṃ vīrāḥ sukhe ratāḥ 94 tyaktagrāmya sukhāḥ pārthā nityaṃ vīra sukhapriyāḥ na te svalpena tuṣyeyur mahotsāhā mahābalāḥ 95 antaṃ dhīrā niṣevante madhyaṃ grāmyasukhapriyāḥ uttamāṃś ca parikleśān bhogāṃś cātīva mānuṣān 96 anteṣu remire dhīrā na te madhyeṣu remire antaprāptiṃ sukhām āhur duḥkham antaram antayoḥ 97 abhivādayanti bhavatīṃ pāṇḍavāḥ saha kṛṣṇayā ātmānaṃ ca kuśalinaṃ nivedyāhur anāmayam 98 arogān sarvasiddhārthān kṣipraṃ drakṣyasi pāṇḍavān īśvarān sarvalokasya hatāmitrāñ śriyā vṛtān 99 evam āśvāsitā kuntī pratyuvāca janārdanam putrādhibhir abhidhvastā nigṛhyābuddhijaṃ tamaḥ 100 yad yat teṣāṃ mahābāho pathyaṃ syān madhusūdana yathā yathā tvaṃ manyethāḥ kuryāḥ kṛṣṇa tathā tathā 101 avilopena dharmasya anikṛtyā paraṃtapa prabhāvajñāsmi te kṛṣṇa satyasyābhijanasya ca 102 vyavasthāyāṃ ca mitreṣu buddhivikramayos tathā tvam eva naḥ kule dharmas tvaṃ satyaṃ tvaṃ tapo mahat 103 tvaṃ trātā tvaṃ mahad brahma tvayi sarvaṃ pratiṣṭhitam yathaivāttha tathaivaitat tvayi satyaṃ bhaviṣyati 104 tām āmantrya ca govindaḥ kṛtvā cābhipradakṣiṇam prātiṣṭhata mahābāhur duryodhana gṛhān prati |
The Mahabharata in Sanskrit
Book 5
Chapter 89
|
1
[व] पृथाम आमन्त्र्य गॊविन्दः कृत्वा चापि परदक्षिणम दुर्यॊधन गृहं शौरिर अभ्यगच्छद अरिंदमः 2 लक्ष्म्या परमया युक्तं पुरंदर गृहॊपमम तस्य कक्ष्या वयतिक्रम्य तिस्रॊ दवाःस्थैर अवारितः 3 ततॊ ऽभरघनसंकाशं गिरिकूटम इवॊच्छ्रितम शरिया जवलन्तं परासादम आरुरॊह महायशाः 4 तत्र राजसहस्रैश च कुरुभिश चाभिसंवृतम धार्तराष्ट्रं महाबाहुं ददर्शासीनम आसने 5 दुःशासनं च कर्णं च शकुनिं चापि सौबलम दुर्यॊधन समीपे तान आसनस्थान ददर्श सः 6 अभ्यागच्छति दाशार्हे धार्तराष्ट्रॊ महायशाः उदतिष्ठत सहामात्यः पूजयन मधुसूदनम 7 समेत्य धार्तराष्ट्रेण सहामात्येन केशवः राजभिस तत्र वार्ष्णेयः समागच्छद यथा वयः 8 तत्र जाम्बूनदमयं पर्यङ्कं सुपरिष्कृतम विविधास्तरणास्तीर्णम अभ्युपाविशद अच्युतः 9 तस्मिन गां मधुपर्कं च उपहृत्य जनार्दने निवेदयाम आस तदा गृहान राज्यं च कौरवः 10 तत्र गॊविन्दम आसीनं परसन्नादित्य वर्चसम उपासां चक्रिरे सर्वे कुरवॊ राजभिः सह 11 ततॊ दुर्यॊधनॊ राजा वार्ष्णेयं जयतां वरम नयमन्त्रयद भॊजनेन नाभ्यनन्दच च केशवः 12 ततॊ दुर्यॊधनः कृष्णम अब्रवीद राजसंसदि मृदुपूर्वं शठॊदर्कं कर्णम आभाष्य कौरवः 13 कस्माद अन्नानि पानानि वासांसि शयनानि च तवदर्थम उपनीतानि नाग्रहीस तवं जनार्दन 14 उभयॊश चाददः साह्यम उभयॊश च हते रतः संबन्धी दयितश चासि धृतराष्ट्रस्य माधव 15 तवं हि गॊविन्द धर्मार्थौ वेत्थ तत्त्वेन सर्वशः तत्र कारणम इच्छामि शरॊतुं चक्रगदाधर 16 स एवम उक्तॊ गॊविन्दः परत्युवाच महामनाः ओघमेघस्वनः काले परगृह्य विपुलं भुजम 17 अनम्बू कृतम अग्रस्तम अनिरस्तम असंकुलम राजीवनेत्रॊ राजानं हेतुमद्वाक्यम उत्तमम 18 कृतार्था भुञ्जते दूताः पूजां गृह्णन्ति चैव हि कृतार्थं मां सहामात्यस तवम अर्चिष्यसि भारत 19 एवम उक्तः परत्युवाच धार्तराष्ट्रॊ जनार्दनम न युक्तं भवतास्मासु परतिपत्तुम असांप्रतम 20 कृतार्थं चाकृतार्थं च तवां वयं मधुसूदन यतामहे पूजयितुं गॊविन्द न च शक्नुमः 21 न च तत कारणं विद्मॊ यस्मिन नॊ मधुसूदन पूजां कृतां परीयमाणैर नामंस्थाः पुरुषॊत्तम 22 वैरं नॊ नास्ति भवता गॊविन्द न च विग्रहः स भवान परसमीक्ष्यैतन नेदृशं वक्तुम अर्हति 23 एवम उक्तः परत्युवाच धार्तराष्ट्रं जनार्दनः अभिवीक्ष्य सहामात्यं दाशार्हः परहसन्न इव 24 नाहं कामान न संरम्भान न दवेषान नार्थकारणात न हेतुवादाल लॊभाद वा धर्मं जह्यां कथं चन 25 संप्रीति भॊज्यान्य अन्नानि आपद भॊज्यानि वा पुनः न च संप्रीयसे राजन न चाप्य आपद गता वयम 26 अकस्माद दविषसे राजञ जन्मप्रभृति पाण्डवान परियानुवर्तिनॊ भरातॄन सर्वैः समुदितान गुणैः 27 अकस्माच चैव पार्थानां दवेषणं नॊपपद्यते धर्मे सथिताः पाण्डवेयाः कस तान किं वक्तुम अर्हति 28 यस तान दवेष्टि स मां दवेष्टि यस तान अनु स माम अनु ऐकात्म्यं मां गतं विद्धि पाण्डवैर धर्मचारिभिः 29 कामक्रॊधानुवर्ती हि यॊ मॊहाद विरुरुत्सते गुणवन्तं च यॊ दवेष्टि तम आहुः पुरुषाधमम 30 यः कल्याण गुणाञ जञातीन मॊहाल लॊभाद दिदृक्षते सॊ ऽजितात्माजित करॊधॊ नचिरं तिष्ठति शरियम 31 अथ यॊ गुणसंपन्नान हृदयस्याप्रियान अपि परियेण कुरुते वश्यांश चिरं यशसि तिष्ठति 32 सर्वम एतद अभॊक्तव्यम अन्नं दुष्टाभिसंहितम कषत्तुर एकस्य भॊक्तव्यम इति मे धीयते मतिः 33 एवम उक्त्वा महाबाहुर दुर्यॊधनम अमर्षणम निश्चक्राम ततः शुभ्राद धार्तराष्ट्र निवेशनात 34 निर्याय च महाबाहुर वासुदेवॊ महामनाः निवेशाय ययौ वेश्म विरुदस्य महात्मनः 35 तम अभ्यगच्छद दरॊणश च कृपॊ भीष्मॊ ऽथ बाह्लिकः कुरवश च महाबाहुं विरुदस्य गृहे सथितम 36 ते ऽभिगम्याब्रुवंस तत्र कुरवॊ मधुसूदनम निवेदयामॊ वार्ष्णेय सरत्नांस ते गृहान्वयम 37 तान उवाच महातेजाः कौरवान मधुसूदनः सर्वे भवन्तॊ गच्छन्तु सर्वा मे ऽपचितिः कृता 38 यातेषु कुरुषु कषत्ता दाशार्हम अपराजितम अभ्यर्चयाम आस तदा सर्वकामैः परयत्नवान 39 ततः कषत्तान्न पानानि शुचीनि गुणवन्ति च उपाहरद अनेकानि केशवाय महात्मने 40 तैर तर्पयित्वा परथमं बराह्मणान मधुसूदनः वेदविद्भ्यॊ ददौ कृष्णः परमद्रविणान्य अपि 41 ततॊ ऽनुयायिभिः सार्धं मरुद्भिर इव वासवः विदुरान्नानि बुभुजे शुचीनि गुणवन्ति च |
1
[v] pṛthām āmantrya govindaḥ kṛtvā cāpi pradakṣiṇam duryodhana gṛhaṃ śaurir abhyagacchad ariṃdamaḥ 2 lakṣmyā paramayā yuktaṃ puraṃdara gṛhopamam tasya kakṣyā vyatikramya tisro dvāḥsthair avāritaḥ 3 tato 'bhraghanasaṃkāśaṃ girikūṭam ivocchritam śriyā jvalantaṃ prāsādam āruroha mahāyaśāḥ 4 tatra rājasahasraiś ca kurubhiś cābhisaṃvṛtam dhārtarāṣṭraṃ mahābāhuṃ dadarśāsīnam āsane 5 duḥśāsanaṃ ca karṇaṃ ca śakuniṃ cāpi saubalam duryodhana samīpe tān āsanasthān dadarśa saḥ 6 abhyāgacchati dāśārhe dhārtarāṣṭro mahāyaśāḥ udatiṣṭhat sahāmātyaḥ pūjayan madhusūdanam 7 sametya dhārtarāṣṭreṇa sahāmātyena keśavaḥ rājabhis tatra vārṣṇeyaḥ samāgacchad yathā vayaḥ 8 tatra jāmbūnadamayaṃ paryaṅkaṃ supariṣkṛtam vividhāstaraṇāstīrṇam abhyupāviśad acyutaḥ 9 tasmin gāṃ madhuparkaṃ ca upahṛtya janārdane nivedayām āsa tadā gṛhān rājyaṃ ca kauravaḥ 10 tatra govindam āsīnaṃ prasannāditya varcasam upāsāṃ cakrire sarve kuravo rājabhiḥ saha 11 tato duryodhano rājā vārṣṇeyaṃ jayatāṃ varam nyamantrayad bhojanena nābhyanandac ca keśavaḥ 12 tato duryodhanaḥ kṛṣṇam abravīd rājasaṃsadi mṛdupūrvaṃ śaṭhodarkaṃ karṇam ābhāṣya kauravaḥ 13 kasmād annāni pānāni vāsāṃsi śayanāni ca tvadartham upanītāni nāgrahīs tvaṃ janārdana 14 ubhayoś cādadaḥ sāhyam ubhayoś ca hate rataḥ saṃbandhī dayitaś cāsi dhṛtarāṣṭrasya mādhava 15 tvaṃ hi govinda dharmārthau vettha tattvena sarvaśaḥ tatra kāraṇam icchāmi śrotuṃ cakragadādhara 16 sa evam ukto govindaḥ pratyuvāca mahāmanāḥ oghameghasvanaḥ kāle pragṛhya vipulaṃ bhujam 17 anambū kṛtam agrastam anirastam asaṃkulam rājīvanetro rājānaṃ hetumadvākyam uttamam 18 kṛtārthā bhuñjate dūtāḥ pūjāṃ gṛhṇanti caiva hi kṛtārthaṃ māṃ sahāmātyas tvam arciṣyasi bhārata 19 evam uktaḥ pratyuvāca dhārtarāṣṭro janārdanam na yuktaṃ bhavatāsmāsu pratipattum asāṃpratam 20 kṛtārthaṃ cākṛtārthaṃ ca tvāṃ vayaṃ madhusūdana yatāmahe pūjayituṃ govinda na ca śaknumaḥ 21 na ca tat kāraṇaṃ vidmo yasmin no madhusūdana pūjāṃ kṛtāṃ prīyamāṇair nāmaṃsthāḥ puruṣottama 22 vairaṃ no nāsti bhavatā govinda na ca vigrahaḥ sa bhavān prasamīkṣyaitan nedṛśaṃ vaktum arhati 23 evam uktaḥ pratyuvāca dhārtarāṣṭraṃ janārdanaḥ abhivīkṣya sahāmātyaṃ dāśārhaḥ prahasann iva 24 nāhaṃ kāmān na saṃrambhān na dveṣān nārthakāraṇāt na hetuvādāl lobhād vā dharmaṃ jahyāṃ kathaṃ cana 25 saṃprīti bhojyāny annāni āpad bhojyāni vā punaḥ na ca saṃprīyase rājan na cāpy āpad gatā vayam 26 akasmād dviṣase rājañ janmaprabhṛti pāṇḍavān priyānuvartino bhrātṝn sarvaiḥ samuditān guṇaiḥ 27 akasmāc caiva pārthānāṃ dveṣaṇaṃ nopapadyate dharme sthitāḥ pāṇḍaveyāḥ kas tān kiṃ vaktum arhati 28 yas tān dveṣṭi sa māṃ dveṣṭi yas tān anu sa mām anu aikātmyaṃ māṃ gataṃ viddhi pāṇḍavair dharmacāribhiḥ 29 kāmakrodhānuvartī hi yo mohād virurutsate guṇavantaṃ ca yo dveṣṭi tam āhuḥ puruṣādhamam 30 yaḥ kalyāṇa guṇāñ jñātīn mohāl lobhād didṛkṣate so 'jitātmājita krodho naciraṃ tiṣṭhati śriyam 31 atha yo guṇasaṃpannān hṛdayasyāpriyān api priyeṇa kurute vaśyāṃś ciraṃ yaśasi tiṣṭhati 32 sarvam etad abhoktavyam annaṃ duṣṭābhisaṃhitam kṣattur ekasya bhoktavyam iti me dhīyate matiḥ 33 evam uktvā mahābāhur duryodhanam amarṣaṇam niścakrāma tataḥ śubhrād dhārtarāṣṭra niveśanāt 34 niryāya ca mahābāhur vāsudevo mahāmanāḥ niveśāya yayau veśma virudasya mahātmanaḥ 35 tam abhyagacchad droṇaś ca kṛpo bhīṣmo 'tha bāhlikaḥ kuravaś ca mahābāhuṃ virudasya gṛhe sthitam 36 te 'bhigamyābruvaṃs tatra kuravo madhusūdanam nivedayāmo vārṣṇeya saratnāṃs te gṛhānvayam 37 tān uvāca mahātejāḥ kauravān madhusūdanaḥ sarve bhavanto gacchantu sarvā me 'pacitiḥ kṛtā 38 yāteṣu kuruṣu kṣattā dāśārham aparājitam abhyarcayām āsa tadā sarvakāmaiḥ prayatnavān 39 tataḥ kṣattānna pānāni śucīni guṇavanti ca upāharad anekāni keśavāya mahātmane 40 tair tarpayitvā prathamaṃ brāhmaṇān madhusūdanaḥ vedavidbhyo dadau kṛṣṇaḥ paramadraviṇāny api 41 tato 'nuyāyibhiḥ sārdhaṃ marudbhir iva vāsavaḥ vidurānnāni bubhuje śucīni guṇavanti ca |
The Mahabharata in Sanskrit
Book 5
Chapter 90
|
1
[व] तं भुक्तवन्तम आश्वस्तं निशायां विदुरॊ ऽबरवीत नेदं सम्यग वयवसितं केशवागमनं तव 2 अर्धधर्मातिगॊ मूढः संरम्भी च जनार्दन मानघ्नॊ मानकामश च वृद्धानां शासनातिगः 3 धर्मशास्त्रातिगॊ मन्दॊ दुरात्मा परग्रहं गतः अनेयः शरेयसां पापॊ धार्तराष्ट्रॊ जनार्दन 4 कामात्मा पराज्ञमानी च मित्रध्रुक सर्वशङ्कितः अकर्ता चाकृतज्ञश च तयक्तधर्मः परियानृतः 5 एतैश चान्यैश च बहुभिर दॊषैर एष समन्वितः तवयॊच्यमानः शरेयॊ ऽपि संरम्भान न गरहीष्यति 6 सेना समुदयं दृष्ट्वा पार्थिवं मधुसूदन कृतार्थं मन्यते बाल आत्मानम अविचक्षणः 7 एकः कर्णः पराञ जेतुं समर्थ इति निश्चितम धार्तराष्ट्रस्य दुर्बुद्धेः स शमं नॊपयास्यति 8 भीष्मे दरॊणे कृपे कर्णे दरॊणपुत्रे जयद्रथे भूयसीं वर्तते वृत्तिं न शमे कुरुते मनः 9 निश्चितं धार्तराष्ट्राणां सकर्णानां जनार्दन भीष्मद्रॊणकृपान पार्था न शक्ताः परतिवीक्षितुम 10 संविच च धार्तराष्ट्राणां सर्वेषाम एव केशव शमे परयतमानस्य तव सौभ्रात्र काङ्क्षिणः 11 न पाण्डवानाम अस्माभिः परतिदेयं यथॊचितम इति वयवसितास तेषु वचनं सयान निरर्थकम 12 यत्र सूक्तं दुरुक्तं च समं सयान मधुसूदन न तत्र परलपेत पराज्ञॊ बधिरेष्व इव गायनः 13 अविजानत्सु मूढेषु निर्मर्यादेषु माधव न तवं वाक्यं बरुवन युक्तश चाण्डालेषु दविजॊ यथा 14 सॊ ऽयं बलस्थॊ मूढश च न करिष्यति ते वचः तस्मिन निरर्थकं वाक्यम उक्तं संपत्स्यते तव 15 तेषां समुपविष्टानां सर्वेषां पापचेतसाम तव मध्यावतरणं मम कृष्ण न रॊचते 16 दुर्बुद्धीनाम अशिष्टानां बहूनां पापचेतसाम परतीपं वचनं मध्ये तव कृष्ण न रॊचते 17 अनुपासितवृद्धत्वाच छरिया मॊहाच च दर्पितः वयॊ दर्पाद अमर्षाच च न ते शरेयॊ गरहीष्यति 18 बलं बलवद अप्य अस्य यदि वक्ष्यसि माधव तवय्य अस्य महती शङ्का न करिष्यति ते वचः 19 नेदम अद्य युधा शक्यम इन्द्रेणापि सहामरैः इति वयवसिताः सर्वे धार्तराष्ट्रा जनार्दन 20 तेष्व एवम उपपन्नेषु कामक्रॊधानुवर्तिषु समर्थम अपि ते वाक्यम असमर्थं भविष्यति 21 मध्ये तिष्ठन हस्त्यनीकस्य मन्दॊ; रथाश्वयुक्तस्य बलस्य मूढः दुर्यॊधनॊ मन्यते वीतमन्युः; कृत्स्ना मयेयं पृथिवी जितेति 22 आशंसते धृतराष्ट्रस्य पुत्रॊ; महाराज्यम असपत्नं पृथिव्याम तस्मिञ शमः केवलॊ नॊपलभ्यॊ; बद्धं सन्तम आगतं मन्यते ऽरथम 23 पर्यस्तेयं पृथिवी कालपक्वा; दुर्यॊधनार्थे पाण्डवान यॊद्धुकामाः समागताः सर्वयॊधाः पृथिव्यां; राजानश च कषितिपालैः समेताः 24 सर्वे चैते कृतवैराः पुरस्तात; तवया राजानॊ हृतसाराश च कृष्ण तवॊद्वेगात संश्रिता धार्तराष्ट्रान; सुसंहताः सह कर्णेन वीराः 25 तयक्तात्मानः सह दुर्यॊधनेन; सृष्टा यॊद्धुं पाण्डवान सर्वयॊधाः तेषां मध्ये परविशेथा यदि तवं; न तन मतं मम दाशार्ह वीर 26 तेषां समुपविष्टानां बहूनां दुष्टचेतसाम कथं मध्यं परपद्येथाः शत्रूणां शत्रुकर्शन 27 सर्वथा तवं महाबाहॊ देवैर अपि दुरुत्सहः परभावं पौरुषं बुद्धिं जानामि तव शत्रुहन 28 या मे परीतिः पाण्डवेषु भूयः सा तवयि माधव परेम्णा च बहुमानाच च सौहृदाच च बरवीम्य अहम |
1
[v] taṃ bhuktavantam āśvastaṃ niśāyāṃ viduro 'bravīt nedaṃ samyag vyavasitaṃ keśavāgamanaṃ tava 2 ardhadharmātigo mūḍhaḥ saṃrambhī ca janārdana mānaghno mānakāmaś ca vṛddhānāṃ śāsanātigaḥ 3 dharmaśāstrātigo mando durātmā pragrahaṃ gataḥ aneyaḥ śreyasāṃ pāpo dhārtarāṣṭro janārdana 4 kāmātmā prājñamānī ca mitradhruk sarvaśaṅkitaḥ akartā cākṛtajñaś ca tyaktadharmaḥ priyānṛtaḥ 5 etaiś cānyaiś ca bahubhir doṣair eṣa samanvitaḥ tvayocyamānaḥ śreyo 'pi saṃrambhān na grahīṣyati 6 senā samudayaṃ dṛṣṭvā pārthivaṃ madhusūdana kṛtārthaṃ manyate bāla ātmānam avicakṣaṇaḥ 7 ekaḥ karṇaḥ parāñ jetuṃ samartha iti niścitam dhārtarāṣṭrasya durbuddheḥ sa śamaṃ nopayāsyati 8 bhīṣme droṇe kṛpe karṇe droṇaputre jayadrathe bhūyasīṃ vartate vṛttiṃ na śame kurute manaḥ 9 niścitaṃ dhārtarāṣṭrāṇāṃ sakarṇānāṃ janārdana bhīṣmadroṇakṛpān pārthā na śaktāḥ prativīkṣitum 10 saṃvic ca dhārtarāṣṭrāṇāṃ sarveṣām eva keśava śame prayatamānasya tava saubhrātra kāṅkṣiṇaḥ 11 na pāṇḍavānām asmābhiḥ pratideyaṃ yathocitam iti vyavasitās teṣu vacanaṃ syān nirarthakam 12 yatra sūktaṃ duruktaṃ ca samaṃ syān madhusūdana na tatra pralapet prājño badhireṣv iva gāyanaḥ 13 avijānatsu mūḍheṣu nirmaryādeṣu mādhava na tvaṃ vākyaṃ bruvan yuktaś cāṇḍāleṣu dvijo yathā 14 so 'yaṃ balastho mūḍhaś ca na kariṣyati te vacaḥ tasmin nirarthakaṃ vākyam uktaṃ saṃpatsyate tava 15 teṣāṃ samupaviṣṭānāṃ sarveṣāṃ pāpacetasām tava madhyāvataraṇaṃ mama kṛṣṇa na rocate 16 durbuddhīnām aśiṣṭānāṃ bahūnāṃ pāpacetasām pratīpaṃ vacanaṃ madhye tava kṛṣṇa na rocate 17 anupāsitavṛddhatvāc chriyā mohāc ca darpitaḥ vayo darpād amarṣāc ca na te śreyo grahīṣyati 18 balaṃ balavad apy asya yadi vakṣyasi mādhava tvayy asya mahatī śaṅkā na kariṣyati te vacaḥ 19 nedam adya yudhā śakyam indreṇāpi sahāmaraiḥ iti vyavasitāḥ sarve dhārtarāṣṭrā janārdana 20 teṣv evam upapanneṣu kāmakrodhānuvartiṣu samartham api te vākyam asamarthaṃ bhaviṣyati 21 madhye tiṣṭhan hastyanīkasya mando; rathāśvayuktasya balasya mūḍhaḥ duryodhano manyate vītamanyuḥ; kṛtsnā mayeyaṃ pṛthivī jiteti 22 āśaṃsate dhṛtarāṣṭrasya putro; mahārājyam asapatnaṃ pṛthivyām tasmiñ śamaḥ kevalo nopalabhyo; baddhaṃ santam āgataṃ manyate 'rtham 23 paryasteyaṃ pṛthivī kālapakvā; duryodhanārthe pāṇḍavān yoddhukāmāḥ samāgatāḥ sarvayodhāḥ pṛthivyāṃ; rājānaś ca kṣitipālaiḥ sametāḥ 24 sarve caite kṛtavairāḥ purastāt; tvayā rājāno hṛtasārāś ca kṛṣṇa tavodvegāt saṃśritā dhārtarāṣṭrān; susaṃhatāḥ saha karṇena vīrāḥ 25 tyaktātmānaḥ saha duryodhanena; sṛṣṭā yoddhuṃ pāṇḍavān sarvayodhāḥ teṣāṃ madhye praviśethā yadi tvaṃ; na tan mataṃ mama dāśārha vīra 26 teṣāṃ samupaviṣṭānāṃ bahūnāṃ duṣṭacetasām kathaṃ madhyaṃ prapadyethāḥ śatrūṇāṃ śatrukarśana 27 sarvathā tvaṃ mahābāho devair api durutsahaḥ prabhāvaṃ pauruṣaṃ buddhiṃ jānāmi tava śatruhan 28 yā me prītiḥ pāṇḍaveṣu bhūyaḥ sā tvayi mādhava premṇā ca bahumānāc ca sauhṛdāc ca bravīmy aham |
The Mahabharata in Sanskrit
Book 5
Chapter 91
|
1
[भ] यथा बरूयान महाप्राज्ञॊ यथा बरूयाद विचक्षणः यथा वाच्यस तवद्विधेन सुहृदा मद्विधः सुहृत 2 धर्मार्थयुक्तं तथ्यं च यथा तवय्य उपपद्यते तथा वचनम उक्तॊ ऽसमि तवयैतत पितृमातृवत 3 सत्यं पराप्तं च युक्तं चाप्य एवम एव यथात्थ माम शृणुष्वागमने हेतुं विदुरावहितॊ भव 4 दौरात्म्यं धार्तराष्ट्रस्य कषत्रियाणां च वैरिताम सर्वम एतद अहं जानन कषत्तः पराप्तॊ ऽदय कौरवान 5 पर्यस्तां पृथिवीं सर्वां साश्वां सरथ कुञ्जराम यॊ मॊचयेन मृत्युपाशात पराप्नुयाद धर्मम उत्तमम 6 धर्मकार्यं यतञ शक्त्या न चेच छक्नॊति मानवः पराप्तॊ भवति तत पुण्यम अत्र मे नास्ति संशयः 7 मनसा चिन्तयन पापं कर्मणा नाभिरॊचयन न पराप्नॊति फलं तस्य एवं धर्मविदॊ विदुः 8 सॊ ऽहं यतिष्ये परशमं कषत्तः कर्तुम अमायया कुरूणां सृञ्जयानां च संग्रामे विनशिष्यताम 9 सेयम आपन महाघॊरा कुरुष्व एव समुत्थिता कर्ण दुर्यॊधन कृता सर्वे हय एते तद अन्वयाः 10 वयसनैः कलिश्यमानं हि यॊ मित्रं नाभिपद्यते अनुनीय यथाशक्ति तं नृशंसं विदुर बुधाः 11 आ केशग्रहणान मित्रम अकार्यात संनिवर्तयन अवाच्यः कस्य चिद भवति कृतयत्नॊ यथाबलम 12 तत समर्थं शुभं वाक्यं धर्मार्थसहितं हितम धार्तराष्ट्रः सहामात्यॊ गरहीतुं विदुरार्हति 13 हितं हि धार्तराष्ट्राणां पाण्डवानां तथैव च पृथिव्यां कषत्रियाणां च यतिष्ये ऽहम अमायया 14 हिते परयतमानं मां शङ्केद दुर्यॊधनॊ यदि हृदयस्य च मे परीतिर आनृण्यं च भविष्यति 15 जञातीनां हि मिथॊ भेदे यन मित्रं नाभिपद्यते सर्वयत्नेन मध्यस्थं न तन मित्रं विदुर बुधाः 16 न मां बरूयुर अधर्मज्ञा मूढा असुहृदस तथा शक्तॊ नावारयत कृष्णः संरब्धान कुरुपाण्डवान 17 उभयॊः साधयन्न अर्थम अहम आगत इत्य उत तत्र यत्नम अहं कृत्वा गच्छेयं नृष्व अवाच्यताम 18 मम धर्मार्थयुक्तं हि शरुत्वा वाक्यम अनामयम न चेद आदास्यते बालॊ दिष्टस्य वशम एष्यति 19 अहापयन पाण्डवार्थं यथावच; छमं कुरूणां यदि चाचरेयम पुण्यं च मे सयाच चरितं महार्थं; मुच्येरंश च कुरवॊ मृत्युपाशात 20 अपि वाचं भाषमाणस्य काव्यां; धर्मारामाम अर्थवतीम अहिंस्राम अवेक्षेरन धार्तराष्ट्राः समर्थां; मां च पराप्तं कुरवः पूजयेयुः 21 न चापि मम पर्याप्ताः सहिताः सर्वपार्थिवाः करुद्धस्य परमुखे सथातुं सिंहस्येवेतरे मृगाः 22 [व] इत्य एवम उक्त्वा वचनं वृष्णीनाम ऋषभस तदा शयने सुखसंस्पर्शे शिश्ये यदुसुखावहः |
1
[bha] yathā brūyān mahāprājño yathā brūyād vicakṣaṇaḥ yathā vācyas tvadvidhena suhṛdā madvidhaḥ suhṛt 2 dharmārthayuktaṃ tathyaṃ ca yathā tvayy upapadyate tathā vacanam ukto 'smi tvayaitat pitṛmātṛvat 3 satyaṃ prāptaṃ ca yuktaṃ cāpy evam eva yathāttha mām śṛṇuṣvāgamane hetuṃ vidurāvahito bhava 4 daurātmyaṃ dhārtarāṣṭrasya kṣatriyāṇāṃ ca vairitām sarvam etad ahaṃ jānan kṣattaḥ prāpto 'dya kauravān 5 paryastāṃ pṛthivīṃ sarvāṃ sāśvāṃ saratha kuñjarām yo mocayen mṛtyupāśāt prāpnuyād dharmam uttamam 6 dharmakāryaṃ yatañ śaktyā na cec chaknoti mānavaḥ prāpto bhavati tat puṇyam atra me nāsti saṃśayaḥ 7 manasā cintayan pāpaṃ karmaṇā nābhirocayan na prāpnoti phalaṃ tasya evaṃ dharmavido viduḥ 8 so 'haṃ yatiṣye praśamaṃ kṣattaḥ kartum amāyayā kurūṇāṃ sṛñjayānāṃ ca saṃgrāme vinaśiṣyatām 9 seyam āpan mahāghorā kuruṣv eva samutthitā karṇa duryodhana kṛtā sarve hy ete tad anvayāḥ 10 vyasanaiḥ kliśyamānaṃ hi yo mitraṃ nābhipadyate anunīya yathāśakti taṃ nṛśaṃsaṃ vidur budhāḥ 11 ā keśagrahaṇān mitram akāryāt saṃnivartayan avācyaḥ kasya cid bhavati kṛtayatno yathābalam 12 tat samarthaṃ śubhaṃ vākyaṃ dharmārthasahitaṃ hitam dhārtarāṣṭraḥ sahāmātyo grahītuṃ vidurārhati 13 hitaṃ hi dhārtarāṣṭrāṇāṃ pāṇḍavānāṃ tathaiva ca pṛthivyāṃ kṣatriyāṇāṃ ca yatiṣye 'ham amāyayā 14 hite prayatamānaṃ māṃ śaṅked duryodhano yadi hṛdayasya ca me prītir ānṛṇyaṃ ca bhaviṣyati 15 jñātīnāṃ hi mitho bhede yan mitraṃ nābhipadyate sarvayatnena madhyasthaṃ na tan mitraṃ vidur budhāḥ 16 na māṃ brūyur adharmajñā mūḍhā asuhṛdas tathā śakto nāvārayat kṛṣṇaḥ saṃrabdhān kurupāṇḍavān 17 ubhayoḥ sādhayann artham aham āgata ity uta tatra yatnam ahaṃ kṛtvā gaccheyaṃ nṛṣv avācyatām 18 mama dharmārthayuktaṃ hi śrutvā vākyam anāmayam na ced ādāsyate bālo diṣṭasya vaśam eṣyati 19 ahāpayan pāṇḍavārthaṃ yathāvac; chamaṃ kurūṇāṃ yadi cācareyam puṇyaṃ ca me syāc caritaṃ mahārthaṃ; mucyeraṃś ca kuravo mṛtyupāśāt 20 api vācaṃ bhāṣamāṇasya kāvyāṃ; dharmārāmām arthavatīm ahiṃsrām avekṣeran dhārtarāṣṭrāḥ samarthāṃ; māṃ ca prāptaṃ kuravaḥ pūjayeyuḥ 21 na cāpi mama paryāptāḥ sahitāḥ sarvapārthivāḥ kruddhasya pramukhe sthātuṃ siṃhasyevetare mṛgāḥ 22 [v] ity evam uktvā vacanaṃ vṛṣṇīnām ṛṣabhas tadā śayane sukhasaṃsparśe śiśye yadusukhāvahaḥ |
The Mahabharata in Sanskrit
Book 5
Chapter 92
|
1
[व] तथा कथयतॊर एव तयॊर बुद्धिमतॊस तदा शिवा नक्षत्रसंपन्ना सा वयतीयाय शर्वरी 2 धर्मार्थकामयुक्ताश च विचित्रार्थपदाक्षराः शृण्वतॊ विविधा वाचॊ विदुरस्य महात्मनः 3 कथाभिर अनुरूपाभिः कृष्णस्यामित तेजसः अकामस्येव कृष्णस्य सा वयतीयाय शर्वरी 4 ततस तु सवरसंपन्ना बहवः सूतमागधाः शङ्खदुन्दुभिनिर्घॊषैः केशवं परत्यबॊधयन 5 तत उत्थाय दाशार्ह ऋषभः सर्वसात्वताम सर्वम आवश्यकं चक्रे परातः कार्यं जनार्दनः 6 कृतॊद कार्यजप्यः स हुताग्निः समलंकृतः तत आदित्यम उद्यन्तम उपातिष्ठत माधवः 7 अथ दुर्यॊधनः कृष्णं शकुनिश चापि सौबलः संध्यां तिष्ठन्तम अभ्येत्य दाशार्हम अपराजितम 8 आचक्षेतां तु कृष्णस्य धृतराष्ट्रं सभा गतम कुरूंश च भीष्म परमुखान राज्ञः सर्वांश च पार्थिवान 9 तवाम अर्थयन्ते गॊविन्द दिवि शक्रम इवामराः ताव अभ्यनन्दद गॊविन्दः साम्ना परमवल्गुना 10 ततॊ विमल आदित्ये बराह्मणेभ्यॊ जनार्दनः ददौ हिरण्यं वासांसि गाश चाश्वांश च परंतपः 11 विसृष्टवन्तं रत्नानि दाशार्हम अपराजितम तिष्ठन्तम उपसंगम्य ववन्दे सारथिस तदा 12 तम उपस्थितम आज्ञाय रथं दिव्यं महामनाः महाभ्रघननिर्घॊषं सर्वरत्नविभूषितम 13 अग्निं परदक्षिणं कृत्वा बराह्मणांश च जनार्दनः कौस्तुभं मणिम आमुच्य शरिया परमया जवलन 14 कुरुभिः संवृतः कृष्णॊ वृष्णिभिश चाभिरक्षितः आतिष्ठत रथं शौरिः सर्वयादवनन्दनः 15 अन्वारुरॊह दाशार्हं विदुरः सर्वधर्मवित सर्वप्राणभृतां शरेष्ठं सर्वधर्मभृतां वरम 16 ततॊ दुर्यॊधनः कृष्णं शकुनिश चापि सौबलः दवितीयेन रथेनैनम अन्वयातां परंतपम 17 सात्यकिः कृतवर्मा च वृष्णीनां च महारथाः पृष्ठतॊ ऽनुययुः कृष्णं रथैर अश्वैर गजैर अपि 18 तेषां हेमपरिष्कारा युक्ताः परमवाजिभिः गच्छतां घॊषिणश चित्राश चारु बभ्राजिरे रथाः 19 संमृष्टसंसिक्त रजः परतिपेदे महापथम राजर्षिचरितं काले कृष्णॊ धीमाञ शरिया जवलन 20 ततः परयाते दाशार्हे परावाद्यन्तैक पुष्कराः शङ्खाश च दध्मिरे तत्र वाद्यान्य अन्यानि यानि च 21 परवीराः सर्वलॊकस्य युवानः सिंहविक्रमाः परिवार्य रथं शौरेर अगच्छन्त परंतपाः 22 ततॊ ऽनये बहुसाहस्रा विचित्राद्भुत वाससः असि परासायुध धराः कृष्णस्यासन पुरःसराः 23 गजाः परःशतास तत्र वराश चाश्वाः सहस्रशः परयान्तम अन्वयुर वीरं दाशार्हम अपराजितम 24 पुरं कुरूणां संवृत्तं दरष्टुकामं जनार्दनम सवृद्धबालं सस्त्रीकं रथ्या गतम अरिंदमम 25 वेदिकापाश्रिताभिश च समाक्रान्तान्य अनेकशः परचलन्तीव भारेण यॊषिद्भिर भवनान्य उत 26 संपूज्यमानः कुरुभिः संशृण्वन विविधाः कथाः यथार्हं परतिसत्कुर्वन परेक्षमाणः शनैर ययौ 27 ततः सभां समासाद्य केशवस्यानुयायिनः सशङ्खैर वेणुनिर्घॊषैर दिशः सर्वा वयनादयन 28 ततः सा समितिः सर्वा राज्ञाम अमिततेजसाम संप्राकम्पत हर्षेण कृष्णागमन काङ्क्षया 29 ततॊ ऽभयाशगते कृष्णे समहृष्यन नराधिपाः शरुत्वा तं रथनिर्घॊषं पर्यज्ञ्य निनदॊपमम 30 आसाद्य तु सभा दवारम ऋषभः सर्वसात्वताम अवतीर्य रथाच छौरिः कैलासशिखरॊपमात 31 नगमेघप्रतीकाशां जवलन्तीम इव तेजसा महेन्द्र सदन परख्यां परविवेश सभां ततः 32 पाणौ गृहीत्वा विदुरं सात्यकिं च महायशाः जयॊतींष्य आदित्यवद राजन कुरून परच्छादयञ शरिया 33 अग्रतॊ वासुदेवस्य कर्णदुर्यॊधनाव उभौ वृष्णयः कृतवर्मा च आसन कृष्णस्य पृष्ठतः 34 धृतराष्ट्रं पुरस्कृत्य भीष्मद्रॊणादयस ततः आसनेभ्यॊ ऽचलन सर्वे पूजयन्तॊ जनार्दनम 35 अभ्यागच्छति दाशार्हे परज्ञा चक्षुर महामनाः सहैव भीष्मद्रॊणाभ्याम उदतिष्ठन महायशाः 36 उत्तिष्ठति महाराजे धृतराष्ट्रे जनेश्वरे तानि राजसहस्राणि समुत्तस्थुः समन्ततः 37 आसनं सर्वतॊभद्रं जाम्बूनदपरिष्कृतम कृष्णार्थे कल्पितं तत्र धृतराष्ट्रस्य शासनात 38 समयमानस तु राजानं भीष्मद्रॊणौ च माधवः अभ्यभाषत धर्मात्मा राज्ञश चान्यान यथा वयः 39 तत्र केशवम आनर्चुः सम्यग अभ्यागतं सभाम राजानः पार्थिवाः सर्वे कुरवश च जनार्दनम 40 तत्र तिष्ठन स दाशार्हॊ राजमध्ये परंतपः अपश्यद अन्तरिक्षस्थान ऋषीन परपुरंजयः 41 ततस तान अभिसंप्रेक्ष्य नारदप्रमुखान ऋषीन अभ्यभाषत दाशार्हॊ भीष्मं शांतनवं शनैः 42 पार्थिवीं समितिं दरष्टुम ऋषयॊ ऽभयागता नृप निमन्त्र्यताम आसनैश च सत्कारेण च भूयसा 43 नैतेष्व अनुपविष्टेषु शक्यं केन चिद आसितुम पूजा परयुज्यताम आशु मुनीनां भावितात्मनाम 44 ऋषीञ शांतनवॊ दृष्ट्वा सभा दवारम उपस्थितान तवरमाणस ततॊ भृत्यान आसनानीत्य अचॊदयत 45 आसनान्य अथ मृष्टानि महान्ति विपुलानि च मणिकाञ्चनचित्राणि समाजह्रुस ततस ततः 46 तेषु तत्रॊपविष्टेषु गृहीतार्धेषु भारत निषसादासने कृष्णॊ राजानश च यथासनम 47 दुःशासनः सात्यकये ददाव आसनम उत्तमम विविंशतिर ददौ पीठं काञ्चनं कृतवर्मणे 48 अविदूरे ऽथ कृष्णस्य कर्णदुर्यॊधनाव उभौ एकासने महात्मानौ निषीदतुर अमर्षणौ 49 गान्धारराजः शकुनिर गान्धारैर अभिरक्षितः निषसादासने राजा सह पुत्रॊ विशां पते 50 विदुरॊ मणिपीठे तु शुक्लस्पर्ध्याजिनॊत्तरे संस्पृशन्न आसनं शौरेर महामतिर उपाविशत 51 चिरस्य दृष्ट्वा दाशार्हं राजानः सर्वपार्थिवाः अमृतस्येव नातृप्यन परेक्षमाणा जनार्दनम 52 अतसी पुष्पसंकाशः पीतवासा जनार्दनः वयभ्राजत सभामध्ये हेम्नीवॊपहितॊ मणिः 53 ततस तूष्णीं सर्वम आसीद गॊविन्द गतमानसम न तत्र कश चित किं चिद धि वयाजहार पुमान कव चित |
1
[v] tathā kathayator eva tayor buddhimatos tadā śivā nakṣatrasaṃpannā sā vyatīyāya śarvarī 2 dharmārthakāmayuktāś ca vicitrārthapadākṣarāḥ śṛṇvato vividhā vāco vidurasya mahātmanaḥ 3 kathābhir anurūpābhiḥ kṛṣṇasyāmita tejasaḥ akāmasyeva kṛṣṇasya sā vyatīyāya śarvarī 4 tatas tu svarasaṃpannā bahavaḥ sūtamāgadhāḥ śaṅkhadundubhinirghoṣaiḥ keśavaṃ pratyabodhayan 5 tata utthāya dāśārha ṛṣabhaḥ sarvasātvatām sarvam āvaśyakaṃ cakre prātaḥ kāryaṃ janārdanaḥ 6 kṛtoda kāryajapyaḥ sa hutāgniḥ samalaṃkṛtaḥ tata ādityam udyantam upātiṣṭhata mādhavaḥ 7 atha duryodhanaḥ kṛṣṇaṃ śakuniś cāpi saubalaḥ saṃdhyāṃ tiṣṭhantam abhyetya dāśārham aparājitam 8 ācakṣetāṃ tu kṛṣṇasya dhṛtarāṣṭraṃ sabhā gatam kurūṃś ca bhīṣma pramukhān rājñaḥ sarvāṃś ca pārthivān 9 tvām arthayante govinda divi śakram ivāmarāḥ tāv abhyanandad govindaḥ sāmnā paramavalgunā 10 tato vimala āditye brāhmaṇebhyo janārdanaḥ dadau hiraṇyaṃ vāsāṃsi gāś cāśvāṃś ca paraṃtapaḥ 11 visṛṣṭavantaṃ ratnāni dāśārham aparājitam tiṣṭhantam upasaṃgamya vavande sārathis tadā 12 tam upasthitam ājñāya rathaṃ divyaṃ mahāmanāḥ mahābhraghananirghoṣaṃ sarvaratnavibhūṣitam 13 agniṃ pradakṣiṇaṃ kṛtvā brāhmaṇāṃś ca janārdanaḥ kaustubhaṃ maṇim āmucya śriyā paramayā jvalan 14 kurubhiḥ saṃvṛtaḥ kṛṣṇo vṛṣṇibhiś cābhirakṣitaḥ ātiṣṭhata rathaṃ śauriḥ sarvayādavanandanaḥ 15 anvāruroha dāśārhaṃ viduraḥ sarvadharmavit sarvaprāṇabhṛtāṃ śreṣṭhaṃ sarvadharmabhṛtāṃ varam 16 tato duryodhanaḥ kṛṣṇaṃ śakuniś cāpi saubalaḥ dvitīyena rathenainam anvayātāṃ paraṃtapam 17 sātyakiḥ kṛtavarmā ca vṛṣṇīnāṃ ca mahārathāḥ pṛṣṭhato 'nuyayuḥ kṛṣṇaṃ rathair aśvair gajair api 18 teṣāṃ hemapariṣkārā yuktāḥ paramavājibhiḥ gacchatāṃ ghoṣiṇaś citrāś cāru babhrājire rathāḥ 19 saṃmṛṣṭasaṃsikta rajaḥ pratipede mahāpatham rājarṣicaritaṃ kāle kṛṣṇo dhīmāñ śriyā jvalan 20 tataḥ prayāte dāśārhe prāvādyantaika puṣkarāḥ śaṅkhāś ca dadhmire tatra vādyāny anyāni yāni ca 21 pravīrāḥ sarvalokasya yuvānaḥ siṃhavikramāḥ parivārya rathaṃ śaurer agacchanta paraṃtapāḥ 22 tato 'nye bahusāhasrā vicitrādbhuta vāsasaḥ asi prāsāyudha dharāḥ kṛṣṇasyāsan puraḥsarāḥ 23 gajāḥ paraḥśatās tatra varāś cāśvāḥ sahasraśaḥ prayāntam anvayur vīraṃ dāśārham aparājitam 24 puraṃ kurūṇāṃ saṃvṛttaṃ draṣṭukāmaṃ janārdanam savṛddhabālaṃ sastrīkaṃ rathyā gatam ariṃdamam 25 vedikāpāśritābhiś ca samākrāntāny anekaśaḥ pracalantīva bhāreṇa yoṣidbhir bhavanāny uta 26 saṃpūjyamānaḥ kurubhiḥ saṃśṛṇvan vividhāḥ kathāḥ yathārhaṃ pratisatkurvan prekṣamāṇaḥ śanair yayau 27 tataḥ sabhāṃ samāsādya keśavasyānuyāyinaḥ saśaṅkhair veṇunirghoṣair diśaḥ sarvā vyanādayan 28 tataḥ sā samitiḥ sarvā rājñām amitatejasām saṃprākampata harṣeṇa kṛṣṇāgamana kāṅkṣayā 29 tato 'bhyāśagate kṛṣṇe samahṛṣyan narādhipāḥ śrutvā taṃ rathanirghoṣaṃ paryajñya ninadopamam 30 āsādya tu sabhā dvāram ṛṣabhaḥ sarvasātvatām avatīrya rathāc chauriḥ kailāsaśikharopamāt 31 nagameghapratīkāśāṃ jvalantīm iva tejasā mahendra sadana prakhyāṃ praviveśa sabhāṃ tataḥ 32 pāṇau gṛhītvā viduraṃ sātyakiṃ ca mahāyaśāḥ jyotīṃṣy ādityavad rājan kurūn pracchādayañ śriyā 33 agrato vāsudevasya karṇaduryodhanāv ubhau vṛṣṇayaḥ kṛtavarmā ca āsan kṛṣṇasya pṛṣṭhataḥ 34 dhṛtarāṣṭraṃ puraskṛtya bhīṣmadroṇādayas tataḥ āsanebhyo 'calan sarve pūjayanto janārdanam 35 abhyāgacchati dāśārhe prajñā cakṣur mahāmanāḥ sahaiva bhīṣmadroṇābhyām udatiṣṭhan mahāyaśāḥ 36 uttiṣṭhati mahārāje dhṛtarāṣṭre janeśvare tāni rājasahasrāṇi samuttasthuḥ samantataḥ 37 āsanaṃ sarvatobhadraṃ jāmbūnadapariṣkṛtam kṛṣṇārthe kalpitaṃ tatra dhṛtarāṣṭrasya śāsanāt 38 smayamānas tu rājānaṃ bhīṣmadroṇau ca mādhavaḥ abhyabhāṣata dharmātmā rājñaś cānyān yathā vayaḥ 39 tatra keśavam ānarcuḥ samyag abhyāgataṃ sabhām rājānaḥ pārthivāḥ sarve kuravaś ca janārdanam 40 tatra tiṣṭhan sa dāśārho rājamadhye paraṃtapaḥ apaśyad antarikṣasthān ṛṣīn parapuraṃjayaḥ 41 tatas tān abhisaṃprekṣya nāradapramukhān ṛṣīn abhyabhāṣata dāśārho bhīṣmaṃ śāṃtanavaṃ śanaiḥ 42 pārthivīṃ samitiṃ draṣṭum ṛṣayo 'bhyāgatā nṛpa nimantryatām āsanaiś ca satkāreṇa ca bhūyasā 43 naiteṣv anupaviṣṭeṣu śakyaṃ kena cid āsitum pūjā prayujyatām āśu munīnāṃ bhāvitātmanām 44 ṛṣīñ śāṃtanavo dṛṣṭvā sabhā dvāram upasthitān tvaramāṇas tato bhṛtyān āsanānīty acodayat 45 āsanāny atha mṛṣṭāni mahānti vipulāni ca maṇikāñcanacitrāṇi samājahrus tatas tataḥ 46 teṣu tatropaviṣṭeṣu gṛhītārdheṣu bhārata niṣasādāsane kṛṣṇo rājānaś ca yathāsanam 47 duḥśāsanaḥ sātyakaye dadāv āsanam uttamam viviṃśatir dadau pīṭhaṃ kāñcanaṃ kṛtavarmaṇe 48 avidūre 'tha kṛṣṇasya karṇaduryodhanāv ubhau ekāsane mahātmānau niṣīdatur amarṣaṇau 49 gāndhārarājaḥ śakunir gāndhārair abhirakṣitaḥ niṣasādāsane rājā saha putro viśāṃ pate 50 viduro maṇipīṭhe tu śuklaspardhyājinottare saṃspṛśann āsanaṃ śaurer mahāmatir upāviśat 51 cirasya dṛṣṭvā dāśārhaṃ rājānaḥ sarvapārthivāḥ amṛtasyeva nātṛpyan prekṣamāṇā janārdanam 52 atasī puṣpasaṃkāśaḥ pītavāsā janārdanaḥ vyabhrājata sabhāmadhye hemnīvopahito maṇiḥ 53 tatas tūṣṇīṃ sarvam āsīd govinda gatamānasam na tatra kaś cit kiṃ cid dhi vyājahāra pumān kva cit |
The Mahabharata in Sanskrit
Book 5
Chapter 93
|
1
[व] तेष्व आसीनेषु सर्वेषु तूष्णींभूतेषु राजसु वाक्यम अभ्याददे कृष्णः सुदंष्ट्रॊ दुन्दुभिस्वनः 2 जीमूत इव धर्मान्ते सर्वां संश्रावयन सभाम धृतराष्ट्रम अभिप्रेक्ष्य समभाषत माधवः 3 कुरूणां पाण्डवानां च शमः सयाद इति भारत अप्रयत्नेन वीराणाम एतद यतितुम आगतः 4 राजन नान्यत परवक्तव्यं तव निःश्रेयसं वचः विदितं हय एव ते सर्वं वेदितव्यम अरिंदम 5 इदम अद्य कुलं शरेष्ठं सर्वराजसु पार्थिव शरुतवृत्तॊपसंपन्नं सर्वैः समुदितं गुणैः 6 कृपानुकम्पा कारुण्यम आनृशंस्यं च भारत तथार्जवं कषमा सत्यं कुरुष्व एतद विशिष्यते 7 तस्मिन्न एवंविधे राजन कुले महति तिष्ठति तवन्निमित्तं विशेषेण नेह युक्तम असांप्रतम 8 तवं हि वारयिता शरेष्ठः कुरूणां कुरुसत्तम मिथ्या परचरतां तात बाह्येष्व आभ्यन्तरेषु च 9 ते पुत्रास तव कौरव्य दुर्यॊधन पुरॊगमाः धर्मार्थौ पृष्ठतः कृत्वा परचरन्ति नृशंसवत 10 अशिष्टा गतमर्यादा लॊभेन हृतचेतसः सवेषु बन्धुषु मुख्येषु तद वेत्थ भरतर्षभ 11 सेयम आपन महाघॊरा कुरुष्व एव समुत्थिता उपेक्ष्यमाणा कौरव्य पृथिवीं घातयिष्यति 12 शक्या चेयं शमयितुं तवं चेद इच्छसि भारत न दुष्करॊ हय अत्र शमॊ मतॊ मे भरतर्षभ 13 तवय्य अधीनः शमॊ राजन मयि चैव विशां पते पुत्रान सथापय कौरव्य सथापयिष्याम्य अहं परान 14 आज्ञा तव हि राजेन्द्र कार्या पुत्रैः सहान्वयैः हितं बलवद अप्य एषां तिष्ठतां तव शासने 15 तव चैव हितं राजन पाण्डवानाम अथॊ हितम शमे परयतमानस्य मम शासनकाङ्क्षिणाम 16 सवयं निष्कलम आलक्ष्य संविधत्स्व विशां पते सह भूतास तु भरतास तवैव सयुर जनेश्वर 17 धर्मार्थयॊर तिष्ठ राजन पाण्डवैर अभिरक्षितः न हि शक्यास तथा भूता यत्नाद अपि नराधिप 18 न हि तवां पाण्डवैर जेतुं रक्ष्यमाणं महात्मभिः इन्द्रॊ ऽपि देवैः सहितः परसहेत कुतॊ नृपाः 19 यत्र भीष्मश च दरॊणश च कृपः कर्णॊ विविंशतिः अश्वत्थामा विकर्णश च सॊमदत्तॊ ऽथ बाह्लिकः 20 सैन्धवश च कलिङ्गश च काम्बॊजश च सुदक्षिणः युधिष्ठिरॊ भीमसेनः सव्यसाची यमौ तथा 21 सात्यकिश च महातेजा युयुत्सुश च महारथ कॊ नु तान विपरीतात्मा युध्येत भरतर्षभ 22 लॊकस्येश्वरतां भूयः शत्रुभिश चाप्रधृष्यताम पराप्स्यसि तवम अमित्रघ्न सहितः कुरुपाण्डवैः 23 तस्य ते पृथिवीपालास तवत्समाः पृथिवीपते शरेयांसश चैव राजानः संधास्यन्ते परंतप 24 स तवं पुत्रैश च पौत्रैश च भरातृभिः पितृभिस तथा सुहृद्भिः सर्वतॊ गुप्तः सुखं शक्ष्यसि जीवितुम 25 एतान एव पुरॊधाय सत्कृत्य च यथा पुरा अखिलां भिक्ष्यसे सर्वां पृथिवीं पृथिवीपते 26 एतैर हि सहितः सर्वैः पाण्डवैः सवैश च भारत अन्यान विजेष्यसे शत्रून एष सवार्थस तवाखिलः 27 तैर एवॊपार्जितां भूमिं भॊक्ष्यसे च परंतप यदि संपत्स्यसे पुत्रैः सहामात्यैर नराधिप 28 संयुगे वै महाराज दृश्यते सुमहान कषयः कषये चॊभयतॊ राजन कं धर्मम अनुपश्यसि 29 पाण्डवैर निहतैः संख्ये पुत्रैर वापि महाबलैः यद विन्देथाः सुखं राजंस तद बरूहि भरतर्षभ 30 शूराश च हि कृतास्त्राश च सर्वे युद्धाभिकाङ्क्षिणः पाण्डवास तावकाश चैव तान रक्ष महतॊ भयात 31 न पश्येम कुरून सर्वान पाण्डवांश चैव संयुगे कषीणान उभयतः शूरान रथेभ्यॊ रथिभिर हतान 32 समवेताः पृथिव्यां हि राजानॊ राजसत्तम अमर्षवशम आपन्ना नाशयेयुर इमाः परजाः 33 तराहि राजन्न इमं लॊकं न नश्येयुर इमाः परजाः तवयि परकृतिम आपन्ने शेषं सयात कुरुनन्दन 34 शुक्ला वदान्या हरीमन्त आर्याः पुण्याभिजातयः अन्यॊन्यसचिवा राजंस तान पाहि महतॊ भयात 35 शिवेनेमे भूमिपालाः समागम्य परस्परम सह भुक्त्वा च पीत्वा च परतियान्तु यथा गृहम 36 सुवाससः सरग्विणश च सत्कृत्य भरतर्षभ अमर्षांश च निराकृत्य वैराणि च परंतप 37 हार्दं यत पाण्डवेष्व आसीत पराप्ते ऽसमिन्न आयुषः कषये तद एव ते भवत्य अद्य शश्वच च भरतर्षभ 38 बाला विहीनाः पित्रा ते तवयैव परिवर्धिताः तान पालय यथान्यायं पुत्रांश च भरतर्षभ 39 भवतैव हि रक्ष्यास ते वयसनेषु विशेषतः मा ते धर्मस तथैवार्थॊ नश्येत भरतर्षभ 40 आहुस तवां पाण्डवा राजन्न अभिवाद्य परसाद्य च भवतः शासनाद दुःखम अनुभूतं सहानुगैः 41 दवादशेमानि वर्षाणि वने निर्व्युषितानि नः तरयॊदशं तथाज्ञातैः सजने परिवत्सरम 42 सथाता नः समये तस्मिन पितेति कृतनिश्चयाः नाहास्म समयं तात तच च नॊ बराह्मणा विदुः 43 तस्मिन नः समये तिष्ठ सथितानां भरतर्षभ नित्यं संक्लेशिता राजन सवराज्यांशं लभेमहि 44 तवं धर्मम अर्थं युञ्जानः सम्यङ नस तरातुम अर्हसि गुरुत्वं भवति परेक्ष्य बहून कलेशांस तितिक्ष्महे 45 स भवान मातृपितृवद अस्मासु परतिपद्यताम गुरॊर गरीयसी वृत्तिर या च शिष्यस्य भारत 46 पित्रा सथापयितव्या हि वयम उत्पथम आस्थिताः संस्थापय पथिष्व अस्मांस तिष्ठ राजन सववर्त्मनि 47 आहुश चेमां परिषदं पुत्रास ते भरतर्षभ धर्मज्ञेषु सभासत्सु नेह युक्तम असांप्रतम 48 यत्र धर्मॊ हय अधर्मेण सत्यं यत्रानृतेन च हन्यते परेक्षमाणानां हतास तत्र सभासदः 49 विद्धॊ धर्मॊ हय अधर्मेण सभां यत्र परपद्यते न चास्य शल्यं कृन्तन्ति विद्धास तत्र सभासदः धर्म एतान आरुजति यथा नद्य अनुकूलजान 50 ये धर्मम अनुपश्यन्तस तूष्णीं धयायन्त आसते ते सत्यम आहुर धर्मं च नयाय्यं च भरतर्षभ 51 शक्यं किम अन्यद वक्तुं ते दानाद अन्यज जनेश्वर बरुवन्तु वा महीपालाः सभायां ये समासते धर्मार्थौ संप्रधार्यैव यदि सत्यं बरवीम्य अहम 52 परमुञ्चेमान मृत्युपाशात कषत्रियान कषत्रियर्षभ परशाम्य भरतश्रेष्ठ मा मन्युवशम अन्वगाः 53 पित्र्यं तेभ्यः परदायांशं पाण्डवेभ्यॊ यथॊचितम ततः सपुत्रः सिद्धार्थॊ भुङ्क्ष्व भॊगान परंतप 54 अजातशत्रुं जानीषे सथितं धर्मे सतां सदा सपुत्रे तवयि वृत्तिं च वर्तते यां नराधिप 55 दाहितश च निरस्तश च तवाम एवॊपाश्रितः पुनः इन्द्रप्रस्थं तवयैवासौ सपुत्रेण विवासितः 56 स तत्र निवसन सर्वान वशम आनीय पार्थिवान तवन मुखान अकरॊद राजन न च तवाम अत्यवर्तत 57 तस्यैवं वर्तमानस्य सौबलेन जिहीर्षता राष्ट्राणि धनधान्यं च परयुक्तः परमॊपधिः 58 स ताम अवस्थां संप्राप्य कृष्णां परेक्ष्य सभा गताम कषत्रधर्माद अमेयात्मा नाकम्पत युधिष्ठिरः 59 अहं तु तव तेषां च शरेय इच्छामि भारत धर्माद अर्थात सुखाच चैव मा राजन नीनशः परजाः 60 अनर्थम अर्थं मन्वाना अर्थं वानर्थम आत्मनः लॊभे ऽतिप्रसृतान पुत्रान निगृह्णीष्व विशां पते 61 सथिताः शुश्रूषितुं पार्थाः सथिता यॊद्धुम अरिंदमाः यत ते पथ्यतमं राजंस तस्मिंस तिष्ठ परंतप 62 तद वाक्यं पार्थिवाः सर्वे हृदयैः समपूजयन न तत्र कश चिद वक्तुं हि वाचं पराकामद अग्रतः |
1
[v] teṣv āsīneṣu sarveṣu tūṣṇīṃbhūteṣu rājasu vākyam abhyādade kṛṣṇaḥ sudaṃṣṭro dundubhisvanaḥ 2 jīmūta iva dharmānte sarvāṃ saṃśrāvayan sabhām dhṛtarāṣṭram abhiprekṣya samabhāṣata mādhavaḥ 3 kurūṇāṃ pāṇḍavānāṃ ca śamaḥ syād iti bhārata aprayatnena vīrāṇām etad yatitum āgataḥ 4 rājan nānyat pravaktavyaṃ tava niḥśreyasaṃ vacaḥ viditaṃ hy eva te sarvaṃ veditavyam ariṃdama 5 idam adya kulaṃ śreṣṭhaṃ sarvarājasu pārthiva śrutavṛttopasaṃpannaṃ sarvaiḥ samuditaṃ guṇaiḥ 6 kṛpānukampā kāruṇyam ānṛśaṃsyaṃ ca bhārata tathārjavaṃ kṣamā satyaṃ kuruṣv etad viśiṣyate 7 tasminn evaṃvidhe rājan kule mahati tiṣṭhati tvannimittaṃ viśeṣeṇa neha yuktam asāṃpratam 8 tvaṃ hi vārayitā śreṣṭhaḥ kurūṇāṃ kurusattama mithyā pracaratāṃ tāta bāhyeṣv ābhyantareṣu ca 9 te putrās tava kauravya duryodhana purogamāḥ dharmārthau pṛṣṭhataḥ kṛtvā pracaranti nṛśaṃsavat 10 aśiṣṭā gatamaryādā lobhena hṛtacetasaḥ sveṣu bandhuṣu mukhyeṣu tad vettha bharatarṣabha 11 seyam āpan mahāghorā kuruṣv eva samutthitā upekṣyamāṇā kauravya pṛthivīṃ ghātayiṣyati 12 śakyā ceyaṃ śamayituṃ tvaṃ ced icchasi bhārata na duṣkaro hy atra śamo mato me bharatarṣabha 13 tvayy adhīnaḥ śamo rājan mayi caiva viśāṃ pate putrān sthāpaya kauravya sthāpayiṣyāmy ahaṃ parān 14 ājñā tava hi rājendra kāryā putraiḥ sahānvayaiḥ hitaṃ balavad apy eṣāṃ tiṣṭhatāṃ tava śāsane 15 tava caiva hitaṃ rājan pāṇḍavānām atho hitam śame prayatamānasya mama śāsanakāṅkṣiṇām 16 svayaṃ niṣkalam ālakṣya saṃvidhatsva viśāṃ pate saha bhūtās tu bharatās tavaiva syur janeśvara 17 dharmārthayor tiṣṭha rājan pāṇḍavair abhirakṣitaḥ na hi śakyās tathā bhūtā yatnād api narādhipa 18 na hi tvāṃ pāṇḍavair jetuṃ rakṣyamāṇaṃ mahātmabhiḥ indro 'pi devaiḥ sahitaḥ prasaheta kuto nṛpāḥ 19 yatra bhīṣmaś ca droṇaś ca kṛpaḥ karṇo viviṃśatiḥ aśvatthāmā vikarṇaś ca somadatto 'tha bāhlikaḥ 20 saindhavaś ca kaliṅgaś ca kāmbojaś ca sudakṣiṇaḥ yudhiṣṭhiro bhīmasenaḥ savyasācī yamau tathā 21 sātyakiś ca mahātejā yuyutsuś ca mahāratha ko nu tān viparītātmā yudhyeta bharatarṣabha 22 lokasyeśvaratāṃ bhūyaḥ śatrubhiś cāpradhṛṣyatām prāpsyasi tvam amitraghna sahitaḥ kurupāṇḍavaiḥ 23 tasya te pṛthivīpālās tvatsamāḥ pṛthivīpate śreyāṃsaś caiva rājānaḥ saṃdhāsyante paraṃtapa 24 sa tvaṃ putraiś ca pautraiś ca bhrātṛbhiḥ pitṛbhis tathā suhṛdbhiḥ sarvato guptaḥ sukhaṃ śakṣyasi jīvitum 25 etān eva purodhāya satkṛtya ca yathā purā akhilāṃ bhikṣyase sarvāṃ pṛthivīṃ pṛthivīpate 26 etair hi sahitaḥ sarvaiḥ pāṇḍavaiḥ svaiś ca bhārata anyān vijeṣyase śatrūn eṣa svārthas tavākhilaḥ 27 tair evopārjitāṃ bhūmiṃ bhokṣyase ca paraṃtapa yadi saṃpatsyase putraiḥ sahāmātyair narādhipa 28 saṃyuge vai mahārāja dṛśyate sumahān kṣayaḥ kṣaye cobhayato rājan kaṃ dharmam anupaśyasi 29 pāṇḍavair nihataiḥ saṃkhye putrair vāpi mahābalaiḥ yad vindethāḥ sukhaṃ rājaṃs tad brūhi bharatarṣabha 30 śūrāś ca hi kṛtāstrāś ca sarve yuddhābhikāṅkṣiṇaḥ pāṇḍavās tāvakāś caiva tān rakṣa mahato bhayāt 31 na paśyema kurūn sarvān pāṇḍavāṃś caiva saṃyuge kṣīṇān ubhayataḥ śūrān rathebhyo rathibhir hatān 32 samavetāḥ pṛthivyāṃ hi rājāno rājasattama amarṣavaśam āpannā nāśayeyur imāḥ prajāḥ 33 trāhi rājann imaṃ lokaṃ na naśyeyur imāḥ prajāḥ tvayi prakṛtim āpanne śeṣaṃ syāt kurunandana 34 śuklā vadānyā hrīmanta āryāḥ puṇyābhijātayaḥ anyonyasacivā rājaṃs tān pāhi mahato bhayāt 35 śiveneme bhūmipālāḥ samāgamya parasparam saha bhuktvā ca pītvā ca pratiyāntu yathā gṛham 36 suvāsasaḥ sragviṇaś ca satkṛtya bharatarṣabha amarṣāṃś ca nirākṛtya vairāṇi ca paraṃtapa 37 hārdaṃ yat pāṇḍaveṣv āsīt prāpte 'sminn āyuṣaḥ kṣaye tad eva te bhavaty adya śaśvac ca bharatarṣabha 38 bālā vihīnāḥ pitrā te tvayaiva parivardhitāḥ tān pālaya yathānyāyaṃ putrāṃś ca bharatarṣabha 39 bhavataiva hi rakṣyās te vyasaneṣu viśeṣataḥ mā te dharmas tathaivārtho naśyeta bharatarṣabha 40 āhus tvāṃ pāṇḍavā rājann abhivādya prasādya ca bhavataḥ śāsanād duḥkham anubhūtaṃ sahānugaiḥ 41 dvādaśemāni varṣāṇi vane nirvyuṣitāni naḥ trayodaśaṃ tathājñātaiḥ sajane parivatsaram 42 sthātā naḥ samaye tasmin piteti kṛtaniścayāḥ nāhāsma samayaṃ tāta tac ca no brāhmaṇā viduḥ 43 tasmin naḥ samaye tiṣṭha sthitānāṃ bharatarṣabha nityaṃ saṃkleśitā rājan svarājyāṃśaṃ labhemahi 44 tvaṃ dharmam arthaṃ yuñjānaḥ samyaṅ nas trātum arhasi gurutvaṃ bhavati prekṣya bahūn kleśāṃs titikṣmahe 45 sa bhavān mātṛpitṛvad asmāsu pratipadyatām guror garīyasī vṛttir yā ca śiṣyasya bhārata 46 pitrā sthāpayitavyā hi vayam utpatham āsthitāḥ saṃsthāpaya pathiṣv asmāṃs tiṣṭha rājan svavartmani 47 āhuś cemāṃ pariṣadaṃ putrās te bharatarṣabha dharmajñeṣu sabhāsatsu neha yuktam asāṃpratam 48 yatra dharmo hy adharmeṇa satyaṃ yatrānṛtena ca hanyate prekṣamāṇānāṃ hatās tatra sabhāsadaḥ 49 viddho dharmo hy adharmeṇa sabhāṃ yatra prapadyate na cāsya śalyaṃ kṛntanti viddhās tatra sabhāsadaḥ dharma etān ārujati yathā nady anukūlajān 50 ye dharmam anupaśyantas tūṣṇīṃ dhyāyanta āsate te satyam āhur dharmaṃ ca nyāyyaṃ ca bharatarṣabha 51 śakyaṃ kim anyad vaktuṃ te dānād anyaj janeśvara bruvantu vā mahīpālāḥ sabhāyāṃ ye samāsate dharmārthau saṃpradhāryaiva yadi satyaṃ bravīmy aham 52 pramuñcemān mṛtyupāśāt kṣatriyān kṣatriyarṣabha praśāmya bharataśreṣṭha mā manyuvaśam anvagāḥ 53 pitryaṃ tebhyaḥ pradāyāṃśaṃ pāṇḍavebhyo yathocitam tataḥ saputraḥ siddhārtho bhuṅkṣva bhogān paraṃtapa 54 ajātaśatruṃ jānīṣe sthitaṃ dharme satāṃ sadā saputre tvayi vṛttiṃ ca vartate yāṃ narādhipa 55 dāhitaś ca nirastaś ca tvām evopāśritaḥ punaḥ indraprasthaṃ tvayaivāsau saputreṇa vivāsitaḥ 56 sa tatra nivasan sarvān vaśam ānīya pārthivān tvan mukhān akarod rājan na ca tvām atyavartata 57 tasyaivaṃ vartamānasya saubalena jihīrṣatā rāṣṭrāṇi dhanadhānyaṃ ca prayuktaḥ paramopadhiḥ 58 sa tām avasthāṃ saṃprāpya kṛṣṇāṃ prekṣya sabhā gatām kṣatradharmād ameyātmā nākampata yudhiṣṭhiraḥ 59 ahaṃ tu tava teṣāṃ ca śreya icchāmi bhārata dharmād arthāt sukhāc caiva mā rājan nīnaśaḥ prajāḥ 60 anartham arthaṃ manvānā arthaṃ vānartham ātmanaḥ lobhe 'tiprasṛtān putrān nigṛhṇīṣva viśāṃ pate 61 sthitāḥ śuśrūṣituṃ pārthāḥ sthitā yoddhum ariṃdamāḥ yat te pathyatamaṃ rājaṃs tasmiṃs tiṣṭha paraṃtapa 62 tad vākyaṃ pārthivāḥ sarve hṛdayaiḥ samapūjayan na tatra kaś cid vaktuṃ hi vācaṃ prākāmad agrataḥ |
The Mahabharata in Sanskrit
Book 5
Chapter 94
|
1
[व] तस्मिन्न अभिहिते वाक्ये केशवेन महात्मना सतिमिता हृष्टरॊमाण आसन सर्वे सभासदः 2 कः सविद उत्तरम एतस्माद वक्तुम उत्सहते पुमान इति सर्वे मनॊभिस ते चिन्तयन्ति सम पार्थिवाः 3 तथा तेषु च सर्वेषु तूष्णींभूतेषु राजसु जामदग्न्य इदं वाक्यम अब्रवीत कुरुसंसदि 4 इमाम एकॊपमां राजञ शृणु सत्याम अशङ्कितः तां शरुत्वा शरेय आदत्स्व यदि साध्व इति मन्यसे 5 राजा दम्भॊद्भवॊ नाम सार्वभौमः पुराभवत अखिलां बुभुजे सर्वां पृथिवीम इति नः शरुतम 6 स सम नित्यं निशापाये परातर उत्थाय वीर्यवान बराह्मणान कषत्रियांश चैव पृच्छन्न आस्ते महारथः 7 अस्ति कश चिद विशिष्टॊ वा मद्विधॊ वा भवेद युधि शुद्रॊ वैश्यः कषत्रियॊ वा बराह्मणॊ वापि शस्त्रभृत 8 इति बरुवन्न अन्वचरत स राजा पृथिवीम इमाम दर्पेण महता मत्तः कं चिद अन्यम अचिन्तयन 9 तं सम वैद्या अकृपणा बराह्मणाः सर्वतॊ ऽभयाः परत्यषेधन्त राजानं शलाघमानं पुनः पुनः 10 परतिषिध्यमानॊ ऽपय असकृत पृच्छत्य एव स वै दविजान अभिमानी शरिया मत्तस तम ऊचुर बराह्मणास तदा 11 तपस्विनॊ महात्मानॊ वेद वरतसमन्विताः उदीर्यमाणं राजानं करॊधदीप्ता दविजातयः 12 अनेकजननं सख्यं ययॊः पुरुषसिंहयॊः तयॊस तवं न समॊ राजन भवितासि कदा चन 13 एवम उक्तः स राजा तु पुनः पप्रच्छ तान दविजान कव तौ वीरौ कव जन्मानौ किं कर्माणौ च कौ च तौ 14 [बराह्मणाह] नरॊ नारायणश चैव तापसाव इति नः शरुतम आयातौ मानुषे लॊके ताभ्यां युध्यस्व पार्थिव 15 शरूयते तौ महात्मानौ नरनारायणाव उभौ तपॊ घॊरम अनिर्देश्यं तप्येते गन्धमादने 16 [राम] स राजा महतीं सेनां यॊजयित्वा षडङ्गिनीम अमृष्यमाणः संप्रायाद यत्र ताव अपराजितौ 17 स गत्वा विषमं घॊरं पर्वतं गन्धमादनम मृगयाणॊ ऽनवगच्छत तौ तापसाव अपराजितौ 18 तौ दृष्ट्वा कषुत्पिपासाभ्यां कृशौ धमनि संततौ शीतवातातपैश चैव कर्शितौ पुरुषॊत्तमौ अभिगम्यॊपसंगृह्य पर्यपृच्छद अनामयम 19 तम अर्चित्वा मूलफलैर आसनेनॊदकेन च नयमन्त्रयेतां राजानं किं कार्यं करियताम इति 20 [दम्भौद्भव] बाहुभ्यां मे जिता भूमिर निहताः सर्वशत्रवः भवद्भ्यां युद्धम आकाङ्क्षन्न उपयातॊ ऽसमि पर्वतम आतिथ्यं दीयताम एतत काङ्क्षितं मे चिरं परति 21 [नरनारायणौ] अपेतक्रॊधलॊभॊ ऽयम आश्रमॊ राजसत्तम न हय अस्मिन्न आश्रमे युद्धं कुतः शस्त्रं कुतॊ ऽनृजुः अन्यत्र युद्धम आकाङ्क्ष्व बहवः कषत्रिया कषितौ 22 [र] उच्यमानस तथापि सम भूय एवाभ्यभाषत पुनः पुनः कषम्यमाणः सान्त्व्यमानश च भारत दम्भॊद्भवॊ युद्धम इच्छन्न आह्वयत्य एव तापसौ 23 ततॊ नरस तव इषीकाणां मुष्टिम आदाय कौरव अब्रवीद एहि युध्यस्व युद्धकामुक कषत्रिय 24 सर्वशस्त्राणि चादत्स्व यॊजयस्व च वाहिनीम अहं हि ते विनेष्यामि युद्धश्रद्धाम इतः परम 25 [द] यद्य एतद अस्त्रम अस्मासु युक्तं तापस मन्यसे एतेनापि तवया यॊत्स्ये युद्धार्थी हय अहम आगतः 26 [र] इत्य उक्त्वा शरवर्षेण सर्वतः समवाकिरत दम्भॊद्भवस तापसं तं जिघांसुः सह सैनिकः 27 तस्य तान अस्यतॊ घॊरान इषून परतनुच छिदः कदर्थी कृत्यस मुनिर इषीकाभिर अपानुदत 28 ततॊ ऽसमै परासृजद घॊरम ऐषीकम अपराजितः अस्त्रम अप्रतिसंधेयं तद अद्भुतम इवाभवत 29 तेषाम अक्षीणि कर्णांश च नस्तकांश चैव मायया निमित्तवेधी स मुनिर इषीकाभिः समर्पयत 30 स दृष्ट्वा शवेतम आकाशम इषीकाभिः समाचितम पादयॊर नयपतद राजा सवस्ति मे ऽसत्व इति चाब्रवीत 31 तम अब्रवीन नरॊ राजञ शरण्यः शरणैषिणाम बरह्मण्यॊ भव धर्मात्मा मा च समैवं पुनः कृथाः 32 मा च दर्पसमाविष्टः कषेप्सीः कांश चित कदा चन अल्पीयांसं विशिष्टं वा तत ते राजन परं हितम 33 कृतप्रज्ञॊ वीतलॊभॊ निरहंकार आत्मवान दान्तः कषान्तॊ मृदुः कषेमः परजाः पालय पार्थिव 34 अनुज्ञातः सवस्ति गच्छ मैवं भूयः समाचरेः कुशलं बराह्मणान पृच्छेर आवयॊर वचनाद भृशम 35 ततॊ राजा तयॊः पादाव अभिवाद्य महात्मनॊः परत्याजगाम सवपुरं धर्मं चैवाचिनॊद भृशम 36 सुमहच चापि तत कर्म यन नरेण कृतं पुरा ततॊ गुणैः सुबहुभिः शरेष्ठॊ नारायणॊ ऽभवत 37 तस्माद यावद धनुःश्रेष्ठे गाण्डीवे ऽसव्रं न युज्यते तावत तवं मानम उत्सृज्य गच्छ राजन धनंजयम 38 काकुदीकं शुकं नाकम अक्षिसंतर्जनं तथा संतानं नर्तनं घॊरम आस्यम ओदकम अष्टमम 39 एतैर विद्धाः सर्व एव मरणं यान्ति मानवाः उन्मत्ताश च विचेष्टन्ते नष्टसंज्ञा विचेतसः 40 सवपन्ते च पलवन्ते च छर्दयन्ति च मानवाः मूत्रयन्ते च सततं रुदन्ति च हसन्ति च 41 असंख्येया गुणाः पार्थे तद विशिष्टॊ जनार्दनः तवम एव भूयॊ जानासि कुन्तीपुत्रं धनंजयम 42 नरनारायणौ यौ तौ ताव एवार्जुन केशवौ विनाजीहि महाराज परवीरौ पुरुषर्षभौ 43 यद्य एतद एवं जानासि न च माम अतिशङ्कसे आर्यां मतिं समास्थाय शाम्य भारत पाण्डवैः 44 अथ चेन मन्यसे शरेयॊ न मे भेदॊ भवेद इति परशाम्य भरत शरेष्ठॊ मा च युद्धे मनः कृथाः 45 भवतां च कुरुश्रेष्ठ कुलं बहुमतं भुवि तत तथैवास्तु भद्रं ते सवार्थम एवानुचिन्तय |
1
[v] tasminn abhihite vākye keśavena mahātmanā stimitā hṛṣṭaromāṇa āsan sarve sabhāsadaḥ 2 kaḥ svid uttaram etasmād vaktum utsahate pumān iti sarve manobhis te cintayanti sma pārthivāḥ 3 tathā teṣu ca sarveṣu tūṣṇīṃbhūteṣu rājasu jāmadagnya idaṃ vākyam abravīt kurusaṃsadi 4 imām ekopamāṃ rājañ śṛṇu satyām aśaṅkitaḥ tāṃ śrutvā śreya ādatsva yadi sādhv iti manyase 5 rājā dambhodbhavo nāma sārvabhaumaḥ purābhavat akhilāṃ bubhuje sarvāṃ pṛthivīm iti naḥ śrutam 6 sa sma nityaṃ niśāpāye prātar utthāya vīryavān brāhmaṇān kṣatriyāṃś caiva pṛcchann āste mahārathaḥ 7 asti kaś cid viśiṣṭo vā madvidho vā bhaved yudhi śudro vaiśyaḥ kṣatriyo vā brāhmaṇo vāpi śastrabhṛt 8 iti bruvann anvacarat sa rājā pṛthivīm imām darpeṇa mahatā mattaḥ kaṃ cid anyam acintayan 9 taṃ sma vaidyā akṛpaṇā brāhmaṇāḥ sarvato 'bhayāḥ pratyaṣedhanta rājānaṃ ślāghamānaṃ punaḥ punaḥ 10 pratiṣidhyamāno 'py asakṛt pṛcchaty eva sa vai dvijān abhimānī śriyā mattas tam ūcur brāhmaṇās tadā 11 tapasvino mahātmāno veda vratasamanvitāḥ udīryamāṇaṃ rājānaṃ krodhadīptā dvijātayaḥ 12 anekajananaṃ sakhyaṃ yayoḥ puruṣasiṃhayoḥ tayos tvaṃ na samo rājan bhavitāsi kadā cana 13 evam uktaḥ sa rājā tu punaḥ papraccha tān dvijān kva tau vīrau kva janmānau kiṃ karmāṇau ca kau ca tau 14 [brāhmaṇāh] naro nārāyaṇaś caiva tāpasāv iti naḥ śrutam āyātau mānuṣe loke tābhyāṃ yudhyasva pārthiva 15 śrūyate tau mahātmānau naranārāyaṇāv ubhau tapo ghoram anirdeśyaṃ tapyete gandhamādane 16 [rāma] sa rājā mahatīṃ senāṃ yojayitvā ṣaḍaṅginīm amṛṣyamāṇaḥ saṃprāyād yatra tāv aparājitau 17 sa gatvā viṣamaṃ ghoraṃ parvataṃ gandhamādanam mṛgayāṇo 'nvagacchat tau tāpasāv aparājitau 18 tau dṛṣṭvā kṣutpipāsābhyāṃ kṛśau dhamani saṃtatau śītavātātapaiś caiva karśitau puruṣottamau abhigamyopasaṃgṛhya paryapṛcchad anāmayam 19 tam arcitvā mūlaphalair āsanenodakena ca nyamantrayetāṃ rājānaṃ kiṃ kāryaṃ kriyatām iti 20 [dambhaudbhava] bāhubhyāṃ me jitā bhūmir nihatāḥ sarvaśatravaḥ bhavadbhyāṃ yuddham ākāṅkṣann upayāto 'smi parvatam ātithyaṃ dīyatām etat kāṅkṣitaṃ me ciraṃ prati 21 [naranārāyaṇau] apetakrodhalobho 'yam āśramo rājasattama na hy asminn āśrame yuddhaṃ kutaḥ śastraṃ kuto 'nṛjuḥ anyatra yuddham ākāṅkṣva bahavaḥ kṣatriyā kṣitau 22 [r] ucyamānas tathāpi sma bhūya evābhyabhāṣata punaḥ punaḥ kṣamyamāṇaḥ sāntvyamānaś ca bhārata dambhodbhavo yuddham icchann āhvayaty eva tāpasau 23 tato naras tv iṣīkāṇāṃ muṣṭim ādāya kaurava abravīd ehi yudhyasva yuddhakāmuka kṣatriya 24 sarvaśastrāṇi cādatsva yojayasva ca vāhinīm ahaṃ hi te vineṣyāmi yuddhaśraddhām itaḥ param 25 [d] yady etad astram asmāsu yuktaṃ tāpasa manyase etenāpi tvayā yotsye yuddhārthī hy aham āgataḥ 26 [r] ity uktvā śaravarṣeṇa sarvataḥ samavākirat dambhodbhavas tāpasaṃ taṃ jighāṃsuḥ saha sainikaḥ 27 tasya tān asyato ghorān iṣūn paratanuc chidaḥ kadarthī kṛtyasa munir iṣīkābhir apānudat 28 tato 'smai prāsṛjad ghoram aiṣīkam aparājitaḥ astram apratisaṃdheyaṃ tad adbhutam ivābhavat 29 teṣām akṣīṇi karṇāṃś ca nastakāṃś caiva māyayā nimittavedhī sa munir iṣīkābhiḥ samarpayat 30 sa dṛṣṭvā śvetam ākāśam iṣīkābhiḥ samācitam pādayor nyapatad rājā svasti me 'stv iti cābravīt 31 tam abravīn naro rājañ śaraṇyaḥ śaraṇaiṣiṇām brahmaṇyo bhava dharmātmā mā ca smaivaṃ punaḥ kṛthāḥ 32 mā ca darpasamāviṣṭaḥ kṣepsīḥ kāṃś cit kadā cana alpīyāṃsaṃ viśiṣṭaṃ vā tat te rājan paraṃ hitam 33 kṛtaprajño vītalobho nirahaṃkāra ātmavān dāntaḥ kṣānto mṛduḥ kṣemaḥ prajāḥ pālaya pārthiva 34 anujñātaḥ svasti gaccha maivaṃ bhūyaḥ samācareḥ kuśalaṃ brāhmaṇān pṛccher āvayor vacanād bhṛśam 35 tato rājā tayoḥ pādāv abhivādya mahātmanoḥ pratyājagāma svapuraṃ dharmaṃ caivācinod bhṛśam 36 sumahac cāpi tat karma yan nareṇa kṛtaṃ purā tato guṇaiḥ subahubhiḥ śreṣṭho nārāyaṇo 'bhavat 37 tasmād yāvad dhanuḥśreṣṭhe gāṇḍīve 'svraṃ na yujyate tāvat tvaṃ mānam utsṛjya gaccha rājan dhanaṃjayam 38 kākudīkaṃ śukaṃ nākam akṣisaṃtarjanaṃ tathā saṃtānaṃ nartanaṃ ghoram āsyam odakam aṣṭamam 39 etair viddhāḥ sarva eva maraṇaṃ yānti mānavāḥ unmattāś ca viceṣṭante naṣṭasaṃjñā vicetasaḥ 40 svapante ca plavante ca chardayanti ca mānavāḥ mūtrayante ca satataṃ rudanti ca hasanti ca 41 asaṃkhyeyā guṇāḥ pārthe tad viśiṣṭo janārdanaḥ tvam eva bhūyo jānāsi kuntīputraṃ dhanaṃjayam 42 naranārāyaṇau yau tau tāv evārjuna keśavau vinājīhi mahārāja pravīrau puruṣarṣabhau 43 yady etad evaṃ jānāsi na ca mām atiśaṅkase āryāṃ matiṃ samāsthāya śāmya bhārata pāṇḍavaiḥ 44 atha cen manyase śreyo na me bhedo bhaved iti praśāmya bharata śreṣṭho mā ca yuddhe manaḥ kṛthāḥ 45 bhavatāṃ ca kuruśreṣṭha kulaṃ bahumataṃ bhuvi tat tathaivāstu bhadraṃ te svārtham evānucintaya |
The Mahabharata in Sanskrit
Book 5
Chapter 95
|
1
[व] जामदग्न्यवचः शरुत्वा कण्वॊ ऽपि भगवान ऋषिः दुर्यॊधनम इदं वाक्यम अब्रवीत कुरुसंसदि 2 अक्षयश चाव्ययश चैव बरह्मा लॊकपितामहः तथैव भगवन्तौ तौ नरनारायणाव ऋषी 3 आदित्यानां हि सर्वेषां विष्णुर एकः सनातनः अजय्यश चाव्ययश चैव शाश्वतः परभुर ईश्वरः 4 निमित्तमरणास तव अन्ये चन्द्रसूर्यौ मही जलम वायुर अग्निस तथाकाशं गरहास तारागणास तथा 5 ते च कषयान्ते जगतॊ हित्वा लॊकत्रयं सदा कषयं गच्छन्ति वै सर्वे सृज्यन्ते च पुनः पुनः 6 मुहूर्तमरणास तव अन्ये मानुषा मृगपक्षिणः तरियग यॊन्यश च ये चान्ये जीवलॊकचराः समृताः 7 भूयिष्ठेन तु राजानः शरियं भुक्त्वायुषः कषये मरणं परतिगच्छन्ति भॊक्तुं सुकृतदुष्कृतम 8 स भवान धर्मपुत्रेण शम कर्तुम इहार्हति पाण्डवाः कुरवश चैव पालयन्तु वसुंधराम 9 बलवान अहम इत्य एव न मन्तव्यं सुयॊधन बलवन्तॊ हि बलिभिर दृश्यन्ते पुरुषर्षभ 10 न बलं बलिनां मध्ये बलं भवति कौरव बलवन्तॊ हि ते सर्वे पाण्डवा देव विक्रमाः 11 अत्राप्य उदाहरन्तीमम इतिहासं पुरातनम मातलेर दातुकामस्य कन्यां मृगयतॊ वरम 12 मतस तरैलॊक्यराजस्य मातलिर नाम सारथिः तस्यैकैव कुले कन्या रूपतॊ लॊकविश्रुता 13 गुणकेशीति विख्याता नाम्ना सा देवरूपिणी शरिया च वपुषा चैव सत्रियॊ ऽनयाः सातिरिच्यते 14 तस्याः परदानसमयं मातलिः सह भार्यया जञात्वा विममृशे राजंस तत्परः परिचिन्तयन 15 धिक खल्व अलघु शीलानाम उच्छ्रितानां यशस्विनाम नराणाम ऋद्धसत्त्वानां कुले कन्या पररॊहणम 16 मातुः कुलं पितृकुलं यत्र चैव परदीयते कुलत्रयं संशयितं कुरुते कन्यका सताम 17 देव मानुषलॊकौ दवौ मानसेनैव चक्षुषा अवगाह्यैव विचितौ न च मे रॊचते वरः 18 न देवान नैव दितिजान न गन्धर्वान न मानुषान अरॊचयं वरकृते तथैव बहुलान ऋषीन 19 भार्यया तु स संमन्त्र्य सह रात्रौ सुधर्मया मातलिर नागलॊकाय चकार गमने मतिम 20 न मे देवमनुष्येषु गुणकेश्याः समॊ वरः रूपतॊ दृश्यते कश चिन नागेषु भविता धरुवम 21 इत्य आमन्त्र्य सुधर्मां स कृत्वा चाभिप्रदक्षिणम कन्यां शिरस्य उपाघ्राय परविवेश महीतलम |
1
[v] jāmadagnyavacaḥ śrutvā kaṇvo 'pi bhagavān ṛṣiḥ duryodhanam idaṃ vākyam abravīt kurusaṃsadi 2 akṣayaś cāvyayaś caiva brahmā lokapitāmahaḥ tathaiva bhagavantau tau naranārāyaṇāv ṛṣī 3 ādityānāṃ hi sarveṣāṃ viṣṇur ekaḥ sanātanaḥ ajayyaś cāvyayaś caiva śāśvataḥ prabhur īśvaraḥ 4 nimittamaraṇās tv anye candrasūryau mahī jalam vāyur agnis tathākāśaṃ grahās tārāgaṇās tathā 5 te ca kṣayānte jagato hitvā lokatrayaṃ sadā kṣayaṃ gacchanti vai sarve sṛjyante ca punaḥ punaḥ 6 muhūrtamaraṇās tv anye mānuṣā mṛgapakṣiṇaḥ triyag yonyaś ca ye cānye jīvalokacarāḥ smṛtāḥ 7 bhūyiṣṭhena tu rājānaḥ śriyaṃ bhuktvāyuṣaḥ kṣaye maraṇaṃ pratigacchanti bhoktuṃ sukṛtaduṣkṛtam 8 sa bhavān dharmaputreṇa śama kartum ihārhati pāṇḍavāḥ kuravaś caiva pālayantu vasuṃdharām 9 balavān aham ity eva na mantavyaṃ suyodhana balavanto hi balibhir dṛśyante puruṣarṣabha 10 na balaṃ balināṃ madhye balaṃ bhavati kaurava balavanto hi te sarve pāṇḍavā deva vikramāḥ 11 atrāpy udāharantīmam itihāsaṃ purātanam mātaler dātukāmasya kanyāṃ mṛgayato varam 12 matas trailokyarājasya mātalir nāma sārathiḥ tasyaikaiva kule kanyā rūpato lokaviśrutā 13 guṇakeśīti vikhyātā nāmnā sā devarūpiṇī śriyā ca vapuṣā caiva striyo 'nyāḥ sātiricyate 14 tasyāḥ pradānasamayaṃ mātaliḥ saha bhāryayā jñātvā vimamṛśe rājaṃs tatparaḥ paricintayan 15 dhik khalv alaghu śīlānām ucchritānāṃ yaśasvinām narāṇām ṛddhasattvānāṃ kule kanyā prarohaṇam 16 mātuḥ kulaṃ pitṛkulaṃ yatra caiva pradīyate kulatrayaṃ saṃśayitaṃ kurute kanyakā satām 17 deva mānuṣalokau dvau mānasenaiva cakṣuṣā avagāhyaiva vicitau na ca me rocate varaḥ 18 na devān naiva ditijān na gandharvān na mānuṣān arocayaṃ varakṛte tathaiva bahulān ṛṣīn 19 bhāryayā tu sa saṃmantrya saha rātrau sudharmayā mātalir nāgalokāya cakāra gamane matim 20 na me devamanuṣyeṣu guṇakeśyāḥ samo varaḥ rūpato dṛśyate kaś cin nāgeṣu bhavitā dhruvam 21 ity āmantrya sudharmāṃ sa kṛtvā cābhipradakṣiṇam kanyāṃ śirasy upāghrāya praviveśa mahītalam |
The Mahabharata in Sanskrit
Book 5
Chapter 96
|
1
[कण्व] मातलिस तु वरजन मार्गे नारदेन महर्षिणा वरुणं गच्छता दरष्टुं समागच्छद यदृच्छया 2 नारदॊ ऽथाब्रवीद एनं कव भवान गन्तुम उद्यतः सवेन वा सूत कार्येण शासनाद वा शतक्रतॊः 3 मातलिर नारदेनैवं संपृष्टः पथि गच्छता यथावत सर्वम आचष्ट सवकार्यं वरुणं परति 4 तम उवाचाथ स मुनिर गच्छावः सहिताव इति सलिलेश दिदेक्षार्थम अहम अप्य उद्यतॊ दिवः 5 अहं ते सर्वम आख्यास्ये दर्शयन वसुधातलम दृष्ट्वा तत्र वरं कं चिद रॊचयिष्याव मातले 6 अवगाह्य ततॊ भूमिम उभौ मातलिनारदौ ददृशाते महात्मानौ लॊकपालम अपां पतिम 7 तत्र देवर्षिसदृशीं पूजां पराप स नारदः महेन्द्रसदृशीं चैव मातलिः पत्यपद्यत 8 ताव उभौ परीतमनसौ कार्यवत्तां निवेद्य ह वरुणेनाभ्यनुज्ञातौ नागलॊकं विचेरतुः 9 नारदः सर्वभूतानाम अन्तर भूमिनिवासिनाम जानंश चकार वयाख्यानं यन्तुः सर्वम अशेषतः 10 [नारद] दृष्टस ते वरुणस तात पुत्रपौत्र समावृतः पश्यॊदक पतेः सथानं सर्वतॊभद्रम ऋद्धिमत 11 एष पुत्रॊ महाप्राज्ञॊ वरुणस्येह गॊपतेः एष तं शीलवृत्तेन शौचेन च विशिष्यते 12 एषॊ ऽसय पुत्रॊ ऽभिमतः पुष्करः पुष्करेक्षणः रूपवान दर्शनीयश च सॊमपुत्र्या वृतः पतिः 13 जयॊत्स्ना कालीति याम आहुर दवितीयां रूपतः शरियम आदित्यस्यैव गॊः पुत्रॊ जयेष्टः पुत्रः कृतः समृतः 14 भवनं पश्य वारुण्या यद एतत सर्वकाञ्चनम यां पराप्य सुरतां पराप्ताः सुराः सुरपतेः सखे 15 एतानि हृतराज्यानां दैतेयानां सम मातले दीप्यमानानि दृश्यन्ते सर्वप्रहरणान्य उत 16 अक्षयाणि किलैतानि विवर्तन्ते सम मातले अनुभाव परयुक्तानि सुरैर अवजितानि ह 17 अत्र राक्षस जात्यश च भूतजात्यश च मातले दिव्यप्रहरणाश चासन पूर्वदैवतनिर्मिताः 18 अग्निर एष महार्चिष्माञ जागर्ति वरुण हरदे वैष्णवं चक्रम आविद्धं विधूमेन हविष्मता 19 एष गाण्डीमयश चापॊ लॊकसंहार संभृतः रक्ष्यते दैवतैर नित्यं यतस तद गाण्डिवं धनुः 20 एष कृत्ये समुत्पन्ने तत तद धारयते बलम सहस्रशतसंख्येन पराणेन सततं धरुवम 21 अशास्यान अपि शास्त्य एष रक्षॊ बन्धुषु राजसु सृष्टः परथमजॊ दण्डॊ बराह्मणा बरह्मवादिना 22 एतच छत्रं नरेन्द्राणां महच छक्रेण भाषितम पुत्राः सलिलराजस्य धारयन्ति महॊदयम 23 एतत सलिलराजस्य छत्रं छत्रगृहे सथितम सर्वतः सलिलं शीतं जीमूत इव वर्षति 24 एतच छत्रात परिभ्रष्टं सलिलं सॊमनिर्मलम तमसा मूर्छितं याति येन नार्छति दर्शनम 25 बहून्य अद्भुतरूपाणि दरष्टव्यानीह मातले तव कार्यॊपरॊधस तु तस्माद गच्छाव माचिरम |
1
[kaṇva] mātalis tu vrajan mārge nāradena maharṣiṇā varuṇaṃ gacchatā draṣṭuṃ samāgacchad yadṛcchayā 2 nārado 'thābravīd enaṃ kva bhavān gantum udyataḥ svena vā sūta kāryeṇa śāsanād vā śatakratoḥ 3 mātalir nāradenaivaṃ saṃpṛṣṭaḥ pathi gacchatā yathāvat sarvam ācaṣṭa svakāryaṃ varuṇaṃ prati 4 tam uvācātha sa munir gacchāvaḥ sahitāv iti salileśa didekṣārtham aham apy udyato divaḥ 5 ahaṃ te sarvam ākhyāsye darśayan vasudhātalam dṛṣṭvā tatra varaṃ kaṃ cid rocayiṣyāva mātale 6 avagāhya tato bhūmim ubhau mātalināradau dadṛśāte mahātmānau lokapālam apāṃ patim 7 tatra devarṣisadṛśīṃ pūjāṃ prāpa sa nāradaḥ mahendrasadṛśīṃ caiva mātaliḥ patyapadyata 8 tāv ubhau prītamanasau kāryavattāṃ nivedya ha varuṇenābhyanujñātau nāgalokaṃ viceratuḥ 9 nāradaḥ sarvabhūtānām antar bhūminivāsinām jānaṃś cakāra vyākhyānaṃ yantuḥ sarvam aśeṣataḥ 10 [nārada] dṛṣṭas te varuṇas tāta putrapautra samāvṛtaḥ paśyodaka pateḥ sthānaṃ sarvatobhadram ṛddhimat 11 eṣa putro mahāprājño varuṇasyeha gopateḥ eṣa taṃ śīlavṛttena śaucena ca viśiṣyate 12 eṣo 'sya putro 'bhimataḥ puṣkaraḥ puṣkarekṣaṇaḥ rūpavān darśanīyaś ca somaputryā vṛtaḥ patiḥ 13 jyotsnā kālīti yām āhur dvitīyāṃ rūpataḥ śriyam ādityasyaiva goḥ putro jyeṣṭaḥ putraḥ kṛtaḥ smṛtaḥ 14 bhavanaṃ paśya vāruṇyā yad etat sarvakāñcanam yāṃ prāpya suratāṃ prāptāḥ surāḥ surapateḥ sakhe 15 etāni hṛtarājyānāṃ daiteyānāṃ sma mātale dīpyamānāni dṛśyante sarvapraharaṇāny uta 16 akṣayāṇi kilaitāni vivartante sma mātale anubhāva prayuktāni surair avajitāni ha 17 atra rākṣasa jātyaś ca bhūtajātyaś ca mātale divyapraharaṇāś cāsan pūrvadaivatanirmitāḥ 18 agnir eṣa mahārciṣmāñ jāgarti varuṇa hrade vaiṣṇavaṃ cakram āviddhaṃ vidhūmena haviṣmatā 19 eṣa gāṇḍīmayaś cāpo lokasaṃhāra saṃbhṛtaḥ rakṣyate daivatair nityaṃ yatas tad gāṇḍivaṃ dhanuḥ 20 eṣa kṛtye samutpanne tat tad dhārayate balam sahasraśatasaṃkhyena prāṇena satataṃ dhruvam 21 aśāsyān api śāsty eṣa rakṣo bandhuṣu rājasu sṛṣṭaḥ prathamajo daṇḍo brāhmaṇā brahmavādinā 22 etac chatraṃ narendrāṇāṃ mahac chakreṇa bhāṣitam putrāḥ salilarājasya dhārayanti mahodayam 23 etat salilarājasya chatraṃ chatragṛhe sthitam sarvataḥ salilaṃ śītaṃ jīmūta iva varṣati 24 etac chatrāt paribhraṣṭaṃ salilaṃ somanirmalam tamasā mūrchitaṃ yāti yena nārchati darśanam 25 bahūny adbhutarūpāṇi draṣṭavyānīha mātale tava kāryoparodhas tu tasmād gacchāva māciram |
The Mahabharata in Sanskrit
Book 5
Chapter 97
|
1
[नारद] एतत तु नागलॊकस्य नाभिस्थाने सथितं पुरम पातालम इति विख्यातं दैत्यदानव सेवितम 2 इदम अद्भिः समं पराप्ता ये के चिद धरुवजङ्गमाः परविशन्तॊ महानादं नदन्ति भयपीडिताः 3 अत्रासुरॊ ऽगनिः सततं दीप्यते वारि भॊजनः वयापारेण धृतात्मानं निबद्धं समबुध्यत 4 अत्रामृतं सुरैः पीत्वा निहितं निहतारिभिः अतः सॊमस्य हानिश च वृद्धिश चैव परदृश्यते 5 अत्र दिव्यं हयशिरः काले पर्वणि पर्वणि उत्तिष्ठति सुवर्णाभं वार्भिर आपूरयञ जगत 6 यस्माद अत्र समग्रास ताः पतन्ति जलमूर्तयः तस्मात पातालम इत्य एतत खयायते पुरम उत्तमम 7 ऐरावतॊ ऽसमात सलिलं गृहीत्वा जगतॊ हितः मेघेष्व आमुञ्चते शीतं यन महेन्द्रः परवर्षति 8 अत्र नानाविधाकारास तिमयॊ नैकरूपिणः अप्सु सॊमप्रभां पीत्वा वसन्ति जलचारिणः 9 अत्र सूर्यांशुभिर भिन्नाः पातालतलम आश्रिताः मृता दिवसतः सूत पुनर जीवन्ति ते निशि 10 उदये नित्यशश चात्र चन्द्रमा रश्मिभिर वृतः अमृतं सपृश्य संस्पर्शात संजीवयति देहिनः 11 अत्र ते ऽधर्मनिरता बद्धाः कालेन पीडिताः दैतेया निवसन्ति सम वासवेन हृतश्रियः 12 अत्र भूतपतिर नाम सर्वभूतमहेश्वरः भूतये सर्वभूतानाम अचरत तप उत्तमम 13 अत्र गॊव्रतिनॊ विप्राः सवाध्यायाम्नाय कर्शिताः तयक्तप्राणा जितस्वर्गा निवसन्ति महर्षयः 14 यत्र तत्र शयॊ नित्यं येन केन चिद आशितः येन केन चिद आच्छन्नः स गॊव्रत इहॊच्यते 15 ऐरावतॊ नागराजॊ वामनः कुमुदॊ ऽञजनः परसूताः सुप्रतीकस्य वंशे वारणसत्तमाः 16 पश्य यद्य अत्र ते कश चिद रॊचते गुणतॊ वरः वरयिष्याव तं गत्वा यत्नम आस्थाय मातले 17 अण्डम एतज जले नयस्तं दीप्यमानम इव शरिया आ परजानां निसर्गाद वै नॊद्भिद्यति न सर्पति 18 नास्य जातिं निसर्गं वा कथ्यमानं शृणॊमि वै पितरं मातरं वापि नास्य जानाति कश चन 19 अतः किल महान अग्निर अन्तकाले समुत्थितः धक्ष्यते मातले सर्वं तरैलॊक्यं सचराचरम 20 [कण्व] मातलिस तव अब्रवीच छरुत्वा नारदस्याथ भाषितम न मे ऽतर रॊचते कश चिद अन्यतॊ वरज माचिरम |
1
[nārada] etat tu nāgalokasya nābhisthāne sthitaṃ puram pātālam iti vikhyātaṃ daityadānava sevitam 2 idam adbhiḥ samaṃ prāptā ye ke cid dhruvajaṅgamāḥ praviśanto mahānādaṃ nadanti bhayapīḍitāḥ 3 atrāsuro 'gniḥ satataṃ dīpyate vāri bhojanaḥ vyāpāreṇa dhṛtātmānaṃ nibaddhaṃ samabudhyata 4 atrāmṛtaṃ suraiḥ pītvā nihitaṃ nihatāribhiḥ ataḥ somasya hāniś ca vṛddhiś caiva pradṛśyate 5 atra divyaṃ hayaśiraḥ kāle parvaṇi parvaṇi uttiṣṭhati suvarṇābhaṃ vārbhir āpūrayañ jagat 6 yasmād atra samagrās tāḥ patanti jalamūrtayaḥ tasmāt pātālam ity etat khyāyate puram uttamam 7 airāvato 'smāt salilaṃ gṛhītvā jagato hitaḥ megheṣv āmuñcate śītaṃ yan mahendraḥ pravarṣati 8 atra nānāvidhākārās timayo naikarūpiṇaḥ apsu somaprabhāṃ pītvā vasanti jalacāriṇaḥ 9 atra sūryāṃśubhir bhinnāḥ pātālatalam āśritāḥ mṛtā divasataḥ sūta punar jīvanti te niśi 10 udaye nityaśaś cātra candramā raśmibhir vṛtaḥ amṛtaṃ spṛśya saṃsparśāt saṃjīvayati dehinaḥ 11 atra te 'dharmaniratā baddhāḥ kālena pīḍitāḥ daiteyā nivasanti sma vāsavena hṛtaśriyaḥ 12 atra bhūtapatir nāma sarvabhūtamaheśvaraḥ bhūtaye sarvabhūtānām acarat tapa uttamam 13 atra govratino viprāḥ svādhyāyāmnāya karśitāḥ tyaktaprāṇā jitasvargā nivasanti maharṣayaḥ 14 yatra tatra śayo nityaṃ yena kena cid āśitaḥ yena kena cid ācchannaḥ sa govrata ihocyate 15 airāvato nāgarājo vāmanaḥ kumudo 'ñjanaḥ prasūtāḥ supratīkasya vaṃśe vāraṇasattamāḥ 16 paśya yady atra te kaś cid rocate guṇato varaḥ varayiṣyāva taṃ gatvā yatnam āsthāya mātale 17 aṇḍam etaj jale nyastaṃ dīpyamānam iva śriyā ā prajānāṃ nisargād vai nodbhidyati na sarpati 18 nāsya jātiṃ nisargaṃ vā kathyamānaṃ śṛṇomi vai pitaraṃ mātaraṃ vāpi nāsya jānāti kaś cana 19 ataḥ kila mahān agnir antakāle samutthitaḥ dhakṣyate mātale sarvaṃ trailokyaṃ sacarācaram 20 [kaṇva] mātalis tv abravīc chrutvā nāradasyātha bhāṣitam na me 'tra rocate kaś cid anyato vraja māciram |
The Mahabharata in Sanskrit
Book 5
Chapter 98
|
1
[न] हिरण्यपुरम इत्य एतत खयातं पुरवरं महत दैत्यानां दानवानां च माया शतविचारिणाम 2 अनल्पेन परयत्नेन निर्मितं विश्वकर्मणा मयेन मनसा सृष्टं पातालतलम आश्रितम 3 अत्र माया सहस्राणि विकुर्वाणा महौजसः दानवा निवसन्ति सम शूरा दत्तवराः पुरा 4 नैते शक्रेण नान्येन वरुणेन यमेन वा शक्यन्ते वशम आनेतुं तथैव धनदेन च 5 असुराः कालखञ्जाश च तथा विष्णुपदॊद्भवाः नैरृता यातुधानाश च बरह्म वेदॊद्भवाश च ये 6 दंष्ट्रिणॊ भीमरूपाश च निवसन्त्य आत्मरक्षिणः मायावीर्यॊपसंपन्ना निवसन्त्य आत्मरक्षिणः निवातकवचा नाम दानवा युद्धदुर्मदाः 7 जानासि च यथा शक्रॊ नैताञ शक्नॊति वाधितुम 8 बहुशॊ मातले तवं च तव पुत्रश च गॊमुखः निर्भग्नॊ देवराजश च सह पुत्रः शचीपतिः 9 पश्य वेश्मानि रौक्माणि मातले राजतानि च कर्मणा विधियुक्तेन युक्तान्य उपगतानि च 10 वैडूर्य हरितानीव परवालरुचिराणि च अर्कस्फटिक शुभ्राणि वर्ज सारॊज्ज्वलानि च 11 पार्थिवानीव चाभान्ति पुनर नगमयानि च शैलानीव च दृश्यन्ते तारकाणीव चाप्य उत 12 सूर्यरूपाणि चाभान्ति दीप्ताग्निसदृशानि च मणिजालविचित्राणि परांशूनि निबिडानि च 13 नैतानि शक्यं निर्देष्टुं रूपतॊ दरव्यतस तथा गुणतश चैव सिद्धानि परमाण गुणवन्ति च 14 आक्रीडान पश्य दैत्यानां तथैव शयनान्य उत रत्नवन्ति महार्हाणि भाजनान्य आसनानि च 15 जलदाभांस तथा शैलांस तॊयप्रस्रवणान्वितान कामपुष्पफलांश चैव पादपान कामचारिणः 16 मातले कश चिद अत्रापि रुचितस ते वरॊ भवेत अथ वान्यां दिशं भूमेर गच्छाव यदि मन्यसे 17 [कण्व] मातलिस तव अब्रवीद एनं भाषमाणं तथाविधम देवर्षे नैव मे कार्यं विप्रियं तरिदिवौकसाम 18 नित्यानुषक्त वैरा हि भरातरॊ देवदानवाः अरिपक्षेण संबन्धं रॊचयिष्याम्य अहं कथम 19 अन्यत्र साधु गच्छावॊ दरष्टुं नार्हामि दानवान जानामि तु तथात्मानं दित्सात्म कमलं यथा |
1
[n] hiraṇyapuram ity etat khyātaṃ puravaraṃ mahat daityānāṃ dānavānāṃ ca māyā śatavicāriṇām 2 analpena prayatnena nirmitaṃ viśvakarmaṇā mayena manasā sṛṣṭaṃ pātālatalam āśritam 3 atra māyā sahasrāṇi vikurvāṇā mahaujasaḥ dānavā nivasanti sma śūrā dattavarāḥ purā 4 naite śakreṇa nānyena varuṇena yamena vā śakyante vaśam ānetuṃ tathaiva dhanadena ca 5 asurāḥ kālakhañjāś ca tathā viṣṇupadodbhavāḥ nairṛtā yātudhānāś ca brahma vedodbhavāś ca ye 6 daṃṣṭriṇo bhīmarūpāś ca nivasanty ātmarakṣiṇaḥ māyāvīryopasaṃpannā nivasanty ātmarakṣiṇaḥ nivātakavacā nāma dānavā yuddhadurmadāḥ 7 jānāsi ca yathā śakro naitāñ śaknoti vādhitum 8 bahuśo mātale tvaṃ ca tava putraś ca gomukhaḥ nirbhagno devarājaś ca saha putraḥ śacīpatiḥ 9 paśya veśmāni raukmāṇi mātale rājatāni ca karmaṇā vidhiyuktena yuktāny upagatāni ca 10 vaiḍūrya haritānīva pravālarucirāṇi ca arkasphaṭika śubhrāṇi varja sārojjvalāni ca 11 pārthivānīva cābhānti punar nagamayāni ca śailānīva ca dṛśyante tārakāṇīva cāpy uta 12 sūryarūpāṇi cābhānti dīptāgnisadṛśāni ca maṇijālavicitrāṇi prāṃśūni nibiḍāni ca 13 naitāni śakyaṃ nirdeṣṭuṃ rūpato dravyatas tathā guṇataś caiva siddhāni pramāṇa guṇavanti ca 14 ākrīḍān paśya daityānāṃ tathaiva śayanāny uta ratnavanti mahārhāṇi bhājanāny āsanāni ca 15 jaladābhāṃs tathā śailāṃs toyaprasravaṇānvitān kāmapuṣpaphalāṃś caiva pādapān kāmacāriṇaḥ 16 mātale kaś cid atrāpi rucitas te varo bhavet atha vānyāṃ diśaṃ bhūmer gacchāva yadi manyase 17 [kaṇva] mātalis tv abravīd enaṃ bhāṣamāṇaṃ tathāvidham devarṣe naiva me kāryaṃ vipriyaṃ tridivaukasām 18 nityānuṣakta vairā hi bhrātaro devadānavāḥ aripakṣeṇa saṃbandhaṃ rocayiṣyāmy ahaṃ katham 19 anyatra sādhu gacchāvo draṣṭuṃ nārhāmi dānavān jānāmi tu tathātmānaṃ ditsātma kamalaṃ yathā |
The Mahabharata in Sanskrit
Book 5
Chapter 99
|
1
[न] अयं लॊकः सुपर्णानां पक्षिणां पन्नगाशिनाम विक्रमे गमने भारे नैषाम अस्ति परिश्रमः 2 वैनतेय सुतैः सूत षड्भिस ततम इदं कुलम सुमुखेन सुनाम्ना च सुनेत्रेण सुवर्चसा 3 सुरूप पक्षिराजेन सुबलेन च मातले वर्थितानि परसूत्या वै विनता कुलकर्तृभिः 4 पक्षिराजाभिजात्यानां सहस्राणि शतानि च कश्यपस्य ततॊ वंशे जातैर भूतिविवर्धनैः 5 सर्वे हय एते शरिया युक्ताः सर्वे शरीवत्स लक्षणाः सर्वे शरियम अभीप्सन्तॊ धारयन्ति बलान्य उत 6 कर्मणा कषत्रियाश चैते निर्घृणा भॊगि भॊजिनः जञातिसंक्षय कर्तृत्वाद बराह्मण्यं न लभन्ति वै 7 नामानि चैषां वक्ष्यामि यथा पराधान्यतः शृणु मातले शलाघ्यम एतद धि कुलं विष्णुपरिग्रहम 8 दैवतं विष्णुर एतेषां विष्णुर एव परायणम हृदि चैषां सदा विष्णुर विष्णुर एव गतिः सदा 9 सुवर्णचूडॊ नागाशी दारुणश चण्डतुण्डकः अनलश चानिलश चैव विशालाक्षॊ ऽथ कुण्डली 10 काश्यपिर धवजविष्कम्भॊ वैनतेयाथ वामनः वातवेगॊ दिशा चक्षुर निमेषॊ निमिषस तथा 11 तरिवारः सप्त वारश च वाल्मीकिर दवीपकस तथा दैत्य दवीपः सरिद दवीपः सारसः पद्मकेसरः 12 सुमुखः सुखकेतुश च चित्रबर्हस तथानघः मेघकृत कुमुदॊ दक्षः सर्पान्तः सॊमभॊजनः 13 गुरुभारः कपॊतश च सूर्यनेत्रश चिरान्तकः विष्णुधन्वा कुमारश च परिबर्हॊ हरिस तथा 14 सुस्वरॊ मधुपर्कश च हेमवर्णस तथैव च मलयॊ मातरिश्वा च निशाकरदिवाकरौ 15 एते परदेश मात्रेण मयॊक्ता गरुडात्मजाः पराधान्यतॊ ऽथ यशसा कीर्तिताः पराणतश च ते 16 यद्य अत्र न रुचिः का चिद एहि गच्छाव मातले तं नयिष्यामि देशं तवां रुचिं यत्रॊपलप्स्यसे |
1
[n] ayaṃ lokaḥ suparṇānāṃ pakṣiṇāṃ pannagāśinām vikrame gamane bhāre naiṣām asti pariśramaḥ 2 vainateya sutaiḥ sūta ṣaḍbhis tatam idaṃ kulam sumukhena sunāmnā ca sunetreṇa suvarcasā 3 surūpa pakṣirājena subalena ca mātale varthitāni prasūtyā vai vinatā kulakartṛbhiḥ 4 pakṣirājābhijātyānāṃ sahasrāṇi śatāni ca kaśyapasya tato vaṃśe jātair bhūtivivardhanaiḥ 5 sarve hy ete śriyā yuktāḥ sarve śrīvatsa lakṣaṇāḥ sarve śriyam abhīpsanto dhārayanti balāny uta 6 karmaṇā kṣatriyāś caite nirghṛṇā bhogi bhojinaḥ jñātisaṃkṣaya kartṛtvād brāhmaṇyaṃ na labhanti vai 7 nāmāni caiṣāṃ vakṣyāmi yathā prādhānyataḥ śṛṇu mātale ślāghyam etad dhi kulaṃ viṣṇuparigraham 8 daivataṃ viṣṇur eteṣāṃ viṣṇur eva parāyaṇam hṛdi caiṣāṃ sadā viṣṇur viṣṇur eva gatiḥ sadā 9 suvarṇacūḍo nāgāśī dāruṇaś caṇḍatuṇḍakaḥ analaś cānilaś caiva viśālākṣo 'tha kuṇḍalī 10 kāśyapir dhvajaviṣkambho vainateyātha vāmanaḥ vātavego diśā cakṣur nimeṣo nimiṣas tathā 11 trivāraḥ sapta vāraś ca vālmīkir dvīpakas tathā daitya dvīpaḥ sarid dvīpaḥ sārasaḥ padmakesaraḥ 12 sumukhaḥ sukhaketuś ca citrabarhas tathānaghaḥ meghakṛt kumudo dakṣaḥ sarpāntaḥ somabhojanaḥ 13 gurubhāraḥ kapotaś ca sūryanetraś cirāntakaḥ viṣṇudhanvā kumāraś ca paribarho haris tathā 14 susvaro madhuparkaś ca hemavarṇas tathaiva ca malayo mātariśvā ca niśākaradivākarau 15 ete pradeśa mātreṇa mayoktā garuḍātmajāḥ prādhānyato 'tha yaśasā kīrtitāḥ prāṇataś ca te 16 yady atra na ruciḥ kā cid ehi gacchāva mātale taṃ nayiṣyāmi deśaṃ tvāṃ ruciṃ yatropalapsyase |
The Mahabharata in Sanskrit
Book 5
Chapter 100
|
1
[न] इदं रसातलं नाम सप्तमं पृथिवीतलम यत्रास्ते सुरभिर माता गवाम अमृतसंभवा 2 कषरन्ती सततं कषीरं पृथिवी सारसंभवम षण्णां रसानां सारेण रसम एकम अनुत्तमम 3 अमृतेनाभितृप्तस्य सारम उद्गिरतः पुरा पितामहस्य वदनाद उदतिष्ठद अनिन्दिता 4 यस्याः कषीरस्य धाराया निपतन्त्या महीतले हरदः कृतः कषीरनिधिः पवित्रं परम उत्तमम 5 पुष्पितस्येव फेनस्य पर्यन्तम अनुवेष्टितम पिबन्तॊ निवसन्त्य अत्र फेनपा मुनिसत्तमाः 6 फेनपा नाम नाम्ना ते फेनाहाराश च मातले उग्रे तपसि वर्तन्ते येषां बिभ्यति देवताः 7 अस्याश चतस्रॊ धेन्वॊ ऽनया दिक्षु सर्वासु मातले निवसन्ति दिशापाल्यॊ धारयन्त्यॊ दिशः समृताः 8 पूर्वां दिशं धारयते सुरूपा नाम सौरभी दक्षिणां हंसका नाम धारयत्य अपरां दिशम 9 पश्चिमा वारुणी दिक च धार्यते वै सुभद्रया महानुभावया नित्यं मातले विश्वरूपया 10 सर्वकामदुघा नाम धेनुर धारयते दिशम उत्तरां मातले धर्म्यां तथैलविल संज्ञिताम 11 आसां तु पयसा मिश्रं पयॊ निर्मथ्य सागरे मन्थानं मन्दरं कृत्वा देवैर असुरसंहितैः 12 उद्धृता वारुणी लक्ष्मीर अमृतं चापि मातले उच्चैःश्रवाश चाश्वराजॊ मणिरत्नं च कौस्तुभम 13 सुधा हारेषु च सुधां सवधा भॊजिषु च सवधाम अमृतं चामृताशेषु सुरभिः कषरते पयः 14 अत्र गाथा पुरा गीता रसातलनिवासिभिः पौराणी शरूयते लॊके गीयते या मनीषिभिः 15 न नागलॊके न सवर्गे न विमाने तरिविष्टपे परिवासः सुखस तादृग रसातलतले यथा |
1
[n] idaṃ rasātalaṃ nāma saptamaṃ pṛthivītalam yatrāste surabhir mātā gavām amṛtasaṃbhavā 2 kṣarantī satataṃ kṣīraṃ pṛthivī sārasaṃbhavam ṣaṇṇāṃ rasānāṃ sāreṇa rasam ekam anuttamam 3 amṛtenābhitṛptasya sāram udgirataḥ purā pitāmahasya vadanād udatiṣṭhad aninditā 4 yasyāḥ kṣīrasya dhārāyā nipatantyā mahītale hradaḥ kṛtaḥ kṣīranidhiḥ pavitraṃ param uttamam 5 puṣpitasyeva phenasya paryantam anuveṣṭitam pibanto nivasanty atra phenapā munisattamāḥ 6 phenapā nāma nāmnā te phenāhārāś ca mātale ugre tapasi vartante yeṣāṃ bibhyati devatāḥ 7 asyāś catasro dhenvo 'nyā dikṣu sarvāsu mātale nivasanti diśāpālyo dhārayantyo diśaḥ smṛtāḥ 8 pūrvāṃ diśaṃ dhārayate surūpā nāma saurabhī dakṣiṇāṃ haṃsakā nāma dhārayaty aparāṃ diśam 9 paścimā vāruṇī dik ca dhāryate vai subhadrayā mahānubhāvayā nityaṃ mātale viśvarūpayā 10 sarvakāmadughā nāma dhenur dhārayate diśam uttarāṃ mātale dharmyāṃ tathailavila saṃjñitām 11 āsāṃ tu payasā miśraṃ payo nirmathya sāgare manthānaṃ mandaraṃ kṛtvā devair asurasaṃhitaiḥ 12 uddhṛtā vāruṇī lakṣmīr amṛtaṃ cāpi mātale uccaiḥśravāś cāśvarājo maṇiratnaṃ ca kaustubham 13 sudhā hāreṣu ca sudhāṃ svadhā bhojiṣu ca svadhām amṛtaṃ cāmṛtāśeṣu surabhiḥ kṣarate payaḥ 14 atra gāthā purā gītā rasātalanivāsibhiḥ paurāṇī śrūyate loke gīyate yā manīṣibhiḥ 15 na nāgaloke na svarge na vimāne triviṣṭape parivāsaḥ sukhas tādṛg rasātalatale yathā |
The Mahabharata in Sanskrit
Book 5
Chapter 101
|
1
[न] इयं भॊगवती नाम पुरी वासुकिपालिता यादृशी देवराजस्य पुरी वर्यामरावती 2 एष शेषः सथितॊ नागॊ येनेयं धार्यते सदा तपसा लॊकमुख्येन परभावमहता मही 3 शवेतॊच्चय निभाकारॊ नानाविध विभूषणः सहस्रं धारयन मूर्ध्ना जवाला जिह्वॊ महाबलः 4 इह नानाविधाकारा नानाविध विभूषणाः सुरसायाः सुता नागा निवसन्ति गतव्यथाः 5 मणिस्वस्तिक चक्राङ्काः कमण्डलुक लक्षणाः सहस्रसंख्या बलिनः सर्वे रौद्राः सवभावतः 6 सहस्रशिरसः के चित के चित पञ्चशताननाः शतशीर्षास तथा के चित के चित तरिशिरसॊ ऽपि च 7 दविपञ्च शिरसः के चित के चित सप्त मुखास तथा महाभॊगा महाकायाः पर्वताभॊगभॊगिनः 8 बहूनीह सहस्राणि परयुतान्य अर्बुदानि च नागानाम एकवंशानां यथा शरेष्ठांस तु मे शृणु 9 वासुकिस तक्षकश चैव कर्कॊटक धनंजयौ कालीयॊ नहुषश चैव कम्बलाश्वतराव उभौ 10 बाह्यकुण्डॊ मणिर नागस तथैवापूरणः खगः वामनश चैल पत्रश च कुकुरः कुकुणस तथा 11 आर्यकॊ नन्दकश चैव तथा कलशपॊतकौ कैलासकः पिञ्जरकॊ नागश चैरावतस तथा 12 सुमनॊमुखॊ दधिमुखः शङ्खॊ नन्दॊपनन्दकौ आप्तः कॊटनकश चैव शिखी निष्ठूरिकस तथा 13 तित्तिरिर हस्तिभद्रश च कुमुदॊ माल्यपिण्डकः दवौ पद्मौ पुण्डरीकश च पुष्पॊ मुद्गरपर्णकः 14 करवीरः पीठरकः संवृत्तॊ वृत्त एव च पिण्डारॊ बिल्वपत्रश च मूषिकादः शिरीषकः 15 दिलीपः शङ्खशीर्षश च जयॊतिष्कॊ ऽथापराजितः कौरव्यॊ धृतराष्ट्रश च कुमारः कुशकस तथा 16 विरजा धारणश चैव सुबाहुर मुखरॊ जयः बधिरान्धौ विकुण्डश च विरसः सुरसस तथा 17 एते चान्ये च बहवः कश्यपस्यात्मजाः समृताः मातले पश्य यद्य अत्र कश चित ते रॊचते वरः 18 [कण्व] मातलिस तव एकम अव्यग्रः सततं संनिरीक्ष्य वै पप्रच्छ नारदं तत्र परीतिमान इव चाभवत 19 सथितॊ य एष पुरतः कौरव्यस्यार्यकस्य च दयुतिमान दर्शनीयश च कस्यैष कुलनन्दनः 20 कः पिता जननी चास्य कतमस्यैष भॊगिनः वंशस्य कस्यैष महान केतुभूत इव सथितः 21 परणिधानेन धैर्येण रूपेण वयसा च मे मनः परविष्टॊ देवर्षे गुणकेश्याः पतिर वरः 22 मातलिं परीतिमनसं दृष्ट्वा सुमुख दर्शनात निवेदयाम आस तदा माहात्म्यं जन्म कर्म च 23 ऐरावत कुले जातः सुमुखॊ नाम नागराट आर्यकस्य मतः पौत्रॊ दौहित्रॊ वामनस्य च 24 एतस्य हि पिता नागश चिकुरॊ नाम मातले नचिराद वैनतेयेन पञ्चत्वम उपपादितः 25 ततॊ ऽबरवीत परीतमना मातलिर नारदं वचः एष मे रुचितस तात जामाता भुजगॊत्तमः 26 करियताम अत्र यत्नॊ हि परीतिमान अस्म्य अनेन वै अस्य नागपतेर दातुं परियां दुहितरं मुने |
1
[n] iyaṃ bhogavatī nāma purī vāsukipālitā yādṛśī devarājasya purī varyāmarāvatī 2 eṣa śeṣaḥ sthito nāgo yeneyaṃ dhāryate sadā tapasā lokamukhyena prabhāvamahatā mahī 3 śvetoccaya nibhākāro nānāvidha vibhūṣaṇaḥ sahasraṃ dhārayan mūrdhnā jvālā jihvo mahābalaḥ 4 iha nānāvidhākārā nānāvidha vibhūṣaṇāḥ surasāyāḥ sutā nāgā nivasanti gatavyathāḥ 5 maṇisvastika cakrāṅkāḥ kamaṇḍaluka lakṣaṇāḥ sahasrasaṃkhyā balinaḥ sarve raudrāḥ svabhāvataḥ 6 sahasraśirasaḥ ke cit ke cit pañcaśatānanāḥ śataśīrṣās tathā ke cit ke cit triśiraso 'pi ca 7 dvipañca śirasaḥ ke cit ke cit sapta mukhās tathā mahābhogā mahākāyāḥ parvatābhogabhoginaḥ 8 bahūnīha sahasrāṇi prayutāny arbudāni ca nāgānām ekavaṃśānāṃ yathā śreṣṭhāṃs tu me śṛṇu 9 vāsukis takṣakaś caiva karkoṭaka dhanaṃjayau kālīyo nahuṣaś caiva kambalāśvatarāv ubhau 10 bāhyakuṇḍo maṇir nāgas tathaivāpūraṇaḥ khagaḥ vāmanaś caila patraś ca kukuraḥ kukuṇas tathā 11 āryako nandakaś caiva tathā kalaśapotakau kailāsakaḥ piñjarako nāgaś cairāvatas tathā 12 sumanomukho dadhimukhaḥ śaṅkho nandopanandakau āptaḥ koṭanakaś caiva śikhī niṣṭhūrikas tathā 13 tittirir hastibhadraś ca kumudo mālyapiṇḍakaḥ dvau padmau puṇḍarīkaś ca puṣpo mudgaraparṇakaḥ 14 karavīraḥ pīṭharakaḥ saṃvṛtto vṛtta eva ca piṇḍāro bilvapatraś ca mūṣikādaḥ śirīṣakaḥ 15 dilīpaḥ śaṅkhaśīrṣaś ca jyotiṣko 'thāparājitaḥ kauravyo dhṛtarāṣṭraś ca kumāraḥ kuśakas tathā 16 virajā dhāraṇaś caiva subāhur mukharo jayaḥ badhirāndhau vikuṇḍaś ca virasaḥ surasas tathā 17 ete cānye ca bahavaḥ kaśyapasyātmajāḥ smṛtāḥ mātale paśya yady atra kaś cit te rocate varaḥ 18 [kaṇva] mātalis tv ekam avyagraḥ satataṃ saṃnirīkṣya vai papraccha nāradaṃ tatra prītimān iva cābhavat 19 sthito ya eṣa purataḥ kauravyasyāryakasya ca dyutimān darśanīyaś ca kasyaiṣa kulanandanaḥ 20 kaḥ pitā jananī cāsya katamasyaiṣa bhoginaḥ vaṃśasya kasyaiṣa mahān ketubhūta iva sthitaḥ 21 praṇidhānena dhairyeṇa rūpeṇa vayasā ca me manaḥ praviṣṭo devarṣe guṇakeśyāḥ patir varaḥ 22 mātaliṃ prītimanasaṃ dṛṣṭvā sumukha darśanāt nivedayām āsa tadā māhātmyaṃ janma karma ca 23 airāvata kule jātaḥ sumukho nāma nāgarāṭ āryakasya mataḥ pautro dauhitro vāmanasya ca 24 etasya hi pitā nāgaś cikuro nāma mātale nacirād vainateyena pañcatvam upapāditaḥ 25 tato 'bravīt prītamanā mātalir nāradaṃ vacaḥ eṣa me rucitas tāta jāmātā bhujagottamaḥ 26 kriyatām atra yatno hi prītimān asmy anena vai asya nāgapater dātuṃ priyāṃ duhitaraṃ mune |
The Mahabharata in Sanskrit
Book 5
Chapter 102
|
1
[नारद] सूतॊ ऽयं मातलिर नाम शक्रस्य दयितः सुहृत शुचिः शीलगुणॊपेतस तेजस्वी वीर्यवान बली 2 शक्रस्यायं सखा चैव मन्त्री सारथिर एव च अल्पान्तरप्रभावश च वासवेन रणे रणे 3 अयं हरिसहस्रेण युक्तं जैत्रं रथॊत्तमम देवासुरेषु युद्धेषु मनसैव नियच्छति 4 अनेन विजितान अश्वैर दॊर्भ्यां जयति वासवः अनेन परहृते पूर्वं बलभित परहरत्य उत 5 अस्य कन्या वरारॊहा रूपेणासदृशी भुवि सत्त्वशीलगुणॊपेता गुणकेशीति विश्रुता 6 तस्यास्य यत्नाच चरतस तरैलॊक्यम अमर दयुते सुमुखॊ भवतः पौत्रॊ रॊचते दुहितुः पतिः 7 यदि ते रॊचते सौम्य भुजगॊत्तम माचिरम करियताम आर्यक कषिप्रं बुद्धिः कन्या परतिग्रहे 8 यथा विष्णुकुले लक्ष्मीर यथा सवाहा विभावसॊः कुले तव तथैवास्तु गुणकेशी परतीच्छतु 9 पौत्रस्यार्थे भवांस तस्माद गुणकेशी परतीच्छतु सदृशीं परतिरूपस्य वासवस्य शचीम इव 10 पितृहीनम अपि हय एनं गुणतॊ वरयामहे बहुमानाच च भवतस तथैवैरावतस्य च सुमुखस्य गुणैश चैव शीलशौचदमादिभिः 11 अभिगम्य सवयं कन्याम अयं दातुं समुद्यतः मालतेस तस्य संमानं कर्तुम अर्हॊ भवान अपि 12 स तु दीनः परहृष्टश च पराह नारदम आर्यकः वरियमाणे तथा पौत्रे पुत्रे च निधनं गते 13 न मे नैतद बहुमतं देवर्षे वचनं तव सखा शक्रस्य संयुक्तः कस्यायं नेप्सितॊ भवेत 14 कारणस्य तु दौर्बल्याच चिन्तयामि महामुने भक्षितॊ वैनतेयेन दुःखार्तास तेन वै वयम 15 पुनर एव च तेनॊक्तं वैनतेयेन गच्छता मासेनान्येन सुमुखं भक्षयिष्य इति परभॊ 16 धरुवं तथा तद भविता जानीमस तस्य निश्चयम तेन हर्षः परनष्टॊ मे सुपर्णवचनेन वै 17 मातलिस तव अब्रवीद एनं बुद्धिर अत्र कृता मया जामातृभावेन वृतः सुमुखस तव पुत्रजः 18 सॊ ऽयं मया च सहितॊ नारदेन च पन्नगः तरिलॊकेशं सुरपतिं गत्वा पश्यतु वासवम 19 शेषेणैवास्य कार्येण परज्ञास्याम्य अहम आयुषः सुपर्णस्य विघाते च परयतिष्यामि सत्तम 20 सुमुखश च मया सार्धं देवेशम अभिगच्छतु कार्यसंसाधनार्थाय सवस्ति ते ऽसतु भुजंगम 21 ततस ते सुमुखं गृह्य सर्व एव महौजसः ददृशुः शक्रम आसीनं देवराजं महाद्युतिम 22 संगत्या तत्र भगवान विष्णुर आसीच चतुर्भुजः ततस तत सर्वम आचख्यौ नारदॊ मातलिं परति 23 ततः पुरंदरं विष्णुर उवाच भुवनेश्वरम अमृतं दीयताम अस्मै करियताम अमरैः समः 24 मातलिर नारदश चैव सुमुखश चैव वासव लभन्तां भवतः कामात कामम एतं यथेप्सितम 25 पुरंदरॊ ऽथ संचिन्त्य वैनतेय पराक्रमम विष्णुम एवाब्रवीद एनं भवान एव ददात्व इति 26 ईशस तवम असि लॊकानां चराणाम अचराश च ये तवया दत्तम अदत्तं कः कर्तुम उत्सहते विभॊ 27 परादाच छक्रस ततस तस्मै पन्नगायायुर उत्तमम न तव एनम अमृतप्राशं चकार बलवृत्रहा 28 लब्ध्वा वरं तु सुमुखः सुमुखः संबभूव ह कृतदारॊ यथाकामं जगाम च गृहान परति 29 नारदस तव आर्यकश चैव कृतकार्यौ मुदा युतौ परतिजग्मतुर अभ्यर्च्य देवराजं महाद्युतिम |
1
[nārada] sūto 'yaṃ mātalir nāma śakrasya dayitaḥ suhṛt śuciḥ śīlaguṇopetas tejasvī vīryavān balī 2 śakrasyāyaṃ sakhā caiva mantrī sārathir eva ca alpāntaraprabhāvaś ca vāsavena raṇe raṇe 3 ayaṃ harisahasreṇa yuktaṃ jaitraṃ rathottamam devāsureṣu yuddheṣu manasaiva niyacchati 4 anena vijitān aśvair dorbhyāṃ jayati vāsavaḥ anena prahṛte pūrvaṃ balabhit praharaty uta 5 asya kanyā varārohā rūpeṇāsadṛśī bhuvi sattvaśīlaguṇopetā guṇakeśīti viśrutā 6 tasyāsya yatnāc caratas trailokyam amara dyute sumukho bhavataḥ pautro rocate duhituḥ patiḥ 7 yadi te rocate saumya bhujagottama māciram kriyatām āryaka kṣipraṃ buddhiḥ kanyā pratigrahe 8 yathā viṣṇukule lakṣmīr yathā svāhā vibhāvasoḥ kule tava tathaivāstu guṇakeśī pratīcchatu 9 pautrasyārthe bhavāṃs tasmād guṇakeśī pratīcchatu sadṛśīṃ pratirūpasya vāsavasya śacīm iva 10 pitṛhīnam api hy enaṃ guṇato varayāmahe bahumānāc ca bhavatas tathaivairāvatasya ca sumukhasya guṇaiś caiva śīlaśaucadamādibhiḥ 11 abhigamya svayaṃ kanyām ayaṃ dātuṃ samudyataḥ mālates tasya saṃmānaṃ kartum arho bhavān api 12 sa tu dīnaḥ prahṛṣṭaś ca prāha nāradam āryakaḥ vriyamāṇe tathā pautre putre ca nidhanaṃ gate 13 na me naitad bahumataṃ devarṣe vacanaṃ tava sakhā śakrasya saṃyuktaḥ kasyāyaṃ nepsito bhavet 14 kāraṇasya tu daurbalyāc cintayāmi mahāmune bhakṣito vainateyena duḥkhārtās tena vai vayam 15 punar eva ca tenoktaṃ vainateyena gacchatā māsenānyena sumukhaṃ bhakṣayiṣya iti prabho 16 dhruvaṃ tathā tad bhavitā jānīmas tasya niścayam tena harṣaḥ pranaṣṭo me suparṇavacanena vai 17 mātalis tv abravīd enaṃ buddhir atra kṛtā mayā jāmātṛbhāvena vṛtaḥ sumukhas tava putrajaḥ 18 so 'yaṃ mayā ca sahito nāradena ca pannagaḥ trilokeśaṃ surapatiṃ gatvā paśyatu vāsavam 19 śeṣeṇaivāsya kāryeṇa prajñāsyāmy aham āyuṣaḥ suparṇasya vighāte ca prayatiṣyāmi sattama 20 sumukhaś ca mayā sārdhaṃ deveśam abhigacchatu kāryasaṃsādhanārthāya svasti te 'stu bhujaṃgama 21 tatas te sumukhaṃ gṛhya sarva eva mahaujasaḥ dadṛśuḥ śakram āsīnaṃ devarājaṃ mahādyutim 22 saṃgatyā tatra bhagavān viṣṇur āsīc caturbhujaḥ tatas tat sarvam ācakhyau nārado mātaliṃ prati 23 tataḥ puraṃdaraṃ viṣṇur uvāca bhuvaneśvaram amṛtaṃ dīyatām asmai kriyatām amaraiḥ samaḥ 24 mātalir nāradaś caiva sumukhaś caiva vāsava labhantāṃ bhavataḥ kāmāt kāmam etaṃ yathepsitam 25 puraṃdaro 'tha saṃcintya vainateya parākramam viṣṇum evābravīd enaṃ bhavān eva dadātv iti 26 īśas tvam asi lokānāṃ carāṇām acarāś ca ye tvayā dattam adattaṃ kaḥ kartum utsahate vibho 27 prādāc chakras tatas tasmai pannagāyāyur uttamam na tv enam amṛtaprāśaṃ cakāra balavṛtrahā 28 labdhvā varaṃ tu sumukhaḥ sumukhaḥ saṃbabhūva ha kṛtadāro yathākāmaṃ jagāma ca gṛhān prati 29 nāradas tv āryakaś caiva kṛtakāryau mudā yutau pratijagmatur abhyarcya devarājaṃ mahādyutim |
The Mahabharata in Sanskrit
Book 5
Chapter 103
|
1
[कण्व] गरुडस तत तु शुश्राव यथावृत्तं महाबलः आयुः परदानं शक्रेण कृतं नागस्य भारत 2 पक्षवातेन महता रुद्ध्वा तरिभुवनं खगः सुपर्णः परमक्रुद्धॊ वासवं समुपाद्रवत 3 भगवन किम अवज्ञानात कषुधां परति भये मम कामकार वरं दत्त्वा पुनश चलितवान असि 4 निसर्गात सर्वभूतानां सर्वभूतेश्वरेण मे आहारॊ विहितॊ धात्रा किमर्थं वार्यते तवया 5 वृतश चैष महानागः सथापितः समयश च मे अनेन च मया देव भर्तव्यः परसवॊ महान 6 एतस्मिंस तव अन्यथा भूते नान्यं हिंसितुम उत्सहे करीडसे कामकारेण देवराजयथेच्छकम 7 सॊ ऽहं पराणान विमॊक्ष्यामि तथा परिजनॊ मम ये च भृत्या मम गृहे परीतिमान भव वासव 8 एतच चैवाहम अर्हामि भूयश च बलवृत्रहन तरैलॊक्यस्येश्वरॊ यॊ ऽहं परभृत्यत्वम आगतः 9 तवयि तिष्ठति देवेश न विष्णुः कारणं मम तरैलॊक्या राजराज्यं हि तवयि वासव शाश्वतम 10 ममापि दक्षस्य सुता जननी कश्यपः पिता अहम अप्य उत्सहे लॊकान समस्तान वॊढुम अञ्जसा 11 असह्यं सर्वभूतानां ममापि विपुलं बलम मयापि सुमहत कर्मकृतं दैतेय विग्रहे 12 शरुतश्रीः शरुतसेनश च विवस्वान रॊचना मुखः परसभः कालकाक्षाश च मयापि दितिजा हताः 13 यत तु धवजस्थान गतॊ यत्नात परिचराम्य अहम वहामि चैवानुजं ते तेन माम अवमन्यसे 14 कॊ ऽनयॊ भारसहॊ हय अस्ति कॊ ऽनयॊ ऽसति बलवत्तरः मया यॊ ऽहं विशिष्टः सन वहामीमं सबान्धवम 15 अवज्ञाय तु यत ते ऽहं भॊजनाद वयपरॊपितः तेन मे गौरवं नष्टं तवत्तश चास्माच च वासव 16 अदित्यां य इमे जाता बलविक्रम शालिनः तवम एषां किल सर्वेषां विशेषाद बलवत्तरः 17 सॊ ऽहं पक्षैक देशेन वहामि तवां गतक्लमः विमृश तवं शनैस तात कॊ नव अत्र बलवान इति 18 तस्य तद वचनं शरुत्वा खगस्यॊदर्क दारुणम अक्षॊभ्यं कषॊभयंस तार्क्ष्यम उवाच रथचक्रभृत 19 गरुत्मन मन्यस आत्मानं बलवन्तं सुदुर्बलम अलम अस्मत समक्षं ते सतॊतुम आत्मानम अण्डज 20 तरैलॊक्यम अपि मे कृत्स्नम अशक्तं देहधारणे अहम एवात्मनात्मानं वहामि तवां च धारये 21 इमं तावन ममैकं तवं बाहुं सव्येतरं वह यद्य एनं धारयस्य एकं सफलं ते विकत्थितम 22 ततः स भगवांस तस्य सकन्धे बाहुं समासजत निपपात स भारार्तॊ विह्वलॊ नष्टचेतनः 23 यावान हि भारः कृत्स्नायाः पृथिव्याः पर्वतैः सह एकस्या देहशाखायास तावद भारम अमन्यत 24 न तव एनं पीडयाम आस बलेन बलवत्तरः ततॊ हि जीवितं तस्य न वयनीनशद अच्युतः 25 विपक्षः सरस्तकायश च विचेता विह्वलः खगः मुमॊच पत्राणि तदा गुरुभारप्रपीडितः 26 स विष्णुं शिरसा पक्षी परणम्य विनतासुतः विचेता विह्वलॊ दीनः किं चिद वचनम अब्रवीत 27 भगवँल लॊकसारस्य सदृशेन वपुष्मता भुजेन सवैरमुक्तेन निष्पिष्टॊ ऽसमि महीतले 28 कषन्तुम अर्हसि मे देव विह्वलस्याल्प चेतसः बलदाह विदग्धस्य पक्षिणॊ धवजवासिनः 29 न विज्ञातं बलं देव मया ते परमं विभॊ तेन मन्याम्य अहं वीर्यम आत्मनॊ ऽसदृशं परैः 30 ततश चक्रे स भगवान परसादं वै गरुत्मतः मैवं भूय इति सनेहात तदा चैनम उवाच ह 31 तथा तवम अपि गान्धारे यावत पाण्डुसुतान रणे नासादयसि तान वीरांस तावज जीवसि पुत्रक 32 भीमः परहरतां शरेष्ठॊ वायुपुत्रॊ महाबलः धनंजयश चेन्द्र सुतॊ न हन्यातां तु कं रणे 33 विष्णुर वायुश च शक्रश च धर्मस तौ चाश्विनाव उभौ एते देवास तवया केन हेतुना शक्यम ईक्षितुम 34 तद अलं ते विरॊधेन शमं गच्छ नृपात्मज वासुदेवेन तीर्थेन कुलं रक्षितुम अर्हसि 35 परत्यक्षॊ हय अस्य सर्वस्य नारदॊ ऽयं महातपाः माहात्म्यं यत तदा विष्णुर यॊ ऽयं चक्रगदाधरः 36 दुर्यॊधनस तु तच छरुत्वा निःश्वसन भृकुटी मुखः राधेयम अभिसंप्रेक्ष्य जहास सवनवत तदा 37 कदर्थी कृत्यतद वाक्यम ऋषेः कण्वस्य दुर्मतिः ऊरुं गजकराकारं ताडयन्न इदम अब्रवीत 38 यथैवेश्वर सृष्टॊ ऽसमि यद भावि या च मे गतिः तथा महर्षे वर्तामि किं परलापः करिष्यति |
1
[kaṇva] garuḍas tat tu śuśrāva yathāvṛttaṃ mahābalaḥ āyuḥ pradānaṃ śakreṇa kṛtaṃ nāgasya bhārata 2 pakṣavātena mahatā ruddhvā tribhuvanaṃ khagaḥ suparṇaḥ paramakruddho vāsavaṃ samupādravat 3 bhagavan kim avajñānāt kṣudhāṃ prati bhaye mama kāmakāra varaṃ dattvā punaś calitavān asi 4 nisargāt sarvabhūtānāṃ sarvabhūteśvareṇa me āhāro vihito dhātrā kimarthaṃ vāryate tvayā 5 vṛtaś caiṣa mahānāgaḥ sthāpitaḥ samayaś ca me anena ca mayā deva bhartavyaḥ prasavo mahān 6 etasmiṃs tv anyathā bhūte nānyaṃ hiṃsitum utsahe krīḍase kāmakāreṇa devarājayathecchakam 7 so 'haṃ prāṇān vimokṣyāmi tathā parijano mama ye ca bhṛtyā mama gṛhe prītimān bhava vāsava 8 etac caivāham arhāmi bhūyaś ca balavṛtrahan trailokyasyeśvaro yo 'haṃ parabhṛtyatvam āgataḥ 9 tvayi tiṣṭhati deveśa na viṣṇuḥ kāraṇaṃ mama trailokyā rājarājyaṃ hi tvayi vāsava śāśvatam 10 mamāpi dakṣasya sutā jananī kaśyapaḥ pitā aham apy utsahe lokān samastān voḍhum añjasā 11 asahyaṃ sarvabhūtānāṃ mamāpi vipulaṃ balam mayāpi sumahat karmakṛtaṃ daiteya vigrahe 12 śrutaśrīḥ śrutasenaś ca vivasvān rocanā mukhaḥ prasabhaḥ kālakākṣāś ca mayāpi ditijā hatāḥ 13 yat tu dhvajasthāna gato yatnāt paricarāmy aham vahāmi caivānujaṃ te tena mām avamanyase 14 ko 'nyo bhārasaho hy asti ko 'nyo 'sti balavattaraḥ mayā yo 'haṃ viśiṣṭaḥ san vahāmīmaṃ sabāndhavam 15 avajñāya tu yat te 'haṃ bhojanād vyaparopitaḥ tena me gauravaṃ naṣṭaṃ tvattaś cāsmāc ca vāsava 16 adityāṃ ya ime jātā balavikrama śālinaḥ tvam eṣāṃ kila sarveṣāṃ viśeṣād balavattaraḥ 17 so 'haṃ pakṣaika deśena vahāmi tvāṃ gataklamaḥ vimṛśa tvaṃ śanais tāta ko nv atra balavān iti 18 tasya tad vacanaṃ śrutvā khagasyodarka dāruṇam akṣobhyaṃ kṣobhayaṃs tārkṣyam uvāca rathacakrabhṛt 19 garutman manyasa ātmānaṃ balavantaṃ sudurbalam alam asmat samakṣaṃ te stotum ātmānam aṇḍaja 20 trailokyam api me kṛtsnam aśaktaṃ dehadhāraṇe aham evātmanātmānaṃ vahāmi tvāṃ ca dhāraye 21 imaṃ tāvan mamaikaṃ tvaṃ bāhuṃ savyetaraṃ vaha yady enaṃ dhārayasy ekaṃ saphalaṃ te vikatthitam 22 tataḥ sa bhagavāṃs tasya skandhe bāhuṃ samāsajat nipapāta sa bhārārto vihvalo naṣṭacetanaḥ 23 yāvān hi bhāraḥ kṛtsnāyāḥ pṛthivyāḥ parvataiḥ saha ekasyā dehaśākhāyās tāvad bhāram amanyata 24 na tv enaṃ pīḍayām āsa balena balavattaraḥ tato hi jīvitaṃ tasya na vyanīnaśad acyutaḥ 25 vipakṣaḥ srastakāyaś ca vicetā vihvalaḥ khagaḥ mumoca patrāṇi tadā gurubhāraprapīḍitaḥ 26 sa viṣṇuṃ śirasā pakṣī praṇamya vinatāsutaḥ vicetā vihvalo dīnaḥ kiṃ cid vacanam abravīt 27 bhagavaṁl lokasārasya sadṛśena vapuṣmatā bhujena svairamuktena niṣpiṣṭo 'smi mahītale 28 kṣantum arhasi me deva vihvalasyālpa cetasaḥ baladāha vidagdhasya pakṣiṇo dhvajavāsinaḥ 29 na vijñātaṃ balaṃ deva mayā te paramaṃ vibho tena manyāmy ahaṃ vīryam ātmano 'sadṛśaṃ paraiḥ 30 tataś cakre sa bhagavān prasādaṃ vai garutmataḥ maivaṃ bhūya iti snehāt tadā cainam uvāca ha 31 tathā tvam api gāndhāre yāvat pāṇḍusutān raṇe nāsādayasi tān vīrāṃs tāvaj jīvasi putraka 32 bhīmaḥ praharatāṃ śreṣṭho vāyuputro mahābalaḥ dhanaṃjayaś cendra suto na hanyātāṃ tu kaṃ raṇe 33 viṣṇur vāyuś ca śakraś ca dharmas tau cāśvināv ubhau ete devās tvayā kena hetunā śakyam īkṣitum 34 tad alaṃ te virodhena śamaṃ gaccha nṛpātmaja vāsudevena tīrthena kulaṃ rakṣitum arhasi 35 pratyakṣo hy asya sarvasya nārado 'yaṃ mahātapāḥ māhātmyaṃ yat tadā viṣṇur yo 'yaṃ cakragadādharaḥ 36 duryodhanas tu tac chrutvā niḥśvasan bhṛkuṭī mukhaḥ rādheyam abhisaṃprekṣya jahāsa svanavat tadā 37 kadarthī kṛtyatad vākyam ṛṣeḥ kaṇvasya durmatiḥ ūruṃ gajakarākāraṃ tāḍayann idam abravīt 38 yathaiveśvara sṛṣṭo 'smi yad bhāvi yā ca me gatiḥ tathā maharṣe vartāmi kiṃ pralāpaḥ kariṣyati |
The Mahabharata in Sanskrit
Book 5
Chapter 104
|
1
[ज] अनर्थे जातनिर्बन्धं परार्थे लॊभमॊहितम अनार्यकेष्व अभिरतं मरणे कृतनिश्चयम 2 जञातीनां दुःखकर्तारं बन्धूनां शॊकवर्धनम सुहृदां कलेशदातारं दविषतां हर्षवर्धनम 3 कथं नैनं विमार्गस्थं वारयन्तीह बान्धवाः सौहृदाद वा सुहृत्स्निग्धॊ भगवान वा पितामहः 4 उक्तं भगवता वाक्यम उक्तं भीष्मेण यत कषमम उक्तं बहुविधं चैव नारदेनापि तच छृणु 5 दुर्लभॊ वै सुहृच छरॊता दुर्लभश च हितः सुहृत तिष्ठते हि सुहृद यत्र न बन्धुस तत्र तिष्ठति 6 शरॊतव्यम अपि पश्यामि सुहृदां कुरुनन्दन न कर्तव्यश च निर्बन्धॊ निर्बन्धॊ हि सुदारुणः 7 अत्राप्य उदाहरन्तीमम इतिहासं पुरातनम यथा निर्बन्धतः पराप्तॊ गालवेन पराजयः 8 विश्वामित्रं तपस्यन्तं धर्मॊ जिज्ञासया पुरा अभ्यगच्छत सवयं भूत्वा वसिष्ठॊ भगवान ऋषिः 9 सप्तर्षीणाम अन्यतमं वेषम अस्थाय भारत बुभुक्षुः कषुधितॊ राजन्न आश्रमं कौशिकस्य ह 10 विश्वामित्रॊ ऽथ संभ्रान्तः शरपयाम आस वै चरु परमान्नस्य यत्नेन न च स परत्यपालयत 11 अन्नं तेन यदा भुक्तम अन्यैर दत्तं तपस्विभिः अथ गृह्यान नमत्य उष्णं विश्वामित्रॊ ऽभयुपागमत 12 भुक्तं मे तिष्ठ तावत तवम इत्य उक्त्वा भगवान ययौ विश्वामित्रस ततॊ राजन सथित एव महाद्युतिः 13 भक्तं परगृह्य मूर्ध्ना तद बाहुभ्यां पार्श्वतॊ ऽगमत सथितः सथाणुर इवाभ्याशे निश्चेष्टॊ मारुताशनः 14 तस्य शुश्रूषणे यत्नम अकरॊद गालवॊ मुनिः गौरवाद बहुमानाच च हार्देन परियकाम्यया 15 अथ वर्षशते पूर्णे धर्मः पुनर उपागमत वासिष्ठं वेषम आस्थाय कौशिकं भॊजनेप्सया 16 स दृष्ट्वा शिरसा भक्तं धरियमाणं महर्षिणा तिष्ठता वायुभक्षेण विश्वामित्रेण धीमता 17 परतिगृह्य ततॊ धर्मस तथैवॊष्णं तथा नवम भुक्त्वा परीतॊ ऽसमि विप्रर्षे तम उक्त्वा स मुनिर गतः 18 कषत्रभावाद अपगतॊ विश्वामित्रस तदाभवत धर्मस्य वचनात परीतॊ विश्वामित्रस तदाभवत 19 विश्वामित्रस तु शिष्यस्य गालवस्य तपस्विनः शुश्रूषया च भक्त्या च परीतिमान इत्य उवाच तम अनुज्ञातॊ मया वत्स यथेष्टं गच्छ गालव 20 इत्य उक्तः परत्युवाचेदं गालवॊ मुनिसत्तमम परीतॊ मधुरया वाचा विश्वामित्रं महाद्युतिम 21 दक्षिणां कां परयच्छामि भवते गुरु कर्मणि दक्षिणाभिर उपेतं हि कर्म सिध्यति मानवम 22 दक्षिणानां हि सृष्टानाम अपवर्गेण भुज्यते सवर्गे करतुफलं सद्भिर दक्षिणा शान्तिर उच्यते किम आहरामि गुर्वर्थं बरवीतु भगवान इति 23 जानमानस तु भगवाञ जितः शुश्रूषणेन च विश्वामित्रस तम असकृद गच्छ गच्छेत्य अचॊदयत 24 असकृद गच्छ गच्छेति विश्वामित्रेण भाषितः किं ददानीति बहुशॊ गालवः परत्यभाषत 25 निर्बन्धतस तु बहुशॊ गालवस्य तपस्विनः किं चिद आगतसंरम्भॊ विश्वामित्रॊ ऽबरवीद इदम 26 एकतः शयाम कर्णानां शतान्य अष्टौ ददस्व मे हयानां चन्द्र शुभ्राणां गच्छ गालव माचिरम |
1
[j] anarthe jātanirbandhaṃ parārthe lobhamohitam anāryakeṣv abhirataṃ maraṇe kṛtaniścayam 2 jñātīnāṃ duḥkhakartāraṃ bandhūnāṃ śokavardhanam suhṛdāṃ kleśadātāraṃ dviṣatāṃ harṣavardhanam 3 kathaṃ nainaṃ vimārgasthaṃ vārayantīha bāndhavāḥ sauhṛdād vā suhṛtsnigdho bhagavān vā pitāmahaḥ 4 uktaṃ bhagavatā vākyam uktaṃ bhīṣmeṇa yat kṣamam uktaṃ bahuvidhaṃ caiva nāradenāpi tac chṛṇu 5 durlabho vai suhṛc chrotā durlabhaś ca hitaḥ suhṛt tiṣṭhate hi suhṛd yatra na bandhus tatra tiṣṭhati 6 śrotavyam api paśyāmi suhṛdāṃ kurunandana na kartavyaś ca nirbandho nirbandho hi sudāruṇaḥ 7 atrāpy udāharantīmam itihāsaṃ purātanam yathā nirbandhataḥ prāpto gālavena parājayaḥ 8 viśvāmitraṃ tapasyantaṃ dharmo jijñāsayā purā abhyagacchat svayaṃ bhūtvā vasiṣṭho bhagavān ṛṣiḥ 9 saptarṣīṇām anyatamaṃ veṣam asthāya bhārata bubhukṣuḥ kṣudhito rājann āśramaṃ kauśikasya ha 10 viśvāmitro 'tha saṃbhrāntaḥ śrapayām āsa vai caru paramānnasya yatnena na ca sa pratyapālayat 11 annaṃ tena yadā bhuktam anyair dattaṃ tapasvibhiḥ atha gṛhyān namaty uṣṇaṃ viśvāmitro 'bhyupāgamat 12 bhuktaṃ me tiṣṭha tāvat tvam ity uktvā bhagavān yayau viśvāmitras tato rājan sthita eva mahādyutiḥ 13 bhaktaṃ pragṛhya mūrdhnā tad bāhubhyāṃ pārśvato 'gamat sthitaḥ sthāṇur ivābhyāśe niśceṣṭo mārutāśanaḥ 14 tasya śuśrūṣaṇe yatnam akarod gālavo muniḥ gauravād bahumānāc ca hārdena priyakāmyayā 15 atha varṣaśate pūrṇe dharmaḥ punar upāgamat vāsiṣṭhaṃ veṣam āsthāya kauśikaṃ bhojanepsayā 16 sa dṛṣṭvā śirasā bhaktaṃ dhriyamāṇaṃ maharṣiṇā tiṣṭhatā vāyubhakṣeṇa viśvāmitreṇa dhīmatā 17 pratigṛhya tato dharmas tathaivoṣṇaṃ tathā navam bhuktvā prīto 'smi viprarṣe tam uktvā sa munir gataḥ 18 kṣatrabhāvād apagato viśvāmitras tadābhavat dharmasya vacanāt prīto viśvāmitras tadābhavat 19 viśvāmitras tu śiṣyasya gālavasya tapasvinaḥ śuśrūṣayā ca bhaktyā ca prītimān ity uvāca tam anujñāto mayā vatsa yatheṣṭaṃ gaccha gālava 20 ity uktaḥ pratyuvācedaṃ gālavo munisattamam prīto madhurayā vācā viśvāmitraṃ mahādyutim 21 dakṣiṇāṃ kāṃ prayacchāmi bhavate guru karmaṇi dakṣiṇābhir upetaṃ hi karma sidhyati mānavam 22 dakṣiṇānāṃ hi sṛṣṭānām apavargeṇa bhujyate svarge kratuphalaṃ sadbhir dakṣiṇā śāntir ucyate kim āharāmi gurvarthaṃ bravītu bhagavān iti 23 jānamānas tu bhagavāñ jitaḥ śuśrūṣaṇena ca viśvāmitras tam asakṛd gaccha gacchety acodayat 24 asakṛd gaccha gaccheti viśvāmitreṇa bhāṣitaḥ kiṃ dadānīti bahuśo gālavaḥ pratyabhāṣata 25 nirbandhatas tu bahuśo gālavasya tapasvinaḥ kiṃ cid āgatasaṃrambho viśvāmitro 'bravīd idam 26 ekataḥ śyāma karṇānāṃ śatāny aṣṭau dadasva me hayānāṃ candra śubhrāṇāṃ gaccha gālava māciram |
The Mahabharata in Sanskrit
Book 5
Chapter 105
|
1
[न] एवम उक्तस तदा तेन विश्वामित्रेण धीमता नास्ते न शेते नाहारं कुरुते गालवस तदा 2 तवग अस्थि भूतॊ हरिणश चिन्ताशॊकपरायणः शॊचमानॊ ऽतिमात्रं स दह्यमानश च मन्युना 3 कुतः पुष्टानि मित्राणि कुतॊ ऽरथाः संचयः कुतः हयानां चन्द्र शुभ्राणां शतान्य अष्टौ कुतॊ मम 4 कुतॊ मे भॊजनश्रद्धा सुखश्रद्धा कुतश च मे शरद्धा मे जीवितस्यापि छिन्ना किं जीवितेन मे 5 अहं पारं समुद्रस्य पृथिव्या वा परं परात गत्वात्मानं विमुञ्चामि किं फलं जीवितेन मे 6 अधनस्याकृतार्थस्य तयक्तस्य विविधैः फलैः ऋणं धारयमाणस्य कुतः सुखम अनीहया 7 सुहृदां हि धनं भुक्त्वा कृत्वा परणयम ईप्सितम परतिकर्तुम अशक्तस्य जीवितान मरणं वरम 8 परतिश्रुत्य करिष्येति कर्तव्यं तद अकुर्वतः मिथ्यावचनदग्धस्य इष्टापूर्तं परणश्यति 9 न रूपम अनृतस्यास्ति नानृतस्यास्ति संततिः नानृतस्याधिपत्यं च कुत एव गतिः शुभा 10 कुतः कृतघ्नस्य यशः कुतः सथानं कुतः सुखम अश्रद्धेयः कृतघ्नॊ हि कृतघ्ने नास्ति निष्कृतिः 11 न जीवत्य अधनः पापः कुतः पापस्य तन्त्रणम पापॊ धरुवम अवाप्नॊति विनाशं नाशयन कृतम 12 सॊ ऽहं पापः कृतघ्नश च कृपणश चानृतॊ ऽपि च गुरॊर यः कृतकार्यः संस तत करॊमि न भाषितम सॊ ऽहं पराणान विमॊक्ष्यामि कृत्वा यत्नम अनुत्तमम 13 अर्थना च मया का चित कृतपूर्वा दिवौकसाम मानयन्ति च मां सर्वे तरिदशा यज्ञसंस्तरे 14 अहं तु विबुधश्रेष्ठं देवं तरिभुवनेश्वरम विष्णुं गच्छाम्य अहं कृष्णं गतिं गतिमतां वरम 15 भॊगा यस्मात परतिष्ठन्ते वयाप्य सर्वान सुरासुरान परयतॊ दरष्टुम इच्छामि महायॊगिनम अव्ययम 16 एवम उक्ते सखा तस्य गरुडॊ विनतात्मजः दर्शयाम आस तं पराह संहृष्टः परियकाम्यया 17 सुहृद भवान मम मतः सुहृदां च मतः सुहृत ईप्सितेनाभिलाषेण यॊक्तव्यॊ विभवे सति 18 विभवश चास्ति मे विप्र वासवावरजॊ दविज पूर्वम उक्तस तवदर्थं च कृतः कामश च तेन मे 19 स भवान एतु गच्छाव नयिष्ये तवां यथासुखम देशं पारं पृथिव्या वा गच्छ गालव माचिरम |
1
[n] evam uktas tadā tena viśvāmitreṇa dhīmatā nāste na śete nāhāraṃ kurute gālavas tadā 2 tvag asthi bhūto hariṇaś cintāśokaparāyaṇaḥ śocamāno 'timātraṃ sa dahyamānaś ca manyunā 3 kutaḥ puṣṭāni mitrāṇi kuto 'rthāḥ saṃcayaḥ kutaḥ hayānāṃ candra śubhrāṇāṃ śatāny aṣṭau kuto mama 4 kuto me bhojanaśraddhā sukhaśraddhā kutaś ca me śraddhā me jīvitasyāpi chinnā kiṃ jīvitena me 5 ahaṃ pāraṃ samudrasya pṛthivyā vā paraṃ parāt gatvātmānaṃ vimuñcāmi kiṃ phalaṃ jīvitena me 6 adhanasyākṛtārthasya tyaktasya vividhaiḥ phalaiḥ ṛṇaṃ dhārayamāṇasya kutaḥ sukham anīhayā 7 suhṛdāṃ hi dhanaṃ bhuktvā kṛtvā praṇayam īpsitam pratikartum aśaktasya jīvitān maraṇaṃ varam 8 pratiśrutya kariṣyeti kartavyaṃ tad akurvataḥ mithyāvacanadagdhasya iṣṭāpūrtaṃ praṇaśyati 9 na rūpam anṛtasyāsti nānṛtasyāsti saṃtatiḥ nānṛtasyādhipatyaṃ ca kuta eva gatiḥ śubhā 10 kutaḥ kṛtaghnasya yaśaḥ kutaḥ sthānaṃ kutaḥ sukham aśraddheyaḥ kṛtaghno hi kṛtaghne nāsti niṣkṛtiḥ 11 na jīvaty adhanaḥ pāpaḥ kutaḥ pāpasya tantraṇam pāpo dhruvam avāpnoti vināśaṃ nāśayan kṛtam 12 so 'haṃ pāpaḥ kṛtaghnaś ca kṛpaṇaś cānṛto 'pi ca guror yaḥ kṛtakāryaḥ saṃs tat karomi na bhāṣitam so 'haṃ prāṇān vimokṣyāmi kṛtvā yatnam anuttamam 13 arthanā ca mayā kā cit kṛtapūrvā divaukasām mānayanti ca māṃ sarve tridaśā yajñasaṃstare 14 ahaṃ tu vibudhaśreṣṭhaṃ devaṃ tribhuvaneśvaram viṣṇuṃ gacchāmy ahaṃ kṛṣṇaṃ gatiṃ gatimatāṃ varam 15 bhogā yasmāt pratiṣṭhante vyāpya sarvān surāsurān prayato draṣṭum icchāmi mahāyoginam avyayam 16 evam ukte sakhā tasya garuḍo vinatātmajaḥ darśayām āsa taṃ prāha saṃhṛṣṭaḥ priyakāmyayā 17 suhṛd bhavān mama mataḥ suhṛdāṃ ca mataḥ suhṛt īpsitenābhilāṣeṇa yoktavyo vibhave sati 18 vibhavaś cāsti me vipra vāsavāvarajo dvija pūrvam uktas tvadarthaṃ ca kṛtaḥ kāmaś ca tena me 19 sa bhavān etu gacchāva nayiṣye tvāṃ yathāsukham deśaṃ pāraṃ pṛthivyā vā gaccha gālava māciram |
The Mahabharata in Sanskrit
Book 5
Chapter 106
|
1
[सुपर्ण] अनुशिष्टॊ ऽसमि देवेन गालवाज्ञात यॊनिना बरूहि काम अनुसंयामि दरष्टुं परथमतॊ दिशम 2 पूर्वां वा दक्षिणां वाहम अथ वा पश्चिमां दिशम उत्तरां वा दविजश्रेष्ठ कुतॊ गच्छामि गालव 3 यस्याम उदयते पूर्वं सर्वलॊकप्रभावनः सविता यत्र संध्यायां साध्यानां वर्तते तपः 4 यस्यां पूर्वं मतिर जाता यया वयाप्तम इदं जगत चक्षुषी यत्र धर्मस्य यत्र चैष परतिष्ठितः 5 हुतं यतॊ मुखैर हव्यं सर्पते सर्वतॊदिशम एतद दवारं दविजश्रेष्ठ दिवसस्य तथाध्वनः 6 यत्र पूर्वं परसूता वै दाक्षायण्यः परजाः सत्रियः यस्यां दिशि परवृद्धाश च कश्यपस्यात्मसंभवाः 7 यतॊमूला सुराणां शरीर यत्र शक्रॊ ऽभयषिच्यता सुरराज्येन विप्रर्षे देवैश चात्र तपश चितम 8 एतस्मात कारणाद बरह्मन पूर्वेत्य एषा दुग उच्यते यस्मात पूर्वतरे काले पूर्वम एषावृता सुरैः 9 अत एव च पूर्वेषां पूर्वाम आशाम अवेक्षताम पूर्वकार्याणि कार्याणि दैवानि सुखम ईप्सता 10 अत्र वेदाञ जगौ पूर्वं भगवाँल लॊकभावनः अत्रैवॊक्ता सवित्रासीत सावित्री बरह्मवादिषु 11 अत्र दत्तानि सूर्येण यजूंषि दविजसत्तम अत्र लब्धवरैः सॊमः सुरैः करतुषु पीयते 12 अत्र तृप्ता हुतवहाः सवां यॊनिम उपभुञ्जते अत्र पातालम आश्रित्य वरुणः शरियम आप च 13 अत्र पूर्वं वसिष्ठस्य पौराणस्य दविजर्षभ सूतिश चैव परतिष्ठा च निधनं च परकाशते 14 ओंकारस्यात्र जायन्ते सूतयॊ दशतीर दश पिबन्ति मुनयॊ यत्र हविर्धाने सम सॊमपाः 15 परॊक्षिता यत्र बहवॊ वराहाद्या मृगा वने शक्रेण यत्र भागार्थे दैवतेषु परकल्पिताः 16 अत्राहिताः कृतघ्नाश च मानुषाश चासुराश च ये उदयंस तान हि सर्वान वै करॊधाद धन्ति विभावसुः 17 एतद दवारं तरिलॊकस्य सवर्गस्य च मुखस्य च एष पूर्वॊ दिशा भागॊ विशावैनं यदीच्छसि 18 परियं कार्यं हि मे तस्य यस्यास्मि वचने सथितः बरूहि गालव यास्यामि शृणु चाप्य अपरां दिशम |
1
[suparṇa] anuśiṣṭo 'smi devena gālavājñāta yoninā brūhi kām anusaṃyāmi draṣṭuṃ prathamato diśam 2 pūrvāṃ vā dakṣiṇāṃ vāham atha vā paścimāṃ diśam uttarāṃ vā dvijaśreṣṭha kuto gacchāmi gālava 3 yasyām udayate pūrvaṃ sarvalokaprabhāvanaḥ savitā yatra saṃdhyāyāṃ sādhyānāṃ vartate tapaḥ 4 yasyāṃ pūrvaṃ matir jātā yayā vyāptam idaṃ jagat cakṣuṣī yatra dharmasya yatra caiṣa pratiṣṭhitaḥ 5 hutaṃ yato mukhair havyaṃ sarpate sarvatodiśam etad dvāraṃ dvijaśreṣṭha divasasya tathādhvanaḥ 6 yatra pūrvaṃ prasūtā vai dākṣāyaṇyaḥ prajāḥ striyaḥ yasyāṃ diśi pravṛddhāś ca kaśyapasyātmasaṃbhavāḥ 7 yatomūlā surāṇāṃ śrīr yatra śakro 'bhyaṣicyatā surarājyena viprarṣe devaiś cātra tapaś citam 8 etasmāt kāraṇād brahman pūrvety eṣā dug ucyate yasmāt pūrvatare kāle pūrvam eṣāvṛtā suraiḥ 9 ata eva ca pūrveṣāṃ pūrvām āśām avekṣatām pūrvakāryāṇi kāryāṇi daivāni sukham īpsatā 10 atra vedāñ jagau pūrvaṃ bhagavāṁl lokabhāvanaḥ atraivoktā savitrāsīt sāvitrī brahmavādiṣu 11 atra dattāni sūryeṇa yajūṃṣi dvijasattama atra labdhavaraiḥ somaḥ suraiḥ kratuṣu pīyate 12 atra tṛptā hutavahāḥ svāṃ yonim upabhuñjate atra pātālam āśritya varuṇaḥ śriyam āpa ca 13 atra pūrvaṃ vasiṣṭhasya paurāṇasya dvijarṣabha sūtiś caiva pratiṣṭhā ca nidhanaṃ ca prakāśate 14 oṃkārasyātra jāyante sūtayo daśatīr daśa pibanti munayo yatra havirdhāne sma somapāḥ 15 prokṣitā yatra bahavo varāhādyā mṛgā vane śakreṇa yatra bhāgārthe daivateṣu prakalpitāḥ 16 atrāhitāḥ kṛtaghnāś ca mānuṣāś cāsurāś ca ye udayaṃs tān hi sarvān vai krodhād dhanti vibhāvasuḥ 17 etad dvāraṃ trilokasya svargasya ca mukhasya ca eṣa pūrvo diśā bhāgo viśāvainaṃ yadīcchasi 18 priyaṃ kāryaṃ hi me tasya yasyāsmi vacane sthitaḥ brūhi gālava yāsyāmi śṛṇu cāpy aparāṃ diśam |
The Mahabharata in Sanskrit
Book 5
Chapter 107
|
1
[सुपर्ण] इयं विवस्वता पूर्वं शरौतेन विधिना किल गुरवे दक्षिणा दत्ता दक्षिणेत्य उच्यते ऽथ दिक 2 अत्र लॊकत्रयस्यास्य पितृपक्षः परतिष्ठितः अत्रॊष्मपानां देवानां निवासः शरूयते दविज 3 अत्र विश्वे सदा देवाः पितृभिः सार्धम आसते इज्यमानाः सम लॊकेषु संप्राप्तास तुल्यभागताम 4 एतद दवितीयं धर्मस्य दवारम आचक्षते दविज तरुटिशॊ लवशश चात्र गण्यते कालनिश्चयः 5 अत्र देवर्षयॊ नित्यं पितृलॊकर्षयस तथा तथा राजर्षयः सर्वे निवसन्ति गतव्यथाः 6 अत्र धर्मश च सत्यं च कर्म चात्र निशाम्यते गतिर एषा दविजश्रेष्ठ कर्मणात्मावसादिनः 7 एषा दिक सा दविजश्रेष्ठ यां सर्वः परतिपद्यते वृता तव अनवबॊधेन सुखं तेन न गम्यते 8 नैरृतानां सहस्राणि बहून्य अत्र दविजर्षभ सृष्टानि परतिकूलानि दरष्टव्यान्य अकृतात्मभिः 9 अत्र मन्दरकुञ्जेषु विप्रर्षिसदनेषु च गन्धर्वा गान्ति गाथा वै चित्तबुद्धिहरा दविज 10 अत्र सामानि गाथाभिः शरुत्वा गीतानि रैवतः गतदारॊ गतामात्यॊ गतराज्यॊ वनं गतः 11 अत्र सावर्णिना चैव यवक्रीतात्मजेन च मर्यादा सथापिता बरह्मन यां सूर्यॊ नातिवर्तते 12 अत्र राक्षसराजेन पौलस्थ्येन महात्मना रावणेन तपश चीर्त्वा सुरेभ्यॊ ऽमरता वृता 13 अत्र वृत्तेन वृत्रॊ ऽपि शक्रशत्रुत्वम ईयिवान अत्र सर्वासवः पराप्ताः पुनर गच्छन्ति पञ्चधा 14 अत्र दुष्कृतकर्माणॊ नराः पच्यन्ति गालव अत्र वैतरणी नाम नदी वितरणैर वृता अत्र गत्वा सुखस्यान्तं दुःखस्यान्तं परपद्यते 15 अत्रावृत्तॊ दिनकरः कषरते सुरसं पयः काष्ठां चासाद्य धानिष्ठां हिमम उत्सृजते पुनः 16 अत्राहं गालव पुरा कषुधार्तः परिचिन्तयन लब्धवान युध्यमानौ दवौ बृहन्तौ गल कच्छपौ 17 अत्र शक्रधनुर नाम सूर्याज जातॊ महान ऋषिः विदुर यं कपिलं देवं येनात्ताः सगरात्मजाः 18 अत्र सिद्धाः शिवा नाम बराह्मणा वेदपारगाः अधीत्य सखिलान वेदान आलभन्ते यमक्षयम 19 अत्र भॊगवती नाम पुरी वासुकिपालिता तक्षकेण च नागेन तथैवैरावतेन च 20 अत्र निर्याणकालेषु तमः संप्राप्यते महत अभेद्यं भास्करेणापि सवयं वा कृष्णवर्त्मना 21 एष तस्यापि ते मार्गः परितापस्य गालव बरूहि मे यदि गन्तव्यं परतीचीं शृणु वा मम |
1
[suparṇa] iyaṃ vivasvatā pūrvaṃ śrautena vidhinā kila gurave dakṣiṇā dattā dakṣiṇety ucyate 'tha dik 2 atra lokatrayasyāsya pitṛpakṣaḥ pratiṣṭhitaḥ atroṣmapānāṃ devānāṃ nivāsaḥ śrūyate dvija 3 atra viśve sadā devāḥ pitṛbhiḥ sārdham āsate ijyamānāḥ sma lokeṣu saṃprāptās tulyabhāgatām 4 etad dvitīyaṃ dharmasya dvāram ācakṣate dvija truṭiśo lavaśaś cātra gaṇyate kālaniścayaḥ 5 atra devarṣayo nityaṃ pitṛlokarṣayas tathā tathā rājarṣayaḥ sarve nivasanti gatavyathāḥ 6 atra dharmaś ca satyaṃ ca karma cātra niśāmyate gatir eṣā dvijaśreṣṭha karmaṇātmāvasādinaḥ 7 eṣā dik sā dvijaśreṣṭha yāṃ sarvaḥ pratipadyate vṛtā tv anavabodhena sukhaṃ tena na gamyate 8 nairṛtānāṃ sahasrāṇi bahūny atra dvijarṣabha sṛṣṭāni pratikūlāni draṣṭavyāny akṛtātmabhiḥ 9 atra mandarakuñjeṣu viprarṣisadaneṣu ca gandharvā gānti gāthā vai cittabuddhiharā dvija 10 atra sāmāni gāthābhiḥ śrutvā gītāni raivataḥ gatadāro gatāmātyo gatarājyo vanaṃ gataḥ 11 atra sāvarṇinā caiva yavakrītātmajena ca maryādā sthāpitā brahman yāṃ sūryo nātivartate 12 atra rākṣasarājena paulasthyena mahātmanā rāvaṇena tapaś cīrtvā surebhyo 'maratā vṛtā 13 atra vṛttena vṛtro 'pi śakraśatrutvam īyivān atra sarvāsavaḥ prāptāḥ punar gacchanti pañcadhā 14 atra duṣkṛtakarmāṇo narāḥ pacyanti gālava atra vaitaraṇī nāma nadī vitaraṇair vṛtā atra gatvā sukhasyāntaṃ duḥkhasyāntaṃ prapadyate 15 atrāvṛtto dinakaraḥ kṣarate surasaṃ payaḥ kāṣṭhāṃ cāsādya dhāniṣṭhāṃ himam utsṛjate punaḥ 16 atrāhaṃ gālava purā kṣudhārtaḥ paricintayan labdhavān yudhyamānau dvau bṛhantau gala kacchapau 17 atra śakradhanur nāma sūryāj jāto mahān ṛṣiḥ vidur yaṃ kapilaṃ devaṃ yenāttāḥ sagarātmajāḥ 18 atra siddhāḥ śivā nāma brāhmaṇā vedapāragāḥ adhītya sakhilān vedān ālabhante yamakṣayam 19 atra bhogavatī nāma purī vāsukipālitā takṣakeṇa ca nāgena tathaivairāvatena ca 20 atra niryāṇakāleṣu tamaḥ saṃprāpyate mahat abhedyaṃ bhāskareṇāpi svayaṃ vā kṛṣṇavartmanā 21 eṣa tasyāpi te mārgaḥ paritāpasya gālava brūhi me yadi gantavyaṃ pratīcīṃ śṛṇu vā mama |
The Mahabharata in Sanskrit
Book 5
Chapter 108
|
1
[सुपर्ण] इयं दिग दयिता राज्ञॊ वरुणस्य तु गॊपतेः सदा सलिलराजस्य परतिष्ठा चादिर एव च 2 अत्र पश्चाद अहः सूर्यॊ विसर्जयति भाः सवयम पश्चिमेत्य अभिविख्याता दिग इयं दविजसत्तम 3 यादसाम अत्र राज्येन सलिलस्य च गुप्तये कश्यपॊ भगवान देवॊ वरुणं समाभ्यषेचयत 4 अत्र पीत्वा समस्तान वै वरुणस्य रसांस तु षट जायते तरुणः सॊमः शुक्लस्यादौ तमिस्रहा 5 अत्र पश्चात कृता दैत्या वायुना संयतास तदा निःश्वसन्तॊ महानागैर अर्दिताः सुषुपुर दविज 6 अत्र सूर्यं परणयिनं परतिगृह्णाति पर्वतः अस्तॊ नाम यतः संध्या पश्चिमा परतिसर्पति 7 अतॊ रात्रिश च निद्रा च निर्गता दिवसक्षये जायते जीवलॊकस्य हर्तुम अर्धम इवायुषः 8 अत्र देवीं दितिं सुप्ताम आत्मप्रसव धारिणीम विगर्भाम अकरॊच छक्रॊ यत्र जातॊ मरुद्गणः 9 अत्र मूलं हिमवतॊ मन्दरं याति शाश्वतम अपि वर्षसहस्रेण न चास्यान्तॊ ऽधिगम्यते 10 अत्र काञ्चनशैलस्य काञ्चनाम्बुवहस्य च उदधेस तीरम आसाद्य सुरभिः कषरते पयः 11 अत्र मध्ये समुद्रस्य कबन्धः परतिदृश्यते सवर्भानॊः सूर्यकल्पस्य सॊमसूर्यौ जिघांसतः 12 सुवर्णशिरसॊ ऽपय अत्र हरिरॊम्णः परगायतः अदृश्यस्याप्रमेयस्य शरूयते विपुलॊ धवनिः 13 अत्र धवजवती नाम कुमारी हरि मेधसः आकाशे तिष्ठ तिष्ठेति तस्थौ सूर्यस्य शासनात 14 अत्र वायुस तथा वह्निर आपः खं चैव गालव आह्निकं चैव नैशं च दुःखस्पर्शं विमुञ्चति अतः परभृति सूर्यस्य तिर्यग आवर्तते गतिः 15 अत्र जयॊतींषि सर्वाणि विशन्त्य आदित्यमण्डलम अष्टाविंशति रात्रं च चङ्क्रम्य सह भानुना निष्पतन्ति पुनः सूर्यात सॊमसंयॊगयॊगतः 16 अत्र नित्यं सरवन्तीनां परभवः सागरॊदयः अत्र लॊकत्रयस्यापस तिष्ठन्ति वरुणाश्रयाः 17 अत्र पन्नगराजस्याप्य अनन्तस्य निवेशनम अनादि निधनस्यात्र विष्णॊः सथानम अनुत्तमम 18 अत्रानल सखस्यापि पवनस्य निवेशनम महर्षेः कश्यपस्यात्र मारीचस्य निवेशनम 19 एष ते पश्चिमॊ मार्गॊ दिग दवारेण परकीर्तितः बरूहि गालव गच्छावॊ बुद्धिः का दविजसत्तम |
1
[suparṇa] iyaṃ dig dayitā rājño varuṇasya tu gopateḥ sadā salilarājasya pratiṣṭhā cādir eva ca 2 atra paścād ahaḥ sūryo visarjayati bhāḥ svayam paścimety abhivikhyātā dig iyaṃ dvijasattama 3 yādasām atra rājyena salilasya ca guptaye kaśyapo bhagavān devo varuṇaṃ smābhyaṣecayat 4 atra pītvā samastān vai varuṇasya rasāṃs tu ṣaṭ jāyate taruṇaḥ somaḥ śuklasyādau tamisrahā 5 atra paścāt kṛtā daityā vāyunā saṃyatās tadā niḥśvasanto mahānāgair arditāḥ suṣupur dvija 6 atra sūryaṃ praṇayinaṃ pratigṛhṇāti parvataḥ asto nāma yataḥ saṃdhyā paścimā pratisarpati 7 ato rātriś ca nidrā ca nirgatā divasakṣaye jāyate jīvalokasya hartum ardham ivāyuṣaḥ 8 atra devīṃ ditiṃ suptām ātmaprasava dhāriṇīm vigarbhām akaroc chakro yatra jāto marudgaṇaḥ 9 atra mūlaṃ himavato mandaraṃ yāti śāśvatam api varṣasahasreṇa na cāsyānto 'dhigamyate 10 atra kāñcanaśailasya kāñcanāmbuvahasya ca udadhes tīram āsādya surabhiḥ kṣarate payaḥ 11 atra madhye samudrasya kabandhaḥ pratidṛśyate svarbhānoḥ sūryakalpasya somasūryau jighāṃsataḥ 12 suvarṇaśiraso 'py atra hariromṇaḥ pragāyataḥ adṛśyasyāprameyasya śrūyate vipulo dhvaniḥ 13 atra dhvajavatī nāma kumārī hari medhasaḥ ākāśe tiṣṭha tiṣṭheti tasthau sūryasya śāsanāt 14 atra vāyus tathā vahnir āpaḥ khaṃ caiva gālava āhnikaṃ caiva naiśaṃ ca duḥkhasparśaṃ vimuñcati ataḥ prabhṛti sūryasya tiryag āvartate gatiḥ 15 atra jyotīṃṣi sarvāṇi viśanty ādityamaṇḍalam aṣṭāviṃśati rātraṃ ca caṅkramya saha bhānunā niṣpatanti punaḥ sūryāt somasaṃyogayogataḥ 16 atra nityaṃ sravantīnāṃ prabhavaḥ sāgarodayaḥ atra lokatrayasyāpas tiṣṭhanti varuṇāśrayāḥ 17 atra pannagarājasyāpy anantasya niveśanam anādi nidhanasyātra viṣṇoḥ sthānam anuttamam 18 atrānala sakhasyāpi pavanasya niveśanam maharṣeḥ kaśyapasyātra mārīcasya niveśanam 19 eṣa te paścimo mārgo dig dvāreṇa prakīrtitaḥ brūhi gālava gacchāvo buddhiḥ kā dvijasattama |
The Mahabharata in Sanskrit
Book 5
Chapter 109
|
1
[सुपर्ण] यस्माद उत्तार्यते पापाद यस्मान निःश्रेयसॊ ऽशनुते तस्माद उत्तारण फलाद उत्तरेत्य उच्यते बुधैः 2 उत्तरस्य हिरण्यस्य परिवापस्य गालव मार्गः पश्चिमपूर्वाभ्यां दिग्भ्यां वै मध्यमः समृतः 3 अस्यां दिशि वरिष्ठायाम उत्तरायां दविजर्षभ नासौम्यॊ नाविधेयात्मा नाधर्म्यॊ वसते जनः 4 अत्र नारायणः कृष्णॊ जुष्णुश चैव नरॊत्तमः बदर्याम आश्रमपदे तथा बरह्मा च शाश्वतः 5 अत्र वै हिमवत्पृष्ठे नित्यम आस्ते महेश्वरः अत्र राज्येन विप्राणां चन्द्रमाश चाभ्यषिच्यत 6 अत्र गङ्गां महादेवः पतन्तीं गगनाच चयुताम परतिगृह्य ददौ लॊके मानुषे बरह्मवित्तम 7 अत्र देव्या तपस तप्तं महेश्वर परीप्सया अत्र कामश च रॊषश च शैलश चॊमा च संबभुः 8 अत्र राक्षस यक्षाणां गन्धर्वाणां च गालव आधिपत्येन कैलासे धनदॊ ऽपय अभिषेचितः 9 अत्र चैत्ररथं रम्यम अत्र वैखानसाश्रमः अत्र मन्दाकिनी चैव मन्दरश च दविजर्षभ 10 अत्र सौगन्धिक वनं नैरृतैर अभिरक्ष्यते शाड्वलं कदली सकन्धम अत्र संतानका नगाः 11 अत्र संयमनित्यानां सिद्धानां सवैरचारिणाम विमानान्य अनुरूपाणि कामभॊग्यानि गालव 12 अत्र ते ऋषयः सप्त देवी चारुन्धती तथा अत्र तिष्ठति वै सवातिर अत्रास्या उदयः समृतः 13 अत्र यज्ञं समारुह्य धरुवं सथाता पितामह जयॊतींषि चन्द्रसूर्यौ च परिवर्तन्ति नित्यशः 14 अत्र गायन्तिका दवारं रक्षन्ति दविजसत्तमाः धामा नाम महात्मानॊ मुनयः सत्यवादिनः 15 न तेषां जञायते सूतिर नाकृतिर न तपश चितम अप्रिवर्त सहस्राणि कामभॊग्यानि गालव 16 यथा यथा परविशति तस्मात परतरं नरः तथा तथा दविजश्रेष्ठ परविलीयति गालव 17 न तत केन चिद अन्येन गतपूर्वं दविजर्षभ ऋते नारायणं देवं नरं वा जिष्णुम अव्ययम 18 अत्र कैलासम इत्य उक्तं सथानम ऐलविलस्य तत अत्र विद्युत्प्रभा नाम जज्ञिरे ऽपसरसॊ दश 19 अत्र विष्णुपदं नाम करमता विष्णुना कृतम तरिलॊकविक्रमे बरह्मन्न उत्तरां दिशम आश्रितम 20 अत्र राज्ञा मरुत्तेन यज्ञेनेष्टं दविजॊत्तम उशीरबीजे विप्रर्षे यत्र जाम्बूनदं सरः 21 जीमूतस्यात्र विप्रर्षेर उपतस्थे महात्मनः साक्षाद धैमवतः पुण्यॊ विमलः कमलाकरः 22 बराह्मणेषु च यत्कृत्स्नं सवन्तं कृत्वा धनं महत वव्रे वनं महर्षिः स जैमूतं तद वनं ततः 23 अत्र नित्यं दिशापालाः सायंप्रातर दविजर्षभ कस्य कार्यं किम इति वै करिक्रॊशन्ति गालव 24 एवम एषा दविजश्रेष्ठगुणैर अन्यैर दिग उत्तरा उत्तरेति परिख्याता सर्वकर्मसु चॊत्तरा 25 एता विस्तरशस तात तव संकीर्तिता दिशः चतस्रः करमयॊगेन कामाशां गन्तुम इच्छसि 26 उद्यतॊ ऽहं दविजश्रेष्ठ तव दर्शयितुं दिशः पृथिवीं चाखिलां बरह्मंस तस्माद आरॊह मां दविज |
1
[suparṇa] yasmād uttāryate pāpād yasmān niḥśreyaso 'śnute tasmād uttāraṇa phalād uttarety ucyate budhaiḥ 2 uttarasya hiraṇyasya parivāpasya gālava mārgaḥ paścimapūrvābhyāṃ digbhyāṃ vai madhyamaḥ smṛtaḥ 3 asyāṃ diśi variṣṭhāyām uttarāyāṃ dvijarṣabha nāsaumyo nāvidheyātmā nādharmyo vasate janaḥ 4 atra nārāyaṇaḥ kṛṣṇo juṣṇuś caiva narottamaḥ badaryām āśramapade tathā brahmā ca śāśvataḥ 5 atra vai himavatpṛṣṭhe nityam āste maheśvaraḥ atra rājyena viprāṇāṃ candramāś cābhyaṣicyata 6 atra gaṅgāṃ mahādevaḥ patantīṃ gaganāc cyutām pratigṛhya dadau loke mānuṣe brahmavittama 7 atra devyā tapas taptaṃ maheśvara parīpsayā atra kāmaś ca roṣaś ca śailaś comā ca saṃbabhuḥ 8 atra rākṣasa yakṣāṇāṃ gandharvāṇāṃ ca gālava ādhipatyena kailāse dhanado 'py abhiṣecitaḥ 9 atra caitrarathaṃ ramyam atra vaikhānasāśramaḥ atra mandākinī caiva mandaraś ca dvijarṣabha 10 atra saugandhika vanaṃ nairṛtair abhirakṣyate śāḍvalaṃ kadalī skandham atra saṃtānakā nagāḥ 11 atra saṃyamanityānāṃ siddhānāṃ svairacāriṇām vimānāny anurūpāṇi kāmabhogyāni gālava 12 atra te ṛṣayaḥ sapta devī cārundhatī tathā atra tiṣṭhati vai svātir atrāsyā udayaḥ smṛtaḥ 13 atra yajñaṃ samāruhya dhruvaṃ sthātā pitāmaha jyotīṃṣi candrasūryau ca parivartanti nityaśaḥ 14 atra gāyantikā dvāraṃ rakṣanti dvijasattamāḥ dhāmā nāma mahātmāno munayaḥ satyavādinaḥ 15 na teṣāṃ jñāyate sūtir nākṛtir na tapaś citam aprivarta sahasrāṇi kāmabhogyāni gālava 16 yathā yathā praviśati tasmāt parataraṃ naraḥ tathā tathā dvijaśreṣṭha pravilīyati gālava 17 na tat kena cid anyena gatapūrvaṃ dvijarṣabha ṛte nārāyaṇaṃ devaṃ naraṃ vā jiṣṇum avyayam 18 atra kailāsam ity uktaṃ sthānam ailavilasya tat atra vidyutprabhā nāma jajñire 'psaraso daśa 19 atra viṣṇupadaṃ nāma kramatā viṣṇunā kṛtam trilokavikrame brahmann uttarāṃ diśam āśritam 20 atra rājñā maruttena yajñeneṣṭaṃ dvijottama uśīrabīje viprarṣe yatra jāmbūnadaṃ saraḥ 21 jīmūtasyātra viprarṣer upatasthe mahātmanaḥ sākṣād dhaimavataḥ puṇyo vimalaḥ kamalākaraḥ 22 brāhmaṇeṣu ca yatkṛtsnaṃ svantaṃ kṛtvā dhanaṃ mahat vavre vanaṃ maharṣiḥ sa jaimūtaṃ tad vanaṃ tataḥ 23 atra nityaṃ diśāpālāḥ sāyaṃprātar dvijarṣabha kasya kāryaṃ kim iti vai karikrośanti gālava 24 evam eṣā dvijaśreṣṭhaguṇair anyair dig uttarā uttareti parikhyātā sarvakarmasu cottarā 25 etā vistaraśas tāta tava saṃkīrtitā diśaḥ catasraḥ kramayogena kāmāśāṃ gantum icchasi 26 udyato 'haṃ dvijaśreṣṭha tava darśayituṃ diśaḥ pṛthivīṃ cākhilāṃ brahmaṃs tasmād āroha māṃ dvija |
The Mahabharata in Sanskrit
Book 5
Chapter 110
|
1
[गालव] गरुत्मन भुजगेन्द्रारे सुपर्णविनतात्मज नयमां तार्क्ष्य पूर्वेण यत्र धर्मस्य चक्षुषी 2 पूर्वम एतां दिशं गच्छ या पूर्वं परिकीर्तिता दैवतानां हि सांनिध्यम अत्र कीर्तितवान असि 3 अत्र सत्यं च धर्मश च तवया सम्यक परकीर्तितः इच्छेयं तु समागन्तुं समस्तैर दैवतैर अहम भूयश च तान सुरान दरष्टुम इच्छेयम अरुणानुज 4 तम आह विनता सूनुर आरॊहस्वेति वै दविजम आरुरॊहाथ स मुनिर गरुडं गालवस तदा 5 करममाणस्य ते रूपं दृश्यते पन्नगाशन भास्करस्येव पूर्वाह्णे सहस्रांशॊर विवस्वतः 6 पक्षवातप्रणुन्नानां वृक्षाणाम अनुगामिनाम परस्थितानाम इव समं पश्यामीह गतिं खग 7 ससागरवनाम उर्वीं सशैलवनकाननाम आकर्षन्न इव चाभासि पक्षवातेन खेचर 8 समीननागनक्रं च खम इवारॊप्यते जलम वायुना चैव महता पक्षवातेन चानिशम 9 तुल्यरूपाननान मत्स्यांस तिमिमत्स्यांस तिमिंगिलान नागांश च नरवक्त्रांश च पश्याम्य उन्मथितान इव 10 महार्णवस्य च रवैः शरॊत्रे मे बधिरी कृते न शृणॊमि न पश्यामि नात्मनॊ वेद्मि कारणम 11 शनैः साधु भवान यातु बरह्महत्याम अनुस्मरन न दृश्यते रविस तात न दिशॊ न च खं खग 12 तम एव तु पश्यामि शरीरं ते न लक्षये मणीव जात्यौ पश्यामि चक्षुषी ते ऽहम अण्डज 13 शरीरे तु न पश्यामि तव चैवात्मनश च ह पदे पदे तु पश्यामि सलिलाद अग्निम उत्थितम 14 स मे निर्वाप्य सहसा चक्षुषी शाम्यते पुनः तन निवर्त महान कालॊ गच्छतॊ विनतात्मज 15 न मे परयॊजनं किं चिद गमने पन्नगाशन संनिवर्त महावेगन वेगं विषहामि ते 16 गुरवे संश्रुतानीह शतान्य अष्टौ हि वाजिनाम एकतः शयाम कर्णानां शुभ्राणां चन्द्र वर्चसाम 17 तेषां चैवापवर्गाय मार्गं पश्यामि नाण्डज ततॊ ऽयं जीवितत्यागे दृष्टॊ मार्गॊ मयात्मनः 18 नैव मे ऽसति धनं किं चिन न धनेनान्वितः सुहृत न चार्थेनापि महता शक्यम एतद वयपॊहितुम 19 एवं बहु च दीनं च बरुवाणं गालवं तदा परत्युवाच वरजन्न एव परहसन विनतात्मजः 20 नातिप्रज्ञॊ ऽसि विप्रर्षे यॊ ऽऽतमानं तयक्तुम इच्छसि न चापि कृत्रिमः कालः कालॊ हि परमेश्वरः 21 किम अहं पूर्वम एवेह भवता नाभिचॊदितः उपायॊ ऽतर महान अस्ति येनैतद उपपद्यते 22 तद एष ऋषभॊ नाम पर्वतः सागरॊरसि अत्र विश्रम्य भुक्त्वा च निवर्तिष्याव गालव |
1
[gālava] garutman bhujagendrāre suparṇavinatātmaja nayamāṃ tārkṣya pūrveṇa yatra dharmasya cakṣuṣī 2 pūrvam etāṃ diśaṃ gaccha yā pūrvaṃ parikīrtitā daivatānāṃ hi sāṃnidhyam atra kīrtitavān asi 3 atra satyaṃ ca dharmaś ca tvayā samyak prakīrtitaḥ iccheyaṃ tu samāgantuṃ samastair daivatair aham bhūyaś ca tān surān draṣṭum iccheyam aruṇānuja 4 tam āha vinatā sūnur ārohasveti vai dvijam ārurohātha sa munir garuḍaṃ gālavas tadā 5 kramamāṇasya te rūpaṃ dṛśyate pannagāśana bhāskarasyeva pūrvāhṇe sahasrāṃśor vivasvataḥ 6 pakṣavātapraṇunnānāṃ vṛkṣāṇām anugāminām prasthitānām iva samaṃ paśyāmīha gatiṃ khaga 7 sasāgaravanām urvīṃ saśailavanakānanām ākarṣann iva cābhāsi pakṣavātena khecara 8 samīnanāganakraṃ ca kham ivāropyate jalam vāyunā caiva mahatā pakṣavātena cāniśam 9 tulyarūpānanān matsyāṃs timimatsyāṃs timiṃgilān nāgāṃś ca naravaktrāṃś ca paśyāmy unmathitān iva 10 mahārṇavasya ca ravaiḥ śrotre me badhirī kṛte na śṛṇomi na paśyāmi nātmano vedmi kāraṇam 11 śanaiḥ sādhu bhavān yātu brahmahatyām anusmaran na dṛśyate ravis tāta na diśo na ca khaṃ khaga 12 tama eva tu paśyāmi śarīraṃ te na lakṣaye maṇīva jātyau paśyāmi cakṣuṣī te 'ham aṇḍaja 13 śarīre tu na paśyāmi tava caivātmanaś ca ha pade pade tu paśyāmi salilād agnim utthitam 14 sa me nirvāpya sahasā cakṣuṣī śāmyate punaḥ tan nivarta mahān kālo gacchato vinatātmaja 15 na me prayojanaṃ kiṃ cid gamane pannagāśana saṃnivarta mahāvegana vegaṃ viṣahāmi te 16 gurave saṃśrutānīha śatāny aṣṭau hi vājinām ekataḥ śyāma karṇānāṃ śubhrāṇāṃ candra varcasām 17 teṣāṃ caivāpavargāya mārgaṃ paśyāmi nāṇḍaja tato 'yaṃ jīvitatyāge dṛṣṭo mārgo mayātmanaḥ 18 naiva me 'sti dhanaṃ kiṃ cin na dhanenānvitaḥ suhṛt na cārthenāpi mahatā śakyam etad vyapohitum 19 evaṃ bahu ca dīnaṃ ca bruvāṇaṃ gālavaṃ tadā pratyuvāca vrajann eva prahasan vinatātmajaḥ 20 nātiprajño 'si viprarṣe yo ''tmānaṃ tyaktum icchasi na cāpi kṛtrimaḥ kālaḥ kālo hi parameśvaraḥ 21 kim ahaṃ pūrvam eveha bhavatā nābhicoditaḥ upāyo 'tra mahān asti yenaitad upapadyate 22 tad eṣa ṛṣabho nāma parvataḥ sāgarorasi atra viśramya bhuktvā ca nivartiṣyāva gālava |
The Mahabharata in Sanskrit
Book 5
Chapter 111
|
1
[न] ऋषभस्य ततः शृङ्गे निपत्य दविज पक्षिणौ शाण्डिलीं बराह्मणीं तत्र ददृशाते तपॊऽनविताम 2 अभिवाद्य सुपर्णस तु गालवश चाभिपूज्य ताम तया च सवागतेनॊक्तौ विष्टरे संनिषीदतुः 3 सिद्धम अन्नं तया कषिप्रं बलिमन्त्रॊपबृंहितम भुक्त्वा तृप्ताव उभौ भूमौ सुप्तौ ताव अन्नमॊहितौ 4 मुहूर्तात परतिबुद्धस तु सुपर्णॊ गमनेप्सया अथ भरष्टतनूजाङ्गम आत्मानं ददृशे खगः 5 मांसपिण्डॊपमॊ ऽभूत स मुखपादान्वितः खगः गालवस तं तथा दृष्ट्वा विषण्णः पर्यपृच्छत 6 किम इदं भवता पराप्तम इहागमनजं फलम वासॊ ऽयम इह कालं तु कियन्तं नौ भविष्यति 7 किं नु ते मनसा धयातम अशुभं धर्मदूषणम न हय अयं भवतः सवल्पॊ वयभिचारॊ भविष्यति 8 सुपर्णॊ ऽथाब्रवीद विप्रं परध्यातं वै मया दविज इमां सिद्धाम इतॊ नेतुं तत्र यत्र परजापतिः 9 यत्र देवॊ महादेवॊ यत्र विष्णुः सनातनः यत्र धर्मश च यज्ञश च तत्रेयं निवसेद इति 10 सॊ ऽहं भगवतीं याचे परणतः परियकाम्यया मयैतन नाम परध्यातं मनसा शॊचता किल 11 तद एवं बहुमानात ते मयेहानीप्सितं कृतम सुकृतं दुष्कृतं वा तवं माहात्म्यात कषन्तुम अर्हसि 12 सा तौ तदाब्रवीत तुष्टा पतगेन्द्र दविजर्षभौ न भेतव्यं सुपर्णॊ ऽसि सुपर्ण तयज संभ्रमम 13 निन्दितास्मि तवया वत्स न च निन्दां कषमाम्य अहम लॊकेभ्यः स परिभ्रश्येद यॊ मां निन्देत पापकृत 14 हीनयाकल्षणैः सर्वैस तथानिन्दितया मया आचारं परतिगृह्णन्त्या सिद्धिः पराप्तेयम उत्तमा 15 आचाराल लभते धर्मम आचाराल लभते धनम आचाराच छरियम आप्नॊति आचारॊ हन्त्य अलक्षणम 16 तदायुष्मन खग पते यथेष्टं गम्यताम इतः न च ते गर्हणीयापि हर्हितव्याः सत्रियः कव चित 17 भवितासि यथापूर्वं बलवीर्यसमन्वितः बभूवतुस ततस तस्य पक्षौ दरविणवत्तरौ 18 अनुज्ञातश च शाण्डिल्या यथागतम उपागमत नैव चासादयाम आस तथारूपांस तुरंगमान 19 विश्वामित्रॊ ऽथ तं दृष्ट्वा गालवं चाध्वनि सथितम उवाच वदतां शरेष्ठॊ वैनतेयस्य संनिधौ 20 यस तवया सवयम एवार्थः परतिज्ञातॊ मम दविज तस्य कालॊ ऽपवर्गस्य यथा वा मन्यते भवान 21 परतीक्षिष्याम्य अहं कालम एतावन्तं तथा परम यथा संसिध्यते विप्र स मार्गस तु निशम्यताम 22 सुपर्णॊ ऽथाब्रवीद दीनं गालवं भृशदुःखितम परत्यक्षं खल्व इदानीं मे विश्वामित्रॊ यद उक्तवान 23 तद आगच्छ दविजश्रेष्ठ मन्त्रयिष्याव गालव नादत्त्वा गुरवे शक्यं कृत्स्नम अर्थं तवयासितुम |
1
[n] ṛṣabhasya tataḥ śṛṅge nipatya dvija pakṣiṇau śāṇḍilīṃ brāhmaṇīṃ tatra dadṛśāte tapo'nvitām 2 abhivādya suparṇas tu gālavaś cābhipūjya tām tayā ca svāgatenoktau viṣṭare saṃniṣīdatuḥ 3 siddham annaṃ tayā kṣipraṃ balimantropabṛṃhitam bhuktvā tṛptāv ubhau bhūmau suptau tāv annamohitau 4 muhūrtāt pratibuddhas tu suparṇo gamanepsayā atha bhraṣṭatanūjāṅgam ātmānaṃ dadṛśe khagaḥ 5 māṃsapiṇḍopamo 'bhūt sa mukhapādānvitaḥ khagaḥ gālavas taṃ tathā dṛṣṭvā viṣaṇṇaḥ paryapṛcchata 6 kim idaṃ bhavatā prāptam ihāgamanajaṃ phalam vāso 'yam iha kālaṃ tu kiyantaṃ nau bhaviṣyati 7 kiṃ nu te manasā dhyātam aśubhaṃ dharmadūṣaṇam na hy ayaṃ bhavataḥ svalpo vyabhicāro bhaviṣyati 8 suparṇo 'thābravīd vipraṃ pradhyātaṃ vai mayā dvija imāṃ siddhām ito netuṃ tatra yatra prajāpatiḥ 9 yatra devo mahādevo yatra viṣṇuḥ sanātanaḥ yatra dharmaś ca yajñaś ca tatreyaṃ nivased iti 10 so 'haṃ bhagavatīṃ yāce praṇataḥ priyakāmyayā mayaitan nāma pradhyātaṃ manasā śocatā kila 11 tad evaṃ bahumānāt te mayehānīpsitaṃ kṛtam sukṛtaṃ duṣkṛtaṃ vā tvaṃ māhātmyāt kṣantum arhasi 12 sā tau tadābravīt tuṣṭā patagendra dvijarṣabhau na bhetavyaṃ suparṇo 'si suparṇa tyaja saṃbhramam 13 ninditāsmi tvayā vatsa na ca nindāṃ kṣamāmy aham lokebhyaḥ sa paribhraśyed yo māṃ nindeta pāpakṛt 14 hīnayākalṣaṇaiḥ sarvais tathāninditayā mayā ācāraṃ pratigṛhṇantyā siddhiḥ prāpteyam uttamā 15 ācārāl labhate dharmam ācārāl labhate dhanam ācārāc chriyam āpnoti ācāro hanty alakṣaṇam 16 tadāyuṣman khaga pate yatheṣṭaṃ gamyatām itaḥ na ca te garhaṇīyāpi harhitavyāḥ striyaḥ kva cit 17 bhavitāsi yathāpūrvaṃ balavīryasamanvitaḥ babhūvatus tatas tasya pakṣau draviṇavattarau 18 anujñātaś ca śāṇḍilyā yathāgatam upāgamat naiva cāsādayām āsa tathārūpāṃs turaṃgamān 19 viśvāmitro 'tha taṃ dṛṣṭvā gālavaṃ cādhvani sthitam uvāca vadatāṃ śreṣṭho vainateyasya saṃnidhau 20 yas tvayā svayam evārthaḥ pratijñāto mama dvija tasya kālo 'pavargasya yathā vā manyate bhavān 21 pratīkṣiṣyāmy ahaṃ kālam etāvantaṃ tathā param yathā saṃsidhyate vipra sa mārgas tu niśamyatām 22 suparṇo 'thābravīd dīnaṃ gālavaṃ bhṛśaduḥkhitam pratyakṣaṃ khalv idānīṃ me viśvāmitro yad uktavān 23 tad āgaccha dvijaśreṣṭha mantrayiṣyāva gālava nādattvā gurave śakyaṃ kṛtsnam arthaṃ tvayāsitum |
The Mahabharata in Sanskrit
Book 5
Chapter 112
|
1
[न] अथाह गालवं दीनं सुपर्णः पततां वरः निर्मितं वह्निना भूमौ वायुना वैधितं तथा यस्माद धिरण्मयं सर्वं हिरण्यं तेन चॊच्यते 2 धत्ते धारयते चेदम एतस्मात कारणाद धनम तद एतत तरिषु लॊकेषु धनं तिष्ठति शाश्वतम 3 नित्यं परॊष्ठपदाभ्यां च शुक्रे धनपतौ तथा मनुष्येभ्यः समादत्ते शुक्रश चित्तार्जितं धनम 4 अजैक पाद अहिर बुध्न्यै रक्ष्यते धनदेन च एवं न शक्यते लब्धुम अलब्धव्यं दविजर्षभ 5 ऋते च धनम अश्वानां नावाप्तिर विद्यते तव अर्थं याचात्र राजानं कं चिद राजर्षिवंशजम अपीड्य राजा पौरान हि यॊ नौ कुर्यात कृताथिनौ 6 अस्ति सॊमान्ववाये मे जातः कश चिन नृपः सखा अभिगच्छावहे तं वै तस्यास्ति विभवॊ भुवि 7 ययातिर नाम राजर्षिर नाहुषः सत्यविक्रमः स दास्यति मया चॊक्तॊ भवता चार्थितः सवयम 8 विभवश चास्य सुमहान आसीद धनपतेर इव एवं स तु धनं विद्वान दानेनैव वयशॊधयत 9 तथा तौ कथयन्तौ च चिन्तयन्तौ च यत कषमम परतिष्ठाने नरपतिं ययातिं परयुपस्थितौ 10 परतिगृह्य च सत्कारम अर्घादिं भॊजनं वरम पृष्टश चागमने हेतुम उवाच विनतासुतः 11 अयं मे नाहुष सखा गालवस तपसॊ निधिः विश्वामित्रस्य शिष्यॊ ऽभूद वर्षाण्य अयुतशॊ नृप 12 सॊ ऽयं तेनाभ्यनुज्ञात उपकारेप्सया दविजः तम आह भगवान कां ते ददानि गुरु दक्षिणाम 13 असकृत तेन चॊक्तेन किं चिद आगतमन्युना अयम उक्तः परयच्छेति जानता विभवं लघु 14 एकतः शयाम कर्णानां शुभ्राणां शुद्धजन्मनाम अष्टौ शतानि मे देहि हयानां चन्द्र वर्चसाम 15 गुर्वर्थॊ दीयताम एष यदि गालव मन्यसे इत्य एवम आह सक्रॊधॊ विश्वामित्रस तपॊधनः 16 सॊ ऽयं शॊकेन महता तप्यमानॊ दविजर्षभः अशक्तः परतिकर्तुं तद भवन्तं शरणं गतः 17 पतिगृह्य नरव्याघ्र तवत्तॊ भिक्षां गतव्ययः कृत्वापवर्गं गुरवे चरिष्यति महत तपः 18 तपसः संविभागेन भवन्तम अपि यॊक्ष्यते सवेन राजर्षितपसा पूर्णं तवां पूरयिष्यति 19 यावन्ति रॊमाणि हये भवन्ति हि नरेश्वर तावतॊ वाजिदा लॊकान पराप्नुवन्ति महीपते 20 पात्रं परतिग्रहस्यायं दातुं पात्रं तथा भवान शङ्खे कषीरम इवासक्तं भवत्व एतत तथॊपमम |
1
[n] athāha gālavaṃ dīnaṃ suparṇaḥ patatāṃ varaḥ nirmitaṃ vahninā bhūmau vāyunā vaidhitaṃ tathā yasmād dhiraṇmayaṃ sarvaṃ hiraṇyaṃ tena cocyate 2 dhatte dhārayate cedam etasmāt kāraṇād dhanam tad etat triṣu lokeṣu dhanaṃ tiṣṭhati śāśvatam 3 nityaṃ proṣṭhapadābhyāṃ ca śukre dhanapatau tathā manuṣyebhyaḥ samādatte śukraś cittārjitaṃ dhanam 4 ajaika pād ahir budhnyai rakṣyate dhanadena ca evaṃ na śakyate labdhum alabdhavyaṃ dvijarṣabha 5 ṛte ca dhanam aśvānāṃ nāvāptir vidyate tava arthaṃ yācātra rājānaṃ kaṃ cid rājarṣivaṃśajam apīḍya rājā paurān hi yo nau kuryāt kṛtāthinau 6 asti somānvavāye me jātaḥ kaś cin nṛpaḥ sakhā abhigacchāvahe taṃ vai tasyāsti vibhavo bhuvi 7 yayātir nāma rājarṣir nāhuṣaḥ satyavikramaḥ sa dāsyati mayā cokto bhavatā cārthitaḥ svayam 8 vibhavaś cāsya sumahān āsīd dhanapater iva evaṃ sa tu dhanaṃ vidvān dānenaiva vyaśodhayat 9 tathā tau kathayantau ca cintayantau ca yat kṣamam pratiṣṭhāne narapatiṃ yayātiṃ prayupasthitau 10 pratigṛhya ca satkāram arghādiṃ bhojanaṃ varam pṛṣṭaś cāgamane hetum uvāca vinatāsutaḥ 11 ayaṃ me nāhuṣa sakhā gālavas tapaso nidhiḥ viśvāmitrasya śiṣyo 'bhūd varṣāṇy ayutaśo nṛpa 12 so 'yaṃ tenābhyanujñāta upakārepsayā dvijaḥ tam āha bhagavān kāṃ te dadāni guru dakṣiṇām 13 asakṛt tena coktena kiṃ cid āgatamanyunā ayam uktaḥ prayaccheti jānatā vibhavaṃ laghu 14 ekataḥ śyāma karṇānāṃ śubhrāṇāṃ śuddhajanmanām aṣṭau śatāni me dehi hayānāṃ candra varcasām 15 gurvartho dīyatām eṣa yadi gālava manyase ity evam āha sakrodho viśvāmitras tapodhanaḥ 16 so 'yaṃ śokena mahatā tapyamāno dvijarṣabhaḥ aśaktaḥ pratikartuṃ tad bhavantaṃ śaraṇaṃ gataḥ 17 patigṛhya naravyāghra tvatto bhikṣāṃ gatavyayaḥ kṛtvāpavargaṃ gurave cariṣyati mahat tapaḥ 18 tapasaḥ saṃvibhāgena bhavantam api yokṣyate svena rājarṣitapasā pūrṇaṃ tvāṃ pūrayiṣyati 19 yāvanti romāṇi haye bhavanti hi nareśvara tāvato vājidā lokān prāpnuvanti mahīpate 20 pātraṃ pratigrahasyāyaṃ dātuṃ pātraṃ tathā bhavān śaṅkhe kṣīram ivāsaktaṃ bhavatv etat tathopamam |
The Mahabharata in Sanskrit
Book 5
Chapter 113
|
1
[न] एवम उक्तः सुपर्णेन तथ्यं वचनम उत्तमम विमृश्यावहितॊ राजा निश्चित्य च पुनः पुनः 2 यष्टा करतुसहस्राणां दाता दानपतिः परभुः ययातिर वत्स काशीश इदं वचनम अब्रवीत 3 दृष्ट्वा परियसखं तार्क्ष्यं गालवं च दविजर्षभम निदर्शनं च तपसॊ भिक्षां शलाघ्यां च कीर्तिताम 4 अतीत्य च नृपान अन्यान आदित्यकुलसंभवान मत्सकाशम अनुप्राप्ताव एतौ बुद्धिम अवेक्ष्य च 5 अद्य मे सफलं जन्म तारितं चाद्य मे कुलम अद्यायं तारितॊ देशॊ मम तार्क्ष्य तवयानघ 6 वक्तुम इच्छामि तु सखे यथा जानासि मां पुरा न तथा वित्तवान अस्मि कषीणं वित्तं हि मे सखे 7 न च शक्तॊ ऽसमि ते कर्तुं मॊघम आगमनं खग न चाशाम अस्य विप्रर्षेर वितथां कर्तुम उत्सहे 8 तत तु दास्यामि यत कार्यम इदं संपादयिष्यति अभिगम्य हताशॊ हि निवृत्तॊ दहते कुलम 9 नातः परं वैनतेय किं चित पापिष्ठम उच्यते यथाशा नाशनम लॊके देहि नास्तीति वा वचः 10 हताशॊ हय अकृतार्थः सन हतः संभावितॊ नरः हिनस्ति तस्य पुत्रांश च पौत्रांश चाकुर्वतॊ ऽरथिनाम 11 तस्माच चतुर्णां वंशानां सथापयित्री सुता मम इयं सुरसुत परख्या सर्वधर्मॊपचायिनी 12 सदा देवमनुष्याणाम असुराणां च गालव काङ्क्षिता रूपतॊ बाला सुता मे परतिगृह्यताम 13 अस्याः शुल्कं परदास्यन्ति नृपा राज्यम अपि धरुवम किं पुनः शयाम कर्णानां हयानां दवे चतुःशते 14 स भवान परतिगृह्णातु ममेमां माधवीं सुताम अहं दौहित्रवान सयां वै वर एष मम परभॊ 15 परतिगृह्य च तां कन्यां गालवः सह पक्षिणा पुनर दरक्ष्याव इत्य उक्त्वा परतस्थे सह कन्यया 16 उपलब्धम इदं दवारम अश्वानाम इति चाण्डजः उक्त्वा गालवम आपृच्छ्य जगाम भवनं सवकम 17 गते पतगराजे तु गालवः सह कन्यया चिन्तयानः कषमं दाने राज्ञां वै शुल्कतॊ ऽगमत 18 सॊ ऽगच्छन मनसेक्ष्वाकुं हर्यश्वं राजसत्तमम अयॊध्यायां महावीर्यं चतुरङ्ग बलान्वितम 19 कॊशधान्य बलॊपेतं परिय पौरं दविज परियम परजाभिकामं शाम्यन्तं कुर्वाणं तप उत्तमम 20 तम उपागम्य विप्रः स हर्यश्वं गालवॊ ऽबरवीत कन्येयं मम राजेन्द्र परसवैः कुलवर्धिनी 21 इयं शुक्लेन भार्यार्थे हर्यश्वप्रतिगृह्यताम शुल्कं ते कीर्तयिष्यामि तच छरुत्वा संप्रधार्यताम |
1
[n] evam uktaḥ suparṇena tathyaṃ vacanam uttamam vimṛśyāvahito rājā niścitya ca punaḥ punaḥ 2 yaṣṭā kratusahasrāṇāṃ dātā dānapatiḥ prabhuḥ yayātir vatsa kāśīśa idaṃ vacanam abravīt 3 dṛṣṭvā priyasakhaṃ tārkṣyaṃ gālavaṃ ca dvijarṣabham nidarśanaṃ ca tapaso bhikṣāṃ ślāghyāṃ ca kīrtitām 4 atītya ca nṛpān anyān ādityakulasaṃbhavān matsakāśam anuprāptāv etau buddhim avekṣya ca 5 adya me saphalaṃ janma tāritaṃ cādya me kulam adyāyaṃ tārito deśo mama tārkṣya tvayānagha 6 vaktum icchāmi tu sakhe yathā jānāsi māṃ purā na tathā vittavān asmi kṣīṇaṃ vittaṃ hi me sakhe 7 na ca śakto 'smi te kartuṃ mogham āgamanaṃ khaga na cāśām asya viprarṣer vitathāṃ kartum utsahe 8 tat tu dāsyāmi yat kāryam idaṃ saṃpādayiṣyati abhigamya hatāśo hi nivṛtto dahate kulam 9 nātaḥ paraṃ vainateya kiṃ cit pāpiṣṭham ucyate yathāśā nāśanam loke dehi nāstīti vā vacaḥ 10 hatāśo hy akṛtārthaḥ san hataḥ saṃbhāvito naraḥ hinasti tasya putrāṃś ca pautrāṃś cākurvato 'rthinām 11 tasmāc caturṇāṃ vaṃśānāṃ sthāpayitrī sutā mama iyaṃ surasuta prakhyā sarvadharmopacāyinī 12 sadā devamanuṣyāṇām asurāṇāṃ ca gālava kāṅkṣitā rūpato bālā sutā me pratigṛhyatām 13 asyāḥ śulkaṃ pradāsyanti nṛpā rājyam api dhruvam kiṃ punaḥ śyāma karṇānāṃ hayānāṃ dve catuḥśate 14 sa bhavān pratigṛhṇātu mamemāṃ mādhavīṃ sutām ahaṃ dauhitravān syāṃ vai vara eṣa mama prabho 15 pratigṛhya ca tāṃ kanyāṃ gālavaḥ saha pakṣiṇā punar drakṣyāva ity uktvā pratasthe saha kanyayā 16 upalabdham idaṃ dvāram aśvānām iti cāṇḍajaḥ uktvā gālavam āpṛcchya jagāma bhavanaṃ svakam 17 gate patagarāje tu gālavaḥ saha kanyayā cintayānaḥ kṣamaṃ dāne rājñāṃ vai śulkato 'gamat 18 so 'gacchan manasekṣvākuṃ haryaśvaṃ rājasattamam ayodhyāyāṃ mahāvīryaṃ caturaṅga balānvitam 19 kośadhānya balopetaṃ priya pauraṃ dvija priyam prajābhikāmaṃ śāmyantaṃ kurvāṇaṃ tapa uttamam 20 tam upāgamya vipraḥ sa haryaśvaṃ gālavo 'bravīt kanyeyaṃ mama rājendra prasavaiḥ kulavardhinī 21 iyaṃ śuklena bhāryārthe haryaśvapratigṛhyatām śulkaṃ te kīrtayiṣyāmi tac chrutvā saṃpradhāryatām |
The Mahabharata in Sanskrit
Book 5
Chapter 114
|
1
[न] हर्यश्वस तव अब्रवीद राजा विचिन्त्य बहुधा ततः दीर्घम उष्णं च निःश्वस्य परजा हेतॊर नृपॊत्तमः 2 उन्नतेषून्नता षट्सु सूक्ष्मा सूक्ष्मेषु सप्तसु गम्भीरा तरिषु गम्भीरेष्व इयं रक्ता च पञ्चसु 3 बहु देवासुरालॊका बहु गन्धर्वदर्शना बहु लक्षणसंपन्ना बहु परसव दारिणी 4 समर्थेयं जनयितुं चक्रवर्तिनम आत्मजम बरूहि शुल्कं दविजश्रेष्ठ समीक्ष्य विभवं मम 5 एकतः शयाम कर्णानां शतान्य अष्टौ ददस्व मे हयानां चन्द्र शुभ्राणां देशजानां वपुष्मताम 6 ततस तव भवित्रीयं पुत्राणां जननी शुभा अरणीव हुताशानां यॊनिर आयतलॊचना 7 एतच छरुत्वा वचॊ राजा हर्यश्वः काममॊहितः उवाच गालवं दीनॊ राजर्षिर ऋषिसत्तमम 8 दवे मे शते संनिहिते हयानां यद विधास तव एष्टव्याः शतशस तव अन्ये चरन्ति मम वाजिनः 9 सॊ ऽहम एकम अपत्यं वै जनयिष्यामि गालव अस्याम एतं भवान कामं संपादयतु मे वरम 10 एतच छरुत्वा तु सा कन्या गालवं वाक्यम अब्रवीत मम दत्तॊ वरः कश चित केन चिद बरह्मवादिना 11 परसूत्य अन्ते परसूत्य अन्ते कन्यैव तवं भविष्यसि स तवं ददस्व मां राज्ञे परतिगृह्य हयॊत्तमान 12 नृपेभ्यॊ हि चतुर्भ्यस ते पूर्णान्य अष्टौ शतानि वै भविष्यन्ति तथा पुत्रा मम चत्वार एव च 13 करियतां मम संहारॊ गुर्वर्थं दविजसत्तम एषा तावन मम परज्ञा यथा वा मन्यसे दविज 14 एवम उक्तस तु स मुनिः कन्यया गालवस तदा हर्यश्वं पृथिवीपालम इदं वचनम अब्रवीत 15 इयं कन्या नरश्रेष्ठ हर्यश्वप्रतिगृह्यताम चतुर्भागेन शुल्कस्य जनयस्वैकम आत्मजम 16 पतिगृह्य स तां कन्यां गालवं पतिनन्द्य च समये देशकाले च लब्धवान सुतम ईप्सितम 17 ततॊ वसु मना नाम वसुभ्यॊ वसुमत्तरः वसु परख्यॊ नरपतिः स बभूव वसु परदः 18 अथ काले पुनर धीमान गालवः पत्युपस्थितः उपसंगम्य चॊवाच हर्यश्वं परीतिमानसम 19 जातॊ नृपसुतस ते ऽयं बाल भास्करसंनिभः कालॊ गन्तुं नरश्रेष्ठ भिक्षार्थम अपरं नृपम 20 हर्यश्वः सत्यवचने सथितः सथित्वा च पौरुषे दुर्लभत्वाद धयानां च परददौ माधवीं पुनः 21 माधवी च पुनर दीप्तां परित्यज्य नृप शरियम कुमारी कामतॊ भूत्वा गालवं पृष्ठतॊ ऽनवगात 22 तवय्य एव तावत तिष्ठन्तु हया इत्य उक्तवान दविजः परययौ कन्यया सार्धं दिवॊदासं परजेश्वरम |
1
[n] haryaśvas tv abravīd rājā vicintya bahudhā tataḥ dīrgham uṣṇaṃ ca niḥśvasya prajā hetor nṛpottamaḥ 2 unnateṣūnnatā ṣaṭsu sūkṣmā sūkṣmeṣu saptasu gambhīrā triṣu gambhīreṣv iyaṃ raktā ca pañcasu 3 bahu devāsurālokā bahu gandharvadarśanā bahu lakṣaṇasaṃpannā bahu prasava dāriṇī 4 samartheyaṃ janayituṃ cakravartinam ātmajam brūhi śulkaṃ dvijaśreṣṭha samīkṣya vibhavaṃ mama 5 ekataḥ śyāma karṇānāṃ śatāny aṣṭau dadasva me hayānāṃ candra śubhrāṇāṃ deśajānāṃ vapuṣmatām 6 tatas tava bhavitrīyaṃ putrāṇāṃ jananī śubhā araṇīva hutāśānāṃ yonir āyatalocanā 7 etac chrutvā vaco rājā haryaśvaḥ kāmamohitaḥ uvāca gālavaṃ dīno rājarṣir ṛṣisattamam 8 dve me śate saṃnihite hayānāṃ yad vidhās tava eṣṭavyāḥ śataśas tv anye caranti mama vājinaḥ 9 so 'ham ekam apatyaṃ vai janayiṣyāmi gālava asyām etaṃ bhavān kāmaṃ saṃpādayatu me varam 10 etac chrutvā tu sā kanyā gālavaṃ vākyam abravīt mama datto varaḥ kaś cit kena cid brahmavādinā 11 prasūty ante prasūty ante kanyaiva tvaṃ bhaviṣyasi sa tvaṃ dadasva māṃ rājñe pratigṛhya hayottamān 12 nṛpebhyo hi caturbhyas te pūrṇāny aṣṭau śatāni vai bhaviṣyanti tathā putrā mama catvāra eva ca 13 kriyatāṃ mama saṃhāro gurvarthaṃ dvijasattama eṣā tāvan mama prajñā yathā vā manyase dvija 14 evam uktas tu sa muniḥ kanyayā gālavas tadā haryaśvaṃ pṛthivīpālam idaṃ vacanam abravīt 15 iyaṃ kanyā naraśreṣṭha haryaśvapratigṛhyatām caturbhāgena śulkasya janayasvaikam ātmajam 16 patigṛhya sa tāṃ kanyāṃ gālavaṃ patinandya ca samaye deśakāle ca labdhavān sutam īpsitam 17 tato vasu manā nāma vasubhyo vasumattaraḥ vasu prakhyo narapatiḥ sa babhūva vasu pradaḥ 18 atha kāle punar dhīmān gālavaḥ patyupasthitaḥ upasaṃgamya covāca haryaśvaṃ prītimānasam 19 jāto nṛpasutas te 'yaṃ bāla bhāskarasaṃnibhaḥ kālo gantuṃ naraśreṣṭha bhikṣārtham aparaṃ nṛpam 20 haryaśvaḥ satyavacane sthitaḥ sthitvā ca pauruṣe durlabhatvād dhayānāṃ ca pradadau mādhavīṃ punaḥ 21 mādhavī ca punar dīptāṃ parityajya nṛpa śriyam kumārī kāmato bhūtvā gālavaṃ pṛṣṭhato 'nvagāt 22 tvayy eva tāvat tiṣṭhantu hayā ity uktavān dvijaḥ prayayau kanyayā sārdhaṃ divodāsaṃ prajeśvaram |
The Mahabharata in Sanskrit
Book 5
Chapter 115
|
1
[ग] महावीर्यॊ महीपालः काशीनाम ईश्वरः परभुः दिवॊदास इति खयातॊ भैमसेनिर नराधिपः 2 तत्र गच्छावहे भद्रे शनैर आगच्छ मा शुचः धार्मिकः संयमे युक्तः सत्यश चैव जनेश्वरः 3 तम उपागम्य स मुनिर नयायतस तेन सत्कृतः गालवः परसवस्यार्थे तं नृपं परत्यचॊदयत 4 शरुतम एतन मया पूर्वं किम उक्त्वा विस्तरं दविज काङ्क्षितॊ हि मयैषॊ ऽरथः शरुत्वैतद दविजसत्तम 5 एतच च मे बहुमतं यद उत्सृज्य नराधिपान माम एवम उपयातॊ ऽसि भावि चैतद असंशयम 6 स एव विभवॊ ऽसमाकम अश्वानाम अपि गालव अहम अप्य एकम एवास्यां जनयिष्यामि पार्थिवम 7 तथेत्य उक्त्वा दविजश्रेष्ठः परादात कन्यां महीपतेः विधिपूर्वं च तां राजा कन्यां परतिगृहीतवान 8 रेमे स तस्यां राजर्षिः परभावत्यां यथा रविः सवाहायां च यथा वह्निर यथा शच्यां स वासवः 9 यथा चन्द्रश च रॊहिण्यां यथा धूमॊर्णया यमः वरुणश च यथा गौर्यां यथा चर्द्ध्यां धनेश्वरः 10 यथा नारायणॊ लक्ष्यां जाह्नव्यां च यथॊदधिः यथा रुद्रश च रुद्राण्यां यथा वेद्यां पितामहः 11 अदृश्यन्त्यां च वासिष्ठॊ वसिष्ठश चाक्षमालया चयवनश च सुकन्यायां पुलस्त्यः संध्यया यथा 12 अगस्त्यश चापि वैदर्भ्यां सावित्र्यां सत्यवान यथा यथा भृगुः पुलॊमायाम अदित्यां कश्यपॊ यथा 13 रेणुकायां यथर्चीकॊ हैमवत्यां च कौशिकः बृहस्पतिश च तारायां शुक्रश च शतपर्वया 14 यथा भूम्यां भूमिपतिर उर्वश्यां च पुरूरवाः ऋचीकः सत्यवत्यां च सरस्वत्यां यथा मनुः 15 तथा तु रममाणस्य दिवॊदासस्य भूपतेः माधवी जनयाम आस पुत्रम एकं परतर्दनम 16 अथाजगाम भगवान दिवॊदासं स गालवः समये समनुप्राप्ते वचनं चेदम अब्रवीत 17 निर्यातयतु मे कन्यां भवांस तिष्ठन्तु वाजिनः यावद अन्यत्र गच्छामि शुक्लार्थं पृथिवीपते 18 दिवॊदासॊ ऽथ धर्मात्मा समये गालवस्य ताम कन्यां निर्यातयाम आस सथितः सत्ये महीपतिः |
1
[g] mahāvīryo mahīpālaḥ kāśīnām īśvaraḥ prabhuḥ divodāsa iti khyāto bhaimasenir narādhipaḥ 2 tatra gacchāvahe bhadre śanair āgaccha mā śucaḥ dhārmikaḥ saṃyame yuktaḥ satyaś caiva janeśvaraḥ 3 tam upāgamya sa munir nyāyatas tena satkṛtaḥ gālavaḥ prasavasyārthe taṃ nṛpaṃ pratyacodayat 4 śrutam etan mayā pūrvaṃ kim uktvā vistaraṃ dvija kāṅkṣito hi mayaiṣo 'rthaḥ śrutvaitad dvijasattama 5 etac ca me bahumataṃ yad utsṛjya narādhipān mām evam upayāto 'si bhāvi caitad asaṃśayam 6 sa eva vibhavo 'smākam aśvānām api gālava aham apy ekam evāsyāṃ janayiṣyāmi pārthivam 7 tathety uktvā dvijaśreṣṭhaḥ prādāt kanyāṃ mahīpateḥ vidhipūrvaṃ ca tāṃ rājā kanyāṃ pratigṛhītavān 8 reme sa tasyāṃ rājarṣiḥ prabhāvatyāṃ yathā raviḥ svāhāyāṃ ca yathā vahnir yathā śacyāṃ sa vāsavaḥ 9 yathā candraś ca rohiṇyāṃ yathā dhūmorṇayā yamaḥ varuṇaś ca yathā gauryāṃ yathā carddhyāṃ dhaneśvaraḥ 10 yathā nārāyaṇo lakṣyāṃ jāhnavyāṃ ca yathodadhiḥ yathā rudraś ca rudrāṇyāṃ yathā vedyāṃ pitāmahaḥ 11 adṛśyantyāṃ ca vāsiṣṭho vasiṣṭhaś cākṣamālayā cyavanaś ca sukanyāyāṃ pulastyaḥ saṃdhyayā yathā 12 agastyaś cāpi vaidarbhyāṃ sāvitryāṃ satyavān yathā yathā bhṛguḥ pulomāyām adityāṃ kaśyapo yathā 13 reṇukāyāṃ yatharcīko haimavatyāṃ ca kauśikaḥ bṛhaspatiś ca tārāyāṃ śukraś ca śataparvayā 14 yathā bhūmyāṃ bhūmipatir urvaśyāṃ ca purūravāḥ ṛcīkaḥ satyavatyāṃ ca sarasvatyāṃ yathā manuḥ 15 tathā tu ramamāṇasya divodāsasya bhūpateḥ mādhavī janayām āsa putram ekaṃ pratardanam 16 athājagāma bhagavān divodāsaṃ sa gālavaḥ samaye samanuprāpte vacanaṃ cedam abravīt 17 niryātayatu me kanyāṃ bhavāṃs tiṣṭhantu vājinaḥ yāvad anyatra gacchāmi śuklārthaṃ pṛthivīpate 18 divodāso 'tha dharmātmā samaye gālavasya tām kanyāṃ niryātayām āsa sthitaḥ satye mahīpatiḥ |
The Mahabharata in Sanskrit
Book 5
Chapter 116
|
1
[न] तथैव सा शरियं तयक्त्वा कन्या भूत्वा यशस्विनी माधवी गालवं विप्रम अन्वयात सत्यसंगरा 2 गालवॊ विमृशन्न एव सवकार्यगतमानसः जगाम भॊजनगरं दरष्टुम औशीनरं नृपम 3 तम उवाचाथ गत्वा स नृपतिं सत्यविक्रमम इयं कन्या सुतौ दवौ ते जनयिष्यति पार्थिवौ 4 अस्यां भवान अवाप्तार्थॊ भवति परेत्य चेह च सॊमार्क परतिसंकाशौ जनयित्वा सुतौ नृप 5 शुल्कं तु सर्वधर्मज्ञ हयानां चन्द्र वर्चसाम एकतः शयाम कर्णानां देयं मह्यं चतुःशतम 6 गुर्वर्थॊ ऽयं समारम्भॊ न हयैः कृत्यम अस्ति मे यदि शक्यं महाराज करियतां मा विचार्यताम 7 अनपत्यॊ ऽसि राजर्षे पुत्रौ जनय पार्थिव पितॄन पुत्र पलवेन तवम आत्मानं चैव तारय 8 न पुत्रफलभॊक्ता हि राजर्षे पात्यते दिवः न याति नरकं घॊरं यत्र गच्छन्त्य अनात्मजाः 9 एतच चान्यच च विविधं शरुत्वा गालव भाषितम उशीनरः पतिवचॊ ददौ तस्य नराधिपः 10 शरुतवान अस्मि ते वाक्यं यथा वदसि गालव विधिस तु बलवान बरह्मन परवणं हि मनॊ मम 11 शते दवे तु ममाश्वानाम ईदृशानां दविजॊत्तम इतरेषां सहस्राणि सुबहूनि चरन्ति मे 12 अहम अप्य एकम एवास्यां जनयिष्यामि गालव पुत्रं दविज गतं मार्गं गमिष्यामि परैर अहम 13 मूल्येनापि समं कुर्यां तवाहं दविजसत्तम पौरजानपदार्थं तु ममार्थॊ नात्म भॊगतः 14 कामतॊ हि धनं राजा पारक्यं यः परयच्छति न स धर्मेण धर्मात्मन युज्यते यशसा न च 15 सॊ ऽहं पतिग्रहीष्यामि ददात्व एतां भवान मम कुमारीं देवगर्भाभाम एकपुत्र भवाय मे 16 तथा तु बहुकल्याणम उक्तवन्तं नराधिपम उशीनरं दविजश्रेष्ठॊ गालवः परत्यपूजयत 17 उशीनरं परतिग्राह्य गालवः परययौ वनम रेमे स तां समासाद्य कृतपुण्य इव शरियम 18 कन्दरेषु च शैलानां नदीनां निर्झरेषु च उद्यानेषु विचित्रेषु वनेषूपवनेषु च 19 हर्म्येषु रमणीयेषु परासादशिखरेषु च वातायनविमानेषु तथा गर्भगृहेषु च 20 ततॊ ऽसय समये जज्ञे पुत्रॊ बाल रविप्रभः शिबिर नाम्नाभिविख्यातॊ यः स पार्थिव सत्तमः 21 उपस्थाय स तं विप्रॊ गालवः परतिगृह्य च कन्यां परयातस तां राजन दृष्टवान विनतात्मजम |
1
[n] tathaiva sā śriyaṃ tyaktvā kanyā bhūtvā yaśasvinī mādhavī gālavaṃ vipram anvayāt satyasaṃgarā 2 gālavo vimṛśann eva svakāryagatamānasaḥ jagāma bhojanagaraṃ draṣṭum auśīnaraṃ nṛpam 3 tam uvācātha gatvā sa nṛpatiṃ satyavikramam iyaṃ kanyā sutau dvau te janayiṣyati pārthivau 4 asyāṃ bhavān avāptārtho bhavati pretya ceha ca somārka pratisaṃkāśau janayitvā sutau nṛpa 5 śulkaṃ tu sarvadharmajña hayānāṃ candra varcasām ekataḥ śyāma karṇānāṃ deyaṃ mahyaṃ catuḥśatam 6 gurvartho 'yaṃ samārambho na hayaiḥ kṛtyam asti me yadi śakyaṃ mahārāja kriyatāṃ mā vicāryatām 7 anapatyo 'si rājarṣe putrau janaya pārthiva pitṝn putra plavena tvam ātmānaṃ caiva tāraya 8 na putraphalabhoktā hi rājarṣe pātyate divaḥ na yāti narakaṃ ghoraṃ yatra gacchanty anātmajāḥ 9 etac cānyac ca vividhaṃ śrutvā gālava bhāṣitam uśīnaraḥ pativaco dadau tasya narādhipaḥ 10 śrutavān asmi te vākyaṃ yathā vadasi gālava vidhis tu balavān brahman pravaṇaṃ hi mano mama 11 śate dve tu mamāśvānām īdṛśānāṃ dvijottama itareṣāṃ sahasrāṇi subahūni caranti me 12 aham apy ekam evāsyāṃ janayiṣyāmi gālava putraṃ dvija gataṃ mārgaṃ gamiṣyāmi parair aham 13 mūlyenāpi samaṃ kuryāṃ tavāhaṃ dvijasattama paurajānapadārthaṃ tu mamārtho nātma bhogataḥ 14 kāmato hi dhanaṃ rājā pārakyaṃ yaḥ prayacchati na sa dharmeṇa dharmātman yujyate yaśasā na ca 15 so 'haṃ patigrahīṣyāmi dadātv etāṃ bhavān mama kumārīṃ devagarbhābhām ekaputra bhavāya me 16 tathā tu bahukalyāṇam uktavantaṃ narādhipam uśīnaraṃ dvijaśreṣṭho gālavaḥ pratyapūjayat 17 uśīnaraṃ pratigrāhya gālavaḥ prayayau vanam reme sa tāṃ samāsādya kṛtapuṇya iva śriyam 18 kandareṣu ca śailānāṃ nadīnāṃ nirjhareṣu ca udyāneṣu vicitreṣu vaneṣūpavaneṣu ca 19 harmyeṣu ramaṇīyeṣu prāsādaśikhareṣu ca vātāyanavimāneṣu tathā garbhagṛheṣu ca 20 tato 'sya samaye jajñe putro bāla raviprabhaḥ śibir nāmnābhivikhyāto yaḥ sa pārthiva sattamaḥ 21 upasthāya sa taṃ vipro gālavaḥ pratigṛhya ca kanyāṃ prayātas tāṃ rājan dṛṣṭavān vinatātmajam |
The Mahabharata in Sanskrit
Book 5
Chapter 117
|
1
[न] गालवं वैनतेयॊ ऽथ परहसन्न इदम अब्रवीत दिष्ट्या कृतार्थं पश्यामि भवन्तम इह वै दविज 2 गालवस तु वचः शरुत्वा वैनतेयेन भाषितम चतुर्भागावशिष्टं तद आचख्यौ कार्यम अस्य हि 3 सुपर्णस तव अब्रवीद एनं गालवं पततां वरः परयत्नस ते न कर्तव्यॊ नैष संपत्स्यते तव 4 पुरा हि कन्यकुब्जे वै गाधेः सत्यवतीं सुताम भार्यार्थे ऽवरयत कन्याम ऋचीकस तेन भाषितः 5 एकतः शयाम कर्णानां हयानां चन्द्र वर्चसाम भगवन दीयतां मह्यं सहस्रम इति गालव 6 ऋचीकस तु तथेत्य उक्त्वा वरुणस्यालयं गतः अश्वतीर्थे हयाँल लब्ध्वा दत्तवान पार्थिवाय वै 7 इष्ट्वा ते पुण्डरीकेण दत्ता राज्ञा दविजातिषु तेभ्यॊ दवे दवे शते करीत्वा पराप्तास ते पार्थिवैस तदा 8 अपराण्य अपि चत्वारि शतानि दविजसत्तम नीयमानानि संतारे हृतान्य आसन वितस्तया एवं न शक्यम अप्राप्यं पराप्तुं गालव कर्हि चित 9 इमाम अश्वशताभ्यां वै दवाभ्यं तस्मै निवेदय विश्वामित्राय धर्मात्मन षड्भिर अश्वशतैः सह ततॊ ऽसि गतसंमॊहः कृतकृत्यॊ दविजर्षभ 10 गालवस तं तथेत्य उक्त्वा सुपर्णसहितस ततः आदायाश्वांश च कन्यां च विश्मामित्रम उपागमत 11 अश्वानां काङ्क्षितार्थानां षड इमानि शतानि वै शतद्वयेन कन्येयं भवता परतिगृह्यताम 12 अस्यां राजर्षिभिः पुत्रा जाता वै धार्मिकास तरयः चतुर्थं जनयत्व एकं भवान अपि नरॊत्तम 13 पूर्णान्य एवं शतान्य अष्टौ तुरगाणां भवन्तु ते भवतॊ हय अनृणॊ भूत्वा तपः कुर्यां यथासुखम 14 [न] विश्वामित्रस तु तं दृष्ट्वा गालवं सह पक्षिणा कन्यां च तां वरारॊहाम इदम इत्य अब्रवीद वचः 15 किम इयं पूर्वम एवेह न दत्ता मम गालव पुत्रा ममैव चत्वारॊ भवेयुः कुलभावनाः 16 परतिगृह्णामि ते कन्याम एकपुत्र फलाय वै अश्वाश चाश्रमम आसाद्य तिष्ठन्तु मम सर्वशः 17 स तया रममाणॊ ऽथ विश्वामित्रॊ महाद्युतिः आत्मजं जनयाम आस माधवी पुत्रम अष्टकम 18 जातमात्रं सुतं तं च विश्वामित्रॊ महाद्युतिः संयॊज्यार्थैस तथा धर्मैर अश्वैस तैः समयॊजयत 19 अथाष्टकः पुरं परायात तदा सॊमपुरप्रभम निर्यात्य कन्यां शिष्याय कौशिकॊ ऽपि वनं ययौ 20 गालवॊ ऽपि सुपर्णेन सह निर्यात्य दक्षिणाम मनसाभिप्रतीतेन कन्याम इदम उवाच ह 21 जातॊ दानपतिः पुत्रस तवया शूरस तथापरः सत्यधर्मरतश चान्यॊ यज्वा चापि तथापरः 22 तद आगच्छ वरारॊहे तारितस ते पिता सुतैः चत्वारश चैव राजानस तथाहं च सुमध्यमे 23 गालवस तव अभ्यनुज्ञाय सुपर्णं पन्नगाशनम पितुर निर्यात्य तां कन्यां परययौ वनम एव ह |
1
[n] gālavaṃ vainateyo 'tha prahasann idam abravīt diṣṭyā kṛtārthaṃ paśyāmi bhavantam iha vai dvija 2 gālavas tu vacaḥ śrutvā vainateyena bhāṣitam caturbhāgāvaśiṣṭaṃ tad ācakhyau kāryam asya hi 3 suparṇas tv abravīd enaṃ gālavaṃ patatāṃ varaḥ prayatnas te na kartavyo naiṣa saṃpatsyate tava 4 purā hi kanyakubje vai gādheḥ satyavatīṃ sutām bhāryārthe 'varayat kanyām ṛcīkas tena bhāṣitaḥ 5 ekataḥ śyāma karṇānāṃ hayānāṃ candra varcasām bhagavan dīyatāṃ mahyaṃ sahasram iti gālava 6 ṛcīkas tu tathety uktvā varuṇasyālayaṃ gataḥ aśvatīrthe hayāṁl labdhvā dattavān pārthivāya vai 7 iṣṭvā te puṇḍarīkeṇa dattā rājñā dvijātiṣu tebhyo dve dve śate krītvā prāptās te pārthivais tadā 8 aparāṇy api catvāri śatāni dvijasattama nīyamānāni saṃtāre hṛtāny āsan vitastayā evaṃ na śakyam aprāpyaṃ prāptuṃ gālava karhi cit 9 imām aśvaśatābhyāṃ vai dvābhyaṃ tasmai nivedaya viśvāmitrāya dharmātman ṣaḍbhir aśvaśataiḥ saha tato 'si gatasaṃmohaḥ kṛtakṛtyo dvijarṣabha 10 gālavas taṃ tathety uktvā suparṇasahitas tataḥ ādāyāśvāṃś ca kanyāṃ ca viśmāmitram upāgamat 11 aśvānāṃ kāṅkṣitārthānāṃ ṣaḍ imāni śatāni vai śatadvayena kanyeyaṃ bhavatā pratigṛhyatām 12 asyāṃ rājarṣibhiḥ putrā jātā vai dhārmikās trayaḥ caturthaṃ janayatv ekaṃ bhavān api narottama 13 pūrṇāny evaṃ śatāny aṣṭau turagāṇāṃ bhavantu te bhavato hy anṛṇo bhūtvā tapaḥ kuryāṃ yathāsukham 14 [n] viśvāmitras tu taṃ dṛṣṭvā gālavaṃ saha pakṣiṇā kanyāṃ ca tāṃ varārohām idam ity abravīd vacaḥ 15 kim iyaṃ pūrvam eveha na dattā mama gālava putrā mamaiva catvāro bhaveyuḥ kulabhāvanāḥ 16 pratigṛhṇāmi te kanyām ekaputra phalāya vai aśvāś cāśramam āsādya tiṣṭhantu mama sarvaśaḥ 17 sa tayā ramamāṇo 'tha viśvāmitro mahādyutiḥ ātmajaṃ janayām āsa mādhavī putram aṣṭakam 18 jātamātraṃ sutaṃ taṃ ca viśvāmitro mahādyutiḥ saṃyojyārthais tathā dharmair aśvais taiḥ samayojayat 19 athāṣṭakaḥ puraṃ prāyāt tadā somapuraprabham niryātya kanyāṃ śiṣyāya kauśiko 'pi vanaṃ yayau 20 gālavo 'pi suparṇena saha niryātya dakṣiṇām manasābhipratītena kanyām idam uvāca ha 21 jāto dānapatiḥ putras tvayā śūras tathāparaḥ satyadharmarataś cānyo yajvā cāpi tathāparaḥ 22 tad āgaccha varārohe tāritas te pitā sutaiḥ catvāraś caiva rājānas tathāhaṃ ca sumadhyame 23 gālavas tv abhyanujñāya suparṇaṃ pannagāśanam pitur niryātya tāṃ kanyāṃ prayayau vanam eva ha |
The Mahabharata in Sanskrit
Book 5
Chapter 118
|
1
[न] स तु राजा पुनस तस्याः कर्तुकामः सवयंवरम उपगम्याश्रमपदं गङ्गा यमुन संगमे 2 गृहीतमाल्यदामां तां रथम आरॊप्य माधवीम पूरुर यदुश च भगिनीम आश्रमे पर्यधावताम 3 नागयक्षमनुष्याणां पतत्रिमृगपक्षिणाम शैलद्रुम वनौकानाम आसीत तत्र समागमः 4 नाना पुरुषदेशानाम ईश्वरैश च समाकुलम ऋषिभिर बरह्मकल्पैश च समन्ताद आवृतं वनम 5 निर्दिश्यमानेषु तु सा वरेषु वरवर्णिनी वरान उत्क्रम्य सर्वांस तान वनं वृतवती वरम 6 अवतीर्य रथात कन्या नमस्कृत्वा च बन्धुषु उपगम्य वनं पुण्यं तपस तेपे ययातिजा 7 उपवासैर्श च विविधैर दीक्षाभिर नियमैस तथा आत्मनॊ लघुतां कृत्वा बभूव मृगचारिणी 8 वैडूर्याङ्कुल कल्पानि मृदूनि हरितानि च चरन्ती शष्पमुख्यानि तिक्तानि मधुराणि च 9 सरवन्तीनां च पुण्यानां सुरसानि शुचीनि च पिबन्ती वारि मुख्यानि शीतानि विमलानि च 10 वनेषु मृगराजेषु सिंहविप्रॊषितेषु च दावाग्निविप्रमुक्तेषु शूण्येषु गहनेषु च 11 चरन्ती हरिणैः सार्धं मृगीव वनराचिणी चचार विपुलं धर्मं बरह्मचर्येण संवृता 12 ययातिर अपि पूर्वेषां राज्ञां वृत्तम अनुष्ठितः बहुवर्षसहस्रायुर अयुजत कालधर्मणा 13 पूरुर यदुश च दवौ वंशौ वर्धमानौ नरॊत्तमौ ताभ्यां परतिष्ठितॊ लॊके परलॊके च नाहुषः 14 महीयते नरपतिर ययातिः सवर्गम आस्थितः महर्षिकल्पॊ नृपतिः सवर्गाग्र्य फलभुग विभुः 15 बहुवर्षसहस्राख्ये काले बहुगुणे गते राजर्षिषु निषण्णेषु महीयःसु महर्षिषु 16 अवमेने नरान सर्वन देवान ऋषिगणांस तथा ययातिर मूढ विज्ञानॊ विस्मयाविष्टचेतनः 17 ततस तं बुबुधे देवः शक्रॊ बलनिषूदनः ते च राजर्षयः सर्वे धिग धिग इत्य एवम अब्रुवन 18 विचारश च समुत्पन्नॊ निरीक्ष्य नहुषात्मजम कॊ नव अयं कस्य वा राज्ञः कथं वा सवर्गम आगतः 19 कर्मणा केन सिद्धॊ ऽयं कव वानेन तपश चितम कथं वा जञायते सवर्गे केन वा जञायते ऽपय उत 20 एवं विचारयन्तस ते राजानः सवर्गवासिनः दृष्ट्वा पप्रच्छुर अन्यॊन्यं ययातिं नृपतिं परति 21 विमानपालाः शतशः सवर्गद्वाराभिरक्षिणः पृष्टा आसनपालाश च न जानीमेत्य अथाब्रुवन 22 सर्वे ते हय आवृतज्ञाना नाभ्यजानन्त तं नृपम स मुहूर्ताद अथ नृपॊ हतौजा अभवत तदा |
1
[n] sa tu rājā punas tasyāḥ kartukāmaḥ svayaṃvaram upagamyāśramapadaṃ gaṅgā yamuna saṃgame 2 gṛhītamālyadāmāṃ tāṃ ratham āropya mādhavīm pūrur yaduś ca bhaginīm āśrame paryadhāvatām 3 nāgayakṣamanuṣyāṇāṃ patatrimṛgapakṣiṇām śailadruma vanaukānām āsīt tatra samāgamaḥ 4 nānā puruṣadeśānām īśvaraiś ca samākulam ṛṣibhir brahmakalpaiś ca samantād āvṛtaṃ vanam 5 nirdiśyamāneṣu tu sā vareṣu varavarṇinī varān utkramya sarvāṃs tān vanaṃ vṛtavatī varam 6 avatīrya rathāt kanyā namaskṛtvā ca bandhuṣu upagamya vanaṃ puṇyaṃ tapas tepe yayātijā 7 upavāsairś ca vividhair dīkṣābhir niyamais tathā ātmano laghutāṃ kṛtvā babhūva mṛgacāriṇī 8 vaiḍūryāṅkula kalpāni mṛdūni haritāni ca carantī śaṣpamukhyāni tiktāni madhurāṇi ca 9 sravantīnāṃ ca puṇyānāṃ surasāni śucīni ca pibantī vāri mukhyāni śītāni vimalāni ca 10 vaneṣu mṛgarājeṣu siṃhaviproṣiteṣu ca dāvāgnivipramukteṣu śūṇyeṣu gahaneṣu ca 11 carantī hariṇaiḥ sārdhaṃ mṛgīva vanarāciṇī cacāra vipulaṃ dharmaṃ brahmacaryeṇa saṃvṛtā 12 yayātir api pūrveṣāṃ rājñāṃ vṛttam anuṣṭhitaḥ bahuvarṣasahasrāyur ayujat kāladharmaṇā 13 pūrur yaduś ca dvau vaṃśau vardhamānau narottamau tābhyāṃ pratiṣṭhito loke paraloke ca nāhuṣaḥ 14 mahīyate narapatir yayātiḥ svargam āsthitaḥ maharṣikalpo nṛpatiḥ svargāgrya phalabhug vibhuḥ 15 bahuvarṣasahasrākhye kāle bahuguṇe gate rājarṣiṣu niṣaṇṇeṣu mahīyaḥsu maharṣiṣu 16 avamene narān sarvan devān ṛṣigaṇāṃs tathā yayātir mūḍha vijñāno vismayāviṣṭacetanaḥ 17 tatas taṃ bubudhe devaḥ śakro balaniṣūdanaḥ te ca rājarṣayaḥ sarve dhig dhig ity evam abruvan 18 vicāraś ca samutpanno nirīkṣya nahuṣātmajam ko nv ayaṃ kasya vā rājñaḥ kathaṃ vā svargam āgataḥ 19 karmaṇā kena siddho 'yaṃ kva vānena tapaś citam kathaṃ vā jñāyate svarge kena vā jñāyate 'py uta 20 evaṃ vicārayantas te rājānaḥ svargavāsinaḥ dṛṣṭvā papracchur anyonyaṃ yayātiṃ nṛpatiṃ prati 21 vimānapālāḥ śataśaḥ svargadvārābhirakṣiṇaḥ pṛṣṭā āsanapālāś ca na jānīmety athābruvan 22 sarve te hy āvṛtajñānā nābhyajānanta taṃ nṛpam sa muhūrtād atha nṛpo hataujā abhavat tadā |
The Mahabharata in Sanskrit
Book 5
Chapter 119
|
1
[न] अथ परचलितः सथानाद आसनाच च परिच्युतः कम्पितेनैव मनसा धर्षितः शॊकवह्निना 2 मलानस्रग भरष्टविज्ञानः परभ्रष्ट मुकुटाङ्गदः विघूर्णन सरस्तसर्वाङ्गः परभ्रष्टाभरणाम्बरः 3 अदृश्यमानस तान पश्यन्न अपश्यंश च पुनः पुनः शून्यः शून्येन मनसा परपतिष्यन महीतलम 4 किं मया मनसा धयातम अशुभं धर्मदूषणम येनाहं चलितः सथानाद इति राजा वयचिन्तयत 5 ते तु तत्रैव राजानः सिद्धाश चाप्सरसस तथा अपश्यन्त निरालम्बं ययातिं तं परिच्युतम 6 अथैत्य पुरुषः कश चित कषीणपुण्यनिपातकः ययातिम अब्रवीद राजन देवराजस्य शासनात 7 अतीव मदमत्तस तवं न कं चिन नावमन्यसे मानेन भरष्टः सवर्गस ते नार्हस तवं पार्थिवात्मज न च परज्ञायसे गच्छ पतस्वेति तम अब्रवीत 8 पतेयं सत्स्व इति वचस तरिर उक्त्वा नहुषात्मजः पतिष्यंश चिन्तयाम आस गतिं गतिमतां वरः 9 एतस्मिन्न एव काले तु नैमिषे पार्थिवर्षभान चतुरॊ ऽपश्यत नृपस तेषां मध्ये पपात सः 10 परतर्दनॊ वसु मनाः शिबिरौशीनरॊ ऽषटकः वाजपेयेन यज्ञेन तर्पयन्ति सुरेश्वरम 11 तेषाम अध्वरजं धूमं सवर्गद्वारम उपस्थितम ययातिर उपजिघ्रन वै निपपात महीं परति 12 भूमौ सवर्गे च संबद्धां नदीं धूममयीं नृपः स गङ्गाम इव गच्छन्तीम आलम्ब्य जगतीपतिः 13 शरीमत्स्व अवभृथाग्र्येषु चतुर्षु परतिबन्धुषु मध्ये निपतितॊ राजा लॊकपालॊपमेषु च 14 चतुर्षु हुतकल्पेषु राजसिंहमहाग्निषु पपात मध्ये राजर्षिर ययातिः पुण्यसंक्षये 15 तम आहुः पार्थिवाः सर्वे परतिमानम इव शरियः कॊ भवान कस्य वा बन्धुर देशस्य नगरस्य वा 16 यक्षॊ वाप्य अथ वा देवॊ गन्धर्वॊ राक्षसॊ ऽपि वा न हि मानुषरूपॊ ऽसि कॊ वार्थः काङ्क्षितस तवया 17 ययातिर अस्मि राजर्षिः कषीणपुण्यश चयुतॊ दिवः पतेयं सत्स्व इति धयायन भवत्सु पतितस ततः 18 सत्यम एतद भवतु ते काङ्क्षितं पुरुषर्षभ सर्वेषां नः करतुफलं धर्मश च परतिगृह्यताम 19 नाहं परतिग्रह धनॊ बराह्मणः कषत्रियॊ हय अहम न च मे परवणा बुद्धिः परपुण्यविनाशने 20 एतस्मिन्न एव काले तु मृगचर्या करमागताम माधवीं परेक्ष्य राजानस ते ऽभिवाद्येदम अब्रुवन 21 किम आगमनकृत्यं ते किं कुर्वः शासनं तव आज्ञाप्या हि वयं सर्वे तव पुत्रास तपॊधने 22 तेषां तद भाषितं शरुत्वा माधवी परया मुदा पितरं समुपागच्छद ययातिं सा ववन्द च 23 दृष्ट्वा मूर्ध्ना नतान पुत्रांस तापसी वाक्यम अब्रवीत दौहित्रास तव राजेन्द्र मम पुत्रा न ते पराः इमे तवां तारयिष्यन्ति दिष्टम एतत पुरातनम 24 अहं ते दुहिता राजन माधवी मृगचारिणी मयाप्य उपचितॊ धर्मस ततॊ ऽरधं परतिगृह्यताम 25 यस्माद राजन नराः सर्वे अपत्यफलभागिनः तस्माद इच्छन्ति दौहित्रान यथा तवं वसुधाधिप 26 ततस ते पार्थिवाः सर्वे शिरसा जननीं तदा अभिवाद्य नमस्कृत्य मातामहम अथाब्रुवन 27 उच्चैर अनुपमैः सनिग्धैः सवरैर आपूय मेदिनीम मातामहं नृपतयस तारयन्तॊ दिवश चयुतम 28 अथ तस्माद उपगतॊ गालवॊ ऽपय आह पार्थिवम तपसॊ मे ऽषट भागेन सवर्गम आरॊहतां भवान |
1
[n] atha pracalitaḥ sthānād āsanāc ca paricyutaḥ kampitenaiva manasā dharṣitaḥ śokavahninā 2 mlānasrag bhraṣṭavijñānaḥ prabhraṣṭa mukuṭāṅgadaḥ vighūrṇan srastasarvāṅgaḥ prabhraṣṭābharaṇāmbaraḥ 3 adṛśyamānas tān paśyann apaśyaṃś ca punaḥ punaḥ śūnyaḥ śūnyena manasā prapatiṣyan mahītalam 4 kiṃ mayā manasā dhyātam aśubhaṃ dharmadūṣaṇam yenāhaṃ calitaḥ sthānād iti rājā vyacintayat 5 te tu tatraiva rājānaḥ siddhāś cāpsarasas tathā apaśyanta nirālambaṃ yayātiṃ taṃ paricyutam 6 athaitya puruṣaḥ kaś cit kṣīṇapuṇyanipātakaḥ yayātim abravīd rājan devarājasya śāsanāt 7 atīva madamattas tvaṃ na kaṃ cin nāvamanyase mānena bhraṣṭaḥ svargas te nārhas tvaṃ pārthivātmaja na ca prajñāyase gaccha patasveti tam abravīt 8 pateyaṃ satsv iti vacas trir uktvā nahuṣātmajaḥ patiṣyaṃś cintayām āsa gatiṃ gatimatāṃ varaḥ 9 etasminn eva kāle tu naimiṣe pārthivarṣabhān caturo 'paśyata nṛpas teṣāṃ madhye papāta saḥ 10 pratardano vasu manāḥ śibirauśīnaro 'ṣṭakaḥ vājapeyena yajñena tarpayanti sureśvaram 11 teṣām adhvarajaṃ dhūmaṃ svargadvāram upasthitam yayātir upajighran vai nipapāta mahīṃ prati 12 bhūmau svarge ca saṃbaddhāṃ nadīṃ dhūmamayīṃ nṛpaḥ sa gaṅgām iva gacchantīm ālambya jagatīpatiḥ 13 śrīmatsv avabhṛthāgryeṣu caturṣu pratibandhuṣu madhye nipatito rājā lokapālopameṣu ca 14 caturṣu hutakalpeṣu rājasiṃhamahāgniṣu papāta madhye rājarṣir yayātiḥ puṇyasaṃkṣaye 15 tam āhuḥ pārthivāḥ sarve pratimānam iva śriyaḥ ko bhavān kasya vā bandhur deśasya nagarasya vā 16 yakṣo vāpy atha vā devo gandharvo rākṣaso 'pi vā na hi mānuṣarūpo 'si ko vārthaḥ kāṅkṣitas tvayā 17 yayātir asmi rājarṣiḥ kṣīṇapuṇyaś cyuto divaḥ pateyaṃ satsv iti dhyāyan bhavatsu patitas tataḥ 18 satyam etad bhavatu te kāṅkṣitaṃ puruṣarṣabha sarveṣāṃ naḥ kratuphalaṃ dharmaś ca pratigṛhyatām 19 nāhaṃ pratigraha dhano brāhmaṇaḥ kṣatriyo hy aham na ca me pravaṇā buddhiḥ parapuṇyavināśane 20 etasminn eva kāle tu mṛgacaryā kramāgatām mādhavīṃ prekṣya rājānas te 'bhivādyedam abruvan 21 kim āgamanakṛtyaṃ te kiṃ kurvaḥ śāsanaṃ tava ājñāpyā hi vayaṃ sarve tava putrās tapodhane 22 teṣāṃ tad bhāṣitaṃ śrutvā mādhavī parayā mudā pitaraṃ samupāgacchad yayātiṃ sā vavanda ca 23 dṛṣṭvā mūrdhnā natān putrāṃs tāpasī vākyam abravīt dauhitrās tava rājendra mama putrā na te parāḥ ime tvāṃ tārayiṣyanti diṣṭam etat purātanam 24 ahaṃ te duhitā rājan mādhavī mṛgacāriṇī mayāpy upacito dharmas tato 'rdhaṃ pratigṛhyatām 25 yasmād rājan narāḥ sarve apatyaphalabhāginaḥ tasmād icchanti dauhitrān yathā tvaṃ vasudhādhipa 26 tatas te pārthivāḥ sarve śirasā jananīṃ tadā abhivādya namaskṛtya mātāmaham athābruvan 27 uccair anupamaiḥ snigdhaiḥ svarair āpūya medinīm mātāmahaṃ nṛpatayas tārayanto divaś cyutam 28 atha tasmād upagato gālavo 'py āha pārthivam tapaso me 'ṣṭa bhāgena svargam ārohatāṃ bhavān |
The Mahabharata in Sanskrit
Book 5
Chapter 120
|
1
[न] परत्यभिज्ञात मात्रॊ ऽथ सद्भिस तैर नरपुंगवः ययातिर दिव्यसंस्थानॊ बभूव विगतज्वरः 2 दिव्यमाल्याम्बरधरॊ दिव्याभरणभूषितः दिव्यगन्धगुणॊपेतॊ न पृथ्वीम अस्पृशत तदा 3 ततॊ वसु मनाः पूर्वम उच्चैर उच्चारयन वचः खयातॊ दानपतिर लॊके वयाजहार नृपं तदा 4 पराप्तवान अस्मि यल लॊके सर्ववर्णेष्व अगर्हया तद अप्य अथ च दास्यामि तेन संयुज्यतां भवान 5 यत फलं दानशीलस्य कषमा शीलस्य यत फलम यच च मे फलम आधाने तेन संयुज्यतां भवान 6 ततः परतर्दनॊ ऽपय आह वाक्यं कषत्रिय पुंगवः यथा धर्मरतिर नित्यं नित्यं युद्धपरायणः 7 पराप्तवान अस्मि यल लॊके कषत्रधर्मॊद्भवं यशः वीर शब्दफलं चैव तेन संयुज्यतां भवान 8 शिबिरौशीनरॊ धीमान उवाच मधुरां गिरम यथा बालेषु नारीषु वैहार्येषु तथैव च 9 संगरेषु निपातेषु तथापद वयसनेषु च अनृतं नॊक्तपूर्वं मे तेन सत्येन खं वरज 10 यथाप्राणांश च राज्यं च राजन कर्म सुखानि च तयजेयं न पुनः सत्यं तेन सत्येन खं वरज 11 यथासत्येन मे धर्मॊ यथासत्येन पावकः परीतः शक्रश च सत्येन तेन सत्येन खं वरज 12 अष्टकस तव अथ राजर्षिः कौशिकॊ माधवी सुतः अनेकशतयज्वानं वचनं पराह धर्मवित 13 शतशः पुण्डरीका मे गॊसवाश च चिताः परभॊ करतवॊ वाजपेयाश च तेषां फलम अवाप्नुहि 14 न मे रत्नानि न धनं न तथान्ये परिच्छदाः करतुष्व अनुपयुक्तानि तेन सत्येन खं वरज 15 यथा यथा हि जल्पन्ति दौहित्रास तं नराधिपम तथा तथा वसुमतीं तयक्त्वा राजा दिवं ययौ 16 एवं सर्वे समस्तास ते राजानः सुकृतैस तदा ययातिं सवर्गतॊ भरष्टं तारयाम आसुर अञ्जसा 17 दौहित्राः सवेन धर्मेण यज्ञदानकृतेन वै चतुर्षु राजवंशेषु संभूताः कुलवर्धनाः मातामहं महाप्राज्ञं दिवम आरॊपयन्ति ते 18 राजधर्मगुणॊपेताः सर्वधर्मगुणान्विताः दौहित्रास ते वयं राजन दिवम आरॊह पार्थिवः |
1
[n] pratyabhijñāta mātro 'tha sadbhis tair narapuṃgavaḥ yayātir divyasaṃsthāno babhūva vigatajvaraḥ 2 divyamālyāmbaradharo divyābharaṇabhūṣitaḥ divyagandhaguṇopeto na pṛthvīm aspṛśat tadā 3 tato vasu manāḥ pūrvam uccair uccārayan vacaḥ khyāto dānapatir loke vyājahāra nṛpaṃ tadā 4 prāptavān asmi yal loke sarvavarṇeṣv agarhayā tad apy atha ca dāsyāmi tena saṃyujyatāṃ bhavān 5 yat phalaṃ dānaśīlasya kṣamā śīlasya yat phalam yac ca me phalam ādhāne tena saṃyujyatāṃ bhavān 6 tataḥ pratardano 'py āha vākyaṃ kṣatriya puṃgavaḥ yathā dharmaratir nityaṃ nityaṃ yuddhaparāyaṇaḥ 7 prāptavān asmi yal loke kṣatradharmodbhavaṃ yaśaḥ vīra śabdaphalaṃ caiva tena saṃyujyatāṃ bhavān 8 śibirauśīnaro dhīmān uvāca madhurāṃ giram yathā bāleṣu nārīṣu vaihāryeṣu tathaiva ca 9 saṃgareṣu nipāteṣu tathāpad vyasaneṣu ca anṛtaṃ noktapūrvaṃ me tena satyena khaṃ vraja 10 yathāprāṇāṃś ca rājyaṃ ca rājan karma sukhāni ca tyajeyaṃ na punaḥ satyaṃ tena satyena khaṃ vraja 11 yathāsatyena me dharmo yathāsatyena pāvakaḥ prītaḥ śakraś ca satyena tena satyena khaṃ vraja 12 aṣṭakas tv atha rājarṣiḥ kauśiko mādhavī sutaḥ anekaśatayajvānaṃ vacanaṃ prāha dharmavit 13 śataśaḥ puṇḍarīkā me gosavāś ca citāḥ prabho kratavo vājapeyāś ca teṣāṃ phalam avāpnuhi 14 na me ratnāni na dhanaṃ na tathānye paricchadāḥ kratuṣv anupayuktāni tena satyena khaṃ vraja 15 yathā yathā hi jalpanti dauhitrās taṃ narādhipam tathā tathā vasumatīṃ tyaktvā rājā divaṃ yayau 16 evaṃ sarve samastās te rājānaḥ sukṛtais tadā yayātiṃ svargato bhraṣṭaṃ tārayām āsur añjasā 17 dauhitrāḥ svena dharmeṇa yajñadānakṛtena vai caturṣu rājavaṃśeṣu saṃbhūtāḥ kulavardhanāḥ mātāmahaṃ mahāprājñaṃ divam āropayanti te 18 rājadharmaguṇopetāḥ sarvadharmaguṇānvitāḥ dauhitrās te vayaṃ rājan divam āroha pārthivaḥ |
The Mahabharata in Sanskrit
Book 5
Chapter 121
|
1
[न] सद्भिर आरॊपितः सवर्गं पार्थिवैर भूरिदक्षिणैः अभ्यनुज्ञाय दौहित्रान ययातिर दिवम आस्थितः 2 अभिवृष्टश च वर्षेण नानापुष्पसुगन्धिना परिष्वक्तश च पुण्येन वायुना पुण्यगन्धिना 3 अचलं सथानम आरुह्य दौहित्र फलनिर्जितम कर्मभिः सवैर उपचितॊ जज्वाल परया शरिया 4 उपगीतॊपनृत्तश च गन्धर्वाप्सरसां गणैः परीत्या परतिगृहीतश च सवर्गे दुन्दुभिनिस्वनैः 5 अभिष्टुतश च विविधैर देवराजर्षिचारणैः अर्चितश चॊत्तमार्घेण दैवतैर अभिनन्दितः 6 पराप्तः सवर्गफलं चैव तम उवाच पितामहः निर्वृतं शान्तमनसं वचॊभिस तर्पयन्न इव 7 चतुष पादस तवया धर्मश चितॊ लॊक्येन कर्मणा अक्षयस तव लॊकॊ ऽयं कीर्तिश चैवाक्षया दिवि पुनस तवाद्य राजर्षे सुकृतेनेह कर्मणा 8 आवृतं तमसा चेतः सर्वेषां सवर्गवासिनाम येन तवां नाभिजानन्ति ततॊ ऽजञात्वासि पातितः 9 परीत्यैव चासि दौहित्रैस तारितस तवम इहागतः सथानं च परतिपन्नॊ ऽसि कर्मणा सवेन निर्जितम अचलं शाश्वतं पुण्यम उत्तमं धरुवम अव्ययम 10 भगवन संशयॊ मे ऽसति कश चित तं छेत्तुम अर्हसि न हय अन्यम अहम अर्हामि परष्टुं लॊकपितामह 11 बहुवर्षसहस्रान्तं परजापालनवर्धितम अनेकक्रतुदानौघैर अर्जितं मे महत फलम 12 कथं तद अल्पकालेन कषीणं येनास्मि पातितः भगवन वेत्थ लॊकांश च शाश्वतान मम निर्जितान 13 बहुवर्षसहस्रान्तं परजापालनवर्धितम अनेकक्रतुदानौघैर यत तवयॊपार्जितं फलम 14 तद अनेनैव दॊषेण कषीणं येनासि पातितः अभिमानेन राजेन्द्र धिक्कृतः सवर्गवासिभिः 15 नायं मानेन राजर्षे न बलेन न हिंसया न शाठ्येन न मायाभिर लॊकॊ भवति शाश्वतः 16 नावमान्यास तवया राजन्न अवरॊत्कृष्टमध्यमाः न हि मानप्रदग्धानां कश चिद अस्ति समः कव चित 17 पतनारॊहणम इदं कथयिष्यन्ति ये नराः विषमाण्य अपि ते पराप्तास तरिष्यन्ति न संशयः 18 एष दॊषॊ ऽभिमानेन पुरा पराप्तॊ ययातिना निर्बन्धतश चातिमात्रं गालवेन महीपते 19 शरॊतव्यं हितकामानां सुहृदां भूतिम इच्छताम न कर्तव्यॊ हि निर्बन्धॊ निर्बन्धॊ हि कषयॊदयः 20 तस्मात तवम अपि गान्धारे मानं करॊधं च वर्जय संधत्स्व पाण्डवैर वीर संरम्भं तयज पार्थिव 21 ददाति यत पार्थिव यत करॊति; यद वा तपस तप्यति यज जुहॊति न तस्य नाशॊ ऽसति न चापकर्षॊ; नान्यस तद अश्नाति स एव कर्ता 22 इदं महाख्यानम अनुत्तमं मतं; बहुश्रुतानां गतरॊषरागिणाम समीक्ष्य लॊके बहुधा परधाविता; तरिवर्गदृष्टिः पृथिवीम उपाश्नुते |
1
[n] sadbhir āropitaḥ svargaṃ pārthivair bhūridakṣiṇaiḥ abhyanujñāya dauhitrān yayātir divam āsthitaḥ 2 abhivṛṣṭaś ca varṣeṇa nānāpuṣpasugandhinā pariṣvaktaś ca puṇyena vāyunā puṇyagandhinā 3 acalaṃ sthānam āruhya dauhitra phalanirjitam karmabhiḥ svair upacito jajvāla parayā śriyā 4 upagītopanṛttaś ca gandharvāpsarasāṃ gaṇaiḥ prītyā pratigṛhītaś ca svarge dundubhinisvanaiḥ 5 abhiṣṭutaś ca vividhair devarājarṣicāraṇaiḥ arcitaś cottamārgheṇa daivatair abhinanditaḥ 6 prāptaḥ svargaphalaṃ caiva tam uvāca pitāmahaḥ nirvṛtaṃ śāntamanasaṃ vacobhis tarpayann iva 7 catuṣ pādas tvayā dharmaś cito lokyena karmaṇā akṣayas tava loko 'yaṃ kīrtiś caivākṣayā divi punas tavādya rājarṣe sukṛteneha karmaṇā 8 āvṛtaṃ tamasā cetaḥ sarveṣāṃ svargavāsinām yena tvāṃ nābhijānanti tato 'jñātvāsi pātitaḥ 9 prītyaiva cāsi dauhitrais tāritas tvam ihāgataḥ sthānaṃ ca pratipanno 'si karmaṇā svena nirjitam acalaṃ śāśvataṃ puṇyam uttamaṃ dhruvam avyayam 10 bhagavan saṃśayo me 'sti kaś cit taṃ chettum arhasi na hy anyam aham arhāmi praṣṭuṃ lokapitāmaha 11 bahuvarṣasahasrāntaṃ prajāpālanavardhitam anekakratudānaughair arjitaṃ me mahat phalam 12 kathaṃ tad alpakālena kṣīṇaṃ yenāsmi pātitaḥ bhagavan vettha lokāṃś ca śāśvatān mama nirjitān 13 bahuvarṣasahasrāntaṃ prajāpālanavardhitam anekakratudānaughair yat tvayopārjitaṃ phalam 14 tad anenaiva doṣeṇa kṣīṇaṃ yenāsi pātitaḥ abhimānena rājendra dhikkṛtaḥ svargavāsibhiḥ 15 nāyaṃ mānena rājarṣe na balena na hiṃsayā na śāṭhyena na māyābhir loko bhavati śāśvataḥ 16 nāvamānyās tvayā rājann avarotkṛṣṭamadhyamāḥ na hi mānapradagdhānāṃ kaś cid asti samaḥ kva cit 17 patanārohaṇam idaṃ kathayiṣyanti ye narāḥ viṣamāṇy api te prāptās tariṣyanti na saṃśayaḥ 18 eṣa doṣo 'bhimānena purā prāpto yayātinā nirbandhataś cātimātraṃ gālavena mahīpate 19 śrotavyaṃ hitakāmānāṃ suhṛdāṃ bhūtim icchatām na kartavyo hi nirbandho nirbandho hi kṣayodayaḥ 20 tasmāt tvam api gāndhāre mānaṃ krodhaṃ ca varjaya saṃdhatsva pāṇḍavair vīra saṃrambhaṃ tyaja pārthiva 21 dadāti yat pārthiva yat karoti; yad vā tapas tapyati yaj juhoti na tasya nāśo 'sti na cāpakarṣo; nānyas tad aśnāti sa eva kartā 22 idaṃ mahākhyānam anuttamaṃ mataṃ; bahuśrutānāṃ gataroṣarāgiṇām samīkṣya loke bahudhā pradhāvitā; trivargadṛṣṭiḥ pṛthivīm upāśnute |
The Mahabharata in Sanskrit
Book 5
Chapter 122
|
1
[धृ] भगवन्न एवम एवैतद यथा वदसि नारद इच्छामि चाहम अप्य एवं न तव ईशॊ भगवन्न अहम 2 एवम उक्त्वा ततः कृष्णम अभ्यभाषत भारत सवर्ग्यं लॊक्यं च माम आत्थ धर्म्यं नयाय्यं च केशव 3 न तव अहं सववशस तात करियमाणं न मे परियम अङ्गदुर्यॊधनं कृष्ण मन्दं शास्त्रातिगं मम 4 अनुनेतुं महाबाहॊ यतस्व पुरुषॊत्तम सुहृत कार्यं तु सुमहत कृतं ते सयाज जनार्दन 5 ततॊ ऽभयावृत्य वार्ष्णेयॊ दुर्यॊधनम अमर्षणम अब्रवीन मधुरां वाचं सर्वधर्मार्थतत्त्ववित 6 दुर्यॊधन निबॊधेदं मद्वाक्यं कुरुसत्तम समर्थं ते विशेषेण सानुबन्धस्य भारत 7 महाप्राज्ञ कुले जातः साध्व एतत कर्तुम अर्हसि शरुतवृत्तॊपसंपन्नः सर्वैः समुदितॊ गुणैः 8 दौष्कुलेया दुरात्मानॊ नृषंशा निरपत्रपाः त एतद ईदृशं कुर्युर यथा तवं तात मन्यसे 9 धर्मार्थयुक्ता लॊके ऽसमिन परवृत्तिर लक्ष्यते सताम असतां विपरीता तु लक्ष्यते भरतर्षभ 10 विपरीता तव इयं वृत्तिर असकृल लक्ष्यते तवयि अधर्मश चानुबन्धॊ ऽतर घॊरः पराणहरॊ महान 11 अनेकशस तवन्निमित्तम अयशस्यं च भारत तम अनर्थं परिहरन्न आत्मश्रेयः करिष्यसि 12 भरातॄणाम अथ भृत्यानां मित्राणां च परंतप अधर्म्याद अयशस्याच च कर्मणस तवं परमॊक्ष्यसे 13 पराज्ञैः शूरैर महॊत्साहैर आत्मवद्भिर बहुश्रुतैः संधत्स्व पुरुषव्याघ्र पाण्डवैर भरतर्षभ 14 तद धितं च परियं चैव धृतराष्ट्रस्य धीमतः पितामहस्य दरॊणस्य विदुरस्य महामतेः 15 कृपस्य सॊमदत्तस्य बाह्लीकस्य च धीमतः अश्वत्थाम्नॊ विकर्णस्य संजयस्य विशां पते 16 जञातीनां चैव भूयिष्ठं मित्राणां च परंतप शमे शर्म भवेत तात सर्वस्य जगतस तथा 17 हरीमान असि कुले जातः शरुतवान अनृशंसवान तिष्ठ तात पितुः शास्त्रे मातुश च भरतर्षभ 18 एतच छरेयॊ हि मन्यन्ते पिता यच छास्ति भारत उत्तमापद गतः सर्वः पितुः समरति शासनम 19 रॊचते ते पितुस तात पाण्डवैः सह संगमः सामात्यस्य कुरुश्रेष्ठ तत तुभ्यं तात रॊचताम 20 शरुत्वा यः सुहृदां शास्त्रं मर्त्यॊ न परतिपद्यते विपाकान्ते दहत्य एनं किं पाकम इव भक्षितम 21 यस तु निःश्रेयसं वाक्यं मॊहान न परतिपद्यते स दीर्घसूत्रॊ हीनार्थः पश्चात तापेन युज्यते 22 यस तु निःश्रेयसं शरुत्वा पराप्तम एवाभिपद्यते आत्मनॊ मतम उत्सृज्य स लॊके सुखम एधते 23 यॊ ऽरथकामस्य वचनं परातिकूल्यान न मृष्यते शृणॊति परतिकूलानि दविषतां वशम एति सः 24 सतां मतम अतिक्रम्य यॊ ऽसतां वर्तते मते शॊचन्ते वयसने तस्य सुहृदॊ नचिराद इव 25 मुख्यान अमात्यान उत्सृज्य यॊ निहीनान निषेवते स घॊराम आपदं पराप्य नॊत्तारम अधिगच्छति 26 यॊ ऽसत सेवी वृथाचारॊ न शरॊता सुहृदां सदा परान वृणीते सवान दवेष्टि तं गौः शपति भारत 27 स तवं विरुध्य तैर वीरैर अन्येभ्यस तराणम इच्छसि अशिष्टेभ्यॊ ऽसमर्थेभ्यॊ मूढेभ्यॊ भरतर्षभ 28 कॊ हि शक्रं समाञ जञातीन अतिक्रम्य महारथान अन्येभ्यस तराणम आशंसेत तवदन्यॊ भुवि मानवः 29 जन्मप्रभृति कौन्तेया नित्यं विनिकृतास तवया न च ते जातु कुप्यन्ति धर्मात्मानॊ हि पाण्डवाः 30 मिथ्या परचरितास तात जन्मप्रभृति पाण्डवाः तवयि सम्यङ महाबाहॊ परतिपन्ना यशस्विनः 31 तवयापि परतिपत्तव्यं तथैव भरतर्षभ सवेषु बन्धुषु मुख्येषु मा मन्युवशम अन्वगाः 32 तरिवर्गयुक्ता पराज्ञानाम आरम्भा भरतर्षभ धर्मार्थाव अनुरुध्यन्ते तरिवर्गासंभवे नराः 33 पृथक तु विनिविष्टानां धर्मं धीरॊ ऽनुरुध्यते मध्यमॊ ऽरथं कलिं बालः कामम एवानुरुध्यते 34 इन्द्रियैः परसृतॊ लॊभाद धर्मं विप्रजहाति यः कामार्थाव अनुपायेन लिप्समानॊ विनश्यति 35 कामार्थौ लिप्समानस तु धर्मम एवादितश चरेत न हि धर्माद अपैत्य अर्थः कामॊ वापि कदा चन 36 उपायं धर्मम एवाहुस तरिवर्गस्य विशां पते लिप्समानॊ हि तेनाशु कक्षे ऽगनिर इव वर्धते 37 स तवं तातानुपायेन लिप्ससे भरतर्षभ आधिराज्यं महद दीप्तं परथितं सर्वराजसु 38 आत्मानं तक्षति हय एष वनं परशुना यथा यः सम्यग वर्तमानेषु मिथ्या राजन परवर्तते 39 न तस्य हि मतिं छिन्द्याद यस्य नेच्छेत पराभवम अविच्छिन्नस्य धीरस्य कल्याणे धीयते मतिः 40 तयक्तात्मानं न बाधेत तरिषु लॊकेषु भारत अप्य अन्यं पराकृतं किं चित किम उ तान पाण्डवर्षभान 41 अमर्षवशम आपन्नॊ न किं चिद बुध्यते नरः छिद्यते हय आततं सर्वं परमाणं पश्य भारत 42 शरेयस ते दुर्जनात तात पाण्डवैः सह संगमः तैर हि संप्रीयमाणस तवं सर्वान कामान अवाप्स्यसि 43 पाण्डवैर निर्जितां भूमिं भुञ्जानॊ राजसत्तम पाण्डवान पृष्ठतः कृत्वा तराणम आशंससे ऽनयथ 44 दुःशासने दुर्विषहे कर्णे चापि ससौबले एतेष्व ऐश्वर्यम आधाय भूतिम इच्छसि भारत 45 न चैते तव पर्याप्ता जञाने धर्मार्धयॊस तथा विक्रमे चाप्य अपर्याप्ताः पाण्डवान परति भारत 46 न हीमे सर्वराजानः पर्याप्ताः सहितास तवया करुद्धस्य भीमसेनस्य परेक्षितुं मुखम आहवे 47 इदं संनिहितं तात समग्रं पार्थिवं बलम अयं भीष्मस तथा दरॊणः कर्णश चायं तथा कृपः 48 भूरिश्रवाः सौमदत्तिर अश्वत्थामा जयद्रथः अशक्ताः सर्व एवैते परतियॊद्धुं धनंजयम 49 अजेयॊ हय अर्जुनः करुद्धः सर्वैर अपि सुरासुरैः मानुषैर अपि गन्धर्वैर मा युद्धे चेत आधिथाः 50 दृश्यतां वा पुमान कश चित समग्रे पार्थिवे बले यॊ ऽरजुनं समरे पराप्य सवस्तिमान आव्रजेद गृहान 51 किं ते जनक्षयेणेह कृतेन भरतर्षभ यस्मिञ जिते जितं ते सयात पुमान एकः स दृश्यताम 52 यः स देवान सगन्धर्वान सयक्षासुरपन्नगान अजयत खाण्डव परस्थे कस तं युध्येत मानवः 53 तथा विराटनगरे शरूयते महद अद्भुतम एकस्य च बहूनां च पर्याप्तं तन्निदर्शनम 54 तम अजेयम अनाधृष्यं विजेतुं जिष्णुम अच्युतम आशंससीह समरे वीरम अर्जुनम ऊर्जितम 55 मद्द्वितीयं पुनः पार्थं कः परार्थयितुम अर्हति युद्धे परतीपम आयान्तम अपि साक्षात पुरंदरः 56 बाहुभ्याम उद्धरेद भूमिं दहेत करुद्ध इमाः परजाः पातयेत तरिदिवाद देवान यॊ ऽरजुनं समरे जयेत 57 पश्य पुत्रांस तथा भरातॄञ जञातीन संबन्धिनस तथा तवत्कृते न विनश्येयुर एते भरतसत्तम 58 अस्तु शेषं कौरवाणां मा पराभूद इदं कुलम कुलघ्न इति नॊच्येथा नष्टकीर्तिर नराधिप 59 तवाम एव सथापयिष्यन्ति यौवराज्ये महारथाः महाराज्ये च पितरं धृतराष्ट्रं जनेश्वरम 60 मा तात शरियम आयान्तीम अवमंस्थाः समुद्यताम अर्धं परदाय पार्थेभ्यॊ महतीं शरियम आप्स्यसि 61 पाण्डवैः संशमं कृत्वा कृत्वा च सुहृदां वचः संप्रीयमाणॊ मित्रैश च चिरं भद्राण्य अवाप्स्यसि |
1
[dhṛ] bhagavann evam evaitad yathā vadasi nārada icchāmi cāham apy evaṃ na tv īśo bhagavann aham 2 evam uktvā tataḥ kṛṣṇam abhyabhāṣata bhārata svargyaṃ lokyaṃ ca mām āttha dharmyaṃ nyāyyaṃ ca keśava 3 na tv ahaṃ svavaśas tāta kriyamāṇaṃ na me priyam aṅgaduryodhanaṃ kṛṣṇa mandaṃ śāstrātigaṃ mama 4 anunetuṃ mahābāho yatasva puruṣottama suhṛt kāryaṃ tu sumahat kṛtaṃ te syāj janārdana 5 tato 'bhyāvṛtya vārṣṇeyo duryodhanam amarṣaṇam abravīn madhurāṃ vācaṃ sarvadharmārthatattvavit 6 duryodhana nibodhedaṃ madvākyaṃ kurusattama samarthaṃ te viśeṣeṇa sānubandhasya bhārata 7 mahāprājña kule jātaḥ sādhv etat kartum arhasi śrutavṛttopasaṃpannaḥ sarvaiḥ samudito guṇaiḥ 8 dauṣkuleyā durātmāno nṛṣaṃśā nirapatrapāḥ ta etad īdṛśaṃ kuryur yathā tvaṃ tāta manyase 9 dharmārthayuktā loke 'smin pravṛttir lakṣyate satām asatāṃ viparītā tu lakṣyate bharatarṣabha 10 viparītā tv iyaṃ vṛttir asakṛl lakṣyate tvayi adharmaś cānubandho 'tra ghoraḥ prāṇaharo mahān 11 anekaśas tvannimittam ayaśasyaṃ ca bhārata tam anarthaṃ pariharann ātmaśreyaḥ kariṣyasi 12 bhrātṝṇām atha bhṛtyānāṃ mitrāṇāṃ ca paraṃtapa adharmyād ayaśasyāc ca karmaṇas tvaṃ pramokṣyase 13 prājñaiḥ śūrair mahotsāhair ātmavadbhir bahuśrutaiḥ saṃdhatsva puruṣavyāghra pāṇḍavair bharatarṣabha 14 tad dhitaṃ ca priyaṃ caiva dhṛtarāṣṭrasya dhīmataḥ pitāmahasya droṇasya vidurasya mahāmateḥ 15 kṛpasya somadattasya bāhlīkasya ca dhīmataḥ aśvatthāmno vikarṇasya saṃjayasya viśāṃ pate 16 jñātīnāṃ caiva bhūyiṣṭhaṃ mitrāṇāṃ ca paraṃtapa śame śarma bhavet tāta sarvasya jagatas tathā 17 hrīmān asi kule jātaḥ śrutavān anṛśaṃsavān tiṣṭha tāta pituḥ śāstre mātuś ca bharatarṣabha 18 etac chreyo hi manyante pitā yac chāsti bhārata uttamāpad gataḥ sarvaḥ pituḥ smarati śāsanam 19 rocate te pitus tāta pāṇḍavaiḥ saha saṃgamaḥ sāmātyasya kuruśreṣṭha tat tubhyaṃ tāta rocatām 20 śrutvā yaḥ suhṛdāṃ śāstraṃ martyo na pratipadyate vipākānte dahaty enaṃ kiṃ pākam iva bhakṣitam 21 yas tu niḥśreyasaṃ vākyaṃ mohān na pratipadyate sa dīrghasūtro hīnārthaḥ paścāt tāpena yujyate 22 yas tu niḥśreyasaṃ śrutvā prāptam evābhipadyate ātmano matam utsṛjya sa loke sukham edhate 23 yo 'rthakāmasya vacanaṃ prātikūlyān na mṛṣyate śṛṇoti pratikūlāni dviṣatāṃ vaśam eti saḥ 24 satāṃ matam atikramya yo 'satāṃ vartate mate śocante vyasane tasya suhṛdo nacirād iva 25 mukhyān amātyān utsṛjya yo nihīnān niṣevate sa ghorām āpadaṃ prāpya nottāram adhigacchati 26 yo 'sat sevī vṛthācāro na śrotā suhṛdāṃ sadā parān vṛṇīte svān dveṣṭi taṃ gauḥ śapati bhārata 27 sa tvaṃ virudhya tair vīrair anyebhyas trāṇam icchasi aśiṣṭebhyo 'samarthebhyo mūḍhebhyo bharatarṣabha 28 ko hi śakraṃ samāñ jñātīn atikramya mahārathān anyebhyas trāṇam āśaṃset tvadanyo bhuvi mānavaḥ 29 janmaprabhṛti kaunteyā nityaṃ vinikṛtās tvayā na ca te jātu kupyanti dharmātmāno hi pāṇḍavāḥ 30 mithyā pracaritās tāta janmaprabhṛti pāṇḍavāḥ tvayi samyaṅ mahābāho pratipannā yaśasvinaḥ 31 tvayāpi pratipattavyaṃ tathaiva bharatarṣabha sveṣu bandhuṣu mukhyeṣu mā manyuvaśam anvagāḥ 32 trivargayuktā prājñānām ārambhā bharatarṣabha dharmārthāv anurudhyante trivargāsaṃbhave narāḥ 33 pṛthak tu viniviṣṭānāṃ dharmaṃ dhīro 'nurudhyate madhyamo 'rthaṃ kaliṃ bālaḥ kāmam evānurudhyate 34 indriyaiḥ prasṛto lobhād dharmaṃ viprajahāti yaḥ kāmārthāv anupāyena lipsamāno vinaśyati 35 kāmārthau lipsamānas tu dharmam evāditaś caret na hi dharmād apaity arthaḥ kāmo vāpi kadā cana 36 upāyaṃ dharmam evāhus trivargasya viśāṃ pate lipsamāno hi tenāśu kakṣe 'gnir iva vardhate 37 sa tvaṃ tātānupāyena lipsase bharatarṣabha ādhirājyaṃ mahad dīptaṃ prathitaṃ sarvarājasu 38 ātmānaṃ takṣati hy eṣa vanaṃ paraśunā yathā yaḥ samyag vartamāneṣu mithyā rājan pravartate 39 na tasya hi matiṃ chindyād yasya necchet parābhavam avicchinnasya dhīrasya kalyāṇe dhīyate matiḥ 40 tyaktātmānaṃ na bādheta triṣu lokeṣu bhārata apy anyaṃ prākṛtaṃ kiṃ cit kim u tān pāṇḍavarṣabhān 41 amarṣavaśam āpanno na kiṃ cid budhyate naraḥ chidyate hy ātataṃ sarvaṃ pramāṇaṃ paśya bhārata 42 śreyas te durjanāt tāta pāṇḍavaiḥ saha saṃgamaḥ tair hi saṃprīyamāṇas tvaṃ sarvān kāmān avāpsyasi 43 pāṇḍavair nirjitāṃ bhūmiṃ bhuñjāno rājasattama pāṇḍavān pṛṣṭhataḥ kṛtvā trāṇam āśaṃsase 'nyatha 44 duḥśāsane durviṣahe karṇe cāpi sasaubale eteṣv aiśvaryam ādhāya bhūtim icchasi bhārata 45 na caite tava paryāptā jñāne dharmārdhayos tathā vikrame cāpy aparyāptāḥ pāṇḍavān prati bhārata 46 na hīme sarvarājānaḥ paryāptāḥ sahitās tvayā kruddhasya bhīmasenasya prekṣituṃ mukham āhave 47 idaṃ saṃnihitaṃ tāta samagraṃ pārthivaṃ balam ayaṃ bhīṣmas tathā droṇaḥ karṇaś cāyaṃ tathā kṛpaḥ 48 bhūriśravāḥ saumadattir aśvatthāmā jayadrathaḥ aśaktāḥ sarva evaite pratiyoddhuṃ dhanaṃjayam 49 ajeyo hy arjunaḥ kruddhaḥ sarvair api surāsuraiḥ mānuṣair api gandharvair mā yuddhe ceta ādhithāḥ 50 dṛśyatāṃ vā pumān kaś cit samagre pārthive bale yo 'rjunaṃ samare prāpya svastimān āvrajed gṛhān 51 kiṃ te janakṣayeṇeha kṛtena bharatarṣabha yasmiñ jite jitaṃ te syāt pumān ekaḥ sa dṛśyatām 52 yaḥ sa devān sagandharvān sayakṣāsurapannagān ajayat khāṇḍava prasthe kas taṃ yudhyeta mānavaḥ 53 tathā virāṭanagare śrūyate mahad adbhutam ekasya ca bahūnāṃ ca paryāptaṃ tannidarśanam 54 tam ajeyam anādhṛṣyaṃ vijetuṃ jiṣṇum acyutam āśaṃsasīha samare vīram arjunam ūrjitam 55 maddvitīyaṃ punaḥ pārthaṃ kaḥ prārthayitum arhati yuddhe pratīpam āyāntam api sākṣāt puraṃdaraḥ 56 bāhubhyām uddhared bhūmiṃ dahet kruddha imāḥ prajāḥ pātayet tridivād devān yo 'rjunaṃ samare jayet 57 paśya putrāṃs tathā bhrātṝñ jñātīn saṃbandhinas tathā tvatkṛte na vinaśyeyur ete bharatasattama 58 astu śeṣaṃ kauravāṇāṃ mā parābhūd idaṃ kulam kulaghna iti nocyethā naṣṭakīrtir narādhipa 59 tvām eva sthāpayiṣyanti yauvarājye mahārathāḥ mahārājye ca pitaraṃ dhṛtarāṣṭraṃ janeśvaram 60 mā tāta śriyam āyāntīm avamaṃsthāḥ samudyatām ardhaṃ pradāya pārthebhyo mahatīṃ śriyam āpsyasi 61 pāṇḍavaiḥ saṃśamaṃ kṛtvā kṛtvā ca suhṛdāṃ vacaḥ saṃprīyamāṇo mitraiś ca ciraṃ bhadrāṇy avāpsyasi |
The Mahabharata in Sanskrit
Book 5
Chapter 123
|
1
[व] ततः शांतनवॊ भीष्मॊ दुर्यॊधनम अमर्षणम केशवस्य वचः शरुत्वा परॊवाच भरतर्षभ 2 कृष्णेन वाक्यम उक्तॊ ऽसि सुहृदां शमम इच्छता अनुपश्यस्व तत तात मा मन्युवशम अन्वगाः 3 अकृत्वा वचनं तात केशवस्य महात्मनः शरेयॊ न जातु न सुखं न कल्याणम अवाप्स्यसि 4 धर्म्यम अर्थं महाबाहुर आह तवां तात केशवः तम अर्थम अभिपद्यस्व मा राजन नीनशः परजाः 5 इमां शरियं परज्वलितां भारतीं सर्वराजसु जीवतॊ धृतराष्ट्रस्य दौरात्म्याद भरंशयिष्यसि 6 आत्मानं च सहामात्यं सपुत्रपशुबान्धवम सह मित्रम असद बुद्ध्या जीविताद भरंशयिष्यसि 7 अतिक्रामन केशवस्य तथ्यं वचनम अर्थवत पितुश च भतर शरेष्ठ विदुरस्य च धीमतः 8 मा कुलघ्नॊ ऽनतपुरुषॊ दुर्मतिः कापथं गमः पितरं मातरं चैव वृद्धौ शॊकाय मा ददः 9 अथ दरॊणॊ ऽबरवीत तत्र दुर्यॊधनम इदं वचः अमर्षवशम आपन्नॊ निःश्वसन्तं पुनः पुनः 10 धर्मार्थयुक्तं वचनम आह तवां तात केशवः तथा भीष्मः शांतनवस तज जुषस्व नराधिप 11 पराज्ञौ मेधाविनौ दान्ताव अर्थकामौ बहुश्रुतौ आहतुस तवां हितं वाक्यं तद आदत्स्व परंतप 12 अनुतिष्ठ महाप्राज्ञ कृष्ण भीष्मौ यद ऊचतुः मा वचॊ लघु बुद्धीनां समास्थास तवं परंतप 13 ये तवां परॊत्साहयन्त्य एते नैते कृत्याय कर्हि चित वैरं परेषां गरीवायां परतिमॊक्ष्यन्ति संयुगे 14 मा कुरूञ जीघनः सर्वान पुत्रान भरातॄंस तथैव च वासुदेवार्जुनौ यत्र विद्ध्य अजेयं बलं हि तत 15 एतच चैव मतं सत्यं सुहृदॊः कृष्ण भीष्मयॊः यदि नादास्यसे तात पश्चात तप्स्यसि भारत 16 यथॊक्तं जामदग्न्येन भूयान एव ततॊ ऽरजुनः कृष्णॊ हि देवकीपुत्रॊ देवैर अपि दुरुत्सहः 17 किं ते सुखप्रियेणेह परॊक्तेन भरतर्षभ एतत ते सर्वम आख्यातं यथेच्छसि तथा कुरु न हि तवाम उत्सहे वक्तुं भूयॊ भरतसत्तम 18 तस्मिन वाक्यान्तरे वाक्यं कषत्तापि विदुरॊ ऽबरवीत दुर्यॊधनम अभिप्रेक्ष्य धार्तराष्ट्रम अमर्षणम 19 दुर्यॊधन न शॊचामि तवाम अहं भरतर्षभ इमौ तु वृद्धौ शॊचामि गान्धारीं पितरं च ते 20 याव अनाथौ चरिष्येते तवया नाथेन दुर्हृदा हतमित्रौ हतामात्यौ लूनपक्षाव इव दविजौ 21 भिक्षुकौ विचरिष्येते शॊचन्तौ पृथिवीम इमाम कुलघ्नम ईदृशं पापं जनयित्वा कुपूरुषम 22 अथ दुर्यॊधनं राजा धृतराष्ट्रॊ ऽभयभाषत आसीनं भरातृभिः सार्धं राजभिः परिवारितम 23 दुर्यॊधन निबॊधेदं शौरिणॊक्तं महात्मना आदत्स्व शिवम अत्यन्तं यॊगक्षेमवद अव्ययम 24 अनेन हि सहायेन कृष्णेनाक्लिष्ट कर्मणा इष्टान सर्वान अभिप्रायान पराप्स्यामः सर्वराजसु 25 सुसंहितः केशवेन गच्छ तात युधिष्ठिरम चर सवस्त्ययनं कृत्ष्णं भारतानाम अनामयम 26 वासुदेवेन तीर्थेन तात गच्छस्व संगमम कालप्राप्तम इदं मन्ये मा तवं दुर्यॊधनातिगाः 27 शमं चेद याचमानं तवं परत्याख्यास्यसि केशवम तवदर्थम अभिजल्पन्तं न तवास्त्य अपराभवः |
1
[v] tataḥ śāṃtanavo bhīṣmo duryodhanam amarṣaṇam keśavasya vacaḥ śrutvā provāca bharatarṣabha 2 kṛṣṇena vākyam ukto 'si suhṛdāṃ śamam icchatā anupaśyasva tat tāta mā manyuvaśam anvagāḥ 3 akṛtvā vacanaṃ tāta keśavasya mahātmanaḥ śreyo na jātu na sukhaṃ na kalyāṇam avāpsyasi 4 dharmyam arthaṃ mahābāhur āha tvāṃ tāta keśavaḥ tam artham abhipadyasva mā rājan nīnaśaḥ prajāḥ 5 imāṃ śriyaṃ prajvalitāṃ bhāratīṃ sarvarājasu jīvato dhṛtarāṣṭrasya daurātmyād bhraṃśayiṣyasi 6 ātmānaṃ ca sahāmātyaṃ saputrapaśubāndhavam saha mitram asad buddhyā jīvitād bhraṃśayiṣyasi 7 atikrāman keśavasya tathyaṃ vacanam arthavat pituś ca bhatara śreṣṭha vidurasya ca dhīmataḥ 8 mā kulaghno 'ntapuruṣo durmatiḥ kāpathaṃ gamaḥ pitaraṃ mātaraṃ caiva vṛddhau śokāya mā dadaḥ 9 atha droṇo 'bravīt tatra duryodhanam idaṃ vacaḥ amarṣavaśam āpanno niḥśvasantaṃ punaḥ punaḥ 10 dharmārthayuktaṃ vacanam āha tvāṃ tāta keśavaḥ tathā bhīṣmaḥ śāṃtanavas taj juṣasva narādhipa 11 prājñau medhāvinau dāntāv arthakāmau bahuśrutau āhatus tvāṃ hitaṃ vākyaṃ tad ādatsva paraṃtapa 12 anutiṣṭha mahāprājña kṛṣṇa bhīṣmau yad ūcatuḥ mā vaco laghu buddhīnāṃ samāsthās tvaṃ paraṃtapa 13 ye tvāṃ protsāhayanty ete naite kṛtyāya karhi cit vairaṃ pareṣāṃ grīvāyāṃ pratimokṣyanti saṃyuge 14 mā kurūñ jīghanaḥ sarvān putrān bhrātṝṃs tathaiva ca vāsudevārjunau yatra viddhy ajeyaṃ balaṃ hi tat 15 etac caiva mataṃ satyaṃ suhṛdoḥ kṛṣṇa bhīṣmayoḥ yadi nādāsyase tāta paścāt tapsyasi bhārata 16 yathoktaṃ jāmadagnyena bhūyān eva tato 'rjunaḥ kṛṣṇo hi devakīputro devair api durutsahaḥ 17 kiṃ te sukhapriyeṇeha proktena bharatarṣabha etat te sarvam ākhyātaṃ yathecchasi tathā kuru na hi tvām utsahe vaktuṃ bhūyo bharatasattama 18 tasmin vākyāntare vākyaṃ kṣattāpi viduro 'bravīt duryodhanam abhiprekṣya dhārtarāṣṭram amarṣaṇam 19 duryodhana na śocāmi tvām ahaṃ bharatarṣabha imau tu vṛddhau śocāmi gāndhārīṃ pitaraṃ ca te 20 yāv anāthau cariṣyete tvayā nāthena durhṛdā hatamitrau hatāmātyau lūnapakṣāv iva dvijau 21 bhikṣukau vicariṣyete śocantau pṛthivīm imām kulaghnam īdṛśaṃ pāpaṃ janayitvā kupūruṣam 22 atha duryodhanaṃ rājā dhṛtarāṣṭro 'bhyabhāṣata āsīnaṃ bhrātṛbhiḥ sārdhaṃ rājabhiḥ parivāritam 23 duryodhana nibodhedaṃ śauriṇoktaṃ mahātmanā ādatsva śivam atyantaṃ yogakṣemavad avyayam 24 anena hi sahāyena kṛṣṇenākliṣṭa karmaṇā iṣṭān sarvān abhiprāyān prāpsyāmaḥ sarvarājasu 25 susaṃhitaḥ keśavena gaccha tāta yudhiṣṭhiram cara svastyayanaṃ kṛtṣṇaṃ bhāratānām anāmayam 26 vāsudevena tīrthena tāta gacchasva saṃgamam kālaprāptam idaṃ manye mā tvaṃ duryodhanātigāḥ 27 śamaṃ ced yācamānaṃ tvaṃ pratyākhyāsyasi keśavam tvadartham abhijalpantaṃ na tavāsty aparābhavaḥ |
The Mahabharata in Sanskrit
Book 5
Chapter 124
|
1
[व] धृतराष्ट्रवचः शरुत्वा भीष्मद्रॊणौ समर्थ्य तौ दुर्यॊधनम इदं वाक्यम ऊचतुः शासनातिगम 2 यावत कृष्णाव असंनद्धौ यावत तिष्ठति गाण्डिवम यावद धौम्यॊ न सेनाग्नौ जुह्यॊतीह दविषद बलम 3 यावन न परेक्षते करुद्धः सेनां तव युधिष्ठिरः हरीनिषेधॊ महेष्वासस तावच छाम्यतु वैशसम 4 यावन न दृष्यते पार्थः सवेष्व अनीकेष्व अवस्थितः भीमसेनॊ महैष्वासस तावच छाम्यतु वैशसम 5 यावन न चरते मार्गान पृतनाम अभिहर्षयन यावन न शातयत्य आजौ शिरांसि गतयॊद्निनाम 6 गदया वीर घातिन्या फलानीव वनस्पतेः कालेन परिपक्वानि तावच छाम्यतु वैशसम 7 नकुलः सहदेवश च धृष्टद्युम्नश च पार्षतः विराटश च शिखण्डी च शैशुपालिश च दंशिताः 8 यावन न परविशन्त्य एते नक्रा इव महार्णवम कृतास्त्राः कषिप्रम अस्यन्तस तावच छाम्यतु वैशसम 9 यावन न सुकुमारेषु शरीरेषु महीक्षिताम गार्ध्रपत्राः पतन्त्य उग्रास तावच छाम्यतु वैशसम 10 चन्दनागरुदिग्धेषु हारनिष्कधरेषु च नॊरःसु यावद यॊधानां महेष्वासैर महेषवः 11 कृतास्त्रैः कषिप्रम अस्यद्भिर दूरपातिभिर आयसाः अभिलक्ष्यैर निपात्यन्ते तावच छाम्यतु वैशसम 12 अभिवादयमानं तवां शिरसा राजकुञ्जरः पाणिभ्यां परतिगृह्णातु धर्मराजॊ युधिष्ठिरः 13 धवजाङ्कुश पताकाङ्कं दक्षिणं ते सुदक्षिणः सकन्धे निक्षिपतां बाहुं शान्तये भरतर्षभ 14 रत्नौषधि समेतेन रत्नाङ्गुलि तलेन च उपविष्टस्य पृष्ठं ते पाणिना परिमार्जतु 15 शालस्कन्धॊ महाबाहुस तवां सवजानॊ वृकॊदरः साम्नाभिवदतां चापि शान्तये भरतर्षभ 16 अर्जुनेन यमाभ्यां च तरिभिस तैर अभिवादितः मूर्ध्नि तान समुपाघ्राय परेम्णाभिवद पार्थिव 17 दृष्ट्वा तवां पाण्डवैर वीरैर भरातृभिः सह संगतम यावद आनन्दजाश्रूणि परमुञ्चन्तु नराधिपाः 18 घुष्यतां राजधानीषु सर्वसंपन महीक्षिताम पृथिवी भरातृभावेन भुज्यतां विज्वरॊ भव |
1
[v] dhṛtarāṣṭravacaḥ śrutvā bhīṣmadroṇau samarthya tau duryodhanam idaṃ vākyam ūcatuḥ śāsanātigam 2 yāvat kṛṣṇāv asaṃnaddhau yāvat tiṣṭhati gāṇḍivam yāvad dhaumyo na senāgnau juhyotīha dviṣad balam 3 yāvan na prekṣate kruddhaḥ senāṃ tava yudhiṣṭhiraḥ hrīniṣedho maheṣvāsas tāvac chāmyatu vaiśasam 4 yāvan na dṛṣyate pārthaḥ sveṣv anīkeṣv avasthitaḥ bhīmaseno mahaiṣvāsas tāvac chāmyatu vaiśasam 5 yāvan na carate mārgān pṛtanām abhiharṣayan yāvan na śātayaty ājau śirāṃsi gatayodninām 6 gadayā vīra ghātinyā phalānīva vanaspateḥ kālena paripakvāni tāvac chāmyatu vaiśasam 7 nakulaḥ sahadevaś ca dhṛṣṭadyumnaś ca pārṣataḥ virāṭaś ca śikhaṇḍī ca śaiśupāliś ca daṃśitāḥ 8 yāvan na praviśanty ete nakrā iva mahārṇavam kṛtāstrāḥ kṣipram asyantas tāvac chāmyatu vaiśasam 9 yāvan na sukumāreṣu śarīreṣu mahīkṣitām gārdhrapatrāḥ patanty ugrās tāvac chāmyatu vaiśasam 10 candanāgarudigdheṣu hāraniṣkadhareṣu ca noraḥsu yāvad yodhānāṃ maheṣvāsair maheṣavaḥ 11 kṛtāstraiḥ kṣipram asyadbhir dūrapātibhir āyasāḥ abhilakṣyair nipātyante tāvac chāmyatu vaiśasam 12 abhivādayamānaṃ tvāṃ śirasā rājakuñjaraḥ pāṇibhyāṃ pratigṛhṇātu dharmarājo yudhiṣṭhiraḥ 13 dhvajāṅkuśa patākāṅkaṃ dakṣiṇaṃ te sudakṣiṇaḥ skandhe nikṣipatāṃ bāhuṃ śāntaye bharatarṣabha 14 ratnauṣadhi sametena ratnāṅguli talena ca upaviṣṭasya pṛṣṭhaṃ te pāṇinā parimārjatu 15 śālaskandho mahābāhus tvāṃ svajāno vṛkodaraḥ sāmnābhivadatāṃ cāpi śāntaye bharatarṣabha 16 arjunena yamābhyāṃ ca tribhis tair abhivāditaḥ mūrdhni tān samupāghrāya premṇābhivada pārthiva 17 dṛṣṭvā tvāṃ pāṇḍavair vīrair bhrātṛbhiḥ saha saṃgatam yāvad ānandajāśrūṇi pramuñcantu narādhipāḥ 18 ghuṣyatāṃ rājadhānīṣu sarvasaṃpan mahīkṣitām pṛthivī bhrātṛbhāvena bhujyatāṃ vijvaro bhava |
The Mahabharata in Sanskrit
Book 5
Chapter 125
|
1
[व] शरुत्वा दुर्यॊधनॊ वाक्यम अप्रियं कुरुसंसदि परत्युवाच महाबाहुं वासुदेवं यशस्विनम 2 परसमीक्ष्य भवान एतद वक्तुम अर्हति केशव माम एव हि विशेषेण विभाष्य परिगर्हसे 3 भक्तिवादेन पार्थानाम अकस्मान मधुसूदन भवान गर्हयते नित्यं किं समीक्ष्य बलाबलम 4 भवान कषत्ता च राजा च आचार्यॊ वा पितामहः माम एव परिगर्हन्ते नान्यं कं चन पार्थिवम 5 न चाहं लक्षये कं चिद वयभिचारम इहात्मनः अथ सर्वे भवन्तॊ मां विद्विषन्ति सराजकाः 6 न चाहं कं चिद अत्यर्थम अपराधम अरिंदम विचिन्तयन परपश्यामि सुसूक्ष्मम अपि केशव 7 परियाभ्युपगते दयूते पाण्डवा मधुसूदन जिताः शकुनिना राज्यं तत्र किं मम दुष्कृतम 8 यत पुनर दरविणं किं चित तत्राजीयन्त पाण्डवाः तेभ्य एवाभ्यनुज्ञातं तत तदा मधुसूदन 9 अपराधॊ न चास्माकं यत ते हय अक्षपराजिताः अजेया जयतां शरेष्ठ पार्थाः परव्राजिता वनम 10 केन चाप्य अपवादेन विरुध्यन्ते ऽरिभिः सह अशक्ताः पाण्डवाः कृष्ण परहृष्टाः परत्यमित्रवत 11 किम अस्माभिः कृतं तेषां कस्मिन वा पुनर आगसि धार्तराष्ट्राञ जिघांसन्ति पाण्डवाः सृञ्जयैः सह 12 न चापि वयम उग्रेण कर्मणा वचनेन वा वित्रस्ताः परणमामेह भयाद अपि शतक्रतॊः 13 न च तं कृष्ण पश्यामि कषत्रधर्मम अनुष्ठितम उत्सहेत युधा जेतुं यॊ नः शत्रुनिबर्हण 14 न हि भीष्म कृप दरॊणाः सगणा मधुसूदन देवैर अपि युधा जेतुं शक्याः किम उत पाण्डवैः 15 सवधर्मम अनुतिष्ठन्तॊ यदि माधव संयुगे शस्त्रेण निधनं काले पराप्स्यामः सवर्गम एव तत 16 मुख्यश चैवैष नॊ धर्मः कषत्रियाणां जनार्दन यच छयीमहि संग्रामे शरतल्पगता वयम 17 ते वयं वीरशयनं पराप्स्यामॊ यदि संयुगे अप्रणम्यैव शत्रूणां न नस तप्स्यति माधव 18 कश च जातु कुले जातः कषत्रधर्मेण वर्तयन भयाद वृत्तिं समीक्ष्यैवं परणमेद इह कस्य चित 19 उद्यच्छेद एव न नमेद उद्यमॊ हय एव पौरुषम अप्य अपर्वणि भज्येत न नमेद इह कस्य चित 20 इति मातङ्गवचनं परीप्सन्ति हितेप्सवः धर्माय चैव परणमेद बराह्मणेभ्यश च मद्विधः 21 अचिन्तयन कं चिद अन्यं यावज जीवं तथाचरेत एष धर्मः कषत्रियाणां मतम एतच च मे सदा 22 राज्यांशश चाभ्यनुज्ञातॊ यॊ मे पित्रा पुराभवत न स लभ्यः पुनर्जातु मयि जीवति केशव 23 यावच च राजा धरियते धृतराष्ट्रॊ जनार्दन नयस्तशस्त्रा वयं ते वाप्य उपजीवाम माधव 24 यद्य अदेयं पुरा दत्तं राज्यं परवतॊ मम अज्ञानाद वा भयाद वापि मयि बाले जनार्दन 25 न तद अद्य पुनर लभ्यं पाण्डवै वृष्णिनन्दन धरियमाणे महाबाहॊ मयि संप्रति केशव 26 यावद धि सूच्यास तीक्ष्णाया विध्येद अग्रेण माधव तावद अप्य अपरित्याज्यं भूमेर नः पाण्डवान परति |
1
[v] śrutvā duryodhano vākyam apriyaṃ kurusaṃsadi pratyuvāca mahābāhuṃ vāsudevaṃ yaśasvinam 2 prasamīkṣya bhavān etad vaktum arhati keśava mām eva hi viśeṣeṇa vibhāṣya parigarhase 3 bhaktivādena pārthānām akasmān madhusūdana bhavān garhayate nityaṃ kiṃ samīkṣya balābalam 4 bhavān kṣattā ca rājā ca ācāryo vā pitāmahaḥ mām eva parigarhante nānyaṃ kaṃ cana pārthivam 5 na cāhaṃ lakṣaye kaṃ cid vyabhicāram ihātmanaḥ atha sarve bhavanto māṃ vidviṣanti sarājakāḥ 6 na cāhaṃ kaṃ cid atyartham aparādham ariṃdama vicintayan prapaśyāmi susūkṣmam api keśava 7 priyābhyupagate dyūte pāṇḍavā madhusūdana jitāḥ śakuninā rājyaṃ tatra kiṃ mama duṣkṛtam 8 yat punar draviṇaṃ kiṃ cit tatrājīyanta pāṇḍavāḥ tebhya evābhyanujñātaṃ tat tadā madhusūdana 9 aparādho na cāsmākaṃ yat te hy akṣaparājitāḥ ajeyā jayatāṃ śreṣṭha pārthāḥ pravrājitā vanam 10 kena cāpy apavādena virudhyante 'ribhiḥ saha aśaktāḥ pāṇḍavāḥ kṛṣṇa prahṛṣṭāḥ pratyamitravat 11 kim asmābhiḥ kṛtaṃ teṣāṃ kasmin vā punar āgasi dhārtarāṣṭrāñ jighāṃsanti pāṇḍavāḥ sṛñjayaiḥ saha 12 na cāpi vayam ugreṇa karmaṇā vacanena vā vitrastāḥ praṇamāmeha bhayād api śatakratoḥ 13 na ca taṃ kṛṣṇa paśyāmi kṣatradharmam anuṣṭhitam utsaheta yudhā jetuṃ yo naḥ śatrunibarhaṇa 14 na hi bhīṣma kṛpa droṇāḥ sagaṇā madhusūdana devair api yudhā jetuṃ śakyāḥ kim uta pāṇḍavaiḥ 15 svadharmam anutiṣṭhanto yadi mādhava saṃyuge śastreṇa nidhanaṃ kāle prāpsyāmaḥ svargam eva tat 16 mukhyaś caivaiṣa no dharmaḥ kṣatriyāṇāṃ janārdana yac chayīmahi saṃgrāme śaratalpagatā vayam 17 te vayaṃ vīraśayanaṃ prāpsyāmo yadi saṃyuge apraṇamyaiva śatrūṇāṃ na nas tapsyati mādhava 18 kaś ca jātu kule jātaḥ kṣatradharmeṇa vartayan bhayād vṛttiṃ samīkṣyaivaṃ praṇamed iha kasya cit 19 udyacched eva na named udyamo hy eva pauruṣam apy aparvaṇi bhajyeta na named iha kasya cit 20 iti mātaṅgavacanaṃ parīpsanti hitepsavaḥ dharmāya caiva praṇamed brāhmaṇebhyaś ca madvidhaḥ 21 acintayan kaṃ cid anyaṃ yāvaj jīvaṃ tathācaret eṣa dharmaḥ kṣatriyāṇāṃ matam etac ca me sadā 22 rājyāṃśaś cābhyanujñāto yo me pitrā purābhavat na sa labhyaḥ punarjātu mayi jīvati keśava 23 yāvac ca rājā dhriyate dhṛtarāṣṭro janārdana nyastaśastrā vayaṃ te vāpy upajīvāma mādhava 24 yady adeyaṃ purā dattaṃ rājyaṃ paravato mama ajñānād vā bhayād vāpi mayi bāle janārdana 25 na tad adya punar labhyaṃ pāṇḍavai vṛṣṇinandana dhriyamāṇe mahābāho mayi saṃprati keśava 26 yāvad dhi sūcyās tīkṣṇāyā vidhyed agreṇa mādhava tāvad apy aparityājyaṃ bhūmer naḥ pāṇḍavān prati |
The Mahabharata in Sanskrit
Book 5
Chapter 126
|
1
[व] ततः परहस्य दाशार्हः करॊधपर्याकुलेक्षणः दुर्यॊधनम इदं वाक्यम अब्रवीत कुरुसंसदि 2 लप्स्यसे वीरशयनं कामम एतद अवाप्स्यसि सथिरॊ भव सहामात्यॊ विमर्दॊ भविता महान 3 यच च वं मन्यसे मूढ न मे कश चिद वयतिक्रमः पाण्डवेष्व इति तत सर्वं निबॊधत नराधिपाः 4 शरिया संतप्यमानेन पाण्डवानां महात्मनाम तवया दुर्मन्त्रितं दयूतं सौबलेन च भारत 5 कथं च जञातयस तात शरेयांसः साधु संमताः तथान्याय्यम उपस्थातुं जिह्मेनाजिह्म चारिणः 6 अक्षद्यूतं महाप्राज्ञ सताम अरति नाशनम असतां तत्र जायन्ते भेदाश च वयसनानि च 7 तद इदं वयसनं घॊरं तवया दयूतमुखं कृतम असमीक्ष्य सद आचारैः सार्धं पापानुबन्धनैः 8 कश चान्यॊ जञातिभार्यां वै विप्रकर्तुं तथार्हति आनीय च सभां वक्तुं यथॊक्ता दरौपदी तवया 9 कुलीना शीलसंपन्ना पराणेभ्यॊ ऽपि गरीयसी महिषी पाण्डुपुत्राणां तथा विनिकृता तवया 10 जानन्ति कुरवः सर्वे यथॊक्ताः कुरुसंसदि दुःशासनेन कौन्तेयाः परव्रजन्तः परंतपाः 11 सम्यग्वृत्तेष्व अलुब्धेषु सततं धर्मचारिषु सवेषु बन्धुषु कः साधुश चरेद एवम असांप्रतम 12 नृशंसानाम अनार्याणां परुषाणां च भाषणम कर्ण दुःशासनाभ्यां च तवया च बहुशः कृतम 13 सह मात्रा परदग्धुं तान बालकान वारणावते आस्थितः परमं यत्नं न समृद्धं च तत तव 14 ऊषुश च सुचिरं कालं परच्छन्नाः पाण्डवास तदा मात्रा सहैक चक्रायां बराह्मणस्य निवेशने 15 विषेण सर्पबन्धैर्श च यतिताः पाण्डवास तवयाः सर्वॊपायैर विनाशाय न समृद्धं च तत तव 16 एवं बुद्धिः पाण्डवेषु मिथ्यावृत्थिः सदा भवान कथं ते नापराधॊ ऽसति पाण्डवेषु महात्मसु 17 कृत्वा बहून्य अकार्याणि पाण्डवेषु नृशंसवत मिथ्यावृत्तिर अनार्यः सन्न अद्य विप्रतिपद्यसे 18 माता पितृभ्यां भीष्मेण दरॊणेन विदुरेण च शाम्येति मुहुर उक्तॊ ऽसि न च शाम्यसि पार्थिव 19 शमे हि सुमहान अर्थस तव पार्थस्य चॊभयॊः न च रॊचयसे राजन किम अन्यद बुद्धिलाभवात 20 न शर्म पराप्स्यसे राजन्न उत्क्रम्य सुहृदां वचः अधर्म्यम अयशस्यं च करियते पार्थिव तवया 21 एवं बरुवति दाशार्हे दुर्यॊधनम अमर्षणम दुःशासन इदं वाक्यम अब्रवीत कुरुसंसदि 22 न चेत संधास्यसे राजन सवेन कामेन पाण्डवैः बद्ध्वा किल तवां दास्यन्ति कुन्तीपुत्राय कौरवाः 23 वैकर्तनं तवां च मां च तरीन एतान मनुजर्षभ पाण्डवेभ्यः परदास्यन्ति भीष्मॊ दरॊणः पिता च ते 24 भरातुर एतद वचः शरुत्वा धार्तराष्ट्रः सुयॊधनः करुद्धः परातिष्ठतॊत्थाय महानाग इव शवसन 25 विदुरं धृतराष्ट्रं च महाराजं च बाह्लिकम कृपं च सॊमदत्तं च भीष्मं दरॊणं जनार्दनम 26 सर्वान एतान अनादृत्य दुर्मतिर निरपत्रपः अशिष्टवद अमर्यादॊ मानी मान्यावमानिता 27 तं परस्थितम अभिप्रेक्ष्य भरातरॊ मनुजर्षभम अनुजग्मुः सहामात्या राजानश चापि सर्वशः 28 सभायाम उत्थितं करुद्धं परस्थितं भरातृभिः सह दुर्यॊधनम अभिप्रेष्क्य भीष्मः शांतनवॊ ऽबरवीत 29 धर्मार्थाव अभिसंत्यज्य संरम्भं यॊ ऽनुमन्यते हसन्ति वयसने तस्य दुर्हृदॊ नचिराद इव 30 दूरात्मा राजपुत्रायं धार्तराष्ट्रॊ नुपायवित मिथ्याभिमानी राज्यस्य करॊधलॊभ वशानुगः 31 कालपक्वम इदं मन्ये सर्वक्षत्रं जनार्दन सर्वे हय अनुसृता मॊहात पार्थिवाः सह मन्त्रिभिः 32 भीष्मस्याथवचः शरुत्वा दाशार्हः पुष्करेक्षणः भीष्मद्रॊणमुखान सर्वान अभ्यभाषत वीर्यवान 33 सर्वेषां कुरुवृद्धानां महान अयम अतिक्रमः परसह्य मन्दम ऐश्वर्ये न नियच्छत यन नृपम 34 तत्र कार्यम अहं मन्ये पराप्तकालम अरिंदमाः करियमाणे भवेच छरेयस तत सर्वं शृणुतानघाः 35 परत्यक्षम एतद भवतां यद वक्ष्यामि हितं वचः भवताम आनुकूल्येन यदि रॊचेत भारताः 36 भॊजराजस्य वृद्धस्य दुराचारॊ हय अनात्मवान जीवतः पितुर ऐश्वर्यं हृत्वा मन्युवशं गतः 37 उग्रसेनसुतः कंसः परित्यक्तः स बान्धवैः जञातीनां हितकामेन मया शस्तॊ महामृधे 38 आहुकः पुनर अस्माभिर जञातिभिश चापि सत्कृतः उग्रसेनः कृतॊ राजा भॊजराजन्यवर्धनः 39 कंसम एकं परित्यज्य कुलार्थे सर्वयादवाः संभूय सुखम एधन्ते भारतान्धकवृष्णयः 40 अपि चाप्य अवदद राजन परमेष्ठी परजापतिः वयूढे देवासुरे युद्धे ऽभयुद्यतेष्व आयुधेषु च 41 दवैधी भूतेषु लॊकेषु विनश्यत्सु च भारत अब्रवीत सृष्टिमान देवॊ भगवाँल लॊकभावनः 42 पराभविष्यन्त्य असुरा दैतेया दानवैः सह आदित्या वसवॊ रुद्रा भविष्यन्ति दिवौकसः 43 देवासुरमनुष्याश च गन्धर्वॊरगराक्षसाः अस्मिन युद्धे सुसंयत्ता हनिष्यन्ति परस्परम 44 इति मत्वाब्रवीद धर्मं परमेष्ठी परजापतिः वरुणाय परयच्छैतान बद्ध्वा दैतेय दानवान 45 एवम उक्तस ततॊ धर्मॊ नियॊगात परमेष्ठिनः वरुणाय ददौ सर्वान बद्ध्वा दैत्येय दानवान 46 तान बद्ध्वा धर्मपाशैश च सवैश च पाशैर जलेश्वरः वरुणः सागरे यत्तॊ नित्यं रक्षति दानवान 47 तथा दुर्यॊधनं कर्णं शकुनिं चापि सौबलम बद्ध्वा दुःशासनं चापि पाण्डवेभ्यः परयच्छत 48 तयजेत कुलार्थे पुरुषं गरामस्यार्थे कुलं तयजेत गरामं जनपदस्यार्थे आत्मार्थे पृथिवीं तयजेत 49 राजन दुर्यॊधनं बद्ध्वा ततः संशाम्य पाण्डवैः तवत्कृते न विनश्येयुः कषत्रियाः कषत्रियर्षभ |
1
[v] tataḥ prahasya dāśārhaḥ krodhaparyākulekṣaṇaḥ duryodhanam idaṃ vākyam abravīt kurusaṃsadi 2 lapsyase vīraśayanaṃ kāmam etad avāpsyasi sthiro bhava sahāmātyo vimardo bhavitā mahān 3 yac ca vaṃ manyase mūḍha na me kaś cid vyatikramaḥ pāṇḍaveṣv iti tat sarvaṃ nibodhata narādhipāḥ 4 śriyā saṃtapyamānena pāṇḍavānāṃ mahātmanām tvayā durmantritaṃ dyūtaṃ saubalena ca bhārata 5 kathaṃ ca jñātayas tāta śreyāṃsaḥ sādhu saṃmatāḥ tathānyāyyam upasthātuṃ jihmenājihma cāriṇaḥ 6 akṣadyūtaṃ mahāprājña satām arati nāśanam asatāṃ tatra jāyante bhedāś ca vyasanāni ca 7 tad idaṃ vyasanaṃ ghoraṃ tvayā dyūtamukhaṃ kṛtam asamīkṣya sad ācāraiḥ sārdhaṃ pāpānubandhanaiḥ 8 kaś cānyo jñātibhāryāṃ vai viprakartuṃ tathārhati ānīya ca sabhāṃ vaktuṃ yathoktā draupadī tvayā 9 kulīnā śīlasaṃpannā prāṇebhyo 'pi garīyasī mahiṣī pāṇḍuputrāṇāṃ tathā vinikṛtā tvayā 10 jānanti kuravaḥ sarve yathoktāḥ kurusaṃsadi duḥśāsanena kaunteyāḥ pravrajantaḥ paraṃtapāḥ 11 samyagvṛtteṣv alubdheṣu satataṃ dharmacāriṣu sveṣu bandhuṣu kaḥ sādhuś cared evam asāṃpratam 12 nṛśaṃsānām anāryāṇāṃ paruṣāṇāṃ ca bhāṣaṇam karṇa duḥśāsanābhyāṃ ca tvayā ca bahuśaḥ kṛtam 13 saha mātrā pradagdhuṃ tān bālakān vāraṇāvate āsthitaḥ paramaṃ yatnaṃ na samṛddhaṃ ca tat tava 14 ūṣuś ca suciraṃ kālaṃ pracchannāḥ pāṇḍavās tadā mātrā sahaika cakrāyāṃ brāhmaṇasya niveśane 15 viṣeṇa sarpabandhairś ca yatitāḥ pāṇḍavās tvayāḥ sarvopāyair vināśāya na samṛddhaṃ ca tat tava 16 evaṃ buddhiḥ pāṇḍaveṣu mithyāvṛtthiḥ sadā bhavān kathaṃ te nāparādho 'sti pāṇḍaveṣu mahātmasu 17 kṛtvā bahūny akāryāṇi pāṇḍaveṣu nṛśaṃsavat mithyāvṛttir anāryaḥ sann adya vipratipadyase 18 mātā pitṛbhyāṃ bhīṣmeṇa droṇena vidureṇa ca śāmyeti muhur ukto 'si na ca śāmyasi pārthiva 19 śame hi sumahān arthas tava pārthasya cobhayoḥ na ca rocayase rājan kim anyad buddhilābhavāt 20 na śarma prāpsyase rājann utkramya suhṛdāṃ vacaḥ adharmyam ayaśasyaṃ ca kriyate pārthiva tvayā 21 evaṃ bruvati dāśārhe duryodhanam amarṣaṇam duḥśāsana idaṃ vākyam abravīt kurusaṃsadi 22 na cet saṃdhāsyase rājan svena kāmena pāṇḍavaiḥ baddhvā kila tvāṃ dāsyanti kuntīputrāya kauravāḥ 23 vaikartanaṃ tvāṃ ca māṃ ca trīn etān manujarṣabha pāṇḍavebhyaḥ pradāsyanti bhīṣmo droṇaḥ pitā ca te 24 bhrātur etad vacaḥ śrutvā dhārtarāṣṭraḥ suyodhanaḥ kruddhaḥ prātiṣṭhatotthāya mahānāga iva śvasan 25 viduraṃ dhṛtarāṣṭraṃ ca mahārājaṃ ca bāhlikam kṛpaṃ ca somadattaṃ ca bhīṣmaṃ droṇaṃ janārdanam 26 sarvān etān anādṛtya durmatir nirapatrapaḥ aśiṣṭavad amaryādo mānī mānyāvamānitā 27 taṃ prasthitam abhiprekṣya bhrātaro manujarṣabham anujagmuḥ sahāmātyā rājānaś cāpi sarvaśaḥ 28 sabhāyām utthitaṃ kruddhaṃ prasthitaṃ bhrātṛbhiḥ saha duryodhanam abhipreṣkya bhīṣmaḥ śāṃtanavo 'bravīt 29 dharmārthāv abhisaṃtyajya saṃrambhaṃ yo 'numanyate hasanti vyasane tasya durhṛdo nacirād iva 30 dūrātmā rājaputrāyaṃ dhārtarāṣṭro nupāyavit mithyābhimānī rājyasya krodhalobha vaśānugaḥ 31 kālapakvam idaṃ manye sarvakṣatraṃ janārdana sarve hy anusṛtā mohāt pārthivāḥ saha mantribhiḥ 32 bhīṣmasyāthavacaḥ śrutvā dāśārhaḥ puṣkarekṣaṇaḥ bhīṣmadroṇamukhān sarvān abhyabhāṣata vīryavān 33 sarveṣāṃ kuruvṛddhānāṃ mahān ayam atikramaḥ prasahya mandam aiśvarye na niyacchata yan nṛpam 34 tatra kāryam ahaṃ manye prāptakālam ariṃdamāḥ kriyamāṇe bhavec chreyas tat sarvaṃ śṛṇutānaghāḥ 35 pratyakṣam etad bhavatāṃ yad vakṣyāmi hitaṃ vacaḥ bhavatām ānukūlyena yadi roceta bhāratāḥ 36 bhojarājasya vṛddhasya durācāro hy anātmavān jīvataḥ pitur aiśvaryaṃ hṛtvā manyuvaśaṃ gataḥ 37 ugrasenasutaḥ kaṃsaḥ parityaktaḥ sa bāndhavaiḥ jñātīnāṃ hitakāmena mayā śasto mahāmṛdhe 38 āhukaḥ punar asmābhir jñātibhiś cāpi satkṛtaḥ ugrasenaḥ kṛto rājā bhojarājanyavardhanaḥ 39 kaṃsam ekaṃ parityajya kulārthe sarvayādavāḥ saṃbhūya sukham edhante bhāratāndhakavṛṣṇayaḥ 40 api cāpy avadad rājan parameṣṭhī prajāpatiḥ vyūḍhe devāsure yuddhe 'bhyudyateṣv āyudheṣu ca 41 dvaidhī bhūteṣu lokeṣu vinaśyatsu ca bhārata abravīt sṛṣṭimān devo bhagavāṁl lokabhāvanaḥ 42 parābhaviṣyanty asurā daiteyā dānavaiḥ saha ādityā vasavo rudrā bhaviṣyanti divaukasaḥ 43 devāsuramanuṣyāś ca gandharvoragarākṣasāḥ asmin yuddhe susaṃyattā haniṣyanti parasparam 44 iti matvābravīd dharmaṃ parameṣṭhī prajāpatiḥ varuṇāya prayacchaitān baddhvā daiteya dānavān 45 evam uktas tato dharmo niyogāt parameṣṭhinaḥ varuṇāya dadau sarvān baddhvā daityeya dānavān 46 tān baddhvā dharmapāśaiś ca svaiś ca pāśair jaleśvaraḥ varuṇaḥ sāgare yatto nityaṃ rakṣati dānavān 47 tathā duryodhanaṃ karṇaṃ śakuniṃ cāpi saubalam baddhvā duḥśāsanaṃ cāpi pāṇḍavebhyaḥ prayacchata 48 tyajet kulārthe puruṣaṃ grāmasyārthe kulaṃ tyajet grāmaṃ janapadasyārthe ātmārthe pṛthivīṃ tyajet 49 rājan duryodhanaṃ baddhvā tataḥ saṃśāmya pāṇḍavaiḥ tvatkṛte na vinaśyeyuḥ kṣatriyāḥ kṣatriyarṣabha |
The Mahabharata in Sanskrit
Book 5
Chapter 127
|
1
[व] कृष्णस्य वचनं शरुत्वा धृतराष्ट्रॊ जनेश्वरः विदुरं सर्वधर्मज्ञं तवरमाणॊ ऽभयभाषत 2 गच्छ तात महाप्राज्ञां गान्धारीं दीर्घदर्शिनीम आनयेह तया सार्धम अनुनेष्यामि दुर्मतिम 3 यदि सापि दुरात्मानं शमयेद दुष्टचेतसम अपि कृष्णाय सुहृदस तिष्ठेम वचने वयम 4 अपि लॊभाभिभूतस्य पन्थानम अनुदर्शयेत दुर्बुद्धेर दुःसहायस्य समर्थं बरुवती वचः 5 अपि नॊ वयसनं घॊरं दुर्यॊधनकृतं महत शमयेच चिररात्राय यॊगक्षेमवद अव्ययम 6 राज्ञस तु वचनं शरुत्वा विदुरॊ दीर्घदर्शिनीम आनयाम आस गान्धारीं धृतराष्ट्रस्य शासनात 7 एष गान्धारि पुत्रस ते दुरात्मा शासनातिगः ऐश्वर्यलॊभाद ऐश्वर्यं जीवितं च परहास्यति 8 अशिष्टवद अमर्यादः पापैः सह दुरात्मभिः सभाया निर्गतॊ मूढॊ वयतिक्रम्य सुहृद वचः 9 सा भर्तुर वचनं शरुत्वा राजपुत्री यशस्विनी अन्विच्छन्ती महच छरेयॊ गान्धारी वाक्यम अब्रवीत 10 आनयेह सुतं कषिप्रं राज्यकामुकम आतुरम न हि राज्यम अशिष्टेन शक्यं धर्मार्थलॊपिना 11 तवं हय एवात्र भृशं गर्ह्यॊ धृतराष्ट्र सुतप्रियः यॊ जानपापताम अस्य तत परज्ञाम अनुवर्तसे 12 स एष काममन्युभ्यां परलब्धॊ मॊहम आस्थितः अशक्यॊ ऽदय तवया राजन विनिवर्तयितुं बलात 13 राज्यप्रदाने मूढस्य बालिशस्य दुरात्मनः दुःसहायस्य लुब्धस्य धृतराष्ट्रॊ ऽशरुते फलम 14 कथं हि सवजने भेदम उपेक्षेत महामतिः भिन्नं हि सवजनेन तवां परसहिष्यन्ति शत्रवः 15 या हि शक्या महाराज साम्ना दानेन वा पुनः निस्तर्तुम आपदः सवेषु दण्डं कस तत्र पातयेत 16 शासनाद धृतराष्ट्रस्य दुर्यॊधनम अमर्षणम मातुश च वचनात कषत्ता सभां परावेशयत पुनः 17 स मातुर वचनाकाङ्क्षी परविवेश सभां पुनः अभिताम्रेक्षणः करॊधान निःश्वसन्न इव पन्नगः 18 तं परविष्टम अभिप्रेक्ष्य पुत्रम उत्पथम आस्थितम विगर्हमाणा गान्धारी समर्थं वाक्यम अब्रवीत 19 दुर्यॊधन निबॊधेदं वचनं मम पुत्रक हितं ते सानुबन्धस्य तथायत्यां सुखॊदयम 20 भीष्मस्य तु पितुश चैव मम चापचितिः कृता भवेद दरॊण मुखानां च सुहृदां शाम्यता तवया 21 न हि राज्यं महाप्राज्ञ सवेन कामेन शक्यते अवाप्तुं रक्षितुं वापि भॊक्तुं वा भरतर्षभ 22 न हय अवश्येन्द्रियॊ राज्यम अश्नीयाद दीर्घम अन्तरम विजितात्मा तु मेधावी स राज्यम अभिपालयेत 23 कामक्रॊधौ हि पुरुषम अर्थ्येभ्यॊ वयपकर्षतः तौ तु शत्रू विनिर्जित्य राजा विजयते महीम 24 लॊकेश्वर परभुत्वं हि महद एतद दुरात्मभिः राज्यं नामेप्सितं सथानं न शक्यम अभिरक्षितुम 25 इन्द्रियाणि महत परेप्सुर नियच्छेद अर्थधर्मयॊः इन्द्रियैर नियतैर बुद्धिर वर्धते ऽगनिर इवेन्धनैः 26 अविध्येयानि हीमानि वयापादयितुम अप्य अलम अविधेया इवादान्ता हयाः पथि कुसारथिम 27 अविजित्य य आत्मानम अमात्यान विजिगीषते अजितात्माजितामात्यः सॊ ऽवशः परिहीयते 28 आत्मानम एव परथमं देशरूपेण यॊ जयेत ततॊ ऽमात्यान अमित्रांश च न मॊघं विजिगीषते 29 वश्येन्द्रियं जितामात्यं धृतदण्डं विकारिषु परीक्ष्य कारिणं धीरम अत्यन्तं शरीर निषेवते 30 कषुद्राक्षेणेव जालेन झषाव अपिहिताव उभौ कामक्रॊधौ शरीरस्थौ परज्ञानं तौ विलुम्पतः 31 याभ्यां हि देवाः सवर्यातुः सवर्गस्यापिदधुर मुखम बिभ्यतॊ ऽनुपरागस्य कामक्रॊधौ सम वर्धितौ 32 कामं करॊधं च लॊभं च दम्भं दर्पं च भूमिपः सम्यग विजेतुं यॊ वेद स समीम अभिजायते 33 सततं निग्रहे युक्त इन्द्रियाणां भवेन नृपः ईप्सन्न अर्थं च धर्मं च दविषतां च पराभवम 34 कामाभिभूतः करॊधाद वा यॊ मिथ्या परतिपद्यते सवेषु चान्येषु वा तस्य न सहाया भवन्त्य उत 35 एकीभूतैर महाप्राज्ञैः शूरैर अरिनिबर्हणैः पाण्डवैः पृथिवीं तात भॊक्ष्यसे सहितः सुखी 36 यथा भीष्मः शांतनवॊ दरॊणश चापि महारथः आहतुस तात तः सत्यम अजेयौ कृष्ण पाण्डवौ 37 परपद्यस्व महाबाहुं कृष्णम अक्लिष्टकारिणम परसन्नॊ हि सुखाय सयाद उभयॊर एव केशवः 38 सुहेदाम अर्थकामानां यॊ न तिष्ठति शासने पराज्ञानां कृतविद्यानां स नरः शत्रुनन्दनः 39 न युद्धे तात कल्याणं न धर्मार्थौ कुतः सुखम न चापि विजयॊ नित्यं मा युद्धे चेत आधिथाः 40 भीष्मेण हि महाप्राज्ञ पित्रा ते बाह्लिकेन च दत्तॊ ऽंशः पाण्डुपुत्राणां भेदाद भीतैर अरिंदम 41 तस्य चैतत परदानस्य फलम अद्यानुपश्यसि यद्भुङ्क्षे पृथिवीं सर्वां शूरैर निहतकण्टकाम 42 परयच्छ पाण्डुपुत्राणाम्यथॊचितम अरिंदम यदीच्छसि सहामात्यॊ भॊक्तुम अर्धं महीक्षिताम 43 अलम अर्धं पृथिव्यास ते सहामात्यस्य जीवनम सुहृदां वचने तिष्ठन यशः पराप्स्यसि भारत 44 शरीमद्भिर आत्मवद्भिर हि बुद्धिमद्भिर जितेन्द्रियैः पाण्डवैर विग्रहस तात भरंशयेन महतः सुखात 45 निगृह्य सुहृदां मन्युं शाधि राज्यं यथॊचितम सवम अंशं पाण्डुपुत्रेभ्यः परदाय भरतर्षभ 46 अलम अह्ना निकारॊ ऽयं तरयॊदश समाः कृतः शमयैनं महाप्राज्ञ कामक्रॊधसमेधितम 47 न चैष शक्तः पार्थानां यस तवदर्थम अभीप्सति सूतपुत्रॊ दृढक्रॊधॊ भराता दुःशासनश च ते 48 भीष्मे दरॊणे कृपे कर्णे भीमसेने धनंजये धृष्टद्युम्ने च संक्रुद्धे न सयुः सर्वाः परजा धरुवम 49 अमर्षवशम आपन्नॊ मा कुरूंस तात जीघनः सर्वा हि पृथिवी सपृष्टा तवत पाण्डव कृते वधम 50 यच च तवं मन्यसे मूढ भीष्मद्रॊणकृपादयः यॊत्स्यन्ते सर्वशक्त्येति नैतद अद्यॊपपद्यते 51 समं हि राज्यं परीतिश च सथानं च विजितात्मनाम पाण्डवेष्व अथ युष्मासु धर्मस तव अभ्यधिकस ततः 52 राजपिण्ड भयाद एते यदि हास्यन्ति जीवितम न हि शक्ष्यन्ति राजानं युधिष्ठिरम उदीक्षितुम 53 न लॊभाद अर्थसंपत्तिर नराणाम इह दृश्यते तद अलं तात लॊभेन परशाम्य भरतर्षभ |
1
[v] kṛṣṇasya vacanaṃ śrutvā dhṛtarāṣṭro janeśvaraḥ viduraṃ sarvadharmajñaṃ tvaramāṇo 'bhyabhāṣata 2 gaccha tāta mahāprājñāṃ gāndhārīṃ dīrghadarśinīm ānayeha tayā sārdham anuneṣyāmi durmatim 3 yadi sāpi durātmānaṃ śamayed duṣṭacetasam api kṛṣṇāya suhṛdas tiṣṭhema vacane vayam 4 api lobhābhibhūtasya panthānam anudarśayet durbuddher duḥsahāyasya samarthaṃ bruvatī vacaḥ 5 api no vyasanaṃ ghoraṃ duryodhanakṛtaṃ mahat śamayec cirarātrāya yogakṣemavad avyayam 6 rājñas tu vacanaṃ śrutvā viduro dīrghadarśinīm ānayām āsa gāndhārīṃ dhṛtarāṣṭrasya śāsanāt 7 eṣa gāndhāri putras te durātmā śāsanātigaḥ aiśvaryalobhād aiśvaryaṃ jīvitaṃ ca prahāsyati 8 aśiṣṭavad amaryādaḥ pāpaiḥ saha durātmabhiḥ sabhāyā nirgato mūḍho vyatikramya suhṛd vacaḥ 9 sā bhartur vacanaṃ śrutvā rājaputrī yaśasvinī anvicchantī mahac chreyo gāndhārī vākyam abravīt 10 ānayeha sutaṃ kṣipraṃ rājyakāmukam āturam na hi rājyam aśiṣṭena śakyaṃ dharmārthalopinā 11 tvaṃ hy evātra bhṛśaṃ garhyo dhṛtarāṣṭra sutapriyaḥ yo jānapāpatām asya tat prajñām anuvartase 12 sa eṣa kāmamanyubhyāṃ pralabdho moham āsthitaḥ aśakyo 'dya tvayā rājan vinivartayituṃ balāt 13 rājyapradāne mūḍhasya bāliśasya durātmanaḥ duḥsahāyasya lubdhasya dhṛtarāṣṭro 'śrute phalam 14 kathaṃ hi svajane bhedam upekṣeta mahāmatiḥ bhinnaṃ hi svajanena tvāṃ prasahiṣyanti śatravaḥ 15 yā hi śakyā mahārāja sāmnā dānena vā punaḥ nistartum āpadaḥ sveṣu daṇḍaṃ kas tatra pātayet 16 śāsanād dhṛtarāṣṭrasya duryodhanam amarṣaṇam mātuś ca vacanāt kṣattā sabhāṃ prāveśayat punaḥ 17 sa mātur vacanākāṅkṣī praviveśa sabhāṃ punaḥ abhitāmrekṣaṇaḥ krodhān niḥśvasann iva pannagaḥ 18 taṃ praviṣṭam abhiprekṣya putram utpatham āsthitam vigarhamāṇā gāndhārī samarthaṃ vākyam abravīt 19 duryodhana nibodhedaṃ vacanaṃ mama putraka hitaṃ te sānubandhasya tathāyatyāṃ sukhodayam 20 bhīṣmasya tu pituś caiva mama cāpacitiḥ kṛtā bhaved droṇa mukhānāṃ ca suhṛdāṃ śāmyatā tvayā 21 na hi rājyaṃ mahāprājña svena kāmena śakyate avāptuṃ rakṣituṃ vāpi bhoktuṃ vā bharatarṣabha 22 na hy avaśyendriyo rājyam aśnīyād dīrgham antaram vijitātmā tu medhāvī sa rājyam abhipālayet 23 kāmakrodhau hi puruṣam arthyebhyo vyapakarṣataḥ tau tu śatrū vinirjitya rājā vijayate mahīm 24 lokeśvara prabhutvaṃ hi mahad etad durātmabhiḥ rājyaṃ nāmepsitaṃ sthānaṃ na śakyam abhirakṣitum 25 indriyāṇi mahat prepsur niyacched arthadharmayoḥ indriyair niyatair buddhir vardhate 'gnir ivendhanaiḥ 26 avidhyeyāni hīmāni vyāpādayitum apy alam avidheyā ivādāntā hayāḥ pathi kusārathim 27 avijitya ya ātmānam amātyān vijigīṣate ajitātmājitāmātyaḥ so 'vaśaḥ parihīyate 28 ātmānam eva prathamaṃ deśarūpeṇa yo jayet tato 'mātyān amitrāṃś ca na moghaṃ vijigīṣate 29 vaśyendriyaṃ jitāmātyaṃ dhṛtadaṇḍaṃ vikāriṣu parīkṣya kāriṇaṃ dhīram atyantaṃ śrīr niṣevate 30 kṣudrākṣeṇeva jālena jhaṣāv apihitāv ubhau kāmakrodhau śarīrasthau prajñānaṃ tau vilumpataḥ 31 yābhyāṃ hi devāḥ svaryātuḥ svargasyāpidadhur mukham bibhyato 'nuparāgasya kāmakrodhau sma vardhitau 32 kāmaṃ krodhaṃ ca lobhaṃ ca dambhaṃ darpaṃ ca bhūmipaḥ samyag vijetuṃ yo veda sa samīm abhijāyate 33 satataṃ nigrahe yukta indriyāṇāṃ bhaven nṛpaḥ īpsann arthaṃ ca dharmaṃ ca dviṣatāṃ ca parābhavam 34 kāmābhibhūtaḥ krodhād vā yo mithyā pratipadyate sveṣu cānyeṣu vā tasya na sahāyā bhavanty uta 35 ekībhūtair mahāprājñaiḥ śūrair arinibarhaṇaiḥ pāṇḍavaiḥ pṛthivīṃ tāta bhokṣyase sahitaḥ sukhī 36 yathā bhīṣmaḥ śāṃtanavo droṇaś cāpi mahārathaḥ āhatus tāta taḥ satyam ajeyau kṛṣṇa pāṇḍavau 37 prapadyasva mahābāhuṃ kṛṣṇam akliṣṭakāriṇam prasanno hi sukhāya syād ubhayor eva keśavaḥ 38 suhedām arthakāmānāṃ yo na tiṣṭhati śāsane prājñānāṃ kṛtavidyānāṃ sa naraḥ śatrunandanaḥ 39 na yuddhe tāta kalyāṇaṃ na dharmārthau kutaḥ sukham na cāpi vijayo nityaṃ mā yuddhe ceta ādhithāḥ 40 bhīṣmeṇa hi mahāprājña pitrā te bāhlikena ca datto 'ṃśaḥ pāṇḍuputrāṇāṃ bhedād bhītair ariṃdama 41 tasya caitat pradānasya phalam adyānupaśyasi yadbhuṅkṣe pṛthivīṃ sarvāṃ śūrair nihatakaṇṭakām 42 prayaccha pāṇḍuputrāṇāmyathocitam ariṃdama yadīcchasi sahāmātyo bhoktum ardhaṃ mahīkṣitām 43 alam ardhaṃ pṛthivyās te sahāmātyasya jīvanam suhṛdāṃ vacane tiṣṭhan yaśaḥ prāpsyasi bhārata 44 śrīmadbhir ātmavadbhir hi buddhimadbhir jitendriyaiḥ pāṇḍavair vigrahas tāta bhraṃśayen mahataḥ sukhāt 45 nigṛhya suhṛdāṃ manyuṃ śādhi rājyaṃ yathocitam svam aṃśaṃ pāṇḍuputrebhyaḥ pradāya bharatarṣabha 46 alam ahnā nikāro 'yaṃ trayodaśa samāḥ kṛtaḥ śamayainaṃ mahāprājña kāmakrodhasamedhitam 47 na caiṣa śaktaḥ pārthānāṃ yas tvadartham abhīpsati sūtaputro dṛḍhakrodho bhrātā duḥśāsanaś ca te 48 bhīṣme droṇe kṛpe karṇe bhīmasene dhanaṃjaye dhṛṣṭadyumne ca saṃkruddhe na syuḥ sarvāḥ prajā dhruvam 49 amarṣavaśam āpanno mā kurūṃs tāta jīghanaḥ sarvā hi pṛthivī spṛṣṭā tvat pāṇḍava kṛte vadham 50 yac ca tvaṃ manyase mūḍha bhīṣmadroṇakṛpādayaḥ yotsyante sarvaśaktyeti naitad adyopapadyate 51 samaṃ hi rājyaṃ prītiś ca sthānaṃ ca vijitātmanām pāṇḍaveṣv atha yuṣmāsu dharmas tv abhyadhikas tataḥ 52 rājapiṇḍa bhayād ete yadi hāsyanti jīvitam na hi śakṣyanti rājānaṃ yudhiṣṭhiram udīkṣitum 53 na lobhād arthasaṃpattir narāṇām iha dṛśyate tad alaṃ tāta lobhena praśāmya bharatarṣabha |
The Mahabharata in Sanskrit
Book 5
Chapter 128
|
1
[व] तत तु वाक्यम अनादृत्य सॊ ऽरथवन मातृभाषितम पुनः परतस्थे संरम्भत सकाशम अकृतात्मनाम 2 ततः सभाया निर्गम्य मन्त्रयाम आस कौरवः सौबलेन मताक्षेण राज्ञा शकुनिना सह 3 दुर्यॊधनस्य कर्णस्य शकुनेः सौबलस्य च दुःशासनचतुर्थानाम इदम आसीद विचेष्टितम 4 पुरायम अस्मान गृह्णाति कषिप्रकारी जनार्दनः सहितॊ धृतराष्ट्रेण राज्ञा शांतनवेन च 5 वयम एव हृषीकेशं निगृह्णीम बलाद इव परसह्य पुरुषव्याघ्रम इन्द्रॊ वैरॊचनिं यथा 6 शरुत्वा गृहीतं वार्ष्णेयं पाण्डवा हतचेतसः निरुत्साहा भविष्यन्ति भग्नदंष्ट्रा इवॊरगाः 7 अयं हय एषां महाबाहुः सर्वेषां शर्म वर्म च अस्मिन गृहीते वरदे ऋषभे सर्वसात्वताम निरुद्यमा भविष्यन्ति पाण्डवाः सॊमकैः सह 8 तस्माद वयम इहैवैनं केशवं कषिप्रकारिणम करॊशतॊ धृतराष्ट्रस्य बद्ध्वा यॊत्स्यामहे रिपून 9 तेषां पापम अभिप्रायं पापानां दुष्टचेतसाम इङ्गितज्ञः कविः कषिप्रम अन्वबुध्यत सात्यकिः 10 तदर्थम अभिनिष्क्रम्य हार्दिक्येन सहास्थितः अब्रवीत कृतवर्माणं कषिप्रं यॊजय वाहिनीम 11 वयूढानीकः सभा दवारम उपतिष्ठस्व दंशितः यावद आख्याम्य अहं चैतत कृष्णायाक्लिष्ट कर्मणे 12 स परविश्य सभां वीरः सिंहॊ गिरिगुहाम इव आचष्ट तम अभिप्रायं केशवाय महात्मने 13 धृतराष्ट्रं ततश चैव विदुरं चान्वभाषत तेषाम एतम अभिप्रायम आचचक्षे समयन्न इव 14 धर्माद अपेतम अर्थाच च कर्म साधु विगर्हितम मन्दाः कर्तुम इहेच्छन्ति न चावाप्यं कथं चन 15 पुरा विकुर्वते मूढाः पापात्मानः समागताः धर्षिताः काममन्युभ्यां करॊधलॊभ वशानुगाः 16 इमं हि पुण्डरीकाक्षं जिघृक्षन्त्य अल्पचेतसः पटेनानिगं परज्वलितं यथा बाला यथा जडाः 17 सात्यकेस तद वचः शरुत्वा विदुरॊ दीर्घदर्शिवान धृतराष्ट्रं महाबाहुम अब्रवीत कुरुसंसदि 18 राजन परीतकालास ते पुत्राः सर्वे परंतप अयशस्यम अशक्यं च कर्म कर्तुं समुद्यताः 19 इमं हि पुण्डरीकाक्षम अभिभूय परसह्य च निग्रहीतुं किलेच्छन्ति सहिता वासवानुजम 20 इमं पुरुषशार्दूलम अप्रधृष्यं दुरासदम आसाद्य न भविष्यन्ति पतंगा इव पावकम 21 अयम इच्छन हि तान सर्वान यतमानाञ जनार्दनः सिंहॊ मृगान इव करुद्धॊ गमयेद यमसादनम 22 न तव अयं निन्तिदं कर्म कुर्यात कृष्णः कथं चन न च धर्माद अपक्रामेद अच्युतः पुरुषॊत्तमः 23 विदुरेणैवम उक्ते तु केशवॊ वाक्यम अब्रवीत धृतराष्ट्रम अभिप्रेक्ष्य सुहृदां शृण्वतां मिथः 24 राजन्न एते यदि करुद्धा मां निगृह्णीयुर ओजसा एते वा माम अहं वैनान अनुजानीहि पार्थिव 25 एतान हि सर्वान संरब्धान नियन्तुम अहम उत्सहे न तव अहं निन्दितं कर्म कुर्यां पापं कथं चन 26 पाण्डवार्थे हि लुभ्यन्तः सवार्थाद धास्यन्ति ते सुताः एते चेद एवम इच्छन्ति कृतकार्यॊ युधिष्ठिरः 27 अद्यैव हय अहम एतांश च ये चैतान अनु भारत निगृह्य राजन पार्थेभ्यॊ दद्यां किं दुष्कृतं भवेत 28 इदं तु न परवर्तेयं निन्दितं कर्म भारत संनिधौ ते महाराज करॊधजं पापबुद्धिजम 29 एष दुर्यॊधनॊ राजन यथेच्छति तथास्तु तत अहं तु सर्वान समयान अनुजानामि भारत 30 एतच छरुत्वा तु विदुरं धृतराष्ट्रॊ ऽभयभाषत कषिप्रम आनय तं पापं राज्यलुब्धं सुयॊधनम 31 सह मित्रं सहामात्यं ससॊदर्यं सहानुगम शक्नुयां यदि पन्थानम अवतारयितुं पुनः 32 ततॊ दुर्यॊधनं कषत्ता पुनः परावेशयत सभाम अकामं भरातृभिः सार्धं राजभिः परिवारितम 33 अथ दुर्यॊधनं राजा धृतराष्ट्रॊ ऽभयभाषत कर्ण दुःशासनाभ्यां च राजभिश चाभिसंवृतम 34 नृशंसपापभूयिष्ठ कषुद्रकर्म सहायवान पापैः सहायैः संहत्य पापं कर्म चिकीर्षसि 35 अशक्यम अयशस्यं च सद्भिश चापि विगर्हितम यथा तवादृशकॊ मूढॊ वयवस्येत कुलपांसनः 36 तवम इमं पुण्डरीकाक्षम अप्रधृष्यं दुरासदम पापैः सहायैः संहत्य निग्रहीतुं किलेच्छसि 37 यॊ न शक्यॊ बलात कर्तुं देवैर अपि सवासवैः तं तवं परार्थयसे मन्दबालश चन्द्रमसं यथा 38 देवैर मनुष्यैर गन्धर्वैर असुरैर उरगैश च यः न सॊढुं समरे शक्यस तं न बुध्यसि केशवम 39 दुर्ग्रहः पाणिना वायुर दुःस्पर्शः पाणिना शशी दुर्धरा पृथिवी मूर्ध्ना दुर्ग्रहः केशवॊ बलात 40 इत्य उक्ते धृतराष्ट्रेण कषत्तापि विदुरॊ ऽबरवीत दुर्यॊधनम अभिप्रेक्ष्य धार्तराष्ट्रम अमर्षणम 41 सौभद्वारे वानरेन्द्रॊ दविविदॊ नाम नामतः शिला वर्षेण महता छादयाम आस केशवम 42 गरहीतुकामॊ विक्रम्य सर्वयत्नेन माधवम गरहीतुं नाशकत तत्र तं तवं परार्थयसे बलात 43 निर्मॊचने षट सहस्राः पाशैर बद्ध्वा महासुराः गरहीतुं नाशकंश चैनं तं तवं परार्थयसे बलात 44 पराग्ज्यॊतिष गतं शौरिं नरकः सह दानवैः गरहीतुं नाशकत तत्र तं तवं परार्थयसे बलात 45 अनेन हि हता बाल्ये पूतना शिशुना तथा गॊवर्धनॊ धारितश च गवार्थे भरतर्षभ 46 अरिष्टॊ धेनुकश चैव चाणूरश च महाबलः अश्वराजश च निहतः कंसश चारिष्टम आचरन 47 जरासंधश च वक्रश च शिशुपालश च वीर्यवान बाणश च निहतः संख्ये राजान च निषूदिताः 48 वरुणॊ निर्जितॊ राजा पावकश चामितौजसा पारिजातं च हरता जितः साक्षाच छची पतिः 49 एकार्णवे शयानेन हतौ तौ मधुकैटभौ जन्मान्तरम उपागम्य हयग्रीवस तथा हतः 50 अयं कर्ता न करियते कारणं चापि पौरुषे यद यद इच्छेद अयं शौरिस तत तत कुर्याद अयत्नतः 51 तं न बुध्यसि गॊविन्दं घॊरविक्रमम अच्युतम आशीविषम इव करुद्धं तेजॊराशिम अनिर्जितम 52 परधर्षयन महाबाहुं कृष्णम अक्लिष्टकारिणम पतंगॊ ऽगनिम इवासाद्य सामात्यॊ न भविष्यसि |
1
[v] tat tu vākyam anādṛtya so 'rthavan mātṛbhāṣitam punaḥ pratasthe saṃrambhat sakāśam akṛtātmanām 2 tataḥ sabhāyā nirgamya mantrayām āsa kauravaḥ saubalena matākṣeṇa rājñā śakuninā saha 3 duryodhanasya karṇasya śakuneḥ saubalasya ca duḥśāsanacaturthānām idam āsīd viceṣṭitam 4 purāyam asmān gṛhṇāti kṣiprakārī janārdanaḥ sahito dhṛtarāṣṭreṇa rājñā śāṃtanavena ca 5 vayam eva hṛṣīkeśaṃ nigṛhṇīma balād iva prasahya puruṣavyāghram indro vairocaniṃ yathā 6 śrutvā gṛhītaṃ vārṣṇeyaṃ pāṇḍavā hatacetasaḥ nirutsāhā bhaviṣyanti bhagnadaṃṣṭrā ivoragāḥ 7 ayaṃ hy eṣāṃ mahābāhuḥ sarveṣāṃ śarma varma ca asmin gṛhīte varade ṛṣabhe sarvasātvatām nirudyamā bhaviṣyanti pāṇḍavāḥ somakaiḥ saha 8 tasmād vayam ihaivainaṃ keśavaṃ kṣiprakāriṇam krośato dhṛtarāṣṭrasya baddhvā yotsyāmahe ripūn 9 teṣāṃ pāpam abhiprāyaṃ pāpānāṃ duṣṭacetasām iṅgitajñaḥ kaviḥ kṣipram anvabudhyata sātyakiḥ 10 tadartham abhiniṣkramya hārdikyena sahāsthitaḥ abravīt kṛtavarmāṇaṃ kṣipraṃ yojaya vāhinīm 11 vyūḍhānīkaḥ sabhā dvāram upatiṣṭhasva daṃśitaḥ yāvad ākhyāmy ahaṃ caitat kṛṣṇāyākliṣṭa karmaṇe 12 sa praviśya sabhāṃ vīraḥ siṃho giriguhām iva ācaṣṭa tam abhiprāyaṃ keśavāya mahātmane 13 dhṛtarāṣṭraṃ tataś caiva viduraṃ cānvabhāṣata teṣām etam abhiprāyam ācacakṣe smayann iva 14 dharmād apetam arthāc ca karma sādhu vigarhitam mandāḥ kartum ihecchanti na cāvāpyaṃ kathaṃ cana 15 purā vikurvate mūḍhāḥ pāpātmānaḥ samāgatāḥ dharṣitāḥ kāmamanyubhyāṃ krodhalobha vaśānugāḥ 16 imaṃ hi puṇḍarīkākṣaṃ jighṛkṣanty alpacetasaḥ paṭenānigṃ prajvalitaṃ yathā bālā yathā jaḍāḥ 17 sātyakes tad vacaḥ śrutvā viduro dīrghadarśivān dhṛtarāṣṭraṃ mahābāhum abravīt kurusaṃsadi 18 rājan parītakālās te putrāḥ sarve paraṃtapa ayaśasyam aśakyaṃ ca karma kartuṃ samudyatāḥ 19 imaṃ hi puṇḍarīkākṣam abhibhūya prasahya ca nigrahītuṃ kilecchanti sahitā vāsavānujam 20 imaṃ puruṣaśārdūlam apradhṛṣyaṃ durāsadam āsādya na bhaviṣyanti pataṃgā iva pāvakam 21 ayam icchan hi tān sarvān yatamānāñ janārdanaḥ siṃho mṛgān iva kruddho gamayed yamasādanam 22 na tv ayaṃ nintidaṃ karma kuryāt kṛṣṇaḥ kathaṃ cana na ca dharmād apakrāmed acyutaḥ puruṣottamaḥ 23 vidureṇaivam ukte tu keśavo vākyam abravīt dhṛtarāṣṭram abhiprekṣya suhṛdāṃ śṛṇvatāṃ mithaḥ 24 rājann ete yadi kruddhā māṃ nigṛhṇīyur ojasā ete vā mām ahaṃ vainān anujānīhi pārthiva 25 etān hi sarvān saṃrabdhān niyantum aham utsahe na tv ahaṃ ninditaṃ karma kuryāṃ pāpaṃ kathaṃ cana 26 pāṇḍavārthe hi lubhyantaḥ svārthād dhāsyanti te sutāḥ ete ced evam icchanti kṛtakāryo yudhiṣṭhiraḥ 27 adyaiva hy aham etāṃś ca ye caitān anu bhārata nigṛhya rājan pārthebhyo dadyāṃ kiṃ duṣkṛtaṃ bhavet 28 idaṃ tu na pravarteyaṃ ninditaṃ karma bhārata saṃnidhau te mahārāja krodhajaṃ pāpabuddhijam 29 eṣa duryodhano rājan yathecchati tathāstu tat ahaṃ tu sarvān samayān anujānāmi bhārata 30 etac chrutvā tu viduraṃ dhṛtarāṣṭro 'bhyabhāṣata kṣipram ānaya taṃ pāpaṃ rājyalubdhaṃ suyodhanam 31 saha mitraṃ sahāmātyaṃ sasodaryaṃ sahānugam śaknuyāṃ yadi panthānam avatārayituṃ punaḥ 32 tato duryodhanaṃ kṣattā punaḥ prāveśayat sabhām akāmaṃ bhrātṛbhiḥ sārdhaṃ rājabhiḥ parivāritam 33 atha duryodhanaṃ rājā dhṛtarāṣṭro 'bhyabhāṣata karṇa duḥśāsanābhyāṃ ca rājabhiś cābhisaṃvṛtam 34 nṛśaṃsapāpabhūyiṣṭha kṣudrakarma sahāyavān pāpaiḥ sahāyaiḥ saṃhatya pāpaṃ karma cikīrṣasi 35 aśakyam ayaśasyaṃ ca sadbhiś cāpi vigarhitam yathā tvādṛśako mūḍho vyavasyet kulapāṃsanaḥ 36 tvam imaṃ puṇḍarīkākṣam apradhṛṣyaṃ durāsadam pāpaiḥ sahāyaiḥ saṃhatya nigrahītuṃ kilecchasi 37 yo na śakyo balāt kartuṃ devair api savāsavaiḥ taṃ tvaṃ prārthayase mandabālaś candramasaṃ yathā 38 devair manuṣyair gandharvair asurair uragaiś ca yaḥ na soḍhuṃ samare śakyas taṃ na budhyasi keśavam 39 durgrahaḥ pāṇinā vāyur duḥsparśaḥ pāṇinā śaśī durdharā pṛthivī mūrdhnā durgrahaḥ keśavo balāt 40 ity ukte dhṛtarāṣṭreṇa kṣattāpi viduro 'bravīt duryodhanam abhiprekṣya dhārtarāṣṭram amarṣaṇam 41 saubhadvāre vānarendro dvivido nāma nāmataḥ śilā varṣeṇa mahatā chādayām āsa keśavam 42 grahītukāmo vikramya sarvayatnena mādhavam grahītuṃ nāśakat tatra taṃ tvaṃ prārthayase balāt 43 nirmocane ṣaṭ sahasrāḥ pāśair baddhvā mahāsurāḥ grahītuṃ nāśakaṃś cainaṃ taṃ tvaṃ prārthayase balāt 44 prāgjyotiṣa gataṃ śauriṃ narakaḥ saha dānavaiḥ grahītuṃ nāśakat tatra taṃ tvaṃ prārthayase balāt 45 anena hi hatā bālye pūtanā śiśunā tathā govardhano dhāritaś ca gavārthe bharatarṣabha 46 ariṣṭo dhenukaś caiva cāṇūraś ca mahābalaḥ aśvarājaś ca nihataḥ kaṃsaś cāriṣṭam ācaran 47 jarāsaṃdhaś ca vakraś ca śiśupālaś ca vīryavān bāṇaś ca nihataḥ saṃkhye rājāna ca niṣūditāḥ 48 varuṇo nirjito rājā pāvakaś cāmitaujasā pārijātaṃ ca haratā jitaḥ sākṣāc chacī patiḥ 49 ekārṇave śayānena hatau tau madhukaiṭabhau janmāntaram upāgamya hayagrīvas tathā hataḥ 50 ayaṃ kartā na kriyate kāraṇaṃ cāpi pauruṣe yad yad icched ayaṃ śauris tat tat kuryād ayatnataḥ 51 taṃ na budhyasi govindaṃ ghoravikramam acyutam āśīviṣam iva kruddhaṃ tejorāśim anirjitam 52 pradharṣayan mahābāhuṃ kṛṣṇam akliṣṭakāriṇam pataṃgo 'gnim ivāsādya sāmātyo na bhaviṣyasi |
The Mahabharata in Sanskrit
Book 5
Chapter 129
|
1
[व] विदुरेणैवम उक्ते तु केशवः शत्रुपूगहा दुर्यॊधनं धार्तराष्ट्रम अभ्यभाषत वीर्यवान 2 एकॊ ऽहम इति यन मॊहान मन्यसे मां सुयॊधन परिभूय च दुर्बुद्धे गरहीतुं मां चिकीर्षसि 3 इहैव पाण्डवाः सर्वे तथैवान्धकवृष्णयः इहादित्याश च रुद्राश च वसवश च महर्षिभिः 4 एवम उक्त्वा जहासॊच्चैः केशवः परवीरहा तस्य संस्मयतः शौरेर विद्युद्रूपा महात्मनः अङ्गुष्ठ मात्रास तरिदशा मुमुचुः पावकार्चिषः 5 तस्य बरह्मा ललाटस्थॊ रुद्रॊ वक्षसि चाभवत लॊकपाला भुजेष्व आसन्न अग्निर आस्याद अजायत 6 आदित्याश चैव साध्याश च वसवॊ ऽथाश्विनाव अपि मरुतश च सहेन्द्रेण विश्वे देवास तथैव च बभूवुश चैव रूपाणि यक्षगन्धर्वरक्षसाम 7 परादुरास्तां तथा दॊर्भ्यां संकर्षण धनंजयौ दक्षिणे ऽथार्जुनॊ धन्वी हली रामश च सव्यतः 8 भीमॊ युधिष्ठिरश चैव माद्रीपुत्रौ च पृष्ठतः अन्धका वृष्णयश चैव परद्युम्न परमुखास ततः 9 अग्रे बभूवुः कृष्णस्य समुद्यतमहायुधाः शङ्खचक्रगदाशक्तिर शार्ङ्गलाङ्गलनन्दकाः 10 अदृश्यन्तॊद्यतान्य एव सर्वप्रहरणानि च नाना बाहुषु कृष्णस्य दीप्यमानानि सर्वशः 11 नेत्राभ्यां नस ततश चैव शरॊत्राभ्यां च समन्ततः परादुरासन महारौद्राः सधूमाः पावकार्चिषः रॊमकूपेषु च तथा सूर्यस्येव मरीचयः 12 तं दृष्ट्वा घॊरम आत्मानं केशवस्य महात्मनः नयमीलयन्त नेत्राणि राजानस तरस्तचेतसः 13 ऋते दरॊणं च भीष्मं च विदुरं च महामतिम संजयं च महाभागम ऋषींश चैव तपॊधनान परादात तेषां स भगवान दिव्यं चक्षुर जनार्दनः 14 तद दृष्ट्वा महद आश्चर्यं माधवस्य सभा तले देवदुन्दुभयॊ नेदुः पुष्पवर्षं पपात च 15 चचाल च महीकृत्स्ना सागरश चापि चुक्षुभे विस्मयं परमं जग्मुः पार्थिवा भरतर्षभ 16 ततः स पुरुषव्याघ्रः संजहार वपुः सवकम तां दिव्याम अद्भुतां चित्राम ऋद्धिमत्ताम अरिंदमः 17 ततः सात्यकिम आदाय पाणौ हार्दिक्यम एव च ऋषिभिस तैर अनुज्ञातॊ निर्ययौ मधुसूदनः 18 ऋषयॊ ऽनतर्हिता जग्मुस ततस ते नारदादयः तस्मिन कॊलाहले वृत्ते तद अद्भुतम अभूत तदा 19 तं परस्थितम अभिप्रेक्ष्य कौरवाः सह राजभिः अनुजग्मुर नरव्याघ्रं देवा इव शतक्रतुम 20 अचिन्तयन्न अमेयात्मा सर्वं तद राजमण्डलम निश्चक्राम ततः शौरिः सधूम इव पावकः 21 ततॊ रथेन शुभ्रेण महता किङ्किणीकिना हेमजालविचित्रेण लघुना मेघनादिना 22 सूपस्करेण शुभ्रेण वैयाघ्रेण वरूथिना सैन्यसुग्रीव युक्तेन परत्यदृश्यत दारुकः 23 तथैव रथम आस्थाय कृतवर्मा महारथः वृष्णीनां संमतॊ वीरॊ हार्दिक्यः परत्यदृश्यत 24 उपस्थित रथं शौरिं परयास्यन्तम अरिंदमम धृतराष्ट्रॊ महाराजः पुनर एवाभ्यभाषत 25 यावद बलं मे पुत्रेषु पश्यस्य एतज जनार्दन परत्यक्षं ते न ते किं चित परॊक्षं शत्रुकर्शन 26 कुरूणां शमम इच्छन्तं यतमानं च केशव विदित्वैताम अवस्थां मे नातिशङ्कितुम अर्हसि 27 न मे पापॊ ऽसत्य अभिप्रायः पाण्डवान परति केशव जञातम एव हि ते वाक्यं यन मयॊक्तः सुयॊधनः 28 जानन्ति कुरवः सर्वे राजानश चैव पार्थिवाः शमे परयतमानं मां सर्वयत्नेन माधव 29 ततॊ ऽबरवीन महाबाहुर धृतराष्ट्रं जनेश्वरम दरॊणं पितामहं भीष्मं कषत्तारं बाह्लिकं कृपम 30 परत्यक्षम एतद भवतां यद्वृत्तं कुरुसंसदि यथा चाशिष्टवन मन्दॊ रॊषाद असकृद उत्थितः 31 वदत्य अनीशम आत्मानं धृतराष्ट्रॊ महीपतिः आपृच्छे भवतः सर्वान गमिष्यामि युधिष्ठिरम 32 आमन्त्र्य परस्थितं शौरिं रथस्थं पुरुषर्षभम अनुजग्मुर महेष्वासाः परवीरा भरतर्षभाः 33 भीष्मॊ दरॊणः कृपः कषत्ता धृतराष्ट्रॊ ऽथ बाह्लिकः अश्वत्थामा विकर्णश च युयुत्सुश च महारथः 34 ततॊ रथेन शुभ्रेण महता किङ्किणीकिना कुरूणां पश्यतां परायात पृथां दरष्टुं पितृष्वसाम |
1
[v] vidureṇaivam ukte tu keśavaḥ śatrupūgahā duryodhanaṃ dhārtarāṣṭram abhyabhāṣata vīryavān 2 eko 'ham iti yan mohān manyase māṃ suyodhana paribhūya ca durbuddhe grahītuṃ māṃ cikīrṣasi 3 ihaiva pāṇḍavāḥ sarve tathaivāndhakavṛṣṇayaḥ ihādityāś ca rudrāś ca vasavaś ca maharṣibhiḥ 4 evam uktvā jahāsoccaiḥ keśavaḥ paravīrahā tasya saṃsmayataḥ śaurer vidyudrūpā mahātmanaḥ aṅguṣṭha mātrās tridaśā mumucuḥ pāvakārciṣaḥ 5 tasya brahmā lalāṭastho rudro vakṣasi cābhavat lokapālā bhujeṣv āsann agnir āsyād ajāyata 6 ādityāś caiva sādhyāś ca vasavo 'thāśvināv api marutaś ca sahendreṇa viśve devās tathaiva ca babhūvuś caiva rūpāṇi yakṣagandharvarakṣasām 7 prādurāstāṃ tathā dorbhyāṃ saṃkarṣaṇa dhanaṃjayau dakṣiṇe 'thārjuno dhanvī halī rāmaś ca savyataḥ 8 bhīmo yudhiṣṭhiraś caiva mādrīputrau ca pṛṣṭhataḥ andhakā vṛṣṇayaś caiva pradyumna pramukhās tataḥ 9 agre babhūvuḥ kṛṣṇasya samudyatamahāyudhāḥ śaṅkhacakragadāśaktir śārṅgalāṅgalanandakāḥ 10 adṛśyantodyatāny eva sarvapraharaṇāni ca nānā bāhuṣu kṛṣṇasya dīpyamānāni sarvaśaḥ 11 netrābhyāṃ nas tataś caiva śrotrābhyāṃ ca samantataḥ prādurāsan mahāraudrāḥ sadhūmāḥ pāvakārciṣaḥ romakūpeṣu ca tathā sūryasyeva marīcayaḥ 12 taṃ dṛṣṭvā ghoram ātmānaṃ keśavasya mahātmanaḥ nyamīlayanta netrāṇi rājānas trastacetasaḥ 13 ṛte droṇaṃ ca bhīṣmaṃ ca viduraṃ ca mahāmatim saṃjayaṃ ca mahābhāgam ṛṣīṃś caiva tapodhanān prādāt teṣāṃ sa bhagavān divyaṃ cakṣur janārdanaḥ 14 tad dṛṣṭvā mahad āścaryaṃ mādhavasya sabhā tale devadundubhayo neduḥ puṣpavarṣaṃ papāta ca 15 cacāla ca mahīkṛtsnā sāgaraś cāpi cukṣubhe vismayaṃ paramaṃ jagmuḥ pārthivā bharatarṣabha 16 tataḥ sa puruṣavyāghraḥ saṃjahāra vapuḥ svakam tāṃ divyām adbhutāṃ citrām ṛddhimattām ariṃdamaḥ 17 tataḥ sātyakim ādāya pāṇau hārdikyam eva ca ṛṣibhis tair anujñāto niryayau madhusūdanaḥ 18 ṛṣayo 'ntarhitā jagmus tatas te nāradādayaḥ tasmin kolāhale vṛtte tad adbhutam abhūt tadā 19 taṃ prasthitam abhiprekṣya kauravāḥ saha rājabhiḥ anujagmur naravyāghraṃ devā iva śatakratum 20 acintayann ameyātmā sarvaṃ tad rājamaṇḍalam niścakrāma tataḥ śauriḥ sadhūma iva pāvakaḥ 21 tato rathena śubhreṇa mahatā kiṅkiṇīkinā hemajālavicitreṇa laghunā meghanādinā 22 sūpaskareṇa śubhreṇa vaiyāghreṇa varūthinā sainyasugrīva yuktena pratyadṛśyata dārukaḥ 23 tathaiva ratham āsthāya kṛtavarmā mahārathaḥ vṛṣṇīnāṃ saṃmato vīro hārdikyaḥ pratyadṛśyata 24 upasthita rathaṃ śauriṃ prayāsyantam ariṃdamam dhṛtarāṣṭro mahārājaḥ punar evābhyabhāṣata 25 yāvad balaṃ me putreṣu paśyasy etaj janārdana pratyakṣaṃ te na te kiṃ cit parokṣaṃ śatrukarśana 26 kurūṇāṃ śamam icchantaṃ yatamānaṃ ca keśava viditvaitām avasthāṃ me nātiśaṅkitum arhasi 27 na me pāpo 'sty abhiprāyaḥ pāṇḍavān prati keśava jñātam eva hi te vākyaṃ yan mayoktaḥ suyodhanaḥ 28 jānanti kuravaḥ sarve rājānaś caiva pārthivāḥ śame prayatamānaṃ māṃ sarvayatnena mādhava 29 tato 'bravīn mahābāhur dhṛtarāṣṭraṃ janeśvaram droṇaṃ pitāmahaṃ bhīṣmaṃ kṣattāraṃ bāhlikaṃ kṛpam 30 pratyakṣam etad bhavatāṃ yadvṛttaṃ kurusaṃsadi yathā cāśiṣṭavan mando roṣād asakṛd utthitaḥ 31 vadaty anīśam ātmānaṃ dhṛtarāṣṭro mahīpatiḥ āpṛcche bhavataḥ sarvān gamiṣyāmi yudhiṣṭhiram 32 āmantrya prasthitaṃ śauriṃ rathasthaṃ puruṣarṣabham anujagmur maheṣvāsāḥ pravīrā bharatarṣabhāḥ 33 bhīṣmo droṇaḥ kṛpaḥ kṣattā dhṛtarāṣṭro 'tha bāhlikaḥ aśvatthāmā vikarṇaś ca yuyutsuś ca mahārathaḥ 34 tato rathena śubhreṇa mahatā kiṅkiṇīkinā kurūṇāṃ paśyatāṃ prāyāt pṛthāṃ draṣṭuṃ pitṛṣvasām |
The Mahabharata in Sanskrit
Book 5
Chapter 130
|
1
[व] परविश्याथ गृहं तस्याश चरणाव अभिवाद्य च आचख्यौ तत समासेन यद्वृत्तं कुरुसंसदि 2 उक्तं बहुविधं वाक्यं गरहणीयं सहेतुकम ऋषिभिश च मया चैव न चासौ तद्गृहीतवान 3 कालपक्वम इदं सर्वं दुर्यॊधन वशानुगम आपृच्छे भवतीं शीघ्रं परयास्ये पाण्डवान परति 4 किं वाच्याः पाण्डवेयास ते भवत्या वननान मया तद बरूहि तवं महाप्राज्ञे शुश्रूषे वचनं तव 5 बरूयाः केशव राजानं धर्मात्मानं युधिष्ठिरम भूयांस ते हीयते धर्मॊ मा पुत्रक वृथा कृथाः 6 शरॊत्रियस्येव ते राजन मन्दकस्याविपश्चितः अनुवाक हता बुद्धिर धर्मम एवैकम ईक्षते 7 अङ्गावेक्षस्व धर्मं तवं यथा सृष्टः सवयम्भुवाम उरस्तः कषत्रियः सृष्टॊ बाहुवीर्यॊपजीविता करूराय कर्मणे नित्यं परजानां परिपालने 8 शृणु चात्रॊपमाम एकां या वृद्धेभ्यः शरुता मया मुचुकुन्दस्य राजर्षेर अददात पृथिवीम इमाम पुरा वैश्रवणः परीतॊ न चासौ तां गृहीतवान 9 बाहुवीर्यार्जितं राज्यम अश्नीयाम इति कामये ततॊ वैश्वरणः परीतॊ विस्मितः समपद्यत 10 मुचुकुन्दस ततॊ राजा सॊ ऽनवशासद वसुंधराम बाहुवीर्यार्जितां सम्यक कषत्रधर्मम अनुव्रतः 11 यं हि धर्मं चरन्तीह परजा राज्ञा सुरक्षिताः चतुर्थं तस्य धर्मस्य राजा भारत विन्दति 12 राजा चरति चेद धर्मं देवत्वायैव कल्पते स चेद अधर्मं चरति नरकायैव गच्छति 13 दण्डनीतिः सवधर्मेण चातुर्वर्ण्यं नियच्छति परयुक्ता सवामिना सम्यग अधर्मेभ्यश च यच्छति 14 दण्डनीत्यां यदा राजा सम्यक कार्त्स्न्येन वर्तते तदा कृतयुगं नाम कालः शरेष्ठः परवर्तते 15 कालॊ वा कारणं राज्ञॊ राजा वा कालकारणम इति ते संशयॊ मा भूद राजा कालस्य कारणम 16 राजा कृतयुगस्रष्टा तरेताया दवापरस्य च युगस्य च चतुर्थस्य राजा भवति कारणम 17 कृतस्य कारणाद राजा सवर्गम अत्यन्तम अश्नुते तरेतायाः कारणाद राजा सवर्गं नात्यन्तम अश्नुते परवर्तनाद दवापरस्य यथाभागम उपाश्नुते 18 ततॊ वसति दुष्कर्मा नरके शाश्वतीः समाः राजदॊषेण हि जगत सपृश्यते जगतः स च 19 राजधर्मान अवेक्षस्व पितृपैतामहॊचितान नैतद राजर्षिवृत्तं हि यत्र तवं सथातुम इच्छसि 20 न हि वैक्लव्य संसृष्ट आनृशंस्ये वयवस्थितः परजापालनसंभूतं किं चित पराप फलं नृपः 21 न हय एताम आशिषं पाण्डुर न चाहं न पितामहः परयुक्तवन्तः पूर्वं ते यया चरसि मेधया 22 यज्ञॊ दानं तपः शौर्यं परजा संतानम एव च माहात्म्यं बलभॊजश च नित्यम आशंसितं मया 23 नित्यं सवाहा सवधा नित्यं ददुर मानुषदेवताः दीर्घम आयुर धनं पुत्रान सम्यग आराधिताः शुभाः 24 पुत्रेष्व आशासते नित्यं पितरॊ दैवतानि च दानम अध्ययनं यज्ञं परजानां परिपालनम 25 एतद धर्मम अधर्मं वा जन्मनैवाभ्यजायथाः ते सथ वैद्याः कुले जाता अवृत्त्या तात पीडिताः 26 यत तु दानपतिं शूरं कषुधिताः पृथिवीचराः पराप्य तृप्ताः परतिष्ठन्ते धर्मः कॊ ऽभयधिकस ततः 27 दानेनान्यं बलेनान्यं तहा सूनृतयापरम सर्वतः परतिगृह्णीयाद राज्यं पराप्येह धार्मिकः 28 बराह्मणः परचरेद भैक्षं कषत्रियः परिपालयेत वैश्यॊ धनार्जनं कुर्याच छूद्रः परिचरेच च तान 29 भैक्षं विप्रतिषिद्धं ते कृषिर नैवॊपपद्यते कषत्रियॊ ऽसि कषतास तराता बाहुवीर्यॊपजीविता 30 पित्र्यम अंशं महाबाहॊ निमग्नं पुनर उद्धर साम्ना दानेन भेदेन दण्डेनाथ नयेन च 31 इतॊ दुःखतरं किं नु यद अहं हीनबान्धवा परपिण्डम उदीक्षामि तवां सूत्वामित्रनन्दन 32 युध्यस्व राजधर्मेण मा निमज्जीः पितामहान मा गमः कषीणपुण्यस तवं सानुगः पापिकां गतिम |
1
[v] praviśyātha gṛhaṃ tasyāś caraṇāv abhivādya ca ācakhyau tat samāsena yadvṛttaṃ kurusaṃsadi 2 uktaṃ bahuvidhaṃ vākyaṃ grahaṇīyaṃ sahetukam ṛṣibhiś ca mayā caiva na cāsau tadgṛhītavān 3 kālapakvam idaṃ sarvaṃ duryodhana vaśānugam āpṛcche bhavatīṃ śīghraṃ prayāsye pāṇḍavān prati 4 kiṃ vācyāḥ pāṇḍaveyās te bhavatyā vananān mayā tad brūhi tvaṃ mahāprājñe śuśrūṣe vacanaṃ tava 5 brūyāḥ keśava rājānaṃ dharmātmānaṃ yudhiṣṭhiram bhūyāṃs te hīyate dharmo mā putraka vṛthā kṛthāḥ 6 śrotriyasyeva te rājan mandakasyāvipaścitaḥ anuvāka hatā buddhir dharmam evaikam īkṣate 7 aṅgāvekṣasva dharmaṃ tvaṃ yathā sṛṣṭaḥ svayambhuvām urastaḥ kṣatriyaḥ sṛṣṭo bāhuvīryopajīvitā krūrāya karmaṇe nityaṃ prajānāṃ paripālane 8 śṛṇu cātropamām ekāṃ yā vṛddhebhyaḥ śrutā mayā mucukundasya rājarṣer adadāt pṛthivīm imām purā vaiśravaṇaḥ prīto na cāsau tāṃ gṛhītavān 9 bāhuvīryārjitaṃ rājyam aśnīyām iti kāmaye tato vaiśvaraṇaḥ prīto vismitaḥ samapadyata 10 mucukundas tato rājā so 'nvaśāsad vasuṃdharām bāhuvīryārjitāṃ samyak kṣatradharmam anuvrataḥ 11 yaṃ hi dharmaṃ carantīha prajā rājñā surakṣitāḥ caturthaṃ tasya dharmasya rājā bhārata vindati 12 rājā carati ced dharmaṃ devatvāyaiva kalpate sa ced adharmaṃ carati narakāyaiva gacchati 13 daṇḍanītiḥ svadharmeṇa cāturvarṇyaṃ niyacchati prayuktā svāminā samyag adharmebhyaś ca yacchati 14 daṇḍanītyāṃ yadā rājā samyak kārtsnyena vartate tadā kṛtayugaṃ nāma kālaḥ śreṣṭhaḥ pravartate 15 kālo vā kāraṇaṃ rājño rājā vā kālakāraṇam iti te saṃśayo mā bhūd rājā kālasya kāraṇam 16 rājā kṛtayugasraṣṭā tretāyā dvāparasya ca yugasya ca caturthasya rājā bhavati kāraṇam 17 kṛtasya kāraṇād rājā svargam atyantam aśnute tretāyāḥ kāraṇād rājā svargaṃ nātyantam aśnute pravartanād dvāparasya yathābhāgam upāśnute 18 tato vasati duṣkarmā narake śāśvatīḥ samāḥ rājadoṣeṇa hi jagat spṛśyate jagataḥ sa ca 19 rājadharmān avekṣasva pitṛpaitāmahocitān naitad rājarṣivṛttaṃ hi yatra tvaṃ sthātum icchasi 20 na hi vaiklavya saṃsṛṣṭa ānṛśaṃsye vyavasthitaḥ prajāpālanasaṃbhūtaṃ kiṃ cit prāpa phalaṃ nṛpaḥ 21 na hy etām āśiṣaṃ pāṇḍur na cāhaṃ na pitāmahaḥ prayuktavantaḥ pūrvaṃ te yayā carasi medhayā 22 yajño dānaṃ tapaḥ śauryaṃ prajā saṃtānam eva ca māhātmyaṃ balabhojaś ca nityam āśaṃsitaṃ mayā 23 nityaṃ svāhā svadhā nityaṃ dadur mānuṣadevatāḥ dīrgham āyur dhanaṃ putrān samyag ārādhitāḥ śubhāḥ 24 putreṣv āśāsate nityaṃ pitaro daivatāni ca dānam adhyayanaṃ yajñaṃ prajānāṃ paripālanam 25 etad dharmam adharmaṃ vā janmanaivābhyajāyathāḥ te stha vaidyāḥ kule jātā avṛttyā tāta pīḍitāḥ 26 yat tu dānapatiṃ śūraṃ kṣudhitāḥ pṛthivīcarāḥ prāpya tṛptāḥ pratiṣṭhante dharmaḥ ko 'bhyadhikas tataḥ 27 dānenānyaṃ balenānyaṃ tahā sūnṛtayāparam sarvataḥ pratigṛhṇīyād rājyaṃ prāpyeha dhārmikaḥ 28 brāhmaṇaḥ pracared bhaikṣaṃ kṣatriyaḥ paripālayet vaiśyo dhanārjanaṃ kuryāc chūdraḥ paricarec ca tān 29 bhaikṣaṃ vipratiṣiddhaṃ te kṛṣir naivopapadyate kṣatriyo 'si kṣatās trātā bāhuvīryopajīvitā 30 pitryam aṃśaṃ mahābāho nimagnaṃ punar uddhara sāmnā dānena bhedena daṇḍenātha nayena ca 31 ito duḥkhataraṃ kiṃ nu yad ahaṃ hīnabāndhavā parapiṇḍam udīkṣāmi tvāṃ sūtvāmitranandana 32 yudhyasva rājadharmeṇa mā nimajjīḥ pitāmahān mā gamaḥ kṣīṇapuṇyas tvaṃ sānugaḥ pāpikāṃ gatim |
The Mahabharata in Sanskrit
Book 5
Chapter 131
|
1
[क] अत्राप्य उदाहरन्तीमम इतिहासं पुरातनम विदुरायाश च संवादं पुत्रस्य च परंतप 2 अत्र शरेयश च भूयश च यथा सा वक्तुम अर्हति यशस्विनी मनुमती कुले जाता विभावरी 3 कषत्रधर्मरता धन्या विदुरा दीर्घदर्शिनी विश्रुता राजसंसत्सु शरुतवाक्या बहुश्रुता 4 विदुरा नाम वै सत्या जगर्हे पुत्रम औरसम निर्जितं सिन्धुराजेन शयानं दीनचेतसम अनन्दनम अधर्मज्ञं दविषतां हर्षवर्धनम 5 न मया तवं न पित्रासि जातः कवाभ्यागतॊ हय असि निर्मन्युर उपशाखीयः पुरुषः कलीब साधनः 6 यावज जीवं निराशॊ ऽसि कल्याणाय धुरं वह मात्मानम अवमन्यस्व मैनम अल्पेन बीभरः मनः कृत्वा सुकल्याणं मा भैस तवं परतिसंस्तभ 7 उत्तिष्ठ हे कापुरुष मा शेष्वैवं पराजितः अमित्रान नन्दयन सर्वान निर्मानॊ बन्धुशॊकदः 8 सुपूरा वै कुनदिका सुपूरॊ मूषिकाञ्जलिः सुसंतॊषः कापुरुषः सवल्पकेनापि तुष्यति 9 अप्य अरेर आरुजन दंष्ट्राम आश्वा इव निधनं वरज अपि वा संशयं पराप्य जीविते ऽपि पराक्रम 10 अप्य अरेः शयेनवच छिद्रं पश्येस तवं विपरिक्रमन विनदन वाथ वा तूष्णीं वयॊम्नि वापरिशङ्कितः 11 तवम एवं परेतवच छेषे कस्माद वज्रहतॊ यथा उत्तिष्ठ हे कापुरुष मा शेष्वैवं पराजितः 12 मास्तं गमस तवं कृपणॊ विश्रूयस्व सवकर्मणा मा मध्ये मा जघन्ये तवं माधॊ भूस तिष्ठ चॊर्जितः 13 अलातं तिन्दुकस्येव मुहूर्तम अपि विज्वल मा तुषाग्निर इवानर्चिः काकरङ्खा जिजीविषुः मुहूर्तं जवलितं शरेयॊ न तु धूमायितं चिरम 14 मा ह सम कस्य चिद गेहे जनी राज्ञः खरी मृदुः कृत्वा मानुष्यकं कर्म सृत्वाजिं यावद उत्तमम धर्मस्यानृण्यम आप्नॊति न चात्मानं विगर्हते 15 अलब्ध्वा यदि वा लब्ध्वा नानुशॊचन्ति पण्डिताः आनन्तर्यं चारभते न पराणानां धनायते 16 उद्भावयस्व वीर्यं वा तां वा गच्छ धरुवां गतिम धर्मं पुत्राग्रतः कृत्वा किंनिमित्तं हि जीवसि 17 इष्टापूर्तं हि ते कलीब कीर्तिश च सकला हता विच्छिन्नं भॊगमूलं ते किंनिमित्तं हि जीवसि 18 शत्रुर निमज्जता गराह्यॊ जङ्घायां परपतिष्यता विपरिच्छिन्न मूलॊ ऽपि न विषीदेत कथं चन उद्यम्य दुरम उत्कर्षेद आजानेय कृतं समरन 19 कुरु सत्त्वं च मानं च विद्धि पौरुषम आत्मनः उद्भावय कुलं मग्नं तवत्कृते सवयम एव हि 20 यस्य वृत्तं न जल्पन्ति मानवा महद अद्भुतम राशिवर्धन मात्रं स नैव सत्री न पुनः पुमान 21 दाने तपसि शौर्ये च यस्य न परथितं यशः विद्यायाम अर्थलाभे वा मातुर उच्चार एव सः 22 शरुतेन तपसा वापि शरिया वा विक्रमेण वा जनान यॊ ऽभिभवत्य अन्यान कर्णमा हि स वै पुमान 23 न तव एव जाल्मीं कापालीं वृत्तिम एषितुम अर्हसि नृशंस्याम अयशस्यां च दुःखां कापुरुषॊचिताम 24 यम एनम अभिनन्देयुर अमित्राः पुरुषं कृशम लॊकस्य समवज्ञातं निहीताशन वाससम 25 अहॊ लाभकरं दीनम अल्पजीवनम अल्पकम नेदृशं बन्धुम आसाद्य बान्धवः सुखम एधते 26 अवृत्त्यैव विपत्स्यामॊ वयं राष्ट्रात परवासिताः सर्वकामरसैर हीनाः सथानभ्रष्टा अकिंचनाः 27 अवर्ण कारिणं सत्सु कुलवंशस्य नाशनम कलिं पुत्र परवादेन संजय तवाम अजीजनम 28 निरमर्षं निरुत्साहं निर्वीर्यम अरिनन्दनम मा सम सीमन्तिनी का चिज जनयेत पुत्रम ईदृशम 29 मा धूमाय जवलात्यन्तम आक्रम्य जहि शात्रवान जवल मूर्धन्य अमित्राणां मुहूर्तम अपि वा कषणम 30 एतावान एव पुरुषॊ यद अमर्षी यद अक्षमी कषमावान निरमर्शश च नैव सत्री न पुनः पुमान 31 संतॊषॊ वै शरियं हन्ति तथानुक्रॊश एव च अनुत्थान भये चॊभे निरीहॊ नाश्नुते महत 32 एभ्यॊ निकृतिपापेभ्यः परमुञ्चात्मानम आत्मना आयसं हृदयं कृत्वा मृगयस्व पुनः सवकम 33 पुरं विषहते यस्मात तस्मात पुरुष उच्यते तम आहुर वयर्थनामानं सत्रीवद य इह जीवति 34 शूरस्यॊर्जित सत्त्वस्य सिंहविक्रान्त गामिनः दिष्ट भावं गतस्यापि विघसे मॊदते परजा 35 य आत्मनः परिय सुखे हित्वा मृगयते शरियम अमात्यानाम अथॊ हर्षम आदधात्य अचिरेण सः 36 किं नु ते माम अपश्यन्त्याः पृथिव्या अपि सर्वया किम आभरणकृत्यं ते किं भॊगैर जीवितेन वा 37 किम अद्यकानां ये लॊका दविषन्तस तान अवाप्नुयुः ये तव आदृतात्मनां लॊकाः सुहृदस तान वरजन्तु नः 38 भृत्यैर विहीयमानानां परपिण्डॊपजीविनाम कृपणानाम असत्त्वानां मा वृत्तिम अनुवर्तिथाः 39 अनु तवां तात जीवन्तु बराह्मणाः सुहृदस तथा पर्जन्यम इव भूतानि देवा इव शतक्रतुम 40 यम आजीवन्ति पुरुषं सर्वभूतानि संजय पक्वं दरुमम इवासाद्य तस्य जीवितम अर्थवत 41 यस्य शूरस्य विक्रान्तैर एधन्ते बान्धवाः सुखम तरिदशा इव शक्रस्य साधु तस्येह जीवितम 42 सवबाहुबलम आश्रित्य यॊ ऽभयुज्जीवति मानवः स लॊके लभते कीर्तिं परत्र च शुभां गतिम |
1
[k] atrāpy udāharantīmam itihāsaṃ purātanam vidurāyāś ca saṃvādaṃ putrasya ca paraṃtapa 2 atra śreyaś ca bhūyaś ca yathā sā vaktum arhati yaśasvinī manumatī kule jātā vibhāvarī 3 kṣatradharmaratā dhanyā vidurā dīrghadarśinī viśrutā rājasaṃsatsu śrutavākyā bahuśrutā 4 vidurā nāma vai satyā jagarhe putram aurasam nirjitaṃ sindhurājena śayānaṃ dīnacetasam anandanam adharmajñaṃ dviṣatāṃ harṣavardhanam 5 na mayā tvaṃ na pitrāsi jātaḥ kvābhyāgato hy asi nirmanyur upaśākhīyaḥ puruṣaḥ klība sādhanaḥ 6 yāvaj jīvaṃ nirāśo 'si kalyāṇāya dhuraṃ vaha mātmānam avamanyasva mainam alpena bībharaḥ manaḥ kṛtvā sukalyāṇaṃ mā bhais tvaṃ pratisaṃstabha 7 uttiṣṭha he kāpuruṣa mā śeṣvaivaṃ parājitaḥ amitrān nandayan sarvān nirmāno bandhuśokadaḥ 8 supūrā vai kunadikā supūro mūṣikāñjaliḥ susaṃtoṣaḥ kāpuruṣaḥ svalpakenāpi tuṣyati 9 apy arer ārujan daṃṣṭrām āśvā iva nidhanaṃ vraja api vā saṃśayaṃ prāpya jīvite 'pi parākrama 10 apy areḥ śyenavac chidraṃ paśyes tvaṃ viparikraman vinadan vātha vā tūṣṇīṃ vyomni vāpariśaṅkitaḥ 11 tvam evaṃ pretavac cheṣe kasmād vajrahato yathā uttiṣṭha he kāpuruṣa mā śeṣvaivaṃ parājitaḥ 12 māstaṃ gamas tvaṃ kṛpaṇo viśrūyasva svakarmaṇā mā madhye mā jaghanye tvaṃ mādho bhūs tiṣṭha corjitaḥ 13 alātaṃ tindukasyeva muhūrtam api vijvala mā tuṣāgnir ivānarciḥ kākaraṅkhā jijīviṣuḥ muhūrtaṃ jvalitaṃ śreyo na tu dhūmāyitaṃ ciram 14 mā ha sma kasya cid gehe janī rājñaḥ kharī mṛduḥ kṛtvā mānuṣyakaṃ karma sṛtvājiṃ yāvad uttamam dharmasyānṛṇyam āpnoti na cātmānaṃ vigarhate 15 alabdhvā yadi vā labdhvā nānuśocanti paṇḍitāḥ ānantaryaṃ cārabhate na prāṇānāṃ dhanāyate 16 udbhāvayasva vīryaṃ vā tāṃ vā gaccha dhruvāṃ gatim dharmaṃ putrāgrataḥ kṛtvā kiṃnimittaṃ hi jīvasi 17 iṣṭāpūrtaṃ hi te klība kīrtiś ca sakalā hatā vicchinnaṃ bhogamūlaṃ te kiṃnimittaṃ hi jīvasi 18 śatrur nimajjatā grāhyo jaṅghāyāṃ prapatiṣyatā viparicchinna mūlo 'pi na viṣīdet kathaṃ cana udyamya duram utkarṣed ājāneya kṛtaṃ smaran 19 kuru sattvaṃ ca mānaṃ ca viddhi pauruṣam ātmanaḥ udbhāvaya kulaṃ magnaṃ tvatkṛte svayam eva hi 20 yasya vṛttaṃ na jalpanti mānavā mahad adbhutam rāśivardhana mātraṃ sa naiva strī na punaḥ pumān 21 dāne tapasi śaurye ca yasya na prathitaṃ yaśaḥ vidyāyām arthalābhe vā mātur uccāra eva saḥ 22 śrutena tapasā vāpi śriyā vā vikrameṇa vā janān yo 'bhibhavaty anyān karṇamā hi sa vai pumān 23 na tv eva jālmīṃ kāpālīṃ vṛttim eṣitum arhasi nṛśaṃsyām ayaśasyāṃ ca duḥkhāṃ kāpuruṣocitām 24 yam enam abhinandeyur amitrāḥ puruṣaṃ kṛśam lokasya samavajñātaṃ nihītāśana vāsasam 25 aho lābhakaraṃ dīnam alpajīvanam alpakam nedṛśaṃ bandhum āsādya bāndhavaḥ sukham edhate 26 avṛttyaiva vipatsyāmo vayaṃ rāṣṭrāt pravāsitāḥ sarvakāmarasair hīnāḥ sthānabhraṣṭā akiṃcanāḥ 27 avarṇa kāriṇaṃ satsu kulavaṃśasya nāśanam kaliṃ putra pravādena saṃjaya tvām ajījanam 28 niramarṣaṃ nirutsāhaṃ nirvīryam arinandanam mā sma sīmantinī kā cij janayet putram īdṛśam 29 mā dhūmāya jvalātyantam ākramya jahi śātravān jvala mūrdhany amitrāṇāṃ muhūrtam api vā kṣaṇam 30 etāvān eva puruṣo yad amarṣī yad akṣamī kṣamāvān niramarśaś ca naiva strī na punaḥ pumān 31 saṃtoṣo vai śriyaṃ hanti tathānukrośa eva ca anutthāna bhaye cobhe nirīho nāśnute mahat 32 ebhyo nikṛtipāpebhyaḥ pramuñcātmānam ātmanā āyasaṃ hṛdayaṃ kṛtvā mṛgayasva punaḥ svakam 33 puraṃ viṣahate yasmāt tasmāt puruṣa ucyate tam āhur vyarthanāmānaṃ strīvad ya iha jīvati 34 śūrasyorjita sattvasya siṃhavikrānta gāminaḥ diṣṭa bhāvaṃ gatasyāpi vighase modate prajā 35 ya ātmanaḥ priya sukhe hitvā mṛgayate śriyam amātyānām atho harṣam ādadhāty acireṇa saḥ 36 kiṃ nu te mām apaśyantyāḥ pṛthivyā api sarvayā kim ābharaṇakṛtyaṃ te kiṃ bhogair jīvitena vā 37 kim adyakānāṃ ye lokā dviṣantas tān avāpnuyuḥ ye tv ādṛtātmanāṃ lokāḥ suhṛdas tān vrajantu naḥ 38 bhṛtyair vihīyamānānāṃ parapiṇḍopajīvinām kṛpaṇānām asattvānāṃ mā vṛttim anuvartithāḥ 39 anu tvāṃ tāta jīvantu brāhmaṇāḥ suhṛdas tathā parjanyam iva bhūtāni devā iva śatakratum 40 yam ājīvanti puruṣaṃ sarvabhūtāni saṃjaya pakvaṃ drumam ivāsādya tasya jīvitam arthavat 41 yasya śūrasya vikrāntair edhante bāndhavāḥ sukham tridaśā iva śakrasya sādhu tasyeha jīvitam 42 svabāhubalam āśritya yo 'bhyujjīvati mānavaḥ sa loke labhate kīrtiṃ paratra ca śubhāṃ gatim |
The Mahabharata in Sanskrit
Book 5
Chapter 132
|
1
[विदुरा] अथैतस्याम अवस्थायां पौरुषं हातुम इच्छसि निहीन सेवितं मार्गं गमिष्यस्य अचिराद इव 2 यॊ हि तेजॊ यथाशक्ति न दर्शयति विक्रमात कषत्रियॊ जीविताकाङ्क्षी सतेन इत्य एव तं विदुः 3 अर्थवन्त्य उपपन्नानि वाक्यानि गुणवन्ति च नैव संप्राप्नुवन्ति तवां मुमूर्षुम इव भेषजम 4 सन्ति वै सिन्धुराजस्य संतुष्टा बहवॊ जनाः दौर्बल्याद आसते मूढा वयसनौघप्रतीक्षिणः 5 सहायॊचपयं कृत्वा वयवसाय्य ततस ततः अनुदुष्येयुर अपरे पश्यन्तस तव पौरुषम 6 तैः कृत्वा सह संघातं गिरिदुर्गालयांश चर काले वयसनम आकाङ्क्षन नैवायम अजरामरः 7 संजयॊ नामतश च तवं न च पश्यामि तत तवयि अन्वर्थ नामा भव मे पुत्र मा वयर्थनामकः 8 सम्यग दृष्टिर महाप्राज्ञॊ बालं तवां बराह्मणॊ ऽबरवीत अयं पराप्य महत कृच्छ्रं पुनर वृद्धिं गमिष्यति 9 तस्य समरन्ती वचनम आशंसे विजयं तव तस्मात तात बरवीमि तवां वक्ष्यामि च पुनः पुनः 10 यस्य हय अर्थाभिनिर्वृत्तौ भवन्त्य आप्यायिताः परे तस्यार्थसिद्धिर नियता नयेष्व अर्थानुसारिणः 11 समृद्दिह्र असमृद्धिर वा पूर्वेषां मम संजय एवं विद्वान युद्धमना भव मा परत्युपाहर 12 नातः पापीयसीं कां चिद अवस्था शम्बरॊ ऽबरवीत यत्र नैवाद्य न परात्र भॊजनं परतिदृश्यते 13 पतिपुत्र वधाद एतत परमं दुःखम अब्रवीत दारिद्र्यम इति यत परॊक्तं पर्याय मरणं हि तत 14 अहं महाकुले जाता हरदाद धरदम इवागता ईश्वरी सर्वकल्याणैर भर्त्रा परमपूजिता 15 महार्हमाल्याभरणां सुमृष्टाम्बर वाससम पुरा दृष्ट्वा सुहृद्वर्गॊ माम अपश्यत सुदुर्गताम 16 यदा मां चैव भार्यां च दरष्टासि भृशदुर्बले न तदा जीवितेनार्थॊ भविता तव संजय 17 दासकर्म करान भृत्यान आचार्यर्त्विक पुरॊहितान अवृत्त्यास्मान परजहतॊ दृष्ट्वा किं जीवितेन ते 18 यदि कृत्यं न पश्यामि तवाद्येह यथा पुरा शलाघनीयं यशस्यं च का शान्तिर हृदयस्य मे 19 नेति चेद बराह्मणान बरूयां दीर्यते हृदयं मम न हय अहं न च मे भर्ता नेति बराह्मणम उक्तवान 20 वयम आश्रमणीयाः सम नाश्रितारः परस्य च सान्यान आश्रित्य जीवन्ती परित्यक्ष्यामि जीवितम 21 अपारे भव नः पारम अप्लवे भव नः पलवः कुरुष्व सथानम अस्थाने मृतान संजीवयस्व नः 22 सर्वे ते शत्रवः सह्या न चेज जीवितुम इच्छसि अथ चेद ईदृशीं वृत्तिं कलीबाम अभ्युपपद्यसे 23 निर्विण्णात्मा हतमना मुञ्चैतां पापजीविकाम एकशत्रुवधेनैव शूरॊ गच्छति विश्रुतिम 24 इन्द्रॊ वृत्रवधेनैव महेन्द्रः समपद्यत माहेन्द्रं च गरहं लेभे लॊकानां चेश्वरॊ ऽभवत 25 नाम विश्राव्य वा संख्ये शत्रूर आहूय दंशितान सेनाग्रं वापि विद्राव्य हत्वा वा पुरुषं वरम 26 यदैव लभते वीरः सुयुद्धेन महद यशः तदैव परव्यथन्ते ऽसय शत्रवॊ विनमन्ति च 27 तयक्त्वात्मानं रणे दक्षं शूरं कापुरुषा जनाः अवशाः पूरयन्ति सम सर्वकामसमृद्धिभिः 28 राज्यं वाप्य उग्रविभ्रंशं संशयॊ जीवितस्य वा परलब्धस्य हि शत्रॊर वै शेषं कुर्वन्ति साधवः 29 सवर्गद्वारॊपमं राज्यम अथ वाप्य अमृतॊपमम रुद्धम एकायने मत्वा पतॊल्मुक इवारिषु 30 जहि शत्रून रणे राजन सवधर्मम अनुपालय मा तवा पश्येत सुकृपणं शत्रुः शरीमान कदा चन 31 अस्मदीयैश च शॊचद्भिर नदद्भिश च परैर वृतम अपि तवां नानुपश्येयं दीना दीनम अवस्थितम 32 उष्य सौवीरकन्याभिः शलाघस्वार्थैर यथा पुरा मा च सैन्धव कन्यानाम अवन्सन नॊ वशं गमः 33 युवा रूपेण संपन्नॊ विद्ययाभिजनेन च यस तवादृशॊ विकुर्वीत यशस्वी लॊकविश्रुतः वॊढव्ये धुर्य अनडुवन मन्ये मरणम एव तत 34 यदि तवाम अनुपश्यामि परस्य परियवादिनम पृष्ठतॊ ऽनुव्रजन्तं वा का कान्तिर हृदयस्य मे 35 नास्मिञ जातु कुले जातॊ गच्छेद यॊ ऽनयस्य पृष्ठतः न तवं परस्यानुधुरं तात जीवितुम अर्हसि 36 अहं हि कषत्रहृदयं वेद यत परिशाश्वतम पूर्वैः पूर्वतरैः परॊक्तं परैः परतरैर अपि 37 यॊ वै कश चिद इहाजातः कषत्रियः कषत्रधर्मवित भयाद वृत्ति समीक्षॊ वा न नमेद इह कस्य चित 38 उद्यच्छेद एव न नमेद उद्यमॊ हय एव पौरुषम अप्य अपर्वणि भज्येत न नमेद इह कस्य चित 39 मातङ्गॊ मत्त इव च परीयात सुमहामनाः बराह्मणेभ्यॊ नमेन नित्यं धर्मायैव च संजय 40 नियच्छन्न इतरान वर्णान विनिघ्नन सर्वदुष्कृतः ससहायॊ ऽसहायॊ वा यावज जीवं तथा भवेत |
1
[vidurā] athaitasyām avasthāyāṃ pauruṣaṃ hātum icchasi nihīna sevitaṃ mārgaṃ gamiṣyasy acirād iva 2 yo hi tejo yathāśakti na darśayati vikramāt kṣatriyo jīvitākāṅkṣī stena ity eva taṃ viduḥ 3 arthavanty upapannāni vākyāni guṇavanti ca naiva saṃprāpnuvanti tvāṃ mumūrṣum iva bheṣajam 4 santi vai sindhurājasya saṃtuṣṭā bahavo janāḥ daurbalyād āsate mūḍhā vyasanaughapratīkṣiṇaḥ 5 sahāyocapayaṃ kṛtvā vyavasāyya tatas tataḥ anuduṣyeyur apare paśyantas tava pauruṣam 6 taiḥ kṛtvā saha saṃghātaṃ giridurgālayāṃś cara kāle vyasanam ākāṅkṣan naivāyam ajarāmaraḥ 7 saṃjayo nāmataś ca tvaṃ na ca paśyāmi tat tvayi anvartha nāmā bhava me putra mā vyarthanāmakaḥ 8 samyag dṛṣṭir mahāprājño bālaṃ tvāṃ brāhmaṇo 'bravīt ayaṃ prāpya mahat kṛcchraṃ punar vṛddhiṃ gamiṣyati 9 tasya smarantī vacanam āśaṃse vijayaṃ tava tasmāt tāta bravīmi tvāṃ vakṣyāmi ca punaḥ punaḥ 10 yasya hy arthābhinirvṛttau bhavanty āpyāyitāḥ pare tasyārthasiddhir niyatā nayeṣv arthānusāriṇaḥ 11 samṛddihr asamṛddhir vā pūrveṣāṃ mama saṃjaya evaṃ vidvān yuddhamanā bhava mā pratyupāhara 12 nātaḥ pāpīyasīṃ kāṃ cid avasthā śambaro 'bravīt yatra naivādya na prātra bhojanaṃ pratidṛśyate 13 patiputra vadhād etat paramaṃ duḥkham abravīt dāridryam iti yat proktaṃ paryāya maraṇaṃ hi tat 14 ahaṃ mahākule jātā hradād dhradam ivāgatā īśvarī sarvakalyāṇair bhartrā paramapūjitā 15 mahārhamālyābharaṇāṃ sumṛṣṭāmbara vāsasam purā dṛṣṭvā suhṛdvargo mām apaśyat sudurgatām 16 yadā māṃ caiva bhāryāṃ ca draṣṭāsi bhṛśadurbale na tadā jīvitenārtho bhavitā tava saṃjaya 17 dāsakarma karān bhṛtyān ācāryartvik purohitān avṛttyāsmān prajahato dṛṣṭvā kiṃ jīvitena te 18 yadi kṛtyaṃ na paśyāmi tavādyeha yathā purā ślāghanīyaṃ yaśasyaṃ ca kā śāntir hṛdayasya me 19 neti ced brāhmaṇān brūyāṃ dīryate hṛdayaṃ mama na hy ahaṃ na ca me bhartā neti brāhmaṇam uktavān 20 vayam āśramaṇīyāḥ sma nāśritāraḥ parasya ca sānyān āśritya jīvantī parityakṣyāmi jīvitam 21 apāre bhava naḥ pāram aplave bhava naḥ plavaḥ kuruṣva sthānam asthāne mṛtān saṃjīvayasva naḥ 22 sarve te śatravaḥ sahyā na cej jīvitum icchasi atha ced īdṛśīṃ vṛttiṃ klībām abhyupapadyase 23 nirviṇṇātmā hatamanā muñcaitāṃ pāpajīvikām ekaśatruvadhenaiva śūro gacchati viśrutim 24 indro vṛtravadhenaiva mahendraḥ samapadyata māhendraṃ ca grahaṃ lebhe lokānāṃ ceśvaro 'bhavat 25 nāma viśrāvya vā saṃkhye śatrūr āhūya daṃśitān senāgraṃ vāpi vidrāvya hatvā vā puruṣaṃ varam 26 yadaiva labhate vīraḥ suyuddhena mahad yaśaḥ tadaiva pravyathante 'sya śatravo vinamanti ca 27 tyaktvātmānaṃ raṇe dakṣaṃ śūraṃ kāpuruṣā janāḥ avaśāḥ pūrayanti sma sarvakāmasamṛddhibhiḥ 28 rājyaṃ vāpy ugravibhraṃśaṃ saṃśayo jīvitasya vā pralabdhasya hi śatror vai śeṣaṃ kurvanti sādhavaḥ 29 svargadvāropamaṃ rājyam atha vāpy amṛtopamam ruddham ekāyane matvā patolmuka ivāriṣu 30 jahi śatrūn raṇe rājan svadharmam anupālaya mā tvā paśyet sukṛpaṇaṃ śatruḥ śrīmān kadā cana 31 asmadīyaiś ca śocadbhir nadadbhiś ca parair vṛtam api tvāṃ nānupaśyeyaṃ dīnā dīnam avasthitam 32 uṣya sauvīrakanyābhiḥ ślāghasvārthair yathā purā mā ca saindhava kanyānām avansan no vaśaṃ gamaḥ 33 yuvā rūpeṇa saṃpanno vidyayābhijanena ca yas tvādṛśo vikurvīta yaśasvī lokaviśrutaḥ voḍhavye dhury anaḍuvan manye maraṇam eva tat 34 yadi tvām anupaśyāmi parasya priyavādinam pṛṣṭhato 'nuvrajantaṃ vā kā kāntir hṛdayasya me 35 nāsmiñ jātu kule jāto gacched yo 'nyasya pṛṣṭhataḥ na tvaṃ parasyānudhuraṃ tāta jīvitum arhasi 36 ahaṃ hi kṣatrahṛdayaṃ veda yat pariśāśvatam pūrvaiḥ pūrvataraiḥ proktaṃ paraiḥ paratarair api 37 yo vai kaś cid ihājātaḥ kṣatriyaḥ kṣatradharmavit bhayād vṛtti samīkṣo vā na named iha kasya cit 38 udyacched eva na named udyamo hy eva pauruṣam apy aparvaṇi bhajyeta na named iha kasya cit 39 mātaṅgo matta iva ca parīyāt sumahāmanāḥ brāhmaṇebhyo namen nityaṃ dharmāyaiva ca saṃjaya 40 niyacchann itarān varṇān vinighnan sarvaduṣkṛtaḥ sasahāyo 'sahāyo vā yāvaj jīvaṃ tathā bhavet |
The Mahabharata in Sanskrit
Book 5
Chapter 133
|
1
[पुत्र] कृष्णायसस्येव च ते संहत्य हृदयं कृतम मम मातस तव अकरुणे वैरप्रज्ञे हय अमर्षणे 2 अहॊ कषत्रसमाचारॊ यत्र माम अपरं यथा ईदृशं वचनं बरूयाद भवती पुत्रम एकजम 3 किं नु ते माम अपश्यन्त्याः पृथिव्या अपि सर्वया किम आभरणकृत्यं ते किं भॊगैर जीवितेन वा 4 सर्वारम्भा हि विदुषां तात धर्मार्थकारणात तान एवाभिसमीक्ष्याहं संजय तवाम अचूचुदम 5 स समीक्ष्य करमॊपेतॊ मुख्यः कालॊ ऽयम आगतः अस्मिंश चेद आगते काले कार्यं न परतिपद्यसे असंभावित रूपस तवं सुनृशंसं करिष्यसि 6 तं तवाम अयशसा सपृष्टं न बरूयां यदि संजय खरी वात्सल्यम आहुस तन निः सामर्थ्यम अहेतुकम 7 सद्भिर विगर्हितं मार्गं तयज मूर्ख निषेवितम अविद्या वै महत्य अस्ति याम इमां संश्रिताः परजाः 8 तव सयाद यदि सद्वृत्तं तेन मे तवं परियॊ भवेः धर्मार्थगुणयुक्तेन नेतरेण कथं चन दैवमानुषयुक्तेन सद्भिर आचरितेन च 9 यॊ हय एवम अविनीतेन रमते पुत्र नप्तृणा अनुत्थानवता चापि मॊघं तस्य परजा फलम 10 अकुर्वन्तॊ हि कर्माणि कुर्वन्तॊ निन्दितानि च सुखं नैवेह नामुत्र लभन्ते पुरुषाधमाः 11 युद्धाय कषत्रियः सृष्टः संजयेह जयाय च करूराय कर्मणे नित्यं परजानां परिपालने जयन वा वध्यमानॊ वा पराप्नॊतीन्द्र सलॊकताम 12 न शक्र भवने पुण्ये दिवि तद्विद्यते सुखम यद अमित्रान वशे कृत्वा कषत्रियः सुखम अश्नुते 13 मन्युना दह्यमानेन पुरुषेण मनस्विना निकृतेनेह बहुशः शत्रून परतिजिगीषया 14 आत्मानं वा परित्यज्य शत्रून वा विनिपात्य वै अतॊ ऽनयेन परकारेण शान्तिर अस्य कुतॊ भवेत 15 इह पराज्ञ्डॊ हि पुरुषः सवल्पम अप्रियम इच्छति यस्य सवल्पं परियं लॊके धरुवं तस्याल्पम अप्रियम 16 परियाभावाच च पुरुषॊ नैव पराप्नॊति शॊभनम धरुवं चाभावम अभ्येति गत्वा गङ्गेव सागरम 17 [पुत्र] नेयं मतिस तवया वाच्या मातः पुत्रे विशेषतः कारुण्यम एवात्र पश्य भूत्वेह जड मूकवत 18 अतॊ मे भूयसी नन्दिर यद एवम अनुपश्यसि चॊद्यं मां चॊदयस्य एतद भृशं वै चॊदयामि ते 19 अथ तवां पूजयिष्यामि हत्वा वै सर्वसैन्धवान अहं पश्यामि विजयं कृत्स्नं भाविनम एव ते 20 अकॊशस्यासहायस्य कुतः सविद विजयॊ मम इत्य अवस्थां विदित्वेमाम आत्मनात्मनि दारुणाम राज्याद भावॊ निवृत्तॊ मे तरिदिवाद इव दुष्कृतेः 21 ईदृशं भवती कं चिद उपायम अनुपश्यति तन मे परिणत परज्ञे सम्यक परब्रूहि पृच्छते करिष्यामि हि तत सर्वं यथावद अनुशासनम 22 पुत्रात्मा नावमन्तव्यः पूर्वाभिर असमृद्धिभिः अभूत्वा हि भवन्त्य अर्था भूत्वा नश्यन्ति चापरे 23 अमर्षेणैव चाप्य अर्था नारब्धव्याः सुबालिशैः सर्वेषां कर्मणां तात फले नित्यम अनित्यता 24 अनित्यम इति जानन्तॊ न भवन्ति भवन्ति च अथ ये नैव कुर्वन्ति नैव जातु भवन्ति ते 25 ऐकगुण्यम अनीहायाम अभावः कर्मणां फलम अथ दवैगुण्यम ईहायां फलं भवति वा न वा 26 यस्य पराग एव विदिता सर्वार्थानाम अनित्यता नुदेद वृद्धिसमृद्धी स परतिकूले नृपात्मज 27 उत्थातव्यं जागृतव्यं यॊक्तव्यं भूतिकर्मसु भविष्यतीत्य एव मनः कृत्वा सततम अव्यथैः मङ्गलानि पुरस्कृत्य बराह्मणैश चेश्वरैः सह 28 पराज्ञस्य नृपतेर आशु वृद्धिर भवति पुत्रक अभिवर्तति लक्ष्मीस तं पराचीम इव दिवाकरः 29 निदर्शनान्य उपायांश च बहून्य उद्धर्षणानि च अनुदर्शित रूपॊ ऽसि पश्यामि कुरु पौरुषम पुरुषार्थम अभिप्रेतं समाहर्तुम इहार्हसि 30 करुद्धाँल लुब्धान परिक्षीणान अवक्षिप्तान विमानितान सपर्धिनश चैव ये के चित तान युक्त उपधारय 31 एतेन तवं परकारेण महतॊ भेत्स्यसे गणान महावेग इवॊद्धूतॊ मातरिश्वा बलाहकान 32 तेषाम अग्रप्रदायी सयाः कल्यॊत्थायी परियंवदः ते तवां परियं करिष्यन्ति पुरॊ धास्यन्ति च धरुवम 33 यदैव शत्रुर जानीयात सपत्नं तयक्तजीवितम तदैवास्माद उद्विजते सर्पाद वेश्म गताद इव 34 तं विदित्वा पराक्रान्तं वशे न कुरुते यदि निर्वादैर निर्वदेद एनम अन्ततस तद भविष्यति 35 निर्वादाद आस्पदं लब्ध्वा धनवृद्धिर भविष्यति धनवन्तं हि मित्राणि भजन्ते चाश्रयन्ति च 36 सफलितार्थं पुनस तात संत्यजन्त्य अपि बान्धवाः अप्य अस्मिन्न आश्रयन्ते च जुगुप्सन्ति च तादृशम 37 शत्रुं कृत्वा यः सहायं विश्वासम उपगच्छति अतः संभाव्यम एवैतद यद राज्यं पराप्नुयाद इति |
1
[putra] kṛṣṇāyasasyeva ca te saṃhatya hṛdayaṃ kṛtam mama mātas tv akaruṇe vairaprajñe hy amarṣaṇe 2 aho kṣatrasamācāro yatra mām aparaṃ yathā īdṛśaṃ vacanaṃ brūyād bhavatī putram ekajam 3 kiṃ nu te mām apaśyantyāḥ pṛthivyā api sarvayā kim ābharaṇakṛtyaṃ te kiṃ bhogair jīvitena vā 4 sarvārambhā hi viduṣāṃ tāta dharmārthakāraṇāt tān evābhisamīkṣyāhaṃ saṃjaya tvām acūcudam 5 sa samīkṣya kramopeto mukhyaḥ kālo 'yam āgataḥ asmiṃś ced āgate kāle kāryaṃ na pratipadyase asaṃbhāvita rūpas tvaṃ sunṛśaṃsaṃ kariṣyasi 6 taṃ tvām ayaśasā spṛṣṭaṃ na brūyāṃ yadi saṃjaya kharī vātsalyam āhus tan niḥ sāmarthyam ahetukam 7 sadbhir vigarhitaṃ mārgaṃ tyaja mūrkha niṣevitam avidyā vai mahaty asti yām imāṃ saṃśritāḥ prajāḥ 8 tava syād yadi sadvṛttaṃ tena me tvaṃ priyo bhaveḥ dharmārthaguṇayuktena netareṇa kathaṃ cana daivamānuṣayuktena sadbhir ācaritena ca 9 yo hy evam avinītena ramate putra naptṛṇā anutthānavatā cāpi moghaṃ tasya prajā phalam 10 akurvanto hi karmāṇi kurvanto ninditāni ca sukhaṃ naiveha nāmutra labhante puruṣādhamāḥ 11 yuddhāya kṣatriyaḥ sṛṣṭaḥ saṃjayeha jayāya ca krūrāya karmaṇe nityaṃ prajānāṃ paripālane jayan vā vadhyamāno vā prāpnotīndra salokatām 12 na śakra bhavane puṇye divi tadvidyate sukham yad amitrān vaśe kṛtvā kṣatriyaḥ sukham aśnute 13 manyunā dahyamānena puruṣeṇa manasvinā nikṛteneha bahuśaḥ śatrūn pratijigīṣayā 14 ātmānaṃ vā parityajya śatrūn vā vinipātya vai ato 'nyena prakāreṇa śāntir asya kuto bhavet 15 iha prājñḍo hi puruṣaḥ svalpam apriyam icchati yasya svalpaṃ priyaṃ loke dhruvaṃ tasyālpam apriyam 16 priyābhāvāc ca puruṣo naiva prāpnoti śobhanam dhruvaṃ cābhāvam abhyeti gatvā gaṅgeva sāgaram 17 [putra] neyaṃ matis tvayā vācyā mātaḥ putre viśeṣataḥ kāruṇyam evātra paśya bhūtveha jaḍa mūkavat 18 ato me bhūyasī nandir yad evam anupaśyasi codyaṃ māṃ codayasy etad bhṛśaṃ vai codayāmi te 19 atha tvāṃ pūjayiṣyāmi hatvā vai sarvasaindhavān ahaṃ paśyāmi vijayaṃ kṛtsnaṃ bhāvinam eva te 20 akośasyāsahāyasya kutaḥ svid vijayo mama ity avasthāṃ viditvemām ātmanātmani dāruṇām rājyād bhāvo nivṛtto me tridivād iva duṣkṛteḥ 21 īdṛśaṃ bhavatī kaṃ cid upāyam anupaśyati tan me pariṇata prajñe samyak prabrūhi pṛcchate kariṣyāmi hi tat sarvaṃ yathāvad anuśāsanam 22 putrātmā nāvamantavyaḥ pūrvābhir asamṛddhibhiḥ abhūtvā hi bhavanty arthā bhūtvā naśyanti cāpare 23 amarṣeṇaiva cāpy arthā nārabdhavyāḥ subāliśaiḥ sarveṣāṃ karmaṇāṃ tāta phale nityam anityatā 24 anityam iti jānanto na bhavanti bhavanti ca atha ye naiva kurvanti naiva jātu bhavanti te 25 aikaguṇyam anīhāyām abhāvaḥ karmaṇāṃ phalam atha dvaiguṇyam īhāyāṃ phalaṃ bhavati vā na vā 26 yasya prāg eva viditā sarvārthānām anityatā nuded vṛddhisamṛddhī sa pratikūle nṛpātmaja 27 utthātavyaṃ jāgṛtavyaṃ yoktavyaṃ bhūtikarmasu bhaviṣyatīty eva manaḥ kṛtvā satatam avyathaiḥ maṅgalāni puraskṛtya brāhmaṇaiś ceśvaraiḥ saha 28 prājñasya nṛpater āśu vṛddhir bhavati putraka abhivartati lakṣmīs taṃ prācīm iva divākaraḥ 29 nidarśanāny upāyāṃś ca bahūny uddharṣaṇāni ca anudarśita rūpo 'si paśyāmi kuru pauruṣam puruṣārtham abhipretaṃ samāhartum ihārhasi 30 kruddhāṁl lubdhān parikṣīṇān avakṣiptān vimānitān spardhinaś caiva ye ke cit tān yukta upadhāraya 31 etena tvaṃ prakāreṇa mahato bhetsyase gaṇān mahāvega ivoddhūto mātariśvā balāhakān 32 teṣām agrapradāyī syāḥ kalyotthāyī priyaṃvadaḥ te tvāṃ priyaṃ kariṣyanti puro dhāsyanti ca dhruvam 33 yadaiva śatrur jānīyāt sapatnaṃ tyaktajīvitam tadaivāsmād udvijate sarpād veśma gatād iva 34 taṃ viditvā parākrāntaṃ vaśe na kurute yadi nirvādair nirvaded enam antatas tad bhaviṣyati 35 nirvādād āspadaṃ labdhvā dhanavṛddhir bhaviṣyati dhanavantaṃ hi mitrāṇi bhajante cāśrayanti ca 36 sphalitārthaṃ punas tāta saṃtyajanty api bāndhavāḥ apy asminn āśrayante ca jugupsanti ca tādṛśam 37 śatruṃ kṛtvā yaḥ sahāyaṃ viśvāsam upagacchati ataḥ saṃbhāvyam evaitad yad rājyaṃ prāpnuyād iti |
The Mahabharata in Sanskrit
Book 5
Chapter 134
|
1
[म] नैव राज्ञा दरः कार्यॊ जातु कस्यां चिद आपदि अथ चेद अपि दीर्णः सयान नैव वर्तेत दीर्णवत 2 दीर्णं हि दृष्ट्वा राजानं सर्वम एवानुदीर्यते राष्ट्रं बलम अमात्याश च पृथक कुर्वन्ति ते मतिम 3 शत्रून एके परपद्यन्ते परजहत्य अपरे पुनः अन्व एके परजिहीर्षन्ति ये पुरस्ताद विमानिताः 4 य एवात्यन्त सुहृदस त एनं पर्युपासते अशक्तयः सवस्ति कामा बद्धवत्सा इडा इव शॊचन्तम अनुशॊचन्ति परतीतान इव बान्धवान 5 अपि ते पूजिताः पूर्वम अपि ते सुहृदॊ मताः ये राष्ट्रम अभिमन्यन्ते राज्ञॊ वयसनम ईयुषः मा दीदरस तवं सुहृदॊ मा तवां दीर्णं परहासिषुः 6 परभावं पौरुषं बुद्धिं जिज्ञासन्त्या मया तव उल्लपन्त्या समाश्वासं बलवान इव दुर्बलम 7 यद्य एतत संविजानासि यदि सम्यग बरवीम्य अहम कृत्वासौम्यम इवात्मानं जयायॊत्तिष्ठ संजय 8 अस्ति नः कॊशनिचयॊ महान अविदितस तव तम अहं वेद नान्यस तम उपसंपादयामि ते 9 सन्ति नैकशता भूयः सुहृदस तव संजय सुखदुःखसहा वीर शतार्हा अनिवर्तिनः 10 तादृशा हि सहाया वै पुरुषस्य बुभूषतः ईषद उज्जिहतः किं चित सचिवाः शत्रुकर्शनाः 11 कस्य तव ईदृशकं वाक्यं शरुत्वापि सवल्प चेतसः तमॊ न वयपहन्येत सुचित्रार्थ पदाक्षरम 12 उदके धूर इयं धार्या सर्तव्यं परवणे मया यस्य मे भवती नेत्री भविष्यद भूतदर्शिनी 13 अहं हि वचनं तवत्तः शुश्रूषुर अपरापरम किं चित किं चित परतिवदंस तूष्णीम आसं मुहुर मुहुः 14 अतृप्यन्न अमृतस्येव कृच्छ्राल लब्धस्य बान्धवात उद्यच्छाम्य एष शत्रूणां नियमाय जयाय च 15 सदश्व इव स कषिप्तः परणुन्नॊ वाक्यसायकैः तच चकार तथा सर्वं यथावद अनुशासनम 16 इदम उद्धर्षणं भीमं तेजॊवर्धनम उत्तमम राजानं शरावयेन मन्त्री सीदन्तं शत्रुपीडितम 17 जयॊ नामेतिहासॊ ऽयं शरॊतव्यॊ विजिगीषुणा महीं विजयते कषिप्रं शरुत्वा शत्रूंश च मर्दति 18 इदं पुंसवनं चैव वीराजननम एव च अभीक्ष्णं गर्भिणी शरुत्वा धरुवं वीरं परजायते 19 विद्या शूरं तपः शूरं दमशूरं तपस्विनम बराह्म्या शरिया दीप्यमानं साधुवादेन संमतम 20 अर्चिष्मन्तं बलॊपेतं महाभागं महारथम धृष्टवन्तम अनाधृष्यं जेतारम अपराजितम 21 नियन्तारम असाधूनां गॊप्तारं हर्म चारिणाम तदर्थं कषत्रिया सूते वीरं सत्यपराक्रमम |
1
[m] naiva rājñā daraḥ kāryo jātu kasyāṃ cid āpadi atha ced api dīrṇaḥ syān naiva varteta dīrṇavat 2 dīrṇaṃ hi dṛṣṭvā rājānaṃ sarvam evānudīryate rāṣṭraṃ balam amātyāś ca pṛthak kurvanti te matim 3 śatrūn eke prapadyante prajahaty apare punaḥ anv eke prajihīrṣanti ye purastād vimānitāḥ 4 ya evātyanta suhṛdas ta enaṃ paryupāsate aśaktayaḥ svasti kāmā baddhavatsā iḍā iva śocantam anuśocanti pratītān iva bāndhavān 5 api te pūjitāḥ pūrvam api te suhṛdo matāḥ ye rāṣṭram abhimanyante rājño vyasanam īyuṣaḥ mā dīdaras tvaṃ suhṛdo mā tvāṃ dīrṇaṃ prahāsiṣuḥ 6 prabhāvaṃ pauruṣaṃ buddhiṃ jijñāsantyā mayā tava ullapantyā samāśvāsaṃ balavān iva durbalam 7 yady etat saṃvijānāsi yadi samyag bravīmy aham kṛtvāsaumyam ivātmānaṃ jayāyottiṣṭha saṃjaya 8 asti naḥ kośanicayo mahān aviditas tava tam ahaṃ veda nānyas tam upasaṃpādayāmi te 9 santi naikaśatā bhūyaḥ suhṛdas tava saṃjaya sukhaduḥkhasahā vīra śatārhā anivartinaḥ 10 tādṛśā hi sahāyā vai puruṣasya bubhūṣataḥ īṣad ujjihataḥ kiṃ cit sacivāḥ śatrukarśanāḥ 11 kasya tv īdṛśakaṃ vākyaṃ śrutvāpi svalpa cetasaḥ tamo na vyapahanyeta sucitrārtha padākṣaram 12 udake dhūr iyaṃ dhāryā sartavyaṃ pravaṇe mayā yasya me bhavatī netrī bhaviṣyad bhūtadarśinī 13 ahaṃ hi vacanaṃ tvattaḥ śuśrūṣur aparāparam kiṃ cit kiṃ cit prativadaṃs tūṣṇīm āsaṃ muhur muhuḥ 14 atṛpyann amṛtasyeva kṛcchrāl labdhasya bāndhavāt udyacchāmy eṣa śatrūṇāṃ niyamāya jayāya ca 15 sadaśva iva sa kṣiptaḥ praṇunno vākyasāyakaiḥ tac cakāra tathā sarvaṃ yathāvad anuśāsanam 16 idam uddharṣaṇaṃ bhīmaṃ tejovardhanam uttamam rājānaṃ śrāvayen mantrī sīdantaṃ śatrupīḍitam 17 jayo nāmetihāso 'yaṃ śrotavyo vijigīṣuṇā mahīṃ vijayate kṣipraṃ śrutvā śatrūṃś ca mardati 18 idaṃ puṃsavanaṃ caiva vīrājananam eva ca abhīkṣṇaṃ garbhiṇī śrutvā dhruvaṃ vīraṃ prajāyate 19 vidyā śūraṃ tapaḥ śūraṃ damaśūraṃ tapasvinam brāhmyā śriyā dīpyamānaṃ sādhuvādena saṃmatam 20 arciṣmantaṃ balopetaṃ mahābhāgaṃ mahāratham dhṛṣṭavantam anādhṛṣyaṃ jetāram aparājitam 21 niyantāram asādhūnāṃ goptāraṃ harma cāriṇām tadarthaṃ kṣatriyā sūte vīraṃ satyaparākramam |
The Mahabharata in Sanskrit
Book 5
Chapter 135
|
1
[क] अर्जुनं केशव बरूयास तवयि जाते सम सूतके उपॊपविष्टा नारीभिर आश्रमे परिवारिता 2 अथान्तरिक्षे वाग आसीद दिव्यरूपा मनॊरमा सहस्राक्षसमः कुन्ति भविष्यत्य एष ते सुतः 3 एष जेष्यति संग्रामे कुरून सर्वान समागतान भीमसेनद्वितीयश च लॊकम उद्वर्तयिष्यति 4 पुत्रस ते पृथिवीं जेता यशश चास्य दिवस्पृशम हत्वा कुरून गरामजन्ये वासुदेवसहायवान 5 पित्र्यम अंशं परनष्टं च पुनर अप्य उद्धरिष्यति भरातृभिः सहितः शरीमांस तरीन मेधान आहरिष्यति 6 तं सत्यसंधं बीभत्सुं सव्यसाचिनम अच्युत यथाहम एवं जानामि बलवन्तं दुरासदम तथा तद अस्तु दाशार्ह यथा वाग अभ्यभाषत 7 धर्मश चेद अस्ति वार्ष्णेय तथा सत्यं भविष्यति तवं चापि तत तथा कृष्ण सर्वं संपादयिष्यसि 8 नाहं तद अभ्यसूयामि यथा वाग अभ्यभाषत नमॊ धर्माय महते धर्मॊ धारयति परजाः 9 एतद धनंजयॊ वाच्यॊ नित्यॊद्युक्तॊ वृकॊदरः यदर्थं कषत्रिया सूते तस्य कालॊ ऽयम आगतः न हि वैरं समासाद्य सीदन्ति पुरुषर्षभाः 10 विदिता ते सदा बुद्धिर भीमस्य न स शाम्यति यावदन्तं न कुरुते शत्रूणां शत्रुकर्शणः 11 सर्वधर्मविशेषज्ञां सनुषां पाण्डॊर महात्मनः बरूया माधव कल्याणीं कृष्णां कृष्ण यशस्विनीम 12 युक्तम एतन महाभागे कुले जाते यशस्विनि यन मे पुत्रेषु सर्वेषु यथावत तवम अवर्तिथाः 13 माद्रीपुत्रौ च वक्तव्यौ कषत्रधर्मरताव उभौ विक्रमेणार्जितान भॊगान वृणीतं जीविताद अपि 14 विक्रमाधिगता हय अर्थाः कषत्रधर्मेण जीवतः मनॊ मनुष्यस्य सदा परीणन्ति पुरुषॊत्तम 15 यच च वः परेक्षमाणानां सर्वधर्मॊपचायिनी पाञ्चाली परुषाण्य उक्ता कॊ नुतत कषन्तुम अर्हति 16 न राज्यहरणं दुःखं दयूते चापि पराजयः परव्राजनं सुतानां वा न मे तद्दुःखकारणम 17 यत तु सा बृहती शयामा सभायां रुदती तदा अश्रौषीत परुषा वाचस तन मे दुःखतरं मतम 18 सत्री धर्मिणी वरारॊहा कषत्रधर्मरता सदा नाध्यगच्छत तदा नाथं कृष्णा नाथवती सती 19 तं वै बरूहि महाबाहॊ सर्वशस्त्रभृतां वरम अर्जुनं पुरुषव्याघ्रं दरौपद्याः पदवीं चर 20 विदितौ हि तवात्यन्तं करुद्धाव इव यमान्तकौ भीमार्जुनौ नयेतां हि देवान अपि परां गतिम 21 तयॊश चैतद अवज्ञानं यत सा कृष्णा सभा गता दुःशासनश च यद भीमं कटुकान्य अभ्यभाषत पश्यतां कुरुवीराणां तच च संस्मारयेः पुनः 22 पाण्डवान कुशलं पृच्छेः सपुत्रान कृष्णया सह मां च कुशलिनीं बरूयास तेषु भूयॊ जनार्दन अरिष्टं गच्छ पन्थानं पुत्रान मे परिपालय 23 अभिवाद्याथ तां कृष्णः कृत्वा चाभिप्रदक्षिणम निश्चक्राम महाबाहुः सिंहखेल गतिस ततः 24 ततॊ विसर्जयाम आस भीष्मादीन कुरुपुंगवान आरॊप्य च रथे कर्णं परायात सात्यकिना सह 25 ततः परयाते दाशार्हे कुरवः संगता मिथः जजल्पुर महद आश्चर्यं केशवे परमाद्भुतम 26 परमूढा पृथिवी सर्वा मृत्युपाशसिता कृता दुर्यॊधनस्य बालिश्यान नैतद अस्तीति चाब्रुवन 27 ततॊ निर्याय नगरात परययौ पुरुषॊत्तमः मन्त्रयाम आस च तदा कर्णेन सुचिरं सह 28 विसर्जयित्वा राधेयं सर्वयादवनन्दनः ततॊ जवेन महता तूर्णम अश्वान अचॊदयत 29 ते पिबन्त इवाकाशं दारुकेण परचॊदिताः हया जग्मुर महावेगा मनॊमारुतरंहसः 30 ते वयतीत्य तम अध्वानं कषिप्रं शयेना इवाशुगाः उच्चैः सूर्यम उपप्लव्यं शार्ङ्गधन्वानम आवहन |
1
[k] arjunaṃ keśava brūyās tvayi jāte sma sūtake upopaviṣṭā nārībhir āśrame parivāritā 2 athāntarikṣe vāg āsīd divyarūpā manoramā sahasrākṣasamaḥ kunti bhaviṣyaty eṣa te sutaḥ 3 eṣa jeṣyati saṃgrāme kurūn sarvān samāgatān bhīmasenadvitīyaś ca lokam udvartayiṣyati 4 putras te pṛthivīṃ jetā yaśaś cāsya divaspṛśam hatvā kurūn grāmajanye vāsudevasahāyavān 5 pitryam aṃśaṃ pranaṣṭaṃ ca punar apy uddhariṣyati bhrātṛbhiḥ sahitaḥ śrīmāṃs trīn medhān āhariṣyati 6 taṃ satyasaṃdhaṃ bībhatsuṃ savyasācinam acyuta yathāham evaṃ jānāmi balavantaṃ durāsadam tathā tad astu dāśārha yathā vāg abhyabhāṣata 7 dharmaś ced asti vārṣṇeya tathā satyaṃ bhaviṣyati tvaṃ cāpi tat tathā kṛṣṇa sarvaṃ saṃpādayiṣyasi 8 nāhaṃ tad abhyasūyāmi yathā vāg abhyabhāṣata namo dharmāya mahate dharmo dhārayati prajāḥ 9 etad dhanaṃjayo vācyo nityodyukto vṛkodaraḥ yadarthaṃ kṣatriyā sūte tasya kālo 'yam āgataḥ na hi vairaṃ samāsādya sīdanti puruṣarṣabhāḥ 10 viditā te sadā buddhir bhīmasya na sa śāmyati yāvadantaṃ na kurute śatrūṇāṃ śatrukarśaṇaḥ 11 sarvadharmaviśeṣajñāṃ snuṣāṃ pāṇḍor mahātmanaḥ brūyā mādhava kalyāṇīṃ kṛṣṇāṃ kṛṣṇa yaśasvinīm 12 yuktam etan mahābhāge kule jāte yaśasvini yan me putreṣu sarveṣu yathāvat tvam avartithāḥ 13 mādrīputrau ca vaktavyau kṣatradharmaratāv ubhau vikrameṇārjitān bhogān vṛṇītaṃ jīvitād api 14 vikramādhigatā hy arthāḥ kṣatradharmeṇa jīvataḥ mano manuṣyasya sadā prīṇanti puruṣottama 15 yac ca vaḥ prekṣamāṇānāṃ sarvadharmopacāyinī pāñcālī paruṣāṇy uktā ko nutat kṣantum arhati 16 na rājyaharaṇaṃ duḥkhaṃ dyūte cāpi parājayaḥ pravrājanaṃ sutānāṃ vā na me tadduḥkhakāraṇam 17 yat tu sā bṛhatī śyāmā sabhāyāṃ rudatī tadā aśrauṣīt paruṣā vācas tan me duḥkhataraṃ matam 18 strī dharmiṇī varārohā kṣatradharmaratā sadā nādhyagacchat tadā nāthaṃ kṛṣṇā nāthavatī satī 19 taṃ vai brūhi mahābāho sarvaśastrabhṛtāṃ varam arjunaṃ puruṣavyāghraṃ draupadyāḥ padavīṃ cara 20 viditau hi tavātyantaṃ kruddhāv iva yamāntakau bhīmārjunau nayetāṃ hi devān api parāṃ gatim 21 tayoś caitad avajñānaṃ yat sā kṛṣṇā sabhā gatā duḥśāsanaś ca yad bhīmaṃ kaṭukāny abhyabhāṣata paśyatāṃ kuruvīrāṇāṃ tac ca saṃsmārayeḥ punaḥ 22 pāṇḍavān kuśalaṃ pṛccheḥ saputrān kṛṣṇayā saha māṃ ca kuśalinīṃ brūyās teṣu bhūyo janārdana ariṣṭaṃ gaccha panthānaṃ putrān me paripālaya 23 abhivādyātha tāṃ kṛṣṇaḥ kṛtvā cābhipradakṣiṇam niścakrāma mahābāhuḥ siṃhakhela gatis tataḥ 24 tato visarjayām āsa bhīṣmādīn kurupuṃgavān āropya ca rathe karṇaṃ prāyāt sātyakinā saha 25 tataḥ prayāte dāśārhe kuravaḥ saṃgatā mithaḥ jajalpur mahad āścaryaṃ keśave paramādbhutam 26 pramūḍhā pṛthivī sarvā mṛtyupāśasitā kṛtā duryodhanasya bāliśyān naitad astīti cābruvan 27 tato niryāya nagarāt prayayau puruṣottamaḥ mantrayām āsa ca tadā karṇena suciraṃ saha 28 visarjayitvā rādheyaṃ sarvayādavanandanaḥ tato javena mahatā tūrṇam aśvān acodayat 29 te pibanta ivākāśaṃ dārukeṇa pracoditāḥ hayā jagmur mahāvegā manomārutaraṃhasaḥ 30 te vyatītya tam adhvānaṃ kṣipraṃ śyenā ivāśugāḥ uccaiḥ sūryam upaplavyaṃ śārṅgadhanvānam āvahan |
The Mahabharata in Sanskrit
Book 5
Chapter 136
|
1
[व] कुन्त्यास तु वचनं शरुत्वा भीष्मद्रॊणौ महारथौ दुर्यॊधनम इदं वाक्यम ऊचतुः शासनातिगम 2 शरुतं ते पुरुषव्याघ्र कुन्त्याः कृष्णस्य संनिधौ वाक्यम अर्थवद अव्यग्रम उक्तं धर्म्यम अनुत्तमम 3 तत करिष्यन्ति कौन्तेया वासुदेवस्य संमतम न हि ते जातु शाम्येरन्न ऋते राज्येन कौरव 4 कलेशिता हि तवया पार्था धर्मपाशसितास तदा सभायां दरौपदी चैव तैश च तन मर्षितं तव 5 कृतास्त्रं हय अर्जुनं पराप्य भीमं च कृतनिश्रमम गाण्डीवं चेषुधी चैव रथं च धवजम एव च सहायं वासुदेवं च न कषंस्यति युधिष्ठिरः 6 परत्यक्षं ते महाबाहॊ यथा पार्थेन धीमता विराटनगरे पूर्वं सर्वे सम युधि निर्जिताः 7 दानवान घॊरकर्माणॊ निवातकवचान युधि रौद्रम अस्त्रं समाधाय दग्धवान अस्त्रवह्निना 8 कर्णप्रभृतयश चेमे तवं चापि कवची रथी मॊक्षिता घॊषयात्रायां पर्याप्तं तन्निदर्शनम 9 परशाम्य भरतश्रेष्ठ भरातृभिः सह पाण्डवैः रक्षेमां पृथिवीं सर्वां मृत्यॊर दंष्ट्रान्तरं गताम 10 जयेष्ठॊ भराता धर्मशीलॊ वत्सलः शलक्ष्णवाक शुचिः तं गच्छ पुरुषव्याघ्रं वयपनीयेह किल्बिषम 11 दृष्टश चेत तवं पाण्डवेन वयपनीतशरासनः परसन्नभ्रुकुटिः शरीमान कृता शान्तिः कुलस्य नः 12 तम अभ्येत्य सहामात्यः परिष्वज्य नृपात्मजम अभिवादय राजानं यथापूर्वम अरिंदम 13 अभिवादयमानं तवां पाणिभ्यां भीम पूर्वजः परतिगृह्णातु सौहार्दात कुन्तीपुत्रॊ युधिष्ठिरः 14 सिंहस्कन्धॊरु बाहुस तवां वृत्तायतमहाभुजः परिष्वजतु बाहुभ्यां भीमः परहरतां वरः 15 सिंहग्रीवॊ गुडाकेशस ततस तवां पुष्करेक्षणः अभिवादयतां पार्थः कुन्तीपुत्रॊ धनंजयः 16 आश्विनेयौ नरव्याघ्रौ रूपेणाप्रतिमौ भुवि तौ च तवां गुरुवत परेम्णा पूजया परत्युदीयताम 17 मुञ्चन्त्व आनन्दजाश्रूणि दाशार्ह परमुखा नृपाः संगच्छ भरातृभिः सार्धं मानं संत्यज्य पार्थिव 18 परशाधि पृथिवीं कृत्स्नां ततस तं भरातृभिः सह समालिङ्ग्य च हर्षेण नृपा यान्तु परस्परम 19 अलं युद्धेन राजेन्द्र सुहृदां शृणु कारणम धरुवं विनाशॊ युद्धे हि कषत्रियाणां परदृश्यते 20 जयॊतींषि परतिकूलानि दारुणा मृगपक्षिणः उत्पाता विविधा वीर दृश्यन्ते कषत्रनाशनाः 21 विशेषत इहास्माकं निमित्तानि विनाशने उल्काभिर हि परदीप्ताभिर वध्यते पृतना तव 22 वाहनान्य अप्रहृष्टानि रुदन्तीव विशां पते गृध्रास ते पर्युपासन्ते सैन्यानि च समन्ततः 23 नगरं न यथापूर्वं तथा राजनिवेशनम शिवाश चाशिव निर्घॊषा दीप्तां सेवन्ति वै दिशम 24 कुरु वाक्यं पितुर मातुर अस्माकं च हितैषिणाम तवय्य आयत्तॊ महाबाहॊ शमॊ वयायाम एव च 25 न चेत करिष्यसि वचः सुहृदाम अरिकर्शन तप्स्यसे वाहिनीं दृष्ट्वा पार्थ बाणप्रपीडिताम 26 भीमस्य च महानादं नदतः शुष्मिणॊ रणे शरुत्वा समर्तासि मे वाक्यं गाण्डीवस्य च निस्वनम यद्य एतद अपसव्यं ते भविष्यति वचॊ मम |
1
[v] kuntyās tu vacanaṃ śrutvā bhīṣmadroṇau mahārathau duryodhanam idaṃ vākyam ūcatuḥ śāsanātigam 2 śrutaṃ te puruṣavyāghra kuntyāḥ kṛṣṇasya saṃnidhau vākyam arthavad avyagram uktaṃ dharmyam anuttamam 3 tat kariṣyanti kaunteyā vāsudevasya saṃmatam na hi te jātu śāmyerann ṛte rājyena kaurava 4 kleśitā hi tvayā pārthā dharmapāśasitās tadā sabhāyāṃ draupadī caiva taiś ca tan marṣitaṃ tava 5 kṛtāstraṃ hy arjunaṃ prāpya bhīmaṃ ca kṛtaniśramam gāṇḍīvaṃ ceṣudhī caiva rathaṃ ca dhvajam eva ca sahāyaṃ vāsudevaṃ ca na kṣaṃsyati yudhiṣṭhiraḥ 6 pratyakṣaṃ te mahābāho yathā pārthena dhīmatā virāṭanagare pūrvaṃ sarve sma yudhi nirjitāḥ 7 dānavān ghorakarmāṇo nivātakavacān yudhi raudram astraṃ samādhāya dagdhavān astravahninā 8 karṇaprabhṛtayaś ceme tvaṃ cāpi kavacī rathī mokṣitā ghoṣayātrāyāṃ paryāptaṃ tannidarśanam 9 praśāmya bharataśreṣṭha bhrātṛbhiḥ saha pāṇḍavaiḥ rakṣemāṃ pṛthivīṃ sarvāṃ mṛtyor daṃṣṭrāntaraṃ gatām 10 jyeṣṭho bhrātā dharmaśīlo vatsalaḥ ślakṣṇavāk śuciḥ taṃ gaccha puruṣavyāghraṃ vyapanīyeha kilbiṣam 11 dṛṣṭaś cet tvaṃ pāṇḍavena vyapanītaśarāsanaḥ prasannabhrukuṭiḥ śrīmān kṛtā śāntiḥ kulasya naḥ 12 tam abhyetya sahāmātyaḥ pariṣvajya nṛpātmajam abhivādaya rājānaṃ yathāpūrvam ariṃdama 13 abhivādayamānaṃ tvāṃ pāṇibhyāṃ bhīma pūrvajaḥ pratigṛhṇātu sauhārdāt kuntīputro yudhiṣṭhiraḥ 14 siṃhaskandhoru bāhus tvāṃ vṛttāyatamahābhujaḥ pariṣvajatu bāhubhyāṃ bhīmaḥ praharatāṃ varaḥ 15 siṃhagrīvo guḍākeśas tatas tvāṃ puṣkarekṣaṇaḥ abhivādayatāṃ pārthaḥ kuntīputro dhanaṃjayaḥ 16 āśvineyau naravyāghrau rūpeṇāpratimau bhuvi tau ca tvāṃ guruvat premṇā pūjayā pratyudīyatām 17 muñcantv ānandajāśrūṇi dāśārha pramukhā nṛpāḥ saṃgaccha bhrātṛbhiḥ sārdhaṃ mānaṃ saṃtyajya pārthiva 18 praśādhi pṛthivīṃ kṛtsnāṃ tatas taṃ bhrātṛbhiḥ saha samāliṅgya ca harṣeṇa nṛpā yāntu parasparam 19 alaṃ yuddhena rājendra suhṛdāṃ śṛṇu kāraṇam dhruvaṃ vināśo yuddhe hi kṣatriyāṇāṃ pradṛśyate 20 jyotīṃṣi pratikūlāni dāruṇā mṛgapakṣiṇaḥ utpātā vividhā vīra dṛśyante kṣatranāśanāḥ 21 viśeṣata ihāsmākaṃ nimittāni vināśane ulkābhir hi pradīptābhir vadhyate pṛtanā tava 22 vāhanāny aprahṛṣṭāni rudantīva viśāṃ pate gṛdhrās te paryupāsante sainyāni ca samantataḥ 23 nagaraṃ na yathāpūrvaṃ tathā rājaniveśanam śivāś cāśiva nirghoṣā dīptāṃ sevanti vai diśam 24 kuru vākyaṃ pitur mātur asmākaṃ ca hitaiṣiṇām tvayy āyatto mahābāho śamo vyāyāma eva ca 25 na cet kariṣyasi vacaḥ suhṛdām arikarśana tapsyase vāhinīṃ dṛṣṭvā pārtha bāṇaprapīḍitām 26 bhīmasya ca mahānādaṃ nadataḥ śuṣmiṇo raṇe śrutvā smartāsi me vākyaṃ gāṇḍīvasya ca nisvanam yady etad apasavyaṃ te bhaviṣyati vaco mama |
The Mahabharata in Sanskrit
Book 5
Chapter 137
|
1
[व] एवम उक्तस तु विमनास तिर्यग्दृष्टिर अधॊमुखः संहत्य च भरुवॊर मध्यं न किं चिद वयाजहार ह 2 तं वै विमनसं दृष्ट्वा संप्रेक्ष्यान्यॊन्यम अन्तिकात पुनर एवॊत्तरं वाक्यम उक्तवन्तौ नरर्षभौ 3 शुश्रूषुम अनसूयं च बरह्मण्यं सत्यसंगरम परतियॊत्स्यामहे पार्थम अतॊ दुःखतरं नु किम 4 अश्वत्थाम्नि यथा पुत्रे भूयॊ मम धनंजये बहुमानः परॊ राजन संनतिश च कपिध्वजे 5 तं चेत पुत्रात परियतरं परतियॊत्स्ये धनंजयम कषत्रधर्मम अनुष्ठाय धिग अस्तु कषत्रजीविकाम 6 यस्य लॊके समॊ नास्ति कश चिद अन्यॊ धनुर्धरः मत्प्रसादात स बीभत्सुः शरेयान अन्यैर धनुर्धरैः 7 मित्रध्रुग दुष्टभावश च नास्तिकॊ ऽथानृजुः शठः न सत्सु लभते पूजां यज्ञे मूर्ख इवागतः 8 वार्यमाणॊ ऽपि पापेभ्यः पापात्मा पापम इच्छति चॊद्यमानॊ ऽपि पापेन शुभात्मा शुभम इच्छति 9 मिथ्यॊपचरिता हय एते वर्तमाना हय अनु परिये अहितत्वाय कल्पन्ते दॊषा भरतसत्तम 10 तवम उक्तः कुरुवृद्धेन मया च विदुरेण च वासुदेवेन च तथा शरेयॊ नैवाभिपद्यसे 11 अस्ति मे बलम इत्य एव सहसा तवं तितीर्षसि सग्राह नक्रमकरं गङ्गा वेगम इवॊष्णगे 12 वास एव यथा हि तवं परावृण्वानॊ ऽदय मन्यसे सरजं तयक्ताम इव पराप्य लॊभाद यौधिष्ठिरीं शरियम 13 दरौपदी सहितं पार्थं सायुधैर भरातृभिर वृतम वनस्थम अपि राज्यस्थः पाण्डवं कॊ ऽतिजीवति 14 निदेशे यस्य राजानः सर्वे तिष्ठन्ति किंकराः तम ऐलविलम आसाद्य धर्मराजॊ वयराजत 15 कुबेर सदनं पराप्य ततॊ रत्नान्य अवाप्य च सफीतम आक्रम्य ते राष्ट्रं राज्यम इच्छन्ति पाण्डवाः 16 दत्तं हुतम अधीतं च बराह्मणास तर्पिता धनैः आवयॊर गतम आयुश च कृतकृत्यौ च विद्धि नौ 17 तवं तु हित्वा सुखं राज्यं मित्राणि च धनानि च विग्रहं पाण्डवैः कृत्वा महद वयसनम आप्स्यसि 18 दरौपदी यस्य चाशास्ते विजयं सत्यवादिनी तपॊ घॊरव्रता देवी न तवं जेष्यसि पाण्डवम 19 मन्त्री जनार्दनॊ यस्य भराता यस्य धनंजयः सर्वशस्त्रभृतां शरेष्ठं कथं जेष्यसि पाण्डवम 20 सहाया बराह्मणा यस्य धृतिमन्तॊ जितेन्द्रियाः तम उग्रतपसं वीरं कथं जेष्यसि पाण्डवम 21 पुनर उक्तं च वक्ष्यामि यत कार्यं भूतिम इच्छता सुहृदा मज्जमानेषु सुहृत्सु वयसनार्णवे 22 अलं युद्धेन तैर वीरैः शाम्य तवं कुरुवृद्धये मा गमः ससुतामात्यः सबलश च पराभवम |
1
[v] evam uktas tu vimanās tiryagdṛṣṭir adhomukhaḥ saṃhatya ca bhruvor madhyaṃ na kiṃ cid vyājahāra ha 2 taṃ vai vimanasaṃ dṛṣṭvā saṃprekṣyānyonyam antikāt punar evottaraṃ vākyam uktavantau nararṣabhau 3 śuśrūṣum anasūyaṃ ca brahmaṇyaṃ satyasaṃgaram pratiyotsyāmahe pārtham ato duḥkhataraṃ nu kim 4 aśvatthāmni yathā putre bhūyo mama dhanaṃjaye bahumānaḥ paro rājan saṃnatiś ca kapidhvaje 5 taṃ cet putrāt priyataraṃ pratiyotsye dhanaṃjayam kṣatradharmam anuṣṭhāya dhig astu kṣatrajīvikām 6 yasya loke samo nāsti kaś cid anyo dhanurdharaḥ matprasādāt sa bībhatsuḥ śreyān anyair dhanurdharaiḥ 7 mitradhrug duṣṭabhāvaś ca nāstiko 'thānṛjuḥ śaṭhaḥ na satsu labhate pūjāṃ yajñe mūrkha ivāgataḥ 8 vāryamāṇo 'pi pāpebhyaḥ pāpātmā pāpam icchati codyamāno 'pi pāpena śubhātmā śubham icchati 9 mithyopacaritā hy ete vartamānā hy anu priye ahitatvāya kalpante doṣā bharatasattama 10 tvam uktaḥ kuruvṛddhena mayā ca vidureṇa ca vāsudevena ca tathā śreyo naivābhipadyase 11 asti me balam ity eva sahasā tvaṃ titīrṣasi sagrāha nakramakaraṃ gaṅgā vegam ivoṣṇage 12 vāsa eva yathā hi tvaṃ prāvṛṇvāno 'dya manyase srajaṃ tyaktām iva prāpya lobhād yaudhiṣṭhirīṃ śriyam 13 draupadī sahitaṃ pārthaṃ sāyudhair bhrātṛbhir vṛtam vanastham api rājyasthaḥ pāṇḍavaṃ ko 'tijīvati 14 nideśe yasya rājānaḥ sarve tiṣṭhanti kiṃkarāḥ tam ailavilam āsādya dharmarājo vyarājata 15 kubera sadanaṃ prāpya tato ratnāny avāpya ca sphītam ākramya te rāṣṭraṃ rājyam icchanti pāṇḍavāḥ 16 dattaṃ hutam adhītaṃ ca brāhmaṇās tarpitā dhanaiḥ āvayor gatam āyuś ca kṛtakṛtyau ca viddhi nau 17 tvaṃ tu hitvā sukhaṃ rājyaṃ mitrāṇi ca dhanāni ca vigrahaṃ pāṇḍavaiḥ kṛtvā mahad vyasanam āpsyasi 18 draupadī yasya cāśāste vijayaṃ satyavādinī tapo ghoravratā devī na tvaṃ jeṣyasi pāṇḍavam 19 mantrī janārdano yasya bhrātā yasya dhanaṃjayaḥ sarvaśastrabhṛtāṃ śreṣṭhaṃ kathaṃ jeṣyasi pāṇḍavam 20 sahāyā brāhmaṇā yasya dhṛtimanto jitendriyāḥ tam ugratapasaṃ vīraṃ kathaṃ jeṣyasi pāṇḍavam 21 punar uktaṃ ca vakṣyāmi yat kāryaṃ bhūtim icchatā suhṛdā majjamāneṣu suhṛtsu vyasanārṇave 22 alaṃ yuddhena tair vīraiḥ śāmya tvaṃ kuruvṛddhaye mā gamaḥ sasutāmātyaḥ sabalaś ca parābhavam |
The Mahabharata in Sanskrit
Book 5
Chapter 138
|
1
[धृ] राजपुत्रैः परिवृतस तथामात्यैश च संजय उपारॊप्य रथे कर्णं निर्यातॊ मधुसूदनः 2 किम अब्रवीद रथॊपस्थे राधेयं परवीरहा कानि सान्त्वानि गॊविन्दः सूतपुत्रे परयुक्तवान 3 ओघमेघस्वनः काले यत कृष्णः कर्णम अब्रवीत मृदु वा यदि वा तीक्ष्णं तन ममाचक्ष्व संजय 4 आनुपूर्व्येण वाक्यानि शलक्ष्णानि च मृदूनि च परियाणि धर्मयुक्तानि सत्यानि च हितानि च 5 हृदयग्रहणीयानि राधेयं मधुसूदनः यान्य अब्रवीद अमेयात्मा तानि मे शृणु भारत 6 उपासितास ते राधेय बराह्मणा वेदपारगाः तत्त्वार्थं परिपृष्टाश च नियतेनानसूयया 7 तवम एव कर्ण जानासि वेदवादान सनातनान तवं हय एव धर्मशास्त्रेषु सूक्ष्मेषु परिनिष्ठितः 8 कानीनश च सहॊढश च कन्यायां यश च जायते वॊढारं पितरं तस्य पराहुः शास्त्रविदॊ जनाः 9 सॊ ऽसि कर्ण तथा जातः पाण्डॊः पुत्रॊ ऽसि धर्मतः निग्रहाद धर्मशास्त्राणाम एहि राजा भविष्यसि 10 पितृपक्षे हि ते पार्था मातृपक्षे च वृष्णयः दवौ पक्षाव अभिजानीहि तवम एतौ पुरुषर्षभ 11 मया सार्धम इतॊ यातम अद्य तवां तात पाण्डवाः अभिजानन्तु कौन्तेयं पूर्वजातं युधिष्ठिरात 12 पादौ तव गरहीष्यन्ति भरातरः पञ्च पाण्डवाः दरौपदेयास तथा पञ्च सौभद्रश चापराजितः 13 राजानॊ राजपुत्राश च पाण्डवार्थे समागताः पादौ तव गरहीष्यन्ति सर्वे चान्धकवृष्णयः 14 हिरण्मयांश च ते कुम्भान राजतान पार्थिवांस तथा ओषध्यः सर्वबीजानि सर्वरत्नानि वीरुधः 15 राजन्या राजकन्याश चाप्य आनयन्त्व अभिषेचनम षष्ठे च तवां तथा काले दरौपद्य उपगमिष्यति 16 अद्य तवाम अभिषिञ्चन्तु चातुर्वैद्या दविजातयः पुरॊहितः पाण्डवानां वयाघ्रचर्मण्य अवस्थितम 17 तथैव भरातरः पञ्च पाण्डवाः पुरुषर्षभाः दरौपदेयास तथा पञ्च पाञ्चालाश चेदयस तथा 18 अहं च तवाभिषेक्ष्यामि राजानं पृथिवीपतिम युवराजॊ ऽसतु ते राजा कुन्तीपुत्रॊ युधिष्ठिरः 19 गृहीत्वा वयसनं शवेतं धर्मात्मा संशितव्रतः उपान्वारॊहतु रथं कुन्तीपुत्रॊ युधिष्ठिरः 20 छत्रं च ते महच छवेतं भीमसेनॊ महाबलः अभिषिक्तस्य कौनेय कौन्तेयॊ धारयिष्यति 21 किङ्किणीशतनिर्घॊषं वैयाघ्रपरिवारणम रथं शवेतहयैर युक्तम अर्जुनॊ वाहयिष्यति 22 अभिमन्युश च ते नित्यं परत्यासन्नॊ भविष्यति नकुलः सहदेवश च दरौपदेयाश च पञ्च ये 23 पाञ्चालास तवानुयास्यन्ति शिखण्डी च महारथः अहं च तवानुयास्यामि सर्वे चान्धकवृष्णयः दाशार्हाः परिवारास ते दाशार्णाश च विशां पते 24 भुङ्क्ष्व राज्यं महाबाहॊ भरातृभिः सह पाण्डवैः जपैर हॊमैश च संयुक्तॊ मङ्गलैश च पृथग्विधैः 25 पुरॊगमाश च ते सन्तु दरविडाः सह कुन्तलैः आन्ध्रास तालचराश चैव चूचुपा वेणुपास तथा 26 सतुवन्तु तवाद्य बहुशः सतुतिभिः सूतमागधाः विजयं वसुषेणस्य घॊषयन्तु च पाण्डवाः 27 स तवं परिवृतः पार्थैर नक्षत्रैर इव चन्द्रमाः परशाधि राज्यं कौन्तेय कुन्तीं च परतिनन्दय 28 मित्राणि ते परहृष्यन्तु वयथन्तु रिपवस तथा सौभ्रात्रं चैव ते ऽदयास्तु भरातृभिः सह पाण्डवैः |
1
[dhṛ] rājaputraiḥ parivṛtas tathāmātyaiś ca saṃjaya upāropya rathe karṇaṃ niryāto madhusūdanaḥ 2 kim abravīd rathopasthe rādheyaṃ paravīrahā kāni sāntvāni govindaḥ sūtaputre prayuktavān 3 oghameghasvanaḥ kāle yat kṛṣṇaḥ karṇam abravīt mṛdu vā yadi vā tīkṣṇaṃ tan mamācakṣva saṃjaya 4 ānupūrvyeṇa vākyāni ślakṣṇāni ca mṛdūni ca priyāṇi dharmayuktāni satyāni ca hitāni ca 5 hṛdayagrahaṇīyāni rādheyaṃ madhusūdanaḥ yāny abravīd ameyātmā tāni me śṛṇu bhārata 6 upāsitās te rādheya brāhmaṇā vedapāragāḥ tattvārthaṃ paripṛṣṭāś ca niyatenānasūyayā 7 tvam eva karṇa jānāsi vedavādān sanātanān tvaṃ hy eva dharmaśāstreṣu sūkṣmeṣu pariniṣṭhitaḥ 8 kānīnaś ca sahoḍhaś ca kanyāyāṃ yaś ca jāyate voḍhāraṃ pitaraṃ tasya prāhuḥ śāstravido janāḥ 9 so 'si karṇa tathā jātaḥ pāṇḍoḥ putro 'si dharmataḥ nigrahād dharmaśāstrāṇām ehi rājā bhaviṣyasi 10 pitṛpakṣe hi te pārthā mātṛpakṣe ca vṛṣṇayaḥ dvau pakṣāv abhijānīhi tvam etau puruṣarṣabha 11 mayā sārdham ito yātam adya tvāṃ tāta pāṇḍavāḥ abhijānantu kaunteyaṃ pūrvajātaṃ yudhiṣṭhirāt 12 pādau tava grahīṣyanti bhrātaraḥ pañca pāṇḍavāḥ draupadeyās tathā pañca saubhadraś cāparājitaḥ 13 rājāno rājaputrāś ca pāṇḍavārthe samāgatāḥ pādau tava grahīṣyanti sarve cāndhakavṛṣṇayaḥ 14 hiraṇmayāṃś ca te kumbhān rājatān pārthivāṃs tathā oṣadhyaḥ sarvabījāni sarvaratnāni vīrudhaḥ 15 rājanyā rājakanyāś cāpy ānayantv abhiṣecanam ṣaṣṭhe ca tvāṃ tathā kāle draupady upagamiṣyati 16 adya tvām abhiṣiñcantu cāturvaidyā dvijātayaḥ purohitaḥ pāṇḍavānāṃ vyāghracarmaṇy avasthitam 17 tathaiva bhrātaraḥ pañca pāṇḍavāḥ puruṣarṣabhāḥ draupadeyās tathā pañca pāñcālāś cedayas tathā 18 ahaṃ ca tvābhiṣekṣyāmi rājānaṃ pṛthivīpatim yuvarājo 'stu te rājā kuntīputro yudhiṣṭhiraḥ 19 gṛhītvā vyasanaṃ śvetaṃ dharmātmā saṃśitavrataḥ upānvārohatu rathaṃ kuntīputro yudhiṣṭhiraḥ 20 chatraṃ ca te mahac chvetaṃ bhīmaseno mahābalaḥ abhiṣiktasya kauneya kaunteyo dhārayiṣyati 21 kiṅkiṇīśatanirghoṣaṃ vaiyāghraparivāraṇam rathaṃ śvetahayair yuktam arjuno vāhayiṣyati 22 abhimanyuś ca te nityaṃ pratyāsanno bhaviṣyati nakulaḥ sahadevaś ca draupadeyāś ca pañca ye 23 pāñcālās tvānuyāsyanti śikhaṇḍī ca mahārathaḥ ahaṃ ca tvānuyāsyāmi sarve cāndhakavṛṣṇayaḥ dāśārhāḥ parivārās te dāśārṇāś ca viśāṃ pate 24 bhuṅkṣva rājyaṃ mahābāho bhrātṛbhiḥ saha pāṇḍavaiḥ japair homaiś ca saṃyukto maṅgalaiś ca pṛthagvidhaiḥ 25 purogamāś ca te santu draviḍāḥ saha kuntalaiḥ āndhrās tālacarāś caiva cūcupā veṇupās tathā 26 stuvantu tvādya bahuśaḥ stutibhiḥ sūtamāgadhāḥ vijayaṃ vasuṣeṇasya ghoṣayantu ca pāṇḍavāḥ 27 sa tvaṃ parivṛtaḥ pārthair nakṣatrair iva candramāḥ praśādhi rājyaṃ kaunteya kuntīṃ ca pratinandaya 28 mitrāṇi te prahṛṣyantu vyathantu ripavas tathā saubhrātraṃ caiva te 'dyāstu bhrātṛbhiḥ saha pāṇḍavaiḥ |
The Mahabharata in Sanskrit
Book 5
Chapter 139
|
1
[कर्ण] असंशयं सौहृदान मे परणयाच चात्थ केशव सख्येन चैव वार्ष्णेय शरेयस्कामतया एव च 2 सर्वं चैवाभिजानामि पाण्डॊः पुत्रॊ ऽसमि धर्मतः निग्रहाद धर्मशास्त्राणां यथा तवं कृष्ण मन्यसे 3 कन्या गर्भं समाधत्त भास्करान मां जनार्दन आदित्यवचनाच चैव जातं मां सा वयसर्जयत 4 सॊ ऽसमि कृष्ण तथा जातः पाण्डॊः पुत्रॊ ऽसमि धर्मतः कुन्त्या तव अहम अपाकीर्णॊ यथा न कुशलं तथा 5 सूतॊ हि माम अधिरथॊ देष्ट्वैव अनयद गृहान राधायाश चैव मां परादात सौहार्दान मधुसूदन 6 मत सनेहाच चैव राधायाः सद्यः कषीरम अवातरत सा मे मूत्रं पुरीषं च परतिजग्राह माधव 7 तस्याः पिण्ड वयपनयं कुर्याद अस्मद्विधः कथम धर्मविद धर्मशास्त्राणां शरवणे सततं रथ 8 तथा माम अभिजानाति सूतश चाधिरथः सुतम पितरं चाभिजानामि तम अहं सौहृदात सदा 9 स हि मे जातकर्मादि कारयाम आस माधव शास्त्रदृष्टेन विधिना पुत्र परीत्या जनार्दन 10 नाम मे वसुषेणेति कारयाम आस वै दविजैः भार्याश चॊढा मम पराप्ते यौवने तेन केशव 11 तासु पुत्राश च पौत्राश च मम जाता जनार्दन तासु मे हृदयं कृष्ण संजातं कामबन्धनम 12 न पृथिव्या सकलया न सुवर्णस्य राशिभिः हर्षाद भयाद वा गॊविन्द अनृतं वक्तुम उत्सहे 13 धृतराष्ट्र कुले कृष्ण दुर्यॊधन समाश्रयात मया तरयॊदश समा भुक्तं राज्यम अकण्टकम 14 इष्टं च बहुभिर यज्ञैः सह सूतैर मयासकृत आवाहाश च विवाहाश च सह सूतैः कृता मया 15 मां च कृष्ण समाश्रित्य कृतः शस्त्रसमुद्यमः दुर्यॊधनेन वार्ष्णेय विग्रहश चापि पाण्डवैः 16 तस्माद रणे दवैरथे मां परत्युद्यातारम अच्युत वृतवान परमं हृष्टः परतीपं सव्यसाचिनः 17 वधाद बन्धाद भयाद वापि लॊभाद वापि जनार्दन अनृतं नॊत्सहे कर्तुं धार्तराष्ट्रस्य धीमतः 18 यदि हय अद्य न गच्छेयं दवैरथं सव्यसाचिना अकीर्तिः सयाद धृषीकेश मम पार्थस्य चॊभयॊः 19 असंशयं हितार्थाय बरूयास तवं मधुसूदन सर्वं च पाण्डवाः कुर्युस तव वशित्वान न संशयः 20 मन्त्रस्य नियमं कुर्यास तवम अत्र पुरुषॊत्तम एतद अत्र हितं मन्ये सर्वयादवनन्दन 21 यदि जानाति मां राजा धर्मात्मा संशितव्रतः कुन्त्याः परथमजं पुत्रं न स राज्यं गरहीष्यति 22 पराप्य चापि महद राज्यं तद अहं मधुसूदन सफीतं दुर्यॊधनायैव संप्रदद्याम अरिंदम 23 स एव राजा धर्मात्मा शाश्वतॊ ऽसतु युधिष्ठिरः नेता यस्य हृषीकेशॊ यॊधा यस्य धनंजयः 24 पृथिवी तस्य राष्ट्रं च यस्य भीमॊ महारथः नकुलः सहदेवश च दरौपदेयाश च माधव 25 उत्तमौजा युधामन्युः सत्यधर्मा च सॊमकिः चैद्यश च चेकितानश च शिखण्डी चापराजितः 26 इन्द्र गॊपक वर्णाश च केकया भरातरस तथा इन्द्रायुधसवर्णश च कुन्तिभॊजॊ महारथः 27 मातुलॊ भीमसेनस्य सेनजिच च महारथः शङ्खः पुत्रॊ विराटस्य निधिस तवं च जनार्दन 28 महान अयं कृष्ण कृतः कषत्रस्य समुदानयह राज्यं पराप्तम इदं दीप्तं परथितं सर्वराजसु 29 धार्तराष्ट्रस्य वार्ष्णेय शस्त्रयज्ञॊ भविष्यति अस्य यज्ञस्य वेत्ता तवं भविष्यसि जनार्दन आध्वर्यवं च ते कृष्ण करताव अस्मिन भविष्यति 30 हॊता चैवात्र बीभत्सुः संनद्धः स कपिध्वजः गाण्डीवं सरुक तथाज्यं च वीर्यं पुंसां भविष्यति 31 ऐन्द्रं पाशुपतं बराह्मं सथूणाकर्णं च माधव मन्त्रास तत्र भविष्यन्ति परयुक्ताः सव्यसाचिना 32 अनुयातश च पितरम अधिकॊ वा पराक्रमे गराव सतॊत्रं स सौभद्रः सम्यक तत्र करिष्यति 33 उद्गातात्र पुनर भीमः परस्तॊता सुमहाबलः विनदन स नरव्याघ्रॊ नागानीकान्तकृद रणे 34 स चैव तत्र धर्मात्मा शश्वद राजा युधिष्ठिरः जपैर हॊमैश च संयुक्तॊ बरह्मत्वं कारयिष्यति 35 शङ्खशब्दाः समुरजा भेर्यश च मधुसूदन उत्कृष्टसिंहनादाश च सुब्रह्मण्यॊ भविष्यति 36 नकुलः सहदेवश च माद्रीपुत्रौ यशस्विनौ शामित्रं तौ महावीर्यौ सम्यक तत्र करिष्यतः 37 कल्माषदण्डा गॊविन्द विमला रथशक्तयः यूपाः समुपकल्पन्ताम अस्मिन यज्ञे जनार्दन 38 कर्णिनालीकनाराचा वत्सदन्तॊपबृंहणाः तॊमराः सॊमकलशाः पवित्राणि धनूंषि च 39 असयॊ ऽतर कपालानि पुरॊडाशाः शिरांसि च हविस तु रुधिरं कृष्ण अस्मिन यज्ञे भविष्यति 40 इध्माः परिधयश चैव शक्त्यॊ ऽथ विमला गदाः सदस्या दरॊणशिष्याश च कृपस्य च शरद्वतः 41 इषवॊ ऽतर परिस्तॊमा मुक्ता गाण्डीवधन्वना महारथप्रयुक्ताश च दरॊण दरौणिप्रचॊदिताः 42 परातिप्रस्थानिकं कर्म सात्यकिः स करिष्यति दीक्षितॊ धार्तराष्ट्रॊ ऽतर पत्नी चास्य महाचमूः 43 घटॊत्चकॊ ऽतर शामित्रं करिष्यति महाबलः अतिरात्रे महाबाहॊ वितते यज्ञकर्मणि 44 दक्षिणा तव अस्य यज्ञस्य धृष्टद्युम्नः परतापवान वैताने कर्मणि तते जातॊ यः कृष्ण पावकात 45 यद अब्रुवम अहं कृष्ण कटुकानि सम पाण्डवान परियार्थं धार्तराष्ट्रस्य तेन तप्ये ऽदय कर्मणा 46 यदा दरक्ष्यसि मां कृष्ण निहतं सव्यसाचिना पुनश चितिस तदा चास्य यज्ञस्याथ भविष्यति 47 दुःशासनस्य रुधिरं यदा पास्यति पाण्डवः आनर्दं नर्दतः सम्यक तदा सुत्यं भविष्यति 48 यदा दरॊणं च भीष्मं च पाञ्चाल्यौ पातयिष्यतः तदा यज्ञावसानं तद भविष्यति जनार्दन 49 दुर्यॊधनं यदा हन्ता भीमसेनॊ महाबलः तदा समाप्स्यते यज्ञॊ धार्तराष्ट्रस्य माधव 50 सनुषाश च परस्नुषाश चैव धृतराष्ट्रस्य संगताः हतेश्वरा हतसुता हतनाथाश च केशव 51 गान्धार्या सह रॊदन्त्यः शवगृध्रकुरराकुले स यज्ञे ऽसमिन्न अवभृथॊ भविष्यति जनार्दन 52 विद्या वृद्धा वयॊवृद्धाः कषत्रियाः कषत्रियर्षभ वृथा मृत्युं न कुर्वीरंस तवत्कृते मधुसूदन 53 शस्त्रेण निधनं गच्छेत समृद्धं कषत्रमण्डलम कुरुक्षेत्रे पुण्यतमे तरैलॊक्यस्यापि केशवन 54 तद अत्र पुण्डरीकाक्ष विधत्स्व यद अभीप्सितम यथा कार्त्स्न्येन वार्ष्णेय कषत्रं सवर्गम अवाप्नुयात 55 यावत सथास्यन्ति गिरयः सरितश च जनार्दन तावत कीर्तिभवः शब्दः शाश्वतॊ ऽयं भविष्यति 56 बराह्मणाः कथयिष्यन्ति महाभारतम आहवम समागमेषु वार्ष्णेय कषत्रियाणां यशॊधरम 57 समुपानय कौन्तेयं युद्धाय मम केशव मन्त्रसंवरणं कुर्वन नित्यम एव परंतप |
1
[karṇa] asaṃśayaṃ sauhṛdān me praṇayāc cāttha keśava sakhyena caiva vārṣṇeya śreyaskāmatayā eva ca 2 sarvaṃ caivābhijānāmi pāṇḍoḥ putro 'smi dharmataḥ nigrahād dharmaśāstrāṇāṃ yathā tvaṃ kṛṣṇa manyase 3 kanyā garbhaṃ samādhatta bhāskarān māṃ janārdana ādityavacanāc caiva jātaṃ māṃ sā vyasarjayat 4 so 'smi kṛṣṇa tathā jātaḥ pāṇḍoḥ putro 'smi dharmataḥ kuntyā tv aham apākīrṇo yathā na kuśalaṃ tathā 5 sūto hi mām adhiratho deṣṭvaiva anayad gṛhān rādhāyāś caiva māṃ prādāt sauhārdān madhusūdana 6 mat snehāc caiva rādhāyāḥ sadyaḥ kṣīram avātarat sā me mūtraṃ purīṣaṃ ca pratijagrāha mādhava 7 tasyāḥ piṇḍa vyapanayaṃ kuryād asmadvidhaḥ katham dharmavid dharmaśāstrāṇāṃ śravaṇe satataṃ ratha 8 tathā mām abhijānāti sūtaś cādhirathaḥ sutam pitaraṃ cābhijānāmi tam ahaṃ sauhṛdāt sadā 9 sa hi me jātakarmādi kārayām āsa mādhava śāstradṛṣṭena vidhinā putra prītyā janārdana 10 nāma me vasuṣeṇeti kārayām āsa vai dvijaiḥ bhāryāś coḍhā mama prāpte yauvane tena keśava 11 tāsu putrāś ca pautrāś ca mama jātā janārdana tāsu me hṛdayaṃ kṛṣṇa saṃjātaṃ kāmabandhanam 12 na pṛthivyā sakalayā na suvarṇasya rāśibhiḥ harṣād bhayād vā govinda anṛtaṃ vaktum utsahe 13 dhṛtarāṣṭra kule kṛṣṇa duryodhana samāśrayāt mayā trayodaśa samā bhuktaṃ rājyam akaṇṭakam 14 iṣṭaṃ ca bahubhir yajñaiḥ saha sūtair mayāsakṛt āvāhāś ca vivāhāś ca saha sūtaiḥ kṛtā mayā 15 māṃ ca kṛṣṇa samāśritya kṛtaḥ śastrasamudyamaḥ duryodhanena vārṣṇeya vigrahaś cāpi pāṇḍavaiḥ 16 tasmād raṇe dvairathe māṃ pratyudyātāram acyuta vṛtavān paramaṃ hṛṣṭaḥ pratīpaṃ savyasācinaḥ 17 vadhād bandhād bhayād vāpi lobhād vāpi janārdana anṛtaṃ notsahe kartuṃ dhārtarāṣṭrasya dhīmataḥ 18 yadi hy adya na gaccheyaṃ dvairathaṃ savyasācinā akīrtiḥ syād dhṛṣīkeśa mama pārthasya cobhayoḥ 19 asaṃśayaṃ hitārthāya brūyās tvaṃ madhusūdana sarvaṃ ca pāṇḍavāḥ kuryus tva vaśitvān na saṃśayaḥ 20 mantrasya niyamaṃ kuryās tvam atra puruṣottama etad atra hitaṃ manye sarvayādavanandana 21 yadi jānāti māṃ rājā dharmātmā saṃśitavrataḥ kuntyāḥ prathamajaṃ putraṃ na sa rājyaṃ grahīṣyati 22 prāpya cāpi mahad rājyaṃ tad ahaṃ madhusūdana sphītaṃ duryodhanāyaiva saṃpradadyām ariṃdama 23 sa eva rājā dharmātmā śāśvato 'stu yudhiṣṭhiraḥ netā yasya hṛṣīkeśo yodhā yasya dhanaṃjayaḥ 24 pṛthivī tasya rāṣṭraṃ ca yasya bhīmo mahārathaḥ nakulaḥ sahadevaś ca draupadeyāś ca mādhava 25 uttamaujā yudhāmanyuḥ satyadharmā ca somakiḥ caidyaś ca cekitānaś ca śikhaṇḍī cāparājitaḥ 26 indra gopaka varṇāś ca kekayā bhrātaras tathā indrāyudhasavarṇaś ca kuntibhojo mahārathaḥ 27 mātulo bhīmasenasya senajic ca mahārathaḥ śaṅkhaḥ putro virāṭasya nidhis tvaṃ ca janārdana 28 mahān ayaṃ kṛṣṇa kṛtaḥ kṣatrasya samudānayah rājyaṃ prāptam idaṃ dīptaṃ prathitaṃ sarvarājasu 29 dhārtarāṣṭrasya vārṣṇeya śastrayajño bhaviṣyati asya yajñasya vettā tvaṃ bhaviṣyasi janārdana ādhvaryavaṃ ca te kṛṣṇa kratāv asmin bhaviṣyati 30 hotā caivātra bībhatsuḥ saṃnaddhaḥ sa kapidhvajaḥ gāṇḍīvaṃ sruk tathājyaṃ ca vīryaṃ puṃsāṃ bhaviṣyati 31 aindraṃ pāśupataṃ brāhmaṃ sthūṇākarṇaṃ ca mādhava mantrās tatra bhaviṣyanti prayuktāḥ savyasācinā 32 anuyātaś ca pitaram adhiko vā parākrame grāva stotraṃ sa saubhadraḥ samyak tatra kariṣyati 33 udgātātra punar bhīmaḥ prastotā sumahābalaḥ vinadan sa naravyāghro nāgānīkāntakṛd raṇe 34 sa caiva tatra dharmātmā śaśvad rājā yudhiṣṭhiraḥ japair homaiś ca saṃyukto brahmatvaṃ kārayiṣyati 35 śaṅkhaśabdāḥ samurajā bheryaś ca madhusūdana utkṛṣṭasiṃhanādāś ca subrahmaṇyo bhaviṣyati 36 nakulaḥ sahadevaś ca mādrīputrau yaśasvinau śāmitraṃ tau mahāvīryau samyak tatra kariṣyataḥ 37 kalmāṣadaṇḍā govinda vimalā rathaśaktayaḥ yūpāḥ samupakalpantām asmin yajñe janārdana 38 karṇinālīkanārācā vatsadantopabṛṃhaṇāḥ tomarāḥ somakalaśāḥ pavitrāṇi dhanūṃṣi ca 39 asayo 'tra kapālāni puroḍāśāḥ śirāṃsi ca havis tu rudhiraṃ kṛṣṇa asmin yajñe bhaviṣyati 40 idhmāḥ paridhayaś caiva śaktyo 'tha vimalā gadāḥ sadasyā droṇaśiṣyāś ca kṛpasya ca śaradvataḥ 41 iṣavo 'tra paristomā muktā gāṇḍīvadhanvanā mahārathaprayuktāś ca droṇa drauṇipracoditāḥ 42 prātiprasthānikaṃ karma sātyakiḥ sa kariṣyati dīkṣito dhārtarāṣṭro 'tra patnī cāsya mahācamūḥ 43 ghaṭotcako 'tra śāmitraṃ kariṣyati mahābalaḥ atirātre mahābāho vitate yajñakarmaṇi 44 dakṣiṇā tv asya yajñasya dhṛṣṭadyumnaḥ pratāpavān vaitāne karmaṇi tate jāto yaḥ kṛṣṇa pāvakāt 45 yad abruvam ahaṃ kṛṣṇa kaṭukāni sma pāṇḍavān priyārthaṃ dhārtarāṣṭrasya tena tapye 'dya karmaṇā 46 yadā drakṣyasi māṃ kṛṣṇa nihataṃ savyasācinā punaś citis tadā cāsya yajñasyātha bhaviṣyati 47 duḥśāsanasya rudhiraṃ yadā pāsyati pāṇḍavaḥ ānardaṃ nardataḥ samyak tadā sutyaṃ bhaviṣyati 48 yadā droṇaṃ ca bhīṣmaṃ ca pāñcālyau pātayiṣyataḥ tadā yajñāvasānaṃ tad bhaviṣyati janārdana 49 duryodhanaṃ yadā hantā bhīmaseno mahābalaḥ tadā samāpsyate yajño dhārtarāṣṭrasya mādhava 50 snuṣāś ca prasnuṣāś caiva dhṛtarāṣṭrasya saṃgatāḥ hateśvarā hatasutā hatanāthāś ca keśava 51 gāndhāryā saha rodantyaḥ śvagṛdhrakurarākule sa yajñe 'sminn avabhṛtho bhaviṣyati janārdana 52 vidyā vṛddhā vayovṛddhāḥ kṣatriyāḥ kṣatriyarṣabha vṛthā mṛtyuṃ na kurvīraṃs tvatkṛte madhusūdana 53 śastreṇa nidhanaṃ gacchet samṛddhaṃ kṣatramaṇḍalam kurukṣetre puṇyatame trailokyasyāpi keśavan 54 tad atra puṇḍarīkākṣa vidhatsva yad abhīpsitam yathā kārtsnyena vārṣṇeya kṣatraṃ svargam avāpnuyāt 55 yāvat sthāsyanti girayaḥ saritaś ca janārdana tāvat kīrtibhavaḥ śabdaḥ śāśvato 'yaṃ bhaviṣyati 56 brāhmaṇāḥ kathayiṣyanti mahābhāratam āhavam samāgameṣu vārṣṇeya kṣatriyāṇāṃ yaśodharam 57 samupānaya kaunteyaṃ yuddhāya mama keśava mantrasaṃvaraṇaṃ kurvan nityam eva paraṃtapa |
The Mahabharata in Sanskrit
Book 5
Chapter 140
|
1
[सम्जय] कर्णस्य वचनं शरुत्वा केशवः परवीरहा उवाच परहसन वाक्यं समितपूर्वम इदं तदा 2 अपि तवां न तपेत कर्ण राज्यलाभॊपपादना मया दत्तां हि पृथिवीं न परशासितुम इच्छसि 3 धरुवॊ जयः पाण्डवानाम इतीदं; न संशयः कश चन विद्यते ऽतर जय धवजॊ दृश्यते पाण्डवस्य; समुच्छ्रितॊ वानरराज उग्रः 4 दिव्या मायाविहिता भौवनेन; समुच्छ्रिता इन्द्रकेतुप्रकाशा दिव्यानि भूतानि भयावहानि; दृश्यन्ति चैवात्र भयानकानि 5 न सज्जते शैलवनस्पतिभ्य; ऊर्ध्वं तिर्यग यॊजनमात्ररूपः शरीमान धवजः कर्ण धनंजयस्य; समुच्छ्रितः पावकतुल्यरूपः 6 यदा दरक्ष्यसि संग्रामे शवेताश्वं कृष्णसारथिम ऐन्द्रम अस्त्रं विकुर्वाणम उभे चैवाग्निमारुते 7 गाण्डीवस्य च निर्घॊषं विस्फूर्जितम इवाशनेः न तदा भविता तरेता न कृतं दवापरं न च 8 यदा दरक्ष्यसि संग्रामे कुन्तीपुत्रं युधिष्ठिरम जपहॊमसमायुक्तं सवां रक्षन्तं महाचमूम 9 आदित्यम इव दुर्धर्षं तपन्तं शत्रुवाहिनीम न तदा भविता तरेता न कृतं दवापरं न च 10 यदा दरक्ष्यसि संग्रामे भीमसेनं महाबलम दुःशासनस्य रुधिरं पीत्वा नृत्यन्तम आहवे 11 परभिन्नम इव मातङ्गं परतिद्विरदघातिनम न तदा भविता तरेता न कृतं दवापरं न च 12 यदा दरक्ष्यसि संग्रामे माद्रीपुत्रौ महारथौ वाहिनीं धार्तराष्ट्राणां कषॊभयन्तौ गजाव इव 13 विगाढे शस्त्रसंपाते परवीर रथा रुजौ न तदा भविता तरेता न कृतं दवापरं न च 14 यदा दरक्ष्यसि संग्रामे दरॊणं शांतनवं कृपम सुयॊधनं च राजानं सैन्धवं च जयद्रथम 15 युद्धायापततस तूर्णं वारितान सव्यसाचिना न तदा भविता तरेता न कृतं दवापरं न च 16 बरूयाः कर्ण इतॊ गत्वा दरॊणं शांतनवं कृपम सौम्यॊ ऽयं वर्तते मासः सुप्राप यवसेन्धनः 17 पक्वौषधि वनस्फीतः फलवान अल्पमक्षिकः निष्पङ्कॊ रसवत तॊयॊ नात्युष्ण शिशिरः सुखः 18 सप्तमाच चापि दिवसाद अमावास्या भविष्यति संग्रामं यॊजयेत तत्र तां हय आहुः शक्र देवताम 19 तथा राज्ञॊ वदेः सर्वान ये युद्धायाभ्युपागताः यद वॊ मनीषितं तद वै सर्वं संपादयामि वः 20 राजानॊ राजपुत्राश च दुर्यॊधन वशानुगाः पराप्य शस्त्रेण निधनं पराप्स्यन्ति गतिम उत्तमाम |
1
[samjaya] karṇasya vacanaṃ śrutvā keśavaḥ paravīrahā uvāca prahasan vākyaṃ smitapūrvam idaṃ tadā 2 api tvāṃ na tapet karṇa rājyalābhopapādanā mayā dattāṃ hi pṛthivīṃ na praśāsitum icchasi 3 dhruvo jayaḥ pāṇḍavānām itīdaṃ; na saṃśayaḥ kaś cana vidyate 'tra jaya dhvajo dṛśyate pāṇḍavasya; samucchrito vānararāja ugraḥ 4 divyā māyāvihitā bhauvanena; samucchritā indraketuprakāśā divyāni bhūtāni bhayāvahāni; dṛśyanti caivātra bhayānakāni 5 na sajjate śailavanaspatibhya; ūrdhvaṃ tiryag yojanamātrarūpaḥ śrīmān dhvajaḥ karṇa dhanaṃjayasya; samucchritaḥ pāvakatulyarūpaḥ 6 yadā drakṣyasi saṃgrāme śvetāśvaṃ kṛṣṇasārathim aindram astraṃ vikurvāṇam ubhe caivāgnimārute 7 gāṇḍīvasya ca nirghoṣaṃ visphūrjitam ivāśaneḥ na tadā bhavitā tretā na kṛtaṃ dvāparaṃ na ca 8 yadā drakṣyasi saṃgrāme kuntīputraṃ yudhiṣṭhiram japahomasamāyuktaṃ svāṃ rakṣantaṃ mahācamūm 9 ādityam iva durdharṣaṃ tapantaṃ śatruvāhinīm na tadā bhavitā tretā na kṛtaṃ dvāparaṃ na ca 10 yadā drakṣyasi saṃgrāme bhīmasenaṃ mahābalam duḥśāsanasya rudhiraṃ pītvā nṛtyantam āhave 11 prabhinnam iva mātaṅgaṃ pratidviradaghātinam na tadā bhavitā tretā na kṛtaṃ dvāparaṃ na ca 12 yadā drakṣyasi saṃgrāme mādrīputrau mahārathau vāhinīṃ dhārtarāṣṭrāṇāṃ kṣobhayantau gajāv iva 13 vigāḍhe śastrasaṃpāte paravīra rathā rujau na tadā bhavitā tretā na kṛtaṃ dvāparaṃ na ca 14 yadā drakṣyasi saṃgrāme droṇaṃ śāṃtanavaṃ kṛpam suyodhanaṃ ca rājānaṃ saindhavaṃ ca jayadratham 15 yuddhāyāpatatas tūrṇaṃ vāritān savyasācinā na tadā bhavitā tretā na kṛtaṃ dvāparaṃ na ca 16 brūyāḥ karṇa ito gatvā droṇaṃ śāṃtanavaṃ kṛpam saumyo 'yaṃ vartate māsaḥ suprāpa yavasendhanaḥ 17 pakvauṣadhi vanasphītaḥ phalavān alpamakṣikaḥ niṣpaṅko rasavat toyo nātyuṣṇa śiśiraḥ sukhaḥ 18 saptamāc cāpi divasād amāvāsyā bhaviṣyati saṃgrāmaṃ yojayet tatra tāṃ hy āhuḥ śakra devatām 19 tathā rājño vadeḥ sarvān ye yuddhāyābhyupāgatāḥ yad vo manīṣitaṃ tad vai sarvaṃ saṃpādayāmi vaḥ 20 rājāno rājaputrāś ca duryodhana vaśānugāḥ prāpya śastreṇa nidhanaṃ prāpsyanti gatim uttamām |
The Mahabharata in Sanskrit
Book 5
Chapter 141
|
1
[स] केशवस्य तु तद वाक्यं कर्णः शरुत्वा हितं शुभम अब्रवीद अभिसंपूज्य कृष्णं मधु निषूदनम जानन मां हिं महाबाहॊ संमॊहयितुम इच्छसि 2 यॊ ऽयं पृथिव्याः कार्त्स्न्येन विनाशः समुपस्थितः निमित्तं तत्र शकुनिर अहं दुःशासनस तथा दुर्यॊधनश च नृपतिर धृतराष्ट्र सुतॊ ऽभवत 3 असंशयम इदं कृष्ण महद युद्धम उपस्थितम पाण्डवानां कुरूणां च घॊरं रुधिरकर्दमम 4 राजानॊ राजपुत्राश च दुर्यॊधन वशानुगाः रणे शस्त्राग्निना दग्धाः पराप्स्यन्ति यमसादनम 5 सवप्ना हि बहवॊ घॊरा दृश्यन्ते मधुसूदन निमित्तानि च घॊराणि तथॊत्पाताः सुदारुणाः 6 पराजयं धार्तराष्ट्रे विजयं च युधिष्ठिरे शंसन्त इव वार्ष्णेय विविधा लॊमहर्षणाः 7 पराजापत्यं हि नक्षत्रं गरहस तीक्ष्णॊ महाद्युतिः शनैश्चरः पीडयति पीडयन पराणिनॊ ऽधिकम 8 कृत्वा चाङ्गारकॊ वक्रं जयेष्ठायां मधुसूदन अनुराधां परार्थयते मैत्रं संशमयन्न इव 9 नूनं मह भयं कृष्ण कुरूणां समुपस्थितम विशेषेण हि वार्ष्णेय चित्रां पीडयते गरहः 10 सॊमस्य लक्ष्म वयावृत्तं राहुर अर्कम उपेष्यति दिवश चॊल्काः पतन्त्य एताः सनिर्घाताः सकम्पनाः 11 निष्टनन्ति च मातङ्गा मुञ्चन्त्य अस्रूणि वाजिनः पानीयं यवसं चापि नाभिनन्दन्ति माधव 12 परादुर्भूतेषु चैतेषु भयम आहुर उपस्थितम निमित्तेषु महाबाहॊ दारुणं पराणिनाशनम 13 अल्पे भुक्ते पुरीषं च परभूतम इह दृश्यते वाजिनां वारणानां च मनुष्याणां च केशव 14 धार्तराष्ट्रस्य सैन्येषु सर्वेषु मधुसूदन पराभवस्य तल लिङ्गम इति पराहुर मनीषिणः 15 परहृष्टं वाहनं कृष्ण पाण्डवानां परचक्षते परदक्षिणा मृगाश चैव तत तेषां जयलक्षणम 16 अपसव्या मृगाः सर्वे धार्तराष्ट्रस्य केशव वाचश चाप्य अशरीरिण्यस तत्पराभव लक्षणम 17 मयूराः पुष्पशकुना हंसाः सारसचातकाः जीवं जीवक संघाश चाप्य अनुगच्छन्ति पाण्डवान 18 गृध्राः काका बडाः शयेना यातुधानाः शला वृकाः मक्षिकाणां च संघाता अनुगच्छन्ति कौरवान 19 धार्तराष्ट्रस्य सैन्येषु भेरीणां नास्ति निस्वनः अनाहताः पाण्डवानां नदन्ति पटहाः किल 20 उदपानाश च नर्दन्ति यथा गॊवृषभास तथा धार्तराष्ट्रस्य सैन्येषु तत्पराभव लक्षणम 21 मांसशॊणितवर्षं च वृष्टं देवेन माधव तथा गन्धर्वनगरं भानुमन्तम उपस्थितम सप्राकारं सपरिखं सवप्रं चारुतॊरणम 22 कृष्णश च परिघस तत्र भानुम आवृत्य तिष्ठति उदयास्तमये संध्ये वेदयानॊ महद भयम एका सृग वाशते घॊरं तत्पराभव लक्षणम 23 कृष्ण गरीवाश च शकुना कम्बमाना भयानकाः संध्याम अभिमुखा यान्ति तत्पराभव लक्षणम 24 बराह्मणान परथमं दवेष्टि गुरूंश च मधुसूदन भृत्यान भक्तिमतश चापि तत्पराभव लक्षणम 25 पूर्वा दिग लॊहिताकारा शस्त्रवर्णा च दक्षिणा आमपात्रप्रतीकाशा पश्चिमा मधुसूदन 26 परदीप्ताश च दिशः सर्वा धार्तराष्ट्रस्य माधव महद भयं वेदयन्ति तस्मिन्न उत्पातलक्षणे 27 सहस्रपादं परासादं सवप्नान्ते सम युधिष्ठिरः अधिरॊहन मया दृष्टः सह भरातृभिर अच्युत 28 शवेतॊष्णीषाश च दृश्यन्ते सर्वे ते शुक्लवाससः आसनानि च शुभ्राणि सर्वेषाम उपलक्षये 29 तव चापि मया कृष्ण सवप्नान्ते रुधिराविला आन्त्रेण पृथिवी दृष्टा परिक्षिप्ता जनार्दन 30 अस्थि संचयम आरूढश चामितौजा युधिष्ठिरः सुवर्णपात्र्यां संहृष्टॊ भुक्तवान घृतपायसम 31 युधिष्ठिरॊ मया दृष्टॊ गरसमानॊ वसुंधराम तवया दत्ताम इमां वयक्तं भॊक्ष्यते स वसुंधराम 32 उच्चं पर्वतम आरूढॊ भीमकर्मा वृकॊदरः गदापाणिर नरव्याघ्रॊ वीक्षन्न इव महीम इमाम 33 कषपयिष्यति नः सर्वान स सुव्यक्तं महारणे विदितं मे हृषीकेश यतॊ धर्मस ततॊ जयः 34 पाण्डुरं गमम आरूढॊ गाण्डीवी सधनंजयः तवया सार्धं हृषीकेश शरिया परमया जवलन 35 यूयं सर्वान वधिष्यध्वं तत्र मे नास्ति संशयः पार्थिवान समरे कृष्ण दुर्यॊधन पुरॊगमान 36 नकुलः सहदेवश च सात्यकिश च महारथः शुद्धकेयूर कण्ठत्राः शुक्लमाल्याम्बरावृताः 37 अधिरूढा नरव्याघ्रा नरवाहनम उत्तमम तरय एते महामात्राः पाण्डुरच छत्रवाससः 38 शवेतॊष्णीषाश च दृश्यन्ते तरय एव जनार्दन धार्तराष्ट्रस्य सैन्येषु तान्विजानीहि केशव 39 अश्वत्थामा कृपश चैव कृतवर्मा च सात्वतः रक्तॊष्णीषाश च दृश्यन्ते सर्वे माधव पार्थिवाः 40 उष्ट्रयुक्तं समारूढौ भीष्मद्रॊणौ जनार्दन मया सार्धं महाबाहॊ धार्तराष्ट्रेण चाभिभॊ 41 अगस्त्यशास्तां च दिशं परयाताः सम जनार्दन अचिरेणैव कालेन पराप्स्यामॊ यमसादनम 42 अहं चान्ये च राजानॊ यच च तत कषत्रमण्डलम गाण्डीवाग्निं परवेक्ष्याम इति मे नास्ति संशयः 43 उपस्थित विनाशेयं नूनम अद्य वसुंधरा तथा हि मे वचः कर्ण नॊपैति हृदयं तव 44 सर्वेषां तात भूतानां विनाशे समुपस्थिते अनयॊ नयसंकाशॊ हृदयान नापसर्पति 45 अपि तवा कृष्ण पश्याम जीवन्तॊ ऽसमान महारणात समुत्तीर्णा महाबाहॊ वीर कषयविनाशनात 46 अथ वा संगमः कृष्ण सवर्गे नॊ भविता धरुवम तत्रेदानीं समेष्यामः पुनः सार्धं तवयानघ 47 इत्य उक्त्वा माधवं कर्णः परिष्वज्य च पीडितम विसर्जितः केशवेन रथॊपस्थाद अवातरत 48 ततः सवरथम आस्थाय जाम्बूनदविभूषितम सहास्माभिर निववृते राध्येयॊ दीनमानसः 49 ततः शीघ्रतरं परायात केशवः सह सात्यकिः पुनर उच्चारयन वाणीं याहि याहीति सारथिम |
1
[s] keśavasya tu tad vākyaṃ karṇaḥ śrutvā hitaṃ śubham abravīd abhisaṃpūjya kṛṣṇaṃ madhu niṣūdanam jānan māṃ hiṃ mahābāho saṃmohayitum icchasi 2 yo 'yaṃ pṛthivyāḥ kārtsnyena vināśaḥ samupasthitaḥ nimittaṃ tatra śakunir ahaṃ duḥśāsanas tathā duryodhanaś ca nṛpatir dhṛtarāṣṭra suto 'bhavat 3 asaṃśayam idaṃ kṛṣṇa mahad yuddham upasthitam pāṇḍavānāṃ kurūṇāṃ ca ghoraṃ rudhirakardamam 4 rājāno rājaputrāś ca duryodhana vaśānugāḥ raṇe śastrāgninā dagdhāḥ prāpsyanti yamasādanam 5 svapnā hi bahavo ghorā dṛśyante madhusūdana nimittāni ca ghorāṇi tathotpātāḥ sudāruṇāḥ 6 parājayaṃ dhārtarāṣṭre vijayaṃ ca yudhiṣṭhire śaṃsanta iva vārṣṇeya vividhā lomaharṣaṇāḥ 7 prājāpatyaṃ hi nakṣatraṃ grahas tīkṣṇo mahādyutiḥ śanaiścaraḥ pīḍayati pīḍayan prāṇino 'dhikam 8 kṛtvā cāṅgārako vakraṃ jyeṣṭhāyāṃ madhusūdana anurādhāṃ prārthayate maitraṃ saṃśamayann iva 9 nūnaṃ maha bhayaṃ kṛṣṇa kurūṇāṃ samupasthitam viśeṣeṇa hi vārṣṇeya citrāṃ pīḍayate grahaḥ 10 somasya lakṣma vyāvṛttaṃ rāhur arkam upeṣyati divaś colkāḥ patanty etāḥ sanirghātāḥ sakampanāḥ 11 niṣṭananti ca mātaṅgā muñcanty asrūṇi vājinaḥ pānīyaṃ yavasaṃ cāpi nābhinandanti mādhava 12 prādurbhūteṣu caiteṣu bhayam āhur upasthitam nimitteṣu mahābāho dāruṇaṃ prāṇināśanam 13 alpe bhukte purīṣaṃ ca prabhūtam iha dṛśyate vājināṃ vāraṇānāṃ ca manuṣyāṇāṃ ca keśava 14 dhārtarāṣṭrasya sainyeṣu sarveṣu madhusūdana parābhavasya tal liṅgam iti prāhur manīṣiṇaḥ 15 prahṛṣṭaṃ vāhanaṃ kṛṣṇa pāṇḍavānāṃ pracakṣate pradakṣiṇā mṛgāś caiva tat teṣāṃ jayalakṣaṇam 16 apasavyā mṛgāḥ sarve dhārtarāṣṭrasya keśava vācaś cāpy aśarīriṇyas tatparābhava lakṣaṇam 17 mayūrāḥ puṣpaśakunā haṃsāḥ sārasacātakāḥ jīvaṃ jīvaka saṃghāś cāpy anugacchanti pāṇḍavān 18 gṛdhrāḥ kākā baḍāḥ śyenā yātudhānāḥ śalā vṛkāḥ makṣikāṇāṃ ca saṃghātā anugacchanti kauravān 19 dhārtarāṣṭrasya sainyeṣu bherīṇāṃ nāsti nisvanaḥ anāhatāḥ pāṇḍavānāṃ nadanti paṭahāḥ kila 20 udapānāś ca nardanti yathā govṛṣabhās tathā dhārtarāṣṭrasya sainyeṣu tatparābhava lakṣaṇam 21 māṃsaśoṇitavarṣaṃ ca vṛṣṭaṃ devena mādhava tathā gandharvanagaraṃ bhānumantam upasthitam saprākāraṃ saparikhaṃ savapraṃ cārutoraṇam 22 kṛṣṇaś ca parighas tatra bhānum āvṛtya tiṣṭhati udayāstamaye saṃdhye vedayāno mahad bhayam ekā sṛg vāśate ghoraṃ tatparābhava lakṣaṇam 23 kṛṣṇa grīvāś ca śakunā kambamānā bhayānakāḥ saṃdhyām abhimukhā yānti tatparābhava lakṣaṇam 24 brāhmaṇān prathamaṃ dveṣṭi gurūṃś ca madhusūdana bhṛtyān bhaktimataś cāpi tatparābhava lakṣaṇam 25 pūrvā dig lohitākārā śastravarṇā ca dakṣiṇā āmapātrapratīkāśā paścimā madhusūdana 26 pradīptāś ca diśaḥ sarvā dhārtarāṣṭrasya mādhava mahad bhayaṃ vedayanti tasminn utpātalakṣaṇe 27 sahasrapādaṃ prāsādaṃ svapnānte sma yudhiṣṭhiraḥ adhirohan mayā dṛṣṭaḥ saha bhrātṛbhir acyuta 28 śvetoṣṇīṣāś ca dṛśyante sarve te śuklavāsasaḥ āsanāni ca śubhrāṇi sarveṣām upalakṣaye 29 tava cāpi mayā kṛṣṇa svapnānte rudhirāvilā āntreṇa pṛthivī dṛṣṭā parikṣiptā janārdana 30 asthi saṃcayam ārūḍhaś cāmitaujā yudhiṣṭhiraḥ suvarṇapātryāṃ saṃhṛṣṭo bhuktavān ghṛtapāyasam 31 yudhiṣṭhiro mayā dṛṣṭo grasamāno vasuṃdharām tvayā dattām imāṃ vyaktaṃ bhokṣyate sa vasuṃdharām 32 uccaṃ parvatam ārūḍho bhīmakarmā vṛkodaraḥ gadāpāṇir naravyāghro vīkṣann iva mahīm imām 33 kṣapayiṣyati naḥ sarvān sa suvyaktaṃ mahāraṇe viditaṃ me hṛṣīkeśa yato dharmas tato jayaḥ 34 pāṇḍuraṃ gamam ārūḍho gāṇḍīvī sadhanaṃjayaḥ tvayā sārdhaṃ hṛṣīkeśa śriyā paramayā jvalan 35 yūyaṃ sarvān vadhiṣyadhvaṃ tatra me nāsti saṃśayaḥ pārthivān samare kṛṣṇa duryodhana purogamān 36 nakulaḥ sahadevaś ca sātyakiś ca mahārathaḥ śuddhakeyūra kaṇṭhatrāḥ śuklamālyāmbarāvṛtāḥ 37 adhirūḍhā naravyāghrā naravāhanam uttamam traya ete mahāmātrāḥ pāṇḍurac chatravāsasaḥ 38 śvetoṣṇīṣāś ca dṛśyante traya eva janārdana dhārtarāṣṭrasya sainyeṣu tānvijānīhi keśava 39 aśvatthāmā kṛpaś caiva kṛtavarmā ca sātvataḥ raktoṣṇīṣāś ca dṛśyante sarve mādhava pārthivāḥ 40 uṣṭrayuktaṃ samārūḍhau bhīṣmadroṇau janārdana mayā sārdhaṃ mahābāho dhārtarāṣṭreṇa cābhibho 41 agastyaśāstāṃ ca diśaṃ prayātāḥ sma janārdana acireṇaiva kālena prāpsyāmo yamasādanam 42 ahaṃ cānye ca rājāno yac ca tat kṣatramaṇḍalam gāṇḍīvāgniṃ pravekṣyāma iti me nāsti saṃśayaḥ 43 upasthita vināśeyaṃ nūnam adya vasuṃdharā tathā hi me vacaḥ karṇa nopaiti hṛdayaṃ tava 44 sarveṣāṃ tāta bhūtānāṃ vināśe samupasthite anayo nayasaṃkāśo hṛdayān nāpasarpati 45 api tvā kṛṣṇa paśyāma jīvanto 'smān mahāraṇāt samuttīrṇā mahābāho vīra kṣayavināśanāt 46 atha vā saṃgamaḥ kṛṣṇa svarge no bhavitā dhruvam tatredānīṃ sameṣyāmaḥ punaḥ sārdhaṃ tvayānagha 47 ity uktvā mādhavaṃ karṇaḥ pariṣvajya ca pīḍitam visarjitaḥ keśavena rathopasthād avātarat 48 tataḥ svaratham āsthāya jāmbūnadavibhūṣitam sahāsmābhir nivavṛte rādhyeyo dīnamānasaḥ 49 tataḥ śīghrataraṃ prāyāt keśavaḥ saha sātyakiḥ punar uccārayan vāṇīṃ yāhi yāhīti sārathim |
The Mahabharata in Sanskrit
Book 5
Chapter 142
|
1
[व] असिद्धानुनये कृष्णे कुरुभ्यः पाण्डवान गते अभिगम्य पृथां कषत्ता शनैः शॊचन्न इवाब्रवित 2 जानासि मे जीवपुत्रे भावं नित्यम अनुग्रहे करॊशतॊ न च गृह्णीते वचनं मे सुयॊधनः 3 उपपन्नॊ हय असौ राजा चेदिपाञ्चालकेकयैः भीमार्जुनाभ्यां कृष्णेन युयुधान यमैर अपि 4 उपप्लव्ये निविष्टॊ ऽपि धर्मम एव युधिष्ठिरः काङ्क्षते जञातिसौहार्दाद बलवान दुर्बलॊ यथा 5 राजा तु धृतराष्ट्रॊ ऽयं वयॊवृद्धॊ न शाम्यति मत्तः पुत्र मदेनैव विधर्मे पथि वर्तते 6 जयद्रथस्य कर्णस्य तथा दुःशासनस्य च सौबलस्य च दुर्बुद्ध्या मिथॊ भेदः परवर्तते 7 अधर्मेण हि धर्मिष्ठं हृतं वै राज्यम ईदृशम येषां तेषाम अयं धर्मः सानुबन्धॊ भविष्यति 8 हरियमाणे बलाद धर्मे कुरुभिः कॊ न संज्वरेत असाम्ना केशवे याते समुद्यॊक्ष्यन्ति पाण्डवाः 9 ततः कुरूणाम अनयॊ भविता वीर नाशनः चिन्तयन न लभे निद्राम अहःसु च निशासु च 10 शरुत्वा तु कुन्ती तद वाक्यम अर्थकामेन भाषितम अनिष्टनन्ती दुःखार्ता मनसा विममर्श ह 11 धिग अस्त्व अर्थं यत्कृते ऽयं महाञ जञातिवधे कषयः वर्त्स्यते सुहृदां हय एषां युद्धे ऽसमिन वै पराभवः 12 पाण्डवाश चेदिपाञ्चाला यादवाश च समागताः भारतैर यदि यॊत्स्यन्ति किं नु दुःखम अतः परम 13 पश्ये दॊषं धरुवं युद्धे तथा युद्धे पराभवम अधनस्य मृतं शरेयॊ न हि जञातिक्षये जयः 14 पितामहः शांतनव आचार्यश च युधां पतिः कर्णश च धार्तराष्ट्रार्थं वर्धयन्ति भयं मम 15 नाचार्यः कामवाञ शिष्यैर दरॊणॊ युध्येत जातुचित पाण्डवेषु कथं हार्दं कुर्यान न च पितामहः 16 अयं तव एकॊ वृथा दृष्टिर धार्तराष्ट्रस्य दुर्मतेः मॊहानुवर्ती सततं पापॊ दवेष्टि च पाण्डवान 17 महत्य अनर्थे निर्बन्धी बलवांश च विशेषतः कर्णः सदा पाण्डवानां तन मे दहति सांप्रतम 18 आशंसे तव अद्य कर्णस्य मनॊ ऽहं पाण्डवान परति परसादयितुम आसाद्य दर्शयन्ती यथातथम 19 तॊषितॊ भवगान यत्र दुर्वासा मे वरं ददौ आह्वानं देव संयुक्तं वसन्त्याः पितृवेश्मनि 20 साहम अन्तःपुरे राज्ञः कुन्तिभॊजपुरस्कृता चिन्तयन्ती बहुविधं हृदयेन विदूयता 21 बलाबलं च मन्त्राणां बराह्मणस्य च वाग्बलम सत्रीभावाद बालभावाच च निन्तयन्ती पुनः पुनः 22 धात्र्या विश्रब्धया गुप्ता सखीजनवृता तदा दॊषं परिहरन्ती च पितुश चारित्ररक्षिणी 23 कथं नु सुकृतं मे सयान नापराधवती कथम भवेयम इति संचिन्त्य बराह्मणं तं नमस्य च 24 कौतूहलात तु तं लब्ध्वा बालिश्याद आचरं तदा कन्या सती देवम अर्कम आसादयम अहं ततः 25 यॊ ऽसौ कानीन गर्भॊ मे पुत्रवत परिवर्तितः कस्मान न कुर्याद वचनं पथ्यं भरातृहितं तथा 26 इति कुन्ती विनिश्चित्य कार्यं निश्चितम उत्तमम कार्यार्थम अभिनिर्याय ययौ भागीरथीं परति 27 आत्मजस्य ततस तस्य घृणिनः सत्यसङ्गिनः गङ्गातीरे पृथाशृण्वद उपाध्ययन निस्वनम 28 पराङ्मुखस्यॊर्ध्व बाहॊः सा पर्यतिष्ठत पृष्ठतः जप्यावसानं कार्यार्थं परतीक्षन्ती तपस्विनी 29 अतिष्ठत सूर्यतापार्ता कर्णस्यॊत्तर वाससि कौरव्य पत्नी वार्ष्णेयी पद्ममालेव शुष्यती 30 आ पृष्ठतापाज जप्त्वा स परिवृत्य यतव्रतः दृष्ट्वा कुन्तीम उपातिष्ठद अभिवाद्य कृताञ्जलिः यथान्यायं महातेजा मानी धर्मभृतां वरः |
1
[v] asiddhānunaye kṛṣṇe kurubhyaḥ pāṇḍavān gate abhigamya pṛthāṃ kṣattā śanaiḥ śocann ivābravit 2 jānāsi me jīvaputre bhāvaṃ nityam anugrahe krośato na ca gṛhṇīte vacanaṃ me suyodhanaḥ 3 upapanno hy asau rājā cedipāñcālakekayaiḥ bhīmārjunābhyāṃ kṛṣṇena yuyudhāna yamair api 4 upaplavye niviṣṭo 'pi dharmam eva yudhiṣṭhiraḥ kāṅkṣate jñātisauhārdād balavān durbalo yathā 5 rājā tu dhṛtarāṣṭro 'yaṃ vayovṛddho na śāmyati mattaḥ putra madenaiva vidharme pathi vartate 6 jayadrathasya karṇasya tathā duḥśāsanasya ca saubalasya ca durbuddhyā mitho bhedaḥ pravartate 7 adharmeṇa hi dharmiṣṭhaṃ hṛtaṃ vai rājyam īdṛśam yeṣāṃ teṣām ayaṃ dharmaḥ sānubandho bhaviṣyati 8 hriyamāṇe balād dharme kurubhiḥ ko na saṃjvaret asāmnā keśave yāte samudyokṣyanti pāṇḍavāḥ 9 tataḥ kurūṇām anayo bhavitā vīra nāśanaḥ cintayan na labhe nidrām ahaḥsu ca niśāsu ca 10 śrutvā tu kuntī tad vākyam arthakāmena bhāṣitam aniṣṭanantī duḥkhārtā manasā vimamarśa ha 11 dhig astv arthaṃ yatkṛte 'yaṃ mahāñ jñātivadhe kṣayaḥ vartsyate suhṛdāṃ hy eṣāṃ yuddhe 'smin vai parābhavaḥ 12 pāṇḍavāś cedipāñcālā yādavāś ca samāgatāḥ bhāratair yadi yotsyanti kiṃ nu duḥkham ataḥ param 13 paśye doṣaṃ dhruvaṃ yuddhe tathā yuddhe parābhavam adhanasya mṛtaṃ śreyo na hi jñātikṣaye jayaḥ 14 pitāmahaḥ śāṃtanava ācāryaś ca yudhāṃ patiḥ karṇaś ca dhārtarāṣṭrārthaṃ vardhayanti bhayaṃ mama 15 nācāryaḥ kāmavāñ śiṣyair droṇo yudhyeta jātucit pāṇḍaveṣu kathaṃ hārdaṃ kuryān na ca pitāmahaḥ 16 ayaṃ tv eko vṛthā dṛṣṭir dhārtarāṣṭrasya durmateḥ mohānuvartī satataṃ pāpo dveṣṭi ca pāṇḍavān 17 mahaty anarthe nirbandhī balavāṃś ca viśeṣataḥ karṇaḥ sadā pāṇḍavānāṃ tan me dahati sāṃpratam 18 āśaṃse tv adya karṇasya mano 'haṃ pāṇḍavān prati prasādayitum āsādya darśayantī yathātatham 19 toṣito bhavagān yatra durvāsā me varaṃ dadau āhvānaṃ deva saṃyuktaṃ vasantyāḥ pitṛveśmani 20 sāham antaḥpure rājñaḥ kuntibhojapuraskṛtā cintayantī bahuvidhaṃ hṛdayena vidūyatā 21 balābalaṃ ca mantrāṇāṃ brāhmaṇasya ca vāgbalam strībhāvād bālabhāvāc ca nintayantī punaḥ punaḥ 22 dhātryā viśrabdhayā guptā sakhījanavṛtā tadā doṣaṃ pariharantī ca pituś cāritrarakṣiṇī 23 kathaṃ nu sukṛtaṃ me syān nāparādhavatī katham bhaveyam iti saṃcintya brāhmaṇaṃ taṃ namasya ca 24 kautūhalāt tu taṃ labdhvā bāliśyād ācaraṃ tadā kanyā satī devam arkam āsādayam ahaṃ tataḥ 25 yo 'sau kānīna garbho me putravat parivartitaḥ kasmān na kuryād vacanaṃ pathyaṃ bhrātṛhitaṃ tathā 26 iti kuntī viniścitya kāryaṃ niścitam uttamam kāryārtham abhiniryāya yayau bhāgīrathīṃ prati 27 ātmajasya tatas tasya ghṛṇinaḥ satyasaṅginaḥ gaṅgātīre pṛthāśṛṇvad upādhyayana nisvanam 28 prāṅmukhasyordhva bāhoḥ sā paryatiṣṭhata pṛṣṭhataḥ japyāvasānaṃ kāryārthaṃ pratīkṣantī tapasvinī 29 atiṣṭhat sūryatāpārtā karṇasyottara vāsasi kauravya patnī vārṣṇeyī padmamāleva śuṣyatī 30 ā pṛṣṭhatāpāj japtvā sa parivṛtya yatavrataḥ dṛṣṭvā kuntīm upātiṣṭhad abhivādya kṛtāñjaliḥ yathānyāyaṃ mahātejā mānī dharmabhṛtāṃ varaḥ |
The Mahabharata in Sanskrit
Book 5
Chapter 143
|
1
[कर्ण] राधेयॊ ऽहम आधिरथिः कर्णस तवाम अभिवादये पराप्ता किमर्थं बवती बरूहि किं करवाणि ते 2 कौन्तेयस तवं न राधेयॊ न तवाधिरथः पिता नासि सूत कुले जातः कर्ण तद विद्धि मे वचः 3 कानीनस तवं मया जातः पूर्वजः कुक्षिणा धृतः कुन्तिभॊजस्य भवने पार्थस तवम असि पुत्रक 4 परकाशकर्मा तपनॊ यॊ ऽयं देवॊ विरॊचनः अजीजनत तवां मय्य एष कर्ण शस्त्रभृतां वरम 5 कुण्डली बद्धकवचॊ देवगर्भः शरिया वृतः जातस तवम असि दुर्धर्ष मया पुत्र पितुर गृहे 6 स तवं भरातॄन असंबुद्ध्वा मॊहाद यद उपसेवसे धार्तराष्ट्रान न तद युक्तं तवयि पुत्र विशेषतः 7 एवद धर्मफलं पुत्र नराणां धर्मनिश्चये यत तुष्यन्त्य अस्य पितरॊ माता चाप्य एकदर्शिनी 8 अर्जुनेनार्जितां पूर्वं हृतां लॊभाद असाधुभिः आच्छिद्य धार्तराष्ट्रेभ्यॊ भुङ्क्ष्व यौधिष्ठिरीं शरियम 9 अद्य पश्यन्तु कुरवः कर्णार्जुन समागमम सौभ्रात्रेण तद आलक्ष्य संनमन्ताम असाधवः 10 कर्णार्जुनौ वै भवतां यथा राम जनार्दनौ असाध्यं कुं नु लॊके सयाद युवयॊः सहितात्मनॊः 11 कर्ण शॊभिष्यसे नूनं पञ्चभिर भरातृभिर वृतः वेदैः परिवृतॊ बरह्मा यथा वेदाङ्गपञ्चमैः 12 उपपन्नॊ गुणैः शरेष्ठॊ जयेष्ठः शरेष्ठेषु बन्धुषु सूतपुत्रेति मा शब्दः पार्थस तवम असि वीर्यवान |
1
[karṇa] rādheyo 'ham ādhirathiḥ karṇas tvām abhivādaye prāptā kimarthaṃ bavatī brūhi kiṃ karavāṇi te 2 kaunteyas tvaṃ na rādheyo na tavādhirathaḥ pitā nāsi sūta kule jātaḥ karṇa tad viddhi me vacaḥ 3 kānīnas tvaṃ mayā jātaḥ pūrvajaḥ kukṣiṇā dhṛtaḥ kuntibhojasya bhavane pārthas tvam asi putraka 4 prakāśakarmā tapano yo 'yaṃ devo virocanaḥ ajījanat tvāṃ mayy eṣa karṇa śastrabhṛtāṃ varam 5 kuṇḍalī baddhakavaco devagarbhaḥ śriyā vṛtaḥ jātas tvam asi durdharṣa mayā putra pitur gṛhe 6 sa tvaṃ bhrātṝn asaṃbuddhvā mohād yad upasevase dhārtarāṣṭrān na tad yuktaṃ tvayi putra viśeṣataḥ 7 evad dharmaphalaṃ putra narāṇāṃ dharmaniścaye yat tuṣyanty asya pitaro mātā cāpy ekadarśinī 8 arjunenārjitāṃ pūrvaṃ hṛtāṃ lobhād asādhubhiḥ ācchidya dhārtarāṣṭrebhyo bhuṅkṣva yaudhiṣṭhirīṃ śriyam 9 adya paśyantu kuravaḥ karṇārjuna samāgamam saubhrātreṇa tad ālakṣya saṃnamantām asādhavaḥ 10 karṇārjunau vai bhavatāṃ yathā rāma janārdanau asādhyaṃ kuṃ nu loke syād yuvayoḥ sahitātmanoḥ 11 karṇa śobhiṣyase nūnaṃ pañcabhir bhrātṛbhir vṛtaḥ vedaiḥ parivṛto brahmā yathā vedāṅgapañcamaiḥ 12 upapanno guṇaiḥ śreṣṭho jyeṣṭhaḥ śreṣṭheṣu bandhuṣu sūtaputreti mā śabdaḥ pārthas tvam asi vīryavān |
The Mahabharata in Sanskrit
Book 5
Chapter 144
|
1
[व] ततः सूर्यान निश्चरितां कर्णः शुश्राव भारतीम दुरत्ययां परणयिनीं पितृवद भास्करेरिताम 2 सत्यम आह पृथा वाक्यं कर्ण मातृवचः कुरु शरेयस ते सयान नरव्याघ्र सर्वम आचरतस तथा 3 एवम उक्तस्य मात्रा च सवयं पित्रा च भानुना चचाल नैव कर्णस्य मतिः सत्यधृतेस तदा 4 न ते न शरद्दधे वाक्यं कषत्रिये भाषितं तवया धर्मद्वारं ममैतत सयान नियॊग करणं तव 5 अकरॊन मयि यत पापं भवती सुमहात्ययम अवकीर्णॊ ऽसमि ते तेन तद यशः कीर्तिनाशनम 6 अहं च कषत्रियॊ जातॊ न पराप्तः कषत्रसत्क्रियाम तवत्कृते किं नु पापीयः शत्रुः कुर्यान ममाहितम 7 करिया काले तव अनुक्रॊशम अकृत्वा तवम इमं मम हीनसंस्कार समयम अद्य मां समचूचुदः 8 न वै मम हितं पूर्वं मातृवच चेष्टितं तवया सा मां संबॊधयस्य अद्य केवलात्म हितैषिणी 9 कृष्णेन सहितात कॊ वै न वयथेत धनंजयात कॊ ऽदय भीतं न मां विद्यात पार्थानां समितिं गतम 10 अभ्राता विदितः पूर्वं युद्धकाले परकाशितः पाण्डवान यदि गच्छामि किं मां कषत्रं वदिष्यति 11 सर्वकामैः संविभक्तः पूजितश च सदा भृशम अहं वै धार्तराष्ट्राणां कुर्यां तद अफलं कथम 12 उपनह्य परैर वैरं ये मां नित्यम उपासते नमस्कुर्वन्ति च सदा वसवॊ वासवं यथा 13 मम पराणेन ये शत्रूञ शक्ताः परतिसमासितुम मन्यन्ते ऽदय कथं तेषाम अहं भिन्द्यां मनॊरथम 14 मया पलवेन संग्रामं तितीर्षन्ति दुरत्ययम अपारे पारकामा ये तयजेयं तान अहं कथम 15 अयं हि कालः संप्राप्तॊ धार्तराष्ट्रॊपजीविनाम निर्वेष्टव्यं मया तत्र पराणान अपरिरक्षता 16 कृतार्थाः सुभृता ये हि कृत्यकाल उपस्थिते अनवेक्ष्य कृतं पापा विकुर्वन्त्य अनवस्थिताः 17 राजकिल्बिषिणां तेषां भर्तृपिण्डापहारिणाम नैवायं न परॊ लॊकॊ विद्यते पापकर्मणाम 18 धृतराष्ट्रस्य पुत्राणाम अर्थे यॊत्स्यामि ते सुतैः बलं च शक्तिं चास्थाय न वै तवय्य अनृतं वदे 19 आनृशंस्यम अथॊ वृत्तं रक्षन सत्पुरुषॊचितम अतॊ ऽरथकरम अप्य एतन न करॊम्य अद्य ते वचः 20 न तु ते ऽयं समारम्भॊ मयि मॊघॊ भविष्यति वध्यान विषह्यान संग्रामे न हनिष्यामि ते सुतान युधिष्ठिरं च भीमं च यमौ चैवार्जुनाद ऋते 21 अर्जुनेन समं युद्धं मम यौधिष्ठिरे बले अर्जुनं हि निहन्त्य आजौ संप्राप्तं सयात फलं मया यशसा चापि युज्येयं निहतः सव्यसाचिना 22 न ते जातु नशिष्यन्ति पुत्राः पञ्च यशस्विनि निरर्जुनाः सकर्णा वा सार्जुना व हते मयि 23 इति कर्णवचः शरुत्वा कुन्ती दुःखात परवेपती उवाच पुत्रम आश्लिष्य कर्णं धैर्याद अकम्पितम 24 एवं वै भाव्यम एतेन कषयं यास्यन्ति कौरवः यथा तवं भाषसे कर्ण दैवं तु बलवत्तरम 25 तवया चतुर्णां भरातॄणाम अभयं शत्रुकर्शन दत्तं तत परतिजानीहि संगर परतिमॊचनम 26 अनामयं सवस्ति चेति पृथाथॊ कर्णम अब्रवी तां कर्णॊ ऽभयवदत परीतस ततस तौ जग्मतुः पृथक |
1
[v] tataḥ sūryān niścaritāṃ karṇaḥ śuśrāva bhāratīm duratyayāṃ praṇayinīṃ pitṛvad bhāskareritām 2 satyam āha pṛthā vākyaṃ karṇa mātṛvacaḥ kuru śreyas te syān naravyāghra sarvam ācaratas tathā 3 evam uktasya mātrā ca svayaṃ pitrā ca bhānunā cacāla naiva karṇasya matiḥ satyadhṛtes tadā 4 na te na śraddadhe vākyaṃ kṣatriye bhāṣitaṃ tvayā dharmadvāraṃ mamaitat syān niyoga karaṇaṃ tava 5 akaron mayi yat pāpaṃ bhavatī sumahātyayam avakīrṇo 'smi te tena tad yaśaḥ kīrtināśanam 6 ahaṃ ca kṣatriyo jāto na prāptaḥ kṣatrasatkriyām tvatkṛte kiṃ nu pāpīyaḥ śatruḥ kuryān mamāhitam 7 kriyā kāle tv anukrośam akṛtvā tvam imaṃ mama hīnasaṃskāra samayam adya māṃ samacūcudaḥ 8 na vai mama hitaṃ pūrvaṃ mātṛvac ceṣṭitaṃ tvayā sā māṃ saṃbodhayasy adya kevalātma hitaiṣiṇī 9 kṛṣṇena sahitāt ko vai na vyatheta dhanaṃjayāt ko 'dya bhītaṃ na māṃ vidyāt pārthānāṃ samitiṃ gatam 10 abhrātā viditaḥ pūrvaṃ yuddhakāle prakāśitaḥ pāṇḍavān yadi gacchāmi kiṃ māṃ kṣatraṃ vadiṣyati 11 sarvakāmaiḥ saṃvibhaktaḥ pūjitaś ca sadā bhṛśam ahaṃ vai dhārtarāṣṭrāṇāṃ kuryāṃ tad aphalaṃ katham 12 upanahya parair vairaṃ ye māṃ nityam upāsate namaskurvanti ca sadā vasavo vāsavaṃ yathā 13 mama prāṇena ye śatrūñ śaktāḥ pratisamāsitum manyante 'dya kathaṃ teṣām ahaṃ bhindyāṃ manoratham 14 mayā plavena saṃgrāmaṃ titīrṣanti duratyayam apāre pārakāmā ye tyajeyaṃ tān ahaṃ katham 15 ayaṃ hi kālaḥ saṃprāpto dhārtarāṣṭropajīvinām nirveṣṭavyaṃ mayā tatra prāṇān aparirakṣatā 16 kṛtārthāḥ subhṛtā ye hi kṛtyakāla upasthite anavekṣya kṛtaṃ pāpā vikurvanty anavasthitāḥ 17 rājakilbiṣiṇāṃ teṣāṃ bhartṛpiṇḍāpahāriṇām naivāyaṃ na paro loko vidyate pāpakarmaṇām 18 dhṛtarāṣṭrasya putrāṇām arthe yotsyāmi te sutaiḥ balaṃ ca śaktiṃ cāsthāya na vai tvayy anṛtaṃ vade 19 ānṛśaṃsyam atho vṛttaṃ rakṣan satpuruṣocitam ato 'rthakaram apy etan na karomy adya te vacaḥ 20 na tu te 'yaṃ samārambho mayi mogho bhaviṣyati vadhyān viṣahyān saṃgrāme na haniṣyāmi te sutān yudhiṣṭhiraṃ ca bhīmaṃ ca yamau caivārjunād ṛte 21 arjunena samaṃ yuddhaṃ mama yaudhiṣṭhire bale arjunaṃ hi nihanty ājau saṃprāptaṃ syāt phalaṃ mayā yaśasā cāpi yujyeyaṃ nihataḥ savyasācinā 22 na te jātu naśiṣyanti putrāḥ pañca yaśasvini nirarjunāḥ sakarṇā vā sārjunā va hate mayi 23 iti karṇavacaḥ śrutvā kuntī duḥkhāt pravepatī uvāca putram āśliṣya karṇaṃ dhairyād akampitam 24 evaṃ vai bhāvyam etena kṣayaṃ yāsyanti kauravaḥ yathā tvaṃ bhāṣase karṇa daivaṃ tu balavattaram 25 tvayā caturṇāṃ bhrātṝṇām abhayaṃ śatrukarśana dattaṃ tat pratijānīhi saṃgara pratimocanam 26 anāmayaṃ svasti ceti pṛthātho karṇam abravī tāṃ karṇo 'bhyavadat prītas tatas tau jagmatuḥ pṛthak |
The Mahabharata in Sanskrit
Book 5
Chapter 145
|
1
[व] आगम्य हास्तिनपुराद उपप्लव्यम अरिंदमः पाण्डवानां यथावृत्तं केशवः सर्वम उक्तवान 2 संभाष्य सुचिरं कालं मन्त्रयित्वा पुनः पुनः सवम एवावसथं शौरिर विश्रामार्थं जगाम ह 3 विसृज्य सर्वान नृपतीन विराट परमुखांस तदा पाण्डवा भरातरः पञ्च भानाव अस्तं गते सति 4 संध्याम उपास्य धयायन्तस तम एव गतमानसाः आनाय्य कृष्णं दाशार्हं पुनर मन्त्रम अमन्त्रयन 5 तवया नागपुरं गत्वा सभायां धृतराष्ट्रजः किम उक्तः पुण्डरीकाक्ष तन नः शंसितुम अर्हसि 6 मया नागपुरं गत्वा सभायां धृतराष्ट्रजः तथ्यं पथ्यं हितं चॊक्तॊ न च गृह्णाति दुर्मतिः 7 तस्मिन्न उत्पथम आपन्ने कुरुवृद्धः पितामहः किम उक्तवान हृषीकेश दुर्यॊधनम अमर्षणम आचार्यॊ वा महाबाहॊ भारद्वाजः किम अब्रवीत 8 पिता यवीयान अस्माकं कषत्ता धर्मभृतां वरः पुत्रशॊकाभिसंतप्तः किम आह धृतराष्ट्रजम 9 किं च सर्वे नृपतयः सभायां ये समासते उक्तवन्तॊ यथातत्त्वं तद बरूहि तवं जनार्दन 10 उक्तवान हि भवान सर्वं वचनं कुरुमुख्ययॊः कामलॊभाभिभूतस्य मन्दस्य पराज्ञमानिनः 11 अप्रियं हृदये मह्यं तन न तिष्ठति केशव तेषां वाक्यानि गॊविन्द शरॊतुम इच्छाम्य अहं विभॊ 12 यथा च नाभिपद्येत कालस तात तथा कुरु भवान हि नॊ गतिः कृष्ण भवान नाथॊ भवान गुरुः 13 शृणु राजन यथा वाक्यम उक्तॊ राजा सुयॊधनः मध्ये कुरूणां राजेन्द्र सभायां तन निबॊध मे 14 मया वै शराविते वाक्ये जहास धृतराष्ट्रजः अथ भीष्मः सुसंक्रुद्ध इदं वचनम अब्रवीत 15 दुर्यॊधन निबॊधेदं कुलार्थे यद बरवीमि ते तच छरुत्वा राजशार्दूल सवकुलस्य हितं कुरु 16 मम तात पिता राजञ शंतनुर लॊकविश्रुतः तस्याहम एक एवासं पुत्रः पुत्रवतां वरः 17 तस्य बुद्धिः समुत्पन्ना दवितीयः सयात कथं सुतः एकपुत्रम अपुत्रं वै परवदन्ति मनीषिणः 18 न चॊच्छेदं कुलं यायाद विस्तीर्येत कथं यशः तस्याहम ईप्सितं बुद्ध्वा कालीं मातरम आवहम 19 परतिज्ञां कुष्करां कृत्वा पितुर अर्थे कुलस्य च अराजा चॊर्ध्वरेताश च यथा सुविदितं तव परतीतॊ निवसाम्य एष परतिज्ञाम अनुपालयन 20 तस्यां जज्ञे महाबाहुः शरीमान कुरुकुलॊद्वहः विचित्रवीर्यॊ धर्मात्मा कनीयान मम पार्थिवः 21 सवर्याते ऽहं पितरि तं सवराज्ये संन्यवेशयम विचित्रवीर्यं राजानं भृत्यॊ भूत्वा हय अधश चरः 22 तस्याहं सदृशान दारान राजेन्द्र समुदावहम जित्वा पार्थिव संघातम अपि ते बहुशः शरुतम 23 ततॊ रामेण समरे दवन्द्वयुद्धम उपागमम स हि राम भयाद एभिर नागरैर विप्रवासितः दारेष्व अतिप्रसक्तश च यक्ष्माणं समपद्यत 24 यदा तव अराजके राष्ट्रे न ववर्ष सुरेश्वरः तदाभ्यधावन माम एव परजाः कषुद्भयपीडिताः 25 उपक्षीणाः परजाः सर्वा राजा भव भवाय नः ईतयॊ नुद भद्रं ते शंतनॊः कुलवर्धन 26 पीड्यन्ते ते परजाः सर्वा वयाधिभिर भृशदारुणैः अल्पावशिष्टा गाङ्गेय ताः परित्रातुम अर्हसि 27 वयाधीन परणुद्य वीर तवं परजा धर्मेण पालय तवयि जीवति मा राष्ट्रं विनाशम उपगच्छतु 28 परजानां करॊशतीनां वै नैवाक्षुभ्यत मे मनः परतिज्ञां रक्षमाणस्य सद्वृत्तं समरतस तथा 29 ततः पौरा महाराज माता काली च मे शुभा भृत्याः पुरॊहिताचार्या बराह्मणाश च बहुश्रुताः माम ऊचुर भृशसंतप्ता भव राजेति संततम 30 परतीप रक्षितं राष्ट्रं तवां पराप्य विनशिष्यति स तवम अस्मद्धितार्थं वै राजा भव महामते 31 इत्य उक्तः पराञ्जलिर भूत्वा दुःखितॊ भृशम आतुरः तेभ्यॊ नयवेदयं पुत्र परतिज्ञां पितृगौरवात ऊर्ध्वरेता हय अराजा च कुलस्यार्थे पुनः पुनः 32 ततॊ ऽहं पराञ्जलिर भूत्वा मातरं संप्रसादयम नाम्ब शंतनुना जातः कौरवं वंशम उद्वहन परतिज्ञां वितथां कुर्याम इति राजन पुनः पुनः 33 विशेषतस तवदर्थं च धुरि मा मां नियॊजय अहं परेष्यश च दासश च तवाम्ब सुत वत्सले 34 एवं ताम अनुनीयाहं मातरं जनम एव च अयाचं भरातृदारेषु तदा वयासं महामुनिम 35 सह मात्रा महाराज परसाद्य तम ऋषिं तदा अपत्यार्थम अयाचं वै परसादं कृतवांश च सः तरीन सपुत्रान अजनयत तदा भरतसत्तम 36 अन्धः करण हीनेति न वै राजा पिता तव राजा तु पाण्डुर अभवन महात्मा लॊकविश्रुतः 37 स राजा तस्य ते पुत्राः पितुर दायाद्य हारिणः मा तात कलहं कार्षी राज्यस्यार्धं परदीयताम 38 मयि जीवति राज्यं कः संप्रशासेत पुमान इह मावमंस्था वचॊ मह्यं शमम इच्छामि वः सदा 39 न विशेषॊ ऽसति मे पुत्र तवयि तेषु च पार्थिव मतम एतत पितुस तुभ्यं गान्धार्याविदुरस्य च 40 शरॊतव्यं यदि वृद्धानां मातिशङ्कीर वचॊ मम नाशयिष्यसि मा सर्वम आत्मानं पृथिवीं तथा |
1
[v] āgamya hāstinapurād upaplavyam ariṃdamaḥ pāṇḍavānāṃ yathāvṛttaṃ keśavaḥ sarvam uktavān 2 saṃbhāṣya suciraṃ kālaṃ mantrayitvā punaḥ punaḥ svam evāvasathaṃ śaurir viśrāmārthaṃ jagāma ha 3 visṛjya sarvān nṛpatīn virāṭa pramukhāṃs tadā pāṇḍavā bhrātaraḥ pañca bhānāv astaṃ gate sati 4 saṃdhyām upāsya dhyāyantas tam eva gatamānasāḥ ānāyya kṛṣṇaṃ dāśārhaṃ punar mantram amantrayan 5 tvayā nāgapuraṃ gatvā sabhāyāṃ dhṛtarāṣṭrajaḥ kim uktaḥ puṇḍarīkākṣa tan naḥ śaṃsitum arhasi 6 mayā nāgapuraṃ gatvā sabhāyāṃ dhṛtarāṣṭrajaḥ tathyaṃ pathyaṃ hitaṃ cokto na ca gṛhṇāti durmatiḥ 7 tasminn utpatham āpanne kuruvṛddhaḥ pitāmahaḥ kim uktavān hṛṣīkeśa duryodhanam amarṣaṇam ācāryo vā mahābāho bhāradvājaḥ kim abravīt 8 pitā yavīyān asmākaṃ kṣattā dharmabhṛtāṃ varaḥ putraśokābhisaṃtaptaḥ kim āha dhṛtarāṣṭrajam 9 kiṃ ca sarve nṛpatayaḥ sabhāyāṃ ye samāsate uktavanto yathātattvaṃ tad brūhi tvaṃ janārdana 10 uktavān hi bhavān sarvaṃ vacanaṃ kurumukhyayoḥ kāmalobhābhibhūtasya mandasya prājñamāninaḥ 11 apriyaṃ hṛdaye mahyaṃ tan na tiṣṭhati keśava teṣāṃ vākyāni govinda śrotum icchāmy ahaṃ vibho 12 yathā ca nābhipadyeta kālas tāta tathā kuru bhavān hi no gatiḥ kṛṣṇa bhavān nātho bhavān guruḥ 13 śṛṇu rājan yathā vākyam ukto rājā suyodhanaḥ madhye kurūṇāṃ rājendra sabhāyāṃ tan nibodha me 14 mayā vai śrāvite vākye jahāsa dhṛtarāṣṭrajaḥ atha bhīṣmaḥ susaṃkruddha idaṃ vacanam abravīt 15 duryodhana nibodhedaṃ kulārthe yad bravīmi te tac chrutvā rājaśārdūla svakulasya hitaṃ kuru 16 mama tāta pitā rājañ śaṃtanur lokaviśrutaḥ tasyāham eka evāsaṃ putraḥ putravatāṃ varaḥ 17 tasya buddhiḥ samutpannā dvitīyaḥ syāt kathaṃ sutaḥ ekaputram aputraṃ vai pravadanti manīṣiṇaḥ 18 na cocchedaṃ kulaṃ yāyād vistīryeta kathaṃ yaśaḥ tasyāham īpsitaṃ buddhvā kālīṃ mātaram āvaham 19 pratijñāṃ kuṣkarāṃ kṛtvā pitur arthe kulasya ca arājā cordhvaretāś ca yathā suviditaṃ tava pratīto nivasāmy eṣa pratijñām anupālayan 20 tasyāṃ jajñe mahābāhuḥ śrīmān kurukulodvahaḥ vicitravīryo dharmātmā kanīyān mama pārthivaḥ 21 svaryāte 'haṃ pitari taṃ svarājye saṃnyaveśayam vicitravīryaṃ rājānaṃ bhṛtyo bhūtvā hy adhaś caraḥ 22 tasyāhaṃ sadṛśān dārān rājendra samudāvaham jitvā pārthiva saṃghātam api te bahuśaḥ śrutam 23 tato rāmeṇa samare dvandvayuddham upāgamam sa hi rāma bhayād ebhir nāgarair vipravāsitaḥ dāreṣv atiprasaktaś ca yakṣmāṇaṃ samapadyata 24 yadā tv arājake rāṣṭre na vavarṣa sureśvaraḥ tadābhyadhāvan mām eva prajāḥ kṣudbhayapīḍitāḥ 25 upakṣīṇāḥ prajāḥ sarvā rājā bhava bhavāya naḥ ītayo nuda bhadraṃ te śaṃtanoḥ kulavardhana 26 pīḍyante te prajāḥ sarvā vyādhibhir bhṛśadāruṇaiḥ alpāvaśiṣṭā gāṅgeya tāḥ paritrātum arhasi 27 vyādhīn praṇudya vīra tvaṃ prajā dharmeṇa pālaya tvayi jīvati mā rāṣṭraṃ vināśam upagacchatu 28 prajānāṃ krośatīnāṃ vai naivākṣubhyata me manaḥ pratijñāṃ rakṣamāṇasya sadvṛttaṃ smaratas tathā 29 tataḥ paurā mahārāja mātā kālī ca me śubhā bhṛtyāḥ purohitācāryā brāhmaṇāś ca bahuśrutāḥ mām ūcur bhṛśasaṃtaptā bhava rājeti saṃtatam 30 pratīpa rakṣitaṃ rāṣṭraṃ tvāṃ prāpya vinaśiṣyati sa tvam asmaddhitārthaṃ vai rājā bhava mahāmate 31 ity uktaḥ prāñjalir bhūtvā duḥkhito bhṛśam āturaḥ tebhyo nyavedayaṃ putra pratijñāṃ pitṛgauravāt ūrdhvaretā hy arājā ca kulasyārthe punaḥ punaḥ 32 tato 'haṃ prāñjalir bhūtvā mātaraṃ saṃprasādayam nāmba śaṃtanunā jātaḥ kauravaṃ vaṃśam udvahan pratijñāṃ vitathāṃ kuryām iti rājan punaḥ punaḥ 33 viśeṣatas tvadarthaṃ ca dhuri mā māṃ niyojaya ahaṃ preṣyaś ca dāsaś ca tavāmba suta vatsale 34 evaṃ tām anunīyāhaṃ mātaraṃ janam eva ca ayācaṃ bhrātṛdāreṣu tadā vyāsaṃ mahāmunim 35 saha mātrā mahārāja prasādya tam ṛṣiṃ tadā apatyārtham ayācaṃ vai prasādaṃ kṛtavāṃś ca saḥ trīn saputrān ajanayat tadā bharatasattama 36 andhaḥ karaṇa hīneti na vai rājā pitā tava rājā tu pāṇḍur abhavan mahātmā lokaviśrutaḥ 37 sa rājā tasya te putrāḥ pitur dāyādya hāriṇaḥ mā tāta kalahaṃ kārṣī rājyasyārdhaṃ pradīyatām 38 mayi jīvati rājyaṃ kaḥ saṃpraśāset pumān iha māvamaṃsthā vaco mahyaṃ śamam icchāmi vaḥ sadā 39 na viśeṣo 'sti me putra tvayi teṣu ca pārthiva matam etat pitus tubhyaṃ gāndhāryāvidurasya ca 40 śrotavyaṃ yadi vṛddhānāṃ mātiśaṅkīr vaco mama nāśayiṣyasi mā sarvam ātmānaṃ pṛthivīṃ tathā |
The Mahabharata in Sanskrit
Book 5
Chapter 146
|
1
[वासु] भीष्मेणॊक्ते ततॊ दरॊणॊ दुर्यॊधनम अभाषत मध्ये नृपाणां भद्रं ते वचनं वचनक्षमः 2 पातीपः शंतनुस तात कुरस्यार्थे यथॊत्थितः तथा देवव्रतॊ भीष्मः कुलस्यार्थे सथितॊ ऽभवत 3 ततः पाण्डुर नरपतिः सत्यसंधॊ जितेन्द्रियः राजा कुरूणां धर्मात्मा सुव्रतः सुसमाहितः 4 जयेष्ठाय राज्यम अददाद धृतराष्ट्राय धीमते यवीयसस तथा कषत्तुः कुरुवंशविवर्धनः 5 ततः सिंहासने राजन सथापयित्वैनम अच्युतम वनं जगाम कौरव्यॊ भार्याभ्यां सहितॊ ऽनघ 6 नीचैः सथित्वा तु विदुर उपास्ते सम विनीतवत परेष्यवत पुरुषव्याघ्रॊ वालव्यजनम उत्क्षिपन 7 ततः सर्वाः परजास तात धृतराष्ट्रं जनेश्वरम अन्वपद्यन्त विधिवद यथा पाण्डुं नराधिपम 8 विसृज्य धृतराष्ट्राय राज्यं स विदुराय च चचार पृथिवीं पाण्डुः सर्वां परपुरंजयः 9 कॊशसंजनने दाने भृत्यानां चान्ववेक्षणे भरणे चैव सर्वस्य विदुरः सत्यसंगरः 10 संधिविघ्रह संयुक्तॊ राज्ञः संवाहन करियाः अवैक्षत महातेजा भीष्मः परपुरंजयः 11 सिंहासनस्थॊ नृपतिर धृतराष्ट्रॊ महाबलः अन्वास्यमानः सततं विदुरेण महात्मना 12 कथं तस्य कुले जातः कुलभेदं वयवस्यसि संभूय भरातृभिः सार्धं भुङ्क्ष्व भॊगाञ जनाधिप 13 बरवीम्य अहं न कार्पण्यान नार्थहेतॊः कथं चन भीष्मेण दत्तम अश्नामि न तवया राजसत्तम 14 नाहं तवत्तॊ ऽभिकाङ्क्षिष्ये वृत्त्युपायं जनाधिप यतॊ भीष्मस ततॊ दरॊणॊ यद भीष्मस तव आह तत कुरु 15 दीयतां पाण्डुपुत्रेभ्यॊ राज्यार्धम अरिकर्शन समम आचार्यकं तात तव तेषां च मे सदा 16 अश्वथामा यथा मह्यं तथा शवेतहयॊ मम बहुना किं परलापेन यतॊ धर्मस ततॊ जयः 17 एवम उक्ते महाराज दरॊणेनामिततेजसा वयाजहार ततॊ वाक्यं विदुरः सत्यसंगरः पितुर वदनम अन्वीक्ष्य परिवृत्य च धर्मवित 18 देवव्रत निबॊधेदं वचनं मम भाषतः परनष्टः कौरवॊ वंशस तवयायं पुनर उद्धृतः 19 तन मे विलपमानस्य वचनं समुपेक्षसे कॊ ऽयं दुर्यॊधनॊ नाम कुले ऽसमिन कुलपांसनः 20 यस्य लॊभाभिभूतस्य मतिं समनुवर्तसे अनार्यस्याकृतज्ञस्य लॊभॊपहतचेतसः अतिक्रामति यः शास्त्रं पितुर धर्मार्थदर्शिनः 21 एते नश्यन्ति कुरवॊ दुर्यॊधनकृतेन वै यथा ते न परणश्येयुर महाराज तथा कुरु 22 मां चैव धृतराष्ट्रं च पूर्वम एव महाद्युते चित्रकार इवालेख्यं कृत्वा मा सम विनाशय परजापतिः परजाः सृष्ट्वा यथा संहरते तथा 23 नॊपेक्षस्व महाबाहॊ पश्यमानः कुलक्षयम अथ ते ऽदय मतिर नष्टा विनाशे परत्युपस्थिते वनं गच्छ मया सार्धं धृतराष्ट्रेण चैव ह 24 बद्ध्वा वा निकृतिप्रज्ञं धार्तराष्ट्रं सुदुर्मतिम साध्व इदं राज्यम अद्यास्तु पाण्डवैर अभिरक्षितम 25 परसीद राजशार्दूल विनाशॊ दृश्यते महान पाण्डवानां कुरूणां च राज्ञां चामिततेजसाम 26 विररामैवम उक्त्वा तु विदुरॊ दीनमानसः परध्यायमानः स तदा निःश्वसंश च पुनः पुनः 27 ततॊ ऽथ राज्ञः सुबलस्य पुत्री; धर्मार्थयुक्तं कुलनाश भीता दुर्यॊधनं पापमतिं नृशंसं; राज्ञां समक्षं सुतम आह कॊपात 28 ये पार्थिवा राजसभां परविष्टा; बरह्मर्षयॊ ये च सभासदॊ ऽनये शृण्वन्तु वक्ष्यामि तवापराधं; पापस्य सामात्यपरिच्छदस्य 29 राज्यं कुरूणाम अनुपूर्व भॊग्यं; करमागतॊ नः कुलधर्म एषः तवं पापबुद्धे ऽतिनृशंस कर्मन; राज्यं कुरूणाम अनयाद विहंसि 30 राज्ये सथितॊ धृतराष्ट्रॊ मनीषी; तस्यानुगॊ विदुरॊ दीर्घदर्शी एताव अतिक्रम्य कथं नृपत्वं; दुर्यॊधन परार्थयसे ऽदय मॊहात 31 राजा च कषत्ता च महानुभावौ; भीष्मे सथिते परवन्तौ भवेताम अयं तु धर्मज्ञतया महात्मा; न राज्यकामॊ नृपरॊ नदीजः 32 राज्यं तु पाण्डॊर इदम अप्रधृष्यं; तस्याद्य पुत्राः परभवन्ति नान्ये राज्यं तद एतन निखिलं पाण्डवानां; पैतामहं पुत्रपौत्रानुगामि 33 यद वै बरूते कुरुमुख्यॊ महात्मा; देवव्रतः सत्यसंधॊ मनीषी सर्वं तद अस्माभिर अहत्य धर्मं; गराह्यं सवधर्मं परिपालयद्भिः 34 अनुज्ञया चाथ महाव्रतस्य; बरूयान नृपॊ यद विदुरस तथैव कार्यं भवेत तत सुहृद्भिर नियुज्य; धर्मं पुरस्कृत्य सुदीर्घ कालम 35 नयायागतं राज्यम इदं कुरूणां; युधिष्ठिरः शास्तु वै धर्मपुत्रः परचॊदितॊ धृतराष्ट्रेण राज्ञा; पुरस्कृतः शांतनवेन चैव |
1
[vāsu] bhīṣmeṇokte tato droṇo duryodhanam abhāṣata madhye nṛpāṇāṃ bhadraṃ te vacanaṃ vacanakṣamaḥ 2 pātīpaḥ śaṃtanus tāta kurasyārthe yathotthitaḥ tathā devavrato bhīṣmaḥ kulasyārthe sthito 'bhavat 3 tataḥ pāṇḍur narapatiḥ satyasaṃdho jitendriyaḥ rājā kurūṇāṃ dharmātmā suvrataḥ susamāhitaḥ 4 jyeṣṭhāya rājyam adadād dhṛtarāṣṭrāya dhīmate yavīyasas tathā kṣattuḥ kuruvaṃśavivardhanaḥ 5 tataḥ siṃhāsane rājan sthāpayitvainam acyutam vanaṃ jagāma kauravyo bhāryābhyāṃ sahito 'nagha 6 nīcaiḥ sthitvā tu vidura upāste sma vinītavat preṣyavat puruṣavyāghro vālavyajanam utkṣipan 7 tataḥ sarvāḥ prajās tāta dhṛtarāṣṭraṃ janeśvaram anvapadyanta vidhivad yathā pāṇḍuṃ narādhipam 8 visṛjya dhṛtarāṣṭrāya rājyaṃ sa vidurāya ca cacāra pṛthivīṃ pāṇḍuḥ sarvāṃ parapuraṃjayaḥ 9 kośasaṃjanane dāne bhṛtyānāṃ cānvavekṣaṇe bharaṇe caiva sarvasya viduraḥ satyasaṃgaraḥ 10 saṃdhivighraha saṃyukto rājñaḥ saṃvāhana kriyāḥ avaikṣata mahātejā bhīṣmaḥ parapuraṃjayaḥ 11 siṃhāsanastho nṛpatir dhṛtarāṣṭro mahābalaḥ anvāsyamānaḥ satataṃ vidureṇa mahātmanā 12 kathaṃ tasya kule jātaḥ kulabhedaṃ vyavasyasi saṃbhūya bhrātṛbhiḥ sārdhaṃ bhuṅkṣva bhogāñ janādhipa 13 bravīmy ahaṃ na kārpaṇyān nārthahetoḥ kathaṃ cana bhīṣmeṇa dattam aśnāmi na tvayā rājasattama 14 nāhaṃ tvatto 'bhikāṅkṣiṣye vṛttyupāyaṃ janādhipa yato bhīṣmas tato droṇo yad bhīṣmas tv āha tat kuru 15 dīyatāṃ pāṇḍuputrebhyo rājyārdham arikarśana samam ācāryakaṃ tāta tava teṣāṃ ca me sadā 16 aśvathāmā yathā mahyaṃ tathā śvetahayo mama bahunā kiṃ pralāpena yato dharmas tato jayaḥ 17 evam ukte mahārāja droṇenāmitatejasā vyājahāra tato vākyaṃ viduraḥ satyasaṃgaraḥ pitur vadanam anvīkṣya parivṛtya ca dharmavit 18 devavrata nibodhedaṃ vacanaṃ mama bhāṣataḥ pranaṣṭaḥ kauravo vaṃśas tvayāyaṃ punar uddhṛtaḥ 19 tan me vilapamānasya vacanaṃ samupekṣase ko 'yaṃ duryodhano nāma kule 'smin kulapāṃsanaḥ 20 yasya lobhābhibhūtasya matiṃ samanuvartase anāryasyākṛtajñasya lobhopahatacetasaḥ atikrāmati yaḥ śāstraṃ pitur dharmārthadarśinaḥ 21 ete naśyanti kuravo duryodhanakṛtena vai yathā te na praṇaśyeyur mahārāja tathā kuru 22 māṃ caiva dhṛtarāṣṭraṃ ca pūrvam eva mahādyute citrakāra ivālekhyaṃ kṛtvā mā sma vināśaya prajāpatiḥ prajāḥ sṛṣṭvā yathā saṃharate tathā 23 nopekṣasva mahābāho paśyamānaḥ kulakṣayam atha te 'dya matir naṣṭā vināśe pratyupasthite vanaṃ gaccha mayā sārdhaṃ dhṛtarāṣṭreṇa caiva ha 24 baddhvā vā nikṛtiprajñaṃ dhārtarāṣṭraṃ sudurmatim sādhv idaṃ rājyam adyāstu pāṇḍavair abhirakṣitam 25 prasīda rājaśārdūla vināśo dṛśyate mahān pāṇḍavānāṃ kurūṇāṃ ca rājñāṃ cāmitatejasām 26 virarāmaivam uktvā tu viduro dīnamānasaḥ pradhyāyamānaḥ sa tadā niḥśvasaṃś ca punaḥ punaḥ 27 tato 'tha rājñaḥ subalasya putrī; dharmārthayuktaṃ kulanāśa bhītā duryodhanaṃ pāpamatiṃ nṛśaṃsaṃ; rājñāṃ samakṣaṃ sutam āha kopāt 28 ye pārthivā rājasabhāṃ praviṣṭā; brahmarṣayo ye ca sabhāsado 'nye śṛṇvantu vakṣyāmi tavāparādhaṃ; pāpasya sāmātyaparicchadasya 29 rājyaṃ kurūṇām anupūrva bhogyaṃ; kramāgato naḥ kuladharma eṣaḥ tvaṃ pāpabuddhe 'tinṛśaṃsa karman; rājyaṃ kurūṇām anayād vihaṃsi 30 rājye sthito dhṛtarāṣṭro manīṣī; tasyānugo viduro dīrghadarśī etāv atikramya kathaṃ nṛpatvaṃ; duryodhana prārthayase 'dya mohāt 31 rājā ca kṣattā ca mahānubhāvau; bhīṣme sthite paravantau bhavetām ayaṃ tu dharmajñatayā mahātmā; na rājyakāmo nṛparo nadījaḥ 32 rājyaṃ tu pāṇḍor idam apradhṛṣyaṃ; tasyādya putrāḥ prabhavanti nānye rājyaṃ tad etan nikhilaṃ pāṇḍavānāṃ; paitāmahaṃ putrapautrānugāmi 33 yad vai brūte kurumukhyo mahātmā; devavrataḥ satyasaṃdho manīṣī sarvaṃ tad asmābhir ahatya dharmaṃ; grāhyaṃ svadharmaṃ paripālayadbhiḥ 34 anujñayā cātha mahāvratasya; brūyān nṛpo yad viduras tathaiva kāryaṃ bhavet tat suhṛdbhir niyujya; dharmaṃ puraskṛtya sudīrgha kālam 35 nyāyāgataṃ rājyam idaṃ kurūṇāṃ; yudhiṣṭhiraḥ śāstu vai dharmaputraḥ pracodito dhṛtarāṣṭreṇa rājñā; puraskṛtaḥ śāṃtanavena caiva |
The Mahabharata in Sanskrit
Book 5
Chapter 147
|
1
[वासु] एवम उक्ते तु गान्धार्या धृतराष्ट्रॊ जनेश्वरः दुर्यॊधनम उवाचेदं नृपमध्ये जनाधिप 2 दुर्यॊधन निबॊधेदं यद वां वक्ष्यामि पुत्रक तथा तत कुरु भद्रं ते यद्य अस्ति पितृगौरवम 3 सॊमः परजापतिः पूर्वं कुरूणां वंशवर्धनः सॊमाद बभूव षष्ठॊ वै ययातिर नहुषात्मजः 4 तस्य पुत्रा बभूवुश च पञ्च राजर्षिसत्तमाः तेषां यदुर महातेजा जयेष्ठः समभवत परभुः 5 पूरुर यवीयांश च ततॊ यॊ ऽसमाकं वंशवर्धनः शर्मिष्ठायाः संप्रसूतॊ दुहितुर वृषपर्वणः 6 यदुश च भरतश्रेष्ठ देव यान्याः सुतॊ ऽभवत दौहित्रस तात शुक्रस्य काव्यस्यामित तेजसः 7 यादवानां कुलकरॊ बलवान वीर्यसंमतः अवमेने स तु कषत्रं दर्पपूर्णः सुमन्दधीः 8 न चातिष्ठत पितुः शास्त्रे बलदर्प विमॊहितः अवमेने च पितरं भरातॄंश चाप्य अपराजितः 9 पृथिव्यां चतुरन्तायां यदुर एवाभवद बली वशे कृत्वा स नृपतीन अवसन नागसाह्वये 10 तं पिता परमक्रुद्धॊ ययातिर नहुषात्मजः शशाप पुत्रं गान्धारे राज्या च वयपरॊपयत 11 य चैनम अन्ववर्तन्त भरातरॊ बलदर्पितम शशाप तान अपि करुद्धॊ ययातिस तनयान अथ 12 यवीयांसं ततः पूरुं पुत्रं सववशवर्तिनम राज्ये निवेशयाम आस विधेयं नृपसत्तमः 13 एवं जयेष्ठॊ ऽपय अथॊत्सिक्तॊ न राज्यम अभिजायते यवीयांसॊ ऽभिजायन्ते राज्यं वृद्धॊपसेवया 14 तथैव सर्वधर्मज्ञः पितुर मम पितामहः परतीपः पृथिवीपालस तरिषु लॊकेषु विश्रुतः 15 तस्य पार्थिव सिंहस्य राज्यं धर्मेण शासतः तरयः परजज्ञिरे पुत्रा देवकल्पा यशस्विनः 16 देवापिर अभवज जयेष्ठॊ बाह्लीकस तदनन्तरम तृतीयः शंतनुस तात धृतिमान मे पितामहः 17 देवापिस तु महातेजास तवग दॊषी राजसत्तमः धार्मिकः सत्यवादी च पितुः शुश्रूषणे रतः 18 पौरजानपदानां च संमतः साधु सत्कृतः सर्वेषां बालवृद्धानां देवापिर हृदयंगमः 19 पराज्ञश च सत्यसंधश च सर्वभूतहिते रतः वर्तमानः पितुः शास्त्रे बराह्मणानां तथैव च 20 बाह्लीकस्य परियॊ भराता शंतनॊश च महात्मनः सौभ्रात्रं च परं तेषां सहितानां महात्मनाम 21 अथ कालस्य पर्याये वृद्धॊ नृपतिसत्तमः संभारान अभिषेकार्थं कारयाम आस शास्त्रतः मङ्गलानि च सर्वाणि कारयाम आस चाभिभूः 22 तं बराह्मणाश च वृद्धाश च पौरजानपदैः सह सर्वे निवारयाम आसुर देवापेर अभिषेचनम 23 स तच छरुत्वा तु नृपतिर अभिषेकनिवारणम अश्रुकण्ठॊ ऽभवद राजा पर्यशॊचत चात्मजम 24 एवं वदान्यॊ धर्मज्ञः सत्यसंधश च सॊ ऽभवत परियः परजानाम अपि संस तवग दॊषेण परदूषितः 25 हीनाङ्गं पृथिवीपालं नाभिनन्दन्ति देवताः इति कृत्वा नृपश्रेष्ठं परत्यषेधन दविजर्षभाः 26 ततः परव्यथितात्मासौ पुत्रशॊकसमन्वितः ममार तं मृतं दृट्वा देवापिः संश्रितॊ वनम 27 बाह्लीकॊ मातुलकुले तयक्त्वा राज्यं वयवस्थितः पितृभ्रातॄन परित्यज्य पराप्तवान पुरम ऋद्धिमत 28 बाह्लीकेन तव अनुज्ञातः शंतनुर लॊकविश्रुतः पितर्य उपरते राजन राजा राज्यम अकारयत 29 तथैवाहं मतिमता परिचिन्त्येह पाण्डुना जयेष्ठः परभ्रंशितॊ राज्याद धीनाङ्ग इति भारत 30 पाण्डुस तु राज्यं संप्राप्तः कनीयान अपि सन नृपः विनाशे तस्य पुत्राणाम इदं राज्यम अरिंदम मय्य अभागिनि राज्याय कथं तवं राज्यम इच्छसि 31 युधिष्ठिरॊ राजपुत्रॊ महात्मा; नयायागतं राज्यम इदं च तस्य स कौरवस्यास्य जनस्य भर्ता; परशासिता चैव महानुभावः 32 स सत्यसंधः सतताप्रमत्तः; शास्त्रे सथितॊ बन्धुजनस्य साधुः परियः परजानां सुहृद अनुकम्पी; जितेन्द्रियः साधु जनस्य भर्ता 33 कषमा तितिक्षा दम आर्जवं च; सत्यव्रतत्वं शरुतम अप्रमादः भूतानुकम्पा हय अनुशासनं च; युधिष्ठिरे राजगुणाः समस्ताः 34 अराज पुत्रस तवम अनार्य वृत्तॊ; लुब्धस तथा बन्धुषु पापबुद्धिः करमागतं राज्यम इदं परेषां; हर्तुं कथं शक्ष्यसि दुर्विनीतः 35 परयच्छ राज्यार्थम अपेतमॊहः; सवाहनं तवं सपरिच्छदं च ततॊ ऽवशेषं तव जीवितस्य; सहानुजस्यैव भवेन नरेन्द्र |
1
[vāsu] evam ukte tu gāndhāryā dhṛtarāṣṭro janeśvaraḥ duryodhanam uvācedaṃ nṛpamadhye janādhipa 2 duryodhana nibodhedaṃ yad vāṃ vakṣyāmi putraka tathā tat kuru bhadraṃ te yady asti pitṛgauravam 3 somaḥ prajāpatiḥ pūrvaṃ kurūṇāṃ vaṃśavardhanaḥ somād babhūva ṣaṣṭho vai yayātir nahuṣātmajaḥ 4 tasya putrā babhūvuś ca pañca rājarṣisattamāḥ teṣāṃ yadur mahātejā jyeṣṭhaḥ samabhavat prabhuḥ 5 pūrur yavīyāṃś ca tato yo 'smākaṃ vaṃśavardhanaḥ śarmiṣṭhāyāḥ saṃprasūto duhitur vṛṣaparvaṇaḥ 6 yaduś ca bharataśreṣṭha deva yānyāḥ suto 'bhavat dauhitras tāta śukrasya kāvyasyāmita tejasaḥ 7 yādavānāṃ kulakaro balavān vīryasaṃmataḥ avamene sa tu kṣatraṃ darpapūrṇaḥ sumandadhīḥ 8 na cātiṣṭhat pituḥ śāstre baladarpa vimohitaḥ avamene ca pitaraṃ bhrātṝṃś cāpy aparājitaḥ 9 pṛthivyāṃ caturantāyāṃ yadur evābhavad balī vaśe kṛtvā sa nṛpatīn avasan nāgasāhvaye 10 taṃ pitā paramakruddho yayātir nahuṣātmajaḥ śaśāpa putraṃ gāndhāre rājyā ca vyaparopayat 11 ya cainam anvavartanta bhrātaro baladarpitam śaśāpa tān api kruddho yayātis tanayān atha 12 yavīyāṃsaṃ tataḥ pūruṃ putraṃ svavaśavartinam rājye niveśayām āsa vidheyaṃ nṛpasattamaḥ 13 evaṃ jyeṣṭho 'py athotsikto na rājyam abhijāyate yavīyāṃso 'bhijāyante rājyaṃ vṛddhopasevayā 14 tathaiva sarvadharmajñaḥ pitur mama pitāmahaḥ pratīpaḥ pṛthivīpālas triṣu lokeṣu viśrutaḥ 15 tasya pārthiva siṃhasya rājyaṃ dharmeṇa śāsataḥ trayaḥ prajajñire putrā devakalpā yaśasvinaḥ 16 devāpir abhavaj jyeṣṭho bāhlīkas tadanantaram tṛtīyaḥ śaṃtanus tāta dhṛtimān me pitāmahaḥ 17 devāpis tu mahātejās tvag doṣī rājasattamaḥ dhārmikaḥ satyavādī ca pituḥ śuśrūṣaṇe rataḥ 18 paurajānapadānāṃ ca saṃmataḥ sādhu satkṛtaḥ sarveṣāṃ bālavṛddhānāṃ devāpir hṛdayaṃgamaḥ 19 prājñaś ca satyasaṃdhaś ca sarvabhūtahite rataḥ vartamānaḥ pituḥ śāstre brāhmaṇānāṃ tathaiva ca 20 bāhlīkasya priyo bhrātā śaṃtanoś ca mahātmanaḥ saubhrātraṃ ca paraṃ teṣāṃ sahitānāṃ mahātmanām 21 atha kālasya paryāye vṛddho nṛpatisattamaḥ saṃbhārān abhiṣekārthaṃ kārayām āsa śāstrataḥ maṅgalāni ca sarvāṇi kārayām āsa cābhibhūḥ 22 taṃ brāhmaṇāś ca vṛddhāś ca paurajānapadaiḥ saha sarve nivārayām āsur devāper abhiṣecanam 23 sa tac chrutvā tu nṛpatir abhiṣekanivāraṇam aśrukaṇṭho 'bhavad rājā paryaśocata cātmajam 24 evaṃ vadānyo dharmajñaḥ satyasaṃdhaś ca so 'bhavat priyaḥ prajānām api saṃs tvag doṣeṇa pradūṣitaḥ 25 hīnāṅgaṃ pṛthivīpālaṃ nābhinandanti devatāḥ iti kṛtvā nṛpaśreṣṭhaṃ pratyaṣedhan dvijarṣabhāḥ 26 tataḥ pravyathitātmāsau putraśokasamanvitaḥ mamāra taṃ mṛtaṃ dṛṭvā devāpiḥ saṃśrito vanam 27 bāhlīko mātulakule tyaktvā rājyaṃ vyavasthitaḥ pitṛbhrātṝn parityajya prāptavān puram ṛddhimat 28 bāhlīkena tv anujñātaḥ śaṃtanur lokaviśrutaḥ pitary uparate rājan rājā rājyam akārayat 29 tathaivāhaṃ matimatā paricintyeha pāṇḍunā jyeṣṭhaḥ prabhraṃśito rājyād dhīnāṅga iti bhārata 30 pāṇḍus tu rājyaṃ saṃprāptaḥ kanīyān api san nṛpaḥ vināśe tasya putrāṇām idaṃ rājyam ariṃdama mayy abhāgini rājyāya kathaṃ tvaṃ rājyam icchasi 31 yudhiṣṭhiro rājaputro mahātmā; nyāyāgataṃ rājyam idaṃ ca tasya sa kauravasyāsya janasya bhartā; praśāsitā caiva mahānubhāvaḥ 32 sa satyasaṃdhaḥ satatāpramattaḥ; śāstre sthito bandhujanasya sādhuḥ priyaḥ prajānāṃ suhṛda anukampī; jitendriyaḥ sādhu janasya bhartā 33 kṣamā titikṣā dama ārjavaṃ ca; satyavratatvaṃ śrutam apramādaḥ bhūtānukampā hy anuśāsanaṃ ca; yudhiṣṭhire rājaguṇāḥ samastāḥ 34 arāja putras tvam anārya vṛtto; lubdhas tathā bandhuṣu pāpabuddhiḥ kramāgataṃ rājyam idaṃ pareṣāṃ; hartuṃ kathaṃ śakṣyasi durvinītaḥ 35 prayaccha rājyārtham apetamohaḥ; savāhanaṃ tvaṃ saparicchadaṃ ca tato 'vaśeṣaṃ tava jīvitasya; sahānujasyaiva bhaven narendra |
The Mahabharata in Sanskrit
Book 5
Chapter 148
|
1
[वासु] एवम उक्ते तु भीष्मेण दरॊणेन विदुरेण च गान्धार्या धृतराष्ट्रेण न च मन्दॊ ऽनवबुध्यत 2 अवधूयॊत्थितः करुद्धॊ रॊषात संरक्तलॊचनः अन्वद्रवन्त तं पश्चाद राजानस तयक्तजीविताः 3 अज्ञापयच च राज्ञस तान पार्थिवन दुष्टचेतसः परयाध्वं वै कुरुक्षेत्रं पुष्यॊ ऽदयेति पुनः पुनः 4 ततस ते पृथिवीपालाः परययुः सह सैनिकाः भीष्मं सेनापतिं कृत्वा संहृष्टाः कालचॊदिताः 5 अक्षौहिण्यॊ दशैका च पार्थिवानां समागताः तासां परमुखतॊ भीष्मस तालकेतुर वयरॊचत यद अत्र युक्तं पराप्तं च तद विधत्स्व विशां पते 6 उक्तं भीष्मेण यद वाक्यं दरॊणेन विदुरेण च गान्धार्या धृतराष्ट्रेण समक्षं मम भारत एतत ते कथितं राजन यद्वृत्तं कुरुसंसदि 7 साम दादौ परयुक्तं मे राजन सौभ्रात्रम इच्छता अभेदात कुरुवंशस्य परजानां च विवृद्धये 8 पुनर भेदश च मे युक्तॊ यदा साम न गृह्यते कर्मानुकीर्तनं चैव देव मानुषसंहितम 9 यदा नाद्रियते वाक्यं सामपूर्वं सुयॊधनः तदा मया समानीय भेदिताः सर्वपार्थिवाः 10 अद्भुतानि च घॊराणि दारुणानि च भारत अमानुषाणि कर्माणि दर्शितानि च मे विभॊ 11 भर्त्सयित्वा तु राज्ञस तांस तृणी कृत्यसुयॊधनम राध्येयं भीषयित्वा च सौबलं च पुनः पुनः 12 नयूनतां धार्तराष्ट्राणां निन्दां चैव पुनः पुनः भेदयित्वा नृपान सर्वान वाग्भिर मन्त्रेण चासकृत 13 पुनः सामाभिसंयुक्तं संप्रदानम अथाब्रुवम अभेदात कुरुवंशस्य कार्ययॊगात तथैव च 14 ते बाला धृतराष्ट्रस्य भीष्मस्य विदुरस्य च तिष्ठेयुः पाण्डवाः सर्वे हित्वा मानम अधश चराः 15 परयच्छन्तु च ते राज्यम अनीशास ते भवन्तु च यथाह राजा गाङ्गेयॊ विदुरश च तथास्तु तत 16 सर्वं भवतु ते राज्यं पञ्च गरामान विसर्जय अवश्यं भरणीया हि पितुस ते राजसत्तम 17 एवम उक्तस तु दुष्टात्मा नैव भावं वयमुञ्चत दण्डं चतुर्थं पश्यामि तेषु पापेषु नान्यथा 18 निर्याताश च विनाशाय कुरुक्षेत्रं नराधिपाः एतत ते कथितं सर्वं यद्वृत्तं कुरुसंसदि 19 न ते राज्यं परयच्छन्ति विना युद्धेन पाण्डव विनाशहेतवः सर्वे परत्युपस्थित मृत्यवः |
1
[vāsu] evam ukte tu bhīṣmeṇa droṇena vidureṇa ca gāndhāryā dhṛtarāṣṭreṇa na ca mando 'nvabudhyata 2 avadhūyotthitaḥ kruddho roṣāt saṃraktalocanaḥ anvadravanta taṃ paścād rājānas tyaktajīvitāḥ 3 ajñāpayac ca rājñas tān pārthivan duṣṭacetasaḥ prayādhvaṃ vai kurukṣetraṃ puṣyo 'dyeti punaḥ punaḥ 4 tatas te pṛthivīpālāḥ prayayuḥ saha sainikāḥ bhīṣmaṃ senāpatiṃ kṛtvā saṃhṛṣṭāḥ kālacoditāḥ 5 akṣauhiṇyo daśaikā ca pārthivānāṃ samāgatāḥ tāsāṃ pramukhato bhīṣmas tālaketur vyarocata yad atra yuktaṃ prāptaṃ ca tad vidhatsva viśāṃ pate 6 uktaṃ bhīṣmeṇa yad vākyaṃ droṇena vidureṇa ca gāndhāryā dhṛtarāṣṭreṇa samakṣaṃ mama bhārata etat te kathitaṃ rājan yadvṛttaṃ kurusaṃsadi 7 sāma dādau prayuktaṃ me rājan saubhrātram icchatā abhedāt kuruvaṃśasya prajānāṃ ca vivṛddhaye 8 punar bhedaś ca me yukto yadā sāma na gṛhyate karmānukīrtanaṃ caiva deva mānuṣasaṃhitam 9 yadā nādriyate vākyaṃ sāmapūrvaṃ suyodhanaḥ tadā mayā samānīya bheditāḥ sarvapārthivāḥ 10 adbhutāni ca ghorāṇi dāruṇāni ca bhārata amānuṣāṇi karmāṇi darśitāni ca me vibho 11 bhartsayitvā tu rājñas tāṃs tṛṇī kṛtyasuyodhanam rādhyeyaṃ bhīṣayitvā ca saubalaṃ ca punaḥ punaḥ 12 nyūnatāṃ dhārtarāṣṭrāṇāṃ nindāṃ caiva punaḥ punaḥ bhedayitvā nṛpān sarvān vāgbhir mantreṇa cāsakṛt 13 punaḥ sāmābhisaṃyuktaṃ saṃpradānam athābruvam abhedāt kuruvaṃśasya kāryayogāt tathaiva ca 14 te bālā dhṛtarāṣṭrasya bhīṣmasya vidurasya ca tiṣṭheyuḥ pāṇḍavāḥ sarve hitvā mānam adhaś carāḥ 15 prayacchantu ca te rājyam anīśās te bhavantu ca yathāha rājā gāṅgeyo viduraś ca tathāstu tat 16 sarvaṃ bhavatu te rājyaṃ pañca grāmān visarjaya avaśyaṃ bharaṇīyā hi pitus te rājasattama 17 evam uktas tu duṣṭātmā naiva bhāvaṃ vyamuñcata daṇḍaṃ caturthaṃ paśyāmi teṣu pāpeṣu nānyathā 18 niryātāś ca vināśāya kurukṣetraṃ narādhipāḥ etat te kathitaṃ sarvaṃ yadvṛttaṃ kurusaṃsadi 19 na te rājyaṃ prayacchanti vinā yuddhena pāṇḍava vināśahetavaḥ sarve pratyupasthita mṛtyavaḥ |
The Mahabharata in Sanskrit
Book 5
Chapter 149
|
1
[व] जनार्दनवचः शरुत्वा धर्मराजॊ युधिष्ठिरः भरातॄन उवाच धर्मात्मा समक्षं केशवस्य ह 2 शरुतं भवद्भिर यद्वृत्तं सभायां कुरुसंसदि केशवस्यापि यद वाक्यं तत सर्वम अवधारितम 3 तस्मात सेना विभागं मे कुरुध्वं नरसत्तमाः अक्षौहिण्यस तु सप्तैताः समेता विजयाय वै 4 तासां मे पतयः सप्त विख्यातास तान निबॊधत दरुपदश च विराटश च धृष्टद्युम्न शिखण्डिनौ 5 सात्यकिश चेकितानश च भीमसेनश च वीर्यवान एते सेना परणेतारॊ वीराः सर्वे तनुत्यजः 6 सर्वे वेदविदः शूराः सर्वे सुचरितव्रताः हरीमन्तॊ नीतिमन्तश च सर्वे युद्धविशारदाः इष्वस्त्रकुशलाश चैव तथा सर्वास्त्रयॊधिनः 7 सप्तानाम अपि यॊ नेता सेनानां परविभागवित यः सहेत रणे भीष्मं शरार्चिः पावकॊपमम 8 तवं तावत सहदेवात्र परब्रूहि कुरुनन्दन सवमतं पुरुषव्याघ्र कॊ नः सेनापतिः कषमः 9 संयुक्त एकदुःखश च वीर्यवांश च महीपतिः यं समाश्रित्य धर्मज्ञं सवम अंशम अनुयुञ्ज्महे 10 मत्स्यॊ विराटॊ बलवान कृतास्त्रॊ युद्धदुर्मदः परसहिष्यति संग्रामे भीष्मं तांश च महारथान 11 तथॊक्ते सहदेवेन वाक्ये वाक्यविशारदः नकुलॊ ऽनन्तरं तस्माद इदं वचनम आददे 12 वयसा शास्त्रतॊ धैर्यात कुलेनाभिजनेन च हरीमान कुलान्वितः शरीमान सर्वशास्त्रविशारदः 13 वेद चास्त्रं भरद्वाजाद दुर्धर्षः सत्यसंगरः यॊ नित्यं सपर्धते दरॊणं भीष्मं चैव महाबलम 14 शलाघ्यः पार्थिव संघस्य परमुखे वाहिनीपतिः पुत्रपौत्रैः परिवृतः शतशाख इव दरुमः 15 यस तताप तपॊ घॊरं सदारः पृथिवीपतिः रॊषाद दरॊण विनाशाय वीरः समितिशॊभनः 16 पितेवास्मान समाधत्ते यः सदा पार्थिवर्षभः शवशुरॊ दरुपदॊ ऽसमाकं सेनाम अग्रे परकर्षतु 17 स दरॊण भीष्माव आयान्तौ सहेद इति मतिर मम स हि दिव्यास्त्रविद राजा सखा चाङ्गिरसॊ नृपः 18 माद्री सुताभ्याम उक्ते तु सवमते कुरुनन्दनः वासविर वासव समः सव्यसाच्य अब्रवीद वचः 19 यॊ ऽयं तपः परभावेन ऋषिसंतॊषणेन च दिव्यः पुरुष उत्पन्नॊ जवाला वर्णॊ महाबलः 20 धनुष्मान कवची खङ्गी रथम आरुह्य दंशितः दिव्यैर हयवरैर युक्तम अग्निकुण्डात समुत्थितः 21 गर्हन्न इव महामेघॊ रथघॊषेण वीर्यवान सिंहसंहननॊ वीरः सिंहविक्रान्त विक्रमः 22 सिंहॊरस्कॊ महाबाहुः सिंहवक्षा महावलः सिंहप्रगर्जनॊ वीरः सिंहस्कन्धॊ महाद्युतिः 23 सुभ्रूः सुदंष्ट्रः सुहनुः सुबाहु सुमुखॊ ऽकृशः सुजत्रुः सुविशालाक्षः सुपादः सुप्रतिष्ठितः 24 अभेद्यः सर्वशस्त्राणां परभिन्न इव वारणः जज्ञे दरॊण विनाशाय सत्यवादी जितेन्द्रियः 25 धृष्टद्युम्नम अहं मन्ये सहेद भीष्मस्य सायकान वज्राशनिसमस्पर्शान दीप्तास्यान उरगान इव 26 यमदूत समान वेगे निपाते पावकॊपमान रामेणाजौ विषहितान वज्रनिष्पेष दारुणान 27 पुरुषं तं न पश्यामि यः सहेत महाव्रतम धृष्टद्युम्नम ऋते राजन्न इति मे धीयते मतिः 28 कषिप्रहस्तश चित्रयॊधी मतः सेनापतिर मम अभेद्यकवचः शरीमान मातङ्ग इव यूथपः 29 वधार्थं यः समुत्पन्नः शिखण्डी दरुपदात्मजः वदन्ति सिद्धा राजेन्द्र ऋषयश च समागताः 30 यस्य संग्राममध्येषु दिव्यम अस्त्रं विकुर्वतः रूपं दरक्ष्यन्ति पुरुषा रामस्येव महात्मनः 31 न तं युद्धेषु पश्यामि यॊ विभिन्द्याच छिखण्डिनम शस्त्रेण समरे राजन संनद्धं सयन्दने सथितम 32 दवैरथे विषहेन नान्यॊ भीष्मं राजन महाव्रतम शिखण्डिनम ऋते वीरं स मे सेनापतिर मतः 33 सर्वस्य जगतस तात सारासारं बलाबलम सर्वं जानाति धर्मात्मा गतम एष्यच च केशवः 34 यम आह कृष्णॊ दाशार्हः सॊ ऽसतु नॊ वाहिनीपतिः कृतास्त्रॊ हय अकृतास्त्रॊ वा वृद्धॊ वा यदि वा युवा 35 एष नॊ विजये मूलम एष तात विपर्यये अत्र पराणाश च राज्यं च भावाभावौ सुखासुखे 36 एष धाता विधाता च सिद्धिर अत्र परतिष्ठिता यम आह कृष्णॊ दाशार्हः स नः सेनापतिः कषमः बरवीतु वदतां शरेष्ठॊ निशा समतिवर्तते 37 ततः सेनापतिं कृत्वा कृष्णस्य वशवर्तिनम रात्रिशेषे वयतिक्रान्ते परयास्यामॊ रणाजिरम अधिवासित शस्त्राश च कृतकौतुक मङ्गलाः 38 तस्य तद वचनं शरुत्वा धर्मराजस्य धीमतः अब्रवीत पुण्डरीकाक्षॊ धनंजयम अवेक्ष्य ह 39 ममाप्य एते महाराज भवद्भिर य उदाहृताः नेतारस तव सेनायाः शूरा विक्रान्तयॊधिनः सर्व एते समर्था हि तव शत्रून परमर्दितुम 40 इन्द्रस्यापि भयं हय एते जनयेयुर महाहवे किं पुनर धार्तराष्ट्राणां लुब्धानां पापचेतसाम 41 महापि हि महाबाहॊ तवत्प्रियार्थम अरिंदम कृतॊ यत्नॊ महांस तत्र शमः सयाद इति भारत धर्मस्य गतम आनृण्यं न सम वाच्या विवक्षताम 42 कृतार्थं मन्यते बालः सॊ ऽऽतमानम अविचक्षणः धार्तराष्ट्रॊ बलस्थं च मन्यते ऽऽतमानम आतुरः 43 युज्यतां वाहिनी साधु वधसाध्या हि ते मताः न धार्तराष्ट्राः शक्ष्यन्ति सथातुं दृष्ट्वा धनंजयम 44 भीमसेनं च संक्रुद्धं यमौ चापि यमॊपमौ युयुधान दवितीयं च धृष्टद्युम्नम अमर्षणम 45 अभिमन्युं दरौपदेयान विराटद्रुपदाव अपि अक्षौहिणीपतींश चान्यान नरेन्द्रान दृढविक्रमान 46 सारवद बलम अस्माकं दुष्प्रधर्षं दुरासदम धार्तराष्ट्र बलं संख्ये वधिष्यति न संशयः 47 एवम उक्ते तु केष्णेन संप्रहृष्यन नरॊत्तमाः तेषां परहृष्टमनसां नादः समभवन महान 48 यॊग इत्य अथ सैन्यानां तवरतां संप्रधावताम हयवारणशब्दश च नेमिघॊषश च सर्वशः शङ्खदुन्दुभिनिर्घॊषस तुमुलः सर्वतॊ ऽभवत 49 परयास्यतां पाण्डवानां ससैन्यानां समन्ततः गङ्गेव पूर्णा दुर्धर्षा समदृश्यत वाहिनी 50 अग्रानीके भीमसेनॊ माद्रीपुत्रौ च दंशितौ सौभद्रॊ दरौपदेयाश च धृष्टद्युम्नश च पार्षतः परभद्रकाश च पाञ्चाला भीमसेनमुखा ययुः 51 ततः शब्दः समभवत समुद्रस्येव पर्वणि हृष्टानां संप्रयातानां घॊषॊ दिवम इवास्पृशत 52 परहृष्टा दंशिता यॊधाः परानीक विदारणाः तेषां मध्ये ययौ राजा कुन्तीपुत्रॊ युधिष्ठिरः 53 शकटापण वेशाश च यानयुग्यं च सर्वशः कॊशयन्त्रायुधं चैव ये च वैद्याश चिकित्सकाः 54 फल्गु यच च बलं किं चित तथैव कृश दुर्बलम तत संगृह्य ययौ राजा य चापि परिचारकाः 55 उपप्लव्ये तु पाञ्चाली दरौपदी सत्यवादिनी सह सत्रीभिर निववृते दासीदास समावृता 56 कृत्वा मूलप्रतीकारान गुल्मैः सथावरजङ्गमैः सकन्धावारेण महता परययुः पाण्डुनन्दनाः 57 ददतॊ गां हिरण्यं च बराह्मणैर अभिसंवृताः सतूयमाना ययू राजन रथैर मणिविभूषितैः 58 केकया धृष्टकेतुश च पुत्रः काश्यस्य चाभिभूः शरेणिमान वसु दानश च शिखण्डी चापराजितः 59 हृष्टास तुष्टाः कवचिनः सशस्त्राः समलंकृताः राजानम अन्वयुः सर्वे परिवार्य युधिष्ठिरम 60 जघनार्धे विराटश च यज्ञसेनश च सॊमकिः सुधर्मा कुन्तिभॊजश च धृष्टद्युम्नस्य चात्मजाः 61 रथायुतानि चत्वारि हयाः पञ्च गुणास ततः पत्तिसैन्यं दशगुणं सादिनाम अयुतानि षट 62 अनाधृष्टिश चेकितानश चेदिराजॊ ऽथ सात्यकिः परिवार्य ययुः सर्वे वासुदेवधनंजयौ 63 आसाद्य तु कुरुक्षेत्रं वयूढानीकाः परहारिणः पाण्डवाः समदृश्यन्त नर्दन्तॊ वृषभा इव 64 ते ऽवगाह्य कुरुक्षेत्रं शङ्खान दध्मुर अरिंदमाः तथैव दध्मतुः शङ्खौ वासुदेवधनंजयौ 65 पाञ्चजन्यस्य निर्घॊषं विस्फूर्जितम इवाशनेः निशम्य सर्वसैन्यानि समहृष्यन्त सर्वशः 66 शङ्खदुन्दुभिसंसृष्टः सिंहनादस तरस्विनाम पृथिवीं चान्तरिक्षं च सागरांश चान्वनादयत 67 तदॊ देशे समे सनिग्धे परभूतयवसेन्धने निवेशयाम आस तदा सेनां राजा युधिष्ठिरः 68 परिहृत्य शमशानानि देवतायतनानि च आश्रमांश च महर्षीणां तीर्थान्य आयतनानि च 69 मधुरानूषरे देशे शिवे पुण्ये महीपतिः निवेशं कारयाम आस कुन्तीपुत्रॊ युधिष्ठिरः 70 ततश च पुनर उत्थाय सुखी विश्रान्त वाहनः परययौ पृथिवीपालैर वृतः शतसहस्रशः 71 विद्राव्य शतशॊ गुल्मान धार्तराष्ट्रस्य सैनिकान पर्यक्रामत समन्ताच च पार्थेन सह केशवः 72 शिबिरं मापयाम आस धृष्टद्युम्नश च पार्षतः सात्यकिश च रथॊदारॊ युयुधानः परतापवान 73 आसाद्य सरितं पुण्यां कुरुक्षेत्रे हिरण्वतीम सूपतीर्थाम शुचि जलां शर्करा पङ्कवर्जिताम 74 खानयाम आस परिखां केशवस तत्र भारत गुप्त्यर्थम अपि चादिश्य बलं तत्र नयवेशयत 75 विधिर यः शिबिरस्यासीत पाण्डवानां महात्मनाम तद विधानि नरेन्द्राणां कारयाम आस केशवः 76 परभूतजलकाष्ठानि दुराधर्षतराणि च भक्ष्यभॊज्यॊपपन्नानि शतशॊ ऽथ सहस्रशः 77 शिबिराणि महार्हाणि राज्ञां तत्र पृथक पृथक विमानानीव राजेन्द्र निविष्टानि महीतले 78 तत्रासञ शिल्पिनः पराज्ञाः शतशॊ दत्तवेतनाः सर्व औपकरणैर युक्ता वैद्याश च सुविशारदाः 79 जया धनुर्वर्म शस्त्राणां तथैव मधुसर्पिषॊः ससर्ज रसपांसूनां राशयः पर्वतॊपमाः 80 बहूदकं सुयवसं तुषाङ्गार समन्वितम शिबिरे शिबिरे राजा संचकार युधिष्ठिरः 81 महायन्त्राणि नाराचास तॊमरर्ष्टि परश्वधाः धनूंषि कवचादीनि हृद्य अभूवन नृणां तदा 82 गजाः कङ्कट संनाहा लॊहवर्मॊत्तरच छदाः अदृश्यंस तत्र गिर्याभाः सहस्रशतयॊधिनः 83 निविष्टान पाण्डवांस तत्र जञात्वा मित्राणि भारत अभिसस्रुर यथॊद्देशं सबलाः सहवाहनाः 84 चरितब्रह्म चर्यास ते सॊमपा भूरिदक्षिणाः जयाय पाण्डुपुत्राणां समाजग्मुर महीक्षितः |
1
[v] janārdanavacaḥ śrutvā dharmarājo yudhiṣṭhiraḥ bhrātṝn uvāca dharmātmā samakṣaṃ keśavasya ha 2 śrutaṃ bhavadbhir yadvṛttaṃ sabhāyāṃ kurusaṃsadi keśavasyāpi yad vākyaṃ tat sarvam avadhāritam 3 tasmāt senā vibhāgaṃ me kurudhvaṃ narasattamāḥ akṣauhiṇyas tu saptaitāḥ sametā vijayāya vai 4 tāsāṃ me patayaḥ sapta vikhyātās tān nibodhata drupadaś ca virāṭaś ca dhṛṣṭadyumna śikhaṇḍinau 5 sātyakiś cekitānaś ca bhīmasenaś ca vīryavān ete senā praṇetāro vīrāḥ sarve tanutyajaḥ 6 sarve vedavidaḥ śūrāḥ sarve sucaritavratāḥ hrīmanto nītimantaś ca sarve yuddhaviśāradāḥ iṣvastrakuśalāś caiva tathā sarvāstrayodhinaḥ 7 saptānām api yo netā senānāṃ pravibhāgavit yaḥ saheta raṇe bhīṣmaṃ śarārciḥ pāvakopamam 8 tvaṃ tāvat sahadevātra prabrūhi kurunandana svamataṃ puruṣavyāghra ko naḥ senāpatiḥ kṣamaḥ 9 saṃyukta ekaduḥkhaś ca vīryavāṃś ca mahīpatiḥ yaṃ samāśritya dharmajñaṃ svam aṃśam anuyuñjmahe 10 matsyo virāṭo balavān kṛtāstro yuddhadurmadaḥ prasahiṣyati saṃgrāme bhīṣmaṃ tāṃś ca mahārathān 11 tathokte sahadevena vākye vākyaviśāradaḥ nakulo 'nantaraṃ tasmād idaṃ vacanam ādade 12 vayasā śāstrato dhairyāt kulenābhijanena ca hrīmān kulānvitaḥ śrīmān sarvaśāstraviśāradaḥ 13 veda cāstraṃ bharadvājād durdharṣaḥ satyasaṃgaraḥ yo nityaṃ spardhate droṇaṃ bhīṣmaṃ caiva mahābalam 14 ślāghyaḥ pārthiva saṃghasya pramukhe vāhinīpatiḥ putrapautraiḥ parivṛtaḥ śataśākha iva drumaḥ 15 yas tatāpa tapo ghoraṃ sadāraḥ pṛthivīpatiḥ roṣād droṇa vināśāya vīraḥ samitiśobhanaḥ 16 pitevāsmān samādhatte yaḥ sadā pārthivarṣabhaḥ śvaśuro drupado 'smākaṃ senām agre prakarṣatu 17 sa droṇa bhīṣmāv āyāntau sahed iti matir mama sa hi divyāstravid rājā sakhā cāṅgiraso nṛpaḥ 18 mādrī sutābhyām ukte tu svamate kurunandanaḥ vāsavir vāsava samaḥ savyasācy abravīd vacaḥ 19 yo 'yaṃ tapaḥ prabhāvena ṛṣisaṃtoṣaṇena ca divyaḥ puruṣa utpanno jvālā varṇo mahābalaḥ 20 dhanuṣmān kavacī khaṅgī ratham āruhya daṃśitaḥ divyair hayavarair yuktam agnikuṇḍāt samutthitaḥ 21 garhann iva mahāmegho rathaghoṣeṇa vīryavān siṃhasaṃhanano vīraḥ siṃhavikrānta vikramaḥ 22 siṃhorasko mahābāhuḥ siṃhavakṣā mahāvalaḥ siṃhapragarjano vīraḥ siṃhaskandho mahādyutiḥ 23 subhrūḥ sudaṃṣṭraḥ suhanuḥ subāhu sumukho 'kṛśaḥ sujatruḥ suviśālākṣaḥ supādaḥ supratiṣṭhitaḥ 24 abhedyaḥ sarvaśastrāṇāṃ prabhinna iva vāraṇaḥ jajñe droṇa vināśāya satyavādī jitendriyaḥ 25 dhṛṣṭadyumnam ahaṃ manye sahed bhīṣmasya sāyakān vajrāśanisamasparśān dīptāsyān uragān iva 26 yamadūta samān vege nipāte pāvakopamān rāmeṇājau viṣahitān vajraniṣpeṣa dāruṇān 27 puruṣaṃ taṃ na paśyāmi yaḥ saheta mahāvratam dhṛṣṭadyumnam ṛte rājann iti me dhīyate matiḥ 28 kṣiprahastaś citrayodhī mataḥ senāpatir mama abhedyakavacaḥ śrīmān mātaṅga iva yūthapaḥ 29 vadhārthaṃ yaḥ samutpannaḥ śikhaṇḍī drupadātmajaḥ vadanti siddhā rājendra ṛṣayaś ca samāgatāḥ 30 yasya saṃgrāmamadhyeṣu divyam astraṃ vikurvataḥ rūpaṃ drakṣyanti puruṣā rāmasyeva mahātmanaḥ 31 na taṃ yuddheṣu paśyāmi yo vibhindyāc chikhaṇḍinam śastreṇa samare rājan saṃnaddhaṃ syandane sthitam 32 dvairathe viṣahen nānyo bhīṣmaṃ rājan mahāvratam śikhaṇḍinam ṛte vīraṃ sa me senāpatir mataḥ 33 sarvasya jagatas tāta sārāsāraṃ balābalam sarvaṃ jānāti dharmātmā gatam eṣyac ca keśavaḥ 34 yam āha kṛṣṇo dāśārhaḥ so 'stu no vāhinīpatiḥ kṛtāstro hy akṛtāstro vā vṛddho vā yadi vā yuvā 35 eṣa no vijaye mūlam eṣa tāta viparyaye atra prāṇāś ca rājyaṃ ca bhāvābhāvau sukhāsukhe 36 eṣa dhātā vidhātā ca siddhir atra pratiṣṭhitā yam āha kṛṣṇo dāśārhaḥ sa naḥ senāpatiḥ kṣamaḥ bravītu vadatāṃ śreṣṭho niśā samativartate 37 tataḥ senāpatiṃ kṛtvā kṛṣṇasya vaśavartinam rātriśeṣe vyatikrānte prayāsyāmo raṇājiram adhivāsita śastrāś ca kṛtakautuka maṅgalāḥ 38 tasya tad vacanaṃ śrutvā dharmarājasya dhīmataḥ abravīt puṇḍarīkākṣo dhanaṃjayam avekṣya ha 39 mamāpy ete mahārāja bhavadbhir ya udāhṛtāḥ netāras tava senāyāḥ śūrā vikrāntayodhinaḥ sarva ete samarthā hi tava śatrūn pramarditum 40 indrasyāpi bhayaṃ hy ete janayeyur mahāhave kiṃ punar dhārtarāṣṭrāṇāṃ lubdhānāṃ pāpacetasām 41 mahāpi hi mahābāho tvatpriyārtham ariṃdama kṛto yatno mahāṃs tatra śamaḥ syād iti bhārata dharmasya gatam ānṛṇyaṃ na sma vācyā vivakṣatām 42 kṛtārthaṃ manyate bālaḥ so ''tmānam avicakṣaṇaḥ dhārtarāṣṭro balasthaṃ ca manyate ''tmānam āturaḥ 43 yujyatāṃ vāhinī sādhu vadhasādhyā hi te matāḥ na dhārtarāṣṭrāḥ śakṣyanti sthātuṃ dṛṣṭvā dhanaṃjayam 44 bhīmasenaṃ ca saṃkruddhaṃ yamau cāpi yamopamau yuyudhāna dvitīyaṃ ca dhṛṣṭadyumnam amarṣaṇam 45 abhimanyuṃ draupadeyān virāṭadrupadāv api akṣauhiṇīpatīṃś cānyān narendrān dṛḍhavikramān 46 sāravad balam asmākaṃ duṣpradharṣaṃ durāsadam dhārtarāṣṭra balaṃ saṃkhye vadhiṣyati na saṃśayaḥ 47 evam ukte tu keṣṇena saṃprahṛṣyan narottamāḥ teṣāṃ prahṛṣṭamanasāṃ nādaḥ samabhavan mahān 48 yoga ity atha sainyānāṃ tvaratāṃ saṃpradhāvatām hayavāraṇaśabdaś ca nemighoṣaś ca sarvaśaḥ śaṅkhadundubhinirghoṣas tumulaḥ sarvato 'bhavat 49 prayāsyatāṃ pāṇḍavānāṃ sasainyānāṃ samantataḥ gaṅgeva pūrṇā durdharṣā samadṛśyata vāhinī 50 agrānīke bhīmaseno mādrīputrau ca daṃśitau saubhadro draupadeyāś ca dhṛṣṭadyumnaś ca pārṣataḥ prabhadrakāś ca pāñcālā bhīmasenamukhā yayuḥ 51 tataḥ śabdaḥ samabhavat samudrasyeva parvaṇi hṛṣṭānāṃ saṃprayātānāṃ ghoṣo divam ivāspṛśat 52 prahṛṣṭā daṃśitā yodhāḥ parānīka vidāraṇāḥ teṣāṃ madhye yayau rājā kuntīputro yudhiṣṭhiraḥ 53 śakaṭāpaṇa veśāś ca yānayugyaṃ ca sarvaśaḥ kośayantrāyudhaṃ caiva ye ca vaidyāś cikitsakāḥ 54 phalgu yac ca balaṃ kiṃ cit tathaiva kṛśa durbalam tat saṃgṛhya yayau rājā ya cāpi paricārakāḥ 55 upaplavye tu pāñcālī draupadī satyavādinī saha strībhir nivavṛte dāsīdāsa samāvṛtā 56 kṛtvā mūlapratīkārān gulmaiḥ sthāvarajaṅgamaiḥ skandhāvāreṇa mahatā prayayuḥ pāṇḍunandanāḥ 57 dadato gāṃ hiraṇyaṃ ca brāhmaṇair abhisaṃvṛtāḥ stūyamānā yayū rājan rathair maṇivibhūṣitaiḥ 58 kekayā dhṛṣṭaketuś ca putraḥ kāśyasya cābhibhūḥ śreṇimān vasu dānaś ca śikhaṇḍī cāparājitaḥ 59 hṛṣṭās tuṣṭāḥ kavacinaḥ saśastrāḥ samalaṃkṛtāḥ rājānam anvayuḥ sarve parivārya yudhiṣṭhiram 60 jaghanārdhe virāṭaś ca yajñasenaś ca somakiḥ sudharmā kuntibhojaś ca dhṛṣṭadyumnasya cātmajāḥ 61 rathāyutāni catvāri hayāḥ pañca guṇās tataḥ pattisainyaṃ daśaguṇaṃ sādinām ayutāni ṣaṭ 62 anādhṛṣṭiś cekitānaś cedirājo 'tha sātyakiḥ parivārya yayuḥ sarve vāsudevadhanaṃjayau 63 āsādya tu kurukṣetraṃ vyūḍhānīkāḥ prahāriṇaḥ pāṇḍavāḥ samadṛśyanta nardanto vṛṣabhā iva 64 te 'vagāhya kurukṣetraṃ śaṅkhān dadhmur ariṃdamāḥ tathaiva dadhmatuḥ śaṅkhau vāsudevadhanaṃjayau 65 pāñcajanyasya nirghoṣaṃ visphūrjitam ivāśaneḥ niśamya sarvasainyāni samahṛṣyanta sarvaśaḥ 66 śaṅkhadundubhisaṃsṛṣṭaḥ siṃhanādas tarasvinām pṛthivīṃ cāntarikṣaṃ ca sāgarāṃś cānvanādayat 67 tado deśe same snigdhe prabhūtayavasendhane niveśayām āsa tadā senāṃ rājā yudhiṣṭhiraḥ 68 parihṛtya śmaśānāni devatāyatanāni ca āśramāṃś ca maharṣīṇāṃ tīrthāny āyatanāni ca 69 madhurānūṣare deśe śive puṇye mahīpatiḥ niveśaṃ kārayām āsa kuntīputro yudhiṣṭhiraḥ 70 tataś ca punar utthāya sukhī viśrānta vāhanaḥ prayayau pṛthivīpālair vṛtaḥ śatasahasraśaḥ 71 vidrāvya śataśo gulmān dhārtarāṣṭrasya sainikān paryakrāmat samantāc ca pārthena saha keśavaḥ 72 śibiraṃ māpayām āsa dhṛṣṭadyumnaś ca pārṣataḥ sātyakiś ca rathodāro yuyudhānaḥ pratāpavān 73 āsādya saritaṃ puṇyāṃ kurukṣetre hiraṇvatīm sūpatīrthām śuci jalāṃ śarkarā paṅkavarjitām 74 khānayām āsa parikhāṃ keśavas tatra bhārata guptyartham api cādiśya balaṃ tatra nyaveśayat 75 vidhir yaḥ śibirasyāsīt pāṇḍavānāṃ mahātmanām tad vidhāni narendrāṇāṃ kārayām āsa keśavaḥ 76 prabhūtajalakāṣṭhāni durādharṣatarāṇi ca bhakṣyabhojyopapannāni śataśo 'tha sahasraśaḥ 77 śibirāṇi mahārhāṇi rājñāṃ tatra pṛthak pṛthak vimānānīva rājendra niviṣṭāni mahītale 78 tatrāsañ śilpinaḥ prājñāḥ śataśo dattavetanāḥ sarv aupakaraṇair yuktā vaidyāś ca suviśāradāḥ 79 jyā dhanurvarma śastrāṇāṃ tathaiva madhusarpiṣoḥ sasarja rasapāṃsūnāṃ rāśayaḥ parvatopamāḥ 80 bahūdakaṃ suyavasaṃ tuṣāṅgāra samanvitam śibire śibire rājā saṃcakāra yudhiṣṭhiraḥ 81 mahāyantrāṇi nārācās tomararṣṭi paraśvadhāḥ dhanūṃṣi kavacādīni hṛdy abhūvan nṛṇāṃ tadā 82 gajāḥ kaṅkaṭa saṃnāhā lohavarmottarac chadāḥ adṛśyaṃs tatra giryābhāḥ sahasraśatayodhinaḥ 83 niviṣṭān pāṇḍavāṃs tatra jñātvā mitrāṇi bhārata abhisasrur yathoddeśaṃ sabalāḥ sahavāhanāḥ 84 caritabrahma caryās te somapā bhūridakṣiṇāḥ jayāya pāṇḍuputrāṇāṃ samājagmur mahīkṣitaḥ |
The Mahabharata in Sanskrit
Book 5
Chapter 150
|
1
[ज] युधिष्ठिरं सहानीकम उपयान्तं युयुत्सया संनिविष्टं कुरुक्षेत्रं वासुदेवेन पालितम 2 विराटद्रुपदाभ्यां च सपुत्राभ्यां समन्वितम केकयैर वृष्णिभिश चैव पार्थिवैः शतशॊ वृतम 3 महेन्द्रम इव चादित्यैर अभिगुप्तं महारथैः शरुत्वा दुर्यॊधनॊ राजा किं कार्यं परत्यपद्यत 4 एतद इच्छाम्य हं शरॊतुं विस्तरेण तपॊधन संभ्रमे तुमुले तस्मिन यदासीत कुरुजाङ्गले 5 वयथयेयुर हि देवानां सेनाम अपि समागमे पाण्डवा वासुदेवश च विराटद्रुपदौ तथा 6 धृष्टद्युम्नश च पाञ्चाल्यः शिखण्डी च महारथः युयुधानश च विक्रान्तॊ देवैर अपि दुरासदः 7 एतद इच्छाम्य अहं शरॊतुं विस्तरेण तपॊधन कुरूणां पाण्डवानां च यद यद आसीद विचेष्टितम 8 परतियाते तु दाशार्हे राजा दुर्यॊधनस तदा कर्णं दुःशासनं चैव शकुनिं चाब्रवीद इदम 9 अकृतेनैव कार्येण गतः पार्थान अधॊक्षजः स एनान मन्युनाविष्टॊ धरुवं वक्ष्यत्य असंशयम 10 इष्टॊ हि वासुदेवस्य पाण्डवैर मम विग्रहः भीमसेनार्जुनौ चैव दाशार्हस्य मते सथितौ 11 अजातशत्रुर अप्य अद्य भीमार्जुनवशानुगः निकृतश च मया पूर्वं सह सर्वैः सहॊदरैः 12 विराटद्रुपदौ चैव कृतवैरौ मया सह तौ च सेना परणेतारौ वासुदेव वशानुगौ 13 भविता विग्रहः सॊ ऽयं तुमुलॊ लॊमहर्षणः तस्मात सांग्रामिकं सर्वं कारयध्वम अतन्द्रिताः 14 शिबिराणि कुरुक्षेत्रे करियन्तां वसुधाधिपाः सुपर्याप्तावकाशानि दुरादेयानि शत्रुभिः 15 आसन्न जलकाण्ठानि शतशॊ ऽथ सहस्रशः अच्छेद्याहार मार्गाणि रत्नॊच्चय चितानि च विविधायुधपूर्णानि पताकाध्वजवन्ति च 16 समाश च तेषां पन्थानः करियन्तां नगराद बहिः परयाणं घुष्यताम अद्य शवॊभूत इति माचिरम 17 ते तथेति परतिज्ञाय शवॊभूते चक्रिरे तथा हृष्टरूपा महात्मानॊ विनाशाय महीक्षिताम 18 ततस ते पार्थिवाः सर्वे तच छरुत्वा राजशासनम आसनेभ्यॊ महार्हेभ्य उदतिष्ठन्न अमर्षिताः 19 बाहून परिघसंकाशान संस्क्पृशन्तः शनैः शनैः काञ्चनाङ्गददीप्तांश च चन्दनागरुभूषितान 20 उष्णीषाणि नियच्छन्न्तः पुण्डरीकनिभैः करैः अन्तरीयॊत्तरीयाणि भूषणानि च सर्वशः 21 ते रथान रथिनः शरेष्ठा हयांश च हयकॊविदाः सज्जयन्ति सम नागांश च नागशिक्षासु निष्ठिताः 22 अथ वर्माणि चित्राणि काञ्चनानि बहूनि च विविधानि च शस्त्राणि चक्रुः सज्जानि सर्वशः 23 पदातयश च पुरुषाः शस्त्राणि विविधानि च उपजह्रुः शरीरेषु हेमचित्राण्य अनेकशः 24 तद उत्सव इवॊदग्रं संप्रहृष्टनरावृतम नगरं धार्तराष्ट्रस्य भारतासीत समाकुलम 25 जनौघसलिलावर्तॊ रथनागाश्वमीनवान शङ्खदुन्दुभिनिर्घॊषः कॊशसंचय रत्नवान 26 चित्राभरण वर्मॊर्मिः शस्त्रनिर्मल फेनवान परासादमालाद्रिवृतॊ रथ्यापण महाह्रदः 27 यॊधचन्द्रॊदयॊद्भूतः कुरुराजमहार्णवः अदृश्यत तदा राजंश चन्द्रॊदय इवार्णवः |
1
[j] yudhiṣṭhiraṃ sahānīkam upayāntaṃ yuyutsayā saṃniviṣṭaṃ kurukṣetraṃ vāsudevena pālitam 2 virāṭadrupadābhyāṃ ca saputrābhyāṃ samanvitam kekayair vṛṣṇibhiś caiva pārthivaiḥ śataśo vṛtam 3 mahendram iva cādityair abhiguptaṃ mahārathaiḥ śrutvā duryodhano rājā kiṃ kāryaṃ pratyapadyata 4 etad icchāmya haṃ śrotuṃ vistareṇa tapodhana saṃbhrame tumule tasmin yadāsīt kurujāṅgale 5 vyathayeyur hi devānāṃ senām api samāgame pāṇḍavā vāsudevaś ca virāṭadrupadau tathā 6 dhṛṣṭadyumnaś ca pāñcālyaḥ śikhaṇḍī ca mahārathaḥ yuyudhānaś ca vikrānto devair api durāsadaḥ 7 etad icchāmy ahaṃ śrotuṃ vistareṇa tapodhana kurūṇāṃ pāṇḍavānāṃ ca yad yad āsīd viceṣṭitam 8 pratiyāte tu dāśārhe rājā duryodhanas tadā karṇaṃ duḥśāsanaṃ caiva śakuniṃ cābravīd idam 9 akṛtenaiva kāryeṇa gataḥ pārthān adhokṣajaḥ sa enān manyunāviṣṭo dhruvaṃ vakṣyaty asaṃśayam 10 iṣṭo hi vāsudevasya pāṇḍavair mama vigrahaḥ bhīmasenārjunau caiva dāśārhasya mate sthitau 11 ajātaśatrur apy adya bhīmārjunavaśānugaḥ nikṛtaś ca mayā pūrvaṃ saha sarvaiḥ sahodaraiḥ 12 virāṭadrupadau caiva kṛtavairau mayā saha tau ca senā praṇetārau vāsudeva vaśānugau 13 bhavitā vigrahaḥ so 'yaṃ tumulo lomaharṣaṇaḥ tasmāt sāṃgrāmikaṃ sarvaṃ kārayadhvam atandritāḥ 14 śibirāṇi kurukṣetre kriyantāṃ vasudhādhipāḥ suparyāptāvakāśāni durādeyāni śatrubhiḥ 15 āsanna jalakāṇṭhāni śataśo 'tha sahasraśaḥ acchedyāhāra mārgāṇi ratnoccaya citāni ca vividhāyudhapūrṇāni patākādhvajavanti ca 16 samāś ca teṣāṃ panthānaḥ kriyantāṃ nagarād bahiḥ prayāṇaṃ ghuṣyatām adya śvobhūta iti māciram 17 te tatheti pratijñāya śvobhūte cakrire tathā hṛṣṭarūpā mahātmāno vināśāya mahīkṣitām 18 tatas te pārthivāḥ sarve tac chrutvā rājaśāsanam āsanebhyo mahārhebhya udatiṣṭhann amarṣitāḥ 19 bāhūn parighasaṃkāśān saṃskpṛśantaḥ śanaiḥ śanaiḥ kāñcanāṅgadadīptāṃś ca candanāgarubhūṣitān 20 uṣṇīṣāṇi niyacchanntaḥ puṇḍarīkanibhaiḥ karaiḥ antarīyottarīyāṇi bhūṣaṇāni ca sarvaśaḥ 21 te rathān rathinaḥ śreṣṭhā hayāṃś ca hayakovidāḥ sajjayanti sma nāgāṃś ca nāgaśikṣāsu niṣṭhitāḥ 22 atha varmāṇi citrāṇi kāñcanāni bahūni ca vividhāni ca śastrāṇi cakruḥ sajjāni sarvaśaḥ 23 padātayaś ca puruṣāḥ śastrāṇi vividhāni ca upajahruḥ śarīreṣu hemacitrāṇy anekaśaḥ 24 tad utsava ivodagraṃ saṃprahṛṣṭanarāvṛtam nagaraṃ dhārtarāṣṭrasya bhāratāsīt samākulam 25 janaughasalilāvarto rathanāgāśvamīnavān śaṅkhadundubhinirghoṣaḥ kośasaṃcaya ratnavān 26 citrābharaṇa varmormiḥ śastranirmala phenavān prāsādamālādrivṛto rathyāpaṇa mahāhradaḥ 27 yodhacandrodayodbhūtaḥ kururājamahārṇavaḥ adṛśyata tadā rājaṃś candrodaya ivārṇavaḥ |
The Mahabharata in Sanskrit
Book 5
Chapter 151
|
1
[व] वासुदेवस्य तद वाक्यम अनुस्मृत्य युधिष्ठिरः पुनः पप्रच्छ वार्ष्णेयं कथं मन्दॊ ऽबरवीद इदम 2 अस्मिन्न अभ्यागते काले किं च नः कषमम अच्युत कथं च वर्तमाना वै सवधर्मान न चयवेमहि 3 दुर्यॊधनस्य कर्णस्य शकुनेः सौबलस्य च वासुदेव मतज्ञॊ ऽसि मम सभ्रातृकस्य च 4 विदुरस्यापि ते वाक्यं शरुतं भीष्मस्य चॊभयॊः कुन्त्याश च विपुलप्रज्ञ परज्ञा कार्त्स्न्येन ते शरुता 5 सर्वम एतद अतिक्रम्य विचार्य च पुनः पुनः य नः कषमं महाबाहॊ तद बरवीह्य अविचारयन 6 शरुत्वैतद धर्मराजस्य धर्मार्थसहितं वचः मेघदुन्दुभि निर्घॊषः कृष्णॊ वचनम अब्रवीत 7 उक्तवान अस्मि यद वाक्यं धर्मार्थसहितं हितम न तु तन निकृतिप्रज्ञे कौरव्ये परतितिष्ठति 8 न च भीष्मस्य दुर्मेधाः शृणॊति विदुरस्य वा मम वा भाषितं किं चित सर्वम एवातिवर्तते 9 न स कामयते धर्मं न स कामयते यशः जितं स मन्यते सर्वं दुरात्मा कर्णम आश्रितः 10 बन्धम आज्ञापयाम आस मम चापि सुयॊधनः न च तं लब्धवान कामं दुरात्मा शासनातिगः 11 न च भीष्मॊ न च दरॊणॊ युक्तं तत्राहतुर वचः सर्वे तम अनुवर्तन्ते ऋते विदुरम अच्युत 12 शकुनिः सौबलश चैव कर्ण दुःशासनाव अपि तवय्य अयुक्तान्य अभाषन्त मूढा मूढम अमर्षणम 13 किं च तेन मयॊक्तेन यान्य अभाषन्त कौरवाः संक्षेपेण दुरात्मासौ न युक्तं तवयि वर्तते 14 न पार्थिवेषु सर्वेषु य इमे तव सैनिकाः यत पापं यन न कल्याणं सर्वं तस्मिन परतिष्ठितम 15 न चापि वयम अत्यर्थं परित्यागेन कर्हि चित कौरवैः शमम इच्छामस तत्र युद्धम अनन्तरम 16 तच छरुत्वा पार्थिवाः सर्वे वासुदेवस्य भाषितम अब्रुवन्तॊ मुखं राज्ञः समुदैक्षन्त भारत 17 युधिष्ठिरस तव अभिप्रायम उपलभ्य महीक्षिताम यॊगम आज्ञापयाम आस भीमार्जुनयमैः सह 18 ततः किल किला भूतम अनीकं पाण्डवस्य ह आज्ञापिते तदा यॊगे समहृष्यन्त सैनिकाः 19 अवध्यानां वधं पश्यन धर्मराजॊ युधिष्ठिरः निष्ठनन भीमसेनं च विजयं चेदम अब्रवीत 20 यदर्थं वनवासश च पराप्तं दुःखं च यन मया सॊ ऽयम अस्मान उपैत्य एव परॊ ऽनर्थः परयत्नतः 21 यस्मिन यत्नः कृतॊ ऽसमाभिः स नॊ हीनः परयत्नतः अकृते तु परयत्ने ऽसमान उपावृत्तः कलिर महान 22 कथं हय अवध्यैः संग्रामः कार्यः सह भविष्यति कथं हत्वा गुरून वृद्धान विजयॊ नॊ भविष्यति 23 तच छुत्वा धर्मराजस्य सव्यसाची परंतपः यद उक्तं वासुदेवेन शरावयाम आस तद वचः 24 उक्तवान देवकीपुत्रः कुन्त्याश च विदुरस्य च वचनं त तवया राजन निखिलेनावधारितम 25 न च तौ वक्ष्यतॊ ऽधर्मम इति मे नैष्ठिकी मतिः न चापि युक्तं कौन्तेय निवर्तितुम अयुध्यतः 26 तच छरुत्वा वासुदेवॊ ऽपि सव्यसाचि वचस तदा समयमानॊ ऽबरवीत पार्थम एवम एतद इति बरुवन 27 ततस ते धृतसंकल्पा युद्धाय सह सैनिकाः पाण्डवेया महाराज तां रात्रिं सुखम आवसन |
1
[v] vāsudevasya tad vākyam anusmṛtya yudhiṣṭhiraḥ punaḥ papraccha vārṣṇeyaṃ kathaṃ mando 'bravīd idam 2 asminn abhyāgate kāle kiṃ ca naḥ kṣamam acyuta kathaṃ ca vartamānā vai svadharmān na cyavemahi 3 duryodhanasya karṇasya śakuneḥ saubalasya ca vāsudeva matajño 'si mama sabhrātṛkasya ca 4 vidurasyāpi te vākyaṃ śrutaṃ bhīṣmasya cobhayoḥ kuntyāś ca vipulaprajña prajñā kārtsnyena te śrutā 5 sarvam etad atikramya vicārya ca punaḥ punaḥ ya naḥ kṣamaṃ mahābāho tad bravīhy avicārayan 6 śrutvaitad dharmarājasya dharmārthasahitaṃ vacaḥ meghadundubhi nirghoṣaḥ kṛṣṇo vacanam abravīt 7 uktavān asmi yad vākyaṃ dharmārthasahitaṃ hitam na tu tan nikṛtiprajñe kauravye pratitiṣṭhati 8 na ca bhīṣmasya durmedhāḥ śṛṇoti vidurasya vā mama vā bhāṣitaṃ kiṃ cit sarvam evātivartate 9 na sa kāmayate dharmaṃ na sa kāmayate yaśaḥ jitaṃ sa manyate sarvaṃ durātmā karṇam āśritaḥ 10 bandham ājñāpayām āsa mama cāpi suyodhanaḥ na ca taṃ labdhavān kāmaṃ durātmā śāsanātigaḥ 11 na ca bhīṣmo na ca droṇo yuktaṃ tatrāhatur vacaḥ sarve tam anuvartante ṛte viduram acyuta 12 śakuniḥ saubalaś caiva karṇa duḥśāsanāv api tvayy ayuktāny abhāṣanta mūḍhā mūḍham amarṣaṇam 13 kiṃ ca tena mayoktena yāny abhāṣanta kauravāḥ saṃkṣepeṇa durātmāsau na yuktaṃ tvayi vartate 14 na pārthiveṣu sarveṣu ya ime tava sainikāḥ yat pāpaṃ yan na kalyāṇaṃ sarvaṃ tasmin pratiṣṭhitam 15 na cāpi vayam atyarthaṃ parityāgena karhi cit kauravaiḥ śamam icchāmas tatra yuddham anantaram 16 tac chrutvā pārthivāḥ sarve vāsudevasya bhāṣitam abruvanto mukhaṃ rājñaḥ samudaikṣanta bhārata 17 yudhiṣṭhiras tv abhiprāyam upalabhya mahīkṣitām yogam ājñāpayām āsa bhīmārjunayamaiḥ saha 18 tataḥ kila kilā bhūtam anīkaṃ pāṇḍavasya ha ājñāpite tadā yoge samahṛṣyanta sainikāḥ 19 avadhyānāṃ vadhaṃ paśyan dharmarājo yudhiṣṭhiraḥ niṣṭhanan bhīmasenaṃ ca vijayaṃ cedam abravīt 20 yadarthaṃ vanavāsaś ca prāptaṃ duḥkhaṃ ca yan mayā so 'yam asmān upaity eva paro 'narthaḥ prayatnataḥ 21 yasmin yatnaḥ kṛto 'smābhiḥ sa no hīnaḥ prayatnataḥ akṛte tu prayatne 'smān upāvṛttaḥ kalir mahān 22 kathaṃ hy avadhyaiḥ saṃgrāmaḥ kāryaḥ saha bhaviṣyati kathaṃ hatvā gurūn vṛddhān vijayo no bhaviṣyati 23 tac chutvā dharmarājasya savyasācī paraṃtapaḥ yad uktaṃ vāsudevena śrāvayām āsa tad vacaḥ 24 uktavān devakīputraḥ kuntyāś ca vidurasya ca vacanaṃ ta tvayā rājan nikhilenāvadhāritam 25 na ca tau vakṣyato 'dharmam iti me naiṣṭhikī matiḥ na cāpi yuktaṃ kaunteya nivartitum ayudhyataḥ 26 tac chrutvā vāsudevo 'pi savyasāci vacas tadā smayamāno 'bravīt pārtham evam etad iti bruvan 27 tatas te dhṛtasaṃkalpā yuddhāya saha sainikāḥ pāṇḍaveyā mahārāja tāṃ rātriṃ sukham āvasan |
The Mahabharata in Sanskrit
Book 5
Chapter 152
|
1
[व] वयुषितायां रजन्यां तु राजा दुर्यॊधनस ततः वयभजत तान्य अनीकानि दश चैकं च भारत 2 नरहस्तिरथाश्वानां सारं मध्यं च फल्गु च सर्वेष्व एतेष्व अनीकेषु संदिदेश महीपतिः 3 सानुकर्षाः सतूणीराः सवरूथाः सतॊमराः सॊपासङ्गाः सशक्तीकाः सनिषङ्गाः सपॊथिकाः 4 सध्वजाः सपताकाश च सशरासन तॊमराः रज्जुभिश च विचित्राभिः सपाशाः सपरिस्तराः 5 सकच गरहविक्षेपाः सतैल गुड वालुकाः साशीविषघटाः सर्वे ससर्ज रसपांसवः 6 सघण्टा फलकाः सर्वे वासी वृक्षादनान्विताः वयाघ्रचर्म परीवारा वृताश च दवीपिचर्मभिः 7 सवस्तयः सशृङ्गाश च सप्रास विविधायुधाः सकुठाराः सकुद्दालाः सतैल कषौमसर्पिषः 8 चित्रानीकाः सुवपुषॊ जवलिता इव पावकाः तथा कवचिनः शूराः शस्त्रेषु कृतनिश्रमाः 9 कुलीना हययॊनिज्ञाः सारथ्ये विनिवेशिताः बद्धारिष्टा बद्धकक्ष्या बद्धध्वजपताकिनः 10 चतुर्युजॊ रथाः सर्वे सर्वे शस्त्रसमायुताः संहृष्टवाहनाः सर्वे सर्वे शतशरासनाः 11 दुर्ययॊर हययॊर एकस तथान्यौ पार्ष्णिसारथी तौ चापि रथिनां शरेष्ठौ रथी च हयवित तथा 12 नगराणीव गुप्तानि दुरादेयानि शत्रुभिः आसन रथसहस्राणि हेममालीनि सर्वशः 13 यथा रथास तथा नागबद्धकक्ष्याः सवलंकृताः बभूवुः सप्त पुरुषा रत्नवन्त इवाद्रयः 14 दवाव अङ्कुश धरौ तेषु दवाव उत्तमधनुर्धरौ दवौ वरासि धरौ राजन्न एकः शक्तिपताकधृक 15 गजैर मत्तैः समाकीर्णं सवर्मायुध कॊशकैः तद बभूव बलं राजन कौरव्यस्य सहस्रशः 16 विचित्रकवचामुक्तैः सपताकैः सवलंकृतैः सादिभिश चॊपसंपन्ना आसन्न अयुतशॊ हयाः 17 सुसंग्राहाः सुसंतॊषा हेमभाण्ड परिच्छदाः अनेकशतसाहस्रास ते च सादिवशे सथिताः 18 नानारूपविकाराश च नाना कवचशस्त्रिणः पदातिनॊ नरास तत्र बभूवुर हेममालिनः 19 रथस्यासन दश गजा गजस्य दशवाजिनः नरा दश हयस्यासन पादरक्षाः समन्ततः 20 रथस्य नागाः पञ्चाशन नागस्यासञ शतं हयाः हयस्य पुरुषाः सप्त भिन्नसंधान कारिणः 21 सेना पञ्चशतं नागा रथास तावन्त एव च दश सेना च पृतना पृतना दशवाहिनी 22 वाहिनी पृतना सेना धवजिनी सादिनी चमूः अक्षौहिणीति पर्यायैर निरुक्ताथ वरूथिनी एवं वयूढान्य अनीकानि कौरवेयेण धीमता 23 अक्षौहिण्यॊ दशैका च संख्याताः सप्त चैव ह अक्षौहिण्यस तु सप्तैव पाण्डवानाम अभूद बलम अक्षौहिण्यॊ दशैका च कौरवाणाम अभूद बलम 24 नराणां पञ्च पञ्चाशद एषा पत्तिर विधीयते सेनामुखं च तिस्रस ता गुल्म इत्य अभिसंज्ञितः 25 दश गुल्मा गणस तव आसीद गणास तव अयुतशॊ ऽभवन दुर्यॊधनस्य सेनासु यॊत्स्यमानाः परहारिणः 26 तत्र दुर्यॊधनॊ राजा शूरान बुद्धिमतॊ नरान परसमीक्ष्य महाबाहुश चक्रे सेनापतींस तदा 27 पृथग अक्षौहिणीनां च परणेतॄन नरसत्तमान विधिपूर्वं समानीय पार्थिवान अभ्यषेचयत 28 कृपं दरॊणं च शल्यं च सैन्धवं च महारथम सुदक्षिणं च काम्बॊजं कृतवर्माणम एव च 29 दरॊणपुत्रं च कर्णं च भूरिश्रवसम एव च शकुनिं सौबलं चैव बाह्लीकं च महारथम 30 दिवसे दिवसे तेषां परतिवेलं च भारत चक्रे स विविधाः संज्ञाः परत्यक्षं च पुनः पुनः 31 तथा विनियताः सर्वे ये च तेषां पदानुगाः बभूवुः सैनिका राजन राज्ञः परियचिकीर्षवः |
1
[v] vyuṣitāyāṃ rajanyāṃ tu rājā duryodhanas tataḥ vyabhajat tāny anīkāni daśa caikaṃ ca bhārata 2 narahastirathāśvānāṃ sāraṃ madhyaṃ ca phalgu ca sarveṣv eteṣv anīkeṣu saṃdideśa mahīpatiḥ 3 sānukarṣāḥ satūṇīrāḥ savarūthāḥ satomarāḥ sopāsaṅgāḥ saśaktīkāḥ saniṣaṅgāḥ sapothikāḥ 4 sadhvajāḥ sapatākāś ca saśarāsana tomarāḥ rajjubhiś ca vicitrābhiḥ sapāśāḥ saparistarāḥ 5 sakaca grahavikṣepāḥ sataila guḍa vālukāḥ sāśīviṣaghaṭāḥ sarve sasarja rasapāṃsavaḥ 6 saghaṇṭā phalakāḥ sarve vāsī vṛkṣādanānvitāḥ vyāghracarma parīvārā vṛtāś ca dvīpicarmabhiḥ 7 savastayaḥ saśṛṅgāś ca saprāsa vividhāyudhāḥ sakuṭhārāḥ sakuddālāḥ sataila kṣaumasarpiṣaḥ 8 citrānīkāḥ suvapuṣo jvalitā iva pāvakāḥ tathā kavacinaḥ śūrāḥ śastreṣu kṛtaniśramāḥ 9 kulīnā hayayonijñāḥ sārathye viniveśitāḥ baddhāriṣṭā baddhakakṣyā baddhadhvajapatākinaḥ 10 caturyujo rathāḥ sarve sarve śastrasamāyutāḥ saṃhṛṣṭavāhanāḥ sarve sarve śataśarāsanāḥ 11 duryayor hayayor ekas tathānyau pārṣṇisārathī tau cāpi rathināṃ śreṣṭhau rathī ca hayavit tathā 12 nagarāṇīva guptāni durādeyāni śatrubhiḥ āsan rathasahasrāṇi hemamālīni sarvaśaḥ 13 yathā rathās tathā nāgabaddhakakṣyāḥ svalaṃkṛtāḥ babhūvuḥ sapta puruṣā ratnavanta ivādrayaḥ 14 dvāv aṅkuśa dharau teṣu dvāv uttamadhanurdharau dvau varāsi dharau rājann ekaḥ śaktipatākadhṛk 15 gajair mattaiḥ samākīrṇaṃ savarmāyudha kośakaiḥ tad babhūva balaṃ rājan kauravyasya sahasraśaḥ 16 vicitrakavacāmuktaiḥ sapatākaiḥ svalaṃkṛtaiḥ sādibhiś copasaṃpannā āsann ayutaśo hayāḥ 17 susaṃgrāhāḥ susaṃtoṣā hemabhāṇḍa paricchadāḥ anekaśatasāhasrās te ca sādivaśe sthitāḥ 18 nānārūpavikārāś ca nānā kavacaśastriṇaḥ padātino narās tatra babhūvur hemamālinaḥ 19 rathasyāsan daśa gajā gajasya daśavājinaḥ narā daśa hayasyāsan pādarakṣāḥ samantataḥ 20 rathasya nāgāḥ pañcāśan nāgasyāsañ śataṃ hayāḥ hayasya puruṣāḥ sapta bhinnasaṃdhāna kāriṇaḥ 21 senā pañcaśataṃ nāgā rathās tāvanta eva ca daśa senā ca pṛtanā pṛtanā daśavāhinī 22 vāhinī pṛtanā senā dhvajinī sādinī camūḥ akṣauhiṇīti paryāyair niruktātha varūthinī evaṃ vyūḍhāny anīkāni kauraveyeṇa dhīmatā 23 akṣauhiṇyo daśaikā ca saṃkhyātāḥ sapta caiva ha akṣauhiṇyas tu saptaiva pāṇḍavānām abhūd balam akṣauhiṇyo daśaikā ca kauravāṇām abhūd balam 24 narāṇāṃ pañca pañcāśad eṣā pattir vidhīyate senāmukhaṃ ca tisras tā gulma ity abhisaṃjñitaḥ 25 daśa gulmā gaṇas tv āsīd gaṇās tv ayutaśo 'bhavan duryodhanasya senāsu yotsyamānāḥ prahāriṇaḥ 26 tatra duryodhano rājā śūrān buddhimato narān prasamīkṣya mahābāhuś cakre senāpatīṃs tadā 27 pṛthag akṣauhiṇīnāṃ ca praṇetṝn narasattamān vidhipūrvaṃ samānīya pārthivān abhyaṣecayat 28 kṛpaṃ droṇaṃ ca śalyaṃ ca saindhavaṃ ca mahāratham sudakṣiṇaṃ ca kāmbojaṃ kṛtavarmāṇam eva ca 29 droṇaputraṃ ca karṇaṃ ca bhūriśravasam eva ca śakuniṃ saubalaṃ caiva bāhlīkaṃ ca mahāratham 30 divase divase teṣāṃ prativelaṃ ca bhārata cakre sa vividhāḥ saṃjñāḥ pratyakṣaṃ ca punaḥ punaḥ 31 tathā viniyatāḥ sarve ye ca teṣāṃ padānugāḥ babhūvuḥ sainikā rājan rājñaḥ priyacikīrṣavaḥ |
The Mahabharata in Sanskrit
Book 5
Chapter 153
|
1
[व] ततः शांतनवं भीष्मं पराञ्जलिर धृतराष्ट्रजः सह सर्वैर महीपालैर इदं वचनम अब्रवीत 2 ऋते सेना परणेतारं पृतना सुमहत्य अपि दीर्यते युद्धम आसाद्य पिपीलिक पुटं यथा 3 न हि जातु दवयॊर बुद्धिः समा भवति कर्हि चित शौर्यं च नाम नेतॄणां सपर्धते च परस्परम 4 शरूयते च महाप्राज्ञ हैहयान अमितौजसः अभ्ययुर बराह्मणाः सर्वे समुच्छ्रितकुशध्वजाः 5 तान अन्वयुस तदा वैश्याः शूद्राश चैव पितामह एकतस तु तरयॊ वर्णा एकतः कषत्रियर्षभाः 6 ते सम युद्धेष्व अभज्यन्त तरयॊ वर्णाः पुनः पुनः कषत्रियास तु जयन्त्य एव बहुलं चैकतॊ बलम 7 ततस ते कषत्रियान एव पप्रच्छुर दविजसत्तमाः तेभ्यः शशंसुर धर्मज्ञा याथातथ्यं पितामह 8 वयम एकस्य शृणुमॊ महाबुद्धिमतॊ रणे भवन्तस तु पृथक सर्वे सवबुद्धिवशवर्तिनः 9 ततस ते बराह्मणाश चक्रुर एकं सेनापतिं दविजम नयेषु कुशलं शूरम अजयन कषत्रियांस ततः 10 एवं ये कुशलं शूलं हिते सथितम अकल्मषम सेनापतिं परकुर्वन्ति ते जयन्ति रणे रिपून 11 भवान उशनसा तुल्यॊ हितैषी च सदा मम असंहार्यः सथितॊ धर्मे स नः सेनापतिर भव 12 रश्मीवताम इवादित्यॊ वीरुधाम इव चन्द्रमाः कुबेर इव यक्षाणां मरुताम इव वासवः 13 पर्वतानां यथा मेरुः सुपर्णः पतताम इव कुमार इव भूतानां वसूनाम इव हव्यवाट 14 भवता हि वयं गुप्ताः शक्रेणेव दिवौकसः अनाधृष्या भविष्यामस तरिदशानाम अपि धरुवम 15 परयातु नॊ भवान अग्रे देवानाम इव पावकिः वयं तवाम अनुयास्यामः सौरभेया इवर्षभम 16 एवम एतन महाबाहॊ यथा वदसि भारत यथैव हि भवन्तॊ मे तथैव मम पाण्डवाः 17 अपि चैव मय शरेयॊ वाच्यं तेषां नराधिप यॊद्धव्यं तु तवार्थाय यथा स समयः कृतः 18 न तु पश्यामि यॊद्धारम आत्मनः सदृशं भुवि ऋते तस्मान नरव्याघ्रात कुन्तीपुत्राद धनंजयात 19 स हि वेद महाबाहुर दिव्यान्य अस्त्राणि सर्वशः न तु मां विवृतॊ युद्धे जातु युध्येत पाण्डवः 20 अहं स च कषणेनैव निर्मनुष्यम इदं जगत कुर्यां शस्त्रबलेनैव ससुरासुरराक्षसम 21 न तव एवॊत्सादनीया मे पाण्डॊः पुत्रा नराधिप तस्माद यॊधान हनिष्यामि परयॊगेणायुतं सदा 22 एवम एषां करिष्यामि निधनं कुरुनन्दन न चेत ते मां हनिष्यन्ति पूर्वम एव समागमे 23 सेनापतिस तव अहं राजन समयेनापरेण ते भविष्यामि यथाकामं तन मे शरॊतुम इहार्हसि 24 कर्णॊ वा युध्यतां पूर्वम अहं वा पृथिवीपते सपर्धते हि सदात्यर्थं सूतपुत्रॊ मया रणे 25 नाहं जीवति गाङ्गेये यॊत्स्ये राजन कथं चन हते भीष्मे तु यॊत्स्यामि सह गाण्डीवधन्वना 26 ततः सेनापतिं चक्रे विधिवद भूरिदक्षिणम धृतराष्ट्रात्मजॊ भीष्मं सॊ ऽभिषिक्तॊ वयरॊचत 27 ततॊ भेरीश च शङ्खांश च शतशश चैव पुष्करान वदयाम आसुर अव्यग्राः पुरुषा राजशासनात 28 सिंहनाशाश च विविधा वाहनानां चनिस्वनाः परादुरासन्न अनभ्रे च वर्षं रुधिरकर्दमम 29 निर्घाताः पृथिवी कम्पा गजबृंहित निस्वनाः आसंश च सर्वयॊधानां पातयन्तॊ मनांस्य उत 30 वाचश चाप्य अशरीरिण्यॊ दिवश चॊल्काः परपेदिरे शिवाश च भयवेदिन्यॊ नेदुर दीप्तस्वरा भृशम 31 सेनापत्ये यदा राजा गाङ्गेयम अभिषिक्तवान तदैतान्य उग्ररूपाणि अभवञ शतशॊ नृप 32 ततः सेनापतिं कृत्वा भीष्मं परबलार्दनम वाचयित्वा दविजश्रेष्ठान निष्कैर गॊभिश च भूरिशः 33 वर्धमानॊ जयाशीर्भिर निर्ययौ सैनिकैर वृतः आपगेयं पुरस्कृत्य भरातृभिः सहितस तदा सकन्धावारेण महता कुरुक्षेत्रं जगाम ह 34 परिक्रम्य कुरुक्षेत्रं कर्णेन सह कौरवः शिबिरं मापयाम आस समे देशे नराधिपः 35 मधुरानूषरे देशे परभूतयवसेन्धने यथैव हास्तिनपुरं तद्वच छिबिरम आबभौ |
1
[v] tataḥ śāṃtanavaṃ bhīṣmaṃ prāñjalir dhṛtarāṣṭrajaḥ saha sarvair mahīpālair idaṃ vacanam abravīt 2 ṛte senā praṇetāraṃ pṛtanā sumahaty api dīryate yuddham āsādya pipīlika puṭaṃ yathā 3 na hi jātu dvayor buddhiḥ samā bhavati karhi cit śauryaṃ ca nāma netṝṇāṃ spardhate ca parasparam 4 śrūyate ca mahāprājña haihayān amitaujasaḥ abhyayur brāhmaṇāḥ sarve samucchritakuśadhvajāḥ 5 tān anvayus tadā vaiśyāḥ śūdrāś caiva pitāmaha ekatas tu trayo varṇā ekataḥ kṣatriyarṣabhāḥ 6 te sma yuddheṣv abhajyanta trayo varṇāḥ punaḥ punaḥ kṣatriyās tu jayanty eva bahulaṃ caikato balam 7 tatas te kṣatriyān eva papracchur dvijasattamāḥ tebhyaḥ śaśaṃsur dharmajñā yāthātathyaṃ pitāmaha 8 vayam ekasya śṛṇumo mahābuddhimato raṇe bhavantas tu pṛthak sarve svabuddhivaśavartinaḥ 9 tatas te brāhmaṇāś cakrur ekaṃ senāpatiṃ dvijam nayeṣu kuśalaṃ śūram ajayan kṣatriyāṃs tataḥ 10 evaṃ ye kuśalaṃ śūlaṃ hite sthitam akalmaṣam senāpatiṃ prakurvanti te jayanti raṇe ripūn 11 bhavān uśanasā tulyo hitaiṣī ca sadā mama asaṃhāryaḥ sthito dharme sa naḥ senāpatir bhava 12 raśmīvatām ivādityo vīrudhām iva candramāḥ kubera iva yakṣāṇāṃ marutām iva vāsavaḥ 13 parvatānāṃ yathā meruḥ suparṇaḥ patatām iva kumāra iva bhūtānāṃ vasūnām iva havyavāṭ 14 bhavatā hi vayaṃ guptāḥ śakreṇeva divaukasaḥ anādhṛṣyā bhaviṣyāmas tridaśānām api dhruvam 15 prayātu no bhavān agre devānām iva pāvakiḥ vayaṃ tvām anuyāsyāmaḥ saurabheyā ivarṣabham 16 evam etan mahābāho yathā vadasi bhārata yathaiva hi bhavanto me tathaiva mama pāṇḍavāḥ 17 api caiva maya śreyo vācyaṃ teṣāṃ narādhipa yoddhavyaṃ tu tavārthāya yathā sa samayaḥ kṛtaḥ 18 na tu paśyāmi yoddhāram ātmanaḥ sadṛśaṃ bhuvi ṛte tasmān naravyāghrāt kuntīputrād dhanaṃjayāt 19 sa hi veda mahābāhur divyāny astrāṇi sarvaśaḥ na tu māṃ vivṛto yuddhe jātu yudhyeta pāṇḍavaḥ 20 ahaṃ sa ca kṣaṇenaiva nirmanuṣyam idaṃ jagat kuryāṃ śastrabalenaiva sasurāsurarākṣasam 21 na tv evotsādanīyā me pāṇḍoḥ putrā narādhipa tasmād yodhān haniṣyāmi prayogeṇāyutaṃ sadā 22 evam eṣāṃ kariṣyāmi nidhanaṃ kurunandana na cet te māṃ haniṣyanti pūrvam eva samāgame 23 senāpatis tv ahaṃ rājan samayenāpareṇa te bhaviṣyāmi yathākāmaṃ tan me śrotum ihārhasi 24 karṇo vā yudhyatāṃ pūrvam ahaṃ vā pṛthivīpate spardhate hi sadātyarthaṃ sūtaputro mayā raṇe 25 nāhaṃ jīvati gāṅgeye yotsye rājan kathaṃ cana hate bhīṣme tu yotsyāmi saha gāṇḍīvadhanvanā 26 tataḥ senāpatiṃ cakre vidhivad bhūridakṣiṇam dhṛtarāṣṭrātmajo bhīṣmaṃ so 'bhiṣikto vyarocata 27 tato bherīś ca śaṅkhāṃś ca śataśaś caiva puṣkarān vadayām āsur avyagrāḥ puruṣā rājaśāsanāt 28 siṃhanāśāś ca vividhā vāhanānāṃ canisvanāḥ prādurāsann anabhre ca varṣaṃ rudhirakardamam 29 nirghātāḥ pṛthivī kampā gajabṛṃhita nisvanāḥ āsaṃś ca sarvayodhānāṃ pātayanto manāṃsy uta 30 vācaś cāpy aśarīriṇyo divaś colkāḥ prapedire śivāś ca bhayavedinyo nedur dīptasvarā bhṛśam 31 senāpatye yadā rājā gāṅgeyam abhiṣiktavān tadaitāny ugrarūpāṇi abhavañ śataśo nṛpa 32 tataḥ senāpatiṃ kṛtvā bhīṣmaṃ parabalārdanam vācayitvā dvijaśreṣṭhān niṣkair gobhiś ca bhūriśaḥ 33 vardhamāno jayāśīrbhir niryayau sainikair vṛtaḥ āpageyaṃ puraskṛtya bhrātṛbhiḥ sahitas tadā skandhāvāreṇa mahatā kurukṣetraṃ jagāma ha 34 parikramya kurukṣetraṃ karṇena saha kauravaḥ śibiraṃ māpayām āsa same deśe narādhipaḥ 35 madhurānūṣare deśe prabhūtayavasendhane yathaiva hāstinapuraṃ tadvac chibiram ābabhau |
The Mahabharata in Sanskrit
Book 5
Chapter 154
|
1
[ज] आपगेयं महात्मानं भीष्मं शस्त्रभृतां वरम पितामहं भारतानां धवजं सर्वमहीक्षिताम 2 बृहस्पतिसमं बुद्ध्या कषमया पृथिवीसमम समुद्रम इव गाम्भीर्ये हिमवन्तम इव सथितम 3 परजापतिम इवौदार्ये तेजसा भास्करॊपमम महेन्द्रम इव शत्रूणां धवंसनं शरवृष्टिभिः 4 रणयज्ञे परतिभये सवाभीले लॊमहर्षणे दीक्षितं चिररात्राय शरुता राजा युधिष्ठिरः 5 किम अब्रवीन महाबाहुः सर्वधर्मविशारदः भीमसेनार्जुनौ वापि कृष्णॊ वा परत्यपद्यत 6 आपद धर्मार्थकुशलॊ महाबुद्धिर युधिष्ठिरः सर्वान भरातॄन समानीय वासुदेवं च सात्वतम उवाच वदतां शरेष्ठः सान्त्वपूर्वम इदं वचः 7 पर्याक्रामत सैन्यानि यत तास तिष्ठत दंशिताः पितामहेन वॊ युद्धं पूर्वम एव भविष्यति तस्मात सप्तसु सेनासु परणेतॄन मम पश्यत 8 यथार्हति भवान वक्तुम अस्मिन काल उपस्थिते तथेदम अर्थवद वाक्यम उक्तं ते भरतर्षभ 9 रॊचते मे महाबाहॊ करियतां यद अनन्तरम नायकास तव सेनायाम अभिषिच्यन्तु सप्त वै 10 ततॊ दरुपदम आनाय्य विराटं शिनिपुंगवम धृष्टद्युम्नं च पाञ्चाल्यं धृष्टकेतुं च पार्थिवम शिखण्डिनं च पाञ्चाल्यं सहदेवं च मागधम 11 एतान सप्त महैष्वासान वीरान युद्धाभिनन्दिनः सेना परणेतॄन विधिवद अभ्यषिञ्चद युधिष्ठिरः 12 सर्वसेनापतिं चात्र धृष्टद्युम्नम उपादिशत दरॊणान्त हेतॊर उत्पन्नॊ य इद्धाञ जातवेदसः 13 सर्वेषाम एव तेषां तु समस्तानां महात्मनाम सेनापतिपतिं चक्रे गुडाकेशं धनंजयम 14 अर्जुनस्यापि नेता च संयन्ता चव वाजिनाम संकर्षणानुजः शरीमान महाबुद्धिर जनार्दनः 15 तद दृष्ट्वॊपस्थितं युद्धं समासन्नं महात्ययम पराविशद भवनं राज्ञः पाण्डवस्य हलायुधः 16 सहाक्रूरप्रभृतिभिर गद साम्बॊल्मुकादिभिः रौक्मिणेयाहुक सुतैश चारुदेष्ण पुरॊगमैः 17 वृष्णिमुख्यैर अभिगतैर वयाघ्रैर इव बलॊत्कटैः अभिगुप्तॊ महाबाहुर मरुद्भिर इव वासवः 18 नीलकौशेय वसनः कौलास शिखरॊपमः सिंहखेल गतिः शरीमान मदरक्तान्त लॊचनः 19 तं दृष्ट्वा धर्मराजश च केशवश च महाद्युतिः उदतिष्ठत तदा पार्थॊ भीमकर्मा वृकॊदरः 20 गाण्डीवधन्वा ये चान्ये राजानस तत्र के चन पूजयां चक्रुर अभ्येत्य ते सम सर्वे हलायुधम 21 ततस तं पाण्डवॊ राजा करे पस्पर्श पाणिना वासुदेव पुरॊगास तु सर्व एवाभ्यवादयन 22 विराटद्रुपदौ वृद्धाव अभिवाद्य हलायुधः युधिष्ठिरेण सहित उपाविशद अरिंदमः 23 ततस तेषूपविष्टेषु पार्थिवेषु समन्ततः वासुदेवम अभिप्रेक्ष्य रौहिणेयॊ ऽभयभाषत 24 भवितायं महारौद्रॊ दारुणः पुरुषक्षयः दिष्टम एतद धरुवं मन्ये न शक्यम अतिवर्तितुम 25 अस्माद युद्धात समुत्तीर्णान अपि वः ससुहृज्जनान अरॊगान अक्षतैर देहैः पश्येयम इति मे मतिः 26 समेतं पार्थिवं कषत्रं कालपक्वम असंशयम विमर्दः सुमहान भावी मांसशॊणितकर्दमः 27 उक्तॊ मया वासुदेवः पुनः पुनर उपह्वरे संबन्धिषु समां वृत्तिं वर्तस्व मधुसूदन 28 पाण्डवा हि यथास्माकं तथा दुर्यॊधनॊ नृपः तस्यापि करियतां युक्त्या सपर्येति पुनः पुनः 29 तच च मे नाकरॊद वाक्यं तवदर्थे मधुसूदनः निविष्टः सर्वभावेन धनंजयम अवेक्ष्य च 30 धरुवॊ जयः पाण्डवानाम इति मे निश्चिता मतिः तथा हय अभिनिवेशॊ ऽयं वासुदेवस्य भारत 31 न चाहम उत्सहे कृष्णम ऋते लॊकम उदीक्षितुम ततॊ ऽहम अनुवर्तामि केषवस्य चिकीर्षितम 32 उभौ शिष्यौ हि मे वीरौ गदायुद्धविशारदौ तुल्यस्नेहॊ ऽसम्य अतॊ भीमे तथा दुर्यॊधने नृपे 33 तस्माद यास्यामि तीर्थानि सरस्वत्यानिषेवितुम न हि शक्ष्यामि कौरव्यान नश्यमानान उपेक्षितुम 34 एवम उक्त्वा महाबाहुर अनुज्ञातश च पाण्डवैः तीर्थयात्रां ययौ रामॊ निवर्त्य मधुसूदनम |
1
[j] āpageyaṃ mahātmānaṃ bhīṣmaṃ śastrabhṛtāṃ varam pitāmahaṃ bhāratānāṃ dhvajaṃ sarvamahīkṣitām 2 bṛhaspatisamaṃ buddhyā kṣamayā pṛthivīsamam samudram iva gāmbhīrye himavantam iva sthitam 3 prajāpatim ivaudārye tejasā bhāskaropamam mahendram iva śatrūṇāṃ dhvaṃsanaṃ śaravṛṣṭibhiḥ 4 raṇayajñe pratibhaye svābhīle lomaharṣaṇe dīkṣitaṃ cirarātrāya śrutā rājā yudhiṣṭhiraḥ 5 kim abravīn mahābāhuḥ sarvadharmaviśāradaḥ bhīmasenārjunau vāpi kṛṣṇo vā pratyapadyata 6 āpad dharmārthakuśalo mahābuddhir yudhiṣṭhiraḥ sarvān bhrātṝn samānīya vāsudevaṃ ca sātvatam uvāca vadatāṃ śreṣṭhaḥ sāntvapūrvam idaṃ vacaḥ 7 paryākrāmata sainyāni yat tās tiṣṭhata daṃśitāḥ pitāmahena vo yuddhaṃ pūrvam eva bhaviṣyati tasmāt saptasu senāsu praṇetṝn mama paśyata 8 yathārhati bhavān vaktum asmin kāla upasthite tathedam arthavad vākyam uktaṃ te bharatarṣabha 9 rocate me mahābāho kriyatāṃ yad anantaram nāyakās tava senāyām abhiṣicyantu sapta vai 10 tato drupadam ānāyya virāṭaṃ śinipuṃgavam dhṛṣṭadyumnaṃ ca pāñcālyaṃ dhṛṣṭaketuṃ ca pārthivam śikhaṇḍinaṃ ca pāñcālyaṃ sahadevaṃ ca māgadham 11 etān sapta mahaiṣvāsān vīrān yuddhābhinandinaḥ senā praṇetṝn vidhivad abhyaṣiñcad yudhiṣṭhiraḥ 12 sarvasenāpatiṃ cātra dhṛṣṭadyumnam upādiśat droṇānta hetor utpanno ya iddhāñ jātavedasaḥ 13 sarveṣām eva teṣāṃ tu samastānāṃ mahātmanām senāpatipatiṃ cakre guḍākeśaṃ dhanaṃjayam 14 arjunasyāpi netā ca saṃyantā cava vājinām saṃkarṣaṇānujaḥ śrīmān mahābuddhir janārdanaḥ 15 tad dṛṣṭvopasthitaṃ yuddhaṃ samāsannaṃ mahātyayam prāviśad bhavanaṃ rājñaḥ pāṇḍavasya halāyudhaḥ 16 sahākrūraprabhṛtibhir gada sāmbolmukādibhiḥ raukmiṇeyāhuka sutaiś cārudeṣṇa purogamaiḥ 17 vṛṣṇimukhyair abhigatair vyāghrair iva balotkaṭaiḥ abhigupto mahābāhur marudbhir iva vāsavaḥ 18 nīlakauśeya vasanaḥ kaulāsa śikharopamaḥ siṃhakhela gatiḥ śrīmān madaraktānta locanaḥ 19 taṃ dṛṣṭvā dharmarājaś ca keśavaś ca mahādyutiḥ udatiṣṭhat tadā pārtho bhīmakarmā vṛkodaraḥ 20 gāṇḍīvadhanvā ye cānye rājānas tatra ke cana pūjayāṃ cakrur abhyetya te sma sarve halāyudham 21 tatas taṃ pāṇḍavo rājā kare pasparśa pāṇinā vāsudeva purogās tu sarva evābhyavādayan 22 virāṭadrupadau vṛddhāv abhivādya halāyudhaḥ yudhiṣṭhireṇa sahita upāviśad ariṃdamaḥ 23 tatas teṣūpaviṣṭeṣu pārthiveṣu samantataḥ vāsudevam abhiprekṣya rauhiṇeyo 'bhyabhāṣata 24 bhavitāyaṃ mahāraudro dāruṇaḥ puruṣakṣayaḥ diṣṭam etad dhruvaṃ manye na śakyam ativartitum 25 asmād yuddhāt samuttīrṇān api vaḥ sasuhṛjjanān arogān akṣatair dehaiḥ paśyeyam iti me matiḥ 26 sametaṃ pārthivaṃ kṣatraṃ kālapakvam asaṃśayam vimardaḥ sumahān bhāvī māṃsaśoṇitakardamaḥ 27 ukto mayā vāsudevaḥ punaḥ punar upahvare saṃbandhiṣu samāṃ vṛttiṃ vartasva madhusūdana 28 pāṇḍavā hi yathāsmākaṃ tathā duryodhano nṛpaḥ tasyāpi kriyatāṃ yuktyā saparyeti punaḥ punaḥ 29 tac ca me nākarod vākyaṃ tvadarthe madhusūdanaḥ niviṣṭaḥ sarvabhāvena dhanaṃjayam avekṣya ca 30 dhruvo jayaḥ pāṇḍavānām iti me niścitā matiḥ tathā hy abhiniveśo 'yaṃ vāsudevasya bhārata 31 na cāham utsahe kṛṣṇam ṛte lokam udīkṣitum tato 'ham anuvartāmi keṣavasya cikīrṣitam 32 ubhau śiṣyau hi me vīrau gadāyuddhaviśāradau tulyasneho 'smy ato bhīme tathā duryodhane nṛpe 33 tasmād yāsyāmi tīrthāni sarasvatyāniṣevitum na hi śakṣyāmi kauravyān naśyamānān upekṣitum 34 evam uktvā mahābāhur anujñātaś ca pāṇḍavaiḥ tīrthayātrāṃ yayau rāmo nivartya madhusūdanam |
The Mahabharata in Sanskrit
Book 5
Chapter 155
|
1
[व] एतस्मिन्न एव काले तु भीष्मकस्य महात्मनः हिरण्यलॊम्नॊ नृपतेः साक्षाद इन्द्र सखस्य वै 2 आहृतीनाम अधिपतेर भॊजस्यातियशस्विनः दाक्षिणात्य पतेः पुत्रॊ दिक्षु रुक्मीति विश्रुतः 3 यः किंपुरुष सिंहस्य गन्धमादनवासिनः शिष्यः कृत्स्नं धनुर्वेदं चतुष्पादम अवाप्तवान 4 यॊ माहेन्द्रं धनुर लेभे तुल्यं गाण्डीवतेजसा शार्ङ्गेण च महाबाहुः संमितं दिव्यम अक्षयम 5 तरीण्य एवैतानि दिव्यानि धनूंषि दिवि चारिणाम वारुणं गाण्डिवं तत्र माहेन्द्रं विजयं धनुः 6 शार्ङ्गं तु वैष्णवं पराहुर दिव्यं तेजॊमयं धनुः धारयाम आस यत कृष्णः परसेना भयावहम 7 गाण्डीवं पावकाल लेभे खाण्डवे पाकशासनिः दरुमाद रुक्मी महातेजा विजयं परत्यपद्यत 8 संछिद्य मौरवान पाशान निहत्य मुरम ओजसा निर्जित्य नरकं भौमम आहृत्य पणि कुण्डले 9 षॊडश सत्रीसहस्राणि रत्नानि विविधानि च परतिपेदे हृषीकेशः शार्ङ्गं च धनुर उत्तमम 10 रुक्मी तु विजयं लब्ध्वा धनुर मेघसमस्वनम विभीषयन्न इव जगत पाण्डवान अभ्यवर्तत 11 नामृष्यत पुरा यॊ ऽसौ सवबाहुबलदर्पितः रुक्मिण्या हरणं वीरॊ वासुदेवेन धीमता 12 कृत्वा परतिज्ञां नाहत्वा निवर्तिष्यामि केशवम ततॊ ऽनवधावद वार्ष्णेयं सर्वशस्त्रभृतां वरम 13 सेनया चतुरङ्गिण्या महत्या दूरपातया विचित्रायुध वर्मिण्या गङ्गयेव परवृद्धया 14 स समासाद्य वार्ष्णेयं गॊनानाम ईश्वरं परभुम वयंसितॊ वरीडितॊ राजन्न आजगाम स कुण्डिनम 15 यत्रैव कृष्णेन रणे निर्जितः परवीरहा तत्र भॊजकटं नाम चक्रे नगरम उत्तमम 16 सैन्येन महता तेन परभूतगजवाजिना पुरं तद भुवि विख्यात्म नाम्न भॊजकटं नृप 17 स भॊजराजः सैन्येन महता परिवारितः अक्षौहिण्या महावीर्यः पाण्डवान समुपागमत 18 ततः स कवची खड्गी शरी धन्वी तली रथी धवजेनादित्य वर्णेन परविवेश महाचमूम 19 विदितः पाण्डवेयानां वासुदेव परियेप्सया युधिष्ठिरस तु तं राजा परत्युद्गम्याभ्यपूजयत 20 स पूजितः पाण्डुसुतैर यथान्यायं सुसत्कृतः परतिपूज्य च तान सर्वान विश्रान्तः सह सैनिकः उवाच मध्ये वीराणां कुन्तीपुत्रं धनंजयम 21 सहायॊ ऽसमि सथितॊ युद्धे यदि भीतॊ ऽसि पाण्डव करिष्यामि रणे साह्यम असह्यं तव शत्रुभिः 22 न हि मे विक्रमे तुल्यः पुमान अस्तीह कश चन निहत्य समरे शत्रूंस तव दास्यामि फल्गुन 23 इत्य उक्तॊ धर्मराजस्य केशवस्य च संनिधौ शृण्वतां पार्थिवेन्द्राणाम अन्येषां चैव सर्वशः 24 वासुदेवम अभिप्रेक्ष्य धर्मराजं च पाण्डवम उवाच धीमान कौन्तेयः परहस्य सखिपूर्वकम 25 युध्यमानस्य मे वीर गन्धर्वैः सुमहाबलैः सहायॊ घॊषयात्रायां कस तदासीत सखा मम 26 तथा परतिभये तस्मिन देवदानव संकुले खाण्डवे युध्यमानस्य कः सहायस तदाभवत 27 निवातकवचैर युद्धे कालकेयैश च दानवैः तत्र मे युध्यमानस्य कः सहायस तदाभवत 28 तथा विराटनगरे कुरुभिः सह संगरे युध्यतॊ बहुभिस तात कः सहायॊ ऽभवन मम 29 उपजीव्य रणे रुद्रं शक्रं वैश्वरणं यमम वरुणं पावकं चैव कृपं दरॊणं च माधवम 30 धारयन गाण्डिवं दिव्यं धनुस तेजॊमयं दृढम अक्षय्य शरसंयुक्तॊ दिव्यास्त्रपरिबृंहितः 31 कौरवाणां कुले जातः पाण्डॊः पुत्रॊ विशेषतः दरॊणं वयपदिशञ शिष्यॊ वासुदेवसहायवान 32 कथम अस्मद्विधॊ बरूयाद भीतॊ ऽसतीत्य अयशस्करम वचनं नरशार्दूल वज्रायुधम अपि सवयम 33 नास्मि भीतॊ महाबाहॊ सहायार्थश च नास्ति मे यथाकामं यथायॊगं गच्छ वान्यत्र तिष्ठ वा 34 विनिवर्त्य ततॊ रुक्मी सेनां सागरसंनिभाम दुर्यॊधनम उपागच्छत तथैव भरतर्षभ 35 तथैव चाभिगम्यैनम उवाच स नराधिपः परत्याख्यातश च तेनापि स तदा शूरमानिना 36 दवाव एव तु महाराज तस्माद युद्धाद वयपेयतुः रौहिणेयश च वार्ष्णेयॊ रुक्मी च वसुधाधिपः 37 गते रामे तीर्थयात्रां भीष्मकस्य सुते तथा उपाविशन पाण्डवेया मन्त्राय पुनर एव हि 38 समितिर धर्मराजस्य सा पार्थिव समाकुला शुशुभे तारका चित्रा दयौश चन्द्रेणेव भारत |
1
[v] etasminn eva kāle tu bhīṣmakasya mahātmanaḥ hiraṇyalomno nṛpateḥ sākṣād indra sakhasya vai 2 āhṛtīnām adhipater bhojasyātiyaśasvinaḥ dākṣiṇātya pateḥ putro dikṣu rukmīti viśrutaḥ 3 yaḥ kiṃpuruṣa siṃhasya gandhamādanavāsinaḥ śiṣyaḥ kṛtsnaṃ dhanurvedaṃ catuṣpādam avāptavān 4 yo māhendraṃ dhanur lebhe tulyaṃ gāṇḍīvatejasā śārṅgeṇa ca mahābāhuḥ saṃmitaṃ divyam akṣayam 5 trīṇy evaitāni divyāni dhanūṃṣi divi cāriṇām vāruṇaṃ gāṇḍivaṃ tatra māhendraṃ vijayaṃ dhanuḥ 6 śārṅgaṃ tu vaiṣṇavaṃ prāhur divyaṃ tejomayaṃ dhanuḥ dhārayām āsa yat kṛṣṇaḥ parasenā bhayāvaham 7 gāṇḍīvaṃ pāvakāl lebhe khāṇḍave pākaśāsaniḥ drumād rukmī mahātejā vijayaṃ pratyapadyata 8 saṃchidya mauravān pāśān nihatya muram ojasā nirjitya narakaṃ bhaumam āhṛtya paṇi kuṇḍale 9 ṣoḍaśa strīsahasrāṇi ratnāni vividhāni ca pratipede hṛṣīkeśaḥ śārṅgaṃ ca dhanur uttamam 10 rukmī tu vijayaṃ labdhvā dhanur meghasamasvanam vibhīṣayann iva jagat pāṇḍavān abhyavartata 11 nāmṛṣyata purā yo 'sau svabāhubaladarpitaḥ rukmiṇyā haraṇaṃ vīro vāsudevena dhīmatā 12 kṛtvā pratijñāṃ nāhatvā nivartiṣyāmi keśavam tato 'nvadhāvad vārṣṇeyaṃ sarvaśastrabhṛtāṃ varam 13 senayā caturaṅgiṇyā mahatyā dūrapātayā vicitrāyudha varmiṇyā gaṅgayeva pravṛddhayā 14 sa samāsādya vārṣṇeyaṃ gonānām īśvaraṃ prabhum vyaṃsito vrīḍito rājann ājagāma sa kuṇḍinam 15 yatraiva kṛṣṇena raṇe nirjitaḥ paravīrahā tatra bhojakaṭaṃ nāma cakre nagaram uttamam 16 sainyena mahatā tena prabhūtagajavājinā puraṃ tad bhuvi vikhyātma nāmna bhojakaṭaṃ nṛpa 17 sa bhojarājaḥ sainyena mahatā parivāritaḥ akṣauhiṇyā mahāvīryaḥ pāṇḍavān samupāgamat 18 tataḥ sa kavacī khaḍgī śarī dhanvī talī rathī dhvajenāditya varṇena praviveśa mahācamūm 19 viditaḥ pāṇḍaveyānāṃ vāsudeva priyepsayā yudhiṣṭhiras tu taṃ rājā pratyudgamyābhyapūjayat 20 sa pūjitaḥ pāṇḍusutair yathānyāyaṃ susatkṛtaḥ pratipūjya ca tān sarvān viśrāntaḥ saha sainikaḥ uvāca madhye vīrāṇāṃ kuntīputraṃ dhanaṃjayam 21 sahāyo 'smi sthito yuddhe yadi bhīto 'si pāṇḍava kariṣyāmi raṇe sāhyam asahyaṃ tava śatrubhiḥ 22 na hi me vikrame tulyaḥ pumān astīha kaś cana nihatya samare śatrūṃs tava dāsyāmi phalguna 23 ity ukto dharmarājasya keśavasya ca saṃnidhau śṛṇvatāṃ pārthivendrāṇām anyeṣāṃ caiva sarvaśaḥ 24 vāsudevam abhiprekṣya dharmarājaṃ ca pāṇḍavam uvāca dhīmān kaunteyaḥ prahasya sakhipūrvakam 25 yudhyamānasya me vīra gandharvaiḥ sumahābalaiḥ sahāyo ghoṣayātrāyāṃ kas tadāsīt sakhā mama 26 tathā pratibhaye tasmin devadānava saṃkule khāṇḍave yudhyamānasya kaḥ sahāyas tadābhavat 27 nivātakavacair yuddhe kālakeyaiś ca dānavaiḥ tatra me yudhyamānasya kaḥ sahāyas tadābhavat 28 tathā virāṭanagare kurubhiḥ saha saṃgare yudhyato bahubhis tāta kaḥ sahāyo 'bhavan mama 29 upajīvya raṇe rudraṃ śakraṃ vaiśvaraṇaṃ yamam varuṇaṃ pāvakaṃ caiva kṛpaṃ droṇaṃ ca mādhavam 30 dhārayan gāṇḍivaṃ divyaṃ dhanus tejomayaṃ dṛḍham akṣayya śarasaṃyukto divyāstraparibṛṃhitaḥ 31 kauravāṇāṃ kule jātaḥ pāṇḍoḥ putro viśeṣataḥ droṇaṃ vyapadiśañ śiṣyo vāsudevasahāyavān 32 katham asmadvidho brūyād bhīto 'stīty ayaśaskaram vacanaṃ naraśārdūla vajrāyudham api svayam 33 nāsmi bhīto mahābāho sahāyārthaś ca nāsti me yathākāmaṃ yathāyogaṃ gaccha vānyatra tiṣṭha vā 34 vinivartya tato rukmī senāṃ sāgarasaṃnibhām duryodhanam upāgacchat tathaiva bharatarṣabha 35 tathaiva cābhigamyainam uvāca sa narādhipaḥ pratyākhyātaś ca tenāpi sa tadā śūramāninā 36 dvāv eva tu mahārāja tasmād yuddhād vyapeyatuḥ rauhiṇeyaś ca vārṣṇeyo rukmī ca vasudhādhipaḥ 37 gate rāme tīrthayātrāṃ bhīṣmakasya sute tathā upāviśan pāṇḍaveyā mantrāya punar eva hi 38 samitir dharmarājasya sā pārthiva samākulā śuśubhe tārakā citrā dyauś candreṇeva bhārata |
The Mahabharata in Sanskrit
Book 5
Chapter 156
|
1
[ज] तथा वयूढेष्व अनीकेषु कुरुक्षेत्रे दविजर्षभ किम अकुर्वन्त कुरवः कालेनाभिप्रचॊदिताः 2 तथा वयूढेष्व अनीकेषु यत तेषु भरतर्षभ धृतराष्ट्रॊ महाराज संजयं वाक्यम अब्रवीत 3 एहि संजय मे सर्वम आचक्ष्वानवशेषतः सेनानिवेशे यद्वृत्तं कुरुपाण्डवसेनयॊः 4 दिष्टम एव परं मन्ये पौरुषं चाप्य अनर्थकम यद अहं जानमानॊ ऽपि युद्धदॊषान कषयॊदयान 5 तथापि निकृतिप्रज्ञं पुत्रं दुर्द्यूत देविनम न शक्नॊमि नियन्तुं वा कर्तुं वा हितम आत्मनः 6 भवत्य एव हि मे सूत बुद्धिर दॊषानुदर्शिनी दुर्यॊधनं समासाद्य पुनः सा परिवर्तते 7 एवंगते वै यद भावि तद भविष्यति संजय कषत्रधर्मः किल रणे तनुत्यागॊ ऽभिपूजितः 8 तवद युक्तॊ ऽयम अनुप्रश्नॊ महाराज यथार्हसि न तु दुर्यॊधने दॊषम इमम आसक्तुम अर्हसि शृणुष्वानवशेषेण वदतॊ मम पार्थिव 9 य आत्मनॊ दुश्चरिताद अशुभं पराप्नुयान नरः एनसा न स दैवं वा कालं वा गन्तुम अर्हति 10 महाराज मनुष्येषु निन्द्यं यः सर्वम आचरेत स वध्यः सर्वलॊकस्य निन्दितानि समाचरन 11 निकारा मनुजश्रेष्ठ पाण्डवैस तवत्प्रतीक्षया अनुभूताः सहामात्यैर निकृतैर अधिदेवने 12 हयानां च गजानां च राज्ञां चामिततेजसाम वैशसं समरे वृत्तं यत तन मे शृणु सर्वशः 13 सथिरॊ भूत्वा महाराज सर्वलॊकक्षयॊदयम यथा भूतं महायुद्धे शरुत्वा मा विमना भव 14 न हय एव कर्ता पुरुषः कर्मणॊः शुभपापयॊः अस्वतन्त्रॊ हि पुरुषः कार्यते दारु यन्त्रवत 15 के चिद ईश्वर निर्दिष्टाः के चिद एव यदृच्छया पूर्वकर्मभिर अप्य अन्ये तरैधम एतद विकृष्यते |
1
[j] tathā vyūḍheṣv anīkeṣu kurukṣetre dvijarṣabha kim akurvanta kuravaḥ kālenābhipracoditāḥ 2 tathā vyūḍheṣv anīkeṣu yat teṣu bharatarṣabha dhṛtarāṣṭro mahārāja saṃjayaṃ vākyam abravīt 3 ehi saṃjaya me sarvam ācakṣvānavaśeṣataḥ senāniveśe yadvṛttaṃ kurupāṇḍavasenayoḥ 4 diṣṭam eva paraṃ manye pauruṣaṃ cāpy anarthakam yad ahaṃ jānamāno 'pi yuddhadoṣān kṣayodayān 5 tathāpi nikṛtiprajñaṃ putraṃ durdyūta devinam na śaknomi niyantuṃ vā kartuṃ vā hitam ātmanaḥ 6 bhavaty eva hi me sūta buddhir doṣānudarśinī duryodhanaṃ samāsādya punaḥ sā parivartate 7 evaṃgate vai yad bhāvi tad bhaviṣyati saṃjaya kṣatradharmaḥ kila raṇe tanutyāgo 'bhipūjitaḥ 8 tvad yukto 'yam anupraśno mahārāja yathārhasi na tu duryodhane doṣam imam āsaktum arhasi śṛṇuṣvānavaśeṣeṇa vadato mama pārthiva 9 ya ātmano duścaritād aśubhaṃ prāpnuyān naraḥ enasā na sa daivaṃ vā kālaṃ vā gantum arhati 10 mahārāja manuṣyeṣu nindyaṃ yaḥ sarvam ācaret sa vadhyaḥ sarvalokasya ninditāni samācaran 11 nikārā manujaśreṣṭha pāṇḍavais tvatpratīkṣayā anubhūtāḥ sahāmātyair nikṛtair adhidevane 12 hayānāṃ ca gajānāṃ ca rājñāṃ cāmitatejasām vaiśasaṃ samare vṛttaṃ yat tan me śṛṇu sarvaśaḥ 13 sthiro bhūtvā mahārāja sarvalokakṣayodayam yathā bhūtaṃ mahāyuddhe śrutvā mā vimanā bhava 14 na hy eva kartā puruṣaḥ karmaṇoḥ śubhapāpayoḥ asvatantro hi puruṣaḥ kāryate dāru yantravat 15 ke cid īśvara nirdiṣṭāḥ ke cid eva yadṛcchayā pūrvakarmabhir apy anye traidham etad vikṛṣyate |
The Mahabharata in Sanskrit
Book 5
Chapter 157
|
1
[स] हिरण्वत्यां निविष्टेषु पाण्डवेषु महात्मसु दुर्यॊधनॊ महाराज कर्णेन सह भारत 2 सौबलेन च राजेन्द्र तथा दुःशासनेन च आहूयॊपह्वरे राजन्न उलूकम इदम अब्रवीत 3 उलूक गच्छ कैतव्य पाण्डवान सह सॊमकान गत्वा मम वचॊ बरूहि वासुदेवस्य शृण्वतः 4 इदं तत समनुप्राप्तं वर्षपूगाभिचिन्तितम पाण्डवानां कुरूणां च युद्धं लॊकभयंकरम 5 यद एतत कत्थना वाक्यं संजयॊ महद अब्रवीत मध्ये कुरूणां कौन्तेय तस्य कालॊ ऽयम आगतः यथा वः संप्रतिज्ञातं तत सर्वं करियताम इति 6 अमर्षं राज्यहरणं वनवासं च पाण्डव दरौपद्याश च परिक्लेशं संस्मरन पुरुषॊ भव 7 यदर्थं कषत्रिया सूते गर्भं तद इदम आगतम बलं वीर्यं च शौर्यं च परं चाप्य अस्त्रलाघवम पौरुषं दर्शयन युद्धे कॊपस्य कुरु निष्कृतिम 8 परिक्लिष्टस्य दीनस्य दीर्घकालॊषितस्य च न सफुटेद धृदयं कस्य ऐश्वर्याद भरंशितस्य च 9 कुले जातस्य शूरस्य परवित्तेषु गृध्यतः आच्छिन्नं राज्यम आक्रम्य कॊपं कस्य न दीपयेत 10 यत तद उक्तं महद वाक्यं कर्मणा तद विभाव्यताम अकर्मणा कत्थितेन सन्तः कुपुरुषं विदुः 11 अमित्राणां वशे सथानं राज्यस्य च पुनर भवः दवाव अर्थौ युध्यमानस्य तस्मात कुरुत पौरुषम 12 अस्मान वा तवं पराजित्य परशाधि पृथिवीम इमाम अथ वा निहतॊ ऽसमाभिर वीरलॊकं गमिष्यसि 13 राष्ट्रात परव्राजनं कलेशं वनवासं च पाण्डव कृष्णायाश च परिक्लेशं संस्मरन पुरुषॊ भव 14 अप्रियाणां च वचने परव्रजत्सु पुनः पुनः अमर्षं दर्शयाद्य तवम अमर्षॊ हय एव पौरुषम 15 करॊधॊ बलं तथा वीर्यं जञानयॊगॊ ऽसत्रलाघवम इह ते पार्थ दृश्यन्तां संग्रामे पुरुषॊ भव 16 तं च तूबरकम मूढं बह्व आशिनम अविद्यकम उलूक मद्वचॊ बरूया असकृद भीमसेनकम 17 अशक्तेनैव यच छप्तं सभामध्ये वृकॊदर दुःशासनस्य रुधिरं पीयतां यदि शक्यते 18 लॊहाभिहारॊ निर्वृत्तः कुरुक्षेत्रम अकर्दमम पुष्टास ते ऽशवा भृता यॊधाः शवॊ युध्यस्व सकेशवः |
1
[s] hiraṇvatyāṃ niviṣṭeṣu pāṇḍaveṣu mahātmasu duryodhano mahārāja karṇena saha bhārata 2 saubalena ca rājendra tathā duḥśāsanena ca āhūyopahvare rājann ulūkam idam abravīt 3 ulūka gaccha kaitavya pāṇḍavān saha somakān gatvā mama vaco brūhi vāsudevasya śṛṇvataḥ 4 idaṃ tat samanuprāptaṃ varṣapūgābhicintitam pāṇḍavānāṃ kurūṇāṃ ca yuddhaṃ lokabhayaṃkaram 5 yad etat katthanā vākyaṃ saṃjayo mahad abravīt madhye kurūṇāṃ kaunteya tasya kālo 'yam āgataḥ yathā vaḥ saṃpratijñātaṃ tat sarvaṃ kriyatām iti 6 amarṣaṃ rājyaharaṇaṃ vanavāsaṃ ca pāṇḍava draupadyāś ca parikleśaṃ saṃsmaran puruṣo bhava 7 yadarthaṃ kṣatriyā sūte garbhaṃ tad idam āgatam balaṃ vīryaṃ ca śauryaṃ ca paraṃ cāpy astralāghavam pauruṣaṃ darśayan yuddhe kopasya kuru niṣkṛtim 8 parikliṣṭasya dīnasya dīrghakāloṣitasya ca na sphuṭed dhṛdayaṃ kasya aiśvaryād bhraṃśitasya ca 9 kule jātasya śūrasya paravitteṣu gṛdhyataḥ ācchinnaṃ rājyam ākramya kopaṃ kasya na dīpayet 10 yat tad uktaṃ mahad vākyaṃ karmaṇā tad vibhāvyatām akarmaṇā katthitena santaḥ kupuruṣaṃ viduḥ 11 amitrāṇāṃ vaśe sthānaṃ rājyasya ca punar bhavaḥ dvāv arthau yudhyamānasya tasmāt kuruta pauruṣam 12 asmān vā tvaṃ parājitya praśādhi pṛthivīm imām atha vā nihato 'smābhir vīralokaṃ gamiṣyasi 13 rāṣṭrāt pravrājanaṃ kleśaṃ vanavāsaṃ ca pāṇḍava kṛṣṇāyāś ca parikleśaṃ saṃsmaran puruṣo bhava 14 apriyāṇāṃ ca vacane pravrajatsu punaḥ punaḥ amarṣaṃ darśayādya tvam amarṣo hy eva pauruṣam 15 krodho balaṃ tathā vīryaṃ jñānayogo 'stralāghavam iha te pārtha dṛśyantāṃ saṃgrāme puruṣo bhava 16 taṃ ca tūbarakam mūḍhaṃ bahv āśinam avidyakam ulūka madvaco brūyā asakṛd bhīmasenakam 17 aśaktenaiva yac chaptaṃ sabhāmadhye vṛkodara duḥśāsanasya rudhiraṃ pīyatāṃ yadi śakyate 18 lohābhihāro nirvṛttaḥ kurukṣetram akardamam puṣṭās te 'śvā bhṛtā yodhāḥ śvo yudhyasva sakeśavaḥ |
The Mahabharata in Sanskrit
Book 5
Chapter 158
|
1
[स] सेनानिवेशं संप्राप्य कैतव्यः पाण्डवस्य ह समागतः पाण्डवेयैर युधिष्ठिरम अभाषत 2 अभिज्ञॊ दूतवाक्यानां यथॊक्तं बरुवतॊ मम दुर्यॊधन समादेशं शरुत्वा न करॊद्धुम अर्हसि 3 उलूक न भयं ते ऽसति बरूहि तवं विगतज्वरः यन मतं धार्तराष्ट्रस्य लुब्धस्यादीर्घ दर्शिनः 4 ततॊ दयुतिमतां मध्ये पाण्डवानां महात्मनाम सृञ्जयानां च सर्वेषां कृष्णस्य च यशस्विनः 5 दरुपदस्य सपुत्रस्य विराटस्य च संनिधौ भूमिपानां च सर्वेषां मध्ये वाक्यं जगाद ह 6 इदं तवाम अब्रवीद राजा धार्तराष्ट्रॊ महामनाः शृण्वतां कुरुवीराणां तन निबॊध नराधिप 7 पराजितॊ ऽसि दयूतेन कृष्णा चानायिता सभाम शक्यॊ ऽमर्षॊ मनुष्येण कर्तुं पुरुषमानिना 8 दवादशैव तु वर्षाणि वने धिष्ण्याद विवासिताः संवत्सरं विराटस्य दास्यम आस्थाय चॊषिताः 9 अमर्षं राज्यहरणं वनवासं च पाण्डव दरौपद्याश च परिक्लेशं संस्मरन पुरुषॊ भव 10 अशक्तेन च यच छप्तं भीमसेनेन पाण्डव दुःशासनस्य रुधिरं पीयतां यदि शक्यते 11 लॊहाभिहारॊ निर्वृत्तः कुरुक्षेत्रम अकर्दमम समः पन्था भृता यॊधाः शवॊ युध्यस्व सकेशवः 12 असमागम्य भीष्मेण संयुगे किं विकत्थसे आरुरुक्षुर यथा मन्दः पर्वतं गन्धमादनम 13 दरॊणं च युध्यतां शरेष्ठं शचीपतिसमं युधि अजित्वा संयुगे पार्थ राज्यं कथम इहेच्छसि 14 बराह्मे धनुषि चाचार्यं वेदयॊर अन्तरं दवयॊः युधि धुर्यम अविक्षॊभ्यम अनीक धरम अच्युतम 15 दरॊणं मॊहाद युधा पार्थ यज जिगीषसि तन मृषा न हि शुश्रुम वातेन मेरुम उन्मथितं गिरिम 16 अनिलॊ वा वहेन मेरुं दयौर वापि निपतेन महीम युगं वा परिवर्तेत यद्य एवं सयाद यथात्थ माम 17 कॊ हय आभ्यां जीविताकाङ्क्षी पराप्यास्त्रम अरिमर्दनम गजॊ वाजी नरॊ वापि पुनः सवस्ति गृहान वरजेत 18 कथम आभ्याम अभिध्यातः संसृष्टॊ दारुणेन वा रणे जीवन मिमुच्येत पदा भूमिम उपस्पृशन 19 किं दर्दुरः कूपशयॊ यथेमां; न बुध्यसे राजचमूं समेताम दुराधर्षां देव चमू परकाशां; गुप्तां नरेन्द्रैस तरिदशैर इव दयाम 20 पराच्यैः परतीच्यैर अथ दाक्षिणात्यैर; उदीच्यकाम्बॊजशकैः खशैश च शाल्वैः समत्स्यैः कुरुमध्यदेशैर; मलेच्छैः पुलिन्दैर दरविडान्ध्र काञ्च्यैः 21 नानाजनौघं युधि संप्रवृद्धं; गाङ्गं यथा वेगम अवारणीयम मां च सथितं नागबलस्य मध्ये; युयुत्ससे मन्दकिम अल्पबुद्धे 22 इत्य एवम उक्त्वा राजानं धर्मपुत्रं युधिष्ठिरम अभ्यावृत्य पुनर जिष्णुम उलूकः परत्यभाषत 23 अकत्थमानॊ युध्यस्व कत्थसे ऽरजुन किं बहु पर्यायात सिद्धिर एतस्य नैतत सिध्यति कत्थनात 24 यदीदं कत्थनात सिध्येत कर्म लॊके धनंजय सर्वे भवेयुः सिद्धार्था बहु कत्थेत दुर्गतः 25 जानामि ते वासुदेवं सहायं; जानामि ते गाण्डिवं तालमात्रम जानाम्य एतत तवादृशॊ नास्ति; यॊधा राज्यं च ते जानमानॊ हरामि 26 न तु पर्याय धर्मेण सिद्धिं पराप्नॊति भूयसीम मनसैव हि भूतानि धाता परकुरुते वशे 27 तरयॊदश समा भुक्तं राज्यं विलपतस तव भूयश चैव परशासिष्ये निहत्य तवां सबान्धवम 28 कव तदा गाण्डिवं ते ऽभूद यत तवं दासपणे जितः कव तदा भीमसेनस्य बलम आसीच च फल्गुन 29 सगदाद भीमसेनाच च पार्थाच चैव सगाण्डिवात न वै मॊक्षस तदा वॊ ऽभूद विना कृष्णाम अनिन्दिताम 30 सा वॊ दास्यं समापन्नान मॊक्षयाम आस भामिनी अमानुष्य समायुक्तान दास्य कर्मण्य अवस्थितान 31 अवॊचं यत षण्ढतिलान अहं वस तथ्यम एव तत धृता हि वेणी पार्थेन विराटनगरे तदा 32 सूदकर्मणि च शरान्तं विराटस्य महानसे भीमसेनेन कौन्तेय यच च तन मम पौरुषम 33 एवम एव सदा दण्डं कषत्रियाः कषत्रिये दधुः शरेण्यां कक्ष्यां च वेण्यां च संयुगे यः पलायते 34 न भयाद वासुदेवस्य न चापि तव फल्गुन राज्यं परतिप्रदास्यामि युध्यस्व सह केशवः 35 न माया हीन्द्र जालं वा कुहका वा विभीषणी आत्तशस्त्रस्य मे युद्धे वहन्ति परतिगर्जनाः 36 वासुदेव सहस्रं वा फल्गुनानां शतानि वा आसाद्य माम अमॊघेषुं दरविष्यन्ति दिशॊ दश 37 संयुगं गच्छ भीष्मेण भिन्धि तवं शिरसा गिरिम परतरेमं महागाधं बाहुभ्यां पुरुषॊदधिम 38 शारद्वत महीमानं विविंशति झषाकुलम बृहद्बलसमुच्चालं सौमदत्ति तिमिंगिलम 39 दुःशासनौघं शल शल्य मत्स्यं; सुषेण चित्रायुधनागनक्रम जयद्रथाद्रिं पुरुमित्र गाधं; दुर्मर्षणॊदं शकुनिप्रपातम 40 शस्त्रौघम अक्षय्यम अतिप्रवृद्धं; यदावगाह्य शरमनष्टचेताः भविष्यसि तवं हतसर्वबान्धवस; तदा मनस ते परितापम एष्यति 41 तदा मनस ते तरिदिवाद इवाशुचेर; निवर्ततां पार्थ मही परशासनात राज्यं परशास्तुं हि सुदुर्लभं तवया; बुभूषता सवर्ग इवातपस्विना |
1
[s] senāniveśaṃ saṃprāpya kaitavyaḥ pāṇḍavasya ha samāgataḥ pāṇḍaveyair yudhiṣṭhiram abhāṣata 2 abhijño dūtavākyānāṃ yathoktaṃ bruvato mama duryodhana samādeśaṃ śrutvā na kroddhum arhasi 3 ulūka na bhayaṃ te 'sti brūhi tvaṃ vigatajvaraḥ yan mataṃ dhārtarāṣṭrasya lubdhasyādīrgha darśinaḥ 4 tato dyutimatāṃ madhye pāṇḍavānāṃ mahātmanām sṛñjayānāṃ ca sarveṣāṃ kṛṣṇasya ca yaśasvinaḥ 5 drupadasya saputrasya virāṭasya ca saṃnidhau bhūmipānāṃ ca sarveṣāṃ madhye vākyaṃ jagāda ha 6 idaṃ tvām abravīd rājā dhārtarāṣṭro mahāmanāḥ śṛṇvatāṃ kuruvīrāṇāṃ tan nibodha narādhipa 7 parājito 'si dyūtena kṛṣṇā cānāyitā sabhām śakyo 'marṣo manuṣyeṇa kartuṃ puruṣamāninā 8 dvādaśaiva tu varṣāṇi vane dhiṣṇyād vivāsitāḥ saṃvatsaraṃ virāṭasya dāsyam āsthāya coṣitāḥ 9 amarṣaṃ rājyaharaṇaṃ vanavāsaṃ ca pāṇḍava draupadyāś ca parikleśaṃ saṃsmaran puruṣo bhava 10 aśaktena ca yac chaptaṃ bhīmasenena pāṇḍava duḥśāsanasya rudhiraṃ pīyatāṃ yadi śakyate 11 lohābhihāro nirvṛttaḥ kurukṣetram akardamam samaḥ panthā bhṛtā yodhāḥ śvo yudhyasva sakeśavaḥ 12 asamāgamya bhīṣmeṇa saṃyuge kiṃ vikatthase ārurukṣur yathā mandaḥ parvataṃ gandhamādanam 13 droṇaṃ ca yudhyatāṃ śreṣṭhaṃ śacīpatisamaṃ yudhi ajitvā saṃyuge pārtha rājyaṃ katham ihecchasi 14 brāhme dhanuṣi cācāryaṃ vedayor antaraṃ dvayoḥ yudhi dhuryam avikṣobhyam anīka dharam acyutam 15 droṇaṃ mohād yudhā pārtha yaj jigīṣasi tan mṛṣā na hi śuśruma vātena merum unmathitaṃ girim 16 anilo vā vahen meruṃ dyaur vāpi nipaten mahīm yugaṃ vā parivarteta yady evaṃ syād yathāttha mām 17 ko hy ābhyāṃ jīvitākāṅkṣī prāpyāstram arimardanam gajo vājī naro vāpi punaḥ svasti gṛhān vrajet 18 katham ābhyām abhidhyātaḥ saṃsṛṣṭo dāruṇena vā raṇe jīvan mimucyeta padā bhūmim upaspṛśan 19 kiṃ darduraḥ kūpaśayo yathemāṃ; na budhyase rājacamūṃ sametām durādharṣāṃ deva camū prakāśāṃ; guptāṃ narendrais tridaśair iva dyām 20 prācyaiḥ pratīcyair atha dākṣiṇātyair; udīcyakāmbojaśakaiḥ khaśaiś ca śālvaiḥ samatsyaiḥ kurumadhyadeśair; mlecchaiḥ pulindair draviḍāndhra kāñcyaiḥ 21 nānājanaughaṃ yudhi saṃpravṛddhaṃ; gāṅgaṃ yathā vegam avāraṇīyam māṃ ca sthitaṃ nāgabalasya madhye; yuyutsase mandakim alpabuddhe 22 ity evam uktvā rājānaṃ dharmaputraṃ yudhiṣṭhiram abhyāvṛtya punar jiṣṇum ulūkaḥ pratyabhāṣata 23 akatthamāno yudhyasva katthase 'rjuna kiṃ bahu paryāyāt siddhir etasya naitat sidhyati katthanāt 24 yadīdaṃ katthanāt sidhyet karma loke dhanaṃjaya sarve bhaveyuḥ siddhārthā bahu kattheta durgataḥ 25 jānāmi te vāsudevaṃ sahāyaṃ; jānāmi te gāṇḍivaṃ tālamātram jānāmy etat tvādṛśo nāsti; yodhā rājyaṃ ca te jānamāno harāmi 26 na tu paryāya dharmeṇa siddhiṃ prāpnoti bhūyasīm manasaiva hi bhūtāni dhātā prakurute vaśe 27 trayodaśa samā bhuktaṃ rājyaṃ vilapatas tava bhūyaś caiva praśāsiṣye nihatya tvāṃ sabāndhavam 28 kva tadā gāṇḍivaṃ te 'bhūd yat tvaṃ dāsapaṇe jitaḥ kva tadā bhīmasenasya balam āsīc ca phalguna 29 sagadād bhīmasenāc ca pārthāc caiva sagāṇḍivāt na vai mokṣas tadā vo 'bhūd vinā kṛṣṇām aninditām 30 sā vo dāsyaṃ samāpannān mokṣayām āsa bhāminī amānuṣya samāyuktān dāsya karmaṇy avasthitān 31 avocaṃ yat ṣaṇḍhatilān ahaṃ vas tathyam eva tat dhṛtā hi veṇī pārthena virāṭanagare tadā 32 sūdakarmaṇi ca śrāntaṃ virāṭasya mahānase bhīmasenena kaunteya yac ca tan mama pauruṣam 33 evam eva sadā daṇḍaṃ kṣatriyāḥ kṣatriye dadhuḥ śreṇyāṃ kakṣyāṃ ca veṇyāṃ ca saṃyuge yaḥ palāyate 34 na bhayād vāsudevasya na cāpi tava phalguna rājyaṃ pratipradāsyāmi yudhyasva saha keśavaḥ 35 na māyā hīndra jālaṃ vā kuhakā vā vibhīṣaṇī āttaśastrasya me yuddhe vahanti pratigarjanāḥ 36 vāsudeva sahasraṃ vā phalgunānāṃ śatāni vā āsādya mām amogheṣuṃ draviṣyanti diśo daśa 37 saṃyugaṃ gaccha bhīṣmeṇa bhindhi tvaṃ śirasā girim prataremaṃ mahāgādhaṃ bāhubhyāṃ puruṣodadhim 38 śāradvata mahīmānaṃ viviṃśati jhaṣākulam bṛhadbalasamuccālaṃ saumadatti timiṃgilam 39 duḥśāsanaughaṃ śala śalya matsyaṃ; suṣeṇa citrāyudhanāganakram jayadrathādriṃ purumitra gādhaṃ; durmarṣaṇodaṃ śakuniprapātam 40 śastraugham akṣayyam atipravṛddhaṃ; yadāvagāhya śramanaṣṭacetāḥ bhaviṣyasi tvaṃ hatasarvabāndhavas; tadā manas te paritāpam eṣyati 41 tadā manas te tridivād ivāśucer; nivartatāṃ pārtha mahī praśāsanāt rājyaṃ praśāstuṃ hi sudurlabhaṃ tvayā; bubhūṣatā svarga ivātapasvinā |
The Mahabharata in Sanskrit
Book 5
Chapter 159
|
1
[स] उलूकस तव अर्जुनं भूयॊ यथॊक्तं वाक्यम अब्रवीत आशीविषम इव करुद्धं तुदन वाक्यशलाकया 2 तस्य तद वचनं शरुत्वा रुषिताः पाण्डवा भृशम पराग एव भृशसंक्रुद्धाः कैतव्येन परधर्षिताः 3 नासनेष्व अवतिष्ठन्त बहूंश चैव विचिक्षिपुः आशीविषा इव करुद्धा वीक्षां चक्रुः परस्परम 4 अवाक्शिरा भीमसेनः समुदैक्षत केशवम नेत्राभ्यां लॊहितान्ताभ्याम आशीविष इव शवसन 5 आर्तं वातात्मजं दृष्ट्वा करॊधेनाभिहतं भृशम उत्स्मयन्न इव दाशार्हः कैतव्यं परत्यभाषत 6 परयाहि शीघ्रं कैतव्य बरूयाश चैव सुयॊधनम शरुतं वाक्यं गृहीतॊ ऽरथॊ मतं यत ते तथास्तु तत 7 मद्वचश चापि भूयस ते वक्तव्यः स सुयॊधनः शव इदानीं परदृश्येथाः पुरुषॊ भव दुर्मते 8 मन्यसे यच च मूढ तवं न यॊत्स्यति जनार्दनः सारथ्येन वृतः पार्थैर इति तवं न बिभेषि च 9 जघन्यकालम अप्य एतद भवेद यत सर्वपार्थिवान निर्दहेयम अहं करॊधात कृणानीव हुताशनः 10 युधिष्ठिर नियॊगात तु फल्गुनस्य महात्मनः करिष्ये युध्यमानस्य सारथ्यं विदितात्मनः 11 यद्य उत्पतसि लॊकांस तरीन यद्य आविशसि भूतलम तत्र तत्रार्जुन रथं परभाते दरक्ष्यसे ऽगरतः 12 यच चापि भीमसेनस्य मन्यसे मॊघगर्जितम दुःशासनस्य रुधिरं पीतम इत्य अवधार्यताम 13 न तवां समीक्षते पार्थॊ नापि राजा युधिष्ठिरः न भीमसेनॊ न यमौ परतिकूलप्रभाषिणम |
1
[s] ulūkas tv arjunaṃ bhūyo yathoktaṃ vākyam abravīt āśīviṣam iva kruddhaṃ tudan vākyaśalākayā 2 tasya tad vacanaṃ śrutvā ruṣitāḥ pāṇḍavā bhṛśam prāg eva bhṛśasaṃkruddhāḥ kaitavyena pradharṣitāḥ 3 nāsaneṣv avatiṣṭhanta bahūṃś caiva vicikṣipuḥ āśīviṣā iva kruddhā vīkṣāṃ cakruḥ parasparam 4 avākśirā bhīmasenaḥ samudaikṣata keśavam netrābhyāṃ lohitāntābhyām āśīviṣa iva śvasan 5 ārtaṃ vātātmajaṃ dṛṣṭvā krodhenābhihataṃ bhṛśam utsmayann iva dāśārhaḥ kaitavyaṃ pratyabhāṣata 6 prayāhi śīghraṃ kaitavya brūyāś caiva suyodhanam śrutaṃ vākyaṃ gṛhīto 'rtho mataṃ yat te tathāstu tat 7 madvacaś cāpi bhūyas te vaktavyaḥ sa suyodhanaḥ śva idānīṃ pradṛśyethāḥ puruṣo bhava durmate 8 manyase yac ca mūḍha tvaṃ na yotsyati janārdanaḥ sārathyena vṛtaḥ pārthair iti tvaṃ na bibheṣi ca 9 jaghanyakālam apy etad bhaved yat sarvapārthivān nirdaheyam ahaṃ krodhāt kṛṇānīva hutāśanaḥ 10 yudhiṣṭhira niyogāt tu phalgunasya mahātmanaḥ kariṣye yudhyamānasya sārathyaṃ viditātmanaḥ 11 yady utpatasi lokāṃs trīn yady āviśasi bhūtalam tatra tatrārjuna rathaṃ prabhāte drakṣyase 'grataḥ 12 yac cāpi bhīmasenasya manyase moghagarjitam duḥśāsanasya rudhiraṃ pītam ity avadhāryatām 13 na tvāṃ samīkṣate pārtho nāpi rājā yudhiṣṭhiraḥ na bhīmaseno na yamau pratikūlaprabhāṣiṇam |
The Mahabharata in Sanskrit
Book 5
Chapter 160
|
1
[स] दुर्यॊधनस्य तद वाक्यं निशम्य भरतर्षभः नेत्राभ्याम अतिताम्राभ्यां कैतव्यं समुदैक्षत 2 स केशवम अभिप्रेक्ष्य गुडाकेशॊ महायशाः अभ्यभाषत कैतव्यं परगृह्य विपुलं भुजम 3 सववीर्यं यः समाश्रित्य समाह्वयति वै परान अभीतः पूरयञ शक्तिं स वै पुरुष उच्यते 4 परवीर्यं समाश्रित्य यः समाह्वयते परान कषत्रबन्धुर अशक्तत्वाल लॊके स पुरुषाधमः 5 स तवं परेषां वीर्येण मन्यसे वीर्यम आत्मनः सवयं कापुरुषॊ मूढः परांश चक्षेप्तुम इच्छसि 6 यस तवं वृद्धं सर्वराज्ञां हितबुद्धिं जितेन्द्रियम मरणाय महाबुद्धिं दीक्षयित्वा विकत्थसे 7 भावस ते विदितॊ ऽसमाभिर दुर्बुद्धे कुलपांसन न हनिष्यन्ति गङ्गेयं पाण्डवाघृणयेति च 8 यस्य वीर्यं समाश्रित्य धार्तराष्ट्र विकत्थसे हन्तास्मि परथमं भीष्मं मिषतां सर्वधन्विनाम 9 कैतव्य गत्वा भरतान समेत्य; सुयॊधनं धार्तराष्ट्रं बरवीहि तथेत्य आह अर्जुनः सव्यसाची; निशा वयपाये भविता विमर्दः 10 यद वॊ ऽबरवीद वाक्यम अदीनसत्त्वॊ; मध्ये कुरूणां हर्षयन सत्यसंधः अहं हन्ता पाण्डवानाम अनीकं; शाल्वेयकांश चेति ममैष भारः 11 हन्याम अहं दरॊणम ऋते हि लॊकं; न ते भयं विद्यते पाण्डवेभ्यः ततॊ हि ते लब्धतमं च राज्यं; कषयं गताः पाण्डवाश चेति भावः 12 स दर्पपूर्णॊ न समीक्षसे तवम; अनर्थम आत्मन्य अपि वर्तमानम तस्माद अहं ते परथमं समूहे; हन्ता समक्षं कुरुवृद्धम एव 13 सूर्यॊदये युक्तसेनः पतीक्ष्य; धवजी रथी रक्ष च सत्यसंधम अहं हि वः पश्यतां दवीपम एनं; रथाद भीष्मं पातयितास्मि बाणैः 14 शवॊभूते कत्थना वाक्यं विज्ञास्यति सुयॊधनः अर्दितं शरजालेन मया दृष्ट्वा पितामहम 15 यद उक्तश च सभामध्ये पुरुषॊ हरस्वदर्शनः करुद्धेन भीमसेनेन भराता दुःशासनस तव 16 अधर्मज्ञॊ नित्यवैरी पापबुद्धिर नृशंसकृत सत्यां परतिज्ञां नचिराद रक्ष्यसे तां सुयॊधन 17 अभिमानस्य दर्पस्य करॊधपारुष्ययॊस तथा नैष्ठुर्यस्यावलेपस्य आत्मसंभावनस्य च 18 नृशंसतायास तैक्ष्ण्यस्य धर्मविद्वेषणस्य च अधर्मस्यातिवादस्य वृद्धातिक्रमणस्य च 19 दर्शनस्य च वक्रस्य कृत्स्नस्यापनयस्य च दरक्ष्यसि तवं फलं तीव्रम अचिरेण सुयॊधन 20 वासुदेव दवितीये हि मयि करुद्धे नराधिप आशा ते जीविते मूढ राज्ये वा केन हेतुना 21 शान्ते भीष्मे तथा दरॊणे सूतपुत्रे च पातिते निराशॊ जीविते राज्ये पुत्रेषु च भविष्यसि 22 भरातॄणां निधनं दृष्ट्वा पुत्राणां च सुयॊधन भीमसेनेन निहतॊ दुष्कृतानि समरिष्यसि 23 न दवितीयां परतिज्ञां हि परतिज्ञास्यति केशवः सत्यं बरवीम्य अहं हय एतत सर्वं सत्यं भविष्यति 24 इत्य उक्तः कैतवॊ राजंस तद वाक्यम उपधार्य च अनुज्ञातॊ निववृते पुनर एव यथागतम 25 उपावृत्य तु पाण्डुभ्यः कैतव्यॊ धृतराष्ट्रजम गत्वा यथॊक्तं तत सर्वम उवाच कुरुसंसदि 26 केशवार्जुनयॊर वाक्यं निशम्य भरतर्षभः दुःशासनं च कर्णं च शकुनिं चाभ्यभाषत 27 आज्ञापयत राज्ञश च बलं मित्रबलं तथा यथा परागु दयात सर्वा युक्ता तिष्ठत्य अनीकिनी 28 ततः कर्ण समादिष्टा दूताः परत्वरिता रथैः उष्ट्रवामीभिर अप्य अन्ये सदश्वैर्श च महाजवैः 29 तूर्णं परिययुः सेनां कृत्स्नां कर्णस्य शासनात आज्ञापयन्तॊ राज्ञस तान यॊगः पराग उदयाद इति |
1
[s] duryodhanasya tad vākyaṃ niśamya bharatarṣabhaḥ netrābhyām atitāmrābhyāṃ kaitavyaṃ samudaikṣata 2 sa keśavam abhiprekṣya guḍākeśo mahāyaśāḥ abhyabhāṣata kaitavyaṃ pragṛhya vipulaṃ bhujam 3 svavīryaṃ yaḥ samāśritya samāhvayati vai parān abhītaḥ pūrayañ śaktiṃ sa vai puruṣa ucyate 4 paravīryaṃ samāśritya yaḥ samāhvayate parān kṣatrabandhur aśaktatvāl loke sa puruṣādhamaḥ 5 sa tvaṃ pareṣāṃ vīryeṇa manyase vīryam ātmanaḥ svayaṃ kāpuruṣo mūḍhaḥ parāṃś cakṣeptum icchasi 6 yas tvaṃ vṛddhaṃ sarvarājñāṃ hitabuddhiṃ jitendriyam maraṇāya mahābuddhiṃ dīkṣayitvā vikatthase 7 bhāvas te vidito 'smābhir durbuddhe kulapāṃsana na haniṣyanti gaṅgeyaṃ pāṇḍavāghṛṇayeti ca 8 yasya vīryaṃ samāśritya dhārtarāṣṭra vikatthase hantāsmi prathamaṃ bhīṣmaṃ miṣatāṃ sarvadhanvinām 9 kaitavya gatvā bharatān sametya; suyodhanaṃ dhārtarāṣṭraṃ bravīhi tathety āha arjunaḥ savyasācī; niśā vyapāye bhavitā vimardaḥ 10 yad vo 'bravīd vākyam adīnasattvo; madhye kurūṇāṃ harṣayan satyasaṃdhaḥ ahaṃ hantā pāṇḍavānām anīkaṃ; śālveyakāṃś ceti mamaiṣa bhāraḥ 11 hanyām ahaṃ droṇam ṛte hi lokaṃ; na te bhayaṃ vidyate pāṇḍavebhyaḥ tato hi te labdhatamaṃ ca rājyaṃ; kṣayaṃ gatāḥ pāṇḍavāś ceti bhāvaḥ 12 sa darpapūrṇo na samīkṣase tvam; anartham ātmany api vartamānam tasmād ahaṃ te prathamaṃ samūhe; hantā samakṣaṃ kuruvṛddham eva 13 sūryodaye yuktasenaḥ patīkṣya; dhvajī rathī rakṣa ca satyasaṃdham ahaṃ hi vaḥ paśyatāṃ dvīpam enaṃ; rathād bhīṣmaṃ pātayitāsmi bāṇaiḥ 14 śvobhūte katthanā vākyaṃ vijñāsyati suyodhanaḥ arditaṃ śarajālena mayā dṛṣṭvā pitāmaham 15 yad uktaś ca sabhāmadhye puruṣo hrasvadarśanaḥ kruddhena bhīmasenena bhrātā duḥśāsanas tava 16 adharmajño nityavairī pāpabuddhir nṛśaṃsakṛt satyāṃ pratijñāṃ nacirād rakṣyase tāṃ suyodhana 17 abhimānasya darpasya krodhapāruṣyayos tathā naiṣṭhuryasyāvalepasya ātmasaṃbhāvanasya ca 18 nṛśaṃsatāyās taikṣṇyasya dharmavidveṣaṇasya ca adharmasyātivādasya vṛddhātikramaṇasya ca 19 darśanasya ca vakrasya kṛtsnasyāpanayasya ca drakṣyasi tvaṃ phalaṃ tīvram acireṇa suyodhana 20 vāsudeva dvitīye hi mayi kruddhe narādhipa āśā te jīvite mūḍha rājye vā kena hetunā 21 śānte bhīṣme tathā droṇe sūtaputre ca pātite nirāśo jīvite rājye putreṣu ca bhaviṣyasi 22 bhrātṝṇāṃ nidhanaṃ dṛṣṭvā putrāṇāṃ ca suyodhana bhīmasenena nihato duṣkṛtāni smariṣyasi 23 na dvitīyāṃ pratijñāṃ hi pratijñāsyati keśavaḥ satyaṃ bravīmy ahaṃ hy etat sarvaṃ satyaṃ bhaviṣyati 24 ity uktaḥ kaitavo rājaṃs tad vākyam upadhārya ca anujñāto nivavṛte punar eva yathāgatam 25 upāvṛtya tu pāṇḍubhyaḥ kaitavyo dhṛtarāṣṭrajam gatvā yathoktaṃ tat sarvam uvāca kurusaṃsadi 26 keśavārjunayor vākyaṃ niśamya bharatarṣabhaḥ duḥśāsanaṃ ca karṇaṃ ca śakuniṃ cābhyabhāṣata 27 ājñāpayata rājñaś ca balaṃ mitrabalaṃ tathā yathā prāgu dayāt sarvā yuktā tiṣṭhaty anīkinī 28 tataḥ karṇa samādiṣṭā dūtāḥ pratvaritā rathaiḥ uṣṭravāmībhir apy anye sadaśvairś ca mahājavaiḥ 29 tūrṇaṃ pariyayuḥ senāṃ kṛtsnāṃ karṇasya śāsanāt ājñāpayanto rājñas tān yogaḥ prāg udayād iti |
The Mahabharata in Sanskrit
Book 5
Chapter 161
|
1
[स] उलूकस्य वचः शरुत्वा कुन्तीपुत्रॊ युधिष्ठिरः सेनां निर्यापयाम आस धृष्टद्युम्नपुरॊगमाम 2 पदातिनीं नागवतीं रथिनीम अश्ववृन्दिनीम चतुर्विध बलां भीमाम अकम्प्यां पृथिवीम इव 3 भीमसेनादिभिर गुप्तां सार्जुनैश च महारथैः धृष्टद्युम्न वशां दुर्गां सागरस्तिमितॊपमाम 4 तस्यास तव अग्रे महेष्वासः पाञ्चाल्यॊ युद्धदुर्मदः दरॊण परेप्सुर अनीकानि धृष्टद्युम्नः परकर्षति 5 यथाबलं यथॊत्साहं रथिनः समुपादिशत अर्जुनं सूतपुत्राय भीमं दुर्यॊधनाय च 6 अश्वत्थाम्ने च नकुलं शैब्यं च कृतवर्मणे सैन्धवाय च वार्ष्णेयं युयुधानम उपादिशत 7 शिखण्डिनं च भीष्माय परमुखे समकल्पयत सहदेवं शकुनये चेकितानं शलाय च 8 धृष्टकेतुं च शल्याय गौतमायॊत्तमौजसम दरौपदेयांश च पञ्चभ्यस तरिगर्तेभ्यः समादिशत 9 वृषसेनाय सौभद्रं शेषाणां च महीक्षिताम समर्थं तं हि मेने वै पार्थाद अभ्यधिकं रणे 10 एवं विभज्य यॊधांस तान पृथक च सह चैव ह जवाला वर्णॊ महेष्वासॊ दरॊणम अंशम अकल्पयत 11 धृष्टद्युम्नॊ महेष्वासः सेनापतिपतिस ततः विधिवद वयूढ्य मेधावी युद्धाय धृतमानसः 12 यथादिष्टान्य अनीकानि पाण्डवानाम अयॊजयत जयाय पाण्डुपुत्राणां यत्तस तस्थौ रणाजिरे |
1
[s] ulūkasya vacaḥ śrutvā kuntīputro yudhiṣṭhiraḥ senāṃ niryāpayām āsa dhṛṣṭadyumnapurogamām 2 padātinīṃ nāgavatīṃ rathinīm aśvavṛndinīm caturvidha balāṃ bhīmām akampyāṃ pṛthivīm iva 3 bhīmasenādibhir guptāṃ sārjunaiś ca mahārathaiḥ dhṛṣṭadyumna vaśāṃ durgāṃ sāgarastimitopamām 4 tasyās tv agre maheṣvāsaḥ pāñcālyo yuddhadurmadaḥ droṇa prepsur anīkāni dhṛṣṭadyumnaḥ prakarṣati 5 yathābalaṃ yathotsāhaṃ rathinaḥ samupādiśat arjunaṃ sūtaputrāya bhīmaṃ duryodhanāya ca 6 aśvatthāmne ca nakulaṃ śaibyaṃ ca kṛtavarmaṇe saindhavāya ca vārṣṇeyaṃ yuyudhānam upādiśat 7 śikhaṇḍinaṃ ca bhīṣmāya pramukhe samakalpayat sahadevaṃ śakunaye cekitānaṃ śalāya ca 8 dhṛṣṭaketuṃ ca śalyāya gautamāyottamaujasam draupadeyāṃś ca pañcabhyas trigartebhyaḥ samādiśat 9 vṛṣasenāya saubhadraṃ śeṣāṇāṃ ca mahīkṣitām samarthaṃ taṃ hi mene vai pārthād abhyadhikaṃ raṇe 10 evaṃ vibhajya yodhāṃs tān pṛthak ca saha caiva ha jvālā varṇo maheṣvāso droṇam aṃśam akalpayat 11 dhṛṣṭadyumno maheṣvāsaḥ senāpatipatis tataḥ vidhivad vyūḍhya medhāvī yuddhāya dhṛtamānasaḥ 12 yathādiṣṭāny anīkāni pāṇḍavānām ayojayat jayāya pāṇḍuputrāṇāṃ yattas tasthau raṇājire |
The Mahabharata in Sanskrit
Book 5
Chapter 162
|
1
[धृ] परतिज्ञाते फल्गुनेन वधे भीष्मस्य संजय किम अकुर्वन्त मे मन्दाः पुत्रा दुर्यॊधनादयः 2 हतम एव हि पश्यामि गाङ्गेयं पितरं रणे वासुदेवसहायेन पार्थेन दृढधन्वना 3 स चापरिमित परज्ञस तच छरुत्वा पार्थ भाषितम किम उक्तवान महेष्वासॊ भीष्मः परहरतां वरः 4 सेनापत्यं च संप्राप्य कौरवाणां धुरंधरः किम अचेष्टत गाङ्गेयॊ महाबुद्धिपराक्रमः 5 ततस तत संजयस तस्मै सर्वम एव नयवेदयत यथॊक्तं कुरुवृद्धेन भीष्मेणामित तेजसा 6 सेनापत्यम अनुप्राप्य भीष्मः शांतनवॊ नृप दुर्यॊधनम उवाचेदं वचनं हर्षयन्न इव 7 नमस्कृत्वा कुमाराय सेनान्ये शक्तिपाणये अहं सेनापतिस ते ऽदय भविष्यामि न संशयः 8 सेना कर्मण्य अभिज्ञॊ ऽसमि वयूहेषु विविधेषु च कर्म कारयितुं चैव भृतान अप्य अभृतांस तथा 9 यात्रा यानेषु युद्धेषु लब्धप्रशमनेषु च भृशं वेद महाराज यथा वेद बृहस्पतिः 10 वयूहान अपि महारम्भान दैवगान्धर्व मानुषान तैर अहं मॊहयिष्यामि पाण्डवान वयेतु ते जवरः 11 सॊ ऽहं यॊत्स्यामि तत्त्वेन पालयंस तव वाहिनीम यथावच छास्त्रतॊ राजन वयेतु ते मानसॊ जवरः 12 न विद्यते मे गाङ्गेय भयं देवासुरेष्व अपि समस्तेषु महाबाहॊ सत्यम एतद बरवीमि ते 13 किं पुनस तवयि दुर्धर्षे सेनापत्ये वयवस्थिते दरॊणे च पुरुषव्याघ्रे सथिते युद्धाभिनन्दिनि 14 भवद्ब्यां पुरुषाग्र्याभ्यां सथिताभ्यां विजयॊ मम न दुर्लभं कुरुश्रेष्ठ देवराज्यम अपि धरुवम 15 रथसंख्यां तु कार्त्स्न्येन परेषाम आत्मनस तथा तथैवातिरथानां च वेत्तुम इच्छामि कौरव 16 पितामहॊ हि कुशलः परेषाम आत्मनस तथा शरॊतुम इच्छाम्य अहं सर्वैः सहैभिर वसुधाधिपैः 17 गान्धारे शृणु राजेन्द्र रथसंख्यां सवके बले ये रथाः पृथिवीपाल तथैवातिरथाश च ये 18 बहूनीह सहस्राणि परयुतान्य अर्बुदानि च रथानां तव सेनायां यथामुख्यं तु मे शृणु 19 भवान अग्रे रथॊदारः सह सर्वैः सहॊदरैः दुःशासनप्रभृतिभिर भरातृभिः शतसंमितैः 20 सर्वे कृतप्रहरणाश छेद्य भेद्य विशारदाः रथॊपस्थे गजस्कन्धे गदायुद्धे ऽसि चर्मणि 21 संयन्तारः परहर्तारः कृतास्त्रा भारसाधनाः इष्वस्त्रे दरॊणशिष्याश च कृपस्य च शरद्वतः 22 एते हनिष्यन्ति रणे पाञ्चालान युद्धदुर्मदान कृतकिल्बिषाः पाण्डवेयैर धार्तराष्ट्रा मनस्विनः 23 ततॊ ऽहं भरतश्रेष्ठ सर्वसेनापतिस तव शत्रून विध्वंसयिष्यामि कदर्थी कृत्यपाण्डवान न तव आत्मनॊ गुणान वक्तुम अर्हामि विदितॊ ऽसमि ते 24 कृतवर्मा तव अतिरथॊ भॊजः परहरतां वरः अर्थसिद्धिं तव रणे करिष्यति न संशयः 25 अस्त्रविद्भिर अनाधृष्यॊ दूरपाती दृढायुधः हनिष्यति रुपूंस तुभ्यं महेन्द्रॊ दानवान इव 26 मद्रराजॊ महेष्वासः शल्यॊ मे ऽतिरथॊ मतः सपर्धते वासुदेवेन यॊ वै नित्यं रणे रणे 27 भागिनेयान निजांस तयक्त्वा शल्यस ते रथसत्तमः एष यॊत्स्यति संग्रामे कृष्णं चक्रगदाधरम 28 सागरॊर्मि समैर वेगैः पलावयन्न इव शात्रवान भूरिश्रवाः कृतास्त्रश च तव चापि हितः सुहृत 29 सौमदत्तिर महेष्वासॊ रथयूथप यूथपः बलक्षयम अमित्राणां सुमहान्तं करिष्यति 30 सिन्धुराजॊ महाराज मतॊ मे दविगुणॊ रथः यॊत्स्यते समरे राजन विक्रान्तॊ रथसत्तमः 31 दरौपदी हरणे पूर्वं परिक्लिष्टः स पाण्डवैः संस्मरंस तं परिक्लेशं यॊत्स्यते परवीहरा 32 एतेन हि तदा राजंस तप आस्थाय दारुणम सुदुर्लभॊ वरॊ लब्धः पाण्डवान यॊद्धुम आहवे 33 स एष रथशार्दूलस तद वैरं संस्मरन रणे यॊत्स्यते पाण्डवां सतात पराणांस तयक्त्वा सुदुस्त्यजान |
1
[dhṛ] pratijñāte phalgunena vadhe bhīṣmasya saṃjaya kim akurvanta me mandāḥ putrā duryodhanādayaḥ 2 hatam eva hi paśyāmi gāṅgeyaṃ pitaraṃ raṇe vāsudevasahāyena pārthena dṛḍhadhanvanā 3 sa cāparimita prajñas tac chrutvā pārtha bhāṣitam kim uktavān maheṣvāso bhīṣmaḥ praharatāṃ varaḥ 4 senāpatyaṃ ca saṃprāpya kauravāṇāṃ dhuraṃdharaḥ kim aceṣṭata gāṅgeyo mahābuddhiparākramaḥ 5 tatas tat saṃjayas tasmai sarvam eva nyavedayat yathoktaṃ kuruvṛddhena bhīṣmeṇāmita tejasā 6 senāpatyam anuprāpya bhīṣmaḥ śāṃtanavo nṛpa duryodhanam uvācedaṃ vacanaṃ harṣayann iva 7 namaskṛtvā kumārāya senānye śaktipāṇaye ahaṃ senāpatis te 'dya bhaviṣyāmi na saṃśayaḥ 8 senā karmaṇy abhijño 'smi vyūheṣu vividheṣu ca karma kārayituṃ caiva bhṛtān apy abhṛtāṃs tathā 9 yātrā yāneṣu yuddheṣu labdhapraśamaneṣu ca bhṛśaṃ veda mahārāja yathā veda bṛhaspatiḥ 10 vyūhān api mahārambhān daivagāndharva mānuṣān tair ahaṃ mohayiṣyāmi pāṇḍavān vyetu te jvaraḥ 11 so 'haṃ yotsyāmi tattvena pālayaṃs tava vāhinīm yathāvac chāstrato rājan vyetu te mānaso jvaraḥ 12 na vidyate me gāṅgeya bhayaṃ devāsureṣv api samasteṣu mahābāho satyam etad bravīmi te 13 kiṃ punas tvayi durdharṣe senāpatye vyavasthite droṇe ca puruṣavyāghre sthite yuddhābhinandini 14 bhavadbyāṃ puruṣāgryābhyāṃ sthitābhyāṃ vijayo mama na durlabhaṃ kuruśreṣṭha devarājyam api dhruvam 15 rathasaṃkhyāṃ tu kārtsnyena pareṣām ātmanas tathā tathaivātirathānāṃ ca vettum icchāmi kaurava 16 pitāmaho hi kuśalaḥ pareṣām ātmanas tathā śrotum icchāmy ahaṃ sarvaiḥ sahaibhir vasudhādhipaiḥ 17 gāndhāre śṛṇu rājendra rathasaṃkhyāṃ svake bale ye rathāḥ pṛthivīpāla tathaivātirathāś ca ye 18 bahūnīha sahasrāṇi prayutāny arbudāni ca rathānāṃ tava senāyāṃ yathāmukhyaṃ tu me śṛṇu 19 bhavān agre rathodāraḥ saha sarvaiḥ sahodaraiḥ duḥśāsanaprabhṛtibhir bhrātṛbhiḥ śatasaṃmitaiḥ 20 sarve kṛtapraharaṇāś chedya bhedya viśāradāḥ rathopasthe gajaskandhe gadāyuddhe 'si carmaṇi 21 saṃyantāraḥ prahartāraḥ kṛtāstrā bhārasādhanāḥ iṣvastre droṇaśiṣyāś ca kṛpasya ca śaradvataḥ 22 ete haniṣyanti raṇe pāñcālān yuddhadurmadān kṛtakilbiṣāḥ pāṇḍaveyair dhārtarāṣṭrā manasvinaḥ 23 tato 'haṃ bharataśreṣṭha sarvasenāpatis tava śatrūn vidhvaṃsayiṣyāmi kadarthī kṛtyapāṇḍavān na tv ātmano guṇān vaktum arhāmi vidito 'smi te 24 kṛtavarmā tv atiratho bhojaḥ praharatāṃ varaḥ arthasiddhiṃ tava raṇe kariṣyati na saṃśayaḥ 25 astravidbhir anādhṛṣyo dūrapātī dṛḍhāyudhaḥ haniṣyati rupūṃs tubhyaṃ mahendro dānavān iva 26 madrarājo maheṣvāsaḥ śalyo me 'tiratho mataḥ spardhate vāsudevena yo vai nityaṃ raṇe raṇe 27 bhāgineyān nijāṃs tyaktvā śalyas te rathasattamaḥ eṣa yotsyati saṃgrāme kṛṣṇaṃ cakragadādharam 28 sāgarormi samair vegaiḥ plāvayann iva śātravān bhūriśravāḥ kṛtāstraś ca tava cāpi hitaḥ suhṛt 29 saumadattir maheṣvāso rathayūthapa yūthapaḥ balakṣayam amitrāṇāṃ sumahāntaṃ kariṣyati 30 sindhurājo mahārāja mato me dviguṇo rathaḥ yotsyate samare rājan vikrānto rathasattamaḥ 31 draupadī haraṇe pūrvaṃ parikliṣṭaḥ sa pāṇḍavaiḥ saṃsmaraṃs taṃ parikleśaṃ yotsyate paravīharā 32 etena hi tadā rājaṃs tapa āsthāya dāruṇam sudurlabho varo labdhaḥ pāṇḍavān yoddhum āhave 33 sa eṣa rathaśārdūlas tad vairaṃ saṃsmaran raṇe yotsyate pāṇḍavāṃ stāta prāṇāṃs tyaktvā sudustyajān |
The Mahabharata in Sanskrit
Book 5
Chapter 163
|
1
[भीस्म] सुदक्षिणस तु काम्बॊजॊ रथ एकगुणॊ मतः तवार्थ सिद्धिम आकाङ्क्षन यॊत्स्यते समरे परैः 2 एतस्य रथसिंहस्य तवार्थे राजसत्तम पराक्रमं यथेन्द्रस्य दरक्ष्यन्ति कुरवॊ युधि 3 एतस्य रथवंशॊ हि तिग्मवेगप्रहारिणाम काम्बॊजानां महाराज शलभानाम इवायतिः 4 नीलॊ माहिष्मती वासी नीलवर्म धरस तव रथवंशेन शत्रूणां कदनं वै करिष्यति 5 कृतवैरः पुरा चैव सहदेवेन पार्थिवः यॊत्स्यते सततं राजंस तवार्थे कुरुसत्तम 6 विन्दानुविन्दाव आवन्त्यौ समेतौ रथसत्तमौ कृतिनौ समरे तात दृढवीर्यपराक्रमौ 7 एतौ तौ पुरुषव्याघ्रौ रिपुसैन्यं परधक्ष्यतः गदा परासासिनाराचैस तॊमरैश च भुजच्युतैः 8 युद्धाभिकामौ समरे करीडन्ताव इव यूथपौ यूथमध्ये महाराज विचरन्तौ कृतान्तवत 9 तरिगर्ता भरातरः पञ्च रथॊदारा मता मम कृतवैराश च पार्थेन विराटनगरे तदा 10 मकरा इव राजेन्द्र समुद्धत तरङ्गिणीम गङ्गां विक्षॊभयिष्यन्ति पार्थानां युधि वाहिनीम 11 ते रथाः पञ्च राजेन्द्र येषां सत्यरथॊ मुखम एते यॊत्स्यन्ति समरे संस्मरन्तः पुरा कृतम 12 वयलीकं पाण्डवेयेन भीमसेनानुजेन ह दिशॊ विजयता राजञ शवेतवाहेन भारत 13 ते हनिष्यन्ति पार्थानां समासद्य महारथान वरान वरान महेष्वासान कषत्रियाणां धुरंधराः 14 लक्ष्मणस तव पुत्रस तु तथा दुःशासनस्य च उभौ तौ पुरुषव्याघ्रौ संग्रामेष्व अनिवर्तिनौ 15 तरुणौ सुकुमारौ च राजपुत्रौ तरस्विनौ युद्धानां च विशेषज्ञौ परणेतारौ च सर्वशः 16 रथौ तौ रथशार्दूल मतौ मे रथसत्तमौ कषत्रधर्मरतौ वीरौ महत कर्म करिष्यतः 17 दण्डधारॊ महाराज रथ एकॊ नरर्षभः यॊत्स्यते समरं पराप्य सवेन सैन्येन पालितः 18 बृहद्बलस तथा राजा कौसल्यॊ रथसत्तमः रथॊ मम मतस तात दृढवेगपराक्रमः 19 एष यॊत्स्यति संग्रामे सवां चमूं संप्रहर्षयन उग्रायुधॊ महेष्वासॊ धार्तराष्ट्र हिते रतः 20 कृपः शारद्वतॊ राजन रथयूथप यूथपः परियान पराणान परित्यज्य परधक्ष्यति रिपूंस तव 21 गौतमस्य महर्षेर य आचार्यस्य शरद्वतः कार्तिकेय इवाजेयः शरस्तम्बात सुतॊ ऽभवत 22 एष सेनां बहुविधां विविधायुधकार्मुकाम अग्निवत समरे तात चरिष्यति विमर्दयन |
1
[bhīsma] sudakṣiṇas tu kāmbojo ratha ekaguṇo mataḥ tavārtha siddhim ākāṅkṣan yotsyate samare paraiḥ 2 etasya rathasiṃhasya tavārthe rājasattama parākramaṃ yathendrasya drakṣyanti kuravo yudhi 3 etasya rathavaṃśo hi tigmavegaprahāriṇām kāmbojānāṃ mahārāja śalabhānām ivāyatiḥ 4 nīlo māhiṣmatī vāsī nīlavarma dharas tava rathavaṃśena śatrūṇāṃ kadanaṃ vai kariṣyati 5 kṛtavairaḥ purā caiva sahadevena pārthivaḥ yotsyate satataṃ rājaṃs tavārthe kurusattama 6 vindānuvindāv āvantyau sametau rathasattamau kṛtinau samare tāta dṛḍhavīryaparākramau 7 etau tau puruṣavyāghrau ripusainyaṃ pradhakṣyataḥ gadā prāsāsinārācais tomaraiś ca bhujacyutaiḥ 8 yuddhābhikāmau samare krīḍantāv iva yūthapau yūthamadhye mahārāja vicarantau kṛtāntavat 9 trigartā bhrātaraḥ pañca rathodārā matā mama kṛtavairāś ca pārthena virāṭanagare tadā 10 makarā iva rājendra samuddhata taraṅgiṇīm gaṅgāṃ vikṣobhayiṣyanti pārthānāṃ yudhi vāhinīm 11 te rathāḥ pañca rājendra yeṣāṃ satyaratho mukham ete yotsyanti samare saṃsmarantaḥ purā kṛtam 12 vyalīkaṃ pāṇḍaveyena bhīmasenānujena ha diśo vijayatā rājañ śvetavāhena bhārata 13 te haniṣyanti pārthānāṃ samāsadya mahārathān varān varān maheṣvāsān kṣatriyāṇāṃ dhuraṃdharāḥ 14 lakṣmaṇas tava putras tu tathā duḥśāsanasya ca ubhau tau puruṣavyāghrau saṃgrāmeṣv anivartinau 15 taruṇau sukumārau ca rājaputrau tarasvinau yuddhānāṃ ca viśeṣajñau praṇetārau ca sarvaśaḥ 16 rathau tau rathaśārdūla matau me rathasattamau kṣatradharmaratau vīrau mahat karma kariṣyataḥ 17 daṇḍadhāro mahārāja ratha eko nararṣabhaḥ yotsyate samaraṃ prāpya svena sainyena pālitaḥ 18 bṛhadbalas tathā rājā kausalyo rathasattamaḥ ratho mama matas tāta dṛḍhavegaparākramaḥ 19 eṣa yotsyati saṃgrāme svāṃ camūṃ saṃpraharṣayan ugrāyudho maheṣvāso dhārtarāṣṭra hite rataḥ 20 kṛpaḥ śāradvato rājan rathayūthapa yūthapaḥ priyān prāṇān parityajya pradhakṣyati ripūṃs tava 21 gautamasya maharṣer ya ācāryasya śaradvataḥ kārtikeya ivājeyaḥ śarastambāt suto 'bhavat 22 eṣa senāṃ bahuvidhāṃ vividhāyudhakārmukām agnivat samare tāta cariṣyati vimardayan |
The Mahabharata in Sanskrit
Book 5
Chapter 164
|
1
[भीस्म] शकुनिर मातुलस ते ऽसौ रथ एकॊ नराधिप परसज्य पाण्डवैर वैरं यॊत्स्यते नात्र संशयः 2 एतस्य सैन्या दुर्धर्षाः समरे ऽपरतियायिनः विकृतायुध भूयिष्ठा वायुवेगसमा जवे 3 दरॊणपुत्रॊ महेष्वासः सर्वेषाम अति धन्विनाम समरे चित्रयॊधी च दृढास्त्रश च महारथः 4 एतस्य हि महाराज यथा गाण्डीवधन्वनः शरासनाद विनिर्मुक्ताः संसक्ता यान्ति सायकाः 5 नैष शक्यॊ मया वीरः संख्यातुं रथसत्तमः निर्दहेद अपि लॊकांस तरीन इच्छन्न एष महायशाः 6 करॊधस तेजश च तपसा संभृतॊ ऽऽशरमवासिना दरॊणेनानुगृहीतश च दिव्यैर अस्त्रैर उदारधीः 7 दॊषस तव अस्य महान एकॊ येनैष भरतर्षभ न मे रथॊ नातिरथॊ मतः पार्थिव सत्तम 8 जीवितं परियम अत्यर्थम आयुष कामः सदा दविजः न हय अस्य सदृशः कश चिद उभयॊः सेनयॊर अपि 9 हन्याद एकरथेनैव देवानाम अपि वाहिनीम वपुष्मांस तलघॊषेण सफॊटयेद अपि पर्वतान 10 असंख्येयगुणॊ वीरः परहर्ता दारुणद्युतिः दण्डपाणिर इवासह्यः कालवत परचरिष्यति 11 युगान्ताग्निसमः करॊधे सिंहग्रीवॊ महामतिः एष भारत युद्धस्य पृष्ठं संशमयिष्यति 12 पिता तव अस्य महातेजा वृद्धॊ ऽपि युवभिर वरः रणे कर्म महत कर्ता तत्र मे नास्ति संशयः 13 अस्त्रवेगानिलॊद्धूतः सेना कष्णेन्धनॊत्थितः पाण्डुपुत्रस्य सैन्यानि परधक्ष्यति जये धृतः 14 रथयूथप यूथानां यूथपः स नरर्षभः भारद्वाजात्मजः कर्ता कर्म तीव्रं हिताय वः 15 सर्वमूर्धाभिषिक्तानाम आचार्यः सथविरॊ गुरुः गच्छेद अन्तं सृञ्जयानां परियस तव अस्य धनंजयः 16 नैष जातु महेष्वासः पार्थम अक्लिष्टकारिणम हन्याद आचार्यकं दीप्तं संस्मृत्य गुणनिर्जितम 17 शलाघत्य एष सदा वीरः पार्थस्य गुणविस्तरैः पुत्राद अभ्यधिकं चैव भारद्वाजॊ ऽनुपश्यति 18 हन्याद एकरथेनैव देवगन्धर्वदानवान एकीभूतान अपि रणे दिव्यैर अस्त्रैः परतापवान 19 पौरवॊ राजशार्दूलस तव राजन महारथः मतॊ मम रथॊ वीर परवीर रथारुजः 20 सवेन सैन्येन सहितः परतपञ शत्रुवाहिनीम परधक्ष्यति सपाञ्चालान कक्षं कृष्ण गतिर यथा 21 सत्यव्रतॊ रथवरॊ राजपुत्रॊ महारथः तव राजन रिपुबले कालवत परचरिष्यति 22 एतस्य यॊधा राजेन्द्र विचित्रकवचायुधाः विचरिष्यन्ति संग्रामे निघ्नन्तः शात्रवांस तव 23 वृषसेनॊ रथाग्र्यस ते कर्ण पुत्रॊ महारथः परधक्ष्यति रिपूणां ते बलानि बलिनां वरः 24 जलसंधॊ महातेजा राजन रथवरस तव तयक्ष्यते समरे पराणान मागधः परवीरहा 25 एष यॊत्स्यति संग्रामे गजस्कन्धविशारदः रथेन वा महाबाहुः कषपयञ शत्रुवाहिनीम 26 रथ एष महाराज मतॊ मम नरर्षभः तवदर्थे तयक्ष्यति पराणान सह सैन्यॊ महारणे 27 एष विक्रान्तयॊधी च चित्रयॊधी च संगरे वीतभीश चापि ते राजञ शात्रवैः सह यॊत्स्यते 28 बाह्लीकॊ ऽतिरथश चैव समरे चानिवर्तिता मम राजन मतॊ युद्धे शूरॊ वैवस्वतॊपमः 29 न हय एष समरं पराप्य निवर्तेत कथं चन यथा सततगॊ राजन नाभिहत्य परान रणे 30 सेनापतिर महाराज सत्यवांस ते महारथः रणेष्व अद्भुतकर्मा च रथः पररथारुजः 31 एतस्य समरं दृष्ट्वा न वयथास्ति कथं चन उत्स्मयन्न अभ्युपैत्य एष परान रथपथे सथितान 32 एष चारिषु विक्रान्तः कर्म सत्पुरुषॊचितम कर्ता विमर्दे सुमहत तवदर्थे पुरुषॊत्तमः 33 अलायुधॊ राक्षसेन्द्रः करूरकर्मा महाबलः हनिष्यति परान राजन पूर्ववैरम अनुस्मरन 34 एष राक्षससैन्यानां सर्वेषां रथसत्तमः मायावी दृढवैरश च समरे विचरिष्यति 35 पराग्ज्यॊतिषाधिपॊ वीरॊ भगदत्तः परतापवान गजाङ्कुश धरश्रेष्ठॊ रथे चैव विशारदः 36 एतेन युद्धम अभवत पुरा गाण्डीवधन्वनः दिवसान सुबहून राजन्न उभयॊर जय गृद्धिनॊः 37 ततः सखायं गान्धारे मानयन पाकशासनम अकरॊत संविदं तेन पाण्डवेन महात्मना 38 एष यॊत्स्यति संग्रामे गजस्कन्धविशारदः ऐरावत गतॊ राजा देवानाम इव वासवः |
1
[bhīsma] śakunir mātulas te 'sau ratha eko narādhipa prasajya pāṇḍavair vairaṃ yotsyate nātra saṃśayaḥ 2 etasya sainyā durdharṣāḥ samare 'pratiyāyinaḥ vikṛtāyudha bhūyiṣṭhā vāyuvegasamā jave 3 droṇaputro maheṣvāsaḥ sarveṣām ati dhanvinām samare citrayodhī ca dṛḍhāstraś ca mahārathaḥ 4 etasya hi mahārāja yathā gāṇḍīvadhanvanaḥ śarāsanād vinirmuktāḥ saṃsaktā yānti sāyakāḥ 5 naiṣa śakyo mayā vīraḥ saṃkhyātuṃ rathasattamaḥ nirdahed api lokāṃs trīn icchann eṣa mahāyaśāḥ 6 krodhas tejaś ca tapasā saṃbhṛto ''śramavāsinā droṇenānugṛhītaś ca divyair astrair udāradhīḥ 7 doṣas tv asya mahān eko yenaiṣa bharatarṣabha na me ratho nātiratho mataḥ pārthiva sattama 8 jīvitaṃ priyam atyartham āyuṣ kāmaḥ sadā dvijaḥ na hy asya sadṛśaḥ kaś cid ubhayoḥ senayor api 9 hanyād ekarathenaiva devānām api vāhinīm vapuṣmāṃs talaghoṣeṇa sphoṭayed api parvatān 10 asaṃkhyeyaguṇo vīraḥ prahartā dāruṇadyutiḥ daṇḍapāṇir ivāsahyaḥ kālavat pracariṣyati 11 yugāntāgnisamaḥ krodhe siṃhagrīvo mahāmatiḥ eṣa bhārata yuddhasya pṛṣṭhaṃ saṃśamayiṣyati 12 pitā tv asya mahātejā vṛddho 'pi yuvabhir varaḥ raṇe karma mahat kartā tatra me nāsti saṃśayaḥ 13 astravegāniloddhūtaḥ senā kaṣṇendhanotthitaḥ pāṇḍuputrasya sainyāni pradhakṣyati jaye dhṛtaḥ 14 rathayūthapa yūthānāṃ yūthapaḥ sa nararṣabhaḥ bhāradvājātmajaḥ kartā karma tīvraṃ hitāya vaḥ 15 sarvamūrdhābhiṣiktānām ācāryaḥ sthaviro guruḥ gacched antaṃ sṛñjayānāṃ priyas tv asya dhanaṃjayaḥ 16 naiṣa jātu maheṣvāsaḥ pārtham akliṣṭakāriṇam hanyād ācāryakaṃ dīptaṃ saṃsmṛtya guṇanirjitam 17 ślāghaty eṣa sadā vīraḥ pārthasya guṇavistaraiḥ putrād abhyadhikaṃ caiva bhāradvājo 'nupaśyati 18 hanyād ekarathenaiva devagandharvadānavān ekībhūtān api raṇe divyair astraiḥ pratāpavān 19 pauravo rājaśārdūlas tava rājan mahārathaḥ mato mama ratho vīra paravīra rathārujaḥ 20 svena sainyena sahitaḥ pratapañ śatruvāhinīm pradhakṣyati sapāñcālān kakṣaṃ kṛṣṇa gatir yathā 21 satyavrato rathavaro rājaputro mahārathaḥ tava rājan ripubale kālavat pracariṣyati 22 etasya yodhā rājendra vicitrakavacāyudhāḥ vicariṣyanti saṃgrāme nighnantaḥ śātravāṃs tava 23 vṛṣaseno rathāgryas te karṇa putro mahārathaḥ pradhakṣyati ripūṇāṃ te balāni balināṃ varaḥ 24 jalasaṃdho mahātejā rājan rathavaras tava tyakṣyate samare prāṇān māgadhaḥ paravīrahā 25 eṣa yotsyati saṃgrāme gajaskandhaviśāradaḥ rathena vā mahābāhuḥ kṣapayañ śatruvāhinīm 26 ratha eṣa mahārāja mato mama nararṣabhaḥ tvadarthe tyakṣyati prāṇān saha sainyo mahāraṇe 27 eṣa vikrāntayodhī ca citrayodhī ca saṃgare vītabhīś cāpi te rājañ śātravaiḥ saha yotsyate 28 bāhlīko 'tirathaś caiva samare cānivartitā mama rājan mato yuddhe śūro vaivasvatopamaḥ 29 na hy eṣa samaraṃ prāpya nivarteta kathaṃ cana yathā satatago rājan nābhihatya parān raṇe 30 senāpatir mahārāja satyavāṃs te mahārathaḥ raṇeṣv adbhutakarmā ca rathaḥ pararathārujaḥ 31 etasya samaraṃ dṛṣṭvā na vyathāsti kathaṃ cana utsmayann abhyupaity eṣa parān rathapathe sthitān 32 eṣa cāriṣu vikrāntaḥ karma satpuruṣocitam kartā vimarde sumahat tvadarthe puruṣottamaḥ 33 alāyudho rākṣasendraḥ krūrakarmā mahābalaḥ haniṣyati parān rājan pūrvavairam anusmaran 34 eṣa rākṣasasainyānāṃ sarveṣāṃ rathasattamaḥ māyāvī dṛḍhavairaś ca samare vicariṣyati 35 prāgjyotiṣādhipo vīro bhagadattaḥ pratāpavān gajāṅkuśa dharaśreṣṭho rathe caiva viśāradaḥ 36 etena yuddham abhavat purā gāṇḍīvadhanvanaḥ divasān subahūn rājann ubhayor jaya gṛddhinoḥ 37 tataḥ sakhāyaṃ gāndhāre mānayan pākaśāsanam akarot saṃvidaṃ tena pāṇḍavena mahātmanā 38 eṣa yotsyati saṃgrāme gajaskandhaviśāradaḥ airāvata gato rājā devānām iva vāsavaḥ |
The Mahabharata in Sanskrit
Book 5
Chapter 165
|
1
[भीस्म] अचलॊ वृषकश चैव भरातरौ सहिताव उभौ रथौ तव दुराधर्षौ शत्रून विध्वंसयिष्यतः 2 बलवन्तौ नरव्याघ्रौ दृढक्रॊधौ परहारिणौ गान्धारमुख्यौ तरुणौ दर्शनीयौ महाबलौ 3 सखा ते दयितॊ नित्यं य एष रणकर्कशः परॊत्साहयति राजंस तवां विग्रहे पाण्डवैः सह 4 परुषः कत्थनॊ नीचः कर्णॊ वैकर्तनस तव मन्त्री नेता च बन्धुश च मानी चात्यन्तम उच्छ्रितः 5 एष नैव रथः पूर्णॊ नाप्य एवातिरथॊ नृप वियुक्तः कवचेनैष सहजेन विचेतनः कुण्डलाभ्यां च दिव्याभ्यां वियुक्तः सततं धृणी 6 अभिशापाच च रामस्य बराह्मणस्य च भाषणात करणानां वियॊगाच च तेन मे ऽरधरथॊ मतः नैष फल्गुनम आसाद्य पुनर जीवन विमॊक्ष्यते 7 [स] ततॊ ऽबरवीन महाबाहुर दरॊणः शस्त्रभृतां वरः एवम एतद यथात्थ तवं न मिथ्यास्तीति किं चन 8 रणे रणे ऽतिमानी च विमुखश चैव दृश्यते घृणी कर्णः परमादी च तेन मे ऽरधरथॊ मतः 9 एतच छरुत्वा तु राधेयः करॊधाद उत्फुल्ललॊचनः उवाच भीष्मं राजेन्द्र तुदन वाग्भिः परतॊदवत 10 पितामह यथेष्टं मां वाक्शरैर उपकृन्तसि अनागसं सदा दवेषाद एवम एव पदे पदे मर्षयामि च तत सर्वं दुर्यॊधनकृतेन वै 11 तवं तु मां मन्यसे ऽशक्तं यथा पापुरुषं तथा भवान अर्धरथॊ मह्यं मतॊ नास्त्य अत्र संशयः 12 सर्वस्य जगतश चैव गाङ्गेय न मृषा वदे कुरूणाम अहितॊ नित्यं न च राजावबुध्यते 13 कॊ हि नाम समानेषु राजसूदात्त कर्मसु तेजॊवधम इमं कुर्याद विभेदयिषुर आहवे यथा तवं गुणनिर्देशाद अपराधं चिकीर्षसि 14 न हायनैर न पलितैर न वित्तैर न च बन्धुभिः महारथत्वं संख्यातुं शक्यं कषत्रस्य कौरव 15 बलज्येष्ठं समृतं कषत्रं मन्त्रज्येष्ठा दविजातयः धनज्येष्ठाः समृता वैश्याः शूद्रास तु वयसाधिकाः 16 यथेच्छकं सवयं गराहाद रथान अतिरथांस तथा कामद्वेषसमायुक्तॊ मॊहात परकुरुते भवान 17 दुर्यॊधन महाबाहॊ साधु सम्यग अवेक्ष्यताम तयज्यतां दुष्टभावॊ ऽयं भीष्मः किल्बिषकृत तव 18 भिन्ना हि सेना नृपते दुःसंधेया भवत्य उत मैलापि पुरुषव्याघ्र किम उ नाना समुत्थिता 19 एषां दवैधं समुत्पन्नं यॊधानां युधि भारत तेजॊवधॊ नः करियते परत्यक्षेण विशेषतः 20 रथानां कव च विज्ञानं कव च भीष्मॊ ऽलपचेतनः अहम आवारयिष्यामि पाण्डवानाम अनीकिनीम 21 आसाद्य माम अमॊघेषुं गमिष्यन्ति दिशॊ दश पाण्डवाः सह पञ्चालाः शार्दूलं वृषभा इव 22 कव च युद्धविमर्दॊ वा मन्त्राः सुव्याहृतानि वा कव च भीष्मॊ गतवया मन्दात्मा कालमॊहितः 23 सपर्धते हि सदा नित्यं सर्वेण जगता सह न चान्यं पुरुषं कं चिन मन्यते मॊघदर्शनः 24 शरॊतव्यं खलु वृद्धानाम इति शास्त्रनिदर्शनम न तव एवाप्य अतिवृद्धानां पुनर बाला हि ते मताः 25 अहम एकॊ हनिष्यामि पाण्डवान नात्र संशयः सुयुद्धे राजशार्दूल यशॊ भीष्मं गमिष्यति 26 कृतः सेनापतिस तव एष तवया भीष्मॊ नराधिप सेनापतिं गुणॊ गन्ता न तु यॊधान कथं चन 27 नाहं जीवति गाङ्गेये यॊत्स्ये राजन कथं चन हते तु भीष्मे यॊधास्मि सर्वैर एव महारथैः |
1
[bhīsma] acalo vṛṣakaś caiva bhrātarau sahitāv ubhau rathau tava durādharṣau śatrūn vidhvaṃsayiṣyataḥ 2 balavantau naravyāghrau dṛḍhakrodhau prahāriṇau gāndhāramukhyau taruṇau darśanīyau mahābalau 3 sakhā te dayito nityaṃ ya eṣa raṇakarkaśaḥ protsāhayati rājaṃs tvāṃ vigrahe pāṇḍavaiḥ saha 4 paruṣaḥ katthano nīcaḥ karṇo vaikartanas tava mantrī netā ca bandhuś ca mānī cātyantam ucchritaḥ 5 eṣa naiva rathaḥ pūrṇo nāpy evātiratho nṛpa viyuktaḥ kavacenaiṣa sahajena vicetanaḥ kuṇḍalābhyāṃ ca divyābhyāṃ viyuktaḥ satataṃ dhṛṇī 6 abhiśāpāc ca rāmasya brāhmaṇasya ca bhāṣaṇāt karaṇānāṃ viyogāc ca tena me 'rdharatho mataḥ naiṣa phalgunam āsādya punar jīvan vimokṣyate 7 [s] tato 'bravīn mahābāhur droṇaḥ śastrabhṛtāṃ varaḥ evam etad yathāttha tvaṃ na mithyāstīti kiṃ cana 8 raṇe raṇe 'timānī ca vimukhaś caiva dṛśyate ghṛṇī karṇaḥ pramādī ca tena me 'rdharatho mataḥ 9 etac chrutvā tu rādheyaḥ krodhād utphullalocanaḥ uvāca bhīṣmaṃ rājendra tudan vāgbhiḥ pratodavat 10 pitāmaha yatheṣṭaṃ māṃ vākśarair upakṛntasi anāgasaṃ sadā dveṣād evam eva pade pade marṣayāmi ca tat sarvaṃ duryodhanakṛtena vai 11 tvaṃ tu māṃ manyase 'śaktaṃ yathā pāpuruṣaṃ tathā bhavān ardharatho mahyaṃ mato nāsty atra saṃśayaḥ 12 sarvasya jagataś caiva gāṅgeya na mṛṣā vade kurūṇām ahito nityaṃ na ca rājāvabudhyate 13 ko hi nāma samāneṣu rājasūdātta karmasu tejovadham imaṃ kuryād vibhedayiṣur āhave yathā tvaṃ guṇanirdeśād aparādhaṃ cikīrṣasi 14 na hāyanair na palitair na vittair na ca bandhubhiḥ mahārathatvaṃ saṃkhyātuṃ śakyaṃ kṣatrasya kaurava 15 balajyeṣṭhaṃ smṛtaṃ kṣatraṃ mantrajyeṣṭhā dvijātayaḥ dhanajyeṣṭhāḥ smṛtā vaiśyāḥ śūdrās tu vayasādhikāḥ 16 yathecchakaṃ svayaṃ grāhād rathān atirathāṃs tathā kāmadveṣasamāyukto mohāt prakurute bhavān 17 duryodhana mahābāho sādhu samyag avekṣyatām tyajyatāṃ duṣṭabhāvo 'yaṃ bhīṣmaḥ kilbiṣakṛt tava 18 bhinnā hi senā nṛpate duḥsaṃdheyā bhavaty uta mailāpi puruṣavyāghra kim u nānā samutthitā 19 eṣāṃ dvaidhaṃ samutpannaṃ yodhānāṃ yudhi bhārata tejovadho naḥ kriyate pratyakṣeṇa viśeṣataḥ 20 rathānāṃ kva ca vijñānaṃ kva ca bhīṣmo 'lpacetanaḥ aham āvārayiṣyāmi pāṇḍavānām anīkinīm 21 āsādya mām amogheṣuṃ gamiṣyanti diśo daśa pāṇḍavāḥ saha pañcālāḥ śārdūlaṃ vṛṣabhā iva 22 kva ca yuddhavimardo vā mantrāḥ suvyāhṛtāni vā kva ca bhīṣmo gatavayā mandātmā kālamohitaḥ 23 spardhate hi sadā nityaṃ sarveṇa jagatā saha na cānyaṃ puruṣaṃ kaṃ cin manyate moghadarśanaḥ 24 śrotavyaṃ khalu vṛddhānām iti śāstranidarśanam na tv evāpy ativṛddhānāṃ punar bālā hi te matāḥ 25 aham eko haniṣyāmi pāṇḍavān nātra saṃśayaḥ suyuddhe rājaśārdūla yaśo bhīṣmaṃ gamiṣyati 26 kṛtaḥ senāpatis tv eṣa tvayā bhīṣmo narādhipa senāpatiṃ guṇo gantā na tu yodhān kathaṃ cana 27 nāhaṃ jīvati gāṅgeye yotsye rājan kathaṃ cana hate tu bhīṣme yodhāsmi sarvair eva mahārathaiḥ |
The Mahabharata in Sanskrit
Book 5
Chapter 166
|
1
[भीस्म] समुद्यतॊ ऽयं भारॊ मे सुमहान सागरॊपमः धार्तराष्ट्रस्य संग्रामे वर्षपूगाभिचिन्तितः 2 तस्मिन्न अभ्यागते काले परतप्ते लॊमहर्षणे मिथॊ भेदॊ न मे कार्यस तेन जीवसि सूतज 3 न हय अहं नाद्य विक्रम्य सथविरॊ ऽपि शिशॊस तव युद्धश्रद्धां रणे छिन्द्यां जीवितस्य च सूतज 4 जामदग्न्येन रामेण महास्त्राणि परमुञ्चता न मे वयथाभवत का चित तवं तु मे किं करिष्यसि 5 कामं नैतत परशंसन्ति सन्तॊ ऽऽतमबलसंस्तवम वक्ष्यामि तु तवां संतप्तॊ निहीन कुलपांसन 6 समेतं पार्थिवं कषत्रं काशिराज्ञः सवयंवरे निर्जित्यैक रथेनैव यत कन्यास तरसा हृताः 7 ईदृशानां सहस्राणि विशिष्टानाम अथॊ पुनः मयैकेन निरस्तानि ससैन्यानि रणाजिरे 8 तवां पराप्य वैरपुरुषं कुरूणाम अनयॊ महान उपस्थितॊ विनाशाय यतस्व पुरुषॊ भव 9 युध्यस्व पार्थं समरे येन विस्पर्धसे सह दरक्ष्यामि तवां विनिर्मुक्तम अस्माद युद्धात सुदुर्मते 10 तम उवाच ततॊ राजा धार्तराष्ट्रॊ महामनाः माम अवेक्षस्व गाङ्गेय कार्यं हि महद उद्यतम 11 चिन्त्यताम इदम एवाग्रे मम निःश्रेयसं परम उभाव अपि भवन्तौ मे महत कर्म करिष्यतः 12 भूयश च शरॊतुम इच्छामि परेषां रथसत्तमान ये चैवातिरथास तत्र तथैव रथयूथपाः 13 बलाबलम अमित्राणां शरॊतुम इच्छामि कौरव परभातायां रजन्यां वै इदं युद्धं भविष्यति 14 एते रथास ते संख्यातास तथैवातिरथा नृप य चाप्य अर्धरथा राजन पाण्डवानाम अतः शृणु 15 यदि कौतूहलं ते ऽदय पाण्डवानां बले नृप रथसंख्यां महाबाहॊ सहैभिर वसुधाधिपैः 16 सवयं राजा रथॊदारः पाण्डवः कुन्तिनन्दनः अग्निवत समरे तात चरिष्यति न संशयः 17 भीमसेनस तु राजेन्द्र रथॊ ऽषट गुणसंमितः नागायुत बलॊ मानी तेजसा न स मानुषः 18 माद्रीपुत्रौ तु रथिनौ दवाव एव पुरुषर्षभौ अश्विनाव इव रूपेण तेजसा च समन्वितौ 19 एते चमूमुखगताः समरन्तः कलेशम आत्मनः रुद्रवत परचरिष्यन्ति तत्र मे नास्ति संशयः 20 सर्व एव महात्मानः शालस्कन्धा इवॊद्गताः परादेशेनाधिकाः पुम्भिर अन्यैस ते च परमाणतः 21 सिंहसंहननाः सर्वे पाण्डुपुत्रा महाबलाः चरितब्रह्म चर्याश च सर्वे चातितपस्विनः 22 हरीमन्तः पुरुषव्याघ्रा वयाघ्रा इव बलॊत्कटाः जवे परहारे संमर्दे सर्व एवातिमानुषाः सर्वे जितमहीपाला दिग जये भरतर्षभ 23 न चैषां पुरुषाः के चिद आयुधानि गदाः शरान विषहन्ति सदा कर्तुम अधिज्यान्य अपि कौरव उद्यन्तुं वा गदां गुर्वीं शरान वापि परकर्षितुम 24 जवे लक्ष्यस्य हरणे भॊज्ये पांसुविकर्षणे बलैर अपि भवन्तस तैः सर्व एव विशेषिताः 25 ते ते सैन्यं समासाद्य वयाघ्रा इव बलॊत्कटाः विध्वंसयिष्यन्ति रणे मा सम तैः सह संगमः 26 एकैकशस ते संग्रामे हन्युः सर्वान महीक्षितः परत्यक्षं तव राजेन्द्र राजसूये यथाभवत 27 दरौपद्याश च परिक्लेशं दयूते च परुषा गिरः ते संस्मरन्तः संग्रामे विचरिष्यन्ति कालवत 28 लॊहिताक्षॊ गुडा केशॊ नारायण सहायवान उभयॊः सेनयॊर वीर रथॊ नास्तीह तादृशः 29 न हि देवेषु वा पूर्वं दानवेषूरगेषु वा राक्षसेष्व अथ यक्षेषु नरेषु कुत एव तु 30 भूतॊ ऽथ व भविष्यॊ वा रथः कश चिन मया शरुतः समायुक्तॊ महाराज यथा पार्थस्य धीमतः 31 वासुदेवश च संयन्ता यॊधा चैव धनंजयः गाण्डीवं च धनुर दिव्यं ते चाश्वा वातरंहसः 32 अभेद्यं कवचं दिव्यम अक्षय्यौ च महेषुधी अस्त्रग्रामश च माहेन्द्रॊ रौद्रः कौबेर एव च 33 याम्यश च वारुणश चैव गदाश चॊग्रप्रदर्शनाः वज्रादीनि च मुख्यानि नानाप्रहरणानि वै 34 दानवानां सहस्राणि हिरण्यपुरवासिनाम हतान्य एकरथेनाजौ कस तस्य सदृशॊ रथः 35 एष हन्याद धि संरम्भी बलवान सत्यविक्रमः तव सेनां महाबाहुः सवां चैव परिपालयन 36 अहं चैनं पत्युदियामाचार्यॊ वा धनंजयम न तृतीयॊ ऽसति राजेन्द्र सेनयॊर उभयॊर अपि य एनं शरवर्षाणि वर्षन्तम उदियाद रथी 37 जीमूत इव घर्मान्ते महावातसमीरितः समायुक्तस तु कौन्तेयॊ वासुदेवसहायवान तरुणश च कृती चैव जीर्णाव आवाम उभाव अपि 38 एतच छरुत्वा तु भीष्मस्य राज्ञां दध्वंसिरे तदा काञ्चनाङ्गदिनः पीना भुजाश चन्दनरूषिताः 39 मनॊभिः सह सावेगैः संस्मृत्य च पुरातनम सामर्थ्यं पाण्डवेयानां यथा परत्यक्षदर्शनात |
1
[bhīsma] samudyato 'yaṃ bhāro me sumahān sāgaropamaḥ dhārtarāṣṭrasya saṃgrāme varṣapūgābhicintitaḥ 2 tasminn abhyāgate kāle pratapte lomaharṣaṇe mitho bhedo na me kāryas tena jīvasi sūtaja 3 na hy ahaṃ nādya vikramya sthaviro 'pi śiśos tava yuddhaśraddhāṃ raṇe chindyāṃ jīvitasya ca sūtaja 4 jāmadagnyena rāmeṇa mahāstrāṇi pramuñcatā na me vyathābhavat kā cit tvaṃ tu me kiṃ kariṣyasi 5 kāmaṃ naitat praśaṃsanti santo ''tmabalasaṃstavam vakṣyāmi tu tvāṃ saṃtapto nihīna kulapāṃsana 6 sametaṃ pārthivaṃ kṣatraṃ kāśirājñaḥ svayaṃvare nirjityaika rathenaiva yat kanyās tarasā hṛtāḥ 7 īdṛśānāṃ sahasrāṇi viśiṣṭānām atho punaḥ mayaikena nirastāni sasainyāni raṇājire 8 tvāṃ prāpya vairapuruṣaṃ kurūṇām anayo mahān upasthito vināśāya yatasva puruṣo bhava 9 yudhyasva pārthaṃ samare yena vispardhase saha drakṣyāmi tvāṃ vinirmuktam asmād yuddhāt sudurmate 10 tam uvāca tato rājā dhārtarāṣṭro mahāmanāḥ mām avekṣasva gāṅgeya kāryaṃ hi mahad udyatam 11 cintyatām idam evāgre mama niḥśreyasaṃ param ubhāv api bhavantau me mahat karma kariṣyataḥ 12 bhūyaś ca śrotum icchāmi pareṣāṃ rathasattamān ye caivātirathās tatra tathaiva rathayūthapāḥ 13 balābalam amitrāṇāṃ śrotum icchāmi kaurava prabhātāyāṃ rajanyāṃ vai idaṃ yuddhaṃ bhaviṣyati 14 ete rathās te saṃkhyātās tathaivātirathā nṛpa ya cāpy ardharathā rājan pāṇḍavānām ataḥ śṛṇu 15 yadi kautūhalaṃ te 'dya pāṇḍavānāṃ bale nṛpa rathasaṃkhyāṃ mahābāho sahaibhir vasudhādhipaiḥ 16 svayaṃ rājā rathodāraḥ pāṇḍavaḥ kuntinandanaḥ agnivat samare tāta cariṣyati na saṃśayaḥ 17 bhīmasenas tu rājendra ratho 'ṣṭa guṇasaṃmitaḥ nāgāyuta balo mānī tejasā na sa mānuṣaḥ 18 mādrīputrau tu rathinau dvāv eva puruṣarṣabhau aśvināv iva rūpeṇa tejasā ca samanvitau 19 ete camūmukhagatāḥ smarantaḥ kleśam ātmanaḥ rudravat pracariṣyanti tatra me nāsti saṃśayaḥ 20 sarva eva mahātmānaḥ śālaskandhā ivodgatāḥ prādeśenādhikāḥ pumbhir anyais te ca pramāṇataḥ 21 siṃhasaṃhananāḥ sarve pāṇḍuputrā mahābalāḥ caritabrahma caryāś ca sarve cātitapasvinaḥ 22 hrīmantaḥ puruṣavyāghrā vyāghrā iva balotkaṭāḥ jave prahāre saṃmarde sarva evātimānuṣāḥ sarve jitamahīpālā dig jaye bharatarṣabha 23 na caiṣāṃ puruṣāḥ ke cid āyudhāni gadāḥ śarān viṣahanti sadā kartum adhijyāny api kaurava udyantuṃ vā gadāṃ gurvīṃ śarān vāpi prakarṣitum 24 jave lakṣyasya haraṇe bhojye pāṃsuvikarṣaṇe balair api bhavantas taiḥ sarva eva viśeṣitāḥ 25 te te sainyaṃ samāsādya vyāghrā iva balotkaṭāḥ vidhvaṃsayiṣyanti raṇe mā sma taiḥ saha saṃgamaḥ 26 ekaikaśas te saṃgrāme hanyuḥ sarvān mahīkṣitaḥ pratyakṣaṃ tava rājendra rājasūye yathābhavat 27 draupadyāś ca parikleśaṃ dyūte ca paruṣā giraḥ te saṃsmarantaḥ saṃgrāme vicariṣyanti kālavat 28 lohitākṣo guḍā keśo nārāyaṇa sahāyavān ubhayoḥ senayor vīra ratho nāstīha tādṛśaḥ 29 na hi deveṣu vā pūrvaṃ dānaveṣūrageṣu vā rākṣaseṣv atha yakṣeṣu nareṣu kuta eva tu 30 bhūto 'tha va bhaviṣyo vā rathaḥ kaś cin mayā śrutaḥ samāyukto mahārāja yathā pārthasya dhīmataḥ 31 vāsudevaś ca saṃyantā yodhā caiva dhanaṃjayaḥ gāṇḍīvaṃ ca dhanur divyaṃ te cāśvā vātaraṃhasaḥ 32 abhedyaṃ kavacaṃ divyam akṣayyau ca maheṣudhī astragrāmaś ca māhendro raudraḥ kaubera eva ca 33 yāmyaś ca vāruṇaś caiva gadāś cograpradarśanāḥ vajrādīni ca mukhyāni nānāpraharaṇāni vai 34 dānavānāṃ sahasrāṇi hiraṇyapuravāsinām hatāny ekarathenājau kas tasya sadṛśo rathaḥ 35 eṣa hanyād dhi saṃrambhī balavān satyavikramaḥ tava senāṃ mahābāhuḥ svāṃ caiva paripālayan 36 ahaṃ cainaṃ patyudiyāmācāryo vā dhanaṃjayam na tṛtīyo 'sti rājendra senayor ubhayor api ya enaṃ śaravarṣāṇi varṣantam udiyād rathī 37 jīmūta iva gharmānte mahāvātasamīritaḥ samāyuktas tu kaunteyo vāsudevasahāyavān taruṇaś ca kṛtī caiva jīrṇāv āvām ubhāv api 38 etac chrutvā tu bhīṣmasya rājñāṃ dadhvaṃsire tadā kāñcanāṅgadinaḥ pīnā bhujāś candanarūṣitāḥ 39 manobhiḥ saha sāvegaiḥ saṃsmṛtya ca purātanam sāmarthyaṃ pāṇḍaveyānāṃ yathā pratyakṣadarśanāt |
The Mahabharata in Sanskrit
Book 5
Chapter 167
|
1
[भीस्म] दरौपदेया महाराज सर्वे पञ्च महारथाः वैराटिर उत्तरश चैव रथॊ मम महान मतः 2 अभिमन्युर महाराज रथयूथप यूथपः समः पार्थेन समरे वासुदेवेन वा भवेत 3 लघ्व अस्त्रश चित्रयॊधी च मनस्वी दृढविक्रमः संस्मरन वै परिक्लेशं सवपितुर विक्रमिष्यति 4 सात्यकिर माधवः शूरॊ रथयूथप यूथपः एष वृष्णिप्रवीराणाम अमर्षी जितसाध्वसः 5 उत्तमौजास तथा राजन रथॊ मम महान मतः युधामन्युश च विक्रान्तॊ रथॊदारॊ नरर्षभः 6 एतेषां बहुसाहस्रा रथा नागा हयास तथा यॊत्स्यन्ते ते तनुं तयक्त्वा कुन्तीपुत्र परियेप्सया 7 पाण्डवैः सह राजेन्द्र तव सेनासु भारत अग्निमारुतवद राजन्न आह्वयन्तः परस्परम 8 अजेयौ समरे वृद्धौ विराटद्रुपदाव उभौ महारथौ महावीर्यौ मतौ मे पुरुषर्षभौ 9 वयॊवृद्धाव अपि तु तौ कषत्रधर्मपरायणौ यतिष्येते परं शक्त्या सथितौ वीर गते पथि 10 संबन्धकेन राजेन्द्र तौ तु वीर्यबलान्वयात आर्य वृत्तौ महेष्वासौ सनेहपाशसिताव उभौ 11 कारणं पराप्य तु नराः सर्व एव महाभुजाः शूरा वा कातरा वापि भवन्ति नरपुंगव 12 एकायनगताव एतौ पार्थेन दृढभक्तिकौ तयक्त्वा पराणान परं शक्त्या घटितारौ नराधिप 13 पृथग अक्षौहिणीभ्यां ताव उभौ संयति दारुणौ संबन्धिभावं रक्षन्तौ महत कर्म करिष्यतः 14 लॊकवीरौ महेष्वासौ तयक्तात्मानौ च भारत परत्ययम्परिरक्षन्तौ महत कर्म करिष्यतः |
1
[bhīsma] draupadeyā mahārāja sarve pañca mahārathāḥ vairāṭir uttaraś caiva ratho mama mahān mataḥ 2 abhimanyur mahārāja rathayūthapa yūthapaḥ samaḥ pārthena samare vāsudevena vā bhavet 3 laghv astraś citrayodhī ca manasvī dṛḍhavikramaḥ saṃsmaran vai parikleśaṃ svapitur vikramiṣyati 4 sātyakir mādhavaḥ śūro rathayūthapa yūthapaḥ eṣa vṛṣṇipravīrāṇām amarṣī jitasādhvasaḥ 5 uttamaujās tathā rājan ratho mama mahān mataḥ yudhāmanyuś ca vikrānto rathodāro nararṣabhaḥ 6 eteṣāṃ bahusāhasrā rathā nāgā hayās tathā yotsyante te tanuṃ tyaktvā kuntīputra priyepsayā 7 pāṇḍavaiḥ saha rājendra tava senāsu bhārata agnimārutavad rājann āhvayantaḥ parasparam 8 ajeyau samare vṛddhau virāṭadrupadāv ubhau mahārathau mahāvīryau matau me puruṣarṣabhau 9 vayovṛddhāv api tu tau kṣatradharmaparāyaṇau yatiṣyete paraṃ śaktyā sthitau vīra gate pathi 10 saṃbandhakena rājendra tau tu vīryabalānvayāt ārya vṛttau maheṣvāsau snehapāśasitāv ubhau 11 kāraṇaṃ prāpya tu narāḥ sarva eva mahābhujāḥ śūrā vā kātarā vāpi bhavanti narapuṃgava 12 ekāyanagatāv etau pārthena dṛḍhabhaktikau tyaktvā prāṇān paraṃ śaktyā ghaṭitārau narādhipa 13 pṛthag akṣauhiṇībhyāṃ tāv ubhau saṃyati dāruṇau saṃbandhibhāvaṃ rakṣantau mahat karma kariṣyataḥ 14 lokavīrau maheṣvāsau tyaktātmānau ca bhārata pratyayamparirakṣantau mahat karma kariṣyataḥ |
The Mahabharata in Sanskrit
Book 5
Chapter 168
|
1
[भीस्म] पाञ्चालराजस्य सुतॊ राजन परपुरंजयः शिखण्डी रथमुख्यॊ मे मतः पार्थस्य भारत 2 एष यॊत्स्यति संग्रामे नाशयन पूर्वसंस्थितिम परं यशॊ विप्रथयंस तव सेनासु भारत 3 एतस्य बहुलाः सेनाः पाञ्चालाश च परभद्रकाः तेनासौ रथवंशेन महत कर्म करिष्यति 4 धृष्टद्युम्नश च सेनानीः सर्वसेनासु भारत मतॊ मे ऽतिरथॊ राजन दरॊणशिष्यॊ महारथः 5 एष यॊत्स्यति संग्रामे सूदयन वै परान रणे भगवान इव संक्रुद्धः पिनाकी युगसंक्षये 6 एतस्य तद्रथानीकं कथयन्ति रणप्रियाः बहुत्वात सागरप्रख्यं देवानाम इव संयुगे 7 कषत्रधर्मा तु राजेन्द्र मतॊ मे ऽरधरथॊ नृप धृष्टद्युम्नस्य तनयॊ बाल्यान नातिकृत शरमः 8 शिशुपाल सुतॊ वीरश चेदिराजॊ महारथः धृष्टकेतुर महेष्वासः संबन्धी पाण्डवस्य ह 9 एष चेदिपतिः शूरः सह पुत्रेण भारत महारथेनासुकरं महत कर्म करिष्यति 10 कषत्रधर्मरतॊ मह्यं मतः परपुरंजयः कषत्रदेवस तु राजेन्द्र पाण्डवेषु रथॊत्तमः जयन्तश चामितौजाश च सत्यजिच च महारथः 11 महारथा महात्मानः सर्वे पाञ्चाल सत्तमाः यॊत्स्यन्ते समरे तात संरब्धा इव कुञ्जराः 12 अजॊ भॊजश च विक्रान्तौ पाण्डवेषु महारथौ पाण्डवानां सहायार्थे परं शक्थ्या यतिष्यतः शीघ्रास्त्रौ चित्रयॊद्धारौ कृतिनौ दृढविक्रमौ 13 केकयाः पञ्च राजेन्द्र भरातरॊ युद्धदुर्मदाः सर्व एते रथॊदाराः सर्वे लॊहितक धवजाः 14 काशिकः सुकुमारश च नीलॊ यश चापरॊ नृपः सूर्यदत्तश च शङ्खश च मदिराश्वश च नामतः 15 सर्व एते रथॊदाराः सर्वे चाहवलक्षणाः सर्वास्त्रविदुषः सर्वे महात्मानॊ मता मम 16 वार्धक्षेमिर महाराज रथॊ मम महान मतः चित्रायुधश च नृपतिर मतॊ मे रथसत्तमः स हि संग्रामशॊभी च भक्तश चापि किरीटिनः 17 चेकितानः सत्यधृतिः पाण्डवानां महारथौ दवाव इमौ पुरुषव्याघौ रथॊदारौ मतौ मम 18 वयाघ्रदत्तश च राजेन्द्र चन्द्र सेनश च भारत मतौ मम रथॊदारौ पाण्डवानां न संशयः 19 सेना बिन्दुश च राजेन्द्र करॊधहन्ता च नामतः यः समॊ वासुदेवेन भीमसेनेन चाभिभूः स यॊत्स्यतीह विक्रम्य समरे तव सैनिकैः 20 मां दरॊणं च कृपं चैव यथा संमन्यते भवान तथा स समरश्लाघी मन्तव्यॊ रथसत्तमः 21 काश्यः परमशीघ्रास्त्रः शलाघनीयॊ रथॊत्तमः रथ एकगुणॊ मह्यं मतः परपुरंजयः 22 अयं च युधि विक्रान्तॊ मन्तव्यॊ ऽषट गुणॊ रथः सत्यजित समरश्लाघी दरुपदस्यात्मजॊ युवा 23 गतः सॊ ऽतिरथत्वं हि धृष्टद्युम्नेन संमितः पाण्डवानां यशः कामः परं कर्म करिष्यति 24 अनुरक्तश च शूरश च रथॊ ऽयम अपरॊ महान पाण्ड्य राजॊ महावीर्यः पाण्डवानां धुरंधरः 25 दृढधन्वा महेष्वासः पाण्डवानां रथॊत्तमः शरेणिमान कौरवश्रेष्ठ वसु दानश च पार्थिवः उभाव एताव अतिरथौ मतौ मम परंतप |
1
[bhīsma] pāñcālarājasya suto rājan parapuraṃjayaḥ śikhaṇḍī rathamukhyo me mataḥ pārthasya bhārata 2 eṣa yotsyati saṃgrāme nāśayan pūrvasaṃsthitim paraṃ yaśo viprathayaṃs tava senāsu bhārata 3 etasya bahulāḥ senāḥ pāñcālāś ca prabhadrakāḥ tenāsau rathavaṃśena mahat karma kariṣyati 4 dhṛṣṭadyumnaś ca senānīḥ sarvasenāsu bhārata mato me 'tiratho rājan droṇaśiṣyo mahārathaḥ 5 eṣa yotsyati saṃgrāme sūdayan vai parān raṇe bhagavān iva saṃkruddhaḥ pinākī yugasaṃkṣaye 6 etasya tadrathānīkaṃ kathayanti raṇapriyāḥ bahutvāt sāgaraprakhyaṃ devānām iva saṃyuge 7 kṣatradharmā tu rājendra mato me 'rdharatho nṛpa dhṛṣṭadyumnasya tanayo bālyān nātikṛta śramaḥ 8 śiśupāla suto vīraś cedirājo mahārathaḥ dhṛṣṭaketur maheṣvāsaḥ saṃbandhī pāṇḍavasya ha 9 eṣa cedipatiḥ śūraḥ saha putreṇa bhārata mahārathenāsukaraṃ mahat karma kariṣyati 10 kṣatradharmarato mahyaṃ mataḥ parapuraṃjayaḥ kṣatradevas tu rājendra pāṇḍaveṣu rathottamaḥ jayantaś cāmitaujāś ca satyajic ca mahārathaḥ 11 mahārathā mahātmānaḥ sarve pāñcāla sattamāḥ yotsyante samare tāta saṃrabdhā iva kuñjarāḥ 12 ajo bhojaś ca vikrāntau pāṇḍaveṣu mahārathau pāṇḍavānāṃ sahāyārthe paraṃ śakthyā yatiṣyataḥ śīghrāstrau citrayoddhārau kṛtinau dṛḍhavikramau 13 kekayāḥ pañca rājendra bhrātaro yuddhadurmadāḥ sarva ete rathodārāḥ sarve lohitaka dhvajāḥ 14 kāśikaḥ sukumāraś ca nīlo yaś cāparo nṛpaḥ sūryadattaś ca śaṅkhaś ca madirāśvaś ca nāmataḥ 15 sarva ete rathodārāḥ sarve cāhavalakṣaṇāḥ sarvāstraviduṣaḥ sarve mahātmāno matā mama 16 vārdhakṣemir mahārāja ratho mama mahān mataḥ citrāyudhaś ca nṛpatir mato me rathasattamaḥ sa hi saṃgrāmaśobhī ca bhaktaś cāpi kirīṭinaḥ 17 cekitānaḥ satyadhṛtiḥ pāṇḍavānāṃ mahārathau dvāv imau puruṣavyāghau rathodārau matau mama 18 vyāghradattaś ca rājendra candra senaś ca bhārata matau mama rathodārau pāṇḍavānāṃ na saṃśayaḥ 19 senā binduś ca rājendra krodhahantā ca nāmataḥ yaḥ samo vāsudevena bhīmasenena cābhibhūḥ sa yotsyatīha vikramya samare tava sainikaiḥ 20 māṃ droṇaṃ ca kṛpaṃ caiva yathā saṃmanyate bhavān tathā sa samaraślāghī mantavyo rathasattamaḥ 21 kāśyaḥ paramaśīghrāstraḥ ślāghanīyo rathottamaḥ ratha ekaguṇo mahyaṃ mataḥ parapuraṃjayaḥ 22 ayaṃ ca yudhi vikrānto mantavyo 'ṣṭa guṇo rathaḥ satyajit samaraślāghī drupadasyātmajo yuvā 23 gataḥ so 'tirathatvaṃ hi dhṛṣṭadyumnena saṃmitaḥ pāṇḍavānāṃ yaśaḥ kāmaḥ paraṃ karma kariṣyati 24 anuraktaś ca śūraś ca ratho 'yam aparo mahān pāṇḍya rājo mahāvīryaḥ pāṇḍavānāṃ dhuraṃdharaḥ 25 dṛḍhadhanvā maheṣvāsaḥ pāṇḍavānāṃ rathottamaḥ śreṇimān kauravaśreṣṭha vasu dānaś ca pārthivaḥ ubhāv etāv atirathau matau mama paraṃtapa |
The Mahabharata in Sanskrit
Book 5
Chapter 169
|
1
[भीस्म] रॊचमानॊ महाराज पाण्डवानां महारथः यॊत्स्यते ऽमरवत संख्ये परसैन्येषु भारत 2 पुरुजित कुन्तिभॊजश च महेष्वासॊ महाबलः मातुलॊ भीमसेनस्य स च मे ऽतिरथॊ मतः 3 एष वीरॊ महेष्वासः कृती च निपुणश च ह चित्रयॊधी च शक्तश च मतॊ मे रथपुंगवः 4 स यॊत्स्यति हि विक्रम्य मघवान इव दानवैः यॊधाश चास्य परिख्याताः सर्वे युद्धविशारदाः 5 भागिनेय कृते वीरः स करिष्यति संगरे सुमहत कर्म पाण्डूनां सथितः परियहिते नृपः 6 भैमसेनिर महाराज हैडिम्बॊ राक्षसेश्वरः मतॊ मे बहु मायावी रथयूथप यूथपः 7 यॊत्स्यते समरे तात मायाभिः समरप्रियः ये चास्य राक्षसाः शूराः सचिवा वशवर्तिनः 8 एते चान्ये च बहवॊ नानाजनपदेश्वराः समेताः पाण्डवस्यार्थे वासुदेव पुरॊगमाः 9 एते पराधान्यतॊ राजन पाण्डवस्य महात्मनः रथाश चातिरथाश चैव ये चाप्य अर्धरथा मताः 10 नेष्यन्ति समरे सेनां भीमां यौधिष्ठिरीं नृप महेन्द्रेणेव वीरेण पाल्यमानां किरीटिना 11 तैर अहं समरे वीर तवाम आयद्भिर जयैषिभिः यॊत्स्यामि जयम आकाङ्क्षन्न अथ वा निधनं रणे 12 पार्थं च वासुदेवं च चक्रगाण्डीवधारिणौ संध्यागताव इवार्केन्दू समेष्ये पुरुषॊत्तमौ 13 ये चैव ते रथॊदाराः पाण्डुपुत्रस्य सैनिकाः सह सैन्यान अहं तांश च परतीयां रणमूर्धनि 14 एते रथाश चातिरथाश च तुभ्यं; यथा परधानं नृप कीर्तिता मया तथा राजन्न अर्धरथाश च के चित; तथैव तेषाम अपि कौरवेन्द्र 15 अर्जुनं वासुदेवं च ये चान्ये तत्र पार्थिवाः सर्वान आवारयिष्यामि यावद दरक्ष्यामि भारत 16 पाञ्चाल्यं तु महाबाहॊ नाहं हन्यां शिखण्डिनम उद्यतेषुम अभिप्रेक्ष्य परतियुध्यन्तम आहवे 17 लॊकस तद वेद यद अहं पितुः परियचिकीर्षया पराप्तं राज्यं परित्यज्य बरह्मचर्ये धृतव्रतः 18 चित्राङ्गदं कौरवाणाम अहं राज्ये ऽभयषेचयम विचित्रवीर्यं च शिशुं यौवराज्ये ऽभयषेचयम 19 देवव्रतत्वं विख्याप्य पृथिव्यां सर्वराजसु नैव हन्यां सत्रियं जातु न सत्रीपूर्वं कथं चन 20 स हि सत्रीपूर्वकॊ राजञ शिखण्डी यदि ते शरुतः कन्या भूत्वा पुमाञ जातॊ न यॊत्स्ये तेन भारत 21 सर्वांस तव अन्यान हनिष्यामि पार्थिवान भरतर्षभ यान समेष्यामि समरे न तु कुन्तीसुतान नृप |
1
[bhīsma] rocamāno mahārāja pāṇḍavānāṃ mahārathaḥ yotsyate 'maravat saṃkhye parasainyeṣu bhārata 2 purujit kuntibhojaś ca maheṣvāso mahābalaḥ mātulo bhīmasenasya sa ca me 'tiratho mataḥ 3 eṣa vīro maheṣvāsaḥ kṛtī ca nipuṇaś ca ha citrayodhī ca śaktaś ca mato me rathapuṃgavaḥ 4 sa yotsyati hi vikramya maghavān iva dānavaiḥ yodhāś cāsya parikhyātāḥ sarve yuddhaviśāradāḥ 5 bhāgineya kṛte vīraḥ sa kariṣyati saṃgare sumahat karma pāṇḍūnāṃ sthitaḥ priyahite nṛpaḥ 6 bhaimasenir mahārāja haiḍimbo rākṣaseśvaraḥ mato me bahu māyāvī rathayūthapa yūthapaḥ 7 yotsyate samare tāta māyābhiḥ samarapriyaḥ ye cāsya rākṣasāḥ śūrāḥ sacivā vaśavartinaḥ 8 ete cānye ca bahavo nānājanapadeśvarāḥ sametāḥ pāṇḍavasyārthe vāsudeva purogamāḥ 9 ete prādhānyato rājan pāṇḍavasya mahātmanaḥ rathāś cātirathāś caiva ye cāpy ardharathā matāḥ 10 neṣyanti samare senāṃ bhīmāṃ yaudhiṣṭhirīṃ nṛpa mahendreṇeva vīreṇa pālyamānāṃ kirīṭinā 11 tair ahaṃ samare vīra tvām āyadbhir jayaiṣibhiḥ yotsyāmi jayam ākāṅkṣann atha vā nidhanaṃ raṇe 12 pārthaṃ ca vāsudevaṃ ca cakragāṇḍīvadhāriṇau saṃdhyāgatāv ivārkendū sameṣye puruṣottamau 13 ye caiva te rathodārāḥ pāṇḍuputrasya sainikāḥ saha sainyān ahaṃ tāṃś ca pratīyāṃ raṇamūrdhani 14 ete rathāś cātirathāś ca tubhyaṃ; yathā pradhānaṃ nṛpa kīrtitā mayā tathā rājann ardharathāś ca ke cit; tathaiva teṣām api kauravendra 15 arjunaṃ vāsudevaṃ ca ye cānye tatra pārthivāḥ sarvān āvārayiṣyāmi yāvad drakṣyāmi bhārata 16 pāñcālyaṃ tu mahābāho nāhaṃ hanyāṃ śikhaṇḍinam udyateṣum abhiprekṣya pratiyudhyantam āhave 17 lokas tad veda yad ahaṃ pituḥ priyacikīrṣayā prāptaṃ rājyaṃ parityajya brahmacarye dhṛtavrataḥ 18 citrāṅgadaṃ kauravāṇām ahaṃ rājye 'bhyaṣecayam vicitravīryaṃ ca śiśuṃ yauvarājye 'bhyaṣecayam 19 devavratatvaṃ vikhyāpya pṛthivyāṃ sarvarājasu naiva hanyāṃ striyaṃ jātu na strīpūrvaṃ kathaṃ cana 20 sa hi strīpūrvako rājañ śikhaṇḍī yadi te śrutaḥ kanyā bhūtvā pumāñ jāto na yotsye tena bhārata 21 sarvāṃs tv anyān haniṣyāmi pārthivān bharatarṣabha yān sameṣyāmi samare na tu kuntīsutān nṛpa |
The Mahabharata in Sanskrit
Book 5
Chapter 170
|
1
दुर्यॊधन उवाच किमर्थं भरतश्रेष्ठ न हन्यास तवं शिखण्डिनम उद्यतेषुम अथॊ दृष्ट्वा समरेष्व आततायिनम 2 पूर्वम उक्त्वा महाबाहॊ पाण्डवान सह सॊमकैः वधिष्यामीति गाङ्गेय तन मे बरूहि पितामह 3 भीष्म उवाच शृणु दुर्यॊधन कथां सहैभिर वसुधाधिपैः यदर्थं युधि संप्रेक्ष्य नाहं हन्यां शिखण्डिनम 4 महाराजॊ मम पिता शंतनुर भरतर्षभः दिष्टान्तं पराप धर्मात्मा समये पुरुषर्षभ 5 ततॊ ऽहं भरतश्रेष्ठ परतिज्ञां परिपालयन चित्राङ्गदं भरातरं वै महाराज्ये ऽभयषेचयम 6 तस्मिंश च निधनं पराप्ते सत्यवत्या मते सथितः विचित्रवीर्यं राजानम अभ्यषिञ्चं यथाविधि 7 मयाभिषिक्तॊ राजेन्द्र यवीयान अपि धर्मतः विचित्रवीर्यॊ धर्मात्मा माम एव समुदैक्षत 8 तस्य दारक्रियां तात चिकीर्षुर अहम अप्य उत अनुरूपाद इव कुलाद इति चिन्त्य मनॊ दधे 9 तथाश्रौषं महाबाहॊ तिस्रः कन्याः सवयंवरे रूपेणाप्रतिमाः सर्वाः काशिराजसुतास तदा अम्बा चैवाम्बिका चैव तथैवाम्बालिकापरा 10 राजानश च समाहूताः पृथिव्यां भरतर्षभ अम्बा जयेष्ठाभवत तासाम अम्बिका तव अथ मध्यमा अम्बालिका च राजेन्द्र राजकन्या यवीयसी 11 सॊ ऽहम एकरथेनैव गतः काशिपतेः पुरीम अपश्यं ता महाबाहॊ तिस्रः कन्याः सवलंकृताः राज्ञश चैव समावृत्तान पार्थिवान पृथिवीपते 12 ततॊ ऽहं तान नृपान सर्वान आहूय समरे सथितान रथम आरॊपयां चक्रे कन्यास ता भरतर्षभ 13 वीर्यशुल्काश च ता जञात्वा समारॊप्य रथं तदा अवॊचं पार्थिवान सर्वान अहं तत्र समागतान भीष्मः शांतनवः कन्या हरतीति पुनः पुनः 14 ते यतध्वं परं शक्त्या सर्वे मॊक्षाय पार्थिवाः परसह्य हि नयाम्य एष मिषतां वॊ नराधिपाः 15 ततस ते पृथिवीपालाः समुत्पेतुर उदायुधाः यॊगॊ यॊग इति करुद्धाः सारथींश चाप्य अचॊदयन 16 ते रथैर मेघसंकाशैर गजैश च गजयॊधिनः पृष्ठ्यैश चाश्वैर महीपालाः समुत्पेतुर उदायुधाः 17 ततस ते मां महीपालाः सर्व एव विशां पते रथव्रातेन महता सर्वतः पर्यवारयन 18 तान अहं शरवर्षेण महता परत्यवारयम सर्वान नृपांश चाप्य अजयं देवराड इव दानवान 19 तेषाम आतपतां चित्रान धवजान हेमपरिष्कृतान एकैकेन हि बाणेन भूमौ पातितवान अहम 20 हयांश चैषां गजांश चैव सारथींश चाप्य अहं रणे अपातयं शरैर दीप्तैः परहसन पुरुषर्षभ 21 ते निवृत्ताश च भग्नाश च दृष्ट्वा तल लाघवं मम अथाहं हास्तिनपुरम आयां जित्वा महीक्षितः 22 अतॊ ऽहं ताश च कन्या वै भरातुर अर्थाय भारत तच च कर्म महाबाहॊ सत्यवत्यै नयवेदयम |
1
duryodhana uvāca kimarthaṃ bharataśreṣṭha na hanyās tvaṃ śikhaṇḍinam udyateṣum atho dṛṣṭvā samareṣv ātatāyinam 2 pūrvam uktvā mahābāho pāṇḍavān saha somakaiḥ vadhiṣyāmīti gāṅgeya tan me brūhi pitāmaha 3 bhīṣma uvāca śṛṇu duryodhana kathāṃ sahaibhir vasudhādhipaiḥ yadarthaṃ yudhi saṃprekṣya nāhaṃ hanyāṃ śikhaṇḍinam 4 mahārājo mama pitā śaṃtanur bharatarṣabhaḥ diṣṭāntaṃ prāpa dharmātmā samaye puruṣarṣabha 5 tato 'haṃ bharataśreṣṭha pratijñāṃ paripālayan citrāṅgadaṃ bhrātaraṃ vai mahārājye 'bhyaṣecayam 6 tasmiṃś ca nidhanaṃ prāpte satyavatyā mate sthitaḥ vicitravīryaṃ rājānam abhyaṣiñcaṃ yathāvidhi 7 mayābhiṣikto rājendra yavīyān api dharmataḥ vicitravīryo dharmātmā mām eva samudaikṣata 8 tasya dārakriyāṃ tāta cikīrṣur aham apy uta anurūpād iva kulād iti cintya mano dadhe 9 tathāśrauṣaṃ mahābāho tisraḥ kanyāḥ svayaṃvare rūpeṇāpratimāḥ sarvāḥ kāśirājasutās tadā ambā caivāmbikā caiva tathaivāmbālikāparā 10 rājānaś ca samāhūtāḥ pṛthivyāṃ bharatarṣabha ambā jyeṣṭhābhavat tāsām ambikā tv atha madhyamā ambālikā ca rājendra rājakanyā yavīyasī 11 so 'ham ekarathenaiva gataḥ kāśipateḥ purīm apaśyaṃ tā mahābāho tisraḥ kanyāḥ svalaṃkṛtāḥ rājñaś caiva samāvṛttān pārthivān pṛthivīpate 12 tato 'haṃ tān nṛpān sarvān āhūya samare sthitān ratham āropayāṃ cakre kanyās tā bharatarṣabha 13 vīryaśulkāś ca tā jñātvā samāropya rathaṃ tadā avocaṃ pārthivān sarvān ahaṃ tatra samāgatān bhīṣmaḥ śāṃtanavaḥ kanyā haratīti punaḥ punaḥ 14 te yatadhvaṃ paraṃ śaktyā sarve mokṣāya pārthivāḥ prasahya hi nayāmy eṣa miṣatāṃ vo narādhipāḥ 15 tatas te pṛthivīpālāḥ samutpetur udāyudhāḥ yogo yoga iti kruddhāḥ sārathīṃś cāpy acodayan 16 te rathair meghasaṃkāśair gajaiś ca gajayodhinaḥ pṛṣṭhyaiś cāśvair mahīpālāḥ samutpetur udāyudhāḥ 17 tatas te māṃ mahīpālāḥ sarva eva viśāṃ pate rathavrātena mahatā sarvataḥ paryavārayan 18 tān ahaṃ śaravarṣeṇa mahatā pratyavārayam sarvān nṛpāṃś cāpy ajayaṃ devarāḍ iva dānavān 19 teṣām ātapatāṃ citrān dhvajān hemapariṣkṛtān ekaikena hi bāṇena bhūmau pātitavān aham 20 hayāṃś caiṣāṃ gajāṃś caiva sārathīṃś cāpy ahaṃ raṇe apātayaṃ śarair dīptaiḥ prahasan puruṣarṣabha 21 te nivṛttāś ca bhagnāś ca dṛṣṭvā tal lāghavaṃ mama athāhaṃ hāstinapuram āyāṃ jitvā mahīkṣitaḥ 22 ato 'haṃ tāś ca kanyā vai bhrātur arthāya bhārata tac ca karma mahābāho satyavatyai nyavedayam |
The Mahabharata in Sanskrit
Book 5
Chapter 171
|
1
भीष्म उवाच ततॊ ऽहं भरतश्रेष्ठ मातरं वीरमातरम अभिगम्यॊपसंगृह्य दाशेयीम इदम अब्रुवम 2 इमाः काशिपतेः कन्या मया निर्जित्य पार्थिवान विचित्रवीर्यस्य कृते वीर्यशुल्का उपार्जिताः 3 ततॊ मूर्धन्य उपाघ्राय पर्यश्रुनयना नृप आह सत्यवती हृष्टा दिष्ट्या पुत्र जितं तवया 4 सत्यवत्यास तव अनुमते विवाहे समुपस्थिते उवाच वाक्यं सव्रीडा जयेष्ठा काशिपतेः सुता 5 भीष्म तवम असि धर्मज्ञः सर्वशास्त्रविशारदः शरुत्वा च धर्म्यं वचनं मह्यं कर्तुम इहार्हसि 6 मया शाल्वपतिः पूर्वं मनसाभिवृतॊ वरः तेन चास्मि वृता पूर्वं रहस्य अविदिते पितुः 7 कथं माम अन्यकामां तवं राजञ शास्त्रम अधीत्य वै वासयेथा गृहे भीष्म कौरवः सन विशेषतः 8 एतद बुद्ध्या विनिश्चित्य मनसा भरतर्षभ यत कषमं ते महाबाहॊ तद इहारब्धुम अर्हसि 9 स मां परतीक्षते वयक्तं शाल्वराजॊ विशां पते कृपां कुरु महाबाहॊ मयि धर्मभृतां वर तवं हि सत्यव्रतॊ वीर पृथिव्याम इति नः शरुतम |
1
bhīṣma uvāca tato 'haṃ bharataśreṣṭha mātaraṃ vīramātaram abhigamyopasaṃgṛhya dāśeyīm idam abruvam 2 imāḥ kāśipateḥ kanyā mayā nirjitya pārthivān vicitravīryasya kṛte vīryaśulkā upārjitāḥ 3 tato mūrdhany upāghrāya paryaśrunayanā nṛpa āha satyavatī hṛṣṭā diṣṭyā putra jitaṃ tvayā 4 satyavatyās tv anumate vivāhe samupasthite uvāca vākyaṃ savrīḍā jyeṣṭhā kāśipateḥ sutā 5 bhīṣma tvam asi dharmajñaḥ sarvaśāstraviśāradaḥ śrutvā ca dharmyaṃ vacanaṃ mahyaṃ kartum ihārhasi 6 mayā śālvapatiḥ pūrvaṃ manasābhivṛto varaḥ tena cāsmi vṛtā pūrvaṃ rahasy avidite pituḥ 7 kathaṃ mām anyakāmāṃ tvaṃ rājañ śāstram adhītya vai vāsayethā gṛhe bhīṣma kauravaḥ san viśeṣataḥ 8 etad buddhyā viniścitya manasā bharatarṣabha yat kṣamaṃ te mahābāho tad ihārabdhum arhasi 9 sa māṃ pratīkṣate vyaktaṃ śālvarājo viśāṃ pate kṛpāṃ kuru mahābāho mayi dharmabhṛtāṃ vara tvaṃ hi satyavrato vīra pṛthivyām iti naḥ śrutam |
The Mahabharata in Sanskrit
Book 5
Chapter 172
|
1
भीष्म उवाच ततॊ ऽहं समनुज्ञाप्य कालीं सत्यवतीं तदा मन्त्रिणश च दविजांश चैव तथैव च पुरॊहितान समनुज्ञासिषं कन्यां जयेष्ठाम अम्बां नराधिप 2 अनुज्ञाता ययौ सा तु कन्या शाल्वपतेः पुरम वृद्धैर दविजातिभिर गुप्ता धात्र्या चानुगता तदा अतीत्य च तम अध्वानम आससाद नराधिपम 3 सा तम आसाद्य राजानं शाल्वं वचनम अब्रवीत आगताहं महाबाहॊ तवाम उद्दिश्य महाद्युते 4 ताम अब्रवीच छाल्वपतिः समयन्न इव विशां पते तवयान्यपूर्वया नाहं भार्यार्थी वरवर्णिनि 5 गच्छ भद्रे पुनस तत्र सकाशं भारतस्य वै नाहम इच्छामि भीष्मेण गृहीतां तवां परसह्य वै 6 तवं हि निर्जित्य भीष्मेण नीता परीतिमती तदा परामृश्य महायुद्धे निर्जित्य पृथिवीपतीन नाहं तवय्य अन्यपूर्वायां भार्यार्थी वरवर्णिनि 7 कथम अस्मद्विधॊ राजा परपूर्वां परवेशयेत नारीं विदितविज्ञानः परेषां धर्मम आदिशन यथेष्टं गम्यतां भद्रे मा ते कालॊ ऽतयगाद अयम 8 अम्बा तम अब्रवीद राजन्न अनङ्गशरपीडिता मैवं वद महीपाल नैतद एवं कथं चन 9 नास्मि परीतिमती नीता भीष्मेणामित्रकर्शन बलान नीतास्मि रुदती विद्राव्य पृथिवीपतीन 10 भजस्व मां शाल्वपते भक्तां बालाम अनागसम भक्तानां हि परित्यागॊ न धर्मेषु परशस्यते 11 साहम आमन्त्र्य गाङ्गेयं समरेष्व अनिवर्तिनम अनुज्ञाता च तेनैव तवैव गृहम आगता 12 न स भीष्मॊ महाबाहुर माम इच्छति विशां पते भरातृहेतॊः समारम्भॊ भीष्मस्येति शरुतं मया 13 भगिन्यौ मम ये नीते अम्बिकाम्बालिके नृप परादाद विचित्रवीर्याय गाङ्गेयॊ हि यवीयसे 14 यथा शाल्वपते नान्यं नरं धयामि कथं चन तवाम ऋते पुरुषव्याघ्र तथा मूर्धानम आलभे 15 न चान्यपूर्वा राजेन्द्र तवाम अहं समुपस्थिता सत्यं बरवीमि शाल्वैतत सत्येनात्मानम आलभे 16 भजस्व मां विशालाक्ष सवयं कन्याम उपस्थिताम अनन्यपूर्वां राजेन्द्र तवत्प्रसादाभिकाङ्क्षिणीम 17 ताम एवं भाषमाणां तु शाल्वः काशिपतेः सुताम अत्यजद भरतश्रेष्ठ तवचं जीर्णाम इवॊरगः 18 एवं बहुविधैर वाक्यैर याच्यमानस तयानघ नाश्रद्दधच छाल्वपतिः कन्याया भरतर्षभ 19 ततः सा मन्युनाविष्टा जयेष्ठा काशिपतेः सुता अब्रवीत साश्रुनयना बाष्पविह्वलया गिरा 20 तवया तयक्ता गमिष्यामि यत्र यत्र विशां पते तत्र मे सन्तु गतयः सन्तः सत्यं यथाब्रुवम 21 एवं संभाषमाणां तु नृशंसः शाल्वराट तदा पर्यत्यजत कौरव्य करुणं परिदेवतीम 22 गच्छ गच्छेति तां शाल्वः पुनः पुनर अभाषत बिभेमि भीष्मात सुश्रॊणि तं च भीष्मपरिग्रहः 23 एवम उक्ता तु सा तेन शाल्वेनादीर्घदर्शिना निश्चक्राम पुराद दीना रुदती कुररी यथा |
1
bhīṣma uvāca tato 'haṃ samanujñāpya kālīṃ satyavatīṃ tadā mantriṇaś ca dvijāṃś caiva tathaiva ca purohitān samanujñāsiṣaṃ kanyāṃ jyeṣṭhām ambāṃ narādhipa 2 anujñātā yayau sā tu kanyā śālvapateḥ puram vṛddhair dvijātibhir guptā dhātryā cānugatā tadā atītya ca tam adhvānam āsasāda narādhipam 3 sā tam āsādya rājānaṃ śālvaṃ vacanam abravīt āgatāhaṃ mahābāho tvām uddiśya mahādyute 4 tām abravīc chālvapatiḥ smayann iva viśāṃ pate tvayānyapūrvayā nāhaṃ bhāryārthī varavarṇini 5 gaccha bhadre punas tatra sakāśaṃ bhāratasya vai nāham icchāmi bhīṣmeṇa gṛhītāṃ tvāṃ prasahya vai 6 tvaṃ hi nirjitya bhīṣmeṇa nītā prītimatī tadā parāmṛśya mahāyuddhe nirjitya pṛthivīpatīn nāhaṃ tvayy anyapūrvāyāṃ bhāryārthī varavarṇini 7 katham asmadvidho rājā parapūrvāṃ praveśayet nārīṃ viditavijñānaḥ pareṣāṃ dharmam ādiśan yatheṣṭaṃ gamyatāṃ bhadre mā te kālo 'tyagād ayam 8 ambā tam abravīd rājann anaṅgaśarapīḍitā maivaṃ vada mahīpāla naitad evaṃ kathaṃ cana 9 nāsmi prītimatī nītā bhīṣmeṇāmitrakarśana balān nītāsmi rudatī vidrāvya pṛthivīpatīn 10 bhajasva māṃ śālvapate bhaktāṃ bālām anāgasam bhaktānāṃ hi parityāgo na dharmeṣu praśasyate 11 sāham āmantrya gāṅgeyaṃ samareṣv anivartinam anujñātā ca tenaiva tavaiva gṛham āgatā 12 na sa bhīṣmo mahābāhur mām icchati viśāṃ pate bhrātṛhetoḥ samārambho bhīṣmasyeti śrutaṃ mayā 13 bhaginyau mama ye nīte ambikāmbālike nṛpa prādād vicitravīryāya gāṅgeyo hi yavīyase 14 yathā śālvapate nānyaṃ naraṃ dhyāmi kathaṃ cana tvām ṛte puruṣavyāghra tathā mūrdhānam ālabhe 15 na cānyapūrvā rājendra tvām ahaṃ samupasthitā satyaṃ bravīmi śālvaitat satyenātmānam ālabhe 16 bhajasva māṃ viśālākṣa svayaṃ kanyām upasthitām ananyapūrvāṃ rājendra tvatprasādābhikāṅkṣiṇīm 17 tām evaṃ bhāṣamāṇāṃ tu śālvaḥ kāśipateḥ sutām atyajad bharataśreṣṭha tvacaṃ jīrṇām ivoragaḥ 18 evaṃ bahuvidhair vākyair yācyamānas tayānagha nāśraddadhac chālvapatiḥ kanyāyā bharatarṣabha 19 tataḥ sā manyunāviṣṭā jyeṣṭhā kāśipateḥ sutā abravīt sāśrunayanā bāṣpavihvalayā girā 20 tvayā tyaktā gamiṣyāmi yatra yatra viśāṃ pate tatra me santu gatayaḥ santaḥ satyaṃ yathābruvam 21 evaṃ saṃbhāṣamāṇāṃ tu nṛśaṃsaḥ śālvarāṭ tadā paryatyajata kauravya karuṇaṃ paridevatīm 22 gaccha gaccheti tāṃ śālvaḥ punaḥ punar abhāṣata bibhemi bhīṣmāt suśroṇi taṃ ca bhīṣmaparigrahaḥ 23 evam uktā tu sā tena śālvenādīrghadarśinā niścakrāma purād dīnā rudatī kurarī yathā |
The Mahabharata in Sanskrit
Book 5
Chapter 173
|
1
भीष्म उवाच सा निष्क्रमन्ती नगराच चिन्तयाम आस भारत पृथिव्यां नास्ति युवतिर विषमस्थतरा मया बान्धवैर विप्रहीनास्मि शाल्वेन च निराकृता 2 न च शक्यं पुनर गन्तुं मया वारणसाह्वयम अनुज्ञातास्मि भीष्मेण शाल्वम उद्दिश्य कारणम 3 किं नु गर्हाम्य अथात्मानम अथ भीष्मं दुरासदम आहॊस्वित पितरं मूढं यॊ मे ऽकार्षीत सवयंवरम 4 ममायं सवकृतॊ दॊषॊ याहं भीष्मरथात तदा परवृत्ते वैशसे युद्धे शाल्वार्थं नापतं पुरा तस्येयं फलनिर्वृत्तिर यद आपन्नास्मि मूढवत 5 धिग भीष्मं धिक च मे मन्दं पितरं मूढचेतसम येनाहं वीर्यशुल्केन पण्यस्त्रीवत परवेरिता 6 धिङ मां धिक शाल्वराजानं धिग धातारम अथापि च येषां दुर्नीतभावेन पराप्तास्म्य आपदम उत्तमाम 7 सर्वथा भागधेयानि सवानि पराप्नॊति मानवः अनयस्यास्य तु मुखं भीष्मः शांतनवॊ मम 8 सा भीष्मे परतिकर्तव्यम अहं पश्यामि सांप्रतम तपसा वा युधा वापि दुःखहेतुः स मे मतः कॊ नु भीष्मं युधा जेतुम उत्सहेत महीपतिः 9 एवं सा परिनिश्चित्य जगाम नगराद बहिः आश्रमं पुण्यशीलानां तापसानां महात्मनाम ततस ताम अवसद रात्रिं तापसैः परिवारिता 10 आचख्यौ च यथावृत्तं सर्वम आत्मनि भारत विस्तरेण महाबाहॊ निखिलेन शुचिस्मिता हरणं च विसर्गं च शाल्वेन च विसर्जनम 11 ततस तत्र महान आसीद बराह्मणः संशितव्रतः शैखावत्यस तपॊवृद्धः शास्त्रे चारण्यके गुरुः 12 आर्तां ताम आह स मुनिः शैखावत्यॊ महातपाः निःश्वसन्तीं सतीं बालां दुःखशॊकपरायणाम 13 एवंगते किं नु भद्रे शक्यं कर्तुं तपस्विभिः आश्रमस्थैर महाभागैस तपॊनित्यैर महात्मभिः 14 सा तव एनम अब्रवीद राजन करियतां मदनुग्रहः परव्राजितुम इहेच्छामि तपस तप्स्यामि दुश्चरम 15 मयैवैतानि कर्माणि पूर्वदेहेषु मूढया कृतानि नूनं पापानि तेषाम एतत फलं धरुवम 16 नॊत्सहेयं पुनर गन्तुं सवजनं परति तापसाः परत्याख्याता निरानन्दा शाल्वेन च निराकृता 17 उपदिष्टम इहेच्छामि तापस्यं वीतकल्मषाः युष्माभिर देवसंकाशाः कृपा भवतु वॊ मयि 18 स ताम आश्वासयत कन्यां दृष्टान्तागमहेतुभिः सान्त्वयाम आस कार्यं च परतिजज्ञे दविजैः सह |
1
bhīṣma uvāca sā niṣkramantī nagarāc cintayām āsa bhārata pṛthivyāṃ nāsti yuvatir viṣamasthatarā mayā bāndhavair viprahīnāsmi śālvena ca nirākṛtā 2 na ca śakyaṃ punar gantuṃ mayā vāraṇasāhvayam anujñātāsmi bhīṣmeṇa śālvam uddiśya kāraṇam 3 kiṃ nu garhāmy athātmānam atha bhīṣmaṃ durāsadam āhosvit pitaraṃ mūḍhaṃ yo me 'kārṣīt svayaṃvaram 4 mamāyaṃ svakṛto doṣo yāhaṃ bhīṣmarathāt tadā pravṛtte vaiśase yuddhe śālvārthaṃ nāpataṃ purā tasyeyaṃ phalanirvṛttir yad āpannāsmi mūḍhavat 5 dhig bhīṣmaṃ dhik ca me mandaṃ pitaraṃ mūḍhacetasam yenāhaṃ vīryaśulkena paṇyastrīvat praveritā 6 dhiṅ māṃ dhik śālvarājānaṃ dhig dhātāram athāpi ca yeṣāṃ durnītabhāvena prāptāsmy āpadam uttamām 7 sarvathā bhāgadheyāni svāni prāpnoti mānavaḥ anayasyāsya tu mukhaṃ bhīṣmaḥ śāṃtanavo mama 8 sā bhīṣme pratikartavyam ahaṃ paśyāmi sāṃpratam tapasā vā yudhā vāpi duḥkhahetuḥ sa me mataḥ ko nu bhīṣmaṃ yudhā jetum utsaheta mahīpatiḥ 9 evaṃ sā pariniścitya jagāma nagarād bahiḥ āśramaṃ puṇyaśīlānāṃ tāpasānāṃ mahātmanām tatas tām avasad rātriṃ tāpasaiḥ parivāritā 10 ācakhyau ca yathāvṛttaṃ sarvam ātmani bhārata vistareṇa mahābāho nikhilena śucismitā haraṇaṃ ca visargaṃ ca śālvena ca visarjanam 11 tatas tatra mahān āsīd brāhmaṇaḥ saṃśitavrataḥ śaikhāvatyas tapovṛddhaḥ śāstre cāraṇyake guruḥ 12 ārtāṃ tām āha sa muniḥ śaikhāvatyo mahātapāḥ niḥśvasantīṃ satīṃ bālāṃ duḥkhaśokaparāyaṇām 13 evaṃgate kiṃ nu bhadre śakyaṃ kartuṃ tapasvibhiḥ āśramasthair mahābhāgais taponityair mahātmabhiḥ 14 sā tv enam abravīd rājan kriyatāṃ madanugrahaḥ pravrājitum ihecchāmi tapas tapsyāmi duścaram 15 mayaivaitāni karmāṇi pūrvadeheṣu mūḍhayā kṛtāni nūnaṃ pāpāni teṣām etat phalaṃ dhruvam 16 notsaheyaṃ punar gantuṃ svajanaṃ prati tāpasāḥ pratyākhyātā nirānandā śālvena ca nirākṛtā 17 upadiṣṭam ihecchāmi tāpasyaṃ vītakalmaṣāḥ yuṣmābhir devasaṃkāśāḥ kṛpā bhavatu vo mayi 18 sa tām āśvāsayat kanyāṃ dṛṣṭāntāgamahetubhiḥ sāntvayām āsa kāryaṃ ca pratijajñe dvijaiḥ saha |
The Mahabharata in Sanskrit
Book 5
Chapter 174
|
1
भीष्म उवाच ततस ते तापसाः सर्वे कार्यवन्तॊ ऽभवंस तदा तां कन्यां चिन्तयन्तॊ वै किं कार्यम इति धर्मिणः 2 के चिद आहुः पितुर वेश्म नीयताम इति तापसाः के चिद अस्मदुपालम्भे मतिं चक्रुर दविजॊत्तमाः 3 के चिच छाल्वपतिं गत्वा नियॊज्यम इति मेनिरे नेति के चिद वयवस्यन्ति परत्याख्याता हि तेन सा 4 एवंगते किं नु शक्यं भद्रे कर्तुं मनीषिभिः पुनर ऊचुश च ते सर्वे तापसाः संशितव्रताः 5 अलं परव्रजितेनेह भद्रे शृणु हितं वचः इतॊ गच्छस्व भद्रं ते पितुर एव निवेशनम 6 परतिपत्स्यति राजा स पिता ते यद अनन्तरम तत्र वत्स्यसि कल्याणि सुखं सर्वगुणान्विता न च ते ऽनया गतिर नयाय्या भवेद भद्रे यथा पिता 7 पतिर वापि गतिर नार्याः पिता वा वरवर्णिनि गतिः पतिः समस्थाया विषमे तु पिता गतिः 8 परव्रज्या हि सुदुःखेयं सुकुमार्या विशेषतः राजपुत्र्याः परकृत्या च कुमार्यास तव भामिनि 9 भद्रे दॊषा हि विद्यन्ते बहवॊ वरवर्णिनि आश्रमे वै वसन्त्यास ते न भवेयुः पितुर गृहे 10 ततस तु ते ऽबरुवन वाक्यं बराह्मणास तां तपस्विनीम तवाम इहैकाकिनीं दृष्ट्वा निजने गहने वने परार्थयिष्यन्ति राजेन्द्रास तस्मान मैवं मनः कृथाः 11 अम्बॊवाच न शक्यं काशिनगरीं पुनर गन्तुं पितुर गृहान अवज्ञाता भविष्यामि बान्धवानां न संशयः 12 उषिता हय अन्यथा बाल्ये पितुर वेश्मनि तापसाः नाहं गमिष्ये भद्रं वस तत्र यत्र पिता मम तपस तप्तुम अभीप्सामि तापसैः परिपालिता 13 यथा परे ऽपि मे लॊके न सयाद एवं महात्ययः दौर्भाग्यं बराह्मणश्रेष्ठास तस्मात तप्स्याम्य अहं तपः 14 भीष्म उवाच इत्य एवं तेषु विप्रेषु चिन्तयत्सु तथा तथा राजर्षिस तद वनं पराप्तस तपस्वी हॊत्रवाहनः 15 ततस ते तापसाः सर्वे पूजयन्ति सम तं नृपम पूजाभिः सवागताद्याभिर आसनेनॊदकेन च 16 तस्यॊपविष्टस्य ततॊ विश्रान्तस्यॊपशृण्वतः पुनर एव कथां चक्रुः कन्यां परति वनौकसः 17 अम्बायास तां कथां शरुत्वा काशिराज्ञश च भारत स वेपमान उत्थाय मातुर अस्याः पिता तदा तां कन्याम अङ्गम आरॊप्य पर्याश्वासयत परभॊ 18 स ताम अपृच्छत कार्त्स्न्येन वयसनॊत्पत्तिम आदितः सा च तस्मै यथावृत्तं विस्तरेण नयवेदयत 19 ततः स राजर्षिर अभूद दुःखशॊकसमन्वितः कार्यं च परतिपेदे तन मनसा सुमहातपाः 20 अब्रवीद वेपमानश च कन्याम आर्तां सुदुःखितः मा गाः पितृगृहं भद्रे मातुस ते जनकॊ हय अहम 21 दुःखं छेत्स्यामि ते ऽहं वै मयि वर्तस्व पुत्रिके पर्याप्तं ते मनः पुत्रि यद एवं परिशुष्यसि 22 गच्छ मद्वचनाद रामं जामदग्न्यं तपस्विनम रामस तव महद दुःखं शॊकं चापनयिष्यति हनिष्यति रणे भीष्मं न करिष्यति चेद वचः 23 तं गच्छ भार्गवश्रेष्ठं कालाग्निसमतेजसम परतिष्ठापयिता स तवां समे पथि महातपाः 24 ततस तु सस्वरं बाष्पम उत्सृजन्ती पुनः पुनः अब्रवीत पितरं मातुः सा तदा हॊत्रवाहनम 25 अभिवादयित्वा शिरसा गमिष्ये तव शासनात अपि नामाद्य पश्येयम आर्यं तं लॊकविश्रुतम 26 कथं च तीव्रं दुःखं मे हनिष्यति स भार्गवः एतद इच्छाम्य अहं शरॊतुम अथ यास्यामि तत्र वै |
1
bhīṣma uvāca tatas te tāpasāḥ sarve kāryavanto 'bhavaṃs tadā tāṃ kanyāṃ cintayanto vai kiṃ kāryam iti dharmiṇaḥ 2 ke cid āhuḥ pitur veśma nīyatām iti tāpasāḥ ke cid asmadupālambhe matiṃ cakrur dvijottamāḥ 3 ke cic chālvapatiṃ gatvā niyojyam iti menire neti ke cid vyavasyanti pratyākhyātā hi tena sā 4 evaṃgate kiṃ nu śakyaṃ bhadre kartuṃ manīṣibhiḥ punar ūcuś ca te sarve tāpasāḥ saṃśitavratāḥ 5 alaṃ pravrajiteneha bhadre śṛṇu hitaṃ vacaḥ ito gacchasva bhadraṃ te pitur eva niveśanam 6 pratipatsyati rājā sa pitā te yad anantaram tatra vatsyasi kalyāṇi sukhaṃ sarvaguṇānvitā na ca te 'nyā gatir nyāyyā bhaved bhadre yathā pitā 7 patir vāpi gatir nāryāḥ pitā vā varavarṇini gatiḥ patiḥ samasthāyā viṣame tu pitā gatiḥ 8 pravrajyā hi suduḥkheyaṃ sukumāryā viśeṣataḥ rājaputryāḥ prakṛtyā ca kumāryās tava bhāmini 9 bhadre doṣā hi vidyante bahavo varavarṇini āśrame vai vasantyās te na bhaveyuḥ pitur gṛhe 10 tatas tu te 'bruvan vākyaṃ brāhmaṇās tāṃ tapasvinīm tvām ihaikākinīṃ dṛṣṭvā nijane gahane vane prārthayiṣyanti rājendrās tasmān maivaṃ manaḥ kṛthāḥ 11 ambovāca na śakyaṃ kāśinagarīṃ punar gantuṃ pitur gṛhān avajñātā bhaviṣyāmi bāndhavānāṃ na saṃśayaḥ 12 uṣitā hy anyathā bālye pitur veśmani tāpasāḥ nāhaṃ gamiṣye bhadraṃ vas tatra yatra pitā mama tapas taptum abhīpsāmi tāpasaiḥ paripālitā 13 yathā pare 'pi me loke na syād evaṃ mahātyayaḥ daurbhāgyaṃ brāhmaṇaśreṣṭhās tasmāt tapsyāmy ahaṃ tapaḥ 14 bhīṣma uvāca ity evaṃ teṣu vipreṣu cintayatsu tathā tathā rājarṣis tad vanaṃ prāptas tapasvī hotravāhanaḥ 15 tatas te tāpasāḥ sarve pūjayanti sma taṃ nṛpam pūjābhiḥ svāgatādyābhir āsanenodakena ca 16 tasyopaviṣṭasya tato viśrāntasyopaśṛṇvataḥ punar eva kathāṃ cakruḥ kanyāṃ prati vanaukasaḥ 17 ambāyās tāṃ kathāṃ śrutvā kāśirājñaś ca bhārata sa vepamāna utthāya mātur asyāḥ pitā tadā tāṃ kanyām aṅgam āropya paryāśvāsayata prabho 18 sa tām apṛcchat kārtsnyena vyasanotpattim āditaḥ sā ca tasmai yathāvṛttaṃ vistareṇa nyavedayat 19 tataḥ sa rājarṣir abhūd duḥkhaśokasamanvitaḥ kāryaṃ ca pratipede tan manasā sumahātapāḥ 20 abravīd vepamānaś ca kanyām ārtāṃ suduḥkhitaḥ mā gāḥ pitṛgṛhaṃ bhadre mātus te janako hy aham 21 duḥkhaṃ chetsyāmi te 'haṃ vai mayi vartasva putrike paryāptaṃ te manaḥ putri yad evaṃ pariśuṣyasi 22 gaccha madvacanād rāmaṃ jāmadagnyaṃ tapasvinam rāmas tava mahad duḥkhaṃ śokaṃ cāpanayiṣyati haniṣyati raṇe bhīṣmaṃ na kariṣyati ced vacaḥ 23 taṃ gaccha bhārgavaśreṣṭhaṃ kālāgnisamatejasam pratiṣṭhāpayitā sa tvāṃ same pathi mahātapāḥ 24 tatas tu sasvaraṃ bāṣpam utsṛjantī punaḥ punaḥ abravīt pitaraṃ mātuḥ sā tadā hotravāhanam 25 abhivādayitvā śirasā gamiṣye tava śāsanāt api nāmādya paśyeyam āryaṃ taṃ lokaviśrutam 26 kathaṃ ca tīvraṃ duḥkhaṃ me haniṣyati sa bhārgavaḥ etad icchāmy ahaṃ śrotum atha yāsyāmi tatra vai |
The Mahabharata in Sanskrit
Book 5
Chapter 175
|
1
हॊत्रवाहन उवाच रामं दरक्ष्यसि वत्से तवं जामदग्न्यं महावने उग्रे तपसि वर्तन्तं सत्यसंधं महाबलम 2 महेन्द्रे वै गिरिश्रेष्ठे रामं नित्यम उपासते ऋषयॊ वेदविदुषॊ गन्धर्वाप्सरसस तथा 3 तत्र गच्छस्व भद्रं ते बरूयाश चैनं वचॊ मम अभिवाद्य पूर्वं शिरसा तपॊवृद्धं दृढव्रतम 4 बरूयाश चैनं पुनर भद्रे यत ते कार्यं मनीषितम मयि संकीर्तिते रामः सर्वं तत ते करिष्यति 5 मम रामः सखा वत्से परीतियुक्तः सुहृच च मे जमदग्निसुतॊ वीरः सर्वशस्त्रभृतां वरः 6 एवं बरुवति कन्यां तु पार्थिवे हॊत्रवाहने अकृतव्रणः परादुरासीद रामस्यानुचरः परियः 7 ततस ते मुनयः सर्वे समुत्तस्थुः सहस्रशः स च राजा वयॊवृद्धः सृञ्जयॊ हॊत्रवाहनः 8 ततः पृष्ट्वा यथान्यायम अन्यॊन्यं ते वनौकसः सहिता भरतश्रेष्ठ निषेदुः परिवार्य तम 9 ततस ते कथयाम आसुः कथास तास ता मनॊरमाः कान्ता दिव्याश च राजेन्द्र परीतिहर्षमुदा युताः 10 ततः कथान्ते राजर्षिर महात्मा हॊत्रवाहनः रामं शरेष्ठं महर्षीणाम अपृच्छद अकृतव्रणम 11 कव संप्रति महाबाहॊ जामदग्न्यः परतापवान अकृतव्रण शक्यॊ वै दरष्टुं वेदविदां वरः 12 अकृतव्रण उवाच भवन्तम एव सततं रामः कीर्तयति परभॊ सृञ्जयॊ मे परियसखॊ राजर्षिर इति पार्थिव 13 इह रामः परभाते शवॊ भवितेति मतिर मम दरष्टास्य एनम इहायान्तं तव दर्शनकाङ्क्षया 14 इयं च कन्या राजर्षे किमर्थं वनम आगता कस्य चेयं तव च का भवतीच्छामि वेदितुम 15 हॊत्रवाहन उवाच दौहित्रीयं मम विभॊ काशिराजसुता शुभा जयेष्ठा सवयंवरे तस्थौ भगिनीभ्यां सहानघ 16 इयम अम्बेति विख्याता जयेष्ठा काशिपतेः सुता अम्बिकाम्बालिके तव अन्ये यवीयस्यौ तपॊधन 17 समेतं पार्थिवं कषत्रं काशिपुर्यां ततॊ ऽभवत कन्यानिमित्तं बरह्मर्षे तत्रासीद उत्सवॊ महान 18 ततः किल महावीर्यॊ भीष्मः शांतनवॊ नृपान अवाक्षिप्य महातेजास तिस्रः कन्या जहार ताः 19 निर्जित्य पृथिवीपालान अथ भीष्मॊ गजाह्वयम आजगाम विशुद्धात्मा कन्याभिः सह भारत 20 सत्यवत्यै निवेद्याथ विवाहार्थम अनन्तरम भरातुर विचित्रवीर्यस्य समाज्ञापयत परभुः 21 ततॊ वैवाहिकं दृष्ट्वा कन्येयं समुपार्जितम अब्रवीत तत्र गाङ्गेयं मन्त्रिमध्ये दविजर्षभ 22 मया शाल्वपतिर वीर मनसाभिवृतः पतिः न माम अर्हसि धर्मज्ञ परचित्तां परदापितुम 23 तच छरुत्वा वचनं भीष्मः संमन्त्र्य सह मन्त्रिभिः निश्चित्य विससर्जेमां सत्यवत्या मते सथितः 24 अनुज्ञाता तु भीष्मेण शाल्वं सौभपतिं ततः कन्येयं मुदिता विप्र काले वचनम अब्रवीत 25 विसर्जितास्मि भीष्मेण धर्मं मां परतिपादय मनसाभिवृतः पूर्वं मया तवं पार्थिवर्षभ 26 परत्याचख्यौ च शाल्वॊ ऽपि चारित्रस्याभिशङ्कितः सेयं तपॊवनं पराप्ता तापस्ये ऽभिरता भृशम 27 मया च परत्यभिज्ञाता वंशस्य परिकीर्तनात अस्य दुःखस्य चॊत्पत्तिं भीष्मम एवेह मन्यते 28 अम्बॊवाच भगवन्न एवम एवैतद यथाह पृथिवीपतिः शरीरकर्ता मातुर मे सृञ्जयॊ हॊत्रवाहनः 29 न हय उत्सहे सवनगरं परतियातुं तपॊधन अवमानभयाच चैव वरीडया च महामुने 30 यत तु मां भगवान रामॊ वक्ष्यति दविजसत्तम तन मे कार्यतमं कार्यम इति मे भगवन मतिः |
1
hotravāhana uvāca rāmaṃ drakṣyasi vatse tvaṃ jāmadagnyaṃ mahāvane ugre tapasi vartantaṃ satyasaṃdhaṃ mahābalam 2 mahendre vai giriśreṣṭhe rāmaṃ nityam upāsate ṛṣayo vedaviduṣo gandharvāpsarasas tathā 3 tatra gacchasva bhadraṃ te brūyāś cainaṃ vaco mama abhivādya pūrvaṃ śirasā tapovṛddhaṃ dṛḍhavratam 4 brūyāś cainaṃ punar bhadre yat te kāryaṃ manīṣitam mayi saṃkīrtite rāmaḥ sarvaṃ tat te kariṣyati 5 mama rāmaḥ sakhā vatse prītiyuktaḥ suhṛc ca me jamadagnisuto vīraḥ sarvaśastrabhṛtāṃ varaḥ 6 evaṃ bruvati kanyāṃ tu pārthive hotravāhane akṛtavraṇaḥ prādurāsīd rāmasyānucaraḥ priyaḥ 7 tatas te munayaḥ sarve samuttasthuḥ sahasraśaḥ sa ca rājā vayovṛddhaḥ sṛñjayo hotravāhanaḥ 8 tataḥ pṛṣṭvā yathānyāyam anyonyaṃ te vanaukasaḥ sahitā bharataśreṣṭha niṣeduḥ parivārya tam 9 tatas te kathayām āsuḥ kathās tās tā manoramāḥ kāntā divyāś ca rājendra prītiharṣamudā yutāḥ 10 tataḥ kathānte rājarṣir mahātmā hotravāhanaḥ rāmaṃ śreṣṭhaṃ maharṣīṇām apṛcchad akṛtavraṇam 11 kva saṃprati mahābāho jāmadagnyaḥ pratāpavān akṛtavraṇa śakyo vai draṣṭuṃ vedavidāṃ varaḥ 12 akṛtavraṇa uvāca bhavantam eva satataṃ rāmaḥ kīrtayati prabho sṛñjayo me priyasakho rājarṣir iti pārthiva 13 iha rāmaḥ prabhāte śvo bhaviteti matir mama draṣṭāsy enam ihāyāntaṃ tava darśanakāṅkṣayā 14 iyaṃ ca kanyā rājarṣe kimarthaṃ vanam āgatā kasya ceyaṃ tava ca kā bhavatīcchāmi veditum 15 hotravāhana uvāca dauhitrīyaṃ mama vibho kāśirājasutā śubhā jyeṣṭhā svayaṃvare tasthau bhaginībhyāṃ sahānagha 16 iyam ambeti vikhyātā jyeṣṭhā kāśipateḥ sutā ambikāmbālike tv anye yavīyasyau tapodhana 17 sametaṃ pārthivaṃ kṣatraṃ kāśipuryāṃ tato 'bhavat kanyānimittaṃ brahmarṣe tatrāsīd utsavo mahān 18 tataḥ kila mahāvīryo bhīṣmaḥ śāṃtanavo nṛpān avākṣipya mahātejās tisraḥ kanyā jahāra tāḥ 19 nirjitya pṛthivīpālān atha bhīṣmo gajāhvayam ājagāma viśuddhātmā kanyābhiḥ saha bhārata 20 satyavatyai nivedyātha vivāhārtham anantaram bhrātur vicitravīryasya samājñāpayata prabhuḥ 21 tato vaivāhikaṃ dṛṣṭvā kanyeyaṃ samupārjitam abravīt tatra gāṅgeyaṃ mantrimadhye dvijarṣabha 22 mayā śālvapatir vīra manasābhivṛtaḥ patiḥ na mām arhasi dharmajña paracittāṃ pradāpitum 23 tac chrutvā vacanaṃ bhīṣmaḥ saṃmantrya saha mantribhiḥ niścitya visasarjemāṃ satyavatyā mate sthitaḥ 24 anujñātā tu bhīṣmeṇa śālvaṃ saubhapatiṃ tataḥ kanyeyaṃ muditā vipra kāle vacanam abravīt 25 visarjitāsmi bhīṣmeṇa dharmaṃ māṃ pratipādaya manasābhivṛtaḥ pūrvaṃ mayā tvaṃ pārthivarṣabha 26 pratyācakhyau ca śālvo 'pi cāritrasyābhiśaṅkitaḥ seyaṃ tapovanaṃ prāptā tāpasye 'bhiratā bhṛśam 27 mayā ca pratyabhijñātā vaṃśasya parikīrtanāt asya duḥkhasya cotpattiṃ bhīṣmam eveha manyate 28 ambovāca bhagavann evam evaitad yathāha pṛthivīpatiḥ śarīrakartā mātur me sṛñjayo hotravāhanaḥ 29 na hy utsahe svanagaraṃ pratiyātuṃ tapodhana avamānabhayāc caiva vrīḍayā ca mahāmune 30 yat tu māṃ bhagavān rāmo vakṣyati dvijasattama tan me kāryatamaṃ kāryam iti me bhagavan matiḥ |
The Mahabharata in Sanskrit
Book 5
Chapter 176
|
1
अकृतव्रण उवाच दुःखद्वयम इदं भद्रे कतरस्य चिकीर्षसि परतिकर्तव्यम अबले तत तवं वत्से बरवीहि मे 2 यदि सौभपतिर भद्रे नियॊक्तव्यॊ मते तव नियॊक्ष्यति महात्मा तं रामस तवद्धितकाम्यया 3 अथापगेयं भीष्मं तं रामेणेच्छसि धीमता रणे विनिर्जितं दरष्टुं कुर्यात तद अपि भार्गवः 4 सृञ्जयस्य वचः शरुत्वा तव चैव शुचिस्मिते यद अत्रानन्तरं कार्यं तद अद्यैव विचिन्त्यताम 5 अम्बॊवाच अपनीतास्मि भीष्मेण भगवन्न अविजानता न हि जानाति मे भीष्मॊ बरह्मञ शाल्वगतं मनः 6 एतद विचार्य मनसा भवान एव विनिश्चयम विचिनॊतु यथान्यायं विधानं करियतां तथा 7 भीष्मे वा कुरुशार्दूले शाल्वराजे ऽथ वा पुनः उभयॊर एव वा बरह्मन यद युक्तं तत समाचर 8 निवेदितं मया हय एतद दुःखमूलं यथातथम विधानं तत्र भगवन कर्तुम अर्हसि युक्तितः 9 अकृतव्रण उवाच उपपन्नम इदं भद्रे यद एवं वरवर्णिनि धर्मं परति वचॊ बरूयाः शृणु चेदं वचॊ मम 10 यदि तवाम आपगेयॊ वै न नयेद गजसाह्वयम शाल्वस तवां शिरसा भीरु गृह्णीयाद रामचॊदितः 11 तेन तवं निर्जिता भद्रे यस्मान नीतासि भामिनि संशयः शाल्वराजस्य तेन तवयि सुमध्यमे 12 भीष्मः पुरुषमानी च जितकाशी तथैव च तस्मात परतिक्रिया युक्ता भीष्मे कारयितुं तवया 13 अम्बॊवाच ममाप्य एष महान बरह्मन हृदि कामॊ ऽभिवर्तते घातयेयं यदि रणे भीष्मम इत्य एव नित्यदा 14 भीष्मं वा शाल्वराजं वा यं वा दॊषेण गच्छसि परशाधि तं महाबाहॊ यत्कृते ऽहं सुदुःखिता 15 भीष्म उवाच एवं कथयताम एव तेषां स दिवसॊ गतः रात्रिश च भरतश्रेष्ठ सुखशीतॊष्णमारुता 16 ततॊ रामः परादुरासीत परज्वलन्न इव तेजसा शिष्यैः परिवृतॊ राजञ जटाचीरधरॊ मुनिः 17 धनुष्पाणिर अदीनात्मा खड्गं बिभ्रत परश्वधी विरजा राजशार्दूल सॊ ऽभययात सृञ्जयं नृपम 18 ततस तं तापसा दृष्ट्वा स च राजा महातपाः तस्थुः पराञ्जलयः सर्वे सा च कन्या तपस्विनी 19 पूजयाम आसुर अव्यग्रा मधुपर्केण भार्गवम अर्चितश च यथायॊगं निषसाद सहैव तैः 20 ततः पूर्वव्यतीतानि कथयेते सम ताव उभौ सृञ्जयश च स राजर्षिर जामदग्न्यश च भारत 21 ततः कथान्ते राजर्षिर भृगुश्रेष्ठं महाबलम उवाच मधुरं काले रामं वचनम अर्थवत 22 रामेयं मम दौहित्री काशिराजसुता परभॊ अस्याः शृणु यथातत्त्वं कार्यं कार्यविशारद 23 परमं कथ्यतां चेति तां रामः परत्यभाषत ततः साभ्यगमद रामं जवलन्तम इव पावकम 24 सा चाभिवाद्य चरणौ रामस्य शिरसा शुभा सपृष्ट्वा पद्मदलाभाभ्यां पाणिभ्याम अग्रतः सथिता 25 रुरॊद सा शॊकवती बाष्पव्याकुललॊचना परपेदे शरणं चैव शरण्यं भृगुनन्दनम 26 राम उवाच यथासि सृञ्जयस्यास्य तथा मम नृपात्मजे बरूहि यत ते मनॊदुःखं करिष्ये वचनं तव 27 अम्बॊवाच भगवञ शरणं तवाद्य परपन्नास्मि महाव्रत शॊकपङ्कार्णवाद घॊराद उद्धरस्व च मां विभॊ 28 भीष्म उवाच तस्याश च दृष्ट्वा रूपं च वयश चाभिनवं पुनः सौकुमार्यं परं चैव रामश चिन्तापरॊ ऽभवत 29 किम इयं वक्ष्यतीत्य एवं विमृशन भृगुसत्तमः इति दध्यौ चिरं रामः कृपयाभिपरिप्लुतः 30 कथ्यताम इति सा भूयॊ रामेणॊक्ता शुचिस्मिता सर्वम एव यथातत्त्वं कथयाम आस भार्गवे 31 तच छरुत्वा जामदग्न्यस तु राजपुत्र्या वचस तदा उवाच तां वरारॊहां निश्चित्यार्थविनिश्चयम 32 परेषयिष्यामि भीष्माय कुरुश्रेष्ठाय भामिनि करिष्यति वचॊ धर्म्यं शरुत्वा मे स नराधिपः 33 न चेत करिष्यति वचॊ मयॊक्तं जाह्नवीसुतः धक्ष्याम्य एनं रणे भद्रे सामात्यं शस्त्रतेजसा 34 अथ वा ते मतिस तत्र राजपुत्रि निवर्तते तावच छाल्वपतिं वीरं यॊजयाम्य अत्र कर्मणि 35 अम्बॊवाच विसर्जितास्मि भीष्मेण शरुत्वैव भृगुनन्दन शाल्वराजगतं चेतॊ मम पूर्वं मनीषितम 36 सौभराजम उपेत्याहम अब्रुवं दुर्वचं वचः न च मां परत्यगृह्णात स चारित्रपरिशङ्कितः 37 एतत सर्वं विनिश्चित्य सवबुद्ध्या भृगुनन्दन यद अत्रौपयिकं कार्यं तच चिन्तयितुम अर्हसि 38 ममात्र वयसनस्यास्य भीष्मॊ मूलं महाव्रतः येनाहं वशम आनीता समुत्क्षिप्य बलात तदा 39 भीष्मं जहि महाबाहॊ यत्कृते दुःखम ईदृशम पराप्ताहं भृगुशार्दूल चराम्य अप्रियम उत्तमम 40 स हि लुब्धश च मानी च जितकाशी च भार्गव तस्मात परतिक्रिया कर्तुं युक्ता तस्मै तवयानघ 41 एष मे हरियमाणाया भारतेन तदा विभॊ अभवद धृदि संकल्पॊ घातयेयं महाव्रतम 42 तस्मात कामं ममाद्येमं राम संवर्तयानघ जहि भीष्मं महाबाहॊ यथा वृत्रं पुरंदरः |
1
akṛtavraṇa uvāca duḥkhadvayam idaṃ bhadre katarasya cikīrṣasi pratikartavyam abale tat tvaṃ vatse bravīhi me 2 yadi saubhapatir bhadre niyoktavyo mate tava niyokṣyati mahātmā taṃ rāmas tvaddhitakāmyayā 3 athāpageyaṃ bhīṣmaṃ taṃ rāmeṇecchasi dhīmatā raṇe vinirjitaṃ draṣṭuṃ kuryāt tad api bhārgavaḥ 4 sṛñjayasya vacaḥ śrutvā tava caiva śucismite yad atrānantaraṃ kāryaṃ tad adyaiva vicintyatām 5 ambovāca apanītāsmi bhīṣmeṇa bhagavann avijānatā na hi jānāti me bhīṣmo brahmañ śālvagataṃ manaḥ 6 etad vicārya manasā bhavān eva viniścayam vicinotu yathānyāyaṃ vidhānaṃ kriyatāṃ tathā 7 bhīṣme vā kuruśārdūle śālvarāje 'tha vā punaḥ ubhayor eva vā brahman yad yuktaṃ tat samācara 8 niveditaṃ mayā hy etad duḥkhamūlaṃ yathātatham vidhānaṃ tatra bhagavan kartum arhasi yuktitaḥ 9 akṛtavraṇa uvāca upapannam idaṃ bhadre yad evaṃ varavarṇini dharmaṃ prati vaco brūyāḥ śṛṇu cedaṃ vaco mama 10 yadi tvām āpageyo vai na nayed gajasāhvayam śālvas tvāṃ śirasā bhīru gṛhṇīyād rāmacoditaḥ 11 tena tvaṃ nirjitā bhadre yasmān nītāsi bhāmini saṃśayaḥ śālvarājasya tena tvayi sumadhyame 12 bhīṣmaḥ puruṣamānī ca jitakāśī tathaiva ca tasmāt pratikriyā yuktā bhīṣme kārayituṃ tvayā 13 ambovāca mamāpy eṣa mahān brahman hṛdi kāmo 'bhivartate ghātayeyaṃ yadi raṇe bhīṣmam ity eva nityadā 14 bhīṣmaṃ vā śālvarājaṃ vā yaṃ vā doṣeṇa gacchasi praśādhi taṃ mahābāho yatkṛte 'haṃ suduḥkhitā 15 bhīṣma uvāca evaṃ kathayatām eva teṣāṃ sa divaso gataḥ rātriś ca bharataśreṣṭha sukhaśītoṣṇamārutā 16 tato rāmaḥ prādurāsīt prajvalann iva tejasā śiṣyaiḥ parivṛto rājañ jaṭācīradharo muniḥ 17 dhanuṣpāṇir adīnātmā khaḍgaṃ bibhrat paraśvadhī virajā rājaśārdūla so 'bhyayāt sṛñjayaṃ nṛpam 18 tatas taṃ tāpasā dṛṣṭvā sa ca rājā mahātapāḥ tasthuḥ prāñjalayaḥ sarve sā ca kanyā tapasvinī 19 pūjayām āsur avyagrā madhuparkeṇa bhārgavam arcitaś ca yathāyogaṃ niṣasāda sahaiva taiḥ 20 tataḥ pūrvavyatītāni kathayete sma tāv ubhau sṛñjayaś ca sa rājarṣir jāmadagnyaś ca bhārata 21 tataḥ kathānte rājarṣir bhṛguśreṣṭhaṃ mahābalam uvāca madhuraṃ kāle rāmaṃ vacanam arthavat 22 rāmeyaṃ mama dauhitrī kāśirājasutā prabho asyāḥ śṛṇu yathātattvaṃ kāryaṃ kāryaviśārada 23 paramaṃ kathyatāṃ ceti tāṃ rāmaḥ pratyabhāṣata tataḥ sābhyagamad rāmaṃ jvalantam iva pāvakam 24 sā cābhivādya caraṇau rāmasya śirasā śubhā spṛṣṭvā padmadalābhābhyāṃ pāṇibhyām agrataḥ sthitā 25 ruroda sā śokavatī bāṣpavyākulalocanā prapede śaraṇaṃ caiva śaraṇyaṃ bhṛgunandanam 26 rāma uvāca yathāsi sṛñjayasyāsya tathā mama nṛpātmaje brūhi yat te manoduḥkhaṃ kariṣye vacanaṃ tava 27 ambovāca bhagavañ śaraṇaṃ tvādya prapannāsmi mahāvrata śokapaṅkārṇavād ghorād uddharasva ca māṃ vibho 28 bhīṣma uvāca tasyāś ca dṛṣṭvā rūpaṃ ca vayaś cābhinavaṃ punaḥ saukumāryaṃ paraṃ caiva rāmaś cintāparo 'bhavat 29 kim iyaṃ vakṣyatīty evaṃ vimṛśan bhṛgusattamaḥ iti dadhyau ciraṃ rāmaḥ kṛpayābhipariplutaḥ 30 kathyatām iti sā bhūyo rāmeṇoktā śucismitā sarvam eva yathātattvaṃ kathayām āsa bhārgave 31 tac chrutvā jāmadagnyas tu rājaputryā vacas tadā uvāca tāṃ varārohāṃ niścityārthaviniścayam 32 preṣayiṣyāmi bhīṣmāya kuruśreṣṭhāya bhāmini kariṣyati vaco dharmyaṃ śrutvā me sa narādhipaḥ 33 na cet kariṣyati vaco mayoktaṃ jāhnavīsutaḥ dhakṣyāmy enaṃ raṇe bhadre sāmātyaṃ śastratejasā 34 atha vā te matis tatra rājaputri nivartate tāvac chālvapatiṃ vīraṃ yojayāmy atra karmaṇi 35 ambovāca visarjitāsmi bhīṣmeṇa śrutvaiva bhṛgunandana śālvarājagataṃ ceto mama pūrvaṃ manīṣitam 36 saubharājam upetyāham abruvaṃ durvacaṃ vacaḥ na ca māṃ pratyagṛhṇāt sa cāritrapariśaṅkitaḥ 37 etat sarvaṃ viniścitya svabuddhyā bhṛgunandana yad atraupayikaṃ kāryaṃ tac cintayitum arhasi 38 mamātra vyasanasyāsya bhīṣmo mūlaṃ mahāvrataḥ yenāhaṃ vaśam ānītā samutkṣipya balāt tadā 39 bhīṣmaṃ jahi mahābāho yatkṛte duḥkham īdṛśam prāptāhaṃ bhṛguśārdūla carāmy apriyam uttamam 40 sa hi lubdhaś ca mānī ca jitakāśī ca bhārgava tasmāt pratikriyā kartuṃ yuktā tasmai tvayānagha 41 eṣa me hriyamāṇāyā bhāratena tadā vibho abhavad dhṛdi saṃkalpo ghātayeyaṃ mahāvratam 42 tasmāt kāmaṃ mamādyemaṃ rāma saṃvartayānagha jahi bhīṣmaṃ mahābāho yathā vṛtraṃ puraṃdaraḥ |
The Mahabharata in Sanskrit
Book 5
Chapter 177
|
1
भीष्म उवाच एवम उक्तस तदा रामॊ जहि भीष्मम इति परभॊ उवाच रुदतीं कन्यां चॊदयन्तीं पुनः पुनः 2 काश्ये कामं न गृह्णामि शस्त्रं वै वरवर्णिनि ऋते बरह्मविदां हेतॊः किम अन्यत करवाणि ते 3 वाचा भीष्मश च शाल्वश च मम राज्ञि वशानुगौ भविष्यतॊ ऽनवद्याङ्गि तत करिष्यामि मा शुचः 4 न तु शस्त्रं गरहीष्यामि कथं चिद अपि भामिनि ऋते नियॊगाद विप्राणाम एष मे समयः कृतः 5 अम्बॊवाच मम दुःखं भगवता वयपनेयं यतस ततः तत तु भीष्मप्रसूतं मे तं जहीश्वर माचिरम 6 राम उवाच काशिकन्ये पुनर बरूहि भीष्मस ते चरणाव उभौ शिरसा वन्दनार्हॊ ऽपि गरहीष्यति गिरा मम 7 अम्बॊवाच जहि भीष्मं रणे राम मम चेद इच्छसि परियम परतिश्रुतं च यदि तत सत्यं कर्तुम इहार्हसि 8 भीष्म उवाच तयॊः संवदतॊर एवं राजन रामाम्बयॊस तदा अकृतव्रणॊ जामदग्न्यम इदं वचनम अब्रवीत 9 शरणागतां महाबाहॊ कन्यां न तयक्तुम अर्हसि जहि भीष्मं रणे राम गर्जन्तम असुरं यथा 10 यदि भीष्मस तवयाहूतॊ रणे राम महामुने निर्जितॊ ऽसमीति वा बरूयात कुर्याद वा वचनं तव 11 कृतम अस्या भवेत कार्यं कन्याया भृगुनन्दन वाक्यं सत्यं च ते वीर भविष्यति कृतं विभॊ 12 इयं चापि परतिज्ञा ते तदा राम महामुने जित्वा वै कषत्रियान सर्वान बराह्मणेषु परतिश्रुतम 13 बराह्मणः कषत्रियॊ वैश्यः शूद्रश चैव रणे यदि बरह्मद्विड भविता तं वै हनिष्यामीति भार्गव 14 शरणं हि परपन्नानां भीतानां जीवितार्थिनाम न शक्ष्यामि परित्यागं कर्तुं जीवन कथं चन 15 यश च कषत्रं रणे कृत्स्नं विजेष्यति समागतम दृप्तात्मानम अहं तं च हनिष्यामीति भार्गव 16 स एवं विजयी राम भीष्मः कुरुकुलॊद्वहः तेन युध्यस्व संग्रामे समेत्य भृगुनन्दन 17 राम उवाच समराम्य अहं पूर्वकृतां परतिज्ञाम ऋषिसत्तम तथैव च करिष्यामि यथा साम्नैव लप्स्यते 18 कार्यम एतन महद बरह्मन काशिकन्यामनॊगतम गमिष्यामि सवयं तत्र कन्याम आदाय यत्र सः 19 यदि भीष्मॊ रणश्लाघी न करिष्यति मे वचः हनिष्याम्य एनम उद्रिक्तम इति मे निश्चिता मतिः 20 न हि बाणा मयॊत्सृष्टाः सज्जन्तीह शरीरिणाम कायेषु विदितं तुभ्यं पुरा कषत्रिय संगरे 21 भीष्म उवाच एवम उक्त्वा ततॊ रामः सह तैर बरह्मवादिभिः परयाणाय मतिं कृत्वा समुत्तस्थौ महामनाः 22 ततस ते ताम उषित्वा तु रजनीं तत्र तापसाः हुताग्नयॊ जप्तजप्याः परतस्थुर मज्जिघांसया 23 अभ्यगच्छत ततॊ रामः सह तैर बराह्मणर्षभैः कुरुक्षेत्रं महाराज कन्यया सह भारत 24 नयविशन्त ततः सर्वे परिगृह्य सरस्वतीम तापसास ते महात्मानॊ भृगुश्रेष्ठपुरस्कृताः |
1
bhīṣma uvāca evam uktas tadā rāmo jahi bhīṣmam iti prabho uvāca rudatīṃ kanyāṃ codayantīṃ punaḥ punaḥ 2 kāśye kāmaṃ na gṛhṇāmi śastraṃ vai varavarṇini ṛte brahmavidāṃ hetoḥ kim anyat karavāṇi te 3 vācā bhīṣmaś ca śālvaś ca mama rājñi vaśānugau bhaviṣyato 'navadyāṅgi tat kariṣyāmi mā śucaḥ 4 na tu śastraṃ grahīṣyāmi kathaṃ cid api bhāmini ṛte niyogād viprāṇām eṣa me samayaḥ kṛtaḥ 5 ambovāca mama duḥkhaṃ bhagavatā vyapaneyaṃ yatas tataḥ tat tu bhīṣmaprasūtaṃ me taṃ jahīśvara māciram 6 rāma uvāca kāśikanye punar brūhi bhīṣmas te caraṇāv ubhau śirasā vandanārho 'pi grahīṣyati girā mama 7 ambovāca jahi bhīṣmaṃ raṇe rāma mama ced icchasi priyam pratiśrutaṃ ca yadi tat satyaṃ kartum ihārhasi 8 bhīṣma uvāca tayoḥ saṃvadator evaṃ rājan rāmāmbayos tadā akṛtavraṇo jāmadagnyam idaṃ vacanam abravīt 9 śaraṇāgatāṃ mahābāho kanyāṃ na tyaktum arhasi jahi bhīṣmaṃ raṇe rāma garjantam asuraṃ yathā 10 yadi bhīṣmas tvayāhūto raṇe rāma mahāmune nirjito 'smīti vā brūyāt kuryād vā vacanaṃ tava 11 kṛtam asyā bhavet kāryaṃ kanyāyā bhṛgunandana vākyaṃ satyaṃ ca te vīra bhaviṣyati kṛtaṃ vibho 12 iyaṃ cāpi pratijñā te tadā rāma mahāmune jitvā vai kṣatriyān sarvān brāhmaṇeṣu pratiśrutam 13 brāhmaṇaḥ kṣatriyo vaiśyaḥ śūdraś caiva raṇe yadi brahmadviḍ bhavitā taṃ vai haniṣyāmīti bhārgava 14 śaraṇaṃ hi prapannānāṃ bhītānāṃ jīvitārthinām na śakṣyāmi parityāgaṃ kartuṃ jīvan kathaṃ cana 15 yaś ca kṣatraṃ raṇe kṛtsnaṃ vijeṣyati samāgatam dṛptātmānam ahaṃ taṃ ca haniṣyāmīti bhārgava 16 sa evaṃ vijayī rāma bhīṣmaḥ kurukulodvahaḥ tena yudhyasva saṃgrāme sametya bhṛgunandana 17 rāma uvāca smarāmy ahaṃ pūrvakṛtāṃ pratijñām ṛṣisattama tathaiva ca kariṣyāmi yathā sāmnaiva lapsyate 18 kāryam etan mahad brahman kāśikanyāmanogatam gamiṣyāmi svayaṃ tatra kanyām ādāya yatra saḥ 19 yadi bhīṣmo raṇaślāghī na kariṣyati me vacaḥ haniṣyāmy enam udriktam iti me niścitā matiḥ 20 na hi bāṇā mayotsṛṣṭāḥ sajjantīha śarīriṇām kāyeṣu viditaṃ tubhyaṃ purā kṣatriya saṃgare 21 bhīṣma uvāca evam uktvā tato rāmaḥ saha tair brahmavādibhiḥ prayāṇāya matiṃ kṛtvā samuttasthau mahāmanāḥ 22 tatas te tām uṣitvā tu rajanīṃ tatra tāpasāḥ hutāgnayo japtajapyāḥ pratasthur majjighāṃsayā 23 abhyagacchat tato rāmaḥ saha tair brāhmaṇarṣabhaiḥ kurukṣetraṃ mahārāja kanyayā saha bhārata 24 nyaviśanta tataḥ sarve parigṛhya sarasvatīm tāpasās te mahātmāno bhṛguśreṣṭhapuraskṛtāḥ |
The Mahabharata in Sanskrit
Book 5
Chapter 178
|
1
भीष्म उवाच ततस तृतीये दिवसे समे देशे वयवस्थितः परेषयाम आस मे राजन पराप्तॊ ऽसमीति महाव्रतः 2 तम आगतम अहं शरुत्वा विषयान्तं महाबलम अभ्यगच्छं जवेनाशु परीत्या तेजॊनिधिं परभुम 3 गां पुरस्कृत्य राजेन्द्र बराह्मणैः परिवारितः ऋत्विग्भिर देवकल्पैश च तथैव च पुरॊहितैः 4 स माम अभिगतं दृष्ट्वा जामदग्न्यः परतापवान परतिजग्राह तां पूजां वचनं चेदम अब्रवीत 5 भीष्म कां बुद्धिम आस्थाय काशिराजसुता तवया अकामेयम इहानीता पुनश चैव विसर्जिता 6 विभ्रंशिता तवया हीयं धर्मावाप्तेः परावरात परामृष्टां तवया हीमां कॊ हि गन्तुम इहार्हति 7 परत्याख्याता हि शाल्वेन तवया नीतेति भारत तस्माद इमां मन्नियॊगात परतिगृह्णीष्व भारत 8 सवधर्मं पुरुषव्याघ्र राजपुत्री लभत्व इयम न युक्तम अवमानॊ ऽयं कर्तुं राज्ञा तवयानघ 9 ततस तं नातिमनसं समुदीक्ष्याहम अब्रुवम नाहम एनां पुनर दद्यां भरात्रे बरह्मन कथं चन 10 शाल्वस्याहम इति पराह पुरा माम इह भार्गव मया चैवाभ्यनुज्ञाता गता सौभपुरं परति 11 न भयान नाप्य अनुक्रॊशान न लॊभान नार्थकाम्यया कषत्रधर्मम अहं जह्याम इति मे वरतम आहितम 12 अथ माम अब्रवीद रामः करॊधपर्याकुलेक्षणः न करिष्यसि चेद एतद वाक्यं मे कुरुपुंगव 13 हनिष्यामि सहामात्यं तवाम अद्येति पुनः पुनः संरम्भाद अब्रवीद रामः करॊधपर्याकुलेक्षणः 14 तम अहं गीर्भिर इष्टाभिः पुनः पुनर अरिंदमम अयाचं भृगुशार्दूलं न चैव परशशाम सः 15 तम अहं परणम्य शिरसा भूयॊ बराह्मणसत्तमम अब्रुवं कारणं किं तद यत तवं यॊद्धुम इहेच्छसि 16 इष्वस्त्रं मम बालस्य भवतैव चतुर्विधम उपदिष्टं महाबाहॊ शिष्यॊ ऽसमि तव भार्गव 17 ततॊ माम अब्रवीद रामः करॊधसंरक्तलॊचनः जानीषे मां गुरुं भीष्म न चेमां परतिगृह्णसे सुतां काश्यस्य कौरव्य मत्प्रियार्थं महीपते 18 न हि ते विद्यते शान्तिर अन्यथा कुरुनन्दन गृहाणेमां महाबाहॊ रक्षस्व कुलम आत्मनः तवया विभ्रंशिता हीयं भर्तारं नाभिगच्छति 19 तथा बरुवन्तं तम अहं रामं परपुरंजयम नैतद एवं पुनर भावि बरह्मर्षे किं शरमेण ते 20 गुरुत्वं तवयि संप्रेक्ष्य जामदग्न्य पुरातनम परसादये तवां भगवंस तयक्तैषा हि पुरा मया 21 कॊ जातु परभावां हि नारीं वयालीम इव सथिताम वासयेत गृहे जानन सत्रीणां दॊषान महात्ययान 22 न भयाद वासवस्यापि धर्मं जह्यां महाद्युते परसीद मा वा यद वा ते कार्यं तत कुरु माचिरम 23 अयं चापि विशुद्धात्मन पुराणे शरूयते विभॊ मरुत्तेन महाबुद्धे गीतः शलॊकॊ महात्मना 24 गुरॊर अप्य अवलिप्तस्य कार्याकार्यम अजानतः उत्पथप्रतिपन्नस्य कार्यं भवति शासनम 25 स तवं गुरुर इति परेम्णा मया संमानितॊ भृशम गुरुवृत्तं न जानीषे तस्माद यॊत्स्याम्य अहं तवया 26 गुरुं न हन्यां समरे बराह्मणं च विशेषतः विशेषतस तपॊवृद्धम एवं कषान्तं मया तव 27 युद्यतेषुम अथॊ दृष्ट्वा बराह्मणं कषत्रबन्धुवत यॊ हन्यात समरे करुद्धॊ युध्यन्तम अपलायिनम बरह्महत्या न तस्य सयाद इति धर्मेषु निश्चयः 28 कषत्रियाणां सथितॊ धर्मे कषत्रियॊ ऽसमि तपॊधन यॊ यथा वर्तते यस्मिंस तथा तस्मिन परवर्तयन नाधर्मं समवाप्नॊति नरः शरेयश च विन्दति 29 अर्थे वा यदि वा धर्मे समर्थॊ देशकालवित अनर्थसंशयापन्नः शरेयान निःसंशयेन च 30 यस्मात संशयिते ऽरथे ऽसमिन यथान्यायं परवर्तसे तस्माद यॊत्स्यामि सहितस तवया राम महाहवे पश्य मे बाहुवीर्यं च विक्रमं चातिमानुषम 31 एवंगते ऽपि तु मया यच छक्यं भृगुनन्दन तत करिष्ये कुरुक्षेत्रे यॊत्स्ये विप्र तवया सह दवंद्वे राम यथेष्टं ते सज्जॊ भव महामुने 32 तत्र तवं निहतॊ राम मया शरशताचितः लप्स्यसे निर्जिताँल लॊकाञ शस्त्रपूतॊ महारणे 33 स गच्छ विनिवर्तस्व कुरुक्षेत्रं रणप्रिय तत्रैष्यामि महाबाहॊ युद्धाय तवां तपॊधन 34 अपि यत्र तवया राम कृतं शौचं पुरा पितुः तत्राहम अपि हत्वा तवां शौचं कर्तास्मि भार्गव 35 तत्र गच्छस्व राम तवं तवरितं युद्धदुर्मद वयपनेष्यामि ते दर्पं पौराणं बराह्मणब्रुव 36 यच चापि कत्थसे राम बहुशः परिषत्सु वै निर्जिताः कषत्रिया लॊके मयैकेनेति तच छृणु 37 न तदा जायते भीष्मॊ मद्विधः कषत्रियॊ ऽपि वा यस ते युद्धमयं दर्पं कामं च वयपनाशयेत 38 सॊ ऽहं जातॊ महाबाहॊ भीष्मः परपुरंजयः वयपनेष्यामि ते दर्पं युद्धे राम न संशयः |
1
bhīṣma uvāca tatas tṛtīye divase same deśe vyavasthitaḥ preṣayām āsa me rājan prāpto 'smīti mahāvrataḥ 2 tam āgatam ahaṃ śrutvā viṣayāntaṃ mahābalam abhyagacchaṃ javenāśu prītyā tejonidhiṃ prabhum 3 gāṃ puraskṛtya rājendra brāhmaṇaiḥ parivāritaḥ ṛtvigbhir devakalpaiś ca tathaiva ca purohitaiḥ 4 sa mām abhigataṃ dṛṣṭvā jāmadagnyaḥ pratāpavān pratijagrāha tāṃ pūjāṃ vacanaṃ cedam abravīt 5 bhīṣma kāṃ buddhim āsthāya kāśirājasutā tvayā akāmeyam ihānītā punaś caiva visarjitā 6 vibhraṃśitā tvayā hīyaṃ dharmāvāpteḥ parāvarāt parāmṛṣṭāṃ tvayā hīmāṃ ko hi gantum ihārhati 7 pratyākhyātā hi śālvena tvayā nīteti bhārata tasmād imāṃ manniyogāt pratigṛhṇīṣva bhārata 8 svadharmaṃ puruṣavyāghra rājaputrī labhatv iyam na yuktam avamāno 'yaṃ kartuṃ rājñā tvayānagha 9 tatas taṃ nātimanasaṃ samudīkṣyāham abruvam nāham enāṃ punar dadyāṃ bhrātre brahman kathaṃ cana 10 śālvasyāham iti prāha purā mām iha bhārgava mayā caivābhyanujñātā gatā saubhapuraṃ prati 11 na bhayān nāpy anukrośān na lobhān nārthakāmyayā kṣatradharmam ahaṃ jahyām iti me vratam āhitam 12 atha mām abravīd rāmaḥ krodhaparyākulekṣaṇaḥ na kariṣyasi ced etad vākyaṃ me kurupuṃgava 13 haniṣyāmi sahāmātyaṃ tvām adyeti punaḥ punaḥ saṃrambhād abravīd rāmaḥ krodhaparyākulekṣaṇaḥ 14 tam ahaṃ gīrbhir iṣṭābhiḥ punaḥ punar ariṃdamam ayācaṃ bhṛguśārdūlaṃ na caiva praśaśāma saḥ 15 tam ahaṃ praṇamya śirasā bhūyo brāhmaṇasattamam abruvaṃ kāraṇaṃ kiṃ tad yat tvaṃ yoddhum ihecchasi 16 iṣvastraṃ mama bālasya bhavataiva caturvidham upadiṣṭaṃ mahābāho śiṣyo 'smi tava bhārgava 17 tato mām abravīd rāmaḥ krodhasaṃraktalocanaḥ jānīṣe māṃ guruṃ bhīṣma na cemāṃ pratigṛhṇase sutāṃ kāśyasya kauravya matpriyārthaṃ mahīpate 18 na hi te vidyate śāntir anyathā kurunandana gṛhāṇemāṃ mahābāho rakṣasva kulam ātmanaḥ tvayā vibhraṃśitā hīyaṃ bhartāraṃ nābhigacchati 19 tathā bruvantaṃ tam ahaṃ rāmaṃ parapuraṃjayam naitad evaṃ punar bhāvi brahmarṣe kiṃ śrameṇa te 20 gurutvaṃ tvayi saṃprekṣya jāmadagnya purātanam prasādaye tvāṃ bhagavaṃs tyaktaiṣā hi purā mayā 21 ko jātu parabhāvāṃ hi nārīṃ vyālīm iva sthitām vāsayeta gṛhe jānan strīṇāṃ doṣān mahātyayān 22 na bhayād vāsavasyāpi dharmaṃ jahyāṃ mahādyute prasīda mā vā yad vā te kāryaṃ tat kuru māciram 23 ayaṃ cāpi viśuddhātman purāṇe śrūyate vibho maruttena mahābuddhe gītaḥ śloko mahātmanā 24 guror apy avaliptasya kāryākāryam ajānataḥ utpathapratipannasya kāryaṃ bhavati śāsanam 25 sa tvaṃ gurur iti premṇā mayā saṃmānito bhṛśam guruvṛttaṃ na jānīṣe tasmād yotsyāmy ahaṃ tvayā 26 guruṃ na hanyāṃ samare brāhmaṇaṃ ca viśeṣataḥ viśeṣatas tapovṛddham evaṃ kṣāntaṃ mayā tava 27 yudyateṣum atho dṛṣṭvā brāhmaṇaṃ kṣatrabandhuvat yo hanyāt samare kruddho yudhyantam apalāyinam brahmahatyā na tasya syād iti dharmeṣu niścayaḥ 28 kṣatriyāṇāṃ sthito dharme kṣatriyo 'smi tapodhana yo yathā vartate yasmiṃs tathā tasmin pravartayan nādharmaṃ samavāpnoti naraḥ śreyaś ca vindati 29 arthe vā yadi vā dharme samartho deśakālavit anarthasaṃśayāpannaḥ śreyān niḥsaṃśayena ca 30 yasmāt saṃśayite 'rthe 'smin yathānyāyaṃ pravartase tasmād yotsyāmi sahitas tvayā rāma mahāhave paśya me bāhuvīryaṃ ca vikramaṃ cātimānuṣam 31 evaṃgate 'pi tu mayā yac chakyaṃ bhṛgunandana tat kariṣye kurukṣetre yotsye vipra tvayā saha dvaṃdve rāma yatheṣṭaṃ te sajjo bhava mahāmune 32 tatra tvaṃ nihato rāma mayā śaraśatācitaḥ lapsyase nirjitāṁl lokāñ śastrapūto mahāraṇe 33 sa gaccha vinivartasva kurukṣetraṃ raṇapriya tatraiṣyāmi mahābāho yuddhāya tvāṃ tapodhana 34 api yatra tvayā rāma kṛtaṃ śaucaṃ purā pituḥ tatrāham api hatvā tvāṃ śaucaṃ kartāsmi bhārgava 35 tatra gacchasva rāma tvaṃ tvaritaṃ yuddhadurmada vyapaneṣyāmi te darpaṃ paurāṇaṃ brāhmaṇabruva 36 yac cāpi katthase rāma bahuśaḥ pariṣatsu vai nirjitāḥ kṣatriyā loke mayaikeneti tac chṛṇu 37 na tadā jāyate bhīṣmo madvidhaḥ kṣatriyo 'pi vā yas te yuddhamayaṃ darpaṃ kāmaṃ ca vyapanāśayet 38 so 'haṃ jāto mahābāho bhīṣmaḥ parapuraṃjayaḥ vyapaneṣyāmi te darpaṃ yuddhe rāma na saṃśayaḥ |
The Mahabharata in Sanskrit
Book 5
Chapter 179
|
1
भीष्म उवाच ततॊ माम अब्रवीद रामः परहसन्न इव भारत दिष्ट्या भीष्म मया सार्धं यॊद्धुम इच्छसि संगरे 2 अयं गच्छामि कौरव्य कुरुक्षेत्रं तवया सह भाषितं तत करिष्यामि तत्रागच्छेः परंतप 3 तत्र तवां निहतं माता मया शरशताचितम जाह्नवी पश्यतां भीष्म गृध्रकङ्कबडाशनम 4 कृपणं तवाम अभिप्रेक्ष्य सिद्धचारणसेविता मया विनिहतं देवी रॊदताम अद्य पार्थिव 5 अतदर्हा महाभागा भगीरथसुता नदी या तवाम अजीजनन मन्दं युद्धकामुकम आतुरम 6 एहि गच्छ मया भीष्म युद्धम अद्यैव वर्तताम गृहाण सर्वं कौरव्य रथादि भरतर्षभ 7 इति बरुवाणं तम अहं रामं परपुरंजयम परणम्य शिरसा राजन्न एवम अस्त्व इत्य अथाब्रुवम 8 एवम उक्त्वा ययौ रामः कुरुक्षेत्रं युयुत्सया परविश्य नगरं चाहं सत्यवत्यै नयवेदयम 9 ततः कृतस्वस्त्ययनॊ मात्रा परत्यभिनन्दितः दविजातीन वाच्य पुण्याहं सवस्ति चैव महाद्युते 10 रथम आस्थाय रुचिरं राजतं पाण्डुरैर हयैः सूपस्करं सवधिष्ठानं वैयाघ्रपरिवारणम 11 उपपन्नं महाशस्त्रैः सर्वॊपकरणान्वितम तत कुलीनेन वीरेण हयशास्त्रविदा नृप 12 युक्तं सूतेन शिष्टेन बहुशॊ दृष्टकर्मणा दंशितः पाण्डुरेणाहं कवचेन वपुष्मता 13 पाण्डुरं कार्मुकं गृह्य परायां भरतसत्तम पाण्डुरेणातपत्रेण धरियमाणेन मूर्धनि 14 पाण्डुरैश चामरैश चापि वीज्यमानॊ नराधिप शुक्लवासाः सितॊष्णीषः सर्वशुक्लविभूषणः 15 सतूयमानॊ जयाशीर्भिर निष्क्रम्य गजसाह्वयात कुरुक्षेत्रं रणक्षेत्रम उपायां भरतर्षभ 16 ते हयाश चॊदितास तेन सूतेन परमाहवे अवहन मां भृशं राजन मनॊमारुतरंहसः 17 गत्वाहं तत कुरुक्षेत्रं स च रामः परतापवान युद्धाय सहसा राजन पराक्रान्तौ परस्परम 18 ततः संदर्शने ऽतिष्ठं रामस्यातितपस्विनः परगृह्य शङ्खप्रवरं ततः पराधमम उत्तमम 19 ततस तत्र दविजा राजंस तापसाश च वनौकसः अपश्यन्त रणं दिव्यं देवाः सर्षिगणास तदा 20 ततॊ दिव्यानि माल्यानि परादुरासन मुहुर मुहुः वादित्राणि च दिव्यानि मेघवृन्दानि चैव ह 21 ततस ते तापसाः सर्वे भार्गवस्यानुयायिनः परेक्षकाः समपद्यन्त परिवार्य रणाजिरम 22 ततॊ माम अब्रवीद देवी सर्वभूतहितैषिणी माता सवरूपिणी राजन किम इदं ते चिकीर्षितम 23 गत्वाहं जामदग्न्यं तं परयाचिष्ये कुरूद्वह भीष्मेण सह मा यॊत्सीः शिष्येणेति पुनः पुनः 24 मा मैवं पुत्र निर्बन्धं कुरु विप्रेण पार्थिव जामदग्न्येन समरे यॊद्धुम इत्य अवभर्त्सयत 25 किं न वै कषत्रियहरॊ हरतुल्यपराक्रमः विदितः पुत्र रामस ते यतस तवं यॊद्धुम इच्छसि 26 ततॊ ऽहम अब्रुवं देवीम अभिवाद्य कृताञ्जलिः सर्वं तद भरतश्रेष्ठ यथावृत्तं सवयंवरे 27 यथा च रामॊ राजेन्द्र मया पूर्वं परसादितः काशिराजसुतायाश च यथा कामः पुरातनः 28 ततः सा रामम अभ्येत्य जननी मे महानदी मदर्थं तम ऋषिं देवी कषमयाम आस भार्गवम भीष्मेण सह मा यॊत्सीः शिष्येणेति वचॊ ऽबरवीत 29 स च ताम आह याचन्तीं भीष्मम एव निवर्तय न हि मे कुरुते कामम इत्य अहं तम उपागमम 30 संजय उवाच ततॊ गङ्गा सुतस्नेहाद भीष्मं पुनर उपागमत न चास्याः सॊ ऽकरॊद वाक्यं करॊधपर्याकुलेक्षणः 31 अथादृश्यत धर्मात्मा भृगुश्रेष्ठॊ महातपाः आह्वयाम आस च पुनर युद्धाय दविजसत्तमः |
1
bhīṣma uvāca tato mām abravīd rāmaḥ prahasann iva bhārata diṣṭyā bhīṣma mayā sārdhaṃ yoddhum icchasi saṃgare 2 ayaṃ gacchāmi kauravya kurukṣetraṃ tvayā saha bhāṣitaṃ tat kariṣyāmi tatrāgaccheḥ paraṃtapa 3 tatra tvāṃ nihataṃ mātā mayā śaraśatācitam jāhnavī paśyatāṃ bhīṣma gṛdhrakaṅkabaḍāśanam 4 kṛpaṇaṃ tvām abhiprekṣya siddhacāraṇasevitā mayā vinihataṃ devī rodatām adya pārthiva 5 atadarhā mahābhāgā bhagīrathasutā nadī yā tvām ajījanan mandaṃ yuddhakāmukam āturam 6 ehi gaccha mayā bhīṣma yuddham adyaiva vartatām gṛhāṇa sarvaṃ kauravya rathādi bharatarṣabha 7 iti bruvāṇaṃ tam ahaṃ rāmaṃ parapuraṃjayam praṇamya śirasā rājann evam astv ity athābruvam 8 evam uktvā yayau rāmaḥ kurukṣetraṃ yuyutsayā praviśya nagaraṃ cāhaṃ satyavatyai nyavedayam 9 tataḥ kṛtasvastyayano mātrā pratyabhinanditaḥ dvijātīn vācya puṇyāhaṃ svasti caiva mahādyute 10 ratham āsthāya ruciraṃ rājataṃ pāṇḍurair hayaiḥ sūpaskaraṃ svadhiṣṭhānaṃ vaiyāghraparivāraṇam 11 upapannaṃ mahāśastraiḥ sarvopakaraṇānvitam tat kulīnena vīreṇa hayaśāstravidā nṛpa 12 yuktaṃ sūtena śiṣṭena bahuśo dṛṣṭakarmaṇā daṃśitaḥ pāṇḍureṇāhaṃ kavacena vapuṣmatā 13 pāṇḍuraṃ kārmukaṃ gṛhya prāyāṃ bharatasattama pāṇḍureṇātapatreṇa dhriyamāṇena mūrdhani 14 pāṇḍuraiś cāmaraiś cāpi vījyamāno narādhipa śuklavāsāḥ sitoṣṇīṣaḥ sarvaśuklavibhūṣaṇaḥ 15 stūyamāno jayāśīrbhir niṣkramya gajasāhvayāt kurukṣetraṃ raṇakṣetram upāyāṃ bharatarṣabha 16 te hayāś coditās tena sūtena paramāhave avahan māṃ bhṛśaṃ rājan manomārutaraṃhasaḥ 17 gatvāhaṃ tat kurukṣetraṃ sa ca rāmaḥ pratāpavān yuddhāya sahasā rājan parākrāntau parasparam 18 tataḥ saṃdarśane 'tiṣṭhaṃ rāmasyātitapasvinaḥ pragṛhya śaṅkhapravaraṃ tataḥ prādhamam uttamam 19 tatas tatra dvijā rājaṃs tāpasāś ca vanaukasaḥ apaśyanta raṇaṃ divyaṃ devāḥ sarṣigaṇās tadā 20 tato divyāni mālyāni prādurāsan muhur muhuḥ vāditrāṇi ca divyāni meghavṛndāni caiva ha 21 tatas te tāpasāḥ sarve bhārgavasyānuyāyinaḥ prekṣakāḥ samapadyanta parivārya raṇājiram 22 tato mām abravīd devī sarvabhūtahitaiṣiṇī mātā svarūpiṇī rājan kim idaṃ te cikīrṣitam 23 gatvāhaṃ jāmadagnyaṃ taṃ prayāciṣye kurūdvaha bhīṣmeṇa saha mā yotsīḥ śiṣyeṇeti punaḥ punaḥ 24 mā maivaṃ putra nirbandhaṃ kuru vipreṇa pārthiva jāmadagnyena samare yoddhum ity avabhartsayat 25 kiṃ na vai kṣatriyaharo haratulyaparākramaḥ viditaḥ putra rāmas te yatas tvaṃ yoddhum icchasi 26 tato 'ham abruvaṃ devīm abhivādya kṛtāñjaliḥ sarvaṃ tad bharataśreṣṭha yathāvṛttaṃ svayaṃvare 27 yathā ca rāmo rājendra mayā pūrvaṃ prasāditaḥ kāśirājasutāyāś ca yathā kāmaḥ purātanaḥ 28 tataḥ sā rāmam abhyetya jananī me mahānadī madarthaṃ tam ṛṣiṃ devī kṣamayām āsa bhārgavam bhīṣmeṇa saha mā yotsīḥ śiṣyeṇeti vaco 'bravīt 29 sa ca tām āha yācantīṃ bhīṣmam eva nivartaya na hi me kurute kāmam ity ahaṃ tam upāgamam 30 saṃjaya uvāca tato gaṅgā sutasnehād bhīṣmaṃ punar upāgamat na cāsyāḥ so 'karod vākyaṃ krodhaparyākulekṣaṇaḥ 31 athādṛśyata dharmātmā bhṛguśreṣṭho mahātapāḥ āhvayām āsa ca punar yuddhāya dvijasattamaḥ |
The Mahabharata in Sanskrit
Book 5
Chapter 180
|
1
भीष्म उवाच तम अहं समयन्न इव रणे परत्यभाषं वयवस्थितम भूमिष्ठं नॊत्सहे यॊद्धुं भवन्तं रथम आस्थितः 2 आरॊह सयन्दनं वीर कवचं च महाभुज बधान समरे राम यदि यॊद्धुं मयेच्छसि 3 ततॊ माम अब्रवीद रामः समयमानॊ रणाजिरे रथॊ मे मेदिनी भीष्म वाहा वेदाः सदश्ववत 4 सूतॊ मे मातरिश्वा वै कवचं वेदमातरः सुसंवीतॊ रणे ताभिर यॊत्स्ये ऽहं कुरुनन्दन 5 एवं बरुवाणॊ गान्धारे रामॊ मां सत्यविक्रमः शरव्रातेन महता सर्वतः पर्यवारयत 6 ततॊ ऽपश्यं जामदग्न्यं रथे दिव्ये वयवस्थितम सर्वायुधधरे शरीमत्य अद्भुतॊपमदर्शने 7 मनसा विहिते पुण्ये विस्तीर्णे नगरॊपमे दिव्याश्वयुजि संनद्धे काञ्चनेन विभूषिते 8 धवजेन च महाबाहॊ सॊमालंकृतलक्ष्मणा धनुर्धरॊ बद्धतूणॊ बद्धगॊधाङ्गुलित्रवान 9 सारथ्यं कृतवांस तत्र युयुत्सॊर अकृतव्रणः सखा वेदविद अत्यन्तं दयितॊ भार्गवस्य ह 10 आह्वयानः स मां युद्धे मनॊ हर्षयतीव मे पुनः पुनर अभिक्रॊशन्न अभियाहीति भार्गवः 11 तम आदित्यम इवॊद्यन्तम अनाधृष्यं महाबलम कषत्रियान्तकरं रामम एकम एकः समासदम 12 ततॊ ऽहं बाणपातेषु तरिषु वाहान निगृह्य वै अवतीर्य धनुर नयस्य पदातिर ऋषिसत्तमम 13 अभ्यगच्छं तदा रामम अर्चिष्यन दविजसत्तमम अभिवाद्य चैनं विधिवद अब्रुवं वाक्यम उत्तमम 14 यॊत्स्ये तवया रणे राम विशिष्टेनाधिकेन च गुरुणा धर्मशीलेन जयम आशास्स्व मे विभॊ 15 राम उवाच एवम एतत कुरुश्रेष्ठ कर्तव्यं भूतिम इच्छता धर्मॊ हय एष महाबाहॊ विशिष्टैः सह युध्यताम 16 शपेयं तवां न चेद एवम आगच्छेथा विशां पते युध्यस्व तवं रणे यत्तॊ धैर्यम आलम्ब्य कौरव 17 न तु ते जयम आशासे तवां हि जेतुम अहं सथितः गच्छ युध्यस्व धर्मेण परीतॊ ऽसमि चरितेन ते 18 भीष्म उवाच ततॊ ऽहं तं नमस्कृत्य रथम आरुह्य सत्वरः पराध्मापयं रणे शङ्खं पुनर हेमविभूषितम 19 ततॊ युद्धं समभवन मम तस्य च भारत दिवसान सुबहून राजन परस्परजिगीषया 20 स मे तस्मिन रणे पूर्वं पराहरत कङ्कपत्रिभिः षष्ट्या शतैश च नवभिः शराणाम अग्निवर्चसाम 21 चत्वारस तेन मे वाहाः सूतश चैव विशां पते परतिरुद्धास तथैवाहं समरे दंशितः सथितः 22 नमस्कृत्य च देवेभ्यॊ बराह्मणेभ्यश च भारत तम अहं समयन्न इव रणे परत्यभाषं वयवस्थितम 23 आचार्यता मानिता मे निर्मर्यादे हय अपि तवयि भूयस तु शृणु मे बरह्मन संपदं धर्मसंग्रहे 24 ये ते वेदाः शरीरस्था बराह्मण्यं यच च ते महत तपश च सुमहत तप्तं न तेभ्यः परहराम्य अहम 25 परहरे कषत्रधर्मस्य यं तवं राम समास्थितः बराह्मणः कषत्रियत्वं हि याति शस्त्रसमुद्यमात 26 पश्य मे धनुषॊ वीर्यं पश्य बाह्वॊर बलं च मे एष ते कार्मुकं वीर दविधा कुर्मि ससायकम 27 तस्याहं निशितं भल्लं पराहिण्वं भरतर्षभ तेनास्य धनुषः कॊटिश छिन्ना भूमिम अथागमत 28 नव चापि पृषत्कानां शतानि नतपर्वणाम पराहिण्वं कङ्कपत्राणां जामदग्न्यरथं परति 29 काये विषक्तास तु तदा वायुनाभिसमीरिताः चेलुः कषरन्तॊ रुधिरं नागा इव च ते शराः 30 कषतजॊक्षितसर्वाङ्गः कषरन स रुधिरं वरणैः बभौ रामस तदा राजन मेरुर धातून इवॊत्सृजन 31 हेमन्तान्ते ऽशॊक इव रक्तस्तबकमण्डितः बभौ रामस तदा राजन कव चित किंशुकसंनिभः 32 ततॊ ऽनयद धनुर आदाय रामः करॊधसमन्वितः हेमपुङ्खान सुनिशिताञ शरांस तान हि ववर्ष सः 33 ते समासाद्य मां रौद्रा बहुधा मर्मभेदिनः अकम्पयन महावेगाः सर्पानलविषॊपमाः 34 ततॊ ऽहं समवष्टभ्य पुनर आत्मानम आहवे शतसंख्यैः शरैः करुद्धस तदा रामम अवाकिरम 35 स तैर अग्न्यर्कसंकाशैः शरैर आशीविषॊपमैः शितैर अभ्यर्दितॊ रामॊ मन्दचेता इवाभवत 36 ततॊ ऽहं कृपयाविष्टॊ विनिन्द्यात्मानम आत्मना धिग धिग इत्य अब्रुवं युद्धं कषत्रं च भरतर्षभ 37 असकृच चाब्रुवं राजञ शॊकवेगपरिप्लुतः अहॊ बत कृतं पापं मयेदं कषत्रकर्मणा 38 गुरुर दविजातिर धर्मात्मा यद एवं पीडितः शरैः ततॊ न पराहरं भूयॊ जामदग्न्याय भारत 39 अथावताप्य पृथिवीं पूषा दिवससंक्षये जगामास्तं सहस्रांशुस ततॊ युद्धम उपारमत |
1
bhīṣma uvāca tam ahaṃ smayann iva raṇe pratyabhāṣaṃ vyavasthitam bhūmiṣṭhaṃ notsahe yoddhuṃ bhavantaṃ ratham āsthitaḥ 2 āroha syandanaṃ vīra kavacaṃ ca mahābhuja badhāna samare rāma yadi yoddhuṃ mayecchasi 3 tato mām abravīd rāmaḥ smayamāno raṇājire ratho me medinī bhīṣma vāhā vedāḥ sadaśvavat 4 sūto me mātariśvā vai kavacaṃ vedamātaraḥ susaṃvīto raṇe tābhir yotsye 'haṃ kurunandana 5 evaṃ bruvāṇo gāndhāre rāmo māṃ satyavikramaḥ śaravrātena mahatā sarvataḥ paryavārayat 6 tato 'paśyaṃ jāmadagnyaṃ rathe divye vyavasthitam sarvāyudhadhare śrīmaty adbhutopamadarśane 7 manasā vihite puṇye vistīrṇe nagaropame divyāśvayuji saṃnaddhe kāñcanena vibhūṣite 8 dhvajena ca mahābāho somālaṃkṛtalakṣmaṇā dhanurdharo baddhatūṇo baddhagodhāṅgulitravān 9 sārathyaṃ kṛtavāṃs tatra yuyutsor akṛtavraṇaḥ sakhā vedavid atyantaṃ dayito bhārgavasya ha 10 āhvayānaḥ sa māṃ yuddhe mano harṣayatīva me punaḥ punar abhikrośann abhiyāhīti bhārgavaḥ 11 tam ādityam ivodyantam anādhṛṣyaṃ mahābalam kṣatriyāntakaraṃ rāmam ekam ekaḥ samāsadam 12 tato 'haṃ bāṇapāteṣu triṣu vāhān nigṛhya vai avatīrya dhanur nyasya padātir ṛṣisattamam 13 abhyagacchaṃ tadā rāmam arciṣyan dvijasattamam abhivādya cainaṃ vidhivad abruvaṃ vākyam uttamam 14 yotsye tvayā raṇe rāma viśiṣṭenādhikena ca guruṇā dharmaśīlena jayam āśāssva me vibho 15 rāma uvāca evam etat kuruśreṣṭha kartavyaṃ bhūtim icchatā dharmo hy eṣa mahābāho viśiṣṭaiḥ saha yudhyatām 16 śapeyaṃ tvāṃ na ced evam āgacchethā viśāṃ pate yudhyasva tvaṃ raṇe yatto dhairyam ālambya kaurava 17 na tu te jayam āśāse tvāṃ hi jetum ahaṃ sthitaḥ gaccha yudhyasva dharmeṇa prīto 'smi caritena te 18 bhīṣma uvāca tato 'haṃ taṃ namaskṛtya ratham āruhya satvaraḥ prādhmāpayaṃ raṇe śaṅkhaṃ punar hemavibhūṣitam 19 tato yuddhaṃ samabhavan mama tasya ca bhārata divasān subahūn rājan parasparajigīṣayā 20 sa me tasmin raṇe pūrvaṃ prāharat kaṅkapatribhiḥ ṣaṣṭyā śataiś ca navabhiḥ śarāṇām agnivarcasām 21 catvāras tena me vāhāḥ sūtaś caiva viśāṃ pate pratiruddhās tathaivāhaṃ samare daṃśitaḥ sthitaḥ 22 namaskṛtya ca devebhyo brāhmaṇebhyaś ca bhārata tam ahaṃ smayann iva raṇe pratyabhāṣaṃ vyavasthitam 23 ācāryatā mānitā me nirmaryāde hy api tvayi bhūyas tu śṛṇu me brahman saṃpadaṃ dharmasaṃgrahe 24 ye te vedāḥ śarīrasthā brāhmaṇyaṃ yac ca te mahat tapaś ca sumahat taptaṃ na tebhyaḥ praharāmy aham 25 prahare kṣatradharmasya yaṃ tvaṃ rāma samāsthitaḥ brāhmaṇaḥ kṣatriyatvaṃ hi yāti śastrasamudyamāt 26 paśya me dhanuṣo vīryaṃ paśya bāhvor balaṃ ca me eṣa te kārmukaṃ vīra dvidhā kurmi sasāyakam 27 tasyāhaṃ niśitaṃ bhallaṃ prāhiṇvaṃ bharatarṣabha tenāsya dhanuṣaḥ koṭiś chinnā bhūmim athāgamat 28 nava cāpi pṛṣatkānāṃ śatāni nataparvaṇām prāhiṇvaṃ kaṅkapatrāṇāṃ jāmadagnyarathaṃ prati 29 kāye viṣaktās tu tadā vāyunābhisamīritāḥ celuḥ kṣaranto rudhiraṃ nāgā iva ca te śarāḥ 30 kṣatajokṣitasarvāṅgaḥ kṣaran sa rudhiraṃ vraṇaiḥ babhau rāmas tadā rājan merur dhātūn ivotsṛjan 31 hemantānte 'śoka iva raktastabakamaṇḍitaḥ babhau rāmas tadā rājan kva cit kiṃśukasaṃnibhaḥ 32 tato 'nyad dhanur ādāya rāmaḥ krodhasamanvitaḥ hemapuṅkhān suniśitāñ śarāṃs tān hi vavarṣa saḥ 33 te samāsādya māṃ raudrā bahudhā marmabhedinaḥ akampayan mahāvegāḥ sarpānalaviṣopamāḥ 34 tato 'haṃ samavaṣṭabhya punar ātmānam āhave śatasaṃkhyaiḥ śaraiḥ kruddhas tadā rāmam avākiram 35 sa tair agnyarkasaṃkāśaiḥ śarair āśīviṣopamaiḥ śitair abhyardito rāmo mandacetā ivābhavat 36 tato 'haṃ kṛpayāviṣṭo vinindyātmānam ātmanā dhig dhig ity abruvaṃ yuddhaṃ kṣatraṃ ca bharatarṣabha 37 asakṛc cābruvaṃ rājañ śokavegapariplutaḥ aho bata kṛtaṃ pāpaṃ mayedaṃ kṣatrakarmaṇā 38 gurur dvijātir dharmātmā yad evaṃ pīḍitaḥ śaraiḥ tato na prāharaṃ bhūyo jāmadagnyāya bhārata 39 athāvatāpya pṛthivīṃ pūṣā divasasaṃkṣaye jagāmāstaṃ sahasrāṃśus tato yuddham upāramat |
The Mahabharata in Sanskrit
Book 5
Chapter 181
|
1
भीष्म उवाच आत्मनस तु ततः सूतॊ हयानां च विशां पते मम चापनयाम आस शल्यान कुशलसंमतः 2 सनातॊपवृत्तैस तुरगैर लब्धतॊयैर अविह्वलैः परभात उदिते सूर्ये ततॊ युद्धम अवर्तत 3 दृष्ट्वा मां तूर्णम आयान्तं दंशितं सयन्दने सथितम अकरॊद रथम अत्यर्थं रामः सज्जं परतापवान 4 ततॊ ऽहं रामम आयान्तं दृष्ट्वा समरकाङ्क्षिणम धनुःश्रेष्ठं समुत्सृज्य सहसावतरं रथात 5 अभिवाद्य तथैवाहं रथम आरुह्य भारत युयुत्सुर जामदग्न्यस्य परमुखे वीतभीः सथितः 6 ततॊ मां शरवर्षेण महता समवाकिरत अहं च शरवर्षेण वर्षन्तं समवाकिरम 7 संक्रुद्धॊ जामदग्न्यस तु पुनर एव पतत्रिणः परेषयाम आस मे राजन दीप्तास्यान उरगान इव 8 तान अहं निशितैर भल्लैः शतशॊ ऽथ सहस्रशः अच्छिदं सहसा राजन्न अन्तरिक्षे पुनः पुनः 9 ततस तव अस्त्राणि दिव्यानि जामदग्न्यः परतापवान मयि परचॊदयाम आस तान्य अहं परत्यषेधयम 10 अस्त्रैर एव महाबाहॊ चिकीर्षन्न अधिकां करियाम ततॊ दिवि महान नादः परादुरासीत समन्ततः 11 ततॊ ऽहम अस्त्रं वायव्यं जामदग्न्ये परयुक्तवान पत्याजघ्ने च तद रामॊ गुह्यकास्त्रेण भारत 12 ततॊ ऽसत्रम अहम आग्नेयम अनुमन्त्र्य परयुक्तवान वारुणेनैव रामस तद वारयाम आस मे विभुः 13 एवम अस्त्राणि दिव्यानि रामस्याहम अवारयम रामश च मम तेजस्वी दिव्यास्त्रविद अरिंदमः 14 ततॊ मां सव्यतॊ राजन रामः कुर्वन दविजॊत्तमः उरस्य अविध्यत संक्रुद्धॊ जामदग्न्यॊ महाबलः 15 ततॊ ऽहं भरतश्रेष्ठ संन्यषीदं रथॊत्तमे अथ मां कश्मलाविष्टं सूतस तूर्णम अपावहत गॊरुतं भरतश्रेष्ठ रामबाणप्रपीडितम 16 ततॊ माम अपयातं वै भृशं विद्धम अचेतसम रामस्यानुचरा हृष्टाः सर्वे दृष्ट्वा परचुक्रुशुः अकृतव्रणप्रभृतयः काशिकन्या च भारत 17 ततस तु लब्धसंज्ञॊ ऽहं जञात्वा सूतम अथाब्रुवम याहि सूत यतॊ रामः सज्जॊ ऽहं गतवेदनः 18 ततॊ माम अवहत सूतॊ हयैः परमशॊभितैः नृत्यद्भिर इव कौरव्य मारुतप्रतिमैर गतौ 19 ततॊ ऽहं रामम आसाद्य बाणजालेन कौरव अवाकिरं सुसंरब्धः संरब्धं विजिगीषया 20 तान आपतत एवासौ रामॊ बाणान अजिह्मगान बाणैर एवाच्छिनत तूर्णम एकैकं तरिभिर आहवे 21 ततस ते मृदिताः सर्वे मम बाणाः सुसंशिताः रामबाणैर दविधा छिन्नाः शतशॊ ऽथ महाहवे 22 ततः पुनः शरं दीप्तं सुप्रभं कालसंमितम असृजं जामदग्न्याय रामायाहं जिघांसया 23 तेन तव अभिहतॊ गाढं बाणच्छेदवशं गतः मुमॊह सहसा रामॊ भूमौ च निपपात ह 24 ततॊ हाहाकृतं सर्वं रामे भूतलम आश्रिते जगद भारत संविग्नं यथार्कपतने ऽभवत 25 तत एनं सुसंविग्नाः सर्व एवाभिदुद्रुवुः तपॊधनास ते सहसा काश्या च भृगुनन्दनम 26 त एनं संपरिष्वज्य शनैर आश्वासयंस तदा पाणिभिर जलशीतैश च जयाशीर्भिश च कौरव 27 ततः स विह्वलॊ वाक्यं राम उत्थाय माब्रवीत तिष्ठ भीष्म हतॊ ऽसीति बाणं संधाय कार्मुके 28 स मुक्तॊ नयपतत तूर्णं पार्श्वे सव्ये महाहवे येनाहं भृशसंविग्नॊ वयाघूर्णित इव दरुमः 29 हत्वा हयांस ततॊ राजञ शीघ्रास्त्रेण महाहवे अवाकिरन मां विश्रब्धॊ बाणैस तैर लॊमवाहिभिः 30 ततॊ ऽहम अपि शीघ्रास्त्रं समरे ऽपरतिवारणम अवासृजं महाबाहॊ ते ऽनतराधिष्ठिताः शराः रामस्य मम चैवाशु वयॊमावृत्य समन्ततः 31 न सम सूर्यः परतपति शरजालसमावृतः मातरिश्वान्तरे तस्मिन मेघरुद्ध इवानदत 32 ततॊ वायॊः परकम्पाच च सूर्यस्य च मरीचिभिः अभितापात सवभावाच च पावकः समजायत 33 ते शराः सवसमुत्थेन परदीप्ताश चित्रभानुना भूमौ सर्वे तदा राजन भस्मभूताः परपेदिरे 34 तदा शतसहस्राणि परयुतान्य अर्बुदानि च अयुतान्य अथ खर्वाणि निखर्वाणि च कौरव रामः शराणां संक्रुद्धॊ मयि तूर्णम अपातयत 35 ततॊ ऽहं तान अपि रणे शरैर आशीविषॊपमैः संछिद्य भूमौ नृपते ऽपातयं पन्नगान इव 36 एवं तद अभवद युद्धं तदा भरतसत्तम संध्याकाले वयतीते तु वयपायात स च मे गुरुः |
1
bhīṣma uvāca ātmanas tu tataḥ sūto hayānāṃ ca viśāṃ pate mama cāpanayām āsa śalyān kuśalasaṃmataḥ 2 snātopavṛttais turagair labdhatoyair avihvalaiḥ prabhāta udite sūrye tato yuddham avartata 3 dṛṣṭvā māṃ tūrṇam āyāntaṃ daṃśitaṃ syandane sthitam akarod ratham atyarthaṃ rāmaḥ sajjaṃ pratāpavān 4 tato 'haṃ rāmam āyāntaṃ dṛṣṭvā samarakāṅkṣiṇam dhanuḥśreṣṭhaṃ samutsṛjya sahasāvataraṃ rathāt 5 abhivādya tathaivāhaṃ ratham āruhya bhārata yuyutsur jāmadagnyasya pramukhe vītabhīḥ sthitaḥ 6 tato māṃ śaravarṣeṇa mahatā samavākirat ahaṃ ca śaravarṣeṇa varṣantaṃ samavākiram 7 saṃkruddho jāmadagnyas tu punar eva patatriṇaḥ preṣayām āsa me rājan dīptāsyān uragān iva 8 tān ahaṃ niśitair bhallaiḥ śataśo 'tha sahasraśaḥ acchidaṃ sahasā rājann antarikṣe punaḥ punaḥ 9 tatas tv astrāṇi divyāni jāmadagnyaḥ pratāpavān mayi pracodayām āsa tāny ahaṃ pratyaṣedhayam 10 astrair eva mahābāho cikīrṣann adhikāṃ kriyām tato divi mahān nādaḥ prādurāsīt samantataḥ 11 tato 'ham astraṃ vāyavyaṃ jāmadagnye prayuktavān patyājaghne ca tad rāmo guhyakāstreṇa bhārata 12 tato 'stram aham āgneyam anumantrya prayuktavān vāruṇenaiva rāmas tad vārayām āsa me vibhuḥ 13 evam astrāṇi divyāni rāmasyāham avārayam rāmaś ca mama tejasvī divyāstravid ariṃdamaḥ 14 tato māṃ savyato rājan rāmaḥ kurvan dvijottamaḥ urasy avidhyat saṃkruddho jāmadagnyo mahābalaḥ 15 tato 'haṃ bharataśreṣṭha saṃnyaṣīdaṃ rathottame atha māṃ kaśmalāviṣṭaṃ sūtas tūrṇam apāvahat gorutaṃ bharataśreṣṭha rāmabāṇaprapīḍitam 16 tato mām apayātaṃ vai bhṛśaṃ viddham acetasam rāmasyānucarā hṛṣṭāḥ sarve dṛṣṭvā pracukruśuḥ akṛtavraṇaprabhṛtayaḥ kāśikanyā ca bhārata 17 tatas tu labdhasaṃjño 'haṃ jñātvā sūtam athābruvam yāhi sūta yato rāmaḥ sajjo 'haṃ gatavedanaḥ 18 tato mām avahat sūto hayaiḥ paramaśobhitaiḥ nṛtyadbhir iva kauravya mārutapratimair gatau 19 tato 'haṃ rāmam āsādya bāṇajālena kaurava avākiraṃ susaṃrabdhaḥ saṃrabdhaṃ vijigīṣayā 20 tān āpatata evāsau rāmo bāṇān ajihmagān bāṇair evācchinat tūrṇam ekaikaṃ tribhir āhave 21 tatas te mṛditāḥ sarve mama bāṇāḥ susaṃśitāḥ rāmabāṇair dvidhā chinnāḥ śataśo 'tha mahāhave 22 tataḥ punaḥ śaraṃ dīptaṃ suprabhaṃ kālasaṃmitam asṛjaṃ jāmadagnyāya rāmāyāhaṃ jighāṃsayā 23 tena tv abhihato gāḍhaṃ bāṇacchedavaśaṃ gataḥ mumoha sahasā rāmo bhūmau ca nipapāta ha 24 tato hāhākṛtaṃ sarvaṃ rāme bhūtalam āśrite jagad bhārata saṃvignaṃ yathārkapatane 'bhavat 25 tata enaṃ susaṃvignāḥ sarva evābhidudruvuḥ tapodhanās te sahasā kāśyā ca bhṛgunandanam 26 ta enaṃ saṃpariṣvajya śanair āśvāsayaṃs tadā pāṇibhir jalaśītaiś ca jayāśīrbhiś ca kaurava 27 tataḥ sa vihvalo vākyaṃ rāma utthāya mābravīt tiṣṭha bhīṣma hato 'sīti bāṇaṃ saṃdhāya kārmuke 28 sa mukto nyapatat tūrṇaṃ pārśve savye mahāhave yenāhaṃ bhṛśasaṃvigno vyāghūrṇita iva drumaḥ 29 hatvā hayāṃs tato rājañ śīghrāstreṇa mahāhave avākiran māṃ viśrabdho bāṇais tair lomavāhibhiḥ 30 tato 'ham api śīghrāstraṃ samare 'prativāraṇam avāsṛjaṃ mahābāho te 'ntarādhiṣṭhitāḥ śarāḥ rāmasya mama caivāśu vyomāvṛtya samantataḥ 31 na sma sūryaḥ pratapati śarajālasamāvṛtaḥ mātariśvāntare tasmin megharuddha ivānadat 32 tato vāyoḥ prakampāc ca sūryasya ca marīcibhiḥ abhitāpāt svabhāvāc ca pāvakaḥ samajāyata 33 te śarāḥ svasamutthena pradīptāś citrabhānunā bhūmau sarve tadā rājan bhasmabhūtāḥ prapedire 34 tadā śatasahasrāṇi prayutāny arbudāni ca ayutāny atha kharvāṇi nikharvāṇi ca kaurava rāmaḥ śarāṇāṃ saṃkruddho mayi tūrṇam apātayat 35 tato 'haṃ tān api raṇe śarair āśīviṣopamaiḥ saṃchidya bhūmau nṛpate 'pātayaṃ pannagān iva 36 evaṃ tad abhavad yuddhaṃ tadā bharatasattama saṃdhyākāle vyatīte tu vyapāyāt sa ca me guruḥ |
The Mahabharata in Sanskrit
Book 5
Chapter 182
|
1
भीष्म उवाच समागतस्य रामेण पुनर एवातिदारुणम अन्येद्युस तुमुलं युद्धं तदा भरतसत्तम 2 ततॊ दिव्यास्त्रविच छूरॊ दिव्यान्य अस्त्राण्य अनेकशः अयॊजयत धर्मात्मा दिवसे दिवसे विभुः 3 तान्य अहं तत्प्रतीघातैर अस्त्रैर अस्त्राणि भारत वयधमं तुमुले युद्धे पराणांस तयक्त्वा सुदुस्त्यजान 4 अस्त्रैर अस्त्रेषु बहुधा हतेष्व अथ च भार्गवः अक्रुध्यत महातेजास तयक्तप्राणः स संयुगे 5 ततः शक्तिं पराहिणॊद घॊररूपाम; अस्त्रै रुद्धॊ जामदग्न्यॊ महात्मा कालॊत्सृष्टां परज्वलिताम इवॊल्कां; संदीप्ताग्रां तेजसावृत्य लॊकान 6 ततॊ ऽहं ताम इषुभिर दीप्यमानैः; समायान्तीम अन्तकालार्कदीप्ताम छित्त्वा तरिधा पातयाम आस भूमौ; ततॊ ववौ पवनः पुण्यगन्धिः 7 तस्यां छिन्नायां करॊधदीप्तॊ ऽथ रामः; शक्तीर घॊराः पराहिणॊद दवादशान्याः तासां रूपं भारत नॊत शक्यं; तेजस्वित्वाल लाघवाच चैव वक्तुम 8 किं तव एवाहं विह्वलः संप्रदृश्य; दिग्भ्यः सर्वास ता महॊल्का इवाग्नेः नानारूपास तेजसॊग्रेण दीप्ता; यथादित्या दवादश लॊकसंक्षये 9 ततॊ जालं बाणमयं विवृत्य; संदृश्य भित्त्वा शरजालेन राजन दवादशेषून पराहिणवं रणे ऽहं; ततः शक्तीर वयधमं घॊररूपाः 10 ततॊ ऽपरा जामदग्न्यॊ महात्मा; शक्तीर घॊराः पराक्षिपद धेमदण्डाः विचित्रिताः काञ्चनपट्टनद्धा; यथा महॊक्ला जवलितास तथा ताः 11 ताश चाप्य उग्राश चर्मणा वारयित्वा; खड्गेनाजौ पातिता मे नरेन्द्र बाणैर दिव्यैर जामदग्न्यस्य संख्ये; दिव्यांश चाश्वान अभ्यवर्षं ससूतान 12 निर्मुक्तानां पन्नगानां सरूपा; दृष्ट्वा शक्तीर हेमचित्रा निकृत्ताः परादुश्चक्रे दिव्यम अस्त्रं महात्मा; करॊधाविष्टॊ हैहयेशप्रमाथी 13 ततः शरेण्यः शलभानाम इवॊग्राः; समापेतुर विशिखानां परदीप्ताः समाचिनॊच चापि भृशं शरीरं; हयान सूतं सरथं चैव मह्यम 14 रथः शरैर मे निचितः सर्वतॊ ऽभूत; तथा हयाः सारथिश चैव राजन युगं रथेषा च तथैव चक्रे; तथैवाक्षः शरकृत्तॊ ऽथ भग्नः 15 ततस तस्मिन बाणवर्षे वयतीते; शरौघेण परत्यवर्षं गुरुं तम स विक्षतॊ मार्गणैर बरह्मराशिर; देहाद अजस्रं मुमुचे भूरि रक्तम 16 यथा रामॊ बाणजालाभितप्तस; तथैवाहं सुभृशं गाढविद्धः ततॊ युद्धं वयरमच चापराह्णे; भानाव अस्तं परार्थयाने महीध्रम |
1
bhīṣma uvāca samāgatasya rāmeṇa punar evātidāruṇam anyedyus tumulaṃ yuddhaṃ tadā bharatasattama 2 tato divyāstravic chūro divyāny astrāṇy anekaśaḥ ayojayata dharmātmā divase divase vibhuḥ 3 tāny ahaṃ tatpratīghātair astrair astrāṇi bhārata vyadhamaṃ tumule yuddhe prāṇāṃs tyaktvā sudustyajān 4 astrair astreṣu bahudhā hateṣv atha ca bhārgavaḥ akrudhyata mahātejās tyaktaprāṇaḥ sa saṃyuge 5 tataḥ śaktiṃ prāhiṇod ghorarūpām; astrai ruddho jāmadagnyo mahātmā kālotsṛṣṭāṃ prajvalitām ivolkāṃ; saṃdīptāgrāṃ tejasāvṛtya lokān 6 tato 'haṃ tām iṣubhir dīpyamānaiḥ; samāyāntīm antakālārkadīptām chittvā tridhā pātayām āsa bhūmau; tato vavau pavanaḥ puṇyagandhiḥ 7 tasyāṃ chinnāyāṃ krodhadīpto 'tha rāmaḥ; śaktīr ghorāḥ prāhiṇod dvādaśānyāḥ tāsāṃ rūpaṃ bhārata nota śakyaṃ; tejasvitvāl lāghavāc caiva vaktum 8 kiṃ tv evāhaṃ vihvalaḥ saṃpradṛśya; digbhyaḥ sarvās tā maholkā ivāgneḥ nānārūpās tejasogreṇa dīptā; yathādityā dvādaśa lokasaṃkṣaye 9 tato jālaṃ bāṇamayaṃ vivṛtya; saṃdṛśya bhittvā śarajālena rājan dvādaśeṣūn prāhiṇavaṃ raṇe 'haṃ; tataḥ śaktīr vyadhamaṃ ghorarūpāḥ 10 tato 'parā jāmadagnyo mahātmā; śaktīr ghorāḥ prākṣipad dhemadaṇḍāḥ vicitritāḥ kāñcanapaṭṭanaddhā; yathā mahoklā jvalitās tathā tāḥ 11 tāś cāpy ugrāś carmaṇā vārayitvā; khaḍgenājau pātitā me narendra bāṇair divyair jāmadagnyasya saṃkhye; divyāṃś cāśvān abhyavarṣaṃ sasūtān 12 nirmuktānāṃ pannagānāṃ sarūpā; dṛṣṭvā śaktīr hemacitrā nikṛttāḥ prāduścakre divyam astraṃ mahātmā; krodhāviṣṭo haihayeśapramāthī 13 tataḥ śreṇyaḥ śalabhānām ivogrāḥ; samāpetur viśikhānāṃ pradīptāḥ samācinoc cāpi bhṛśaṃ śarīraṃ; hayān sūtaṃ sarathaṃ caiva mahyam 14 rathaḥ śarair me nicitaḥ sarvato 'bhūt; tathā hayāḥ sārathiś caiva rājan yugaṃ ratheṣā ca tathaiva cakre; tathaivākṣaḥ śarakṛtto 'tha bhagnaḥ 15 tatas tasmin bāṇavarṣe vyatīte; śaraugheṇa pratyavarṣaṃ guruṃ tam sa vikṣato mārgaṇair brahmarāśir; dehād ajasraṃ mumuce bhūri raktam 16 yathā rāmo bāṇajālābhitaptas; tathaivāhaṃ subhṛśaṃ gāḍhaviddhaḥ tato yuddhaṃ vyaramac cāparāhṇe; bhānāv astaṃ prārthayāne mahīdhram |
The Mahabharata in Sanskrit
Book 5
Chapter 183
|
1
भीष्म उवाच ततः परभाते राजेन्द्र सूर्ये विमल उद्गते भार्गवस्य मया सार्धं पुनर युद्धम अवर्तत 2 ततॊ भरान्ते रथे तिष्ठन रामः परहरतां वरः ववर्ष शरवर्षाणि मयि शक्र इवाचले 3 तेन सूतॊ मम सुहृच छरवर्षेण ताडितः निपपात रथॊपस्थे मनॊ मम विषादयन 4 ततः सूतः स मे ऽतयर्थं कश्मलं पराविशन महत पृथिव्यां च शराघातान निपपात मुमॊह च 5 ततः सूतॊ ऽजहात पराणान रामबाणप्रपीडितः मुहूर्ताद इव राजेन्द्र मां च भीर आविशत तदा 6 ततः सूते हते राजन कषिपतस तस्य मे शरान परमत्तमनसॊ रामः पराहिणॊन मृत्युसंमितान 7 ततः सूतव्यसनिनं विप्लुतं मां स भार्गवः शरेणाभ्यहनद गाढं विकृष्य बलवद धनुः 8 स मे जत्र्वन्तरे राजन निपत्य रुधिराशनः मयैव सह राजेन्द्र जगाम वसुधातलम 9 मत्वा तु निहतं रामस ततॊ मां भरतर्षभ मेघवद वयनदच चॊच्चैर जहृषे च पुनः पुनः 10 तथा तु पतिते राजन मयि रामॊ मुदा युतः उदक्रॊशन महानादं सह तैर अनुयायिभिः 11 मम तत्राभवन ये तु कौरवाः पार्श्वतः सथिताः आगता ये च युद्धं तज जनास तत्र दिदृक्षवः आर्तिं परमिकां जग्मुस ते तदा मयि पातिते 12 ततॊ ऽपश्यं पातितॊ राजसिंह; दविजान अष्टौ सूर्यहुताशनाभान ते मां समन्तात परिवार्य तस्थुः; सवबाहुभिः परिगृह्याजिमध्ये 13 रक्ष्यमाणश च तैर विप्रैर नाहं भूमिम उपास्पृशम अन्तरिक्षे सथितॊ हय अस्मि तैर विप्रैर बान्धवैर इव सवपन्न इवान्तरिक्षे च जलबिन्दुभिर उक्षितः 14 ततस ते बराह्मणा राजन्न अब्रुवन परिगृह्य माम मा भैर इति समं सर्वे सवस्ति ते ऽसत्व इति चासकृत 15 ततस तेषाम अहं वाग्भिस तर्पितः सहसॊत्थितः मातरं सरितां शरेष्ठाम अपश्यं रथम आस्थिताम 16 हयाश च मे संगृहीतास तया वै; महानद्या संयति कौरवेन्द्र पादौ जनन्याः परतिपूज्य चाहं; तथार्ष्टिषेणं रथम अभ्यरॊहम 17 ररक्ष सा मम रथं हयांश चॊपस्कराणि च ताम अहं पराञ्जलिर भूत्वा पुनर एव वयसर्जयम 18 ततॊ ऽहं सवयम उद्यम्य हयांस तान वातरंहसः अयुध्यं जामदग्न्येन निवृत्ते ऽहनि भारत 19 ततॊ ऽहं भरतश्रेष्ठ वेगवन्तं महाबलम अमुञ्चं समरे बाणं रामाय हृदयच्छिदम 20 ततॊ जगाम वसुधां बाणवेगप्रपीडितः जानुभ्यां धनुर उत्सृज्य रामॊ मॊहवशं गतः 21 ततस तस्मिन निपतिते रामे भूरिसहस्रदे आवव्रुर जलदा वयॊम कषरन्तॊ रुधिरं बहु 22 उल्काश च शतशः पेतुः सनिर्घाताः सकम्पनाः अर्कं च सहसा दीप्तं सवर्भानुर अभिसंवृणॊत 23 ववुश च वाताः परुषाश चलिता च वसुंधरा गृध्रा बडाश च कङ्काश च परिपेतुर मुदा युताः 24 दीप्तायां दिशि गॊमायुर दारुणं मुहुर उन्नदत अनाहता दुन्दुभयॊ विनेदुर भृशनिस्वनाः 25 एतद औत्पातिकं घॊरम आसीद भरतसत्तम विसंज्ञकल्पे धरणीं गते रामे महात्मनि 26 ततॊ रविर मन्दमरीचिमण्डलॊ; जगामास्तं पांसुपुञ्जावगाढः निशा वयगाहत सुखशीतमारुता; ततॊ युद्धं परत्यवहारयावः 27 एवं राजन अवहारॊ बभूव; ततः पुनर विमले ऽभूत सुघॊरम काल्यं काल्यं विंशतिं वै दिनानि; तथैव चान्यानि दिनानि तरीणि |
1
bhīṣma uvāca tataḥ prabhāte rājendra sūrye vimala udgate bhārgavasya mayā sārdhaṃ punar yuddham avartata 2 tato bhrānte rathe tiṣṭhan rāmaḥ praharatāṃ varaḥ vavarṣa śaravarṣāṇi mayi śakra ivācale 3 tena sūto mama suhṛc charavarṣeṇa tāḍitaḥ nipapāta rathopasthe mano mama viṣādayan 4 tataḥ sūtaḥ sa me 'tyarthaṃ kaśmalaṃ prāviśan mahat pṛthivyāṃ ca śarāghātān nipapāta mumoha ca 5 tataḥ sūto 'jahāt prāṇān rāmabāṇaprapīḍitaḥ muhūrtād iva rājendra māṃ ca bhīr āviśat tadā 6 tataḥ sūte hate rājan kṣipatas tasya me śarān pramattamanaso rāmaḥ prāhiṇon mṛtyusaṃmitān 7 tataḥ sūtavyasaninaṃ viplutaṃ māṃ sa bhārgavaḥ śareṇābhyahanad gāḍhaṃ vikṛṣya balavad dhanuḥ 8 sa me jatrvantare rājan nipatya rudhirāśanaḥ mayaiva saha rājendra jagāma vasudhātalam 9 matvā tu nihataṃ rāmas tato māṃ bharatarṣabha meghavad vyanadac coccair jahṛṣe ca punaḥ punaḥ 10 tathā tu patite rājan mayi rāmo mudā yutaḥ udakrośan mahānādaṃ saha tair anuyāyibhiḥ 11 mama tatrābhavan ye tu kauravāḥ pārśvataḥ sthitāḥ āgatā ye ca yuddhaṃ taj janās tatra didṛkṣavaḥ ārtiṃ paramikāṃ jagmus te tadā mayi pātite 12 tato 'paśyaṃ pātito rājasiṃha; dvijān aṣṭau sūryahutāśanābhān te māṃ samantāt parivārya tasthuḥ; svabāhubhiḥ parigṛhyājimadhye 13 rakṣyamāṇaś ca tair viprair nāhaṃ bhūmim upāspṛśam antarikṣe sthito hy asmi tair viprair bāndhavair iva svapann ivāntarikṣe ca jalabindubhir ukṣitaḥ 14 tatas te brāhmaṇā rājann abruvan parigṛhya mām mā bhair iti samaṃ sarve svasti te 'stv iti cāsakṛt 15 tatas teṣām ahaṃ vāgbhis tarpitaḥ sahasotthitaḥ mātaraṃ saritāṃ śreṣṭhām apaśyaṃ ratham āsthitām 16 hayāś ca me saṃgṛhītās tayā vai; mahānadyā saṃyati kauravendra pādau jananyāḥ pratipūjya cāhaṃ; tathārṣṭiṣeṇaṃ ratham abhyaroham 17 rarakṣa sā mama rathaṃ hayāṃś copaskarāṇi ca tām ahaṃ prāñjalir bhūtvā punar eva vyasarjayam 18 tato 'haṃ svayam udyamya hayāṃs tān vātaraṃhasaḥ ayudhyaṃ jāmadagnyena nivṛtte 'hani bhārata 19 tato 'haṃ bharataśreṣṭha vegavantaṃ mahābalam amuñcaṃ samare bāṇaṃ rāmāya hṛdayacchidam 20 tato jagāma vasudhāṃ bāṇavegaprapīḍitaḥ jānubhyāṃ dhanur utsṛjya rāmo mohavaśaṃ gataḥ 21 tatas tasmin nipatite rāme bhūrisahasrade āvavrur jaladā vyoma kṣaranto rudhiraṃ bahu 22 ulkāś ca śataśaḥ petuḥ sanirghātāḥ sakampanāḥ arkaṃ ca sahasā dīptaṃ svarbhānur abhisaṃvṛṇot 23 vavuś ca vātāḥ paruṣāś calitā ca vasuṃdharā gṛdhrā baḍāś ca kaṅkāś ca paripetur mudā yutāḥ 24 dīptāyāṃ diśi gomāyur dāruṇaṃ muhur unnadat anāhatā dundubhayo vinedur bhṛśanisvanāḥ 25 etad autpātikaṃ ghoram āsīd bharatasattama visaṃjñakalpe dharaṇīṃ gate rāme mahātmani 26 tato ravir mandamarīcimaṇḍalo; jagāmāstaṃ pāṃsupuñjāvagāḍhaḥ niśā vyagāhat sukhaśītamārutā; tato yuddhaṃ pratyavahārayāvaḥ 27 evaṃ rājan avahāro babhūva; tataḥ punar vimale 'bhūt sughoram kālyaṃ kālyaṃ viṃśatiṃ vai dināni; tathaiva cānyāni dināni trīṇi |
The Mahabharata in Sanskrit
Book 5
Chapter 184
|
1
भीष्म उवाच ततॊ ऽहं निशि राजेन्द्र परणम्य शिरसा तदा बरह्मणानां पितॄणां च देवतानां च सर्वशः 2 नक्तंचराणां भूतानां रजन्याश च विशां पते शयनं पराप्य रहिते मनसा समचिन्तयम 3 जामदग्न्येन मे युद्धम इदं परमदारुणम अहानि सुबहून्य अद्य वर्तते सुमहात्ययम 4 न च रामं महावीर्यं शक्नॊमि रणमूर्धनि विजेतुं समरे विप्रं जामदग्न्यं महाबलम 5 यदि शक्यॊ मया जेतुं जामदग्न्यः परतापवान दैवतानि परसन्नानि दर्शयन्तु निशां मम 6 ततॊ ऽहं निशि राजेन्द्र परसुप्तः शरविक्षतः दक्षिणेनैव पार्श्वेन परभातसमये इव 7 ततॊ ऽहं विप्रमुख्यैस तैर यैर अस्मि पतितॊ रथात उत्थापितॊ धृतश चैव मा भैर इति च सान्त्वितः 8 त एव मां महाराज सवप्नदर्शनम एत्य वै परिवार्याब्रुवन वाक्यं तन निबॊध कुरूद्वह 9 उत्तिष्ठ मा भैर गाङ्गेय भयं ते नास्ति किं चन रक्षामहे नरव्याघ्र सवशरीरं हि नॊ भवान 10 न तवां रामॊ रणे जेता जामदग्न्यः कथं चन तवम एव समरे रामं विजेता भरतर्षभ 11 इदम अत्रं सुदयितं परत्यभिज्ञास्यते भवान विदितं हि तवाप्य एतत पूर्वस्मिन देहधारणे 12 पराजापत्यं विश्वकृतं परस्वापं नाम भारत न हीदं वेद रामॊ ऽपि पृथिव्यां वा पुमान कव चित 13 तत समरस्व महाबाहॊ भृशं संयॊजयस्व च न च रामः कषयं गन्ता तेनास्त्रेण नराधिप 14 एनसा च न यॊगं तवं पराप्स्यसे जातु मानद सवप्स्यते जामदग्न्यॊ ऽसौ तवद्बाणबलपीडितः 15 ततॊ जित्वा तवम एवैनं पुनर उत्थापयिष्यसि अस्त्रेण दयितेनाजौ भीष्म संभॊधनेन वै 16 एवं कुरुष्व कौरव्य परभाते रथम आस्थितः परसुप्तं वा मृतं वापि तुल्यं मन्यामहे वयम 17 न च रामेण मर्तव्यं कदा चिद अपि पार्थिव ततः समुत्पन्नम इदं परस्वापं युज्यताम इति 18 इत्य उक्त्वान्तर्हिता राजन सर्व एव दविजॊत्तमाः अष्टौ सदृशरूपास ते सर्वे भास्वरमूर्तयः |
1
bhīṣma uvāca tato 'haṃ niśi rājendra praṇamya śirasā tadā brahmaṇānāṃ pitṝṇāṃ ca devatānāṃ ca sarvaśaḥ 2 naktaṃcarāṇāṃ bhūtānāṃ rajanyāś ca viśāṃ pate śayanaṃ prāpya rahite manasā samacintayam 3 jāmadagnyena me yuddham idaṃ paramadāruṇam ahāni subahūny adya vartate sumahātyayam 4 na ca rāmaṃ mahāvīryaṃ śaknomi raṇamūrdhani vijetuṃ samare vipraṃ jāmadagnyaṃ mahābalam 5 yadi śakyo mayā jetuṃ jāmadagnyaḥ pratāpavān daivatāni prasannāni darśayantu niśāṃ mama 6 tato 'haṃ niśi rājendra prasuptaḥ śaravikṣataḥ dakṣiṇenaiva pārśvena prabhātasamaye iva 7 tato 'haṃ vipramukhyais tair yair asmi patito rathāt utthāpito dhṛtaś caiva mā bhair iti ca sāntvitaḥ 8 ta eva māṃ mahārāja svapnadarśanam etya vai parivāryābruvan vākyaṃ tan nibodha kurūdvaha 9 uttiṣṭha mā bhair gāṅgeya bhayaṃ te nāsti kiṃ cana rakṣāmahe naravyāghra svaśarīraṃ hi no bhavān 10 na tvāṃ rāmo raṇe jetā jāmadagnyaḥ kathaṃ cana tvam eva samare rāmaṃ vijetā bharatarṣabha 11 idam atraṃ sudayitaṃ pratyabhijñāsyate bhavān viditaṃ hi tavāpy etat pūrvasmin dehadhāraṇe 12 prājāpatyaṃ viśvakṛtaṃ prasvāpaṃ nāma bhārata na hīdaṃ veda rāmo 'pi pṛthivyāṃ vā pumān kva cit 13 tat smarasva mahābāho bhṛśaṃ saṃyojayasva ca na ca rāmaḥ kṣayaṃ gantā tenāstreṇa narādhipa 14 enasā ca na yogaṃ tvaṃ prāpsyase jātu mānada svapsyate jāmadagnyo 'sau tvadbāṇabalapīḍitaḥ 15 tato jitvā tvam evainaṃ punar utthāpayiṣyasi astreṇa dayitenājau bhīṣma saṃbhodhanena vai 16 evaṃ kuruṣva kauravya prabhāte ratham āsthitaḥ prasuptaṃ vā mṛtaṃ vāpi tulyaṃ manyāmahe vayam 17 na ca rāmeṇa martavyaṃ kadā cid api pārthiva tataḥ samutpannam idaṃ prasvāpaṃ yujyatām iti 18 ity uktvāntarhitā rājan sarva eva dvijottamāḥ aṣṭau sadṛśarūpās te sarve bhāsvaramūrtayaḥ |
The Mahabharata in Sanskrit
Book 5
Chapter 185
|
1
भीष्म उवाच ततॊ रात्र्यां वयतीतायां परतिबुद्धॊ ऽसमि भारत तं च संचिन्त्य वै सवप्नम अवापं हर्षम उत्तमम 2 ततः समभवद युद्धं मम तस्य च भारत तुमुलं सर्वभूतानां लॊमहर्षणम अद्भुतम 3 ततॊ बाणमयं वर्षं ववर्ष मयि भार्गवः नयवारयम अहं तं च शरजालेन भारत 4 ततः परमसंक्रुद्धः पुनर एव महातपाः हयस्तनेनैव कॊपेन शक्तिं वै पराहिणॊन मयि 5 इन्द्राशनिसमस्पर्शां यमदण्डॊपमप्रभाम जवलन्तीम अग्निवत संख्ये लेलिहानां समन्ततः 6 ततॊ भरतशार्दूल धिष्ण्यम आकाशगं यथा सा माम अभ्यहनत तूर्णम अंसदेशे च भारत 7 अथासृङ मे ऽसरवद घॊरं गिरेर गैरिकधातुवत रामेण सुमहाबाहॊ कषतस्य कषतजेक्षण 8 ततॊ ऽहं जामदग्न्याय भृशं करॊधसमन्वितः परेषयं मृत्युसंकाशं बाणं सर्पविषॊपमम 9 स तेनाभिहतॊ वीरॊ ललाटे दविजसत्तमः अशॊभत महाराज सशृङ्ग इव पर्वतः 10 स संरब्धः समावृत्य बाणं कालानकॊपमम संदधे बलवत कृष्य घॊरं शत्रुनिबर्हणम 11 स वक्षसि पपातॊग्रः शरॊ वयाल इव शवसन महीं राजंस ततश चाहम अगच्छं रुधिराविलः 12 अवाप्य तु पुनः संज्ञां जामदग्न्याय धीमते पराहिण्वं विमलां शक्तिं जवलन्तीम अशनीम इव 13 सा तस्य दविजमुख्यस्य निपपात भुजान्तरे विह्वलश चाभवद राजन वेपथुश चैनम आविशत 14 तत एनं परिष्वज्य सखा विप्रॊ महातपाः अकृतव्रणः शुभैर वाक्यैर आश्वासयद अनेकधा 15 समाश्वस्तस तदा रामः करॊधामर्षसमन्वितः परादुश्चक्रे तदा बराह्मं परमास्त्रं महाव्रतः 16 ततस तत परतिघातार्थं बराहम एवास्त्रम उत्तमम मया परयुक्तं जज्वाल युगान्तम इव दर्शयत 17 तयॊर बरह्मास्त्रयॊर आसीद अन्तरा वै समागमः असंप्राप्यैव रामं च मां च भारतसत्तम 18 ततॊ वयॊम्नि परादुरभूत तेज एव हि केवलम भूतानि चैव सर्वाणि जग्मुर आर्तिं विशां पते 19 ऋषयश च सगन्धर्वा देवताश चैव भारत संतापं परमं जग्मुर अस्त्रतेजॊऽभिपीडिताः 20 ततश चचाल पृथिवी सपर्वतवनद्रुमा संतप्तानि च भूतानि विषादं जग्मुर उत्तमम 21 परजज्वाल नभॊ राजन धूमायन्ते दिशॊ दश न सथातुम अन्तरिक्षे च शेकुर आकाशगास तदा 22 ततॊ हाहाकृते लॊके सदेवासुरराक्षसे इदम अन्तरम इत्य एव यॊक्तुकामॊ ऽसमि भारत 23 परस्वापम अस्त्रं दयितं वचनाद बरह्मवादिनाम चिन्तितं च तद अस्त्रं मे मनसि परत्यभात तदा |
1
bhīṣma uvāca tato rātryāṃ vyatītāyāṃ pratibuddho 'smi bhārata taṃ ca saṃcintya vai svapnam avāpaṃ harṣam uttamam 2 tataḥ samabhavad yuddhaṃ mama tasya ca bhārata tumulaṃ sarvabhūtānāṃ lomaharṣaṇam adbhutam 3 tato bāṇamayaṃ varṣaṃ vavarṣa mayi bhārgavaḥ nyavārayam ahaṃ taṃ ca śarajālena bhārata 4 tataḥ paramasaṃkruddhaḥ punar eva mahātapāḥ hyastanenaiva kopena śaktiṃ vai prāhiṇon mayi 5 indrāśanisamasparśāṃ yamadaṇḍopamaprabhām jvalantīm agnivat saṃkhye lelihānāṃ samantataḥ 6 tato bharataśārdūla dhiṣṇyam ākāśagaṃ yathā sā mām abhyahanat tūrṇam aṃsadeśe ca bhārata 7 athāsṛṅ me 'sravad ghoraṃ girer gairikadhātuvat rāmeṇa sumahābāho kṣatasya kṣatajekṣaṇa 8 tato 'haṃ jāmadagnyāya bhṛśaṃ krodhasamanvitaḥ preṣayaṃ mṛtyusaṃkāśaṃ bāṇaṃ sarpaviṣopamam 9 sa tenābhihato vīro lalāṭe dvijasattamaḥ aśobhata mahārāja saśṛṅga iva parvataḥ 10 sa saṃrabdhaḥ samāvṛtya bāṇaṃ kālānakopamam saṃdadhe balavat kṛṣya ghoraṃ śatrunibarhaṇam 11 sa vakṣasi papātograḥ śaro vyāla iva śvasan mahīṃ rājaṃs tataś cāham agacchaṃ rudhirāvilaḥ 12 avāpya tu punaḥ saṃjñāṃ jāmadagnyāya dhīmate prāhiṇvaṃ vimalāṃ śaktiṃ jvalantīm aśanīm iva 13 sā tasya dvijamukhyasya nipapāta bhujāntare vihvalaś cābhavad rājan vepathuś cainam āviśat 14 tata enaṃ pariṣvajya sakhā vipro mahātapāḥ akṛtavraṇaḥ śubhair vākyair āśvāsayad anekadhā 15 samāśvastas tadā rāmaḥ krodhāmarṣasamanvitaḥ prāduścakre tadā brāhmaṃ paramāstraṃ mahāvrataḥ 16 tatas tat pratighātārthaṃ brāham evāstram uttamam mayā prayuktaṃ jajvāla yugāntam iva darśayat 17 tayor brahmāstrayor āsīd antarā vai samāgamaḥ asaṃprāpyaiva rāmaṃ ca māṃ ca bhāratasattama 18 tato vyomni prādurabhūt teja eva hi kevalam bhūtāni caiva sarvāṇi jagmur ārtiṃ viśāṃ pate 19 ṛṣayaś ca sagandharvā devatāś caiva bhārata saṃtāpaṃ paramaṃ jagmur astratejo'bhipīḍitāḥ 20 tataś cacāla pṛthivī saparvatavanadrumā saṃtaptāni ca bhūtāni viṣādaṃ jagmur uttamam 21 prajajvāla nabho rājan dhūmāyante diśo daśa na sthātum antarikṣe ca śekur ākāśagās tadā 22 tato hāhākṛte loke sadevāsurarākṣase idam antaram ity eva yoktukāmo 'smi bhārata 23 prasvāpam astraṃ dayitaṃ vacanād brahmavādinām cintitaṃ ca tad astraṃ me manasi pratyabhāt tadā |
The Mahabharata in Sanskrit
Book 5
Chapter 186
|
1
भीष्म उवाच ततॊ हलहलाशब्दॊ दिवि राजन महान अभूत परस्वापं भीष्म मा सराक्षीर इति कौरवनन्दन 2 अयुञ्जम एव चैवाहं तद अस्त्रं भृगुनन्दने परस्वापं मां परयुञ्जानं नारदॊ वाक्यम अब्रवीत 3 एते वियति कौरव्य दिवि देवगणाः सथिताः ते तवां निवारयन्त्य अद्य परस्वापं मा परयॊजय 4 रामस तपस्वी बरह्मण्यॊ बराह्मणश च गुरुश च ते तस्यावमानं कौरव्य मा सम कार्षीः कथं चन 5 ततॊ ऽपश्यं दिविष्ठान वै तान अष्टौ बरह्मवादिनः ते मां समयन्तॊ राजेन्द्र शनकैर इदम अब्रुवन 6 यथाह भरतश्रेष्ठ नारदस तत तथा कुरु एतद धि परमं शरेयॊ लॊकानां भरतर्षभ 7 ततश च परतिसंहृत्य तद अस्त्रं सवापनं मृधे बरह्मास्त्रं दीपयां चक्रे तस्मिन युधि यथाविधि 8 ततॊ रामॊ रुषितॊ राजपुत्र; दृष्ट्वा तद अस्त्रं विनिवर्तितं वै जितॊ ऽसमि भीष्मेण सुमन्दबुद्धिर; इत्य एव वाक्यं सहसा वयमुञ्चत 9 ततॊ ऽपश्यत पितरं जामदग्न्यः; पितुस तथा पितरं तस्य चान्यम त एवैनं संपरिवार्य तस्थुर; ऊचुश चैनं सान्त्वपूर्वं तदानीम 10 मा समैवं साहसं वत्स पुनः कार्षीः कथं चन भीष्मेण संयुगं गन्तुं कषत्रियेण विशेषतः 11 कषत्रियस्य तु धर्मॊ ऽयं यद युद्धं भृगुनन्दन सवाध्यायॊ वरतचर्या च बराह्मणानां परं धनम 12 इदं निमित्ते कस्मिंश चिद अस्माभिर उपमन्त्रितम शस्त्रधारणम अत्युग्रं तच च कार्यं कृतं तवया 13 वत्स पर्याप्तम एतावद भीष्मेण सह संयुगे विमर्दस ते महाबाहॊ वयपयाहि रणाद इतः 14 पर्याप्तम एतद भद्रं ते तव कार्मुकधारणम विसर्जयैतद दुर्धर्ष तपस तप्यस्व भार्गव 15 एष भीष्मः शांतनवॊ देवैः सर्वैर निवारितः निवर्तस्व रणाद अस्माद इति चैव परचॊदितः 16 रामेण सह मा यॊत्सीर गुरुणेति पुनः पुनः न हि रामॊ रणे जेतुं तवया नयाय्यः कुरूद्वह मानं कुरुष्व गाङ्गेय बराह्मणस्य रणाजिरे 17 वयं तु गुरवस तुभ्यं ततस तवां वारयामहे भीष्मॊ वसूनाम अन्यतमॊ दिष्ट्या जीवसि पुत्रक 18 गाङ्गेयः शंतनॊः पुत्रॊ वसुर एष महायशाः कथं तवया रणे जेतुं राम शक्यॊ निवर्त वै 19 अर्जुनः पाण्डवश्रेष्ठः पुरंदरसुतॊ बली नरः परजापतिर वीरः पूर्वदेवः सनातनः 20 सव्यसाचीति विख्यातस तरिषु लॊकेषु वीर्यवान भीष्ममृत्युर यथाकालं विहितॊ वै सवयम्भुवा 21 एवम उक्तः स पितृभिः पितॄन रामॊ ऽबरवीद इदम नाहं युधि निवर्तेयम इति मे वरतम आहितम 22 न निवर्तितपूर्वं च कदा चिद रणमूधनि निवर्त्यताम आपगेयः कामयुद्धात पितामहाः न तव अहं विनिवर्तिष्ये युद्धाद अस्मात कथं चन 23 ततस ते मुनयॊ राजन्न ऋचीकप्रमुखास तदा नारदेनैव सहिताः समागम्येदम अब्रुवन 24 निवर्तस्व रणात तात मानयस्व दविजॊत्तमान नेत्य अवॊचम अहं तांश च कषत्रधर्मव्यपेक्षया 25 मम वरतम इदं लॊके नाहं युद्धात कथं चन विमुखॊ विनिवर्तेयं पृष्ठतॊ ऽभयाहतः शरैः 26 नाहं लॊभान न कार्पण्यान न भयान नार्थकारणात तयजेयं शाश्वतं धर्मम इति मे निश्चिता मतिः 27 ततस ते मुनयः सर्वे नारदप्रमुखा नृप भागीरथी च मे माता रणमध्यं परपेदिरे 28 तथैवात्तशरॊ धन्वी तथैव दृढनिश्चयः सथितॊ ऽहम आहवे यॊद्धुं ततस ते रामम अब्रुवन समेत्य सहिता भूयः समरे भृगुनन्दनम 29 नावनीतं हि हृदयं विप्राणां शाम्य भार्गव राम राम निवर्तस्व युद्धाद अस्माद दविजॊत्तम अवध्यॊ हि तवया भीष्मस तवं च भीष्मस्य भार्गव 30 एवं बरुवन्तस ते सर्वे परतिरुध्य रणाजिरम नयासयां चक्रिरे शस्त्रं पितरॊ भृगुनन्दनम 31 ततॊ ऽहं पुनर एवाथ तान अष्टौ बरह्मवादिनः अद्राक्षं दीप्यमानान वै गरहान अष्टाव इवॊदितान 32 ते मां सप्रणयं वाक्यम अब्रुवन समरे सथितम परैहि रामं महाबाहॊ गुरुं लॊकहितं कुरु 33 दृष्ट्वा निवर्तितं रामं सुहृद्वाक्येन तेन वै लॊकानां च हितं कुर्वन्न अहम अप्य आददे वचः 34 ततॊ ऽहं रामम आसाद्य ववन्दे भृशविक्षतः रामश चाभ्युत्स्मयन परेम्णा माम उवाच महातपाः 35 तवत्समॊ नास्ति लॊके ऽसमिन कषत्रियः पृथिवीचरः गम्यतां भीष्म युद्धे ऽसमिंस तॊषितॊ ऽहं भृशं तवया 36 मम चैव समक्षं तां कन्याम आहूय भार्गवः उवाच दीनया वाचा मध्ये तेषां तपस्विनाम |
1
bhīṣma uvāca tato halahalāśabdo divi rājan mahān abhūt prasvāpaṃ bhīṣma mā srākṣīr iti kauravanandana 2 ayuñjam eva caivāhaṃ tad astraṃ bhṛgunandane prasvāpaṃ māṃ prayuñjānaṃ nārado vākyam abravīt 3 ete viyati kauravya divi devagaṇāḥ sthitāḥ te tvāṃ nivārayanty adya prasvāpaṃ mā prayojaya 4 rāmas tapasvī brahmaṇyo brāhmaṇaś ca guruś ca te tasyāvamānaṃ kauravya mā sma kārṣīḥ kathaṃ cana 5 tato 'paśyaṃ diviṣṭhān vai tān aṣṭau brahmavādinaḥ te māṃ smayanto rājendra śanakair idam abruvan 6 yathāha bharataśreṣṭha nāradas tat tathā kuru etad dhi paramaṃ śreyo lokānāṃ bharatarṣabha 7 tataś ca pratisaṃhṛtya tad astraṃ svāpanaṃ mṛdhe brahmāstraṃ dīpayāṃ cakre tasmin yudhi yathāvidhi 8 tato rāmo ruṣito rājaputra; dṛṣṭvā tad astraṃ vinivartitaṃ vai jito 'smi bhīṣmeṇa sumandabuddhir; ity eva vākyaṃ sahasā vyamuñcat 9 tato 'paśyat pitaraṃ jāmadagnyaḥ; pitus tathā pitaraṃ tasya cānyam ta evainaṃ saṃparivārya tasthur; ūcuś cainaṃ sāntvapūrvaṃ tadānīm 10 mā smaivaṃ sāhasaṃ vatsa punaḥ kārṣīḥ kathaṃ cana bhīṣmeṇa saṃyugaṃ gantuṃ kṣatriyeṇa viśeṣataḥ 11 kṣatriyasya tu dharmo 'yaṃ yad yuddhaṃ bhṛgunandana svādhyāyo vratacaryā ca brāhmaṇānāṃ paraṃ dhanam 12 idaṃ nimitte kasmiṃś cid asmābhir upamantritam śastradhāraṇam atyugraṃ tac ca kāryaṃ kṛtaṃ tvayā 13 vatsa paryāptam etāvad bhīṣmeṇa saha saṃyuge vimardas te mahābāho vyapayāhi raṇād itaḥ 14 paryāptam etad bhadraṃ te tava kārmukadhāraṇam visarjayaitad durdharṣa tapas tapyasva bhārgava 15 eṣa bhīṣmaḥ śāṃtanavo devaiḥ sarvair nivāritaḥ nivartasva raṇād asmād iti caiva pracoditaḥ 16 rāmeṇa saha mā yotsīr guruṇeti punaḥ punaḥ na hi rāmo raṇe jetuṃ tvayā nyāyyaḥ kurūdvaha mānaṃ kuruṣva gāṅgeya brāhmaṇasya raṇājire 17 vayaṃ tu guravas tubhyaṃ tatas tvāṃ vārayāmahe bhīṣmo vasūnām anyatamo diṣṭyā jīvasi putraka 18 gāṅgeyaḥ śaṃtanoḥ putro vasur eṣa mahāyaśāḥ kathaṃ tvayā raṇe jetuṃ rāma śakyo nivarta vai 19 arjunaḥ pāṇḍavaśreṣṭhaḥ puraṃdarasuto balī naraḥ prajāpatir vīraḥ pūrvadevaḥ sanātanaḥ 20 savyasācīti vikhyātas triṣu lokeṣu vīryavān bhīṣmamṛtyur yathākālaṃ vihito vai svayambhuvā 21 evam uktaḥ sa pitṛbhiḥ pitṝn rāmo 'bravīd idam nāhaṃ yudhi nivarteyam iti me vratam āhitam 22 na nivartitapūrvaṃ ca kadā cid raṇamūdhani nivartyatām āpageyaḥ kāmayuddhāt pitāmahāḥ na tv ahaṃ vinivartiṣye yuddhād asmāt kathaṃ cana 23 tatas te munayo rājann ṛcīkapramukhās tadā nāradenaiva sahitāḥ samāgamyedam abruvan 24 nivartasva raṇāt tāta mānayasva dvijottamān nety avocam ahaṃ tāṃś ca kṣatradharmavyapekṣayā 25 mama vratam idaṃ loke nāhaṃ yuddhāt kathaṃ cana vimukho vinivarteyaṃ pṛṣṭhato 'bhyāhataḥ śaraiḥ 26 nāhaṃ lobhān na kārpaṇyān na bhayān nārthakāraṇāt tyajeyaṃ śāśvataṃ dharmam iti me niścitā matiḥ 27 tatas te munayaḥ sarve nāradapramukhā nṛpa bhāgīrathī ca me mātā raṇamadhyaṃ prapedire 28 tathaivāttaśaro dhanvī tathaiva dṛḍhaniścayaḥ sthito 'ham āhave yoddhuṃ tatas te rāmam abruvan sametya sahitā bhūyaḥ samare bhṛgunandanam 29 nāvanītaṃ hi hṛdayaṃ viprāṇāṃ śāmya bhārgava rāma rāma nivartasva yuddhād asmād dvijottama avadhyo hi tvayā bhīṣmas tvaṃ ca bhīṣmasya bhārgava 30 evaṃ bruvantas te sarve pratirudhya raṇājiram nyāsayāṃ cakrire śastraṃ pitaro bhṛgunandanam 31 tato 'haṃ punar evātha tān aṣṭau brahmavādinaḥ adrākṣaṃ dīpyamānān vai grahān aṣṭāv ivoditān 32 te māṃ sapraṇayaṃ vākyam abruvan samare sthitam praihi rāmaṃ mahābāho guruṃ lokahitaṃ kuru 33 dṛṣṭvā nivartitaṃ rāmaṃ suhṛdvākyena tena vai lokānāṃ ca hitaṃ kurvann aham apy ādade vacaḥ 34 tato 'haṃ rāmam āsādya vavande bhṛśavikṣataḥ rāmaś cābhyutsmayan premṇā mām uvāca mahātapāḥ 35 tvatsamo nāsti loke 'smin kṣatriyaḥ pṛthivīcaraḥ gamyatāṃ bhīṣma yuddhe 'smiṃs toṣito 'haṃ bhṛśaṃ tvayā 36 mama caiva samakṣaṃ tāṃ kanyām āhūya bhārgavaḥ uvāca dīnayā vācā madhye teṣāṃ tapasvinām |
The Mahabharata in Sanskrit
Book 5
Chapter 187
|
1
राम उवाच परत्यक्षम एतल लॊकानां सर्वेषाम एव भामिनि यथा मया परं शक्त्या कृतं वै पौरुषं महत 2 न चैव युधि शक्नॊमि भीष्मं शस्त्रभृतां वरम विशेषयितुम अत्यर्थम उत्तमास्त्राणि दर्शयन 3 एषा मे परमा शक्तिर एतन मे परमं बलम यथेष्टं गम्यतां भद्रे किम अन्यद वा करॊमि ते 4 भीष्मम एव परपद्यस्व न ते ऽनया विद्यते गतिः निर्जितॊ हय अस्मि भीष्मेण महास्त्राणि परमुञ्चता 5 भीष्म उवाच एवम उक्त्वा ततॊ रामॊ विनिःश्वस्य महामनाः तूष्णीम आसीत तदा कन्या परॊवाच भृगुनन्दनम 6 भगवन्न एवम एवैतद यथाह भगवांस तथा अजेयॊ युधि भीष्मॊ ऽयम अपि देवैर उदारधीः 7 यथाशक्ति यथॊत्साहं मम कार्यं कृतं तवया अनिधाय रणे वीर्यम अस्त्राणि विविधानि च 8 न चैष शक्यते युद्धे विशेषयितुम अन्ततः न चाहम एनं यास्यामि पुनर भीष्मं कथं चन 9 गमिष्यामि तु तत्राहं यत्र भीष्मं तपॊधन समरे पातयिष्यामि सवयम एव भृगूद्वह 10 एवम उक्त्वा ययौ कन्या रॊषव्याकुललॊचना तपसे धृतसंकल्पा मम चिन्तयती वधम 11 ततॊ महेन्द्रं सह तैर मुनिर्भिर भृगुसत्तमः यथागतं ययौ रामॊ माम उपामन्त्र्य भारत 12 ततॊ ऽहं रथम आरुह्य सतूयमानॊ दविजातिभिः परविश्य नगरं मात्रे सत्यवत्यै नयवेदयम यथावृत्तं महाराज सा च मां परत्यनन्दत 13 पुरुषांश चादिशं पराज्ञान कन्यावृत्तान्तकर्मणि दिवसे दिवसे हय अस्या गतजल्पितचेष्टितम परत्याहरंश च मे युक्ताः सथिताः परियहिते मम 14 यदैव हि वनं परायात कन्या सा तपसे धृता तदैव वयथितॊ दीनॊ गतचेता इवाभवम 15 न हि मां कषत्रियः कश चिद वीर्येण विजयेद युधि ऋते बरह्मविदस तात तपसा संशितव्रतात 16 अपि चैतन मया राजन नारदे ऽपि निवेदितम वयासे चैव भयात कार्यं तौ चॊभौ माम अवॊचताम 17 न विषादस तवया कार्यॊ भीष्म काशिसुतां परति दैवं पुरुषकारेण कॊ निवर्तितुम उत्सहेत 18 सा तु कन्या महाराज परविश्याश्रममण्डलम यमुनातीरम आश्रित्य तपस तेपे ऽतिमानुषम 19 निराहारा कृशा रूक्षा जटिला मलपङ्किनी षण मासान वायुभक्षा च सथाणुभूता तपॊधना 20 यमुनातीरम आसाद्य संवत्सरम अथापरम उदवासं निराहारा पारयाम आस भामिनी 21 शीर्णपर्णेन चैकेन पारयाम आस चापरम संवत्सरं तीव्रकॊपा पादाङ्गुष्ठाग्रधिष्ठिता 22 एवं दवादश वर्षाणि तापयाम आस रॊदसी निवर्त्यमानापि तु सा जञातिभिर नैव शक्यते 23 ततॊ ऽगमद वत्सभूमिं सिद्धचारणसेविताम आश्रमं पुण्यशीलानां तापसानां महात्मनाम 24 तत्र पुण्येषु देशेषु साप्लुताङ्गी दिवानिशम वयचरत काशिकन्या सा यथाकामविचारिणी 25 नन्दाश्रमे महाराज ततॊलूकाश्रमे शुभे चयवनस्याश्रमे चैव बरह्मणः सथान एव च 26 परयागे देवयजने देवारण्येषु चैव ह भॊगवत्यां तथा राजन कौशिकस्याश्रमे तथा 27 माण्डव्यस्याश्रमे राजन दिलीपस्याश्रमे तथा रामह्रदे च कौरव्य पैलगार्ग्यस्य चाश्रमे 28 एतेषु तीर्थेषु तदा काशिकन्या विशां पते आप्लावयत गात्राणि तीव्रम आस्थाय वै तपः 29 ताम अब्रवीत कौरवेय मम माता जलॊत्थिता किमर्थं कलिश्यसे भद्रे तथ्यम एतद बरवीहि मे 30 सैनाम अथाब्रवीद राजन कृताञ्जलिर अनिन्दिता भीष्मॊ रामेण समरे न जितश चारुलॊचने 31 कॊ ऽनयस तम उत्सहेज जेतुम उद्यतेषुं महीपतिम साहं भीष्मविनाशाय तपस तप्स्ये सुदारुणम 32 चरामि पृथिवीं देवि यथा हन्याम अहं नृपम एतद वरतफलं देहे परस्मिन सयाद यथा हि मे 33 ततॊ ऽबरवीत सागरगा जिह्मं चरसि भामिनि नैष कामॊ ऽनवद्याङ्गि शक्यः पराप्तुं तवयाबले 34 यदि भीष्मविनाशाय काश्ये चरसि वै वरतम वरतस्था च शरीरं तवं यदि नाम विमॊक्ष्यसि नदी भविष्यसि शुभे कुटिला वार्षिकॊदका 35 दुस्तीर्था चानभिज्ञेया वार्षिकी नाष्टमासिकी भीमग्राहवती घॊरा सर्वभूतभयंकरी 36 एवम उक्त्वा ततॊ राजन काशिकन्यां नयवर्तत माता मम महाभागा समयमानेव भामिनी 37 कदा चिद अष्टमे मासि कदा चिद दशमे तथा न पराश्नीतॊदकम अपि पुनः सा वरवर्णिनी 38 सा वत्सभूमिं कौरव्य तीर्थलॊभात ततस ततः पतिता परिधावन्ती पुनः काशिपतेः सुता 39 सा नदी वत्सभूम्यां तु परथिताम्बेति भारत वार्षिकी गराहबहुला दुस्तीर्था कुटिला तथा 40 सा कन्या तपसा तेन भागार्धेन वयजायत नदी च राजन वत्सेषु कन्या चैवाभवत तदा |
1
rāma uvāca pratyakṣam etal lokānāṃ sarveṣām eva bhāmini yathā mayā paraṃ śaktyā kṛtaṃ vai pauruṣaṃ mahat 2 na caiva yudhi śaknomi bhīṣmaṃ śastrabhṛtāṃ varam viśeṣayitum atyartham uttamāstrāṇi darśayan 3 eṣā me paramā śaktir etan me paramaṃ balam yatheṣṭaṃ gamyatāṃ bhadre kim anyad vā karomi te 4 bhīṣmam eva prapadyasva na te 'nyā vidyate gatiḥ nirjito hy asmi bhīṣmeṇa mahāstrāṇi pramuñcatā 5 bhīṣma uvāca evam uktvā tato rāmo viniḥśvasya mahāmanāḥ tūṣṇīm āsīt tadā kanyā provāca bhṛgunandanam 6 bhagavann evam evaitad yathāha bhagavāṃs tathā ajeyo yudhi bhīṣmo 'yam api devair udāradhīḥ 7 yathāśakti yathotsāhaṃ mama kāryaṃ kṛtaṃ tvayā anidhāya raṇe vīryam astrāṇi vividhāni ca 8 na caiṣa śakyate yuddhe viśeṣayitum antataḥ na cāham enaṃ yāsyāmi punar bhīṣmaṃ kathaṃ cana 9 gamiṣyāmi tu tatrāhaṃ yatra bhīṣmaṃ tapodhana samare pātayiṣyāmi svayam eva bhṛgūdvaha 10 evam uktvā yayau kanyā roṣavyākulalocanā tapase dhṛtasaṃkalpā mama cintayatī vadham 11 tato mahendraṃ saha tair munirbhir bhṛgusattamaḥ yathāgataṃ yayau rāmo mām upāmantrya bhārata 12 tato 'haṃ ratham āruhya stūyamāno dvijātibhiḥ praviśya nagaraṃ mātre satyavatyai nyavedayam yathāvṛttaṃ mahārāja sā ca māṃ pratyanandata 13 puruṣāṃś cādiśaṃ prājñān kanyāvṛttāntakarmaṇi divase divase hy asyā gatajalpitaceṣṭitam pratyāharaṃś ca me yuktāḥ sthitāḥ priyahite mama 14 yadaiva hi vanaṃ prāyāt kanyā sā tapase dhṛtā tadaiva vyathito dīno gatacetā ivābhavam 15 na hi māṃ kṣatriyaḥ kaś cid vīryeṇa vijayed yudhi ṛte brahmavidas tāta tapasā saṃśitavratāt 16 api caitan mayā rājan nārade 'pi niveditam vyāse caiva bhayāt kāryaṃ tau cobhau mām avocatām 17 na viṣādas tvayā kāryo bhīṣma kāśisutāṃ prati daivaṃ puruṣakāreṇa ko nivartitum utsahet 18 sā tu kanyā mahārāja praviśyāśramamaṇḍalam yamunātīram āśritya tapas tepe 'timānuṣam 19 nirāhārā kṛśā rūkṣā jaṭilā malapaṅkinī ṣaṇ māsān vāyubhakṣā ca sthāṇubhūtā tapodhanā 20 yamunātīram āsādya saṃvatsaram athāparam udavāsaṃ nirāhārā pārayām āsa bhāminī 21 śīrṇaparṇena caikena pārayām āsa cāparam saṃvatsaraṃ tīvrakopā pādāṅguṣṭhāgradhiṣṭhitā 22 evaṃ dvādaśa varṣāṇi tāpayām āsa rodasī nivartyamānāpi tu sā jñātibhir naiva śakyate 23 tato 'gamad vatsabhūmiṃ siddhacāraṇasevitām āśramaṃ puṇyaśīlānāṃ tāpasānāṃ mahātmanām 24 tatra puṇyeṣu deśeṣu sāplutāṅgī divāniśam vyacarat kāśikanyā sā yathākāmavicāriṇī 25 nandāśrame mahārāja tatolūkāśrame śubhe cyavanasyāśrame caiva brahmaṇaḥ sthāna eva ca 26 prayāge devayajane devāraṇyeṣu caiva ha bhogavatyāṃ tathā rājan kauśikasyāśrame tathā 27 māṇḍavyasyāśrame rājan dilīpasyāśrame tathā rāmahrade ca kauravya pailagārgyasya cāśrame 28 eteṣu tīrtheṣu tadā kāśikanyā viśāṃ pate āplāvayata gātrāṇi tīvram āsthāya vai tapaḥ 29 tām abravīt kauraveya mama mātā jalotthitā kimarthaṃ kliśyase bhadre tathyam etad bravīhi me 30 sainām athābravīd rājan kṛtāñjalir aninditā bhīṣmo rāmeṇa samare na jitaś cārulocane 31 ko 'nyas tam utsahej jetum udyateṣuṃ mahīpatim sāhaṃ bhīṣmavināśāya tapas tapsye sudāruṇam 32 carāmi pṛthivīṃ devi yathā hanyām ahaṃ nṛpam etad vrataphalaṃ dehe parasmin syād yathā hi me 33 tato 'bravīt sāgaragā jihmaṃ carasi bhāmini naiṣa kāmo 'navadyāṅgi śakyaḥ prāptuṃ tvayābale 34 yadi bhīṣmavināśāya kāśye carasi vai vratam vratasthā ca śarīraṃ tvaṃ yadi nāma vimokṣyasi nadī bhaviṣyasi śubhe kuṭilā vārṣikodakā 35 dustīrthā cānabhijñeyā vārṣikī nāṣṭamāsikī bhīmagrāhavatī ghorā sarvabhūtabhayaṃkarī 36 evam uktvā tato rājan kāśikanyāṃ nyavartata mātā mama mahābhāgā smayamāneva bhāminī 37 kadā cid aṣṭame māsi kadā cid daśame tathā na prāśnītodakam api punaḥ sā varavarṇinī 38 sā vatsabhūmiṃ kauravya tīrthalobhāt tatas tataḥ patitā paridhāvantī punaḥ kāśipateḥ sutā 39 sā nadī vatsabhūmyāṃ tu prathitāmbeti bhārata vārṣikī grāhabahulā dustīrthā kuṭilā tathā 40 sā kanyā tapasā tena bhāgārdhena vyajāyata nadī ca rājan vatseṣu kanyā caivābhavat tadā |
The Mahabharata in Sanskrit
Book 5
Chapter 188
|
1
भीष्म उवाच ततस ते तापसाः सर्वे तपसे धृतनिश्चयाम दृष्ट्वा नयवर्तयंस तात किं कार्यम इति चाब्रुवन 2 तान उवाच ततः कन्या तपॊवृद्धान ऋषींस तदा निराकृतास्मि भीष्मेण भरंशिता पतिधर्मतः 3 वधार्थं तस्य दीक्षा मे न लॊकार्थं तपॊधनाः निहत्य भीष्मं गच्छेयं शान्तिम इत्य एव निश्चयः 4 यत्कृते दुःखवसतिम इमां पराप्तास्मि शाश्वतीम पतिलॊकाद विहीना च नैव सत्री न पुमान इह 5 नाहत्वा युधि गाङ्गेयं निवर्तेयं तपॊधनाः एष मे हृदि संकल्पॊ यदर्थम इदम उद्यतम 6 सत्रीभावे परिनिर्विण्णा पुंस्त्वार्थे कृतनिश्चया भीष्मे परतिचिकीर्षामि नास्मि वार्येति वै पुनः 7 तां देवॊ दर्शयाम आस शूलपाणिर उमापतिः मध्ये तेषां महर्षीणां सवेन रूपेण भामिनीम 8 छन्द्यमाना वरेणाथ सा वव्रे मत्पराजयम वधिष्यसीति तां देवः परत्युवाच मनस्विनीम 9 ततः सा पुनर एवाथ कन्या रुद्रम उवाच ह उपपद्येत कथं देव सत्रियॊ मम जयॊ युधि सत्रीभावेन च मे गाढं मनः शान्तम उमापते 10 परतिश्रुतश च भूतेश तवया भीष्मपराजयः यथा स सत्यॊ भवति तथा कुरु वृषध्वज यथा हन्यां समागम्य भीष्मं शांतनवं युधि 11 ताम उवाच महादेवः कन्यां किल वृषध्वजः न मे वाग अनृतं भद्रे पराह सत्यं भविष्यति 12 वधिष्यसि रणे भीष्मं पुरुषत्वं च लप्स्यसे समरिष्यसि च तत सर्वं देहम अन्यं गता सती 13 दरुपदस्य कुले जाता भविष्यसि महारथः शीघ्रास्त्रश चित्रयॊधी च भविष्यसि सुसंमतः 14 यथॊक्तम एव कल्याणि सर्वम एतद भविष्यति भविष्यसि पुमान पश्चात कस्माच चित कालपर्ययात 15 एवम उक्त्वा महातेजाः कपर्दी वृषभध्वजः पश्यताम एव विप्राणां तत्रैवान्तरधीयत 16 ततः सा पश्यतां तेषां महर्षीणाम अनिन्दिता समाहृत्य वनात तस्मात काष्ठानि वरवर्णिनी 17 चितां कृत्वा सुमहतीं परदाय च हुताशनम परदीप्ते ऽगनौ महाराज रॊषदीप्तेन चेतसा 18 उक्त्वा भीष्मवधायेति परविवेश हुताशनम जयेष्ठा काशिसुता राजन यमुनाम अभितॊ नदीम |
1
bhīṣma uvāca tatas te tāpasāḥ sarve tapase dhṛtaniścayām dṛṣṭvā nyavartayaṃs tāta kiṃ kāryam iti cābruvan 2 tān uvāca tataḥ kanyā tapovṛddhān ṛṣīṃs tadā nirākṛtāsmi bhīṣmeṇa bhraṃśitā patidharmataḥ 3 vadhārthaṃ tasya dīkṣā me na lokārthaṃ tapodhanāḥ nihatya bhīṣmaṃ gaccheyaṃ śāntim ity eva niścayaḥ 4 yatkṛte duḥkhavasatim imāṃ prāptāsmi śāśvatīm patilokād vihīnā ca naiva strī na pumān iha 5 nāhatvā yudhi gāṅgeyaṃ nivarteyaṃ tapodhanāḥ eṣa me hṛdi saṃkalpo yadartham idam udyatam 6 strībhāve parinirviṇṇā puṃstvārthe kṛtaniścayā bhīṣme praticikīrṣāmi nāsmi vāryeti vai punaḥ 7 tāṃ devo darśayām āsa śūlapāṇir umāpatiḥ madhye teṣāṃ maharṣīṇāṃ svena rūpeṇa bhāminīm 8 chandyamānā vareṇātha sā vavre matparājayam vadhiṣyasīti tāṃ devaḥ pratyuvāca manasvinīm 9 tataḥ sā punar evātha kanyā rudram uvāca ha upapadyet kathaṃ deva striyo mama jayo yudhi strībhāvena ca me gāḍhaṃ manaḥ śāntam umāpate 10 pratiśrutaś ca bhūteśa tvayā bhīṣmaparājayaḥ yathā sa satyo bhavati tathā kuru vṛṣadhvaja yathā hanyāṃ samāgamya bhīṣmaṃ śāṃtanavaṃ yudhi 11 tām uvāca mahādevaḥ kanyāṃ kila vṛṣadhvajaḥ na me vāg anṛtaṃ bhadre prāha satyaṃ bhaviṣyati 12 vadhiṣyasi raṇe bhīṣmaṃ puruṣatvaṃ ca lapsyase smariṣyasi ca tat sarvaṃ deham anyaṃ gatā satī 13 drupadasya kule jātā bhaviṣyasi mahārathaḥ śīghrāstraś citrayodhī ca bhaviṣyasi susaṃmataḥ 14 yathoktam eva kalyāṇi sarvam etad bhaviṣyati bhaviṣyasi pumān paścāt kasmāc cit kālaparyayāt 15 evam uktvā mahātejāḥ kapardī vṛṣabhadhvajaḥ paśyatām eva viprāṇāṃ tatraivāntaradhīyata 16 tataḥ sā paśyatāṃ teṣāṃ maharṣīṇām aninditā samāhṛtya vanāt tasmāt kāṣṭhāni varavarṇinī 17 citāṃ kṛtvā sumahatīṃ pradāya ca hutāśanam pradīpte 'gnau mahārāja roṣadīptena cetasā 18 uktvā bhīṣmavadhāyeti praviveśa hutāśanam jyeṣṭhā kāśisutā rājan yamunām abhito nadīm |
The Mahabharata in Sanskrit
Book 5
Chapter 189
|
1
दुर्यॊधन उवाच कथं शिखण्डी गाङ्गेय कन्या भूत्वा सती तदा पुरुषॊ ऽभवद युधि शरेष्ठ तन मे बरूहि पितामह 2 भीष्म उवाच भार्या तु तस्य राजेन्द्र दरुपदस्य महीपतेः महिषी दयिता हय आसीद अपुत्रा च विशां पते 3 एतस्मिन्न एव काले तु दरुपदॊ वै महीपतिः अपत्यार्थं महाराज तॊषयाम आस शंकरम 4 अस्मद्वधार्थं निश्चित्य तपॊ घॊरं समास्थितः लेभे कन्यां महादेवात पुत्रॊ मे सयाद इति बरुवन 5 भगवन पुत्रम इच्छामि भीष्मं परतिचिकीर्षया इत्य उक्तॊ देवदेवेन सत्रीपुमांस ते भविष्यति 6 निवर्तस्व महीपाल नैतज जात्व अन्यथा भवेत स तु गत्वा च नगरं भार्याम इदम उवाच ह 7 कृतॊ यत्नॊ मया देवि पुत्रार्थे तपसा महान कन्या भूत्वा पुमान भावी इति चॊक्तॊ ऽसमि शम्भुना 8 पुनः पुनर याच्यमानॊ दिष्टम इत्य अब्रवीच छिवः न तद अन्यद धि भविता भवितव्यं हि तत तथा 9 ततः सा नियता भूत्वा ऋतुकाले मनस्विनी पत्नी दरुपदराजस्य दरुपदं संविवेश ह 10 लेभे गर्भं यथाकालं विधिदृष्टेन हेतुना पार्षतात सा महीपाल यथा मां नारदॊ ऽबरवीत 11 ततॊ दधार तं गर्भं देवी राजीवलॊचना तां स राजा परियां भार्यां दरुपदः कुरुनन्दन पुत्रस्नेहान महाबाहुः सुखं पर्यचरत तदा 12 अपुत्रस्य ततॊ राज्ञॊ दरुपदस्य महीपतेः कन्यां परवररूपां तां पराजायत नराधिप 13 अपुत्रस्य तु राज्ञः सा दरुपदस्य यशस्विनी खयापयाम आस राजेन्द्र पुत्रॊ जातॊ ममेति वै 14 ततः स राजा दरुपदः परच्छन्नाया नराधिप पुत्रवत पुत्रकार्याणि सर्वाणि समकारयत 15 रक्षणं चैव मन्त्रस्य महिषी दरुपदस्य सा चकार सर्वयत्नेन बरुवाणा पुत्र इत्य उत न हि तां वेद नगरे कश चिद अन्यत्र पार्षतात 16 शरद्दधानॊ हि तद वाक्यं देवस्याद्भुततेजसः छादयाम आस तां कन्यां पुमान इति च सॊ ऽबरवीत 17 जातकर्माणि सर्वाणि कारयाम आस पार्थिवः पुंवद विधानयुक्तानि शिखण्डीति च तां विदुः 18 अहम एकस तु चारेण वचनान नारदस्य च जञातवान देववाक्येन अम्बायास तपसा तथा |
1
duryodhana uvāca kathaṃ śikhaṇḍī gāṅgeya kanyā bhūtvā satī tadā puruṣo 'bhavad yudhi śreṣṭha tan me brūhi pitāmaha 2 bhīṣma uvāca bhāryā tu tasya rājendra drupadasya mahīpateḥ mahiṣī dayitā hy āsīd aputrā ca viśāṃ pate 3 etasminn eva kāle tu drupado vai mahīpatiḥ apatyārthaṃ mahārāja toṣayām āsa śaṃkaram 4 asmadvadhārthaṃ niścitya tapo ghoraṃ samāsthitaḥ lebhe kanyāṃ mahādevāt putro me syād iti bruvan 5 bhagavan putram icchāmi bhīṣmaṃ praticikīrṣayā ity ukto devadevena strīpumāṃs te bhaviṣyati 6 nivartasva mahīpāla naitaj jātv anyathā bhavet sa tu gatvā ca nagaraṃ bhāryām idam uvāca ha 7 kṛto yatno mayā devi putrārthe tapasā mahān kanyā bhūtvā pumān bhāvī iti cokto 'smi śambhunā 8 punaḥ punar yācyamāno diṣṭam ity abravīc chivaḥ na tad anyad dhi bhavitā bhavitavyaṃ hi tat tathā 9 tataḥ sā niyatā bhūtvā ṛtukāle manasvinī patnī drupadarājasya drupadaṃ saṃviveśa ha 10 lebhe garbhaṃ yathākālaṃ vidhidṛṣṭena hetunā pārṣatāt sā mahīpāla yathā māṃ nārado 'bravīt 11 tato dadhāra taṃ garbhaṃ devī rājīvalocanā tāṃ sa rājā priyāṃ bhāryāṃ drupadaḥ kurunandana putrasnehān mahābāhuḥ sukhaṃ paryacarat tadā 12 aputrasya tato rājño drupadasya mahīpateḥ kanyāṃ pravararūpāṃ tāṃ prājāyata narādhipa 13 aputrasya tu rājñaḥ sā drupadasya yaśasvinī khyāpayām āsa rājendra putro jāto mameti vai 14 tataḥ sa rājā drupadaḥ pracchannāyā narādhipa putravat putrakāryāṇi sarvāṇi samakārayat 15 rakṣaṇaṃ caiva mantrasya mahiṣī drupadasya sā cakāra sarvayatnena bruvāṇā putra ity uta na hi tāṃ veda nagare kaś cid anyatra pārṣatāt 16 śraddadhāno hi tad vākyaṃ devasyādbhutatejasaḥ chādayām āsa tāṃ kanyāṃ pumān iti ca so 'bravīt 17 jātakarmāṇi sarvāṇi kārayām āsa pārthivaḥ puṃvad vidhānayuktāni śikhaṇḍīti ca tāṃ viduḥ 18 aham ekas tu cāreṇa vacanān nāradasya ca jñātavān devavākyena ambāyās tapasā tathā |
The Mahabharata in Sanskrit
Book 5
Chapter 190
|
1
भीष्म उवाच चकार यत्नं दरुपदः सर्वस्मिन सवजने महत ततॊ लेख्यादिषु तथा शिल्पेषु च परं गता इष्वस्त्रे चैव राजेन्द्र दरॊणशिष्यॊ बभूव ह 2 तस्य माता महाराज राजानं वरवर्णिनी चॊदयाम आस भार्यार्थं कन्यायाः पुत्रवत तदा 3 ततस तां पार्षतॊ दृष्ट्वा कन्यां संप्राप्तयौवनाम सत्रियं मत्वा तदा चिन्तां परपेदे सह भार्यया 4 दरुपद उवाच कन्या ममेयं संप्राप्ता यौवनं शॊकवर्धिनी मया परच्छादिता चेयं वचनाच छूलपाणिनः 5 न तन मिथ्या महाराज्ञि भविष्यति कथं चन तरैलॊक्यकर्ता कस्माद धि तन मृषा कर्तुम अर्हति 6 भार्यॊवाच यदि ते रॊचते राजन वक्ष्यामि शृणु मे वचः शरुत्वेदानीं परपद्येथाः सवकार्यं पृषतात्मज 7 करियताम अस्य नृपते विधिवद दारसंग्रहः सत्यं भवति तद वाक्यम इति मे निश्चिता मतिः 8 भीष्म उवाच ततस तौ निश्चयं कृत्वा तस्मिन कार्ये ऽथ दम्पती वरयां चक्रतुः कन्यां दशार्णाधिपतेः सुताम 9 ततॊ राजा दरुपदॊ राजसिंहः; सर्वान राज्ञः कुलतः संनिशाम्य दाशार्णकस्य नृपतेस तनूजां; शिखण्डिने वरयाम आस दारान 10 हिरण्यवर्मेति नृपॊ यॊ ऽसौ दाशार्णकः समृतः स च परादान महीपालः कन्यां तस्मै शिखण्डिने 11 स च राजा दशार्णेषु महान आसीन महीपतिः हिरण्यवर्मा दुर्धर्षॊ महासेनॊ महामनाः 12 कृते विवाहे तु तदा सा कन्या राजसत्तम यौवनं समनुप्राप्ता सा च कन्या शिखण्डिनी 13 कृतदारः शिखण्डी तु काम्पिल्यं पुनर आगमत न च सा वेद तां कन्यां कं चित कालं सत्रियं किल 14 हिरण्यवर्मणः कन्या जञात्वा तां तु शिखण्डिनीम धात्रीणां च सखीनां च वरीडमाना नयवेदयत कन्यां पञ्चालराजस्य सुतां तां वै शिखण्डिनीम 15 ततस ता राजशार्दूल धात्र्यॊ दाशार्णिकास तदा जग्मुर आर्तिं परां दुःखात परेषयाम आसुर एव च 16 ततॊ दशार्णाधिपतेः परेष्याः सर्वं नयवेदयन विप्रलम्भं यथावृत्तं स च चुक्रॊध पार्थिवः 17 शिखण्ड्य अपि महाराज पुंवद राजकुले तदा विजहार मुदा युक्तः सत्रीत्वं नैवातिरॊचयन 18 तथा कतिपयाहस्य तच छरुत्वा भरतर्षभ हिरण्यवर्मा राजेन्द्र रॊषाद आर्तिं जगाम ह 19 ततॊ दाशार्णकॊ राजा तीव्रकॊपसमन्वितः दूतं परस्थापयाम आस दरुपदस्य निवेशने 20 ततॊ दरुपदम आसाद्य दूतः काञ्चनवर्मणः एक एकान्तम उत्सार्य रहॊ वचनम अब्रवीत 21 दशार्णराजॊ राजंस तवाम इदं वचनम अब्रवीत अभिषङ्गात परकुपितॊ विप्रलब्धस तवयानघ 22 अवमन्यसे मां नृपते नूनं दुर्मन्त्रितं तव यन मे कन्यां सवकन्यार्थे मॊहाद याचितवान असि 23 तस्याद्य विप्रलम्भस्य फलं पराप्नुहि दुर्मते एष तवां सजनामात्यम उद्धरामि सथिरॊ भव |
1
bhīṣma uvāca cakāra yatnaṃ drupadaḥ sarvasmin svajane mahat tato lekhyādiṣu tathā śilpeṣu ca paraṃ gatā iṣvastre caiva rājendra droṇaśiṣyo babhūva ha 2 tasya mātā mahārāja rājānaṃ varavarṇinī codayām āsa bhāryārthaṃ kanyāyāḥ putravat tadā 3 tatas tāṃ pārṣato dṛṣṭvā kanyāṃ saṃprāptayauvanām striyaṃ matvā tadā cintāṃ prapede saha bhāryayā 4 drupada uvāca kanyā mameyaṃ saṃprāptā yauvanaṃ śokavardhinī mayā pracchāditā ceyaṃ vacanāc chūlapāṇinaḥ 5 na tan mithyā mahārājñi bhaviṣyati kathaṃ cana trailokyakartā kasmād dhi tan mṛṣā kartum arhati 6 bhāryovāca yadi te rocate rājan vakṣyāmi śṛṇu me vacaḥ śrutvedānīṃ prapadyethāḥ svakāryaṃ pṛṣatātmaja 7 kriyatām asya nṛpate vidhivad dārasaṃgrahaḥ satyaṃ bhavati tad vākyam iti me niścitā matiḥ 8 bhīṣma uvāca tatas tau niścayaṃ kṛtvā tasmin kārye 'tha dampatī varayāṃ cakratuḥ kanyāṃ daśārṇādhipateḥ sutām 9 tato rājā drupado rājasiṃhaḥ; sarvān rājñaḥ kulataḥ saṃniśāmya dāśārṇakasya nṛpates tanūjāṃ; śikhaṇḍine varayām āsa dārān 10 hiraṇyavarmeti nṛpo yo 'sau dāśārṇakaḥ smṛtaḥ sa ca prādān mahīpālaḥ kanyāṃ tasmai śikhaṇḍine 11 sa ca rājā daśārṇeṣu mahān āsīn mahīpatiḥ hiraṇyavarmā durdharṣo mahāseno mahāmanāḥ 12 kṛte vivāhe tu tadā sā kanyā rājasattama yauvanaṃ samanuprāptā sā ca kanyā śikhaṇḍinī 13 kṛtadāraḥ śikhaṇḍī tu kāmpilyaṃ punar āgamat na ca sā veda tāṃ kanyāṃ kaṃ cit kālaṃ striyaṃ kila 14 hiraṇyavarmaṇaḥ kanyā jñātvā tāṃ tu śikhaṇḍinīm dhātrīṇāṃ ca sakhīnāṃ ca vrīḍamānā nyavedayat kanyāṃ pañcālarājasya sutāṃ tāṃ vai śikhaṇḍinīm 15 tatas tā rājaśārdūla dhātryo dāśārṇikās tadā jagmur ārtiṃ parāṃ duḥkhāt preṣayām āsur eva ca 16 tato daśārṇādhipateḥ preṣyāḥ sarvaṃ nyavedayan vipralambhaṃ yathāvṛttaṃ sa ca cukrodha pārthivaḥ 17 śikhaṇḍy api mahārāja puṃvad rājakule tadā vijahāra mudā yuktaḥ strītvaṃ naivātirocayan 18 tathā katipayāhasya tac chrutvā bharatarṣabha hiraṇyavarmā rājendra roṣād ārtiṃ jagāma ha 19 tato dāśārṇako rājā tīvrakopasamanvitaḥ dūtaṃ prasthāpayām āsa drupadasya niveśane 20 tato drupadam āsādya dūtaḥ kāñcanavarmaṇaḥ eka ekāntam utsārya raho vacanam abravīt 21 daśārṇarājo rājaṃs tvām idaṃ vacanam abravīt abhiṣaṅgāt prakupito vipralabdhas tvayānagha 22 avamanyase māṃ nṛpate nūnaṃ durmantritaṃ tava yan me kanyāṃ svakanyārthe mohād yācitavān asi 23 tasyādya vipralambhasya phalaṃ prāpnuhi durmate eṣa tvāṃ sajanāmātyam uddharāmi sthiro bhava |
The Mahabharata in Sanskrit
Book 5
Chapter 191
|
1
भीष्म उवाच एवम उक्तस्य दूतेन दरुपदस्य तदा नृप चॊरस्येव गृहीतस्य न परावर्तत भारती 2 स यत्नम अकरॊत तीव्रं संबन्धैर अनुसान्त्वनैः दूतैर मधुरसंभाषैर नैतद अस्तीति संदिशन 3 स राजा भूय एवाथ कृत्वा तत्त्वत आगमम कन्येति पाञ्चालसुतां तवरमाणॊ ऽभिनिर्ययौ 4 ततः संप्रेषयाम आस मित्राणाम अमितौजसाम दुहितुर विप्रलम्भं तं धात्रीणां वचनात तदा 5 ततः समुद्रयं कृत्वा बलानां राजसत्तमः अभियाने मतिं चक्रे दरुपदं परति भारत 6 तथ संमन्त्रयाम आस मित्रैः सह महीपतिः हिरण्यवर्मा राजेन्द्र पाञ्चाल्यं पार्थिवं परति 7 तत्र वै निश्चितं तेषाम अभूद राज्ञां महात्मनाम तथ्यं चेद भवति हय एतत कन्या राजञ शिखण्डिनी बद्ध्वा पाञ्चालराजानम आनयिष्यामहे गृहान 8 अन्यं राजानम आधाय पाञ्चालेषु नरेश्वरम घातयिष्याम नृपतिं दरुपदं सशिखण्डिनम 9 स तदा दूतम आज्ञाय पुनः कषत्तारम ईश्वरः परास्थापयत पार्षताय हन्मीति तवां सथिरॊ भव 10 स परकृत्या च वै भीरुः किल्बिषी च नराधिपः भयं तीव्रम अनुप्राप्तॊ दरुपदः पृथिवीपतिः 11 विसृज्य दूतं दाशार्णं दरुपदः शॊककर्शितः समेत्य भार्यां रहिते वाक्यम आह नराधिपः 12 भयेन महताविष्टॊ हृदि शॊकेन चाहतः पाञ्चालराजॊ दयितां मातरं वै शिखण्डिनः 13 अभियास्यति मां कॊपात संबन्धी सुमहाबलः हिरण्यवर्मा नृपतिः कर्षमाणॊ वरूथिनीम 14 किम इदानीं करिष्यामि मूढः कन्याम इमां परति शिखण्डी किल पुत्रस ते कन्येति परिशङ्कितः 15 इति निश्चित्य तत्त्वेन समित्रः सबलानुगः वञ्चितॊ ऽसमीति मन्वानॊ मां किलॊद्धर्तुम इच्छति 16 किम अत्र तथ्यं सुश्रॊणि किं मिथ्या बरूहि शॊभने शरुत्वा तवत्तः शुभे वाक्यं संविधास्याम्य अहं तथा 17 अहं हि संशयं पराप्तॊ बाला चेयं शिखण्डिनी तवं च राज्ञि महत कृच्छ्रं संप्राप्ता वरवर्णिनि 18 सा तवं सर्वविमॊक्षाय तत्त्वम आख्याहि पृच्छतः तथा विदध्यां सुश्रॊणि कृत्यस्यास्य शुचिस्मिते शिखण्डिनि च मा भैस तवं विधास्ये तत्र तत्त्वतः 19 करिययाहं वरारॊहे वञ्चितः पुत्रधर्मतः मया दाशार्णकॊ राजा वञ्चितश च महीपतिः तद आचक्ष्व महाभागे विधास्ये तत्र यद धितम 20 जानतापि नरेन्द्रेण खयापनार्थं परस्य वै परकाशं चॊदिता देवी परत्युवाच महीपतिम |
1
bhīṣma uvāca evam uktasya dūtena drupadasya tadā nṛpa corasyeva gṛhītasya na prāvartata bhāratī 2 sa yatnam akarot tīvraṃ saṃbandhair anusāntvanaiḥ dūtair madhurasaṃbhāṣair naitad astīti saṃdiśan 3 sa rājā bhūya evātha kṛtvā tattvata āgamam kanyeti pāñcālasutāṃ tvaramāṇo 'bhiniryayau 4 tataḥ saṃpreṣayām āsa mitrāṇām amitaujasām duhitur vipralambhaṃ taṃ dhātrīṇāṃ vacanāt tadā 5 tataḥ samudrayaṃ kṛtvā balānāṃ rājasattamaḥ abhiyāne matiṃ cakre drupadaṃ prati bhārata 6 tatha saṃmantrayām āsa mitraiḥ saha mahīpatiḥ hiraṇyavarmā rājendra pāñcālyaṃ pārthivaṃ prati 7 tatra vai niścitaṃ teṣām abhūd rājñāṃ mahātmanām tathyaṃ ced bhavati hy etat kanyā rājañ śikhaṇḍinī baddhvā pāñcālarājānam ānayiṣyāmahe gṛhān 8 anyaṃ rājānam ādhāya pāñcāleṣu nareśvaram ghātayiṣyāma nṛpatiṃ drupadaṃ saśikhaṇḍinam 9 sa tadā dūtam ājñāya punaḥ kṣattāram īśvaraḥ prāsthāpayat pārṣatāya hanmīti tvāṃ sthiro bhava 10 sa prakṛtyā ca vai bhīruḥ kilbiṣī ca narādhipaḥ bhayaṃ tīvram anuprāpto drupadaḥ pṛthivīpatiḥ 11 visṛjya dūtaṃ dāśārṇaṃ drupadaḥ śokakarśitaḥ sametya bhāryāṃ rahite vākyam āha narādhipaḥ 12 bhayena mahatāviṣṭo hṛdi śokena cāhataḥ pāñcālarājo dayitāṃ mātaraṃ vai śikhaṇḍinaḥ 13 abhiyāsyati māṃ kopāt saṃbandhī sumahābalaḥ hiraṇyavarmā nṛpatiḥ karṣamāṇo varūthinīm 14 kim idānīṃ kariṣyāmi mūḍhaḥ kanyām imāṃ prati śikhaṇḍī kila putras te kanyeti pariśaṅkitaḥ 15 iti niścitya tattvena samitraḥ sabalānugaḥ vañcito 'smīti manvāno māṃ kiloddhartum icchati 16 kim atra tathyaṃ suśroṇi kiṃ mithyā brūhi śobhane śrutvā tvattaḥ śubhe vākyaṃ saṃvidhāsyāmy ahaṃ tathā 17 ahaṃ hi saṃśayaṃ prāpto bālā ceyaṃ śikhaṇḍinī tvaṃ ca rājñi mahat kṛcchraṃ saṃprāptā varavarṇini 18 sā tvaṃ sarvavimokṣāya tattvam ākhyāhi pṛcchataḥ tathā vidadhyāṃ suśroṇi kṛtyasyāsya śucismite śikhaṇḍini ca mā bhais tvaṃ vidhāsye tatra tattvataḥ 19 kriyayāhaṃ varārohe vañcitaḥ putradharmataḥ mayā dāśārṇako rājā vañcitaś ca mahīpatiḥ tad ācakṣva mahābhāge vidhāsye tatra yad dhitam 20 jānatāpi narendreṇa khyāpanārthaṃ parasya vai prakāśaṃ coditā devī pratyuvāca mahīpatim |
The Mahabharata in Sanskrit
Book 5
Chapter 192
|
1
भीष्म उवाच ततः शिखण्डिनॊ माता यथातत्त्वं नराधिप आचचक्षे महाबाहॊ भर्त्रे कन्यां शिखण्डिनीम 2 अपुत्रया मया राजन सपत्नीनां भयाद इदम कन्या शिखण्डिनी जाता पुरुषॊ वै निवेदितः 3 तवया चैव नरश्रेष्ठ तन मे परीत्यानुमॊदितम पुत्रकर्म कृतं चैव कन्यायाः पार्थिवर्षभ भार्या चॊढा तवया राजन दशार्णाधिपतेः सुता 4 तवया च परागभिहितं देववाक्यार्थदर्शनात कन्या भूत्वा पुमान भावीत्य एवं चैतद उपेक्षितम 5 एतच छरुत्वा दरुपदॊ यज्ञसेनः; सर्वं तत्त्वम मन्त्रविद्भ्यॊ निवेद्य मन्त्रं राजा मन्त्रयाम आस राजन; यद यद युक्तं रक्षणे वै परजानाम 6 संबन्धकं चैव समर्थ्य तस्मिन; दाशार्णके वै नृपतौ नरेन्द्र सवयं कृत्वा विप्रलम्भं यथावन; मन्त्रैकाग्रॊ निश्चयं वै जगाम 7 सवभावगुप्तं नगरम आपत्काले तु भारत गॊपयाम आस राजेन्द्र सर्वतः समलंकृतम 8 आर्तिं च परमां राजा जगाम सह भार्यया दशार्णपतिना सार्धं विरॊधे भरतर्षभ 9 कथं संबन्धिना सार्धं न मे सयाद विग्रहॊ महान इति संचिन्त्य मनसा दैवतान्य अर्चयत तदा 10 तं तु दृष्ट्वा तदा राजन देवी देव परं तथा अर्चां परयुञ्जानम अथॊ भार्या वचनम अब्रवीत 11 देवानां परतिपत्तिश च सत्या साधुमता सदा सा तु दुःखार्णवं पराप्य नः सयाद अर्चयतां भृशम 12 दैवतानि च सर्वाणि पूज्यन्तां भूरिदक्षिणैः अग्नयश चापि हूयन्तां दाशार्णप्रतिसेधने 13 अयुद्धेन निवृत्तिं च मनसा चिन्तयाभिभॊ देवतानां परसादेन सर्वम एतद भविष्यति 14 मन्त्रिभिर मन्त्रितं सार्धं तवया यत पृथुलॊचन पुरस्यास्याविनाशाय तच च राजंस तथा कुरु 15 दैवं हि मानुषॊपेतं भृशं सिध्यति पार्थिव परस्परविरॊधात तु नानयॊः सिद्धिर अस्ति वै 16 तस्माद विधाय नगरे विधानं सचिवैः सह अर्चयस्व यथाकामं दैवतानि विशां पते 17 एवं संभाषमाणौ तौ दृष्ट्वा शॊकपरायणौ शिखण्डिनी तदा कन्या वरीडितेव मनस्विनी 18 ततः सा चिन्तयाम आस मत्कृते दुःखिताव उभौ इमाव इति ततश चक्रे मतिं पराणविनाशने 19 एवं सा निश्चयं कृत्वा भृशं शॊकपरायणा जगाम भवनं तयक्त्वा गहनं निर्जनं वनम 20 यक्षेणर्द्धिमता राजन सथूणाकर्णेन पालितम तद्भयाद एव च जनॊ विसर्जयति तद वनम 21 तत्र सथूणस्य भवनं सुधामृत्तिकलेपनम लाजॊल्लापिकधूमाढ्यम उच्चप्राकारतॊरणम 22 तत परविश्य शिखण्डी सा दरुपदस्यात्मजा नृप अनश्नती बहुतिथं शरीरम उपशॊषयत 23 दर्शयाम आस तां यक्षः सथूणॊ मध्वक्षसंयुतः किमर्थॊ ऽयं तवारम्भः करिष्ये बरूहि माचिरम 24 अशक्यम इति सा यक्षं पुनः पुनर उवाच ह करिष्यामीति चैनां स परत्युवाचाथ गुह्यकः 25 धनेश्वरस्यानुचरॊ वरदॊ ऽसमि नृपात्मजे अदेयम अपि दास्यामि बरूहि यत ते विवक्षितम 26 ततः शिखण्डी तत सर्वम अखिलेन नयवेदयत तस्मै यक्षप्रधानाय सथूणाकर्णाय भारत 27 आपन्नॊ मे पिता यक्ष नचिराद विनशिष्यति अभियास्यति संक्रुद्धॊ दशार्णाधिपतिर हि तम 28 महाबलॊ महॊत्साहः स हेमकवचॊ नृपः तस्माद रक्षस्व मां यक्ष पितरं मातरं च मे 29 परतिज्ञातॊ हि भवता दुःखप्रतिनयॊ मम भवेयं पुरुषॊ यक्ष तवत्प्रसादाद अनिन्दितः 30 यावद एव स राजा वै नॊपयाति पुरं मम तावद एव महायक्ष परसादं कुरु गुह्यक |
1
bhīṣma uvāca tataḥ śikhaṇḍino mātā yathātattvaṃ narādhipa ācacakṣe mahābāho bhartre kanyāṃ śikhaṇḍinīm 2 aputrayā mayā rājan sapatnīnāṃ bhayād idam kanyā śikhaṇḍinī jātā puruṣo vai niveditaḥ 3 tvayā caiva naraśreṣṭha tan me prītyānumoditam putrakarma kṛtaṃ caiva kanyāyāḥ pārthivarṣabha bhāryā coḍhā tvayā rājan daśārṇādhipateḥ sutā 4 tvayā ca prāgabhihitaṃ devavākyārthadarśanāt kanyā bhūtvā pumān bhāvīty evaṃ caitad upekṣitam 5 etac chrutvā drupado yajñasenaḥ; sarvaṃ tattvam mantravidbhyo nivedya mantraṃ rājā mantrayām āsa rājan; yad yad yuktaṃ rakṣaṇe vai prajānām 6 saṃbandhakaṃ caiva samarthya tasmin; dāśārṇake vai nṛpatau narendra svayaṃ kṛtvā vipralambhaṃ yathāvan; mantraikāgro niścayaṃ vai jagāma 7 svabhāvaguptaṃ nagaram āpatkāle tu bhārata gopayām āsa rājendra sarvataḥ samalaṃkṛtam 8 ārtiṃ ca paramāṃ rājā jagāma saha bhāryayā daśārṇapatinā sārdhaṃ virodhe bharatarṣabha 9 kathaṃ saṃbandhinā sārdhaṃ na me syād vigraho mahān iti saṃcintya manasā daivatāny arcayat tadā 10 taṃ tu dṛṣṭvā tadā rājan devī deva paraṃ tathā arcāṃ prayuñjānam atho bhāryā vacanam abravīt 11 devānāṃ pratipattiś ca satyā sādhumatā sadā sā tu duḥkhārṇavaṃ prāpya naḥ syād arcayatāṃ bhṛśam 12 daivatāni ca sarvāṇi pūjyantāṃ bhūridakṣiṇaiḥ agnayaś cāpi hūyantāṃ dāśārṇapratisedhane 13 ayuddhena nivṛttiṃ ca manasā cintayābhibho devatānāṃ prasādena sarvam etad bhaviṣyati 14 mantribhir mantritaṃ sārdhaṃ tvayā yat pṛthulocana purasyāsyāvināśāya tac ca rājaṃs tathā kuru 15 daivaṃ hi mānuṣopetaṃ bhṛśaṃ sidhyati pārthiva parasparavirodhāt tu nānayoḥ siddhir asti vai 16 tasmād vidhāya nagare vidhānaṃ sacivaiḥ saha arcayasva yathākāmaṃ daivatāni viśāṃ pate 17 evaṃ saṃbhāṣamāṇau tau dṛṣṭvā śokaparāyaṇau śikhaṇḍinī tadā kanyā vrīḍiteva manasvinī 18 tataḥ sā cintayām āsa matkṛte duḥkhitāv ubhau imāv iti tataś cakre matiṃ prāṇavināśane 19 evaṃ sā niścayaṃ kṛtvā bhṛśaṃ śokaparāyaṇā jagāma bhavanaṃ tyaktvā gahanaṃ nirjanaṃ vanam 20 yakṣeṇarddhimatā rājan sthūṇākarṇena pālitam tadbhayād eva ca jano visarjayati tad vanam 21 tatra sthūṇasya bhavanaṃ sudhāmṛttikalepanam lājollāpikadhūmāḍhyam uccaprākāratoraṇam 22 tat praviśya śikhaṇḍī sā drupadasyātmajā nṛpa anaśnatī bahutithaṃ śarīram upaśoṣayat 23 darśayām āsa tāṃ yakṣaḥ sthūṇo madhvakṣasaṃyutaḥ kimartho 'yaṃ tavārambhaḥ kariṣye brūhi māciram 24 aśakyam iti sā yakṣaṃ punaḥ punar uvāca ha kariṣyāmīti caināṃ sa pratyuvācātha guhyakaḥ 25 dhaneśvarasyānucaro varado 'smi nṛpātmaje adeyam api dāsyāmi brūhi yat te vivakṣitam 26 tataḥ śikhaṇḍī tat sarvam akhilena nyavedayat tasmai yakṣapradhānāya sthūṇākarṇāya bhārata 27 āpanno me pitā yakṣa nacirād vinaśiṣyati abhiyāsyati saṃkruddho daśārṇādhipatir hi tam 28 mahābalo mahotsāhaḥ sa hemakavaco nṛpaḥ tasmād rakṣasva māṃ yakṣa pitaraṃ mātaraṃ ca me 29 pratijñāto hi bhavatā duḥkhapratinayo mama bhaveyaṃ puruṣo yakṣa tvatprasādād aninditaḥ 30 yāvad eva sa rājā vai nopayāti puraṃ mama tāvad eva mahāyakṣa prasādaṃ kuru guhyaka |
The Mahabharata in Sanskrit
Book 5
Chapter 193
|
1
भीष्म उवाच शिखण्डिवाक्यं शरुत्वाथ स यक्षॊ भरतर्षभ परॊवाच मनसा चिन्त्य दैवेनॊपनिपीडितः भवितव्यं तथा तद धि मम दुःखाय कौरव 2 भद्रे कामं करिष्यामि समयं तु निबॊध मे किं चित कालान्तरं दास्ये पुंलिङ्गं सवम इदं तव आगन्तव्यं तवया काले सत्यम एतद बरवीमि ते 3 परभुः संकल्पसिद्धॊ ऽसमि कामरूपी विहंगमः मत्प्रसादात पुरं चैव तराहि बन्धूंश च केवलान 4 सत्रीलिङ्गं धारयिष्यामि तवदीयं पार्थिवात्मजे सत्यं मे परतिजानीहि करिष्यामि परियं तव 5 शिखण्ड्य उवाच परतिदास्यामि भगवँल लिङ्गं पुनर इदं तव किं चित कालान्तरं सत्रीत्वं धारयस्व निशाचर 6 परतिप्रयाते दाशार्णे पार्थिवे हेमवर्मणि कन्यैवाहं भविष्यामि पुरुषस तवं भविष्यसि 7 भीष्म उवाच इत्य उक्त्वा समयं तत्र चक्राते ताव उभौ नृप अन्यॊन्यस्यानभिद्रॊहे तौ संक्रामयतां ततः 8 सत्रीलिङ्गं धारयाम आस सथूणॊ यक्षॊ नराधिप यक्षरूपं च तद दीप्तं शिखण्डी परत्यपद्यत 9 ततः शिखण्डी पाञ्चाल्यः पुंस्त्वम आसाद्य पार्थिव विवेश नगरं हृष्टः पितरं च समासदत यथावृत्तं तु तत सर्वम आचख्यौ दरुपदस्य च 10 दरुपदस तस्य तच छरुत्वा हर्षम आहारयत परम सभार्यस तच च सस्मार महेश्वरवचस तदा 11 ततः संप्रेषयाम आस दशार्णाधिपतेर नृप पुरुषॊ ऽयं मम सुतः शरद्धत्तां मे भवान इति 12 अथ दाशार्णकॊ राजा सहसाभ्यागमत तदा पाञ्चालराजं दरुपदं दुःखामर्षसमन्वितः 13 ततः काम्पिल्यम आसाद्य दशार्णाधिपतिर तदा परेषयाम आस सत्कृत्य दूतं बरह्मविदां वरम 14 बरूहि मद्वचनाद दूत पाञ्चाल्यं तं नृपाधमम यद वै कन्यां सवकन्यार्थे वृतवान असि दुर्मते फलं तस्यावलेपस्य दरक्ष्यस्य अद्य न संशयः 15 एवम उक्तस तु तेनासौ बराह्मणॊ राजसत्तम दूतः परयातॊ नगरं दाशार्णनृपचॊदितः 16 तत आसादयाम आस पुरॊधा दरुपदं पुरे तस्मै पाञ्चालकॊ राजा गाम अर्घ्यं च सुसत्कृतम परापयाम आस राजेन्द्र सह तेन शिखण्डिना 17 तां पूजां नाभ्यनन्दत स वाक्यं चेदम उवाच ह यद उक्तं तेन वीरेण राज्ञा काञ्चनवर्मणा 18 यत ते ऽहम अधमाचार दुहित्रर्थे ऽसमि वञ्चितः तस्य पापस्य करणात फलं पराप्नुहि दुर्मते 19 देहि युद्धं नरपते ममाद्य रणमूर्धनि उद्धरिष्यामि ते सद्यः सामात्यसुतबान्धवम 20 तद उपालम्भसंयुक्तं शरावितः किल पार्थिवः दशार्णपतिदूतेन मन्त्रिमध्ये पुरॊधसा 21 अब्रवीद भरतश्रेष्ठ दरुपदः परणयानतः यद आह मां भवान बरह्मन संबन्धिवचनाद वचः तस्यॊत्तरं परतिवचॊ दूत एव वदिष्यति 22 ततः संप्रेषयाम आस दरुपदॊ ऽपि महात्मने हिरण्यवर्मणे दूतं बराह्मणं वेदपारगम 23 समागम्य तु राज्ञा स दशार्णपतिना तदा तद वाक्यम आददे राजन यद उक्तं दरुपदेन ह 24 आगमः करियतां वयक्तं कुमारॊ वै सुतॊ मम मिथ्यैतद उक्तं केनापि तन न शरद्धेयम इत्य उत 25 ततः स राजा दरुपदस्य शरुत्वा; विमर्शयुक्तॊ युवतीर वरिष्ठाः संप्रेषयाम आस सुचारुरूपाः; शिखण्डिनं सत्री पुमान वेति वेत्तुम 26 ताः परेषितास तत्त्वभावं विदित्वा; परीत्या राज्ञे तच छशंसुर हि सर्वम शिखण्डिनं पुरुषं कौरवेन्द्र; दशार्णराजाय महानुभावम 27 ततः कृत्वा तु राजा स आगमं परीतिमान अथ संबन्धिना समागम्य हृष्टॊ वासम उवास ह 28 शिखण्डिने च मुदितः परादाद वित्तं जनेश्वरः हस्तिनॊ ऽशवांश च गाश चैव दास्यॊ बहुशतास तथा पूजितश च परतिययौ निवर्त्य तनयां किल 29 विनीतकिल्बिषे परीते हेमवर्मणि पार्थिवे परतियाते तु दाशार्णे हृष्टरूपा शिखण्डिनी 30 कस्य चित तव अथ कालस्य कुबेरॊ नरवाहनः लॊकानुयात्रां कुर्वाणः सथूणस्यागान निवेशनम 31 स तद्गृहस्यॊपरि वर्तमान; आलॊकयाम आस धनाधिगॊप्ता सथूणस्य यक्षस्य निशाम्य वेश्म; सवलंकृतं माल्यगुणैर विचित्रम 32 लाजैश च गन्धैश च तथा वितानैर; अभ्यर्चितं धूपनधूपितं च धवजैः पताकाभिर अलंकृतं च; भक्ष्यान्नपेयामिषदत्तहॊमम 33 तत सथानं तस्य दृष्ट्वा तु सर्वतः समलंकृतम अथाब्रवीद यक्षपतिस तान यक्षान अनुगांस तदा 34 सवलंकृतम इदं वेश्म सथूणस्यामितविक्रमाः नॊपसर्पति मां चापि कस्माद अद्य सुमन्दधीः 35 यस्माज जानन सुमन्दात्मा माम असौ नॊपसर्पति तस्मात तस्मै महादण्डॊ धार्यः सयाद इति मे मतिः 36 यक्षा ऊचुः दरुपदस्य सुता राजन राज्ञॊ जाता शिखण्डिनी तस्मै निमित्ते कस्मिंश चित परादात पुरुषलक्षणम 37 अग्रहील लक्षणं सत्रीणां सत्रीभूतस तिष्ठते गृहे नॊपसर्पति तेनासौ सव्रीडः सत्रीस्वरूपवान 38 एतस्मात कारणाद राजन सथूणॊ न तवाद्य पश्यति शरुत्वा कुरु यथान्यायं विमानम इह तिष्ठताम 39 भीष्म उवास आनीयतां सथूण इति ततॊ यक्षाधिपॊ ऽबरवीत कर्तास्मि निग्रहं तस्येत्य उवाच स पुनः पुनः 40 सॊ ऽभयगच्छत यक्षेन्द्रम आहूतः पृथिवीपते सत्रीस्वरूपॊ महाराज तस्थौ वरीडासमन्वितः 41 तं शशाप सुसंक्रुद्धॊ धनदः कुरुनन्दन एवम एव भवत्व अस्य सत्रीत्वं पापस्य गुह्यकाः 42 ततॊ ऽबरवीद यक्षपतिर महात्मा; यस्माद अदास तव अवमन्येह यक्षान शिखण्डिने लक्षणं पापबुद्धे; सत्रीलक्षणं चाग्रहीः पापकर्मन 43 अप्रवृत्तं सुदुर्बुद्धे यस्माद एतत कृतं तवया तस्माद अद्य परभृत्य एव तवं सत्री स पुरुषस तथा 44 ततः परसादयाम आसुर यक्षा वैश्रवणं किल सथूणस्यार्थे कुरुष्वान्तं शापस्येति पुनः पुनः 45 ततॊ महात्मा यक्षेन्द्रः परत्युवाचानुगामिनः सर्वान यक्षगणांस तात शापस्यान्तचिकीर्षया 46 हते शिखण्डिनि रणे सवरूपं परतिपत्स्यते सथूणॊ यक्षॊ निरुद्वेगॊ भवत्व इति महामनाः 47 इत्य उक्त्वा भगवान देवॊ यक्षराक्षसपूजितः परययौ सह तैः सर्वैर निमेषान्तरचारिभिः 48 सथूणस तु शापं संप्राप्य तत्रैव नयवसत तदा समये चागमत तं वै शिखण्डी स कषपाचरम 49 सॊ ऽभिगम्याब्रवीद वाक्यं पराप्तॊ ऽसमि भगवन्न इति तम अब्रवीत ततः सथूणः परीतॊ ऽसमीति पुनः पुनः 50 आर्जवेनागतं दृष्ट्वा राजपुत्रं शिखण्डिनम सर्वम एव यथावृत्तम आचचक्षे शिखण्डिने 51 यक्ष उवाच शप्तॊ वैश्रवणेनास्मि तवत्कृते पार्थिवात्मज गच्छेदानीं यथाकामं चर लॊकान यथासुखम 52 दिष्टम एतत पुरा मन्ये न शक्यम अतिवर्तितुम गमनं तव चेतॊ हि पौलस्त्यस्य च दर्शनम 53 भीष्म उवाच एवम उक्तः शिखण्डी तु सथूणयक्षेण भारत परत्याजगाम नगरं हर्षेण महतान्वितः 54 पूजयाम आस विविधैर गन्धमाल्यैर महाधनैः दविजातीन देवताश चापि चैत्यान अथ चतुष्पथान 55 दरुपदः सह पुत्रेण सिद्धार्थेन शिखण्डिना मुदं च परमां लेभे पाञ्चाल्यः सह बान्धवैः 56 शिष्यार्थं परददौ चापि दरॊणाय कुरुपुंगव शिखण्डिनं महाराज पुत्रं सत्रीपूर्विणं तथा 57 परतिपेदे चतुष्पादं धनुर्वेदं नृपात्मजः शिखण्डी सह युष्माभिर धृष्टद्युम्नश च पार्षतः 58 मम तव एतच चरास तात यथावत परत्यवेदयन जडान्धबधिराकारा ये युक्ता दरुपदे मया 59 एवम एष महाराज सत्रीपुमान दरुपदात्मजः संभूतः कौरवश्रेष्ठ शिखण्डी रथसत्तमः 60 जयेष्ठा काशिपतेः कन्या अम्बा नामेति विश्रुता दरुपदस्य कुले जाता शिखण्डी भरतर्षभ 61 नाहम एनं धनुष्पाणिं युयुत्सुं समुपस्थितम मुहूर्तम अपि पश्येयं परहरेयं न चाप्य उत 62 वरतम एतन मम सदा पृथिव्याम अपि विश्रुतम सत्रियां सत्रीपूर्वके चापि सत्रीनाम्नि सत्रीस्वरूपिणि 63 न मुञ्चेयम अहं बाणान इति कौरवनन्दन न हन्याम अहम एतेन कारणेन शिखण्डिनम 64 एतत तत्त्वम अहं वेद जन्म तात शिखण्डिनः ततॊ नैनं हनिष्यामि समरेष्व आततायिनम 65 यदि भीष्मः सत्रियं हन्याद धन्याद आत्मानम अप्य उत नैनं तस्माद धनिष्यामि दृष्ट्वापि समरे सथितम 66 संजय उवाच एतच छरुत्वा तु कौरव्यॊ राजा दुर्यॊधनस तदा मुहूर्तम इव स धयात्वा भीष्मे युक्तम अमन्यत |
1
bhīṣma uvāca śikhaṇḍivākyaṃ śrutvātha sa yakṣo bharatarṣabha provāca manasā cintya daivenopanipīḍitaḥ bhavitavyaṃ tathā tad dhi mama duḥkhāya kaurava 2 bhadre kāmaṃ kariṣyāmi samayaṃ tu nibodha me kiṃ cit kālāntaraṃ dāsye puṃliṅgaṃ svam idaṃ tava āgantavyaṃ tvayā kāle satyam etad bravīmi te 3 prabhuḥ saṃkalpasiddho 'smi kāmarūpī vihaṃgamaḥ matprasādāt puraṃ caiva trāhi bandhūṃś ca kevalān 4 strīliṅgaṃ dhārayiṣyāmi tvadīyaṃ pārthivātmaje satyaṃ me pratijānīhi kariṣyāmi priyaṃ tava 5 śikhaṇḍy uvāca pratidāsyāmi bhagavaṁl liṅgaṃ punar idaṃ tava kiṃ cit kālāntaraṃ strītvaṃ dhārayasva niśācara 6 pratiprayāte dāśārṇe pārthive hemavarmaṇi kanyaivāhaṃ bhaviṣyāmi puruṣas tvaṃ bhaviṣyasi 7 bhīṣma uvāca ity uktvā samayaṃ tatra cakrāte tāv ubhau nṛpa anyonyasyānabhidrohe tau saṃkrāmayatāṃ tataḥ 8 strīliṅgaṃ dhārayām āsa sthūṇo yakṣo narādhipa yakṣarūpaṃ ca tad dīptaṃ śikhaṇḍī pratyapadyata 9 tataḥ śikhaṇḍī pāñcālyaḥ puṃstvam āsādya pārthiva viveśa nagaraṃ hṛṣṭaḥ pitaraṃ ca samāsadat yathāvṛttaṃ tu tat sarvam ācakhyau drupadasya ca 10 drupadas tasya tac chrutvā harṣam āhārayat param sabhāryas tac ca sasmāra maheśvaravacas tadā 11 tataḥ saṃpreṣayām āsa daśārṇādhipater nṛpa puruṣo 'yaṃ mama sutaḥ śraddhattāṃ me bhavān iti 12 atha dāśārṇako rājā sahasābhyāgamat tadā pāñcālarājaṃ drupadaṃ duḥkhāmarṣasamanvitaḥ 13 tataḥ kāmpilyam āsādya daśārṇādhipatir tadā preṣayām āsa satkṛtya dūtaṃ brahmavidāṃ varam 14 brūhi madvacanād dūta pāñcālyaṃ taṃ nṛpādhamam yad vai kanyāṃ svakanyārthe vṛtavān asi durmate phalaṃ tasyāvalepasya drakṣyasy adya na saṃśayaḥ 15 evam uktas tu tenāsau brāhmaṇo rājasattama dūtaḥ prayāto nagaraṃ dāśārṇanṛpacoditaḥ 16 tata āsādayām āsa purodhā drupadaṃ pure tasmai pāñcālako rājā gām arghyaṃ ca susatkṛtam prāpayām āsa rājendra saha tena śikhaṇḍinā 17 tāṃ pūjāṃ nābhyanandat sa vākyaṃ cedam uvāca ha yad uktaṃ tena vīreṇa rājñā kāñcanavarmaṇā 18 yat te 'ham adhamācāra duhitrarthe 'smi vañcitaḥ tasya pāpasya karaṇāt phalaṃ prāpnuhi durmate 19 dehi yuddhaṃ narapate mamādya raṇamūrdhani uddhariṣyāmi te sadyaḥ sāmātyasutabāndhavam 20 tad upālambhasaṃyuktaṃ śrāvitaḥ kila pārthivaḥ daśārṇapatidūtena mantrimadhye purodhasā 21 abravīd bharataśreṣṭha drupadaḥ praṇayānataḥ yad āha māṃ bhavān brahman saṃbandhivacanād vacaḥ tasyottaraṃ prativaco dūta eva vadiṣyati 22 tataḥ saṃpreṣayām āsa drupado 'pi mahātmane hiraṇyavarmaṇe dūtaṃ brāhmaṇaṃ vedapāragam 23 samāgamya tu rājñā sa daśārṇapatinā tadā tad vākyam ādade rājan yad uktaṃ drupadena ha 24 āgamaḥ kriyatāṃ vyaktaṃ kumāro vai suto mama mithyaitad uktaṃ kenāpi tan na śraddheyam ity uta 25 tataḥ sa rājā drupadasya śrutvā; vimarśayukto yuvatīr variṣṭhāḥ saṃpreṣayām āsa sucārurūpāḥ; śikhaṇḍinaṃ strī pumān veti vettum 26 tāḥ preṣitās tattvabhāvaṃ viditvā; prītyā rājñe tac chaśaṃsur hi sarvam śikhaṇḍinaṃ puruṣaṃ kauravendra; daśārṇarājāya mahānubhāvam 27 tataḥ kṛtvā tu rājā sa āgamaṃ prītimān atha saṃbandhinā samāgamya hṛṣṭo vāsam uvāsa ha 28 śikhaṇḍine ca muditaḥ prādād vittaṃ janeśvaraḥ hastino 'śvāṃś ca gāś caiva dāsyo bahuśatās tathā pūjitaś ca pratiyayau nivartya tanayāṃ kila 29 vinītakilbiṣe prīte hemavarmaṇi pārthive pratiyāte tu dāśārṇe hṛṣṭarūpā śikhaṇḍinī 30 kasya cit tv atha kālasya kubero naravāhanaḥ lokānuyātrāṃ kurvāṇaḥ sthūṇasyāgān niveśanam 31 sa tadgṛhasyopari vartamāna; ālokayām āsa dhanādhigoptā sthūṇasya yakṣasya niśāmya veśma; svalaṃkṛtaṃ mālyaguṇair vicitram 32 lājaiś ca gandhaiś ca tathā vitānair; abhyarcitaṃ dhūpanadhūpitaṃ ca dhvajaiḥ patākābhir alaṃkṛtaṃ ca; bhakṣyānnapeyāmiṣadattahomam 33 tat sthānaṃ tasya dṛṣṭvā tu sarvataḥ samalaṃkṛtam athābravīd yakṣapatis tān yakṣān anugāṃs tadā 34 svalaṃkṛtam idaṃ veśma sthūṇasyāmitavikramāḥ nopasarpati māṃ cāpi kasmād adya sumandadhīḥ 35 yasmāj jānan sumandātmā mām asau nopasarpati tasmāt tasmai mahādaṇḍo dhāryaḥ syād iti me matiḥ 36 yakṣā ūcuḥ drupadasya sutā rājan rājño jātā śikhaṇḍinī tasmai nimitte kasmiṃś cit prādāt puruṣalakṣaṇam 37 agrahīl lakṣaṇaṃ strīṇāṃ strībhūtas tiṣṭhate gṛhe nopasarpati tenāsau savrīḍaḥ strīsvarūpavān 38 etasmāt kāraṇād rājan sthūṇo na tvādya paśyati śrutvā kuru yathānyāyaṃ vimānam iha tiṣṭhatām 39 bhīṣma uvāsa ānīyatāṃ sthūṇa iti tato yakṣādhipo 'bravīt kartāsmi nigrahaṃ tasyety uvāca sa punaḥ punaḥ 40 so 'bhyagacchata yakṣendram āhūtaḥ pṛthivīpate strīsvarūpo mahārāja tasthau vrīḍāsamanvitaḥ 41 taṃ śaśāpa susaṃkruddho dhanadaḥ kurunandana evam eva bhavatv asya strītvaṃ pāpasya guhyakāḥ 42 tato 'bravīd yakṣapatir mahātmā; yasmād adās tv avamanyeha yakṣān śikhaṇḍine lakṣaṇaṃ pāpabuddhe; strīlakṣaṇaṃ cāgrahīḥ pāpakarman 43 apravṛttaṃ sudurbuddhe yasmād etat kṛtaṃ tvayā tasmād adya prabhṛty eva tvaṃ strī sa puruṣas tathā 44 tataḥ prasādayām āsur yakṣā vaiśravaṇaṃ kila sthūṇasyārthe kuruṣvāntaṃ śāpasyeti punaḥ punaḥ 45 tato mahātmā yakṣendraḥ pratyuvācānugāminaḥ sarvān yakṣagaṇāṃs tāta śāpasyāntacikīrṣayā 46 hate śikhaṇḍini raṇe svarūpaṃ pratipatsyate sthūṇo yakṣo nirudvego bhavatv iti mahāmanāḥ 47 ity uktvā bhagavān devo yakṣarākṣasapūjitaḥ prayayau saha taiḥ sarvair nimeṣāntaracāribhiḥ 48 sthūṇas tu śāpaṃ saṃprāpya tatraiva nyavasat tadā samaye cāgamat taṃ vai śikhaṇḍī sa kṣapācaram 49 so 'bhigamyābravīd vākyaṃ prāpto 'smi bhagavann iti tam abravīt tataḥ sthūṇaḥ prīto 'smīti punaḥ punaḥ 50 ārjavenāgataṃ dṛṣṭvā rājaputraṃ śikhaṇḍinam sarvam eva yathāvṛttam ācacakṣe śikhaṇḍine 51 yakṣa uvāca śapto vaiśravaṇenāsmi tvatkṛte pārthivātmaja gacchedānīṃ yathākāmaṃ cara lokān yathāsukham 52 diṣṭam etat purā manye na śakyam ativartitum gamanaṃ tava ceto hi paulastyasya ca darśanam 53 bhīṣma uvāca evam uktaḥ śikhaṇḍī tu sthūṇayakṣeṇa bhārata pratyājagāma nagaraṃ harṣeṇa mahatānvitaḥ 54 pūjayām āsa vividhair gandhamālyair mahādhanaiḥ dvijātīn devatāś cāpi caityān atha catuṣpathān 55 drupadaḥ saha putreṇa siddhārthena śikhaṇḍinā mudaṃ ca paramāṃ lebhe pāñcālyaḥ saha bāndhavaiḥ 56 śiṣyārthaṃ pradadau cāpi droṇāya kurupuṃgava śikhaṇḍinaṃ mahārāja putraṃ strīpūrviṇaṃ tathā 57 pratipede catuṣpādaṃ dhanurvedaṃ nṛpātmajaḥ śikhaṇḍī saha yuṣmābhir dhṛṣṭadyumnaś ca pārṣataḥ 58 mama tv etac carās tāta yathāvat pratyavedayan jaḍāndhabadhirākārā ye yuktā drupade mayā 59 evam eṣa mahārāja strīpumān drupadātmajaḥ saṃbhūtaḥ kauravaśreṣṭha śikhaṇḍī rathasattamaḥ 60 jyeṣṭhā kāśipateḥ kanyā ambā nāmeti viśrutā drupadasya kule jātā śikhaṇḍī bharatarṣabha 61 nāham enaṃ dhanuṣpāṇiṃ yuyutsuṃ samupasthitam muhūrtam api paśyeyaṃ prahareyaṃ na cāpy uta 62 vratam etan mama sadā pṛthivyām api viśrutam striyāṃ strīpūrvake cāpi strīnāmni strīsvarūpiṇi 63 na muñceyam ahaṃ bāṇān iti kauravanandana na hanyām aham etena kāraṇena śikhaṇḍinam 64 etat tattvam ahaṃ veda janma tāta śikhaṇḍinaḥ tato nainaṃ haniṣyāmi samareṣv ātatāyinam 65 yadi bhīṣmaḥ striyaṃ hanyād dhanyād ātmānam apy uta nainaṃ tasmād dhaniṣyāmi dṛṣṭvāpi samare sthitam 66 saṃjaya uvāca etac chrutvā tu kauravyo rājā duryodhanas tadā muhūrtam iva sa dhyātvā bhīṣme yuktam amanyata |
The Mahabharata in Sanskrit
Book 5
Chapter 194
|
1
संजय उवाच परभातायां तु शर्वर्यां पुनर एव सुतस तव मध्ये सर्वस्य सैन्यस्य पितामहम अपृच्छत 2 पाण्डवेयस्य गाङ्गेय यद एतत सैन्यम उत्तमम परभूतनरनागाश्वं महारथसमाकुलम 3 भीमार्जुनप्रभृतिभिर महेष्वासैर महाबलैः लॊकपालॊपमैर गुप्तं धृष्टद्युम्नपुरॊगमैः 4 अप्रधृष्यम अनावार्यम उद्वृत्तम इव सागरम सेनासागरम अक्षॊभ्यम अपि देवैर महाहवे 5 केन कालेन गाङ्गेय कषपयेथा महाद्युते आचार्यॊ वा महेष्वासः कृपॊ वा सुमहाबलः 6 कर्णॊ वा समरश्लाघी दरौणिर वा दविजसत्तमः दिव्यास्त्रविदुषः सर्वे भवन्तॊ हि बले मम 7 एतद इच्छाम्य अहं जञातुं परं कौतूहलं हि मे हृदि नित्यं महाबाहॊ वक्तुम अर्हसि तन मम 8 भीष्म उवाच अनुरूपं कुरुश्रेष्ठ तवय्य एतत पृथिवीपते बलाबलम अमित्राणां सवेषां च यदि पृच्छसि 9 शृणु राजन मम रणे या शक्तिः परमा भवेत अस्त्रवीर्यं रणे यच च भुजयॊश च महाभुज 10 आर्जवेनैव युद्धेन यॊद्धव्य इतरॊ जनः मायायुद्धेन मायावी इत्य एतद धर्मनिश्चयः 11 हन्याम अहं महाबाहॊ पाण्डवानाम अनीकिनीम दिवसे दिवसे कृत्वा भागं परागाह्निकं मम 12 यॊधानां दशसाहस्रं कृत्वा भागं महाद्युते सहस्रं रथिनाम एकम एष भागॊ मतॊ मम 13 अनेनाहं विधानेन संनद्धः सततॊत्थितः कषपयेयं महत सैन्यं कालेनानेन भारत 14 यदि तव अस्त्राणि मुञ्चेयं महान्ति समरे सथितः शतसाहस्रघातीनि हन्यां मासेन भारत 15 संजय उवाच शरुत्वा भीष्मस्य तद वाक्यं राजा दुर्यॊधनस तदा पर्यपृच्छत राजेन्द्र दरॊणम अङ्गिरसां वरम 16 आचार्य केन कालेन पाण्डुपुत्रस्य सैनिकान निहन्या इति तं दरॊणः परत्युवाच हसन्न इव 17 सथविरॊ ऽसमि कुरुश्रेष्ठ मन्दप्राणविचेष्टितः अस्त्राग्निना निर्दहेयं पाण्डवानाम अनीकिनीम 18 यथा भीष्मः शांतनवॊ मासेनेति मतिर मम एषा मे परमा शक्तिर एतन मे परमं बलम 19 दवाभ्याम एव तु मासाभ्यां कृपः शारद्वतॊ ऽबरवीत दरौणिस तु दशरात्रेण परतिजज्ञे बलक्षयम कर्णस तु पञ्चरात्रेण परतिजज्ञे महास्त्रवित 20 तच छरुत्वा सूतपुत्रस्य वाक्यं सागरगासुतः जहास सस्वनं हासं वाक्यं चेदम उवाच ह 21 न हि तावद रणे पार्थं बाणखड्गधनुर्धरम वासुदेवसमायुक्तं रथेनॊद्यन्तम अच्युतम 22 समागच्छसि राधेय तेनैवम अभिमन्यसे शक्यम एवं च भूयश च तवया वक्तुं यथेष्टतः |
1
saṃjaya uvāca prabhātāyāṃ tu śarvaryāṃ punar eva sutas tava madhye sarvasya sainyasya pitāmaham apṛcchata 2 pāṇḍaveyasya gāṅgeya yad etat sainyam uttamam prabhūtanaranāgāśvaṃ mahārathasamākulam 3 bhīmārjunaprabhṛtibhir maheṣvāsair mahābalaiḥ lokapālopamair guptaṃ dhṛṣṭadyumnapurogamaiḥ 4 apradhṛṣyam anāvāryam udvṛttam iva sāgaram senāsāgaram akṣobhyam api devair mahāhave 5 kena kālena gāṅgeya kṣapayethā mahādyute ācāryo vā maheṣvāsaḥ kṛpo vā sumahābalaḥ 6 karṇo vā samaraślāghī drauṇir vā dvijasattamaḥ divyāstraviduṣaḥ sarve bhavanto hi bale mama 7 etad icchāmy ahaṃ jñātuṃ paraṃ kautūhalaṃ hi me hṛdi nityaṃ mahābāho vaktum arhasi tan mama 8 bhīṣma uvāca anurūpaṃ kuruśreṣṭha tvayy etat pṛthivīpate balābalam amitrāṇāṃ sveṣāṃ ca yadi pṛcchasi 9 śṛṇu rājan mama raṇe yā śaktiḥ paramā bhavet astravīryaṃ raṇe yac ca bhujayoś ca mahābhuja 10 ārjavenaiva yuddhena yoddhavya itaro janaḥ māyāyuddhena māyāvī ity etad dharmaniścayaḥ 11 hanyām ahaṃ mahābāho pāṇḍavānām anīkinīm divase divase kṛtvā bhāgaṃ prāgāhnikaṃ mama 12 yodhānāṃ daśasāhasraṃ kṛtvā bhāgaṃ mahādyute sahasraṃ rathinām ekam eṣa bhāgo mato mama 13 anenāhaṃ vidhānena saṃnaddhaḥ satatotthitaḥ kṣapayeyaṃ mahat sainyaṃ kālenānena bhārata 14 yadi tv astrāṇi muñceyaṃ mahānti samare sthitaḥ śatasāhasraghātīni hanyāṃ māsena bhārata 15 saṃjaya uvāca śrutvā bhīṣmasya tad vākyaṃ rājā duryodhanas tadā paryapṛcchata rājendra droṇam aṅgirasāṃ varam 16 ācārya kena kālena pāṇḍuputrasya sainikān nihanyā iti taṃ droṇaḥ pratyuvāca hasann iva 17 sthaviro 'smi kuruśreṣṭha mandaprāṇaviceṣṭitaḥ astrāgninā nirdaheyaṃ pāṇḍavānām anīkinīm 18 yathā bhīṣmaḥ śāṃtanavo māseneti matir mama eṣā me paramā śaktir etan me paramaṃ balam 19 dvābhyām eva tu māsābhyāṃ kṛpaḥ śāradvato 'bravīt drauṇis tu daśarātreṇa pratijajñe balakṣayam karṇas tu pañcarātreṇa pratijajñe mahāstravit 20 tac chrutvā sūtaputrasya vākyaṃ sāgaragāsutaḥ jahāsa sasvanaṃ hāsaṃ vākyaṃ cedam uvāca ha 21 na hi tāvad raṇe pārthaṃ bāṇakhaḍgadhanurdharam vāsudevasamāyuktaṃ rathenodyantam acyutam 22 samāgacchasi rādheya tenaivam abhimanyase śakyam evaṃ ca bhūyaś ca tvayā vaktuṃ yatheṣṭataḥ |
The Mahabharata in Sanskrit
Book 5
Chapter 195
|
1
वैशंपायन उवाच एतच छरुत्वा तु कौन्तेयः सर्वान भरातॄन उपह्वरे आहूय भरतश्रेष्ठ इदं वचनम अब्रवीत 2 धार्तराष्ट्रस्य सैन्येषु ये चारपुरुषा मम ते परवृत्तिं परयच्छन्ति ममेमां वयुषितां निशाम 3 दुर्यॊधनः किलापृच्छद आपगेयं महाव्रतम केन कालेन पाण्डूनां हन्याः सैन्यम इति परभॊ 4 मासेनेति च तेनॊक्तॊ धार्तराष्ट्रः सुदुर्मतिः तावता चापि कालेन दरॊणॊ ऽपि परत्यजानत 5 गौतमॊ दविगुणं कालम उक्तवान इति नः शरुतम दरौणिस तु दशरात्रेण परतिजज्ञे महास्त्रवित 6 तथा दिव्यास्त्रवित कर्णः संपृष्टः कुरुसंसदि पञ्चभिर दिवसैर हन्तुं स सैन्यं परतिजज्ञिवान 7 तस्माद अहम अपीच्छामि शरॊतुम अर्जुन ते वचः कालेन कियता शत्रून कषपयेर इति संयुगे 8 एवम उक्तॊ गुडाकेशः पार्थिवेन धनंजयः वासुदेवम अवेक्ष्येदं वचनं परभ्यभाषत 9 सर्व एते महात्मानः कृतास्त्राश चित्रयॊधिनः असंशयं महाराज हन्युर एव बलं तव 10 अपैतु ते मनस्तापॊ यथासत्यं बरवीम्य अहम हन्याम एकरथेनाहं वासुदेवसहायवान 11 सामरान अपि लॊकांस तरीन सहस्थावरजङ्गमान भूतं भव्यं भविष्यच च निमेषाद इति मे मतिः 12 यत तद घॊरं पशुपतिः परादाद अस्त्रं महन मम कैराते दवन्द्वयुद्धे वै तद इदं मयि वर्तते 13 यद युगान्ते पशुपतिः सर्वभूतानि संहरन परयुङ्क्ते पुरुषव्याघ्र तद इदं मयि वर्तते 14 तन न जानाति गाङ्गेयॊ न दरॊणॊ न च गौतमः न च दरॊणसुतॊ राजन कुत एव तु सूतजः 15 न तु युक्तं रणे हन्तुं दिव्यैर अस्त्रैः पृथग्जनम आर्जवेनैव युद्धेन विजेष्यामॊ वयं परान 16 तथेमे पुरुषव्याघ्राः सहायास तव पार्थिव सर्वे दिव्यास्त्रविदुषः सर्वे युद्धाभिनन्दिनः 17 वेदान्तावभृथस्नाताः सर्व एते ऽपराजिताः निहन्युः समरे सेनां देवानाम अपि पाण्डव 18 शिखण्डी युयुधानश च धृष्टद्युम्नश च पार्षतः भीमसेनॊ यमौ चॊभौ युधामन्यूत्तमौजसौ 19 विराटद्रुपदौ चॊभौ भीष्मद्रॊणसमौ युधि सवयं चापि समर्थॊ ऽसि तरैलॊक्यॊत्सादने अपि 20 करॊधाद यं पुरुषं पश्येस तवं वासवसमद्युते कषिप्रं न स भवेद वयक्तम इति तवां वेद्मि कौरव |
1
vaiśaṃpāyana uvāca etac chrutvā tu kaunteyaḥ sarvān bhrātṝn upahvare āhūya bharataśreṣṭha idaṃ vacanam abravīt 2 dhārtarāṣṭrasya sainyeṣu ye cārapuruṣā mama te pravṛttiṃ prayacchanti mamemāṃ vyuṣitāṃ niśām 3 duryodhanaḥ kilāpṛcchad āpageyaṃ mahāvratam kena kālena pāṇḍūnāṃ hanyāḥ sainyam iti prabho 4 māseneti ca tenokto dhārtarāṣṭraḥ sudurmatiḥ tāvatā cāpi kālena droṇo 'pi pratyajānata 5 gautamo dviguṇaṃ kālam uktavān iti naḥ śrutam drauṇis tu daśarātreṇa pratijajñe mahāstravit 6 tathā divyāstravit karṇaḥ saṃpṛṣṭaḥ kurusaṃsadi pañcabhir divasair hantuṃ sa sainyaṃ pratijajñivān 7 tasmād aham apīcchāmi śrotum arjuna te vacaḥ kālena kiyatā śatrūn kṣapayer iti saṃyuge 8 evam ukto guḍākeśaḥ pārthivena dhanaṃjayaḥ vāsudevam avekṣyedaṃ vacanaṃ prabhyabhāṣata 9 sarva ete mahātmānaḥ kṛtāstrāś citrayodhinaḥ asaṃśayaṃ mahārāja hanyur eva balaṃ tava 10 apaitu te manastāpo yathāsatyaṃ bravīmy aham hanyām ekarathenāhaṃ vāsudevasahāyavān 11 sāmarān api lokāṃs trīn sahasthāvarajaṅgamān bhūtaṃ bhavyaṃ bhaviṣyac ca nimeṣād iti me matiḥ 12 yat tad ghoraṃ paśupatiḥ prādād astraṃ mahan mama kairāte dvandvayuddhe vai tad idaṃ mayi vartate 13 yad yugānte paśupatiḥ sarvabhūtāni saṃharan prayuṅkte puruṣavyāghra tad idaṃ mayi vartate 14 tan na jānāti gāṅgeyo na droṇo na ca gautamaḥ na ca droṇasuto rājan kuta eva tu sūtajaḥ 15 na tu yuktaṃ raṇe hantuṃ divyair astraiḥ pṛthagjanam ārjavenaiva yuddhena vijeṣyāmo vayaṃ parān 16 tatheme puruṣavyāghrāḥ sahāyās tava pārthiva sarve divyāstraviduṣaḥ sarve yuddhābhinandinaḥ 17 vedāntāvabhṛthasnātāḥ sarva ete 'parājitāḥ nihanyuḥ samare senāṃ devānām api pāṇḍava 18 śikhaṇḍī yuyudhānaś ca dhṛṣṭadyumnaś ca pārṣataḥ bhīmaseno yamau cobhau yudhāmanyūttamaujasau 19 virāṭadrupadau cobhau bhīṣmadroṇasamau yudhi svayaṃ cāpi samartho 'si trailokyotsādane api 20 krodhād yaṃ puruṣaṃ paśyes tvaṃ vāsavasamadyute kṣipraṃ na sa bhaved vyaktam iti tvāṃ vedmi kaurava |
The Mahabharata in Sanskrit
Book 5
Chapter 196
|
1
वैशंपायन उवाच ततः परभाते विमले धार्तराष्ट्रेण चॊदिताः दुर्यॊधनेन राजानः परययुः पाण्डवान परति 2 आप्लाव्य शुचयः सर्वे सरग्विणः शुक्लवाससः गृहीतशस्त्रा धवजिनः सवस्ति वाच्य हुताग्नयः 3 सर्वे वेदविदः शूराः सर्वे सुचरितव्रताः सर्वे कर्मकृतश चैव सर्वे चाहवलक्षणाः 4 आहवेषु पराँल लॊकाञ जिगीषन्तॊ महाबलाः एकाग्रमनसः सर्वे शरद्दधानाः परस्य च 5 विन्दानुविन्दाव आवन्त्यौ केकया बाह्लिकैः सह परययुः सर्व एवैते भारद्वाजपुरॊगमाः 6 अश्वत्थामा शांतनवः सैन्धवॊ ऽथ जयद्रथः दाक्षिणात्याः परतीच्याश च पार्वतीयाश च ये रथाः 7 गान्धारराजः शकुनिः पराच्यॊदीच्याश च सर्वशः शकाः किराता यवनाः शिबयॊ ऽथ वसातयः 8 सवैः सवैर अनीकैः सहिताः परिवार्य महारथम एते महारथाः सर्वे दवितीये निर्ययुर बले 9 कृतवर्मा सहानीकस तरिगर्ताश च महाबलाः दुर्यॊधनश च नृपतिर भरातृभिः परिवारितः 10 शलॊ भूरिश्रवाः शल्यः कौसल्यॊ ऽथ बृहद्बलः एते पश्चाद अवर्तन्त धार्तराष्ट्रपुरॊगमाः 11 ते समेन पथा यात्वा यॊत्स्यमाना महारथाः कुरुक्षेत्रस्य पश्चार्धे वयवतिष्ठन्त दंशिताः 12 दुर्यॊधनस तु शिबिरं कारयाम आस भारत यथैव हास्तिनपुरं दवितीयं समलंकृतम 13 न विशेषं विजानन्ति पुरस्य शिबिरस्य वा कुशला अपि राजेन्द्र नरा नगरवासिनः 14 तादृशन्य एव दुर्गाणि राज्ञाम अपि महीपतिः कारयाम आस कौरव्यः शतशॊ ऽथ सहस्रशः 15 पञ्चयॊजनम उत्सृज्य मण्डलं तद रणाजिरम सेनानिवेशास ते राजन्न आविशञ शतसंघशः 16 तत्र ते पृथिवीपाला यथॊत्साहं यथाबलम विविशुः शिबिराण्य आशु दरव्यवन्ति सहस्रशः 17 तेषां दुर्यॊधनॊ राजा ससैन्यानां महात्मनाम वयादिदेश सबाह्यानां भक्ष्यभॊज्यम अनुत्तमम 18 सगजाश्वमनुष्याणां ये च शिल्पॊपजीविनः ये चान्ये ऽनुगतास तत्र सूतमागधबन्दिनः 19 वणिजॊ गणिका वारा ये चैव परेक्षका जनाः सर्वांस तान कौरवॊ राजा विधिवत परत्यवैक्षत |
1
vaiśaṃpāyana uvāca tataḥ prabhāte vimale dhārtarāṣṭreṇa coditāḥ duryodhanena rājānaḥ prayayuḥ pāṇḍavān prati 2 āplāvya śucayaḥ sarve sragviṇaḥ śuklavāsasaḥ gṛhītaśastrā dhvajinaḥ svasti vācya hutāgnayaḥ 3 sarve vedavidaḥ śūrāḥ sarve sucaritavratāḥ sarve karmakṛtaś caiva sarve cāhavalakṣaṇāḥ 4 āhaveṣu parāṁl lokāñ jigīṣanto mahābalāḥ ekāgramanasaḥ sarve śraddadhānāḥ parasya ca 5 vindānuvindāv āvantyau kekayā bāhlikaiḥ saha prayayuḥ sarva evaite bhāradvājapurogamāḥ 6 aśvatthāmā śāṃtanavaḥ saindhavo 'tha jayadrathaḥ dākṣiṇātyāḥ pratīcyāś ca pārvatīyāś ca ye rathāḥ 7 gāndhārarājaḥ śakuniḥ prācyodīcyāś ca sarvaśaḥ śakāḥ kirātā yavanāḥ śibayo 'tha vasātayaḥ 8 svaiḥ svair anīkaiḥ sahitāḥ parivārya mahāratham ete mahārathāḥ sarve dvitīye niryayur bale 9 kṛtavarmā sahānīkas trigartāś ca mahābalāḥ duryodhanaś ca nṛpatir bhrātṛbhiḥ parivāritaḥ 10 śalo bhūriśravāḥ śalyaḥ kausalyo 'tha bṛhadbalaḥ ete paścād avartanta dhārtarāṣṭrapurogamāḥ 11 te samena pathā yātvā yotsyamānā mahārathāḥ kurukṣetrasya paścārdhe vyavatiṣṭhanta daṃśitāḥ 12 duryodhanas tu śibiraṃ kārayām āsa bhārata yathaiva hāstinapuraṃ dvitīyaṃ samalaṃkṛtam 13 na viśeṣaṃ vijānanti purasya śibirasya vā kuśalā api rājendra narā nagaravāsinaḥ 14 tādṛśany eva durgāṇi rājñām api mahīpatiḥ kārayām āsa kauravyaḥ śataśo 'tha sahasraśaḥ 15 pañcayojanam utsṛjya maṇḍalaṃ tad raṇājiram senāniveśās te rājann āviśañ śatasaṃghaśaḥ 16 tatra te pṛthivīpālā yathotsāhaṃ yathābalam viviśuḥ śibirāṇy āśu dravyavanti sahasraśaḥ 17 teṣāṃ duryodhano rājā sasainyānāṃ mahātmanām vyādideśa sabāhyānāṃ bhakṣyabhojyam anuttamam 18 sagajāśvamanuṣyāṇāṃ ye ca śilpopajīvinaḥ ye cānye 'nugatās tatra sūtamāgadhabandinaḥ 19 vaṇijo gaṇikā vārā ye caiva prekṣakā janāḥ sarvāṃs tān kauravo rājā vidhivat pratyavaikṣata |
The Mahabharata in Sanskrit
Book 5
Chapter 197
|
1
वैशंपायन उवाच तथैव राजा कौन्तेयॊ धर्मपुत्रॊ युधिष्ठिरः धृष्टद्युम्नमुखान वीरांश चॊदयाम आस भारत 2 चेदिकाशिकरूषाणां नेतारं दृढविक्रमम सेनापतिम अमित्रघ्नं धृष्टकेतुम अथादिशत 3 विराटं दरुपदं चैव युयुधानं शिखण्डिनम पाञ्चाल्यौ च महेष्वासौ युधामन्यूत्तमौजसौ 4 ते शूराश चित्रवर्माणस तप्तकुण्डलधारिणः आज्यावसिक्ता जवलिता धिष्ण्येष्व इव हुताशनाः अशॊभन्त महेष्वासा गरहाः परज्वलिता इव 5 सॊ ऽथ सैन्यं यथायॊगं पूजयित्वा नरर्षभः दिदेश तान्य अनीकानि परयाणाय महीपतिः 6 अभिमन्युं बृहन्तं च दरौपदेयांश च सर्वशः धृष्टद्युम्नमुखान एतान पराहिणॊत पाण्डुनन्दनः 7 भीमं च युयुधानं च पाण्डवं च धनंजयम दवितीयं परेषयाम आस बलस्कन्धं युधिष्ठिरः 8 भाण्डं समारॊपयतां चरतां संप्रधावताम हृष्टानां तत्र यॊधानां शब्दॊ दिवम इवास्पृशत 9 सवयम एव ततः पश्चाद विराटद्रुपदान्वितः तथान्यैः पृथिवीपालैः सह परायान महीपतिः 10 भीमधन्वायनी सेना धृष्टद्युम्नपुरस्कृता गङ्गेव पूर्णा सतिमिता सयन्दमाना वयदृश्यत 11 ततः पुनर अनीकानि वययॊजयत बुद्धिमान मॊहयन धृतराष्ट्रस्य पुत्राणां बुद्धिनिस्रवम 12 दरौपदेयान महेष्वासान अभिमन्युं च पाण्डवः नकुलं सहदेवं च सर्वांश चैव परभद्रकान 13 दश चाश्वसहस्राणि दविसाहस्रं च दन्तिनः अयुतं च पदातीनां रथाः पञ्चशतास तथा 14 भीमसेनं च दुर्धर्षं परथमं परादिशद बलम मध्यमे तु विराटं च जयत्सेनं च मागधम 15 महारथौ च पाञ्चाल्यौ युधामन्यूत्तमौजसौ वीर्यवन्तौ महात्मानौ गदाकार्मुकधारिणौ अन्वयातां ततॊ मध्ये वासुदेवधनंजयौ 16 बभूवुर अतिसंरब्धाः कृतप्रहरणा नराः तेषां विंशतिसाहस्रा धवजाः शूरैर अधिष्ठिताः 17 पञ्च नागसहस्राणि रथवंशाश च सर्वशः पदातयश च ये शूराः कार्मुकासिगदाधराः सहस्रशॊ ऽनय्वयुः पश्चाद अग्रतश च सहस्रशः 18 युधिष्ठिरॊ यत्र सैन्ये सवयम एव बलार्णवे तत्र ते पृथिवीपाला भूयिष्ठं पर्यवस्थिताः 19 तत्र नागसहस्राणि हयानाम अयुतानि च तथा रथसहस्राणि पदातीनां च भारत यद आश्रित्याभियुयुधे धार्तराष्ट्रं सुयॊधनम 20 ततॊ ऽनये शतशः पश्चात सहस्रायुतशॊ नराः नदन्तः परययुस तेषाम अनीकानि सहस्रशः 21 तत्र भेरीसहस्राणि शङ्खानाम अयुतानि च वादयन्ति सम संहृष्टाः सहस्रायुतशॊ नराः |
1
vaiśaṃpāyana uvāca tathaiva rājā kaunteyo dharmaputro yudhiṣṭhiraḥ dhṛṣṭadyumnamukhān vīrāṃś codayām āsa bhārata 2 cedikāśikarūṣāṇāṃ netāraṃ dṛḍhavikramam senāpatim amitraghnaṃ dhṛṣṭaketum athādiśat 3 virāṭaṃ drupadaṃ caiva yuyudhānaṃ śikhaṇḍinam pāñcālyau ca maheṣvāsau yudhāmanyūttamaujasau 4 te śūrāś citravarmāṇas taptakuṇḍaladhāriṇaḥ ājyāvasiktā jvalitā dhiṣṇyeṣv iva hutāśanāḥ aśobhanta maheṣvāsā grahāḥ prajvalitā iva 5 so 'tha sainyaṃ yathāyogaṃ pūjayitvā nararṣabhaḥ dideśa tāny anīkāni prayāṇāya mahīpatiḥ 6 abhimanyuṃ bṛhantaṃ ca draupadeyāṃś ca sarvaśaḥ dhṛṣṭadyumnamukhān etān prāhiṇot pāṇḍunandanaḥ 7 bhīmaṃ ca yuyudhānaṃ ca pāṇḍavaṃ ca dhanaṃjayam dvitīyaṃ preṣayām āsa balaskandhaṃ yudhiṣṭhiraḥ 8 bhāṇḍaṃ samāropayatāṃ caratāṃ saṃpradhāvatām hṛṣṭānāṃ tatra yodhānāṃ śabdo divam ivāspṛśat 9 svayam eva tataḥ paścād virāṭadrupadānvitaḥ tathānyaiḥ pṛthivīpālaiḥ saha prāyān mahīpatiḥ 10 bhīmadhanvāyanī senā dhṛṣṭadyumnapuraskṛtā gaṅgeva pūrṇā stimitā syandamānā vyadṛśyata 11 tataḥ punar anīkāni vyayojayata buddhimān mohayan dhṛtarāṣṭrasya putrāṇāṃ buddhinisravam 12 draupadeyān maheṣvāsān abhimanyuṃ ca pāṇḍavaḥ nakulaṃ sahadevaṃ ca sarvāṃś caiva prabhadrakān 13 daśa cāśvasahasrāṇi dvisāhasraṃ ca dantinaḥ ayutaṃ ca padātīnāṃ rathāḥ pañcaśatās tathā 14 bhīmasenaṃ ca durdharṣaṃ prathamaṃ prādiśad balam madhyame tu virāṭaṃ ca jayatsenaṃ ca māgadham 15 mahārathau ca pāñcālyau yudhāmanyūttamaujasau vīryavantau mahātmānau gadākārmukadhāriṇau anvayātāṃ tato madhye vāsudevadhanaṃjayau 16 babhūvur atisaṃrabdhāḥ kṛtapraharaṇā narāḥ teṣāṃ viṃśatisāhasrā dhvajāḥ śūrair adhiṣṭhitāḥ 17 pañca nāgasahasrāṇi rathavaṃśāś ca sarvaśaḥ padātayaś ca ye śūrāḥ kārmukāsigadādharāḥ sahasraśo 'nyvayuḥ paścād agrataś ca sahasraśaḥ 18 yudhiṣṭhiro yatra sainye svayam eva balārṇave tatra te pṛthivīpālā bhūyiṣṭhaṃ paryavasthitāḥ 19 tatra nāgasahasrāṇi hayānām ayutāni ca tathā rathasahasrāṇi padātīnāṃ ca bhārata yad āśrityābhiyuyudhe dhārtarāṣṭraṃ suyodhanam 20 tato 'nye śataśaḥ paścāt sahasrāyutaśo narāḥ nadantaḥ prayayus teṣām anīkāni sahasraśaḥ 21 tatra bherīsahasrāṇi śaṅkhānām ayutāni ca vādayanti sma saṃhṛṣṭāḥ sahasrāyutaśo narāḥ |
The Mahabharata in Sanskrit
Book 6
Chapter 1
|
1
[ज] कथं युयुधिरे वीराः कुरुपाण्डवसॊमकाः पार्थिवाश च महाभागा नानादेशसमागताः 2 [व] यथा युयुधिरे वीराः कुरुपाण्डवसॊमकाः कुरुक्षेत्रे तपःक्षेत्रे शृणु तत पृथिवीपते 3 अवतीर्य कुरुक्षेत्रं पाण्डवाः सह सॊमकाः कौरवान अभ्यवर्तन्त जिगीषन्तॊ महाबलाः 4 वेदाध्ययनसंपन्नाः सर्वे युद्धाभिनन्दिनः आशंसन्तॊ जयं युद्धे वधं वाभिमुखा रणे 5 अभियाय च दुर्धर्षां धार्तराष्ट्रस्य वाहिनीम पराङ्मुखाः पश्चिमे भागे नयविशन्त स सैनिकाः 6 समन्तपञ्चकाद बाह्यं शिबिराणि सहस्रशः कारयाम आस विधिवत कुन्तीपुत्रॊ युधिष्ठिरः 7 शून्येव पृथिवी सर्वा बालवृद्धावशेषिता निरश्व पुरुषा चासीद रथकुञ्जरवर्जिता 8 यावत तपति सूर्यॊ हि जम्बूद्वीपस्य मण्डलम तावद एव समावृत्तं बलं पार्थिव सत्तम 9 एकस्थाः सर्ववर्णास ते मण्डलं बहुयॊजनम पर्याक्रामन्त देशांश च नदीः शैलान वनानि च 10 तेषां युधिष्ठिरॊ राजा सर्वेषां पुरुषर्षभ आदिदेश स वाहानां भक्ष्यभॊज्यम अनुत्तमम 11 संज्ञाश च विविधास तास तास तेषां चक्रे युधिष्ठिरः एवं वादी वेदितव्यः पाण्डवेयॊ ऽयम इत्य उत 12 अभिज्ञानानि सर्वेषां संज्ञाश चाभरणानि च यॊजयाम आस कौरव्यॊ युद्धकाल उपस्थिते 13 दृष्ट्वा धवजाग्रं पार्थानां धार्तराष्ट्रॊ महामनाः सह सर्वैर महीपालैः परत्यव्यूहत पाण्डवान 14 पाण्डुरेणातपत्रेण धरियमाणेन मूर्धनि मध्ये नागसहस्रस्य भरातृभिः परिवारितम 15 दृष्ट्वा दुर्यॊधनं हृष्टाः सर्वे पाण्डवसैनिकाः दध्मुः सर्वे महाशङ्खान भेरीर जघ्नुः सहस्रशः 16 ततः परहृष्टां सवां सेनाम अभिवीक्ष्याथ पाण्डवाः बभूवुर हृष्टमनसॊ वासुदेवश च वीर्यवान 17 ततॊ यॊधान हर्षयन्तौ वासुदेवधनंजयौ दध्मतुः पुरुषव्याघ्रौ दिव्यौ शङ्खौ रथे सथितौ 18 पाञ्चजन्यस्य निर्घॊषं देवदत्तस्य चॊभयॊः शरुत्वा स वाहना यॊधाः शकृन मूत्रं परसुस्रुवुः 19 यथा सिंहस्य नदतः सवनं शरुत्वेतरे मृगाः तरसेयुस तद्वद एवासीद धार्तराष्ट्र बलं तदा 20 उदतिष्ठद रजॊ भौमं न पराज्ञायत किं चन अन्तर धीयत चादित्यः सैन्येन रजसावृतः 21 ववर्ष चात्र पर्जन्यॊ मांसशॊणितवृष्टिमान वयुक्षन सर्वाण्य अनीकानि तद अद्भुतम इवाभवत 22 वायुस ततः परादुरभून नीचैः शर्कर कर्षणः विनिघ्नंस तान्य अनीकानि विधमंश चैव तद रजः 23 उभे सेने तदा राजन युद्धाय मुदिते भृशम कुरुक्षेत्रे सथिते यत्ते सागरक्षुभितॊपमे 24 तयॊस तु सेनयॊर आसीद अद्भुतः स समागमः युगान्ते समनुप्राप्ते दवयॊः सागरयॊर इव 25 शून्यासीत पृथिवी सर्वा बालवृद्धावशेषिता तेन सेना समूहेन समानीतेन कौरवैः 26 ततस ते समयं चक्रुः कुरुपाण्डवसॊमकाः धर्मांश च सथापयाम आसुर युद्धानां भरतर्षभ 27 निवृत्ते चैव नॊ युद्धे परीतिश च सयात परस्परम यथा पुरं यथायॊगं न च सयाच छलनं पुनः 28 वाचा युद्धे परवृत्ते नॊ वाचैव परतियॊधनम निष्क्रान्तः पृतना मध्यान न हन्तव्यः कथं चन 29 रथी च रथिना यॊध्यॊ गजेन गजधूर गतः अश्वेनाश्वी पदातिश च पदातेनैव भारत 30 यथायॊगं यथा वीर्यं यथॊत्साहं यथा वयः समाभाष्य परहर्तव्यं न विश्वस्ते न विह्वले 31 परेण सह संयुक्तः परमत्तॊ विमुखस तथा कषीणशस्त्रॊ विवर्मा च न हन्तव्यः कथं चन 32 न सूतेषु न धुर्येषु न च शस्त्रॊपनायिषु न भेरीशङ्खवादेषु परहर्तव्यं कथं चन 33 एवं ते समयं कृत्वा कुरुपाण्डवसॊमकाः विस्मयं परमं जग्मुः परेक्षमाणाः परस्परम 34 निविश्य च महात्मानस ततस ते पुरुषर्षभाः हृष्टरूपाः सुमनसॊ बभूवुः सह सैनिकाः |
1
[j] kathaṃ yuyudhire vīrāḥ kurupāṇḍavasomakāḥ pārthivāś ca mahābhāgā nānādeśasamāgatāḥ 2 [v] yathā yuyudhire vīrāḥ kurupāṇḍavasomakāḥ kurukṣetre tapaḥkṣetre śṛṇu tat pṛthivīpate 3 avatīrya kurukṣetraṃ pāṇḍavāḥ saha somakāḥ kauravān abhyavartanta jigīṣanto mahābalāḥ 4 vedādhyayanasaṃpannāḥ sarve yuddhābhinandinaḥ āśaṃsanto jayaṃ yuddhe vadhaṃ vābhimukhā raṇe 5 abhiyāya ca durdharṣāṃ dhārtarāṣṭrasya vāhinīm prāṅmukhāḥ paścime bhāge nyaviśanta sa sainikāḥ 6 samantapañcakād bāhyaṃ śibirāṇi sahasraśaḥ kārayām āsa vidhivat kuntīputro yudhiṣṭhiraḥ 7 śūnyeva pṛthivī sarvā bālavṛddhāvaśeṣitā niraśva puruṣā cāsīd rathakuñjaravarjitā 8 yāvat tapati sūryo hi jambūdvīpasya maṇḍalam tāvad eva samāvṛttaṃ balaṃ pārthiva sattama 9 ekasthāḥ sarvavarṇās te maṇḍalaṃ bahuyojanam paryākrāmanta deśāṃś ca nadīḥ śailān vanāni ca 10 teṣāṃ yudhiṣṭhiro rājā sarveṣāṃ puruṣarṣabha ādideśa sa vāhānāṃ bhakṣyabhojyam anuttamam 11 saṃjñāś ca vividhās tās tās teṣāṃ cakre yudhiṣṭhiraḥ evaṃ vādī veditavyaḥ pāṇḍaveyo 'yam ity uta 12 abhijñānāni sarveṣāṃ saṃjñāś cābharaṇāni ca yojayām āsa kauravyo yuddhakāla upasthite 13 dṛṣṭvā dhvajāgraṃ pārthānāṃ dhārtarāṣṭro mahāmanāḥ saha sarvair mahīpālaiḥ pratyavyūhata pāṇḍavān 14 pāṇḍureṇātapatreṇa dhriyamāṇena mūrdhani madhye nāgasahasrasya bhrātṛbhiḥ parivāritam 15 dṛṣṭvā duryodhanaṃ hṛṣṭāḥ sarve pāṇḍavasainikāḥ dadhmuḥ sarve mahāśaṅkhān bherīr jaghnuḥ sahasraśaḥ 16 tataḥ prahṛṣṭāṃ svāṃ senām abhivīkṣyātha pāṇḍavāḥ babhūvur hṛṣṭamanaso vāsudevaś ca vīryavān 17 tato yodhān harṣayantau vāsudevadhanaṃjayau dadhmatuḥ puruṣavyāghrau divyau śaṅkhau rathe sthitau 18 pāñcajanyasya nirghoṣaṃ devadattasya cobhayoḥ śrutvā sa vāhanā yodhāḥ śakṛn mūtraṃ prasusruvuḥ 19 yathā siṃhasya nadataḥ svanaṃ śrutvetare mṛgāḥ traseyus tadvad evāsīd dhārtarāṣṭra balaṃ tadā 20 udatiṣṭhad rajo bhaumaṃ na prājñāyata kiṃ cana antar dhīyata cādityaḥ sainyena rajasāvṛtaḥ 21 vavarṣa cātra parjanyo māṃsaśoṇitavṛṣṭimān vyukṣan sarvāṇy anīkāni tad adbhutam ivābhavat 22 vāyus tataḥ prādurabhūn nīcaiḥ śarkara karṣaṇaḥ vinighnaṃs tāny anīkāni vidhamaṃś caiva tad rajaḥ 23 ubhe sene tadā rājan yuddhāya mudite bhṛśam kurukṣetre sthite yatte sāgarakṣubhitopame 24 tayos tu senayor āsīd adbhutaḥ sa samāgamaḥ yugānte samanuprāpte dvayoḥ sāgarayor iva 25 śūnyāsīt pṛthivī sarvā bālavṛddhāvaśeṣitā tena senā samūhena samānītena kauravaiḥ 26 tatas te samayaṃ cakruḥ kurupāṇḍavasomakāḥ dharmāṃś ca sthāpayām āsur yuddhānāṃ bharatarṣabha 27 nivṛtte caiva no yuddhe prītiś ca syāt parasparam yathā puraṃ yathāyogaṃ na ca syāc chalanaṃ punaḥ 28 vācā yuddhe pravṛtte no vācaiva pratiyodhanam niṣkrāntaḥ pṛtanā madhyān na hantavyaḥ kathaṃ cana 29 rathī ca rathinā yodhyo gajena gajadhūr gataḥ aśvenāśvī padātiś ca padātenaiva bhārata 30 yathāyogaṃ yathā vīryaṃ yathotsāhaṃ yathā vayaḥ samābhāṣya prahartavyaṃ na viśvaste na vihvale 31 pareṇa saha saṃyuktaḥ pramatto vimukhas tathā kṣīṇaśastro vivarmā ca na hantavyaḥ kathaṃ cana 32 na sūteṣu na dhuryeṣu na ca śastropanāyiṣu na bherīśaṅkhavādeṣu prahartavyaṃ kathaṃ cana 33 evaṃ te samayaṃ kṛtvā kurupāṇḍavasomakāḥ vismayaṃ paramaṃ jagmuḥ prekṣamāṇāḥ parasparam 34 niviśya ca mahātmānas tatas te puruṣarṣabhāḥ hṛṣṭarūpāḥ sumanaso babhūvuḥ saha sainikāḥ |
The Mahabharata in Sanskrit
Book 6
Chapter 2
|
1
[व] ततः पूर्वापरे संध्ये समीक्ष्य भगवान ऋषिः सर्ववेद विदां शरेष्ठॊ वयासः सत्यवती सुतः 2 भविष्यति रणे घॊरे भरतानां पितामह परत्यक्षदर्शी भगवान भूतभव्य भविष्यवित 3 वैचित्रवीर्यं राजानं स रहस्यं बरवीद इदम शॊचन्तम आर्तं धयायन्तं पुत्राणाम अनयं तदा 4 [वय] राजन परीतकालास ते पुत्राश चान्ये च भूमिपाः ते हनिष्यन्ति संग्रामे समासाद्येतरेतरम 5 तेषु कालपरीतेषु विनश्यत्सु च भारत कालपर्यायम आज्ञाय मा सम शॊके मनः कृथाः 6 यदि तव इच्छसि संग्रामे दरष्टुम एनं विशां पते चक्षुर ददानि ते हन्त युद्धम एतन निशामय 7 [धृ] न रॊचये जञातिवधं दरष्टुं बरह्मर्षिसत्तम युद्धम एतत तव अशेषेण शृणुयां तव तेजसा 8 [व] तस्मिन्न अनिच्छति दरष्टुं संग्रामं शरॊतुम इच्छति वराणाम ईश्वरॊ दाता संजयाय वरं ददौ 9 एष ते संजयॊ राजन युद्धम एतद वदिष्यति एतस्य सर्वं संग्रामे न परॊक्षं भविष्यति 10 चक्षुषा संजयॊ राजन दिव्येनैष समन्वितः कथयिष्यति ते युद्धं सर्वज्ञश च भविष्यति 11 परकाशं वा रहस्यं वा रात्रौ वा यदि वा दिवा मनसा चिन्तितम अपि सर्वं वेत्स्यति संजयः 12 नैनं शस्त्राणि भेत्स्यन्ति नैनं बाधिष्यते शरमः गावल्गणिर अयं जीवन युद्धाद अस्माद विमॊक्ष्यते 13 अहं च कीर्तिम एतेषां कुरूणां भरतर्षभ पाण्डवानां च सर्वेषां परथयिष्यामि मां शुचः 14 दिष्टम एतत पुरा चैव नात्र शॊचितुम अर्हसि न चैव शक्यं संयन्तुं यतॊ धर्मस ततॊ जयः 15 [व] एवम उक्त्वा स भगवान कुरूणां परपितामहः पुनर एव महाबाहुं धृतराष्ट्रम उवाच ह 16 इह युद्धे महाराज भविष्यति महान कषयः यथेमानि निमित्तानि भयायाद्यॊपलक्षये 17 शयेना गृध्राश च काकाश च कङ्काश च सहिता बलैः संपतन्ति वनान्तेषु समवायांश च कुर्वते 18 अत्युग्रं च परपश्यन्ति युद्धम आनन्दिनॊ दविजाः करव्यादा भक्षयिष्यन्ति मांसानि गजवाजिनाम 19 खटा खटेति वाशन्तॊ भैरवं भयवेदिनः कह्वाः परयान्ति मध्येन दक्षिणाम अभितॊ दिशम 20 उभे पूर्वापरे संध्ये नित्यं पश्यामि भारत उदयास्तमने सूर्यं कबन्धैः परिवारितम 21 शवेतलॊहित पर्यन्ताः कृष्ण गरीवाः स विद्युतः तरिवर्णाः परिघाः संधौ भानुम आवारयन्त्य उत 22 जवलितार्केन्दु नक्षत्रं निर्विशेष दिनक्षपम अहॊरात्रं मया दृष्टं तत कषयाय भविष्यति 23 अलक्ष्यः परभया हीनः पौर्णमासीं च कार्त्तिकीम चन्द्रॊ ऽभूद अग्निवर्णश च समवर्णे नभस्तले 24 सवप्स्यन्ति निहता वीरा भूमिम आवृत्य पार्थिवाः राजानॊ राजपुत्राश च शूराः परिघबाहवः 25 अन्तरिक्षे वराहस्य वृषदंशस्य चॊभयॊः परणादं युध्यतॊ रात्रौ रौद्रं नित्यं परलक्षये 26 देवता परतिमाश चापि कम्पन्ति च हसन्ति च वमन्ति रुधिरं चास्यैः सविद्यन्ति परपतन्ति च 27 अनाहता दुन्दुभयः परणदन्ति विशां पते अयुक्ताश च परवर्तन्ते कषत्रियाणां महारथाः 28 कॊकिलाः शतपत्राश च चाषा भासाः शुकास तथा सारसाश च मयूराश च वाचॊ मुञ्चन्ति दारुणाः 29 गृहीतशस्त्राभरणा वर्मिणॊ वाजिपृष्ठगाः अरुणॊदयेषु दृश्यन्ते शतशः शलभ वरजाः 30 उभे संध्ये परकाशेते दिशां दाहसमन्विते आसीद रुधिरवर्षं च अस्थि वर्षं च भारत 31 या चैषा विश्रुता राजंस तरैलॊक्ये साधु संमता अरुन्धती तयाप्य एष वसिष्ठः पृष्ठतः कृतः 32 रॊहिणीं पीडयन्न एष सथितॊ राजञ शनैश्चरः वयावृत्तं लक्ष्म सॊमस्य भविष्यति महद भयम 33 अनभ्रे च महाघॊरं सतनितं शरूयते ऽनिशम वाहनानां च रुदतां परपतन्त्य अश्रुबिन्दवः |
1
[v] tataḥ pūrvāpare saṃdhye samīkṣya bhagavān ṛṣiḥ sarvaveda vidāṃ śreṣṭho vyāsaḥ satyavatī sutaḥ 2 bhaviṣyati raṇe ghore bharatānāṃ pitāmaha pratyakṣadarśī bhagavān bhūtabhavya bhaviṣyavit 3 vaicitravīryaṃ rājānaṃ sa rahasyaṃ bravīd idam śocantam ārtaṃ dhyāyantaṃ putrāṇām anayaṃ tadā 4 [vy] rājan parītakālās te putrāś cānye ca bhūmipāḥ te haniṣyanti saṃgrāme samāsādyetaretaram 5 teṣu kālaparīteṣu vinaśyatsu ca bhārata kālaparyāyam ājñāya mā sma śoke manaḥ kṛthāḥ 6 yadi tv icchasi saṃgrāme draṣṭum enaṃ viśāṃ pate cakṣur dadāni te hanta yuddham etan niśāmaya 7 [dhṛ] na rocaye jñātivadhaṃ draṣṭuṃ brahmarṣisattama yuddham etat tv aśeṣeṇa śṛṇuyāṃ tava tejasā 8 [v] tasminn anicchati draṣṭuṃ saṃgrāmaṃ śrotum icchati varāṇām īśvaro dātā saṃjayāya varaṃ dadau 9 eṣa te saṃjayo rājan yuddham etad vadiṣyati etasya sarvaṃ saṃgrāme na parokṣaṃ bhaviṣyati 10 cakṣuṣā saṃjayo rājan divyenaiṣa samanvitaḥ kathayiṣyati te yuddhaṃ sarvajñaś ca bhaviṣyati 11 prakāśaṃ vā rahasyaṃ vā rātrau vā yadi vā divā manasā cintitam api sarvaṃ vetsyati saṃjayaḥ 12 nainaṃ śastrāṇi bhetsyanti nainaṃ bādhiṣyate śramaḥ gāvalgaṇir ayaṃ jīvan yuddhād asmād vimokṣyate 13 ahaṃ ca kīrtim eteṣāṃ kurūṇāṃ bharatarṣabha pāṇḍavānāṃ ca sarveṣāṃ prathayiṣyāmi māṃ śucaḥ 14 diṣṭam etat purā caiva nātra śocitum arhasi na caiva śakyaṃ saṃyantuṃ yato dharmas tato jayaḥ 15 [v] evam uktvā sa bhagavān kurūṇāṃ prapitāmahaḥ punar eva mahābāhuṃ dhṛtarāṣṭram uvāca ha 16 iha yuddhe mahārāja bhaviṣyati mahān kṣayaḥ yathemāni nimittāni bhayāyādyopalakṣaye 17 śyenā gṛdhrāś ca kākāś ca kaṅkāś ca sahitā balaiḥ saṃpatanti vanānteṣu samavāyāṃś ca kurvate 18 atyugraṃ ca prapaśyanti yuddham ānandino dvijāḥ kravyādā bhakṣayiṣyanti māṃsāni gajavājinām 19 khaṭā khaṭeti vāśanto bhairavaṃ bhayavedinaḥ kahvāḥ prayānti madhyena dakṣiṇām abhito diśam 20 ubhe pūrvāpare saṃdhye nityaṃ paśyāmi bhārata udayāstamane sūryaṃ kabandhaiḥ parivāritam 21 śvetalohita paryantāḥ kṛṣṇa grīvāḥ sa vidyutaḥ trivarṇāḥ parighāḥ saṃdhau bhānum āvārayanty uta 22 jvalitārkendu nakṣatraṃ nirviśeṣa dinakṣapam ahorātraṃ mayā dṛṣṭaṃ tat kṣayāya bhaviṣyati 23 alakṣyaḥ prabhayā hīnaḥ paurṇamāsīṃ ca kārttikīm candro 'bhūd agnivarṇaś ca samavarṇe nabhastale 24 svapsyanti nihatā vīrā bhūmim āvṛtya pārthivāḥ rājāno rājaputrāś ca śūrāḥ parighabāhavaḥ 25 antarikṣe varāhasya vṛṣadaṃśasya cobhayoḥ praṇādaṃ yudhyato rātrau raudraṃ nityaṃ pralakṣaye 26 devatā pratimāś cāpi kampanti ca hasanti ca vamanti rudhiraṃ cāsyaiḥ svidyanti prapatanti ca 27 anāhatā dundubhayaḥ praṇadanti viśāṃ pate ayuktāś ca pravartante kṣatriyāṇāṃ mahārathāḥ 28 kokilāḥ śatapatrāś ca cāṣā bhāsāḥ śukās tathā sārasāś ca mayūrāś ca vāco muñcanti dāruṇāḥ 29 gṛhītaśastrābharaṇā varmiṇo vājipṛṣṭhagāḥ aruṇodayeṣu dṛśyante śataśaḥ śalabha vrajāḥ 30 ubhe saṃdhye prakāśete diśāṃ dāhasamanvite āsīd rudhiravarṣaṃ ca asthi varṣaṃ ca bhārata 31 yā caiṣā viśrutā rājaṃs trailokye sādhu saṃmatā arundhatī tayāpy eṣa vasiṣṭhaḥ pṛṣṭhataḥ kṛtaḥ 32 rohiṇīṃ pīḍayann eṣa sthito rājañ śanaiścaraḥ vyāvṛttaṃ lakṣma somasya bhaviṣyati mahad bhayam 33 anabhre ca mahāghoraṃ stanitaṃ śrūyate 'niśam vāhanānāṃ ca rudatāṃ prapatanty aśrubindavaḥ |
The Mahabharata in Sanskrit
Book 6
Chapter 3
|
1
[वय] खरा गॊषु परजायन्ते रमन्ते मातृभिः सुताः अनार्तवं पुष्पफलं दर्शयन्ति वने दरुमाः 2 गर्भिण्यॊ राजपुत्र्यश च जनयन्ति विभीषणान करव्यादान पक्षिणश चैव गॊमायून अपरान मृगान 3 तरिविषाणाश चतुर्नेत्राः पञ्च पादा दविमेहनाः दविशीर्षाश च दविपुच्छाश च दंष्ट्रिणः पशवॊ ऽशिवाः 4 जायन्ते विवृतास्याश च वयाहरन्तॊ ऽशिवा गिरः तरिपदाः शिखिनस तार्क्ष्याश चतुर्दंष्ट्रा विषाणिनः 5 तथैवान्याश च दृश्यन्ते सत्रियश च बरह्मवादिनाम वैनतेयान मयूरांश च जनयन्त्यः पुरे तव 6 गॊवत्सं वडवा सूते शवा सृगालं महीपते करकराञ शारिकाश चैव शुकांश चाशुभ वादिनः 7 सत्रियः काश चित परजायन्ते चतस्रः पञ्च कन्यकाः ता जातमात्रा नृत्यन्ति गायन्ति च हसन्ति च 8 पृथग्जनस्य कुडकाः सतनपाः सतेन वेश्मनि नृत्यन्ति परिगायन्ति वेदयन्तॊ महद भयम 9 परतिमाश चालिखन्त्य अन्ये स शस्त्राः कालचॊदिताः अन्यॊन्यम अभिधावन्ति शिशवॊ दण्डपाणयः उपरुन्धन्ति कृत्वा च नगराणि युयुत्सवः 10 पद्मॊत्पलानि वृक्षेषु जायन्ते कुमुदानि च विष्वग वाताश च वान्त्य उग्रा रजॊ न वयुपशाम्यति 11 अभीक्ष्णं कम्पते भूमिर अर्कं राहुस तथाग्रसत शवेतॊ गरहस तथा चित्रां समतिक्रम्य तिष्ठति 12 अभावं हि विशेषेण कुरूणां परतिपश्यति धूमकेतुर महाघॊरः पुष्यम आक्रम्य तिष्ठति 13 सेनयॊर अशिवं घॊरं करिष्यति महाग्रहः मघास्व अङ्गारकॊ वक्रः शरवणे च बृहस्पतिः 14 भाग्यं नक्षत्रम आक्रम्य सूर्यपुत्रेण पीड्यते शुक्रः परॊष्ठपदे पूर्वे समारुह्य विशां पते उत्तरे तु परिक्रम्य सहितः परत्युदीक्षते 15 शयामॊ गरहः परज्वलितः स धूमः सह पावकः ऐन्द्रं तेजस्वि नक्षत्रं जयेष्ठाम आक्रम्य तिष्ठति 16 धरुवः परज्वलितॊ घॊरम अपसव्यं परवर्तते चित्रा सवात्य अन्तरे चैव धिष्ठितः परुषॊ गरहः 17 वक्रानुवक्रं कृत्वा च शरवणे पावकप्रभः बरह्मराशिं समावृत्य लॊहिताङ्गॊ वयवस्थितः 18 सर्वसस्य परतिच्छन्ना पृथिवी फलमालिनी पञ्चशीर्षा यवाश चैव शतशीर्षाश च शालयः 19 परधानाः सर्वलॊकस्य यास्व आयत्तम इदं जगत ता गावः परस्नुता वत्सैः शॊणितं परक्षरन्त्य उत 20 निश्चेरुर अपिधानेभ्यः खड्गाः परज्वलिता भृशम वयक्तं पश्यन्ति शस्त्राणि संग्रामं समुपस्थितम 21 अग्निवर्णा यथा भासः शस्त्राणाम उदकस्य च कवचानां धवजानां च भविष्यति महान कषयः 22 दिक्षु परज्वलितास्याश च वयाहरन्ति मृगद्विजाः अत्याहितं दर्शयन्तॊ वेदयन्ति महद भयम 23 एकपक्षाक्षि चरणः शकुनिः खचरॊ निशि रौद्रं वदति संरब्धः शॊणितं छर्दयन मुहुः 24 गरहौ ताम्रारुण शिखौ परज्वलन्ताव इव सथितौ सप्तर्षीणाम उदाराणां समवच्छाद्य वै परभाम 25 संवत्सरस्थायिनौ च गरहौ परज्वलिताव उभौ विशाखयॊः समीपस्थौ बृहस्पतिशनैश्चरौ 26 कृत्तिकासु गरहस तीव्रॊ नक्षत्रे परथमे जवलन वपूंष्य अपहरन भासा धूमकेतुर इव सथितः 27 तरिषु पूर्वेषु सर्वेषु नक्षत्रेषु विशां पते बुधः संपतते ऽभीक्ष्णं जनयन सुमहद भयम 28 चतुर्दशीं पञ्चदशीं भूतपूर्वां च षॊडशीम इमां तु नाभिजानामि अमावास्यां तरयॊदशीम 29 चन्द्रसूर्याव उभौ गरस्ताव एकमासे तरयॊदशीम अपर्वणि गरहाव एतौ परजाः संक्षपयिष्यतः 30 रजॊ वृता दिशः सर्वाः पांसुवर्षैः समन्ततः उत्पातमेघा रौद्राश च रात्रौ वर्षन्ति शॊणितम 31 मांसवर्षं पुनस तीव्रम आसीत कृष्ण चतुर्दशीम अर्धरात्रे महाघॊरम अतृप्यंस तत्र राक्षसाः 32 परतिस्रॊतॊ ऽवहन नद्यः सरितः शॊणितॊदकाः फेनायमानाः कूपाश च नर्दन्ति वृषभा इव पतन्त्य उल्काः स निर्घाताः शुष्काशनि विमिश्रिताः 33 अद्य चैव निशां वयुष्टाम उदये भानुर आहतः जवलन्तीभिर महॊल्काभिश चतुर्भिः सर्वतॊदिशम 34 आदित्यम उपतिष्ठद्भिस तत्र चॊक्तं महर्षिभिः भूमिपाल सहस्राणां भूमिः पास्यति शॊणितम 35 कैलासमन्दराभ्यां तु तथा हिमवतॊ गिरेः सहस्रशॊ महाशब्दं शिखराणि पतन्ति च 36 महाभूता भूमिकम्पे चतुरः सागरान पृथक वेलाम उद्वर्तयन्ति सम कषॊभयन्तः पुनः पुनः 37 वृक्षान उन्मथ्य वान्त्य उग्रा वाताः शर्कर कर्णिणः पतन्ति चैत्यवृक्षाश च गरामेषु नगरेषु च 38 पीतलॊहित नीलश च जवलत्य अग्निर हुतॊ दविजैः वामार्चिः शावगन्धी च धूमप्रायः खरस्वनः सपर्शा गन्धा रसाश चैव विपरीता महीपते 39 धूमायन्ते धवजा राज्ञां कम्पमाना मुहुर मुहुः मुञ्चन्त्य अङ्गारवर्षाणि भेर्यॊ ऽथ पटहास तथा 40 परासादशिखराग्रेषु पुरद्वारेषु चैव हि गृध्राः परिपतन्त्य उग्रा वामं मण्डलम आश्रिताः 41 पक्वापक्वेति सुभृशं वावाश्यन्ते वयांसि च निलीयन्ते धवजाग्रेषु कषयाय पृथिवीक्षिताम 42 धयायन्तः परकिरन्तश च वालान वेपथुसंयुताः रुदन्ति दीनास तुरगा मातङ्गाश च सहस्रशः 43 एतच छरुत्वा भवान अत्र पराप्तकालं वयवस्यताम यथा लॊकः समुच्छेदं नायं गच्छेत भारत 44 [व] पितुर वचॊ निशम्यैतद धृतराष्ट्रॊ ऽबरवीद इदम दिष्टम एतत पुरा मन्ये भविष्यति न संशयः 45 कषत्रियाः कषत्रधर्मेण वध्यन्ते यदि संयुगे वीरलॊकं समासाद्य सुखं पराप्स्यन्ति केवलम 46 इह कीर्तिं परे लॊके दीर्घकालं महत सुखम पराप्स्यन्ति पुरुषव्याघ्राः पराणांस तयक्त्वा महाहवे |
1
[vy] kharā goṣu prajāyante ramante mātṛbhiḥ sutāḥ anārtavaṃ puṣpaphalaṃ darśayanti vane drumāḥ 2 garbhiṇyo rājaputryaś ca janayanti vibhīṣaṇān kravyādān pakṣiṇaś caiva gomāyūn aparān mṛgān 3 triviṣāṇāś caturnetrāḥ pañca pādā dvimehanāḥ dviśīrṣāś ca dvipucchāś ca daṃṣṭriṇaḥ paśavo 'śivāḥ 4 jāyante vivṛtāsyāś ca vyāharanto 'śivā giraḥ tripadāḥ śikhinas tārkṣyāś caturdaṃṣṭrā viṣāṇinaḥ 5 tathaivānyāś ca dṛśyante striyaś ca brahmavādinām vainateyān mayūrāṃś ca janayantyaḥ pure tava 6 govatsaṃ vaḍavā sūte śvā sṛgālaṃ mahīpate krakarāñ śārikāś caiva śukāṃś cāśubha vādinaḥ 7 striyaḥ kāś cit prajāyante catasraḥ pañca kanyakāḥ tā jātamātrā nṛtyanti gāyanti ca hasanti ca 8 pṛthagjanasya kuḍakāḥ stanapāḥ stena veśmani nṛtyanti parigāyanti vedayanto mahad bhayam 9 pratimāś cālikhanty anye sa śastrāḥ kālacoditāḥ anyonyam abhidhāvanti śiśavo daṇḍapāṇayaḥ uparundhanti kṛtvā ca nagarāṇi yuyutsavaḥ 10 padmotpalāni vṛkṣeṣu jāyante kumudāni ca viṣvag vātāś ca vānty ugrā rajo na vyupaśāmyati 11 abhīkṣṇaṃ kampate bhūmir arkaṃ rāhus tathāgrasat śveto grahas tathā citrāṃ samatikramya tiṣṭhati 12 abhāvaṃ hi viśeṣeṇa kurūṇāṃ pratipaśyati dhūmaketur mahāghoraḥ puṣyam ākramya tiṣṭhati 13 senayor aśivaṃ ghoraṃ kariṣyati mahāgrahaḥ maghāsv aṅgārako vakraḥ śravaṇe ca bṛhaspatiḥ 14 bhāgyaṃ nakṣatram ākramya sūryaputreṇa pīḍyate śukraḥ proṣṭhapade pūrve samāruhya viśāṃ pate uttare tu parikramya sahitaḥ pratyudīkṣate 15 śyāmo grahaḥ prajvalitaḥ sa dhūmaḥ saha pāvakaḥ aindraṃ tejasvi nakṣatraṃ jyeṣṭhām ākramya tiṣṭhati 16 dhruvaḥ prajvalito ghoram apasavyaṃ pravartate citrā svāty antare caiva dhiṣṭhitaḥ paruṣo grahaḥ 17 vakrānuvakraṃ kṛtvā ca śravaṇe pāvakaprabhaḥ brahmarāśiṃ samāvṛtya lohitāṅgo vyavasthitaḥ 18 sarvasasya praticchannā pṛthivī phalamālinī pañcaśīrṣā yavāś caiva śataśīrṣāś ca śālayaḥ 19 pradhānāḥ sarvalokasya yāsv āyattam idaṃ jagat tā gāvaḥ prasnutā vatsaiḥ śoṇitaṃ prakṣaranty uta 20 niścerur apidhānebhyaḥ khaḍgāḥ prajvalitā bhṛśam vyaktaṃ paśyanti śastrāṇi saṃgrāmaṃ samupasthitam 21 agnivarṇā yathā bhāsaḥ śastrāṇām udakasya ca kavacānāṃ dhvajānāṃ ca bhaviṣyati mahān kṣayaḥ 22 dikṣu prajvalitāsyāś ca vyāharanti mṛgadvijāḥ atyāhitaṃ darśayanto vedayanti mahad bhayam 23 ekapakṣākṣi caraṇaḥ śakuniḥ khacaro niśi raudraṃ vadati saṃrabdhaḥ śoṇitaṃ chardayan muhuḥ 24 grahau tāmrāruṇa śikhau prajvalantāv iva sthitau saptarṣīṇām udārāṇāṃ samavacchādya vai prabhām 25 saṃvatsarasthāyinau ca grahau prajvalitāv ubhau viśākhayoḥ samīpasthau bṛhaspatiśanaiścarau 26 kṛttikāsu grahas tīvro nakṣatre prathame jvalan vapūṃṣy apaharan bhāsā dhūmaketur iva sthitaḥ 27 triṣu pūrveṣu sarveṣu nakṣatreṣu viśāṃ pate budhaḥ saṃpatate 'bhīkṣṇaṃ janayan sumahad bhayam 28 caturdaśīṃ pañcadaśīṃ bhūtapūrvāṃ ca ṣoḍaśīm imāṃ tu nābhijānāmi amāvāsyāṃ trayodaśīm 29 candrasūryāv ubhau grastāv ekamāse trayodaśīm aparvaṇi grahāv etau prajāḥ saṃkṣapayiṣyataḥ 30 rajo vṛtā diśaḥ sarvāḥ pāṃsuvarṣaiḥ samantataḥ utpātameghā raudrāś ca rātrau varṣanti śoṇitam 31 māṃsavarṣaṃ punas tīvram āsīt kṛṣṇa caturdaśīm ardharātre mahāghoram atṛpyaṃs tatra rākṣasāḥ 32 pratisroto 'vahan nadyaḥ saritaḥ śoṇitodakāḥ phenāyamānāḥ kūpāś ca nardanti vṛṣabhā iva patanty ulkāḥ sa nirghātāḥ śuṣkāśani vimiśritāḥ 33 adya caiva niśāṃ vyuṣṭām udaye bhānur āhataḥ jvalantībhir maholkābhiś caturbhiḥ sarvatodiśam 34 ādityam upatiṣṭhadbhis tatra coktaṃ maharṣibhiḥ bhūmipāla sahasrāṇāṃ bhūmiḥ pāsyati śoṇitam 35 kailāsamandarābhyāṃ tu tathā himavato gireḥ sahasraśo mahāśabdaṃ śikharāṇi patanti ca 36 mahābhūtā bhūmikampe caturaḥ sāgarān pṛthak velām udvartayanti sma kṣobhayantaḥ punaḥ punaḥ 37 vṛkṣān unmathya vānty ugrā vātāḥ śarkara karṇiṇaḥ patanti caityavṛkṣāś ca grāmeṣu nagareṣu ca 38 pītalohita nīlaś ca jvalaty agnir huto dvijaiḥ vāmārciḥ śāvagandhī ca dhūmaprāyaḥ kharasvanaḥ sparśā gandhā rasāś caiva viparītā mahīpate 39 dhūmāyante dhvajā rājñāṃ kampamānā muhur muhuḥ muñcanty aṅgāravarṣāṇi bheryo 'tha paṭahās tathā 40 prāsādaśikharāgreṣu puradvāreṣu caiva hi gṛdhrāḥ paripatanty ugrā vāmaṃ maṇḍalam āśritāḥ 41 pakvāpakveti subhṛśaṃ vāvāśyante vayāṃsi ca nilīyante dhvajāgreṣu kṣayāya pṛthivīkṣitām 42 dhyāyantaḥ prakirantaś ca vālān vepathusaṃyutāḥ rudanti dīnās turagā mātaṅgāś ca sahasraśaḥ 43 etac chrutvā bhavān atra prāptakālaṃ vyavasyatām yathā lokaḥ samucchedaṃ nāyaṃ gaccheta bhārata 44 [v] pitur vaco niśamyaitad dhṛtarāṣṭro 'bravīd idam diṣṭam etat purā manye bhaviṣyati na saṃśayaḥ 45 kṣatriyāḥ kṣatradharmeṇa vadhyante yadi saṃyuge vīralokaṃ samāsādya sukhaṃ prāpsyanti kevalam 46 iha kīrtiṃ pare loke dīrghakālaṃ mahat sukham prāpsyanti puruṣavyāghrāḥ prāṇāṃs tyaktvā mahāhave |
The Mahabharata in Sanskrit
Book 6
Chapter 4
|
1
[व] एवम उक्तॊ मुनिस तत्त्वं कवीन्द्रॊ राजसत्तम पुत्रेण धृतराष्ट्रेण धयानम अन्वगमत परम 2 पुनर एवाब्रवीद वाक्यं कालवादी महातपाः असंशयं पार्थिवेन्द्र कालः संक्षिपते जगत 3 सृजते च पुनर लॊकान नेह विद्यति शाश्वतम जञातीनां च कुरूणां च संबन्धिसुहृदां तथा 4 धर्म्यं देशय पन्थानं समर्थॊ हय असि वारणे कषुद्रं जञातिवधं पराहुर मा कुरुष्व ममाप्रियम 5 कालॊ ऽयं पुत्र रूपेण तव जातॊ विशां पते न वधः पूज्यते वेदे हितं नैतत कथं चन 6 हन्यात स एव यॊ हन्यात कुलधर्मं सवकां तनुम कालेनॊत्पथ गन्तासि शक्ये सति यथा पथि 7 कुलस्यास्य विनाशाय तथैव च महीक्षिताम अनर्थॊ राज्यरूपेण तयज्यताम असुखावहः 8 लुप्तप्रज्ञः परेणासि धर्मं दर्शय वै सुतान किं ते राज्येन दुर्धर्ष येन पराप्तॊ ऽसि किल्बिषम 9 यशॊधर्मं च कीर्तिं च पालयन सवर्गम आप्स्यसि लभन्तां पाण्डवा राज्यं शमं गच्छन्तु कौरवाः 10 एवं बरुवति विप्रेन्द्रे धृतराष्ट्रॊ ऽमबिका सुतः आक्षिप्य वाक्यं वाक्यज्ञॊ वाक्पथेनाप्य अयात पुनः 11 [धृ] यथा भवान वेद तथास्मि वेत्ता; भावाभावौ विदितौ मे यथावत सवार्थे हि संमुह्यति तात लॊकॊ; मां चापि लॊकात्मकम एव विद्धि 12 परसादये तवाम अतुलप्रभावं; तवं नॊ गतिर दर्शयिता च धीरः न चापि ते वशगा मे महर्षे; न कल्मषं कर्तुम इहार्हसे माम 13 तवं हि धर्मः पवित्रं च यशः कीर्तिर धृतिः समृतिः करुणां पाण्डवानां च मान्यश चासि पितामहः 14 [वय] वैचित्रवीर्य नृपते यत ते मनसि वर्तते अभिधत्स्व यथाकामं छेत्तास्मि तव संशयम 15 [धृ] यानि लिङ्गानि संग्रामे भवन्ति विजयिष्यताम तानि सर्वाणि भगवञ शरॊतुम इच्छामि तत्त्वतः 16 [वय] परसन्नभाः पावक ऊर्ध्वरश्मिः; परदक्षिणावर्तशिखॊ विधूमः पुण्या गन्धाश चाहुतीनां परवान्ति; जयस्यैतद भाविनॊ रूपम आहुः 17 गम्भीरघॊषाश च महास्वनाश च; शङ्खा मृदङ्गाश च नदन्ति यत्र विशुद्धरश्मिस तपनः शशी च; जयस्यैतद भाविनॊ रूपम आहुः 18 इष्टा वाचः पृष्ठतॊ वायसानां; संप्रस्थितानां च गमिष्यतां च ये पृष्ठतस ते तवरयन्ति राजन; ये तव अग्रतस ते परतिषेधयन्ति 19 कल्याण वाचः शकुना राजहंसाः; शुकाः करौञ्चाः शतपत्राश च यत्र परदक्षिणाश चैव भवन्ति संख्ये; धरुवं जयं तत्र वदन्ति विप्राः 20 अलंकारैः कवचैः केतुभिश च; मुखप्रसादैर हेमवर्णैश च नॄणाम भराजिष्मती दुष्प्रतिप्रेक्षणीया; येषां चमूस ते विजयन्ति शत्रून 21 हृष्टा वाचस तथा सत्त्वं यॊधानां यत्र भारत न मलायन्ते सरजश चैव ते तरन्ति रणे रिपून 22 इष्टॊ वातः परविष्टस्य दक्षिणा परविविक्षतः पश्चात संसाधयत्य अर्थं पुरस्तात परतिषेधते 23 शब्दरूपरसस्पर्श गन्धाश चाविष्कृताः शुभाः सदा यॊधाश च हृष्टाश च येषां तेषां धरुवं जयः 24 अन्व एव वायवॊ वान्ति तथाभ्राणि वयांसि च अनुप्लवन्ते मेघाश च तथैवेन्द्र धनूंषि च 25 एतानि जयमानानां लक्षणानि विशां पते भवन्ति विपरीतानि मुमूर्षाणां जनाधिप 26 अल्पायां वा महत्यां वा सेनायाम इति निश्चितम हर्षॊ यॊधगणस्यैकं जयलक्षणम उच्यते 27 एकॊ दीर्णॊ दारयति सेनां सुमहतीम अपि तं दीर्णम अनुदीर्यन्ते यॊधाः शूरतमा अपि 28 दुर्निवारतमा चैव परभग्ना महती चमूः अपाम इव महावेगस तरस्ता मृगगणा इव 29 नैव शक्या समाधातुं स निपाते महाचमूः दीर्णा इत्य एव दीर्यन्ते यॊधाः शूरतमा अपि भीतान भग्नांश च संप्रेक्ष्य भयं भूयॊ विवर्धते 30 परभग्ना सहसा राजन दिशॊ विभ्रामिता परैः नैव सथापयितुं शक्या शूरैर अपि महाचमूः 31 संभृत्य महतीं सेनां चतुरङ्गां महीपतिः उपायपूर्वं मेधावी यतेत सततॊत्थितः 32 उपायविजयं शरेष्ठम आहुर भेदेन मध्यमम जघन्य एष विजयॊ यॊ युद्धेन विशां पते महादॊषः संनिपातस ततॊ वयङ्गः स उच्यते 33 परस्परज्ञाः संहृष्टा वयवधूताः सुनिश्चिताः पञ्चाशद अपि ये शूरा मथ्नन्ति महतीं चमूम अथ वा पञ्चषट सप्त विजयन्त्य अनिवर्तिनः 34 न वैनतेयॊ गरुडः परशंसति महाजनम दृष्ट्वा सुपर्णॊपचितिं महतीम अपि भारत 35 न बाहुल्येन सेनाया जयॊ भवति भारत अध्रुवॊ हि जयॊ नाम दैवं चात्र परायणम जयन्तॊ हय अपि संग्रामे कषत्रवन्तॊ भवन्त्य उत |
1
[v] evam ukto munis tattvaṃ kavīndro rājasattama putreṇa dhṛtarāṣṭreṇa dhyānam anvagamat param 2 punar evābravīd vākyaṃ kālavādī mahātapāḥ asaṃśayaṃ pārthivendra kālaḥ saṃkṣipate jagat 3 sṛjate ca punar lokān neha vidyati śāśvatam jñātīnāṃ ca kurūṇāṃ ca saṃbandhisuhṛdāṃ tathā 4 dharmyaṃ deśaya panthānaṃ samartho hy asi vāraṇe kṣudraṃ jñātivadhaṃ prāhur mā kuruṣva mamāpriyam 5 kālo 'yaṃ putra rūpeṇa tava jāto viśāṃ pate na vadhaḥ pūjyate vede hitaṃ naitat kathaṃ cana 6 hanyāt sa eva yo hanyāt kuladharmaṃ svakāṃ tanum kālenotpatha gantāsi śakye sati yathā pathi 7 kulasyāsya vināśāya tathaiva ca mahīkṣitām anartho rājyarūpeṇa tyajyatām asukhāvahaḥ 8 luptaprajñaḥ pareṇāsi dharmaṃ darśaya vai sutān kiṃ te rājyena durdharṣa yena prāpto 'si kilbiṣam 9 yaśodharmaṃ ca kīrtiṃ ca pālayan svargam āpsyasi labhantāṃ pāṇḍavā rājyaṃ śamaṃ gacchantu kauravāḥ 10 evaṃ bruvati viprendre dhṛtarāṣṭro 'mbikā sutaḥ ākṣipya vākyaṃ vākyajño vākpathenāpy ayāt punaḥ 11 [dhṛ] yathā bhavān veda tathāsmi vettā; bhāvābhāvau viditau me yathāvat svārthe hi saṃmuhyati tāta loko; māṃ cāpi lokātmakam eva viddhi 12 prasādaye tvām atulaprabhāvaṃ; tvaṃ no gatir darśayitā ca dhīraḥ na cāpi te vaśagā me maharṣe; na kalmaṣaṃ kartum ihārhase mām 13 tvaṃ hi dharmaḥ pavitraṃ ca yaśaḥ kīrtir dhṛtiḥ smṛtiḥ karuṇāṃ pāṇḍavānāṃ ca mānyaś cāsi pitāmahaḥ 14 [vy] vaicitravīrya nṛpate yat te manasi vartate abhidhatsva yathākāmaṃ chettāsmi tava saṃśayam 15 [dhṛ] yāni liṅgāni saṃgrāme bhavanti vijayiṣyatām tāni sarvāṇi bhagavañ śrotum icchāmi tattvataḥ 16 [vy] prasannabhāḥ pāvaka ūrdhvaraśmiḥ; pradakṣiṇāvartaśikho vidhūmaḥ puṇyā gandhāś cāhutīnāṃ pravānti; jayasyaitad bhāvino rūpam āhuḥ 17 gambhīraghoṣāś ca mahāsvanāś ca; śaṅkhā mṛdaṅgāś ca nadanti yatra viśuddharaśmis tapanaḥ śaśī ca; jayasyaitad bhāvino rūpam āhuḥ 18 iṣṭā vācaḥ pṛṣṭhato vāyasānāṃ; saṃprasthitānāṃ ca gamiṣyatāṃ ca ye pṛṣṭhatas te tvarayanti rājan; ye tv agratas te pratiṣedhayanti 19 kalyāṇa vācaḥ śakunā rājahaṃsāḥ; śukāḥ krauñcāḥ śatapatrāś ca yatra pradakṣiṇāś caiva bhavanti saṃkhye; dhruvaṃ jayaṃ tatra vadanti viprāḥ 20 alaṃkāraiḥ kavacaiḥ ketubhiś ca; mukhaprasādair hemavarṇaiś ca nṝṇām bhrājiṣmatī duṣpratiprekṣaṇīyā; yeṣāṃ camūs te vijayanti śatrūn 21 hṛṣṭā vācas tathā sattvaṃ yodhānāṃ yatra bhārata na mlāyante srajaś caiva te taranti raṇe ripūn 22 iṣṭo vātaḥ praviṣṭasya dakṣiṇā pravivikṣataḥ paścāt saṃsādhayaty arthaṃ purastāt pratiṣedhate 23 śabdarūparasasparśa gandhāś cāviṣkṛtāḥ śubhāḥ sadā yodhāś ca hṛṣṭāś ca yeṣāṃ teṣāṃ dhruvaṃ jayaḥ 24 anv eva vāyavo vānti tathābhrāṇi vayāṃsi ca anuplavante meghāś ca tathaivendra dhanūṃṣi ca 25 etāni jayamānānāṃ lakṣaṇāni viśāṃ pate bhavanti viparītāni mumūrṣāṇāṃ janādhipa 26 alpāyāṃ vā mahatyāṃ vā senāyām iti niścitam harṣo yodhagaṇasyaikaṃ jayalakṣaṇam ucyate 27 eko dīrṇo dārayati senāṃ sumahatīm api taṃ dīrṇam anudīryante yodhāḥ śūratamā api 28 durnivāratamā caiva prabhagnā mahatī camūḥ apām iva mahāvegas trastā mṛgagaṇā iva 29 naiva śakyā samādhātuṃ sa nipāte mahācamūḥ dīrṇā ity eva dīryante yodhāḥ śūratamā api bhītān bhagnāṃś ca saṃprekṣya bhayaṃ bhūyo vivardhate 30 prabhagnā sahasā rājan diśo vibhrāmitā paraiḥ naiva sthāpayituṃ śakyā śūrair api mahācamūḥ 31 saṃbhṛtya mahatīṃ senāṃ caturaṅgāṃ mahīpatiḥ upāyapūrvaṃ medhāvī yateta satatotthitaḥ 32 upāyavijayaṃ śreṣṭham āhur bhedena madhyamam jaghanya eṣa vijayo yo yuddhena viśāṃ pate mahādoṣaḥ saṃnipātas tato vyaṅgaḥ sa ucyate 33 parasparajñāḥ saṃhṛṣṭā vyavadhūtāḥ suniścitāḥ pañcāśad api ye śūrā mathnanti mahatīṃ camūm atha vā pañcaṣaṭ sapta vijayanty anivartinaḥ 34 na vainateyo garuḍaḥ praśaṃsati mahājanam dṛṣṭvā suparṇopacitiṃ mahatīm api bhārata 35 na bāhulyena senāyā jayo bhavati bhārata adhruvo hi jayo nāma daivaṃ cātra parāyaṇam jayanto hy api saṃgrāme kṣatravanto bhavanty uta |
The Mahabharata in Sanskrit
Book 6
Chapter 5
|
1
[व] एवम उक्त्वा ययौ वयासॊ धृतराष्ट्राय धीमते धृतराष्ट्रॊ ऽपि तच छरुत्वा धयानम एवान्वपद्यत 2 स मुहूर्तम इव धयात्वा विनिःश्वस्य मुहुर मुहुः संजयं संशितात्मानम अपृच्छद भरतर्षभ 3 संजयेमे महीपालाः शूरा युद्धाभिनन्दिनः अन्यॊन्यम अभिनिघ्नन्ति शस्त्रैर उच्चावचैर अपि 4 पार्थिवाः पृथिवी हेतॊः समभित्यक्तजीविताः न च शाम्यति निघ्नन्तॊ वर्धयन्तॊ यमक्षयम 5 भैमम ऐश्वर्यम इच्छन्तॊ न मृष्यन्ते परस्परम मन्ये बहुगुणा भूमिस तन ममाचक्ष्व संजय 6 बहूनि च सहस्राणि परयुतान्य अर्बुदानि च कॊट्यश च लॊकवीराणां समेताः कुरुजाङ्गले 7 देशानां च परीमाणं नगराणां च संजय शरॊतुम इच्छामि तत्त्वेन यत एते समागताः 8 दिव्यबुद्धिप्रदीप्तेन युक्तस तवं जञानचक्षुषा परसादात तस्य विप्रर्षेर वयासस्यामित तेजसः 9 [स] यथा परज्ञं महाप्राज्ञ भैमान वक्ष्यामि ते गुणान शास्त्रचक्षुर अवेक्षस्व नमस ते भरतर्षभ 10 दविविधानीह भूतानि तरसानि सथावराणि च तरसानां तरिविधा यॊनिर अण्ड सवेदजरायुजाः 11 तरसानां खलु सर्वेषां शरेष्ठा राजञ जरायुजाः जरायुजानां परवरा मानवाः पशवश च ये 12 नानारूपाणि बिभ्राणास तेषां भेदाश चतुर्दश अरण्यवासिनः सप्त सप्तैषां गरामवासिनः 13 सिंहव्याघ्र वराहाश च महिषा वारणास तथा ऋक्षाश च वानराश चैव सप्तारण्याः समृता नृप 14 गौर अजॊ मनुजॊ मेषॊ वाज्य अश्वतर गर्दभाः एते गराम्याः समाख्याताः पशवः सप्त साधुभिः 15 एते वै पशवॊ राजन गराम्यारण्याश चतुर्दश वेदॊक्ताः पृथिवीपाल येषु यज्ञाः परतिष्ठिताः 16 गराम्याणां पुरुषः शरेष्ठः सिंहश चारण्यवासिनाम सर्वेषाम एव भूतानाम अन्यॊन्येनाभिजीवनम 17 उद्भिज्जाः सथावराः परॊक्तास तेषां पञ्चैव जातयः वृक्षगुल्म लतावल्ल्यस तवक सारास तृणजातयः 18 एषां विंशतिर एकॊना महाभूतेषु पञ्चसु चतुर्विंशतिर उद्दिष्टा गायत्री लॊकसंमता 19 य एतां वेद गायत्रीं पुण्यां सर्वगुणान्विताम तत्त्वेन भरतश्रेष्ठ स लॊकान न परणश्यति 20 भूमौ हि जायते सर्वं भूमौ सर्वं परणश्यति भूमिः परतिष्ठा भूतानां भूमिर एव परायणम 21 यस्य भूमिस तस्य सर्वजगत सथावरजङ्गमम तत्राभिगृद्धा राजानॊ विनिघ्नन्तीतरेतरम |
1
[v] evam uktvā yayau vyāso dhṛtarāṣṭrāya dhīmate dhṛtarāṣṭro 'pi tac chrutvā dhyānam evānvapadyata 2 sa muhūrtam iva dhyātvā viniḥśvasya muhur muhuḥ saṃjayaṃ saṃśitātmānam apṛcchad bharatarṣabha 3 saṃjayeme mahīpālāḥ śūrā yuddhābhinandinaḥ anyonyam abhinighnanti śastrair uccāvacair api 4 pārthivāḥ pṛthivī hetoḥ samabhityaktajīvitāḥ na ca śāmyati nighnanto vardhayanto yamakṣayam 5 bhaimam aiśvaryam icchanto na mṛṣyante parasparam manye bahuguṇā bhūmis tan mamācakṣva saṃjaya 6 bahūni ca sahasrāṇi prayutāny arbudāni ca koṭyaś ca lokavīrāṇāṃ sametāḥ kurujāṅgale 7 deśānāṃ ca parīmāṇaṃ nagarāṇāṃ ca saṃjaya śrotum icchāmi tattvena yata ete samāgatāḥ 8 divyabuddhipradīptena yuktas tvaṃ jñānacakṣuṣā prasādāt tasya viprarṣer vyāsasyāmita tejasaḥ 9 [s] yathā prajñaṃ mahāprājña bhaimān vakṣyāmi te guṇān śāstracakṣur avekṣasva namas te bharatarṣabha 10 dvividhānīha bhūtāni trasāni sthāvarāṇi ca trasānāṃ trividhā yonir aṇḍa svedajarāyujāḥ 11 trasānāṃ khalu sarveṣāṃ śreṣṭhā rājañ jarāyujāḥ jarāyujānāṃ pravarā mānavāḥ paśavaś ca ye 12 nānārūpāṇi bibhrāṇās teṣāṃ bhedāś caturdaśa araṇyavāsinaḥ sapta saptaiṣāṃ grāmavāsinaḥ 13 siṃhavyāghra varāhāś ca mahiṣā vāraṇās tathā ṛkṣāś ca vānarāś caiva saptāraṇyāḥ smṛtā nṛpa 14 gaur ajo manujo meṣo vājy aśvatara gardabhāḥ ete grāmyāḥ samākhyātāḥ paśavaḥ sapta sādhubhiḥ 15 ete vai paśavo rājan grāmyāraṇyāś caturdaśa vedoktāḥ pṛthivīpāla yeṣu yajñāḥ pratiṣṭhitāḥ 16 grāmyāṇāṃ puruṣaḥ śreṣṭhaḥ siṃhaś cāraṇyavāsinām sarveṣām eva bhūtānām anyonyenābhijīvanam 17 udbhijjāḥ sthāvarāḥ proktās teṣāṃ pañcaiva jātayaḥ vṛkṣagulma latāvallyas tvak sārās tṛṇajātayaḥ 18 eṣāṃ viṃśatir ekonā mahābhūteṣu pañcasu caturviṃśatir uddiṣṭā gāyatrī lokasaṃmatā 19 ya etāṃ veda gāyatrīṃ puṇyāṃ sarvaguṇānvitām tattvena bharataśreṣṭha sa lokān na praṇaśyati 20 bhūmau hi jāyate sarvaṃ bhūmau sarvaṃ praṇaśyati bhūmiḥ pratiṣṭhā bhūtānāṃ bhūmir eva parāyaṇam 21 yasya bhūmis tasya sarvajagat sthāvarajaṅgamam tatrābhigṛddhā rājāno vinighnantītaretaram |
The Mahabharata in Sanskrit
Book 6
Chapter 6
|
1
[धृ] नदीनां पर्वतानां च नामधेयानि संजय तथा जनपदानां च ये चान्ये भूमिम आश्रिताः 2 परमाणं च परमाणज्ञ पृथिव्या अपि सर्वशः निखिलेन समाचक्ष्व काननानि च संजय 3 पञ्चेमानि महाराज महाभूतानि संग्रहात जगत सथितानि सर्वाणि समान्य आहुर मनीषिणः 4 भूमिर आपस तथा वायुर अग्निर आकाशम एव च गुणॊत्तराणि सर्वाणि तेषां भूमिः परधानतः 5 शब्दः सपर्शश च रूपं च रसॊ गन्धश च पञ्चमः भूमेर एते गुणाः परॊक्ता ऋषिभिस तत्त्ववेदिभिः 6 चत्वारॊ ऽपसु गुणा राजन गन्धस तत्र न विद्यते शब्दः सपर्शश च रूपं च तेजसॊ ऽथ गुणास तरयः शब्दः सपर्शश च वायॊस तु आकाशे शब्द एव च 7 एते पञ्च गुणा राजन महाभूतेषु पञ्चसु वर्तन्ते सर्वलॊकेषु येषु लॊकाः परतिष्ठिताः 8 अन्यॊन्यं नाभिवर्तन्ते साम्यं भवति वै यदा यदा तु विषमीभावम आविशन्ति परस्परम तदा देहैर देहवन्तॊ वयतिरॊहन्ति नान्यथा 9 आनुपूर्व्याद विनश्यन्ति जायन्ते चानुपूर्वशः सर्वाण्य अपरिमेयानि तद एषां रूपम ऐश्वरम 10 तत्र तत्र हि दृश्यन्ते धातवः पाञ्च भौतिकाः तेषां मनुष्यास तर्केण परमाणानि परचक्षते 11 अचिन्त्याः खलु ये भावा न तांस तर्केण साधयेत परकृतिभ्यः परं यत तु तद अचिन्त्यस्य लक्षणम 12 सुदर्शनं परवक्ष्यामि दवीपं ते कुरुनन्दन परिमण्डलॊ महाराज दवीपॊ ऽसौ चक्रसंस्थितः 13 नदी जलप्रतिच्छन्नः पर्वतैश चाभ्रसंनिभैः पुरैश च विविधाकारै रम्यैर जनपदैस तथा 14 वृक्षैः पुष्पफलॊपेतैः संपन्नधनधान्यवान लावणेन समुद्रेण समन्तात परिवारितः 15 यथा च पुरुषः पश्येद आदर्शे मुखम आत्मनः एवं सुदर्शन दवीपॊ दृश्यते चन्द्रमण्डले 16 दविर अंशे पिप्पलस तत्र दविर अंशे च शशॊ महान सर्वौषधिसमावापैः सर्वतः परिवृंहितः आपस ततॊ ऽनया विज्ञेया एष संक्षेप उच्यते |
1
[dhṛ] nadīnāṃ parvatānāṃ ca nāmadheyāni saṃjaya tathā janapadānāṃ ca ye cānye bhūmim āśritāḥ 2 pramāṇaṃ ca pramāṇajña pṛthivyā api sarvaśaḥ nikhilena samācakṣva kānanāni ca saṃjaya 3 pañcemāni mahārāja mahābhūtāni saṃgrahāt jagat sthitāni sarvāṇi samāny āhur manīṣiṇaḥ 4 bhūmir āpas tathā vāyur agnir ākāśam eva ca guṇottarāṇi sarvāṇi teṣāṃ bhūmiḥ pradhānataḥ 5 śabdaḥ sparśaś ca rūpaṃ ca raso gandhaś ca pañcamaḥ bhūmer ete guṇāḥ proktā ṛṣibhis tattvavedibhiḥ 6 catvāro 'psu guṇā rājan gandhas tatra na vidyate śabdaḥ sparśaś ca rūpaṃ ca tejaso 'tha guṇās trayaḥ śabdaḥ sparśaś ca vāyos tu ākāśe śabda eva ca 7 ete pañca guṇā rājan mahābhūteṣu pañcasu vartante sarvalokeṣu yeṣu lokāḥ pratiṣṭhitāḥ 8 anyonyaṃ nābhivartante sāmyaṃ bhavati vai yadā yadā tu viṣamībhāvam āviśanti parasparam tadā dehair dehavanto vyatirohanti nānyathā 9 ānupūrvyād vinaśyanti jāyante cānupūrvaśaḥ sarvāṇy aparimeyāni tad eṣāṃ rūpam aiśvaram 10 tatra tatra hi dṛśyante dhātavaḥ pāñca bhautikāḥ teṣāṃ manuṣyās tarkeṇa pramāṇāni pracakṣate 11 acintyāḥ khalu ye bhāvā na tāṃs tarkeṇa sādhayet prakṛtibhyaḥ paraṃ yat tu tad acintyasya lakṣaṇam 12 sudarśanaṃ pravakṣyāmi dvīpaṃ te kurunandana parimaṇḍalo mahārāja dvīpo 'sau cakrasaṃsthitaḥ 13 nadī jalapraticchannaḥ parvataiś cābhrasaṃnibhaiḥ puraiś ca vividhākārai ramyair janapadais tathā 14 vṛkṣaiḥ puṣpaphalopetaiḥ saṃpannadhanadhānyavān lāvaṇena samudreṇa samantāt parivāritaḥ 15 yathā ca puruṣaḥ paśyed ādarśe mukham ātmanaḥ evaṃ sudarśana dvīpo dṛśyate candramaṇḍale 16 dvir aṃśe pippalas tatra dvir aṃśe ca śaśo mahān sarvauṣadhisamāvāpaiḥ sarvataḥ parivṛṃhitaḥ āpas tato 'nyā vijñeyā eṣa saṃkṣepa ucyate |
The Mahabharata in Sanskrit
Book 6
Chapter 7
|
1
[धृ] उक्तॊ दवीपस्य संक्षेपॊ विस्तरं बरूहि संजय यावद भूम्यवकाशॊ ऽयं दृश्यते शशलक्षणे तस्य परमाणं परब्रूहि ततॊ वक्ष्यसि पिप्पलम 2 [व] एवम उक्तः स राज्ञा तु संजयॊ वाक्यम अब्रवीत पराग आयता महाराज षड एते रत्नपर्वताः अवगाढा हय उभयतः समुद्रौ पूर्वपश्चिमौ 3 हिमवान हेमकूटश च निषधश च नगॊत्तमः नीलश च वैडूर्यमयः शवेतश च रजतप्रभः सर्वधातुविनद्धश च शृङ्गवान नाम पर्वतः 4 एते वै पर्वता राजन सिद्धचारणसेविताः तेषाम अन्तरविष्कम्भॊ यॊजनानि सहस्रशः 5 तत्र पुण्या जनपदास तानि वर्षाणि भारत वसन्ति तेषु सत्त्वानि नाना जातीनि सर्वशः 6 इदं तु भारतं वर्षं ततॊ हैमवतं परम हेमकूटात परं चैव हरिवर्षं परचक्षते 7 दक्षिणेन तु नीलस्य निषधस्यॊत्तरेण च पराग आयतॊ महाराज माल्यवान नाम पर्वतः 8 ततः परं माल्यवतः पर्वतॊ गन्धमादनः परिमण्डलस तयॊर मध्ये मेरुः कनकपर्वतः 9 आदित्यतरुणाभासॊ विधूम इव पावकः यॊजनानां सहस्राणि षॊडशाधः किल समृतः 10 उच्चैश च चतुराशीतिर यॊजनानां महीपते ऊर्ध्वम अन्तश च तिर्यक च लॊकान आवृत्य तिष्ठति 11 तस्य पार्श्वे तव इमे दवीपाश चत्वारः संस्थिताः परभॊ भद्राश्वः केतुमालश च जम्बूद्वीपश च भारत उत्तराश चैव कुरवः कृतपुण्यप्रतिश्रयाः 12 विहगः सुमुखॊ यत्र सुपर्णस्यात्मजः किल स वै विचिन्तयाम आस सौवर्णान परेक्ष्य वायसान 13 मेरुर उत्तममध्यानाम अधमानां च पक्षिणाम अविशेष करॊ यस्मात तस्माद एनं तयजाम्य अहम 14 तम आदित्यॊ ऽनुपर्येति सततं जयॊतिषां पतिः चन्द्रमाश च स नक्षत्रॊ वायुश चैव परदक्षिणम 15 स पर्वतॊ महाराज दिव्यपुष्पफलान्वितः भवनैर आवृतः सर्वैर जाम्बूनदमयैः शुभैः 16 तत्र देवगणा राजन गन्धर्वासुरराक्षसाः अप्सरॊगणसंयुक्ताः शैले करीडन्ति नित्यशः 17 तत्र बरह्मा च रुद्रश च शक्रश चापि सुरेश्वरः समेत्य विविधैर यज्ञैर यजन्ते ऽनेकदक्षिणैः 18 तुम्बुरुर नारदश चैव विश्वावसुर हहाहुहूः अभिगम्यामर शरेष्ठाः सतवै सतुन्वन्ति चाभिभॊ 19 सप्तर्षयॊ महात्मानः कश्यपश च परजापतिः तत्र गच्छन्ति भद्रं ते सदा पर्वणि पर्वणि 20 तस्यैव मूर्धन्य उशनाः काव्यॊ दैत्यैर महीपते तस्य हीमानि रत्नानि तस्येमे रत्नपर्वताः 21 तस्मात कुबेरॊ भगवांश चतुर्थं भागम अश्नुते ततः कलांशं वित्तस्य मनुष्येभ्यः परयच्छति 22 पार्श्वे तस्यॊत्तरे दिव्यं सर्वर्तुकुसुमं शिवम कर्णिकारवनं रम्यं शिला जालसमुद्गतम 23 तत्र साक्षात पशुपतिर दिव्यैर भूतैः समावृतः उमा सहायॊ भगवान रमते भूतभावनः 24 कर्णिकारमयीं मालां बिभ्रत पादावलम्बिनीम तरिभिर नेत्रैः कृतॊद्द्यॊतस तरिभिः सूर्यैर इवॊदितैः 25 तम उग्रतपसः सिद्धाः सुव्रताः सत्यवादिनः पश्यन्ति न हि दुर्वृत्तैः शक्यॊ दरष्टुं महेश्वरः 26 तस्य शैलस्य शिखरात कषीरधारा नरेश्वर तरिंशद बाहुपरिग्राह्या भीम निर्घत निस्वना 27 पुण्या पुण्यतमैर जुष्टा गङ्गा भागीरथी शुभा पतत्य अजस्र वेगेन हरदे चान्द्रमसे शुभे तया हय उत्पादितः पुण्यः स हरदः सागरॊपमः 28 तां धारयाम आस पुरा दुर्धरां पर्वतैर अपि शतं वर्षसहस्राणां शिरसा वै महेश्वरः 29 मेरॊस तु पश्चिमे पार्श्वे केतुमालॊ महीपते जम्बू षण्डश च तत्रैव सुमहान नन्दनॊपमः 30 आयुर दशसहस्राणि वर्षाणां तत्र भारत सुवर्णवर्णाश च नराः सत्रियश चाप्सरसॊपमाः 31 अनामया वीतशॊका नित्यं मुदितमानसाः जायन्ते मानवास तत्र निष्टप्त कनकप्रभाः 32 गन्धमादन शृङ्गेषु कुबेरः सह राक्षसैः संवृतॊ ऽपसरसां संघैर मॊदते गुह्यकाधिपः 33 गन्धमादन पादेषु परेष्व अपरगण्डिकाः एकादश सहस्राणि वर्षाणां परमायुषः 34 तत्र कृष्णा नरा राजंस तेजॊयुक्ता महाबलाः सत्रियश चॊत्पलपत्राभाः सर्वाः सुप्रियदर्शनाः 35 नीलॊत्परतरं शवेतं शवेताद धैरण्यकं परम वर्षम ऐरावतं नाम ततः शृङ्गवतः परम 36 धनुःसंस्थे महाराज दवे वर्षे दक्षिणॊत्तरे इला वृतं मध्यमं तु पञ्चवर्षाणि चैव ह 37 उत्तरॊत्तरम एतेभ्यॊ वर्षम उद्रिच्यते गुणैः आयुष परमाणम आरॊग्यं धर्मतः कामतॊ ऽरथतः 38 समन्वितानि भूतानि तेषु वर्षेषु भारत एवम एषा महाराज पर्वतैः पृथिवी चिता 39 हेमकूटस तु सुमहान कैलासॊ नाम पर्वतः यत्र वैश्रवणॊ राजा गुह्यकैः सह मॊदते 40 अस्त्य उत्तरेण कैलासं मैनाकं पर्वतं परति हिरण्यशृङ्गः सुमहान दिव्यॊ मणिमयॊ गिरिः 41 तस्य पार्श्वे महद दिव्यं शुभं काञ्चनवालुकम रम्यं बिन्दुसरॊ नाम यत्र राजा भगीरथः दृष्ट्वा भागीरथीं गङ्गाम उवास बहुलाः समाः 42 यूपा मणिमयास तत्र चित्याश चापि हिरण्मयाः तत्रेष्ट्वा तु गतः सिद्धिं सहस्राक्षॊ महायशाः 43 सृष्ट्वा भूतपतिर यत्र सर्वलॊकान सनातनः उपास्यते तिग्मतेजा वृतॊ भूतैः समागतैः नरनारायणौ बरह्मा मनुः सथाणुश च पञ्चमः 44 तत्र तरिपथगा देवी परथमं तु परतिष्ठिता बरह्मलॊकाद अपक्रान्ता सप्तधा परतिपद्यते 45 वस्व ओक सारा नलिनी पावना च सरस्वती जम्बूनदी च सीता च गङ्गा सिन्धुश च सप्तमी 46 अचिन्त्या दिव्यसंकल्पा परभॊर एषैव संविधिः उपासते यत्र सत्रं सहस्रयुगपर्यये 47 दृश्यादृश्या च भवति तत्र तत्र सरस्वती एता दिव्याः सप्त गङ्गास तरिषु लॊकेषु विश्रुताः 48 रक्षांसि वै हिमवति हेमकूटे तु गुह्यकाः सर्पा नागाश च निषधे गॊकर्णे च तपॊधनाः 49 देवासुराणां च गृहं शवेतः पर्वत उच्यते गन्धर्वा निषधे शैले नीले बरह्मर्षयॊ नृप शृङ्गवांस तु महाराज पितॄणां परतिसंचरः 50 इत्य एतानि महाराज सप्त वर्षाणि भागशः भूतान्य उपनिविष्टानि गतिमन्ति धरुवाणि च 51 तेषाम ऋद्धिर बहुविधा दृश्यते दैवमानुषी अशक्या परिसंख्यातुं शरद्धेया तु बुभूषता 52 यां तु पृच्छसि मा राजन दिव्याम एतां शशाकृतिम पार्श्वे शशस्य दवे वर्षे उभये दक्षिणॊत्तरे कर्णौ तु नागद्वीपं च कश्यप दवीपम एव च 53 ताम्रवर्णः शिरॊ राजञ शरीमान मलयपर्वतः एतद दवितीयं दवीपस्य दृश्यते शशसंस्थितम |
1
[dhṛ] ukto dvīpasya saṃkṣepo vistaraṃ brūhi saṃjaya yāvad bhūmyavakāśo 'yaṃ dṛśyate śaśalakṣaṇe tasya pramāṇaṃ prabrūhi tato vakṣyasi pippalam 2 [v] evam uktaḥ sa rājñā tu saṃjayo vākyam abravīt prāg āyatā mahārāja ṣaḍ ete ratnaparvatāḥ avagāḍhā hy ubhayataḥ samudrau pūrvapaścimau 3 himavān hemakūṭaś ca niṣadhaś ca nagottamaḥ nīlaś ca vaiḍūryamayaḥ śvetaś ca rajataprabhaḥ sarvadhātuvinaddhaś ca śṛṅgavān nāma parvataḥ 4 ete vai parvatā rājan siddhacāraṇasevitāḥ teṣām antaraviṣkambho yojanāni sahasraśaḥ 5 tatra puṇyā janapadās tāni varṣāṇi bhārata vasanti teṣu sattvāni nānā jātīni sarvaśaḥ 6 idaṃ tu bhārataṃ varṣaṃ tato haimavataṃ param hemakūṭāt paraṃ caiva harivarṣaṃ pracakṣate 7 dakṣiṇena tu nīlasya niṣadhasyottareṇa ca prāg āyato mahārāja mālyavān nāma parvataḥ 8 tataḥ paraṃ mālyavataḥ parvato gandhamādanaḥ parimaṇḍalas tayor madhye meruḥ kanakaparvataḥ 9 ādityataruṇābhāso vidhūma iva pāvakaḥ yojanānāṃ sahasrāṇi ṣoḍaśādhaḥ kila smṛtaḥ 10 uccaiś ca caturāśītir yojanānāṃ mahīpate ūrdhvam antaś ca tiryak ca lokān āvṛtya tiṣṭhati 11 tasya pārśve tv ime dvīpāś catvāraḥ saṃsthitāḥ prabho bhadrāśvaḥ ketumālaś ca jambūdvīpaś ca bhārata uttarāś caiva kuravaḥ kṛtapuṇyapratiśrayāḥ 12 vihagaḥ sumukho yatra suparṇasyātmajaḥ kila sa vai vicintayām āsa sauvarṇān prekṣya vāyasān 13 merur uttamamadhyānām adhamānāṃ ca pakṣiṇām aviśeṣa karo yasmāt tasmād enaṃ tyajāmy aham 14 tam ādityo 'nuparyeti satataṃ jyotiṣāṃ patiḥ candramāś ca sa nakṣatro vāyuś caiva pradakṣiṇam 15 sa parvato mahārāja divyapuṣpaphalānvitaḥ bhavanair āvṛtaḥ sarvair jāmbūnadamayaiḥ śubhaiḥ 16 tatra devagaṇā rājan gandharvāsurarākṣasāḥ apsarogaṇasaṃyuktāḥ śaile krīḍanti nityaśaḥ 17 tatra brahmā ca rudraś ca śakraś cāpi sureśvaraḥ sametya vividhair yajñair yajante 'nekadakṣiṇaiḥ 18 tumburur nāradaś caiva viśvāvasur hahāhuhūḥ abhigamyāmara śreṣṭhāḥ stavai stunvanti cābhibho 19 saptarṣayo mahātmānaḥ kaśyapaś ca prajāpatiḥ tatra gacchanti bhadraṃ te sadā parvaṇi parvaṇi 20 tasyaiva mūrdhany uśanāḥ kāvyo daityair mahīpate tasya hīmāni ratnāni tasyeme ratnaparvatāḥ 21 tasmāt kubero bhagavāṃś caturthaṃ bhāgam aśnute tataḥ kalāṃśaṃ vittasya manuṣyebhyaḥ prayacchati 22 pārśve tasyottare divyaṃ sarvartukusumaṃ śivam karṇikāravanaṃ ramyaṃ śilā jālasamudgatam 23 tatra sākṣāt paśupatir divyair bhūtaiḥ samāvṛtaḥ umā sahāyo bhagavān ramate bhūtabhāvanaḥ 24 karṇikāramayīṃ mālāṃ bibhrat pādāvalambinīm tribhir netraiḥ kṛtoddyotas tribhiḥ sūryair ivoditaiḥ 25 tam ugratapasaḥ siddhāḥ suvratāḥ satyavādinaḥ paśyanti na hi durvṛttaiḥ śakyo draṣṭuṃ maheśvaraḥ 26 tasya śailasya śikharāt kṣīradhārā nareśvara triṃśad bāhuparigrāhyā bhīma nirghata nisvanā 27 puṇyā puṇyatamair juṣṭā gaṅgā bhāgīrathī śubhā pataty ajasra vegena hrade cāndramase śubhe tayā hy utpāditaḥ puṇyaḥ sa hradaḥ sāgaropamaḥ 28 tāṃ dhārayām āsa purā durdharāṃ parvatair api śataṃ varṣasahasrāṇāṃ śirasā vai maheśvaraḥ 29 meros tu paścime pārśve ketumālo mahīpate jambū ṣaṇḍaś ca tatraiva sumahān nandanopamaḥ 30 āyur daśasahasrāṇi varṣāṇāṃ tatra bhārata suvarṇavarṇāś ca narāḥ striyaś cāpsarasopamāḥ 31 anāmayā vītaśokā nityaṃ muditamānasāḥ jāyante mānavās tatra niṣṭapta kanakaprabhāḥ 32 gandhamādana śṛṅgeṣu kuberaḥ saha rākṣasaiḥ saṃvṛto 'psarasāṃ saṃghair modate guhyakādhipaḥ 33 gandhamādana pādeṣu pareṣv aparagaṇḍikāḥ ekādaśa sahasrāṇi varṣāṇāṃ paramāyuṣaḥ 34 tatra kṛṣṇā narā rājaṃs tejoyuktā mahābalāḥ striyaś cotpalapatrābhāḥ sarvāḥ supriyadarśanāḥ 35 nīlotparataraṃ śvetaṃ śvetād dhairaṇyakaṃ param varṣam airāvataṃ nāma tataḥ śṛṅgavataḥ param 36 dhanuḥsaṃsthe mahārāja dve varṣe dakṣiṇottare ilā vṛtaṃ madhyamaṃ tu pañcavarṣāṇi caiva ha 37 uttarottaram etebhyo varṣam udricyate guṇaiḥ āyuṣ pramāṇam ārogyaṃ dharmataḥ kāmato 'rthataḥ 38 samanvitāni bhūtāni teṣu varṣeṣu bhārata evam eṣā mahārāja parvataiḥ pṛthivī citā 39 hemakūṭas tu sumahān kailāso nāma parvataḥ yatra vaiśravaṇo rājā guhyakaiḥ saha modate 40 asty uttareṇa kailāsaṃ mainākaṃ parvataṃ prati hiraṇyaśṛṅgaḥ sumahān divyo maṇimayo giriḥ 41 tasya pārśve mahad divyaṃ śubhaṃ kāñcanavālukam ramyaṃ bindusaro nāma yatra rājā bhagīrathaḥ dṛṣṭvā bhāgīrathīṃ gaṅgām uvāsa bahulāḥ samāḥ 42 yūpā maṇimayās tatra cityāś cāpi hiraṇmayāḥ tatreṣṭvā tu gataḥ siddhiṃ sahasrākṣo mahāyaśāḥ 43 sṛṣṭvā bhūtapatir yatra sarvalokān sanātanaḥ upāsyate tigmatejā vṛto bhūtaiḥ samāgataiḥ naranārāyaṇau brahmā manuḥ sthāṇuś ca pañcamaḥ 44 tatra tripathagā devī prathamaṃ tu pratiṣṭhitā brahmalokād apakrāntā saptadhā pratipadyate 45 vasv oka sārā nalinī pāvanā ca sarasvatī jambūnadī ca sītā ca gaṅgā sindhuś ca saptamī 46 acintyā divyasaṃkalpā prabhor eṣaiva saṃvidhiḥ upāsate yatra satraṃ sahasrayugaparyaye 47 dṛśyādṛśyā ca bhavati tatra tatra sarasvatī etā divyāḥ sapta gaṅgās triṣu lokeṣu viśrutāḥ 48 rakṣāṃsi vai himavati hemakūṭe tu guhyakāḥ sarpā nāgāś ca niṣadhe gokarṇe ca tapodhanāḥ 49 devāsurāṇāṃ ca gṛhaṃ śvetaḥ parvata ucyate gandharvā niṣadhe śaile nīle brahmarṣayo nṛpa śṛṅgavāṃs tu mahārāja pitṝṇāṃ pratisaṃcaraḥ 50 ity etāni mahārāja sapta varṣāṇi bhāgaśaḥ bhūtāny upaniviṣṭāni gatimanti dhruvāṇi ca 51 teṣām ṛddhir bahuvidhā dṛśyate daivamānuṣī aśakyā parisaṃkhyātuṃ śraddheyā tu bubhūṣatā 52 yāṃ tu pṛcchasi mā rājan divyām etāṃ śaśākṛtim pārśve śaśasya dve varṣe ubhaye dakṣiṇottare karṇau tu nāgadvīpaṃ ca kaśyapa dvīpam eva ca 53 tāmravarṇaḥ śiro rājañ śrīmān malayaparvataḥ etad dvitīyaṃ dvīpasya dṛśyate śaśasaṃsthitam |
The Mahabharata in Sanskrit
Book 6
Chapter 8
|
1
[धृ] मेरॊर अथॊत्तरं पार्श्वं पूर्वं चाचक्ष्व संजय निखिलेन महाबुद्धे माल्यवन्तं च पर्वतम 2 [स] दक्षिणेन तु नीलस्य मेरॊः पार्श्वे तथॊत्तरे उत्तराः कुरवॊ राजन पुण्याः सिद्धनिषेविताः 3 तत्र वृक्षा मधु फला नित्यपुष्पफलॊपगाः पुष्पाणि च सुगन्धीनि रसवन्ति फलानि च 4 सर्वकामफलास तत्र के चिद वृक्षा जनाधिप अपरे कषीरिणॊ नाम वृक्षास तत्र नराधिप 5 ये कषरन्ति सदा कषीरं षड्रसं हय अमृतॊपमम वस्त्राणि च परसूयन्ते फलेष्व आभरणानि च 6 सर्वा मणिमयी भूमिः सूक्ष्मकाञ्चनवालुका सर्वत्र सुखसंस्पर्शा निष्पङ्का च जनाधिप 7 देवलॊकच्युताः सर्वे जायन्ते तत्र मानवाः तुल्यरूपगुणॊपेताः समेषु विषमेषु च 8 मिथुनानि च जायन्ते सत्रियश चाप्सरसॊपमाः तेषां ते कषीरिणां कषीरं पिबन्त्य अमृतसंनिभम 9 मिथुनं जायमानं वै समं तच च परवर्धते तुल्यरूपगुणॊपेतं समवेषं तथैव च एकैकम अनुरक्तं च चक्रवाक समं विभॊ 10 निरामया वीतशॊका नित्यं मुदितमानसाः दशवर्षसहस्राणि दशवर्षशतानि च जीवन्ति ते महाराज न चान्यॊन्यं जहत्य उत 11 भारुण्डा नाम शकुनास तीक्ष्णतुण्डा महाबलाः ते निर्हरन्ति हि मृतान दरीषु परक्षिपन्ति च 12 उत्तराः कुरवॊ राजन वयाख्यातास ते समासतः मेरॊः पार्श्वम अहं पूर्वं वक्ष्याम्य अथ यथातथम 13 तस्य पूर्वाभिषेकस तु भद्राश्वस्य विशां पते भद्र सालवनं यत्र कालाम्रश च महाद्रुमः 14 कालाम्रश च महाराज नित्यपुष्पफलः शुभः दवीपश च यॊजनॊत्सेधः सिद्धचारणसेवितः 15 तत्र ते पुरुषाः शवेतास तेजॊयुक्ता महाबलाः सत्रियः कुमुदवर्णाश च सुन्दर्यः परियदर्शनाः 16 चन्द्रप्रभाश चन्द्र वर्णाः पूर्णचन्द्रनिभाननाः चन्द्र शीतलगात्र्यश च नृत्तगीतविशारदाः 17 दशवर्षसहस्राणि तत्रायुर भरतर्षभ कालाम्र रसपीतास ते नित्यं संस्थित यौवनाः 18 दक्षिणेन तु नीलस्य निषधस्यॊत्तरेण तु सुदर्शनॊ नाम महाञ जाम्बूवृक्षः सनातनः 19 सर्वकामफलः पुण्यः सिद्धचारणसेवितः तस्य नाम्ना समाख्यातॊ जम्बूद्वीपः सनातनः 20 यॊजनानां सहस्रं च शतं च भरतर्षभ उत्सेधॊ वृक्षराजस्य दिवस्पृन मनुजेश्वर 21 अरत्नीनां सहस्रं च शतानि दश पञ्च च परिणाहस तु वृक्षस्य फलानां रसभेदिनाम 22 पतमानानि तान्य उर्व्यां कुर्वन्ति विपुलं सवनम मुञ्चन्ति च रसं राजंस तस्मिन रजतसंनिभम 23 तस्या जम्ब्वाः फलरसॊ नदी भूत्वा जनाधिप मेरुं परदक्षिणं कृत्वा संप्रयात्य उत्तरान कुरून 24 पिबन्ति तद रसं हृष्टा जना नित्यं जनाधिप तस्मिन फलरसे पीते न जरा बाधते च तान 25 तत्र जाम्बूनदं नाम कनकं देव भूषणम तरुणादित्यवर्णाश च जायन्ते तत्र मानवाः 26 तथा माल्यवतः शृङ्गे दीप्यते तत्र हव्यवाट नाम्ना संवर्तकॊ नाम कालाग्निर भरतर्षभ 27 तथा माल्यवतः शृङ्गे पूर्वे पूर्वान्त गण्डिका यॊजनानां सहस्राणि पञ्चाशन माल्यवान सथितः 28 महारजत संकाशा जायन्ते तत्र मानवाः बरह्मलॊकाच चयुताः सर्वे सर्वे च बरह्मवादिनः 29 तपस तु तप्यमानास ते भवन्ति हय ऊर्ध्वरेतसः रक्षणार्थं तु भूतानां परविशन्ति दिवाकरम 30 षष्टिस तानि सहस्राणि षष्टिर एव शतानि च अरुणस्याग्रतॊ यान्ति परिवार्य दिवाकरम 31 षष्टिं वर्षसहस्राणि षष्टिम एव शतानि च आदित्यताप तप्तास ते विशन्ति शशिमण्डलम |
1
[dhṛ] meror athottaraṃ pārśvaṃ pūrvaṃ cācakṣva saṃjaya nikhilena mahābuddhe mālyavantaṃ ca parvatam 2 [s] dakṣiṇena tu nīlasya meroḥ pārśve tathottare uttarāḥ kuravo rājan puṇyāḥ siddhaniṣevitāḥ 3 tatra vṛkṣā madhu phalā nityapuṣpaphalopagāḥ puṣpāṇi ca sugandhīni rasavanti phalāni ca 4 sarvakāmaphalās tatra ke cid vṛkṣā janādhipa apare kṣīriṇo nāma vṛkṣās tatra narādhipa 5 ye kṣaranti sadā kṣīraṃ ṣaḍrasaṃ hy amṛtopamam vastrāṇi ca prasūyante phaleṣv ābharaṇāni ca 6 sarvā maṇimayī bhūmiḥ sūkṣmakāñcanavālukā sarvatra sukhasaṃsparśā niṣpaṅkā ca janādhipa 7 devalokacyutāḥ sarve jāyante tatra mānavāḥ tulyarūpaguṇopetāḥ sameṣu viṣameṣu ca 8 mithunāni ca jāyante striyaś cāpsarasopamāḥ teṣāṃ te kṣīriṇāṃ kṣīraṃ pibanty amṛtasaṃnibham 9 mithunaṃ jāyamānaṃ vai samaṃ tac ca pravardhate tulyarūpaguṇopetaṃ samaveṣaṃ tathaiva ca ekaikam anuraktaṃ ca cakravāka samaṃ vibho 10 nirāmayā vītaśokā nityaṃ muditamānasāḥ daśavarṣasahasrāṇi daśavarṣaśatāni ca jīvanti te mahārāja na cānyonyaṃ jahaty uta 11 bhāruṇḍā nāma śakunās tīkṣṇatuṇḍā mahābalāḥ te nirharanti hi mṛtān darīṣu prakṣipanti ca 12 uttarāḥ kuravo rājan vyākhyātās te samāsataḥ meroḥ pārśvam ahaṃ pūrvaṃ vakṣyāmy atha yathātatham 13 tasya pūrvābhiṣekas tu bhadrāśvasya viśāṃ pate bhadra sālavanaṃ yatra kālāmraś ca mahādrumaḥ 14 kālāmraś ca mahārāja nityapuṣpaphalaḥ śubhaḥ dvīpaś ca yojanotsedhaḥ siddhacāraṇasevitaḥ 15 tatra te puruṣāḥ śvetās tejoyuktā mahābalāḥ striyaḥ kumudavarṇāś ca sundaryaḥ priyadarśanāḥ 16 candraprabhāś candra varṇāḥ pūrṇacandranibhānanāḥ candra śītalagātryaś ca nṛttagītaviśāradāḥ 17 daśavarṣasahasrāṇi tatrāyur bharatarṣabha kālāmra rasapītās te nityaṃ saṃsthita yauvanāḥ 18 dakṣiṇena tu nīlasya niṣadhasyottareṇa tu sudarśano nāma mahāñ jāmbūvṛkṣaḥ sanātanaḥ 19 sarvakāmaphalaḥ puṇyaḥ siddhacāraṇasevitaḥ tasya nāmnā samākhyāto jambūdvīpaḥ sanātanaḥ 20 yojanānāṃ sahasraṃ ca śataṃ ca bharatarṣabha utsedho vṛkṣarājasya divaspṛn manujeśvara 21 aratnīnāṃ sahasraṃ ca śatāni daśa pañca ca pariṇāhas tu vṛkṣasya phalānāṃ rasabhedinām 22 patamānāni tāny urvyāṃ kurvanti vipulaṃ svanam muñcanti ca rasaṃ rājaṃs tasmin rajatasaṃnibham 23 tasyā jambvāḥ phalaraso nadī bhūtvā janādhipa meruṃ pradakṣiṇaṃ kṛtvā saṃprayāty uttarān kurūn 24 pibanti tad rasaṃ hṛṣṭā janā nityaṃ janādhipa tasmin phalarase pīte na jarā bādhate ca tān 25 tatra jāmbūnadaṃ nāma kanakaṃ deva bhūṣaṇam taruṇādityavarṇāś ca jāyante tatra mānavāḥ 26 tathā mālyavataḥ śṛṅge dīpyate tatra havyavāṭ nāmnā saṃvartako nāma kālāgnir bharatarṣabha 27 tathā mālyavataḥ śṛṅge pūrve pūrvānta gaṇḍikā yojanānāṃ sahasrāṇi pañcāśan mālyavān sthitaḥ 28 mahārajata saṃkāśā jāyante tatra mānavāḥ brahmalokāc cyutāḥ sarve sarve ca brahmavādinaḥ 29 tapas tu tapyamānās te bhavanti hy ūrdhvaretasaḥ rakṣaṇārthaṃ tu bhūtānāṃ praviśanti divākaram 30 ṣaṣṭis tāni sahasrāṇi ṣaṣṭir eva śatāni ca aruṇasyāgrato yānti parivārya divākaram 31 ṣaṣṭiṃ varṣasahasrāṇi ṣaṣṭim eva śatāni ca ādityatāpa taptās te viśanti śaśimaṇḍalam |
The Mahabharata in Sanskrit
Book 6
Chapter 9
|
1
[धृ] वर्णाणां चैव नामानि पर्वतानां च संजय आचक्ष्व मे यथातत्त्वं ये च पर्वतवासिनः 2 [स] दक्षिणेन तु शवेतस्य नीलस्यैवॊत्तरेण तु वर्षं रमणकं नाम जायन्ते तत्र मानवाः 3 शुक्लाभिजन संपन्नाः सर्वे सुप्रियदर्शनाः रतिप्रधानाश च तथा जायन्ते तत्र मानवाः 4 दशवर्षसहस्राणि शतानि दश पञ्च च जीवन्ति ते महाराज नित्यं मुदितमानसाः 5 दक्षिणे शृङ्गिणश चैव शवेतस्याथॊत्तरेण च वर्षं हैरण्वतं नाम यत्र हैरण्वती नदी 6 यक्षानुगा महाराज धनिनः परैय दर्शनाः महाबलास तत्र सदा राजन मुदितमानसाः 7 एकादश सहस्राणि वर्षाणां ते जनाधिप आयुष परमाणं जीवन्ति शतानि दश पञ्च च 8 शृङ्गाणि वै शृङ्गवतस तरीण्य एव मनुजाधिप एकं मणिमयं तत्र तथैकं रौक्मम अद्भुतम 9 सर्वरत्नमयं चैकं भवनैर उपशॊभितम तत्र सवयंप्रभा देवी नित्यं वसति शाण्डिली 10 उत्तरेण तु शृङ्गस्य समुद्रान्ते जनाधिप वर्षम ऐरावतं नाम तस्माच छृङ्गवतः परम 11 न तत्र सूर्यस तपति न ते जीर्यन्ति मानवाः चन्द्रमाश च स नक्षत्रॊ जयॊतिर भूत इवावृतः 12 पद्मप्रभाः पद्मवर्णाः पद्मपत्र निभेक्षणाः पद्मपत्र सुगन्धाश च जायन्ते तत्र मानवाः 13 अनिष्पन्दाः सुगन्धाश च निराहारा जितेन्द्रियाः देवलॊकच्युताः सर्वे तथा विरजसॊ नृप 14 तरयॊदश सहस्राणि वर्षाणां ते जनाधिप आयुष परमाणं जीवन्ति नरा भरतसत्तम 15 कषीरॊदस्य समुद्रस्य तथैवॊत्तरतः परभुः हरिर वसति वैकुण्ठः शकटे कनकात्मके 16 अष्टचक्रं हि तद यानं भूतयुक्तं मनॊजवम अग्निवर्णं महावेगं जाम्बूनदपरिष्कृतम 17 स परभुः सर्वभूतानां विभुश च भरतर्षभ संक्षेपॊ विस्तरश चैव कर्ता कारयिता च सः 18 पृथिव्य आपस तथाकाशं वायुस तेजश च पार्थिव स यज्ञः सर्वभूतानाम आस्यं तस्य हुताशनः 19 [व] एवम उक्तः संजयेन धृतराष्ट्रॊ महामनाः धयानम अन्वगमद राजा पुत्रान परति जनाधिप 20 स विचिन्त्य महाराज पुनर एवाब्रवीद वचः असंशयं सूतपुत्र कालः संक्षिपते जगत सृजते च पुनः सर्वं न ह विद्यति शाश्वतम 21 नरॊ नारायणश चैव सर्वज्ञः सर्वभूतभृत देवा वैकुण्ठ इत्य आहुर वेदा विष्णुर इति परभुम |
1
[dhṛ] varṇāṇāṃ caiva nāmāni parvatānāṃ ca saṃjaya ācakṣva me yathātattvaṃ ye ca parvatavāsinaḥ 2 [s] dakṣiṇena tu śvetasya nīlasyaivottareṇa tu varṣaṃ ramaṇakaṃ nāma jāyante tatra mānavāḥ 3 śuklābhijana saṃpannāḥ sarve supriyadarśanāḥ ratipradhānāś ca tathā jāyante tatra mānavāḥ 4 daśavarṣasahasrāṇi śatāni daśa pañca ca jīvanti te mahārāja nityaṃ muditamānasāḥ 5 dakṣiṇe śṛṅgiṇaś caiva śvetasyāthottareṇa ca varṣaṃ hairaṇvataṃ nāma yatra hairaṇvatī nadī 6 yakṣānugā mahārāja dhaninaḥ praiya darśanāḥ mahābalās tatra sadā rājan muditamānasāḥ 7 ekādaśa sahasrāṇi varṣāṇāṃ te janādhipa āyuṣ pramāṇaṃ jīvanti śatāni daśa pañca ca 8 śṛṅgāṇi vai śṛṅgavatas trīṇy eva manujādhipa ekaṃ maṇimayaṃ tatra tathaikaṃ raukmam adbhutam 9 sarvaratnamayaṃ caikaṃ bhavanair upaśobhitam tatra svayaṃprabhā devī nityaṃ vasati śāṇḍilī 10 uttareṇa tu śṛṅgasya samudrānte janādhipa varṣam airāvataṃ nāma tasmāc chṛṅgavataḥ param 11 na tatra sūryas tapati na te jīryanti mānavāḥ candramāś ca sa nakṣatro jyotir bhūta ivāvṛtaḥ 12 padmaprabhāḥ padmavarṇāḥ padmapatra nibhekṣaṇāḥ padmapatra sugandhāś ca jāyante tatra mānavāḥ 13 aniṣpandāḥ sugandhāś ca nirāhārā jitendriyāḥ devalokacyutāḥ sarve tathā virajaso nṛpa 14 trayodaśa sahasrāṇi varṣāṇāṃ te janādhipa āyuṣ pramāṇaṃ jīvanti narā bharatasattama 15 kṣīrodasya samudrasya tathaivottarataḥ prabhuḥ harir vasati vaikuṇṭhaḥ śakaṭe kanakātmake 16 aṣṭacakraṃ hi tad yānaṃ bhūtayuktaṃ manojavam agnivarṇaṃ mahāvegaṃ jāmbūnadapariṣkṛtam 17 sa prabhuḥ sarvabhūtānāṃ vibhuś ca bharatarṣabha saṃkṣepo vistaraś caiva kartā kārayitā ca saḥ 18 pṛthivy āpas tathākāśaṃ vāyus tejaś ca pārthiva sa yajñaḥ sarvabhūtānām āsyaṃ tasya hutāśanaḥ 19 [v] evam uktaḥ saṃjayena dhṛtarāṣṭro mahāmanāḥ dhyānam anvagamad rājā putrān prati janādhipa 20 sa vicintya mahārāja punar evābravīd vacaḥ asaṃśayaṃ sūtaputra kālaḥ saṃkṣipate jagat sṛjate ca punaḥ sarvaṃ na ha vidyati śāśvatam 21 naro nārāyaṇaś caiva sarvajñaḥ sarvabhūtabhṛt devā vaikuṇṭha ity āhur vedā viṣṇur iti prabhum |
The Mahabharata in Sanskrit
Book 6
Chapter 10
|
1
[धृ] यद इदं भारतं वर्षं यत्रेदं मूर्छितं बलम यत्रातिमात्रं लुब्धॊ ऽयं पुत्रॊ दुर्यॊधनॊ मम 2 यत्र गृद्धाः पाण्डुसुता यत्र मे सज्जते मनः एतन मे तत्त्वम आचक्ष्व कुशलॊ हय असि संजय 3 [स] न तत्र पाण्डवा गृद्धाः शृणु राजन वचॊ मम गृद्धॊ दुर्यॊधनस तत्र शकुनिश चापि सौबलः 4 अपरे कषत्रियाश चापि नानाजनपदेश्वराः ये गृद्धा भारते वर्षे न मृष्यन्ति परस्परम 5 अत्र ते वर्णयिष्यामि वर्षं भारत भारतम परियम इन्द्रस्य देवस्य मनॊर वैवस्वतस्य च 6 पृथॊश च राजन वैन्यस्य तथेक्ष्वाकॊर महात्मनः ययातेर अम्बरीषस्य मान्धातुर नहुषस्य च 7 तथैव मुचुकुन्दस्य शिबेर औशीनरस्य च ऋषभस्य तथैलस्य नृगस्य नृपतेस तथा 8 अन्येषां च महाराज कषत्रियाणां बलीयसाम सर्वेषाम एव राजेन्द्र परियं भारत भारतम 9 तत ते वर्षं परवक्ष्यामि यथा शुतम अरिंदम शृणु मे गदतॊ राजन यन मां तवं परिपृच्छसि 10 महेन्द्रॊ मलयः सह्यः शुक्तिमान ऋक्षवान अपि विन्ध्यश च पारियात्रश च सप्तैते कुलपर्वताः 11 तेषां सहस्रशॊ राजन पर्वतास तु समीपतः अभिज्ञाताः सारवन्तॊ विपुलाश चित्रसानवः 12 अन्ये ततॊ ऽपरिज्ञाता हरस्वा हरस्वॊपजीविनः आर्या मलेच्छाश च कौरव्य तैर मिश्राः पुरुषा विभॊ 13 नदीः पिबन्ति बहुला गङ्गां सिन्धुं सरस्वतीम गॊदावरीं नर्मदां च बाहुदां च महानदीम 14 शतद्रुं चन्द्रभागां च यमुनां च महानदीम दृषद्वतीं विपाशां च विपापां सथूलवालुकाम 15 नदीं वेत्रवतीं चैव कृष्ण वेणां च निम्नगाम इरावतीं वितस्तां च पयॊष्णीं देविकाम अपि 16 वेद समृतिं वेतसिनीं तरिदिवाम इष्कु मालिनीम करीषिणीं चित्रवहां चित्रसेनां च निम्नगाम 17 गॊमतीं धूतपापां च वन्दनां च महानदीम कौशिकीं तरिदिवां कृत्यां विचित्रां लॊहतारिणीम 18 रथस्थां शतकुम्भां च सरयूं च नरेश्वर चर्मण्वतीं वेत्रवतीं हस्तिसॊमां दिशं तथा 19 शतावरीं पयॊष्णीं च परां भैमरथीं तथा कावेरीं चुलुकां चापि वापीं शतबलाम अपि 20 निचीरां महितां चापि सुप्रयॊगां नराधिप पवित्रां कुण्डलां सिन्धुं वाजिनीं पुरमालिनीम 21 पूर्वाभिरामां वीरां च भीमाम ओघवतीं तथा पलाशिनीं पापहरां महेन्द्रं पिप्पलावतीम 22 पारिषेणाम असिक्नीं च सरलां भारमर्दिनीम पुरुहीं परवरां मेनां मॊघां घृतवतीं तथा 23 धूमत्याम अतिकृष्णां च सूचीं छावीं च कौरव सदानीराम अधृष्यां च कुश धारां महानदीम 24 शशिकान्तां शिवां चैव तथा वीरवतीम अपि वास्तुं सुवास्तुं गौरीं च कम्पनां स हिरण्वतीम 25 हिरण्वतीं चित्रवतीं चित्रसेनां च निम्नगाम रथचित्रां जयॊतिरथां विश्वामित्रां कपिञ्जलाम 26 उपेन्द्रां बहुलां चैव कुचराम अम्बुवाहिनीम वैनन्दीं पिञ्जलां वेण्णां तुङ्गवेणां महानदीम 27 विदिशां कृष्ण वेण्णां च ताम्रां च कपिलाम अपि शलुं सुवामां वेदाश्वां हरिस्रावां महापगाम 28 शीघ्रां च पिच्छिलां चैव भारद्वाजीं च निम्नगाम कौशिकीं निम्नगां शॊणां बाहुदाम अथ चन्दनाम 29 दुर्गाम अन्तःशिलां चैव बरह्म मेध्यां बृहद्वतीम चरक्षां महिरॊहीं च तथा जम्बुनदीम अपि 30 सुनसां तमसां दासीं तरसाम अन्यां वराणसीम लॊलॊद्धृत करां चैव पूर्णाशां च महानदीम 31 मानवीं वृषभां चैव महानद्यॊ जनाधिप सदा निरामयां वृत्यां मन्दगां मन्दवाहिनीम 32 बरह्माणीं च महागौरीं दुर्गाम अपि च भारत चित्रॊपलां चित्रबर्हां मज्जुं मकरवाहिनीम 33 मन्दाकिनीं वैतरणीं कॊकां चैव महानदीम शुक्तिमतीम अरण्यां च पुष्पवेण्य उत्पलावतीम 34 लॊहित्यां करतॊयां च तथैव वृषभङ्गिनीम कुमारीम ऋषिकुल्यां च बरह्म कुल्यां च भारत 35 सरस्वतीः सुपुण्याश च सर्वा गङ्गाश च मारिष विश्वस्य मातरः सर्वाः सर्वाश चैव महाबलाः 36 तथा नद्यस तव अप्रकाशाः शतशॊ ऽथ सहस्रशः इत्य एताः सरितॊ राजन समाख्याता यथा समृति 37 अत ऊर्ध्वं जनपदान निबॊध गदतॊ मम तत्रेमे कुरुपाञ्चालाः शाल्व माद्रेय जाङ्गलाः 38 शूरसेनाः कलिङ्गाश च बॊधा मौकास तथैव च मत्स्याः सुकुट्यः सौबल्याः कुन्तलाः काशिकॊशलाः 39 चेदिवत्साः करूषाश च भॊजाः सिन्धुपुलिन्दकाः उत्तमौजा दशार्णाश च मेकलाश चॊत्कलैः सह 40 पाञ्चालाः कौशिकाश चैव एकपृष्ठा युगं धराः सौधा मद्रा भुजिङ्गाश च काशयॊ ऽपरकाशयः 41 जठराः कुक्कुशाश चैव सुदाशार्णाश च भारत कुन्तयॊ ऽवन्तयश चैव तथैवापरकुन्तयः 42 गॊविन्दा मन्दकाः षण्डा विदर्भानूपवासिकाः अश्मकाः पांसुराष्ट्राश च गॊप राष्ट्राः पनीतकाः 43 आदि राष्ट्राः सुकुट्टाश च बलिराष्ट्रं च केवलम वानरास्याः परवाहाश च वक्रा वक्रभयाः शकाः 44 विदेहका मागधाश च सुह्माश च विजयास तथा अङ्गा वङ्गाः कलिङ्गाश च यकृल लॊमान एव च 45 मल्लाः सुदेष्णाः पराहूतास तथा माहिष कार्षिकाः वाहीका वाटधानाश च आभीराः कालतॊयकाः 46 अपरन्ध्राश च शूद्राश च पह्लवाश चर्म खण्डिकाः अटवी शबराश चैव मरु भौमाश च मारिष 47 उपावृश्चानुपावृश्च सुराष्ट्राः केकयास तथा कुट्टापरान्ता दवैधेयाः काक्षाः सामुद्र निष्कुटाः 48 अन्ध्राश च बहवॊ राजन्न अन्तर्गिर्यास तथैव च बहिर्गिर्य आङ्गमलदा मागधा मानवर्जकाः 49 मह्युत्तराः परावृषेया भार्गवाश च जनाधिप पुण्ड्रा भार्गाः किराताश च सुदॊष्णाः परमुदास तथा 50 शका निषादा निषधास तथैवानर्तनैरृताः दुगूलाः परतिमत्स्याश च कुशलाः कुनटास तथा 51 तीरग्राहास्तर तॊया राजिका रम्यका गणाः तिलकाः पारसीकाश च मधुमन्तः परकुत्सकाः 52 काश्मीराः सिन्धुसौवीरा गान्धारा दर्शकास तथा अभीसारा कुलूताश च शौवला बाह्लिकास तथा 53 दर्वीकाः सकचा दर्वा वातजाम रथॊरगाः बहु वाद्याश च कौरव्य सुदामानः सुमल्लिकाः 54 वध्राः करीषकाश चापि कुलिन्दॊपत्यकास तथा वनायवॊ दशा पार्श्वा रॊमाणः कुश बिन्दवः 55 कच्छा गॊपाल कच्छाश च लाङ्गलाः परवल्लकाः किराता बर्बराः सिद्धा विदेहास ताम्रलिङ्गकाः 56 ओष्ट्राः पुण्ड्राः स सैरन्ध्राः पार्वतीयाश च मारिष अथापरे जनपदा दक्षिणा भरतर्षभ 57 दरविडाः केरलाः पराच्या भूषिका वनवासिनः उन्नत्यका माहिषका विकल्पा मूषकास तथा 58 कर्णिकाः कुन्तिकाश चैव सौब्धिदा नलकालकाः कौकुट्टकास तथा चॊलाः कॊङ्कणा मालवाणकाः 59 समङ्गाः कॊपनाश चैव कुकुराङ्गद मारिषाः धवजिन्य उत्सव संकेतास तरिवर्गाः सर्वसेनयः 60 तर्यङ्गाः केकरकाः परॊष्ठाः परसंचरकास तथा तथैव विन्ध्यपुलकाः पुलिन्दाः कल्कलैः सह 61 मालका मल्लकाश चैव तथैवापरवर्तकाः कुलिन्दाः कुलकाश चैव करण्ठाः कुरकास तथा 62 मूषका सतनबालाश च सतियः पत्तिपञ्जकाः आदिदायाः सिरालाश च सतूबका सतनपास तथा 63 हृषीविदर्भाः कान्तीकास तङ्गणाः परतङ्गणाः उत्तराश चापरे मलेच्छा जना भरतसत्तम 64 यवनाश च स काम्बॊजा दारुणा मलेच्छ जातयः सक्षद्द्रुहः कुन्तलाश च हूणाः पारतकैः सह 65 तथैव मरधाश चीनास तथैव दश मालिकाः कषत्रियॊपनिवेशाश च वैश्यशूद्र कुलानि च 66 शूद्राभीराथ दरदाः काश्मीराः पशुभिः सह खशिकाश च तुखाराश च पल्लवा गिरिगह्वराः 67 आत्रेयाः स भरद्वाजास तथैव सतनयॊषिकाः औपकाश च कलिङ्गाश च किरातानां च जातयः 68 तामरा हंसमार्गाश च तथैव करभञ्जकाः उद्देश मात्रेण मया देशाः संकीर्तिताः परभॊ 69 यथा गुणबलं चापि तरिवर्गस्य महाफलम दुह्येद धेनुः कामधुक च भूमिः सम्यग अनुष्ठिता 70 तस्यां गृध्यन्ति राजानः शूरा धर्मार्थकॊविदाः ते तयजन्त्य आहवे पराणान रसा गृद्धास तरस्विनः 71 देव मानुषकायानां कामं भूमिः परायणम अन्यॊन्यस्यावलुम्पन्ति सारमेया इवामिषम 72 राजानॊ भरतश्रेष्ठ भॊक्तुकामा वसुंधराम न चापि तृप्तिः कामानां विद्यते चेह कस्य चित 73 तस्मात परिग्रहे भूमेर यतन्ते कुरुपाण्डवाः साम्ना दानेन भेदेन दण्डेनैव च पार्थिव 74 पिता माता च पुत्राश च खं दयौश च नरपुंगव भूमिर भवति भूतानां सम्यग अच्छिद्र दर्शिनी |
1
[dhṛ] yad idaṃ bhārataṃ varṣaṃ yatredaṃ mūrchitaṃ balam yatrātimātraṃ lubdho 'yaṃ putro duryodhano mama 2 yatra gṛddhāḥ pāṇḍusutā yatra me sajjate manaḥ etan me tattvam ācakṣva kuśalo hy asi saṃjaya 3 [s] na tatra pāṇḍavā gṛddhāḥ śṛṇu rājan vaco mama gṛddho duryodhanas tatra śakuniś cāpi saubalaḥ 4 apare kṣatriyāś cāpi nānājanapadeśvarāḥ ye gṛddhā bhārate varṣe na mṛṣyanti parasparam 5 atra te varṇayiṣyāmi varṣaṃ bhārata bhāratam priyam indrasya devasya manor vaivasvatasya ca 6 pṛthoś ca rājan vainyasya tathekṣvākor mahātmanaḥ yayāter ambarīṣasya māndhātur nahuṣasya ca 7 tathaiva mucukundasya śiber auśīnarasya ca ṛṣabhasya tathailasya nṛgasya nṛpates tathā 8 anyeṣāṃ ca mahārāja kṣatriyāṇāṃ balīyasām sarveṣām eva rājendra priyaṃ bhārata bhāratam 9 tat te varṣaṃ pravakṣyāmi yathā śutam ariṃdama śṛṇu me gadato rājan yan māṃ tvaṃ paripṛcchasi 10 mahendro malayaḥ sahyaḥ śuktimān ṛkṣavān api vindhyaś ca pāriyātraś ca saptaite kulaparvatāḥ 11 teṣāṃ sahasraśo rājan parvatās tu samīpataḥ abhijñātāḥ sāravanto vipulāś citrasānavaḥ 12 anye tato 'parijñātā hrasvā hrasvopajīvinaḥ āryā mlecchāś ca kauravya tair miśrāḥ puruṣā vibho 13 nadīḥ pibanti bahulā gaṅgāṃ sindhuṃ sarasvatīm godāvarīṃ narmadāṃ ca bāhudāṃ ca mahānadīm 14 śatadruṃ candrabhāgāṃ ca yamunāṃ ca mahānadīm dṛṣadvatīṃ vipāśāṃ ca vipāpāṃ sthūlavālukām 15 nadīṃ vetravatīṃ caiva kṛṣṇa veṇāṃ ca nimnagām irāvatīṃ vitastāṃ ca payoṣṇīṃ devikām api 16 veda smṛtiṃ vetasinīṃ tridivām iṣku mālinīm karīṣiṇīṃ citravahāṃ citrasenāṃ ca nimnagām 17 gomatīṃ dhūtapāpāṃ ca vandanāṃ ca mahānadīm kauśikīṃ tridivāṃ kṛtyāṃ vicitrāṃ lohatāriṇīm 18 rathasthāṃ śatakumbhāṃ ca sarayūṃ ca nareśvara carmaṇvatīṃ vetravatīṃ hastisomāṃ diśaṃ tathā 19 śatāvarīṃ payoṣṇīṃ ca parāṃ bhaimarathīṃ tathā kāverīṃ culukāṃ cāpi vāpīṃ śatabalām api 20 nicīrāṃ mahitāṃ cāpi suprayogāṃ narādhipa pavitrāṃ kuṇḍalāṃ sindhuṃ vājinīṃ puramālinīm 21 pūrvābhirāmāṃ vīrāṃ ca bhīmām oghavatīṃ tathā palāśinīṃ pāpaharāṃ mahendraṃ pippalāvatīm 22 pāriṣeṇām asiknīṃ ca saralāṃ bhāramardinīm puruhīṃ pravarāṃ menāṃ moghāṃ ghṛtavatīṃ tathā 23 dhūmatyām atikṛṣṇāṃ ca sūcīṃ chāvīṃ ca kaurava sadānīrām adhṛṣyāṃ ca kuśa dhārāṃ mahānadīm 24 śaśikāntāṃ śivāṃ caiva tathā vīravatīm api vāstuṃ suvāstuṃ gaurīṃ ca kampanāṃ sa hiraṇvatīm 25 hiraṇvatīṃ citravatīṃ citrasenāṃ ca nimnagām rathacitrāṃ jyotirathāṃ viśvāmitrāṃ kapiñjalām 26 upendrāṃ bahulāṃ caiva kucarām ambuvāhinīm vainandīṃ piñjalāṃ veṇṇāṃ tuṅgaveṇāṃ mahānadīm 27 vidiśāṃ kṛṣṇa veṇṇāṃ ca tāmrāṃ ca kapilām api śaluṃ suvāmāṃ vedāśvāṃ harisrāvāṃ mahāpagām 28 śīghrāṃ ca picchilāṃ caiva bhāradvājīṃ ca nimnagām kauśikīṃ nimnagāṃ śoṇāṃ bāhudām atha candanām 29 durgām antaḥśilāṃ caiva brahma medhyāṃ bṛhadvatīm carakṣāṃ mahirohīṃ ca tathā jambunadīm api 30 sunasāṃ tamasāṃ dāsīṃ trasām anyāṃ varāṇasīm loloddhṛta karāṃ caiva pūrṇāśāṃ ca mahānadīm 31 mānavīṃ vṛṣabhāṃ caiva mahānadyo janādhipa sadā nirāmayāṃ vṛtyāṃ mandagāṃ mandavāhinīm 32 brahmāṇīṃ ca mahāgaurīṃ durgām api ca bhārata citropalāṃ citrabarhāṃ majjuṃ makaravāhinīm 33 mandākinīṃ vaitaraṇīṃ kokāṃ caiva mahānadīm śuktimatīm araṇyāṃ ca puṣpaveṇy utpalāvatīm 34 lohityāṃ karatoyāṃ ca tathaiva vṛṣabhaṅginīm kumārīm ṛṣikulyāṃ ca brahma kulyāṃ ca bhārata 35 sarasvatīḥ supuṇyāś ca sarvā gaṅgāś ca māriṣa viśvasya mātaraḥ sarvāḥ sarvāś caiva mahābalāḥ 36 tathā nadyas tv aprakāśāḥ śataśo 'tha sahasraśaḥ ity etāḥ sarito rājan samākhyātā yathā smṛti 37 ata ūrdhvaṃ janapadān nibodha gadato mama tatreme kurupāñcālāḥ śālva mādreya jāṅgalāḥ 38 śūrasenāḥ kaliṅgāś ca bodhā maukās tathaiva ca matsyāḥ sukuṭyaḥ saubalyāḥ kuntalāḥ kāśikośalāḥ 39 cedivatsāḥ karūṣāś ca bhojāḥ sindhupulindakāḥ uttamaujā daśārṇāś ca mekalāś cotkalaiḥ saha 40 pāñcālāḥ kauśikāś caiva ekapṛṣṭhā yugaṃ dharāḥ saudhā madrā bhujiṅgāś ca kāśayo 'parakāśayaḥ 41 jaṭharāḥ kukkuśāś caiva sudāśārṇāś ca bhārata kuntayo 'vantayaś caiva tathaivāparakuntayaḥ 42 govindā mandakāḥ ṣaṇḍā vidarbhānūpavāsikāḥ aśmakāḥ pāṃsurāṣṭrāś ca gopa rāṣṭrāḥ panītakāḥ 43 ādi rāṣṭrāḥ sukuṭṭāś ca balirāṣṭraṃ ca kevalam vānarāsyāḥ pravāhāś ca vakrā vakrabhayāḥ śakāḥ 44 videhakā māgadhāś ca suhmāś ca vijayās tathā aṅgā vaṅgāḥ kaliṅgāś ca yakṛl lomāna eva ca 45 mallāḥ sudeṣṇāḥ prāhūtās tathā māhiṣa kārṣikāḥ vāhīkā vāṭadhānāś ca ābhīrāḥ kālatoyakāḥ 46 aparandhrāś ca śūdrāś ca pahlavāś carma khaṇḍikāḥ aṭavī śabarāś caiva maru bhaumāś ca māriṣa 47 upāvṛścānupāvṛśca surāṣṭrāḥ kekayās tathā kuṭṭāparāntā dvaidheyāḥ kākṣāḥ sāmudra niṣkuṭāḥ 48 andhrāś ca bahavo rājann antargiryās tathaiva ca bahirgiry āṅgamaladā māgadhā mānavarjakāḥ 49 mahyuttarāḥ prāvṛṣeyā bhārgavāś ca janādhipa puṇḍrā bhārgāḥ kirātāś ca sudoṣṇāḥ pramudās tathā 50 śakā niṣādā niṣadhās tathaivānartanairṛtāḥ dugūlāḥ pratimatsyāś ca kuśalāḥ kunaṭās tathā 51 tīragrāhāstara toyā rājikā ramyakā gaṇāḥ tilakāḥ pārasīkāś ca madhumantaḥ prakutsakāḥ 52 kāśmīrāḥ sindhusauvīrā gāndhārā darśakās tathā abhīsārā kulūtāś ca śauvalā bāhlikās tathā 53 darvīkāḥ sakacā darvā vātajāma rathoragāḥ bahu vādyāś ca kauravya sudāmānaḥ sumallikāḥ 54 vadhrāḥ karīṣakāś cāpi kulindopatyakās tathā vanāyavo daśā pārśvā romāṇaḥ kuśa bindavaḥ 55 kacchā gopāla kacchāś ca lāṅgalāḥ paravallakāḥ kirātā barbarāḥ siddhā videhās tāmraliṅgakāḥ 56 oṣṭrāḥ puṇḍrāḥ sa sairandhrāḥ pārvatīyāś ca māriṣa athāpare janapadā dakṣiṇā bharatarṣabha 57 draviḍāḥ keralāḥ prācyā bhūṣikā vanavāsinaḥ unnatyakā māhiṣakā vikalpā mūṣakās tathā 58 karṇikāḥ kuntikāś caiva saubdhidā nalakālakāḥ kaukuṭṭakās tathā colāḥ koṅkaṇā mālavāṇakāḥ 59 samaṅgāḥ kopanāś caiva kukurāṅgada māriṣāḥ dhvajiny utsava saṃketās trivargāḥ sarvasenayaḥ 60 tryaṅgāḥ kekarakāḥ proṣṭhāḥ parasaṃcarakās tathā tathaiva vindhyapulakāḥ pulindāḥ kalkalaiḥ saha 61 mālakā mallakāś caiva tathaivāparavartakāḥ kulindāḥ kulakāś caiva karaṇṭhāḥ kurakās tathā 62 mūṣakā stanabālāś ca satiyaḥ pattipañjakāḥ ādidāyāḥ sirālāś ca stūbakā stanapās tathā 63 hṛṣīvidarbhāḥ kāntīkās taṅgaṇāḥ parataṅgaṇāḥ uttarāś cāpare mlecchā janā bharatasattama 64 yavanāś ca sa kāmbojā dāruṇā mleccha jātayaḥ sakṣaddruhaḥ kuntalāś ca hūṇāḥ pāratakaiḥ saha 65 tathaiva maradhāś cīnās tathaiva daśa mālikāḥ kṣatriyopaniveśāś ca vaiśyaśūdra kulāni ca 66 śūdrābhīrātha daradāḥ kāśmīrāḥ paśubhiḥ saha khaśikāś ca tukhārāś ca pallavā girigahvarāḥ 67 ātreyāḥ sa bharadvājās tathaiva stanayoṣikāḥ aupakāś ca kaliṅgāś ca kirātānāṃ ca jātayaḥ 68 tāmarā haṃsamārgāś ca tathaiva karabhañjakāḥ uddeśa mātreṇa mayā deśāḥ saṃkīrtitāḥ prabho 69 yathā guṇabalaṃ cāpi trivargasya mahāphalam duhyed dhenuḥ kāmadhuk ca bhūmiḥ samyag anuṣṭhitā 70 tasyāṃ gṛdhyanti rājānaḥ śūrā dharmārthakovidāḥ te tyajanty āhave prāṇān rasā gṛddhās tarasvinaḥ 71 deva mānuṣakāyānāṃ kāmaṃ bhūmiḥ parāyaṇam anyonyasyāvalumpanti sārameyā ivāmiṣam 72 rājāno bharataśreṣṭha bhoktukāmā vasuṃdharām na cāpi tṛptiḥ kāmānāṃ vidyate ceha kasya cit 73 tasmāt parigrahe bhūmer yatante kurupāṇḍavāḥ sāmnā dānena bhedena daṇḍenaiva ca pārthiva 74 pitā mātā ca putrāś ca khaṃ dyauś ca narapuṃgava bhūmir bhavati bhūtānāṃ samyag acchidra darśinī |
The Mahabharata in Sanskrit
Book 6
Chapter 11
|
1
[धृ] भारतस्यास्य वर्षस्य तथा हैमवतस्य च परमाणम आयुषः सूत फलं चापि शुभाशुभम 2 अनागतम अतिक्रान्तं वर्तमानं च संजय आचक्ष्व मे विस्तरेण हरिवर्षं तथैव च 3 [स] चत्वारि भारते वर्षे युगानि भरतर्षभ कृतं तरेता दवापरं च पुष्यं च कुरुवर्धन 4 पूर्वं कृतयुगं नाम ततस तरेतायुगं विभॊ संक्षेपाद दवापरस्याथ तथ पुष्यं परवर्तते 5 चत्वारि च सहस्राणि वर्षाणां कुरुसत्तम आयुः संख्या कृतयुगे संख्याता राजसत्तम 6 तत्र तरीणि सहस्राणि तरेतायां मनुजाधिप दविसहस्रं दवापरे तु शते तिष्ठति संप्रति 7 न परमाण सथितिर हय अस्ति पुष्ये ऽसमिन भरतर्षभ गर्भस्थाश च मरियन्ते ऽतर तथा जाता मरियन्ति च 8 महाबला महासत्त्वाः परजा गुणसमन्विताः अजायन्त कृते राजन मुनयः सुतपॊधनाः 9 महॊत्साहा महात्मानॊ धार्मिकाः सत्यवादिनः जाताः कृतयुगे राजन धनिनः परियदर्शनाः 10 आयुष्मन्तॊ महावीरा धनुर्धर वरा युधि जायन्ते कषत्रियाः शूरास तरेतायां चक्रवर्तिनः 11 सर्ववर्णा महाराज जायन्ते दवापरे सति महॊत्साहा महावीर्याः परस्परवधैषिणः 12 तेजसाल्पेन संयुक्ताः करॊधनाः पुरुषा नृप लुब्धाश चानृतकाश चैव पुष्ये जायन्ति भारत 13 ईर्ष्या मानस तथा करॊधॊ मायासूया तथैव च पुष्ये भवन्ति मर्त्यानां रागॊ लॊभश च भारत 14 संक्षेपॊ वर्तते राजन दवापरे ऽसमिन नराधिप गुणॊत्तरं हैमवतं हरिवर्षं ततः परम |
1
[dhṛ] bhāratasyāsya varṣasya tathā haimavatasya ca pramāṇam āyuṣaḥ sūta phalaṃ cāpi śubhāśubham 2 anāgatam atikrāntaṃ vartamānaṃ ca saṃjaya ācakṣva me vistareṇa harivarṣaṃ tathaiva ca 3 [s] catvāri bhārate varṣe yugāni bharatarṣabha kṛtaṃ tretā dvāparaṃ ca puṣyaṃ ca kuruvardhana 4 pūrvaṃ kṛtayugaṃ nāma tatas tretāyugaṃ vibho saṃkṣepād dvāparasyātha tatha puṣyaṃ pravartate 5 catvāri ca sahasrāṇi varṣāṇāṃ kurusattama āyuḥ saṃkhyā kṛtayuge saṃkhyātā rājasattama 6 tatra trīṇi sahasrāṇi tretāyāṃ manujādhipa dvisahasraṃ dvāpare tu śate tiṣṭhati saṃprati 7 na pramāṇa sthitir hy asti puṣye 'smin bharatarṣabha garbhasthāś ca mriyante 'tra tathā jātā mriyanti ca 8 mahābalā mahāsattvāḥ prajā guṇasamanvitāḥ ajāyanta kṛte rājan munayaḥ sutapodhanāḥ 9 mahotsāhā mahātmāno dhārmikāḥ satyavādinaḥ jātāḥ kṛtayuge rājan dhaninaḥ priyadarśanāḥ 10 āyuṣmanto mahāvīrā dhanurdhara varā yudhi jāyante kṣatriyāḥ śūrās tretāyāṃ cakravartinaḥ 11 sarvavarṇā mahārāja jāyante dvāpare sati mahotsāhā mahāvīryāḥ parasparavadhaiṣiṇaḥ 12 tejasālpena saṃyuktāḥ krodhanāḥ puruṣā nṛpa lubdhāś cānṛtakāś caiva puṣye jāyanti bhārata 13 īrṣyā mānas tathā krodho māyāsūyā tathaiva ca puṣye bhavanti martyānāṃ rāgo lobhaś ca bhārata 14 saṃkṣepo vartate rājan dvāpare 'smin narādhipa guṇottaraṃ haimavataṃ harivarṣaṃ tataḥ param |
The Mahabharata in Sanskrit
Book 6
Chapter 12
|
1
[धृ] जम्बू खण्डस तवया परॊक्तॊ यथावद इह संजय विष्कम्भम अस्य परब्रूहि परिमाणं च तत्त्वतः 2 समुद्रस्य परमाणं च सम्यग अच्छिद्र दर्शन शाकद्वीपं च मे बरूहि कुश दवीपं च संजय 3 शाल्मलं चैव तत्त्वेन करौञ्चद्वीपं तथैव च बरूहि गावल्गणे सर्वं राहॊः सॊमार्कयॊस तथा 4 [स] राजन सुबहवॊ दवीपा यैर इदं संततं जगत सप्त तव अहं परवक्ष्यामि चन्द्रादित्यौ गरहांस तथा 5 अष्टादशसहस्राणि यॊजनानां विशां पते षट्शतानि च पूर्णानि विष्कम्भॊ जम्बुपर्वतः 6 लावणस्य समुद्रस्य विष्कम्भॊ दविगुणः समृतः नानाजनपदाकीर्णॊ मणिविद्रुम चित्रितः 7 नैकधातुविचित्रैश च पर्वतैर उपशॊभितः सिद्धचारणसंकीर्णः सागरः परिमण्डलः 8 शाकद्वीपं च वक्ष्यामि यथावद इह पार्थिव शृणु मे तवं यथान्यायं बरुवतः कुरुनन्दन 9 जम्बूद्वीपप्रमाणेन दविगुणः स नराधिप विष्कम्भेण महाराज सागरॊ ऽपि विभागशः कषीरॊदॊ भरतश्रेष्ठ येन संपरिवारितः 10 तत्र पुण्या जनपदा न तत्र मरियते जनः कुत एव हि दुर्भिक्षं कषमा तेजॊ युता हि ते 11 शाकद्वीपस्य संक्षेपॊ यथावद भरतर्षभ उक्त एष महाराज किम अन्यच छरॊतुम इच्छसि 12 [धृ] शाकद्वीपस्य संक्षेपॊ यथावद इह संजय उक्तस तवया महाभाग विस्तरं बरूहि तत्त्वतः 13 [स] तथैव पर्वता राजन सप्तात्र मणिभूषिताः रत्नाकरास तथा नद्यस तेषां नामानि मे शृणु अतीव गुणवत सर्वं तत्र पुण्यं जनाधिप 14 देवर्षिगन्धर्वयुतः परमॊ मेरुर उच्यते परागायतॊ महाराज मलयॊ नाम पर्वतः यतॊ मेघाः परवर्तन्ते परभवन्ति च सर्वशः 15 ततः परेण कौरव्य जलधारॊ महागिरिः यत्र नित्यम उपादत्ते वासवः परमं जलम यतॊ वर्षं परभवति वर्षा काले जनेश्वर 16 उच्चैर गिरी रैवतकॊ यत्र नित्यं परतिष्ठितः रेवती दिवि नक्षत्रं पितामह कृतॊ विधिः 17 उत्तरेण तु राजेन्द्र शयामॊ नाम महागिरिः यतः शयामत्वम आपन्नाः परजा जनपदेश्वर 18 [धृ] सुमहान संशयॊ मे ऽदय परॊक्तं संजय यत तवया परजाः कथं सूतपुत्र संप्राप्ताः शयामताम इह 19 [स] सर्वेष्व एव महाप्राज्ञ दवीपेषु कुरुनन्दन गौरः कृष्णश च वर्णौ दवौ तयॊर वर्णान्तरं नृप 20 शयामॊ यस्मात परवृत्तॊ वै तत ते वक्ष्यामि भारत आस्ते ऽतर भगवान कृष्णस तत कान्त्या शयामतां गतः 21 ततः परं कौरवेन्द्र दुर्ग शैलॊ महॊदयः केसरी केसर युतॊ यतॊ वातः परवायति 22 तेषां यॊजनविष्कम्भॊ दविगुणः परविभागशः वर्षाणि तेषु कौरव्यं संप्रॊक्तानि मनीषिभिः 23 महामेरुर महाकाशॊ जलदः कुमुदॊत्तरः जलधारात परॊ राजन सुकुमार इति समृतः 24 रैवतस्य तु कौमारः शयामस्य तु मणी चकः केसरस्याथ मॊदाकी परेण तु महापुमान 25 परिवार्य तु कौरव्य दैर्घ्यं हरस्वत्वम एव च जम्बूद्वीपेन विख्यातस तस्य मध्ये महाद्रुमः 26 शाकॊ नाम महाराज तस्य दवीपस्य मध्यगः तत्र पुण्या जनपदाः पूज्यते तत्र शंकरः 27 तत्र गच्छन्ति सिद्धाश च चारणा दैवतानि च धार्मिकाश च परजा राजंश चत्वारॊ ऽतीव भारत 28 वर्णाः सवकर्मनिरता न च सतेनॊ ऽतर दृश्यते दीर्घायुषॊ महाराज जरामृत्युविवर्जिताः 29 परजास तत्र विवर्धन्ते वर्षास्व इव समुद्रगाः नद्यः पुण्यजलास तत्र गङ्गा च बहुधा गतिः 30 सुकुमारी कुमारी च सीता कावेरका तथा महानदी च कौरव्य तथा मणिजला नदी इक्षुवर्धनिका चैव तथा भरतसत्तम 31 ततः परवृत्ताः पुण्यॊदा नद्यः कुरुकुलॊद्वह सहस्राणां शतान्य एव यतॊ वर्षति वासवः 32 न तासां नामधेयानि परिमाणं तथैव च शक्यते परिसंख्यातुं पुण्यास ता हि सरिद वराः 33 तत्र पुण्या जनपदाश चत्वारॊ लॊकसंमताः मगाश च मशकाश चैव मानसा मन्दगास तथा 34 मगा बराह्मणभूयिष्ठाः सवकर्मनिरता नृप मशकेषु तु राजन्या धार्मिकाः सर्वकामदाः 35 मानसेषु महाराज वैश्याः कर्मॊपजीविनः सर्वकामसमायुक्ताः शूरा धर्मार्थनिश्चिताः शूद्रास तु मन्दगे नित्यं पुरुषा धर्मशीलिनः 36 न तत्र राजा राजेन्द्र न दण्डॊ न च दण्डिकाः सवधर्मेणैव धर्मं च ते रक्षन्ति परस्परम 37 एतावद एव शक्यं तु तस्मिन दवीपे परभाषितुम एतावद एव शरॊतव्यं शाकद्वीपे महौजसि |
1
[dhṛ] jambū khaṇḍas tvayā prokto yathāvad iha saṃjaya viṣkambham asya prabrūhi parimāṇaṃ ca tattvataḥ 2 samudrasya pramāṇaṃ ca samyag acchidra darśana śākadvīpaṃ ca me brūhi kuśa dvīpaṃ ca saṃjaya 3 śālmalaṃ caiva tattvena krauñcadvīpaṃ tathaiva ca brūhi gāvalgaṇe sarvaṃ rāhoḥ somārkayos tathā 4 [s] rājan subahavo dvīpā yair idaṃ saṃtataṃ jagat sapta tv ahaṃ pravakṣyāmi candrādityau grahāṃs tathā 5 aṣṭādaśasahasrāṇi yojanānāṃ viśāṃ pate ṣaṭśatāni ca pūrṇāni viṣkambho jambuparvataḥ 6 lāvaṇasya samudrasya viṣkambho dviguṇaḥ smṛtaḥ nānājanapadākīrṇo maṇividruma citritaḥ 7 naikadhātuvicitraiś ca parvatair upaśobhitaḥ siddhacāraṇasaṃkīrṇaḥ sāgaraḥ parimaṇḍalaḥ 8 śākadvīpaṃ ca vakṣyāmi yathāvad iha pārthiva śṛṇu me tvaṃ yathānyāyaṃ bruvataḥ kurunandana 9 jambūdvīpapramāṇena dviguṇaḥ sa narādhipa viṣkambheṇa mahārāja sāgaro 'pi vibhāgaśaḥ kṣīrodo bharataśreṣṭha yena saṃparivāritaḥ 10 tatra puṇyā janapadā na tatra mriyate janaḥ kuta eva hi durbhikṣaṃ kṣamā tejo yutā hi te 11 śākadvīpasya saṃkṣepo yathāvad bharatarṣabha ukta eṣa mahārāja kim anyac chrotum icchasi 12 [dhṛ] śākadvīpasya saṃkṣepo yathāvad iha saṃjaya uktas tvayā mahābhāga vistaraṃ brūhi tattvataḥ 13 [s] tathaiva parvatā rājan saptātra maṇibhūṣitāḥ ratnākarās tathā nadyas teṣāṃ nāmāni me śṛṇu atīva guṇavat sarvaṃ tatra puṇyaṃ janādhipa 14 devarṣigandharvayutaḥ paramo merur ucyate prāgāyato mahārāja malayo nāma parvataḥ yato meghāḥ pravartante prabhavanti ca sarvaśaḥ 15 tataḥ pareṇa kauravya jaladhāro mahāgiriḥ yatra nityam upādatte vāsavaḥ paramaṃ jalam yato varṣaṃ prabhavati varṣā kāle janeśvara 16 uccair girī raivatako yatra nityaṃ pratiṣṭhitaḥ revatī divi nakṣatraṃ pitāmaha kṛto vidhiḥ 17 uttareṇa tu rājendra śyāmo nāma mahāgiriḥ yataḥ śyāmatvam āpannāḥ prajā janapadeśvara 18 [dhṛ] sumahān saṃśayo me 'dya proktaṃ saṃjaya yat tvayā prajāḥ kathaṃ sūtaputra saṃprāptāḥ śyāmatām iha 19 [s] sarveṣv eva mahāprājña dvīpeṣu kurunandana gauraḥ kṛṣṇaś ca varṇau dvau tayor varṇāntaraṃ nṛpa 20 śyāmo yasmāt pravṛtto vai tat te vakṣyāmi bhārata āste 'tra bhagavān kṛṣṇas tat kāntyā śyāmatāṃ gataḥ 21 tataḥ paraṃ kauravendra durga śailo mahodayaḥ kesarī kesara yuto yato vātaḥ pravāyati 22 teṣāṃ yojanaviṣkambho dviguṇaḥ pravibhāgaśaḥ varṣāṇi teṣu kauravyaṃ saṃproktāni manīṣibhiḥ 23 mahāmerur mahākāśo jaladaḥ kumudottaraḥ jaladhārāt paro rājan sukumāra iti smṛtaḥ 24 raivatasya tu kaumāraḥ śyāmasya tu maṇī cakaḥ kesarasyātha modākī pareṇa tu mahāpumān 25 parivārya tu kauravya dairghyaṃ hrasvatvam eva ca jambūdvīpena vikhyātas tasya madhye mahādrumaḥ 26 śāko nāma mahārāja tasya dvīpasya madhyagaḥ tatra puṇyā janapadāḥ pūjyate tatra śaṃkaraḥ 27 tatra gacchanti siddhāś ca cāraṇā daivatāni ca dhārmikāś ca prajā rājaṃś catvāro 'tīva bhārata 28 varṇāḥ svakarmaniratā na ca steno 'tra dṛśyate dīrghāyuṣo mahārāja jarāmṛtyuvivarjitāḥ 29 prajās tatra vivardhante varṣāsv iva samudragāḥ nadyaḥ puṇyajalās tatra gaṅgā ca bahudhā gatiḥ 30 sukumārī kumārī ca sītā kāverakā tathā mahānadī ca kauravya tathā maṇijalā nadī ikṣuvardhanikā caiva tathā bharatasattama 31 tataḥ pravṛttāḥ puṇyodā nadyaḥ kurukulodvaha sahasrāṇāṃ śatāny eva yato varṣati vāsavaḥ 32 na tāsāṃ nāmadheyāni parimāṇaṃ tathaiva ca śakyate parisaṃkhyātuṃ puṇyās tā hi sarid varāḥ 33 tatra puṇyā janapadāś catvāro lokasaṃmatāḥ magāś ca maśakāś caiva mānasā mandagās tathā 34 magā brāhmaṇabhūyiṣṭhāḥ svakarmaniratā nṛpa maśakeṣu tu rājanyā dhārmikāḥ sarvakāmadāḥ 35 mānaseṣu mahārāja vaiśyāḥ karmopajīvinaḥ sarvakāmasamāyuktāḥ śūrā dharmārthaniścitāḥ śūdrās tu mandage nityaṃ puruṣā dharmaśīlinaḥ 36 na tatra rājā rājendra na daṇḍo na ca daṇḍikāḥ svadharmeṇaiva dharmaṃ ca te rakṣanti parasparam 37 etāvad eva śakyaṃ tu tasmin dvīpe prabhāṣitum etāvad eva śrotavyaṃ śākadvīpe mahaujasi |
The Mahabharata in Sanskrit
Book 6
Chapter 13
|
1
[स] उत्तरेषु तु कौरव्य दवीपेषु शरूयते कथा यथा शरुतं महाराज बरुवतस तन निबॊध मे 2 घृततॊयः समुद्रॊ ऽतर दधि मण्डॊदकॊ ऽपरः सुरॊदः सागरश चैव तथान्यॊ घर्मसागरः 3 परस्परेण दविगुणाः सर्वे दवीपा नराधिप सर्वतश च महाराज पर्वतैः परिवारिताः 4 गौरस तु मध्यमे दवीपे गिरिर मानः शिलॊ महान पर्वतः पश्चिमः कृष्णॊ नारायण निभॊ नृप 5 तत्र रत्नानि दिव्यानि सवयं रक्षति केशवः परजापतिम उपासीनः परजानां विदधे सुखम 6 कुश दवीपे कुश सतम्बॊ मध्ये जनपदस्य ह संपूज्यते शल्मलिश च दवीपे शाल्मलिके नृप 7 करौञ्चद्वीपे महाक्रौञ्चॊ गिरी रत्नचयाकरः संपूज्यते महाराज चातुर्वर्ण्येन नित्यदा 8 गॊमन्दः पर्वतॊ राजन सुमहान सर्वधातुमान यत्र नित्यं निवसति शरीमान कमललॊचनः मॊक्षिभिः संस्तुतॊ नित्यं परभुर नारायणॊ हरिः 9 कुश दवीपे तु राजेन्द्र पर्वतॊ विद्रुमैश चितः सुधामा नाम दुर्धर्षॊ दवितीयॊ हेमपर्वतः 10 दयुतिमान नाम कौरव्य तृतीयः कुमुदॊ गिरिः चतुर्थः पुष्पवान नाम पञ्चमस तु कुशेशयः 11 षष्ठॊ हरि गिरिर नाम षड एते पर्वतॊत्तमाः तेषाम अन्तरविष्कम्भॊ दविगुणः परविभागशः 12 औद्भिदं परथमं वर्षं दवितीयं वेणुमण्डलम तृतीयं वै रथाकारं चतुर्थं पालनं समृतम 13 धृतिमत पञ्चमं वर्षं षष्ठं वर्षं परभा करम सप्तमं कापिलं वर्षं सप्तैते वर्षपुञ्जकाः 14 एतेषु देवगन्धर्वाः परजाश च जगतीश्वर विहरन्ति रमन्ते च न तेषु मरियते जनः 15 न तेषु दस्यवः सन्ति मलेच्छ जात्यॊ ऽपि वा नृप गौर परायॊ जनः सर्वः सुकुमारश च पार्थिव 16 अवशिष्टेषु वर्षेषु वक्ष्यामि मनुजेश्वर यथा शरुतं महाराज तद अव्यग्रमनाः शृणु 17 करौञ्चद्वीपे महाराज करौञ्चॊ नाम महागिरिः करौञ्चात परॊ वामनकॊ वामनाद अन्धकारकः 18 अन्धकारात परॊ जानन मैनाकः पर्वतॊत्तमः मैनाकात परतॊ राजन गॊविन्दॊ गिरिर उत्तमः 19 गॊविन्दात तु परॊ राजन निबिडॊ नाम पर्वतः परस तु दविगुणस तेषां विष्कम्भॊ वंशवर्धन 20 देशांस तत्र परवक्ष्यामि तन मे निगदतः शृणु करौञ्चस्य कुशलॊ देशॊ वामनस्य मनॊऽनुगः 21 मनॊऽनुगात परश चॊष्णॊ देशः कुरुकुलॊद्वह उष्णात परः परावरकः परावराद अन्धकारकः 22 अन्धकारक देशात तु मुनिदेशः परः समृतः मुनिदेशात परश चैव परॊच्यते दुन्दुभिस्वनः 23 सिद्धचारणसंकीर्णॊ गौर परायॊ जनाधिप एते देशा महाराज देवगन्धर्वसेविताः 24 पुष्करे पुष्करॊ नाम पर्वतॊ मणिरत्नमान तत्र नित्यं निवसति सवयं देवः परजापतिः 25 तं पर्युपासते नित्यं देवाः सर्वे महर्षिभिः वाग्भिर मनॊ ऽनुकूलाभिः पूजयन्तॊ जनाधिप 26 जम्बूद्वीपात परवर्तन्ते रत्नानि विविधान्य उत दवीपेषु तेषु सर्वेषु परजानां कुरुनन्दन 27 विप्राणां बरह्मचर्येण सत्येन च दमेन च आरॊग्यायुः परमाणाभ्यां दविगुणं दविगुणं ततः 28 एकॊ जनपदॊ राजन दवीपेष्व एतेषु भारत उक्ता जनपदा येषु धर्मश चैकः परदृश्यते 29 ईश्वरॊ दण्डम उद्यम्य सवयम एव परजापतिः दवीपान एतान महाराज रक्षंस तिष्ठति नित्यदा 30 स राजा स शिवॊ राजन स पिता स पितामहः गॊपायति नरश्रेष्ठ परजाः स जड पण्डिताः 31 भॊजनं चात्र कौरव्य परजाः सवयम उपस्थितम सिद्धम एव महाराज भुञ्जते तत्र नित्यदा 32 ततः परं समा नाम दृश्यते लॊकसंस्थितिः चतुरश्रा महाराज तरयस तरिंशत तु मण्डलम 33 तत्र तिष्ठन्ति कौरव्य चत्वारॊ लॊकसंमिताः दिग गजा भरतश्रेष्ठ वामनैरावतादयः सुप्रतीकस तथा राजन परभिन्नकरटा मुखः 34 तस्याहं परिमाणं तु न संख्यातुम इहॊत्सहे असंख्यातः स नित्यं हि तिर्यग ऊर्ध्वम अधस तथा 35 तत्र वै वायवॊ वान्ति दिग्भ्यः सर्वाभ्य एव च असंबाधा महाराज तान निगृह्णन्ति ते गजाः 36 पुष्करैः पद्मसंकाशैर वर्ष्मवद्भिर महाप्रभैः ते शनैः पुनर एवाशु वायून मुञ्चन्ति नित्यशः 37 शवसद्भिर मुच्यमानास तु दिग गजैर इह मारुताः आगच्छन्ति महाराज ततस तिष्ठन्ति वै परजाः 38 [धृ] परॊ वै विस्तरॊ ऽतयर्थं तवया संजय कीर्तितः दर्शितं दवीपसंस्थानम उत्तरं बरूहि संजय 39 [स] उक्ता दवीपा महाराज गरहान मे शृणु तत्त्वतः सवर्भानुः कौरवश्रेष्ठ यावद एष परभावतः 40 परिमण्डलॊ महाराज सवर्भानुः शरूयते गरहः यॊजनानां सहस्राणि विष्कम्भॊ दवादशास्य वै 41 परिणाहेन षट तरिंशद विपुलत्वेन चानघ षष्टिम आहुः शतान्य अस्य बुधाः पौराणिकास तथा 42 चन्द्रमास तु सहस्राणि राजन्न एकादश समृतः विष्कम्भेण कुरुश्रेष्ठ तरयस तरिंशत तु मण्डलम एकॊन षष्टिवैपुल्याच छीत रश्मेर महात्मनः 43 सूर्यस तव अष्टौ सहस्राणि दवे चान्ये कुरुनन्दन विष्कम्भेण ततॊ राजन मण्डलं तरिंशतं समम 44 अष्ट पञ्चाशतं राजन विपुलत्वेन चानघ शरूयते परमॊदारः पतंगॊ ऽसौ विभावसुः एतत परमाणम अर्कस्य निर्दिष्टम इह भारत 45 स राहुश छादयत्य एतौ यथाकालं महत्तया चन्द्रादित्यौ महाराज संक्षेपॊ ऽयम उदाहृतः 46 इत्य एतत ते महाराज पृच्छतः शास्त्रचक्षुषा सर्वम उक्तं यथातत्त्वं तस्माच छमम अवाप्नुहि 47 यथादृष्टं मया परॊक्तं स निर्याणम इदं जगत तस्माद आश्वस कौरव्य पुत्रं दुर्यॊधनं परति 48 शरुत्वेदं भरतश्रेष्ठ भूमिपर्व मनॊऽनुगम शरीमान भवति राजन्यः सिद्धार्थः साधु संमतः आयुर बलं च वीर्यं च तस्य तेजश च वर्धते 49 यः शृणॊति महीपाल पर्वणीदं यतव्रतः परीयन्ते पितरस तस्य तथैव च पितामहाः 50 इदं तु भारतं वर्षं यत्र वर्तामहे वयम पूर्वं परवर्तते पुण्यं तत सर्वं शरुतवान असि |
1
[s] uttareṣu tu kauravya dvīpeṣu śrūyate kathā yathā śrutaṃ mahārāja bruvatas tan nibodha me 2 ghṛtatoyaḥ samudro 'tra dadhi maṇḍodako 'paraḥ surodaḥ sāgaraś caiva tathānyo gharmasāgaraḥ 3 paraspareṇa dviguṇāḥ sarve dvīpā narādhipa sarvataś ca mahārāja parvataiḥ parivāritāḥ 4 gauras tu madhyame dvīpe girir mānaḥ śilo mahān parvataḥ paścimaḥ kṛṣṇo nārāyaṇa nibho nṛpa 5 tatra ratnāni divyāni svayaṃ rakṣati keśavaḥ prajāpatim upāsīnaḥ prajānāṃ vidadhe sukham 6 kuśa dvīpe kuśa stambo madhye janapadasya ha saṃpūjyate śalmaliś ca dvīpe śālmalike nṛpa 7 krauñcadvīpe mahākrauñco girī ratnacayākaraḥ saṃpūjyate mahārāja cāturvarṇyena nityadā 8 gomandaḥ parvato rājan sumahān sarvadhātumān yatra nityaṃ nivasati śrīmān kamalalocanaḥ mokṣibhiḥ saṃstuto nityaṃ prabhur nārāyaṇo hariḥ 9 kuśa dvīpe tu rājendra parvato vidrumaiś citaḥ sudhāmā nāma durdharṣo dvitīyo hemaparvataḥ 10 dyutimān nāma kauravya tṛtīyaḥ kumudo giriḥ caturthaḥ puṣpavān nāma pañcamas tu kuśeśayaḥ 11 ṣaṣṭho hari girir nāma ṣaḍ ete parvatottamāḥ teṣām antaraviṣkambho dviguṇaḥ pravibhāgaśaḥ 12 audbhidaṃ prathamaṃ varṣaṃ dvitīyaṃ veṇumaṇḍalam tṛtīyaṃ vai rathākāraṃ caturthaṃ pālanaṃ smṛtam 13 dhṛtimat pañcamaṃ varṣaṃ ṣaṣṭhaṃ varṣaṃ prabhā karam saptamaṃ kāpilaṃ varṣaṃ saptaite varṣapuñjakāḥ 14 eteṣu devagandharvāḥ prajāś ca jagatīśvara viharanti ramante ca na teṣu mriyate janaḥ 15 na teṣu dasyavaḥ santi mleccha jātyo 'pi vā nṛpa gaura prāyo janaḥ sarvaḥ sukumāraś ca pārthiva 16 avaśiṣṭeṣu varṣeṣu vakṣyāmi manujeśvara yathā śrutaṃ mahārāja tad avyagramanāḥ śṛṇu 17 krauñcadvīpe mahārāja krauñco nāma mahāgiriḥ krauñcāt paro vāmanako vāmanād andhakārakaḥ 18 andhakārāt paro jānan mainākaḥ parvatottamaḥ mainākāt parato rājan govindo girir uttamaḥ 19 govindāt tu paro rājan nibiḍo nāma parvataḥ paras tu dviguṇas teṣāṃ viṣkambho vaṃśavardhana 20 deśāṃs tatra pravakṣyāmi tan me nigadataḥ śṛṇu krauñcasya kuśalo deśo vāmanasya mano'nugaḥ 21 mano'nugāt paraś coṣṇo deśaḥ kurukulodvaha uṣṇāt paraḥ prāvarakaḥ prāvarād andhakārakaḥ 22 andhakāraka deśāt tu munideśaḥ paraḥ smṛtaḥ munideśāt paraś caiva procyate dundubhisvanaḥ 23 siddhacāraṇasaṃkīrṇo gaura prāyo janādhipa ete deśā mahārāja devagandharvasevitāḥ 24 puṣkare puṣkaro nāma parvato maṇiratnamān tatra nityaṃ nivasati svayaṃ devaḥ prajāpatiḥ 25 taṃ paryupāsate nityaṃ devāḥ sarve maharṣibhiḥ vāgbhir mano 'nukūlābhiḥ pūjayanto janādhipa 26 jambūdvīpāt pravartante ratnāni vividhāny uta dvīpeṣu teṣu sarveṣu prajānāṃ kurunandana 27 viprāṇāṃ brahmacaryeṇa satyena ca damena ca ārogyāyuḥ pramāṇābhyāṃ dviguṇaṃ dviguṇaṃ tataḥ 28 eko janapado rājan dvīpeṣv eteṣu bhārata uktā janapadā yeṣu dharmaś caikaḥ pradṛśyate 29 īśvaro daṇḍam udyamya svayam eva prajāpatiḥ dvīpān etān mahārāja rakṣaṃs tiṣṭhati nityadā 30 sa rājā sa śivo rājan sa pitā sa pitāmahaḥ gopāyati naraśreṣṭha prajāḥ sa jaḍa paṇḍitāḥ 31 bhojanaṃ cātra kauravya prajāḥ svayam upasthitam siddham eva mahārāja bhuñjate tatra nityadā 32 tataḥ paraṃ samā nāma dṛśyate lokasaṃsthitiḥ caturaśrā mahārāja trayas triṃśat tu maṇḍalam 33 tatra tiṣṭhanti kauravya catvāro lokasaṃmitāḥ dig gajā bharataśreṣṭha vāmanairāvatādayaḥ supratīkas tathā rājan prabhinnakaraṭā mukhaḥ 34 tasyāhaṃ parimāṇaṃ tu na saṃkhyātum ihotsahe asaṃkhyātaḥ sa nityaṃ hi tiryag ūrdhvam adhas tathā 35 tatra vai vāyavo vānti digbhyaḥ sarvābhya eva ca asaṃbādhā mahārāja tān nigṛhṇanti te gajāḥ 36 puṣkaraiḥ padmasaṃkāśair varṣmavadbhir mahāprabhaiḥ te śanaiḥ punar evāśu vāyūn muñcanti nityaśaḥ 37 śvasadbhir mucyamānās tu dig gajair iha mārutāḥ āgacchanti mahārāja tatas tiṣṭhanti vai prajāḥ 38 [dhṛ] paro vai vistaro 'tyarthaṃ tvayā saṃjaya kīrtitaḥ darśitaṃ dvīpasaṃsthānam uttaraṃ brūhi saṃjaya 39 [s] uktā dvīpā mahārāja grahān me śṛṇu tattvataḥ svarbhānuḥ kauravaśreṣṭha yāvad eṣa prabhāvataḥ 40 parimaṇḍalo mahārāja svarbhānuḥ śrūyate grahaḥ yojanānāṃ sahasrāṇi viṣkambho dvādaśāsya vai 41 pariṇāhena ṣaṭ triṃśad vipulatvena cānagha ṣaṣṭim āhuḥ śatāny asya budhāḥ paurāṇikās tathā 42 candramās tu sahasrāṇi rājann ekādaśa smṛtaḥ viṣkambheṇa kuruśreṣṭha trayas triṃśat tu maṇḍalam ekona ṣaṣṭivaipulyāc chīta raśmer mahātmanaḥ 43 sūryas tv aṣṭau sahasrāṇi dve cānye kurunandana viṣkambheṇa tato rājan maṇḍalaṃ triṃśataṃ samam 44 aṣṭa pañcāśataṃ rājan vipulatvena cānagha śrūyate paramodāraḥ pataṃgo 'sau vibhāvasuḥ etat pramāṇam arkasya nirdiṣṭam iha bhārata 45 sa rāhuś chādayaty etau yathākālaṃ mahattayā candrādityau mahārāja saṃkṣepo 'yam udāhṛtaḥ 46 ity etat te mahārāja pṛcchataḥ śāstracakṣuṣā sarvam uktaṃ yathātattvaṃ tasmāc chamam avāpnuhi 47 yathādṛṣṭaṃ mayā proktaṃ sa niryāṇam idaṃ jagat tasmād āśvasa kauravya putraṃ duryodhanaṃ prati 48 śrutvedaṃ bharataśreṣṭha bhūmiparva mano'nugam śrīmān bhavati rājanyaḥ siddhārthaḥ sādhu saṃmataḥ āyur balaṃ ca vīryaṃ ca tasya tejaś ca vardhate 49 yaḥ śṛṇoti mahīpāla parvaṇīdaṃ yatavrataḥ prīyante pitaras tasya tathaiva ca pitāmahāḥ 50 idaṃ tu bhārataṃ varṣaṃ yatra vartāmahe vayam pūrvaṃ pravartate puṇyaṃ tat sarvaṃ śrutavān asi |
The Mahabharata in Sanskrit
Book 6
Chapter 14
|
1
[व] अथ गावल्गणिर धीमान समराद एत्य संजयः परत्यक्षदर्शी सर्वस्य भूतभव्य भविष्यवित 2 धयायते धृतराष्ट्राय सहसॊपेत्य दुःखितः आचष्ट निहतं भीष्मं भरतानाम अमध्यमम 3 संजयॊ ऽहं महाराज नमस ते भरतर्षभ हतॊ भीष्मः शांतनवॊ भरतानां पितामहः 4 ककुदं सर्वयॊधानां धाम सर्वधनुष्मताम शरतल्पगतः सॊ ऽदय शेते कुरुपितामहः 5 यस्य वीर्यं समाश्रित्य दयूतं पुत्रस तवाकरॊत स शेते निहतॊ राजन संख्ये भीष्मः शिखण्डिना 6 यः सर्वान पृथिवीपालान समवेतान महामृधे जिगायैक रथेनैव काशिपुर्यां महारथः 7 जामदग्न्यं रणे रामम आयॊध्य वसु संभवः न हतॊ जामदग्न्येन स हतॊ ऽदय शिखण्डिना 8 महेन्द्रसदृशः शौर्ये सथैर्ये च हिमवान इव समुद्र इव गाम्भीर्ये सहिष्णुत्वे धरा समः 9 शरदंष्ट्रॊ धनुर वक्त्रः खड्गजिह्वॊ दुरासदः नरसिंहः पिता ते ऽदय पाञ्चाल्येन निपातितः 10 पाण्डवानां महत सैन्यं यं दृष्ट्वॊद्यन्तम आहवे परवेपत भयॊद्विग्नं सिंहं दृष्ट्वेव गॊगणः 11 परिरक्ष्य स सेनां ते दशरात्रम अनीकहा जगामास्तम इवादित्यः कृत्वा कर्म सुदुष्करम 12 यः स शक्र इवाक्षॊभ्यॊ वर्षन बाणान सहस्रशः जघान युधि यॊधानाम अर्बुदं दशभिर दिनैः 13 स शेते निष्टनन भूमौ वातरुग्ण इव दरुमः तव दुर्मन्त्रिते राजन यथा नार्हः स भारत |
1
[v] atha gāvalgaṇir dhīmān samarād etya saṃjayaḥ pratyakṣadarśī sarvasya bhūtabhavya bhaviṣyavit 2 dhyāyate dhṛtarāṣṭrāya sahasopetya duḥkhitaḥ ācaṣṭa nihataṃ bhīṣmaṃ bharatānām amadhyamam 3 saṃjayo 'haṃ mahārāja namas te bharatarṣabha hato bhīṣmaḥ śāṃtanavo bharatānāṃ pitāmahaḥ 4 kakudaṃ sarvayodhānāṃ dhāma sarvadhanuṣmatām śaratalpagataḥ so 'dya śete kurupitāmahaḥ 5 yasya vīryaṃ samāśritya dyūtaṃ putras tavākarot sa śete nihato rājan saṃkhye bhīṣmaḥ śikhaṇḍinā 6 yaḥ sarvān pṛthivīpālān samavetān mahāmṛdhe jigāyaika rathenaiva kāśipuryāṃ mahārathaḥ 7 jāmadagnyaṃ raṇe rāmam āyodhya vasu saṃbhavaḥ na hato jāmadagnyena sa hato 'dya śikhaṇḍinā 8 mahendrasadṛśaḥ śaurye sthairye ca himavān iva samudra iva gāmbhīrye sahiṣṇutve dharā samaḥ 9 śaradaṃṣṭro dhanur vaktraḥ khaḍgajihvo durāsadaḥ narasiṃhaḥ pitā te 'dya pāñcālyena nipātitaḥ 10 pāṇḍavānāṃ mahat sainyaṃ yaṃ dṛṣṭvodyantam āhave pravepata bhayodvignaṃ siṃhaṃ dṛṣṭveva gogaṇaḥ 11 parirakṣya sa senāṃ te daśarātram anīkahā jagāmāstam ivādityaḥ kṛtvā karma suduṣkaram 12 yaḥ sa śakra ivākṣobhyo varṣan bāṇān sahasraśaḥ jaghāna yudhi yodhānām arbudaṃ daśabhir dinaiḥ 13 sa śete niṣṭanan bhūmau vātarugṇa iva drumaḥ tava durmantrite rājan yathā nārhaḥ sa bhārata |
The Mahabharata in Sanskrit
Book 6
Chapter 15
|
1
[धृ] कथं कुरूणाम ऋषभॊ हतॊ भीष्मः शिखण्डिना कथं रथात स नयपतत पिता मे वासवॊपमः 2 कथम आसंश च मे पुत्रा हीना भीष्मेण संजय बलिना देवकल्पेन गुर्वर्थे बरह्मचारिणा 3 तस्मिन हते महासत्त्वे महेष्वासे महाबले महारथे नरव्याघ्र किम उ आसीन मनस तदा 4 आर्तिः परा माविशति यतः शंससि मे हतम कुरूणाम ऋषभं वीरम अकम्प्यं पुरुषर्षभम 5 के तं यान्तम अनुप्रेयुः के चास्यासन पुरॊगमाः के ऽतिष्ठन के नयवर्तन्त के ऽभयवर्तन्त संजय 6 के शूरा रथशार्दूलम अच्युतं कषत्रियर्षभम रथानीकं गाहमानं सहसा पृष्ठतॊ ऽनवयुः 7 यस तमॊ ऽरक इवापॊहन परसैन्यम अमित्रहा सहस्ररश्मि परतिमः परेषां भयम आदधत अकरॊद दुष्करं कर्म रणे कौरव शासनात 8 गरसमानम अनीकानि य एनं पर्यवारयन कृतिनं तं दुराधर्षं सम्यग यास्यन्तम अन्तिके कथं शांतनवं युद्धे पाण्डवाः परत्यवारयन 9 निकृन्तन्तम अनीकानि शरदंष्ट्रं तरस्विनम चापव्यात्ताननं घॊरम असि जिह्वं दुरासदम 10 अत्यन्यान पुरुषव्याघ्रान हरीमन्तम अपराजितम पातयाम आस कौन्तेयः कथं तम अजितं युधि 11 उग्रधन्वानम उग्रेषुं वर्तमानं रथॊत्तमे परेषाम उत्तमाङ्गानि परचिन्वन्तं शितेषुभिः 12 पाण्डवानां महत सैन्यं यं दृष्ट्वॊद्यन्तम आहवे कालाग्निम इव दुर्धर्षं समवेष्टत नित्यशः 13 परिकृष्य स सेनां मे दशरात्रम अनीकहा जगामास्तम इवादित्यः कृत्वा कर्म सुदुष्करम 14 यः स शक्र इवाक्षय्यं वर्षं शरमयं सृजन जघान युधि यॊधानाम अर्बुदं दशभिर दिनैः 15 स शेते निष्टनन भूमौ वातरुग्ण इव दरुमः मम दुर्मन्त्रितेनासौ यथा नार्ह स भारत 16 कथं शांतनवं दृष्ट्वा पाण्डवानाम अनीकिनी परहर्तुम अशकत तत्र भीष्मं भीमपराक्रमम 17 कथं भीष्मेण संग्रामम अकुर्वन पाण्डुनन्दनाः कथं च नाजयद भीष्मॊ दरॊणे जीवति संजय 18 कृपे संनिहिते तत्र भरद्वाजात्मजे तथा भीष्मः परहरतां शरेष्ठः कथं स निधनं गतः 19 कथं चातिरथस तेन पाञ्चाल्येन शिखण्डिना भीष्मॊ विनिहतॊ युद्धे देवैर अपि दुरुत्सहः 20 यः सपर्धते रणे नित्यं जामदग्न्यं महाबलम अजितं जामदग्न्येन शक्रतुल्यपराक्रमम 21 तं हतं समरे भीष्मं महारथबलॊचितम संजयाचक्ष्व मे वीरं येन शर्म न विद्महे 22 मामकाः के महेष्वासा नाजहुः संजयाच्युतम दुर्यॊधनं समादिष्टाः के वीराः पर्यवारयन 23 यच छिखण्डि मुखाः सर्वे पाण्डवा भीष्मम अभ्ययुः कच चिन न कुरवॊ भीतास तत्यजुः संजयाच्युतम 24 मौर्वी घॊषस्तनयित्नुः पृषत्क पृषतॊ महान धनुर हवाद महाशब्दॊ महामेघ इवॊन्नतः 25 यद अभ्यवर्षत कौन्तेयान सपाञ्चालान स सृञ्जयान निघ्नन पररथान वीरॊ दानवान इव वज्रभृत 26 इष्वस्त्रसागरं घॊरं बाणग्राहं दुरासदम कार्मुकॊर्मिणम अक्षय्यम अद्वीपं समरे ऽपलवम गदासिमकरावर्तं हयग्राहं गजाकुलम 27 हयान गजान पदातांश च रथांश च तरसा बहून निमज्जयन्तं समरे परवीरापहारिणम 28 विदह्यमानं कॊपेन तेजसा च परंतपम वेलेव मकरावासं के वीराः पर्यवारयन 29 भीष्मॊ यद अकरॊत कर्म समरे संजयारिहा दुर्यॊधनहितार्थाय के तदास्य पुरॊ ऽभवन 30 के ऽरक्षन दक्षिणं चक्रं भीष्मस्यामिततेजसः पृष्ठतः के परान वीरा उपासेधन यतव्रताः 31 के पुरस्ताद अवर्तन्त रक्षन्तॊ भीष्मम अन्तिके के ऽरक्षन्न उत्तरं चक्रं वीरा वीरस्य युध्यतः 32 वामे चक्रे वर्तमानाः के ऽघनन संजय सृञ्जयान समेताग्रम अनीकेषु के ऽभयरक्षन दुरासदम 33 पार्श्वतः के ऽभयवर्तन्त गच्छन्तॊ दुर्गमां गतिम समूहे के परान वीरान परत्ययुध्यन्त संजय 34 रक्ष्यमाणः कथं वीरैर गॊप्यमानाश च तेन ते दुर्जयानाम अनीकानि नाजयंस तरसा युधि 35 सर्वलॊकेश्वरस्येव परमेष्ठि परजापतेः कथं परहर्तुम अपि ते शेकुः संजय पाण्डवाः 36 यस्मिन दवीपे समाश्रित्य युध्यन्ति कुरवः परैः तं निमग्नं नरव्याघ्रं भीष्मं शंससि संजय 37 यस्य वीर्ये समाश्वस्य मम पुत्रॊ बृहद्बलः न पाण्डवान अगणयत कथं स निहतः परैः 38 यः पुरा विबुधैः सेन्द्रैः साहाय्ये युद्धदुर्मदः काङ्क्षितॊ दानवान घनद्भिः पिता मम महाव्रतः 39 यस्मिञ जाते महावीर्ये शंतनुर लॊकशंकरे शॊकं दुःखं च दैन्यं च पराजहात पुत्र लक्ष्मणि 40 परज्ञा परायणं तज्ज्ञं सद धर्मनिरतं शुचिम वेदवेदाङ्गतत्त्वज्ञं कथं शंससि मे हतम 41 सर्वास्त्रविनयॊपेतं दान्तं शान्तं मनस्विनम हतं शांतनवं शरुत्वा मन्ये शेषं बलं हतम 42 धर्माद अधर्मॊ बलवान संप्राप्त इति मे मतिः यत्र वृद्धं गुरुं हत्वा राज्यम इच्छन्ति पाण्डवाः 43 जामदग्न्यः पुरा रामः सर्वास्त्रविद अनुत्तमः अम्बार्थम उद्यतः संख्ये भीष्मेण युधि निर्जितः 44 तम इन्द्रसमकर्माणं ककुदं सर्वधन्विनाम हतं शंससि भीष्मं मे किं नु दुःखम अतः परम 45 असकृत कषत्रिय वराताः संख्ये येन विनिर्जिताः जामदग्न्यस तथा रामः परवीर निघातिना 46 तमान नूनं महावीर्याद भार्गवाद युद्धदुर्मदात तेजॊ वीर्यबलैर भूयाञ शिखण्डी दरुपदात्मजः 47 यः शूरं कृतिनं युद्धे सर्वशास्त्रविशारदम परमास्त्रविदं वीरं जघान भरतर्षभम 48 के वीरास तम अमित्रघ्नम अन्वयुः शत्रुसंसदि शंस मे तद यथावृत्तं युद्धं भीष्मस्य पाण्डवैः 49 यॊषेव हतवीरा मे सेना पुत्रस्य संजय अगॊपम इव चॊद्भ्रान्तं गॊकुलं तद बलं मम 50 पौरुषं सर्वलॊकस्य परं यस्य महाहवे परासिक्ते च वस तस्मिन कथम आसीन मनस तदा 51 जीविते ऽपय अद्य सामर्थ्यं किम इवास्मासु संजय घातयित्वा महावीर्यं पितरं लॊकधार्मिकम 52 अगाधे सलिले मग्नां नावं दृष्ट्वेव पारगाः भीष्मे हते भृशं दुःखान मन्ये शॊचन्ति पुत्रकाः 53 अद्रिसारमयं नूनं सुदृढं हृदयं मम यच छरुत्वा पुरुषव्याघ्रं हतं भीष्मं न दीर्यते 54 यस्मिन्न अस्त्रं च मेधा च नीतिश च भरतर्षभे अप्रमेयाणि दुर्धर्षे कथं स निहतॊ युधि 55 न चास्त्रेण न शौर्येण तपसा मेधया न च न धृत्या न पुनस तयागान मृत्यॊः कश चिद विमुच्यते 56 कालॊ नूनं महावीर्यः सर्वलॊकदुरत्ययः यत्र शांतनवं भीष्मं हतं शंससि संजय 57 पुत्रशॊकाभिसंतप्तॊ महद दुःखम अचिन्तयन आशंसे ऽहं पुरा तराणं भीष्माच छंतनुनन्दनात 58 यदादित्यम इवापश्यत पतितं भुवि संजय दुर्यॊधनः शांतनवं किं तदा परत्यपद्यत 59 नाहं सवेषां परेषां वा बुद्ध्या संजय चिन्तयन शेषं किं चित परपश्यामि परत्यनीके महीक्षिताम 60 दारुणः कषत्रधर्मॊ ऽयम ऋषिभिः संप्रदर्शितः यत्र शांतनवं हत्वा राज्यम इच्छन्ति पाण्डवाः 61 वयं वा राज्यम इच्छामॊ घातयित्वा पितामहम कषत्रधर्मे सथिताः पार्था नापराध्यन्ति पुत्रकाः 62 एतद आर्येण कर्तव्यं कृच्छ्रास्व आपत्सु संजय पराक्रमः परं शक्त्या तच च तस्मिन परतिष्ठितम 63 अनीकानि विनिघ्नन्तं हरीमन्तम अपराजितम कथं शांतनवं तात पाण्डुपुत्रा नयपातयन 64 कथं युक्तान्य अनीकानि कथं युद्धं महात्मभिः कथं वा निहतॊ भीष्मः पिता संजय मे परैः 65 दुर्यॊधनश च कर्णश च शकुनिश चापि सौबलः दुःशासनश च कितवॊ हते भीष्मे किम अब्रुवन 66 यच छरीरैर उपस्तीर्णां नरवारणवाजिनाम शरशक्तिगदाखड्गतॊमराक्षां भयावहाम 67 पराविशन कितवा मन्दाः सभां युधि दुरासदाम पराणद्यूते परतिभये के ऽदीव्यन्त नरर्षभाः 68 के ऽजयन के जितास तत्र हृतलक्षा निपातिताः अन्ये भीष्माच छांतनवात तन ममाचक्ष्व संजय 69 न हि मे शान्तिर अस्तीह युधि देवव्रतं हतम पितरं भीमकर्माणं शरुत्वा मे दुःखम आविशत 70 आर्तिं मे हृदये रूढां महतीं पुत्र कारिताम तवं सिञ्चन सर्पिषेवाग्निम उद्दीपयसि संजय 71 महान्तं भारम उद्यम्य विश्रुतं सार्व लौकिकम दृष्ट्वा विनिहतं भीष्मं मन्ये शॊचन्ति पुत्रकाः 72 शरॊष्यामि तानि दुःखानि दुर्यॊधनकृतान्य अहम तस्मान मे सर्वम आचक्ष्व यद्वृत्तं तत्र संजय 73 संग्रामे पृथिवीशानां मन्दस्याबुद्धि संभवम अपनीतं सुनीतं वा तन ममाचक्ष्व संजय 74 यत्कृतं तत्र भीष्मेण संग्रामे जयम इच्छता तेयॊ युक्तं कृतास्त्रेण शंस तच चाप्य अशेषतः 75 यथा तद अभवद युद्धं कुरुपाण्डवसेनयॊः करमेण येन यस्मिंश च काले यच च यथा च तत |
1
[dhṛ] kathaṃ kurūṇām ṛṣabho hato bhīṣmaḥ śikhaṇḍinā kathaṃ rathāt sa nyapatat pitā me vāsavopamaḥ 2 katham āsaṃś ca me putrā hīnā bhīṣmeṇa saṃjaya balinā devakalpena gurvarthe brahmacāriṇā 3 tasmin hate mahāsattve maheṣvāse mahābale mahārathe naravyāghra kim u āsīn manas tadā 4 ārtiḥ parā māviśati yataḥ śaṃsasi me hatam kurūṇām ṛṣabhaṃ vīram akampyaṃ puruṣarṣabham 5 ke taṃ yāntam anupreyuḥ ke cāsyāsan purogamāḥ ke 'tiṣṭhan ke nyavartanta ke 'bhyavartanta saṃjaya 6 ke śūrā rathaśārdūlam acyutaṃ kṣatriyarṣabham rathānīkaṃ gāhamānaṃ sahasā pṛṣṭhato 'nvayuḥ 7 yas tamo 'rka ivāpohan parasainyam amitrahā sahasraraśmi pratimaḥ pareṣāṃ bhayam ādadhat akarod duṣkaraṃ karma raṇe kaurava śāsanāt 8 grasamānam anīkāni ya enaṃ paryavārayan kṛtinaṃ taṃ durādharṣaṃ samyag yāsyantam antike kathaṃ śāṃtanavaṃ yuddhe pāṇḍavāḥ pratyavārayan 9 nikṛntantam anīkāni śaradaṃṣṭraṃ tarasvinam cāpavyāttānanaṃ ghoram asi jihvaṃ durāsadam 10 atyanyān puruṣavyāghrān hrīmantam aparājitam pātayām āsa kaunteyaḥ kathaṃ tam ajitaṃ yudhi 11 ugradhanvānam ugreṣuṃ vartamānaṃ rathottame pareṣām uttamāṅgāni pracinvantaṃ śiteṣubhiḥ 12 pāṇḍavānāṃ mahat sainyaṃ yaṃ dṛṣṭvodyantam āhave kālāgnim iva durdharṣaṃ samaveṣṭata nityaśaḥ 13 parikṛṣya sa senāṃ me daśarātram anīkahā jagāmāstam ivādityaḥ kṛtvā karma suduṣkaram 14 yaḥ sa śakra ivākṣayyaṃ varṣaṃ śaramayaṃ sṛjan jaghāna yudhi yodhānām arbudaṃ daśabhir dinaiḥ 15 sa śete niṣṭanan bhūmau vātarugṇa iva drumaḥ mama durmantritenāsau yathā nārha sa bhārata 16 kathaṃ śāṃtanavaṃ dṛṣṭvā pāṇḍavānām anīkinī prahartum aśakat tatra bhīṣmaṃ bhīmaparākramam 17 kathaṃ bhīṣmeṇa saṃgrāmam akurvan pāṇḍunandanāḥ kathaṃ ca nājayad bhīṣmo droṇe jīvati saṃjaya 18 kṛpe saṃnihite tatra bharadvājātmaje tathā bhīṣmaḥ praharatāṃ śreṣṭhaḥ kathaṃ sa nidhanaṃ gataḥ 19 kathaṃ cātirathas tena pāñcālyena śikhaṇḍinā bhīṣmo vinihato yuddhe devair api durutsahaḥ 20 yaḥ spardhate raṇe nityaṃ jāmadagnyaṃ mahābalam ajitaṃ jāmadagnyena śakratulyaparākramam 21 taṃ hataṃ samare bhīṣmaṃ mahārathabalocitam saṃjayācakṣva me vīraṃ yena śarma na vidmahe 22 māmakāḥ ke maheṣvāsā nājahuḥ saṃjayācyutam duryodhanaṃ samādiṣṭāḥ ke vīrāḥ paryavārayan 23 yac chikhaṇḍi mukhāḥ sarve pāṇḍavā bhīṣmam abhyayuḥ kac cin na kuravo bhītās tatyajuḥ saṃjayācyutam 24 maurvī ghoṣastanayitnuḥ pṛṣatka pṛṣato mahān dhanur hvāda mahāśabdo mahāmegha ivonnataḥ 25 yad abhyavarṣat kaunteyān sapāñcālān sa sṛñjayān nighnan pararathān vīro dānavān iva vajrabhṛt 26 iṣvastrasāgaraṃ ghoraṃ bāṇagrāhaṃ durāsadam kārmukormiṇam akṣayyam advīpaṃ samare 'plavam gadāsimakarāvartaṃ hayagrāhaṃ gajākulam 27 hayān gajān padātāṃś ca rathāṃś ca tarasā bahūn nimajjayantaṃ samare paravīrāpahāriṇam 28 vidahyamānaṃ kopena tejasā ca paraṃtapam veleva makarāvāsaṃ ke vīrāḥ paryavārayan 29 bhīṣmo yad akarot karma samare saṃjayārihā duryodhanahitārthāya ke tadāsya puro 'bhavan 30 ke 'rakṣan dakṣiṇaṃ cakraṃ bhīṣmasyāmitatejasaḥ pṛṣṭhataḥ ke parān vīrā upāsedhan yatavratāḥ 31 ke purastād avartanta rakṣanto bhīṣmam antike ke 'rakṣann uttaraṃ cakraṃ vīrā vīrasya yudhyataḥ 32 vāme cakre vartamānāḥ ke 'ghnan saṃjaya sṛñjayān sametāgram anīkeṣu ke 'bhyarakṣan durāsadam 33 pārśvataḥ ke 'bhyavartanta gacchanto durgamāṃ gatim samūhe ke parān vīrān pratyayudhyanta saṃjaya 34 rakṣyamāṇaḥ kathaṃ vīrair gopyamānāś ca tena te durjayānām anīkāni nājayaṃs tarasā yudhi 35 sarvalokeśvarasyeva parameṣṭhi prajāpateḥ kathaṃ prahartum api te śekuḥ saṃjaya pāṇḍavāḥ 36 yasmin dvīpe samāśritya yudhyanti kuravaḥ paraiḥ taṃ nimagnaṃ naravyāghraṃ bhīṣmaṃ śaṃsasi saṃjaya 37 yasya vīrye samāśvasya mama putro bṛhadbalaḥ na pāṇḍavān agaṇayat kathaṃ sa nihataḥ paraiḥ 38 yaḥ purā vibudhaiḥ sendraiḥ sāhāyye yuddhadurmadaḥ kāṅkṣito dānavān ghnadbhiḥ pitā mama mahāvrataḥ 39 yasmiñ jāte mahāvīrye śaṃtanur lokaśaṃkare śokaṃ duḥkhaṃ ca dainyaṃ ca prājahāt putra lakṣmaṇi 40 prajñā parāyaṇaṃ tajjñaṃ sad dharmanirataṃ śucim vedavedāṅgatattvajñaṃ kathaṃ śaṃsasi me hatam 41 sarvāstravinayopetaṃ dāntaṃ śāntaṃ manasvinam hataṃ śāṃtanavaṃ śrutvā manye śeṣaṃ balaṃ hatam 42 dharmād adharmo balavān saṃprāpta iti me matiḥ yatra vṛddhaṃ guruṃ hatvā rājyam icchanti pāṇḍavāḥ 43 jāmadagnyaḥ purā rāmaḥ sarvāstravid anuttamaḥ ambārtham udyataḥ saṃkhye bhīṣmeṇa yudhi nirjitaḥ 44 tam indrasamakarmāṇaṃ kakudaṃ sarvadhanvinām hataṃ śaṃsasi bhīṣmaṃ me kiṃ nu duḥkham ataḥ param 45 asakṛt kṣatriya vrātāḥ saṃkhye yena vinirjitāḥ jāmadagnyas tathā rāmaḥ paravīra nighātinā 46 tamān nūnaṃ mahāvīryād bhārgavād yuddhadurmadāt tejo vīryabalair bhūyāñ śikhaṇḍī drupadātmajaḥ 47 yaḥ śūraṃ kṛtinaṃ yuddhe sarvaśāstraviśāradam paramāstravidaṃ vīraṃ jaghāna bharatarṣabham 48 ke vīrās tam amitraghnam anvayuḥ śatrusaṃsadi śaṃsa me tad yathāvṛttaṃ yuddhaṃ bhīṣmasya pāṇḍavaiḥ 49 yoṣeva hatavīrā me senā putrasya saṃjaya agopam iva codbhrāntaṃ gokulaṃ tad balaṃ mama 50 pauruṣaṃ sarvalokasya paraṃ yasya mahāhave parāsikte ca vas tasmin katham āsīn manas tadā 51 jīvite 'py adya sāmarthyaṃ kim ivāsmāsu saṃjaya ghātayitvā mahāvīryaṃ pitaraṃ lokadhārmikam 52 agādhe salile magnāṃ nāvaṃ dṛṣṭveva pāragāḥ bhīṣme hate bhṛśaṃ duḥkhān manye śocanti putrakāḥ 53 adrisāramayaṃ nūnaṃ sudṛḍhaṃ hṛdayaṃ mama yac chrutvā puruṣavyāghraṃ hataṃ bhīṣmaṃ na dīryate 54 yasminn astraṃ ca medhā ca nītiś ca bharatarṣabhe aprameyāṇi durdharṣe kathaṃ sa nihato yudhi 55 na cāstreṇa na śauryeṇa tapasā medhayā na ca na dhṛtyā na punas tyāgān mṛtyoḥ kaś cid vimucyate 56 kālo nūnaṃ mahāvīryaḥ sarvalokaduratyayaḥ yatra śāṃtanavaṃ bhīṣmaṃ hataṃ śaṃsasi saṃjaya 57 putraśokābhisaṃtapto mahad duḥkham acintayan āśaṃse 'haṃ purā trāṇaṃ bhīṣmāc chaṃtanunandanāt 58 yadādityam ivāpaśyat patitaṃ bhuvi saṃjaya duryodhanaḥ śāṃtanavaṃ kiṃ tadā pratyapadyata 59 nāhaṃ sveṣāṃ pareṣāṃ vā buddhyā saṃjaya cintayan śeṣaṃ kiṃ cit prapaśyāmi pratyanīke mahīkṣitām 60 dāruṇaḥ kṣatradharmo 'yam ṛṣibhiḥ saṃpradarśitaḥ yatra śāṃtanavaṃ hatvā rājyam icchanti pāṇḍavāḥ 61 vayaṃ vā rājyam icchāmo ghātayitvā pitāmaham kṣatradharme sthitāḥ pārthā nāparādhyanti putrakāḥ 62 etad āryeṇa kartavyaṃ kṛcchrāsv āpatsu saṃjaya parākramaḥ paraṃ śaktyā tac ca tasmin pratiṣṭhitam 63 anīkāni vinighnantaṃ hrīmantam aparājitam kathaṃ śāṃtanavaṃ tāta pāṇḍuputrā nyapātayan 64 kathaṃ yuktāny anīkāni kathaṃ yuddhaṃ mahātmabhiḥ kathaṃ vā nihato bhīṣmaḥ pitā saṃjaya me paraiḥ 65 duryodhanaś ca karṇaś ca śakuniś cāpi saubalaḥ duḥśāsanaś ca kitavo hate bhīṣme kim abruvan 66 yac charīrair upastīrṇāṃ naravāraṇavājinām śaraśaktigadākhaḍgatomarākṣāṃ bhayāvahām 67 prāviśan kitavā mandāḥ sabhāṃ yudhi durāsadām prāṇadyūte pratibhaye ke 'dīvyanta nararṣabhāḥ 68 ke 'jayan ke jitās tatra hṛtalakṣā nipātitāḥ anye bhīṣmāc chāṃtanavāt tan mamācakṣva saṃjaya 69 na hi me śāntir astīha yudhi devavrataṃ hatam pitaraṃ bhīmakarmāṇaṃ śrutvā me duḥkham āviśat 70 ārtiṃ me hṛdaye rūḍhāṃ mahatīṃ putra kāritām tvaṃ siñcan sarpiṣevāgnim uddīpayasi saṃjaya 71 mahāntaṃ bhāram udyamya viśrutaṃ sārva laukikam dṛṣṭvā vinihataṃ bhīṣmaṃ manye śocanti putrakāḥ 72 śroṣyāmi tāni duḥkhāni duryodhanakṛtāny aham tasmān me sarvam ācakṣva yadvṛttaṃ tatra saṃjaya 73 saṃgrāme pṛthivīśānāṃ mandasyābuddhi saṃbhavam apanītaṃ sunītaṃ vā tan mamācakṣva saṃjaya 74 yatkṛtaṃ tatra bhīṣmeṇa saṃgrāme jayam icchatā teyo yuktaṃ kṛtāstreṇa śaṃsa tac cāpy aśeṣataḥ 75 yathā tad abhavad yuddhaṃ kurupāṇḍavasenayoḥ krameṇa yena yasmiṃś ca kāle yac ca yathā ca tat |
The Mahabharata in Sanskrit
Book 6
Chapter 16
|
1
[स] तवद युक्तॊ ऽयम अनुप्रश्नॊ महाराज यथार्हसि न तु दुर्यॊधने दॊषम इमम आसक्तुम अर्हसि 2 य आत्मनॊ दुश्चरिताद अशुभं पराप्नुयान नरः एनसा तेन नान्यं स उपाशङ्कितुम अर्हति 3 महाराज मनुष्येषु निन्द्यं यः सर्वम आचरेत स वध्यः सर्वलॊकस्य निन्दितानि समाचरन 4 निकारॊ निकृतिप्रज्ञैः पाण्डवैस तवत्प्रतीक्षया अनुभूतः सहामात्यैः कषान्तं च सुचिरं वने 5 हयानां च गजानां च शूराणां चामितौजसाम परत्यक्षं यन मया दृष्टं दृष्टं यॊगबलेन च 6 शृणु तत पृथिवीपाल मा च शॊके मनः कृथाः दिष्टम एतत पुरा नूनम एवं भावि नराधिप 7 नमस्कृत्वा पितुस ते ऽहं पाराशर्याय धीमते यस्य परसादाद दिव्यं मे पराप्तं जञानम अनुत्तमम 8 दृष्टिश चातीन्द्रिया राजन दूराच छरवणम एव च परचित्तस्य विज्ञानम अतीतानागतस्य च 9 वयुत्थितॊत्पत्तिविज्ञानम आकाशे च गतिः सदा शस्त्रैर असङ्गॊ युद्धेषु वरदानान महात्मनः 10 शृणु मे विस्तरेणेदं विचित्रं परमाद्भुतम भारतानां महद युद्धं यथाभूल लॊमहर्षणम 11 तेष्व अनीकेषु यत तेषु वयूढेषु च विधानतः दुर्यॊधनॊ महाराज दुःशासनम अथाब्रवीत 12 दुःशासन रथास तूर्णं युज्यन्तां भीष्मरक्षिणः अनीकानि च सर्वाणि शीघ्रं तवम अनुचॊदय 13 अयं मा समनुप्राप्तॊ वर्षपूगाभिचिन्तितः पाण्डवानां स सैन्यानां कुरूणां च समागमः 14 नातः कार्यतमं मन्ये रणे भीष्मस्य रक्षणात हन्याद गुप्तॊ हय असौ पार्थान सॊमकांश च स सृञ्जयान 15 अब्रवीच च विशुद्धात्मा नाहं हन्यां शिखण्डिनम शरूयते सत्री हय असौ पूर्वं तस्माद वर्ज्यॊ रणे मम 16 तस्माद भीष्मॊ रक्षितव्यॊ विशेषेणेति मे मतिः शिखण्डिनॊ वधे यत्ताः सर्वे तिष्ठन्तु मामकाः 17 तथा पराच्याश परतीच्याश च दाक्षिणात्यॊत्तरा पथाः सर्वशस्त्रास्त्रकुशलास ते रक्षन्तु पितामहम 18 अरक्ष्यमाणं हि वृकॊ हन्यात सिंहं महाबलम मा सिंहं जम्बुकेनेव घातयामः शिखण्डिना 19 वामं चक्रं युधामन्युर उत्तमौजाश च दक्षिणम गॊप्तारौ फल्गुनस्यैतौ फल्गुनॊ ऽपि शिखण्डिनः 20 संरक्ष्यमाणः पार्थेन भीष्मेण च विवर्जितः यथा न हन्याद गाङ्गेयं दुःशासन तथा कुरु 21 ततॊ रजन्यां वयुष्टातां शब्दः समभवन महान करॊशतां भूमिपालानां युज्यतां युज्यताम इति 22 शङ्खदुन्दुभिनिर्घॊषैः सिंहनादैश च भारत हयहेषित शब्दैश च रथनेमि सवनैस तथा 23 गजानां बृंहतां चैव यॊधानां चाभिगर्जताम कष्वेडितास्फॊटितॊत्क्रुष्टैस तुमुलं सर्वतॊ ऽभवत 24 उदतिष्ठन महाराज सर्वं युक्तम अशेषतः सूर्यॊदये महत सैन्यं कुरुपाण्डवसेनयॊः तव राजेन्द्र पुत्राणां पाण्डवानां तथैव च 25 तत्र नागा रथाश चैव जाम्बूनदपरिष्कृताः विभ्राजमाना दृश्यन्ते मेघा इव स विद्युतः 26 रथानीकान्य अदृश्यन्त नगराणीव भूरिशः अतीव शुशुभे तत्र पिता ते पूर्णचन्द्रवत 27 धनुर्भिर ऋष्टिभिः खड्गैर गदाभिः शक्तितॊमरैः यॊधाः परहरणैः शुभ्रैः सवेष्व अनीकेष्व अवस्थिताः 28 गजा रथाः पदाताश च तुरगाश च विशां पते वयतिष्ठन वागुराकाराः शतशॊ ऽथ सहस्रशः 29 धवजा बहुविधाकारा वयदृश्यन्त समुच्छ्रिताः सवेषां चैव परेषां च दयुतिमन्तः सहस्रशः 30 काञ्चना मणिचित्राङ्गा जवलन्त इव पावकाः अर्चिष्मन्तॊ वयरॊचन्त धवजा राज्ञां सहस्रशः 31 महेन्द्र केतवः शुभ्रा महेन्द्र सदनेष्व इव संनद्धास तेषु ते वीरा ददृशुर युद्धकाङ्क्षिणः 32 उद्यतैर आयुधैर चित्रास तलबद्धाः कलापिनः ऋषभाक्षा मनुष्येन्द्राश चमूमुखगता बभुः 33 शकुनिः सौबलः शल्यः सौन्धवॊ ऽथ जयद्रथः विन्दानुविन्दाव आवन्त्यौ काम्बॊजश च सुदक्षिणः 34 शरुतायुधश च कालिङ्गॊ जयत्सेनश च पार्थिवः बृहद्बलश च कौशल्यः कृतवर्मा च सत्वतः 35 दशैते पुरुषव्याघ्रः शूराः परिघबाहवः अक्षौहिणीनां पतयॊ यज्वानॊ भूरिदक्षिणाः 36 एते चान्ये च बहवॊ दुर्यॊधन वशानुगाः राजानॊ राजपुत्राश च नीतिमन्तॊ महाबलाः 37 संनद्धाः समदृश्यन्त सवेष्व अनीकेष्व अवस्थिताः बद्धकृष्णाजिनाः सर्वे धवजिनॊ मुञ्ज मालिनः 38 सृष्टा दुर्यॊधनस्यार्थे बरह्मलॊकाय दीक्षिताः समृद्धा दशवाहिन्यः परिगृह्य वयवस्थिताः 39 एकादशी धार्तराष्ट्री कौरवाणां महाचमूः अग्रतः सर्वसैन्यानां यत्र शांतनवॊ ऽगरणीः 40 शवेतॊष्णीषं शवेतहयं शवेतवर्माणम अच्युतम अपश्याम महाराज भीष्मं चन्द्रम इवॊदितम 41 हेमतालध्वजं भीष्मं राजते सयन्दने सथितम शवेताभ्र इव तीक्ष्णांशुं ददृशुः कुरुपाण्डवाः 42 दृष्ट्वा चमूमुखे भीष्मं समकम्पन्त पाण्डवाः सृञ्जयाश च महेष्वासा धृष्टद्युम्नपुरॊगमाः 43 जृम्भमाणं महासिंहं दृष्ट्वा कषुद्रमृगा यथा धृष्टद्युम्नमुखाः सर्वे समुद्विविजिरे मुहुः 44 एकादशैताः शरीजुष्टा वाहिन्यस तव भारत पाण्डवानां तथा सप्त महापुरुषपालिताः 45 उन्मत्तमकरावर्तौ महाग्राहसमाकुलौ युगान्ते समुपेतौ दवौ दृश्येते सागराव इव 46 नैव नस तादृशॊ राजन दृष्टपूर्वॊ न च शरुतः अनीकानां समेतानां समवायस तथाविधः |
1
[s] tvad yukto 'yam anupraśno mahārāja yathārhasi na tu duryodhane doṣam imam āsaktum arhasi 2 ya ātmano duścaritād aśubhaṃ prāpnuyān naraḥ enasā tena nānyaṃ sa upāśaṅkitum arhati 3 mahārāja manuṣyeṣu nindyaṃ yaḥ sarvam ācaret sa vadhyaḥ sarvalokasya ninditāni samācaran 4 nikāro nikṛtiprajñaiḥ pāṇḍavais tvatpratīkṣayā anubhūtaḥ sahāmātyaiḥ kṣāntaṃ ca suciraṃ vane 5 hayānāṃ ca gajānāṃ ca śūrāṇāṃ cāmitaujasām pratyakṣaṃ yan mayā dṛṣṭaṃ dṛṣṭaṃ yogabalena ca 6 śṛṇu tat pṛthivīpāla mā ca śoke manaḥ kṛthāḥ diṣṭam etat purā nūnam evaṃ bhāvi narādhipa 7 namaskṛtvā pitus te 'haṃ pārāśaryāya dhīmate yasya prasādād divyaṃ me prāptaṃ jñānam anuttamam 8 dṛṣṭiś cātīndriyā rājan dūrāc chravaṇam eva ca paracittasya vijñānam atītānāgatasya ca 9 vyutthitotpattivijñānam ākāśe ca gatiḥ sadā śastrair asaṅgo yuddheṣu varadānān mahātmanaḥ 10 śṛṇu me vistareṇedaṃ vicitraṃ paramādbhutam bhāratānāṃ mahad yuddhaṃ yathābhūl lomaharṣaṇam 11 teṣv anīkeṣu yat teṣu vyūḍheṣu ca vidhānataḥ duryodhano mahārāja duḥśāsanam athābravīt 12 duḥśāsana rathās tūrṇaṃ yujyantāṃ bhīṣmarakṣiṇaḥ anīkāni ca sarvāṇi śīghraṃ tvam anucodaya 13 ayaṃ mā samanuprāpto varṣapūgābhicintitaḥ pāṇḍavānāṃ sa sainyānāṃ kurūṇāṃ ca samāgamaḥ 14 nātaḥ kāryatamaṃ manye raṇe bhīṣmasya rakṣaṇāt hanyād gupto hy asau pārthān somakāṃś ca sa sṛñjayān 15 abravīc ca viśuddhātmā nāhaṃ hanyāṃ śikhaṇḍinam śrūyate strī hy asau pūrvaṃ tasmād varjyo raṇe mama 16 tasmād bhīṣmo rakṣitavyo viśeṣeṇeti me matiḥ śikhaṇḍino vadhe yattāḥ sarve tiṣṭhantu māmakāḥ 17 tathā prācyāś pratīcyāś ca dākṣiṇātyottarā pathāḥ sarvaśastrāstrakuśalās te rakṣantu pitāmaham 18 arakṣyamāṇaṃ hi vṛko hanyāt siṃhaṃ mahābalam mā siṃhaṃ jambukeneva ghātayāmaḥ śikhaṇḍinā 19 vāmaṃ cakraṃ yudhāmanyur uttamaujāś ca dakṣiṇam goptārau phalgunasyaitau phalguno 'pi śikhaṇḍinaḥ 20 saṃrakṣyamāṇaḥ pārthena bhīṣmeṇa ca vivarjitaḥ yathā na hanyād gāṅgeyaṃ duḥśāsana tathā kuru 21 tato rajanyāṃ vyuṣṭātāṃ śabdaḥ samabhavan mahān krośatāṃ bhūmipālānāṃ yujyatāṃ yujyatām iti 22 śaṅkhadundubhinirghoṣaiḥ siṃhanādaiś ca bhārata hayaheṣita śabdaiś ca rathanemi svanais tathā 23 gajānāṃ bṛṃhatāṃ caiva yodhānāṃ cābhigarjatām kṣveḍitāsphoṭitotkruṣṭais tumulaṃ sarvato 'bhavat 24 udatiṣṭhan mahārāja sarvaṃ yuktam aśeṣataḥ sūryodaye mahat sainyaṃ kurupāṇḍavasenayoḥ tava rājendra putrāṇāṃ pāṇḍavānāṃ tathaiva ca 25 tatra nāgā rathāś caiva jāmbūnadapariṣkṛtāḥ vibhrājamānā dṛśyante meghā iva sa vidyutaḥ 26 rathānīkāny adṛśyanta nagarāṇīva bhūriśaḥ atīva śuśubhe tatra pitā te pūrṇacandravat 27 dhanurbhir ṛṣṭibhiḥ khaḍgair gadābhiḥ śaktitomaraiḥ yodhāḥ praharaṇaiḥ śubhraiḥ sveṣv anīkeṣv avasthitāḥ 28 gajā rathāḥ padātāś ca turagāś ca viśāṃ pate vyatiṣṭhan vāgurākārāḥ śataśo 'tha sahasraśaḥ 29 dhvajā bahuvidhākārā vyadṛśyanta samucchritāḥ sveṣāṃ caiva pareṣāṃ ca dyutimantaḥ sahasraśaḥ 30 kāñcanā maṇicitrāṅgā jvalanta iva pāvakāḥ arciṣmanto vyarocanta dhvajā rājñāṃ sahasraśaḥ 31 mahendra ketavaḥ śubhrā mahendra sadaneṣv iva saṃnaddhās teṣu te vīrā dadṛśur yuddhakāṅkṣiṇaḥ 32 udyatair āyudhair citrās talabaddhāḥ kalāpinaḥ ṛṣabhākṣā manuṣyendrāś camūmukhagatā babhuḥ 33 śakuniḥ saubalaḥ śalyaḥ saundhavo 'tha jayadrathaḥ vindānuvindāv āvantyau kāmbojaś ca sudakṣiṇaḥ 34 śrutāyudhaś ca kāliṅgo jayatsenaś ca pārthivaḥ bṛhadbalaś ca kauśalyaḥ kṛtavarmā ca satvataḥ 35 daśaite puruṣavyāghraḥ śūrāḥ parighabāhavaḥ akṣauhiṇīnāṃ patayo yajvāno bhūridakṣiṇāḥ 36 ete cānye ca bahavo duryodhana vaśānugāḥ rājāno rājaputrāś ca nītimanto mahābalāḥ 37 saṃnaddhāḥ samadṛśyanta sveṣv anīkeṣv avasthitāḥ baddhakṛṣṇājināḥ sarve dhvajino muñja mālinaḥ 38 sṛṣṭā duryodhanasyārthe brahmalokāya dīkṣitāḥ samṛddhā daśavāhinyaḥ parigṛhya vyavasthitāḥ 39 ekādaśī dhārtarāṣṭrī kauravāṇāṃ mahācamūḥ agrataḥ sarvasainyānāṃ yatra śāṃtanavo 'graṇīḥ 40 śvetoṣṇīṣaṃ śvetahayaṃ śvetavarmāṇam acyutam apaśyāma mahārāja bhīṣmaṃ candram ivoditam 41 hematāladhvajaṃ bhīṣmaṃ rājate syandane sthitam śvetābhra iva tīkṣṇāṃśuṃ dadṛśuḥ kurupāṇḍavāḥ 42 dṛṣṭvā camūmukhe bhīṣmaṃ samakampanta pāṇḍavāḥ sṛñjayāś ca maheṣvāsā dhṛṣṭadyumnapurogamāḥ 43 jṛmbhamāṇaṃ mahāsiṃhaṃ dṛṣṭvā kṣudramṛgā yathā dhṛṣṭadyumnamukhāḥ sarve samudvivijire muhuḥ 44 ekādaśaitāḥ śrījuṣṭā vāhinyas tava bhārata pāṇḍavānāṃ tathā sapta mahāpuruṣapālitāḥ 45 unmattamakarāvartau mahāgrāhasamākulau yugānte samupetau dvau dṛśyete sāgarāv iva 46 naiva nas tādṛśo rājan dṛṣṭapūrvo na ca śrutaḥ anīkānāṃ sametānāṃ samavāyas tathāvidhaḥ |
The Mahabharata in Sanskrit
Book 6
Chapter 17
|
1
[स] यथा स भगवान वयासः कृष्णद्वैपायनॊ ऽबरवीत तथैव सहिताः सर्वे समाजग्मुर महीक्षितः 2 मघा विषयगः सॊमस तद दिनं परत्यपद्यत दीप्यमानाश च संपेतुर दिवि सप्त महाग्रहाः 3 दविधा भूत इवादित्य उदये परत्यदृश्यत जवलन्त्या शिखया भूयॊ भानुमान उदितॊ दिवि 4 ववाशिरे च दीप्तायां दिशि गॊमायुवायसाः लिप्समानाः शरीराणि मांसशॊणितभॊजनाः 5 अहन्य अहनि पार्थानां वृद्धः कुरुपितामहः भरद्वाजात्मजश चैव परातर उत्थाय संयतौ 6 जयॊ ऽसतु पाण्डुपुत्राणाम इत्य ऊचतुर अरिंदमौ युयुधाते तवार्थाय यथा स समयः कृतः 7 सर्वधर्मविशेषज्ञः पिता देवव्रतस तव समानीय महीपालान इदं वचनम अब्रवीत 8 इदं वः कषत्रिया दवारं सवर्गायापावृतं महत गच्छध्वं तेन शक्रस्य बरह्मणश च स लॊकताम 9 एष वः शाश्वतः पन्थाः पूर्वैः पूर्वतरैर गतः संभावयत चात्मानम अव्यग्रमनसॊ युधि 10 नाभागॊ हि ययातिश च मान्धाता नहुषॊ नृगः संसिद्धाः परमं सथानं गताः कर्मभिर ईदृशैः 11 अधर्मः कषत्रियस्यैष यद वयाधिमरणं गृहे यद आजौ निधनं याति सॊ ऽसय धर्मः सनातनः 12 एवम उक्ता महीपाला भीष्मेण भरतर्षभ निर्ययुः सवान्य अनीकानि शॊभयन्तॊ रथॊत्तमैः 13 स तु वैकर्तनः कर्णः सामात्यः सह बन्धुभिः नयासितः समरे शस्त्रं भीष्मेण भरतर्षभ 14 अपेतकर्णाः पुत्रास ते राजानश चैव तावकाः निर्ययुः सिंहनादेन नादयन्तॊ दिशॊ दश 15 शवेतैश छत्रैः पताकाभिर धवजवारणवाजिभिः तान्य अनीकान्य अशॊभन्त रथैर अथ पदातिभिः 16 भेरी पणवशब्दैश च पटहानां च निस्वनैः रथनेमि निनादैश च बभूवाकुलिता मही 17 काञ्चनाङ्गदकेयूरैः कार्मुकैश च महारथाः भराजमाना वयदृश्यन्त जङ्गमाः पर्वता इव 18 तालेन महता भीष्मः पञ्च तारेण केतुना विमलादित्य संकाशस तस्थौ कुरुचमूपतिः 19 ये तवदीया महेष्वासा राजानॊ भरतर्षभः अवर्तन्त यथादेशं राजञ शांतनवस्य ते 20 स तु गॊवासनः शैब्यः सहितः सर्वराजभिः ययौ मातङ्गराजेन राजार्हेण पताकिना पद्मवर्णस तव अनीकानां सर्वेषाम अग्रतः सथितः 21 अश्वत्थामा ययौ यत्तः सिंहलाङ्गल केतनः शरुतायुश चित्रसेनश च पुरुमित्रॊ विविंशतिः 22 शल्यॊ भुरि शरवाश चैव विकर्णश च महारथः एते सप्त महेष्वासा दरॊणपुत्र पुरॊगमाः सयन्दनैर वरवर्णाभैर भीष्मस्यासन पुरःसरा 23 तेषाम अपि महॊत्सेधाः शॊभयन्तॊ रथॊत्तमान भराजमाना वयदृश्यन्त जाम्बूनदमया धवजाः 24 जाम्बूनदमयी वेदिः कमण्डलुविभूषिता केतुर आचार्य मुख्यस्य दरॊणस्य धनुषा सह 25 अनेकशतसाहस्रम अनीकम अनुकर्षतः महान दुर्यॊधनस्यासीन नागॊ मणिमयॊ धवजः 26 तस्य पौरव कालिङ्गौ काम्बॊजश च सुदक्षिणः कषेमधन्वा सुमित्रश च तस्थुः परमुखतॊ रथाः 27 सयन्दनेन महार्हेण केतुना वृषभेण च परकर्षन्न इव सेनाग्रं मागधश च नृपॊ ययौ 28 तद अङ्गपतिना गुप्तं कृपेण च महात्मना शारदाभ्रचय परख्यं पराच्यानाम अभवद बलम 29 अनीक परमुखे तिष्ठन वराहेण महायशाः शुशुभे केतुमुख्येन राजतेन जयद्रथः 30 शतं रथसहस्राणां तस्यासन वशवर्तिनः अष्टौ नागसहस्राणि सादिनाम अयुतानि षट 31 तत सिन्धुपतिना राजन पालितं धवजिनीमुखम अनन्त रथनागाश्वम अशॊभत महद बलम 32 षष्ट्या रथसहस्रैस तु नागानाम अयुतेन च पतिः सर्वक लिङ्गानां ययौ केतुमता सह 33 तस्य पर्वतसंकाशा वयरॊचन्त महागजाः यन्त्रतॊमर तूणीरैः पताकाभिश च शॊभिताः 34 शुशुभे केतुमुख्येन पादपेन कलिङ्गपः शवेतच छत्रेण निष्केण चामरव्यजनेन च 35 केतुमान अपि मातङ्गं विचित्रपरमाङ्कुशम आस्थितः समरे राजन मेघस्थ इव भानुमान 36 तेजसा दीप्यमानस तु वारणॊत्तमम आस्थितः भगदत्तॊ ययौ राजा यथा वज्रधरस तथा 37 जग सकन्धगताव आस्तां भगदत्तेन संमितौ विन्दानुविन्दाव आवन्त्यौ केतुमन्तम अनुव्रतौ 38 स रथानीकवान वयूहॊ हस्त्यङ्गॊत्तम शीर्षवान वाजिपक्षः पतन्न उग्रः पराहरत सर्वतॊ मुखः 39 दरॊणेन विहितॊ राजन राज्ञा शांतनवेन च तथैवाचार्य पुत्रेण बाह्लीकेन कृपेण च |
1
[s] yathā sa bhagavān vyāsaḥ kṛṣṇadvaipāyano 'bravīt tathaiva sahitāḥ sarve samājagmur mahīkṣitaḥ 2 maghā viṣayagaḥ somas tad dinaṃ pratyapadyata dīpyamānāś ca saṃpetur divi sapta mahāgrahāḥ 3 dvidhā bhūta ivāditya udaye pratyadṛśyata jvalantyā śikhayā bhūyo bhānumān udito divi 4 vavāśire ca dīptāyāṃ diśi gomāyuvāyasāḥ lipsamānāḥ śarīrāṇi māṃsaśoṇitabhojanāḥ 5 ahany ahani pārthānāṃ vṛddhaḥ kurupitāmahaḥ bharadvājātmajaś caiva prātar utthāya saṃyatau 6 jayo 'stu pāṇḍuputrāṇām ity ūcatur ariṃdamau yuyudhāte tavārthāya yathā sa samayaḥ kṛtaḥ 7 sarvadharmaviśeṣajñaḥ pitā devavratas tava samānīya mahīpālān idaṃ vacanam abravīt 8 idaṃ vaḥ kṣatriyā dvāraṃ svargāyāpāvṛtaṃ mahat gacchadhvaṃ tena śakrasya brahmaṇaś ca sa lokatām 9 eṣa vaḥ śāśvataḥ panthāḥ pūrvaiḥ pūrvatarair gataḥ saṃbhāvayata cātmānam avyagramanaso yudhi 10 nābhāgo hi yayātiś ca māndhātā nahuṣo nṛgaḥ saṃsiddhāḥ paramaṃ sthānaṃ gatāḥ karmabhir īdṛśaiḥ 11 adharmaḥ kṣatriyasyaiṣa yad vyādhimaraṇaṃ gṛhe yad ājau nidhanaṃ yāti so 'sya dharmaḥ sanātanaḥ 12 evam uktā mahīpālā bhīṣmeṇa bharatarṣabha niryayuḥ svāny anīkāni śobhayanto rathottamaiḥ 13 sa tu vaikartanaḥ karṇaḥ sāmātyaḥ saha bandhubhiḥ nyāsitaḥ samare śastraṃ bhīṣmeṇa bharatarṣabha 14 apetakarṇāḥ putrās te rājānaś caiva tāvakāḥ niryayuḥ siṃhanādena nādayanto diśo daśa 15 śvetaiś chatraiḥ patākābhir dhvajavāraṇavājibhiḥ tāny anīkāny aśobhanta rathair atha padātibhiḥ 16 bherī paṇavaśabdaiś ca paṭahānāṃ ca nisvanaiḥ rathanemi ninādaiś ca babhūvākulitā mahī 17 kāñcanāṅgadakeyūraiḥ kārmukaiś ca mahārathāḥ bhrājamānā vyadṛśyanta jaṅgamāḥ parvatā iva 18 tālena mahatā bhīṣmaḥ pañca tāreṇa ketunā vimalāditya saṃkāśas tasthau kurucamūpatiḥ 19 ye tvadīyā maheṣvāsā rājāno bharatarṣabhaḥ avartanta yathādeśaṃ rājañ śāṃtanavasya te 20 sa tu govāsanaḥ śaibyaḥ sahitaḥ sarvarājabhiḥ yayau mātaṅgarājena rājārheṇa patākinā padmavarṇas tv anīkānāṃ sarveṣām agrataḥ sthitaḥ 21 aśvatthāmā yayau yattaḥ siṃhalāṅgala ketanaḥ śrutāyuś citrasenaś ca purumitro viviṃśatiḥ 22 śalyo bhuri śravāś caiva vikarṇaś ca mahārathaḥ ete sapta maheṣvāsā droṇaputra purogamāḥ syandanair varavarṇābhair bhīṣmasyāsan puraḥsarā 23 teṣām api mahotsedhāḥ śobhayanto rathottamān bhrājamānā vyadṛśyanta jāmbūnadamayā dhvajāḥ 24 jāmbūnadamayī vediḥ kamaṇḍaluvibhūṣitā ketur ācārya mukhyasya droṇasya dhanuṣā saha 25 anekaśatasāhasram anīkam anukarṣataḥ mahān duryodhanasyāsīn nāgo maṇimayo dhvajaḥ 26 tasya paurava kāliṅgau kāmbojaś ca sudakṣiṇaḥ kṣemadhanvā sumitraś ca tasthuḥ pramukhato rathāḥ 27 syandanena mahārheṇa ketunā vṛṣabheṇa ca prakarṣann iva senāgraṃ māgadhaś ca nṛpo yayau 28 tad aṅgapatinā guptaṃ kṛpeṇa ca mahātmanā śāradābhracaya prakhyaṃ prācyānām abhavad balam 29 anīka pramukhe tiṣṭhan varāheṇa mahāyaśāḥ śuśubhe ketumukhyena rājatena jayadrathaḥ 30 śataṃ rathasahasrāṇāṃ tasyāsan vaśavartinaḥ aṣṭau nāgasahasrāṇi sādinām ayutāni ṣaṭ 31 tat sindhupatinā rājan pālitaṃ dhvajinīmukham ananta rathanāgāśvam aśobhata mahad balam 32 ṣaṣṭyā rathasahasrais tu nāgānām ayutena ca patiḥ sarvaka liṅgānāṃ yayau ketumatā saha 33 tasya parvatasaṃkāśā vyarocanta mahāgajāḥ yantratomara tūṇīraiḥ patākābhiś ca śobhitāḥ 34 śuśubhe ketumukhyena pādapena kaliṅgapaḥ śvetac chatreṇa niṣkeṇa cāmaravyajanena ca 35 ketumān api mātaṅgaṃ vicitraparamāṅkuśam āsthitaḥ samare rājan meghastha iva bhānumān 36 tejasā dīpyamānas tu vāraṇottamam āsthitaḥ bhagadatto yayau rājā yathā vajradharas tathā 37 jaga skandhagatāv āstāṃ bhagadattena saṃmitau vindānuvindāv āvantyau ketumantam anuvratau 38 sa rathānīkavān vyūho hastyaṅgottama śīrṣavān vājipakṣaḥ patann ugraḥ prāharat sarvato mukhaḥ 39 droṇena vihito rājan rājñā śāṃtanavena ca tathaivācārya putreṇa bāhlīkena kṛpeṇa ca |
The Mahabharata in Sanskrit
Book 6
Chapter 18
|
1
[स] ततॊ मुहूर्तात तुमुलः शब्दॊ हृदयकम्पनः अश्रूयत महाराज यॊधानां परयुयुत्सताम 2 शङ्खदुन्दुभिनिर्घॊषैर वारणानां च बृंहितैः रथानां नेमिघॊषैश च दीर्यतीव वसुंधरा 3 हयानां हेषमाणानां यॊधानां तत्र गर्जताम कषणेन खं दिशश चैव शब्देनापूरितं तदा 4 पुत्राणां तव दुर्धर्षे पाण्डवानां तथैव च समकम्पन्त सैन्यानि परस्परसमागमे 5 तत्र नागा रथाश चैव जाम्बूनदविभूषिताः भराजमाना वयदृश्यन्त मेघा इव स विद्युतः 6 धवजा बहुविधाकारास तावकानां नराधिप काञ्चनाङ्गदिनॊ रेजुर जवलिता इव पावकाः 7 सवेषां चैव परेषां च समदृश्यन्त भारत महेन्द्र केतवः शुभ्रा महेन्द्र सदनेष्व इव 8 काञ्चनैः कवचैर वीरा जवलनार्कसमप्रभैः संनद्धाः परत्यदृश्यन्त गरहाः परज्वलिता इव 9 उद्यतैर आयुधैश चित्रैस तलबद्धाः पताकिनः ऋषभाक्षा महेष्वासाश चमूमुखगता बभुः 10 पृष्ठगॊपास तु भीष्मस्य पुत्रास तव नराधिप दुःशासनॊ दुर्विषहॊ दुर्मुखॊ दुःसहस तथा 11 विविंशतिश चित्रसेनॊ विकर्णश च महारथः सत्यव्रतः पुरुमित्रॊ जयॊ भूरिश्रवाः शलः 12 रथा विंशतिसाहस्रास तथैषाम अनुयायिनः अभीषाहाः शूरसेनाः शिबयॊ ऽथ वसातयः 13 शाल्वा मत्स्यास तथाम्बष्ठास तरिगर्ताः केकयास तथा सौवीराः कितवाः पराच्याः परतीच्यॊदीच्यमालवाः 14 दवादशैते जनपदाः सर्वे शूरास तनुत्यजः महता रथवंशेन ते ऽभयरक्षन पितामहम 15 अनीकं दशसाहस्रं कुञ्जराणां तरस्विनाम माघदॊ येन नृपतिस तद्रथानीकम अन्वयात 16 रथानां चक्ररक्षाश च पादप्रक्षाश च दन्तिनाम अभूवन वाहिनीमध्ये शतानाम अयुतानि षट 17 पादाताश चाग्रतॊ ऽगच्छन धनुश चर्मासि पाणयः अनेकशतसाहस्रा नखरप्रासयॊधिनः 18 अक्षौहिण्यॊ दशैका च तव पुत्रस्य भारत अदृश्यन्त महाराज गङ्गेव यमुनान्तरे |
1
[s] tato muhūrtāt tumulaḥ śabdo hṛdayakampanaḥ aśrūyata mahārāja yodhānāṃ prayuyutsatām 2 śaṅkhadundubhinirghoṣair vāraṇānāṃ ca bṛṃhitaiḥ rathānāṃ nemighoṣaiś ca dīryatīva vasuṃdharā 3 hayānāṃ heṣamāṇānāṃ yodhānāṃ tatra garjatām kṣaṇena khaṃ diśaś caiva śabdenāpūritaṃ tadā 4 putrāṇāṃ tava durdharṣe pāṇḍavānāṃ tathaiva ca samakampanta sainyāni parasparasamāgame 5 tatra nāgā rathāś caiva jāmbūnadavibhūṣitāḥ bhrājamānā vyadṛśyanta meghā iva sa vidyutaḥ 6 dhvajā bahuvidhākārās tāvakānāṃ narādhipa kāñcanāṅgadino rejur jvalitā iva pāvakāḥ 7 sveṣāṃ caiva pareṣāṃ ca samadṛśyanta bhārata mahendra ketavaḥ śubhrā mahendra sadaneṣv iva 8 kāñcanaiḥ kavacair vīrā jvalanārkasamaprabhaiḥ saṃnaddhāḥ pratyadṛśyanta grahāḥ prajvalitā iva 9 udyatair āyudhaiś citrais talabaddhāḥ patākinaḥ ṛṣabhākṣā maheṣvāsāś camūmukhagatā babhuḥ 10 pṛṣṭhagopās tu bhīṣmasya putrās tava narādhipa duḥśāsano durviṣaho durmukho duḥsahas tathā 11 viviṃśatiś citraseno vikarṇaś ca mahārathaḥ satyavrataḥ purumitro jayo bhūriśravāḥ śalaḥ 12 rathā viṃśatisāhasrās tathaiṣām anuyāyinaḥ abhīṣāhāḥ śūrasenāḥ śibayo 'tha vasātayaḥ 13 śālvā matsyās tathāmbaṣṭhās trigartāḥ kekayās tathā sauvīrāḥ kitavāḥ prācyāḥ pratīcyodīcyamālavāḥ 14 dvādaśaite janapadāḥ sarve śūrās tanutyajaḥ mahatā rathavaṃśena te 'bhyarakṣan pitāmaham 15 anīkaṃ daśasāhasraṃ kuñjarāṇāṃ tarasvinām māghado yena nṛpatis tadrathānīkam anvayāt 16 rathānāṃ cakrarakṣāś ca pādaprakṣāś ca dantinām abhūvan vāhinīmadhye śatānām ayutāni ṣaṭ 17 pādātāś cāgrato 'gacchan dhanuś carmāsi pāṇayaḥ anekaśatasāhasrā nakharaprāsayodhinaḥ 18 akṣauhiṇyo daśaikā ca tava putrasya bhārata adṛśyanta mahārāja gaṅgeva yamunāntare |
The Mahabharata in Sanskrit
Book 6
Chapter 19
|
1
[धृ] अक्षौहिण्यॊ दशैकां च वयूढां दृष्ट्वा युधिष्ठिरः कथम अल्पेन सैन्येन परत्यव्यूहत पाण्डवः 2 यॊ वेद मानुषं वयूहं दैवं गान्धर्वम आसुरम कथं भीष्मं स कौन्तेयः परत्यव्यूहत पाण्डवः 3 [स] धार्तराष्ट्राण्य अनीकानि दृष्ट्वा वयूढानि पाण्डवः अभ्यभाषत धर्मात्मा धर्मराजॊ धनंजयम 4 महर्षेर वचनात तात वेदयन्ति बृहस्पतेः संहतान यॊधयेद अल्पान कामं विस्तारयेद बहून 5 सूचीमुखम अनीकं सयाद अल्पानां बहुभिः सह अस्माकं च तथा सैन्यम अल्पीयः सुतरां परैः 6 एतद वचनम आज्ञाय महर्षेर वयूह पाण्डव तच छरुत्वा धर्मराजस्य परत्यभाषत फल्गुणः 7 एष वयूहामि ते राजन वयूहं परमदुर्जयम अचलं नाम वज्राख्यं विहितं वज्रपाणिना 8 यः स वात इवॊद्धूतः समरे दुःसहः परैः स नः पुरॊ यॊत्स्यति वै भीमः परहरतां वरः 9 तेजांसि रिपुसैन्यानां मृद्नन पुरुषसत्तमः अग्रे ऽगरणीर यास्यति नॊ युद्धॊपाय विचक्षणः 10 यं दृष्ट्वा पार्थिवाः सर्वे दुर्यॊधन पुरॊगमाः निवर्तिष्यन्ति संभ्रान्ताः सिंहं कषुद्रमृगा इव 11 तं सर्वे संश्रयिष्यामः पराकारम अकुतॊभयम भीमं परहरतां शरेष्ठं वज्रपाणिम इवामराः 12 न हि सॊ ऽसति पुमाँल लॊके यः संक्रुद्धं वृकॊदरम दरष्टुम अत्युग्र कर्माणं विषहेत नरर्षभम 13 भीमसेनॊ गदां बिभ्रद वज्रसारमयीं दृढाम चरन वेगेन महता समुद्रम अपि शॊषयेत 14 केकया धृष्टकेतुश च चेकितानश च वीर्यवान एत तिष्ठन्ति सामात्याः परेक्षकास ते नरेश्वर 15 धृतराष्ट्रस्य दायादा इति बीभत्सुर अब्रवीत बरुवाणं तु तथा पार्थं सर्वसैन्यानि मारिष अपूजयंस तदा वाग्भिर अनुकूलाभिर आहवे 16 एवम उक्त्वा महाबाहुस तथा चक्रे धनंजयः वयूह्य तानि बलान्य आशु परययौ फल्गुनस तदा 17 संप्रयातान कुरून दृष्ट्वा पाण्डवानां महाचमूः गङ्गेव पूर्णा सतिमिता सयन्दमाना वयदृश्यत 18 भीमसेनॊ ऽगरणीस तेषां धृष्टद्युम्नश च पार्षतः नकुलः सहदेवश च धृष्टकेतुश च वीर्यवान 19 समुद्यॊज्य ततः पश्चाद राजाप्य अक्षौहिणी वृतः भरातृभिः सह पुत्रैश च सॊ ऽभयरक्षत पृष्ठतः 20 चक्ररक्षौ तु भीमस्य माद्रीपुत्रौ महाद्युती दरौपदेयाः स सौभद्राः पृष्ठगॊपास तरस्विनः 21 धृष्टद्युम्नश च पाञ्चाल्यस तेषां गॊप्ता महारथः सहितः पृतना शूरै रथमुख्यैः परभद्रकैः 22 शिखण्डी तु ततः पश्चाद अर्जुनेनाभिरक्षितः यत्तॊ भीष्मविनाशाय परययौ भरतर्षभ 23 पृष्ठगॊपॊ ऽरजुनस्यापि युयुधानॊ महारथः चक्ररक्षौ तु पाञ्चाल्यौ युधामन्यूत्तमौजसौ 24 राजा तु मध्यमानीके कुन्तीपुत्रॊ युधिष्ठिरः बृहद्भिः कुञ्जरैर मत्तैश चलद्भिर अचलैर इव 25 अक्षौहिण्या च पाञ्चाल्यॊ यज्ञसेनॊ महामनाः विराटम अन्वयात पश्चात पाण्डवार्थे पराक्रमी 26 तेषाम आदित्यचन्द्राभाः कनकॊत्तम भूषणाः नाना चिह्नधरा राजन रथेष्व आसन महाध्वजाः 27 समुत्सर्प्य ततः पश्चाद धृष्टद्युम्नॊ महारथः भरातृभिः सह पुत्रैश च सॊ ऽभयरक्षद युधिष्ठिरम 28 तवदीयानां परेषां च रथेषु विविधान धवजान अभिभूयार्जुनस्यैकॊ धवजस तस्थौ महाकपिः 29 पादातास तव अग्रतॊ ऽगच्छन्न असि शक्त्यृष्टि पाणयः अनेकशतसाहस्रा भीमसेनस्य रक्षिणः 30 वारणा दशसाहस्राः परभिन्नकरटा मुखाः शूरा हेममयैर जालैर दीप्यमाना इवाचलाः 31 कषरन्त इव जीमूता मदार्द्राः पद्मगन्धिनः राजानम अन्वयुः पश्चाच चलन्त इव पर्वताः 32 भीमसेनॊ गदां भीमां परकर्षन परिघॊपमाम परचकर्ष महत सैन्यं दुराधर्षॊ महामनाः 33 तम अर्कम इव दुष्प्रेक्ष्यं तपन्तं रश्मिमालिनम न शेकुः सर्वतॊ यॊधाः परतिवीक्षितुम अन्तिके 34 वज्रॊ नामैष तु वयूहॊ दुर्भिदः सर्वतॊ मुखः चापविद्युद धवजॊ घॊरॊ गुप्तॊ गाण्डीवधन्वना 35 यं परतिव्यूह्य तिष्ठन्ति पाण्डवास तव वाहिनीम अजेयॊ मानुषे लॊके पाण्डवैर अभिरक्षितः 36 संध्यां तिष्ठत्सु सैन्येषु सूर्यस्यॊदयनं परति परावात स पृषतॊ वायुर अनभ्रे सतनयित्नुमान 37 विष्वग वाताश च वान्त्य उग्रा नीचैः शर्कर कर्षिणः रजश चॊद्धूयमानं तु तमसाच छादयज जगत 38 पपात महती चॊल्का पराङ्मुखी भरतर्षभ उद्यन्तं सूर्यम आहत्य वयशीर्यत महास्वना 39 अथ सज्जीयमानेषु सैन्येषु भरतर्षभ निष्प्रभॊ ऽभयुदितात सूर्यः स घॊषॊ भूश चचाल ह वयशीर्यत स नादा च तदा भरतसत्तम 40 निर्घाता बहवॊ राजन दिक्षु सर्वासु चाभवन परादुरासीद रजस तीव्रं न पराज्ञायत किं चन 41 धवजानां धूयमानानां सहसा मातरिश्वना किङ्किणीजालनद्धानां काञ्चनस्रग्वतां रवैः 42 महतां स पताकानाम आदित्यसमतेजसाम सर्वं झण झणी भूतम आसीत तालवनेष्व इव 43 एवं ते पुरुषव्याघ्राः पाण्डवा युद्धनन्दिनः वयवस्थिताः परतिव्यूह्य तव पुत्रस्य वाहिनीम 44 सरंसन्त इव मज्जानॊ यॊधानां भरतर्षभ दृष्ट्वाग्रतॊ भीमसेनं गदापाणिम अवस्थितम |
1
[dhṛ] akṣauhiṇyo daśaikāṃ ca vyūḍhāṃ dṛṣṭvā yudhiṣṭhiraḥ katham alpena sainyena pratyavyūhata pāṇḍavaḥ 2 yo veda mānuṣaṃ vyūhaṃ daivaṃ gāndharvam āsuram kathaṃ bhīṣmaṃ sa kaunteyaḥ pratyavyūhata pāṇḍavaḥ 3 [s] dhārtarāṣṭrāṇy anīkāni dṛṣṭvā vyūḍhāni pāṇḍavaḥ abhyabhāṣata dharmātmā dharmarājo dhanaṃjayam 4 maharṣer vacanāt tāta vedayanti bṛhaspateḥ saṃhatān yodhayed alpān kāmaṃ vistārayed bahūn 5 sūcīmukham anīkaṃ syād alpānāṃ bahubhiḥ saha asmākaṃ ca tathā sainyam alpīyaḥ sutarāṃ paraiḥ 6 etad vacanam ājñāya maharṣer vyūha pāṇḍava tac chrutvā dharmarājasya pratyabhāṣata phalguṇaḥ 7 eṣa vyūhāmi te rājan vyūhaṃ paramadurjayam acalaṃ nāma vajrākhyaṃ vihitaṃ vajrapāṇinā 8 yaḥ sa vāta ivoddhūtaḥ samare duḥsahaḥ paraiḥ sa naḥ puro yotsyati vai bhīmaḥ praharatāṃ varaḥ 9 tejāṃsi ripusainyānāṃ mṛdnan puruṣasattamaḥ agre 'graṇīr yāsyati no yuddhopāya vicakṣaṇaḥ 10 yaṃ dṛṣṭvā pārthivāḥ sarve duryodhana purogamāḥ nivartiṣyanti saṃbhrāntāḥ siṃhaṃ kṣudramṛgā iva 11 taṃ sarve saṃśrayiṣyāmaḥ prākāram akutobhayam bhīmaṃ praharatāṃ śreṣṭhaṃ vajrapāṇim ivāmarāḥ 12 na hi so 'sti pumāṁl loke yaḥ saṃkruddhaṃ vṛkodaram draṣṭum atyugra karmāṇaṃ viṣaheta nararṣabham 13 bhīmaseno gadāṃ bibhrad vajrasāramayīṃ dṛḍhām caran vegena mahatā samudram api śoṣayet 14 kekayā dhṛṣṭaketuś ca cekitānaś ca vīryavān eta tiṣṭhanti sāmātyāḥ prekṣakās te nareśvara 15 dhṛtarāṣṭrasya dāyādā iti bībhatsur abravīt bruvāṇaṃ tu tathā pārthaṃ sarvasainyāni māriṣa apūjayaṃs tadā vāgbhir anukūlābhir āhave 16 evam uktvā mahābāhus tathā cakre dhanaṃjayaḥ vyūhya tāni balāny āśu prayayau phalgunas tadā 17 saṃprayātān kurūn dṛṣṭvā pāṇḍavānāṃ mahācamūḥ gaṅgeva pūrṇā stimitā syandamānā vyadṛśyata 18 bhīmaseno 'graṇīs teṣāṃ dhṛṣṭadyumnaś ca pārṣataḥ nakulaḥ sahadevaś ca dhṛṣṭaketuś ca vīryavān 19 samudyojya tataḥ paścād rājāpy akṣauhiṇī vṛtaḥ bhrātṛbhiḥ saha putraiś ca so 'bhyarakṣata pṛṣṭhataḥ 20 cakrarakṣau tu bhīmasya mādrīputrau mahādyutī draupadeyāḥ sa saubhadrāḥ pṛṣṭhagopās tarasvinaḥ 21 dhṛṣṭadyumnaś ca pāñcālyas teṣāṃ goptā mahārathaḥ sahitaḥ pṛtanā śūrai rathamukhyaiḥ prabhadrakaiḥ 22 śikhaṇḍī tu tataḥ paścād arjunenābhirakṣitaḥ yatto bhīṣmavināśāya prayayau bharatarṣabha 23 pṛṣṭhagopo 'rjunasyāpi yuyudhāno mahārathaḥ cakrarakṣau tu pāñcālyau yudhāmanyūttamaujasau 24 rājā tu madhyamānīke kuntīputro yudhiṣṭhiraḥ bṛhadbhiḥ kuñjarair mattaiś caladbhir acalair iva 25 akṣauhiṇyā ca pāñcālyo yajñaseno mahāmanāḥ virāṭam anvayāt paścāt pāṇḍavārthe parākramī 26 teṣām ādityacandrābhāḥ kanakottama bhūṣaṇāḥ nānā cihnadharā rājan ratheṣv āsan mahādhvajāḥ 27 samutsarpya tataḥ paścād dhṛṣṭadyumno mahārathaḥ bhrātṛbhiḥ saha putraiś ca so 'bhyarakṣad yudhiṣṭhiram 28 tvadīyānāṃ pareṣāṃ ca ratheṣu vividhān dhvajān abhibhūyārjunasyaiko dhvajas tasthau mahākapiḥ 29 pādātās tv agrato 'gacchann asi śaktyṛṣṭi pāṇayaḥ anekaśatasāhasrā bhīmasenasya rakṣiṇaḥ 30 vāraṇā daśasāhasrāḥ prabhinnakaraṭā mukhāḥ śūrā hemamayair jālair dīpyamānā ivācalāḥ 31 kṣaranta iva jīmūtā madārdrāḥ padmagandhinaḥ rājānam anvayuḥ paścāc calanta iva parvatāḥ 32 bhīmaseno gadāṃ bhīmāṃ prakarṣan parighopamām pracakarṣa mahat sainyaṃ durādharṣo mahāmanāḥ 33 tam arkam iva duṣprekṣyaṃ tapantaṃ raśmimālinam na śekuḥ sarvato yodhāḥ prativīkṣitum antike 34 vajro nāmaiṣa tu vyūho durbhidaḥ sarvato mukhaḥ cāpavidyud dhvajo ghoro gupto gāṇḍīvadhanvanā 35 yaṃ prativyūhya tiṣṭhanti pāṇḍavās tava vāhinīm ajeyo mānuṣe loke pāṇḍavair abhirakṣitaḥ 36 saṃdhyāṃ tiṣṭhatsu sainyeṣu sūryasyodayanaṃ prati prāvāt sa pṛṣato vāyur anabhre stanayitnumān 37 viṣvag vātāś ca vānty ugrā nīcaiḥ śarkara karṣiṇaḥ rajaś coddhūyamānaṃ tu tamasāc chādayaj jagat 38 papāta mahatī colkā prāṅmukhī bharatarṣabha udyantaṃ sūryam āhatya vyaśīryata mahāsvanā 39 atha sajjīyamāneṣu sainyeṣu bharatarṣabha niṣprabho 'bhyuditāt sūryaḥ sa ghoṣo bhūś cacāla ha vyaśīryata sa nādā ca tadā bharatasattama 40 nirghātā bahavo rājan dikṣu sarvāsu cābhavan prādurāsīd rajas tīvraṃ na prājñāyata kiṃ cana 41 dhvajānāṃ dhūyamānānāṃ sahasā mātariśvanā kiṅkiṇījālanaddhānāṃ kāñcanasragvatāṃ ravaiḥ 42 mahatāṃ sa patākānām ādityasamatejasām sarvaṃ jhaṇa jhaṇī bhūtam āsīt tālavaneṣv iva 43 evaṃ te puruṣavyāghrāḥ pāṇḍavā yuddhanandinaḥ vyavasthitāḥ prativyūhya tava putrasya vāhinīm 44 sraṃsanta iva majjāno yodhānāṃ bharatarṣabha dṛṣṭvāgrato bhīmasenaṃ gadāpāṇim avasthitam |
The Mahabharata in Sanskrit
Book 6
Chapter 20
|
1
[धृ] सूर्यॊदये संजय के नु पूर्वं; युयुत्सवॊ हृष्यमाणा इवासन मामका वा भीष्म नेत्राः समीके; पाण्डवा वा भीम नेत्रास तदानीम 2 केषां जघन्यौ सॊमसूर्यौ स वायू; केषां सेनां शवापदा वयाभषन्त केषां यूनां मुखवर्णाः परसन्नाः; सर्वं हय एतद बरूहि तत्त्वं यथावत 3 [स] उभे सेने तुल्यम इवॊपयाते; उभे वयूहे हृष्टरूपे नरेन्द्र उभे चित्रे वनराजि परकाशे; तथैवॊभे नागरथाश्वपूर्णे 4 उभे सेने बृहती भीमरूपे; तथैवॊभे भारत दुर्विषह्ये तथैवॊभे सवर्गजयाय सृष्टे; तथा हय उभे सत्पुरुषार्य गुप्ते 5 पश्चान मुखाः कुरवॊ धार्तराष्ट्राः; सथिताः पार्थाः पराङ्मुखा यॊत्स्यमानाः दैत्येन्द्र सेनेव च कौरवाणां; देवेन्द्र सेनेव च पाण्डवानाम 6 शुक्रॊ वायुः पृष्ठतः पाण्डवानां; धार्तराष्ट्राञ शवापदा वयाभषन्त गजेन्द्राणां मदगन्धांश च तीव्रान; न सेहिरे तव पुत्रस्य नागाः 7 दुर्यॊधनॊ हस्तिनं पद्मवर्णं; सुवर्णकक्ष्यं जातिबलं परभिन्नम समास्थितॊ मध्यगतः कुरूणां; संस्तूयमानॊ बन्दिभिर मागधैश च 8 चन्द्रप्रभं शवेतम अस्यातपत्रं; सौवर्णी सरग भराजते चॊत्तमाङ्गे तं सर्वतः शकुनिः पार्वतीयैः; सार्धं गान्धारैः पाति गान्धारराजः 9 भीष्मॊ ऽगरतः सर्वसैन्यस्य वृद्धः; शवेतच छत्रः शवेतधनुः स शङ्खः शवेतॊष्णीषः पाण्डुरेण धवजेन; शवेतैर अश्वैः शवेतशैलप्रकाशः 10 तस्य सैन्यं धार्तराष्ट्राश च सर्वे; बाह्लीकानाम एकदेशः शलश च ये चाम्बष्ठाः कषत्रिया ये च सिन्धौ; तथा सौवीराः पञ्च नदाश च शूराः 11 शॊणैर हयै रुक्मरथॊ महात्मा; दरॊणॊ महाबाहुर अदीनसत्त्वः आस्ते गुरुः परयशाः सर्वराज्ञां; पश्चाच चमूम इन्द्र इवाभिरक्षन 12 वार्द्धक्षत्रिः सर्वसैन्यस्य मध्ये; भूरिश्रवाः पुरुमित्रॊ जयश च शाल्वा मत्स्याः केकयाश चापि सर्वे; गजानीकैर भरातरॊ यॊत्स्यमानाः 13 शारद्वतश चॊत्तरधूर महात्मा; महेष्वासॊ गौतमश चित्रयॊधी शकैः किरातैर यवनैः पह्लवैश च; सार्धं चमूम उत्तरतॊ ऽभिपाति 14 महारथैर अन्धकवृष्णिभॊजैः; सौराष्ट्रकैर नैरृतैर आत्तशस्त्रैः बृहद्बलः कृतवर्माभिगुप्तॊ; बलं तवदीयं दक्षिणतॊ ऽभिपाति 15 संशप्तकानाम अयुतं रथानां; मृत्युर जयॊ वार्जुनस्येति सृष्टाः येनार्जुनस तेन राजन कृतास्त्राः; परयाता वै ते तरिगर्ताश च शूराः 16 साग्रं शतसहस्रं तु नागानां तव भारत नागे नागे रथशतं शतं चाश्वा रथे रथे 17 अश्वे ऽशवे दश धानुष्का धानुष्के दश चर्मिणः एवं वयूढान्य अनीकानि भीष्मेण तव भारत 18 अव्यूहन मानुषं वयूहं दैवं गान्धर्वम आसुरम दिवसे दिवसे पराप्ते भीष्मः शांतनवॊ ऽगरणीः 19 महारथौघविपुलः समुद्र इव पर्वणि भीष्मेण धार्तराष्ट्राणां वयूहः परत्यङ्मुखॊ युधि 20 अनन्तरूपा धवजिनी तवदीया; नरेन्द्र भीमा न तु पाण्डवानाम तां तव एव मन्ये बृहतीं दुष्प्रधृष्यां; यस्या नेतारौ केशवश चार्जुनश च |
1
[dhṛ] sūryodaye saṃjaya ke nu pūrvaṃ; yuyutsavo hṛṣyamāṇā ivāsan māmakā vā bhīṣma netrāḥ samīke; pāṇḍavā vā bhīma netrās tadānīm 2 keṣāṃ jaghanyau somasūryau sa vāyū; keṣāṃ senāṃ śvāpadā vyābhaṣanta keṣāṃ yūnāṃ mukhavarṇāḥ prasannāḥ; sarvaṃ hy etad brūhi tattvaṃ yathāvat 3 [s] ubhe sene tulyam ivopayāte; ubhe vyūhe hṛṣṭarūpe narendra ubhe citre vanarāji prakāśe; tathaivobhe nāgarathāśvapūrṇe 4 ubhe sene bṛhatī bhīmarūpe; tathaivobhe bhārata durviṣahye tathaivobhe svargajayāya sṛṣṭe; tathā hy ubhe satpuruṣārya gupte 5 paścān mukhāḥ kuravo dhārtarāṣṭrāḥ; sthitāḥ pārthāḥ prāṅmukhā yotsyamānāḥ daityendra seneva ca kauravāṇāṃ; devendra seneva ca pāṇḍavānām 6 śukro vāyuḥ pṛṣṭhataḥ pāṇḍavānāṃ; dhārtarāṣṭrāñ śvāpadā vyābhaṣanta gajendrāṇāṃ madagandhāṃś ca tīvrān; na sehire tava putrasya nāgāḥ 7 duryodhano hastinaṃ padmavarṇaṃ; suvarṇakakṣyaṃ jātibalaṃ prabhinnam samāsthito madhyagataḥ kurūṇāṃ; saṃstūyamāno bandibhir māgadhaiś ca 8 candraprabhaṃ śvetam asyātapatraṃ; sauvarṇī srag bhrājate cottamāṅge taṃ sarvataḥ śakuniḥ pārvatīyaiḥ; sārdhaṃ gāndhāraiḥ pāti gāndhārarājaḥ 9 bhīṣmo 'grataḥ sarvasainyasya vṛddhaḥ; śvetac chatraḥ śvetadhanuḥ sa śaṅkhaḥ śvetoṣṇīṣaḥ pāṇḍureṇa dhvajena; śvetair aśvaiḥ śvetaśailaprakāśaḥ 10 tasya sainyaṃ dhārtarāṣṭrāś ca sarve; bāhlīkānām ekadeśaḥ śalaś ca ye cāmbaṣṭhāḥ kṣatriyā ye ca sindhau; tathā sauvīrāḥ pañca nadāś ca śūrāḥ 11 śoṇair hayai rukmaratho mahātmā; droṇo mahābāhur adīnasattvaḥ āste guruḥ prayaśāḥ sarvarājñāṃ; paścāc camūm indra ivābhirakṣan 12 vārddhakṣatriḥ sarvasainyasya madhye; bhūriśravāḥ purumitro jayaś ca śālvā matsyāḥ kekayāś cāpi sarve; gajānīkair bhrātaro yotsyamānāḥ 13 śāradvataś cottaradhūr mahātmā; maheṣvāso gautamaś citrayodhī śakaiḥ kirātair yavanaiḥ pahlavaiś ca; sārdhaṃ camūm uttarato 'bhipāti 14 mahārathair andhakavṛṣṇibhojaiḥ; saurāṣṭrakair nairṛtair āttaśastraiḥ bṛhadbalaḥ kṛtavarmābhigupto; balaṃ tvadīyaṃ dakṣiṇato 'bhipāti 15 saṃśaptakānām ayutaṃ rathānāṃ; mṛtyur jayo vārjunasyeti sṛṣṭāḥ yenārjunas tena rājan kṛtāstrāḥ; prayātā vai te trigartāś ca śūrāḥ 16 sāgraṃ śatasahasraṃ tu nāgānāṃ tava bhārata nāge nāge rathaśataṃ śataṃ cāśvā rathe rathe 17 aśve 'śve daśa dhānuṣkā dhānuṣke daśa carmiṇaḥ evaṃ vyūḍhāny anīkāni bhīṣmeṇa tava bhārata 18 avyūhan mānuṣaṃ vyūhaṃ daivaṃ gāndharvam āsuram divase divase prāpte bhīṣmaḥ śāṃtanavo 'graṇīḥ 19 mahārathaughavipulaḥ samudra iva parvaṇi bhīṣmeṇa dhārtarāṣṭrāṇāṃ vyūhaḥ pratyaṅmukho yudhi 20 anantarūpā dhvajinī tvadīyā; narendra bhīmā na tu pāṇḍavānām tāṃ tv eva manye bṛhatīṃ duṣpradhṛṣyāṃ; yasyā netārau keśavaś cārjunaś ca |
The Mahabharata in Sanskrit
Book 6
Chapter 21
|
1
[स] बृहतीं धार्तराष्ट्राणां दृष्ट्वा सेनां समुद्यताम विषादम अगमद राजा कुन्तीपुत्रॊ युधिष्ठिरः 2 वयूहं भीष्मेण चाभेद्यं कल्पितं परेक्ष्य पाण्डवः अभेद्यम इव संप्रेक्ष्य विषण्णॊ ऽरजुनम अब्रवीत 3 धनंजय कथं शक्यम अस्माभिर यॊद्धुम आहवे धार्तराष्ट्रैर महाबाहॊ येषां यॊद्धा पितामहः 4 अक्षॊभ्यॊ ऽयम अभेद्यश च भीष्मेणामित्रकर्शिना कल्पितः शास्त्रदृष्टेन विधिना भूरि तेजसा 5 ते वयं संशयं पराप्ताः स सैन्याः शत्रुकर्शन कथम अस्मान महाव्यूहाद उद्यानं नॊ भविष्यति 6 अथार्जुनॊ ऽबरवीत पार्थं युधिष्ठिरम अमित्रहा विषण्णम अभिसंप्रेक्ष्य तव राजन्न अनीकिनाम 7 परज्ञयाभ्यधिकाञ शूरान गुणयुक्तान बहून अपि जयन्त्य अल्पतरा येन तन निबॊध विशां पते 8 तत तु ते कारणं राजन परवक्ष्याम्य अनसूयवे नारदस तम ऋषिर वेद भीष्मद्रॊणौ च पाण्डव 9 एतम एवार्थम आश्रित्य युद्धे देवासुरे ऽबरवीत पितामहः किल पुरा महेन्द्रादीन दिवौकसः 10 न तथा बलवीर्याभ्यां विजयन्ते जिगीषवः यथासत्यानृशंस्याभ्यां धर्मेणैवॊद्यमेन च 11 तयक्त्वाधर्मं च लॊभं च मॊहं चॊद्यमम आस्थिताः युध्यध्वम अनहंकारा यतॊ धर्मस ततॊ जयः 12 एवं राजन विजानीहि धरुवॊ ऽसमाकं रणे जयः यथा मे नारदः पराह यतः कृष्णस ततॊ जयः 13 गुणभूतॊ जयः कृष्णे पृष्ठतॊ ऽनवेति माधवम अन्यथा विजयश चास्य संनतिश चापरॊ गुणः 14 अनन्त तेजा गॊविन्दः शत्रुपूगेषु निर्व्यथः पुरुषः सनातनतमॊ यतः कृष्णस ततॊ जयः 15 पुरा हय एष हरिर भूत्वा वैकुण्ठॊ ऽकुण्ठसायकः सुरासुरान अवस्फूर्जन्न अब्रवीत के जयन्त्व इति 16 अनु कृष्णं जयेमेति यैर उक्तं तत्र तैर जितम तत्प्रसादाद धि तरैलॊक्यं पराप्तं शक्रादिभिः सुरैः 17 तस्य ते न वयथां कां चिद इह पश्यामि भारत यस्य ते जयम आशास्ते विश्वभुक तरिदशेश्वरः |
1
[s] bṛhatīṃ dhārtarāṣṭrāṇāṃ dṛṣṭvā senāṃ samudyatām viṣādam agamad rājā kuntīputro yudhiṣṭhiraḥ 2 vyūhaṃ bhīṣmeṇa cābhedyaṃ kalpitaṃ prekṣya pāṇḍavaḥ abhedyam iva saṃprekṣya viṣaṇṇo 'rjunam abravīt 3 dhanaṃjaya kathaṃ śakyam asmābhir yoddhum āhave dhārtarāṣṭrair mahābāho yeṣāṃ yoddhā pitāmahaḥ 4 akṣobhyo 'yam abhedyaś ca bhīṣmeṇāmitrakarśinā kalpitaḥ śāstradṛṣṭena vidhinā bhūri tejasā 5 te vayaṃ saṃśayaṃ prāptāḥ sa sainyāḥ śatrukarśana katham asmān mahāvyūhād udyānaṃ no bhaviṣyati 6 athārjuno 'bravīt pārthaṃ yudhiṣṭhiram amitrahā viṣaṇṇam abhisaṃprekṣya tava rājann anīkinām 7 prajñayābhyadhikāñ śūrān guṇayuktān bahūn api jayanty alpatarā yena tan nibodha viśāṃ pate 8 tat tu te kāraṇaṃ rājan pravakṣyāmy anasūyave nāradas tam ṛṣir veda bhīṣmadroṇau ca pāṇḍava 9 etam evārtham āśritya yuddhe devāsure 'bravīt pitāmahaḥ kila purā mahendrādīn divaukasaḥ 10 na tathā balavīryābhyāṃ vijayante jigīṣavaḥ yathāsatyānṛśaṃsyābhyāṃ dharmeṇaivodyamena ca 11 tyaktvādharmaṃ ca lobhaṃ ca mohaṃ codyamam āsthitāḥ yudhyadhvam anahaṃkārā yato dharmas tato jayaḥ 12 evaṃ rājan vijānīhi dhruvo 'smākaṃ raṇe jayaḥ yathā me nāradaḥ prāha yataḥ kṛṣṇas tato jayaḥ 13 guṇabhūto jayaḥ kṛṣṇe pṛṣṭhato 'nveti mādhavam anyathā vijayaś cāsya saṃnatiś cāparo guṇaḥ 14 ananta tejā govindaḥ śatrupūgeṣu nirvyathaḥ puruṣaḥ sanātanatamo yataḥ kṛṣṇas tato jayaḥ 15 purā hy eṣa harir bhūtvā vaikuṇṭho 'kuṇṭhasāyakaḥ surāsurān avasphūrjann abravīt ke jayantv iti 16 anu kṛṣṇaṃ jayemeti yair uktaṃ tatra tair jitam tatprasādād dhi trailokyaṃ prāptaṃ śakrādibhiḥ suraiḥ 17 tasya te na vyathāṃ kāṃ cid iha paśyāmi bhārata yasya te jayam āśāste viśvabhuk tridaśeśvaraḥ |
The Mahabharata in Sanskrit
Book 6
Chapter 22
|
1
[स] ततॊ युधिष्ठिरॊ राजा सवां सेनां समचॊदयत परतिव्यूहन्न अनीकानि भीष्मस्य भरतर्षभ 2 यथॊद्दिष्टान्य अनीकानि परत्यव्यूहन्त पाण्डवाः सवर्गं परम अभीप्सन्तः सुयुद्धेन कुरूद्वहाः 3 मध्ये शिखण्डिनॊ ऽनीकं रक्षितं सव्यसाचिना धृष्टद्युम्नस्य च सवयं भीष्मेण परिपालितम 4 अनीकं दक्षिणं राजन युयुधानेन पालितम शरीमता सात्वताग्र्येण शक्रेणेव धनुष्मता 5 महेन्द्र यानप्रतिमं रथं तु; सॊपस्करं हाटकरत्नचित्रम युधिष्ठिरः काञ्चनभाण्ड यॊक्त्रं; समास्थितॊ नागकुलस्य मध्ये 6 समुच्छ्रितं दान्तशलाकम अस्य; सुपाण्डुरं छत्रम अतीव भाति परदक्षिणं चैनम उपाचरन्ति; महर्षयः संस्तुतिभिर नरेन्द्रम 7 पुरॊहिताः शत्रुवधं वदन्तॊ; महर्षिवृद्धाः शरुतवन्त एव जप्यैश च मन्त्रैश च तथौषधीभिः; समन्ततः सवस्त्य अयनं परचक्रुः 8 ततः स वस्त्राणि तथैव गाश च; फलानि पुष्पाणि तथैव निष्कान कुरूत्तमॊ बराह्मण सान महात्मा; कुर्वन ययौ शक्र इवामरेभ्यः 9 सहस्रसूर्यः शतकिङ्किणीकः; परार्ध्य जाम्बूनदहेमचित्रः रथॊ ऽरजुनस्याग्निर इवार्चि माली; विभ्राजते शवेतहयः सुचक्रः 10 तम आस्थितः केशव संगृहीतं; कपिध्वजं गाण्डिवबाणहस्तः धनुर्धरॊ यस्य समः पृथिव्यां; न विद्यते नॊ भविता वा कदा चित 11 उद्वर्तयिष्यंस तव पुत्र सेनाम; अतीव रौद्रं स बिभर्ति रूपम अनायुधॊ यः सुभुजॊ भुजाभ्यां; नराश्वनागान युधि भस्म कुर्यात 12 स भीमसेनः सहितॊ यमाभ्यां; वृकॊदरॊ वीर रथस्य गॊप्ता तं परेक्ष्य मत्तर्षभ सिंहखेलं; लॊके महेन्द्रप्रतिमानकल्पम 13 समीक्ष्य सेनाग्रगतं दुरासदं; परविव्यथुः पङ्कगता इवॊष्ट्राः वृकॊदरं वारणराजदर्पं; यॊधास तवदीया भयविघ्न सत्त्वाः 14 अनीकमध्ये तिष्ठन्तं राजपुत्रं दुरासदम अब्रवीद भरतश्रेष्ठं गुडाकेशं जनार्दनः 15 [वा] य एष गॊप्ता परतपन बलस्थॊ; यॊ नः सेनां सिंह इवेक्षते च स एष भीष्मः कुरुवंशकेतुर; येनाहृतास तरिंशतॊ वाजिमेधाः 16 एतान्य अनीकानि महानुभावं; गूहन्ति मेघा इव घर्मरश्मिम एतानि हत्वा पुरुषप्रवीर; काङ्क्षस्व युद्धं भरतर्षभेण 17 [धृ] केषां परहृष्टास तत्राग्रे यॊधा युध्यन्ति संजय उदग्रमनसः के ऽतर के वा दीना विचेतसः 18 के पूर्वं पराहरंस तत्र युद्धे हृदयकम्पने मामकाः पाण्डवानां वा तन ममाचक्ष्व संजय 19 कस्य सेना समुदये गन्धमाल्यसमुद्भवः वाचः परदक्षिणाश चैव यॊधानाम अभिगर्जताम 20 [स] उभयॊः सेनयॊस तत्र यॊधा जहृषिरे मुदा सरग धूपपानगन्धानाम उभयत्र समुद्भवः 21 संहतानाम अनीकानां वयूढानां भरतर्षभ संसर्पताम उदीर्णानां विमर्दः सुमहान अभूत 22 वादित्रशब्दस तुमुलः शङ्खभेरी विमिश्रितः कुञ्जराणां च नदतां सैन्यानां च परहृष्यताम |
1
[s] tato yudhiṣṭhiro rājā svāṃ senāṃ samacodayat prativyūhann anīkāni bhīṣmasya bharatarṣabha 2 yathoddiṣṭāny anīkāni pratyavyūhanta pāṇḍavāḥ svargaṃ param abhīpsantaḥ suyuddhena kurūdvahāḥ 3 madhye śikhaṇḍino 'nīkaṃ rakṣitaṃ savyasācinā dhṛṣṭadyumnasya ca svayaṃ bhīṣmeṇa paripālitam 4 anīkaṃ dakṣiṇaṃ rājan yuyudhānena pālitam śrīmatā sātvatāgryeṇa śakreṇeva dhanuṣmatā 5 mahendra yānapratimaṃ rathaṃ tu; sopaskaraṃ hāṭakaratnacitram yudhiṣṭhiraḥ kāñcanabhāṇḍa yoktraṃ; samāsthito nāgakulasya madhye 6 samucchritaṃ dāntaśalākam asya; supāṇḍuraṃ chatram atīva bhāti pradakṣiṇaṃ cainam upācaranti; maharṣayaḥ saṃstutibhir narendram 7 purohitāḥ śatruvadhaṃ vadanto; maharṣivṛddhāḥ śrutavanta eva japyaiś ca mantraiś ca tathauṣadhībhiḥ; samantataḥ svasty ayanaṃ pracakruḥ 8 tataḥ sa vastrāṇi tathaiva gāś ca; phalāni puṣpāṇi tathaiva niṣkān kurūttamo brāhmaṇa sān mahātmā; kurvan yayau śakra ivāmarebhyaḥ 9 sahasrasūryaḥ śatakiṅkiṇīkaḥ; parārdhya jāmbūnadahemacitraḥ ratho 'rjunasyāgnir ivārci mālī; vibhrājate śvetahayaḥ sucakraḥ 10 tam āsthitaḥ keśava saṃgṛhītaṃ; kapidhvajaṃ gāṇḍivabāṇahastaḥ dhanurdharo yasya samaḥ pṛthivyāṃ; na vidyate no bhavitā vā kadā cit 11 udvartayiṣyaṃs tava putra senām; atīva raudraṃ sa bibharti rūpam anāyudho yaḥ subhujo bhujābhyāṃ; narāśvanāgān yudhi bhasma kuryāt 12 sa bhīmasenaḥ sahito yamābhyāṃ; vṛkodaro vīra rathasya goptā taṃ prekṣya mattarṣabha siṃhakhelaṃ; loke mahendrapratimānakalpam 13 samīkṣya senāgragataṃ durāsadaṃ; pravivyathuḥ paṅkagatā ivoṣṭrāḥ vṛkodaraṃ vāraṇarājadarpaṃ; yodhās tvadīyā bhayavighna sattvāḥ 14 anīkamadhye tiṣṭhantaṃ rājaputraṃ durāsadam abravīd bharataśreṣṭhaṃ guḍākeśaṃ janārdanaḥ 15 [vā] ya eṣa goptā pratapan balastho; yo naḥ senāṃ siṃha ivekṣate ca sa eṣa bhīṣmaḥ kuruvaṃśaketur; yenāhṛtās triṃśato vājimedhāḥ 16 etāny anīkāni mahānubhāvaṃ; gūhanti meghā iva gharmaraśmim etāni hatvā puruṣapravīra; kāṅkṣasva yuddhaṃ bharatarṣabheṇa 17 [dhṛ] keṣāṃ prahṛṣṭās tatrāgre yodhā yudhyanti saṃjaya udagramanasaḥ ke 'tra ke vā dīnā vicetasaḥ 18 ke pūrvaṃ prāharaṃs tatra yuddhe hṛdayakampane māmakāḥ pāṇḍavānāṃ vā tan mamācakṣva saṃjaya 19 kasya senā samudaye gandhamālyasamudbhavaḥ vācaḥ pradakṣiṇāś caiva yodhānām abhigarjatām 20 [s] ubhayoḥ senayos tatra yodhā jahṛṣire mudā srag dhūpapānagandhānām ubhayatra samudbhavaḥ 21 saṃhatānām anīkānāṃ vyūḍhānāṃ bharatarṣabha saṃsarpatām udīrṇānāṃ vimardaḥ sumahān abhūt 22 vāditraśabdas tumulaḥ śaṅkhabherī vimiśritaḥ kuñjarāṇāṃ ca nadatāṃ sainyānāṃ ca prahṛṣyatām |
The Mahabharata in Sanskrit
Book 6
Chapter 23
|
1
धृतराष्ट्र उवाच धर्मक्षेत्रे कुरुक्षेत्रे समवेता युयुत्सवः मामकाः पाण्डवाश चैव किम अकुर्वत संजय 2 संजय उवाच दृष्ट्वा तु पाण्डवानीकं वयूढं दुर्यॊधनस तदा आचार्यम उपसंगम्य राजा वचनम अब्रवीत 3 पश्यैतां पाण्डुपुत्राणाम आचार्य महतीं चमूम वयूढां दरुपदपुत्रेण तव शिष्येण धीमता 4 अत्र शूरा महेष्वासा भीमार्जुनसमा युधि युयुधानॊ विराटश च दरुपदश च महारथः 5 धृष्टकेतुश चेकितानः काशिराजश च वीर्यवान पुरुजित कुन्तिभॊजश च शैब्यश च नरपुंगवः 6 युधामन्युश च विक्रान्त उत्तमौजाश च वीर्यवान सौभद्रॊ दरौपदेयाश च सर्व एव महारथाः 7 अस्माकं तु विशिष्टा ये तान निबॊध दविजॊत्तम नायका मम सैन्यस्य संज्ञार्थं तान बरवीमि ते 8 भवान भीष्मश च कर्णश च कृपश च समितिंजयः अश्वत्थामा विकर्णश च सौमदत्तिर जयद्रथः 9 अन्ये च बहवः शूरा मदर्थे तयक्तजीविताः नानाशस्त्रप्रहरणाः सर्वे युद्धविशारदाः 10 अपर्याप्तं तद अस्माकं बलं भीष्माभिरक्षितम पर्याप्तं तव इदम एतेषां बलं भीमाभिरक्षितम 11 अयनेषु च सर्वेषु यथाभागम अवस्थिताः भीष्मम एवाभिरक्षन्तु भवन्तः सर्व एव हि 12 तस्य संजनयन हर्षं कुरुवृद्धः पितामहः सिंहनादं विनद्यॊच्चैः शङ्खं दध्मौ परतापवान 13 ततः शङ्खाश च भेर्यश च पणवानकगॊमुखाः सहसैवाभ्यहन्यन्त स शब्दस तुमुलॊ ऽभवत 14 ततः शवेतैर हयैर युक्ते महति सयन्दने सथितौ माधवः पाण्डवश चैव दिव्यौ शङ्खौ परदध्मतुः 15 पाञ्चजन्यं हृषीकेशॊ देवदत्तं धनंजयः पौण्ड्रं दध्मौ महाशङ्खं भीमकर्मा वृकॊदरः 16 अनन्तविजयं राजा कुन्तीपुत्रॊ युधिष्ठिरः नकुलः सहदेवश च सुघॊषमणिपुष्पकौ 17 काश्यश च परमेष्वासः शिखण्डी च महारथः धृष्टद्युम्नॊ विराटश च सात्यकिश चापराजितः 18 दरुपदॊ दरौपदेयाश च सर्वशः पृथिवीपते सौभद्रश च महाबाहुः शङ्खान दध्मुः पृथक पृथक 19 स घॊषॊ धार्तराष्ट्राणां हृदयानि वयदारयत नभश च पृथिवीं चैव तुमुलॊ वयनुनादयन 20 अथ वयवस्थितान दृष्ट्वा धार्तराष्ट्रान कपिध्वजः परवृत्ते शस्त्रसंपाते धनुर उद्यम्य पाण्डवः 21 हृषीकेशं तदा वाक्यम इदम आह महीपते सेनयॊर उभयॊर मध्ये रथं सथापय मे ऽचयुत 22 यावद एतान निरीक्षे ऽहं यॊद्धुकामान अवस्थितान कैर मया सह यॊद्धव्यम अस्मिन रणसमुद्यमे 23 यॊत्स्यमानान अवेक्षे ऽहं य एते ऽतर समागताः धार्तराष्ट्रस्य दुर्बुद्धेर युद्धे परियचिकीर्षवः 24 एवम उक्तॊ हृषीकेशॊ गुडाकेशेन भारत सेनयॊर उभयॊर मध्ये सथापयित्वा रथॊत्तमम 25 भीष्मद्रॊणप्रमुखतः सर्वेषां च महीक्षिताम उवाच पार्थ पश्यैतान समवेतान कुरून इति 26 तत्रापश्यत सथितान पार्थः पितॄन अथ पितामहान आचार्यान मातुलान भरातॄन पुत्रान पौत्रान सखींस तथा 27 शवशुरान सुहृदश चैव सेनयॊर उभयॊर अपि तान समीक्ष्य स कौन्तेयः सर्वान बन्धून अवस्थितान 28 कृपया परयाविष्टॊ विषीदन्न इदम अब्रवीत दृष्ट्वेमं सवजनं कृष्ण युयुत्सुं समुपस्थितम 29 सीदन्ति मम गात्राणि मुखं च परिशुष्यति वेपथुश च शरीरे मे रॊमहर्षश च जायते 30 गाण्डीवं सरंसते हस्तात तवक चैव परिदह्यते न च शक्नॊम्य अवस्थातुं भरमतीव च मे मनः 31 निमित्तानि च पश्यामि विपरीतानि केशव न च शरेयॊ ऽनुपश्यामि हत्वा सवजनम आहवे 32 न काङ्क्षे विजयं कृष्ण न च राज्यं सुखानि च किं नॊ राज्येन गॊविन्द किं भॊगैर जीवितेन वा 33 येषाम अर्थे काङ्क्षितं नॊ राज्यं भॊगाः सुखानि च त इमे ऽवस्थिता युद्धे पराणांस तयक्त्वा धनानि च 34 आचार्याः पितरः पुत्रास तथैव च पितामहाः मातुलाः शवशुराः पौत्राः शयालाः संबन्धिनस तथा 35 एतान न हन्तुम इच्छामि घनतॊ ऽपि मधुसूदन अपि तरैलॊक्यराज्यस्य हेतॊः किं नु महीकृते 36 निहत्य धार्तराष्ट्रान नः का परीतिः सयाज जनार्दन पापम एवाश्रयेद अस्मान हत्वैतान आततायिनः 37 तस्मान नार्हा वयं हन्तुं धार्तराष्ट्रान सवबान्धवान सवजनं हि कथं हत्वा सुखिनः सयाम माधव 38 यद्य अप्य एते न पश्यन्ति लॊभॊपहतचेतसः कुलक्षयकृतं दॊषं मित्रद्रॊहे च पातकम 39 कथं न जञेयम अस्माभिः पापाद अस्मान निवर्तितुम कुलक्षयकृतं दॊषं परपश्यद्भिर जनार्दन 40 कुलक्षये परणश्यन्ति कुलधर्माः सनातनाः धर्मे नष्टे कुलं कृत्स्नम अधर्मॊ ऽभिभवत्य उत 41 अधर्माभिभवात कृष्ण परदुष्यन्ति कुलस्त्रियः सत्रीषु दुष्टासु वार्ष्णेय जायते वर्णसंकरः 42 संकरॊ नरकायैव कुलघ्नानां कुलस्य च पतन्ति पितरॊ हय एषां लुप्तपिण्डॊदकक्रियाः 43 दॊषैर एतैः कुलघ्नानां वर्णसंकरकारकैः उत्साद्यन्ते जातिधर्माः कुलधर्माश च शाश्वताः 44 उत्सन्नकुलधर्माणां मनुष्याणां जनार्दन नरके नियतं वासॊ भवतीत्य अनुशुश्रुम 45 अहॊ बत महत पापं कर्तुं वयवसिता वयम यद राज्यसुखलॊभेन हन्तुं सवजनम उद्यताः 46 यदि माम अप्रतीकारम अशस्त्रं शस्त्रपाणयः धार्तराष्ट्रा रणे हन्युस तन मे कषेमतरं भवेत 47 एवम उक्त्वार्जुनः संख्ये रथॊपस्थ उपाविशत विसृज्य सशरं चापं शॊकसंविग्नमानसः |
1
dhṛtarāṣṭra uvāca dharmakṣetre kurukṣetre samavetā yuyutsavaḥ māmakāḥ pāṇḍavāś caiva kim akurvata saṃjaya 2 saṃjaya uvāca dṛṣṭvā tu pāṇḍavānīkaṃ vyūḍhaṃ duryodhanas tadā ācāryam upasaṃgamya rājā vacanam abravīt 3 paśyaitāṃ pāṇḍuputrāṇām ācārya mahatīṃ camūm vyūḍhāṃ drupadaputreṇa tava śiṣyeṇa dhīmatā 4 atra śūrā maheṣvāsā bhīmārjunasamā yudhi yuyudhāno virāṭaś ca drupadaś ca mahārathaḥ 5 dhṛṣṭaketuś cekitānaḥ kāśirājaś ca vīryavān purujit kuntibhojaś ca śaibyaś ca narapuṃgavaḥ 6 yudhāmanyuś ca vikrānta uttamaujāś ca vīryavān saubhadro draupadeyāś ca sarva eva mahārathāḥ 7 asmākaṃ tu viśiṣṭā ye tān nibodha dvijottama nāyakā mama sainyasya saṃjñārthaṃ tān bravīmi te 8 bhavān bhīṣmaś ca karṇaś ca kṛpaś ca samitiṃjayaḥ aśvatthāmā vikarṇaś ca saumadattir jayadrathaḥ 9 anye ca bahavaḥ śūrā madarthe tyaktajīvitāḥ nānāśastrapraharaṇāḥ sarve yuddhaviśāradāḥ 10 aparyāptaṃ tad asmākaṃ balaṃ bhīṣmābhirakṣitam paryāptaṃ tv idam eteṣāṃ balaṃ bhīmābhirakṣitam 11 ayaneṣu ca sarveṣu yathābhāgam avasthitāḥ bhīṣmam evābhirakṣantu bhavantaḥ sarva eva hi 12 tasya saṃjanayan harṣaṃ kuruvṛddhaḥ pitāmahaḥ siṃhanādaṃ vinadyoccaiḥ śaṅkhaṃ dadhmau pratāpavān 13 tataḥ śaṅkhāś ca bheryaś ca paṇavānakagomukhāḥ sahasaivābhyahanyanta sa śabdas tumulo 'bhavat 14 tataḥ śvetair hayair yukte mahati syandane sthitau mādhavaḥ pāṇḍavaś caiva divyau śaṅkhau pradadhmatuḥ 15 pāñcajanyaṃ hṛṣīkeśo devadattaṃ dhanaṃjayaḥ pauṇḍraṃ dadhmau mahāśaṅkhaṃ bhīmakarmā vṛkodaraḥ 16 anantavijayaṃ rājā kuntīputro yudhiṣṭhiraḥ nakulaḥ sahadevaś ca sughoṣamaṇipuṣpakau 17 kāśyaś ca parameṣvāsaḥ śikhaṇḍī ca mahārathaḥ dhṛṣṭadyumno virāṭaś ca sātyakiś cāparājitaḥ 18 drupado draupadeyāś ca sarvaśaḥ pṛthivīpate saubhadraś ca mahābāhuḥ śaṅkhān dadhmuḥ pṛthak pṛthak 19 sa ghoṣo dhārtarāṣṭrāṇāṃ hṛdayāni vyadārayat nabhaś ca pṛthivīṃ caiva tumulo vyanunādayan 20 atha vyavasthitān dṛṣṭvā dhārtarāṣṭrān kapidhvajaḥ pravṛtte śastrasaṃpāte dhanur udyamya pāṇḍavaḥ 21 hṛṣīkeśaṃ tadā vākyam idam āha mahīpate senayor ubhayor madhye rathaṃ sthāpaya me 'cyuta 22 yāvad etān nirīkṣe 'haṃ yoddhukāmān avasthitān kair mayā saha yoddhavyam asmin raṇasamudyame 23 yotsyamānān avekṣe 'haṃ ya ete 'tra samāgatāḥ dhārtarāṣṭrasya durbuddher yuddhe priyacikīrṣavaḥ 24 evam ukto hṛṣīkeśo guḍākeśena bhārata senayor ubhayor madhye sthāpayitvā rathottamam 25 bhīṣmadroṇapramukhataḥ sarveṣāṃ ca mahīkṣitām uvāca pārtha paśyaitān samavetān kurūn iti 26 tatrāpaśyat sthitān pārthaḥ pitṝn atha pitāmahān ācāryān mātulān bhrātṝn putrān pautrān sakhīṃs tathā 27 śvaśurān suhṛdaś caiva senayor ubhayor api tān samīkṣya sa kaunteyaḥ sarvān bandhūn avasthitān 28 kṛpayā parayāviṣṭo viṣīdann idam abravīt dṛṣṭvemaṃ svajanaṃ kṛṣṇa yuyutsuṃ samupasthitam 29 sīdanti mama gātrāṇi mukhaṃ ca pariśuṣyati vepathuś ca śarīre me romaharṣaś ca jāyate 30 gāṇḍīvaṃ sraṃsate hastāt tvak caiva paridahyate na ca śaknomy avasthātuṃ bhramatīva ca me manaḥ 31 nimittāni ca paśyāmi viparītāni keśava na ca śreyo 'nupaśyāmi hatvā svajanam āhave 32 na kāṅkṣe vijayaṃ kṛṣṇa na ca rājyaṃ sukhāni ca kiṃ no rājyena govinda kiṃ bhogair jīvitena vā 33 yeṣām arthe kāṅkṣitaṃ no rājyaṃ bhogāḥ sukhāni ca ta ime 'vasthitā yuddhe prāṇāṃs tyaktvā dhanāni ca 34 ācāryāḥ pitaraḥ putrās tathaiva ca pitāmahāḥ mātulāḥ śvaśurāḥ pautrāḥ śyālāḥ saṃbandhinas tathā 35 etān na hantum icchāmi ghnato 'pi madhusūdana api trailokyarājyasya hetoḥ kiṃ nu mahīkṛte 36 nihatya dhārtarāṣṭrān naḥ kā prītiḥ syāj janārdana pāpam evāśrayed asmān hatvaitān ātatāyinaḥ 37 tasmān nārhā vayaṃ hantuṃ dhārtarāṣṭrān svabāndhavān svajanaṃ hi kathaṃ hatvā sukhinaḥ syāma mādhava 38 yady apy ete na paśyanti lobhopahatacetasaḥ kulakṣayakṛtaṃ doṣaṃ mitradrohe ca pātakam 39 kathaṃ na jñeyam asmābhiḥ pāpād asmān nivartitum kulakṣayakṛtaṃ doṣaṃ prapaśyadbhir janārdana 40 kulakṣaye praṇaśyanti kuladharmāḥ sanātanāḥ dharme naṣṭe kulaṃ kṛtsnam adharmo 'bhibhavaty uta 41 adharmābhibhavāt kṛṣṇa praduṣyanti kulastriyaḥ strīṣu duṣṭāsu vārṣṇeya jāyate varṇasaṃkaraḥ 42 saṃkaro narakāyaiva kulaghnānāṃ kulasya ca patanti pitaro hy eṣāṃ luptapiṇḍodakakriyāḥ 43 doṣair etaiḥ kulaghnānāṃ varṇasaṃkarakārakaiḥ utsādyante jātidharmāḥ kuladharmāś ca śāśvatāḥ 44 utsannakuladharmāṇāṃ manuṣyāṇāṃ janārdana narake niyataṃ vāso bhavatīty anuśuśruma 45 aho bata mahat pāpaṃ kartuṃ vyavasitā vayam yad rājyasukhalobhena hantuṃ svajanam udyatāḥ 46 yadi mām apratīkāram aśastraṃ śastrapāṇayaḥ dhārtarāṣṭrā raṇe hanyus tan me kṣemataraṃ bhavet 47 evam uktvārjunaḥ saṃkhye rathopastha upāviśat visṛjya saśaraṃ cāpaṃ śokasaṃvignamānasaḥ |
The Mahabharata in Sanskrit
Book 6
Chapter 24
|
1
संजय उवाच तं तथा कृपयाविष्टम अश्रुपूर्णाकुलेक्षणम विषीदन्तम इदं वाक्यम उवाच मधुसूदनः 2 शरीभगवान उवाच कुतस तवा कश्मलम इदं विषमे समुपस्थितम अनार्यजुष्टम अस्वर्ग्यम अकीर्तिकरम अर्जुन 3 कलैब्यं मा सम गमः पार्थ नैतत तवय्य उपपद्यते कषुद्रं हृदयदौर्बल्यं तयक्त्वॊत्तिष्ठ परंतप 4 अर्जुन उवाच कथं भीष्मम अहं संख्ये दरॊणं च मधुसूदन इषुभिः परतियॊत्स्यामि पूजार्हाव अरिसूदन 5 गुरून अहत्वा हि महानुभावाञ; शरेयॊ भॊक्तुं भैक्ष्यम अपीह लॊके हत्वार्थकामांस तु गुरून इहैव; भुञ्जीय भॊगान रुधिरप्रदिग्धान 6 न चैतद विद्मः कतरन नॊ गरीयॊ; यद वा जयेम यदि वा नॊ जयेयुः यान एव हत्वा न जिजीविषामस; ते ऽवस्थिताः परमुखे धार्तराष्ट्राः 7 कार्पण्यदॊषॊपहतस्वभावः; पृच्छामि तवां धर्मसंमूढचेताः यच छरेयः सयान निश्चितं बरूहि तन मे; शिष्यस ते ऽहं शाधि मां तवां परपन्नम 8 न हि परपश्यामि ममापनुद्याद; यच छॊकम उच्छॊषणम इन्द्रियाणाम अवाप्य भूमाव असपत्नम ऋद्धं; राज्यं सुराणाम अपि चाधिपत्यम 9 संजय उवाच एवम उक्त्वा हृषीकेशं गुडाकेशः परंतपः न यॊत्स्य इति गॊविन्दम उक्त्वा तूष्णीं बभूव ह 10 तम उवाच हृषीकेशः परहसन्न इव भारत सेनयॊर उभयॊर मध्ये विषीदन्तम इदं वचः 11 शरीभगवान उवाच अशॊच्यान अन्वशॊचस तवं परज्ञावादांश च भाषसे गतासून अगतासूंश च नानुशॊचन्ति पण्डिताः 12 न तव एवाहं जातु नासं न तवं नेमे जनाधिपाः न चैव न भविष्यामः सर्वे वयम अतः परम 13 देहिनॊ ऽसमिन यथा देहे कौमारं यौवनं जरा तथा देहान्तरप्राप्तिर धीरस तत्र न मुह्यति 14 मात्रास्पर्शास तु कौन्तेय शीतॊष्णसुखदुःखदाः आगमापायिनॊ ऽनित्यास तांस तितिक्षस्व भारत 15 यं हि न वयथयन्त्य एते पुरुषं पुरुषर्षभ समदुःखसुखं धीरं सॊ ऽमृतत्वाय कल्पते 16 नासतॊ विद्यते भावॊ नाभावॊ विद्यते सतः उभयॊर अपि दृष्टॊ ऽनतस तव अनयॊस तत्त्वदर्शिभिः 17 अविनाशि तु तद विद्धि येन सर्वम इदं ततम विनाशम अव्ययस्यास्य न कश चित कर्तुम अर्हति 18 अन्तवन्त इमे देहा नित्यस्यॊक्ताः शरीरिणः अनाशिनॊ ऽपरमेयस्य तस्माद युध्यस्व भारत 19 य एनं वेत्ति हन्तारं यश चैनं मन्यते हतम उभौ तौ न विजानीतॊ नायं हन्ति न हन्यते 20 न जायते मरियते वा कदा चिन; नायं भूत्वा भविता वा न भूयः अजॊ नित्यः शाश्वतॊ ऽयं पुराणॊ; न हन्यते हन्यमाने शरीरे 21 वेदाविनाशिनं नित्यं य एनम अजम अव्ययम कथं स पुरुषः पार्थ कं घातयति हन्ति कम 22 वासांसि जीर्णानि यथा विहाय; नवानि गृह्णाति नरॊ ऽपराणि तथा शरीराणि विहाय जीर्णानि; अन्यानि संयाति नवानि देही 23 नैनं छिन्दन्ति शस्त्राणि नैनं दहति पावकः न चैनं कलेदयन्त्य आपॊ न शॊषयति मारुतः 24 अच्छेद्यॊ ऽयम अदाह्यॊ ऽयम अक्लेद्यॊ ऽशॊष्य एव च नित्यः सर्वगतः सथाणुर अचलॊ ऽयं सनातनः 25 अव्यक्तॊ ऽयम अचिन्त्यॊ ऽयम अविकार्यॊ ऽयम उच्यते तस्माद एवं विदित्वैनं नानुशॊचितुम अर्हसि 26 अथ चैनं नित्यजातं नित्यं वा मन्यसे मृतम तथापि तवं महाबाहॊ नैवं शॊचितुम अर्हसि 27 जातस्य हि धरुवॊ मृत्युर धरुवं जन्म मृतस्य च तस्माद अपरिहार्ये ऽरथे न तवं शॊचितुम अर्हसि 28 अव्यक्तादीनि भूतानि वयक्तमध्यानि भारत अव्यक्तनिधनान्य एव तत्र का परिदेवना 29 आश्चर्यवत पश्यति कश चिद एनम; आश्चर्यवद वदति तथैव चान्यः आश्चर्यवच चैनम अन्यः शृणॊति; शरुत्वाप्य एनं वेद न चैव कश चित 30 देही नित्यम अवध्यॊ ऽयं देहे सर्वस्य भारत तस्मात सर्वाणि भूतानि न तवं शॊचितुम अर्हसि 31 सवधर्मम अपि चावेक्ष्य न विकम्पितुम अर्हसि धर्म्याद धि युद्धाच छरेयॊ ऽनयत कषत्रियस्य न विद्यते 32 यदृच्छया चॊपपन्नं सवर्गद्वारम अपावृतम सुखिनः कषत्रियाः पार्थ लभन्ते युद्धम ईदृशम 33 अथ चेत तवम इमं धर्म्यं संग्रामं न करिष्यसि ततः सवधर्मं कीर्तिं च हित्वा पापम अवाप्स्यसि 34 अकीर्तिं चापि भूतानि कथयिष्यन्ति ते ऽवययाम संभावितस्य चाकीर्तिर मरणाद अतिरिच्यते 35 भयाद रणाद उपरतं मंस्यन्ते तवां महारथाः येषां च तवं बहुमतॊ भूत्वा यास्यसि लाघवम 36 अवाच्यवादांश च बहून वदिष्यन्ति तवाहिताः निन्दन्तस तव सामर्थ्यं ततॊ दुःखतरं नु किम 37 हतॊ वा पराप्स्यसि सवर्गं जित्वा वा भॊक्ष्यसे महीम तस्माद उत्तिष्ठ कौन्तेय युद्धाय कृतनिश्चयः 38 सुखदुःखे समे कृत्वा लाभालाभौ जयाजयौ ततॊ युद्धाय युज्यस्व नैवं पापम अवाप्स्यसि 39 एषा ते ऽभिहिता सांख्ये बुद्धिर यॊगे तव इमां शृणु बुद्ध्या युक्तॊ यया पार्थ कर्मबन्धं परहास्यसि 40 नेहाभिक्रमनाशॊ ऽसति परत्यवायॊ न विद्यते सवल्पम अप्य अस्य धर्मस्य तरायते महतॊ भयात 41 वयवसायात्मिका बुद्धिर एकेह कुरुनन्दन बहुशाखा हय अनन्ताश च बुद्धयॊ ऽवयवसायिनाम 42 याम इमां पुष्पितां वाचं परवदन्त्य अविपश्चितः वेदवादरताः पार्थ नान्यद अस्तीति वादिनः 43 कामात्मानः सवर्गपरा जन्मकर्मफलप्रदाम करियाविशेषबहुलां भॊगैश्वर्यगतिं परति 44 भॊगैश्वर्यप्रसक्तानां तयापहृतचेतसाम वयवसायात्मिका बुद्धिः समाधौ न विधीयते 45 तरैगुण्यविषया वेदा निस्त्रैगुण्यॊ भवार्जुन निर्द्वन्द्वॊ नित्यसत्त्वस्थॊ निर्यॊगक्षेम आत्मवान 46 यावान अर्थ उदपाने सर्वतः संप्लुतॊदके तावान सर्वेषु वेदेषु बराह्मणस्य विजानतः 47 कर्मण्य एवाधिकारस ते मा फलेषु कदा चन मा कर्मफलहेतुर भूर मा ते सङ्गॊ ऽसत्व अकर्मणि 48 यॊगस्थः कुरु कर्माणि सङ्गं तयक्त्वा धनंजय सिद्ध्यसिद्ध्यॊः समॊ भूत्वा समत्वं यॊग उच्यते 49 दूरेण हय अवरं कर्म बुद्धियॊगाद धनंजय बुद्धौ शरणम अन्विच्छ कृपणाः फलहेतवः 50 बुद्धियुक्तॊ जहातीह उभे सुकृतदुष्कृते तस्माद यॊगाय युज्यस्व यॊगः कर्मसु कौशलम 51 कर्मजं बुद्धियुक्ता हि फलं तयक्त्वा मनीषिणः जन्मबन्धविनिर्मुक्ताः पदं गच्छन्त्य अनामयम 52 यदा ते मॊहकलिलं बुद्धिर वयतितरिष्यति तदा गन्तासि निर्वेदं शरॊतव्यस्य शरुतस्य च 53 शरुतिविप्रतिपन्ना ते यदा सथास्यति निश्चला समाधाव अचला बुद्धिस तदा यॊगम अवाप्स्यसि 54 अर्जुन उवाच सथितप्रज्ञस्य का भाषा समाधिस्थस्य केशव सथितधीः किं परभाषेत किम आसीत वरजेत किम 55 परजहाति यदा कामान सर्वान पार्थ मनॊगतान आत्मन्य एवात्मना तुष्टः सथितप्रज्ञस तदॊच्यते 56 दुःखेष्व अनुद्विग्नमनाः सुखेषु विगतस्पृहः वीतरागभयक्रॊधः सथितधीर मुनिर उच्यते 57 यः सर्वत्रानभिस्नेहस तत तत पराप्य शुभाशुभम नाभिनन्दति न दवेष्टि तस्य परज्ञा परतिष्ठिता 58 यदा संहरते चायं कूर्मॊ ऽङगानीव सर्वशः इन्द्रियाणीन्द्रियार्थेभ्यस तस्य परज्ञा परतिष्ठिता 59 विषया विनिवर्तन्ते निराहारस्य देहिनः रसवर्जं रसॊ ऽपय अस्य परं दृष्ट्वा निवर्तते 60 यततॊ हय अपि कौन्तेय पुरुषस्य विपश्चितः इन्द्रियाणि परमाथीनि हरन्ति परसभं मनः 61 तानि सर्वाणि संयम्य युक्त आसीत मत्परः वशे हि यस्येन्द्रियाणि तस्य परज्ञा परतिष्ठिता 62 धयायतॊ विषयान पुंसः सङ्गस तेषूपजायते सङ्गात संजायते कामः कामात करॊधॊ ऽभिजायते 63 करॊधाद भवति संमॊहः संमॊहात समृतिविभ्रमः समृतिभ्रंशाद बुद्धिनाशॊ बुद्धिनाशात परणश्यति 64 रागद्वेषवियुक्तैस तु विषयान इन्द्रियैश चरन आत्मवश्यैर विधेयात्मा परसादम अधिगच्छति 65 परसादे सर्वदुःखानां हानिर अस्यॊपजायते परसन्नचेतसॊ हय आशु बुद्धिः पर्यवतिष्ठते 66 नास्ति बुद्धिर अयुक्तस्य न चायुक्तस्य भावना न चाभावयतः शान्तिर अशान्तस्य कुतः सुखम 67 इन्द्रियाणां हि चरतां यन मनॊ ऽनुविधीयते तद अस्य हरति परज्ञां वायुर नावम इवाम्भसि 68 तस्माद यस्य महाबाहॊ निगृहीतानि सर्वशः इन्द्रियाणीन्द्रियार्थेभ्यस तस्य परज्ञा परतिष्ठिता 69 या निशा सर्वभूतानां तस्यां जागर्ति संयमी यस्यां जाग्रति भूतानि सा निशा पश्यतॊ मुनेः 70 आपूर्यमाणम अचलप्रतिष्ठं; समुद्रम आपः परविशन्ति यद्वत तद्वत कामा यं परविशन्ति सर्वे; स शान्तिम आप्नॊति न कामकामी 71 विहाय कामान यः सर्वान पुमांश चरति निःस्पृहः निर्ममॊ निरहंकारः स शान्तिम अधिगच्छति 72 एषा बराह्मी सथितिः पार्थ नैनां पराप्य विमुह्यति सथित्वास्याम अन्तकाले ऽपि बरह्मनिर्वाणम ऋच्छति |
1
saṃjaya uvāca taṃ tathā kṛpayāviṣṭam aśrupūrṇākulekṣaṇam viṣīdantam idaṃ vākyam uvāca madhusūdanaḥ 2 śrībhagavān uvāca kutas tvā kaśmalam idaṃ viṣame samupasthitam anāryajuṣṭam asvargyam akīrtikaram arjuna 3 klaibyaṃ mā sma gamaḥ pārtha naitat tvayy upapadyate kṣudraṃ hṛdayadaurbalyaṃ tyaktvottiṣṭha paraṃtapa 4 arjuna uvāca kathaṃ bhīṣmam ahaṃ saṃkhye droṇaṃ ca madhusūdana iṣubhiḥ pratiyotsyāmi pūjārhāv arisūdana 5 gurūn ahatvā hi mahānubhāvāñ; śreyo bhoktuṃ bhaikṣyam apīha loke hatvārthakāmāṃs tu gurūn ihaiva; bhuñjīya bhogān rudhirapradigdhān 6 na caitad vidmaḥ kataran no garīyo; yad vā jayema yadi vā no jayeyuḥ yān eva hatvā na jijīviṣāmas; te 'vasthitāḥ pramukhe dhārtarāṣṭrāḥ 7 kārpaṇyadoṣopahatasvabhāvaḥ; pṛcchāmi tvāṃ dharmasaṃmūḍhacetāḥ yac chreyaḥ syān niścitaṃ brūhi tan me; śiṣyas te 'haṃ śādhi māṃ tvāṃ prapannam 8 na hi prapaśyāmi mamāpanudyād; yac chokam ucchoṣaṇam indriyāṇām avāpya bhūmāv asapatnam ṛddhaṃ; rājyaṃ surāṇām api cādhipatyam 9 saṃjaya uvāca evam uktvā hṛṣīkeśaṃ guḍākeśaḥ paraṃtapaḥ na yotsya iti govindam uktvā tūṣṇīṃ babhūva ha 10 tam uvāca hṛṣīkeśaḥ prahasann iva bhārata senayor ubhayor madhye viṣīdantam idaṃ vacaḥ 11 śrībhagavān uvāca aśocyān anvaśocas tvaṃ prajñāvādāṃś ca bhāṣase gatāsūn agatāsūṃś ca nānuśocanti paṇḍitāḥ 12 na tv evāhaṃ jātu nāsaṃ na tvaṃ neme janādhipāḥ na caiva na bhaviṣyāmaḥ sarve vayam ataḥ param 13 dehino 'smin yathā dehe kaumāraṃ yauvanaṃ jarā tathā dehāntaraprāptir dhīras tatra na muhyati 14 mātrāsparśās tu kaunteya śītoṣṇasukhaduḥkhadāḥ āgamāpāyino 'nityās tāṃs titikṣasva bhārata 15 yaṃ hi na vyathayanty ete puruṣaṃ puruṣarṣabha samaduḥkhasukhaṃ dhīraṃ so 'mṛtatvāya kalpate 16 nāsato vidyate bhāvo nābhāvo vidyate sataḥ ubhayor api dṛṣṭo 'ntas tv anayos tattvadarśibhiḥ 17 avināśi tu tad viddhi yena sarvam idaṃ tatam vināśam avyayasyāsya na kaś cit kartum arhati 18 antavanta ime dehā nityasyoktāḥ śarīriṇaḥ anāśino 'prameyasya tasmād yudhyasva bhārata 19 ya enaṃ vetti hantāraṃ yaś cainaṃ manyate hatam ubhau tau na vijānīto nāyaṃ hanti na hanyate 20 na jāyate mriyate vā kadā cin; nāyaṃ bhūtvā bhavitā vā na bhūyaḥ ajo nityaḥ śāśvato 'yaṃ purāṇo; na hanyate hanyamāne śarīre 21 vedāvināśinaṃ nityaṃ ya enam ajam avyayam kathaṃ sa puruṣaḥ pārtha kaṃ ghātayati hanti kam 22 vāsāṃsi jīrṇāni yathā vihāya; navāni gṛhṇāti naro 'parāṇi tathā śarīrāṇi vihāya jīrṇāni; anyāni saṃyāti navāni dehī 23 nainaṃ chindanti śastrāṇi nainaṃ dahati pāvakaḥ na cainaṃ kledayanty āpo na śoṣayati mārutaḥ 24 acchedyo 'yam adāhyo 'yam akledyo 'śoṣya eva ca nityaḥ sarvagataḥ sthāṇur acalo 'yaṃ sanātanaḥ 25 avyakto 'yam acintyo 'yam avikāryo 'yam ucyate tasmād evaṃ viditvainaṃ nānuśocitum arhasi 26 atha cainaṃ nityajātaṃ nityaṃ vā manyase mṛtam tathāpi tvaṃ mahābāho naivaṃ śocitum arhasi 27 jātasya hi dhruvo mṛtyur dhruvaṃ janma mṛtasya ca tasmād aparihārye 'rthe na tvaṃ śocitum arhasi 28 avyaktādīni bhūtāni vyaktamadhyāni bhārata avyaktanidhanāny eva tatra kā paridevanā 29 āścaryavat paśyati kaś cid enam; āścaryavad vadati tathaiva cānyaḥ āścaryavac cainam anyaḥ śṛṇoti; śrutvāpy enaṃ veda na caiva kaś cit 30 dehī nityam avadhyo 'yaṃ dehe sarvasya bhārata tasmāt sarvāṇi bhūtāni na tvaṃ śocitum arhasi 31 svadharmam api cāvekṣya na vikampitum arhasi dharmyād dhi yuddhāc chreyo 'nyat kṣatriyasya na vidyate 32 yadṛcchayā copapannaṃ svargadvāram apāvṛtam sukhinaḥ kṣatriyāḥ pārtha labhante yuddham īdṛśam 33 atha cet tvam imaṃ dharmyaṃ saṃgrāmaṃ na kariṣyasi tataḥ svadharmaṃ kīrtiṃ ca hitvā pāpam avāpsyasi 34 akīrtiṃ cāpi bhūtāni kathayiṣyanti te 'vyayām saṃbhāvitasya cākīrtir maraṇād atiricyate 35 bhayād raṇād uparataṃ maṃsyante tvāṃ mahārathāḥ yeṣāṃ ca tvaṃ bahumato bhūtvā yāsyasi lāghavam 36 avācyavādāṃś ca bahūn vadiṣyanti tavāhitāḥ nindantas tava sāmarthyaṃ tato duḥkhataraṃ nu kim 37 hato vā prāpsyasi svargaṃ jitvā vā bhokṣyase mahīm tasmād uttiṣṭha kaunteya yuddhāya kṛtaniścayaḥ 38 sukhaduḥkhe same kṛtvā lābhālābhau jayājayau tato yuddhāya yujyasva naivaṃ pāpam avāpsyasi 39 eṣā te 'bhihitā sāṃkhye buddhir yoge tv imāṃ śṛṇu buddhyā yukto yayā pārtha karmabandhaṃ prahāsyasi 40 nehābhikramanāśo 'sti pratyavāyo na vidyate svalpam apy asya dharmasya trāyate mahato bhayāt 41 vyavasāyātmikā buddhir ekeha kurunandana bahuśākhā hy anantāś ca buddhayo 'vyavasāyinām 42 yām imāṃ puṣpitāṃ vācaṃ pravadanty avipaścitaḥ vedavādaratāḥ pārtha nānyad astīti vādinaḥ 43 kāmātmānaḥ svargaparā janmakarmaphalapradām kriyāviśeṣabahulāṃ bhogaiśvaryagatiṃ prati 44 bhogaiśvaryaprasaktānāṃ tayāpahṛtacetasām vyavasāyātmikā buddhiḥ samādhau na vidhīyate 45 traiguṇyaviṣayā vedā nistraiguṇyo bhavārjuna nirdvandvo nityasattvastho niryogakṣema ātmavān 46 yāvān artha udapāne sarvataḥ saṃplutodake tāvān sarveṣu vedeṣu brāhmaṇasya vijānataḥ 47 karmaṇy evādhikāras te mā phaleṣu kadā cana mā karmaphalahetur bhūr mā te saṅgo 'stv akarmaṇi 48 yogasthaḥ kuru karmāṇi saṅgaṃ tyaktvā dhanaṃjaya siddhyasiddhyoḥ samo bhūtvā samatvaṃ yoga ucyate 49 dūreṇa hy avaraṃ karma buddhiyogād dhanaṃjaya buddhau śaraṇam anviccha kṛpaṇāḥ phalahetavaḥ 50 buddhiyukto jahātīha ubhe sukṛtaduṣkṛte tasmād yogāya yujyasva yogaḥ karmasu kauśalam 51 karmajaṃ buddhiyuktā hi phalaṃ tyaktvā manīṣiṇaḥ janmabandhavinirmuktāḥ padaṃ gacchanty anāmayam 52 yadā te mohakalilaṃ buddhir vyatitariṣyati tadā gantāsi nirvedaṃ śrotavyasya śrutasya ca 53 śrutivipratipannā te yadā sthāsyati niścalā samādhāv acalā buddhis tadā yogam avāpsyasi 54 arjuna uvāca sthitaprajñasya kā bhāṣā samādhisthasya keśava sthitadhīḥ kiṃ prabhāṣeta kim āsīta vrajeta kim 55 prajahāti yadā kāmān sarvān pārtha manogatān ātmany evātmanā tuṣṭaḥ sthitaprajñas tadocyate 56 duḥkheṣv anudvignamanāḥ sukheṣu vigataspṛhaḥ vītarāgabhayakrodhaḥ sthitadhīr munir ucyate 57 yaḥ sarvatrānabhisnehas tat tat prāpya śubhāśubham nābhinandati na dveṣṭi tasya prajñā pratiṣṭhitā 58 yadā saṃharate cāyaṃ kūrmo 'ṅgānīva sarvaśaḥ indriyāṇīndriyārthebhyas tasya prajñā pratiṣṭhitā 59 viṣayā vinivartante nirāhārasya dehinaḥ rasavarjaṃ raso 'py asya paraṃ dṛṣṭvā nivartate 60 yatato hy api kaunteya puruṣasya vipaścitaḥ indriyāṇi pramāthīni haranti prasabhaṃ manaḥ 61 tāni sarvāṇi saṃyamya yukta āsīta matparaḥ vaśe hi yasyendriyāṇi tasya prajñā pratiṣṭhitā 62 dhyāyato viṣayān puṃsaḥ saṅgas teṣūpajāyate saṅgāt saṃjāyate kāmaḥ kāmāt krodho 'bhijāyate 63 krodhād bhavati saṃmohaḥ saṃmohāt smṛtivibhramaḥ smṛtibhraṃśād buddhināśo buddhināśāt praṇaśyati 64 rāgadveṣaviyuktais tu viṣayān indriyaiś caran ātmavaśyair vidheyātmā prasādam adhigacchati 65 prasāde sarvaduḥkhānāṃ hānir asyopajāyate prasannacetaso hy āśu buddhiḥ paryavatiṣṭhate 66 nāsti buddhir ayuktasya na cāyuktasya bhāvanā na cābhāvayataḥ śāntir aśāntasya kutaḥ sukham 67 indriyāṇāṃ hi caratāṃ yan mano 'nuvidhīyate tad asya harati prajñāṃ vāyur nāvam ivāmbhasi 68 tasmād yasya mahābāho nigṛhītāni sarvaśaḥ indriyāṇīndriyārthebhyas tasya prajñā pratiṣṭhitā 69 yā niśā sarvabhūtānāṃ tasyāṃ jāgarti saṃyamī yasyāṃ jāgrati bhūtāni sā niśā paśyato muneḥ 70 āpūryamāṇam acalapratiṣṭhaṃ; samudram āpaḥ praviśanti yadvat tadvat kāmā yaṃ praviśanti sarve; sa śāntim āpnoti na kāmakāmī 71 vihāya kāmān yaḥ sarvān pumāṃś carati niḥspṛhaḥ nirmamo nirahaṃkāraḥ sa śāntim adhigacchati 72 eṣā brāhmī sthitiḥ pārtha naināṃ prāpya vimuhyati sthitvāsyām antakāle 'pi brahmanirvāṇam ṛcchati |
The Mahabharata in Sanskrit
Book 6
Chapter 25
|
1
अर्जुन उवाच जयायसी चेत कर्मणस ते मता बुद्धिर जनार्दन तत किं कर्मणि घॊरे मां नियॊजयसि केशव 2 वयामिश्रेणैव वाक्येन बुद्धिं मॊहयसीव मे तद एकं वद निश्चित्य येन शरेयॊ ऽहम आप्नुयाम 3 शरीभगवान उवाच लॊके ऽसमिन दविविधा निष्ठा पुरा परॊक्ता मयानघ जञानयॊगेन सांख्यानां कर्मयॊगेन यॊगिनाम 4 न कर्मणाम अनारम्भान नैष्कर्म्यं पुरुषॊ ऽशनुते न च संन्यसनाद एव सिद्धिं समधिगच्छति 5 न हि कश चित कषणम अपि जातु तिष्ठत्य अकर्मकृत कार्यते हय अवशः कर्म सर्वः परकृतिजैर गुणैः 6 कर्मेन्द्रियाणि संयम्य य आस्ते मनसा समरन इन्द्रियार्थान विमूढात्मा मिथ्याचारः स उच्यते 7 यस तव इन्द्रियाणि मनसा नियम्यारभते ऽरजुन कर्मेन्द्रियैः कर्मयॊगम असक्तः स विशिष्यते 8 नियतं कुरु कर्म तवं कर्म जयायॊ हय अकर्मणः शरीरयात्रापि च ते न परसिध्येद अकर्मणः 9 यज्ञार्थात कर्मणॊ ऽनयत्र लॊकॊ ऽयं कर्मबन्धनः तदर्थं कर्म कौन्तेय मुक्तसङ्गः समाचर 10 सहयज्ञाः परजाः सृष्ट्वा पुरॊवाच परजापतिः अनेन परसविष्यध्वम एष वॊ ऽसत्व इष्टकामधुक 11 देवान भावयतानेन ते देवा भावयन्तु वः परस्परं भावयन्तः शरेयः परम अवाप्स्यथ 12 इष्टान भॊगान हि वॊ देवा दास्यन्ते यज्ञभाविताः तैर दत्तान अप्रदायैभ्यॊ यॊ भुङ्क्ते सतेन एव सः 13 यज्ञशिष्टाशिनः सन्तॊ मुच्यन्ते सर्वकिल्बिषैः भुञ्जते ते तव अघं पापा ये पचन्त्य आत्मकारणात 14 अन्नाद भवन्ति भूतानि पर्जन्याद अन्नसंभवः यज्ञाद भवति पर्जन्यॊ यज्ञः कर्मसमुद्भवः 15 कर्म बरह्मॊद्भवं विद्धि बरह्माक्षरसमुद्भवम तस्मात सर्वगतं बरह्म नित्यं यज्ञे परतिष्ठितम 16 एवं परवर्तितं चक्रं नानुवर्तयतीह यः अघायुर इन्द्रियारामॊ मॊघं पार्थ स जीवति 17 यस तव आत्मरतिर एव सयाद आत्मतृप्तश च मानवः आत्मन्य एव च संतुष्टस तस्य कार्यं न विद्यते 18 नैव तस्य कृतेनार्थॊ नाकृतेनेह कश चन न चास्य सर्वभूतेषु कश चिद अर्थव्यपाश्रयः 19 तस्माद असक्तः सततं कार्यं कर्म समाचर असक्तॊ हय आचरन कर्म परम आप्नॊति पूरुषः 20 कर्मणैव हि संसिद्धिम आस्थिता जनकादयः लॊकसंग्रहम एवापि संपश्यन कर्तुम अर्हसि 21 यद यद आचरति शरेष्ठस तत तद एवेतरॊ जनः स यत परमाणं कुरुते लॊकस तद अनुवर्तते 22 न मे पार्थास्ति कर्तव्यं तरिषु लॊकेषु किं चन नानवाप्तम अवाप्तव्यं वर्त एव च कर्मणि 23 यदि हय अहं न वर्तेयं जातु कर्मण्य अतन्द्रितः मम वर्त्मानुवर्तन्ते मनुष्याः पार्थ सर्वशः 24 उत्सीदेयुर इमे लॊका न कुर्यां कर्म चेद अहम संकरस्य च कर्ता सयाम उपहन्याम इमाः परजाः 25 सक्ताः कर्मण्य अविद्वांसॊ यथा कुर्वन्ति भारत कुर्याद विद्वांस तथासक्तश चिकीर्षुर लॊकसंग्रहम 26 न बुद्धिभेदं जनयेद अज्ञानां कर्मसङ्गिनाम जॊषयेत सर्वकर्माणि विद्वान युक्तः समाचरन 27 परकृतेः करियमाणानि गुणैः कर्माणि सर्वशः अहंकारविमूढात्मा कर्ताहम इति मन्यते 28 तत्त्ववित तु महाबाहॊ गुणकर्मविभागयॊः गुणा गुणेषु वर्तन्त इति मत्वा न सज्जते 29 परकृतेर गुणसंमूढाः सज्जन्ते गुणकर्मसु तान अकृत्स्नविदॊ मन्दान कृत्स्नविन न विचालयेत 30 मयि सर्वाणि कर्माणि संन्यस्याध्यात्मचेतसा निराशीर निर्ममॊ भूत्वा युध्यस्व विगतज्वरः 31 ये मे मतम इदं नित्यम अनुतिष्ठन्ति मानवाः शरद्धावन्तॊ ऽनसूयन्तॊ मुच्यन्ते ते ऽपि कर्मभिः 32 ये तव एतद अभ्यसूयन्तॊ नानुतिष्ठन्ति मे मतम सर्वज्ञानविमूढांस तान विद्धि नष्टान अचेतसः 33 सदृशं चेष्टते सवस्याः परकृतेर जञानवान अपि परकृतिं यान्ति भूतानि निग्रहः किं करिष्यति 34 इन्द्रियस्येन्द्रियस्यार्थे रागद्वेषौ वयवस्थितौ तयॊर न वशम आगच्छेत तौ हय अस्य परिपन्थिनौ 35 शरेयान सवधर्मॊ विगुणः परधर्मात सवनुष्ठितात सवधर्मे निधनं शरेयः परधर्मॊ भयावहः 36 अर्जुन उवाच अथ केन परयुक्तॊ ऽयं पापं चरति पूरुषः अनिच्छन्न अपि वार्ष्णेय बलाद इव नियॊजितः 37 शरीभगवान उवाच काम एष करॊध एष रजॊगुणसमुद्भवः महाशनॊ महापाप्मा विद्ध्य एनम इह वैरिणम 38 धूमेनाव्रियते वह्निर यथादर्शॊ मलेन च यथॊल्बेनावृतॊ गर्भस तथा तेनेदम आवृतम 39 आवृतं जञानम एतेन जञानिनॊ नित्यवैरिणा कामरूपेण कौन्तेय दुष्पूरेणानलेन च 40 इन्द्रियाणि मनॊ बुद्धिर अस्याधिष्ठानम उच्यते एतैर विमॊहयत्य एष जञानम आवृत्य देहिनम 41 तस्मात तवम इन्द्रियाण्य आदौ नियम्य भरतर्षभ पाप्मानं परजहि हय एनं जञानविज्ञाननाशनम 42 इन्द्रियाणि पराण्य आहुर इन्द्रियेभ्यः परं मनः मनसस तु परा बुद्धिर यॊ बुद्धेः परतस तु सः 43 एवं बुद्धेः परं बुद्ध्वा संस्तभ्यात्मानम आत्मना जहि शत्रुं महाबाहॊ कामरूपं दुरासदम |
1
arjuna uvāca jyāyasī cet karmaṇas te matā buddhir janārdana tat kiṃ karmaṇi ghore māṃ niyojayasi keśava 2 vyāmiśreṇaiva vākyena buddhiṃ mohayasīva me tad ekaṃ vada niścitya yena śreyo 'ham āpnuyām 3 śrībhagavān uvāca loke 'smin dvividhā niṣṭhā purā proktā mayānagha jñānayogena sāṃkhyānāṃ karmayogena yoginām 4 na karmaṇām anārambhān naiṣkarmyaṃ puruṣo 'śnute na ca saṃnyasanād eva siddhiṃ samadhigacchati 5 na hi kaś cit kṣaṇam api jātu tiṣṭhaty akarmakṛt kāryate hy avaśaḥ karma sarvaḥ prakṛtijair guṇaiḥ 6 karmendriyāṇi saṃyamya ya āste manasā smaran indriyārthān vimūḍhātmā mithyācāraḥ sa ucyate 7 yas tv indriyāṇi manasā niyamyārabhate 'rjuna karmendriyaiḥ karmayogam asaktaḥ sa viśiṣyate 8 niyataṃ kuru karma tvaṃ karma jyāyo hy akarmaṇaḥ śarīrayātrāpi ca te na prasidhyed akarmaṇaḥ 9 yajñārthāt karmaṇo 'nyatra loko 'yaṃ karmabandhanaḥ tadarthaṃ karma kaunteya muktasaṅgaḥ samācara 10 sahayajñāḥ prajāḥ sṛṣṭvā purovāca prajāpatiḥ anena prasaviṣyadhvam eṣa vo 'stv iṣṭakāmadhuk 11 devān bhāvayatānena te devā bhāvayantu vaḥ parasparaṃ bhāvayantaḥ śreyaḥ param avāpsyatha 12 iṣṭān bhogān hi vo devā dāsyante yajñabhāvitāḥ tair dattān apradāyaibhyo yo bhuṅkte stena eva saḥ 13 yajñaśiṣṭāśinaḥ santo mucyante sarvakilbiṣaiḥ bhuñjate te tv aghaṃ pāpā ye pacanty ātmakāraṇāt 14 annād bhavanti bhūtāni parjanyād annasaṃbhavaḥ yajñād bhavati parjanyo yajñaḥ karmasamudbhavaḥ 15 karma brahmodbhavaṃ viddhi brahmākṣarasamudbhavam tasmāt sarvagataṃ brahma nityaṃ yajñe pratiṣṭhitam 16 evaṃ pravartitaṃ cakraṃ nānuvartayatīha yaḥ aghāyur indriyārāmo moghaṃ pārtha sa jīvati 17 yas tv ātmaratir eva syād ātmatṛptaś ca mānavaḥ ātmany eva ca saṃtuṣṭas tasya kāryaṃ na vidyate 18 naiva tasya kṛtenārtho nākṛteneha kaś cana na cāsya sarvabhūteṣu kaś cid arthavyapāśrayaḥ 19 tasmād asaktaḥ satataṃ kāryaṃ karma samācara asakto hy ācaran karma param āpnoti pūruṣaḥ 20 karmaṇaiva hi saṃsiddhim āsthitā janakādayaḥ lokasaṃgraham evāpi saṃpaśyan kartum arhasi 21 yad yad ācarati śreṣṭhas tat tad evetaro janaḥ sa yat pramāṇaṃ kurute lokas tad anuvartate 22 na me pārthāsti kartavyaṃ triṣu lokeṣu kiṃ cana nānavāptam avāptavyaṃ varta eva ca karmaṇi 23 yadi hy ahaṃ na varteyaṃ jātu karmaṇy atandritaḥ mama vartmānuvartante manuṣyāḥ pārtha sarvaśaḥ 24 utsīdeyur ime lokā na kuryāṃ karma ced aham saṃkarasya ca kartā syām upahanyām imāḥ prajāḥ 25 saktāḥ karmaṇy avidvāṃso yathā kurvanti bhārata kuryād vidvāṃs tathāsaktaś cikīrṣur lokasaṃgraham 26 na buddhibhedaṃ janayed ajñānāṃ karmasaṅginām joṣayet sarvakarmāṇi vidvān yuktaḥ samācaran 27 prakṛteḥ kriyamāṇāni guṇaiḥ karmāṇi sarvaśaḥ ahaṃkāravimūḍhātmā kartāham iti manyate 28 tattvavit tu mahābāho guṇakarmavibhāgayoḥ guṇā guṇeṣu vartanta iti matvā na sajjate 29 prakṛter guṇasaṃmūḍhāḥ sajjante guṇakarmasu tān akṛtsnavido mandān kṛtsnavin na vicālayet 30 mayi sarvāṇi karmāṇi saṃnyasyādhyātmacetasā nirāśīr nirmamo bhūtvā yudhyasva vigatajvaraḥ 31 ye me matam idaṃ nityam anutiṣṭhanti mānavāḥ śraddhāvanto 'nasūyanto mucyante te 'pi karmabhiḥ 32 ye tv etad abhyasūyanto nānutiṣṭhanti me matam sarvajñānavimūḍhāṃs tān viddhi naṣṭān acetasaḥ 33 sadṛśaṃ ceṣṭate svasyāḥ prakṛter jñānavān api prakṛtiṃ yānti bhūtāni nigrahaḥ kiṃ kariṣyati 34 indriyasyendriyasyārthe rāgadveṣau vyavasthitau tayor na vaśam āgacchet tau hy asya paripanthinau 35 śreyān svadharmo viguṇaḥ paradharmāt svanuṣṭhitāt svadharme nidhanaṃ śreyaḥ paradharmo bhayāvahaḥ 36 arjuna uvāca atha kena prayukto 'yaṃ pāpaṃ carati pūruṣaḥ anicchann api vārṣṇeya balād iva niyojitaḥ 37 śrībhagavān uvāca kāma eṣa krodha eṣa rajoguṇasamudbhavaḥ mahāśano mahāpāpmā viddhy enam iha vairiṇam 38 dhūmenāvriyate vahnir yathādarśo malena ca yatholbenāvṛto garbhas tathā tenedam āvṛtam 39 āvṛtaṃ jñānam etena jñānino nityavairiṇā kāmarūpeṇa kaunteya duṣpūreṇānalena ca 40 indriyāṇi mano buddhir asyādhiṣṭhānam ucyate etair vimohayaty eṣa jñānam āvṛtya dehinam 41 tasmāt tvam indriyāṇy ādau niyamya bharatarṣabha pāpmānaṃ prajahi hy enaṃ jñānavijñānanāśanam 42 indriyāṇi parāṇy āhur indriyebhyaḥ paraṃ manaḥ manasas tu parā buddhir yo buddheḥ paratas tu saḥ 43 evaṃ buddheḥ paraṃ buddhvā saṃstabhyātmānam ātmanā jahi śatruṃ mahābāho kāmarūpaṃ durāsadam |
The Mahabharata in Sanskrit
Book 6
Chapter 26
|
1
शरीभगवान उवाच इमं विवस्वते यॊगं परॊक्तवान अहम अव्ययम विवस्वान मनवे पराह मनुर इक्ष्वाकवे ऽबरवीत 2 एवं परम्पराप्राप्तम इमं राजर्षयॊ विदुः स कालेनेह महता यॊगॊ नष्टः परंतप 3 स एवायं मया ते ऽदय यॊगः परॊक्तः पुरातनः भक्तॊ ऽसि मे सखा चेति रहस्यं हय एतद उत्तमम 4 अर्जुन उवाच अपरं भवतॊ जन्म परं जन्म विवस्वतः कथम एतद विजानीयां तवम आदौ परॊक्तवान इति 5 शरीभगवान उवाच बहूनि मे वयतीतानि जन्मानि तव चार्जुन तान्य अहं वेद सर्वाणि न तवं वेत्थ परंतप 6 अजॊ ऽपि सन्न अव्ययात्मा भूतानाम ईश्वरॊ ऽपि सन परकृतिं सवाम अधिष्ठाय संभवाम्य आत्ममायया 7 यदा यदा हि धर्मस्य गलानिर भवति भारत अभ्युत्थानम अधर्मस्य तदात्मानं सृजाम्य अहम 8 परित्राणाय साधूनां विनाशाय च दुष्कृताम धर्मसंस्थापनार्थाय संभवामि युगे युगे 9 जन्म कर्म च मे दिव्यम एवं यॊ वेत्ति तत्त्वतः तयक्त्वा देहं पुनर्जन्म नैति माम एति सॊ ऽरजुन 10 वीतरागभयक्रॊधा मन्मया माम उपाश्रिताः बहवॊ जञानतपसा पूता मद्भावम आगताः 11 ये यथा मां परपद्यन्ते तांस तथैव भजाम्य अहम मम वर्त्मानुवर्तन्ते मनुष्याः पार्थ सर्वशः 12 काङ्क्षन्तः कर्मणां सिद्धिं यजन्त इह देवताः कषिप्रं हि मानुषे लॊके सिद्धिर भवति कर्मजा 13 चातुर्वर्ण्यं मया सृष्टं गुणकर्मविभागशः तस्य कर्तारम अपि मां विद्ध्य अकर्तारम अव्ययम 14 न मां कर्माणि लिम्पन्ति न मे कर्मफले सपृहा इति मां यॊ ऽभिजानाति कर्मभिर न स बध्यते 15 एवं जञात्वा कृतं कर्म पूर्वैर अपि मुमुक्षुभिः कुरु कर्मैव तस्मात तवं पूर्वैः पूर्वतरं कृतम 16 किं कर्म किमकर्मेति कवयॊ ऽपय अत्र मॊहिताः तत ते कर्म परवक्ष्यामि यज जञात्वा मॊक्ष्यसे ऽशुभात 17 कर्मणॊ हय अपि बॊद्धव्यं बॊद्धव्यं च विकर्मणः अकर्मणश च बॊद्धव्यं गहना कर्मणॊ गतिः 18 कर्मण्य अकर्म यः पश्येद अकर्मणि च कर्म यः स बुद्धिमान मनुष्येषु स युक्तः कृत्स्नकर्मकृत 19 यस्य सर्वे समारम्भाः कामसंकल्पवर्जिताः जञानाग्निदग्धकर्माणं तम आहुः पण्डितं बुधाः 20 तयक्त्वा कर्मफलासङ्गं नित्यतृप्तॊ निराश्रयः कर्मण्य अभिप्रवृत्तॊ ऽपि नैव किं चित करॊति सः 21 निराशीर यतचित्तात्मा तयक्तसर्वपरिग्रहः शारीरं केवलं कर्म कुर्वन नाप्नॊति किल्बिषम 22 यदृच्छालाभसंतुष्टॊ दवन्द्वातीतॊ विमत्सरः समः सिद्धाव असिद्धौ च कृत्वापि न निबध्यते 23 गतसङ्गस्य मुक्तस्य जञानावस्थितचेतसः यज्ञायाचरतः कर्म समग्रं परविलीयते 24 बरह्मार्पणं बरह्म हविर बरह्माग्नौ बरह्मणा हुतम बरह्मैव तेन गन्तव्यं बरह्मकर्मसमाधिना 25 दैवम एवापरे यज्ञं यॊगिनः पर्युपासते बरह्माग्नाव अपरे यज्ञं यज्ञेनैवॊपजुह्वति 26 शरॊत्रादीनीन्द्रियाण्य अन्ये संयमाग्निषु जुह्वति शब्दादीन विषयान अन्य इन्द्रियाग्निषु जुह्वति 27 सर्वाणीन्द्रियकर्माणि पराणकर्माणि चापरे आत्मसंयमयॊगाग्नौ जुह्वति जञानदीपिते 28 दरव्ययज्ञास तपॊयज्ञा यॊगयज्ञास तथापरे सवाध्यायज्ञानयज्ञाश च यतयः संशितव्रताः 29 अपाने जुह्वति पराणं पराणे ऽपानं तथापरे पराणापानगती रुद्ध्वा पराणायामपरायणाः 30 अपरे नियताहाराः पराणान पराणेषु जुह्वति सर्वे ऽपय एते यज्ञविदॊ यज्ञक्षपितकल्मषाः 31 यज्ञशिष्टामृतभुजॊ यान्ति बरह्म सनातनम नायं लॊकॊ ऽसत्य अयज्ञस्य कुतॊ ऽनयः कुरुसत्तम 32 एवं बहुविधा यज्ञा वितता बरह्मणॊ मुखे कर्मजान विद्धि तान सर्वान एवं जञात्वा विमॊक्ष्यसे 33 शरेयान दरव्यमयाद यज्ञाज जञानयज्ञः परंतप सर्वं कर्माखिलं पार्थ जञाने परिसमाप्यते 34 तद विद्धि परणिपातेन परिप्रश्नेन सेवया उपदेक्ष्यन्ति ते जञानं जञानिनस तत्त्वदर्शिनः 35 यज जञात्वा न पुनर मॊहम एवं यास्यसि पाण्डव येन भूतान्य अशेषेण दरक्ष्यस्य आत्मन्य अथॊ मयि 36 अपि चेद असि पापेभ्यः सर्वेभ्यः पापकृत्तमः सर्वं जञानप्लवेनैव वृजिनं संतरिष्यसि 37 यथैधांसि समिद्धॊ ऽगनिर भस्मसात कुरुते ऽरजुन जञानाग्निः सर्वकर्माणि भस्मसात कुरुते तथा 38 न हि जञानेन सदृशं पवित्रम इह विद्यते तत सवयं यॊगसंसिद्धः कालेनात्मनि विन्दति 39 शरद्धावाँल लभते जञानं तत्परः संयतेन्द्रियः जञानं लब्ध्वा परां शान्तिम अचिरेणाधिगच्छति 40 अज्ञश चाश्रद्दधानश च संशयात्मा विनश्यति नायं लॊकॊ ऽसति न परॊ न सुखं संशयात्मनः 41 यॊगसंन्यस्तकर्माणं जञानसंछिन्नसंशयम आत्मवन्तं न कर्माणि निबध्नन्ति धनंजय 42 तस्माद अज्ञानसंभूतं हृत्स्थं जञानासिनात्मनः छित्त्वैनं संशयं यॊगम आतिष्ठॊत्तिष्ठ भारत |
1
śrībhagavān uvāca imaṃ vivasvate yogaṃ proktavān aham avyayam vivasvān manave prāha manur ikṣvākave 'bravīt 2 evaṃ paramparāprāptam imaṃ rājarṣayo viduḥ sa kāleneha mahatā yogo naṣṭaḥ paraṃtapa 3 sa evāyaṃ mayā te 'dya yogaḥ proktaḥ purātanaḥ bhakto 'si me sakhā ceti rahasyaṃ hy etad uttamam 4 arjuna uvāca aparaṃ bhavato janma paraṃ janma vivasvataḥ katham etad vijānīyāṃ tvam ādau proktavān iti 5 śrībhagavān uvāca bahūni me vyatītāni janmāni tava cārjuna tāny ahaṃ veda sarvāṇi na tvaṃ vettha paraṃtapa 6 ajo 'pi sann avyayātmā bhūtānām īśvaro 'pi san prakṛtiṃ svām adhiṣṭhāya saṃbhavāmy ātmamāyayā 7 yadā yadā hi dharmasya glānir bhavati bhārata abhyutthānam adharmasya tadātmānaṃ sṛjāmy aham 8 paritrāṇāya sādhūnāṃ vināśāya ca duṣkṛtām dharmasaṃsthāpanārthāya saṃbhavāmi yuge yuge 9 janma karma ca me divyam evaṃ yo vetti tattvataḥ tyaktvā dehaṃ punarjanma naiti mām eti so 'rjuna 10 vītarāgabhayakrodhā manmayā mām upāśritāḥ bahavo jñānatapasā pūtā madbhāvam āgatāḥ 11 ye yathā māṃ prapadyante tāṃs tathaiva bhajāmy aham mama vartmānuvartante manuṣyāḥ pārtha sarvaśaḥ 12 kāṅkṣantaḥ karmaṇāṃ siddhiṃ yajanta iha devatāḥ kṣipraṃ hi mānuṣe loke siddhir bhavati karmajā 13 cāturvarṇyaṃ mayā sṛṣṭaṃ guṇakarmavibhāgaśaḥ tasya kartāram api māṃ viddhy akartāram avyayam 14 na māṃ karmāṇi limpanti na me karmaphale spṛhā iti māṃ yo 'bhijānāti karmabhir na sa badhyate 15 evaṃ jñātvā kṛtaṃ karma pūrvair api mumukṣubhiḥ kuru karmaiva tasmāt tvaṃ pūrvaiḥ pūrvataraṃ kṛtam 16 kiṃ karma kimakarmeti kavayo 'py atra mohitāḥ tat te karma pravakṣyāmi yaj jñātvā mokṣyase 'śubhāt 17 karmaṇo hy api boddhavyaṃ boddhavyaṃ ca vikarmaṇaḥ akarmaṇaś ca boddhavyaṃ gahanā karmaṇo gatiḥ 18 karmaṇy akarma yaḥ paśyed akarmaṇi ca karma yaḥ sa buddhimān manuṣyeṣu sa yuktaḥ kṛtsnakarmakṛt 19 yasya sarve samārambhāḥ kāmasaṃkalpavarjitāḥ jñānāgnidagdhakarmāṇaṃ tam āhuḥ paṇḍitaṃ budhāḥ 20 tyaktvā karmaphalāsaṅgaṃ nityatṛpto nirāśrayaḥ karmaṇy abhipravṛtto 'pi naiva kiṃ cit karoti saḥ 21 nirāśīr yatacittātmā tyaktasarvaparigrahaḥ śārīraṃ kevalaṃ karma kurvan nāpnoti kilbiṣam 22 yadṛcchālābhasaṃtuṣṭo dvandvātīto vimatsaraḥ samaḥ siddhāv asiddhau ca kṛtvāpi na nibadhyate 23 gatasaṅgasya muktasya jñānāvasthitacetasaḥ yajñāyācarataḥ karma samagraṃ pravilīyate 24 brahmārpaṇaṃ brahma havir brahmāgnau brahmaṇā hutam brahmaiva tena gantavyaṃ brahmakarmasamādhinā 25 daivam evāpare yajñaṃ yoginaḥ paryupāsate brahmāgnāv apare yajñaṃ yajñenaivopajuhvati 26 śrotrādīnīndriyāṇy anye saṃyamāgniṣu juhvati śabdādīn viṣayān anya indriyāgniṣu juhvati 27 sarvāṇīndriyakarmāṇi prāṇakarmāṇi cāpare ātmasaṃyamayogāgnau juhvati jñānadīpite 28 dravyayajñās tapoyajñā yogayajñās tathāpare svādhyāyajñānayajñāś ca yatayaḥ saṃśitavratāḥ 29 apāne juhvati prāṇaṃ prāṇe 'pānaṃ tathāpare prāṇāpānagatī ruddhvā prāṇāyāmaparāyaṇāḥ 30 apare niyatāhārāḥ prāṇān prāṇeṣu juhvati sarve 'py ete yajñavido yajñakṣapitakalmaṣāḥ 31 yajñaśiṣṭāmṛtabhujo yānti brahma sanātanam nāyaṃ loko 'sty ayajñasya kuto 'nyaḥ kurusattama 32 evaṃ bahuvidhā yajñā vitatā brahmaṇo mukhe karmajān viddhi tān sarvān evaṃ jñātvā vimokṣyase 33 śreyān dravyamayād yajñāj jñānayajñaḥ paraṃtapa sarvaṃ karmākhilaṃ pārtha jñāne parisamāpyate 34 tad viddhi praṇipātena paripraśnena sevayā upadekṣyanti te jñānaṃ jñāninas tattvadarśinaḥ 35 yaj jñātvā na punar moham evaṃ yāsyasi pāṇḍava yena bhūtāny aśeṣeṇa drakṣyasy ātmany atho mayi 36 api ced asi pāpebhyaḥ sarvebhyaḥ pāpakṛttamaḥ sarvaṃ jñānaplavenaiva vṛjinaṃ saṃtariṣyasi 37 yathaidhāṃsi samiddho 'gnir bhasmasāt kurute 'rjuna jñānāgniḥ sarvakarmāṇi bhasmasāt kurute tathā 38 na hi jñānena sadṛśaṃ pavitram iha vidyate tat svayaṃ yogasaṃsiddhaḥ kālenātmani vindati 39 śraddhāvāṁl labhate jñānaṃ tatparaḥ saṃyatendriyaḥ jñānaṃ labdhvā parāṃ śāntim acireṇādhigacchati 40 ajñaś cāśraddadhānaś ca saṃśayātmā vinaśyati nāyaṃ loko 'sti na paro na sukhaṃ saṃśayātmanaḥ 41 yogasaṃnyastakarmāṇaṃ jñānasaṃchinnasaṃśayam ātmavantaṃ na karmāṇi nibadhnanti dhanaṃjaya 42 tasmād ajñānasaṃbhūtaṃ hṛtsthaṃ jñānāsinātmanaḥ chittvainaṃ saṃśayaṃ yogam ātiṣṭhottiṣṭha bhārata |
The Mahabharata in Sanskrit
Book 6
Chapter 27
|
1
अर्जुन उवाच संन्यासं कर्मणां कृष्ण पुनर यॊगं च शंससि यच छरेय एतयॊर एकं तन मे बरूहि सुनिश्चितम 2 शरीभगवान उवाच संन्यासः कर्मयॊगश च निःश्रेयसकराव उभौ तयॊस तु कर्मसंन्यासात कर्मयॊगॊ विशिष्यते 3 जञेयः स नित्यसंन्यासी यॊ न दवेष्टि न काङ्क्षति निर्द्वन्द्वॊ हि महाबाहॊ सुखं बन्धात परमुच्यते 4 सांख्ययॊगौ पृथग बालाः परवदन्ति न पण्डिताः एकम अप्य आस्थितः सम्यग उभयॊर विन्दते फलम 5 यत सांख्यैः पराप्यते सथानं तद यॊगैर अपि गम्यते एकं सांख्यं च यॊगं च यः पश्यति स पश्यति 6 संन्यासस तु महाबाहॊ दुःखम आप्तुम अयॊगतः यॊगयुक्तॊ मुनिर बरह्म नचिरेणाधिगच्छति 7 यॊगयुक्तॊ विशुद्धात्मा विजितात्मा जितेन्द्रियः सर्वभूतात्मभूतात्मा कुर्वन्न अपि न लिप्यते 8 नैव किं चित करॊमीति युक्तॊ मन्येत तत्त्ववित पश्यञ शृण्वन सपृशञ जिघ्रन्न अश्नन गच्छन सवपञ शवसन 9 परलपन विसृजन गृह्णन्न उन्मिषन निमिषन्न अपि इन्द्रियाणीन्द्रियार्थेषु वर्तन्त इति धारयन 10 बरह्मण्य आधाय कर्माणि सङ्गं तयक्त्वा करॊति यः लिप्यते न स पापेन पद्मपत्रम इवाम्भसा 11 कायेन मनसा बुद्ध्या केवलैर इन्द्रियैर अपि यॊगिनः कर्म कुर्वन्ति सङ्गं तयक्त्वात्मशुद्धये 12 युक्तः कर्मफलं तयक्त्वा शान्तिम आप्नॊति नैष्ठिकीम अयुक्तः कामकारेण फले सक्तॊ निबध्यते 13 सर्वकर्माणि मनसा संन्यस्यास्ते सुखं वशी नवद्वारे पुरे देही नैव कुर्वन न कारयन 14 न कर्तृत्वं न कर्माणि लॊकस्य सृजति परभुः न कर्मफलसंयॊगं सवभावस तु परवर्तते 15 नादत्ते कस्य चित पापं न चैव सुकृतं विभुः अज्ञानेनावृतं जञानं तेन मुह्यन्ति जन्तवः 16 जञानेन तु तद अज्ञानं येषां नाशितम आत्मनः तेषाम आदित्यवज जञानं परकाशयति तत्परम 17 तद्बुद्धयस तदात्मानस तन्निष्ठास तत्परायणाः गच्छन्त्य अपुनरावृत्तिं जञाननिर्धूतकल्मषाः 18 विद्याविनयसंपन्ने बराह्मणे गवि हस्तिनि शुनि चैव शवपाके च पण्डिताः समदर्शिनः 19 इहैव तैर जितः सर्गॊ येषां साम्ये सथितं मनः निर्दॊषं हि समं बरह्म तस्माद बरह्मणि ते सथिताः 20 न परहृष्येत परियं पराप्य नॊद्विजेत पराप्य चाप्रियम सथिरबुद्धिर असंमूढॊ बरह्मविद बरह्मणि सथितः 21 बाह्यस्पर्शेष्व असक्तात्मा विन्दत्य आत्मनि यत सुखम स बरह्मयॊगयुक्तात्मा सुखम अक्षयम अश्नुते 22 ये हि संस्पर्शजा भॊगा दुःखयॊनय एव ते आद्यन्तवन्तः कौन्तेय न तेषु रमते बुधः 23 शक्नॊतीहैव यः सॊढुं पराक शरीरविमॊक्षणात कामक्रॊधॊद्भवं वेगं स युक्तः स सुखी नरः 24 यॊ ऽनतःसुखॊ ऽनतरारामस तथान्तर्ज्यॊतिर एव यः स यॊगी बरह्मनिर्वाणं बरह्मभूतॊ ऽधिगच्छति 25 लभन्ते बरह्मनिर्वाणम ऋषयः कषीणकल्मषाः छिन्नद्वैधा यतात्मानः सर्वभूतहिते रताः 26 कामक्रॊधवियुक्तानां यतीनां यतचेतसाम अभितॊ बरह्मनिर्वाणं वर्तते विदितात्मनाम 27 सपर्शान कृत्वा बहिर बाह्यांश चक्षुश चैवान्तरे भरुवॊः पराणापानौ समौ कृत्वा नासाभ्यन्तरचारिणौ 28 यतेन्द्रियमनॊबुद्धिर मुनिर मॊक्षपरायणः विगतेच्छाभयक्रॊधॊ यः सदा मुक्त एव सः 29 भॊक्तारं यज्ञतपसां सर्वलॊकमहेश्वरम 5 सुहृदं सर्वभूतानां जञात्वा मां शान्तिम ऋच्छति |
1
arjuna uvāca saṃnyāsaṃ karmaṇāṃ kṛṣṇa punar yogaṃ ca śaṃsasi yac chreya etayor ekaṃ tan me brūhi suniścitam 2 śrībhagavān uvāca saṃnyāsaḥ karmayogaś ca niḥśreyasakarāv ubhau tayos tu karmasaṃnyāsāt karmayogo viśiṣyate 3 jñeyaḥ sa nityasaṃnyāsī yo na dveṣṭi na kāṅkṣati nirdvandvo hi mahābāho sukhaṃ bandhāt pramucyate 4 sāṃkhyayogau pṛthag bālāḥ pravadanti na paṇḍitāḥ ekam apy āsthitaḥ samyag ubhayor vindate phalam 5 yat sāṃkhyaiḥ prāpyate sthānaṃ tad yogair api gamyate ekaṃ sāṃkhyaṃ ca yogaṃ ca yaḥ paśyati sa paśyati 6 saṃnyāsas tu mahābāho duḥkham āptum ayogataḥ yogayukto munir brahma nacireṇādhigacchati 7 yogayukto viśuddhātmā vijitātmā jitendriyaḥ sarvabhūtātmabhūtātmā kurvann api na lipyate 8 naiva kiṃ cit karomīti yukto manyeta tattvavit paśyañ śṛṇvan spṛśañ jighrann aśnan gacchan svapañ śvasan 9 pralapan visṛjan gṛhṇann unmiṣan nimiṣann api indriyāṇīndriyārtheṣu vartanta iti dhārayan 10 brahmaṇy ādhāya karmāṇi saṅgaṃ tyaktvā karoti yaḥ lipyate na sa pāpena padmapatram ivāmbhasā 11 kāyena manasā buddhyā kevalair indriyair api yoginaḥ karma kurvanti saṅgaṃ tyaktvātmaśuddhaye 12 yuktaḥ karmaphalaṃ tyaktvā śāntim āpnoti naiṣṭhikīm ayuktaḥ kāmakāreṇa phale sakto nibadhyate 13 sarvakarmāṇi manasā saṃnyasyāste sukhaṃ vaśī navadvāre pure dehī naiva kurvan na kārayan 14 na kartṛtvaṃ na karmāṇi lokasya sṛjati prabhuḥ na karmaphalasaṃyogaṃ svabhāvas tu pravartate 15 nādatte kasya cit pāpaṃ na caiva sukṛtaṃ vibhuḥ ajñānenāvṛtaṃ jñānaṃ tena muhyanti jantavaḥ 16 jñānena tu tad ajñānaṃ yeṣāṃ nāśitam ātmanaḥ teṣām ādityavaj jñānaṃ prakāśayati tatparam 17 tadbuddhayas tadātmānas tanniṣṭhās tatparāyaṇāḥ gacchanty apunarāvṛttiṃ jñānanirdhūtakalmaṣāḥ 18 vidyāvinayasaṃpanne brāhmaṇe gavi hastini śuni caiva śvapāke ca paṇḍitāḥ samadarśinaḥ 19 ihaiva tair jitaḥ sargo yeṣāṃ sāmye sthitaṃ manaḥ nirdoṣaṃ hi samaṃ brahma tasmād brahmaṇi te sthitāḥ 20 na prahṛṣyet priyaṃ prāpya nodvijet prāpya cāpriyam sthirabuddhir asaṃmūḍho brahmavid brahmaṇi sthitaḥ 21 bāhyasparśeṣv asaktātmā vindaty ātmani yat sukham sa brahmayogayuktātmā sukham akṣayam aśnute 22 ye hi saṃsparśajā bhogā duḥkhayonaya eva te ādyantavantaḥ kaunteya na teṣu ramate budhaḥ 23 śaknotīhaiva yaḥ soḍhuṃ prāk śarīravimokṣaṇāt kāmakrodhodbhavaṃ vegaṃ sa yuktaḥ sa sukhī naraḥ 24 yo 'ntaḥsukho 'ntarārāmas tathāntarjyotir eva yaḥ sa yogī brahmanirvāṇaṃ brahmabhūto 'dhigacchati 25 labhante brahmanirvāṇam ṛṣayaḥ kṣīṇakalmaṣāḥ chinnadvaidhā yatātmānaḥ sarvabhūtahite ratāḥ 26 kāmakrodhaviyuktānāṃ yatīnāṃ yatacetasām abhito brahmanirvāṇaṃ vartate viditātmanām 27 sparśān kṛtvā bahir bāhyāṃś cakṣuś caivāntare bhruvoḥ prāṇāpānau samau kṛtvā nāsābhyantaracāriṇau 28 yatendriyamanobuddhir munir mokṣaparāyaṇaḥ vigatecchābhayakrodho yaḥ sadā mukta eva saḥ 29 bhoktāraṃ yajñatapasāṃ sarvalokamaheśvaram 5 suhṛdaṃ sarvabhūtānāṃ jñātvā māṃ śāntim ṛcchati |
The Mahabharata in Sanskrit
Book 6
Chapter 28
|
1
शरीभगवान उवाच अनाश्रितः कर्मफलं कार्यं कर्म करॊति यः स संन्यासी च यॊगी च न निरग्निर न चाक्रियः 2 यं संन्यासम इति पराहुर यॊगं तं विद्धि पाण्डव न हय असंन्यस्तसंकल्पॊ यॊगी भवति कश चन 3 आरुरुक्षॊर मुनेर यॊगं कर्म कारणम उच्यते यॊगारूढस्य तस्यैव शमः कारणम उच्यते 4 यदा हि नेन्द्रियार्थेषु न कर्मस्व अनुषज्जते सर्वसंकल्पसंन्यासी यॊगारूढस तदॊच्यते 5 उद्धरेद आत्मनात्मानं नात्मानम अवसादयेत आत्मैव हय आत्मनॊ बन्धुर आत्मैव रिपुर आत्मनः 6 बन्धुर आत्मात्मनस तस्य येनात्मैवात्मना जितः अनात्मनस तु शत्रुत्वे वर्तेतात्मैव शत्रुवत 7 जितात्मनः परशान्तस्य परमात्मा समाहितः शीतॊष्णसुखदुःखेषु तथा मानापमानयॊः 8 जञानविज्ञानतृप्तात्मा कूटस्थॊ विजितेन्द्रियः युक्त इत्य उच्यते यॊगी समलॊष्टाश्मकाञ्चनः 9 सुहृन्मित्रार्युदासीनमध्यस्थद्वेष्यबन्धुषु साधुष्व अपि च पापेषु समबुद्धिर विशिष्यते 10 यॊगी युञ्जीत सततम आत्मानं रहसि सथितः एकाकी यतचित्तात्मा निराशीर अपरिग्रहः 11 शुचौ देशे परतिष्ठाप्य सथिरम आसनम आत्मनः नात्युच्छ्रितं नातिनीचं चैलाजिनकुशॊत्तरम 12 तत्रैकाग्रं मनः कृत्वा यतचित्तेन्द्रियक्रियः उपविश्यासने युञ्ज्याद यॊगम आत्मविशुद्धये 13 समं कायशिरॊग्रीवं धारयन्न अचलं सथिरः संप्रेक्ष्य नासिकाग्रं सवं दिशश चानवलॊकयन 14 परशान्तात्मा विगतभीर बरह्मचारिव्रते सथितः मनः संयम्य मच्चित्तॊ युक्त आसीत मत्परः 15 युञ्जन्न एवं सदात्मानं यॊगी नियतमानसः शान्तिं निर्वाणपरमां मत्संस्थाम अधिगच्छति 16 नात्यश्नतस तु यॊगॊ ऽसति न चैकान्तम अनश्नतः न चातिस्वप्नशीलस्य जाग्रतॊ नैव चार्जुन 17 युक्ताहारविहारस्य युक्तचेष्टस्य कर्मसु युक्तस्वप्नावबॊधस्य यॊगॊ भवति दुःखहा 18 यदा विनियतं चित्तम आत्मन्य एवावतिष्ठते निःस्पृहः सर्वकामेभ्यॊ युक्त इत्य उच्यते तदा 19 यथा दीपॊ निवातस्थॊ नेङ्गते सॊपमा समृता यॊगिनॊ यतचित्तस्य युञ्जतॊ यॊगम आत्मनः 20 यत्रॊपरमते चित्तं निरुद्धं यॊगसेवया यत्र चैवात्मनात्मानं पश्यन्न आत्मनि तुष्यति 21 सुखम आत्यन्तिकं यत तद बुद्धिग्राह्यम अतीन्द्रियम वेत्ति यत्र न चैवायं सथितश चलति तत्त्वतः 22 यं लब्ध्वा चापरं लाभं मन्यते नाधिकं ततः यस्मिन सथितॊ न दुःखेन गुरुणापि विचाल्यते 23 तं विद्याद दुःखसंयॊगवियॊगं यॊगसंज्ञितम स निश्चयेन यॊक्तव्यॊ यॊगॊ ऽनिर्विण्णचेतसा 24 संकल्पप्रभवान कामांस तयक्त्वा सर्वान अशेषतः मनसैवेन्द्रियग्रामं विनियम्य समन्ततः 25 शनैः शनैर उपरमेद बुद्ध्या धृतिगृहीतया आत्मसंस्थं मनः कृत्वा न किं चिद अपि चिन्तयेत 26 यतॊ यतॊ निश्चरति मनश चञ्चलम अस्थिरम ततस ततॊ नियम्यैतद आत्मन्य एव वशं नयेत 27 परशान्तमनसं हय एनं यॊगिनं सुखम उत्तमम उपैति शान्तरजसं बरह्मभूतम अकल्मषम 28 युञ्जन्न एवं सदात्मानं यॊगी विगतकल्मषः सुखेन बरह्मसंस्पर्शम अत्यन्तं सुखम अश्नुते 29 सर्वभूतस्थम आत्मानं सर्वभूतानि चात्मनि ईक्षते यॊगयुक्तात्मा सर्वत्र समदर्शनः 30 यॊ मां पश्यति सर्वत्र सर्वं च मयि पश्यति तस्याहं न परणश्यामि स च मे न परणश्यति 31 सर्वभूतस्थितं यॊ मां भजत्य एकत्वम आस्थितः सर्वथा वर्तमानॊ ऽपि स यॊगी मयि वर्तते 32 आत्मौपम्येन सर्वत्र समं पश्यति यॊ ऽरजुन सुखं वा यदि वा दुःखं स यॊगी परमॊ मतः 33 अर्जुन उवाच यॊ ऽयं यॊगस तवया परॊक्तः साम्येन मधुसूदन एतस्याहं न पश्यामि चञ्चलत्वात सथितिं सथिराम 34 चञ्चलं हि मनः कृष्ण परमाथि बलवद दृढम तस्याहं निग्रहं मन्ये वायॊर इव सुदुष्करम 35 शरीभगवान उवाच असंशयं महाबाहॊ मनॊ दुर्णिग्रहं चलम अभ्यासेन तु कौन्तेय वैराग्येण च गृह्यते 36 असंयतात्मना यॊगॊ दुष्प्राप इति मे मतिः वश्यात्मना तु यतता शक्यॊ ऽवाप्तुम उपायतः 37 अर्जुन उवाच अयतिः शरद्धयॊपेतॊ यॊगाच चलितमानसः अप्राप्य यॊगसंसिद्धिं कां गतिं कृष्ण गच्छति 38 कच चिन नॊभयविभ्रष्टश छिन्नाभ्रम इव नश्यति अप्रतिष्ठॊ महाबाहॊ विमूढॊ बरह्मणः पथि 39 एतन मे संशयं कृष्ण छेत्तुम अर्हस्य अशेषतः तवदन्यः संशयस्यास्य छेत्ता न हय उपपद्यते 40 शरीभगवान उवाच पार्थ नैवेह नामुत्र विनाशस तस्य विद्यते न हि कल्याणकृत कश चिद दुर्गतिं तात गच्छति 41 पराप्य पुण्यकृतां लॊकान उषित्वा शाश्वतीः समाः शुचीनां शरीमतां गेहे यॊगभ्रष्टॊ ऽभिजायते 42 अथ वा यॊगिनाम एव कुले भवति धीमताम एतद धि दुर्लभतरं लॊके जन्म यद ईदृशम 43 तत्र तं बुद्धिसंयॊगं लभते पौर्वदेहिकम यतते च ततॊ भूयः संसिद्धौ कुरुनन्दन 44 पूर्वाभ्यासेन तेनैव हरियते हय अवशॊ ऽपि सः जिज्ञासुर अपि यॊगस्य शब्दब्रह्मातिवर्तते 45 परयत्नाद यतमानस तु यॊगी संशुद्धकिल्बिषः अनेकजन्मसंसिद्धस ततॊ याति परां गतिम 46 तपस्विभ्यॊ ऽधिकॊ यॊगी जञानिभ्यॊ ऽपि मतॊ ऽधिकः कर्मिभ्यश चाधिकॊ यॊगी तस्माद यॊगी भवार्जुन 47 यॊगिनाम अपि सर्वेषां मद्गतेनान्तरात्मना शरद्धावान भजते यॊ मां स मे युक्ततमॊ मतः |
1
śrībhagavān uvāca anāśritaḥ karmaphalaṃ kāryaṃ karma karoti yaḥ sa saṃnyāsī ca yogī ca na niragnir na cākriyaḥ 2 yaṃ saṃnyāsam iti prāhur yogaṃ taṃ viddhi pāṇḍava na hy asaṃnyastasaṃkalpo yogī bhavati kaś cana 3 ārurukṣor muner yogaṃ karma kāraṇam ucyate yogārūḍhasya tasyaiva śamaḥ kāraṇam ucyate 4 yadā hi nendriyārtheṣu na karmasv anuṣajjate sarvasaṃkalpasaṃnyāsī yogārūḍhas tadocyate 5 uddhared ātmanātmānaṃ nātmānam avasādayet ātmaiva hy ātmano bandhur ātmaiva ripur ātmanaḥ 6 bandhur ātmātmanas tasya yenātmaivātmanā jitaḥ anātmanas tu śatrutve vartetātmaiva śatruvat 7 jitātmanaḥ praśāntasya paramātmā samāhitaḥ śītoṣṇasukhaduḥkheṣu tathā mānāpamānayoḥ 8 jñānavijñānatṛptātmā kūṭastho vijitendriyaḥ yukta ity ucyate yogī samaloṣṭāśmakāñcanaḥ 9 suhṛnmitrāryudāsīnamadhyasthadveṣyabandhuṣu sādhuṣv api ca pāpeṣu samabuddhir viśiṣyate 10 yogī yuñjīta satatam ātmānaṃ rahasi sthitaḥ ekākī yatacittātmā nirāśīr aparigrahaḥ 11 śucau deśe pratiṣṭhāpya sthiram āsanam ātmanaḥ nātyucchritaṃ nātinīcaṃ cailājinakuśottaram 12 tatraikāgraṃ manaḥ kṛtvā yatacittendriyakriyaḥ upaviśyāsane yuñjyād yogam ātmaviśuddhaye 13 samaṃ kāyaśirogrīvaṃ dhārayann acalaṃ sthiraḥ saṃprekṣya nāsikāgraṃ svaṃ diśaś cānavalokayan 14 praśāntātmā vigatabhīr brahmacārivrate sthitaḥ manaḥ saṃyamya maccitto yukta āsīta matparaḥ 15 yuñjann evaṃ sadātmānaṃ yogī niyatamānasaḥ śāntiṃ nirvāṇaparamāṃ matsaṃsthām adhigacchati 16 nātyaśnatas tu yogo 'sti na caikāntam anaśnataḥ na cātisvapnaśīlasya jāgrato naiva cārjuna 17 yuktāhāravihārasya yuktaceṣṭasya karmasu yuktasvapnāvabodhasya yogo bhavati duḥkhahā 18 yadā viniyataṃ cittam ātmany evāvatiṣṭhate niḥspṛhaḥ sarvakāmebhyo yukta ity ucyate tadā 19 yathā dīpo nivātastho neṅgate sopamā smṛtā yogino yatacittasya yuñjato yogam ātmanaḥ 20 yatroparamate cittaṃ niruddhaṃ yogasevayā yatra caivātmanātmānaṃ paśyann ātmani tuṣyati 21 sukham ātyantikaṃ yat tad buddhigrāhyam atīndriyam vetti yatra na caivāyaṃ sthitaś calati tattvataḥ 22 yaṃ labdhvā cāparaṃ lābhaṃ manyate nādhikaṃ tataḥ yasmin sthito na duḥkhena guruṇāpi vicālyate 23 taṃ vidyād duḥkhasaṃyogaviyogaṃ yogasaṃjñitam sa niścayena yoktavyo yogo 'nirviṇṇacetasā 24 saṃkalpaprabhavān kāmāṃs tyaktvā sarvān aśeṣataḥ manasaivendriyagrāmaṃ viniyamya samantataḥ 25 śanaiḥ śanair uparamed buddhyā dhṛtigṛhītayā ātmasaṃsthaṃ manaḥ kṛtvā na kiṃ cid api cintayet 26 yato yato niścarati manaś cañcalam asthiram tatas tato niyamyaitad ātmany eva vaśaṃ nayet 27 praśāntamanasaṃ hy enaṃ yoginaṃ sukham uttamam upaiti śāntarajasaṃ brahmabhūtam akalmaṣam 28 yuñjann evaṃ sadātmānaṃ yogī vigatakalmaṣaḥ sukhena brahmasaṃsparśam atyantaṃ sukham aśnute 29 sarvabhūtastham ātmānaṃ sarvabhūtāni cātmani īkṣate yogayuktātmā sarvatra samadarśanaḥ 30 yo māṃ paśyati sarvatra sarvaṃ ca mayi paśyati tasyāhaṃ na praṇaśyāmi sa ca me na praṇaśyati 31 sarvabhūtasthitaṃ yo māṃ bhajaty ekatvam āsthitaḥ sarvathā vartamāno 'pi sa yogī mayi vartate 32 ātmaupamyena sarvatra samaṃ paśyati yo 'rjuna sukhaṃ vā yadi vā duḥkhaṃ sa yogī paramo mataḥ 33 arjuna uvāca yo 'yaṃ yogas tvayā proktaḥ sāmyena madhusūdana etasyāhaṃ na paśyāmi cañcalatvāt sthitiṃ sthirām 34 cañcalaṃ hi manaḥ kṛṣṇa pramāthi balavad dṛḍham tasyāhaṃ nigrahaṃ manye vāyor iva suduṣkaram 35 śrībhagavān uvāca asaṃśayaṃ mahābāho mano durṇigrahaṃ calam abhyāsena tu kaunteya vairāgyeṇa ca gṛhyate 36 asaṃyatātmanā yogo duṣprāpa iti me matiḥ vaśyātmanā tu yatatā śakyo 'vāptum upāyataḥ 37 arjuna uvāca ayatiḥ śraddhayopeto yogāc calitamānasaḥ aprāpya yogasaṃsiddhiṃ kāṃ gatiṃ kṛṣṇa gacchati 38 kac cin nobhayavibhraṣṭaś chinnābhram iva naśyati apratiṣṭho mahābāho vimūḍho brahmaṇaḥ pathi 39 etan me saṃśayaṃ kṛṣṇa chettum arhasy aśeṣataḥ tvadanyaḥ saṃśayasyāsya chettā na hy upapadyate 40 śrībhagavān uvāca pārtha naiveha nāmutra vināśas tasya vidyate na hi kalyāṇakṛt kaś cid durgatiṃ tāta gacchati 41 prāpya puṇyakṛtāṃ lokān uṣitvā śāśvatīḥ samāḥ śucīnāṃ śrīmatāṃ gehe yogabhraṣṭo 'bhijāyate 42 atha vā yoginām eva kule bhavati dhīmatām etad dhi durlabhataraṃ loke janma yad īdṛśam 43 tatra taṃ buddhisaṃyogaṃ labhate paurvadehikam yatate ca tato bhūyaḥ saṃsiddhau kurunandana 44 pūrvābhyāsena tenaiva hriyate hy avaśo 'pi saḥ jijñāsur api yogasya śabdabrahmātivartate 45 prayatnād yatamānas tu yogī saṃśuddhakilbiṣaḥ anekajanmasaṃsiddhas tato yāti parāṃ gatim 46 tapasvibhyo 'dhiko yogī jñānibhyo 'pi mato 'dhikaḥ karmibhyaś cādhiko yogī tasmād yogī bhavārjuna 47 yoginām api sarveṣāṃ madgatenāntarātmanā śraddhāvān bhajate yo māṃ sa me yuktatamo mataḥ |
The Mahabharata in Sanskrit
Book 6
Chapter 29
|
1
शरीभगवान उवाच मय्य आसक्तमनाः पार्थ यॊगं युञ्जन मदाश्रयः असंशयं समग्रं मां यथा जञास्यसि तच छृणु 2 जञानं ते ऽहं सविज्ञानम इदं वक्ष्याम्य अशेषतः यज जञात्वा नेह भूयॊ ऽनयज जञातव्यम अवशिष्यते 3 मनुष्याणां सहस्रेषु कश चिद यतति सिद्धये यतताम अपि सिद्धानां कश चिन मां वेत्ति तत्त्वतः 4 भूमिर आपॊ ऽनलॊ वायुः खं मनॊ बुद्धिर एव च अहंकार इतीयं मे भिन्ना परकृतिर अष्टधा 5 अपरेयम इतस तव अन्यां परकृतिं विद्धि मे पराम जीवभूतां महाबाहॊ ययेदं धार्यते जगत 6 एतद्यॊनीनि भूतानि सर्वाणीत्य उपधारय अहं कृत्स्नस्य जगतः परभवः परलयस तथा 7 मत्तः परतरं नान्यत किं चिद अस्ति धनंजय मयि सर्वम इदं परॊतं सूत्रे मणिगणा इव 8 रसॊ ऽहम अप्सु कौन्तेय परभास्मि शशिसूर्ययॊः परणवः सर्ववेदेषु शब्दः खे पौरुषं नृषु 9 पुण्यॊ गन्धः पृथिव्यां च तेजश चास्मि विभावसौ जीवनं सर्वभूतेषु तपश चास्मि तपस्विषु 10 बीजं मां सर्वभूतानां विद्धि पार्थ सनातनम बुद्धिर बुद्धिमताम अस्मि तेजस तेजस्विनाम अहम 11 बलं बलवतां चाहं कामरागविवर्जितम धर्माविरुद्धॊ भूतेषु कामॊ ऽसमि भरतर्षभ 12 ये चैव सात्त्विका भावा राजसास तामसाश च ये मत्त एवेति तान विद्धि न तव अहं तेषु ते मयि 13 तरिभिर गुणमयैर भावैर एभिः सर्वम इदं जगत मॊहितं नाभिजानाति माम एभ्यः परम अव्ययम 14 दैवी हय एषा गुणमयी मम माया दुरत्यया माम एव ये परपद्यन्ते मायाम एतां तरन्ति ते 15 न मां दुष्कृतिनॊ मूढाः परपद्यन्ते नराधमाः माययापहृतज्ञाना आसुरं भावम आश्रिताः 16 चतुर्विधा भजन्ते मां जनाः सुकृतिनॊ ऽरजुन आर्तॊ जिज्ञासुर अर्थार्थी जञानी च भरतर्षभ 17 तेषां जञानी नित्ययुक्त एकभक्तिर विशिष्यते परियॊ हि जञानिनॊ ऽतयर्थम अहं स च मम परियः 18 उदाराः सर्व एवैते जञानी तव आत्मैव मे मतम आस्थितः स हि युक्तात्मा माम एवानुत्तमां गतिम 19 बहूनां जन्मनाम अन्ते जञानवान मां परपद्यते वासुदेवः सर्वम इति स महात्मा सुदुर्लभः 20 कामैस तैस तैर हृतज्ञानाः परपद्यन्ते ऽनयदेवताः तं तं नियमम आस्थाय परकृत्या नियताः सवया 21 यॊ यॊ यां यां तनुं भक्तः शरद्धयार्चितुम इच्छति तस्य तस्याचलां शरद्धां ताम एव विदधाम्य अहम 22 स तया शरद्धया युक्तस तस्या राधनम ईहते लभते च ततः कामान मयैव विहितान हि तान 23 अन्तवत तु फलं तेषां तद भवत्य अल्पमेधसाम देवान देवयजॊ यान्ति मद्भक्ता यान्ति माम अपि 24 अव्यक्तं वयक्तिम आपन्नं मन्यन्ते माम अबुद्धयः परं भावम अजानन्तॊ ममाव्ययम अनुत्तमम 25 नाहं परकाशः सर्वस्य यॊगमायासमावृतः मूढॊ ऽयं नाभिजानाति लॊकॊ माम अजम अव्ययम 26 वेदाहं समतीतानि वर्तमानानि चार्जुन भविष्याणि च भूतानि मां तु वेद न कश चन 27 इच्छाद्वेषसमुत्थेन दवन्द्वमॊहेन भारत सर्वभूतानि संमॊहं सर्गे यान्ति परंतप 28 येषां तव अन्तगतं पापं जनानां पुण्यकर्मणाम ते दवन्द्वमॊहनिर्मुक्ता भजन्ते मां दृढव्रताः 29 जरामरणमॊक्षाय माम आश्रित्य यतन्ति ये ते बरह्म तद विदुः कृत्स्नम अध्यात्मं कर्म चाखिलम 30 साधिभूताधिदैवं मां साधियज्ञं च ये विदुः परयाणकाले ऽपि च मां ते विदुर युक्तचेतसः |
1
śrībhagavān uvāca mayy āsaktamanāḥ pārtha yogaṃ yuñjan madāśrayaḥ asaṃśayaṃ samagraṃ māṃ yathā jñāsyasi tac chṛṇu 2 jñānaṃ te 'haṃ savijñānam idaṃ vakṣyāmy aśeṣataḥ yaj jñātvā neha bhūyo 'nyaj jñātavyam avaśiṣyate 3 manuṣyāṇāṃ sahasreṣu kaś cid yatati siddhaye yatatām api siddhānāṃ kaś cin māṃ vetti tattvataḥ 4 bhūmir āpo 'nalo vāyuḥ khaṃ mano buddhir eva ca ahaṃkāra itīyaṃ me bhinnā prakṛtir aṣṭadhā 5 apareyam itas tv anyāṃ prakṛtiṃ viddhi me parām jīvabhūtāṃ mahābāho yayedaṃ dhāryate jagat 6 etadyonīni bhūtāni sarvāṇīty upadhāraya ahaṃ kṛtsnasya jagataḥ prabhavaḥ pralayas tathā 7 mattaḥ parataraṃ nānyat kiṃ cid asti dhanaṃjaya mayi sarvam idaṃ protaṃ sūtre maṇigaṇā iva 8 raso 'ham apsu kaunteya prabhāsmi śaśisūryayoḥ praṇavaḥ sarvavedeṣu śabdaḥ khe pauruṣaṃ nṛṣu 9 puṇyo gandhaḥ pṛthivyāṃ ca tejaś cāsmi vibhāvasau jīvanaṃ sarvabhūteṣu tapaś cāsmi tapasviṣu 10 bījaṃ māṃ sarvabhūtānāṃ viddhi pārtha sanātanam buddhir buddhimatām asmi tejas tejasvinām aham 11 balaṃ balavatāṃ cāhaṃ kāmarāgavivarjitam dharmāviruddho bhūteṣu kāmo 'smi bharatarṣabha 12 ye caiva sāttvikā bhāvā rājasās tāmasāś ca ye matta eveti tān viddhi na tv ahaṃ teṣu te mayi 13 tribhir guṇamayair bhāvair ebhiḥ sarvam idaṃ jagat mohitaṃ nābhijānāti mām ebhyaḥ param avyayam 14 daivī hy eṣā guṇamayī mama māyā duratyayā mām eva ye prapadyante māyām etāṃ taranti te 15 na māṃ duṣkṛtino mūḍhāḥ prapadyante narādhamāḥ māyayāpahṛtajñānā āsuraṃ bhāvam āśritāḥ 16 caturvidhā bhajante māṃ janāḥ sukṛtino 'rjuna ārto jijñāsur arthārthī jñānī ca bharatarṣabha 17 teṣāṃ jñānī nityayukta ekabhaktir viśiṣyate priyo hi jñānino 'tyartham ahaṃ sa ca mama priyaḥ 18 udārāḥ sarva evaite jñānī tv ātmaiva me matam āsthitaḥ sa hi yuktātmā mām evānuttamāṃ gatim 19 bahūnāṃ janmanām ante jñānavān māṃ prapadyate vāsudevaḥ sarvam iti sa mahātmā sudurlabhaḥ 20 kāmais tais tair hṛtajñānāḥ prapadyante 'nyadevatāḥ taṃ taṃ niyamam āsthāya prakṛtyā niyatāḥ svayā 21 yo yo yāṃ yāṃ tanuṃ bhaktaḥ śraddhayārcitum icchati tasya tasyācalāṃ śraddhāṃ tām eva vidadhāmy aham 22 sa tayā śraddhayā yuktas tasyā rādhanam īhate labhate ca tataḥ kāmān mayaiva vihitān hi tān 23 antavat tu phalaṃ teṣāṃ tad bhavaty alpamedhasām devān devayajo yānti madbhaktā yānti mām api 24 avyaktaṃ vyaktim āpannaṃ manyante mām abuddhayaḥ paraṃ bhāvam ajānanto mamāvyayam anuttamam 25 nāhaṃ prakāśaḥ sarvasya yogamāyāsamāvṛtaḥ mūḍho 'yaṃ nābhijānāti loko mām ajam avyayam 26 vedāhaṃ samatītāni vartamānāni cārjuna bhaviṣyāṇi ca bhūtāni māṃ tu veda na kaś cana 27 icchādveṣasamutthena dvandvamohena bhārata sarvabhūtāni saṃmohaṃ sarge yānti paraṃtapa 28 yeṣāṃ tv antagataṃ pāpaṃ janānāṃ puṇyakarmaṇām te dvandvamohanirmuktā bhajante māṃ dṛḍhavratāḥ 29 jarāmaraṇamokṣāya mām āśritya yatanti ye te brahma tad viduḥ kṛtsnam adhyātmaṃ karma cākhilam 30 sādhibhūtādhidaivaṃ māṃ sādhiyajñaṃ ca ye viduḥ prayāṇakāle 'pi ca māṃ te vidur yuktacetasaḥ |
The Mahabharata in Sanskrit
Book 6
Chapter 30
|
1
अर्जुन उवाच किं तद बरह्म किम अध्यात्मं किं कर्म पुरुषॊत्तम अधिभूतं च किं परॊक्तम अधिदैवं किम उच्यते 2 अधियज्ञः कथं कॊ ऽतर देहे ऽसमिन मधुसूदन परयाणकाले च कथं जञेयॊ ऽसि नियतात्मभिः 3 शरीभगवान उवाच अक्षरं बरह्म परमं सवभावॊ ऽधयात्मम उच्यते भूतभावॊद्भवकरॊ विसर्गः कर्मसंज्ञितः 4 अधिभूतं कषरॊ भावः पुरुषश चाधिदैवतम अधियज्ञॊ ऽहम एवात्र देहे देहभृतां वर 5 अन्तकाले च माम एव समरन मुक्त्वा कलेवरम यः परयाति स मद्भावं याति नास्त्य अत्र संशयः 6 यं यं वापि समरन भावं तयजत्य अन्ते कलेवरम तं तम एवैति कौन्तेय सदा तद्भावभावितः 7 तस्मात सर्वेषु कालेषु माम अनुस्मर युध्य च मय्य अर्पितमनॊबुद्धिर माम एवैष्यस्य असंशयः 8 अभ्यासयॊगयुक्तेन चेतसा नान्यगामिना परमं पुरुषं दिव्यं याति पार्थानुचिन्तयन 9 कविं पुराणम अनुशासितारम; अणॊर अणीयांसम अनुस्मरेद यः सर्वस्य धातारम अचिन्त्यरूपम; आदित्यवर्णं तमसः परस्तात 10 परयाणकाले मनसाचलेन; भक्त्या युक्तॊ यॊगबलेन चैव भरुवॊर मध्ये पराणम आवेश्य सम्यक; स तं परं पुरुषम उपैति दिव्यम 11 यद अक्षरं वेदविदॊ वदन्ति; विशन्ति यद यतयॊ वीतरागाः यद इच्छन्तॊ बरह्मचर्यं चरन्ति; तत ते पदं संग्रहेण परवक्ष्ये 12 सर्वद्वाराणि संयम्य मनॊ हृदि निरुध्य च मूर्ध्न्य आधायात्मनः पराणम आस्थितॊ यॊगधारणाम 13 ओम इत्य एकाक्षरं बरह्म वयाहरन माम अनुस्मरन यः परयाति तयजन देहं स याति परमां गतिम 14 अनन्यचेताः सततं यॊ मां समरति नित्यशः तस्याहं सुलभः पार्थ नित्ययुक्तस्य यॊगिनः 15 माम उपेत्य पुनर्जन्म दुःखालयम अशाश्वतम नाप्नुवन्ति महात्मानः संसिद्धिं परमां गताः 16 आ बरह्मभुवनाल लॊकाः पुनरावर्तिनॊ ऽरजुन माम उपेत्य तु कौन्तेय पुनर्जन्म न विद्यते 17 सहस्रयुगपर्यन्तम अहर यद बरह्मणॊ विदुः रात्रिं युगसहस्रान्तां ते ऽहॊरात्रविदॊ जनाः 18 अव्यक्ताद वयक्तयः सर्वाः परभवन्त्य अहरागमे रात्र्यागमे परलीयन्ते तत्रैवाव्यक्तसंज्ञके 19 भूतग्रामः स एवायं भूत्वा भूत्वा परलीयते रात्र्यागमे ऽवशः पार्थ परभवत्य अहरागमे 20 परस तस्मात तु भावॊ ऽनयॊ ऽवयक्तॊ ऽवयक्तात सनातनः यः स सर्वेषु भूतेषु नश्यत्सु न विनश्यति 21 अव्यक्तॊ ऽकषर इत्य उक्तस तम आहुः परमां गतिम यं पराप्य न निवर्तन्ते तद धाम परमं मम 22 पुरुषः स परः पार्थ भक्त्या लभ्यस तव अनन्यया यस्यान्तःस्थानि भूतानि येन सर्वम इदं ततम 23 यत्र काले तव अनावृत्तिम आवृत्तिं चैव यॊगिनः परयाता यान्ति तं कालं वक्ष्यामि भरतर्षभ 24 अग्निर जयॊतिर अहः शुक्लः षण्मासा उत्तरायणम तत्र परयाता गच्छन्ति बरह्म बरह्मविदॊ जनाः 25 धूमॊ रात्रिस तथा कृष्णः षण्मासा दक्षिणायनम तत्र चान्द्रमसं जयॊतिर यॊगी पराप्य निवर्तते 26 शुक्लकृष्णे गती हय एते जगतः शाश्वते मते एकया यात्य अनावृत्तिम अन्ययावर्तते पुनः 27 नैते सृती पार्थ जानन यॊगी मुह्यति कश चन तस्मात सर्वेषु कालेषु यॊगयुक्तॊ भवार्जुन 28 वेदेषु यज्ञेषु तपःसु चैव; दानेषु यत पुण्यफलं परदिष्टम अत्येति तत सर्वम इदं विदित्वा; यॊगी परं सथानम उपैति चाद्यम |
1
arjuna uvāca kiṃ tad brahma kim adhyātmaṃ kiṃ karma puruṣottama adhibhūtaṃ ca kiṃ proktam adhidaivaṃ kim ucyate 2 adhiyajñaḥ kathaṃ ko 'tra dehe 'smin madhusūdana prayāṇakāle ca kathaṃ jñeyo 'si niyatātmabhiḥ 3 śrībhagavān uvāca akṣaraṃ brahma paramaṃ svabhāvo 'dhyātmam ucyate bhūtabhāvodbhavakaro visargaḥ karmasaṃjñitaḥ 4 adhibhūtaṃ kṣaro bhāvaḥ puruṣaś cādhidaivatam adhiyajño 'ham evātra dehe dehabhṛtāṃ vara 5 antakāle ca mām eva smaran muktvā kalevaram yaḥ prayāti sa madbhāvaṃ yāti nāsty atra saṃśayaḥ 6 yaṃ yaṃ vāpi smaran bhāvaṃ tyajaty ante kalevaram taṃ tam evaiti kaunteya sadā tadbhāvabhāvitaḥ 7 tasmāt sarveṣu kāleṣu mām anusmara yudhya ca mayy arpitamanobuddhir mām evaiṣyasy asaṃśayaḥ 8 abhyāsayogayuktena cetasā nānyagāminā paramaṃ puruṣaṃ divyaṃ yāti pārthānucintayan 9 kaviṃ purāṇam anuśāsitāram; aṇor aṇīyāṃsam anusmared yaḥ sarvasya dhātāram acintyarūpam; ādityavarṇaṃ tamasaḥ parastāt 10 prayāṇakāle manasācalena; bhaktyā yukto yogabalena caiva bhruvor madhye prāṇam āveśya samyak; sa taṃ paraṃ puruṣam upaiti divyam 11 yad akṣaraṃ vedavido vadanti; viśanti yad yatayo vītarāgāḥ yad icchanto brahmacaryaṃ caranti; tat te padaṃ saṃgraheṇa pravakṣye 12 sarvadvārāṇi saṃyamya mano hṛdi nirudhya ca mūrdhny ādhāyātmanaḥ prāṇam āsthito yogadhāraṇām 13 om ity ekākṣaraṃ brahma vyāharan mām anusmaran yaḥ prayāti tyajan dehaṃ sa yāti paramāṃ gatim 14 ananyacetāḥ satataṃ yo māṃ smarati nityaśaḥ tasyāhaṃ sulabhaḥ pārtha nityayuktasya yoginaḥ 15 mām upetya punarjanma duḥkhālayam aśāśvatam nāpnuvanti mahātmānaḥ saṃsiddhiṃ paramāṃ gatāḥ 16 ā brahmabhuvanāl lokāḥ punarāvartino 'rjuna mām upetya tu kaunteya punarjanma na vidyate 17 sahasrayugaparyantam ahar yad brahmaṇo viduḥ rātriṃ yugasahasrāntāṃ te 'horātravido janāḥ 18 avyaktād vyaktayaḥ sarvāḥ prabhavanty aharāgame rātryāgame pralīyante tatraivāvyaktasaṃjñake 19 bhūtagrāmaḥ sa evāyaṃ bhūtvā bhūtvā pralīyate rātryāgame 'vaśaḥ pārtha prabhavaty aharāgame 20 paras tasmāt tu bhāvo 'nyo 'vyakto 'vyaktāt sanātanaḥ yaḥ sa sarveṣu bhūteṣu naśyatsu na vinaśyati 21 avyakto 'kṣara ity uktas tam āhuḥ paramāṃ gatim yaṃ prāpya na nivartante tad dhāma paramaṃ mama 22 puruṣaḥ sa paraḥ pārtha bhaktyā labhyas tv ananyayā yasyāntaḥsthāni bhūtāni yena sarvam idaṃ tatam 23 yatra kāle tv anāvṛttim āvṛttiṃ caiva yoginaḥ prayātā yānti taṃ kālaṃ vakṣyāmi bharatarṣabha 24 agnir jyotir ahaḥ śuklaḥ ṣaṇmāsā uttarāyaṇam tatra prayātā gacchanti brahma brahmavido janāḥ 25 dhūmo rātris tathā kṛṣṇaḥ ṣaṇmāsā dakṣiṇāyanam tatra cāndramasaṃ jyotir yogī prāpya nivartate 26 śuklakṛṣṇe gatī hy ete jagataḥ śāśvate mate ekayā yāty anāvṛttim anyayāvartate punaḥ 27 naite sṛtī pārtha jānan yogī muhyati kaś cana tasmāt sarveṣu kāleṣu yogayukto bhavārjuna 28 vedeṣu yajñeṣu tapaḥsu caiva; dāneṣu yat puṇyaphalaṃ pradiṣṭam atyeti tat sarvam idaṃ viditvā; yogī paraṃ sthānam upaiti cādyam |
The Mahabharata in Sanskrit
Book 6
Chapter 31
|
1
शरीभगवान उवाच इदं तु ते गुह्यतमं परवक्ष्याम्य अनसूयवे जञानं विज्ञानसहितं यज जञात्वा मॊक्ष्यसे ऽशुभात 2 राजविद्या राजगुह्यं पवित्रम इदम उत्तमम परत्यक्षावगमं धर्म्यं सुसुखं कर्तुम अव्ययम 3 अश्रद्दधानाः पुरुषा धर्मस्यास्य परंतप अप्राप्य मां निवर्तन्ते मृत्युसंसारवर्त्मनि 4 मया ततम इदं सर्वं जगद अव्यक्तमूर्तिना मत्स्थानि सर्वभूतानि न चाहं तेष्व अवस्थितः 5 न च मत्स्थानि भूतानि पश्य मे यॊगम ऐश्वरम भूतभृन न च भूतस्थॊ ममात्मा भूतभावनः 6 यथाकाशस्थितॊ नित्यं वायुः सर्वत्रगॊ महान तथा सर्वाणि भूतानि मत्स्थानीत्य उपधारय 7 सर्वभूतानि कौन्तेय परकृतिं यान्ति मामिकाम कल्पक्षये पुनस तानि कल्पादौ विसृजाम्य अहम 8 परकृतिं सवाम अवष्टभ्य विसृजामि पुनः पुनः भूतग्रामम इमं कृत्स्नम अवशं परकृतेर वशात 9 न च मां तानि कर्माणि निबध्नन्ति धनंजय उदासीनवद आसीनम असक्तं तेषु कर्मसु 10 मयाध्यक्षेण परकृतिः सूयते सचराचरम हेतुनानेन कौन्तेय जगद विपरिवर्तते 11 अवजानन्ति मां मूढा मानुषीं तनुम आश्रितम परं भावम अजानन्तॊ मम भूतमहेश्वरम 12 मॊघाशा मॊघकर्माणॊ मॊघज्ञाना विचेतसः राक्षसीम आसुरीं चैव परकृतिं मॊहिनीं शरिताः 13 महात्मानस तु मां पार्थ दैवीं परकृतिम आश्रिताः भजन्त्य अनन्यमनसॊ जञात्वा भूतादिम अव्ययम 14 सततं कीर्तयन्तॊ मां यतन्तश च दृढव्रताः नमस्यन्तश च मां भक्त्या नित्ययुक्ता उपासते 15 जञानयज्ञेन चाप्य अन्ये यजन्तॊ माम उपासते एकत्वेन पृथक्त्वेन बहुधा विश्वतॊमुखम 16 अहं करतुर अहं यज्ञः सवधाहम अहम औषधम मन्त्रॊ ऽहम अहम एवाज्यम अहम अग्निर अहं हुतम 17 पिताहम अस्य जगतॊ माता धाता पितामहः वेद्यं पवित्रम ओंकार ऋक साम यजुर एव च 18 गतिर भर्ता परभुः साक्षी निवासः शरणं सुहृत परभवः परलयः सथानं निधानं बीजम अव्ययम 19 तपाम्य अहम अहं वर्षं निगृह्णाम्य उत्सृजामि च अमृतं चैव मृत्युश च सद असच चाहम अर्जुन 20 तरैविद्या मां सॊमपाः पूतपापा; यज्ञैर इष्ट्वा सवर्गतिं परार्थयन्ते ते पुण्यम आसाद्य सुरेन्द्रलॊकम; अश्नन्ति दिव्यान दिवि देवभॊगान 21 ते तं भुक्त्वा सवर्गलॊकं विशालं; कषीणे पुण्ये मर्त्यलॊकं विशन्ति एवं तरयीधर्मम अनुप्रपन्ना; गतागतं कामकामा लभन्ते 22 अनन्याश चिन्तयन्तॊ मां ये जनाः पर्युपासते तेषां नित्याभियुक्तानां यॊगक्षेमं वहाम्य अहम 23 ये ऽपय अन्यदेवताभक्ता यजन्ते शरद्धयान्विताः ते ऽपि माम एव कौन्तेय यजन्त्य अविधिपूर्वकम 24 अहं हि सर्वयज्ञानां भॊक्ता च परभुर एव च न तु माम अभिजानन्ति तत्त्वेनातश चयवन्ति ते 25 यान्ति देवव्रता देवान पितॄन यान्ति पितृव्रताः भूतानि यान्ति भूतेज्या यान्ति मद्याजिनॊ ऽपि माम 26 पत्रं पुष्पं फलं तॊयं यॊ मे भक्त्या परयच्छति तद अहं भक्त्युपहृतम अश्नामि परयतात्मनः 27 यत करॊषि यद अश्नासि यज जुहॊषि ददासि यत यत तपस्यसि कौन्तेय तत कुरुष्व मदर्पणम 28 शुभाशुभफलैर एवं मॊक्ष्यसे कर्मबन्धनैः संन्यासयॊगयुक्तात्मा विमुक्तॊ माम उपैष्यसि 29 समॊ ऽहं सर्वभूतेषु न मे दवेष्यॊ ऽसति न परियः ये भजन्ति तु मां भक्त्या मयि ते तेषु चाप्य अहम 30 अपि चेत सुदुराचारॊ भजते माम अनन्यभाक साधुर एव स मन्तव्यः सम्यग वयवसितॊ हि सः 31 कषिप्रं भवति धर्मात्मा शश्वच्छान्तिं निगच्छति कौन्तेय परतिजानीहि न मे भक्तः परणश्यति 32 मां हि पार्थ वयपाश्रित्य ये ऽपि सयुः पापयॊनयः सत्रियॊ वैश्यास तथा शूद्रास ते ऽपि यान्ति परां गतिम 33 किं पुनर बराह्मणाः पुण्या भक्ता राजर्षयस तथा अनित्यम असुखं लॊकम इमं पराप्य भजस्व माम 34 मन्मना भव मद्भक्तॊ मद्याजी मां नमस्कुरु माम एवैष्यसि युक्त्वैवम आत्मानं मत्परायणः |
1
śrībhagavān uvāca idaṃ tu te guhyatamaṃ pravakṣyāmy anasūyave jñānaṃ vijñānasahitaṃ yaj jñātvā mokṣyase 'śubhāt 2 rājavidyā rājaguhyaṃ pavitram idam uttamam pratyakṣāvagamaṃ dharmyaṃ susukhaṃ kartum avyayam 3 aśraddadhānāḥ puruṣā dharmasyāsya paraṃtapa aprāpya māṃ nivartante mṛtyusaṃsāravartmani 4 mayā tatam idaṃ sarvaṃ jagad avyaktamūrtinā matsthāni sarvabhūtāni na cāhaṃ teṣv avasthitaḥ 5 na ca matsthāni bhūtāni paśya me yogam aiśvaram bhūtabhṛn na ca bhūtastho mamātmā bhūtabhāvanaḥ 6 yathākāśasthito nityaṃ vāyuḥ sarvatrago mahān tathā sarvāṇi bhūtāni matsthānīty upadhāraya 7 sarvabhūtāni kaunteya prakṛtiṃ yānti māmikām kalpakṣaye punas tāni kalpādau visṛjāmy aham 8 prakṛtiṃ svām avaṣṭabhya visṛjāmi punaḥ punaḥ bhūtagrāmam imaṃ kṛtsnam avaśaṃ prakṛter vaśāt 9 na ca māṃ tāni karmāṇi nibadhnanti dhanaṃjaya udāsīnavad āsīnam asaktaṃ teṣu karmasu 10 mayādhyakṣeṇa prakṛtiḥ sūyate sacarācaram hetunānena kaunteya jagad viparivartate 11 avajānanti māṃ mūḍhā mānuṣīṃ tanum āśritam paraṃ bhāvam ajānanto mama bhūtamaheśvaram 12 moghāśā moghakarmāṇo moghajñānā vicetasaḥ rākṣasīm āsurīṃ caiva prakṛtiṃ mohinīṃ śritāḥ 13 mahātmānas tu māṃ pārtha daivīṃ prakṛtim āśritāḥ bhajanty ananyamanaso jñātvā bhūtādim avyayam 14 satataṃ kīrtayanto māṃ yatantaś ca dṛḍhavratāḥ namasyantaś ca māṃ bhaktyā nityayuktā upāsate 15 jñānayajñena cāpy anye yajanto mām upāsate ekatvena pṛthaktvena bahudhā viśvatomukham 16 ahaṃ kratur ahaṃ yajñaḥ svadhāham aham auṣadham mantro 'ham aham evājyam aham agnir ahaṃ hutam 17 pitāham asya jagato mātā dhātā pitāmahaḥ vedyaṃ pavitram oṃkāra ṛk sāma yajur eva ca 18 gatir bhartā prabhuḥ sākṣī nivāsaḥ śaraṇaṃ suhṛt prabhavaḥ pralayaḥ sthānaṃ nidhānaṃ bījam avyayam 19 tapāmy aham ahaṃ varṣaṃ nigṛhṇāmy utsṛjāmi ca amṛtaṃ caiva mṛtyuś ca sad asac cāham arjuna 20 traividyā māṃ somapāḥ pūtapāpā; yajñair iṣṭvā svargatiṃ prārthayante te puṇyam āsādya surendralokam; aśnanti divyān divi devabhogān 21 te taṃ bhuktvā svargalokaṃ viśālaṃ; kṣīṇe puṇye martyalokaṃ viśanti evaṃ trayīdharmam anuprapannā; gatāgataṃ kāmakāmā labhante 22 ananyāś cintayanto māṃ ye janāḥ paryupāsate teṣāṃ nityābhiyuktānāṃ yogakṣemaṃ vahāmy aham 23 ye 'py anyadevatābhaktā yajante śraddhayānvitāḥ te 'pi mām eva kaunteya yajanty avidhipūrvakam 24 ahaṃ hi sarvayajñānāṃ bhoktā ca prabhur eva ca na tu mām abhijānanti tattvenātaś cyavanti te 25 yānti devavratā devān pitṝn yānti pitṛvratāḥ bhūtāni yānti bhūtejyā yānti madyājino 'pi mām 26 patraṃ puṣpaṃ phalaṃ toyaṃ yo me bhaktyā prayacchati tad ahaṃ bhaktyupahṛtam aśnāmi prayatātmanaḥ 27 yat karoṣi yad aśnāsi yaj juhoṣi dadāsi yat yat tapasyasi kaunteya tat kuruṣva madarpaṇam 28 śubhāśubhaphalair evaṃ mokṣyase karmabandhanaiḥ saṃnyāsayogayuktātmā vimukto mām upaiṣyasi 29 samo 'haṃ sarvabhūteṣu na me dveṣyo 'sti na priyaḥ ye bhajanti tu māṃ bhaktyā mayi te teṣu cāpy aham 30 api cet sudurācāro bhajate mām ananyabhāk sādhur eva sa mantavyaḥ samyag vyavasito hi saḥ 31 kṣipraṃ bhavati dharmātmā śaśvacchāntiṃ nigacchati kaunteya pratijānīhi na me bhaktaḥ praṇaśyati 32 māṃ hi pārtha vyapāśritya ye 'pi syuḥ pāpayonayaḥ striyo vaiśyās tathā śūdrās te 'pi yānti parāṃ gatim 33 kiṃ punar brāhmaṇāḥ puṇyā bhaktā rājarṣayas tathā anityam asukhaṃ lokam imaṃ prāpya bhajasva mām 34 manmanā bhava madbhakto madyājī māṃ namaskuru mām evaiṣyasi yuktvaivam ātmānaṃ matparāyaṇaḥ |
The Mahabharata in Sanskrit
Book 6
Chapter 32
|
1
शरीभगवान उवाच भूय एव महाबाहॊ शृणु मे परमं वचः यत ते ऽहं परीयमाणाय वक्ष्यामि हितकाम्यया 2 न मे विदुः सुरगणाः परभवं न महर्षयः अहम आदिर हि देवानां महर्षीणां च सर्वशः 3 यॊ माम अजम अनादिं च वेत्ति लॊकमहेश्वरम असंमूढः स मर्त्येषु सर्वपापैः परमुच्यते 4 बुद्धिर जञानम असंमॊहः कषमा सत्यं दमः शमः सुखं दुःखं भवॊ ऽभावॊ भयं चाभयम एव च 5 अहिंसा समता तुष्टिस तपॊ दानं यशॊ ऽयशः भवन्ति भावा भूतानां मत्त एव पृथग्विधाः 6 महर्षयः सप्त पूर्वे चत्वारॊ मनवस तथा मद्भावा मानसा जाता येषां लॊक इमाः परजाः 7 एतां विभूतिं यॊगं च मम यॊ वेत्ति तत्त्वतः सॊ ऽविकम्पेन यॊगेन युज्यते नात्र संशयः 8 अहं सर्वस्य परभवॊ मत्तः सर्वं परवर्तते इति मत्वा भजन्ते मां बुधा भावसमन्विताः 9 मच्चित्ता मद्गतप्राणा बॊधयन्तः परस्परम कथयन्तश च मां नित्यं तुष्यन्ति च रमन्ति च 10 तेषां सततयुक्तानां भजतां परीतिपूर्वकम ददामि बुद्धियॊगं तं येन माम उपयान्ति ते 11 तेषाम एवानुकम्पार्थम अहम अज्ञानजं तमः नाशयाम्य आत्मभावस्थॊ जञानदीपेन भास्वता 12 अर्जुन उवाच परं बरह्म परं धाम पवित्रं परमं भवान पुरुषं शाश्वतं दिव्यम आदिदेवम अजं विभुम 13 आहुस तवाम ऋषयः सर्वे देवर्षिर नारदस तथा असितॊ देवलॊ वयासः सवयं चैव बरवीषि मे 14 सर्वम एतद ऋतं मन्ये यन मां वदसि केशव न हि ते भगवन वयक्तिं विदुर देवा न दानवाः 15 सवयम एवात्मनात्मानं वेत्थ तवं पुरुषॊत्तम भूतभावन भूतेश देवदेव जगत्पते 16 वक्तुम अर्हस्य अशेषेण दिव्या हय आत्मविभूतयः याभिर विभूतिभिर लॊकान इमांस तवं वयाप्य तिष्ठसि 17 कथं विद्याम अहं यॊगिंस तवां सदा परिचिन्तयन केषु केषु च भावेषु चिन्त्यॊ ऽसि भगवन मया 18 विस्तरेणात्मनॊ यॊगं विभूतिं च जनार्दन भूयः कथय तृप्तिर हि शृण्वतॊ नास्ति मे ऽमृतम 19 शरीभगवान उवाच हन्त ते कथयिष्यामि दिव्या हय आत्मविभूतयः पराधान्यतः कुरुश्रेष्ठ नास्त्य अन्तॊ विस्तरस्य मे 20 अहम आत्मा गुडाकेश सर्वभूताशयस्थितः अहम आदिश च मध्यं च भूतानाम अन्त एव च 21 आदित्यानाम अहं विष्णुर जयॊतिषां रविर अंशुमान मरीचिर मरुताम अस्मि नक्षत्राणाम अहं शशी 22 वेदानां सामवेदॊ ऽसमि देवानाम अस्मि वासवः इन्द्रियाणां मनश चास्मि भूतानाम अस्मि चेतना 23 रुद्राणां शंकरश चास्मि वित्तेशॊ यक्षरक्षसाम वसूनां पावकश चास्मि मेरुः शिखरिणाम अहम 24 पुरॊधसां च मुख्यं मां विद्धि पार्थ बृहस्पतिम सेनानीनाम अहं सकन्दः सरसाम अस्मि सागरः 25 महर्षीणां भृगुर अहं गिराम अस्म्य एकम अक्षरम यज्ञानां जपयज्ञॊ ऽसमि सथावराणां हिमालयः 26 अश्वत्थः सर्ववृक्षाणां देवर्षीणां च नारदः गन्धर्वाणां चित्ररथः सिद्धानां कपिलॊ मुनिः 27 उच्चैःश्रवसम अश्वानां विद्धि माम अमृतॊद्भवम ऐरावतं गजेन्द्राणां नराणां च नराधिपम 28 आयुधानाम अहं वज्रं धेनूनाम अस्मि कामधुक परजनश चास्मि कन्दर्पः सर्पाणाम अस्मि वासुकिः 29 अनन्तश चास्मि नागानां वरुणॊ यादसाम अहम पितॄणाम अर्यमा चास्मि यमः संयमताम अहम 30 परह्लादश चास्मि दैत्यानां कालः कलयताम अहम मृगाणां च मृगेन्द्रॊ ऽहं वैनतेयश च पक्षिणाम 31 पवनः पवताम अस्मि रामः शस्त्रभृताम अहम झषाणां मकरश चास्मि सरॊतसाम अस्मि जाह्नवी 32 सर्गाणाम आदिर अन्तश च मध्यं चैवाहम अर्जुन अध्यात्मविद्या विद्यानां वादः परवदताम अहम 33 अक्षराणाम अकारॊ ऽसमि दवन्द्वः सामासिकस्य च अहम एवाक्षयः कालॊ धाताहं विश्वतॊमुखः 34 मृत्युः सर्वहरश चाहम उद्भवश च भविष्यताम कीर्तिः शरीर वाक च नारीणां समृतिर मेधा धृतिः कषमा 35 बृहत्साम तथा साम्नां गायत्री छन्दसाम अहम मासानां मार्गशीर्षॊ ऽहम ऋतूनां कुसुमाकरः 36 दयूतं छलयताम अस्मि तेजस तेजस्विनाम अहम जयॊ ऽसमि वयवसायॊ ऽसमि सत्त्वं सत्त्ववताम अहम 37 वृष्णीनां वासुदेवॊ ऽसमि पाण्डवानां धनंजयः मुनीनाम अप्य अहं वयासः कवीनाम उशना कविः 38 दण्डॊ दमयताम अस्मि नीतिर अस्मि जिगीषताम मौनं चैवास्मि गुह्यानां जञानं जञानवताम अहम 39 यच चापि सर्वभूतानां बीजं तद अहम अर्जुन न तद अस्ति विना यत सयान मया भूतं चराचरम 40 नान्तॊ ऽसति मम दिव्यानां विभूतीनां परंतप एष तूद्देशतः परॊक्तॊ विभूतेर विस्तरॊ मया 41 यद यद विभूतिमत सत्त्वं शरीमद ऊर्जितम एव वा तत तद एवावगच्छ तवं मम तेजॊ ऽंशसंभवम 42 अथ वा बहुनैतेन किं जञातेन तवार्जुन विष्टभ्याहम इदं कृत्स्नम एकांशेन सथितॊ जगत |
1
śrībhagavān uvāca bhūya eva mahābāho śṛṇu me paramaṃ vacaḥ yat te 'haṃ prīyamāṇāya vakṣyāmi hitakāmyayā 2 na me viduḥ suragaṇāḥ prabhavaṃ na maharṣayaḥ aham ādir hi devānāṃ maharṣīṇāṃ ca sarvaśaḥ 3 yo mām ajam anādiṃ ca vetti lokamaheśvaram asaṃmūḍhaḥ sa martyeṣu sarvapāpaiḥ pramucyate 4 buddhir jñānam asaṃmohaḥ kṣamā satyaṃ damaḥ śamaḥ sukhaṃ duḥkhaṃ bhavo 'bhāvo bhayaṃ cābhayam eva ca 5 ahiṃsā samatā tuṣṭis tapo dānaṃ yaśo 'yaśaḥ bhavanti bhāvā bhūtānāṃ matta eva pṛthagvidhāḥ 6 maharṣayaḥ sapta pūrve catvāro manavas tathā madbhāvā mānasā jātā yeṣāṃ loka imāḥ prajāḥ 7 etāṃ vibhūtiṃ yogaṃ ca mama yo vetti tattvataḥ so 'vikampena yogena yujyate nātra saṃśayaḥ 8 ahaṃ sarvasya prabhavo mattaḥ sarvaṃ pravartate iti matvā bhajante māṃ budhā bhāvasamanvitāḥ 9 maccittā madgataprāṇā bodhayantaḥ parasparam kathayantaś ca māṃ nityaṃ tuṣyanti ca ramanti ca 10 teṣāṃ satatayuktānāṃ bhajatāṃ prītipūrvakam dadāmi buddhiyogaṃ taṃ yena mām upayānti te 11 teṣām evānukampārtham aham ajñānajaṃ tamaḥ nāśayāmy ātmabhāvastho jñānadīpena bhāsvatā 12 arjuna uvāca paraṃ brahma paraṃ dhāma pavitraṃ paramaṃ bhavān puruṣaṃ śāśvataṃ divyam ādidevam ajaṃ vibhum 13 āhus tvām ṛṣayaḥ sarve devarṣir nāradas tathā asito devalo vyāsaḥ svayaṃ caiva bravīṣi me 14 sarvam etad ṛtaṃ manye yan māṃ vadasi keśava na hi te bhagavan vyaktiṃ vidur devā na dānavāḥ 15 svayam evātmanātmānaṃ vettha tvaṃ puruṣottama bhūtabhāvana bhūteśa devadeva jagatpate 16 vaktum arhasy aśeṣeṇa divyā hy ātmavibhūtayaḥ yābhir vibhūtibhir lokān imāṃs tvaṃ vyāpya tiṣṭhasi 17 kathaṃ vidyām ahaṃ yogiṃs tvāṃ sadā paricintayan keṣu keṣu ca bhāveṣu cintyo 'si bhagavan mayā 18 vistareṇātmano yogaṃ vibhūtiṃ ca janārdana bhūyaḥ kathaya tṛptir hi śṛṇvato nāsti me 'mṛtam 19 śrībhagavān uvāca hanta te kathayiṣyāmi divyā hy ātmavibhūtayaḥ prādhānyataḥ kuruśreṣṭha nāsty anto vistarasya me 20 aham ātmā guḍākeśa sarvabhūtāśayasthitaḥ aham ādiś ca madhyaṃ ca bhūtānām anta eva ca 21 ādityānām ahaṃ viṣṇur jyotiṣāṃ ravir aṃśumān marīcir marutām asmi nakṣatrāṇām ahaṃ śaśī 22 vedānāṃ sāmavedo 'smi devānām asmi vāsavaḥ indriyāṇāṃ manaś cāsmi bhūtānām asmi cetanā 23 rudrāṇāṃ śaṃkaraś cāsmi vitteśo yakṣarakṣasām vasūnāṃ pāvakaś cāsmi meruḥ śikhariṇām aham 24 purodhasāṃ ca mukhyaṃ māṃ viddhi pārtha bṛhaspatim senānīnām ahaṃ skandaḥ sarasām asmi sāgaraḥ 25 maharṣīṇāṃ bhṛgur ahaṃ girām asmy ekam akṣaram yajñānāṃ japayajño 'smi sthāvarāṇāṃ himālayaḥ 26 aśvatthaḥ sarvavṛkṣāṇāṃ devarṣīṇāṃ ca nāradaḥ gandharvāṇāṃ citrarathaḥ siddhānāṃ kapilo muniḥ 27 uccaiḥśravasam aśvānāṃ viddhi mām amṛtodbhavam airāvataṃ gajendrāṇāṃ narāṇāṃ ca narādhipam 28 āyudhānām ahaṃ vajraṃ dhenūnām asmi kāmadhuk prajanaś cāsmi kandarpaḥ sarpāṇām asmi vāsukiḥ 29 anantaś cāsmi nāgānāṃ varuṇo yādasām aham pitṝṇām aryamā cāsmi yamaḥ saṃyamatām aham 30 prahlādaś cāsmi daityānāṃ kālaḥ kalayatām aham mṛgāṇāṃ ca mṛgendro 'haṃ vainateyaś ca pakṣiṇām 31 pavanaḥ pavatām asmi rāmaḥ śastrabhṛtām aham jhaṣāṇāṃ makaraś cāsmi srotasām asmi jāhnavī 32 sargāṇām ādir antaś ca madhyaṃ caivāham arjuna adhyātmavidyā vidyānāṃ vādaḥ pravadatām aham 33 akṣarāṇām akāro 'smi dvandvaḥ sāmāsikasya ca aham evākṣayaḥ kālo dhātāhaṃ viśvatomukhaḥ 34 mṛtyuḥ sarvaharaś cāham udbhavaś ca bhaviṣyatām kīrtiḥ śrīr vāk ca nārīṇāṃ smṛtir medhā dhṛtiḥ kṣamā 35 bṛhatsāma tathā sāmnāṃ gāyatrī chandasām aham māsānāṃ mārgaśīrṣo 'ham ṛtūnāṃ kusumākaraḥ 36 dyūtaṃ chalayatām asmi tejas tejasvinām aham jayo 'smi vyavasāyo 'smi sattvaṃ sattvavatām aham 37 vṛṣṇīnāṃ vāsudevo 'smi pāṇḍavānāṃ dhanaṃjayaḥ munīnām apy ahaṃ vyāsaḥ kavīnām uśanā kaviḥ 38 daṇḍo damayatām asmi nītir asmi jigīṣatām maunaṃ caivāsmi guhyānāṃ jñānaṃ jñānavatām aham 39 yac cāpi sarvabhūtānāṃ bījaṃ tad aham arjuna na tad asti vinā yat syān mayā bhūtaṃ carācaram 40 nānto 'sti mama divyānāṃ vibhūtīnāṃ paraṃtapa eṣa tūddeśataḥ prokto vibhūter vistaro mayā 41 yad yad vibhūtimat sattvaṃ śrīmad ūrjitam eva vā tat tad evāvagaccha tvaṃ mama tejo 'ṃśasaṃbhavam 42 atha vā bahunaitena kiṃ jñātena tavārjuna viṣṭabhyāham idaṃ kṛtsnam ekāṃśena sthito jagat |
The Mahabharata in Sanskrit
Book 6
Chapter 33
|
1
अर्जुन उवाच मदनुग्रहाय परमं गुह्यम अध्यात्मसंज्ञितम यत तवयॊक्तं वचस तेन मॊहॊ ऽयं विगतॊ मम 2 भवाप्ययौ हि भूतानां शरुतौ विस्तरशॊ मया तवत्तः कमलपत्राक्ष माहात्म्यम अपि चाव्ययम 3 एवम एतद यथात्थ तवम आत्मानं परमेश्वर दरष्टुम इच्छामि ते रूपम ऐश्वरं पुरुषॊत्तम 4 मन्यसे यदि तच छक्यं मया दरष्टुम इति परभॊ यॊगेश्वर ततॊ मे तवं दर्शयात्मानम अव्ययम 5 शरीभगवान उवाच पश्य मे पार्थ रूपाणि शतशॊ ऽथ सहस्रशः नानाविधानि दिव्यानि नानावर्णाकृतीनि च 6 पश्यादित्यान वसून रुद्रान अश्विनौ मरुतस तथा बहून्य अदृष्टपूर्वाणि पश्याश्चर्याणि भारत 7 इहैकस्थं जगत कृत्स्नं पश्याद्य सचराचरम मम देहे गुडाकेश यच चान्यद दरष्टुम इच्छसि 8 न तु मां शक्यसे दरष्टुम अनेनैव सवचक्षुषा दिव्यं ददामि ते चक्षुः पश्य मे यॊगम ऐश्वरम 9 संजय उवाच एवम उक्त्वा ततॊ राजन महायॊगेश्वरॊ हरिः दर्शयाम आस पार्थाय परमं रूपम ऐश्वरम 10 अनेकवक्त्रनयनम अनेकाद्भुतदर्शनम अनेकदिव्याभरणं दिव्यानेकॊद्यतायुधम 11 दिव्यमाल्याम्बरधरं दिव्यगन्धानुलेपनम सर्वाश्चर्यमयं देवम अनन्तं विश्वतॊमुखम 12 दिवि सूर्यसहस्रस्य भवेद युगपद उत्थिता यदि भाः सदृशी सा सयाद भासस तस्य महात्मनः 13 तत्रैकस्थं जगत कृत्स्नं परविभक्तम अनेकधा अपश्यद देवदेवस्य शरीरे पाण्डवस तदा 14 ततः स विस्मयाविष्टॊ हृष्टरॊमा धनंजयः परणम्य शिरसा देवं कृताञ्जलिर अभाषत 15 अर्जुन उवाच पश्यामि देवांस तव देव देहे; सर्वांस तथा भूतविशेषसंघान बरह्माणम ईशं कमलासनस्थम; ऋषींश च सर्वान उरगांश च दिव्यान 16 अनेकबाहूदरवक्त्रनेत्रं; पश्यामि तवा सर्वतॊ ऽनन्तरूपम नान्तं न मध्यं न पुनस तवादिं; पश्यामि विश्वेश्वर विश्वरूप 17 किरीटिनं गदिनं चक्रिणं च; तेजॊराशिं सर्वतॊ दीप्तिमन्तम पश्यामि तवां दुर्निरीक्ष्यं समन्ताद; दीप्तानलार्कद्युतिम अप्रमेयम 18 तवम अक्षरं परमं वेदितव्यं; तवम अस्य विश्वस्य परं निधानम तवम अव्ययः शाश्वतधर्मगॊप्ता; सनातनस तवं पुरुषॊ मतॊ मे 19 अनादिमध्यान्तम अनन्तवीर्यम; अनन्तबाहुं शशिसूर्यनेत्रम पश्यामि तवां दीप्तहुताशवक्त्रं; सवतेजसा विश्वम इदं तपन्तम 20 दयावापृथिव्यॊर इदम अन्तरं हि; वयाप्तं तवयैकेन दिशश च सर्वाः दृष्ट्वाद्भुतं रूपम इदं तवॊग्रं; लॊकत्रयं परव्यथितं महात्मन 21 अमी हि तवा सुरसंघा विशन्ति; के चिद भीताः पराञ्जलयॊ गृणन्ति सवस्तीत्य उक्त्वा महर्षिसिद्धसंघाः; सतुवन्ति तवां सतुतिभिः पुष्कलाभिः 22 रुद्रादित्या वसवॊ ये च साध्या; विश्वे ऽशविनौ मरुतश चॊष्मपाश च गन्धर्वयक्षासुरसिद्धसंघा; वीक्षन्ते तवां विस्मिताश चैव सर्वे 23 रूपं महत ते बहुवक्त्रनेत्रं; महाबाहॊ बहुबाहूरुपादम बहूदरं बहुदंष्ट्राकरालं; दृष्ट्वा लॊकाः परव्यथितास तथाहम 24 नभःस्पृशं दीप्तम अनेकवर्णं; वयात्ताननं दीप्तविशालनेत्रम दृष्ट्वा हि तवां परव्यथितान्तरात्मा; धृतिं न विन्दामि शमं च विष्णॊ 25 दंष्ट्राकरालानि च ते मुखानि; दृष्ट्वैव कालानलसंनिभानि दिशॊ न जाने न लभे च शर्म; परसीद देवेश जगन्निवास 26 अमी च तवां धृतराष्ट्रस्य पुत्राः; सर्वे सहैवावनिपालसंघैः भीष्मॊ दरॊणः सूतपुत्रस तथासौ; सहास्मदीयैर अपि यॊधमुख्यैः 27 वक्त्राणि ते तवरमाणा विशन्ति; दंष्ट्राकरालानि भयानकानि के चिद विलग्ना दशनान्तरेषु; संदृश्यन्ते चूर्णितैर उत्तमाङ्गैः 28 यथा नदीनां बहवॊ ऽमबुवेगाः; समुद्रम एवाभिमुखा दरवन्ति तथा तवामी नरलॊकवीरा; विशन्ति वक्त्राण्य अभिविज्वलन्ति 29 यथा परदीप्तं जवलनं पतंगा; विशन्ति नाशाय समृद्धवेगाः तथैव नाशाय विशन्ति लॊकास; तवापि वक्त्राणि समृद्धवेगाः 30 लेलिह्यसे गरसमानः समन्ताल; लॊकान समग्रान वदनैर जवलद्भिः तेजॊभिर आपूर्य जगत समग्रं; भासस तवॊग्राः परतपन्ति विष्णॊ 31 आख्याहि मे कॊ भवान उग्ररूपॊ; नमॊ ऽसतु ते देववर परसीद विज्ञातुम इच्छामि भवन्तम आद्यं; न हि परजानामि तव परवृत्तिम 32 शरीभगवान उवाच कालॊ ऽसमि लॊकक्षयकृत परवृद्धॊ; लॊकान समाहर्तुम इह परवृत्तः ऋते ऽपि तवा न भविष्यन्ति सर्वे; ये ऽवस्थिताः परत्यनीकेषु यॊधाः 33 तस्मात तवम उत्तिष्ठ यशॊ लभस्व; जित्वा शत्रून भुङ्क्ष्व राज्यं समृद्धम मयैवैते निहताः पूर्वम एव; निमित्तमात्रं भव सव्यसाचिन 34 दरॊणं च भीष्मं च जयद्रथं च; कर्णं तथान्यान अपि यॊधवीरान मया हतांस तवं जहि मा वयथिष्ठा; युध्यस्व जेतासि रणे सपत्नान 35 संजय उवाच एतच छरुत्वा वचनं केशवस्य; कृताञ्जलिर वेपमानः किरीटी नमस्कृत्वा भूय एवाह कृष्णं; सगद्गदं भीतभीतः परणम्य 36 अर्जुन उवाच सथाने हृषीकेश तव परकीर्त्या; जगत परहृष्यत्य अनुरज्यते च रक्षांसि भीतानि दिशॊ दरवन्ति; सर्वे नमस्यन्ति च सिद्धसंघाः 37 कस्माच च ते न नमेरन महात्मन; गरीयसे बरह्मणॊ ऽपय आदिकर्त्रे अनन्त देवेश जगन्निवास; तवम अक्षरं सद असत तत्परं यत 38 तवम आदिदेवः पुरुषः पुराणस; तवम अस्य विश्वस्य परं निधानम वेत्तासि वेद्यं च परं च धाम; तवया ततं विश्वम अनन्तरूप 39 वायुर यमॊ ऽगनिर वरुणः शशाङ्कः; परजापतिस तवं परपितामहश च नमॊ नमस ते ऽसतु सहस्रकृत्वः; पुनश च भूयॊ ऽपि नमॊ नमस ते 40 नमः पुरस्ताद अथ पृष्ठतस ते; नमॊ ऽसतु ते सर्वत एव सर्व अनन्तवीर्यामितविक्रमस तवं; सर्वं समाप्नॊषि ततॊ ऽसि सर्वः 41 सखेति मत्वा परसभं यद उक्तं; हे कृष्ण हे यादव हे सखेति अजानता महिमानं तवेदं; मया परमादात परणयेन वापि 42 यच चावहासार्थम असत्कृतॊ ऽसि; विहारशय्यासनभॊजनेषु एकॊ ऽथ वाप्य अच्युत तत्समक्षं; तत कषामये तवाम अहम अप्रमेयम 43 पितासि लॊकस्य चराचरस्य; तवम अस्य पूज्यश च गुरुर गरीयान न तवत्समॊ ऽसत्य अभ्यधिकः कुतॊ ऽनयॊ; लॊकत्रये ऽपय अप्रतिमप्रभाव 44 तस्मात परणम्य परणिधाय कायं; परसादये तवाम अहम ईशम ईड्यम पितेव पुत्रस्य सखेव सख्युः; परियः परियायार्हसि देव सॊढुम 45 अदृष्टपूर्वं हृषितॊ ऽसमि दृष्ट्वा; भयेन च परव्यथितं मनॊ मे तद एव मे दर्शय देव रूपं; परसीद देवेश जगन्निवास 46 किरीटिनं गदिनं चक्रहस्तम; इच्छामि तवां दरष्टुम अहं तथैव तेनैव रूपेण चतुर्भुजेन; सहस्रबाहॊ भव विश्वमूर्ते 47 शरीभगवान उवाच मया परसन्नेन तवार्जुनेदं; रूपं परं दर्शितम आत्मयॊगात तेजॊमयं विश्वम अनन्तम; आद्यं यन मे तवदन्येन न दृष्टपूर्वम 48 न वेद यज्ञाध्ययनैर न दानैर; न च करियाभिर न तपॊभिर उग्रैः एवंरूपः शक्य अहं नृलॊके; दरष्टुं तवदन्येन कुरुप्रवीर 49 मा ते वयथा मा च विमूढभावॊ; दृष्ट्वा रूपं घॊरम ईदृङ ममेदम वयपेतभीः परीतमनाः पुनस तवं; तद एव मे रूपम इदं परपश्य 50 संजय उवाच इत्य अर्जुनं वासुदेवस तथॊक्त्वा; सवकं रूपं दर्शयाम आस भूयः आश्वासयाम आस च भीतम एनं; भूत्वा पुनः सौम्यवपुर महात्मा 51 अर्जुन उवाच दृष्ट्वेदं मानुषं रूपं तव सौम्यं जनार्दन इदानीम अस्मि संवृत्तः सचेताः परकृतिं गतः 52 शरीभगवान उवाच सुदुर्दर्शम इदं रूपं दृष्टवान असि यन मम देवा अप्य अस्य रूपस्य नित्यं दर्शनकाङ्क्षिणः 53 नाहं वेदैर न तपसा न दानेन न चेज्यया शक्य एवंविधॊ दरष्टुं दृष्टवान असि मां यथा 54 भक्त्या तव अनन्यया शक्य अहम एवंविधॊ ऽरजुन जञातुं दरष्टुं च तत्त्वेन परवेष्टुं च परंतप 55 मत्कर्मकृन मत्परमॊ मद्भक्तः सङ्गवर्जितः निर्वैरः सर्वभूतेषु यः स माम एति पाण्डव |
1
arjuna uvāca madanugrahāya paramaṃ guhyam adhyātmasaṃjñitam yat tvayoktaṃ vacas tena moho 'yaṃ vigato mama 2 bhavāpyayau hi bhūtānāṃ śrutau vistaraśo mayā tvattaḥ kamalapatrākṣa māhātmyam api cāvyayam 3 evam etad yathāttha tvam ātmānaṃ parameśvara draṣṭum icchāmi te rūpam aiśvaraṃ puruṣottama 4 manyase yadi tac chakyaṃ mayā draṣṭum iti prabho yogeśvara tato me tvaṃ darśayātmānam avyayam 5 śrībhagavān uvāca paśya me pārtha rūpāṇi śataśo 'tha sahasraśaḥ nānāvidhāni divyāni nānāvarṇākṛtīni ca 6 paśyādityān vasūn rudrān aśvinau marutas tathā bahūny adṛṣṭapūrvāṇi paśyāścaryāṇi bhārata 7 ihaikasthaṃ jagat kṛtsnaṃ paśyādya sacarācaram mama dehe guḍākeśa yac cānyad draṣṭum icchasi 8 na tu māṃ śakyase draṣṭum anenaiva svacakṣuṣā divyaṃ dadāmi te cakṣuḥ paśya me yogam aiśvaram 9 saṃjaya uvāca evam uktvā tato rājan mahāyogeśvaro hariḥ darśayām āsa pārthāya paramaṃ rūpam aiśvaram 10 anekavaktranayanam anekādbhutadarśanam anekadivyābharaṇaṃ divyānekodyatāyudham 11 divyamālyāmbaradharaṃ divyagandhānulepanam sarvāścaryamayaṃ devam anantaṃ viśvatomukham 12 divi sūryasahasrasya bhaved yugapad utthitā yadi bhāḥ sadṛśī sā syād bhāsas tasya mahātmanaḥ 13 tatraikasthaṃ jagat kṛtsnaṃ pravibhaktam anekadhā apaśyad devadevasya śarīre pāṇḍavas tadā 14 tataḥ sa vismayāviṣṭo hṛṣṭaromā dhanaṃjayaḥ praṇamya śirasā devaṃ kṛtāñjalir abhāṣata 15 arjuna uvāca paśyāmi devāṃs tava deva dehe; sarvāṃs tathā bhūtaviśeṣasaṃghān brahmāṇam īśaṃ kamalāsanastham; ṛṣīṃś ca sarvān uragāṃś ca divyān 16 anekabāhūdaravaktranetraṃ; paśyāmi tvā sarvato 'nantarūpam nāntaṃ na madhyaṃ na punas tavādiṃ; paśyāmi viśveśvara viśvarūpa 17 kirīṭinaṃ gadinaṃ cakriṇaṃ ca; tejorāśiṃ sarvato dīptimantam paśyāmi tvāṃ durnirīkṣyaṃ samantād; dīptānalārkadyutim aprameyam 18 tvam akṣaraṃ paramaṃ veditavyaṃ; tvam asya viśvasya paraṃ nidhānam tvam avyayaḥ śāśvatadharmagoptā; sanātanas tvaṃ puruṣo mato me 19 anādimadhyāntam anantavīryam; anantabāhuṃ śaśisūryanetram paśyāmi tvāṃ dīptahutāśavaktraṃ; svatejasā viśvam idaṃ tapantam 20 dyāvāpṛthivyor idam antaraṃ hi; vyāptaṃ tvayaikena diśaś ca sarvāḥ dṛṣṭvādbhutaṃ rūpam idaṃ tavograṃ; lokatrayaṃ pravyathitaṃ mahātman 21 amī hi tvā surasaṃghā viśanti; ke cid bhītāḥ prāñjalayo gṛṇanti svastīty uktvā maharṣisiddhasaṃghāḥ; stuvanti tvāṃ stutibhiḥ puṣkalābhiḥ 22 rudrādityā vasavo ye ca sādhyā; viśve 'śvinau marutaś coṣmapāś ca gandharvayakṣāsurasiddhasaṃghā; vīkṣante tvāṃ vismitāś caiva sarve 23 rūpaṃ mahat te bahuvaktranetraṃ; mahābāho bahubāhūrupādam bahūdaraṃ bahudaṃṣṭrākarālaṃ; dṛṣṭvā lokāḥ pravyathitās tathāham 24 nabhaḥspṛśaṃ dīptam anekavarṇaṃ; vyāttānanaṃ dīptaviśālanetram dṛṣṭvā hi tvāṃ pravyathitāntarātmā; dhṛtiṃ na vindāmi śamaṃ ca viṣṇo 25 daṃṣṭrākarālāni ca te mukhāni; dṛṣṭvaiva kālānalasaṃnibhāni diśo na jāne na labhe ca śarma; prasīda deveśa jagannivāsa 26 amī ca tvāṃ dhṛtarāṣṭrasya putrāḥ; sarve sahaivāvanipālasaṃghaiḥ bhīṣmo droṇaḥ sūtaputras tathāsau; sahāsmadīyair api yodhamukhyaiḥ 27 vaktrāṇi te tvaramāṇā viśanti; daṃṣṭrākarālāni bhayānakāni ke cid vilagnā daśanāntareṣu; saṃdṛśyante cūrṇitair uttamāṅgaiḥ 28 yathā nadīnāṃ bahavo 'mbuvegāḥ; samudram evābhimukhā dravanti tathā tavāmī naralokavīrā; viśanti vaktrāṇy abhivijvalanti 29 yathā pradīptaṃ jvalanaṃ pataṃgā; viśanti nāśāya samṛddhavegāḥ tathaiva nāśāya viśanti lokās; tavāpi vaktrāṇi samṛddhavegāḥ 30 lelihyase grasamānaḥ samantāl; lokān samagrān vadanair jvaladbhiḥ tejobhir āpūrya jagat samagraṃ; bhāsas tavogrāḥ pratapanti viṣṇo 31 ākhyāhi me ko bhavān ugrarūpo; namo 'stu te devavara prasīda vijñātum icchāmi bhavantam ādyaṃ; na hi prajānāmi tava pravṛttim 32 śrībhagavān uvāca kālo 'smi lokakṣayakṛt pravṛddho; lokān samāhartum iha pravṛttaḥ ṛte 'pi tvā na bhaviṣyanti sarve; ye 'vasthitāḥ pratyanīkeṣu yodhāḥ 33 tasmāt tvam uttiṣṭha yaśo labhasva; jitvā śatrūn bhuṅkṣva rājyaṃ samṛddham mayaivaite nihatāḥ pūrvam eva; nimittamātraṃ bhava savyasācin 34 droṇaṃ ca bhīṣmaṃ ca jayadrathaṃ ca; karṇaṃ tathānyān api yodhavīrān mayā hatāṃs tvaṃ jahi mā vyathiṣṭhā; yudhyasva jetāsi raṇe sapatnān 35 saṃjaya uvāca etac chrutvā vacanaṃ keśavasya; kṛtāñjalir vepamānaḥ kirīṭī namaskṛtvā bhūya evāha kṛṣṇaṃ; sagadgadaṃ bhītabhītaḥ praṇamya 36 arjuna uvāca sthāne hṛṣīkeśa tava prakīrtyā; jagat prahṛṣyaty anurajyate ca rakṣāṃsi bhītāni diśo dravanti; sarve namasyanti ca siddhasaṃghāḥ 37 kasmāc ca te na nameran mahātman; garīyase brahmaṇo 'py ādikartre ananta deveśa jagannivāsa; tvam akṣaraṃ sad asat tatparaṃ yat 38 tvam ādidevaḥ puruṣaḥ purāṇas; tvam asya viśvasya paraṃ nidhānam vettāsi vedyaṃ ca paraṃ ca dhāma; tvayā tataṃ viśvam anantarūpa 39 vāyur yamo 'gnir varuṇaḥ śaśāṅkaḥ; prajāpatis tvaṃ prapitāmahaś ca namo namas te 'stu sahasrakṛtvaḥ; punaś ca bhūyo 'pi namo namas te 40 namaḥ purastād atha pṛṣṭhatas te; namo 'stu te sarvata eva sarva anantavīryāmitavikramas tvaṃ; sarvaṃ samāpnoṣi tato 'si sarvaḥ 41 sakheti matvā prasabhaṃ yad uktaṃ; he kṛṣṇa he yādava he sakheti ajānatā mahimānaṃ tavedaṃ; mayā pramādāt praṇayena vāpi 42 yac cāvahāsārtham asatkṛto 'si; vihāraśayyāsanabhojaneṣu eko 'tha vāpy acyuta tatsamakṣaṃ; tat kṣāmaye tvām aham aprameyam 43 pitāsi lokasya carācarasya; tvam asya pūjyaś ca gurur garīyān na tvatsamo 'sty abhyadhikaḥ kuto 'nyo; lokatraye 'py apratimaprabhāva 44 tasmāt praṇamya praṇidhāya kāyaṃ; prasādaye tvām aham īśam īḍyam piteva putrasya sakheva sakhyuḥ; priyaḥ priyāyārhasi deva soḍhum 45 adṛṣṭapūrvaṃ hṛṣito 'smi dṛṣṭvā; bhayena ca pravyathitaṃ mano me tad eva me darśaya deva rūpaṃ; prasīda deveśa jagannivāsa 46 kirīṭinaṃ gadinaṃ cakrahastam; icchāmi tvāṃ draṣṭum ahaṃ tathaiva tenaiva rūpeṇa caturbhujena; sahasrabāho bhava viśvamūrte 47 śrībhagavān uvāca mayā prasannena tavārjunedaṃ; rūpaṃ paraṃ darśitam ātmayogāt tejomayaṃ viśvam anantam; ādyaṃ yan me tvadanyena na dṛṣṭapūrvam 48 na veda yajñādhyayanair na dānair; na ca kriyābhir na tapobhir ugraiḥ evaṃrūpaḥ śakya ahaṃ nṛloke; draṣṭuṃ tvadanyena kurupravīra 49 mā te vyathā mā ca vimūḍhabhāvo; dṛṣṭvā rūpaṃ ghoram īdṛṅ mamedam vyapetabhīḥ prītamanāḥ punas tvaṃ; tad eva me rūpam idaṃ prapaśya 50 saṃjaya uvāca ity arjunaṃ vāsudevas tathoktvā; svakaṃ rūpaṃ darśayām āsa bhūyaḥ āśvāsayām āsa ca bhītam enaṃ; bhūtvā punaḥ saumyavapur mahātmā 51 arjuna uvāca dṛṣṭvedaṃ mānuṣaṃ rūpaṃ tava saumyaṃ janārdana idānīm asmi saṃvṛttaḥ sacetāḥ prakṛtiṃ gataḥ 52 śrībhagavān uvāca sudurdarśam idaṃ rūpaṃ dṛṣṭavān asi yan mama devā apy asya rūpasya nityaṃ darśanakāṅkṣiṇaḥ 53 nāhaṃ vedair na tapasā na dānena na cejyayā śakya evaṃvidho draṣṭuṃ dṛṣṭavān asi māṃ yathā 54 bhaktyā tv ananyayā śakya aham evaṃvidho 'rjuna jñātuṃ draṣṭuṃ ca tattvena praveṣṭuṃ ca paraṃtapa 55 matkarmakṛn matparamo madbhaktaḥ saṅgavarjitaḥ nirvairaḥ sarvabhūteṣu yaḥ sa mām eti pāṇḍava |
The Mahabharata in Sanskrit
Book 6
Chapter 34
|
1
अर्जुन उवाच एवं सततयुक्ता ये भक्तास तवां पर्युपासते ये चाप्य अक्षरम अव्यक्तं तेषां के यॊगवित्तमाः 2 शरीभगवान उवाच मय्य आवेश्य मनॊ ये मां नित्ययुक्ता उपासते शरद्धया परयॊपेतास ते मे युक्ततमा मताः 3 ये तव अक्षरम अनिर्देश्यम अव्यक्तं पर्युपासते सर्वत्रगम अचिन्त्यं च कूटस्थम अचलं धरुवम 4 संनियम्येन्द्रियग्रामं सर्वत्र समबुद्धयः ते पराप्नुवन्ति माम एव सर्वभूतहिते रताः 5 कलेशॊ ऽधिकतरस तेषाम अव्यक्तासक्तचेतसाम अव्यक्ता हि गतिर दुःखं देहवद्भिर अवाप्यते 6 ये तु सर्वाणि कर्माणि मयि संन्यस्य मत्पराः अनन्येनैव यॊगेन मां धयायन्त उपासते 7 तेषाम अहं समुद्धर्ता मृत्युसंसारसागरात भवामि नचिरात पार्थ मय्य आवेशितचेतसाम 8 मय्य एव मन आधत्स्व मयि बुद्धिं निवेशय निवसिष्यसि मय्य एव अत ऊर्ध्वं न संशयः 9 अथ चित्तं समाधातुं न शक्नॊषि मयि सथिरम अभ्यासयॊगेन ततॊ माम इच्छाप्तुं धनंजय 10 अभ्यासे ऽपय असमर्थॊ ऽसि मत्कर्मपरमॊ भव मदर्थम अपि कर्माणि कुर्वन सिद्धिम अवाप्स्यसि 11 अथैतद अप्य अशक्तॊ ऽसि कर्तुं मद्यॊगम आश्रितः सर्वकर्मफलत्यागं ततः कुरु यतात्मवान 12 शरेयॊ हि जञानम अभ्यासाज जञानाद धयानं विशिष्यते धयानात कर्मफलत्यागस तयागाच छान्तिर अनन्तरम 13 अद्वेष्टा सर्वभूतानां मैत्रः करुण एव च निर्ममॊ निरहंकारः समदुःखसुखः कषमी 14 संतुष्टः सततं यॊगी यतात्मा दृढनिश्चयः मय्य अर्पितमनॊबुद्धिर यॊ मद्भक्तः स मे परियः 15 यस्मान नॊद्विजते लॊकॊ लॊकान नॊद्विजते च यः हर्षामर्षभयॊद्वेगैर मुक्तॊ यः स च मे परियः 16 अनपेक्षः शुचिर दक्ष उदासीनॊ गतव्यथः सर्वारम्भपरित्यागी यॊ मद्भक्तः स मे परियः 17 यॊ न हृष्यति न दवेष्टि न शॊचति न काङ्क्षति शुभाशुभपरित्यागी भक्तिमान यः स मे परियः 18 समः शत्रौ च मित्रे च तथा मानापमानयॊः शीतॊष्णसुखदुःखेषु समः सङ्गविवर्जितः 19 तुल्यनिन्दास्तुतिर मौनी संतुष्टॊ येन केन चित अनिकेतः सथिरमतिर भक्तिमान मे परियॊ नरः 20 ये तु धर्म्यामृतम इदं यथॊक्तं पर्युपासते शरद्दधाना मत्परमा भक्तास ते ऽतीव मे परियाः |
1
arjuna uvāca evaṃ satatayuktā ye bhaktās tvāṃ paryupāsate ye cāpy akṣaram avyaktaṃ teṣāṃ ke yogavittamāḥ 2 śrībhagavān uvāca mayy āveśya mano ye māṃ nityayuktā upāsate śraddhayā parayopetās te me yuktatamā matāḥ 3 ye tv akṣaram anirdeśyam avyaktaṃ paryupāsate sarvatragam acintyaṃ ca kūṭastham acalaṃ dhruvam 4 saṃniyamyendriyagrāmaṃ sarvatra samabuddhayaḥ te prāpnuvanti mām eva sarvabhūtahite ratāḥ 5 kleśo 'dhikataras teṣām avyaktāsaktacetasām avyaktā hi gatir duḥkhaṃ dehavadbhir avāpyate 6 ye tu sarvāṇi karmāṇi mayi saṃnyasya matparāḥ ananyenaiva yogena māṃ dhyāyanta upāsate 7 teṣām ahaṃ samuddhartā mṛtyusaṃsārasāgarāt bhavāmi nacirāt pārtha mayy āveśitacetasām 8 mayy eva mana ādhatsva mayi buddhiṃ niveśaya nivasiṣyasi mayy eva ata ūrdhvaṃ na saṃśayaḥ 9 atha cittaṃ samādhātuṃ na śaknoṣi mayi sthiram abhyāsayogena tato mām icchāptuṃ dhanaṃjaya 10 abhyāse 'py asamartho 'si matkarmaparamo bhava madartham api karmāṇi kurvan siddhim avāpsyasi 11 athaitad apy aśakto 'si kartuṃ madyogam āśritaḥ sarvakarmaphalatyāgaṃ tataḥ kuru yatātmavān 12 śreyo hi jñānam abhyāsāj jñānād dhyānaṃ viśiṣyate dhyānāt karmaphalatyāgas tyāgāc chāntir anantaram 13 adveṣṭā sarvabhūtānāṃ maitraḥ karuṇa eva ca nirmamo nirahaṃkāraḥ samaduḥkhasukhaḥ kṣamī 14 saṃtuṣṭaḥ satataṃ yogī yatātmā dṛḍhaniścayaḥ mayy arpitamanobuddhir yo madbhaktaḥ sa me priyaḥ 15 yasmān nodvijate loko lokān nodvijate ca yaḥ harṣāmarṣabhayodvegair mukto yaḥ sa ca me priyaḥ 16 anapekṣaḥ śucir dakṣa udāsīno gatavyathaḥ sarvārambhaparityāgī yo madbhaktaḥ sa me priyaḥ 17 yo na hṛṣyati na dveṣṭi na śocati na kāṅkṣati śubhāśubhaparityāgī bhaktimān yaḥ sa me priyaḥ 18 samaḥ śatrau ca mitre ca tathā mānāpamānayoḥ śītoṣṇasukhaduḥkheṣu samaḥ saṅgavivarjitaḥ 19 tulyanindāstutir maunī saṃtuṣṭo yena kena cit aniketaḥ sthiramatir bhaktimān me priyo naraḥ 20 ye tu dharmyāmṛtam idaṃ yathoktaṃ paryupāsate śraddadhānā matparamā bhaktās te 'tīva me priyāḥ |
The Mahabharata in Sanskrit
Book 6
Chapter 35
|
1
शरीभगवान उवाच इदं शरीरं कौन्तेय कषेत्रम इत्य अभिधीयते एतद यॊ वेत्ति तं पराहुः कषेत्रज्ञ इति तद्विदः 2 कषेत्रज्ञं चापि मां विद्धि सर्वक्षेत्रेषु भारत कषेत्रक्षेत्रज्ञयॊर जञानं यत तज जञानं मतं मम 3 तत कषेत्रं यच च यादृक च यद्विकारि यतश च यत स च यॊ यत्प्रभावश च तत समासेन मे शृणु 4 ऋषिभिर बहुधा गीतं छन्दॊभिर विविधैः पृथक बरह्मसूत्रपदैश चैव हेतुमद्भिर विनिश्चितैः 5 महाभूतान्य अहंकारॊ बुद्धिर अव्यक्तम एव च इन्द्रियाणि दशैकं च पञ्च चेन्द्रियगॊचराः 6 इच्छा दवेषः सुखं दुःखं संघातश चेतना धृतिः एतत कषेत्रं समासेन सविकारम उदाहृतम 7 अमानित्वम अदम्भित्वम अहिंसा कषान्तिर आर्जवम आचार्यॊपासनं शौचं सथैर्यम आत्मविनिग्रहः 8 इन्द्रियार्थेषु वैराग्यम अनहंकार एव च जन्ममृत्युजराव्याधिदुःखदॊषानुदर्शनम 9 असक्तिर अनभिष्वङ्गः पुत्रदारगृहादिषु नित्यं च समचित्तत्वम इष्टानिष्टॊपपत्तिषु 10 मयि चानन्ययॊगेन भक्तिर अव्यभिचारिणी विविक्तदेशसेवित्वम अरतिर जनसंसदि 11 अध्यात्मज्ञाननित्यत्वं तत्त्वज्ञानार्थदर्शनम एतज जञानम इति परॊक्तम अज्ञानं यद अतॊ ऽनयथा 12 जञेयं यत तत परवक्ष्यामि यज जञात्वामृतम अश्नुते अनादिमत परं बरह्म न सत तन नासद उच्यते 13 सर्वतः पाणिपादं तत सर्वतॊ ऽकषिशिरॊमुखम सर्वतः शरुतिमल लॊके सर्वम आवृत्य तिष्ठति 14 सर्वेन्द्रियगुणाभासं सर्वेन्द्रियविवर्जितम असक्तं सर्वभृच चैव निर्गुणं गुणभॊक्तृ च 15 बहिर अन्तश च भूतानाम अचरं चरम एव च सूक्ष्मत्वात तद अविज्ञेयं दूरस्थं चान्तिके च तत 16 अविभक्तं च भूतेषु विभक्तम इव च सथितम भूतभर्तृ च तज जञेयं गरसिष्णु परभविष्णु च 17 जयॊतिषाम अपि तज जयॊतिस तमसः परम उच्यते जञानं जञेयं जञानगम्यं हृदि सर्वस्य विष्ठितम 18 इति कषेत्रं तथा जञानं जञेयं चॊक्तं समासतः मद्भक्त एतद विज्ञाय मद्भावायॊपपद्यते 19 परकृतिं पुरुषं चैव विद्ध्य अनादी उभाव अपि विकारांश च गुणांश चैव विद्धि परकृतिसंभवान 20 कार्यकारणकर्तृत्वे हेतुः परकृतिर उच्यते पुरुषः सुखदुःखानां भॊक्तृत्वे हेतुर उच्यते 21 पुरुषः परकृतिस्थॊ हि भुङ्क्ते परकृतिजान गुणान कारणं गुणसङ्गॊ ऽसय सदसद्यॊनिजन्मसु 22 उपद्रष्टानुमन्ता च भर्ता भॊक्ता महेश्वरः परमात्मेति चाप्य उक्तॊ देहे ऽसमिन पुरुषः परः 23 य एवं वेत्ति पुरुषं परकृतिं च गुणैः सह सर्वथा वर्तमानॊ ऽपि न स भूयॊ ऽभिजायते 24 धयानेनात्मनि पश्यन्ति के चिद आत्मानम आत्मना अन्ये सांख्येन यॊगेन कर्मयॊगेन चापरे 25 अन्ये तव एवम अजानन्तः शरुत्वान्येभ्य उपासते ते ऽपि चातितरन्त्य एव मृत्युं शरुतिपरायणाः 26 यावत संजायते किं चित सत्त्वं सथावरजङ्गमम कषेत्रक्षेत्रज्ञसंयॊगात तद विद्धि भरतर्षभ 27 समं सर्वेषु भूतेषु तिष्ठन्तं परमेश्वरम विनश्यत्स्व अविनश्यन्तं यः पश्यति स पश्यति 28 समं पश्यन हि सर्वत्र समवस्थितम ईश्वरम न हिनस्त्य आत्मनात्मानं ततॊ याति परां गतिम 29 परकृत्यैव च कर्माणि करियमाणानि सर्वशः यः पश्यति तथात्मानम अकर्तारं स पश्यति 30 यदा भूतपृथग्भावम एकस्थम अनुपश्यति तत एव च विस्तारं बरह्म संपद्यते तदा 31 अनादित्वान निर्गुणत्वात परमात्मायम अव्ययः शरीरस्थॊ ऽपि कौन्तेय न करॊति न लिप्यते 32 यथा सर्वगतं सौक्ष्म्याद आकाशं नॊपलिप्यते सर्वत्रावस्थितॊ देहे तथात्मा नॊपलिप्यते 33 यथा परकाशयत्य एकः कृत्स्नं लॊकम इमं रविः कषेत्रं कषेत्री तथा कृत्स्नं परकाशयति भारत 34 कषेत्रक्षेत्रज्ञयॊर एवम अन्तरं जञानचक्षुषा भूतप्रकृतिमॊक्षं च ये विदुर यान्ति ते परम |
1
śrībhagavān uvāca idaṃ śarīraṃ kaunteya kṣetram ity abhidhīyate etad yo vetti taṃ prāhuḥ kṣetrajña iti tadvidaḥ 2 kṣetrajñaṃ cāpi māṃ viddhi sarvakṣetreṣu bhārata kṣetrakṣetrajñayor jñānaṃ yat taj jñānaṃ mataṃ mama 3 tat kṣetraṃ yac ca yādṛk ca yadvikāri yataś ca yat sa ca yo yatprabhāvaś ca tat samāsena me śṛṇu 4 ṛṣibhir bahudhā gītaṃ chandobhir vividhaiḥ pṛthak brahmasūtrapadaiś caiva hetumadbhir viniścitaiḥ 5 mahābhūtāny ahaṃkāro buddhir avyaktam eva ca indriyāṇi daśaikaṃ ca pañca cendriyagocarāḥ 6 icchā dveṣaḥ sukhaṃ duḥkhaṃ saṃghātaś cetanā dhṛtiḥ etat kṣetraṃ samāsena savikāram udāhṛtam 7 amānitvam adambhitvam ahiṃsā kṣāntir ārjavam ācāryopāsanaṃ śaucaṃ sthairyam ātmavinigrahaḥ 8 indriyārtheṣu vairāgyam anahaṃkāra eva ca janmamṛtyujarāvyādhiduḥkhadoṣānudarśanam 9 asaktir anabhiṣvaṅgaḥ putradāragṛhādiṣu nityaṃ ca samacittatvam iṣṭāniṣṭopapattiṣu 10 mayi cānanyayogena bhaktir avyabhicāriṇī viviktadeśasevitvam aratir janasaṃsadi 11 adhyātmajñānanityatvaṃ tattvajñānārthadarśanam etaj jñānam iti proktam ajñānaṃ yad ato 'nyathā 12 jñeyaṃ yat tat pravakṣyāmi yaj jñātvāmṛtam aśnute anādimat paraṃ brahma na sat tan nāsad ucyate 13 sarvataḥ pāṇipādaṃ tat sarvato 'kṣiśiromukham sarvataḥ śrutimal loke sarvam āvṛtya tiṣṭhati 14 sarvendriyaguṇābhāsaṃ sarvendriyavivarjitam asaktaṃ sarvabhṛc caiva nirguṇaṃ guṇabhoktṛ ca 15 bahir antaś ca bhūtānām acaraṃ caram eva ca sūkṣmatvāt tad avijñeyaṃ dūrasthaṃ cāntike ca tat 16 avibhaktaṃ ca bhūteṣu vibhaktam iva ca sthitam bhūtabhartṛ ca taj jñeyaṃ grasiṣṇu prabhaviṣṇu ca 17 jyotiṣām api taj jyotis tamasaḥ param ucyate jñānaṃ jñeyaṃ jñānagamyaṃ hṛdi sarvasya viṣṭhitam 18 iti kṣetraṃ tathā jñānaṃ jñeyaṃ coktaṃ samāsataḥ madbhakta etad vijñāya madbhāvāyopapadyate 19 prakṛtiṃ puruṣaṃ caiva viddhy anādī ubhāv api vikārāṃś ca guṇāṃś caiva viddhi prakṛtisaṃbhavān 20 kāryakāraṇakartṛtve hetuḥ prakṛtir ucyate puruṣaḥ sukhaduḥkhānāṃ bhoktṛtve hetur ucyate 21 puruṣaḥ prakṛtistho hi bhuṅkte prakṛtijān guṇān kāraṇaṃ guṇasaṅgo 'sya sadasadyonijanmasu 22 upadraṣṭānumantā ca bhartā bhoktā maheśvaraḥ paramātmeti cāpy ukto dehe 'smin puruṣaḥ paraḥ 23 ya evaṃ vetti puruṣaṃ prakṛtiṃ ca guṇaiḥ saha sarvathā vartamāno 'pi na sa bhūyo 'bhijāyate 24 dhyānenātmani paśyanti ke cid ātmānam ātmanā anye sāṃkhyena yogena karmayogena cāpare 25 anye tv evam ajānantaḥ śrutvānyebhya upāsate te 'pi cātitaranty eva mṛtyuṃ śrutiparāyaṇāḥ 26 yāvat saṃjāyate kiṃ cit sattvaṃ sthāvarajaṅgamam kṣetrakṣetrajñasaṃyogāt tad viddhi bharatarṣabha 27 samaṃ sarveṣu bhūteṣu tiṣṭhantaṃ parameśvaram vinaśyatsv avinaśyantaṃ yaḥ paśyati sa paśyati 28 samaṃ paśyan hi sarvatra samavasthitam īśvaram na hinasty ātmanātmānaṃ tato yāti parāṃ gatim 29 prakṛtyaiva ca karmāṇi kriyamāṇāni sarvaśaḥ yaḥ paśyati tathātmānam akartāraṃ sa paśyati 30 yadā bhūtapṛthagbhāvam ekastham anupaśyati tata eva ca vistāraṃ brahma saṃpadyate tadā 31 anāditvān nirguṇatvāt paramātmāyam avyayaḥ śarīrastho 'pi kaunteya na karoti na lipyate 32 yathā sarvagataṃ saukṣmyād ākāśaṃ nopalipyate sarvatrāvasthito dehe tathātmā nopalipyate 33 yathā prakāśayaty ekaḥ kṛtsnaṃ lokam imaṃ raviḥ kṣetraṃ kṣetrī tathā kṛtsnaṃ prakāśayati bhārata 34 kṣetrakṣetrajñayor evam antaraṃ jñānacakṣuṣā bhūtaprakṛtimokṣaṃ ca ye vidur yānti te param |
The Mahabharata in Sanskrit
Cite this text
The Mahabharata in Sanskrit, part 4 of 12. . Hermetic Cloud, https://hermeticcloud.com/library/the-mahabharata-in-sanskrit-part-4/. Public-domain text reproduced in full; markup only.