The Mahabharata in Sanskrit. Parallel Devanagari and Romanization.
Book 7
Chapter 164
|
1
[स] तस्मिंस तथा वर्तमाने नराश्वगजसंक्षये दुःशासनॊ महाराज धृष्टद्युम्नम अयॊधयत 2 स तु रुक्मरथासक्तॊ दुःशासन शरार्दितः अमर्षात तव पुत्रस्य शरैर वाहान अवाकिरत 3 कषणेन स रथस तस्य स धवजः सह सारथिः नादृश्यत महाराज पार्षतस्य शरैश चितः 4 दुःशासनस तु राजेन्द्र पाञ्चाल्यस्य महात्मनः नाशकत परमुखे सथातुं शरजालप्रपीडितः 5 स तु दुःशासनं बाणैर विमुखीकृत्य पार्षतः किरञ शरसहस्राणि दरॊणम एवाभ्ययाद रणे 6 परत्यपद्यत हार्दिक्यः कृतवर्मा तदन्तरम सॊदर्याणां तरयश चैव त एनं पर्यवारयन 7 तं यमौ पृष्ठतॊ ऽनवैतां रक्षन्तौ पुरुषर्षभौ दरॊणायाभिमुखं यान्तं दीप्यमानम इवानलम 8 संप्रहारम अकुर्वंस ते सर्वे सप्त महारथाः अमर्षिताः सत्त्ववन्तः कृत्वा मरणम अग्रतः 9 शुद्धात्मानः शुद्धवृत्ता राजन सवर्गपुरस्कृताः आर्यं युद्धम अकुर्वन्त परस्परजिगीषवः 10 शुक्लाभिजन कर्माणॊ मतिमन्तॊ जनाधिपाः धर्मयुद्धम अयुध्यन्त परेक्षन्तॊ गतिम उत्तमाम 11 न तत्रासीद अधर्मिष्ठम अशस्त्रं युद्धम एव च नात्र कर्णी न नालीकॊ न लिप्तॊ न च वस्तकः 12 न सूची कपिशॊ नात्र न गवास्थिर गजास्थिकः इषुर आसीन न संश्लिष्टॊ न पूतिर न च जिह्मगः 13 ऋजून्य एव विशुद्धानि सर्वे शस्त्राण्य अधारयन सुयुद्धेन पराँल लॊकान ईप्सन्तः कीर्तिम एव च 14 तदासीत तुमुलं युद्धं सर्वदॊषविवर्जितम चतुर्णां तव यॊधानां तैस तरिभिः पाण्डवैः सह 15 धृष्टद्युम्नस तु तान हित्वा तव राजन रथर्षभान यमाभ्यां वारितान दृष्ट्वा शीघ्रास्त्रॊ दरॊणम अभ्ययात 16 निवारितास तु ते वीरास तयॊः पुरुषसिंहयॊः समसज्जन्त चत्वारॊ वाताः पर्वतयॊर इव 17 दवाभ्यां दवाभ्यां यमौ सार्धं रथाभ्यां रथपुंगवौ समासक्तौ ततॊ दरॊणं धृष्टद्युम्नॊ ऽभयवर्तत 18 दृष्ट्वा दरॊणाय पाञ्चाल्यं वरजन्तं युद्धदुर्मदम यमाभ्यां तांश च संसक्तांस तदन्तरम उपाद्रवत 19 दुर्यॊधनॊ महाराज किरञ शॊणितभॊजनान तं सात्यकिः शीघ्रतरं पुनर एवाभ्यवर्तत 20 तौ परस्परम आसाद्य समिप्पे कुरु माधवौ हसमानौ नृशार्दूलाव अभीतौ समगच्छताम 21 बाल्ये वृत्तानि सर्वाणि परीयमाणौ विचिन्त्य तौ अन्यॊन्यं परेक्षमाणौ च हसमानौ पुनः पुनः 22 अथ दुर्यॊधनॊ राजा सात्यकिं परत्यभाषत परियं सखायं सततं गर्हयन वृत्तम आत्मनः 23 धिक करॊधं धिक सखे लॊभं धिन मॊहं धिग अमर्षितम धिग अस्तु कषात्रम आचारं धिग अस्तु बलम औरसम 24 यत तवं माम अभिसंधत्से तवां चाहं शिनिपुंगव तवं हि पराणैः परियतरॊ ममाहं च सदा तव 25 समरामि तानि सर्वाणि बाल्ये वृत्तानि यानि नौ तानि सर्वाणि जीर्णानि सांप्रतं नौ रणाजिरे किम अन्यत करॊधलॊभाभ्यां युध्यामि तवाद्य सात्वत 26 तं तथा वादिनं राजन सात्यकिः परत्यभाषत परहसन विशिखांस तीक्ष्णान उद्यम्य परमास्त्रवित 27 नेयं सभा राजपुत्र न चाचार्य निवेशनम यत्र करीडितम अस्माभिस तदा राजन समागतैः 28 [दुर] कव सा करीडा गतास्माकं बाल्ये वै शिनिपुंगव कव च युद्धम इदं भूयः कालॊ हि दुरतिक्रमः 29 किं नु नॊ विद्यते कृत्यं धनेन धनलिप्सया यत्र युध्यामहे सर्वे धनलॊभात समागताः 30 [सम्जय] तं तथा वादिनं तत्र राजानं माधवॊ ऽबरवीत एवंवृत्थं सदा कषत्रं यद धन्तीह गुरून अपि 31 यदि ते ऽहं परियॊ राजञ जहि मां माचिरं कृथाः तवत्कृते सुकृताँल लॊकान गच्छेयं भरतर्षभ 32 या ते शक्तिर बलं चैव तत कषिप्रं मयि दर्शय नेच्छाम्य एतद अहं दरष्टुं मित्राणां वयसनं महत 33 इत्य एवं वयक्तम आभाष्य परतिभाष्य च सात्यकिः अभ्ययात तूर्णम अव्यग्रॊ निरपेक्षॊ विशां पते 34 तम आयान्तम अभिप्रेक्ष्य परत्यगृह्णात तवात्मजः शरैश चावाकिरद राजञ शैनेयं तनयस तव 35 ततः परववृते युद्धं कुरु माधव सिंहयॊः अन्यॊन्यं करुद्धयॊर घॊरं यथा दविरदसिंहयॊः 36 ततः पूर्णायतॊत्सृष्टैः सात्वतं युद्धदुर्मदम दुर्यॊधनः परत्यविध्यद दशभिर निशितैः शरैः 37 तं सात्यकिः परत्यविद्धत तथैव दशभिः शरैः पञ्चाशता पुनश चाजौ तरिंशता दशभिश च ह 38 तस्य संधधतश चेषून संहितेषुं च कार्मुकम अच्छिनत सात्यकिस तूर्णं शरैश चैवाभ्यवीवृषत 39 स गाढविद्धॊ वयथितः परत्यपायाद रथान्तरम दुर्यॊधनॊ महाराज दाशार्ह शरपीडितः 40 समाश्वस्य तु पुत्रस ते सात्यकिं पुनर अभ्ययात विसृजन्न इषुजालानि युयुधान रथं परथि 41 तथैव सात्यकिर बाणान दुर्यॊधन रथं परति परततं वयसृजद राजंस तत संकुलम अवर्तत 42 तत्रेषुभिः कषिप्यमाणैः पतद्भिश च समन्ततः अग्नेर इव महाकक्षे शब्दः समभवन महान 43 तत्राभ्यधिकम आलक्ष्य माधवं रथसत्तमम कषिप्रम अभ्यपतत कर्णः परीप्संस तनयं तव 44 न तु तं मर्षयाम आस भीमसेनॊ महाबलः अभ्ययात तवरितः कर्णं विसृजन सायकान बहून 45 तस्य कर्णः शितान बाणान परतिहन्य हसन्न इव धनुः शरांश च चिच्छेद सूतं चाभ्यहनच छरैः 46 भीमसेनस तु संक्रुद्धॊ गदाम आदाय पाण्डवः धवजं धनुश च सूतं च संममर्दाहवे रिपॊः 47 अमृष्यमाणः कर्णस तु भीमसेनम अयुध्यत विविधैर इषुजालैश च नानाशस्त्रैश च संयुगे 48 संकुले वर्तमाने तु राजा धर्मसुतॊ ऽबरवीत पाञ्चालानां नरव्याघ्रान मत्स्यानां च नरर्षभान 49 ये नः पराणाः शिरॊ ये नॊ ये नॊ यॊधा महाबलाः त एते धार्तराष्ट्रेषु विषक्ताः पुरुषर्षभाः 50 किं तिष्ठत यथा मूढाः सर्वे विगतचेतसः तत्र गच्छत यत्रैते युध्यन्ते मामका रथाः 51 कषत्रधर्मं पुरस्कृत्य सर्व एव गतज्वराः जयन्तॊ वध्यमाना वा गतिम इष्टां गमिष्यथ 52 जित्वा च बहुभिर यज्ञैर यक्ष्यध्वं भूरिदक्षिणैः हता वा देवसाद भूत्वा लॊकान पराप्स्यथ पुष्कलान 53 ते राज्ञा चॊदिता वीरा यॊत्स्यमाना महारथाः चतुर्धा वहिनीं कृत्वा तवरिता दरॊणम अभ्ययुः 54 पाञ्चालास तव एकतॊ दरॊणम अभ्यघ्नन बहुभिः शरैः भीमसेनपुरॊगाश च एकतः पर्यवारयन 55 आसंस तु पाण्डुपुत्राणां तरयॊ ऽजिह्मा महारथाः यमौ च भीमसेनश च पराक्रॊशन्त धनंजयम 56 अभिद्रवार्जुन कषिप्रं कुरून दरॊणाद अनानुद तत एनं हनिष्यन्ति पाञ्चाला हतरक्षिणम 57 कौरवेयांस ततः पार्थः सहसा समुपाद्रवत पाञ्चालान एव तु दरॊणॊ धृष्टद्युम्नपुरॊगमान 58 पाञ्चालानां ततॊ दरॊणॊ ऽपय अकरॊत कदनं महत यथा करुद्धॊ रणे शक्रॊ दानवानां कषयं पुरा 59 दरॊणास्त्रेण महाराज वध्यमानाः परे युधि नात्रसन्त रणे दरॊणात सत्त्ववन्तॊ महारथाः 60 वध्यमाना महाराज पाञ्चालाः सृञ्जयास तथा दरॊणम एवाभ्ययुर युद्धे मॊहयन्तॊ महारथम 61 तेषां तूत्साद्यमानानां पाञ्चालानां समन्ततः अभवद भैरवॊ नादॊ वध्यतां शरशक्तिभिः 62 वध्यमानेषु संग्रामे पाञ्चालेषु महात्मना उदीर्यमाणे दरॊणास्त्रे पाण्डवान भयम आविशत 63 दृष्ट्वाश्वनरसंघानां विपुलं च कषयं युधि पाण्डवेया महाराज नाशंसुर विजयं तदा 64 कच चिद दरॊणॊ न नः सर्वान कषपयेत परमास्त्रवित समिद्धः शिशिरापाये दहन कक्षम इवानलः 65 न चैनं संयुगे कश चित समर्थः परतिवीक्षितुम न चैनम अर्जुनॊ जातु परतियुध्येत धर्मवित 66 तरस्तान कुन्तीसुतान दृष्ट्वा दरॊण सायकपीडितान मतिमाञ शरेयसे युक्तः केशवॊ ऽरजुनम अब्रवीत 67 नैष युद्धेन संग्रामे जेतुं शक्यः कथं चन अपि वृत्रहणा युद्धे रथयूथप यूथपः 68 आस्थीयतां जये यॊगॊ धर्मम उत्सृज्य पाण्डव यथा वः संयुगे सर्वान न हन्याद रुक्मवाहनः 69 अश्वत्थाम्नि हते नैष युध्येद इति मतिर मम तं हतं संयुगे कश चिद अस्मै शंसतु मानवः 70 एतन नारॊचयद राजन कुन्तीपुत्रॊ धनंजयः अन्ये तव अरॊचयन सर्वे कृच्छ्रेण तु युधिष्ठिरः 71 ततॊ भीमॊ महाबाहुर अनीके सवे महागजम जघान गदया राजन्न अश्वत्थामानम इत्य उत 72 भीमसेनस तु सव्रीडम उपेत्य दरॊणम आहवे अश्वत्थामा हत इति शब्दम उच्चैश चकार ह 73 अश्वत्त्मामेति हि गजः खयातॊ नाम्ना हतॊ ऽभवत कृत्वा मनसि तं भीमॊ मिथ्या वयाहृतवांस तदा 74 भीमसेन वचः शरुत्वा दरॊणस तत्परमप्रियम मनसा सन्नगात्रॊ ऽभूद यथा सैकतम अम्भसि 75 शङ्कमानः स तन मिथ्या वीर्यज्ञः सवसुतस्य वै हतः स इति च शरुत्वा नैव धैर्याद अकम्पत 76 स लब्ध्वा चेतनां दरॊणः कषणेनैव समाश्वसत अनुचिन्त्यात्मनः पुत्रम अविषह्यम अरातिभिः 77 स पार्षतम अभिद्रुत्य जिघांसुर मृत्युम आत्मनः अवाकिरत सहस्रेण तीक्ष्णानां कङ्कपत्रिणाम 78 तं वै विंशतिसाहस्राः पाञ्चालानां नरर्षभाः तथा चरन्तं संग्रामे सर्वतॊ वयकिरच छरैः 79 ततः परादुष्करॊद दरॊणॊ बराह्मम अस्त्रं परंतपः वधाय तेषां शूराणां पाञ्चालानाम अमर्षितः 80 ततॊ वयरॊचत दरॊणॊ विनिघ्नन सर्वसॊमकान शिरांस्य अपातयच चापि पाञ्चालानां महामृधे तथैव परिघाकारान बाहून कनकभूषणान 81 ते वध्यमानाः समरे भारद्वाजेन पार्थिवाः मेदिन्याम अन्वकीर्यन्त वातनुन्ना इव दरुमाः 82 कुञ्जराणां च पततां हयौघानां च भारत अगम्यरूपा पृथिवी मांसशॊणितकर्दमा 83 हत्वा विंशतिसाहस्रान पाञ्चालानां रथव्रजान अतिष्ठद आहवे दरॊणॊ विधूमॊ ऽगनिर इव जवलन 84 तथैव च पुनः करुद्धॊ भारद्वाजः परतापवान वसु दानस्य भल्लेन शिरः कायाद अपाहरत 85 पुनः पञ्चशतान मस्त्यान षट सहस्रांश च सृञ्जयान हस्तिनाम अयुतं हत्वा जघानाश्वायुतं पुनः 86 कषत्रियाणाम अभावाय दृष्ट्वा दरॊणम अवस्थितम ऋषयॊ ऽभयागमंस तूर्णं हव्यवाहपुरॊगमाः 87 विश्वामित्रॊ जमदग्निर भारद्वाजॊ ऽथ गौतमः वसिष्ठः कश्यपॊ ऽतरिश च बरह्मलॊकं निनीषवः 88 सिकताः पृश्नयॊ गर्गा बालखिल्या मरीचिपाः भृगवॊ ऽङगिरसश चैव सूक्ष्माश चान्ये महर्षयः 89 त एनम अब्रुवन सर्वे दरॊणम आहवशॊभिनम अधर्मतः कृतं युद्धं समयॊ निधनस्य ते 90 नयस्यायुधं रणे दरॊण समेत्यास्मान अवस्थितान नातः करूरतरं कर्म पुनः कर्तुं तवम अर्हसि 91 वेदवेदाङ्गविदुषः सत्यधर्मपरस्य च बराह्मणस्य विशेषेण तवैतन नॊपपद्यते 92 नयस्यायुधम अमॊघेषॊ तिष्ठ वर्त्मनि शाश्वते परिपूर्णश च कालस ते वस्तुं लॊके ऽदय मानुषे 93 इति तेषां वचः शरुत्वा भीमसेन वचश च तत धृष्टद्युम्नं च संप्रेक्ष्य रणे स विमनाभवत 94 स दह्यमानॊ वयथितः कुन्तीपुत्रं युधिष्ठिरम अहतं वा हतं वेति पप्रच्छ सुतम आत्मनः 95 सथिरा बुद्धिर हि दरॊणस्य न पार्थॊ वक्ष्यते ऽनृतम तरयाणाम अपि लॊकानाम ऐश्वर्यार्थे कथं चन 96 तस्मात तं परिपप्रच्छ नान्यं कं चिद विशेषतः तस्मिंस तस्य हि सत्याशा बाल्यात परभृति पाण्डवे 97 ततॊ निष्पाण्डवाम उर्वीं करिष्यन्तं युधां पतिम दरॊणं जञात्वा धर्मराजं गॊविन्दॊ वयथितॊ ऽबरवीत 98 यद्य अर्धदिवसं दरॊणॊ युध्यते मन्युम आस्थितः सत्यं बरवीमि ते सेना विनाशं समुपैष्यति 99 स भवांस तरातुनॊ दरॊणात सत्याज जयायॊ ऽनृतं भवेत अनृतं जीवितस्यार्थे वचन न सपृश्यते ऽनृतैः 100 तयॊः संवदतॊर एवं भीमसेनॊ ऽबरवीद इदम शरुत्वैव तं महाराज वधॊपायं महात्मनः 101 गाहमानस्य ते सेनां मालवस्येन्द्र वर्मणः अश्वत्थामेति विख्यातॊ गजः शक्र गजॊपमः 102 निहतॊ युधि विक्रम्य ततॊ ऽहं दरॊणम अब्रुवम अश्वत्थामा हतॊ बरह्मन निवर्तस्वाहवाद इति 103 नूनं नाश्रद्दधद वाक्यम एष मे पुरुषर्षभः स तवं गॊविन्द वाक्यानि मानयस्व जयैषिणः 104 दरॊणाय निहतं शंस राजञ शारद्वती सुतम तवयॊक्तॊ नैष युध्येत जातु राजन दविजर्षभः सत्यवान हि नृलॊके ऽसमिन भवान खयातॊ जनाधिप 105 तस्य तद वचनं शरुत्वा कृष्ण वाक्यप्रचॊदितः भावित्वाच च महाराज वक्तुं समुपचक्रमे 106 तम अतथ्य भये मग्नॊ जये सक्तॊ युधिष्ठिरः अव्यक्तम अब्रवीद राजन हतः कुञ्जर इत्य उत 107 तस्य पूर्वं रथः पृथ्व्याश चतुरङ्गुल उत्तरः बभूवैवं तु तेनॊक्ते तस्य वाहास्पृशन महीम 108 युधिष्ठिरात तु तद वाक्यं शरुत्वा दरॊणॊ महारथः पुत्रव्यसनसंतप्तॊ निराशॊ जीविते ऽभवत 109 आगः कृतम इवात्मानं पाण्डवानां महात्मनाम ऋषिवाक्यं च मन्वानः शरुत्वा च निहतं सुतम 110 विचेताः परमॊद्विग्नॊ धृष्टद्युम्नम अवेक्ष्य च यॊद्धुं नाशक्नुवद राजन यथापूर्वम अरिंदम 111 तं दृष्ट्वा परमॊद्विग्नं शॊकॊपहतचेतसम पाञ्चालराजस्य सुतॊ धृष्टद्युम्नः समाद्रवत 112 य इष्ट्वा मनुजेन्द्रेण दरुपदेन महामखे लब्ध्वा दरॊण विनाशाय समिद्धाद धव्यवाहनात 113 सधनुर जैत्रम आदाय घॊरं जलदनिस्वनम दृढज्यम अजरं दिव्यं शरांश चाशीविषॊपमान 114 संदधे कार्मुके तस्मिञ शरम आशीविषॊपमम दरॊणं जिघांसुः पाञ्चाल्यॊ महाज्वालम इवानलम 115 तस्य रूपं शरस्यासीद धनुर्ज्या मण्डलान्तरे दयॊततॊ भास्करस्येव घनान्ते परिवेशिनः 116 पार्षतेन परामृष्टं जवलन्तम इव तद धनुः अन्तकालम इव पराप्तं मेनिरे वीक्ष्य सैनिकाः 117 तम इषुं संहितं तेन भारद्वाजः परतापवान दृष्ट्वामन्यत देहस्य कालपर्यायम आगतम 118 ततः स यत्नम आतिष्ठद आचार्यस तस्य वारणे न चास्यास्त्राणि राजेन्द्र परादुरासन महात्मनः 119 तस्य तव अहानि चत्वारि कषपा चैकास्यतॊ गता तस्य चाह्नस तरिभागेन कषयं जग्मुः पतत्रिणः 120 स शरक्षयम आसाद्य पुत्रशॊकेन चार्दितः विविधानां च दिव्यानाम अस्त्राणाम अप्रसन्नताम 121 उत्स्रष्टुकामः शस्त्राणि विप्रवाक्याभिचॊदितः तेजसा परेर्यमाणश च युयुधे सॊ ऽतिमानुषम 122 अथान्यत स समादाय दिव्यम आङ्गिरसं धनुः शरांश च शरवर्षेण महता समवाकिरत 123 ततस तं शरवर्षेण महता समवाकिरत वयशातयच च संक्रुद्धॊ धृष्टद्युम्नम अमर्षणः 124 तं शरं शतधा चास्य दरॊणश चिच्छेद सायकैः धवजं धनुश च निशितैः सारथिं चाप्य अपातयत 125 धृष्टद्युम्नः परहस्यान्यत पुनर आदाय कार्मुकम शितेन चैनं बाणेन परत्यविध्यत सतनान्तरे 126 सॊ ऽतिविद्धॊ महेष्वासः संभ्रान्त इव संयुगे भल्लेन शितधारेण चिच्छेदास्य महद धनुः 127 यच चास्य बाणं विकृतं धनूंषि च विशां पते सर्वं संछिद्य दुर्धर्षॊ गदां खड्गम अथापि च 128 धृष्टद्युम्नं ततॊ ऽविध्यन नवभिर निशितैः शरैः जीवितान्तकरैः करुद्धैः करुद्ध रूपं परंतपः 129 धृष्टद्युम्न रथस्याश्वान सवरथाश्वैर महारथः अमिश्रयद अमेयात्मा बराह्मम अस्त्रम उदीरयन 130 ते मिश्रा बह्व अशॊभन्त जवना वातरंहसः पारावत सवर्णाश च शॊणाश च भरतर्षभ 131 यथा स विद्युतॊ मेघा नदन्तॊ जललागमे तथा रेजुर महाराज मिश्रिता रणमूर्धनि 132 ईषा बन्धं चक्रबन्धं रथबन्धं तथैव च परणाशयद अमेयात्मा धृष्टद्युम्नस्य स दविजः 133 स छिन्नधन्वा विरथॊ हताश्वॊ हतसारथिः उत्तमाम आपदं पराप्य गदां वीरः परामृशत 134 ताम अस्य विशिखैस तीक्ष्णैः कषिप्यमाणां महारथः निजघान शरैर दरॊणः करुद्धः सत्यपराक्रमः 135 तां दृष्ट्वा तु नरव्याघ्रॊ दरॊणेन निहतां शरैः विमलं खड्गम आदत्त शतचन्द्रं च भानुमत 136 असंशयं तथा भूते पाञ्चाल्यः साध्व अमन्यत वधम आचार्य मुख्यस्य पराप्तकालं महात्मनः 137 ततः सवरथनीडस्थः सवरथस्य रथेषया अगच्छद असिम उद्यम्य शतचन्द्रं च भानुमत 138 चिकीर्षुर दुष्करं कर्म धृष्टद्युम्नॊ महारथः इयेष वक्षॊ भेत्तुं च भारद्वाजस्य संयुगे 139 सॊ ऽतिष्ठद युगमध्ये वै युगसंनहनेषु च शॊणानां जघनार्धेषु तत सैन्याः समपूजयन 140 तिष्ठतॊ युगपालीषु शॊणान अप्य अधितिष्ठतः नापश्यद अन्तरं दॊणस तद अद्भुतम इवाभवत 141 कषिप्रं शयेनस्य चरतॊ यथैवामिष गृद्धिनः तद्वद आसीद अभीसारॊ दरॊणं परार्थयतॊ रणे 142 तस्याश्वान रथशक्त्यासौ तदा करुद्धः पराक्रमी सर्वान एकैकशॊ दरॊणः कपॊताभान अजीघनत 143 ते हता नयपतन भूमौ धृष्टद्युम्नस्य वाजिनः शॊणाश च पर्यमुच्यन्त रथबन्धाद विशां पते 144 तान हयान निहतान दृष्ट्वा दविजाग्र्येण स पार्षतः नामृष्यत युधां शरेष्ठॊ याज्ञसेनिर महारथः 145 विरथः स गृहीत्वा तु खड्गं खड्गभृतां वरः दरॊणम अभ्यपतद राजन वैनतेय इवॊरगम 146 तस्य रूपं बभौ राजन भारद्वाजं जिघांसतः यथा रूपं परं विष्णॊर हिरण्यकशिपॊर वधे 147 सॊ ऽचिरद विविधान मार्गान परकारान एकविंशतिम भरान्तम उद्भ्रान्तम आविद्धम आप्लुतं परसृतं सृतम 148 परिवृत्तं निवृत्तंच खड्गं चर्म च धारयन संपातं समुदीर्णं च दर्शयाम आस पार्षतः 149 ततः शरसहस्रेण शतचन्द्रम अपातयत खड्गं चर्म च संबाधे धृष्टद्युम्नस्य स दविजः 150 ते तु वैतस्तिका नाम शरा हय आसन्न घातिनः निकृष्ट युद्धे दरॊणस्य नान्येषां सन्ति ते शराः 151 शारद्वतस्य पार्थस्य दरौणेर वैकर्तनस्य च परद्युम्न युयुधानाभ्याम अभिमन्यॊश च ते शराः 152 अथास्येषुं समाधत्त दृढं परमसंशितम अन्तेवासिनम आचार्यॊ जिघांसुः पुत्र संमितम 153 तं शरैर दशभिस तीक्ष्णैश चिच्छेद शिनिपुंगवः पश्यतस तव पुत्रस्य कर्णस्य च महात्मनः गरस्तम आचार्य मुख्येन धृट्षद्युम्नम अमॊचयत 154 चरन्तं रथमार्गेषु सात्यकिं सत्यविक्रमम दरॊणकर्णान्तर गतं कृपस्यापि च भारत अपश्येतां महात्मानौ विष्वक्सेन धनंजयौ 155 अपूजयेतां वार्ष्णेयं बरुवाणौ साधु साध्व इति दिव्यान्य अस्त्राणि सर्वेषां युधि निघ्नन्तम अच्युतम अभिपत्य ततः सेनां विष्वक्सेन धनंजयौ 156 धनंजयस ततः कृष्णम अब्रवीत पश्य केशव आचार्य वरमुख्यानां मध्ये करीडन मधूद्वहः 157 आनन्दयति मां भूयः सात्यकिः सत्यविक्रमः माद्रीपुत्रौ च भीमं च राजानं च युधिष्ठिरम 158 यच छिक्षयानुद्धतः सन रणे चरति सात्यकिः महारथान उपक्रीडन वृष्णीनां कीर्तिवर्धनः 159 तम एते परतिनन्दन्ति सिद्धाः सैन्याश च विस्मिताः अजय्यं समरे दृष्ट्वा साहु साध्व इति सात्वतम यॊधाश चॊभयतः सर्वे कर्मभिः समपूजयन |
1
[s] tasmiṃs tathā vartamāne narāśvagajasaṃkṣaye duḥśāsano mahārāja dhṛṣṭadyumnam ayodhayat 2 sa tu rukmarathāsakto duḥśāsana śarārditaḥ amarṣāt tava putrasya śarair vāhān avākirat 3 kṣaṇena sa rathas tasya sa dhvajaḥ saha sārathiḥ nādṛśyata mahārāja pārṣatasya śaraiś citaḥ 4 duḥśāsanas tu rājendra pāñcālyasya mahātmanaḥ nāśakat pramukhe sthātuṃ śarajālaprapīḍitaḥ 5 sa tu duḥśāsanaṃ bāṇair vimukhīkṛtya pārṣataḥ kirañ śarasahasrāṇi droṇam evābhyayād raṇe 6 pratyapadyata hārdikyaḥ kṛtavarmā tadantaram sodaryāṇāṃ trayaś caiva ta enaṃ paryavārayan 7 taṃ yamau pṛṣṭhato 'nvaitāṃ rakṣantau puruṣarṣabhau droṇāyābhimukhaṃ yāntaṃ dīpyamānam ivānalam 8 saṃprahāram akurvaṃs te sarve sapta mahārathāḥ amarṣitāḥ sattvavantaḥ kṛtvā maraṇam agrataḥ 9 śuddhātmānaḥ śuddhavṛttā rājan svargapuraskṛtāḥ āryaṃ yuddham akurvanta parasparajigīṣavaḥ 10 śuklābhijana karmāṇo matimanto janādhipāḥ dharmayuddham ayudhyanta prekṣanto gatim uttamām 11 na tatrāsīd adharmiṣṭham aśastraṃ yuddham eva ca nātra karṇī na nālīko na lipto na ca vastakaḥ 12 na sūcī kapiśo nātra na gavāsthir gajāsthikaḥ iṣur āsīn na saṃśliṣṭo na pūtir na ca jihmagaḥ 13 ṛjūny eva viśuddhāni sarve śastrāṇy adhārayan suyuddhena parāṁl lokān īpsantaḥ kīrtim eva ca 14 tadāsīt tumulaṃ yuddhaṃ sarvadoṣavivarjitam caturṇāṃ tava yodhānāṃ tais tribhiḥ pāṇḍavaiḥ saha 15 dhṛṣṭadyumnas tu tān hitvā tava rājan ratharṣabhān yamābhyāṃ vāritān dṛṣṭvā śīghrāstro droṇam abhyayāt 16 nivāritās tu te vīrās tayoḥ puruṣasiṃhayoḥ samasajjanta catvāro vātāḥ parvatayor iva 17 dvābhyāṃ dvābhyāṃ yamau sārdhaṃ rathābhyāṃ rathapuṃgavau samāsaktau tato droṇaṃ dhṛṣṭadyumno 'bhyavartata 18 dṛṣṭvā droṇāya pāñcālyaṃ vrajantaṃ yuddhadurmadam yamābhyāṃ tāṃś ca saṃsaktāṃs tadantaram upādravat 19 duryodhano mahārāja kirañ śoṇitabhojanān taṃ sātyakiḥ śīghrataraṃ punar evābhyavartata 20 tau parasparam āsādya samippe kuru mādhavau hasamānau nṛśārdūlāv abhītau samagacchatām 21 bālye vṛttāni sarvāṇi prīyamāṇau vicintya tau anyonyaṃ prekṣamāṇau ca hasamānau punaḥ punaḥ 22 atha duryodhano rājā sātyakiṃ pratyabhāṣata priyaṃ sakhāyaṃ satataṃ garhayan vṛttam ātmanaḥ 23 dhik krodhaṃ dhik sakhe lobhaṃ dhin mohaṃ dhig amarṣitam dhig astu kṣātram ācāraṃ dhig astu balam aurasam 24 yat tvaṃ mām abhisaṃdhatse tvāṃ cāhaṃ śinipuṃgava tvaṃ hi prāṇaiḥ priyataro mamāhaṃ ca sadā tava 25 smarāmi tāni sarvāṇi bālye vṛttāni yāni nau tāni sarvāṇi jīrṇāni sāṃprataṃ nau raṇājire kim anyat krodhalobhābhyāṃ yudhyāmi tvādya sātvata 26 taṃ tathā vādinaṃ rājan sātyakiḥ pratyabhāṣata prahasan viśikhāṃs tīkṣṇān udyamya paramāstravit 27 neyaṃ sabhā rājaputra na cācārya niveśanam yatra krīḍitam asmābhis tadā rājan samāgataiḥ 28 [dur] kva sā krīḍā gatāsmākaṃ bālye vai śinipuṃgava kva ca yuddham idaṃ bhūyaḥ kālo hi duratikramaḥ 29 kiṃ nu no vidyate kṛtyaṃ dhanena dhanalipsayā yatra yudhyāmahe sarve dhanalobhāt samāgatāḥ 30 [samjaya] taṃ tathā vādinaṃ tatra rājānaṃ mādhavo 'bravīt evaṃvṛtthaṃ sadā kṣatraṃ yad dhantīha gurūn api 31 yadi te 'haṃ priyo rājañ jahi māṃ māciraṃ kṛthāḥ tvatkṛte sukṛtāṁl lokān gaccheyaṃ bharatarṣabha 32 yā te śaktir balaṃ caiva tat kṣipraṃ mayi darśaya necchāmy etad ahaṃ draṣṭuṃ mitrāṇāṃ vyasanaṃ mahat 33 ity evaṃ vyaktam ābhāṣya pratibhāṣya ca sātyakiḥ abhyayāt tūrṇam avyagro nirapekṣo viśāṃ pate 34 tam āyāntam abhiprekṣya pratyagṛhṇāt tavātmajaḥ śaraiś cāvākirad rājañ śaineyaṃ tanayas tava 35 tataḥ pravavṛte yuddhaṃ kuru mādhava siṃhayoḥ anyonyaṃ kruddhayor ghoraṃ yathā dviradasiṃhayoḥ 36 tataḥ pūrṇāyatotsṛṣṭaiḥ sātvataṃ yuddhadurmadam duryodhanaḥ pratyavidhyad daśabhir niśitaiḥ śaraiḥ 37 taṃ sātyakiḥ pratyaviddhat tathaiva daśabhiḥ śaraiḥ pañcāśatā punaś cājau triṃśatā daśabhiś ca ha 38 tasya saṃdhadhataś ceṣūn saṃhiteṣuṃ ca kārmukam acchinat sātyakis tūrṇaṃ śaraiś caivābhyavīvṛṣat 39 sa gāḍhaviddho vyathitaḥ pratyapāyād rathāntaram duryodhano mahārāja dāśārha śarapīḍitaḥ 40 samāśvasya tu putras te sātyakiṃ punar abhyayāt visṛjann iṣujālāni yuyudhāna rathaṃ prathi 41 tathaiva sātyakir bāṇān duryodhana rathaṃ prati pratataṃ vyasṛjad rājaṃs tat saṃkulam avartata 42 tatreṣubhiḥ kṣipyamāṇaiḥ patadbhiś ca samantataḥ agner iva mahākakṣe śabdaḥ samabhavan mahān 43 tatrābhyadhikam ālakṣya mādhavaṃ rathasattamam kṣipram abhyapatat karṇaḥ parīpsaṃs tanayaṃ tava 44 na tu taṃ marṣayām āsa bhīmaseno mahābalaḥ abhyayāt tvaritaḥ karṇaṃ visṛjan sāyakān bahūn 45 tasya karṇaḥ śitān bāṇān pratihanya hasann iva dhanuḥ śarāṃś ca ciccheda sūtaṃ cābhyahanac charaiḥ 46 bhīmasenas tu saṃkruddho gadām ādāya pāṇḍavaḥ dhvajaṃ dhanuś ca sūtaṃ ca saṃmamardāhave ripoḥ 47 amṛṣyamāṇaḥ karṇas tu bhīmasenam ayudhyata vividhair iṣujālaiś ca nānāśastraiś ca saṃyuge 48 saṃkule vartamāne tu rājā dharmasuto 'bravīt pāñcālānāṃ naravyāghrān matsyānāṃ ca nararṣabhān 49 ye naḥ prāṇāḥ śiro ye no ye no yodhā mahābalāḥ ta ete dhārtarāṣṭreṣu viṣaktāḥ puruṣarṣabhāḥ 50 kiṃ tiṣṭhata yathā mūḍhāḥ sarve vigatacetasaḥ tatra gacchata yatraite yudhyante māmakā rathāḥ 51 kṣatradharmaṃ puraskṛtya sarva eva gatajvarāḥ jayanto vadhyamānā vā gatim iṣṭāṃ gamiṣyatha 52 jitvā ca bahubhir yajñair yakṣyadhvaṃ bhūridakṣiṇaiḥ hatā vā devasād bhūtvā lokān prāpsyatha puṣkalān 53 te rājñā coditā vīrā yotsyamānā mahārathāḥ caturdhā vahinīṃ kṛtvā tvaritā droṇam abhyayuḥ 54 pāñcālās tv ekato droṇam abhyaghnan bahubhiḥ śaraiḥ bhīmasenapurogāś ca ekataḥ paryavārayan 55 āsaṃs tu pāṇḍuputrāṇāṃ trayo 'jihmā mahārathāḥ yamau ca bhīmasenaś ca prākrośanta dhanaṃjayam 56 abhidravārjuna kṣipraṃ kurūn droṇād anānuda tata enaṃ haniṣyanti pāñcālā hatarakṣiṇam 57 kauraveyāṃs tataḥ pārthaḥ sahasā samupādravat pāñcālān eva tu droṇo dhṛṣṭadyumnapurogamān 58 pāñcālānāṃ tato droṇo 'py akarot kadanaṃ mahat yathā kruddho raṇe śakro dānavānāṃ kṣayaṃ purā 59 droṇāstreṇa mahārāja vadhyamānāḥ pare yudhi nātrasanta raṇe droṇāt sattvavanto mahārathāḥ 60 vadhyamānā mahārāja pāñcālāḥ sṛñjayās tathā droṇam evābhyayur yuddhe mohayanto mahāratham 61 teṣāṃ tūtsādyamānānāṃ pāñcālānāṃ samantataḥ abhavad bhairavo nādo vadhyatāṃ śaraśaktibhiḥ 62 vadhyamāneṣu saṃgrāme pāñcāleṣu mahātmanā udīryamāṇe droṇāstre pāṇḍavān bhayam āviśat 63 dṛṣṭvāśvanarasaṃghānāṃ vipulaṃ ca kṣayaṃ yudhi pāṇḍaveyā mahārāja nāśaṃsur vijayaṃ tadā 64 kac cid droṇo na naḥ sarvān kṣapayet paramāstravit samiddhaḥ śiśirāpāye dahan kakṣam ivānalaḥ 65 na cainaṃ saṃyuge kaś cit samarthaḥ prativīkṣitum na cainam arjuno jātu pratiyudhyeta dharmavit 66 trastān kuntīsutān dṛṣṭvā droṇa sāyakapīḍitān matimāñ śreyase yuktaḥ keśavo 'rjunam abravīt 67 naiṣa yuddhena saṃgrāme jetuṃ śakyaḥ kathaṃ cana api vṛtrahaṇā yuddhe rathayūthapa yūthapaḥ 68 āsthīyatāṃ jaye yogo dharmam utsṛjya pāṇḍava yathā vaḥ saṃyuge sarvān na hanyād rukmavāhanaḥ 69 aśvatthāmni hate naiṣa yudhyed iti matir mama taṃ hataṃ saṃyuge kaś cid asmai śaṃsatu mānavaḥ 70 etan nārocayad rājan kuntīputro dhanaṃjayaḥ anye tv arocayan sarve kṛcchreṇa tu yudhiṣṭhiraḥ 71 tato bhīmo mahābāhur anīke sve mahāgajam jaghāna gadayā rājann aśvatthāmānam ity uta 72 bhīmasenas tu savrīḍam upetya droṇam āhave aśvatthāmā hata iti śabdam uccaiś cakāra ha 73 aśvattmāmeti hi gajaḥ khyāto nāmnā hato 'bhavat kṛtvā manasi taṃ bhīmo mithyā vyāhṛtavāṃs tadā 74 bhīmasena vacaḥ śrutvā droṇas tatparamapriyam manasā sannagātro 'bhūd yathā saikatam ambhasi 75 śaṅkamānaḥ sa tan mithyā vīryajñaḥ svasutasya vai hataḥ sa iti ca śrutvā naiva dhairyād akampata 76 sa labdhvā cetanāṃ droṇaḥ kṣaṇenaiva samāśvasat anucintyātmanaḥ putram aviṣahyam arātibhiḥ 77 sa pārṣatam abhidrutya jighāṃsur mṛtyum ātmanaḥ avākirat sahasreṇa tīkṣṇānāṃ kaṅkapatriṇām 78 taṃ vai viṃśatisāhasrāḥ pāñcālānāṃ nararṣabhāḥ tathā carantaṃ saṃgrāme sarvato vyakirac charaiḥ 79 tataḥ prāduṣkarod droṇo brāhmam astraṃ paraṃtapaḥ vadhāya teṣāṃ śūrāṇāṃ pāñcālānām amarṣitaḥ 80 tato vyarocata droṇo vinighnan sarvasomakān śirāṃsy apātayac cāpi pāñcālānāṃ mahāmṛdhe tathaiva parighākārān bāhūn kanakabhūṣaṇān 81 te vadhyamānāḥ samare bhāradvājena pārthivāḥ medinyām anvakīryanta vātanunnā iva drumāḥ 82 kuñjarāṇāṃ ca patatāṃ hayaughānāṃ ca bhārata agamyarūpā pṛthivī māṃsaśoṇitakardamā 83 hatvā viṃśatisāhasrān pāñcālānāṃ rathavrajān atiṣṭhad āhave droṇo vidhūmo 'gnir iva jvalan 84 tathaiva ca punaḥ kruddho bhāradvājaḥ pratāpavān vasu dānasya bhallena śiraḥ kāyād apāharat 85 punaḥ pañcaśatān mastyān ṣaṭ sahasrāṃś ca sṛñjayān hastinām ayutaṃ hatvā jaghānāśvāyutaṃ punaḥ 86 kṣatriyāṇām abhāvāya dṛṣṭvā droṇam avasthitam ṛṣayo 'bhyāgamaṃs tūrṇaṃ havyavāhapurogamāḥ 87 viśvāmitro jamadagnir bhāradvājo 'tha gautamaḥ vasiṣṭhaḥ kaśyapo 'triś ca brahmalokaṃ ninīṣavaḥ 88 sikatāḥ pṛśnayo gargā bālakhilyā marīcipāḥ bhṛgavo 'ṅgirasaś caiva sūkṣmāś cānye maharṣayaḥ 89 ta enam abruvan sarve droṇam āhavaśobhinam adharmataḥ kṛtaṃ yuddhaṃ samayo nidhanasya te 90 nyasyāyudhaṃ raṇe droṇa sametyāsmān avasthitān nātaḥ krūrataraṃ karma punaḥ kartuṃ tvam arhasi 91 vedavedāṅgaviduṣaḥ satyadharmaparasya ca brāhmaṇasya viśeṣeṇa tavaitan nopapadyate 92 nyasyāyudham amogheṣo tiṣṭha vartmani śāśvate paripūrṇaś ca kālas te vastuṃ loke 'dya mānuṣe 93 iti teṣāṃ vacaḥ śrutvā bhīmasena vacaś ca tat dhṛṣṭadyumnaṃ ca saṃprekṣya raṇe sa vimanābhavat 94 sa dahyamāno vyathitaḥ kuntīputraṃ yudhiṣṭhiram ahataṃ vā hataṃ veti papraccha sutam ātmanaḥ 95 sthirā buddhir hi droṇasya na pārtho vakṣyate 'nṛtam trayāṇām api lokānām aiśvaryārthe kathaṃ cana 96 tasmāt taṃ paripapraccha nānyaṃ kaṃ cid viśeṣataḥ tasmiṃs tasya hi satyāśā bālyāt prabhṛti pāṇḍave 97 tato niṣpāṇḍavām urvīṃ kariṣyantaṃ yudhāṃ patim droṇaṃ jñātvā dharmarājaṃ govindo vyathito 'bravīt 98 yady ardhadivasaṃ droṇo yudhyate manyum āsthitaḥ satyaṃ bravīmi te senā vināśaṃ samupaiṣyati 99 sa bhavāṃs trātuno droṇāt satyāj jyāyo 'nṛtaṃ bhavet anṛtaṃ jīvitasyārthe vacan na spṛśyate 'nṛtaiḥ 100 tayoḥ saṃvadator evaṃ bhīmaseno 'bravīd idam śrutvaiva taṃ mahārāja vadhopāyaṃ mahātmanaḥ 101 gāhamānasya te senāṃ mālavasyendra varmaṇaḥ aśvatthāmeti vikhyāto gajaḥ śakra gajopamaḥ 102 nihato yudhi vikramya tato 'haṃ droṇam abruvam aśvatthāmā hato brahman nivartasvāhavād iti 103 nūnaṃ nāśraddadhad vākyam eṣa me puruṣarṣabhaḥ sa tvaṃ govinda vākyāni mānayasva jayaiṣiṇaḥ 104 droṇāya nihataṃ śaṃsa rājañ śāradvatī sutam tvayokto naiṣa yudhyeta jātu rājan dvijarṣabhaḥ satyavān hi nṛloke 'smin bhavān khyāto janādhipa 105 tasya tad vacanaṃ śrutvā kṛṣṇa vākyapracoditaḥ bhāvitvāc ca mahārāja vaktuṃ samupacakrame 106 tam atathya bhaye magno jaye sakto yudhiṣṭhiraḥ avyaktam abravīd rājan hataḥ kuñjara ity uta 107 tasya pūrvaṃ rathaḥ pṛthvyāś caturaṅgula uttaraḥ babhūvaivaṃ tu tenokte tasya vāhāspṛśan mahīm 108 yudhiṣṭhirāt tu tad vākyaṃ śrutvā droṇo mahārathaḥ putravyasanasaṃtapto nirāśo jīvite 'bhavat 109 āgaḥ kṛtam ivātmānaṃ pāṇḍavānāṃ mahātmanām ṛṣivākyaṃ ca manvānaḥ śrutvā ca nihataṃ sutam 110 vicetāḥ paramodvigno dhṛṣṭadyumnam avekṣya ca yoddhuṃ nāśaknuvad rājan yathāpūrvam ariṃdama 111 taṃ dṛṣṭvā paramodvignaṃ śokopahatacetasam pāñcālarājasya suto dhṛṣṭadyumnaḥ samādravat 112 ya iṣṭvā manujendreṇa drupadena mahāmakhe labdhvā droṇa vināśāya samiddhād dhavyavāhanāt 113 sadhanur jaitram ādāya ghoraṃ jaladanisvanam dṛḍhajyam ajaraṃ divyaṃ śarāṃś cāśīviṣopamān 114 saṃdadhe kārmuke tasmiñ śaram āśīviṣopamam droṇaṃ jighāṃsuḥ pāñcālyo mahājvālam ivānalam 115 tasya rūpaṃ śarasyāsīd dhanurjyā maṇḍalāntare dyotato bhāskarasyeva ghanānte pariveśinaḥ 116 pārṣatena parāmṛṣṭaṃ jvalantam iva tad dhanuḥ antakālam iva prāptaṃ menire vīkṣya sainikāḥ 117 tam iṣuṃ saṃhitaṃ tena bhāradvājaḥ pratāpavān dṛṣṭvāmanyata dehasya kālaparyāyam āgatam 118 tataḥ sa yatnam ātiṣṭhad ācāryas tasya vāraṇe na cāsyāstrāṇi rājendra prādurāsan mahātmanaḥ 119 tasya tv ahāni catvāri kṣapā caikāsyato gatā tasya cāhnas tribhāgena kṣayaṃ jagmuḥ patatriṇaḥ 120 sa śarakṣayam āsādya putraśokena cārditaḥ vividhānāṃ ca divyānām astrāṇām aprasannatām 121 utsraṣṭukāmaḥ śastrāṇi vipravākyābhicoditaḥ tejasā preryamāṇaś ca yuyudhe so 'timānuṣam 122 athānyat sa samādāya divyam āṅgirasaṃ dhanuḥ śarāṃś ca śaravarṣeṇa mahatā samavākirat 123 tatas taṃ śaravarṣeṇa mahatā samavākirat vyaśātayac ca saṃkruddho dhṛṣṭadyumnam amarṣaṇaḥ 124 taṃ śaraṃ śatadhā cāsya droṇaś ciccheda sāyakaiḥ dhvajaṃ dhanuś ca niśitaiḥ sārathiṃ cāpy apātayat 125 dhṛṣṭadyumnaḥ prahasyānyat punar ādāya kārmukam śitena cainaṃ bāṇena pratyavidhyat stanāntare 126 so 'tividdho maheṣvāsaḥ saṃbhrānta iva saṃyuge bhallena śitadhāreṇa cicchedāsya mahad dhanuḥ 127 yac cāsya bāṇaṃ vikṛtaṃ dhanūṃṣi ca viśāṃ pate sarvaṃ saṃchidya durdharṣo gadāṃ khaḍgam athāpi ca 128 dhṛṣṭadyumnaṃ tato 'vidhyan navabhir niśitaiḥ śaraiḥ jīvitāntakaraiḥ kruddhaiḥ kruddha rūpaṃ paraṃtapaḥ 129 dhṛṣṭadyumna rathasyāśvān svarathāśvair mahārathaḥ amiśrayad ameyātmā brāhmam astram udīrayan 130 te miśrā bahv aśobhanta javanā vātaraṃhasaḥ pārāvata savarṇāś ca śoṇāś ca bharatarṣabha 131 yathā sa vidyuto meghā nadanto jalalāgame tathā rejur mahārāja miśritā raṇamūrdhani 132 īṣā bandhaṃ cakrabandhaṃ rathabandhaṃ tathaiva ca praṇāśayad ameyātmā dhṛṣṭadyumnasya sa dvijaḥ 133 sa chinnadhanvā viratho hatāśvo hatasārathiḥ uttamām āpadaṃ prāpya gadāṃ vīraḥ parāmṛśat 134 tām asya viśikhais tīkṣṇaiḥ kṣipyamāṇāṃ mahārathaḥ nijaghāna śarair droṇaḥ kruddhaḥ satyaparākramaḥ 135 tāṃ dṛṣṭvā tu naravyāghro droṇena nihatāṃ śaraiḥ vimalaṃ khaḍgam ādatta śatacandraṃ ca bhānumat 136 asaṃśayaṃ tathā bhūte pāñcālyaḥ sādhv amanyata vadham ācārya mukhyasya prāptakālaṃ mahātmanaḥ 137 tataḥ svarathanīḍasthaḥ svarathasya ratheṣayā agacchad asim udyamya śatacandraṃ ca bhānumat 138 cikīrṣur duṣkaraṃ karma dhṛṣṭadyumno mahārathaḥ iyeṣa vakṣo bhettuṃ ca bhāradvājasya saṃyuge 139 so 'tiṣṭhad yugamadhye vai yugasaṃnahaneṣu ca śoṇānāṃ jaghanārdheṣu tat sainyāḥ samapūjayan 140 tiṣṭhato yugapālīṣu śoṇān apy adhitiṣṭhataḥ nāpaśyad antaraṃ doṇas tad adbhutam ivābhavat 141 kṣipraṃ śyenasya carato yathaivāmiṣa gṛddhinaḥ tadvad āsīd abhīsāro droṇaṃ prārthayato raṇe 142 tasyāśvān rathaśaktyāsau tadā kruddhaḥ parākramī sarvān ekaikaśo droṇaḥ kapotābhān ajīghanat 143 te hatā nyapatan bhūmau dhṛṣṭadyumnasya vājinaḥ śoṇāś ca paryamucyanta rathabandhād viśāṃ pate 144 tān hayān nihatān dṛṣṭvā dvijāgryeṇa sa pārṣataḥ nāmṛṣyata yudhāṃ śreṣṭho yājñasenir mahārathaḥ 145 virathaḥ sa gṛhītvā tu khaḍgaṃ khaḍgabhṛtāṃ varaḥ droṇam abhyapatad rājan vainateya ivoragam 146 tasya rūpaṃ babhau rājan bhāradvājaṃ jighāṃsataḥ yathā rūpaṃ paraṃ viṣṇor hiraṇyakaśipor vadhe 147 so 'cirad vividhān mārgān prakārān ekaviṃśatim bhrāntam udbhrāntam āviddham āplutaṃ prasṛtaṃ sṛtam 148 parivṛttaṃ nivṛttaṃca khaḍgaṃ carma ca dhārayan saṃpātaṃ samudīrṇaṃ ca darśayām āsa pārṣataḥ 149 tataḥ śarasahasreṇa śatacandram apātayat khaḍgaṃ carma ca saṃbādhe dhṛṣṭadyumnasya sa dvijaḥ 150 te tu vaitastikā nāma śarā hy āsanna ghātinaḥ nikṛṣṭa yuddhe droṇasya nānyeṣāṃ santi te śarāḥ 151 śāradvatasya pārthasya drauṇer vaikartanasya ca pradyumna yuyudhānābhyām abhimanyoś ca te śarāḥ 152 athāsyeṣuṃ samādhatta dṛḍhaṃ paramasaṃśitam antevāsinam ācāryo jighāṃsuḥ putra saṃmitam 153 taṃ śarair daśabhis tīkṣṇaiś ciccheda śinipuṃgavaḥ paśyatas tava putrasya karṇasya ca mahātmanaḥ grastam ācārya mukhyena dhṛṭṣadyumnam amocayat 154 carantaṃ rathamārgeṣu sātyakiṃ satyavikramam droṇakarṇāntara gataṃ kṛpasyāpi ca bhārata apaśyetāṃ mahātmānau viṣvaksena dhanaṃjayau 155 apūjayetāṃ vārṣṇeyaṃ bruvāṇau sādhu sādhv iti divyāny astrāṇi sarveṣāṃ yudhi nighnantam acyutam abhipatya tataḥ senāṃ viṣvaksena dhanaṃjayau 156 dhanaṃjayas tataḥ kṛṣṇam abravīt paśya keśava ācārya varamukhyānāṃ madhye krīḍan madhūdvahaḥ 157 ānandayati māṃ bhūyaḥ sātyakiḥ satyavikramaḥ mādrīputrau ca bhīmaṃ ca rājānaṃ ca yudhiṣṭhiram 158 yac chikṣayānuddhataḥ san raṇe carati sātyakiḥ mahārathān upakrīḍan vṛṣṇīnāṃ kīrtivardhanaḥ 159 tam ete pratinandanti siddhāḥ sainyāś ca vismitāḥ ajayyaṃ samare dṛṣṭvā sāhu sādhv iti sātvatam yodhāś cobhayataḥ sarve karmabhiḥ samapūjayan |
The Mahabharata in Sanskrit
Book 7
Chapter 165
|
1
[स] करूरम आयॊधनं जज्ञे तस्मिन राजसमागमे रुद्रस्येव हि करुद्धस्य निघ्नतस तु पशून यथा 2 हस्तानाम उत्तमाङ्गानां कार्मुकाणां च भारत छत्राणां चापविद्धानां चामराणां च संयुगे 3 भग्नचक्रै रथैश चापि पातितैश च महाध्वजैः सादिभिश च हतैः शूरैः संकीर्णा वसुधाभवत 4 बाणपात निकृत्तास तु यॊधास ते कुरुसत्तम चेष्टन्तॊ विविधाश चेष्टा वयदृश्यन्त महाहवे 5 वर्तमाने तथा युद्धे घॊरे देवासुरॊपमे अब्रवीत कषत्रियांस तत्र धर्मराजॊ युधिष्ठिरः अभिद्रवत संयत्ताः कुम्भयॊनिं महारथाः 6 एष वै पार्षतॊ वीरॊ भारद्वाजेन संगतः घटते च यथाशक्ति भारद्वाजस्य नाशने 7 यादृशानि हि रूपाणि दृश्यन्ते नॊ महारणे अद्य दरॊणं रणे करुद्धः पातयिष्यति पार्षतः ते यूयं सहिता भूत्वा कुम्भयॊनिं परीप्सत 8 युधिष्ठिर समाज्ञप्ताः सृञ्जयानां महारथाः अभ्यद्रवन्त संयत्ता भारद्वाजं जिघांसवः 9 तान समापततः सर्वान भारद्वाजॊ महारथः अभ्यद्रवत वेगेन मर्तव्यम इति निश्चितः 10 परयाते सत्यसंधे तु समकम्पत मेदिनी ववुर वाताः स निर्घातास तरासयन्ति वरूथिनीम 11 पपात महती चॊल्का आदित्यान निर्गतेव ह दीपयन्तीव तापेन शंसन्तीव महद भयम 12 जज्वलुश चैव शस्त्राणि भारद्वाजस्य मारिष रथाः सवनन्ति चात्यर्थं हयाश चाश्रूण्य अवासृजन 13 हतौजा इव चाप्य आसीद भारद्वाजॊ महारथः ऋषीणां बरह्मवादानां सवर्गस्य गमनं परति सुयुद्धेन ततः पराणान उत्स्रष्टुम उपचक्रमे 14 ततश चतुर्दिशं सैन्यैर दरुपदस्याभिसंवृतः निर्दहन कषत्रिय वरातान दरॊणः पर्यचरद रणे 15 हत्वा विंशतिसाहस्रान कषत्रियान अरिमर्दनः दशायुतानि तीक्ष्णाग्रैर अवधीद विशिखैः शितैः 16 सॊ ऽतिष्ठद आहवे यत्तॊ विधूम इव पावकः कषत्रियाणाम अभावाय बराह्मम आत्मानम आस्थितः 17 पाञ्चाल्यं विरथं भीमॊ हतसर्वायुधं वशी अविषण्णं महात्मानं तवरमाणः समभ्ययात 18 ततः सवरथम आरॊप्य पाञ्चाल्यम अरिमर्दनः अब्रवीद अभिसंप्रेक्ष्य दरॊणम अस्यन्तम अन्तिकात 19 न तवदन्य इहाचार्यं यॊद्धुम उत्सहते पुमान तवरस्व पराग वधायैव तवयि भारः समाहितः 20 स तथॊक्तॊ महाबाहुः सर्वभारसहं नवम अभिपत्याददे कषिप्रम आयुधप्रवरं दृढम 21 संरब्धश चशरान अस्यन दरॊणं दुर्वारणं रणे विवारयिषुर आचार्यं शरवर्षैर अवाकिरत 22 तौ नयवारयतां शरेष्ठौ संरब्धौ रणशॊभिनौ उदीरयेतां बराह्माणि दिव्यान्य अस्त्राण्य अनेकशः 23 स महास्त्रैर महाराज दरॊणम आच्छादयद रणे निहत्य सर्वाण्य अस्त्राणि भारद्वाजस्य पार्षतः 24 स वसातीञ शिबींश चैव बाह्लीकान कौरवान अपि रक्षिष्यमाणान संग्रामे दरॊणं वयधमद अच्युतः 25 धृष्टद्युम्नस तदा राजन गभस्तिभिर इवांशुमान बभौ परच्छादयन नाशाः शरजालैः समन्ततः 26 तस्य दरॊणॊ धनुश छित्त्वा विद्ध्वा चैनं शिलीमुखैः मर्माण्य अभ्यहनद भूयः स वयथां परमाम अगात 27 ततॊ भीमॊ दृढक्रॊधॊ दरॊणस्याल्शिष्य तं रथम शनकैर इव राजेन्द्र दरॊणं वचनम अब्रवीत 28 यदि नाम न युध्येरञ शिक्षिता बरह्म बन्धवः सवकर्मभिर असंतुष्टा न सम कषत्रं कषयं वरजेत 29 अहिंसा सर्वभूतेषु धर्मं जयायस्तरं विदुः तस्य च बराह्मणॊ मूलं भवांश च बरह्मवित्तमः 30 शवपाकवन मलेच्छ गणान हत्वा चान्यान पृथग्विधान अज्ञानान मूढवद बरह्मन पुत्रदारधनेप्सया 31 एकस्यार्थे बहून हत्वा पुत्रस्याधर्मविद यथा सवकर्मस्थान विकर्मस्थॊ न वयपत्रपसे कथम 32 स चाद्य पतितः शेते पृष्टेनावेदितस तव धर्मराजेन तद वाक्यं नातिशङ्कितुम अर्हसि 33 एवम उक्तस ततॊ दरॊणॊ भीमेनॊत्सृज्य तद धनुः सर्वाण्य अस्त्राणि धर्मात्मा हातु कामॊ ऽभयभाषत कर्ण कर्ण महेष्वास कृप दुर्यॊधनेति च 34 संग्रामे करियतां यत्नॊ बरवीम्य एष पुनः पुनः पाण्डवेभ्यः शिवं वॊ ऽसतु शस्त्रम अभ्युत्सृजाम्य अहम 35 इति तत्र महाराज पराक्रॊशद दरौणिम एव च उत्सृज्य च रणे शस्त्रं रथॊपस्थे निवेश्य च अभयं सर्वभूतानां परददौ यॊगयुक्तवान 36 तस्य तच छिद्रम आज्ञाय धृष्टद्युम्नः समुत्थितः खड्गी रथाद अवप्लुत्य सहसा दरॊणम अभ्ययात 37 हाहाकृतानि भूतानि मानुषाणीतराणि च दरॊणं तथागतं दृष्ट्वा धृष्टद्युम्न वशंगतम 38 हाहाकारं भृशं चक्रुर अहॊ धिग इति चाब्रुवन दरॊणॊ ऽपि शस्त्राण्य उत्सृज्य परमं साम्यम आस्थितः 39 तथॊक्त्वा यॊगम आस्थाय जयॊतिर भूतॊ महातपाः दिवम आक्रामद आचार्यः सद्भिः सह दुराक्रमम 40 दवौ सूर्याव इति नॊ बुद्धिर आसीत तस्मिंस तथागते एकाग्रम इव चासीद धि जयॊतिर्भिः पूरितं नभः समपद्यत चार्काभे भारद्वाज निशाकरे 41 निमेष मात्रेण च तज जयॊतिर अन्तरधीयत आसीत किलकिला शब्दः परहृष्टानां दिवौकसाम बरह्मलॊकं गते दरॊणे धृष्टद्युम्ने च मॊहिते 42 वयम एव तदाद्राक्ष्म पञ्च मानुषयॊनयः यॊगयुक्तं महात्मानं गच्छन्तं परमां गतिम 43 अहं धनंजयः पार्थः कृपः शारद्वतॊ दविजः वासुदेवश च वार्ष्णेयॊ धर्मराजश च पाण्डवः 44 अन्ये तु सर्वे नापश्यन भारद्वाजस्य धीमतः महिमानं महाराज यॊगमुक्तस्य गच्छतः 45 गतिं परमिकां पराप्तम अजानन्तॊ नृयॊनयः नापश्यन गच्छमानं हि तं सार्धम ऋषिपुंगवैः आचार्यं यॊगम आस्थाय बरह्मलॊकम अरिंदमम 46 वितुन्नाङ्गं शरशतैर नयस्तायुधम असृक कषरम धिक्कृतः पार्तषस तं तु सर्वभूतैः परामृशत 47 तस्य मूर्धानम आलम्ब्य गतसत्त्वस्य देहिनः किं चिद अब्रुवतः कायाद विचकर्तासिना शिरः 48 हर्षेण महता युक्तॊ भारद्वाजे निपातिते सिंहनाद रवं चक्रे भामयन खड्गम आहवे 49 आकर्णपलितः शयामॊ वयसाशीति पञ्चकः तवत्कृते वयचरत संख्ये स तु षॊडद वर्षवत 50 उक्तवांश च महाबाहुः कुन्तीपुत्रॊ धनंजयः जीवन्तम आनयाचार्यं मा वधीर दरुपदात्मजः 51 न हन्तव्यॊ न हन्तव्य इति ते सैनिकाश च ह उत्क्रॊशन्न अर्जुनश चैव सानुक्रॊशस तम आद्रवत 52 करॊशमाने ऽरजुने चैव पार्थिवेषु च सर्वशः धृष्टद्युम्नॊ ऽवधीद दरॊणं रथतल्पे नरर्षभम 53 शॊणितेन परिक्लिन्नॊ रथाद भूमिम अरिंदमः लॊहिताङ्ग इवादित्यॊ दुर्दर्शः समपद्यत एवं तं निहतं संख्ये ददृशे सैनिकॊ जनः 54 धेष्टद्युम्नस तु तद राजन भारद्वाज शिरॊमहत तावकानां महेष्वासः परमुखे तत समाक्षिपत 55 ते तु दृष्ट्वा शिरॊ राजन भारद्वाजस्य तावकाः पलायनकृतॊत्साहा दुद्रुवुः सर्वतॊदिशम 56 दरॊणस तु दिवम आस्थाय नक्षत्रपथम आविशत अहम एव तदाद्राक्षं दरॊणस्य निधनं नृप 57 ऋषेः परसादात कृष्णस्य सत्यवत्याः सुतस्य च विधूमाम इव संयान्तीम उल्कां परज्वलिताम इव अपश्याम दिवं सतब्ध्वा गच्छन्तं तं महाद्युतिम 58 हते दरॊणे निरुत्साहान कुरून पाण्डव सृञ्जयाः अभ्यद्रवन महावेगास ततः सैन्यं वयदीर्यत 59 निहता हयभूयिष्ठाः संग्रामे निशितैः शरैः तावका निहते दरॊणे गतासव इवाभवन 60 पराजयम अथावाप्य परत्र च महद भयम उभयेनैव ते हीना नाविन्दन धृतिम आत्मनः 61 अन्विच्छन्तः शरीरं तु भारद्वाजस्य पार्थिवाः नाध्यगच्छंस तदा राजन कबन्धायुत संकुले 62 पाण्डवास तु जयं लब्ध्वा परत्र च महद यशः बाणशब्दरवांश चक्रुः सिंहनादांश च पुष्कलान 63 भीमसेनस ततॊ राजन धृष्टद्युम्नश च पार्षतः वरूथिन्याम अनृत्येतां परिष्वज्य परस्परम 64 अब्रवीच च तदा भीमः पार्षतं शत्रुतापनम भूयॊ ऽहं तवां विजयिनं परिष्वक्ष्यामि पार्षत सूतपुत्रे हते पापे धार्तराष्ट्रे च संयुगे 65 एतावद उक्त्वा भीमस तु हर्षेण महता युतः बाहुशब्देन पृथिवीं कम्पयाम आस पाण्डवः 66 तस्य शब्देन वित्रस्ताः पराद्रवंस तावका युधि कषत्रधर्मं समुत्सृज्य पलायनपरायणाः 67 पाण्डवास तु जयं लब्ध्वा हृष्टा हय आसन विशां पते अरिक्षयं च संग्रामे तेन ते सुखम आप्नुवन 68 ततॊ दरॊणे हते राजन कुरवः शस्त्रपीडिताः हतप्रवीरा विध्वस्ता भृशं शॊकपरायणाः 69 विचेतसॊ हतॊत्साहाः कश्मलाभिहतौजसः आर्तस्वरेण महता पुत्रं ते पर्यवारयन 70 रजस्वला वेपमाना वीक्षमाणा दिशॊ दश अश्रुकण्ठा यथा दैत्या हिरण्याक्षे पुरा हते 71 स तैः परिवृतॊ राजा तरस्तैः कषुद्रमृगैर इव अशक्नुवन्न अवस्थातुम अपायात तनयस तव 72 कषुत्पिपासापरिश्रान्तास ते यॊधास तव भारत आदित्येन च संतप्ता भृशं विमनसॊ ऽभवन 73 भास्करस्येव पतनं समुद्रस्येव शॊषणम विपर्यासं यथा मेरॊर वासवस्येव निर्जयम 74 अमर्षणीयं तद दृष्ट्वा भारद्वाजस्य पातनम तरस्तरूपतरा राजन कौरवाः पराद्रवन भयात 75 गान्धारराजः शकुनिस तरस्तस तरस्ततरैः सह हतं रुक्मरथं दृष्ट्वा पराद्रवत सहितॊ रथैः 76 वरूथिनीं वेगवतीं विद्रुतां स पताकिनीम परिगृह्य महासेनां सूतपुत्रॊ ऽपयाद भयात 77 रथनागाश्वकलिलां पुरस्कृत्य तु वाहिनीम मद्राणाम ईश्वरः शल्यॊ वीक्षमाणॊ ऽपयाद भयात 78 हतप्रवीरैर भूयिष्ठं दविपैर बहु पदातिभिः वृतः शारद्वतॊ ऽगच्छत कष्टं कथम इति बरुवन 79 भॊजानीकेन शिष्टेन कलिङ्गारट्ट बाह्लिकैः कृतवर्मा वृतॊ राजन परायान सुजवनैर हयैः 80 पदातिगणसंयुक्तस तरस्तॊ राजन भयार्दितः उलूकः पराद्रवत तत्र दृष्ट्वा दरॊणं निपातितम 81 दर्शनीयॊ युवा चैव शौर्ये च कृतलक्षणः दुःशासनॊ भृशॊद्विग्नः पराद्रवद गजसंवृतः 82 गजाश्वरथसंयुक्तॊ वृतश चैव पदातिभिः दुर्यॊधनॊ महाराज परायात तत्र महारथः 83 गजान रथान समारुह्य परस्यापि हयाञ जनाः परकीर्णकेशा विध्वस्ता न दवाव एकत्र धावतः 84 नेदम अस्तीति पुरुषा हतॊत्साहा हतौजसः उत्सृज्य कवचान अन्ये पराद्रवंस तावका विभॊ 85 अन्यॊन्यं ते समाक्रॊशन सैनिका भरतर्षभ तिष्ठ तिष्ठेति न च ते सवयं तत्रावतस्थिरे 86 धुर्यान परमुच्य तु रथाद धतसूतान सवलंकृतान अधिरुह्य हयान यॊधाः कषिप्रं पद्भिर अचॊदयन 87 दरवमाणे तथा सैन्ये तरस्तरूपे हतौजसि परतिस्रॊत इव गराहॊ दरॊणपुत्रः परान इयात 88 हत्वा बहुविधां सेनां पाण्डूनां युद्धदुर्मदः कथं चित संकटान मुक्तॊ मत्तद्विरदविक्रमः 89 दरवमाणं बलं दृष्ट्वा पलायनकृतक्षणम दुर्यॊधनं समासाद्य दरॊणपुत्रॊ ऽबरवीद इदम 90 किम इयं दरवते सेना तरस्तरूपेव भारत दरवमाणां च राजेन्द्र नावस्थापयसे रणे 91 तवं चापि न यथा पूर्वं परकृतिस्थॊ नराधिप कर्णप्रभृतयश चेमे नावतिष्ठन्ति पार्थिवाः 92 अन्येष्व अपि च युद्धेषु नैव सेनाद्रवत तदा कच चित कषेमं महाबाहॊ तव सैन्यस्य भारत 93 कस्मिन्न इदं हते राजन रथसिंहे बलं तव एताम अवस्थां संप्राप्तं तन ममाचक्ष्व कौरव 94 तत तु दुर्यॊधनः शरुत्वा दरॊणपुत्रस्य भाषितम घॊरम अप्रियम आख्यातुं नाशकत पार्थिवर्षभः 95 भिन्ना नौर इव ते पुत्रॊ निमग्नः शॊकसागरे बाष्पेण पिहितॊ दृष्ट्वा दरॊणपुत्रं रथे सथितम 96 ततः शारद्वतं राजा सव्रीडम इदम अब्रवीत शंसेह सर्वं भद्रं ते यथा सैन्यम इदं दरुतम 97 अतः शारद्वतॊ राजन्न आर्तिं गच्छन पुनः पुनः शशंस दरॊणपुत्राय यथा दरॊणॊ निपातितः 98 [कृप] वयं दरॊणं पुरस्कृत्य पृथिव्यां परवरं रथम परावर्तयाम संग्रामं पाञ्चालैर एव केवलैः 99 ततः परवृत्ते संग्रामे विमिश्राः कुरु सॊमकाः अन्यॊन्यम अभिगर्जन्तः शस्त्रैर देहान अपातयन 100 ततॊ दरॊणॊ बराह्मम अस्त्रं विकुर्वाणॊ नरर्षभः अहनच छात्रवान भल्लैः शतशॊ ऽथ सहस्रशः 101 पाण्डवाः केकया मत्स्याः पाञ्चालाश च विशेषतः संख्ये दरॊण रथं पराप्य वयनशन कालचॊदिताः 102 सहस्रं रथसिंहानां दविसाहस्रं च दन्तिनाम दरॊणॊ बरह्मास्त्र निर्दग्धं परेषयाम आस मृत्यवे 103 आकर्णपलितः शयामॊ वयसाशीति पञ्चकः रणे पर्यचरद दरॊणॊ वृद्धः षॊडशवर्षवत 104 कलिश्यमानेषु सैन्येषु वध्यमानेषु राजसु अमर्षवशम आपन्नाः पाञ्चाला विमुखाभवन 105 तेषु किं चित परभग्नेषु विमुखेषु सपत्नजित दिव्यम अस्त्रं विकुर्वाणॊ बभूवार्क इवॊदितः 106 स मध्यं पराप्य पाण्डूनां शररश्मिः परतापवान मध्यं गत इवादित्यॊ दुष्प्रेक्ष्यस ते पिताभवत 107 ते दह्यमाना दरॊणेन सूर्येणेव विराजता दग्धवीर्या निरुत्साहा बभूवुर गतचेतसः 108 तान दृष्ट्वा पीडितान बाणैर दरॊणेन मधुसूदनः जयैषी पाण्डुपुत्राणाम इदं वचनम अब्रवीत 109 नैष जातु परैः शक्यॊ जेतुं शस्त्रभृतां वरः अपि वृत्रहणा संख्ये रथयूथप यूथपः 110 ते यूयं धर्मम उत्सृज्य जयं रक्षत पाण्डवाः यथा वः संयुगे सर्वान न हन्याद रुक्मवाहनः 111 अश्वत्थाम्नि हते नैष युध्येद इति मतिर मम हतं तं संयुगे कश चिद आख्यात्व अस्मै मृषा नरः 112 एतन नारॊचयद वाक्यं कुन्तीपुत्रॊ धनंजयः अरॊचयंस तु सर्वे ऽनये कृच्छ्रेण तु युधिष्ठिरः 113 भीमसेनस तु सव्रीडम अब्रवीत पितरं तव अश्वत्थामा हत इति तच चाबुध्यत ते पिता 114 स शङ्कमानस तन मिथ्या धर्मराजम अपृच्छत हतं वाप्य अहतं वाजौ तवां पिता पुत्रवत्सलः 115 तद अतथ्य भये मग्नॊ जये सक्तॊ युधिष्ठिरः अश्वत्थामानम आहेदं हतः कुञ्जर इत्य उत भीमेन गिरिवर्ष्माणं मालवस्येन्द्र वर्मणः 116 उपसृत्य तदा दरॊणम उच्चैर इदम अभाषत यस्यार्थे शस्त्रम आधत्से यम अवेक्ष्य च जीवसि पुत्रस ते दयितॊ नित्यं शॊ ऽशवत्थामा निपातितः 117 तच छरुत्ता विमनास तत्र आचार्यॊ महद अप्रियम नियम्य दिव्यान्य अस्त्राणि नायुध्यत यथा पुरा 118 तं दृष्ट्वा परमॊद्विग्नं शॊकॊपहतचेतसम पाञ्चालराजस्य सुतः करूरकर्मा समाद्रवत 119 तं दृष्ट्वा विहितं मृत्युं लॊकतत्त्वविचक्षणः दिव्यान्य अस्त्राण्य अथॊत्सृज्य रणे पराय उपाविशत 120 ततॊ ऽसय केशान सव्येन गृहीत्वा पाणिना तदा पार्षतः करॊशमानानां वीराणाम अच्छिनच छिरः 121 न हन्तव्यॊ न हन्तव्य इति ते सर्वतॊ ऽबरुवन तथैव चार्जुनॊ वाहाद अवरुह्यैनम आद्रवत 122 उद्यम्य बाहू तवरितॊ बरुवाणश च पुनः पुनः जीवन्तम आनयाचार्यं मा वधीर इति धर्मवित 123 तथापि वार्यमाणेन कौरवैर अर्जुनेन च हत एव नृशंसेन पिता तव नरर्षभ 124 सैनिकाश च ततः सर्वे पराद्रवन्त भयार्दिताः वयं चापि निरुत्साहा हते पितरि ते ऽनघ 125 [स] तच छरुत्वा दरॊणपुत्रस तु निधनं पितुर आहवे करॊधम आहारयत तीव्रं पदाहत इवॊरगः |
1
[s] krūram āyodhanaṃ jajñe tasmin rājasamāgame rudrasyeva hi kruddhasya nighnatas tu paśūn yathā 2 hastānām uttamāṅgānāṃ kārmukāṇāṃ ca bhārata chatrāṇāṃ cāpaviddhānāṃ cāmarāṇāṃ ca saṃyuge 3 bhagnacakrai rathaiś cāpi pātitaiś ca mahādhvajaiḥ sādibhiś ca hataiḥ śūraiḥ saṃkīrṇā vasudhābhavat 4 bāṇapāta nikṛttās tu yodhās te kurusattama ceṣṭanto vividhāś ceṣṭā vyadṛśyanta mahāhave 5 vartamāne tathā yuddhe ghore devāsuropame abravīt kṣatriyāṃs tatra dharmarājo yudhiṣṭhiraḥ abhidravata saṃyattāḥ kumbhayoniṃ mahārathāḥ 6 eṣa vai pārṣato vīro bhāradvājena saṃgataḥ ghaṭate ca yathāśakti bhāradvājasya nāśane 7 yādṛśāni hi rūpāṇi dṛśyante no mahāraṇe adya droṇaṃ raṇe kruddhaḥ pātayiṣyati pārṣataḥ te yūyaṃ sahitā bhūtvā kumbhayoniṃ parīpsata 8 yudhiṣṭhira samājñaptāḥ sṛñjayānāṃ mahārathāḥ abhyadravanta saṃyattā bhāradvājaṃ jighāṃsavaḥ 9 tān samāpatataḥ sarvān bhāradvājo mahārathaḥ abhyadravata vegena martavyam iti niścitaḥ 10 prayāte satyasaṃdhe tu samakampata medinī vavur vātāḥ sa nirghātās trāsayanti varūthinīm 11 papāta mahatī colkā ādityān nirgateva ha dīpayantīva tāpena śaṃsantīva mahad bhayam 12 jajvaluś caiva śastrāṇi bhāradvājasya māriṣa rathāḥ svananti cātyarthaṃ hayāś cāśrūṇy avāsṛjan 13 hataujā iva cāpy āsīd bhāradvājo mahārathaḥ ṛṣīṇāṃ brahmavādānāṃ svargasya gamanaṃ prati suyuddhena tataḥ prāṇān utsraṣṭum upacakrame 14 tataś caturdiśaṃ sainyair drupadasyābhisaṃvṛtaḥ nirdahan kṣatriya vrātān droṇaḥ paryacarad raṇe 15 hatvā viṃśatisāhasrān kṣatriyān arimardanaḥ daśāyutāni tīkṣṇāgrair avadhīd viśikhaiḥ śitaiḥ 16 so 'tiṣṭhad āhave yatto vidhūma iva pāvakaḥ kṣatriyāṇām abhāvāya brāhmam ātmānam āsthitaḥ 17 pāñcālyaṃ virathaṃ bhīmo hatasarvāyudhaṃ vaśī aviṣaṇṇaṃ mahātmānaṃ tvaramāṇaḥ samabhyayāt 18 tataḥ svaratham āropya pāñcālyam arimardanaḥ abravīd abhisaṃprekṣya droṇam asyantam antikāt 19 na tvadanya ihācāryaṃ yoddhum utsahate pumān tvarasva prāg vadhāyaiva tvayi bhāraḥ samāhitaḥ 20 sa tathokto mahābāhuḥ sarvabhārasahaṃ navam abhipatyādade kṣipram āyudhapravaraṃ dṛḍham 21 saṃrabdhaś caśarān asyan droṇaṃ durvāraṇaṃ raṇe vivārayiṣur ācāryaṃ śaravarṣair avākirat 22 tau nyavārayatāṃ śreṣṭhau saṃrabdhau raṇaśobhinau udīrayetāṃ brāhmāṇi divyāny astrāṇy anekaśaḥ 23 sa mahāstrair mahārāja droṇam ācchādayad raṇe nihatya sarvāṇy astrāṇi bhāradvājasya pārṣataḥ 24 sa vasātīñ śibīṃś caiva bāhlīkān kauravān api rakṣiṣyamāṇān saṃgrāme droṇaṃ vyadhamad acyutaḥ 25 dhṛṣṭadyumnas tadā rājan gabhastibhir ivāṃśumān babhau pracchādayan nāśāḥ śarajālaiḥ samantataḥ 26 tasya droṇo dhanuś chittvā viddhvā cainaṃ śilīmukhaiḥ marmāṇy abhyahanad bhūyaḥ sa vyathāṃ paramām agāt 27 tato bhīmo dṛḍhakrodho droṇasyālśiṣya taṃ ratham śanakair iva rājendra droṇaṃ vacanam abravīt 28 yadi nāma na yudhyerañ śikṣitā brahma bandhavaḥ svakarmabhir asaṃtuṣṭā na sma kṣatraṃ kṣayaṃ vrajet 29 ahiṃsā sarvabhūteṣu dharmaṃ jyāyastaraṃ viduḥ tasya ca brāhmaṇo mūlaṃ bhavāṃś ca brahmavittamaḥ 30 śvapākavan mleccha gaṇān hatvā cānyān pṛthagvidhān ajñānān mūḍhavad brahman putradāradhanepsayā 31 ekasyārthe bahūn hatvā putrasyādharmavid yathā svakarmasthān vikarmastho na vyapatrapase katham 32 sa cādya patitaḥ śete pṛṣṭenāveditas tava dharmarājena tad vākyaṃ nātiśaṅkitum arhasi 33 evam uktas tato droṇo bhīmenotsṛjya tad dhanuḥ sarvāṇy astrāṇi dharmātmā hātu kāmo 'bhyabhāṣata karṇa karṇa maheṣvāsa kṛpa duryodhaneti ca 34 saṃgrāme kriyatāṃ yatno bravīmy eṣa punaḥ punaḥ pāṇḍavebhyaḥ śivaṃ vo 'stu śastram abhyutsṛjāmy aham 35 iti tatra mahārāja prākrośad drauṇim eva ca utsṛjya ca raṇe śastraṃ rathopasthe niveśya ca abhayaṃ sarvabhūtānāṃ pradadau yogayuktavān 36 tasya tac chidram ājñāya dhṛṣṭadyumnaḥ samutthitaḥ khaḍgī rathād avaplutya sahasā droṇam abhyayāt 37 hāhākṛtāni bhūtāni mānuṣāṇītarāṇi ca droṇaṃ tathāgataṃ dṛṣṭvā dhṛṣṭadyumna vaśaṃgatam 38 hāhākāraṃ bhṛśaṃ cakrur aho dhig iti cābruvan droṇo 'pi śastrāṇy utsṛjya paramaṃ sāmyam āsthitaḥ 39 tathoktvā yogam āsthāya jyotir bhūto mahātapāḥ divam ākrāmad ācāryaḥ sadbhiḥ saha durākramam 40 dvau sūryāv iti no buddhir āsīt tasmiṃs tathāgate ekāgram iva cāsīd dhi jyotirbhiḥ pūritaṃ nabhaḥ samapadyata cārkābhe bhāradvāja niśākare 41 nimeṣa mātreṇa ca taj jyotir antaradhīyata āsīt kilakilā śabdaḥ prahṛṣṭānāṃ divaukasām brahmalokaṃ gate droṇe dhṛṣṭadyumne ca mohite 42 vayam eva tadādrākṣma pañca mānuṣayonayaḥ yogayuktaṃ mahātmānaṃ gacchantaṃ paramāṃ gatim 43 ahaṃ dhanaṃjayaḥ pārthaḥ kṛpaḥ śāradvato dvijaḥ vāsudevaś ca vārṣṇeyo dharmarājaś ca pāṇḍavaḥ 44 anye tu sarve nāpaśyan bhāradvājasya dhīmataḥ mahimānaṃ mahārāja yogamuktasya gacchataḥ 45 gatiṃ paramikāṃ prāptam ajānanto nṛyonayaḥ nāpaśyan gacchamānaṃ hi taṃ sārdham ṛṣipuṃgavaiḥ ācāryaṃ yogam āsthāya brahmalokam ariṃdamam 46 vitunnāṅgaṃ śaraśatair nyastāyudham asṛk kṣaram dhikkṛtaḥ pārtaṣas taṃ tu sarvabhūtaiḥ parāmṛśat 47 tasya mūrdhānam ālambya gatasattvasya dehinaḥ kiṃ cid abruvataḥ kāyād vicakartāsinā śiraḥ 48 harṣeṇa mahatā yukto bhāradvāje nipātite siṃhanāda ravaṃ cakre bhāmayan khaḍgam āhave 49 ākarṇapalitaḥ śyāmo vayasāśīti pañcakaḥ tvatkṛte vyacarat saṃkhye sa tu ṣoḍada varṣavat 50 uktavāṃś ca mahābāhuḥ kuntīputro dhanaṃjayaḥ jīvantam ānayācāryaṃ mā vadhīr drupadātmajaḥ 51 na hantavyo na hantavya iti te sainikāś ca ha utkrośann arjunaś caiva sānukrośas tam ādravat 52 krośamāne 'rjune caiva pārthiveṣu ca sarvaśaḥ dhṛṣṭadyumno 'vadhīd droṇaṃ rathatalpe nararṣabham 53 śoṇitena pariklinno rathād bhūmim ariṃdamaḥ lohitāṅga ivādityo durdarśaḥ samapadyata evaṃ taṃ nihataṃ saṃkhye dadṛśe sainiko janaḥ 54 dheṣṭadyumnas tu tad rājan bhāradvāja śiromahat tāvakānāṃ maheṣvāsaḥ pramukhe tat samākṣipat 55 te tu dṛṣṭvā śiro rājan bhāradvājasya tāvakāḥ palāyanakṛtotsāhā dudruvuḥ sarvatodiśam 56 droṇas tu divam āsthāya nakṣatrapatham āviśat aham eva tadādrākṣaṃ droṇasya nidhanaṃ nṛpa 57 ṛṣeḥ prasādāt kṛṣṇasya satyavatyāḥ sutasya ca vidhūmām iva saṃyāntīm ulkāṃ prajvalitām iva apaśyāma divaṃ stabdhvā gacchantaṃ taṃ mahādyutim 58 hate droṇe nirutsāhān kurūn pāṇḍava sṛñjayāḥ abhyadravan mahāvegās tataḥ sainyaṃ vyadīryata 59 nihatā hayabhūyiṣṭhāḥ saṃgrāme niśitaiḥ śaraiḥ tāvakā nihate droṇe gatāsava ivābhavan 60 parājayam athāvāpya paratra ca mahad bhayam ubhayenaiva te hīnā nāvindan dhṛtim ātmanaḥ 61 anvicchantaḥ śarīraṃ tu bhāradvājasya pārthivāḥ nādhyagacchaṃs tadā rājan kabandhāyuta saṃkule 62 pāṇḍavās tu jayaṃ labdhvā paratra ca mahad yaśaḥ bāṇaśabdaravāṃś cakruḥ siṃhanādāṃś ca puṣkalān 63 bhīmasenas tato rājan dhṛṣṭadyumnaś ca pārṣataḥ varūthinyām anṛtyetāṃ pariṣvajya parasparam 64 abravīc ca tadā bhīmaḥ pārṣataṃ śatrutāpanam bhūyo 'haṃ tvāṃ vijayinaṃ pariṣvakṣyāmi pārṣata sūtaputre hate pāpe dhārtarāṣṭre ca saṃyuge 65 etāvad uktvā bhīmas tu harṣeṇa mahatā yutaḥ bāhuśabdena pṛthivīṃ kampayām āsa pāṇḍavaḥ 66 tasya śabdena vitrastāḥ prādravaṃs tāvakā yudhi kṣatradharmaṃ samutsṛjya palāyanaparāyaṇāḥ 67 pāṇḍavās tu jayaṃ labdhvā hṛṣṭā hy āsan viśāṃ pate arikṣayaṃ ca saṃgrāme tena te sukham āpnuvan 68 tato droṇe hate rājan kuravaḥ śastrapīḍitāḥ hatapravīrā vidhvastā bhṛśaṃ śokaparāyaṇāḥ 69 vicetaso hatotsāhāḥ kaśmalābhihataujasaḥ ārtasvareṇa mahatā putraṃ te paryavārayan 70 rajasvalā vepamānā vīkṣamāṇā diśo daśa aśrukaṇṭhā yathā daityā hiraṇyākṣe purā hate 71 sa taiḥ parivṛto rājā trastaiḥ kṣudramṛgair iva aśaknuvann avasthātum apāyāt tanayas tava 72 kṣutpipāsāpariśrāntās te yodhās tava bhārata ādityena ca saṃtaptā bhṛśaṃ vimanaso 'bhavan 73 bhāskarasyeva patanaṃ samudrasyeva śoṣaṇam viparyāsaṃ yathā meror vāsavasyeva nirjayam 74 amarṣaṇīyaṃ tad dṛṣṭvā bhāradvājasya pātanam trastarūpatarā rājan kauravāḥ prādravan bhayāt 75 gāndhārarājaḥ śakunis trastas trastataraiḥ saha hataṃ rukmarathaṃ dṛṣṭvā prādravat sahito rathaiḥ 76 varūthinīṃ vegavatīṃ vidrutāṃ sa patākinīm parigṛhya mahāsenāṃ sūtaputro 'payād bhayāt 77 rathanāgāśvakalilāṃ puraskṛtya tu vāhinīm madrāṇām īśvaraḥ śalyo vīkṣamāṇo 'payād bhayāt 78 hatapravīrair bhūyiṣṭhaṃ dvipair bahu padātibhiḥ vṛtaḥ śāradvato 'gacchat kaṣṭaṃ katham iti bruvan 79 bhojānīkena śiṣṭena kaliṅgāraṭṭa bāhlikaiḥ kṛtavarmā vṛto rājan prāyān sujavanair hayaiḥ 80 padātigaṇasaṃyuktas trasto rājan bhayārditaḥ ulūkaḥ prādravat tatra dṛṣṭvā droṇaṃ nipātitam 81 darśanīyo yuvā caiva śaurye ca kṛtalakṣaṇaḥ duḥśāsano bhṛśodvignaḥ prādravad gajasaṃvṛtaḥ 82 gajāśvarathasaṃyukto vṛtaś caiva padātibhiḥ duryodhano mahārāja prāyāt tatra mahārathaḥ 83 gajān rathān samāruhya parasyāpi hayāñ janāḥ prakīrṇakeśā vidhvastā na dvāv ekatra dhāvataḥ 84 nedam astīti puruṣā hatotsāhā hataujasaḥ utsṛjya kavacān anye prādravaṃs tāvakā vibho 85 anyonyaṃ te samākrośan sainikā bharatarṣabha tiṣṭha tiṣṭheti na ca te svayaṃ tatrāvatasthire 86 dhuryān pramucya tu rathād dhatasūtān svalaṃkṛtān adhiruhya hayān yodhāḥ kṣipraṃ padbhir acodayan 87 dravamāṇe tathā sainye trastarūpe hataujasi pratisrota iva grāho droṇaputraḥ parān iyāt 88 hatvā bahuvidhāṃ senāṃ pāṇḍūnāṃ yuddhadurmadaḥ kathaṃ cit saṃkaṭān mukto mattadviradavikramaḥ 89 dravamāṇaṃ balaṃ dṛṣṭvā palāyanakṛtakṣaṇam duryodhanaṃ samāsādya droṇaputro 'bravīd idam 90 kim iyaṃ dravate senā trastarūpeva bhārata dravamāṇāṃ ca rājendra nāvasthāpayase raṇe 91 tvaṃ cāpi na yathā pūrvaṃ prakṛtistho narādhipa karṇaprabhṛtayaś ceme nāvatiṣṭhanti pārthivāḥ 92 anyeṣv api ca yuddheṣu naiva senādravat tadā kac cit kṣemaṃ mahābāho tava sainyasya bhārata 93 kasminn idaṃ hate rājan rathasiṃhe balaṃ tava etām avasthāṃ saṃprāptaṃ tan mamācakṣva kaurava 94 tat tu duryodhanaḥ śrutvā droṇaputrasya bhāṣitam ghoram apriyam ākhyātuṃ nāśakat pārthivarṣabhaḥ 95 bhinnā naur iva te putro nimagnaḥ śokasāgare bāṣpeṇa pihito dṛṣṭvā droṇaputraṃ rathe sthitam 96 tataḥ śāradvataṃ rājā savrīḍam idam abravīt śaṃseha sarvaṃ bhadraṃ te yathā sainyam idaṃ drutam 97 ataḥ śāradvato rājann ārtiṃ gacchan punaḥ punaḥ śaśaṃsa droṇaputrāya yathā droṇo nipātitaḥ 98 [kṛpa] vayaṃ droṇaṃ puraskṛtya pṛthivyāṃ pravaraṃ ratham prāvartayāma saṃgrāmaṃ pāñcālair eva kevalaiḥ 99 tataḥ pravṛtte saṃgrāme vimiśrāḥ kuru somakāḥ anyonyam abhigarjantaḥ śastrair dehān apātayan 100 tato droṇo brāhmam astraṃ vikurvāṇo nararṣabhaḥ ahanac chātravān bhallaiḥ śataśo 'tha sahasraśaḥ 101 pāṇḍavāḥ kekayā matsyāḥ pāñcālāś ca viśeṣataḥ saṃkhye droṇa rathaṃ prāpya vyanaśan kālacoditāḥ 102 sahasraṃ rathasiṃhānāṃ dvisāhasraṃ ca dantinām droṇo brahmāstra nirdagdhaṃ preṣayām āsa mṛtyave 103 ākarṇapalitaḥ śyāmo vayasāśīti pañcakaḥ raṇe paryacarad droṇo vṛddhaḥ ṣoḍaśavarṣavat 104 kliśyamāneṣu sainyeṣu vadhyamāneṣu rājasu amarṣavaśam āpannāḥ pāñcālā vimukhābhavan 105 teṣu kiṃ cit prabhagneṣu vimukheṣu sapatnajit divyam astraṃ vikurvāṇo babhūvārka ivoditaḥ 106 sa madhyaṃ prāpya pāṇḍūnāṃ śararaśmiḥ pratāpavān madhyaṃ gata ivādityo duṣprekṣyas te pitābhavat 107 te dahyamānā droṇena sūryeṇeva virājatā dagdhavīryā nirutsāhā babhūvur gatacetasaḥ 108 tān dṛṣṭvā pīḍitān bāṇair droṇena madhusūdanaḥ jayaiṣī pāṇḍuputrāṇām idaṃ vacanam abravīt 109 naiṣa jātu paraiḥ śakyo jetuṃ śastrabhṛtāṃ varaḥ api vṛtrahaṇā saṃkhye rathayūthapa yūthapaḥ 110 te yūyaṃ dharmam utsṛjya jayaṃ rakṣata pāṇḍavāḥ yathā vaḥ saṃyuge sarvān na hanyād rukmavāhanaḥ 111 aśvatthāmni hate naiṣa yudhyed iti matir mama hataṃ taṃ saṃyuge kaś cid ākhyātv asmai mṛṣā naraḥ 112 etan nārocayad vākyaṃ kuntīputro dhanaṃjayaḥ arocayaṃs tu sarve 'nye kṛcchreṇa tu yudhiṣṭhiraḥ 113 bhīmasenas tu savrīḍam abravīt pitaraṃ tava aśvatthāmā hata iti tac cābudhyata te pitā 114 sa śaṅkamānas tan mithyā dharmarājam apṛcchata hataṃ vāpy ahataṃ vājau tvāṃ pitā putravatsalaḥ 115 tad atathya bhaye magno jaye sakto yudhiṣṭhiraḥ aśvatthāmānam āhedaṃ hataḥ kuñjara ity uta bhīmena girivarṣmāṇaṃ mālavasyendra varmaṇaḥ 116 upasṛtya tadā droṇam uccair idam abhāṣata yasyārthe śastram ādhatse yam avekṣya ca jīvasi putras te dayito nityaṃ śo 'śvatthāmā nipātitaḥ 117 tac chruttā vimanās tatra ācāryo mahad apriyam niyamya divyāny astrāṇi nāyudhyata yathā purā 118 taṃ dṛṣṭvā paramodvignaṃ śokopahatacetasam pāñcālarājasya sutaḥ krūrakarmā samādravat 119 taṃ dṛṣṭvā vihitaṃ mṛtyuṃ lokatattvavicakṣaṇaḥ divyāny astrāṇy athotsṛjya raṇe prāya upāviśat 120 tato 'sya keśān savyena gṛhītvā pāṇinā tadā pārṣataḥ krośamānānāṃ vīrāṇām acchinac chiraḥ 121 na hantavyo na hantavya iti te sarvato 'bruvan tathaiva cārjuno vāhād avaruhyainam ādravat 122 udyamya bāhū tvarito bruvāṇaś ca punaḥ punaḥ jīvantam ānayācāryaṃ mā vadhīr iti dharmavit 123 tathāpi vāryamāṇena kauravair arjunena ca hata eva nṛśaṃsena pitā tava nararṣabha 124 sainikāś ca tataḥ sarve prādravanta bhayārditāḥ vayaṃ cāpi nirutsāhā hate pitari te 'nagha 125 [s] tac chrutvā droṇaputras tu nidhanaṃ pitur āhave krodham āhārayat tīvraṃ padāhata ivoragaḥ |
The Mahabharata in Sanskrit
Book 7
Chapter 166
|
1
[धृ] अधर्मेण हतं शरुत्वा धृष्टद्युम्नेन संजय बराह्मणं पितरं वृद्धम अश्वत्थामा किम अब्रवीत 2 मानुषं वारुणाग्नेयं बराह्मम अस्त्रं च वीर्यवान ऐन्द्रं नारायणं चैव यस्मिन नित्यं परतिष्ठितम 3 तम अधर्मेण धर्मिष्ठं धृष्टद्युम्नेन संजय शरुत्वा निहतम आचार्यम अश्वत्थामा किम अब्रवीत 4 येन रामाद अवाप्येह धनुर्वेदं महात्मना परॊक्तान्य अस्त्राणि दिव्यानि पुत्राय गुरु काङ्क्षिणे 5 एकम एव हि लॊके ऽसमिन्न आत्मनॊ गुणवत्तरम इच्छन्ति पुत्रं पुरुषा लॊके नान्यं कथं चन 6 आचार्याणां भवन्त्य एव रहस्यानि महात्मनाम तानि पुत्राय वा दद्युः शिष्यायानुगताय वा 7 स शिल्पं पराप्य तत सर्वं स विशेषं च संजय शूरः शारद्वती पुत्रः संख्ये दरॊणाद अनन्तरः 8 रामस्यानुमतः शास्त्रे पुरंदरसमॊ युधि कार्तवीर्य समॊ वीर्ये बृहस्पतिसमॊ मतौ 9 महीधर समॊ धृत्या तेजसाग्निसमॊ युवा समुद्र इव गाम्भीर्ये करॊधे सर्वविषॊपमः 10 स रथी परथमॊ लॊके दृढधन्वा जितक्लमः शीघ्रॊ ऽनिल इवाक्रन्दे चरन करुद्ध इवान्तकः 11 अस्यता येन संग्रामे धरण्यभिनिपीडिता यॊ न वयथति संग्रामे वीरः सत्यपराक्रमः 12 वेद सनातॊ वरतस्नातॊ धनुर्वेदे च पारगः महॊदधिर इवाक्षॊभ्यॊ रामॊ दाशरथिर यथा 13 तम अधर्मेण धर्मिष्ठं धृष्टद्युम्नेन संयुगे शरुत्वा निहतम आचार्यम अश्वत्थामा किम अब्रवीत 14 धृष्टद्युम्नस्य यॊ मृत्युः सृष्टस तेन महात्मना यथा दरॊणस्य पाञ्चाल्यॊ यज्ञसेन सुतॊ ऽभवत 15 तं नृशंसेन पापेन करूरेणात्यल्प दर्शिना शरुत्वा निहतम आचार्यम अश्वत्थामा किम अब्रवीत 16 [स] छद्मना निहतं शरुत्वा पितरं पप कर्मणा बाष्पेणापूर्यत दरौणी रॊषेण च नरर्षभ 17 तस्य करुद्धस्य राजेन्द्र वपुर दिव्यम अदृश्यत अन्तकस्येव भूतानि जिहीर्षॊः कालपर्यये 18 अश्रुपूर्णे ततॊ नेत्रे अपमृज्य पुनः पुनः उवाच कॊपान निःश्वस्य दुर्यॊधनम इदं वचः 19 पिता मम यथा कषुद्रौर नयस्तशस्त्रॊ निपातितः धर्मध्वजवता पापं कृतं तद विदितं मम अनार्यं सुनृशंसस्य धर्मपुत्रस्य मे शरुतम 20 युद्धेष्व अपि परवृत्तानां धरुवौ जयपराजयौ दवयम एतद भवेद राजन वधस तत्र परशस्यते 21 नयायवृत्तॊ वधॊ यस तु संग्रामे युध्यतॊ भवेत न स दुःखाय भवति तथा दृष्टॊ हि स दविजः 22 गतः स वीरलॊकाय पिता मम न संशयः न शॊच्यः पुरुषव्याघ्रस तथा स निधनं गतः 23 यत तु धर्मप्रवृत्तः सन केशग्रहणम आप्तवान पश्यतां सर्वसैन्यानां तन मे मर्माणि कृन्तति 24 कामात करॊधाद अवज्ञानाद दर्पाद बाल्येन वा पुनः वैधर्मिकानि कुर्वन्ति तथा परिभवेन च 25 तद इदं पार्षतेनेह महद आधर्मिकम कृतम अवज्ञाय च मां नूनं नृशंसेन दुरात्मना 26 तस्यानुबन्धं स दरष्टा धृष्टद्युम्नः सुदारुणम अनार्यं परमं कृत्वा मिथ्यावादी च पाण्डवः 27 यॊ हय असौ छद्मनाचार्यं शस्त्रं सन्यासयत तदा तस्याद्य धर्मराजस्य भूमिः पास्यति शॊणितम 28 सर्वॊपायैर यतिष्यामि पाञ्चालानाम अहं वधे धृष्टद्युम्ने च समरे हन्ताहं पापकारिणम 29 कर्मणा येन तेनेह मृदुना दारुणेन वा पाञ्चालानां वधं कृत्वा शान्तिं लब्धास्मि कौरव 30 यदर्थं पुरुषव्याघ्र पुत्रम इच्छन्ति मानवाः परेत्य चेह च संप्राप्तं तराणाय महतॊ भयात 31 पित्रा तु मम सावस्था पराप्ता निर्बन्धुना यथा मयि शैलप्रतीकाशे पुत्र शिष्ये च जीवति 32 धिन ममास्त्राणि दिव्यानि धिग बाहू धिक पराक्रमम यन मां दरॊणः सुतं पराप्य केशग्रहणम आप्तवान 33 स तथाहं करिष्यामि यथा भरतसत्तम परलॊकगतस्यापि गमिष्याम्य अनृणः पितुः 34 आर्येण तु न वक्तव्या कदा चित सतुतिर आत्मनः पितुर वधम अमृष्यंस तु वक्ष्याम्य अद्येह पौरुषम 35 अद्य पश्यन्तु मे वीर्यं पाण्डवाः सजनार्दनाः मृद्नतः सर्वसैन्यानि युगान्तम इव कुर्वतः 36 न हि देवा न गन्धर्वा नासुरा न च राक्षसाः अद्य शक्ता रणे जेतुं रथस्थं मां नरर्षभ 37 मद अन्यॊ नास्ति लॊके ऽसमिन्न अर्जुनाद वास्त्रवित्तमः अहं हि जवलतां मध्ये मयूधानाम इवांशुमान परयॊक्ता देव सृष्टानाम अस्त्राणां पृतना गतः 38 कृशाश्वतनया हय अद्य मत परयुक्ता महामृधे दर्शयन्तॊ ऽऽतमनॊ वीर्यं परमथिष्यन्ति पाण्डवान 39 अद्य सर्वा दिशॊ राजन धाराभिर इव संकुलाः आवृताः पत्रिभिस तीक्ष्णैर दरष्टारॊ मामकैर इह 40 किरन हि शरजालानि सर्वतॊ भैरव सवरम शत्रून निपातयिष्यामि महावात इव दरुमान 41 न च जानाति बीभत्सुस तद अस्त्रं न जनार्दनः न भीमसेनॊ न यमौ न च राजा युधिष्ठिरः 42 न पार्षतॊ दुर्तामासौ न शिखण्डी न सात्यकिः यद इदं मयि कौरव्य स कल्यं स निवर्तनम 43 नारायणाय मे पित्रा परणम्य विधिपूर्वकम उपहारः पुरा दत्तॊ बरह्मरूप उपस्थिते 44 तं सवयं परतिगृह्याथ भगवान स वरं ददौ वव्रे पिता मे परमम अस्त्रं नारायणं ततः 45 अथैनम अब्रवीद राजन भगवान देव सत्तमः भविता तवत्समॊ नान्यः कश चिद युधि नरः कव चित 46 न तव इदं सहसा बरह्मन परयॊक्तव्यं कथं चन न हय एतद अस्त्रम अन्यत्र वधाच छत्रॊर निवर्तते 47 न चैतच छक्यते जञातुं कॊ न वध्येद इति परभॊ अवध्यम अपि हन्याद धि तस्मान नैतत परयॊजयेत 48 वधः संख्ये दरवश चैव शस्त्राणां च विसर्जनम परयाचनं च शत्रूणां गमनं शरणस्य च 49 एते परशमने यॊगा महास्त्रस्य परंतप सर्वथा पीडितॊ हि सयाद अवध्यान पीडयन रणे 50 तज जग्राह पिता मह्यम अब्रवीच चैव स परभुः तवं वर्षिष्यसि दिव्यानि शस्त्रवर्षाण्य अनेकशः अनेनास्त्रेण संग्रामे तेजसा च जवलिष्यसि 51 एवम उक्त्वा स भगवान दिवम आचक्रमे परभुः एतन नारायणाद अस्त्रं तत पराप्तं मम बन्धुना 52 तेनाहं पाण्डवांश चैव पाञ्चालान मत्स्यकेकयान विद्रावयिष्यामि रणे शचीपतिर इवासुरान 53 यथा यथाहम इच्छेयं तथा भूत्वा शरा मम निपतेयुः सपत्नेषु विक्रमत्स्व अपि भारत 54 यथेष्टम अश्ववर्षेण परवर्षिष्ये रणे सथितः अयॊमुखैश च विहगैर दरावयिष्ये महारथान परश्वधांश च विविधान परसक्ष्ये ऽहम असंशयम 55 सॊऽहं नारायणास्त्रेण महता शत्रुतापन शत्रून विध्वंसयिष्यामि कदर्थी कृत्यपाण्डवान 56 मित्र बरह्म गुरु दवेषी जाल्मकः सुविगर्हितः पाञ्चालापसदश चाद्य न मे जीवन विमॊक्ष्यते 57 तच छरुत्वा दरॊणपुत्रस्य पर्यवर्तत वाहिनी ततः सर्वे महाशङ्खान दध्मुः पुरुषसत्तमाः 58 भेरीश चाभ्यहनन हृष्टा दिण्डिमांश च सहस्रशः तथा ननाद वसुधा खुरनेमिप्रपीडिता स शब्दस तुमुलः खं दयां पृथिवीं च वयनादयत 59 तं शब्दं पाण्डवाः शरुत्वा पर्जन्यनिनदॊपमम समेत्य रथिनां शरेष्ठाः सहिताः संन्यमन्त्रयन 60 तथॊक्त्वा दरॊणपुत्रॊ ऽपि तथॊपस्पृश्य भारत परादुश्चकार तद दिव्यम अस्त्रं नारायणं तदा |
1
[dhṛ] adharmeṇa hataṃ śrutvā dhṛṣṭadyumnena saṃjaya brāhmaṇaṃ pitaraṃ vṛddham aśvatthāmā kim abravīt 2 mānuṣaṃ vāruṇāgneyaṃ brāhmam astraṃ ca vīryavān aindraṃ nārāyaṇaṃ caiva yasmin nityaṃ pratiṣṭhitam 3 tam adharmeṇa dharmiṣṭhaṃ dhṛṣṭadyumnena saṃjaya śrutvā nihatam ācāryam aśvatthāmā kim abravīt 4 yena rāmād avāpyeha dhanurvedaṃ mahātmanā proktāny astrāṇi divyāni putrāya guru kāṅkṣiṇe 5 ekam eva hi loke 'sminn ātmano guṇavattaram icchanti putraṃ puruṣā loke nānyaṃ kathaṃ cana 6 ācāryāṇāṃ bhavanty eva rahasyāni mahātmanām tāni putrāya vā dadyuḥ śiṣyāyānugatāya vā 7 sa śilpaṃ prāpya tat sarvaṃ sa viśeṣaṃ ca saṃjaya śūraḥ śāradvatī putraḥ saṃkhye droṇād anantaraḥ 8 rāmasyānumataḥ śāstre puraṃdarasamo yudhi kārtavīrya samo vīrye bṛhaspatisamo matau 9 mahīdhara samo dhṛtyā tejasāgnisamo yuvā samudra iva gāmbhīrye krodhe sarvaviṣopamaḥ 10 sa rathī prathamo loke dṛḍhadhanvā jitaklamaḥ śīghro 'nila ivākrande caran kruddha ivāntakaḥ 11 asyatā yena saṃgrāme dharaṇyabhinipīḍitā yo na vyathati saṃgrāme vīraḥ satyaparākramaḥ 12 veda snāto vratasnāto dhanurvede ca pāragaḥ mahodadhir ivākṣobhyo rāmo dāśarathir yathā 13 tam adharmeṇa dharmiṣṭhaṃ dhṛṣṭadyumnena saṃyuge śrutvā nihatam ācāryam aśvatthāmā kim abravīt 14 dhṛṣṭadyumnasya yo mṛtyuḥ sṛṣṭas tena mahātmanā yathā droṇasya pāñcālyo yajñasena suto 'bhavat 15 taṃ nṛśaṃsena pāpena krūreṇātyalpa darśinā śrutvā nihatam ācāryam aśvatthāmā kim abravīt 16 [s] chadmanā nihataṃ śrutvā pitaraṃ papa karmaṇā bāṣpeṇāpūryata drauṇī roṣeṇa ca nararṣabha 17 tasya kruddhasya rājendra vapur divyam adṛśyata antakasyeva bhūtāni jihīrṣoḥ kālaparyaye 18 aśrupūrṇe tato netre apamṛjya punaḥ punaḥ uvāca kopān niḥśvasya duryodhanam idaṃ vacaḥ 19 pitā mama yathā kṣudraur nyastaśastro nipātitaḥ dharmadhvajavatā pāpaṃ kṛtaṃ tad viditaṃ mama anāryaṃ sunṛśaṃsasya dharmaputrasya me śrutam 20 yuddheṣv api pravṛttānāṃ dhruvau jayaparājayau dvayam etad bhaved rājan vadhas tatra praśasyate 21 nyāyavṛtto vadho yas tu saṃgrāme yudhyato bhavet na sa duḥkhāya bhavati tathā dṛṣṭo hi sa dvijaḥ 22 gataḥ sa vīralokāya pitā mama na saṃśayaḥ na śocyaḥ puruṣavyāghras tathā sa nidhanaṃ gataḥ 23 yat tu dharmapravṛttaḥ san keśagrahaṇam āptavān paśyatāṃ sarvasainyānāṃ tan me marmāṇi kṛntati 24 kāmāt krodhād avajñānād darpād bālyena vā punaḥ vaidharmikāni kurvanti tathā paribhavena ca 25 tad idaṃ pārṣateneha mahad ādharmikam kṛtam avajñāya ca māṃ nūnaṃ nṛśaṃsena durātmanā 26 tasyānubandhaṃ sa draṣṭā dhṛṣṭadyumnaḥ sudāruṇam anāryaṃ paramaṃ kṛtvā mithyāvādī ca pāṇḍavaḥ 27 yo hy asau chadmanācāryaṃ śastraṃ sanyāsayat tadā tasyādya dharmarājasya bhūmiḥ pāsyati śoṇitam 28 sarvopāyair yatiṣyāmi pāñcālānām ahaṃ vadhe dhṛṣṭadyumne ca samare hantāhaṃ pāpakāriṇam 29 karmaṇā yena teneha mṛdunā dāruṇena vā pāñcālānāṃ vadhaṃ kṛtvā śāntiṃ labdhāsmi kaurava 30 yadarthaṃ puruṣavyāghra putram icchanti mānavāḥ pretya ceha ca saṃprāptaṃ trāṇāya mahato bhayāt 31 pitrā tu mama sāvasthā prāptā nirbandhunā yathā mayi śailapratīkāśe putra śiṣye ca jīvati 32 dhin mamāstrāṇi divyāni dhig bāhū dhik parākramam yan māṃ droṇaḥ sutaṃ prāpya keśagrahaṇam āptavān 33 sa tathāhaṃ kariṣyāmi yathā bharatasattama paralokagatasyāpi gamiṣyāmy anṛṇaḥ pituḥ 34 āryeṇa tu na vaktavyā kadā cit stutir ātmanaḥ pitur vadham amṛṣyaṃs tu vakṣyāmy adyeha pauruṣam 35 adya paśyantu me vīryaṃ pāṇḍavāḥ sajanārdanāḥ mṛdnataḥ sarvasainyāni yugāntam iva kurvataḥ 36 na hi devā na gandharvā nāsurā na ca rākṣasāḥ adya śaktā raṇe jetuṃ rathasthaṃ māṃ nararṣabha 37 mad anyo nāsti loke 'sminn arjunād vāstravittamaḥ ahaṃ hi jvalatāṃ madhye mayūdhānām ivāṃśumān prayoktā deva sṛṣṭānām astrāṇāṃ pṛtanā gataḥ 38 kṛśāśvatanayā hy adya mat prayuktā mahāmṛdhe darśayanto ''tmano vīryaṃ pramathiṣyanti pāṇḍavān 39 adya sarvā diśo rājan dhārābhir iva saṃkulāḥ āvṛtāḥ patribhis tīkṣṇair draṣṭāro māmakair iha 40 kiran hi śarajālāni sarvato bhairava svaram śatrūn nipātayiṣyāmi mahāvāta iva drumān 41 na ca jānāti bībhatsus tad astraṃ na janārdanaḥ na bhīmaseno na yamau na ca rājā yudhiṣṭhiraḥ 42 na pārṣato durtāmāsau na śikhaṇḍī na sātyakiḥ yad idaṃ mayi kauravya sa kalyaṃ sa nivartanam 43 nārāyaṇāya me pitrā praṇamya vidhipūrvakam upahāraḥ purā datto brahmarūpa upasthite 44 taṃ svayaṃ pratigṛhyātha bhagavān sa varaṃ dadau vavre pitā me paramam astraṃ nārāyaṇaṃ tataḥ 45 athainam abravīd rājan bhagavān deva sattamaḥ bhavitā tvatsamo nānyaḥ kaś cid yudhi naraḥ kva cit 46 na tv idaṃ sahasā brahman prayoktavyaṃ kathaṃ cana na hy etad astram anyatra vadhāc chatror nivartate 47 na caitac chakyate jñātuṃ ko na vadhyed iti prabho avadhyam api hanyād dhi tasmān naitat prayojayet 48 vadhaḥ saṃkhye dravaś caiva śastrāṇāṃ ca visarjanam prayācanaṃ ca śatrūṇāṃ gamanaṃ śaraṇasya ca 49 ete praśamane yogā mahāstrasya paraṃtapa sarvathā pīḍito hi syād avadhyān pīḍayan raṇe 50 taj jagrāha pitā mahyam abravīc caiva sa prabhuḥ tvaṃ varṣiṣyasi divyāni śastravarṣāṇy anekaśaḥ anenāstreṇa saṃgrāme tejasā ca jvaliṣyasi 51 evam uktvā sa bhagavān divam ācakrame prabhuḥ etan nārāyaṇād astraṃ tat prāptaṃ mama bandhunā 52 tenāhaṃ pāṇḍavāṃś caiva pāñcālān matsyakekayān vidrāvayiṣyāmi raṇe śacīpatir ivāsurān 53 yathā yathāham iccheyaṃ tathā bhūtvā śarā mama nipateyuḥ sapatneṣu vikramatsv api bhārata 54 yatheṣṭam aśvavarṣeṇa pravarṣiṣye raṇe sthitaḥ ayomukhaiś ca vihagair drāvayiṣye mahārathān paraśvadhāṃś ca vividhān prasakṣye 'ham asaṃśayam 55 so'haṃ nārāyaṇāstreṇa mahatā śatrutāpana śatrūn vidhvaṃsayiṣyāmi kadarthī kṛtyapāṇḍavān 56 mitra brahma guru dveṣī jālmakaḥ suvigarhitaḥ pāñcālāpasadaś cādya na me jīvan vimokṣyate 57 tac chrutvā droṇaputrasya paryavartata vāhinī tataḥ sarve mahāśaṅkhān dadhmuḥ puruṣasattamāḥ 58 bherīś cābhyahanan hṛṣṭā diṇḍimāṃś ca sahasraśaḥ tathā nanāda vasudhā khuranemiprapīḍitā sa śabdas tumulaḥ khaṃ dyāṃ pṛthivīṃ ca vyanādayat 59 taṃ śabdaṃ pāṇḍavāḥ śrutvā parjanyaninadopamam sametya rathināṃ śreṣṭhāḥ sahitāḥ saṃnyamantrayan 60 tathoktvā droṇaputro 'pi tathopaspṛśya bhārata prāduścakāra tad divyam astraṃ nārāyaṇaṃ tadā |
The Mahabharata in Sanskrit
Book 7
Chapter 167
|
1
[स] परादुर्भूते ततस तस्मिन्न अस्त्रे नारायणे तदा परावात सपृषतॊ वायुर अनभ्रे सतनयित्नुमान 2 चचाल पृथिवी चापि चुक्षुभे च महॊदधिः परतिस्रॊतः परवृत्ताश च गन्तुं तत्र समुद्रगाः 3 शिखराणि वयदीर्यन्त गिरीणां तत्र भारत अपसव्यं मृगाश चैव पाण्डुपुत्रान परचक्रिरे 4 तमसा चावकीर्यन्त सूर्यश च कलुषॊ ऽभवत संपतन्ति च भूतानि करव्यादानि परहृष्टवत 5 देवदानवगन्धर्वास तरस्ता आसन विशां पते कथं कथाभवत तीव्रा दृष्ट्वा तद वयाकुलं महत 6 वयथिताः सर्वराजानस तदा हय आसन विचेतसः तद दृष्ट्वा घॊररूपं तु दरौणेर अस्त्रं भयावहम 7 [धृ] निवर्तितेषु सैन्येषु दरॊणपुत्रेण संयुगे भृशं शॊकाभितप्तेन पितुर वधम अमृष्यता 8 कुरून आपततॊ दृष्ट्वा धृष्टद्युम्नस्य रक्षणे कॊ मन्त्रः पाण्डवेष्व आसीत तन ममाचक्ष्व संजय 9 [स] पराग एव विद्रुतान दृष्ट्वा धार्तराष्ट्रान युधिष्ठिरः पुनश च तुमुलं शब्दं शरुत्वार्जुनम अभाषत 10 आचार्ये निहते दरॊणे धृष्टद्युम्नेन संयुगे निहते वज्रहस्तेन यथा वृत्रे महासुरे 11 नाशंसन्त जयं युद्धे दीनात्मानॊ धनंजय आत्मत्राणे मतिं कृत्वा पराद्रवन कुरवॊ यथा 12 के चिद भरान्तै रथैस तूर्णं निहतपार्ष्णि यन्तृभिः विपताक धवजच छत्त्रैः पार्थिवाः शीर्णकूबरैः 13 भग्ननीडैर आकुलाश्वैर आरुह्यन ये विचेतसः भीताः पादैर हयान केच चित तवरयन्तः सवयं रथैः युगचक्राक्ष भग्नैश च दरुताः के चिद भयातुराः 14 गजस्कन्धेषु संस्यूता नाराचैश चलितासनाः शरार्तैर विद्रुतैर नागैर हृताः के चिद दिशॊ दश 15 विशस्त्र कवचाश चान्ये वाहनेभ्यः कषितिं गताः संछन्ना नेमिषु गता मृदिताश च हयद्विपैः 16 करॊशन्तस तात पुत्रेति पालयन्तॊ ऽपरे भयात नाभिजानन्ति चान्यॊन्यं कश्मलाभिहतौजसः 17 पुत्रान पितॄन सखीन भरातॄन समारॊप्य दृढक्षतान जलेन कलेदयन्त्य अन्ये विमुच्य कवचान्य अपि 18 अवस्थां तादृशीं पराप्य हते दरॊणे दरुतं बलम पुनरावर्तितं केन यदि जानासि शंस मे 19 हयानां हेषतां शब्दः कुञ्जराणां च बृंहताम रथनेमि सवनश चात्र विमिश्रः शरूयते महान 20 एते शब्दा भृशं तीव्राः परवृत्ताः कुरु सागरे मुहुर मुहुर उदीर्यन्तः कम्पयन्ति हि मामकान 21 य एष तुमुलः शब्दः शरूयते लॊमहर्षणः सेन्द्रान अप्य एष लॊकांस तरीन भुञ्ज्याद इति मतिर मम 22 मन्ये वज्रधरस्यैष निनादॊ भैरवस्वनः दरॊणे हते कौरवार्थं वयक्तम अभ्येति वासवः 23 परहृष्टलॊम कूपाः सम संविग्नरथकुञ्जराः धनंजय गुरुं शरुत्वा तत्र नादं सुभीषणम 24 क एष कौरवान दीर्णान अवस्थाप्य महारथः निवर्तयति युद्धार्थं मृधे देवेश्वरॊ यथा 25 [अर्जुन] उद्यम्यात्मानम उग्राय कर्मणे धैर्यम आस्थिताः धमन्ति कौरवाः शङ्खान्य अस्य वीर्यम उपाश्रिताः 26 यत्र ते संशयॊ राजन नयस्तशस्त्रे गुरौ हते धार्तराष्ट्रान अवस्थाप्य क एष नदतीति ह 27 हरीमन्तं तं महाबाहुं मत्तद्विरदगामिनम वयाख्यास्याम्य उग्रकर्माणं कुरूणाम अभयंकरम 28 यस्मिञ जाते ददौ दरॊणॊ गवां दशशतं धनम बराह्मणेभ्यॊ महार्हेभ्यः सॊ ऽशवत्थामैष गर्जति 29 जातमात्रेण वीरेण यनॊच्चैःश्रवसा इव हेषता कम्पिता भूमिर लॊकाश च सकलास तरयः 30 तच छरुत्वान्तर्हितं भूतं नाम चास्याकरॊत तदा अश्वत्थामेति सॊ ऽदयैष शूरॊ नदति पाण्डव 31 यॊ ऽदयानाथ इवाक्रम्य पार्षतेन हतस तथा कर्मणा सुनृशंसेन तस्य नाथॊ वयवस्थितः 32 गुरुं मे यत्र पाञ्चाल्यः केशपक्षे परामृशत तन न जातु कषमेद दरौणिर जानन पौरुषम आत्मनः 33 उपचीर्णॊ गुरुर मिथ्या भवता राज्यकारणात धर्मज्ञेन सता नाम सॊ ऽधर्मः सुमहान कृतः 34 सर्वधर्मॊपपन्नॊ ऽयं मम शिश्यश च पाण्डवः नायं वक्ष्यति मिथ्येति परत्ययं कृतवांस तवयि 35 स सत्यकञ्चुकं नाम परविष्टेन ततॊ ऽनृतम आचार्य उक्तॊ भवता हतः कुञ्जर इत्य उत 36 ततः शस्त्रं समुत्सृज्य निर्ममॊ गतचेतनः आसीत स विह्वलॊ राजन यथादृष्टस तवया विभुः 37 स तु शॊकेन चाविष्टॊ विमुखः पुत्रवत्सलः शाश्वतं धर्मम उत्सृज्य गुरुः शिष्येण घातितः 38 नयस्तशस्त्रम अधर्मेण घातयित्वा गुरुं भवान रक्षत्व इदानीं सामात्यॊ यदि शक्नॊषि पार्षतम 39 गरस्तम आचार्य पुत्रेण करुद्धेन हतबन्धुना सर्वे वयं परित्रातुं न शक्ष्यामॊ ऽदय पार्षतम 40 सौहार्दं सर्वभूतेषु यः करॊत्य अतिमात्रशः सॊ ऽदय केशग्रहं शरुत्वा पितुर धक्ष्यति नॊ रणे 41 विक्रॊशमाने हि मयि भृशम आचार्य गृद्धिनि अवकीर्य सवधर्मं हि शिष्येण निहतॊ गुरुः 42 यदा गतं वयॊ भूयः शिष्टम अल्पतरं च नः तस्येदानीं विकारॊ ऽयम अधर्मॊ यत्कृतॊ महान 43 पितेव नित्यं सौहार्दात पितेव स हि धर्मतः सॊ ऽलपकालस्य राज्यस्य कारणान निहतॊ गुरुः 44 धृतराष्ट्रेण भीष्माय दरॊणाय च विशां पते विसृष्टा पृथिवी सर्वा सह पुत्रैश च तत्परैः 45 स पराप्य तादृशीं वृत्तिं सत्कृतः सततं परैः अवृणीत सदा पुत्रान माम एवाभ्यधिकं गुरुः 46 अक्षीयमाणॊ नयस्तास्त्रस तवद्वाक्येनाहवे हतः न तव एनं युध्यमानं वै हन्याद अपि शतक्रतुः 47 तस्याचार्यस्य वृद्धस्य दरॊहॊ नित्यॊपकारिणः कृतॊ हय अनार्यैर अस्माभी राज्यार्थे लघु बुद्धिभिः 48 पुत्रान भरातॄन पितॄन दाराञ जीवितं चैव वासविः तयजेत सर्वं मम परेम्णा जानात्य एतद धि मे गुरुः 49 स मया राज्यकामेन हन्यमानॊ ऽपय उपेक्षितः तस्माद अवाक्शिरा राजन पराप्तॊ ऽसमि नरकं विभॊ 50 बराह्मणं वृद्धम आचार्यं नयस्तशस्त्रं यथा मुनिम घातयित्वाद्य राज्यार्थे मृतं शरेयॊ न जीवितम |
1
[s] prādurbhūte tatas tasminn astre nārāyaṇe tadā prāvāt sapṛṣato vāyur anabhre stanayitnumān 2 cacāla pṛthivī cāpi cukṣubhe ca mahodadhiḥ pratisrotaḥ pravṛttāś ca gantuṃ tatra samudragāḥ 3 śikharāṇi vyadīryanta girīṇāṃ tatra bhārata apasavyaṃ mṛgāś caiva pāṇḍuputrān pracakrire 4 tamasā cāvakīryanta sūryaś ca kaluṣo 'bhavat saṃpatanti ca bhūtāni kravyādāni prahṛṣṭavat 5 devadānavagandharvās trastā āsan viśāṃ pate kathaṃ kathābhavat tīvrā dṛṣṭvā tad vyākulaṃ mahat 6 vyathitāḥ sarvarājānas tadā hy āsan vicetasaḥ tad dṛṣṭvā ghorarūpaṃ tu drauṇer astraṃ bhayāvaham 7 [dhṛ] nivartiteṣu sainyeṣu droṇaputreṇa saṃyuge bhṛśaṃ śokābhitaptena pitur vadham amṛṣyatā 8 kurūn āpatato dṛṣṭvā dhṛṣṭadyumnasya rakṣaṇe ko mantraḥ pāṇḍaveṣv āsīt tan mamācakṣva saṃjaya 9 [s] prāg eva vidrutān dṛṣṭvā dhārtarāṣṭrān yudhiṣṭhiraḥ punaś ca tumulaṃ śabdaṃ śrutvārjunam abhāṣata 10 ācārye nihate droṇe dhṛṣṭadyumnena saṃyuge nihate vajrahastena yathā vṛtre mahāsure 11 nāśaṃsanta jayaṃ yuddhe dīnātmāno dhanaṃjaya ātmatrāṇe matiṃ kṛtvā prādravan kuravo yathā 12 ke cid bhrāntai rathais tūrṇaṃ nihatapārṣṇi yantṛbhiḥ vipatāka dhvajac chattraiḥ pārthivāḥ śīrṇakūbaraiḥ 13 bhagnanīḍair ākulāśvair āruhyan ye vicetasaḥ bhītāḥ pādair hayān kec cit tvarayantaḥ svayaṃ rathaiḥ yugacakrākṣa bhagnaiś ca drutāḥ ke cid bhayāturāḥ 14 gajaskandheṣu saṃsyūtā nārācaiś calitāsanāḥ śarārtair vidrutair nāgair hṛtāḥ ke cid diśo daśa 15 viśastra kavacāś cānye vāhanebhyaḥ kṣitiṃ gatāḥ saṃchannā nemiṣu gatā mṛditāś ca hayadvipaiḥ 16 krośantas tāta putreti pālayanto 'pare bhayāt nābhijānanti cānyonyaṃ kaśmalābhihataujasaḥ 17 putrān pitṝn sakhīn bhrātṝn samāropya dṛḍhakṣatān jalena kledayanty anye vimucya kavacāny api 18 avasthāṃ tādṛśīṃ prāpya hate droṇe drutaṃ balam punarāvartitaṃ kena yadi jānāsi śaṃsa me 19 hayānāṃ heṣatāṃ śabdaḥ kuñjarāṇāṃ ca bṛṃhatām rathanemi svanaś cātra vimiśraḥ śrūyate mahān 20 ete śabdā bhṛśaṃ tīvrāḥ pravṛttāḥ kuru sāgare muhur muhur udīryantaḥ kampayanti hi māmakān 21 ya eṣa tumulaḥ śabdaḥ śrūyate lomaharṣaṇaḥ sendrān apy eṣa lokāṃs trīn bhuñjyād iti matir mama 22 manye vajradharasyaiṣa ninādo bhairavasvanaḥ droṇe hate kauravārthaṃ vyaktam abhyeti vāsavaḥ 23 prahṛṣṭaloma kūpāḥ sma saṃvignarathakuñjarāḥ dhanaṃjaya guruṃ śrutvā tatra nādaṃ subhīṣaṇam 24 ka eṣa kauravān dīrṇān avasthāpya mahārathaḥ nivartayati yuddhārthaṃ mṛdhe deveśvaro yathā 25 [arjuna] udyamyātmānam ugrāya karmaṇe dhairyam āsthitāḥ dhamanti kauravāḥ śaṅkhāny asya vīryam upāśritāḥ 26 yatra te saṃśayo rājan nyastaśastre gurau hate dhārtarāṣṭrān avasthāpya ka eṣa nadatīti ha 27 hrīmantaṃ taṃ mahābāhuṃ mattadviradagāminam vyākhyāsyāmy ugrakarmāṇaṃ kurūṇām abhayaṃkaram 28 yasmiñ jāte dadau droṇo gavāṃ daśaśataṃ dhanam brāhmaṇebhyo mahārhebhyaḥ so 'śvatthāmaiṣa garjati 29 jātamātreṇa vīreṇa yanoccaiḥśravasā iva heṣatā kampitā bhūmir lokāś ca sakalās trayaḥ 30 tac chrutvāntarhitaṃ bhūtaṃ nāma cāsyākarot tadā aśvatthāmeti so 'dyaiṣa śūro nadati pāṇḍava 31 yo 'dyānātha ivākramya pārṣatena hatas tathā karmaṇā sunṛśaṃsena tasya nātho vyavasthitaḥ 32 guruṃ me yatra pāñcālyaḥ keśapakṣe parāmṛśat tan na jātu kṣamed drauṇir jānan pauruṣam ātmanaḥ 33 upacīrṇo gurur mithyā bhavatā rājyakāraṇāt dharmajñena satā nāma so 'dharmaḥ sumahān kṛtaḥ 34 sarvadharmopapanno 'yaṃ mama śiśyaś ca pāṇḍavaḥ nāyaṃ vakṣyati mithyeti pratyayaṃ kṛtavāṃs tvayi 35 sa satyakañcukaṃ nāma praviṣṭena tato 'nṛtam ācārya ukto bhavatā hataḥ kuñjara ity uta 36 tataḥ śastraṃ samutsṛjya nirmamo gatacetanaḥ āsīt sa vihvalo rājan yathādṛṣṭas tvayā vibhuḥ 37 sa tu śokena cāviṣṭo vimukhaḥ putravatsalaḥ śāśvataṃ dharmam utsṛjya guruḥ śiṣyeṇa ghātitaḥ 38 nyastaśastram adharmeṇa ghātayitvā guruṃ bhavān rakṣatv idānīṃ sāmātyo yadi śaknoṣi pārṣatam 39 grastam ācārya putreṇa kruddhena hatabandhunā sarve vayaṃ paritrātuṃ na śakṣyāmo 'dya pārṣatam 40 sauhārdaṃ sarvabhūteṣu yaḥ karoty atimātraśaḥ so 'dya keśagrahaṃ śrutvā pitur dhakṣyati no raṇe 41 vikrośamāne hi mayi bhṛśam ācārya gṛddhini avakīrya svadharmaṃ hi śiṣyeṇa nihato guruḥ 42 yadā gataṃ vayo bhūyaḥ śiṣṭam alpataraṃ ca naḥ tasyedānīṃ vikāro 'yam adharmo yatkṛto mahān 43 piteva nityaṃ sauhārdāt piteva sa hi dharmataḥ so 'lpakālasya rājyasya kāraṇān nihato guruḥ 44 dhṛtarāṣṭreṇa bhīṣmāya droṇāya ca viśāṃ pate visṛṣṭā pṛthivī sarvā saha putraiś ca tatparaiḥ 45 sa prāpya tādṛśīṃ vṛttiṃ satkṛtaḥ satataṃ paraiḥ avṛṇīta sadā putrān mām evābhyadhikaṃ guruḥ 46 akṣīyamāṇo nyastāstras tvadvākyenāhave hataḥ na tv enaṃ yudhyamānaṃ vai hanyād api śatakratuḥ 47 tasyācāryasya vṛddhasya droho nityopakāriṇaḥ kṛto hy anāryair asmābhī rājyārthe laghu buddhibhiḥ 48 putrān bhrātṝn pitṝn dārāñ jīvitaṃ caiva vāsaviḥ tyajet sarvaṃ mama premṇā jānāty etad dhi me guruḥ 49 sa mayā rājyakāmena hanyamāno 'py upekṣitaḥ tasmād avākśirā rājan prāpto 'smi narakaṃ vibho 50 brāhmaṇaṃ vṛddham ācāryaṃ nyastaśastraṃ yathā munim ghātayitvādya rājyārthe mṛtaṃ śreyo na jīvitam |
The Mahabharata in Sanskrit
Book 7
Chapter 168
|
1
[स] अर्जुनस्य वचः शरुत्वा नॊचुस तत्र महारथाः अप्रियं वा परियं वापि महाराज धनंजयम 2 ततः करुद्धॊ महाबाहुर भीमसेनॊ ऽभयभाषत उत्स्मयन्न इव कौन्तेयम अर्जुनं भरतर्षभ 3 मुनिर यथारण्य गतॊ भाषसे धर्मसंहितम नयस्तदण्डॊ यथा पार्थ बराह्मणः संशितव्रतः 4 कषतास तराता कषताञ जीवन कषान्तस तविष्व अपि साधुषु कषत्रियः कषितिम आप्नॊति कषिप्रं धर्मं यशः शरियम 5 स भवान कषत्रिय गुणैर युक्तः सर्वैः कुलॊद्वहः अविपश्चिद यथा वाक्यं वयाहरन नाद्य शॊभसे 6 पराक्रमस ते कौन्तेय शक्रस्येव शचीपतेः न चातिवर्तसे धर्मं वेलाम इव महॊदधिः 7 न पूजयेत तवा कॊ ऽनवद्य यत तरयॊदश वार्षिकम अमर्षं पृष्टतः कृत्वा धर्मम एवाभिकाङ्क्षसे 8 दिष्ट्या तात मनस ते ऽदय सवधर्मम अनुवर्तते आनृशंस्ये च ते दिष्ट्या बुद्धिः सततम अच्युत 9 यत तु धर्मप्रवृत्तस्य हृतं राज्यम अधर्मतः दरौपदी च परामृष्टा सभाम आनीय शत्रुभिः 10 वनं परव्राजिताश चास्म वल्कलाजिनवाससः अनर्हमाणास तं भावं तरयॊदश समाः परैः 11 एतान्य अमर्षस्थानानि मर्षितानि तवयानघ कषत्रधर्मप्रसक्तेन सर्वम एतद अनुष्ठितम 12 तम अधर्मम अपाक्रष्टुम आरब्धः सहितस तवया सानुबन्धान हनिष्यामि कषुद्रान राज्यहरान अहम 13 तवया तु कथितं पूर्वं युद्धायाभ्यागता वयम घटामश च यथाशक्ति तवं तु नॊ ऽदय जुगुप्ससे 14 सवधर्मं नेच्छसे जञातुं मिथ्यावचनम एव ते भयार्दितानाम अस्माकं वाचा मर्माणि कृन्तसि 15 वपन वरणे कषारम इव कषतानां शत्रुकर्शन विदीर्यते मे हृदयं तवया वाक्शल्य पीडितम 16 अधर्मम एतद विपुलं धार्मिकः सन्नबुध्यसे यत तवम आत्मानम अस्मांश च परशंस्यान न परशंससि यः कलां षॊडशीं तवत्तॊ नार्हते तं परशंससि 17 सवयम एवात्मनॊ वक्तुं न युक्तं गुणसंस्तवम दारयेयं महीं करॊधाद विकिरेयं च पर्वतान 18 आविध्य च गदां गुर्वीं भीमां काञ्चनमालिनीम गिरिप्रकाशान कषितिजान भुञ्जेयम अनिलॊ यथा 19 स तवम एवंविधं जानन भरातरं मां नरर्षभ दरॊणपुत्राद भयंकर्तुं नार्हस्य अमितविक्रम 20 अथ वा तिष्ठ बीभत्सॊ सह सर्वैर नरर्षभैः अहम एनं गदापाणिर जेष्याम्य एकॊ महाहवे 21 ततः पाञ्चालराजस्य पुत्रः पार्थम अथाब्रवीत संक्रुद्धम इव नर्दन्तं हिरण्यकशिपुं हरिः 22 बीभत्सॊ विप्र कर्माणि विदितानि मनीषिणाम याजनाध्यापने दानं तथा यज्ञप्रतिग्रहौ 23 षष्ठम अध्ययनं नाम तेषां कस्मिन परतिष्ठितः हतॊ दरॊणॊ मया यत तत किं मां पार्थ विगर्हसे 24 अपक्रान्तः सवधर्माच च कषत्रधर्मम उपाश्रितः अमानुषेण हन्त्य अस्मान अस्त्रेण कषुद्रकर्मकृत 25 तथा मायां परयुञ्जानम असह्यं बराह्मण बरुवम माययैव निहन्याद यॊ न युक्तं पार्थ तत्र किम 26 तस्मिंस तथा मया शस्ते यदि दरौणायनी रुषा कुरुते भैरवं नादं तत्र किं मम हीयते 27 न चाद्भुतम इदं मन्ये यद दरौणिः शुद्धगर्जया घातयिष्यति कौरव्यान परित्रातुम अशक्नुवन 28 यच च मां धार्मिकॊ भूत्वा बरवीषि गुरु घातिनम तदर्थम अहम उत्पन्नः पाञ्चाल्यस्य सुतॊ ऽनलात 29 यस्य कार्यम अकार्यं वा युध्यतः सयात समं रणे तं कथं बराह्मणं बरूयाः कषत्रियं वा धनंजय 30 यॊ हय अनस्त्रविदॊ हन्याद बरह्मास्त्रैः करॊधमूर्छितः सर्वॊपायैर न स कथं वध्यः पुरुषसत्तम 31 विधर्मिणं धर्मविद्भिः परॊक्तं तेषां विषॊपमम जानन धर्मार्थतत्त्वज्ञः किम अर्जुन विगर्हसे 32 नृशंसः स मयाक्रम्य रथ एव निपातितः तन माभिनन्द्यं बीभत्सॊ किमर्थं नाभिनन्दसे 33 कृते रणे कथं पार्थ जवलनार्कविषॊपमम भीमं दरॊण शिरश छेदे परशस्यं न परशंससि 34 यॊ ऽसौ ममैव नान्यस्य बान्धवान युधि जघ्निवान छित्त्वापि तस्य मूर्धानं नैवास्मि विगतज्वरः 35 तच च मे कृन्तते मर्म यन न तस्य शिरॊमया निषादविषये कषिप्तं जयद्रथ शिरॊ यथा 36 अवधश चापि शत्रूणाम अधर्मः शिष्यते ऽरजुन कषत्रियस्य हय अयं धर्मॊ हन्याद धन्येत वा पुनः 37 स शत्रुर निहतः संख्ये मया धर्मेण पाण्डव यथा तवया हतः शूरॊ भगदत्तः पितुः सखा 38 पितामहं रणे हत्वा मन्यसे धर्मम आत्मनः मया शत्रौ हते कस्मात पापे धर्मं न मन्यसे 39 नानृतः पाण्डवॊ जयेष्ठॊ नाहं वाधार्मिकॊ ऽरजुन शिष्यध्रुङ निहतः पापॊ युध्यस्व विजयस तव |
1
[s] arjunasya vacaḥ śrutvā nocus tatra mahārathāḥ apriyaṃ vā priyaṃ vāpi mahārāja dhanaṃjayam 2 tataḥ kruddho mahābāhur bhīmaseno 'bhyabhāṣata utsmayann iva kaunteyam arjunaṃ bharatarṣabha 3 munir yathāraṇya gato bhāṣase dharmasaṃhitam nyastadaṇḍo yathā pārtha brāhmaṇaḥ saṃśitavrataḥ 4 kṣatās trātā kṣatāñ jīvan kṣāntas tviṣv api sādhuṣu kṣatriyaḥ kṣitim āpnoti kṣipraṃ dharmaṃ yaśaḥ śriyam 5 sa bhavān kṣatriya guṇair yuktaḥ sarvaiḥ kulodvahaḥ avipaścid yathā vākyaṃ vyāharan nādya śobhase 6 parākramas te kaunteya śakrasyeva śacīpateḥ na cātivartase dharmaṃ velām iva mahodadhiḥ 7 na pūjayet tvā ko 'nvadya yat trayodaśa vārṣikam amarṣaṃ pṛṣṭataḥ kṛtvā dharmam evābhikāṅkṣase 8 diṣṭyā tāta manas te 'dya svadharmam anuvartate ānṛśaṃsye ca te diṣṭyā buddhiḥ satatam acyuta 9 yat tu dharmapravṛttasya hṛtaṃ rājyam adharmataḥ draupadī ca parāmṛṣṭā sabhām ānīya śatrubhiḥ 10 vanaṃ pravrājitāś cāsma valkalājinavāsasaḥ anarhamāṇās taṃ bhāvaṃ trayodaśa samāḥ paraiḥ 11 etāny amarṣasthānāni marṣitāni tvayānagha kṣatradharmaprasaktena sarvam etad anuṣṭhitam 12 tam adharmam apākraṣṭum ārabdhaḥ sahitas tvayā sānubandhān haniṣyāmi kṣudrān rājyaharān aham 13 tvayā tu kathitaṃ pūrvaṃ yuddhāyābhyāgatā vayam ghaṭāmaś ca yathāśakti tvaṃ tu no 'dya jugupsase 14 svadharmaṃ necchase jñātuṃ mithyāvacanam eva te bhayārditānām asmākaṃ vācā marmāṇi kṛntasi 15 vapan vraṇe kṣāram iva kṣatānāṃ śatrukarśana vidīryate me hṛdayaṃ tvayā vākśalya pīḍitam 16 adharmam etad vipulaṃ dhārmikaḥ sannabudhyase yat tvam ātmānam asmāṃś ca praśaṃsyān na praśaṃsasi yaḥ kalāṃ ṣoḍaśīṃ tvatto nārhate taṃ praśaṃsasi 17 svayam evātmano vaktuṃ na yuktaṃ guṇasaṃstavam dārayeyaṃ mahīṃ krodhād vikireyaṃ ca parvatān 18 āvidhya ca gadāṃ gurvīṃ bhīmāṃ kāñcanamālinīm giriprakāśān kṣitijān bhuñjeyam anilo yathā 19 sa tvam evaṃvidhaṃ jānan bhrātaraṃ māṃ nararṣabha droṇaputrād bhayaṃkartuṃ nārhasy amitavikrama 20 atha vā tiṣṭha bībhatso saha sarvair nararṣabhaiḥ aham enaṃ gadāpāṇir jeṣyāmy eko mahāhave 21 tataḥ pāñcālarājasya putraḥ pārtham athābravīt saṃkruddham iva nardantaṃ hiraṇyakaśipuṃ hariḥ 22 bībhatso vipra karmāṇi viditāni manīṣiṇām yājanādhyāpane dānaṃ tathā yajñapratigrahau 23 ṣaṣṭham adhyayanaṃ nāma teṣāṃ kasmin pratiṣṭhitaḥ hato droṇo mayā yat tat kiṃ māṃ pārtha vigarhase 24 apakrāntaḥ svadharmāc ca kṣatradharmam upāśritaḥ amānuṣeṇa hanty asmān astreṇa kṣudrakarmakṛt 25 tathā māyāṃ prayuñjānam asahyaṃ brāhmaṇa bruvam māyayaiva nihanyād yo na yuktaṃ pārtha tatra kim 26 tasmiṃs tathā mayā śaste yadi drauṇāyanī ruṣā kurute bhairavaṃ nādaṃ tatra kiṃ mama hīyate 27 na cādbhutam idaṃ manye yad drauṇiḥ śuddhagarjayā ghātayiṣyati kauravyān paritrātum aśaknuvan 28 yac ca māṃ dhārmiko bhūtvā bravīṣi guru ghātinam tadartham aham utpannaḥ pāñcālyasya suto 'nalāt 29 yasya kāryam akāryaṃ vā yudhyataḥ syāt samaṃ raṇe taṃ kathaṃ brāhmaṇaṃ brūyāḥ kṣatriyaṃ vā dhanaṃjaya 30 yo hy anastravido hanyād brahmāstraiḥ krodhamūrchitaḥ sarvopāyair na sa kathaṃ vadhyaḥ puruṣasattama 31 vidharmiṇaṃ dharmavidbhiḥ proktaṃ teṣāṃ viṣopamam jānan dharmārthatattvajñaḥ kim arjuna vigarhase 32 nṛśaṃsaḥ sa mayākramya ratha eva nipātitaḥ tan mābhinandyaṃ bībhatso kimarthaṃ nābhinandase 33 kṛte raṇe kathaṃ pārtha jvalanārkaviṣopamam bhīmaṃ droṇa śiraś chede praśasyaṃ na praśaṃsasi 34 yo 'sau mamaiva nānyasya bāndhavān yudhi jaghnivān chittvāpi tasya mūrdhānaṃ naivāsmi vigatajvaraḥ 35 tac ca me kṛntate marma yan na tasya śiromayā niṣādaviṣaye kṣiptaṃ jayadratha śiro yathā 36 avadhaś cāpi śatrūṇām adharmaḥ śiṣyate 'rjuna kṣatriyasya hy ayaṃ dharmo hanyād dhanyeta vā punaḥ 37 sa śatrur nihataḥ saṃkhye mayā dharmeṇa pāṇḍava yathā tvayā hataḥ śūro bhagadattaḥ pituḥ sakhā 38 pitāmahaṃ raṇe hatvā manyase dharmam ātmanaḥ mayā śatrau hate kasmāt pāpe dharmaṃ na manyase 39 nānṛtaḥ pāṇḍavo jyeṣṭho nāhaṃ vādhārmiko 'rjuna śiṣyadhruṅ nihataḥ pāpo yudhyasva vijayas tava |
The Mahabharata in Sanskrit
Book 7
Chapter 169
|
1
[धृ] साङ्गा वेदा यथान्यायं येनाधीता महात्मना यस्मिन साक्षाद धनुर्वेदॊ हरीनिषेधे परतिष्ठितः 2 तस्मिन्न आक्रुश्यति दरॊणे महर्षितनये तदा नीचात्मना नृशंसेन करुद्रेण गुरु घातिना 3 यस्य परसादात कर्माणि कुर्वन्ति पुरुषर्षभाः अमानुषाणि संग्रामे देवैर असुकराणि च 4 तस्मिन्न आक्रुश्यति दरॊणे समक्षं पापकर्मिणः नामर्षं तत्र कुर्वन्ति धिक कषत्रं धिग अमर्षितम 5 पार्थाः सर्वे च राजानः पृथिव्यां ये धनुर्धराः शरुत्वा किम आहुः पाञ्चाल्यं तन ममाचक्ष्व संजय 6 [स] शरुत्वा दरुपदपुत्रस्य ता वाचः करूरकर्मणः तूष्णीं बभूवू राजानः सर्व एव विशां पते 7 अर्जुनस तु कटाक्षेण जिह्मं परेक्ष्य च पार्षतम सबाष्पम अभिनिःश्वस्य धिग धिग धिग इति चाब्रवीत 8 युधिष्ठिरश च भीमश च यमौ कृष्णस तथापरे आसन सुव्रीडिता राजन सात्यकिर इदम अब्रवीत 9 नेहास्ति पुरुषः कश चिद य इमं पापपूरुषम भाषमाणम अकल्याणं शीघ्रं हन्यान नराधमम 10 कथं च शतधा जिह्वा न ते मूर्धा च दीर्यते गुरुम आक्रॊशतः कषुद्रन चाधर्मेण पात्यसे 11 याप्यस तवम असि पार्थैश च सर्वैश चान्धकवृष्णिभिः यत कर्म कलुषं कृत्वा शलाघसे जनसंसदि 12 अकार्यं तादृशं कृत्वा पुनर एव गुरुं कषिपन वध्यस तवं न तवयार्थॊ ऽसति मुहूर्तम अपि जीवता 13 कस तव एतद वयवसेद आर्यस तवदन्यः पुरुषाधमः निगृह्य केशेषु वधं गुरॊर धर्मात्मनः सतः 14 सप्तावरे तथा पूर्वे बान्धवास ते निपातिताः यशसा च परित्यक्तास तवां पराप्य कुलपांसनम 15 उक्तवांश चापि यत पार्थं भीष्मं परति नरर्षभम तथान्तॊ विहितस तेन सवयम एव महात्मना 16 तस्यापि तव सॊदर्यॊ निहन्ता पापकृत्तमः नान्यः पाञ्चाल पुत्रेभ्यॊ विद्यते भुवि पापकृत 17 स चापि सृष्टः पित्रा ते भीष्मस्यान्त करः किल शिखण्डी रक्षितस तेन स च मृत्युर महात्मनः 18 पाञ्चालाश चलिता धर्मात कषुद्रा मित्र गुरु दरुहः तवां पराप्य सह सॊदर्यं धिक्कृतं सर्वसाधुभिः 19 पुनश चेद ईदृशीं वाचं मत्समीपे वदिष्यसि शिरस ते पातयिष्यामि गदया वज्रकल्पया 20 सात्वतेनैवम आक्षिप्तः पार्षतः परुषाक्षरम संरब्धः सात्यकिं पराह संक्रुद्धः परहसन्न इव 21 शरूयते शरूयते चेति कषम्यते चेति माधव न चानार्य शुभं साधुं पुरुषं कषेप्तुम अर्हसि 22 कषमा परशस्यते लॊके न तु पापॊ ऽरहति कषमाम कषमावन्तं हि पापात्मा जितॊ ऽयम इति मन्यते 23 स तवं कषुद्रसमाचारॊ नीचात्मा पापनिश्चयः आ केशाग्रान नखाग्राच च वक्तव्यॊ वक्तुम इच्छसि 24 यः स भूरिश्रवाश छिन्ने भुजे परायगतस तवया वार्यमाणेन निहतस ततः पापतरं नु किम 25 वयूहमानॊ मया दरॊणॊ दिव्येनास्त्रेण संयुगे विसृष्टशस्त्रॊ निहतः किं तत्र करूर दुष्कृतम 26 अयुध्यमानं यस तव आजौ तथा परायगतं मुनिम छिन्नबाहुं परैर हन्यात सात्यके स कथं भवेत 27 निहत्य तवां यदा भूमौ स विक्रामति वीर्यवान किं तदा न निहंस्य एनं भूत्वा पुरुषसत्तमः 28 तवया पुनर अनार्येण पूर्वं पार्थेन निर्जितः यदा तदा हतः शूरः सौमदत्तिः परतापवान 29 यत्र यत्र तु पाण्डूनां दरॊणॊ दरावयते चमूम किरञ शरसहस्राणि तत्र तत्र परयाम्य अहम 30 स तवम एवंविधं कृत्वा कर्म चाण्डालवत सवयम वक्तुम इच्छसि वक्तव्यः कस्मान मां परुषाण्य अथ 31 कर्ता तवं कर्मणॊग्रस्य नाहं वृष्णिकुलाधम पापानां च तवम आवासः कर्मणां मा पुनर वद 32 जॊषम आस्स्व न मां भूयॊ वक्तुम अर्हस्य अतः परम अधरॊत्तरम एतद धि यन मा तवं वक्तुम इच्छसि 33 अथ वक्ष्यसि मां मौर्ख्याद भूयः परुषम ईदृशम गमयिष्यामि बाणैस तवां युधि वैवस्वतक्षयम 34 न चैव मूर्ख धर्मेण केवलेनैव शक्यते तेषाम अपि हय अधर्मेण चेष्टितं शृणु यादृशम 35 वञ्चितः पाण्डवः पर्वम अधर्मेण युधिष्ठिरः दरौपदी च परिक्लिष्टा तथाधर्मेण सात्यके 36 परव्राजिता वनं सर्वे पाण्डवाः सह कृष्णया सर्वस्वम अपकृष्टं च तथाधर्मेण बालिश 37 अधर्मेणापकृष्टश च मद्रराजः परैर इतः इतॊ ऽपय अधर्मेण हतॊ भीष्मः कुरुपितामहः भूरिश्रवा हय अधर्मेण तवया धर्मविदा हतः 38 एवं परैर आचरितं पाण्डवेयैश च संयुगे रक्षमाणैर जयं वीरैर धर्मज्ञैर अपि सात्वत 39 दुर्ज्ञेयः परमॊ धर्मस तथाधर्मः सुदुर्विदः युध्यस्व कौरवैः सार्धं मा गाः पितृनिवेशनम 40 एवमादीनि वाक्यानि करूराणि परुषाणि च शरावितः सात्यकिः शरीमान आकम्पित इवाभवत 41 तच छरुत्वा करॊधताम्राक्षः सात्यकिस तव आददे गदाम विनिःश्वस्य यथा सर्पः परणिधाय रथे धनुः 42 ततॊ ऽभिपत्य पाञ्चाल्यं संरम्भेणेदम अब्रवीत न तवां वक्ष्यामि परुषं हनिष्ये तवां वधक्षमम 43 तम आपतन्तं सहसा महाबलम अमर्षणम पाञ्चाल्यायाभिसंक्रुद्धम अन्तकायान्तकॊपमम 44 चॊदितॊ वासुदेवेन भीमसेनॊ महाबलः अवप्लुत्य रथात तूर्णं बाहुभ्यां समवारयत 45 दरवमाणं तथा करुद्धं सात्यकिं पाण्डवॊ बली परस्कन्दमानम आदाय जगाम बलिनं बलात 46 सथित्वा विष्टभ्य चरणौ भीमेन शिनिपुंगवः निगृहीतः पदे षष्ठे बलेन बलिनां वरः 47 अवरुह्य रथात तं तु हरियमाणं बलीयसा उवाच शलक्ष्णया वाचा सहदेवॊ विशां पते 48 अस्माकं पुरुषव्याघ्र मित्रम अन्यन न विद्यते परम अन्धकवृष्णिभ्यः पाञ्चालेभ्यश च माधव 49 तथैवान्धकवृष्णीनां तव चैव विशेषतः कृष्णस्य च तथास्मत्तॊ मित्रम अन्यन न विद्यते 50 पाञ्चालानां च वार्ष्णेय समुद्रान्तां विचिन्वताम नान्यद अस्ति परं मित्रं मन्यते च यथा भवान 51 स भवान ईदृशं मित्रं मन्यते च यथा भवान भवन्तश च यथास्माकं भवतां च तथा वयम 52 स एवं सर्वधर्मज्ञॊ मित्र धर्मम अनुस्मरन नियच्छ मन्युं पाञ्चाल्यात परशाम्य शिनिपुंगव 53 पार्षतस्य कषम तवं वै कषमतां तव पार्षतः वयं कषमयितारश च किम अन्यत्र शमाद भवेत 54 परशाम्यमाने शैनेये सहदेवेन मारिष पाञ्चालराजस्य सुतः परहसन्न इदम अब्रवीत 55 मुञ्च मुञ्च शिनेः पौत्रं भीम युद्धमदान्वितम आसादयतु माम एष धराधरम इवानिलः 56 यावद अस्य शितैर बाणैः संरम्भं विनयाम्य अहम युद्धश्रद्धां च कौन्तेय जीवितस्य च संयुगे 57 किं नु शक्यं मया कर्तुं कार्यं यद इदम उद्यतम सुमहत पाण्डुपुत्राणाम आयान्त्य एते हि कौरवाः 58 अथ वा फल्गुनः सर्वान वारयिष्यति संयुगे अहम अप्य अस्य मूर्धानं पातयिष्यामि सायकैः 59 मन्यते छिन्नबाहुं मां भूरिश्रवसम आहवे उत्सृजैनम अहं वैनम एष मां वा हनिष्यति 60 शृण्वन पाञ्चाल वाक्यानि सात्यकिः सर्पवच छवसन भीम बाह्वन्तरे सक्तॊ विस्फुरत्य अनिशं बली 61 तवरया वासुदेवश च धर्मराजश च मारिष यत्नेन महता वीरौ वारयाम आसतुस ततः 62 निवार्य परमेष्वासौ करॊधसंरक्तलॊचनौ युयुत्सवः परान संख्ये परतीयुः कषत्रियर्षभाः |
1
[dhṛ] sāṅgā vedā yathānyāyaṃ yenādhītā mahātmanā yasmin sākṣād dhanurvedo hrīniṣedhe pratiṣṭhitaḥ 2 tasminn ākruśyati droṇe maharṣitanaye tadā nīcātmanā nṛśaṃsena krudreṇa guru ghātinā 3 yasya prasādāt karmāṇi kurvanti puruṣarṣabhāḥ amānuṣāṇi saṃgrāme devair asukarāṇi ca 4 tasminn ākruśyati droṇe samakṣaṃ pāpakarmiṇaḥ nāmarṣaṃ tatra kurvanti dhik kṣatraṃ dhig amarṣitam 5 pārthāḥ sarve ca rājānaḥ pṛthivyāṃ ye dhanurdharāḥ śrutvā kim āhuḥ pāñcālyaṃ tan mamācakṣva saṃjaya 6 [s] śrutvā drupadaputrasya tā vācaḥ krūrakarmaṇaḥ tūṣṇīṃ babhūvū rājānaḥ sarva eva viśāṃ pate 7 arjunas tu kaṭākṣeṇa jihmaṃ prekṣya ca pārṣatam sabāṣpam abhiniḥśvasya dhig dhig dhig iti cābravīt 8 yudhiṣṭhiraś ca bhīmaś ca yamau kṛṣṇas tathāpare āsan suvrīḍitā rājan sātyakir idam abravīt 9 nehāsti puruṣaḥ kaś cid ya imaṃ pāpapūruṣam bhāṣamāṇam akalyāṇaṃ śīghraṃ hanyān narādhamam 10 kathaṃ ca śatadhā jihvā na te mūrdhā ca dīryate gurum ākrośataḥ kṣudrana cādharmeṇa pātyase 11 yāpyas tvam asi pārthaiś ca sarvaiś cāndhakavṛṣṇibhiḥ yat karma kaluṣaṃ kṛtvā ślāghase janasaṃsadi 12 akāryaṃ tādṛśaṃ kṛtvā punar eva guruṃ kṣipan vadhyas tvaṃ na tvayārtho 'sti muhūrtam api jīvatā 13 kas tv etad vyavased āryas tvadanyaḥ puruṣādhamaḥ nigṛhya keśeṣu vadhaṃ guror dharmātmanaḥ sataḥ 14 saptāvare tathā pūrve bāndhavās te nipātitāḥ yaśasā ca parityaktās tvāṃ prāpya kulapāṃsanam 15 uktavāṃś cāpi yat pārthaṃ bhīṣmaṃ prati nararṣabham tathānto vihitas tena svayam eva mahātmanā 16 tasyāpi tava sodaryo nihantā pāpakṛttamaḥ nānyaḥ pāñcāla putrebhyo vidyate bhuvi pāpakṛt 17 sa cāpi sṛṣṭaḥ pitrā te bhīṣmasyānta karaḥ kila śikhaṇḍī rakṣitas tena sa ca mṛtyur mahātmanaḥ 18 pāñcālāś calitā dharmāt kṣudrā mitra guru druhaḥ tvāṃ prāpya saha sodaryaṃ dhikkṛtaṃ sarvasādhubhiḥ 19 punaś ced īdṛśīṃ vācaṃ matsamīpe vadiṣyasi śiras te pātayiṣyāmi gadayā vajrakalpayā 20 sātvatenaivam ākṣiptaḥ pārṣataḥ paruṣākṣaram saṃrabdhaḥ sātyakiṃ prāha saṃkruddhaḥ prahasann iva 21 śrūyate śrūyate ceti kṣamyate ceti mādhava na cānārya śubhaṃ sādhuṃ puruṣaṃ kṣeptum arhasi 22 kṣamā praśasyate loke na tu pāpo 'rhati kṣamām kṣamāvantaṃ hi pāpātmā jito 'yam iti manyate 23 sa tvaṃ kṣudrasamācāro nīcātmā pāpaniścayaḥ ā keśāgrān nakhāgrāc ca vaktavyo vaktum icchasi 24 yaḥ sa bhūriśravāś chinne bhuje prāyagatas tvayā vāryamāṇena nihatas tataḥ pāpataraṃ nu kim 25 vyūhamāno mayā droṇo divyenāstreṇa saṃyuge visṛṣṭaśastro nihataḥ kiṃ tatra krūra duṣkṛtam 26 ayudhyamānaṃ yas tv ājau tathā prāyagataṃ munim chinnabāhuṃ parair hanyāt sātyake sa kathaṃ bhavet 27 nihatya tvāṃ yadā bhūmau sa vikrāmati vīryavān kiṃ tadā na nihaṃsy enaṃ bhūtvā puruṣasattamaḥ 28 tvayā punar anāryeṇa pūrvaṃ pārthena nirjitaḥ yadā tadā hataḥ śūraḥ saumadattiḥ pratāpavān 29 yatra yatra tu pāṇḍūnāṃ droṇo drāvayate camūm kirañ śarasahasrāṇi tatra tatra prayāmy aham 30 sa tvam evaṃvidhaṃ kṛtvā karma cāṇḍālavat svayam vaktum icchasi vaktavyaḥ kasmān māṃ paruṣāṇy atha 31 kartā tvaṃ karmaṇograsya nāhaṃ vṛṣṇikulādhama pāpānāṃ ca tvam āvāsaḥ karmaṇāṃ mā punar vada 32 joṣam āssva na māṃ bhūyo vaktum arhasy ataḥ param adharottaram etad dhi yan mā tvaṃ vaktum icchasi 33 atha vakṣyasi māṃ maurkhyād bhūyaḥ paruṣam īdṛśam gamayiṣyāmi bāṇais tvāṃ yudhi vaivasvatakṣayam 34 na caiva mūrkha dharmeṇa kevalenaiva śakyate teṣām api hy adharmeṇa ceṣṭitaṃ śṛṇu yādṛśam 35 vañcitaḥ pāṇḍavaḥ parvam adharmeṇa yudhiṣṭhiraḥ draupadī ca parikliṣṭā tathādharmeṇa sātyake 36 pravrājitā vanaṃ sarve pāṇḍavāḥ saha kṛṣṇayā sarvasvam apakṛṣṭaṃ ca tathādharmeṇa bāliśa 37 adharmeṇāpakṛṣṭaś ca madrarājaḥ parair itaḥ ito 'py adharmeṇa hato bhīṣmaḥ kurupitāmahaḥ bhūriśravā hy adharmeṇa tvayā dharmavidā hataḥ 38 evaṃ parair ācaritaṃ pāṇḍaveyaiś ca saṃyuge rakṣamāṇair jayaṃ vīrair dharmajñair api sātvata 39 durjñeyaḥ paramo dharmas tathādharmaḥ sudurvidaḥ yudhyasva kauravaiḥ sārdhaṃ mā gāḥ pitṛniveśanam 40 evamādīni vākyāni krūrāṇi paruṣāṇi ca śrāvitaḥ sātyakiḥ śrīmān ākampita ivābhavat 41 tac chrutvā krodhatāmrākṣaḥ sātyakis tv ādade gadām viniḥśvasya yathā sarpaḥ praṇidhāya rathe dhanuḥ 42 tato 'bhipatya pāñcālyaṃ saṃrambheṇedam abravīt na tvāṃ vakṣyāmi paruṣaṃ haniṣye tvāṃ vadhakṣamam 43 tam āpatantaṃ sahasā mahābalam amarṣaṇam pāñcālyāyābhisaṃkruddham antakāyāntakopamam 44 codito vāsudevena bhīmaseno mahābalaḥ avaplutya rathāt tūrṇaṃ bāhubhyāṃ samavārayat 45 dravamāṇaṃ tathā kruddhaṃ sātyakiṃ pāṇḍavo balī praskandamānam ādāya jagāma balinaṃ balāt 46 sthitvā viṣṭabhya caraṇau bhīmena śinipuṃgavaḥ nigṛhītaḥ pade ṣaṣṭhe balena balināṃ varaḥ 47 avaruhya rathāt taṃ tu hriyamāṇaṃ balīyasā uvāca ślakṣṇayā vācā sahadevo viśāṃ pate 48 asmākaṃ puruṣavyāghra mitram anyan na vidyate param andhakavṛṣṇibhyaḥ pāñcālebhyaś ca mādhava 49 tathaivāndhakavṛṣṇīnāṃ tava caiva viśeṣataḥ kṛṣṇasya ca tathāsmatto mitram anyan na vidyate 50 pāñcālānāṃ ca vārṣṇeya samudrāntāṃ vicinvatām nānyad asti paraṃ mitraṃ manyate ca yathā bhavān 51 sa bhavān īdṛśaṃ mitraṃ manyate ca yathā bhavān bhavantaś ca yathāsmākaṃ bhavatāṃ ca tathā vayam 52 sa evaṃ sarvadharmajño mitra dharmam anusmaran niyaccha manyuṃ pāñcālyāt praśāmya śinipuṃgava 53 pārṣatasya kṣama tvaṃ vai kṣamatāṃ tava pārṣataḥ vayaṃ kṣamayitāraś ca kim anyatra śamād bhavet 54 praśāmyamāne śaineye sahadevena māriṣa pāñcālarājasya sutaḥ prahasann idam abravīt 55 muñca muñca śineḥ pautraṃ bhīma yuddhamadānvitam āsādayatu mām eṣa dharādharam ivānilaḥ 56 yāvad asya śitair bāṇaiḥ saṃrambhaṃ vinayāmy aham yuddhaśraddhāṃ ca kaunteya jīvitasya ca saṃyuge 57 kiṃ nu śakyaṃ mayā kartuṃ kāryaṃ yad idam udyatam sumahat pāṇḍuputrāṇām āyānty ete hi kauravāḥ 58 atha vā phalgunaḥ sarvān vārayiṣyati saṃyuge aham apy asya mūrdhānaṃ pātayiṣyāmi sāyakaiḥ 59 manyate chinnabāhuṃ māṃ bhūriśravasam āhave utsṛjainam ahaṃ vainam eṣa māṃ vā haniṣyati 60 śṛṇvan pāñcāla vākyāni sātyakiḥ sarpavac chvasan bhīma bāhvantare sakto visphuraty aniśaṃ balī 61 tvarayā vāsudevaś ca dharmarājaś ca māriṣa yatnena mahatā vīrau vārayām āsatus tataḥ 62 nivārya parameṣvāsau krodhasaṃraktalocanau yuyutsavaḥ parān saṃkhye pratīyuḥ kṣatriyarṣabhāḥ |
The Mahabharata in Sanskrit
Book 7
Chapter 170
|
1
[स] ततः स कदनं चक्रे रिपूणां दरॊणनन्दनः युगान्ते सर्वभूतानां कालसृष्ट इवान्तकः 2 धवजद्रुमं शस्त्रशृङ्गं हतनागमहाशिलम अश्वकिंपुरुषाकीर्णं शतासन लतावृतम 3 शूलक्रव्याद संघुष्टं भूतयक्षगणाकुलम निहत्य शात्रवान भल्लैः सॊ ऽचिनॊद देहपर्वतम 4 ततॊ वेगेन महता विनद्य स नरर्षभः परतिज्ञां शरावयाम आस पुनर एव तवात्मजम 5 यस्माद युध्यन्तम आचार्यं धर्मकञ्चुकम आस्थितः मुञ्च शस्त्रम इति पराह कुन्तीपुत्रॊ युधिष्ठिरः 6 तस्मात संपश्यतस तस्य दरावयिष्यामि वाहिनीम विद्राव्य सत्यं हन्तास्मि पापं पाञ्चाल्यम एव तु 7 सर्वान एतान हनिष्यामि यदि यॊत्स्यन्ति मां रणे सत्यं ते परतिजानामि परावर्तय वानिहीम 8 तच छरुत्वा तव पुत्रस तु वाहिनीं पर्यवर्तयत सिंहनादेन महता वयपॊह्य सुमहद भयम 9 ततः समागमॊ राजन कुरुपाण्डवसेनयॊः पुनर एवाभवत तीव्रः पूर्णसागरयॊर इव 10 संरब्धा हि सथिरी भूता दरॊणपुत्रेण कौरवाः उदग्राः पाण्डुपाञ्चाला दरॊणस्य निधनेन च 11 तेषां परमहृष्टानां जयम आत्मनि पश्यताम संरब्धानां महावेगः परादुरासीद रणाजिरे 12 यथा शिलॊच्चये शैलः सागरे सागरॊ यथा परतिहन्येत राजेन्द्र तथासन कुरुपाण्डवाः 13 ततः शङ्खसहस्राणि भेरीणाम अयुतानि च अवादयन्त संहृष्टाः कुरुपाण्डवसैनिकाः 14 ततॊ निर्मथ्यमानस्य सागरस्येव निस्वनः अभवत तस्य सैन्यस्य सुमहान अद्भुतॊपमः 15 परादुश्चक्रे ततॊ दरौणिर अस्त्रं नारायणं तदा अभिसंधाय पाण्डूनां पाञ्चालानां च वाहिनीम 16 परादुरासंस ततॊ बाणा दीप्ताग्राः खे सहस्रशः पाण्डवान भक्षयिष्यन्तॊ दीप्तास्या इव पन्नगाः 17 ते दिशः खं च सैन्यं च समावृण्वन महाहवे मुहूर्ताद भास्करस्येव राजँल लॊकं गभस्तयः 18 तथापरे दयॊतमाना जयॊतींषीवाम्बरे ऽमले परादुरासन महीपाल कार्ष्णायसमया गुडाः 19 चतुर्दिशं विचित्राश च शतघ्न्यॊ ऽथ हुताशदाः चक्राणि च कषुरान्तानि मण्डलानीव भास्वतः 20 शस्त्राकृतिभिर आकीर्णम अतीव भरतर्षभ दृष्ट्वान्तरिक्षम आविग्नाः पाण्डुपाञ्चाल सृञ्जयाः 21 यथा यथा हय अयुध्यन्त पाण्डवानां महारथाः तथा तथा तद अस्त्रं वै वयवर्धत जनाधिप 22 वध्यमानास तथास्त्रेण तेन नारायणेन वै दह्यमानानलेनेव सर्वतॊ ऽभयर्दिता रणे 23 यथा हि शिशिरापाये दहेत कक्षं हुताशनः तथा तद अस्त्रं पाण्डूनां ददाह धवजिनीं परभॊ 24 आपूर्यमाणेनास्त्रेण सैन्ये कषीयति चाभिभॊ जगाम परमं तरासं धर्मपुत्रॊ युधिष्ठिरः 25 दरवमाणं तु तत सैन्यं दृष्ट्वा विगतचेतनम मध्यस्थतां च पार्थस्य धर्मपुत्रॊ ऽबरवीद इदम 26 धृष्टद्युम्न पलायस्व सह पाञ्चाल सेनया सात्यके तवं च गच्छस्व वृष्ण्यन्धकवृतॊ गृहान 27 वासुदेवॊ ऽपि धर्मात्मा करिष्यत्य आत्मनः कषमम उपदेष्टुं समर्थॊ ऽयं लॊकस्य किम उतात्मनः 28 संग्रामस तु न कर्तव्यः सर्वसैन्यान बरवीमि वः अहं हि सह सॊदर्यैः परवेक्ष्ये हव्यवाहनम 29 भीष्मद्रॊणार्णवं तीर्त्वा संग्रामं भीरु दुस्तरम अवसत्स्याम्य असलिले सगणॊ दरौणिगॊष्पदे 30 कामः संपद्यताम अस्य बीभत्सॊर आशु मां परति कल्याण वृत्त आचार्यॊ मया युधि निपातितः 31 येन बालः स सौभद्रॊ युद्धानाम अविशारदः समर्थैर बहुभिः करूरैर घातितॊ नाभिपालितः 32 येनाविब्रुवता परश्नं तथा कृष्णा सभां गता उपेक्षिता सपुत्रेण दासभावं नियच्छती 33 जिघांसुर धार्तराष्ट्रश च शरान्तेष्व अश्वेषु फल्गुनम कवचेन तथायुक्तॊ रक्षार्थं सैन्धवस्य च 34 येन बरह्मास्त्र विदुषा पाञ्चालाः सत्यजिन मुखाः कुर्वाणा मज्जये यत्नं स मूला विनिपातिताः 35 येन परव्राज्यमानाश च राज्याद वयम अधर्मतः निवार्यमाणेनास्माभिर अनुगन्तुं तद एषिताः 36 यॊ ऽसाव अत्यन्तम अस्मासु कुर्वाणः सौहृदं परम हतस तदर्थे मरणं गमिष्यामि स बान्धवः 37 एवं बरुवति कौन्तेये दाशार्हस तवरितस ततः निवार्य सैन्यं बाहुभ्याम इदं वचनम अब्रवीत 38 शीघ्रं नयस्यत शस्त्राणि वाहेभ्यश चावरॊहत एष यॊगॊ ऽतर विहितः परतिघातॊ महात्मना 39 दविपाश्वस्यन्दनेभ्यश च कषितिं सर्वे ऽवरॊहत एवम एतन न वॊ हन्याद अस्त्रं भूमौ निरायुधान 40 यथा यथा हि युध्यन्ते यॊधा हय अस्त्रबलं परति तथा तथा भवन्त्य एते कौरवा बलवत्तराः 41 निक्षेप्स्यन्ति च शस्त्राणि वाहनेभ्यॊ ऽवरुह्य ये तान नैतद अस्त्रं संग्रामे निहनिष्यति मानवान 42 ये तव एतत परतियॊत्स्यन्ति मनसापीह के चन निहनिष्यति तान सर्वान रसातलगतान अपि 43 ते वचस तस्य तत्ल्श्रुत्वा वासुदेवस्य भारत ईषुः सर्वे ऽसत्रम उत्स्रष्टुं मनॊभिः करणेन च 44 तत उत्स्रष्टुकामांस तान अस्त्राण्य आलक्ष्य पाण्डवः भीमसेनॊ ऽबरवीद राजन्न इदं संहर्षयन वचः 45 न कथं चन शस्त्राणि मॊक्तव्यानीह केन चित अहम आवारयिष्यामि दरॊणपुत्रास्त्रम आशुगैः 46 अथ वाप्य अनया गुर्व्या हेमविग्रहया रणे कालवद विचरिष्यामि दरौणेर अस्त्रं विशातयन 47 न हि मे विक्रमे तुल्यः कश चिद अस्ति पुमान इह यथैव सवितुस तुल्यं जयॊतिर अन्यन न विद्यते 48 पश्यध्वं मे दृढौ बाहू नागराजकरॊपमा समर्थौ पर्वतस्यापि शैशिरस्य निपातने 49 नागायुत समप्राणॊ हय अहम एकॊ नरेष्व इह शक्रॊ यथा परतिद्वंद्वॊ दिवि देवेषु विश्रुतः 50 अद्य पश्यत मे वीर्यं बाह्वॊः पीनांसयॊर युधि जवलमानस्य दीप्तस्य दरौणेर अस्त्रस्य वारणे 51 यदि नारायणास्त्रस्य परतियॊद्धा न विद्यते अद्यैनं परतियॊत्स्यामि पश्यत्सु कुरु पाण्डुषु 52 एवम उक्त्वा ततॊ भीमॊ दरॊणपुत्रम अरिंदमः अभ्ययान मेघघॊषेण रथेनादित्यवर्चसा 53 स एनम इषुजालेन लघुत्वाच छीघ्र विक्रमः निमेष मात्रेणासाद्य कुन्तीपुत्रॊ ऽभयवाकिरत 54 ततॊ दरौणिः परहस्यैनम उदासम अभिभाष्य च अवाकिरत परदीप्ताग्रैः शरैस तैर अभिमन्त्रितैः 55 पन्नगैर इव दीप्तास्यैर वमद्भिर अनलं रणे अवकीर्णॊ ऽभवत पार्थः सफुलिङ्गैर इव काञ्चनैः 56 तस्य रूपम अभूद राजन भीमसेनस्य संयुगे खद्यॊतैर आवृतस्येव पर्वतस्य दिनक्षये 57 तद अस्त्रं दरॊणपुत्रस्य तस्मिन परतिसमस्यति अवर्धत महाराज यथाग्निर अनिलॊद्धतः 58 विवर्धमानम आलक्ष्य तद अस्त्रं भीमविक्रमम पाण्डुसैन्यम ऋते भीमं सुमहद भयम आविशत 59 ततः शस्त्राणि ते सर्वे समुत्सृज्य महीतले अवारॊहन रथेभ्यश च हस्त्यश्वेभ्यश च सर्वशः 60 तेषु निक्षिप्तशस्त्रेषु वानहेभ्यश चयुतेषु च तद अस्त्रवीर्यं विपुलं भीम मूर्धन्य अथापतत 61 हाहाकृतानि भूतानि पाण्डवाश च विशेषतः भीमसेनम अपश्यन्त तेजसा संवृतं तदा |
1
[s] tataḥ sa kadanaṃ cakre ripūṇāṃ droṇanandanaḥ yugānte sarvabhūtānāṃ kālasṛṣṭa ivāntakaḥ 2 dhvajadrumaṃ śastraśṛṅgaṃ hatanāgamahāśilam aśvakiṃpuruṣākīrṇaṃ śatāsana latāvṛtam 3 śūlakravyāda saṃghuṣṭaṃ bhūtayakṣagaṇākulam nihatya śātravān bhallaiḥ so 'cinod dehaparvatam 4 tato vegena mahatā vinadya sa nararṣabhaḥ pratijñāṃ śrāvayām āsa punar eva tavātmajam 5 yasmād yudhyantam ācāryaṃ dharmakañcukam āsthitaḥ muñca śastram iti prāha kuntīputro yudhiṣṭhiraḥ 6 tasmāt saṃpaśyatas tasya drāvayiṣyāmi vāhinīm vidrāvya satyaṃ hantāsmi pāpaṃ pāñcālyam eva tu 7 sarvān etān haniṣyāmi yadi yotsyanti māṃ raṇe satyaṃ te pratijānāmi parāvartaya vānihīm 8 tac chrutvā tava putras tu vāhinīṃ paryavartayat siṃhanādena mahatā vyapohya sumahad bhayam 9 tataḥ samāgamo rājan kurupāṇḍavasenayoḥ punar evābhavat tīvraḥ pūrṇasāgarayor iva 10 saṃrabdhā hi sthirī bhūtā droṇaputreṇa kauravāḥ udagrāḥ pāṇḍupāñcālā droṇasya nidhanena ca 11 teṣāṃ paramahṛṣṭānāṃ jayam ātmani paśyatām saṃrabdhānāṃ mahāvegaḥ prādurāsīd raṇājire 12 yathā śiloccaye śailaḥ sāgare sāgaro yathā pratihanyeta rājendra tathāsan kurupāṇḍavāḥ 13 tataḥ śaṅkhasahasrāṇi bherīṇām ayutāni ca avādayanta saṃhṛṣṭāḥ kurupāṇḍavasainikāḥ 14 tato nirmathyamānasya sāgarasyeva nisvanaḥ abhavat tasya sainyasya sumahān adbhutopamaḥ 15 prāduścakre tato drauṇir astraṃ nārāyaṇaṃ tadā abhisaṃdhāya pāṇḍūnāṃ pāñcālānāṃ ca vāhinīm 16 prādurāsaṃs tato bāṇā dīptāgrāḥ khe sahasraśaḥ pāṇḍavān bhakṣayiṣyanto dīptāsyā iva pannagāḥ 17 te diśaḥ khaṃ ca sainyaṃ ca samāvṛṇvan mahāhave muhūrtād bhāskarasyeva rājaṁl lokaṃ gabhastayaḥ 18 tathāpare dyotamānā jyotīṃṣīvāmbare 'male prādurāsan mahīpāla kārṣṇāyasamayā guḍāḥ 19 caturdiśaṃ vicitrāś ca śataghnyo 'tha hutāśadāḥ cakrāṇi ca kṣurāntāni maṇḍalānīva bhāsvataḥ 20 śastrākṛtibhir ākīrṇam atīva bharatarṣabha dṛṣṭvāntarikṣam āvignāḥ pāṇḍupāñcāla sṛñjayāḥ 21 yathā yathā hy ayudhyanta pāṇḍavānāṃ mahārathāḥ tathā tathā tad astraṃ vai vyavardhata janādhipa 22 vadhyamānās tathāstreṇa tena nārāyaṇena vai dahyamānānaleneva sarvato 'bhyarditā raṇe 23 yathā hi śiśirāpāye dahet kakṣaṃ hutāśanaḥ tathā tad astraṃ pāṇḍūnāṃ dadāha dhvajinīṃ prabho 24 āpūryamāṇenāstreṇa sainye kṣīyati cābhibho jagāma paramaṃ trāsaṃ dharmaputro yudhiṣṭhiraḥ 25 dravamāṇaṃ tu tat sainyaṃ dṛṣṭvā vigatacetanam madhyasthatāṃ ca pārthasya dharmaputro 'bravīd idam 26 dhṛṣṭadyumna palāyasva saha pāñcāla senayā sātyake tvaṃ ca gacchasva vṛṣṇyandhakavṛto gṛhān 27 vāsudevo 'pi dharmātmā kariṣyaty ātmanaḥ kṣamam upadeṣṭuṃ samartho 'yaṃ lokasya kim utātmanaḥ 28 saṃgrāmas tu na kartavyaḥ sarvasainyān bravīmi vaḥ ahaṃ hi saha sodaryaiḥ pravekṣye havyavāhanam 29 bhīṣmadroṇārṇavaṃ tīrtvā saṃgrāmaṃ bhīru dustaram avasatsyāmy asalile sagaṇo drauṇigoṣpade 30 kāmaḥ saṃpadyatām asya bībhatsor āśu māṃ prati kalyāṇa vṛtta ācāryo mayā yudhi nipātitaḥ 31 yena bālaḥ sa saubhadro yuddhānām aviśāradaḥ samarthair bahubhiḥ krūrair ghātito nābhipālitaḥ 32 yenāvibruvatā praśnaṃ tathā kṛṣṇā sabhāṃ gatā upekṣitā saputreṇa dāsabhāvaṃ niyacchatī 33 jighāṃsur dhārtarāṣṭraś ca śrānteṣv aśveṣu phalgunam kavacena tathāyukto rakṣārthaṃ saindhavasya ca 34 yena brahmāstra viduṣā pāñcālāḥ satyajin mukhāḥ kurvāṇā majjaye yatnaṃ sa mūlā vinipātitāḥ 35 yena pravrājyamānāś ca rājyād vayam adharmataḥ nivāryamāṇenāsmābhir anugantuṃ tad eṣitāḥ 36 yo 'sāv atyantam asmāsu kurvāṇaḥ sauhṛdaṃ param hatas tadarthe maraṇaṃ gamiṣyāmi sa bāndhavaḥ 37 evaṃ bruvati kaunteye dāśārhas tvaritas tataḥ nivārya sainyaṃ bāhubhyām idaṃ vacanam abravīt 38 śīghraṃ nyasyata śastrāṇi vāhebhyaś cāvarohata eṣa yogo 'tra vihitaḥ pratighāto mahātmanā 39 dvipāśvasyandanebhyaś ca kṣitiṃ sarve 'varohata evam etan na vo hanyād astraṃ bhūmau nirāyudhān 40 yathā yathā hi yudhyante yodhā hy astrabalaṃ prati tathā tathā bhavanty ete kauravā balavattarāḥ 41 nikṣepsyanti ca śastrāṇi vāhanebhyo 'varuhya ye tān naitad astraṃ saṃgrāme nihaniṣyati mānavān 42 ye tv etat pratiyotsyanti manasāpīha ke cana nihaniṣyati tān sarvān rasātalagatān api 43 te vacas tasya tatlśrutvā vāsudevasya bhārata īṣuḥ sarve 'stram utsraṣṭuṃ manobhiḥ karaṇena ca 44 tata utsraṣṭukāmāṃs tān astrāṇy ālakṣya pāṇḍavaḥ bhīmaseno 'bravīd rājann idaṃ saṃharṣayan vacaḥ 45 na kathaṃ cana śastrāṇi moktavyānīha kena cit aham āvārayiṣyāmi droṇaputrāstram āśugaiḥ 46 atha vāpy anayā gurvyā hemavigrahayā raṇe kālavad vicariṣyāmi drauṇer astraṃ viśātayan 47 na hi me vikrame tulyaḥ kaś cid asti pumān iha yathaiva savitus tulyaṃ jyotir anyan na vidyate 48 paśyadhvaṃ me dṛḍhau bāhū nāgarājakaropamā samarthau parvatasyāpi śaiśirasya nipātane 49 nāgāyuta samaprāṇo hy aham eko nareṣv iha śakro yathā pratidvaṃdvo divi deveṣu viśrutaḥ 50 adya paśyata me vīryaṃ bāhvoḥ pīnāṃsayor yudhi jvalamānasya dīptasya drauṇer astrasya vāraṇe 51 yadi nārāyaṇāstrasya pratiyoddhā na vidyate adyainaṃ pratiyotsyāmi paśyatsu kuru pāṇḍuṣu 52 evam uktvā tato bhīmo droṇaputram ariṃdamaḥ abhyayān meghaghoṣeṇa rathenādityavarcasā 53 sa enam iṣujālena laghutvāc chīghra vikramaḥ nimeṣa mātreṇāsādya kuntīputro 'bhyavākirat 54 tato drauṇiḥ prahasyainam udāsam abhibhāṣya ca avākirat pradīptāgraiḥ śarais tair abhimantritaiḥ 55 pannagair iva dīptāsyair vamadbhir analaṃ raṇe avakīrṇo 'bhavat pārthaḥ sphuliṅgair iva kāñcanaiḥ 56 tasya rūpam abhūd rājan bhīmasenasya saṃyuge khadyotair āvṛtasyeva parvatasya dinakṣaye 57 tad astraṃ droṇaputrasya tasmin pratisamasyati avardhata mahārāja yathāgnir aniloddhataḥ 58 vivardhamānam ālakṣya tad astraṃ bhīmavikramam pāṇḍusainyam ṛte bhīmaṃ sumahad bhayam āviśat 59 tataḥ śastrāṇi te sarve samutsṛjya mahītale avārohan rathebhyaś ca hastyaśvebhyaś ca sarvaśaḥ 60 teṣu nikṣiptaśastreṣu vānahebhyaś cyuteṣu ca tad astravīryaṃ vipulaṃ bhīma mūrdhany athāpatat 61 hāhākṛtāni bhūtāni pāṇḍavāś ca viśeṣataḥ bhīmasenam apaśyanta tejasā saṃvṛtaṃ tadā |
The Mahabharata in Sanskrit
Book 7
Chapter 171
|
1
[स] भीमसेनं समाकीर्णं दृष्ट्वास्त्रेण धनंजयः तेजसः परतिघातार्थं वारुणेन समावृणॊत 2 नालक्षयत तं कश चिद वारुणास्त्त्रेण संवृतम अर्जुनस्य लघुत्वाच च संवृतत्वाच च तेजसः 3 साश्वसूत रथॊ भीमॊ दरॊणपुत्रास्त्र संवृतः अग्नाव अग्निर इव नयस्तॊ जवालामाली सुदुर्दृशः 4 यथा रात्रिक्षये राजञ जयॊतींष्य अस्तगिरिं परति समापेतुस तथा बाणा भीमसेनरथं परति 5 स हि भीमॊ रथश चास्य हयाः सूतश च मारिष संवृता दरॊणपुत्रेण पावकान्तर गताभवन 6 यथा दग्ध्वा जगत कृत्स्नं समये स चराचरम गच्छेद अग्निर विभॊर आस्यं तथास्त्रं भीमम आवृणॊत 7 सूर्यम अग्निः परविष्टः सयाद यथा चाग्निं दिवाकरः तथा परविष्टं तत तेजॊ न पराज्ञायत किं चन 8 विकीर्णम अस्त्रं तद दृष्ट्वा तथा भीम रथं परति सर्वसैन्यानि पाण्डूनां नयस्तशस्त्राण्य अचेतसः 9 उदीर्यमाणं दरौणिं च निष्प्रति दवंद्वम आहवे युधिष्ठिरपुरॊगांश च विमुखांस तान महारथान 10 अर्जुनॊ वासुदेवश च तवरमाणौ महाद्युती अवप्लुत्य रथाद वीरौ भीमम आद्रवतां ततः 11 ततस तद दरॊणपुत्रस्य तेजॊ ऽसत्रबलसंभवम विगाह्य तौ सुबलिनौ माययाविशतां तदा 12 नयस्तशस्त्रौ ततस तौ तु नादहद अस्त्रजॊ ऽनलः वारुणास्त्र परयॊगाच च वीर्यवत्त्वाच च कृष्णयॊः 13 ततश चकृषतुर भीमं तस्य सर्वायुधानि च नारायणास्त्र शान्त्य अर्थं नरनारायणौ बलात 14 अपकृष्यमाणः कौन्तेयॊ नदत्य एव महारथः वर्धते चैव तद घॊरं दरौणेर अस्त्रं सुदुर्जयम 15 तम अब्रवीद वासुदेवः किम इदं पाण्डुनन्दन वार्यमाणॊ ऽपि कौन्तेय यद युद्धान न निवर्तसे 16 यदि युद्धेन जेयाः सयुर इमे कौरवनन्दनाः वयम अप्य अत्र युध्येम तथा चेमे नरर्षभाः 17 रथेभ्यस तव अवतीर्णास तु सर्व एव सम तावकाः तस्मात तवम अपि कौन्तेय रथात तूर्णम अपाक्रम 18 एवम उक्त्वा ततः कृष्णॊ रथाद भूमिम अपातयत निःश्वसन्तं यथा नागं करॊधसंरक्तलॊचनम 19 यदापकृष्टः स रथान नयासितश चायुधं भुवि ततॊ नारायणास्त्रं तत परशान्तं शत्रुतापनम 20 तस्मिन परशान्ते विधिना तदा तेजसि दुःसहे बभूवुर विमलाः सर्वा दिशः परदिश एव च 21 परववुश च शिवा वाताः परशान्ता मृगपक्षिणः वाहनानि च हृष्टानि यॊधाश च मनुजेश्वर 22 वयपॊढे च ततॊ घॊरे तस्मिंस तेजसि भारत बभौ भीमॊ निशापाये धीमान सूर्य इवॊदितः 23 हतशेषं बलं तत्र पाण्डवानाम अतिष्ठत अस्त्रव्युपरमाद धृष्टं तव पुत्र जिघांसया 24 वयवस्थिते बले तस्मिन अस्त्रे परतिहते तथा दुर्यॊधनॊ महाराज दरॊणपुत्रम अथाब्रवीत 25 अश्वत्थामन पुनः शीघ्रम अस्त्रम एतत परयॊजय वयवस्थिता हि पाञ्चालाः पुनर एव जयैषिणः 26 अश्वत्थामा तथॊक्तस तु तव पुत्रेण मारिष सुदीनम अभिनिःश्वस्य राजानम इदम अब्रवीत 27 नैतद आवर्तते राजन्न अस्त्रं दविर नॊपपद्यते आवर्तयन निहन्त्य एतत परयॊक्तारं न संशयः 28 एष चास्त्रप्रतीघातं वासुदेवः परयुक्तवान अन्यथा विहितः संख्ये वधः शत्रॊर जनाधिप 29 पराजयॊ वा मृत्युर वा शरेयॊ मृत्युर न निर्जयः निर्जिताश चारयॊ हय एते शस्त्रॊत्सर्गान मृतॊपमाः 30 [दुर] आचार्य पुत्र यद्य एतद दविर अस्त्रं न परयुज्यते अन्यैर गुरुघ्ना वध्यन्ताम अस्त्रैर अस्त्राविदां वर 31 तवयि हय अस्त्राणि दिव्यानि यथा सयुस तर्यम्बके तथा इच्छतॊ न हि ते मुच्येत करुद्धस्यापि पुरंदरः 32 [धृ] तस्मिन्न अस्त्रे परतिहते दरॊणे चॊपधिना हते तथा दुर्यॊधनेनॊक्तॊ दरौणिः किम अकरॊत पुनः 33 दृष्ट्वा पार्थांश च संग्रामे युद्धाय समवस्थितान नारायणास्त्र निर्मुक्तांश चरतः पृतना मुखे 34 [स] जानन पितुः स निधनं सिंहलाङ्गूल केतनः सक्रॊधॊ भयम उत्सृज्य अभिदुद्राव पार्षतम 35 अभिद्रुत्य च विंशत्या कषुद्रकाणां नरर्षभः पञ्चभिश चातिवेगेन विव्याध पुरुषर्षभम 36 धृष्टद्युम्नस ततॊ राजञ जवलन्तम इव पावकम दरॊणपुत्रं तरिषष्ट्या तु राजन विव्याध पत्रिणाम 37 सारथिं चास्य विंशत्या सवर्णपुङ्खैः शिलाशितैः हयांश च चतुरॊ ऽविध्यच चतुर्भिर निशितैः शरैः 38 विद्ध्वा विद्ध्वानदद दरौणिः कम्पयन्न इव मेदिनीम आददत सर्वलॊकस्य पराणान इव महारणे 39 पार्षतस तु बली राजन कृतास्त्रः कृतनिश्रमः दरौणिम एवाभिदुद्राव कृत्वा मृत्युं निवर्तनम 40 ततॊ बाणमयं वर्षं दरॊणपुत्रस्य मूर्धनि अवासृजद अमेयात्मा पाञ्चाल्यॊ रथिनां वरः 41 तं दरौणिः समरे करुद्धश छादयाम आस पत्रिभिः विव्याध चैनं दशभिः पितुर वधम अनुस्मरन 42 दवाभ्यां च सुविकृष्टाभ्यां कषुराभ्यां धवजकार्मुके छित्त्वा पाञ्चालराजस्य दरौणिर अन्यैः समार्दयत 43 वयश्व सूत रथं चैनं दरौणिश चक्रे महाहवे तस्य चानुचरान सर्वान करुद्धः पराच्छादयच छरैः 44 परद्रुद्राव ततः सैन्यं पाञ्चालानां विशां पते संभ्रान्तरूपम आर्तं च शरवर्ष परिक्षतम 45 दृष्ट्वा च विमुखान यॊधान धृष्टद्युम्नं च पीडितम शैनेयॊ ऽचॊदयत तूर्णं रणं दरौणिरथं परति 46 अष्टभिर निशितैश चैव सॊ ऽशवत्थामानम आर्दयत विंशत्या पुनर आहत्य नानारूपैर अमर्षणम विव्याध च तथा सूतं चतुर्भिश चतुरॊ हयान 47 सॊ ऽतिविद्धॊ महेष्वासॊ नाना लिङ्गैर अमर्षणः युयुधानेन वै दरौणिः परहसन वाक्यम अब्रवीत 48 शैनेयाभ्यवपत्तिं ते जानाम्य आचार्य घातिनः न तव एनं तरास्यसि मया गरस्तम आत्मानम एव च 49 एवम उक्त्वार्क रश्म्याभं सुपर्वाणं शरॊत्तमम वयसृजत सात्वते दरौणिर वज्रं वृत्रे यथा हरिः 50 स तं निर्भिद्य तेनास्तः सायकः स शरावरम विवेश वसुधां भित्त्वा शवसन बिलम इवॊरगः 51 स भिन्नकवचः शूरस तॊत्त्रार्दित इव दविपः विमुच्य स शरं चापं भूरि वरणपरिस्रवः 52 सीदन रुधिरसिक्तश च रथॊपस्थ उपाविशत सूतेनापहृतस तूर्णं दरॊणपुत्राद रथान्तरम 53 अथान्येन सुपुङ्खेन शरेण नतपर्वणा आजघान भरुवॊर मध्ये धृष्टद्युम्नं परंतपः 54 स पूर्वम अतिविद्धश च भृशं पश्चाच च पीडितः ससाद युधि पाञ्चाल्यॊ वयपाश्रयत च धवजम 55 तं मत्तम इव सिंहेन राजन कुञ्जरम अर्दितम जवेनाभ्यद्रवञ शूराः पञ्च पाण्डवतॊ रथाः 56 किरीटी भीमसेनश च वृद्धक्षत्रश च पौरवः युवराजश च चेदीनां मालवश च सुदर्शनः पञ्चभिः पञ्चभिर बाणैर अभ्यघ्नन सर्वतः समम 57 आशीविषाभैर विशद्भिः पञ्चभिश चापि ताञ शरैः चिच्छेद युगपद दरौणिः पञ्चविंशतिसायकान 58 सप्तभिश च शितैर बाणैः पौरवं दरौणिर आर्दयत मालवं तरिभिर एकेन पार्थं षड्भिर वृकॊदरम 59 ततस ते विव्यधुः सर्वे दरौणिं राजन महारथाः युगपच च पृथक चैव रुक्मपुङ्खैः शिलाशितैः 60 युवराजस तु विंशत्या दरौणिं विव्याध पत्रिणाम पार्थश च पुनर अष्टाभिस तथा सर्वे तरिभिस तरिभिः 61 ततॊ ऽरजुनं षड्भिर अथाजघान; दरौणायनिर दशभिर वासुदेवम भीमं दशार्धैर युवराजं चतुर्भिर; दवाभ्यां छित्त्वा कार्मुकं च धवजं च पुनः पार्थं शरवर्षेण विद्ध्वा; दरौणिर घॊरं सिंहनादं ननाद 62 तस्यास्यतः सुनिशितान पीतधारान; दरौणेः शरान पृष्ठतश चाग्रतश च धरा वियद दयौः परदिशॊ दिशश च; छन्ना बाणैर अभवन घॊररूपैः 63 आसीनस्य सवरथं तूग्र तेजाः; सुदर्शनस्येन्द्र केतुप्रकाशौ भुजौ शिरश चेन्द्र समानवीर्यस; तरिभिः शरैर युगपत संचकर्त 64 स पौरवं रथशक्त्या निहत्य; छित्त्वा रथं तिलशश चापि बाणैः छित्त्वास्य बाहू वरचन्दनाक्तौ; भल्लेन कायाच छिर उच्चकर्त 65 युवानम इन्दीवरदाम वर्णं; चेदिप्रियं युवराजं परहस्य बाणैस तवरावाञ जवलिताग्निकल्पैर; विद्ध्वा परादान मृत्यवे साश्वसूतम 66 तान निहत्य रणे वीरॊ दरॊणपुत्रॊ युधां पतिः दध्मौ परमुदितः शङ्खं बृहन्तम अपराजितः 67 ततः सर्वे च पाञ्चाला भीमसेनश च पाण्डवः धृष्टद्युम्न रथं भीतास तयक्त्वा संप्राद्रवन दिशः 68 तान परभग्नांस तथा दरौणिः पृष्ठतॊ विकिरञ शरैः अभ्यवर्तत वेगेन कालवत पाण्डुवाहिनीम 69 ते वध्यमानाः समरे दरॊणपुत्रेण कषत्रियाः दरॊणपुत्रं भयाद राजन दिक्षु सर्वासु मेनिरे |
1
[s] bhīmasenaṃ samākīrṇaṃ dṛṣṭvāstreṇa dhanaṃjayaḥ tejasaḥ pratighātārthaṃ vāruṇena samāvṛṇot 2 nālakṣayata taṃ kaś cid vāruṇāsttreṇa saṃvṛtam arjunasya laghutvāc ca saṃvṛtatvāc ca tejasaḥ 3 sāśvasūta ratho bhīmo droṇaputrāstra saṃvṛtaḥ agnāv agnir iva nyasto jvālāmālī sudurdṛśaḥ 4 yathā rātrikṣaye rājañ jyotīṃṣy astagiriṃ prati samāpetus tathā bāṇā bhīmasenarathaṃ prati 5 sa hi bhīmo rathaś cāsya hayāḥ sūtaś ca māriṣa saṃvṛtā droṇaputreṇa pāvakāntar gatābhavan 6 yathā dagdhvā jagat kṛtsnaṃ samaye sa carācaram gacched agnir vibhor āsyaṃ tathāstraṃ bhīmam āvṛṇot 7 sūryam agniḥ praviṣṭaḥ syād yathā cāgniṃ divākaraḥ tathā praviṣṭaṃ tat tejo na prājñāyata kiṃ cana 8 vikīrṇam astraṃ tad dṛṣṭvā tathā bhīma rathaṃ prati sarvasainyāni pāṇḍūnāṃ nyastaśastrāṇy acetasaḥ 9 udīryamāṇaṃ drauṇiṃ ca niṣprati dvaṃdvam āhave yudhiṣṭhirapurogāṃś ca vimukhāṃs tān mahārathān 10 arjuno vāsudevaś ca tvaramāṇau mahādyutī avaplutya rathād vīrau bhīmam ādravatāṃ tataḥ 11 tatas tad droṇaputrasya tejo 'strabalasaṃbhavam vigāhya tau subalinau māyayāviśatāṃ tadā 12 nyastaśastrau tatas tau tu nādahad astrajo 'nalaḥ vāruṇāstra prayogāc ca vīryavattvāc ca kṛṣṇayoḥ 13 tataś cakṛṣatur bhīmaṃ tasya sarvāyudhāni ca nārāyaṇāstra śānty arthaṃ naranārāyaṇau balāt 14 apakṛṣyamāṇaḥ kaunteyo nadaty eva mahārathaḥ vardhate caiva tad ghoraṃ drauṇer astraṃ sudurjayam 15 tam abravīd vāsudevaḥ kim idaṃ pāṇḍunandana vāryamāṇo 'pi kaunteya yad yuddhān na nivartase 16 yadi yuddhena jeyāḥ syur ime kauravanandanāḥ vayam apy atra yudhyema tathā ceme nararṣabhāḥ 17 rathebhyas tv avatīrṇās tu sarva eva sma tāvakāḥ tasmāt tvam api kaunteya rathāt tūrṇam apākrama 18 evam uktvā tataḥ kṛṣṇo rathād bhūmim apātayat niḥśvasantaṃ yathā nāgaṃ krodhasaṃraktalocanam 19 yadāpakṛṣṭaḥ sa rathān nyāsitaś cāyudhaṃ bhuvi tato nārāyaṇāstraṃ tat praśāntaṃ śatrutāpanam 20 tasmin praśānte vidhinā tadā tejasi duḥsahe babhūvur vimalāḥ sarvā diśaḥ pradiśa eva ca 21 pravavuś ca śivā vātāḥ praśāntā mṛgapakṣiṇaḥ vāhanāni ca hṛṣṭāni yodhāś ca manujeśvara 22 vyapoḍhe ca tato ghore tasmiṃs tejasi bhārata babhau bhīmo niśāpāye dhīmān sūrya ivoditaḥ 23 hataśeṣaṃ balaṃ tatra pāṇḍavānām atiṣṭhata astravyuparamād dhṛṣṭaṃ tava putra jighāṃsayā 24 vyavasthite bale tasmin astre pratihate tathā duryodhano mahārāja droṇaputram athābravīt 25 aśvatthāman punaḥ śīghram astram etat prayojaya vyavasthitā hi pāñcālāḥ punar eva jayaiṣiṇaḥ 26 aśvatthāmā tathoktas tu tava putreṇa māriṣa sudīnam abhiniḥśvasya rājānam idam abravīt 27 naitad āvartate rājann astraṃ dvir nopapadyate āvartayan nihanty etat prayoktāraṃ na saṃśayaḥ 28 eṣa cāstrapratīghātaṃ vāsudevaḥ prayuktavān anyathā vihitaḥ saṃkhye vadhaḥ śatror janādhipa 29 parājayo vā mṛtyur vā śreyo mṛtyur na nirjayaḥ nirjitāś cārayo hy ete śastrotsargān mṛtopamāḥ 30 [dur] ācārya putra yady etad dvir astraṃ na prayujyate anyair gurughnā vadhyantām astrair astrāvidāṃ vara 31 tvayi hy astrāṇi divyāni yathā syus tryambake tathā icchato na hi te mucyet kruddhasyāpi puraṃdaraḥ 32 [dhṛ] tasminn astre pratihate droṇe copadhinā hate tathā duryodhanenokto drauṇiḥ kim akarot punaḥ 33 dṛṣṭvā pārthāṃś ca saṃgrāme yuddhāya samavasthitān nārāyaṇāstra nirmuktāṃś carataḥ pṛtanā mukhe 34 [s] jānan pituḥ sa nidhanaṃ siṃhalāṅgūla ketanaḥ sakrodho bhayam utsṛjya abhidudrāva pārṣatam 35 abhidrutya ca viṃśatyā kṣudrakāṇāṃ nararṣabhaḥ pañcabhiś cātivegena vivyādha puruṣarṣabham 36 dhṛṣṭadyumnas tato rājañ jvalantam iva pāvakam droṇaputraṃ triṣaṣṭyā tu rājan vivyādha patriṇām 37 sārathiṃ cāsya viṃśatyā svarṇapuṅkhaiḥ śilāśitaiḥ hayāṃś ca caturo 'vidhyac caturbhir niśitaiḥ śaraiḥ 38 viddhvā viddhvānadad drauṇiḥ kampayann iva medinīm ādadat sarvalokasya prāṇān iva mahāraṇe 39 pārṣatas tu balī rājan kṛtāstraḥ kṛtaniśramaḥ drauṇim evābhidudrāva kṛtvā mṛtyuṃ nivartanam 40 tato bāṇamayaṃ varṣaṃ droṇaputrasya mūrdhani avāsṛjad ameyātmā pāñcālyo rathināṃ varaḥ 41 taṃ drauṇiḥ samare kruddhaś chādayām āsa patribhiḥ vivyādha cainaṃ daśabhiḥ pitur vadham anusmaran 42 dvābhyāṃ ca suvikṛṣṭābhyāṃ kṣurābhyāṃ dhvajakārmuke chittvā pāñcālarājasya drauṇir anyaiḥ samārdayat 43 vyaśva sūta rathaṃ cainaṃ drauṇiś cakre mahāhave tasya cānucarān sarvān kruddhaḥ prācchādayac charaiḥ 44 pradrudrāva tataḥ sainyaṃ pāñcālānāṃ viśāṃ pate saṃbhrāntarūpam ārtaṃ ca śaravarṣa parikṣatam 45 dṛṣṭvā ca vimukhān yodhān dhṛṣṭadyumnaṃ ca pīḍitam śaineyo 'codayat tūrṇaṃ raṇaṃ drauṇirathaṃ prati 46 aṣṭabhir niśitaiś caiva so 'śvatthāmānam ārdayat viṃśatyā punar āhatya nānārūpair amarṣaṇam vivyādha ca tathā sūtaṃ caturbhiś caturo hayān 47 so 'tividdho maheṣvāso nānā liṅgair amarṣaṇaḥ yuyudhānena vai drauṇiḥ prahasan vākyam abravīt 48 śaineyābhyavapattiṃ te jānāmy ācārya ghātinaḥ na tv enaṃ trāsyasi mayā grastam ātmānam eva ca 49 evam uktvārka raśmyābhaṃ suparvāṇaṃ śarottamam vyasṛjat sātvate drauṇir vajraṃ vṛtre yathā hariḥ 50 sa taṃ nirbhidya tenāstaḥ sāyakaḥ sa śarāvaram viveśa vasudhāṃ bhittvā śvasan bilam ivoragaḥ 51 sa bhinnakavacaḥ śūras tottrārdita iva dvipaḥ vimucya sa śaraṃ cāpaṃ bhūri vraṇaparisravaḥ 52 sīdan rudhirasiktaś ca rathopastha upāviśat sūtenāpahṛtas tūrṇaṃ droṇaputrād rathāntaram 53 athānyena supuṅkhena śareṇa nataparvaṇā ājaghāna bhruvor madhye dhṛṣṭadyumnaṃ paraṃtapaḥ 54 sa pūrvam atividdhaś ca bhṛśaṃ paścāc ca pīḍitaḥ sasāda yudhi pāñcālyo vyapāśrayata ca dhvajam 55 taṃ mattam iva siṃhena rājan kuñjaram arditam javenābhyadravañ śūrāḥ pañca pāṇḍavato rathāḥ 56 kirīṭī bhīmasenaś ca vṛddhakṣatraś ca pauravaḥ yuvarājaś ca cedīnāṃ mālavaś ca sudarśanaḥ pañcabhiḥ pañcabhir bāṇair abhyaghnan sarvataḥ samam 57 āśīviṣābhair viśadbhiḥ pañcabhiś cāpi tāñ śaraiḥ ciccheda yugapad drauṇiḥ pañcaviṃśatisāyakān 58 saptabhiś ca śitair bāṇaiḥ pauravaṃ drauṇir ārdayat mālavaṃ tribhir ekena pārthaṃ ṣaḍbhir vṛkodaram 59 tatas te vivyadhuḥ sarve drauṇiṃ rājan mahārathāḥ yugapac ca pṛthak caiva rukmapuṅkhaiḥ śilāśitaiḥ 60 yuvarājas tu viṃśatyā drauṇiṃ vivyādha patriṇām pārthaś ca punar aṣṭābhis tathā sarve tribhis tribhiḥ 61 tato 'rjunaṃ ṣaḍbhir athājaghāna; drauṇāyanir daśabhir vāsudevam bhīmaṃ daśārdhair yuvarājaṃ caturbhir; dvābhyāṃ chittvā kārmukaṃ ca dhvajaṃ ca punaḥ pārthaṃ śaravarṣeṇa viddhvā; drauṇir ghoraṃ siṃhanādaṃ nanāda 62 tasyāsyataḥ suniśitān pītadhārān; drauṇeḥ śarān pṛṣṭhataś cāgrataś ca dharā viyad dyauḥ pradiśo diśaś ca; channā bāṇair abhavan ghorarūpaiḥ 63 āsīnasya svarathaṃ tūgra tejāḥ; sudarśanasyendra ketuprakāśau bhujau śiraś cendra samānavīryas; tribhiḥ śarair yugapat saṃcakarta 64 sa pauravaṃ rathaśaktyā nihatya; chittvā rathaṃ tilaśaś cāpi bāṇaiḥ chittvāsya bāhū varacandanāktau; bhallena kāyāc chira uccakarta 65 yuvānam indīvaradāma varṇaṃ; cedipriyaṃ yuvarājaṃ prahasya bāṇais tvarāvāñ jvalitāgnikalpair; viddhvā prādān mṛtyave sāśvasūtam 66 tān nihatya raṇe vīro droṇaputro yudhāṃ patiḥ dadhmau pramuditaḥ śaṅkhaṃ bṛhantam aparājitaḥ 67 tataḥ sarve ca pāñcālā bhīmasenaś ca pāṇḍavaḥ dhṛṣṭadyumna rathaṃ bhītās tyaktvā saṃprādravan diśaḥ 68 tān prabhagnāṃs tathā drauṇiḥ pṛṣṭhato vikirañ śaraiḥ abhyavartata vegena kālavat pāṇḍuvāhinīm 69 te vadhyamānāḥ samare droṇaputreṇa kṣatriyāḥ droṇaputraṃ bhayād rājan dikṣu sarvāsu menire |
The Mahabharata in Sanskrit
Book 7
Chapter 172
|
1
[स] तत परभग्नं बलं दृष्ट्वा कुन्तीपुत्रॊ धनंजयः नयवारयद अमेयात्मा दरॊणपुत्र वधेप्सया 2 ततस ते सैनिका राजन नैव तत्रावतस्थिरे संस्थाप्यमाना यत्नेन गॊविन्देनार्जुनेन च 3 एक एव तु बीभत्सुः सॊमकावयवैः सह मत्स्यैर अन्यैश च संधाय कौरवैः संन्यवर्तत 4 ततॊ दरुतम अतिक्रम्य सिंहलाङ्गूल केतनम सव्यसाची महेष्वासम अश्वत्थामानम अब्रवीत 5 या शक्तिर यच च ते वीर्यं यज जञानं यच च पौरुषम धार्तराष्ट्रेषु या परीतिः परद्वेषॊ ऽसमासु यश च ते यच च भूयॊ ऽसति तेजस तत्परमं मम दर्शय 6 स एव दरॊण हन्ता ते दर्पं भेत्स्यति पार्षतः कालानलसमप्रख्यॊ दविषताम अन्तकॊ युधि समासादय पाञ्चाल्यं मां चापि सह केशवम 7 [धृ] आचार्य पुत्रॊ मानार्हॊ बलवांश चापि संजय परीतिर धनंजये चास्य परियश चापि स वासवेः 8 न भूतपूर्वं बीभत्सॊर वाक्यं परुषम ईदृशम अथ कस्मात स कौन्तेयः सखायं रूक्षम अब्रवीत 9 [स] युवराजे हते चैव वृद्धक्षत्रे च पौरवे इष्वस्त्रविधिसंपन्ने मालवे च सुदर्शने 10 धृष्टद्युम्ने सात्यकौ च भीमे चापि पराजिते युधिष्ठिरस्य तैर वाक्यैर मर्मण्य अपि च घट्टिते 11 अन्तर भेदे च संजाते दुःखं संस्मृत्य च परभॊ अभूतपूर्वॊ बीभत्सॊर दुःखान मन्युर अजायत 12 तस्माद अनर्हम अश्लीलम अप्रियं दरौणिम उक्तवान मान्यम आचार्य तनयं रूक्षं कापुरुषॊ यथा 13 एवम उक्तः शवसन करॊधान महेष्वासतमॊ नृप पार्थेन परुषं वाक्यं सर्वमर्म घनया गिरा दरौणिश चुकॊप पार्थाय कृष्णाय च विशेषतः 14 स तु यत्तॊ रथे सथित्वा वार्य उपस्पृश्य वीर्यवान देवैर अपि सुदुर्धर्षम अस्त्रम आग्नेयम आददे 15 दृश्याद दृश्यान अरिगणान उद्दिश्याचार्यनन्दनः सॊ ऽभिमन्त्र्य शरं दीप्तं विधूमम इव पावकम सर्वतः करॊधम आविश्य चिक्षेप परवीरहा 16 ततस तुमुलम आकाशे शरवर्णम अजायत ववुश च शिशिरा वाताः सूर्यॊ नैव तताप च 17 चुक्रुशुर दानवाश चापि दिक्षु सर्वासु भैरवम रुधिरं चापि वर्षन्तॊ विनेदुस तॊयदाम्बरे 18 पक्षिणः पशवॊ गावॊ मुनयश चापि सुव्रताः परमं परयतात्मानॊ न शान्तिम उपलेभिरे 19 भरान्तसर्वमहाभूतम आवर्जितदिवाकरम तरैलॊक्यम अभिसंतप्तं जवराविष्टम इवातुरम 20 शरतेजॊ ऽभिसंतप्ता नागा भूमिशयास तथा निःश्वसन्तः समुत्पेतुस तेजॊ घॊरं मुमुक्षवः 21 जलजानि च सत्त्वानि दह्यमानानि भारत न शान्तिम उपजग्मुर हि तप्यमानैर जलाशयैः 22 दिशः खं परदिशश चैव भुवं च शरवृष्टयः उच्चावचा निपेतुर वै गरुडानिलरंहसः 23 तैः शरैर दरॊणपुत्रस्य वज्रवेगसमाहितैः परदग्धाः शत्रवः पेतुर अग्निदग्धा इव दरुमाः 24 दह्यमाना महानागाः पेतुर उर्व्यां समन्ततः नदन्तॊ भैरवान नादाञ जलदॊपम निस्वना 25 अपरे परद्रुतास तत्र दह्यमाना महागजाः तरेसुस तथापरे घॊरे वने दावाग्निसंवृताः 26 दरुमाणां शिखराणीव दावदग्धानि मारिष अश्ववृन्दान्य अदृश्यन्त रथवृन्दानि चाभिभॊ अपतन्त रथौघाश च तत्र तत्र सहस्रशः 27 तत सैन्यं भगवान अग्निर ददाह युधि भारत युगान्ते सर्वभूतानि संवर्तक इवानकः 28 दृष्ट्वा तु पाण्डवीं सेनां दह्यमानां महाहवे परहृष्टास तावका राजन सिंहनादान विनेदिरे 29 ततस तूर्यसहस्राणि नाना लिङ्गानि भारत तूर्णम आजघ्निरे हृष्टास तावका जितकाशिनः 30 कृत्स्ना हय अक्षौहिणी राजन सव्यसाची च पाण्डवः तमसा संवृते लॊके नादृश्यत महाहवे 31 नैव नस तादृशं राजन दृष्टपूर्वं न च शरुतम यादृशं दरॊणपुत्रेण सृष्टम अस्त्रम अमर्षिणा 32 अर्जुनस तु महाराज बराह्मम अस्त्रम उदैरयत सर्वास्त्रप्रतिघाताय विहितं पद्मयॊनिना 33 ततॊ मुहूर्ताद इव तत तमॊ वयुपशशाम ह परववौ चानिलः शीतॊ दिशश च विमलाभवन 34 तत्राद्भुतम अपश्याम कृत्स्नाम अक्षौहिणीं हताम अनभिज्ञेय रूपां च परदग्धाम अस्त्रमायया 35 ततॊ वीरौ महेष्वासौ विमुक्तौ केशवार्जुनौ सहितौ संप्रदृश्येतां नभसीव तमॊनुदौ 36 स पताक धवजहयः सानुकर्ष वरायुधः परबभौ स रथॊ मुक्तस तावकानां भयंकरः 37 ततः किलकिला शब्दः शङ्खभेरी रवैः सह पाण्डवानां परहृष्टानां कषणेन समजायत 38 हताव इति तयॊर आसीद एनयॊर उभयॊर मतिः तरसाभ्यागतौ दृष्ट्वा विमुक्तौ केशवार्जुनौ 39 ताव अक्षतौ परमुदितौ दध्मतुर वारिजॊत्तमौ दृष्ट्वा परमुदितान पार्थांस तवदीया वयथिताभवन 40 विमुक्तौ च महात्मानौ दृष्ट्वा दरौणिः सुदुःखितः मुहूर्तं चिन्तयाम आस किं तव एतद इति मारिष 41 चिन्तयित्वा तु राजेन्द्र धयानशॊकपरायणः निःश्वसन दीर्घम उष्णं च विमनाश चाभवत तदा 42 ततॊ दरौणिर धनुर नयस्य रथात परस्कन्द्य वेगितः धिग धिक सर्वम इदं मिथ्येत्य उक्त्वा संप्राद्रवद रणात 43 ततः सनिग्धाम्बुदाभासं वेद वयासम अकल्मषम आवासं च सरस्वत्याः स वै वयासं ददर्श ह 44 तं दरौणिर अग्रतॊ दृष्ट्वा सथितं कुरुकुलॊद्वह सन्नकण्ठॊ ऽबरवीद वाक्यम अभिवाद्य सुदीनवत 45 भॊ भॊ माया यदृच्छा वा न विद्मः किम इदं भवेत अस्त्रं तव इदं कथं मिथ्या मम कश च वयतिक्रमः 46 अधरॊत्तरम एतद वा लॊकानां वा पराभवः यद इमौ जीवतः कृष्णौ कालॊ हि दुरतिक्रमः 47 नासुरामर गन्धर्वा न पिशाचा न राक्षसाः न सर्पयक्षपतगा न मनुष्याः कथं चन 48 उत्सहन्ते ऽनयथा कर्तुम एतद अस्त्रं मयेरितम तद इदं केवलं हत्वा युक्ताम अक्षौहिणीं जवलत 49 केनेमौ मर्त्यधर्माणौ नावधीत केशवार्जुनौ एतत परब्रूहि भगवन मया पृष्टॊ यथातथम 50 [व] महान्तम एतदर्थं मां यं तवं पृच्छसि विस्मयात तत परवक्ष्यामि ते सर्वं समाधाय मनः शृणु 51 यॊ ऽसौ नारायणॊ नाम पूर्वेषाम अपि पूर्वजः अजायत च कार्यार्थं पुत्रॊ धर्मस्य विश्वकृत 52 स तपस तीव्रम आतस्थे मैनाकं गिरिम आस्थितः ऊर्ध्वबाहुर महातेजा जवलनादित्य संनिभः 53 षष्टिं वर्षसहस्राणि तावन्त्य एव शतानि च अशॊषयत तदात्मानं वायुभक्षॊ ऽमबुजेक्षणः 54 अथापरं तपस तप्त्वा दविस ततॊ ऽनयत पुनर महत दयावापृथिव्यॊर विवरं तेजसा समपूरयत 55 स तेन तपसा तात बरह्मभूतॊ यदाभवत ततॊ विश्वेश्वरं यॊनिं विश्वस्य जगतः पतिम 56 ददर्श भृशदुर्दर्शं सर्वा देवैर अपीश्वरम अणीयसाम अणीयांसं बृहद्भ्यश च बृहत्तरम 57 रुद्रम ईशानम ऋषभं चेकितानम अजं परम गच्छतस तिष्ठतॊ वापि सर्वभूतहृदि सथितम 58 दुर्वारणं दुर्दृशं तिग्ममन्युं; महात्मानं सर्वहरं परचेतसम दिव्यं चापम इषुधी चाददानं; हिरण्यवर्माणम अनन्तवीर्यम 59 पिनाकिनं वज्रिणं दीप्तशूलं; परश्वधिं गदिनं सवायतासिम सुभ्रुं जटामण्डलचन्द्र मौलिं; वयाघ्राजिनम परिघं दण्डपाणिम 60 शुभाङ्गदं नागयज्ञॊपवीतिं; विश्वैर गणैः शॊभितं भूतसंघैः एकीभूतं तपसां संनिधानं; वयॊ ऽतिगैः सुष्ठुतम इष्टवाग्भिः 61 जलं दिवं खं कषितिं चन्द्रसूर्यौ; तथा वाय्वग्नी परतिमानं जगच च नालं दरष्टुं यमजं भिन्नवृत्ता; बरह्म दविषघ्नम अमृतस्य यॊनिम 62 यं पश्यन्ति बराह्मणाः साधुवृत्ताः; कषीणे पापे मनसा ये विशॊकाः स तन्निष्ठस तपसा धर्मम ईड्यं; तद भक्त्या वै विश्वरूपं ददर्श दृष्ट्वा चैनं वान मनॊ बुद्धिदेहैः; संहृष्टात्मा मुमुदे देवदेवम 63 अक्षमाला परिक्षिप्तं जयॊतिषां परमं निधिम ततॊ नारायणॊ दृष्ट्वा ववन्दे विश्वसंभवम 64 वरदं पृथुचार्व अङ्ग्या पार्वत्या सहितं परभुम अजम ईशानम अव्यग्रं कारणात्मानम अच्युतम 65 अभिवाद्याथ रुद्राय सद्यॊ ऽनधकनिपातिने पद्माक्षस तं विरूपाक्षम अभितुष्टाव भक्तिमान 66 तवत संभूता भूतकृतॊ वरेण्य; गॊप्तारॊ ऽदय भुवनं पूर्वदेवाः आविश्येमां धरणीं ये ऽभयरक्षन; पुरा पुराणां तव देव सृष्टिम 67 सुरासुरान नागरक्षःपिशाचान; नरान सुपर्णान अथ गन्धर्वयक्षान पृथग्विधान भूतसंघांश च विश्वांस; तवत संभूतान विद्म सर्वांस तथैव ऐन्द्रं याम्यं वारुणं वैत्तपाल्यं; मैत्रं तवाष्ट्रं कर्म सौम्यं च तुभ्यम 68 रूपं जयॊतिः शब्द आकाशवायुः; सपर्शः सवाद्यं सलिलं गन्ध उर्वी कामॊ बरह्मा बरह्म च बराह्मणाश च; तवत संभूतं सथास्नु चरिष्णु चेदम 69 अद्भ्यः सतॊका यान्ति यथा पृथक्त्वं; ताभिश चैक्यं संक्षये यान्ति भूयः एवं विद्वान परभवं चाप्य अयं च; हित्वा भूतानां तत्र सायुज्यम एति 70 दिव्याव ऋतौ मानसौ दवौ सुपर्णाव; अवाक्शाखः पिप्पलः सप्त गॊपाः दशाप्य अन्ये ये पुरं धारयन्ति; तवया सृष्टास ते हि तेभ्यः परस तवम भूतं भव्यं भविता चाप्य अधृष्यं; तवत संभूता भुवनानीह विश्वा 71 भक्तं च मां भजमानं भजस्व; मा रीरिषॊ माम अहिताहितेन आत्मानं तवाम आत्मनॊ ऽनन्यभावॊ; विद्वान एवं गच्छति बरह्म शुक्रम 72 अस्तौषं तवां तव संमानम इच्छन; विचिन्वन वै सवृषं देववर्य सुदुर्लभान देहि वरान ममेष्टान; अभिष्टुतः परतिकार्षीश च मा माम 73 तस्मै वरान अचिन्त्यात्मा नीलकण्ठः पिनाक धृक अर्हते देव मुख्याय परायच्छद ऋषिसंस्तुतः 74 [नीलकण्ठ] मत्प्रसादान मनुष्येषु देवगन्धर्वयॊनिषु अप्रमेयबलात्मा तवं नारायण भविष्यसि 75 न च तवा परसहिष्यन्ति देवासुरमहॊरगाः न पिशाचा न गन्धर्वा न च विश्वे वियॊनिजाः 76 न सुपर्णास तथा नागा न च विश्वे वियॊनिजाः न कश चित तवां च देवॊ ऽपि समरेषु विजेष्यति 77 न शस्त्रेण न वज्रेण नाग्निना न च वायुना नार्द्रेण न च शुष्केण तरसेन सथावरेण वा 78 कश चित तव रुजं कर्ता मत्प्रसादात कथं चन अपि चेत समरं गत्वा भविष्यसि ममाधिकः 79 [व] एवम एते वरा लब्धाः पुरस्ताद विद्धि शौरिणा स एष देवश चरति मायया मॊहयञ जगत 80 तस्यैव तपसा जातं नरं नाम महामुनिम तुल्यम एतेन देवेन तं जानीह्य अर्जुनं सदा 81 ताव एतौ पूर्वदेवानां परमॊपचिताव ऋषी लॊकयात्रा विधानार्थं संजायेते युगे युगे 82 तथैव कर्मणः कृत्स्नं महतस तपसॊ ऽपि च तेजॊ मन्युश च विद्वंस तवं जातॊ रौद्रॊ महामते 83 स भवान देववत पराज्ञॊ जञात्वा भव मयं जगत अवाकर्षस तवम आत्मानं नियमैस तत्प्रियेप्सया 84 शुभम और्वं नवं कृत्वा महापुरुषविग्रहम ईजिवांस तवं जपैर हॊमैर उपहारैश च मानद 85 स तथा पूज्यमानस ते पूर्वदेवॊ ऽपय अतूतुषत पुष्कलांश च वरान परादात तव विद्वन हृदि सथितान 86 जन्म कर्म तपॊयॊगास तयॊस तव च पुष्कलाः ताभ्यां लिङ्गे ऽरचितॊ देवस तवयार्चायां युगे युगे 87 सर्वरूपं भवं जञात्वा लिङ्गे यॊ ऽरचयति परभुम आत्मयॊगाश च तस्मिन वै शास्त्रयॊगाश च शाश्वताः 88 एवं देवा यजन्तॊ हि सिद्धाश च परमर्षयः परार्थयन्ति परं लॊके सथानम एव च शाश्वतम 89 स एष रुद्र भक्तश च केशवॊ रुद्र संभवः कृष्ण एव हि यष्टव्यॊ यज्ञैश चैष सनातनः 90 सर्वभूतभवं जञात्वा लिङ्गे ऽरचयति यः परभुम तस्मिन्न अभ्यधिकां परीतिं करॊति वृषभध्वजः 91 [स] तस्य तद वचनं शरुत्वा दरॊणपुत्रॊ महारथः नमश चकार रुद्राय बहु मेने च केशवम 92 हृष्टलॊमा च वश्यात्मा नमस्कृत्य महर्षये वरूथिनीम अभिप्रेत्य अवहारम अकारयत 93 ततः परत्यवहारॊ ऽभूत पाण्डवानां विशां पते कौरवाणां च दीनानां दरॊणे युधि निपातिते 94 युद्धं कृत्वा दिनान पञ्च दरॊणॊ हत्वा वरूथिनीम बरह्मलॊकं गतॊ राजन बराह्मणॊ वेदपारगः |
1
[s] tat prabhagnaṃ balaṃ dṛṣṭvā kuntīputro dhanaṃjayaḥ nyavārayad ameyātmā droṇaputra vadhepsayā 2 tatas te sainikā rājan naiva tatrāvatasthire saṃsthāpyamānā yatnena govindenārjunena ca 3 eka eva tu bībhatsuḥ somakāvayavaiḥ saha matsyair anyaiś ca saṃdhāya kauravaiḥ saṃnyavartata 4 tato drutam atikramya siṃhalāṅgūla ketanam savyasācī maheṣvāsam aśvatthāmānam abravīt 5 yā śaktir yac ca te vīryaṃ yaj jñānaṃ yac ca pauruṣam dhārtarāṣṭreṣu yā prītiḥ pradveṣo 'smāsu yaś ca te yac ca bhūyo 'sti tejas tatparamaṃ mama darśaya 6 sa eva droṇa hantā te darpaṃ bhetsyati pārṣataḥ kālānalasamaprakhyo dviṣatām antako yudhi samāsādaya pāñcālyaṃ māṃ cāpi saha keśavam 7 [dhṛ] ācārya putro mānārho balavāṃś cāpi saṃjaya prītir dhanaṃjaye cāsya priyaś cāpi sa vāsaveḥ 8 na bhūtapūrvaṃ bībhatsor vākyaṃ paruṣam īdṛśam atha kasmāt sa kaunteyaḥ sakhāyaṃ rūkṣam abravīt 9 [s] yuvarāje hate caiva vṛddhakṣatre ca paurave iṣvastravidhisaṃpanne mālave ca sudarśane 10 dhṛṣṭadyumne sātyakau ca bhīme cāpi parājite yudhiṣṭhirasya tair vākyair marmaṇy api ca ghaṭṭite 11 antar bhede ca saṃjāte duḥkhaṃ saṃsmṛtya ca prabho abhūtapūrvo bībhatsor duḥkhān manyur ajāyata 12 tasmād anarham aślīlam apriyaṃ drauṇim uktavān mānyam ācārya tanayaṃ rūkṣaṃ kāpuruṣo yathā 13 evam uktaḥ śvasan krodhān maheṣvāsatamo nṛpa pārthena paruṣaṃ vākyaṃ sarvamarma ghnayā girā drauṇiś cukopa pārthāya kṛṣṇāya ca viśeṣataḥ 14 sa tu yatto rathe sthitvā vāry upaspṛśya vīryavān devair api sudurdharṣam astram āgneyam ādade 15 dṛśyād dṛśyān arigaṇān uddiśyācāryanandanaḥ so 'bhimantrya śaraṃ dīptaṃ vidhūmam iva pāvakam sarvataḥ krodham āviśya cikṣepa paravīrahā 16 tatas tumulam ākāśe śaravarṇam ajāyata vavuś ca śiśirā vātāḥ sūryo naiva tatāpa ca 17 cukruśur dānavāś cāpi dikṣu sarvāsu bhairavam rudhiraṃ cāpi varṣanto vinedus toyadāmbare 18 pakṣiṇaḥ paśavo gāvo munayaś cāpi suvratāḥ paramaṃ prayatātmāno na śāntim upalebhire 19 bhrāntasarvamahābhūtam āvarjitadivākaram trailokyam abhisaṃtaptaṃ jvarāviṣṭam ivāturam 20 śaratejo 'bhisaṃtaptā nāgā bhūmiśayās tathā niḥśvasantaḥ samutpetus tejo ghoraṃ mumukṣavaḥ 21 jalajāni ca sattvāni dahyamānāni bhārata na śāntim upajagmur hi tapyamānair jalāśayaiḥ 22 diśaḥ khaṃ pradiśaś caiva bhuvaṃ ca śaravṛṣṭayaḥ uccāvacā nipetur vai garuḍānilaraṃhasaḥ 23 taiḥ śarair droṇaputrasya vajravegasamāhitaiḥ pradagdhāḥ śatravaḥ petur agnidagdhā iva drumāḥ 24 dahyamānā mahānāgāḥ petur urvyāṃ samantataḥ nadanto bhairavān nādāñ jaladopama nisvanā 25 apare pradrutās tatra dahyamānā mahāgajāḥ tresus tathāpare ghore vane dāvāgnisaṃvṛtāḥ 26 drumāṇāṃ śikharāṇīva dāvadagdhāni māriṣa aśvavṛndāny adṛśyanta rathavṛndāni cābhibho apatanta rathaughāś ca tatra tatra sahasraśaḥ 27 tat sainyaṃ bhagavān agnir dadāha yudhi bhārata yugānte sarvabhūtāni saṃvartaka ivānakaḥ 28 dṛṣṭvā tu pāṇḍavīṃ senāṃ dahyamānāṃ mahāhave prahṛṣṭās tāvakā rājan siṃhanādān vinedire 29 tatas tūryasahasrāṇi nānā liṅgāni bhārata tūrṇam ājaghnire hṛṣṭās tāvakā jitakāśinaḥ 30 kṛtsnā hy akṣauhiṇī rājan savyasācī ca pāṇḍavaḥ tamasā saṃvṛte loke nādṛśyata mahāhave 31 naiva nas tādṛśaṃ rājan dṛṣṭapūrvaṃ na ca śrutam yādṛśaṃ droṇaputreṇa sṛṣṭam astram amarṣiṇā 32 arjunas tu mahārāja brāhmam astram udairayat sarvāstrapratighātāya vihitaṃ padmayoninā 33 tato muhūrtād iva tat tamo vyupaśaśāma ha pravavau cānilaḥ śīto diśaś ca vimalābhavan 34 tatrādbhutam apaśyāma kṛtsnām akṣauhiṇīṃ hatām anabhijñeya rūpāṃ ca pradagdhām astramāyayā 35 tato vīrau maheṣvāsau vimuktau keśavārjunau sahitau saṃpradṛśyetāṃ nabhasīva tamonudau 36 sa patāka dhvajahayaḥ sānukarṣa varāyudhaḥ prababhau sa ratho muktas tāvakānāṃ bhayaṃkaraḥ 37 tataḥ kilakilā śabdaḥ śaṅkhabherī ravaiḥ saha pāṇḍavānāṃ prahṛṣṭānāṃ kṣaṇena samajāyata 38 hatāv iti tayor āsīd enayor ubhayor matiḥ tarasābhyāgatau dṛṣṭvā vimuktau keśavārjunau 39 tāv akṣatau pramuditau dadhmatur vārijottamau dṛṣṭvā pramuditān pārthāṃs tvadīyā vyathitābhavan 40 vimuktau ca mahātmānau dṛṣṭvā drauṇiḥ suduḥkhitaḥ muhūrtaṃ cintayām āsa kiṃ tv etad iti māriṣa 41 cintayitvā tu rājendra dhyānaśokaparāyaṇaḥ niḥśvasan dīrgham uṣṇaṃ ca vimanāś cābhavat tadā 42 tato drauṇir dhanur nyasya rathāt praskandya vegitaḥ dhig dhik sarvam idaṃ mithyety uktvā saṃprādravad raṇāt 43 tataḥ snigdhāmbudābhāsaṃ veda vyāsam akalmaṣam āvāsaṃ ca sarasvatyāḥ sa vai vyāsaṃ dadarśa ha 44 taṃ drauṇir agrato dṛṣṭvā sthitaṃ kurukulodvaha sannakaṇṭho 'bravīd vākyam abhivādya sudīnavat 45 bho bho māyā yadṛcchā vā na vidmaḥ kim idaṃ bhavet astraṃ tv idaṃ kathaṃ mithyā mama kaś ca vyatikramaḥ 46 adharottaram etad vā lokānāṃ vā parābhavaḥ yad imau jīvataḥ kṛṣṇau kālo hi duratikramaḥ 47 nāsurāmara gandharvā na piśācā na rākṣasāḥ na sarpayakṣapatagā na manuṣyāḥ kathaṃ cana 48 utsahante 'nyathā kartum etad astraṃ mayeritam tad idaṃ kevalaṃ hatvā yuktām akṣauhiṇīṃ jvalat 49 kenemau martyadharmāṇau nāvadhīt keśavārjunau etat prabrūhi bhagavan mayā pṛṣṭo yathātatham 50 [v] mahāntam etadarthaṃ māṃ yaṃ tvaṃ pṛcchasi vismayāt tat pravakṣyāmi te sarvaṃ samādhāya manaḥ śṛṇu 51 yo 'sau nārāyaṇo nāma pūrveṣām api pūrvajaḥ ajāyata ca kāryārthaṃ putro dharmasya viśvakṛt 52 sa tapas tīvram ātasthe mainākaṃ girim āsthitaḥ ūrdhvabāhur mahātejā jvalanāditya saṃnibhaḥ 53 ṣaṣṭiṃ varṣasahasrāṇi tāvanty eva śatāni ca aśoṣayat tadātmānaṃ vāyubhakṣo 'mbujekṣaṇaḥ 54 athāparaṃ tapas taptvā dvis tato 'nyat punar mahat dyāvāpṛthivyor vivaraṃ tejasā samapūrayat 55 sa tena tapasā tāta brahmabhūto yadābhavat tato viśveśvaraṃ yoniṃ viśvasya jagataḥ patim 56 dadarśa bhṛśadurdarśaṃ sarvā devair apīśvaram aṇīyasām aṇīyāṃsaṃ bṛhadbhyaś ca bṛhattaram 57 rudram īśānam ṛṣabhaṃ cekitānam ajaṃ param gacchatas tiṣṭhato vāpi sarvabhūtahṛdi sthitam 58 durvāraṇaṃ durdṛśaṃ tigmamanyuṃ; mahātmānaṃ sarvaharaṃ pracetasam divyaṃ cāpam iṣudhī cādadānaṃ; hiraṇyavarmāṇam anantavīryam 59 pinākinaṃ vajriṇaṃ dīptaśūlaṃ; paraśvadhiṃ gadinaṃ svāyatāsim subhruṃ jaṭāmaṇḍalacandra mauliṃ; vyāghrājinam parighaṃ daṇḍapāṇim 60 śubhāṅgadaṃ nāgayajñopavītiṃ; viśvair gaṇaiḥ śobhitaṃ bhūtasaṃghaiḥ ekībhūtaṃ tapasāṃ saṃnidhānaṃ; vayo 'tigaiḥ suṣṭhutam iṣṭavāgbhiḥ 61 jalaṃ divaṃ khaṃ kṣitiṃ candrasūryau; tathā vāyvagnī pratimānaṃ jagac ca nālaṃ draṣṭuṃ yamajaṃ bhinnavṛttā; brahma dviṣaghnam amṛtasya yonim 62 yaṃ paśyanti brāhmaṇāḥ sādhuvṛttāḥ; kṣīṇe pāpe manasā ye viśokāḥ sa tanniṣṭhas tapasā dharmam īḍyaṃ; tad bhaktyā vai viśvarūpaṃ dadarśa dṛṣṭvā cainaṃ vān mano buddhidehaiḥ; saṃhṛṣṭātmā mumude devadevam 63 akṣamālā parikṣiptaṃ jyotiṣāṃ paramaṃ nidhim tato nārāyaṇo dṛṣṭvā vavande viśvasaṃbhavam 64 varadaṃ pṛthucārv aṅgyā pārvatyā sahitaṃ prabhum ajam īśānam avyagraṃ kāraṇātmānam acyutam 65 abhivādyātha rudrāya sadyo 'ndhakanipātine padmākṣas taṃ virūpākṣam abhituṣṭāva bhaktimān 66 tvat saṃbhūtā bhūtakṛto vareṇya; goptāro 'dya bhuvanaṃ pūrvadevāḥ āviśyemāṃ dharaṇīṃ ye 'bhyarakṣan; purā purāṇāṃ tava deva sṛṣṭim 67 surāsurān nāgarakṣaḥpiśācān; narān suparṇān atha gandharvayakṣān pṛthagvidhān bhūtasaṃghāṃś ca viśvāṃs; tvat saṃbhūtān vidma sarvāṃs tathaiva aindraṃ yāmyaṃ vāruṇaṃ vaittapālyaṃ; maitraṃ tvāṣṭraṃ karma saumyaṃ ca tubhyam 68 rūpaṃ jyotiḥ śabda ākāśavāyuḥ; sparśaḥ svādyaṃ salilaṃ gandha urvī kāmo brahmā brahma ca brāhmaṇāś ca; tvat saṃbhūtaṃ sthāsnu cariṣṇu cedam 69 adbhyaḥ stokā yānti yathā pṛthaktvaṃ; tābhiś caikyaṃ saṃkṣaye yānti bhūyaḥ evaṃ vidvān prabhavaṃ cāpy ayaṃ ca; hitvā bhūtānāṃ tatra sāyujyam eti 70 divyāv ṛtau mānasau dvau suparṇāv; avākśākhaḥ pippalaḥ sapta gopāḥ daśāpy anye ye puraṃ dhārayanti; tvayā sṛṣṭās te hi tebhyaḥ paras tvam bhūtaṃ bhavyaṃ bhavitā cāpy adhṛṣyaṃ; tvat saṃbhūtā bhuvanānīha viśvā 71 bhaktaṃ ca māṃ bhajamānaṃ bhajasva; mā rīriṣo mām ahitāhitena ātmānaṃ tvām ātmano 'nanyabhāvo; vidvān evaṃ gacchati brahma śukram 72 astauṣaṃ tvāṃ tava saṃmānam icchan; vicinvan vai savṛṣaṃ devavarya sudurlabhān dehi varān mameṣṭān; abhiṣṭutaḥ pratikārṣīś ca mā mām 73 tasmai varān acintyātmā nīlakaṇṭhaḥ pināka dhṛk arhate deva mukhyāya prāyacchad ṛṣisaṃstutaḥ 74 [nīlakaṇṭha] matprasādān manuṣyeṣu devagandharvayoniṣu aprameyabalātmā tvaṃ nārāyaṇa bhaviṣyasi 75 na ca tvā prasahiṣyanti devāsuramahoragāḥ na piśācā na gandharvā na ca viśve viyonijāḥ 76 na suparṇās tathā nāgā na ca viśve viyonijāḥ na kaś cit tvāṃ ca devo 'pi samareṣu vijeṣyati 77 na śastreṇa na vajreṇa nāgninā na ca vāyunā nārdreṇa na ca śuṣkeṇa trasena sthāvareṇa vā 78 kaś cit tava rujaṃ kartā matprasādāt kathaṃ cana api cet samaraṃ gatvā bhaviṣyasi mamādhikaḥ 79 [v] evam ete varā labdhāḥ purastād viddhi śauriṇā sa eṣa devaś carati māyayā mohayañ jagat 80 tasyaiva tapasā jātaṃ naraṃ nāma mahāmunim tulyam etena devena taṃ jānīhy arjunaṃ sadā 81 tāv etau pūrvadevānāṃ paramopacitāv ṛṣī lokayātrā vidhānārthaṃ saṃjāyete yuge yuge 82 tathaiva karmaṇaḥ kṛtsnaṃ mahatas tapaso 'pi ca tejo manyuś ca vidvaṃs tvaṃ jāto raudro mahāmate 83 sa bhavān devavat prājño jñātvā bhava mayaṃ jagat avākarṣas tvam ātmānaṃ niyamais tatpriyepsayā 84 śubham aurvaṃ navaṃ kṛtvā mahāpuruṣavigraham ījivāṃs tvaṃ japair homair upahāraiś ca mānada 85 sa tathā pūjyamānas te pūrvadevo 'py atūtuṣat puṣkalāṃś ca varān prādāt tava vidvan hṛdi sthitān 86 janma karma tapoyogās tayos tava ca puṣkalāḥ tābhyāṃ liṅge 'rcito devas tvayārcāyāṃ yuge yuge 87 sarvarūpaṃ bhavaṃ jñātvā liṅge yo 'rcayati prabhum ātmayogāś ca tasmin vai śāstrayogāś ca śāśvatāḥ 88 evaṃ devā yajanto hi siddhāś ca paramarṣayaḥ prārthayanti paraṃ loke sthānam eva ca śāśvatam 89 sa eṣa rudra bhaktaś ca keśavo rudra saṃbhavaḥ kṛṣṇa eva hi yaṣṭavyo yajñaiś caiṣa sanātanaḥ 90 sarvabhūtabhavaṃ jñātvā liṅge 'rcayati yaḥ prabhum tasminn abhyadhikāṃ prītiṃ karoti vṛṣabhadhvajaḥ 91 [s] tasya tad vacanaṃ śrutvā droṇaputro mahārathaḥ namaś cakāra rudrāya bahu mene ca keśavam 92 hṛṣṭalomā ca vaśyātmā namaskṛtya maharṣaye varūthinīm abhipretya avahāram akārayat 93 tataḥ pratyavahāro 'bhūt pāṇḍavānāṃ viśāṃ pate kauravāṇāṃ ca dīnānāṃ droṇe yudhi nipātite 94 yuddhaṃ kṛtvā dinān pañca droṇo hatvā varūthinīm brahmalokaṃ gato rājan brāhmaṇo vedapāragaḥ |
The Mahabharata in Sanskrit
Book 7
Chapter 173
|
1
[धृ] तस्मिन्न अतिरथे दरॊणे निहते तत्र संजय मामकाः पाण्डवाश चैव किम अकुर्वन्न अतः परम 2 [स] तस्मिन्न अतिरथे दरॊणे निहते पार्षतेन वै कौरवेषु च भग्नेषु कुन्तीपुत्रॊ धनंजयः 3 दृष्ट्वा सुमहद आश्चर्यम आत्मनॊ विजयावहम यदृच्छयागतं वयासं पप्रच्छ भरतर्षभ 4 संग्रामे निघ्नतः शत्रूञ शरौघैर विमलैर अहम अग्रतॊ लक्षये यान्तं पुरुषं पावकप्रभम 5 जवलन्तं शूलम उद्यम्य यां दिशं परतिपद्यते तस्यां दिशि विशीर्यन्ते शत्रवॊ मे महामुने 6 न पद्भ्यां सपृशते भूमिं न च शूलं विमुञ्चति शूलाच छूलसहस्राणि निष्पेतुस तस्य तेजसा 7 तेन भग्नान अरीन सर्वान मद भग्नान मन्यते जनः तेन दग्धानि सैन्यानि पृष्ठतॊ ऽनुदहाम्य अहम 8 भगवंस तन ममाचक्ष्व कॊ वै स पुरुषॊत्तमः शूलपाणिर महान कृष्ण तेजसा सूर्यसंनिभः 9 [व] परजापतीनां परथमं तेजसं पुरुषं विभुम भुवनं भूर भुवं देवं सर्वलॊकेश्वरं परभुम 10 ईशानं वरदं पार्थ दृष्टवान असि शंकरम तं गच्छ शरणं देवं सर्वादिं भुवनेश्वरम 11 महादेवं महात्मानम ईशानं जटिलं शिवम तर्यक्षं महाभुजं रुद्रं शिखिनं चीरवाससम दातारं चैव भक्तानां परसादविहितान वरान 12 तस्य ते पार्षदा दिव्या रूपैर नानाविधैर विभॊः वामना जटिला मुण्डा हरस्वग्रीवा महॊदराः 13 महाकाया महॊत्साहा महाकर्णास तथापरे आननैर विकृतैः पादैः पार्थ वेषैश च वैकृतैः 14 ईदृशैः स महादेवः पूज्यमानॊ महेश्वरः स शिवस तात तेजस्वी परसादाद याति ते ऽगरतः तस्मिन घॊरे तदा पार्थ संग्रामे लॊमहर्षणे 15 दरॊणकर्णकृपैर गुप्तां महेष्वासैः परहारिभिः कस तां सेनां तदा पार्थ मनसापि परधर्षयेत ऋते देवान महेष्वासाद बहुरूपान महेश्वरात 16 सथातुम उत्सहते कश चिन न तस्मिन्न अग्रतः सथिते न हि भूतं समं तेन तरिषु लॊकेषु विद्यते 17 गन्धेनापि हि संग्रामे तस्य करुद्धस्य शत्रवः विसंज्ञा हतभूयिष्ठा वेपन्ति च पतन्ति च 18 तस्मै नमस तु कुर्वन्तॊ देवास तिष्ठन्ति वै दिवि ये चान्ये मानवा लॊके ये च सवर्गजितॊ नराः 19 ये भक्ता वरदं देवं शिवं रुद्रम उपा पतिम इह लॊके सुखं पराप्य ते यान्ति परमां गतिम 20 नमस्कुरुष्व कौन्तेय तस्मै शान्ताय वै सदा रुद्राय शितिकण्ठाय कनिष्ठाय सुवर्चसे 21 कपर्दिने करालाय हर्यक्ष्णे वरदाय च याम्यायाव्यक्त केशाय सद्वृत्ते शंकराय च 22 काम्याय हरि नेत्राय सथाणवे पुरुषाय च हरि केशाय मुण्डाय कृशायॊत्तरणाय च 23 भास्कराय सुतीर्थाय देवदेवाय रंहसे बहुरूपाय शर्वाय परियाय परियवाससे 24 उष्णीषिणे सुवक्त्राय सहस्राक्षाय मीढुषे गिरिशाय परशान्ताय पतये चीरवाससे 25 हिरण्यबाहवे चैव उग्राय पतये दिशाम पर्जन्यपतये चैव भूतानां पतये नमः 26 वृक्षाणां पतये चैव अपां च पतये तथा वृक्षैर आवृतकायाय सेनान्ये मध्यमाय च 27 सरुव हस्ताय देवाय धन्विने भार्गवाय च बहुरूपाय विश्वस्य पतये चीरवाससे 28 सहस्रशिरसे चैव सहस्रनयनाय च सहस्रबाहवे चैव सहस्रचरणाय च 29 शरणं पराप्य कौन्तेय वरदं भुवनेश्वरम उमापतिं विरूपाक्षं दक्षयज्ञनिबर्हणम परजानां पतिम अव्यग्रं भूतानां पतिम अव्ययम 30 कपर्दिनं वृषावर्तं वृषनाभं वृषध्वजम वृषदर्पं वृषपतिं वृषशृङ्गं वृषर्षभम 31 वृषाङ्कं वृषभॊदारं वृषभं वृषभेक्षणम वृषायुधं वृषशरं वृषभूतं महेश्वरम 32 महॊदरं महाकायं दवीपिचर्म निवासिनम लॊकेशं वरदं मुण्डं बरह्मण्यं बराह्मण परियम 33 तरिशूलपाणिं वरदं खड्गचर्म धरं परभुम पिनाकिनं खण्ड परशुं लॊकानां पतिम ईश्वरम परपद्ये शरणं देवं शरण्यं चीरवाससम 34 नमस तस्मै सुरेशाय यस्य वैश्वरणः सखा सुवाससे नमॊ नित्यं सुव्रताय सुधन्विने 35 सरुव हस्ताय देवाय सुखधन्वाय धन्विने धन्वन्तराय धनुषे धन्वाचार्याय धन्विने 36 उग्रायुधाय देवाय नमः सुरवराय च नमॊ ऽसतु बहुरूपाय नमश च बहुधन्विने 37 नमॊ ऽसतु सथाणवे नित्यं सुव्रताय सुधन्विने नमॊ ऽसतु तरिपुरघ्नाय भग घनाय च वै नमः 38 वनस्पतीनां पतये नराणां पतये नमः अपां च पतये नित्यं यज्ञानां पतये नमः 39 पूष्णॊ दन्तविनाशाय तर्यक्षाय वरदाय च नीलकण्ठाय पिङ्गाय सवर्णकेशाय वै नमः 40 कर्माणि चैव दिव्यानि महादेवस्य धीमतः तानि ते कीर्तयिष्यामि यथा परज्ञं यथा शरुतम 41 न सुरा नासुरा लॊके न गन्धर्वा न राक्षसाः सुखम एधन्ति कुपिते तस्मिन्न अपि गुहा गताः 42 विव्याध कुपितॊ यज्ञं निर्भयस तु भवस तदा धनुषा बाणम उत्सृज्य स घॊषं विननाद च 43 ते न शर्म कुतः शान्तिं लेभिरे सम सुरास तदा विद्रुते सहसा यज्ञे कुपिते च महेश्वरे 44 तेन जयातलघॊषेण सर्वे लॊकाः समाकुलाः बभूवुर वशगाः पार्थ निपेतुश च सुरासुराः 45 आपश चुक्षुभिरे सर्वाश चकम्पे च वसुंधरा पर्वताश च वयशीर्यन्त दिशॊ नागाश च मॊहिताः 46 अन्धाश च तमसा लॊका न परकाशन्त संवृताः जघ्निवान सह सूर्येण सर्वेणां जयॊतिषां परभाः 47 चुक्रुशुर भयभीताश च शान्तिं चक्रुस तथैव च ऋषयः सर्वभूतानाम आत्मनश च सुखैषिणः 48 पूषाणम अभ्यद्रवत शंकरः परहसन्न इव पुरॊडाशं भक्षयतॊ दशनान वै वयशातयत 49 ततॊ निश्चक्रमुर देवा वेपमाना नताः सम तम पुनश च संदधे दीप्तं देवानां निशितं शरम 50 रुद्रस्य यज्ञभागं च विशिष्टं ते नव अकल्पयन भयेन तरिदशा राजञ शरणं च परपेदिरे 51 तेन चैवातिकॊपेन स यज्ञः संधितस तदा यत्ताश चापि सुरा आसन यत्ताश चाद्यापि तं परति 52 असुराणां पुराण्य आसंस तरीणि वीर्यवतां दिवि आयसं राजतं चैव सौवर्णम अपरं महत 53 आयसं तारकाक्षस्य कमलाक्षस्य राजतम सौवर्णं परमं हय आसीद विद्युन्मालिन एव च 54 न शक्तस तानि मघवान भेत्तुं सर्वायुधैर अपि अथ सर्वे ऽमरा रुद्रं जग्मुः शरणम अर्दिताः 55 ते तम ऊचुर महात्मानं सर्वे देवाः स वासवाः रुद्र रौद्रा भविष्यन्ति पशवः सर्वकर्मसु निपातयिष्यसे चैनान असुरान भुवनेश्वर 56 स तथॊक्तस तथेत्य उक्त्वा देवानां हितकाम्यया अतिष्ठत सथाणुभूतः स सहस्रं परिवत्सरान 57 यदा तरीणि समेतानि अन्तरिक्षे पुराणि वै तरिपर्वणा तरिशल्येन तेन तानि बिभेद सः 58 पुराणि न च तं शेकुर दानवाः परतिवीक्षितुम शरं कालाग्निसंयुक्तं विष्णुसॊमसमायुतम 59 बालम अङ्कगतं कृत्वा सवयं पञ्च शिखं पुनः उमा जिज्ञासमाना वै कॊ यम इत्य अब्रवीत सुरान 60 बाहुं सवज्रं शक्रस्य करुद्धस्यास्तम्भयत परभु स एष भगवान देवः सर्वलॊकेश्वरः परभुः 61 न संबुबुधिरे चैनं देवास तं भुवनेश्वरम स परजापतयः सर्वे बालार्कसदृशप्रभम 62 अथाभ्येत्य ततॊ बरह्मा दृष्ट्वा च स महेश्वरम अयं शरेष्ठ इति जञात्वा ववन्दे तं पितामहः 63 ततः परसादयाम आसुर उमां रुद्रं च ते सुराः अभवच च पुनर बाहुर यथा परकृतिवज्रिणः 64 तेषां परसन्नॊ भगवान सपत्नीकॊ वृषध्वजः देवानां तरिदशश्रेष्ठॊ दक्षयज्ञविनाशनः 65 स वै रुद्रः स च शिवः सॊ ऽगनिः शर्वः स सर्ववित स चेन्द्रश चैव वायुश च सॊ ऽशविनौ स च विद्युतः 66 स भवः स च पर्जन्यॊ महादेवः स चानघः स चन्द्रमाः स चेशानः स सूर्यॊ वरुणश च सः 67 स कालः सॊ ऽनतकॊ मृत्युः स यमॊ रात्र्यहानि च मासार्ध मासा ऋतवः संध्ये संवत्सरश च सः 68 स च धाता विधाता च विश्वात्मा विश्वकर्मकृत सर्वासां देवतानां च धारयत्य अवपुर वपुः 69 सर्वैर देवैः सतुतॊ देवः सैकदा बहुधा च सः शतधा सहस्रधा चैव तथा शतसहस्रधा 70 ईदृशः स महादेवॊ भूयश च भगवान अजः न हि सर्वे मया शक्या वक्तुं भगवतॊ गुणाः 71 सर्वैर गरहैर गृहीतान वै सर्वपापसमन्वितान स मॊचयति सुप्रीतः शरण्यः शरणागतान 72 आयुर आरॊग्यम ऐश्वर्यं वित्तं कामांश च पुष्कलान स ददाति मनुष्येभ्यः स चैवाक्षिपते पुनः 73 सेन्द्रादिषु च देवेषु तस्य चैश्वर्यम उच्यते स चैव वयाहृते लॊके मनुष्याणां शुभाशुभे 74 ऐश्वर्याच चैव कामानाम ईश्वरः पुनर उच्यते महेश्वरश च भूतानां महताम ईश्वरश च सः 75 बहुभिर बहुधा रूपैर विश्वं वयाप्नॊति वै जगत अस्य देवस्य यद वक्त्रं समुद्रे तद अतिष्ठत 76 एष चैव शमशानेषु देवॊ वसति नित्यशः यजन्त्य एनं जनास तत्र वीर सथान इतीश्वरम 77 अस्य दीप्तानि रूपाणि घॊराणि च बहूनि च लॊके यान्य अस्य कुर्वन्ति मनुष्याः परवदन्ति च 78 नामधेयानि लॊकेषु बहून्य अत्र यथार्थवत निरुच्यन्ते महत्त्वाच च विभुत्वात कर्मभिस तथा 79 वेदे चास्य समाम्नातं शतरुद्रीयम उत्तमम नाम्ना चानन्त रुद्रेति उपस्थानं महात्मनः 80 स कामानां परभुर देवॊ ये दिव्या ये च मानुषाः स विभुः स परभुर देवॊ विश्वं वयाप्नुवते महत 81 जयेष्ठं भूतं वदन्त्य एनं बराह्मणा मुनयस तथा परथमॊ हय एष देवानां मुखाद अस्यानलॊ ऽभवत 82 सर्वथा यत पशून पाति तैश च यद रमते पुनः तेषाम अधिपतिर यच च तस्मात पशुपतिः समृतः 83 नित्येन बरह्मचर्येण लिङ्गम अस्य यदा सथितम महयन्ति च लॊकाश च महेश्वर इति समृतः 84 ऋषयश चैव देवाश च गन्धर्वाप्सरसस तथा लिङ्गम अस्यार्चयन्ति सम तच चाप्य ऊर्ध्वं समास्थितम 85 पूज्यमाने ततस तस्मिन मॊदते स महेश्वरः सुखी परीतश च भवति परहृष्टश चैव शंकरः 86 यद अस्य बहुधा रूपं भूतभव्य भवत सथितम सथावरं जङ्गमं चैव बहुरूपस ततः समृतः 87 एकाक्षॊ जाज्वलन्न आस्ते सर्वतॊ ऽकषिमयॊ ऽपि वा करॊधाद्यश चाविशल लॊकांस तस्माच छर्व इति समृतः 88 धूम्रं रूपं च यत तस्य धूर्जटिस तेन उच्यते विश्वे देवाश च यत तस्मिन विश्वरूपस ततः समृतः 89 तिस्रॊ देवीर यदा चैव भजते भुवनेश्वरः दयाम अपः पृथिवीं चैव तर्यम्बकश च ततः समृतः 90 समेधयति यन नित्यं सर्वार्थान सर्वकर्मसु शिवम इच्छन मनुष्याणां तस्माद एश शिवः समृतः 91 सहस्राक्षॊ ऽयुताक्षॊ वा सर्वतॊ ऽकषिमयॊ ऽपि वा यच च विश्वं महत पाति महादेवस ततः समृतः 92 दहत्य ऊर्ध्वं सथितॊ यच च पराणॊत्पत्तिः सथितिश च यत सथितलिङ्गश च यन नित्यं तस्मात सथाणुर इति समृतः 93 विषमस्थः शरीरेषु समश च पराणिनाम इह स वायुर विषमस्थेषु पराणापानशरीरिषु 94 पूजयेद विग्रहं यस तु लिङ्गं वापि समर्चयेत लिङ्गं पूजयिता नित्यं महतीं शरियम अश्नुते 95 ऊरुभ्याम अर्धम आग्नेयं सॊमार्धं च शिवा तनुः आत्मनॊ ऽरधं च तस्याग्निः सॊमॊ ऽरधं पुनर उच्यते 96 तैजसी महती दीप्ता देवेभ्यश च शिवा तनुः भास्वती मानुषेष्व अस्य तनुर घॊराग्निर उच्यते 97 बरह्मचर्यं चरत्य एष शिवा यास्य तनुस तया यास्य घॊरतरा मूर्तिः सर्वान अत्ति तयेश्वरः 98 यन निर्दहति यत तीक्ष्णॊ यद उग्रॊ यत परतापवान मांसशॊणितमज्जादॊ यत ततॊ रुद्र उच्यते 99 एष देवॊ महादेवॊ यॊ ऽसौ पार्थ तवाग्रतः संग्रामे शात्रवान निघ्नंस तवया दृष्टः पिनाक धृक 100 एष वै भगवान देवः संग्रामे यति ते ऽगरतः येन दत्तानि ते ऽसत्राणि यैस तवया दानवा हताः 101 धन्यं यशस्यम आयुष्यं पुण्यं वेदैश च संज्ञितम देवदेवस्य ते पार्थ वयाख्यात्म शतरुद्रियम 102 सर्वार्थसाधकं पुण्यं सर्वकिल्बिष नाशनम सर्वपापप्रशमनं सर्वदुःखभयापहम 103 चतुर्विधम इदं सतॊत्रं यः शृणॊति नरः सदा विजित्य सर्वाञ शत्रून स रुद्र लॊके महीयते 104 चरितं महात्मनॊ दिव्यं सांग्रामिकम इदं शुभम पठन वै शतरुद्रीयं शृण्वंश च सततॊत्थितः 105 भक्तॊ विश्वेश्वरं देवं मानुषेषु तु यः सदा वरान स कामाँल लभते परसन्ने तर्यम्बके नरः 106 गच्छ युध्यस्व कौन्तेय न तवास्ति पराजयः यस्य मन्त्री च गॊप्ता च पार्श्वतस ते जनार्दनः 107 [स] एवम उक्त्वार्जुनं संख्ये पराशर सुतस तदा जगाम भरतश्रेष्ठ यथागतम अरिंदम |
1
[dhṛ] tasminn atirathe droṇe nihate tatra saṃjaya māmakāḥ pāṇḍavāś caiva kim akurvann ataḥ param 2 [s] tasminn atirathe droṇe nihate pārṣatena vai kauraveṣu ca bhagneṣu kuntīputro dhanaṃjayaḥ 3 dṛṣṭvā sumahad āścaryam ātmano vijayāvaham yadṛcchayāgataṃ vyāsaṃ papraccha bharatarṣabha 4 saṃgrāme nighnataḥ śatrūñ śaraughair vimalair aham agrato lakṣaye yāntaṃ puruṣaṃ pāvakaprabham 5 jvalantaṃ śūlam udyamya yāṃ diśaṃ pratipadyate tasyāṃ diśi viśīryante śatravo me mahāmune 6 na padbhyāṃ spṛśate bhūmiṃ na ca śūlaṃ vimuñcati śūlāc chūlasahasrāṇi niṣpetus tasya tejasā 7 tena bhagnān arīn sarvān mad bhagnān manyate janaḥ tena dagdhāni sainyāni pṛṣṭhato 'nudahāmy aham 8 bhagavaṃs tan mamācakṣva ko vai sa puruṣottamaḥ śūlapāṇir mahān kṛṣṇa tejasā sūryasaṃnibhaḥ 9 [v] prajāpatīnāṃ prathamaṃ tejasaṃ puruṣaṃ vibhum bhuvanaṃ bhūr bhuvaṃ devaṃ sarvalokeśvaraṃ prabhum 10 īśānaṃ varadaṃ pārtha dṛṣṭavān asi śaṃkaram taṃ gaccha śaraṇaṃ devaṃ sarvādiṃ bhuvaneśvaram 11 mahādevaṃ mahātmānam īśānaṃ jaṭilaṃ śivam tryakṣaṃ mahābhujaṃ rudraṃ śikhinaṃ cīravāsasam dātāraṃ caiva bhaktānāṃ prasādavihitān varān 12 tasya te pārṣadā divyā rūpair nānāvidhair vibhoḥ vāmanā jaṭilā muṇḍā hrasvagrīvā mahodarāḥ 13 mahākāyā mahotsāhā mahākarṇās tathāpare ānanair vikṛtaiḥ pādaiḥ pārtha veṣaiś ca vaikṛtaiḥ 14 īdṛśaiḥ sa mahādevaḥ pūjyamāno maheśvaraḥ sa śivas tāta tejasvī prasādād yāti te 'grataḥ tasmin ghore tadā pārtha saṃgrāme lomaharṣaṇe 15 droṇakarṇakṛpair guptāṃ maheṣvāsaiḥ prahāribhiḥ kas tāṃ senāṃ tadā pārtha manasāpi pradharṣayet ṛte devān maheṣvāsād bahurūpān maheśvarāt 16 sthātum utsahate kaś cin na tasminn agrataḥ sthite na hi bhūtaṃ samaṃ tena triṣu lokeṣu vidyate 17 gandhenāpi hi saṃgrāme tasya kruddhasya śatravaḥ visaṃjñā hatabhūyiṣṭhā vepanti ca patanti ca 18 tasmai namas tu kurvanto devās tiṣṭhanti vai divi ye cānye mānavā loke ye ca svargajito narāḥ 19 ye bhaktā varadaṃ devaṃ śivaṃ rudram upā patim iha loke sukhaṃ prāpya te yānti paramāṃ gatim 20 namaskuruṣva kaunteya tasmai śāntāya vai sadā rudrāya śitikaṇṭhāya kaniṣṭhāya suvarcase 21 kapardine karālāya haryakṣṇe varadāya ca yāmyāyāvyakta keśāya sadvṛtte śaṃkarāya ca 22 kāmyāya hari netrāya sthāṇave puruṣāya ca hari keśāya muṇḍāya kṛśāyottaraṇāya ca 23 bhāskarāya sutīrthāya devadevāya raṃhase bahurūpāya śarvāya priyāya priyavāsase 24 uṣṇīṣiṇe suvaktrāya sahasrākṣāya mīḍhuṣe giriśāya praśāntāya pataye cīravāsase 25 hiraṇyabāhave caiva ugrāya pataye diśām parjanyapataye caiva bhūtānāṃ pataye namaḥ 26 vṛkṣāṇāṃ pataye caiva apāṃ ca pataye tathā vṛkṣair āvṛtakāyāya senānye madhyamāya ca 27 sruva hastāya devāya dhanvine bhārgavāya ca bahurūpāya viśvasya pataye cīravāsase 28 sahasraśirase caiva sahasranayanāya ca sahasrabāhave caiva sahasracaraṇāya ca 29 śaraṇaṃ prāpya kaunteya varadaṃ bhuvaneśvaram umāpatiṃ virūpākṣaṃ dakṣayajñanibarhaṇam prajānāṃ patim avyagraṃ bhūtānāṃ patim avyayam 30 kapardinaṃ vṛṣāvartaṃ vṛṣanābhaṃ vṛṣadhvajam vṛṣadarpaṃ vṛṣapatiṃ vṛṣaśṛṅgaṃ vṛṣarṣabham 31 vṛṣāṅkaṃ vṛṣabhodāraṃ vṛṣabhaṃ vṛṣabhekṣaṇam vṛṣāyudhaṃ vṛṣaśaraṃ vṛṣabhūtaṃ maheśvaram 32 mahodaraṃ mahākāyaṃ dvīpicarma nivāsinam lokeśaṃ varadaṃ muṇḍaṃ brahmaṇyaṃ brāhmaṇa priyam 33 triśūlapāṇiṃ varadaṃ khaḍgacarma dharaṃ prabhum pinākinaṃ khaṇḍa paraśuṃ lokānāṃ patim īśvaram prapadye śaraṇaṃ devaṃ śaraṇyaṃ cīravāsasam 34 namas tasmai sureśāya yasya vaiśvaraṇaḥ sakhā suvāsase namo nityaṃ suvratāya sudhanvine 35 sruva hastāya devāya sukhadhanvāya dhanvine dhanvantarāya dhanuṣe dhanvācāryāya dhanvine 36 ugrāyudhāya devāya namaḥ suravarāya ca namo 'stu bahurūpāya namaś ca bahudhanvine 37 namo 'stu sthāṇave nityaṃ suvratāya sudhanvine namo 'stu tripuraghnāya bhaga ghnāya ca vai namaḥ 38 vanaspatīnāṃ pataye narāṇāṃ pataye namaḥ apāṃ ca pataye nityaṃ yajñānāṃ pataye namaḥ 39 pūṣṇo dantavināśāya tryakṣāya varadāya ca nīlakaṇṭhāya piṅgāya svarṇakeśāya vai namaḥ 40 karmāṇi caiva divyāni mahādevasya dhīmataḥ tāni te kīrtayiṣyāmi yathā prajñaṃ yathā śrutam 41 na surā nāsurā loke na gandharvā na rākṣasāḥ sukham edhanti kupite tasminn api guhā gatāḥ 42 vivyādha kupito yajñaṃ nirbhayas tu bhavas tadā dhanuṣā bāṇam utsṛjya sa ghoṣaṃ vinanāda ca 43 te na śarma kutaḥ śāntiṃ lebhire sma surās tadā vidrute sahasā yajñe kupite ca maheśvare 44 tena jyātalaghoṣeṇa sarve lokāḥ samākulāḥ babhūvur vaśagāḥ pārtha nipetuś ca surāsurāḥ 45 āpaś cukṣubhire sarvāś cakampe ca vasuṃdharā parvatāś ca vyaśīryanta diśo nāgāś ca mohitāḥ 46 andhāś ca tamasā lokā na prakāśanta saṃvṛtāḥ jaghnivān saha sūryeṇa sarveṇāṃ jyotiṣāṃ prabhāḥ 47 cukruśur bhayabhītāś ca śāntiṃ cakrus tathaiva ca ṛṣayaḥ sarvabhūtānām ātmanaś ca sukhaiṣiṇaḥ 48 pūṣāṇam abhyadravata śaṃkaraḥ prahasann iva puroḍāśaṃ bhakṣayato daśanān vai vyaśātayat 49 tato niścakramur devā vepamānā natāḥ sma tam punaś ca saṃdadhe dīptaṃ devānāṃ niśitaṃ śaram 50 rudrasya yajñabhāgaṃ ca viśiṣṭaṃ te nv akalpayan bhayena tridaśā rājañ śaraṇaṃ ca prapedire 51 tena caivātikopena sa yajñaḥ saṃdhitas tadā yattāś cāpi surā āsan yattāś cādyāpi taṃ prati 52 asurāṇāṃ purāṇy āsaṃs trīṇi vīryavatāṃ divi āyasaṃ rājataṃ caiva sauvarṇam aparaṃ mahat 53 āyasaṃ tārakākṣasya kamalākṣasya rājatam sauvarṇaṃ paramaṃ hy āsīd vidyunmālina eva ca 54 na śaktas tāni maghavān bhettuṃ sarvāyudhair api atha sarve 'marā rudraṃ jagmuḥ śaraṇam arditāḥ 55 te tam ūcur mahātmānaṃ sarve devāḥ sa vāsavāḥ rudra raudrā bhaviṣyanti paśavaḥ sarvakarmasu nipātayiṣyase cainān asurān bhuvaneśvara 56 sa tathoktas tathety uktvā devānāṃ hitakāmyayā atiṣṭhat sthāṇubhūtaḥ sa sahasraṃ parivatsarān 57 yadā trīṇi sametāni antarikṣe purāṇi vai triparvaṇā triśalyena tena tāni bibheda saḥ 58 purāṇi na ca taṃ śekur dānavāḥ prativīkṣitum śaraṃ kālāgnisaṃyuktaṃ viṣṇusomasamāyutam 59 bālam aṅkagataṃ kṛtvā svayaṃ pañca śikhaṃ punaḥ umā jijñāsamānā vai ko yam ity abravīt surān 60 bāhuṃ savajraṃ śakrasya kruddhasyāstambhayat prabhu sa eṣa bhagavān devaḥ sarvalokeśvaraḥ prabhuḥ 61 na saṃbubudhire cainaṃ devās taṃ bhuvaneśvaram sa prajāpatayaḥ sarve bālārkasadṛśaprabham 62 athābhyetya tato brahmā dṛṣṭvā ca sa maheśvaram ayaṃ śreṣṭha iti jñātvā vavande taṃ pitāmahaḥ 63 tataḥ prasādayām āsur umāṃ rudraṃ ca te surāḥ abhavac ca punar bāhur yathā prakṛtivajriṇaḥ 64 teṣāṃ prasanno bhagavān sapatnīko vṛṣadhvajaḥ devānāṃ tridaśaśreṣṭho dakṣayajñavināśanaḥ 65 sa vai rudraḥ sa ca śivaḥ so 'gniḥ śarvaḥ sa sarvavit sa cendraś caiva vāyuś ca so 'śvinau sa ca vidyutaḥ 66 sa bhavaḥ sa ca parjanyo mahādevaḥ sa cānaghaḥ sa candramāḥ sa ceśānaḥ sa sūryo varuṇaś ca saḥ 67 sa kālaḥ so 'ntako mṛtyuḥ sa yamo rātryahāni ca māsārdha māsā ṛtavaḥ saṃdhye saṃvatsaraś ca saḥ 68 sa ca dhātā vidhātā ca viśvātmā viśvakarmakṛt sarvāsāṃ devatānāṃ ca dhārayaty avapur vapuḥ 69 sarvair devaiḥ stuto devaḥ saikadā bahudhā ca saḥ śatadhā sahasradhā caiva tathā śatasahasradhā 70 īdṛśaḥ sa mahādevo bhūyaś ca bhagavān ajaḥ na hi sarve mayā śakyā vaktuṃ bhagavato guṇāḥ 71 sarvair grahair gṛhītān vai sarvapāpasamanvitān sa mocayati suprītaḥ śaraṇyaḥ śaraṇāgatān 72 āyur ārogyam aiśvaryaṃ vittaṃ kāmāṃś ca puṣkalān sa dadāti manuṣyebhyaḥ sa caivākṣipate punaḥ 73 sendrādiṣu ca deveṣu tasya caiśvaryam ucyate sa caiva vyāhṛte loke manuṣyāṇāṃ śubhāśubhe 74 aiśvaryāc caiva kāmānām īśvaraḥ punar ucyate maheśvaraś ca bhūtānāṃ mahatām īśvaraś ca saḥ 75 bahubhir bahudhā rūpair viśvaṃ vyāpnoti vai jagat asya devasya yad vaktraṃ samudre tad atiṣṭhata 76 eṣa caiva śmaśāneṣu devo vasati nityaśaḥ yajanty enaṃ janās tatra vīra sthāna itīśvaram 77 asya dīptāni rūpāṇi ghorāṇi ca bahūni ca loke yāny asya kurvanti manuṣyāḥ pravadanti ca 78 nāmadheyāni lokeṣu bahūny atra yathārthavat nirucyante mahattvāc ca vibhutvāt karmabhis tathā 79 vede cāsya samāmnātaṃ śatarudrīyam uttamam nāmnā cānanta rudreti upasthānaṃ mahātmanaḥ 80 sa kāmānāṃ prabhur devo ye divyā ye ca mānuṣāḥ sa vibhuḥ sa prabhur devo viśvaṃ vyāpnuvate mahat 81 jyeṣṭhaṃ bhūtaṃ vadanty enaṃ brāhmaṇā munayas tathā prathamo hy eṣa devānāṃ mukhād asyānalo 'bhavat 82 sarvathā yat paśūn pāti taiś ca yad ramate punaḥ teṣām adhipatir yac ca tasmāt paśupatiḥ smṛtaḥ 83 nityena brahmacaryeṇa liṅgam asya yadā sthitam mahayanti ca lokāś ca maheśvara iti smṛtaḥ 84 ṛṣayaś caiva devāś ca gandharvāpsarasas tathā liṅgam asyārcayanti sma tac cāpy ūrdhvaṃ samāsthitam 85 pūjyamāne tatas tasmin modate sa maheśvaraḥ sukhī prītaś ca bhavati prahṛṣṭaś caiva śaṃkaraḥ 86 yad asya bahudhā rūpaṃ bhūtabhavya bhavat sthitam sthāvaraṃ jaṅgamaṃ caiva bahurūpas tataḥ smṛtaḥ 87 ekākṣo jājvalann āste sarvato 'kṣimayo 'pi vā krodhādyaś cāviśal lokāṃs tasmāc charva iti smṛtaḥ 88 dhūmraṃ rūpaṃ ca yat tasya dhūrjaṭis tena ucyate viśve devāś ca yat tasmin viśvarūpas tataḥ smṛtaḥ 89 tisro devīr yadā caiva bhajate bhuvaneśvaraḥ dyām apaḥ pṛthivīṃ caiva tryambakaś ca tataḥ smṛtaḥ 90 samedhayati yan nityaṃ sarvārthān sarvakarmasu śivam icchan manuṣyāṇāṃ tasmād eśa śivaḥ smṛtaḥ 91 sahasrākṣo 'yutākṣo vā sarvato 'kṣimayo 'pi vā yac ca viśvaṃ mahat pāti mahādevas tataḥ smṛtaḥ 92 dahaty ūrdhvaṃ sthito yac ca prāṇotpattiḥ sthitiś ca yat sthitaliṅgaś ca yan nityaṃ tasmāt sthāṇur iti smṛtaḥ 93 viṣamasthaḥ śarīreṣu samaś ca prāṇinām iha sa vāyur viṣamastheṣu prāṇāpānaśarīriṣu 94 pūjayed vigrahaṃ yas tu liṅgaṃ vāpi samarcayet liṅgaṃ pūjayitā nityaṃ mahatīṃ śriyam aśnute 95 ūrubhyām ardham āgneyaṃ somārdhaṃ ca śivā tanuḥ ātmano 'rdhaṃ ca tasyāgniḥ somo 'rdhaṃ punar ucyate 96 taijasī mahatī dīptā devebhyaś ca śivā tanuḥ bhāsvatī mānuṣeṣv asya tanur ghorāgnir ucyate 97 brahmacaryaṃ caraty eṣa śivā yāsya tanus tayā yāsya ghoratarā mūrtiḥ sarvān atti tayeśvaraḥ 98 yan nirdahati yat tīkṣṇo yad ugro yat pratāpavān māṃsaśoṇitamajjādo yat tato rudra ucyate 99 eṣa devo mahādevo yo 'sau pārtha tavāgrataḥ saṃgrāme śātravān nighnaṃs tvayā dṛṣṭaḥ pināka dhṛk 100 eṣa vai bhagavān devaḥ saṃgrāme yati te 'grataḥ yena dattāni te 'strāṇi yais tvayā dānavā hatāḥ 101 dhanyaṃ yaśasyam āyuṣyaṃ puṇyaṃ vedaiś ca saṃjñitam devadevasya te pārtha vyākhyātma śatarudriyam 102 sarvārthasādhakaṃ puṇyaṃ sarvakilbiṣa nāśanam sarvapāpapraśamanaṃ sarvaduḥkhabhayāpaham 103 caturvidham idaṃ stotraṃ yaḥ śṛṇoti naraḥ sadā vijitya sarvāñ śatrūn sa rudra loke mahīyate 104 caritaṃ mahātmano divyaṃ sāṃgrāmikam idaṃ śubham paṭhan vai śatarudrīyaṃ śṛṇvaṃś ca satatotthitaḥ 105 bhakto viśveśvaraṃ devaṃ mānuṣeṣu tu yaḥ sadā varān sa kāmāṁl labhate prasanne tryambake naraḥ 106 gaccha yudhyasva kaunteya na tavāsti parājayaḥ yasya mantrī ca goptā ca pārśvatas te janārdanaḥ 107 [s] evam uktvārjunaṃ saṃkhye parāśara sutas tadā jagāma bharataśreṣṭha yathāgatam ariṃdama |
The Mahabharata in Sanskrit
Book 8
Chapter 1
|
1
[व] ततॊ दरॊणे हते राजन दुर्यॊधनमुखा नृपाः भृशम उद्विग्नमनसॊ दरॊणपुत्रम उपागमन 2 ते दरॊणम उपशॊचन्तः कश्मलाभिहतौजसः पर्युपासन्त शॊकार्तास ततः शारद्वती सुतम 3 मुहूर्तं ते समाश्वास्य हेतुभिः शास्त्रसंमितैः रात्र्यागमे महीपालाः सवानि वेश्मानि भेजिरे 4 विशेषतः सूतपुत्रॊ राजा चैव सुयॊधनः दुःशासनॊ ऽथ शकुनिर न निद्राम उपलेभिरे 5 ते वेश्मस्व अपि कौरव्य पृथ्वीशा नाप्नुवन सुखम चिन्तयन्तः कषयं तीव्रं निद्रां नैवॊपलेभिरे 6 सहितास ते निशायां तु दुर्यॊधन निवेशने अतिप्रचण्डाद विद्वेषात पाण्डवानां महात्मनाम 7 यत तद दयूतपरिक्लिष्टां कृष्णाम आनिन्यिरे सभाम तत समरन्तॊ ऽनवतप्यन्त भृशम उद्विग्नचेतसः 8 चिन्तयन्तश च पार्थानां तान कलेशान दयूतकारितान कृच्छ्रेण कषणदां राजन निन्युर अब्द शतॊपमाम 9 ततः परभाते विमले सथिता दिष्टस्य शासने चक्रुर आवश्यकं सर्वे विधिदृष्टेन कर्मणा 10 ते कृत्वावश्य कार्याणि समाश्वस्य च भारत यॊगम आज्ञापयाम आसुर युद्धाय च विनिर्ययुः 11 कर्णं सेनापतिं कृत्वा कृतकौतुक मङ्गलाः वाचयित्वा दविजश्रेष्ठान दधि पात्रघृताक्षतैः 12 निष्कैर गॊभिर हिरण्येन वासॊभिश च महाधनैः वर्ध्यमाना जयाशीर्भिः सूतमागधबन्दिभिः 13 तथैव पाण्डवा राजन कृतसर्वाह्णिक करियाः शिबिरान निर्ययू राजन युद्धाय कृतनिश्चयाः 14 ततः परववृते युद्धं तुमुलं रॊमहर्षणम कुरूणां पाण्डवानां च परस्परवधैषिणाम 15 तयॊर दवे दिवसे युद्धं कुरुपाण्डवसेनयॊः कर्णे सेनापतौ राजन्न अभूद अद्भुतदर्शनम 16 ततः शत्रुक्षयं कृत्वा सुमहान्तं रणे वृषः पश्यतां धार्तराष्ट्राणां फल्गुनेन निपातितः 17 ततस तत संजयः सर्वं गत्वा नागाह्वयं पुरम आचख्यौ धृतराष्ट्राय यद्वृत्तं कुरुजाङ्गले 18 [ज] आपगेयं हतं शरुत्वा दरॊणं च समरे परैः यॊ जगाम पराम आर्तिं वृद्धॊ राजाम्बिका सुतः 19 स शरुत्वा निहतं कर्णं दुर्यॊधनहितैषिणम कथं दविज वरप्राणान अधारयत दुःखितः 20 यस्मिञ जयाशां पुत्राणाम अमन्यत स पार्थिवः तस्मिन हते स कौरव्यः कथं पराणान अधारयत 21 दुर्मरं बत मन्ये ऽहं नृषां कृच्छ्रे ऽपि वर्तताम यत्र कर्णं हतं शरुत्वा नात्यजज जीवितं नृपः 22 तथा शांतनवं वृद्धं बरह्मन बाह्लिकम एव च दरॊणं च सॊमदत्तं च भूरिश्रवसम एव च 23 तथैव चान्यान सुहृदः पुत्रपौत्रांश च पातितान शरुत्वा यन नाजहात पराणांस तन मन्ये दुष्करं दविज 24 एतन मे सर्वम आचक्ष्व विस्तरेण तपॊधन न हि तृप्यामि पूर्वेषां शृण्वानश चरितं महत 25 [व] हते कर्णे महाराज निशि गावल्गणिस तदा दीनॊ ययौ नागपुरम अश्वैर वातसमैर जवे 26 स हास्तिनपुरं गत्वा भृशम उद्विग्नमानसः जगाम धृतराष्ट्रस्य कषयं परक्षीणबान्धवम 27 स समुद्वीक्ष्य राजानं कश्मलाभिहतौजसम ववन्दे पराञ्जलिर भूत्वा मूर्ध्ना पादौ नृपस्य ह 28 संपूज्य च यथान्यायं धृतराष्ट्रं महीपतिम हा कष्टम इति चॊक्त्वा स ततॊ वचनम आददे 29 संजयॊ ऽहं कषितिपते कच चिद आस्ते सुखं भवान सवदॊषेणापदं पराप्य कच चिन नाद्य विमुह्यसि 30 हितान्य उक्तानि विदुर दरॊण गाङ्गेय केशवैः अगृहीतान्य अनुस्मृत्य कच चिन न कुरुषे वयथाम 31 राम नारद कण्वैश च हितम उक्तं सभा तले न गृहीतम अनुस्मृत्य कच चिन न कुरुषे वयथाम 32 सुहृदस तवद्धिते युक्तान भीष्मद्रॊणमुखान परैः निहतान युधि संस्मृत्य कच चिन न कुरुषे वयथाम 33 तम एवं वादिनं राजा सूतपुत्रं कृताञ्जलिम सुदीर्घम अभिनिःश्वस्य दुःखार्त इदम अब्रवीत 34 गाङ्गेये निहते शूरे दिव्यास्त्रवति संजय दरॊणे च परमेष्वासे भृशं मे वयथितं मनः 35 यॊ रथानां सहस्राणि दंशितानां दशैव हि अहन्य अहनि तेजस्वी निजघ्ने वसु संभवः 36 स हतॊ यज्ञसेनस्य पुत्रेणेह शिखण्डिना पाण्डवेयाभिगुप्तेन भृशं मे वयथितं मनः 37 भार्गवः परददौ यस्मै परमास्त्रं महात्मने साक्षाद रामेण यॊ बाल्ये धनुर्वेद उपाकृतः 38 यस्य परसादात कौन्तेया राजपुत्रा महाबलाः महारथत्वं संप्राप्तास तथान्ये वसुधाधिपाः 39 तं दरॊणं निहतं शरुत्वा धृष्टद्युम्नेन संयुगे सत्यसंधं महेष्वासं भृशं मे वयथितं मनः 40 तरैलॊक्ये यस्य शास्त्रेषु न पुमान विद्यते समः तं दरॊणं निहतं शरुत्वा किम अकुर्वत मामकाः 41 संशप्तकानां च बले पाण्डवेन महात्मना धनंजयेन विक्रम्य गमिते यमसादनम 42 नारायणास्त्रे निहते दरॊणपुत्रस्य धीमतः हतशेषेष्व अनीकेषु किम अकुर्वत मामकाः 43 विप्रद्रुतान अहं मन्ये निमग्नः शॊकसागरे परवमानान हते दरॊणे सन्ननौकान इवार्णवे 44 दुर्यॊधनस्य कर्णस्य भॊजस्य कृतवर्मणः मद्रराजस्य शल्यस्य दरौणेश चैव कृपस्य च 45 मत पुत्र शेषस्य तथा तथान्येषां च संजय विप्रकीर्णेष्व अनीकेषु मुखवर्णॊ ऽभवत कथम 46 एतत सर्वं यथावृत्तं तत्त्वं गावल्गणे रणे आचक्ष्व पाण्डवेयानां मामकानां च सर्वशः 47 [स] पाण्डवेयैर हि यद्वृत्तं कौरवेयेषु मारिष तच छरुत्वा मा वयथां कार्षीद इष्टे न वयथते मनः 48 यस्माद अभावी भावी वा भवेद अर्थॊ नरं परति अप्राप्तौ तस्य वा पराप्तौ न कश चिद वयथते बुधः 49 [धृ] न वयथा शृण्वतः का चिद विद्यते मम संजय दिष्टम एतत पुरा मन्ये कथयस्व यथेच्छकम |
1
[v] tato droṇe hate rājan duryodhanamukhā nṛpāḥ bhṛśam udvignamanaso droṇaputram upāgaman 2 te droṇam upaśocantaḥ kaśmalābhihataujasaḥ paryupāsanta śokārtās tataḥ śāradvatī sutam 3 muhūrtaṃ te samāśvāsya hetubhiḥ śāstrasaṃmitaiḥ rātryāgame mahīpālāḥ svāni veśmāni bhejire 4 viśeṣataḥ sūtaputro rājā caiva suyodhanaḥ duḥśāsano 'tha śakunir na nidrām upalebhire 5 te veśmasv api kauravya pṛthvīśā nāpnuvan sukham cintayantaḥ kṣayaṃ tīvraṃ nidrāṃ naivopalebhire 6 sahitās te niśāyāṃ tu duryodhana niveśane atipracaṇḍād vidveṣāt pāṇḍavānāṃ mahātmanām 7 yat tad dyūtaparikliṣṭāṃ kṛṣṇām āninyire sabhām tat smaranto 'nvatapyanta bhṛśam udvignacetasaḥ 8 cintayantaś ca pārthānāṃ tān kleśān dyūtakāritān kṛcchreṇa kṣaṇadāṃ rājan ninyur abda śatopamām 9 tataḥ prabhāte vimale sthitā diṣṭasya śāsane cakrur āvaśyakaṃ sarve vidhidṛṣṭena karmaṇā 10 te kṛtvāvaśya kāryāṇi samāśvasya ca bhārata yogam ājñāpayām āsur yuddhāya ca viniryayuḥ 11 karṇaṃ senāpatiṃ kṛtvā kṛtakautuka maṅgalāḥ vācayitvā dvijaśreṣṭhān dadhi pātraghṛtākṣataiḥ 12 niṣkair gobhir hiraṇyena vāsobhiś ca mahādhanaiḥ vardhyamānā jayāśīrbhiḥ sūtamāgadhabandibhiḥ 13 tathaiva pāṇḍavā rājan kṛtasarvāhṇika kriyāḥ śibirān niryayū rājan yuddhāya kṛtaniścayāḥ 14 tataḥ pravavṛte yuddhaṃ tumulaṃ romaharṣaṇam kurūṇāṃ pāṇḍavānāṃ ca parasparavadhaiṣiṇām 15 tayor dve divase yuddhaṃ kurupāṇḍavasenayoḥ karṇe senāpatau rājann abhūd adbhutadarśanam 16 tataḥ śatrukṣayaṃ kṛtvā sumahāntaṃ raṇe vṛṣaḥ paśyatāṃ dhārtarāṣṭrāṇāṃ phalgunena nipātitaḥ 17 tatas tat saṃjayaḥ sarvaṃ gatvā nāgāhvayaṃ puram ācakhyau dhṛtarāṣṭrāya yadvṛttaṃ kurujāṅgale 18 [j] āpageyaṃ hataṃ śrutvā droṇaṃ ca samare paraiḥ yo jagāma parām ārtiṃ vṛddho rājāmbikā sutaḥ 19 sa śrutvā nihataṃ karṇaṃ duryodhanahitaiṣiṇam kathaṃ dvija varaprāṇān adhārayata duḥkhitaḥ 20 yasmiñ jayāśāṃ putrāṇām amanyata sa pārthivaḥ tasmin hate sa kauravyaḥ kathaṃ prāṇān adhārayat 21 durmaraṃ bata manye 'haṃ nṛṣāṃ kṛcchre 'pi vartatām yatra karṇaṃ hataṃ śrutvā nātyajaj jīvitaṃ nṛpaḥ 22 tathā śāṃtanavaṃ vṛddhaṃ brahman bāhlikam eva ca droṇaṃ ca somadattaṃ ca bhūriśravasam eva ca 23 tathaiva cānyān suhṛdaḥ putrapautrāṃś ca pātitān śrutvā yan nājahāt prāṇāṃs tan manye duṣkaraṃ dvija 24 etan me sarvam ācakṣva vistareṇa tapodhana na hi tṛpyāmi pūrveṣāṃ śṛṇvānaś caritaṃ mahat 25 [v] hate karṇe mahārāja niśi gāvalgaṇis tadā dīno yayau nāgapuram aśvair vātasamair jave 26 sa hāstinapuraṃ gatvā bhṛśam udvignamānasaḥ jagāma dhṛtarāṣṭrasya kṣayaṃ prakṣīṇabāndhavam 27 sa samudvīkṣya rājānaṃ kaśmalābhihataujasam vavande prāñjalir bhūtvā mūrdhnā pādau nṛpasya ha 28 saṃpūjya ca yathānyāyaṃ dhṛtarāṣṭraṃ mahīpatim hā kaṣṭam iti coktvā sa tato vacanam ādade 29 saṃjayo 'haṃ kṣitipate kac cid āste sukhaṃ bhavān svadoṣeṇāpadaṃ prāpya kac cin nādya vimuhyasi 30 hitāny uktāni vidura droṇa gāṅgeya keśavaiḥ agṛhītāny anusmṛtya kac cin na kuruṣe vyathām 31 rāma nārada kaṇvaiś ca hitam uktaṃ sabhā tale na gṛhītam anusmṛtya kac cin na kuruṣe vyathām 32 suhṛdas tvaddhite yuktān bhīṣmadroṇamukhān paraiḥ nihatān yudhi saṃsmṛtya kac cin na kuruṣe vyathām 33 tam evaṃ vādinaṃ rājā sūtaputraṃ kṛtāñjalim sudīrgham abhiniḥśvasya duḥkhārta idam abravīt 34 gāṅgeye nihate śūre divyāstravati saṃjaya droṇe ca parameṣvāse bhṛśaṃ me vyathitaṃ manaḥ 35 yo rathānāṃ sahasrāṇi daṃśitānāṃ daśaiva hi ahany ahani tejasvī nijaghne vasu saṃbhavaḥ 36 sa hato yajñasenasya putreṇeha śikhaṇḍinā pāṇḍaveyābhiguptena bhṛśaṃ me vyathitaṃ manaḥ 37 bhārgavaḥ pradadau yasmai paramāstraṃ mahātmane sākṣād rāmeṇa yo bālye dhanurveda upākṛtaḥ 38 yasya prasādāt kaunteyā rājaputrā mahābalāḥ mahārathatvaṃ saṃprāptās tathānye vasudhādhipāḥ 39 taṃ droṇaṃ nihataṃ śrutvā dhṛṣṭadyumnena saṃyuge satyasaṃdhaṃ maheṣvāsaṃ bhṛśaṃ me vyathitaṃ manaḥ 40 trailokye yasya śāstreṣu na pumān vidyate samaḥ taṃ droṇaṃ nihataṃ śrutvā kim akurvata māmakāḥ 41 saṃśaptakānāṃ ca bale pāṇḍavena mahātmanā dhanaṃjayena vikramya gamite yamasādanam 42 nārāyaṇāstre nihate droṇaputrasya dhīmataḥ hataśeṣeṣv anīkeṣu kim akurvata māmakāḥ 43 vipradrutān ahaṃ manye nimagnaḥ śokasāgare pravamānān hate droṇe sannanaukān ivārṇave 44 duryodhanasya karṇasya bhojasya kṛtavarmaṇaḥ madrarājasya śalyasya drauṇeś caiva kṛpasya ca 45 mat putra śeṣasya tathā tathānyeṣāṃ ca saṃjaya viprakīrṇeṣv anīkeṣu mukhavarṇo 'bhavat katham 46 etat sarvaṃ yathāvṛttaṃ tattvaṃ gāvalgaṇe raṇe ācakṣva pāṇḍaveyānāṃ māmakānāṃ ca sarvaśaḥ 47 [s] pāṇḍaveyair hi yadvṛttaṃ kauraveyeṣu māriṣa tac chrutvā mā vyathāṃ kārṣīd iṣṭe na vyathate manaḥ 48 yasmād abhāvī bhāvī vā bhaved artho naraṃ prati aprāptau tasya vā prāptau na kaś cid vyathate budhaḥ 49 [dhṛ] na vyathā śṛṇvataḥ kā cid vidyate mama saṃjaya diṣṭam etat purā manye kathayasva yathecchakam |
The Mahabharata in Sanskrit
Book 8
Chapter 2
|
1
[स] हते दरॊणे महेष्वासे तव पुत्रा महारथाः बभूवुर आश्वस्त मुखा विषण्णा गतचेतसः 2 अवाङ्मुखाः शस्त्रभृतः सर्व एव विशां पते अप्रेक्षमाणाः शॊकार्ता नाभ्यभाषन परस्परम 3 तान दृष्ट्वा वयथिताकारान सैन्यानि तव भारत ऊर्ध्वम एवाभ्यवेक्षन्त दुःखत्रस्तान्य अनेकशः 4 शस्त्राण्य एषां च राजेन्द्र शॊणिताक्तान्य अशेषतः पराभ्रश्यन्त कराग्रेभ्यॊ दृष्ट्वा दरॊणं निपातितम 5 तानि बद्धान्य अनिष्टानि लम्बमानानि भारत अदृश्यन्त महाराज नक्षत्राणि यथा दिवि 6 तथार्तं सतिमितं दृष्ट्वा गतसत्त्वम इव सथितम सवं बलं तन महाराज राजा दुर्यॊधनॊ ऽबरवीत 7 भवतां बाहुवीर्यं हि समाश्रित्य मया युधि पाण्डवेयाः समाहूता युद्धं चेदं परवर्तितम 8 तद इदं निहते दरॊणे विषण्णम इव लक्ष्यते युध्यमानाश च समरे यॊधा वध्यन्ति सर्वतः 9 जयॊ वापि वधॊ वापि युध्यमानस्य संयुगे भवेत किम अत्र चित्रं वै युध्यध्वं सर्वतॊ मुखाः 10 पश्यध्वं च महात्मानं कर्णं वैकर्तनं युधि परचरन्तं महेष्वासं दिव्यैर अस्त्रैर महाबलम 11 यस्य वै युधि संत्रासात कुन्तीपुत्रॊ धनंजयः निवर्तते सदामर्षात सिंहात कषुद्रमृगॊ यथा 12 येन नागायुत पराणॊ भीमसेनॊ महाबलः मानुषेणैव युद्धेन ताम अवस्थां परवेशितः 13 येन दिव्यास्त्रविच छूरॊ मायावी स घटॊत्कचः अमॊघया रणे शक्त्या निहतॊ भैरवं नदन 14 तस्य दुष्पार वीर्यस्य सत्यसंधस्य धीमतः बाह्वॊर दरविणम अक्षय्यम अद्य दरक्ष्यथ संयुगे 15 दरॊणपुत्रस्य विक्रान्तं राधेयस्यैव चॊभयॊः पाण्डुपाञ्चाल सैन्येषु दरक्ष्यथापि महात्मनॊः 16 सर्व एव भवन्तश च शूराः पराज्ञाः कुलॊद्गताः शीलवन्तः कृतास्त्राश च दरक्ष्यथाद्य परस्परम 17 एवम उक्ते महाराज कर्णॊ वैकर्तनॊ नृपः सिंहनादं विनद्यॊच्चैः परायुध्यत महाबलः 18 स सृञ्जयानां सर्वेषां पाञ्चालानां च पश्यताम केकयानां विदेहानाम अकरॊत कदनं महत 19 तस्येषु धाराः शतशः परादुरासञ शरासनात अग्रे पुङ्खे च संसक्ता यथा भरमरपङ्क्तयः 20 स पीडयित्वा पाञ्चालान पाण्डवांश च तरस्विनः हत्वा सहस्रशॊ यॊधान अर्जुनेन निपातितः |
1
[s] hate droṇe maheṣvāse tava putrā mahārathāḥ babhūvur āśvasta mukhā viṣaṇṇā gatacetasaḥ 2 avāṅmukhāḥ śastrabhṛtaḥ sarva eva viśāṃ pate aprekṣamāṇāḥ śokārtā nābhyabhāṣan parasparam 3 tān dṛṣṭvā vyathitākārān sainyāni tava bhārata ūrdhvam evābhyavekṣanta duḥkhatrastāny anekaśaḥ 4 śastrāṇy eṣāṃ ca rājendra śoṇitāktāny aśeṣataḥ prābhraśyanta karāgrebhyo dṛṣṭvā droṇaṃ nipātitam 5 tāni baddhāny aniṣṭāni lambamānāni bhārata adṛśyanta mahārāja nakṣatrāṇi yathā divi 6 tathārtaṃ stimitaṃ dṛṣṭvā gatasattvam iva sthitam svaṃ balaṃ tan mahārāja rājā duryodhano 'bravīt 7 bhavatāṃ bāhuvīryaṃ hi samāśritya mayā yudhi pāṇḍaveyāḥ samāhūtā yuddhaṃ cedaṃ pravartitam 8 tad idaṃ nihate droṇe viṣaṇṇam iva lakṣyate yudhyamānāś ca samare yodhā vadhyanti sarvataḥ 9 jayo vāpi vadho vāpi yudhyamānasya saṃyuge bhavet kim atra citraṃ vai yudhyadhvaṃ sarvato mukhāḥ 10 paśyadhvaṃ ca mahātmānaṃ karṇaṃ vaikartanaṃ yudhi pracarantaṃ maheṣvāsaṃ divyair astrair mahābalam 11 yasya vai yudhi saṃtrāsāt kuntīputro dhanaṃjayaḥ nivartate sadāmarṣāt siṃhāt kṣudramṛgo yathā 12 yena nāgāyuta prāṇo bhīmaseno mahābalaḥ mānuṣeṇaiva yuddhena tām avasthāṃ praveśitaḥ 13 yena divyāstravic chūro māyāvī sa ghaṭotkacaḥ amoghayā raṇe śaktyā nihato bhairavaṃ nadan 14 tasya duṣpāra vīryasya satyasaṃdhasya dhīmataḥ bāhvor draviṇam akṣayyam adya drakṣyatha saṃyuge 15 droṇaputrasya vikrāntaṃ rādheyasyaiva cobhayoḥ pāṇḍupāñcāla sainyeṣu drakṣyathāpi mahātmanoḥ 16 sarva eva bhavantaś ca śūrāḥ prājñāḥ kulodgatāḥ śīlavantaḥ kṛtāstrāś ca drakṣyathādya parasparam 17 evam ukte mahārāja karṇo vaikartano nṛpaḥ siṃhanādaṃ vinadyoccaiḥ prāyudhyata mahābalaḥ 18 sa sṛñjayānāṃ sarveṣāṃ pāñcālānāṃ ca paśyatām kekayānāṃ videhānām akarot kadanaṃ mahat 19 tasyeṣu dhārāḥ śataśaḥ prādurāsañ śarāsanāt agre puṅkhe ca saṃsaktā yathā bhramarapaṅktayaḥ 20 sa pīḍayitvā pāñcālān pāṇḍavāṃś ca tarasvinaḥ hatvā sahasraśo yodhān arjunena nipātitaḥ |
The Mahabharata in Sanskrit
Book 8
Chapter 3
|
1
[वै] एतच छरुत्वा महाराज धृतराष्ट्रॊ ऽमबिका सुतः शॊकस्यान्तम अपश्यन वै हतं मत्वा सुयॊधनम विह्वलः पतितॊ भूमौ नष्टचेता इव दविपः 2 तस्मिन निपतिते भूमौ विह्वले राजसत्तमे आर्तनादॊ महान आसीत सत्रीणां भरतसत्तम 3 स शब्दः पृथिवीं सर्वां पूरयाम आस सर्वशः शॊकार्णवे महाघॊरे निमग्ना भरत सत्रियः 4 राजानं च समासाद्य गान्धारी भरतर्षभ निःसंज्ञा पतिता भूमौ सर्वाण्य अन्तःपुराणि च 5 ततस ताः संजयॊ राजन समाश्वासयद आतुराः मुह्यमानाः सुबहुशॊ मुञ्चन्त्यॊ वारि नेत्रजम 6 समाश्वस्ताः सत्रियस तास तु वेपमाना मुहुर मुहुः कदल्य इव वातेन धूयमानाः समन्ततः 7 राजानं विदुरश चापि परज्ञा चक्षुषम ईश्वरम आश्वासयाम आस तदा सिञ्चंस तॊयेन कौरवम 8 स लब्ध्वा शनकैः संज्ञां ताश च दृष्ट्वा सत्रियॊ नृप उन्मत्त इव राजा स सथितस तूष्णीं विशां पते 9 ततॊ धयात्वा चिरं कालं निःश्वसंश च पुनः पुनः सवान पुत्रान गर्हयाम आस बहु मेने च पाण्डवान 10 गर्हयित्वात्मनॊ बुद्धिं शकुनेः सौबलस्य च धयात्वा च सुचिरं कालं वेपमानॊ मुहुर मुहुः 11 संस्तभ्य च मनॊ भूयॊ राजा धैर्यसमन्वितः पुनर गावल्गणिं सूतं पर्यपृच्छत संजयम 12 यत तवया कथितं वाक्यं शरुतं संजय तन मया कच चिद दुर्यॊधनः सूत न गतॊ वै यमक्षयम बरूहि संजय तत्त्वेन पुनर उक्तां कथाम इमाम 13 एवम उक्तॊ ऽबरवीत सूतॊ राजानं जनमेजय हतॊ वैकर्तनॊ राजन सह पुत्रैर महारथैः भरातृभिश च महेष्वासैः सूतपुत्रैस तनुत्यजैः 14 दुःशासनश च निहतः पाण्डवेन यशस्विना पीतं च रुधिरं कॊपाद भीमसेनेन संयुगे |
1
[vai] etac chrutvā mahārāja dhṛtarāṣṭro 'mbikā sutaḥ śokasyāntam apaśyan vai hataṃ matvā suyodhanam vihvalaḥ patito bhūmau naṣṭacetā iva dvipaḥ 2 tasmin nipatite bhūmau vihvale rājasattame ārtanādo mahān āsīt strīṇāṃ bharatasattama 3 sa śabdaḥ pṛthivīṃ sarvāṃ pūrayām āsa sarvaśaḥ śokārṇave mahāghore nimagnā bharata striyaḥ 4 rājānaṃ ca samāsādya gāndhārī bharatarṣabha niḥsaṃjñā patitā bhūmau sarvāṇy antaḥpurāṇi ca 5 tatas tāḥ saṃjayo rājan samāśvāsayad āturāḥ muhyamānāḥ subahuśo muñcantyo vāri netrajam 6 samāśvastāḥ striyas tās tu vepamānā muhur muhuḥ kadalya iva vātena dhūyamānāḥ samantataḥ 7 rājānaṃ viduraś cāpi prajñā cakṣuṣam īśvaram āśvāsayām āsa tadā siñcaṃs toyena kauravam 8 sa labdhvā śanakaiḥ saṃjñāṃ tāś ca dṛṣṭvā striyo nṛpa unmatta iva rājā sa sthitas tūṣṇīṃ viśāṃ pate 9 tato dhyātvā ciraṃ kālaṃ niḥśvasaṃś ca punaḥ punaḥ svān putrān garhayām āsa bahu mene ca pāṇḍavān 10 garhayitvātmano buddhiṃ śakuneḥ saubalasya ca dhyātvā ca suciraṃ kālaṃ vepamāno muhur muhuḥ 11 saṃstabhya ca mano bhūyo rājā dhairyasamanvitaḥ punar gāvalgaṇiṃ sūtaṃ paryapṛcchata saṃjayam 12 yat tvayā kathitaṃ vākyaṃ śrutaṃ saṃjaya tan mayā kac cid duryodhanaḥ sūta na gato vai yamakṣayam brūhi saṃjaya tattvena punar uktāṃ kathām imām 13 evam ukto 'bravīt sūto rājānaṃ janamejaya hato vaikartano rājan saha putrair mahārathaiḥ bhrātṛbhiś ca maheṣvāsaiḥ sūtaputrais tanutyajaiḥ 14 duḥśāsanaś ca nihataḥ pāṇḍavena yaśasvinā pītaṃ ca rudhiraṃ kopād bhīmasenena saṃyuge |
The Mahabharata in Sanskrit
Book 8
Chapter 4
|
1
[वै] एतच छरुत्वा महाराज धृतराष्ट्रॊ ऽमबिका सुतः अब्रवीत संजयं सूतं शॊकव्याकुल चेतनः 2 दुष्प्रणीतेन मे तात मनसाभिप्लुतात्मनः हतं वैकर्तनं शरुत्वा शॊकॊ मर्माणि कृन्तति 3 कृतास्त्र परमाः शल्ये दुःखपारं तितीर्षवः कुरूणां सृञ्जयानां च के नु जीवन्ति के मृताः 4 [स] हतः शांतनवॊ राजन दुराधर्षः परतापवान हत्वा पाण्डव यॊधानाम अर्बुदं दशभिर दिनैः 5 ततॊ दरॊणॊ महेष्वासः पाञ्चालानां रथव्रजान निहत्य युधि दुर्धर्षः पश्चाद रुक्मरथॊ हतः 6 हतशिष्टस्य भीष्मेण दरॊणेन च महात्मना अर्धं निहत्य सैन्यस्य कर्णॊ वैकर्तनॊ हतः 7 विविंशतिर महाराज राजपुत्रॊ महाबलः आनर्तयॊधाञ शतशॊ निहत्य निहतॊ रणे 8 अथ पुत्रॊ विकर्णस ते कषत्रव्रतम अनुस्मरन कषीणवाहायुधः शूरः सथितॊ ऽभिमुखतः परान 9 घॊररूपान परिक्लेशान दुर्यॊधनकृतान बहून परतिज्ञां समरता चैव भीमसेनेन पातितः 10 विन्दानुविन्दाव आवन्त्यौ राजपुत्रौ महाबलौ कृत्वा न सुकरं कर्म गतौ वैवस्वतक्षयम 11 सिन्धुराष्ट्रमुखानीह दश राष्ट्राणि यस्य वै वशे तिष्ठन्ति वीरस्य यः सथितस तव शासने 12 अक्षौहिणीर दशैकां च निर्जित्य निशितैः शरैः अर्जुनेन हतॊ राजन महावीर्यॊ जयद्रथः 13 तथा दुर्यॊधन सुतस तरस्वी युद्धदुर्मदः वर्तमानः पितुः शास्त्रे सौभद्रेण निपातितः 14 तथा दौःशासनिर वीरॊ बाहुशाली रणॊत्कटः दरौपदेयेन विक्रम्य गमितॊ यमसादनम 15 किरातानाम अधिपतिः सागरानूपवासिनाम देवराजस्य धर्मात्मा परियॊ बहुमतः सखा 16 भगदत्तॊ महीपालः कषत्रधर्मरतः सदा धनंजयेन विक्रम्य गमितॊ यमसादनम 17 तथा कौरव दायादः सौमदत्तिर महायशाः हतॊ भूरिश्रवा राजञ शूरः सात्यकिना युधि 18 शरुतायुर अपि चाम्बष्ठः कषत्रियाणां धनुर्धरः चरन्न अभीतवत संख्ये निहतः सव्यसाचिना 19 तव पुत्रः सदा संख्ये कृतास्त्रॊ युद्धदुर्मदः दुःशासनॊ महाराज भीमसेनेन पातितः 20 यस्य राजन गजानीकं बहुसाहस्रम अद्भुतम सुदक्षिणः स संग्रामे निहतः सव्यसाचिना 21 कॊसलानाम अधिपतिर हत्वा बहुशतान परान सौभद्रेण हि विक्रम्य गमितॊ यमसादनम 22 बहुशॊ यॊधयित्वा च भीमसेनं महारथः चित्रसेनस तव सुतॊ भीमसेनेन पातितः 23 मद्रराजात्मजः शूरः परेषां भयवर्धनः असि चर्म धरः शरीमान सौभद्रेण निपातितः 24 समः कर्णस्य समरे यः स कर्णस्य पश्यतः वृषसेनॊ महातेजाः शीघ्रास्त्रः कृतनिश्चयः 25 अभिमन्यॊर वधं समृत्वा परतिज्ञाम अपि चात्मनः धनंजयेन विक्रम्य गमितॊ यमसादनम 26 नित्यप्रसक्तवैरॊ यः पाण्डवैः पृथिवीपतिः विश्राव्य वैरं पार्थेन शरुतायुः स निपातितः 27 शल्य पुत्रस तु विक्रान्तः सहदेवेन मारिष हतॊ रुक्मरथॊ राजन भराता मातुलजॊ युधि 28 राजा भगीरथॊ वृद्धॊ बृहत कषत्रश च केकयः पराक्रमन्तौ विक्रान्तौ निहतौ वीर्यवत्तरौ 29 भगदत्तसुतॊ राजन कृतप्रज्ञॊ महाबलः शयेनवच चरता संख्ये नकुलेन निपातितः 30 पितामहस तव तथा बाह्लिकः सह बाह्लिकैः भीमसेनेन विक्रम्य गमितॊ यमसादनम 31 जयत्सेनस तथा राजञ जारासंधिर महाबलः मागधॊ निहतः संख्ये सौभद्रेण महात्मना 32 पुत्रस ते दुर्मुखॊ राजन दुःसहश च महारथः गदया भीमसेनेन निहतौ शूरमानिनौ 33 दुर्मर्षणॊ दुर्विषहॊ दुर्जयश च महारथः कृत्वा न सुकरं कर्म गता वैवस्वतक्षयम 34 सचिवॊ वृषवर्मा ते सूतः परमवीर्यवान भीमसेनेन विक्रम्य गमितॊ यमसादनम 35 नागायुत बलॊ राजा नागायुत बलॊ महान सगणः पाण्डुपुत्रेण निहतः सव्यसाचिना 36 वसातयॊ महाराज दविसाहस्राः परहारिणः शूरसेनाश च विक्रान्ताः सर्वे युधि निपातिताः 37 अभीषाहाः कवचिनः परहरन्तॊ महॊत्कटाः शिबयश च रथॊदाराः कलिङ्ग सहिता हताः 38 गॊकुले नित्यसंवृद्धा युद्धे परमकॊविदाः शरेणयॊ बहुसाहस्राः संशप्तक गणाश च ये ते सर्वे पार्थम आसाद्य गता वैवस्वतक्षयम 39 सयालौ तव महाराज राजानौ वृषकाचलौ तवदर्थे संपराक्रान्तौ निहतौ सव्यसाचिना 40 उग्रकर्मा महेष्वासॊ नामतः कर्मतस तथा शाल्वराजॊ महाराज भीमसेनेन पातितः 41 ओघवांश च महाराज बृहन्तः सहितॊ रणे पराक्रमन्तौ मित्रार्थे गतौ वैवस्वतक्षयम 42 तथैव रथिनां शरेष्ठः कषेमधूर्तिर विशां पते निहतॊ गदया राजन भीमसेनेन संयुगे 43 तथा राजा महेष्वासॊ जलसंधॊ महाबलः सुमहत कदनं कृत्त्वा हतः सात्यकिना रणे 44 अलायुधॊ राक्षसेन्द्रः खरबन्धुर यानगः घटॊत्कचेन विक्रम्य गमितॊ यमसादनम 45 राधेयाः सूतपुत्राश च भरातरश च महारथाः केकयाः सर्वशश चापि निहताः सव्यसाचिना 46 मालवा मद्रकाश चैव दरविडाश चॊग्रविक्रमाः यौधेयाश च ललित्थाश च कषुद्रकाश चाप्य उशीनराः 47 मावेल्लकास तुण्डिकेराः सावित्री पुत्र काञ्चलाह पराच्यॊदीच्याः परतीच्याश च दाक्षिणात्याश च मारिष 48 पत्तीनां निहताः संघा हयानाम अयुतानि च रथव्रजाश च निहता हताश च वरवारणाः 49 स धवजाः सायुधाः शूराः स वर्माम्बर भूषणाः कालेन महता यत्ताः कुले ये च विवर्धिताः 50 ते हताः समरे राजन पार्थेनाक्लिष्ट कर्मणा अन्ये तथामित बलाः परस्परवधैषिणः 51 एते चान्ये च बहवॊ राजानः सगणा रणे हताः सहस्रशॊ राजन यन मां तवं परिपृच्छसि एवम एष कषयॊ वृत्तः कर्णार्जुन समागमे 52 महेन्द्रेण यथा वृत्रॊ यथा रामेण रावणः यथा कृष्णेन निहतॊ मुरॊ रणनिपातितः कार्तवीर्यश च रामेण भार्गवेण हतॊ यथा 53 स जञातिबान्धवः शूरः समरे युद्धदुर्मदः रणे कृत्वा महायुद्धं घॊरं तरैलॊक्यविश्रुतम 54 तथार्जुनेन निहतॊ दवैरथे युद्धदुर्मदः सामात्यबान्धवॊ राजन कर्णः परहरतां वरः 55 जयाशा धार्तराष्ट्राणां वैरस्य च मुखं यतः तीर्णं तत पाण्डवै राजन यत पुरा नावबुध्यसे 56 उच्यमानॊ महाराज बन्धुभिर हितकाङ्क्षिभिः तद इदं समनुप्राप्तं वयसनं तवां महात्ययम 57 पुत्राणां राज्यकामानां तवया राजन हितैषिणा अहितानीव चीर्णानि तेषां ते फलम आगतम 58 [धृ] आख्याता मामकास तात निहता युधि पाण्डवैः निहतान पाण्डवेयानां मामकैर बरूहि संजय 59 [स] कुन्तयॊ युधि विक्रान्ता महासत्त्वा महाबलाः सानुबन्धाः सहामात्या भीष्मेण युधि पातिताः 60 समः किरीटिना संख्ये वीर्येण च बलेन च सत्यजित सत्यसंधेन दरॊणेन निहतॊ रणे 61 तथा विराटद्रुपदौ वृद्धौ सह सुतौ नृपौ पराक्रमन्तौ मित्रार्थे दरॊणेन निहतौ रणे 62 यॊ बाल एव समरे संमितः सव्यसाचिना केशवेन च दुर्धर्षॊ बलदेवेन चाभिभूः 63 स एष कदनं कृत्वा महद रणविशारदः परिवार्य महामात्रैः षड्भिः परमकै रथैः अशक्नुवद्भिर बीभत्सुम अभिमन्युर निपातितः 64 तं कृतं विरथं वीरं कषत्रधर्मे वयवस्थितम दौःशासनिर महाराज सौभद्रं हतवान रणे 65 बृहन्तस तु महेष्वासः कृतास्त्रॊ युद्धदुर्मदः दुःशासनेन विक्रम्य गमितॊ यमसादनम 66 मणिमान दण्डधारश च राजानौ युद्धदुर्मदौ पराक्रमन्तौ मित्रार्थे दरॊणेन विनिपातितौ 67 अंशुमान भॊजराजस तु सह सैन्यॊ महारथः भारद्वाजेन विक्रम्य गमितॊ यमसादनम 68 चित्रायुधश चित्रयॊधी कृत्वा तौ कदनं महत चित्रमार्गेण विक्रम्य कर्णेन निहतौ युधि 69 वृकॊदर समॊ युद्धे दृढः केकयजॊ युधि केकयेनैव विक्रम्य भरात्रा भराता निपातितः 70 जनमेजयॊ गदायुधी पार्वतीयः परतापवान दुर्मुखेन महाराज तव पुत्रेण पातितः 71 रॊचमानौ नरव्याघ्रौ रॊचमानौ गरहाव इव दरॊणेन युगपद राजन दिवं संप्रेषितौ शरैः 72 नृपाश च परतियुध्यन्तः पराक्रान्ता विशां पते कृत्वा न सुकरं कर्म गता वैवस्वतक्षयम 73 पुरुजित कुन्तिभॊजश च मातुलः सव्यसाचिनः संग्रामनिर्जिताँल लॊकान गमितॊ दरॊण सायकैः 74 अभिभूः काशिराजश च काशिकैर बहुभिर वृतः वसु दानस्य पुत्रेण नयासितॊ देहम आहवे 75 अमितौजा युधामन्युर उत्तमौजाश च वीर्यवान निहत्य शतशः शूरान परैर विनिहतौ रणे 76 कषत्रधर्मा च पाञ्चाल्यः कषत्रवर्मा च मारिष दरॊणेन परमेष्वासौ गमितौ यमसादनम 77 शिखण्डितनयॊ युद्धे कषत्रदेवॊ युधां पतिः लक्ष्मणेन हतॊ राजंस तव पौत्रेण भारत 78 सुचित्रश चित्रधर्मा च पिता पुत्रौ महारथौ परचरन्तौ महावीर्यौ दरॊणेन निहतौ रणे 79 वार्धक्षेमिर महाराज कृत्वा कदनम आहवे बाह्लिकेन महाराज कौरवेण निपातितः 80 धृष्टकेतुर महाराज चेदीनां परवरॊ रथः कृत्वा न सुकरं कर्म गतॊ वैवस्वतक्षयम 81 तथा सत्यधृतिस तात कृत्वा कदनम आहवे पाण्डवार्थे पराक्रान्तॊ गमितॊ यमसादनम 82 पुत्रस तु शिशुपालस्य सुकेतुः पृथिवीपते निहत्य शात्रवान संख्ये दरॊणेन निहतॊ युधि 83 तथा सत्यधृतिर वीरॊ मदिराश्वश च वीर्यवान सूर्यदत्तश च विक्रान्तॊ निहतॊ दरॊण सायकैः 84 शरेणिमांश च महाराज युध्यमानः पराक्रमी कृत्वा न सुकरं कर्म गतॊ वैवस्वतक्षयम 85 तथैव युधि विक्रान्तॊ मागधः परवीरहा भीष्मेण निहतॊ राजन्युध्यमानः पराक्रमी 86 वसु दानश च कदनं कुर्वाणॊ ऽतीव संयुगे भारद्वाजेन विक्रम्य गमितॊ यमसादनम 87 एते चान्ये च बहवः पाण्डवानां महारथाः हता दरॊणेन विक्रम्य यन मां तवं परिपृच्छसि 88 [धृ] हतप्रवीरे सैन्ये ऽसमिन मामके वदतां वर अहताञ शंस मे सूत ये ऽतर जीवन्ति के चन 89 एतेषु निहतेष्व अद्य ये तवया परिकीर्तिताः अहतान मन्यसे यांस तवं ते ऽपि सवर्गजितॊ मताः 90 [स] यस्मिन महास्त्राणि समर्पितानि; चित्राणि शुभ्राणि चतुर्विधानि दिव्यानि राजन निहितानि चैव; दरॊणेन वीर दविजसत्तमेन 91 महारथः कृतिमान कषिप्रहस्तॊ; दृढायुधॊ दृढमुष्टिर दृढेषुः स वीर्यवान दरॊणपुत्रस तरस्वी; वयवस्थितॊ यॊद्धुकामस तवदर्थे 92 आनर्तवासी हृदिकात्मजॊ ऽसौ; महारथः सात्वतानां वरिष्ठः सवयं भॊजः कृतवर्मा कृतास्त्रॊ; वयवस्थितॊ यॊद्धुकामस तवदर्थे 93 शारद्वतॊ गौतमश चापि राजन; महाबलॊ बहु चित्रास्त्र यॊधी धनुश चित्रं सुमहद भारसाहं; वयवस्थितॊ यॊत्स्यमानः परगृह्य 94 आर्तायनिः समरे दुष्प्रकम्प्यः; सेनाग्रणीः परथमस तावकानाम सवस्रेयांस तान पाण्डवेयान विसृज्य; सत्यां वाचं तां चिकीर्षुस तरस्वी 95 तेजॊवधं सूतपुत्रस्य संख्ये; परतिश्रुत्वाजात शत्रॊः पुरस्तात दुराधर्षः शक्रसमानवीर्यः; शल्यः सथितॊ युद्दु कामस तवदर्थे 96 आजानेयैः सैन्धवैः पार्वतीयैर; नदीज काम्बॊजवनायु बाह्लिकैः गान्धारराजः सवबलेन युक्तॊ; वयवस्थितॊ यॊद्धुकामस तवदर्थे 97 तथा सुतस ते जवलनार्कवर्णं; रथं समास्थाय कुरुप्रवीर वयवस्थितः कुरु मित्रॊ नरेन्द्र; वयभ्रे सूर्यॊ भराजमानॊ यथा वै 98 दुर्यॊधनॊ नागकुलस्य मध्ये; महावीर्यः सह सैन्यप्रवीरैः रथेन जाम्बूनदभूषणेन; वयवस्थितः समरे यॊद्धुकामः 99 स राजमध्ये पुरुषप्रवीरॊ; रराज जाम्बूनदचित्रवर्मा पद्मप्रभॊ वह्निर इवाल्पधूमॊ; मेघान्तरे सूर्य इव परकाशः 100 तथा सुषेणॊ ऽपय असि चर्म पाणिस; तवात्मजः सत्यसेनश च वीरः वयवस्थितौ चित्रसेनेन सार्धं; हृष्टात्मानौ समरे यॊद्धुकामौ 101 हरीनिषेधा भरता राजपुत्राश; चित्रायुधः शरुतकर्मा जयश च शलश च सत्यव्रतदुःशलौ च; वयवस्थिता बलिनॊ यॊद्धुकामाः 102 कैतव्यानाम अधिपः शूरमानी; रणे रणे शत्रुहा राजपुत्रः पत्री हयी नागरथप्रयायी; वयवस्थितॊ यॊद्धुकामस तवदर्थे 103 वीरः शरुतायुश च शरुतायुधश च; चित्राङ्गदश चित्रवर्मा स वीरः वयवस्थिता ये तु सैन्ये नराग्र्याः; परहारिणॊ मानिनः सत्यसंधाः 104 कर्णात्मजः सत्यसेनॊ महात्मा; वयवस्थितः समरे यॊद्धुकामः अथापरौ कर्णसुतौ वरार्हौ; वयवस्थितौ लघुहस्तौ नरेन्द्र बलं महद दुर्भिदम अल्पधैर्यैः; समाश्रितौ यॊत्स्यमानौ तवदर्थे 105 एतैश च मुख्यैर अपरैश च राजन; यॊधप्रवीरैर अमितप्रभावैः वयवस्थितॊ नागकुलस्य मध्ये; यथा महेन्द्रः कुरुराजॊ जयाय 106 [धृ] आख्याता जीवमाना ये परेभ्यॊ ऽनये यथातथम इतीदम अभिगच्छामि वयक्तम अर्थाभिपत्तितः 107 [वै] एवं बरुवन्न एव तदा धृतराष्ट्रॊ ऽबमिका सुतः हतप्रवीरं विध्वस्तं किं चिच छेषं सवकं बलम शरुत्वा वयामॊहम अगमच छॊकव्याकुलितेन्द्रियः 108 मुह्यमानॊ ऽबरवीच चापि मुहूर्तं तिष्ठ संजय वयाकुलं मे मनस तात शरुत्वा सुमहद अप्रियम नष्टचित्तस ततः सॊ ऽथ बभूव जगतीपतिः |
1
[vai] etac chrutvā mahārāja dhṛtarāṣṭro 'mbikā sutaḥ abravīt saṃjayaṃ sūtaṃ śokavyākula cetanaḥ 2 duṣpraṇītena me tāta manasābhiplutātmanaḥ hataṃ vaikartanaṃ śrutvā śoko marmāṇi kṛntati 3 kṛtāstra paramāḥ śalye duḥkhapāraṃ titīrṣavaḥ kurūṇāṃ sṛñjayānāṃ ca ke nu jīvanti ke mṛtāḥ 4 [s] hataḥ śāṃtanavo rājan durādharṣaḥ pratāpavān hatvā pāṇḍava yodhānām arbudaṃ daśabhir dinaiḥ 5 tato droṇo maheṣvāsaḥ pāñcālānāṃ rathavrajān nihatya yudhi durdharṣaḥ paścād rukmaratho hataḥ 6 hataśiṣṭasya bhīṣmeṇa droṇena ca mahātmanā ardhaṃ nihatya sainyasya karṇo vaikartano hataḥ 7 viviṃśatir mahārāja rājaputro mahābalaḥ ānartayodhāñ śataśo nihatya nihato raṇe 8 atha putro vikarṇas te kṣatravratam anusmaran kṣīṇavāhāyudhaḥ śūraḥ sthito 'bhimukhataḥ parān 9 ghorarūpān parikleśān duryodhanakṛtān bahūn pratijñāṃ smaratā caiva bhīmasenena pātitaḥ 10 vindānuvindāv āvantyau rājaputrau mahābalau kṛtvā na sukaraṃ karma gatau vaivasvatakṣayam 11 sindhurāṣṭramukhānīha daśa rāṣṭrāṇi yasya vai vaśe tiṣṭhanti vīrasya yaḥ sthitas tava śāsane 12 akṣauhiṇīr daśaikāṃ ca nirjitya niśitaiḥ śaraiḥ arjunena hato rājan mahāvīryo jayadrathaḥ 13 tathā duryodhana sutas tarasvī yuddhadurmadaḥ vartamānaḥ pituḥ śāstre saubhadreṇa nipātitaḥ 14 tathā dauḥśāsanir vīro bāhuśālī raṇotkaṭaḥ draupadeyena vikramya gamito yamasādanam 15 kirātānām adhipatiḥ sāgarānūpavāsinām devarājasya dharmātmā priyo bahumataḥ sakhā 16 bhagadatto mahīpālaḥ kṣatradharmarataḥ sadā dhanaṃjayena vikramya gamito yamasādanam 17 tathā kaurava dāyādaḥ saumadattir mahāyaśāḥ hato bhūriśravā rājañ śūraḥ sātyakinā yudhi 18 śrutāyur api cāmbaṣṭhaḥ kṣatriyāṇāṃ dhanurdharaḥ carann abhītavat saṃkhye nihataḥ savyasācinā 19 tava putraḥ sadā saṃkhye kṛtāstro yuddhadurmadaḥ duḥśāsano mahārāja bhīmasenena pātitaḥ 20 yasya rājan gajānīkaṃ bahusāhasram adbhutam sudakṣiṇaḥ sa saṃgrāme nihataḥ savyasācinā 21 kosalānām adhipatir hatvā bahuśatān parān saubhadreṇa hi vikramya gamito yamasādanam 22 bahuśo yodhayitvā ca bhīmasenaṃ mahārathaḥ citrasenas tava suto bhīmasenena pātitaḥ 23 madrarājātmajaḥ śūraḥ pareṣāṃ bhayavardhanaḥ asi carma dharaḥ śrīmān saubhadreṇa nipātitaḥ 24 samaḥ karṇasya samare yaḥ sa karṇasya paśyataḥ vṛṣaseno mahātejāḥ śīghrāstraḥ kṛtaniścayaḥ 25 abhimanyor vadhaṃ smṛtvā pratijñām api cātmanaḥ dhanaṃjayena vikramya gamito yamasādanam 26 nityaprasaktavairo yaḥ pāṇḍavaiḥ pṛthivīpatiḥ viśrāvya vairaṃ pārthena śrutāyuḥ sa nipātitaḥ 27 śalya putras tu vikrāntaḥ sahadevena māriṣa hato rukmaratho rājan bhrātā mātulajo yudhi 28 rājā bhagīratho vṛddho bṛhat kṣatraś ca kekayaḥ parākramantau vikrāntau nihatau vīryavattarau 29 bhagadattasuto rājan kṛtaprajño mahābalaḥ śyenavac caratā saṃkhye nakulena nipātitaḥ 30 pitāmahas tava tathā bāhlikaḥ saha bāhlikaiḥ bhīmasenena vikramya gamito yamasādanam 31 jayatsenas tathā rājañ jārāsaṃdhir mahābalaḥ māgadho nihataḥ saṃkhye saubhadreṇa mahātmanā 32 putras te durmukho rājan duḥsahaś ca mahārathaḥ gadayā bhīmasenena nihatau śūramāninau 33 durmarṣaṇo durviṣaho durjayaś ca mahārathaḥ kṛtvā na sukaraṃ karma gatā vaivasvatakṣayam 34 sacivo vṛṣavarmā te sūtaḥ paramavīryavān bhīmasenena vikramya gamito yamasādanam 35 nāgāyuta balo rājā nāgāyuta balo mahān sagaṇaḥ pāṇḍuputreṇa nihataḥ savyasācinā 36 vasātayo mahārāja dvisāhasrāḥ prahāriṇaḥ śūrasenāś ca vikrāntāḥ sarve yudhi nipātitāḥ 37 abhīṣāhāḥ kavacinaḥ praharanto mahotkaṭāḥ śibayaś ca rathodārāḥ kaliṅga sahitā hatāḥ 38 gokule nityasaṃvṛddhā yuddhe paramakovidāḥ śreṇayo bahusāhasrāḥ saṃśaptaka gaṇāś ca ye te sarve pārtham āsādya gatā vaivasvatakṣayam 39 syālau tava mahārāja rājānau vṛṣakācalau tvadarthe saṃparākrāntau nihatau savyasācinā 40 ugrakarmā maheṣvāso nāmataḥ karmatas tathā śālvarājo mahārāja bhīmasenena pātitaḥ 41 oghavāṃś ca mahārāja bṛhantaḥ sahito raṇe parākramantau mitrārthe gatau vaivasvatakṣayam 42 tathaiva rathināṃ śreṣṭhaḥ kṣemadhūrtir viśāṃ pate nihato gadayā rājan bhīmasenena saṃyuge 43 tathā rājā maheṣvāso jalasaṃdho mahābalaḥ sumahat kadanaṃ kṛttvā hataḥ sātyakinā raṇe 44 alāyudho rākṣasendraḥ kharabandhura yānagaḥ ghaṭotkacena vikramya gamito yamasādanam 45 rādheyāḥ sūtaputrāś ca bhrātaraś ca mahārathāḥ kekayāḥ sarvaśaś cāpi nihatāḥ savyasācinā 46 mālavā madrakāś caiva draviḍāś cogravikramāḥ yaudheyāś ca lalitthāś ca kṣudrakāś cāpy uśīnarāḥ 47 māvellakās tuṇḍikerāḥ sāvitrī putra kāñcalāh prācyodīcyāḥ pratīcyāś ca dākṣiṇātyāś ca māriṣa 48 pattīnāṃ nihatāḥ saṃghā hayānām ayutāni ca rathavrajāś ca nihatā hatāś ca varavāraṇāḥ 49 sa dhvajāḥ sāyudhāḥ śūrāḥ sa varmāmbara bhūṣaṇāḥ kālena mahatā yattāḥ kule ye ca vivardhitāḥ 50 te hatāḥ samare rājan pārthenākliṣṭa karmaṇā anye tathāmita balāḥ parasparavadhaiṣiṇaḥ 51 ete cānye ca bahavo rājānaḥ sagaṇā raṇe hatāḥ sahasraśo rājan yan māṃ tvaṃ paripṛcchasi evam eṣa kṣayo vṛttaḥ karṇārjuna samāgame 52 mahendreṇa yathā vṛtro yathā rāmeṇa rāvaṇaḥ yathā kṛṣṇena nihato muro raṇanipātitaḥ kārtavīryaś ca rāmeṇa bhārgaveṇa hato yathā 53 sa jñātibāndhavaḥ śūraḥ samare yuddhadurmadaḥ raṇe kṛtvā mahāyuddhaṃ ghoraṃ trailokyaviśrutam 54 tathārjunena nihato dvairathe yuddhadurmadaḥ sāmātyabāndhavo rājan karṇaḥ praharatāṃ varaḥ 55 jayāśā dhārtarāṣṭrāṇāṃ vairasya ca mukhaṃ yataḥ tīrṇaṃ tat pāṇḍavai rājan yat purā nāvabudhyase 56 ucyamāno mahārāja bandhubhir hitakāṅkṣibhiḥ tad idaṃ samanuprāptaṃ vyasanaṃ tvāṃ mahātyayam 57 putrāṇāṃ rājyakāmānāṃ tvayā rājan hitaiṣiṇā ahitānīva cīrṇāni teṣāṃ te phalam āgatam 58 [dhṛ] ākhyātā māmakās tāta nihatā yudhi pāṇḍavaiḥ nihatān pāṇḍaveyānāṃ māmakair brūhi saṃjaya 59 [s] kuntayo yudhi vikrāntā mahāsattvā mahābalāḥ sānubandhāḥ sahāmātyā bhīṣmeṇa yudhi pātitāḥ 60 samaḥ kirīṭinā saṃkhye vīryeṇa ca balena ca satyajit satyasaṃdhena droṇena nihato raṇe 61 tathā virāṭadrupadau vṛddhau saha sutau nṛpau parākramantau mitrārthe droṇena nihatau raṇe 62 yo bāla eva samare saṃmitaḥ savyasācinā keśavena ca durdharṣo baladevena cābhibhūḥ 63 sa eṣa kadanaṃ kṛtvā mahad raṇaviśāradaḥ parivārya mahāmātraiḥ ṣaḍbhiḥ paramakai rathaiḥ aśaknuvadbhir bībhatsum abhimanyur nipātitaḥ 64 taṃ kṛtaṃ virathaṃ vīraṃ kṣatradharme vyavasthitam dauḥśāsanir mahārāja saubhadraṃ hatavān raṇe 65 bṛhantas tu maheṣvāsaḥ kṛtāstro yuddhadurmadaḥ duḥśāsanena vikramya gamito yamasādanam 66 maṇimān daṇḍadhāraś ca rājānau yuddhadurmadau parākramantau mitrārthe droṇena vinipātitau 67 aṃśumān bhojarājas tu saha sainyo mahārathaḥ bhāradvājena vikramya gamito yamasādanam 68 citrāyudhaś citrayodhī kṛtvā tau kadanaṃ mahat citramārgeṇa vikramya karṇena nihatau yudhi 69 vṛkodara samo yuddhe dṛḍhaḥ kekayajo yudhi kekayenaiva vikramya bhrātrā bhrātā nipātitaḥ 70 janamejayo gadāyudhī pārvatīyaḥ pratāpavān durmukhena mahārāja tava putreṇa pātitaḥ 71 rocamānau naravyāghrau rocamānau grahāv iva droṇena yugapad rājan divaṃ saṃpreṣitau śaraiḥ 72 nṛpāś ca pratiyudhyantaḥ parākrāntā viśāṃ pate kṛtvā na sukaraṃ karma gatā vaivasvatakṣayam 73 purujit kuntibhojaś ca mātulaḥ savyasācinaḥ saṃgrāmanirjitāṁl lokān gamito droṇa sāyakaiḥ 74 abhibhūḥ kāśirājaś ca kāśikair bahubhir vṛtaḥ vasu dānasya putreṇa nyāsito deham āhave 75 amitaujā yudhāmanyur uttamaujāś ca vīryavān nihatya śataśaḥ śūrān parair vinihatau raṇe 76 kṣatradharmā ca pāñcālyaḥ kṣatravarmā ca māriṣa droṇena parameṣvāsau gamitau yamasādanam 77 śikhaṇḍitanayo yuddhe kṣatradevo yudhāṃ patiḥ lakṣmaṇena hato rājaṃs tava pautreṇa bhārata 78 sucitraś citradharmā ca pitā putrau mahārathau pracarantau mahāvīryau droṇena nihatau raṇe 79 vārdhakṣemir mahārāja kṛtvā kadanam āhave bāhlikena mahārāja kauraveṇa nipātitaḥ 80 dhṛṣṭaketur mahārāja cedīnāṃ pravaro rathaḥ kṛtvā na sukaraṃ karma gato vaivasvatakṣayam 81 tathā satyadhṛtis tāta kṛtvā kadanam āhave pāṇḍavārthe parākrānto gamito yamasādanam 82 putras tu śiśupālasya suketuḥ pṛthivīpate nihatya śātravān saṃkhye droṇena nihato yudhi 83 tathā satyadhṛtir vīro madirāśvaś ca vīryavān sūryadattaś ca vikrānto nihato droṇa sāyakaiḥ 84 śreṇimāṃś ca mahārāja yudhyamānaḥ parākramī kṛtvā na sukaraṃ karma gato vaivasvatakṣayam 85 tathaiva yudhi vikrānto māgadhaḥ paravīrahā bhīṣmeṇa nihato rājanyudhyamānaḥ parākramī 86 vasu dānaś ca kadanaṃ kurvāṇo 'tīva saṃyuge bhāradvājena vikramya gamito yamasādanam 87 ete cānye ca bahavaḥ pāṇḍavānāṃ mahārathāḥ hatā droṇena vikramya yan māṃ tvaṃ paripṛcchasi 88 [dhṛ] hatapravīre sainye 'smin māmake vadatāṃ vara ahatāñ śaṃsa me sūta ye 'tra jīvanti ke cana 89 eteṣu nihateṣv adya ye tvayā parikīrtitāḥ ahatān manyase yāṃs tvaṃ te 'pi svargajito matāḥ 90 [s] yasmin mahāstrāṇi samarpitāni; citrāṇi śubhrāṇi caturvidhāni divyāni rājan nihitāni caiva; droṇena vīra dvijasattamena 91 mahārathaḥ kṛtimān kṣiprahasto; dṛḍhāyudho dṛḍhamuṣṭir dṛḍheṣuḥ sa vīryavān droṇaputras tarasvī; vyavasthito yoddhukāmas tvadarthe 92 ānartavāsī hṛdikātmajo 'sau; mahārathaḥ sātvatānāṃ variṣṭhaḥ svayaṃ bhojaḥ kṛtavarmā kṛtāstro; vyavasthito yoddhukāmas tvadarthe 93 śāradvato gautamaś cāpi rājan; mahābalo bahu citrāstra yodhī dhanuś citraṃ sumahad bhārasāhaṃ; vyavasthito yotsyamānaḥ pragṛhya 94 ārtāyaniḥ samare duṣprakampyaḥ; senāgraṇīḥ prathamas tāvakānām svasreyāṃs tān pāṇḍaveyān visṛjya; satyāṃ vācaṃ tāṃ cikīrṣus tarasvī 95 tejovadhaṃ sūtaputrasya saṃkhye; pratiśrutvājāta śatroḥ purastāt durādharṣaḥ śakrasamānavīryaḥ; śalyaḥ sthito yuddu kāmas tvadarthe 96 ājāneyaiḥ saindhavaiḥ pārvatīyair; nadīja kāmbojavanāyu bāhlikaiḥ gāndhārarājaḥ svabalena yukto; vyavasthito yoddhukāmas tvadarthe 97 tathā sutas te jvalanārkavarṇaṃ; rathaṃ samāsthāya kurupravīra vyavasthitaḥ kuru mitro narendra; vyabhre sūryo bhrājamāno yathā vai 98 duryodhano nāgakulasya madhye; mahāvīryaḥ saha sainyapravīraiḥ rathena jāmbūnadabhūṣaṇena; vyavasthitaḥ samare yoddhukāmaḥ 99 sa rājamadhye puruṣapravīro; rarāja jāmbūnadacitravarmā padmaprabho vahnir ivālpadhūmo; meghāntare sūrya iva prakāśaḥ 100 tathā suṣeṇo 'py asi carma pāṇis; tavātmajaḥ satyasenaś ca vīraḥ vyavasthitau citrasenena sārdhaṃ; hṛṣṭātmānau samare yoddhukāmau 101 hrīniṣedhā bharatā rājaputrāś; citrāyudhaḥ śrutakarmā jayaś ca śalaś ca satyavrataduḥśalau ca; vyavasthitā balino yoddhukāmāḥ 102 kaitavyānām adhipaḥ śūramānī; raṇe raṇe śatruhā rājaputraḥ patrī hayī nāgarathaprayāyī; vyavasthito yoddhukāmas tvadarthe 103 vīraḥ śrutāyuś ca śrutāyudhaś ca; citrāṅgadaś citravarmā sa vīraḥ vyavasthitā ye tu sainye narāgryāḥ; prahāriṇo māninaḥ satyasaṃdhāḥ 104 karṇātmajaḥ satyaseno mahātmā; vyavasthitaḥ samare yoddhukāmaḥ athāparau karṇasutau varārhau; vyavasthitau laghuhastau narendra balaṃ mahad durbhidam alpadhairyaiḥ; samāśritau yotsyamānau tvadarthe 105 etaiś ca mukhyair aparaiś ca rājan; yodhapravīrair amitaprabhāvaiḥ vyavasthito nāgakulasya madhye; yathā mahendraḥ kururājo jayāya 106 [dhṛ] ākhyātā jīvamānā ye parebhyo 'nye yathātatham itīdam abhigacchāmi vyaktam arthābhipattitaḥ 107 [vai] evaṃ bruvann eva tadā dhṛtarāṣṭro 'bmikā sutaḥ hatapravīraṃ vidhvastaṃ kiṃ cic cheṣaṃ svakaṃ balam śrutvā vyāmoham agamac chokavyākulitendriyaḥ 108 muhyamāno 'bravīc cāpi muhūrtaṃ tiṣṭha saṃjaya vyākulaṃ me manas tāta śrutvā sumahad apriyam naṣṭacittas tataḥ so 'tha babhūva jagatīpatiḥ |
The Mahabharata in Sanskrit
Book 8
Chapter 5
|
1
[ज] शरुत्वा कर्णं हतं युद्धे पुत्रांश चैवापलायिनः नरेन्द्रः किं चिद आश्वस्तॊ दविजश्रेष्ठ किम अब्रवीत 2 पराप्तवान परमं दुःखं पुत्रव्यसनजं महत तस्मिन यद उक्तवान काले तन ममाचक्ष्व पृच्छतः 3 [वै] शरुत्वा कर्णस्य निधनम अश्रद्धेयम इवाद्भुतम भूतसंमॊहनं भीमं मेरॊः पर्यसनं यथा 4 चित्तमॊहम इवायुक्तं भार्गवस्य महामतेः पराजयम इवेन्द्रस्य दविषद्भ्यॊ भीमकर्मणः 5 दिवः परपतनं भानॊर उर्व्याम इव महाद्युतेः संशॊषणम इवाचिन्त्यं समुद्रस्याक्षयाम्भसः 6 मही वियद दिग ईशानां सर्वनाशम इवाद्भुतम कर्मणॊर इव वैफल्यम उभयॊः पुण्यपापयॊः 7 संचिन्त्य निपुणं बुद्ध्या धृतराष्ट्रॊ जनेश्वरः नेदम अस्तीति संचिन्त्य कर्णस्य निधनं परति 8 पराणिनाम एतद आत्मत्वात सयाद अपीति विनाशनम शॊकाग्निना दह्यमानॊ धम्यमान इवाशयः 9 विध्वस्तात्मा शवसन दीनॊ हाहेत्य उक्त्वा सुदुःखितः विललाप महाराज धृतराष्ट्रॊ ऽमबिका सुतः 10 [धृ] संजयाधिरथॊ वीरः सिंहद्विरदविक्रमः वृषम अप्रतिमस्कन्धॊ वृषभाक्ष गतिस्वनः 11 वृषभॊ वृषभस्येव यॊ युद्धे न निवर्तते शत्रॊर अपि महेन्द्रस्य वज्रसंहननॊ युवा 12 यस्य जयातलशब्देन शरवृष्टिरवेण च रथाश्वनरमातङ्गा नावतिष्ठन्ति संयुगे 13 यम आश्रित्य महाबाहुं दविषत संघघ्नम अच्युतम दुर्यॊधनॊ ऽकरॊद वैरं पाण्डुपुत्रैर महाबलैः 14 स कथं रथिनां शरेष्ठः कर्णः पार्थेन संयुगे निहतः पुरुषव्याघ्रः परसह्यासह्य विक्रमः 15 यॊ नामन्यत वै नित्यम अच्युतं न धनंजयम न वृष्णीन अपि तान अन्यान सवबाहुबलम आश्रितः 16 शार्ङ्गगाण्डीवधन्वानौ सहिताव अपराजितौ अहं दिव्याद रथाद एकः पातयिष्यामि संयुगे 17 इति यः सततं मन्दम अवॊचल लॊभमॊहितम दुर्यॊधनम अपादीनं राज्यकामुकम आतुलम 18 यश चाजैषीद अतिबलान अमित्रान अपि दुर्जयान गान्धारान मद्रकान मत्स्यांस तरिगर्तांस तङ्गणाञ शकान 19 पाञ्चालांश च विदेहांश च कुणिन्दान काशिकॊसलान सुह्यान अङ्गांश च पुण्ड्रांश च निषादान वङ्ग कीचकान 20 वत्सान कलिङ्गांस तरलान अश्मकान ऋषिकांस तथा यॊ जित्वा समरे वीरश चक्रे बलिभृतः पुरा 21 उच्चैःश्रवा वरॊ ऽशवानां राज्ञां वैश्रवणॊ वरः वरॊ महेन्द्रॊ देवानां कर्णः परहरतां वरः 22 यं लब्ध्वा मागधॊ राजा सान्त्वमानार्थ गौरवैः अरौत्सीत पार्थिवं कषत्रम ऋते कौरव यादवान 23 तं शरुत्वा निहतं कर्णं दवैरथे सव्यसाचिना शॊकार्णवे निमग्नॊ ऽहम अप्लवः सागरे यथा 24 ईदृशैर यद्य अहं दुःखैर न विनश्यामि संजय वज्राद दृढतरं मन्ये हृदयं मम दुर्भिदम 25 जञातिसंबन्धिमित्राणाम इमं शरुत्वा पराजयम कॊ मद अन्यः पुमाँल लॊके न जह्यात सूत जीवितम 26 विषम अग्निं परपातं वा पर्वताग्राद अहं वृणे न हि शक्ष्यामि दुःखानि सॊढुं कष्टानि संजय 27 [स] शरिया कुलेन यशसा तपसा च शरुतेन च तवाम अद्य सन्तॊ मन्यन्ते ययातिम इव नाहुषम 28 शरुते महर्षिप्रतिमः कृतकृत्यॊ ऽसि पार्थिव पर्यवस्थापयात्मानं मा विषादे मनः कृथाः 29 [धृ] दैवम एव परं मन्ये धिक पौरुषम अनर्थकम यत्र राम परतीकाशः कर्णॊ ऽहन्यत संयुगे 30 हत्वा युधिष्ठिरानीकं पाञ्चालानां रथव्रजान परताप्य शरवर्षेण दिशः सर्वा महारथः 31 मॊहयित्वा रणे पार्थान वज्रहस्त इवासुरान स कथं निहतः शेते वातरुग्ण इव दरुमः 32 शॊकस्यान्तं न पश्यामि समुद्रस्येव विप्लुकाः चिन्ता मे वर्धते तीव्रा मुमूर्षा चापि जायते 33 कर्णस्य निधनं शरुत्वा विजयं फल्गुनस्य च अश्रद्धेयम अहं मन्ये वधं कर्णस्य संजय 34 वज्रसार मयं नूनं हृदयं सुदृढं मम यच छरुत्वा पुरुषव्याघ्रं हतं कर्णं न दीर्यते 35 आयुर नूनं सुदीर्घं मे विहितं दैवतैः पुरा यत्र कर्णं हतं शरुत्वा जीवामीह सुदुःखितः 36 धिग जीवितम इदं मे ऽदय सुहृद धीनस्य संजय अद्य चाहं दशाम एतां गतः संजय गर्हिताम कृपणं वर्तयिष्यामि शॊच्यः सर्वस्य मन्दधीः 37 अहम एव पुरा भूत्वा सर्वलॊकस्य सत्कृतः परिभूतः कथं सूत पुनः शक्ष्यामि जीवितुम दुःखात सुदुःखं वयसनं पराप्तवान अस्मि संजय 38 तस्माद भीष्म वधे चैव दरॊणस्य च महात्मनः नात्र शेषं परपश्यामि सूतपुत्रे हते युधि 39 स हि पारं महान आसीत पुत्राणां मम संजय युद्धे विनिहतः शूरॊ विसृजन सायकान बहून 40 कॊ हि मे जीवितेनार्थस तम ऋते पुरुषर्षभम रथाद अतिरथॊ नूनम अपतत सायकार्दितः 41 पर्वतस्येव शिखरं वज्रपात विदारितम शयीत पृथिवीं नूनं शॊभयन रुधिरॊक्षितः मातङ्ग इव मत्तेन मातङ्गेन निपातितः 42 यद बलं धार्तराष्ट्राणां पाण्डवानां यतॊ भयम सॊ ऽरजुनेन हतः कर्णः परतिमानं धनुष्मताम 43 स हि वीरॊ महेष्वासः पुत्राणाम अभयंकरः शेते विनिहतॊ वीरः शक्रेणेव यथाबलः 44 पङ्गॊर इवाध्व गमनं दरिद्रस्येव कामितम दुर्यॊधनस्य चाकूतं तृषितस्येव पिप्लुकाः 45 अन्यथा चिन्तितं कार्यम अन्यथा तत तु जायते अहॊ नु बलवद दैवं कालश च दुरतिक्रमः 46 पलायमानः कृपणं दीनात्मा दीनपौरुषः कच चिन न निहतः सूतपुत्रॊ दुःशासनॊ मम 47 कच चिन न नीचाचरितं कृतवांस तात संयुगे कच चिन न निहतः शूरॊ यथा न कषत्रिया हताः 48 युधिष्ठिरस्य वचनं मा युद्धम इति सर्वदा दुर्यॊधनॊ नाभ्यगृह्णान मूढः पथ्यम इवौषधम 49 शरतल्पे शयानेन भीष्मेण सुमहात्मना पानीयं याचितः पार्थः सॊ ऽविध्यन मेदिनी तलम 50 जलस्य धारां विहितां दृष्ट्वा तां पाण्डवेन ह अब्रवीत स महाबाहुस तात संशाम्य पाण्डवैः 51 परशमाद धि भवेच छान्तिर मदन्तं युद्धम अस्तु च भरातृभावेन पृथिवीं भुङ्क्ष्व पाण्डुसुतैः सह 52 अकुर्वन वचनं तस्य नूनं शॊचति मे सुतः तद इदं समनुप्राप्तं वचनं दीर्घदर्शिनः 53 अहं तु निहतामात्यॊ हतपुत्रश च संजय दयूततः कृच्छ्रम आपन्नॊ लूनपक्ष इव दविजः 54 यथा हि शकुनिं गृह्य छित्वा पक्षौ च संजय विसर्जयन्ति संहृष्टाः करीडमानाः कुमारकाः 55 छिन्नपक्षतया तस्य गमनं नॊपपद्यते तथाहम अपि संप्राप्तॊ लूनपक्ष इव दविजः 56 कषीणः सर्वार्थहीनश च निर्बन्धुर जञातिवर्जितः कां दिशं परतिपत्स्यामि दीनः शत्रुवशं गतः 57 दुर्यॊधनस्य वृद्ध्यर्थं पृथिवीं यॊ ऽजयत परभुः स जितः पाण्डवैः शूरैः समर्थैर वीर्यशालिभिः 58 तस्मिन हते महेष्वासे कर्णे युधि किरीटिना के वीराः पर्यवर्तन्त तन ममाचक्ष्व संजय 59 कच चिन नैकः परित्यक्तः पाण्डवैर निहतॊ रणे उक्तं तवया पुरा वीर यथा वीरा निपातिताः 60 भीष्मम अप्रतियुध्यन्तं शिखण्डी सायकॊत्तमैः पातयाम आस समरे सर्वशस्त्रभृतां वरम 61 तथा दरौपदिना दरॊणॊ नयस्तसर्वायुधॊ युधि युक्तयॊगॊ महेष्वासः शरैर बहुभिर आचितः निहतः खड्गम उद्यम्य धृष्टद्युम्नेन संजय 62 अन्तरेण हताव एतौ छलेन च विशेषतः अश्रौषम अहम एतद वै भीष्मद्रॊणौ निपातितौ 63 भीष्मद्रॊणौ हि समरे न हन्याद वज्रभृत सवयम नयायेन युध्यमानौ हि तद वै सत्यं बरवीमि ते 64 कर्णं तव अस्यन्तम अस्त्राणि दिव्यानि च बहूनि च कथम इन्द्रॊपमं वीरं मृत्युर युद्धे समस्पृशत 65 यस्य विद्युत्प्रभां शक्तिं दिव्यां कनकभूषणाम परायच्छद दविषतां हन्त्रीं कुण्डलाभ्यां पुरंदरः 66 यस्य सर्पमुखॊ दिव्यः शरः कनकभूषणः अशेत निहतः पत्री चन्दनेष्व अरिसूदनः 67 भीष्मद्रॊणमुखान वीरान यॊ ऽवमन्य महारथान जामदग्न्यान महाघॊरं बराह्मम अस्त्रम अशिक्षत 68 यश च दरॊण मुखान दृष्ट्वा विमुखान अर्दिताञ शरैः सौभद्रस्य महाबाहुर वयधमत कार्मुकं शरैः 69 यश च नागायुत पराणं वातरंहसम अच्युतम विरथं भरातरं कृत्वा भीमसेनम उपाहसत 70 सहदेवं च निर्जित्य शरैः संनतपर्वभिः कृपया विरथं कृत्वा नाहनद धर्मवित्तया 71 यश च माया सहस्राणि धवंसयित्वा रणॊत्कटम घटॊत्कचं राक्षसेन्द्रं शक्र शक्त्याभिजघ्निवान 72 एतानि दिवसान्य अस्य युद्धे भीतॊ धनंजयः नागमद दवैरथं वीरः स कथं निहतॊ रणे 73 रथसङ्गॊ न चेत तस्य धनुर वा न वयशीर्यत न चेद अस्त्राणि निर्णेशुः स कथं निहतः परैः 74 कॊ हि शक्तॊ रणे कर्णं विधुन्वानं महद धनुः विमुञ्चन्तं शरान घॊरान दिव्यान्य अस्त्राणि चाहवे जेतुं पुरुषशार्दूलं शार्दूलम इव वेगितम 75 धरुवं तस्य धनुश छिन्नं रथॊ वापि गतॊ महीम अस्त्राणि वा परनष्टानि यथा शंससि मे हतम न हय अन्यद अनुपश्यामि कारणं तस्य नाशने 76 न हन्याम अर्जुनं यावत तावत पादौ न धावये इति यस्य महाघॊरं वरतम आसीन महात्मनः 77 यस्य भीतॊ वने नित्यं धर्मराजॊ युधिष्ठिरः तरयॊदश समा निद्रां न लेभे पुरुषर्षभः 78 यस्य वीर्यवतॊ वीर्यं समाश्रित्य महात्मनः मम पुत्रः सभां भार्यां पाण्डूनां नीतवान बलात 79 तत्र चापि सभामध्ये पाण्डवानां च पश्यताम दासभार्येति पाञ्चालीम अब्रवीत कुरुसंसदि 80 यश च गाण्डीवमुक्तानां सपर्शम उग्रम अचिन्तयन अपतिर हय असि कृष्णेति बरुवन पार्थान अवैक्षत 81 यस्य नासीद भयं पार्थैः सपुत्रैः सजनार्दनैः सवबाहुबलम आश्रित्य मुहूर्तम अपि संजय 82 तस्य नाहं वधं मन्ये देवैर अपि स वासवैः परतीपम उपधावद्भिः किं पुनस तात पाण्डवैः 83 न हि जयां सपृशमानस्य तलत्रे चापि गृह्णतः पुमान आधिरथेः कश चित परमुखे सथातुम अर्हति 84 अपि सयान मेदिनी हीना सॊमसूर्यप्रभांशुभिः न वधः पुरुषेन्द्रस्य समरेष्व अपलायिनः 85 यदि मन्दः सहायेन भरात्रा दुःशासनेन च वासुदेवस्य दुर्बुद्धिः परत्याख्यानम अरॊचयत 86 स नूनम ऋषभस्कन्धं दृष्ट्वा कर्णं निपातितम दुःशासनं च निहतं मन्ये शॊचति पुत्रकः 87 हतं वैकर्तनं शरुत्वा दवैरथे सव्यसाचिना जयतः पाण्डवान दृष्ट्वा किंस्विद दुर्यॊधनॊ ऽबरवीत 88 दुर्मर्षणं हतं शरुत्वा वृषसेनं च संयुगे परभग्नं च बलं दृष्ट्वा वध्यमानं महारथैः 89 पराङ्मुखांस तथा राज्ञः पलायनपरायणान विद्रुतान रथिनॊ दृष्ट्वा मन्ये शॊचति पुत्रकः 90 अनेयश चाभिमानेन बाल बुद्धिर अमर्षणः हतॊत्साहं बलं दृष्ट्वा किंस्विद दुर्यॊधनॊ ऽबरवीत 91 भरातरं निहतं दृष्ट्वा भीमसेनेन संयुगे रुधिरं पीयमानेन किंस्विद दुर्यॊधनॊ ऽबरवीत 92 सह गान्धारराजेन सभायां यद अभाषत कर्णॊ ऽरजुनं रणे हन्ता हते तस्मिन किम अब्रवीत 93 दयूतं कृत्वा पुरा हृष्टॊ वञ्चयित्वा च पाण्डवान शकुनिः सौबलस तात हते कर्णे किम अब्रवीत 94 कृतवर्मा महेष्वासः सात्वतानां महारथः कर्णं विनिहतं दृष्ट्वा हार्दिक्यः किम अभाषत 95 बराह्मणाः कषत्रिया वैश्या यस्य शिक्षाम उपासते धनुर्वेदं चिकीर्षन्तॊ दरॊणपुत्रस्य धीमतः 96 युवा रूपेण संपन्नॊ दर्शनीयॊ महायशाः अश्वत्थामा हते कर्णे किम अभाषत संजय 97 आचार्यत्वं धनुर्वेदे गतः परमतत्त्ववित कृपः शारद्वतस तात हते कर्णे किम अब्रवीत 98 मद्रराजॊ महेष्वासः शल्यः समितिशॊभनः दिष्टं तेन हि तत सर्वं यथा कर्णॊ निपातितः 99 ये च के चन राजानः पृथिव्यां यॊद्धुम आगताः वैकर्तनं हतं दृष्ट्वा किम अभाषन्त संजय 100 कर्णे तु निहते वीरे रथव्याघ्रे नरर्षभे किं वॊ मुखम अनीकानाम आसीत संजय भागशः 101 मद्रराजः कथं शल्यॊ नियुक्तॊ रथिनां वरः वैकर्तनस्य सारथ्ये तन ममाचक्ष्व संजय 102 के ऽरक्षन दक्षिणं चक्रं सूतपुत्रस्य संयुगे वामं चक्रं ररक्षुर वा के वा वीरस्य पृष्ठतः 103 के कर्णं वाजहुः शूराः के कषुद्राः पराद्रवन भयात कथं च वः समेतानां हतः कर्णॊ महारथः 104 पाण्डवाश च कथं शूराः परत्युदीयुर महारथम सृजन्तं शरवर्षाणि वारिधारा इवाम्बुदम 105 स च सर्पमुखॊ दिव्यॊ महेषु परवरस तदा वयर्थः कथं समभवत तन ममाचक्ष्व संजय 106 मामकस्यास्य सैन्यस्य हृतॊत्सेधस्य संजय अवशेषं न पश्यामि ककुदे मृदिते सति 107 तौ हि वीरौ महेष्वासौ मदर्थे कुरुसत्तमौ भीष्मद्रॊणौ हतौ शरुत्वा कॊ नव अर्थॊ जीवितेन मे 108 न मृष्यामि च राधेयं हतम आहवशॊभिनम यस्य बाह्वॊर बलं तुल्यं कुञ्जराणां शतं शतम 109 दरॊणे हते च यद्वृत्तं कौरवाणां परैः सह संग्रामे नरवीराणां तन ममाचक्ष्व संजय 110 यथा च कर्णः कौन्तेयैः सह युद्धम अयॊजयत यथा च दविषतां हन्ता रणे शान्तस तद उच्यताम |
1
[j] śrutvā karṇaṃ hataṃ yuddhe putrāṃś caivāpalāyinaḥ narendraḥ kiṃ cid āśvasto dvijaśreṣṭha kim abravīt 2 prāptavān paramaṃ duḥkhaṃ putravyasanajaṃ mahat tasmin yad uktavān kāle tan mamācakṣva pṛcchataḥ 3 [vai] śrutvā karṇasya nidhanam aśraddheyam ivādbhutam bhūtasaṃmohanaṃ bhīmaṃ meroḥ paryasanaṃ yathā 4 cittamoham ivāyuktaṃ bhārgavasya mahāmateḥ parājayam ivendrasya dviṣadbhyo bhīmakarmaṇaḥ 5 divaḥ prapatanaṃ bhānor urvyām iva mahādyuteḥ saṃśoṣaṇam ivācintyaṃ samudrasyākṣayāmbhasaḥ 6 mahī viyad dig īśānāṃ sarvanāśam ivādbhutam karmaṇor iva vaiphalyam ubhayoḥ puṇyapāpayoḥ 7 saṃcintya nipuṇaṃ buddhyā dhṛtarāṣṭro janeśvaraḥ nedam astīti saṃcintya karṇasya nidhanaṃ prati 8 prāṇinām etad ātmatvāt syād apīti vināśanam śokāgninā dahyamāno dhamyamāna ivāśayaḥ 9 vidhvastātmā śvasan dīno hāhety uktvā suduḥkhitaḥ vilalāpa mahārāja dhṛtarāṣṭro 'mbikā sutaḥ 10 [dhṛ] saṃjayādhiratho vīraḥ siṃhadviradavikramaḥ vṛṣam apratimaskandho vṛṣabhākṣa gatisvanaḥ 11 vṛṣabho vṛṣabhasyeva yo yuddhe na nivartate śatror api mahendrasya vajrasaṃhanano yuvā 12 yasya jyātalaśabdena śaravṛṣṭiraveṇa ca rathāśvanaramātaṅgā nāvatiṣṭhanti saṃyuge 13 yam āśritya mahābāhuṃ dviṣat saṃghaghnam acyutam duryodhano 'karod vairaṃ pāṇḍuputrair mahābalaiḥ 14 sa kathaṃ rathināṃ śreṣṭhaḥ karṇaḥ pārthena saṃyuge nihataḥ puruṣavyāghraḥ prasahyāsahya vikramaḥ 15 yo nāmanyata vai nityam acyutaṃ na dhanaṃjayam na vṛṣṇīn api tān anyān svabāhubalam āśritaḥ 16 śārṅgagāṇḍīvadhanvānau sahitāv aparājitau ahaṃ divyād rathād ekaḥ pātayiṣyāmi saṃyuge 17 iti yaḥ satataṃ mandam avocal lobhamohitam duryodhanam apādīnaṃ rājyakāmukam ātulam 18 yaś cājaiṣīd atibalān amitrān api durjayān gāndhārān madrakān matsyāṃs trigartāṃs taṅgaṇāñ śakān 19 pāñcālāṃś ca videhāṃś ca kuṇindān kāśikosalān suhyān aṅgāṃś ca puṇḍrāṃś ca niṣādān vaṅga kīcakān 20 vatsān kaliṅgāṃs taralān aśmakān ṛṣikāṃs tathā yo jitvā samare vīraś cakre balibhṛtaḥ purā 21 uccaiḥśravā varo 'śvānāṃ rājñāṃ vaiśravaṇo varaḥ varo mahendro devānāṃ karṇaḥ praharatāṃ varaḥ 22 yaṃ labdhvā māgadho rājā sāntvamānārtha gauravaiḥ arautsīt pārthivaṃ kṣatram ṛte kaurava yādavān 23 taṃ śrutvā nihataṃ karṇaṃ dvairathe savyasācinā śokārṇave nimagno 'ham aplavaḥ sāgare yathā 24 īdṛśair yady ahaṃ duḥkhair na vinaśyāmi saṃjaya vajrād dṛḍhataraṃ manye hṛdayaṃ mama durbhidam 25 jñātisaṃbandhimitrāṇām imaṃ śrutvā parājayam ko mad anyaḥ pumāṁl loke na jahyāt sūta jīvitam 26 viṣam agniṃ prapātaṃ vā parvatāgrād ahaṃ vṛṇe na hi śakṣyāmi duḥkhāni soḍhuṃ kaṣṭāni saṃjaya 27 [s] śriyā kulena yaśasā tapasā ca śrutena ca tvām adya santo manyante yayātim iva nāhuṣam 28 śrute maharṣipratimaḥ kṛtakṛtyo 'si pārthiva paryavasthāpayātmānaṃ mā viṣāde manaḥ kṛthāḥ 29 [dhṛ] daivam eva paraṃ manye dhik pauruṣam anarthakam yatra rāma pratīkāśaḥ karṇo 'hanyata saṃyuge 30 hatvā yudhiṣṭhirānīkaṃ pāñcālānāṃ rathavrajān pratāpya śaravarṣeṇa diśaḥ sarvā mahārathaḥ 31 mohayitvā raṇe pārthān vajrahasta ivāsurān sa kathaṃ nihataḥ śete vātarugṇa iva drumaḥ 32 śokasyāntaṃ na paśyāmi samudrasyeva viplukāḥ cintā me vardhate tīvrā mumūrṣā cāpi jāyate 33 karṇasya nidhanaṃ śrutvā vijayaṃ phalgunasya ca aśraddheyam ahaṃ manye vadhaṃ karṇasya saṃjaya 34 vajrasāra mayaṃ nūnaṃ hṛdayaṃ sudṛḍhaṃ mama yac chrutvā puruṣavyāghraṃ hataṃ karṇaṃ na dīryate 35 āyur nūnaṃ sudīrghaṃ me vihitaṃ daivataiḥ purā yatra karṇaṃ hataṃ śrutvā jīvāmīha suduḥkhitaḥ 36 dhig jīvitam idaṃ me 'dya suhṛd dhīnasya saṃjaya adya cāhaṃ daśām etāṃ gataḥ saṃjaya garhitām kṛpaṇaṃ vartayiṣyāmi śocyaḥ sarvasya mandadhīḥ 37 aham eva purā bhūtvā sarvalokasya satkṛtaḥ paribhūtaḥ kathaṃ sūta punaḥ śakṣyāmi jīvitum duḥkhāt suduḥkhaṃ vyasanaṃ prāptavān asmi saṃjaya 38 tasmād bhīṣma vadhe caiva droṇasya ca mahātmanaḥ nātra śeṣaṃ prapaśyāmi sūtaputre hate yudhi 39 sa hi pāraṃ mahān āsīt putrāṇāṃ mama saṃjaya yuddhe vinihataḥ śūro visṛjan sāyakān bahūn 40 ko hi me jīvitenārthas tam ṛte puruṣarṣabham rathād atiratho nūnam apatat sāyakārditaḥ 41 parvatasyeva śikharaṃ vajrapāta vidāritam śayīta pṛthivīṃ nūnaṃ śobhayan rudhirokṣitaḥ mātaṅga iva mattena mātaṅgena nipātitaḥ 42 yad balaṃ dhārtarāṣṭrāṇāṃ pāṇḍavānāṃ yato bhayam so 'rjunena hataḥ karṇaḥ pratimānaṃ dhanuṣmatām 43 sa hi vīro maheṣvāsaḥ putrāṇām abhayaṃkaraḥ śete vinihato vīraḥ śakreṇeva yathābalaḥ 44 paṅgor ivādhva gamanaṃ daridrasyeva kāmitam duryodhanasya cākūtaṃ tṛṣitasyeva piplukāḥ 45 anyathā cintitaṃ kāryam anyathā tat tu jāyate aho nu balavad daivaṃ kālaś ca duratikramaḥ 46 palāyamānaḥ kṛpaṇaṃ dīnātmā dīnapauruṣaḥ kac cin na nihataḥ sūtaputro duḥśāsano mama 47 kac cin na nīcācaritaṃ kṛtavāṃs tāta saṃyuge kac cin na nihataḥ śūro yathā na kṣatriyā hatāḥ 48 yudhiṣṭhirasya vacanaṃ mā yuddham iti sarvadā duryodhano nābhyagṛhṇān mūḍhaḥ pathyam ivauṣadham 49 śaratalpe śayānena bhīṣmeṇa sumahātmanā pānīyaṃ yācitaḥ pārthaḥ so 'vidhyan medinī talam 50 jalasya dhārāṃ vihitāṃ dṛṣṭvā tāṃ pāṇḍavena ha abravīt sa mahābāhus tāta saṃśāmya pāṇḍavaiḥ 51 praśamād dhi bhavec chāntir madantaṃ yuddham astu ca bhrātṛbhāvena pṛthivīṃ bhuṅkṣva pāṇḍusutaiḥ saha 52 akurvan vacanaṃ tasya nūnaṃ śocati me sutaḥ tad idaṃ samanuprāptaṃ vacanaṃ dīrghadarśinaḥ 53 ahaṃ tu nihatāmātyo hataputraś ca saṃjaya dyūtataḥ kṛcchram āpanno lūnapakṣa iva dvijaḥ 54 yathā hi śakuniṃ gṛhya chitvā pakṣau ca saṃjaya visarjayanti saṃhṛṣṭāḥ krīḍamānāḥ kumārakāḥ 55 chinnapakṣatayā tasya gamanaṃ nopapadyate tathāham api saṃprāpto lūnapakṣa iva dvijaḥ 56 kṣīṇaḥ sarvārthahīnaś ca nirbandhur jñātivarjitaḥ kāṃ diśaṃ pratipatsyāmi dīnaḥ śatruvaśaṃ gataḥ 57 duryodhanasya vṛddhyarthaṃ pṛthivīṃ yo 'jayat prabhuḥ sa jitaḥ pāṇḍavaiḥ śūraiḥ samarthair vīryaśālibhiḥ 58 tasmin hate maheṣvāse karṇe yudhi kirīṭinā ke vīrāḥ paryavartanta tan mamācakṣva saṃjaya 59 kac cin naikaḥ parityaktaḥ pāṇḍavair nihato raṇe uktaṃ tvayā purā vīra yathā vīrā nipātitāḥ 60 bhīṣmam apratiyudhyantaṃ śikhaṇḍī sāyakottamaiḥ pātayām āsa samare sarvaśastrabhṛtāṃ varam 61 tathā draupadinā droṇo nyastasarvāyudho yudhi yuktayogo maheṣvāsaḥ śarair bahubhir ācitaḥ nihataḥ khaḍgam udyamya dhṛṣṭadyumnena saṃjaya 62 antareṇa hatāv etau chalena ca viśeṣataḥ aśrauṣam aham etad vai bhīṣmadroṇau nipātitau 63 bhīṣmadroṇau hi samare na hanyād vajrabhṛt svayam nyāyena yudhyamānau hi tad vai satyaṃ bravīmi te 64 karṇaṃ tv asyantam astrāṇi divyāni ca bahūni ca katham indropamaṃ vīraṃ mṛtyur yuddhe samaspṛśat 65 yasya vidyutprabhāṃ śaktiṃ divyāṃ kanakabhūṣaṇām prāyacchad dviṣatāṃ hantrīṃ kuṇḍalābhyāṃ puraṃdaraḥ 66 yasya sarpamukho divyaḥ śaraḥ kanakabhūṣaṇaḥ aśeta nihataḥ patrī candaneṣv arisūdanaḥ 67 bhīṣmadroṇamukhān vīrān yo 'vamanya mahārathān jāmadagnyān mahāghoraṃ brāhmam astram aśikṣata 68 yaś ca droṇa mukhān dṛṣṭvā vimukhān arditāñ śaraiḥ saubhadrasya mahābāhur vyadhamat kārmukaṃ śaraiḥ 69 yaś ca nāgāyuta prāṇaṃ vātaraṃhasam acyutam virathaṃ bhrātaraṃ kṛtvā bhīmasenam upāhasat 70 sahadevaṃ ca nirjitya śaraiḥ saṃnataparvabhiḥ kṛpayā virathaṃ kṛtvā nāhanad dharmavittayā 71 yaś ca māyā sahasrāṇi dhvaṃsayitvā raṇotkaṭam ghaṭotkacaṃ rākṣasendraṃ śakra śaktyābhijaghnivān 72 etāni divasāny asya yuddhe bhīto dhanaṃjayaḥ nāgamad dvairathaṃ vīraḥ sa kathaṃ nihato raṇe 73 rathasaṅgo na cet tasya dhanur vā na vyaśīryata na ced astrāṇi nirṇeśuḥ sa kathaṃ nihataḥ paraiḥ 74 ko hi śakto raṇe karṇaṃ vidhunvānaṃ mahad dhanuḥ vimuñcantaṃ śarān ghorān divyāny astrāṇi cāhave jetuṃ puruṣaśārdūlaṃ śārdūlam iva vegitam 75 dhruvaṃ tasya dhanuś chinnaṃ ratho vāpi gato mahīm astrāṇi vā pranaṣṭāni yathā śaṃsasi me hatam na hy anyad anupaśyāmi kāraṇaṃ tasya nāśane 76 na hanyām arjunaṃ yāvat tāvat pādau na dhāvaye iti yasya mahāghoraṃ vratam āsīn mahātmanaḥ 77 yasya bhīto vane nityaṃ dharmarājo yudhiṣṭhiraḥ trayodaśa samā nidrāṃ na lebhe puruṣarṣabhaḥ 78 yasya vīryavato vīryaṃ samāśritya mahātmanaḥ mama putraḥ sabhāṃ bhāryāṃ pāṇḍūnāṃ nītavān balāt 79 tatra cāpi sabhāmadhye pāṇḍavānāṃ ca paśyatām dāsabhāryeti pāñcālīm abravīt kurusaṃsadi 80 yaś ca gāṇḍīvamuktānāṃ sparśam ugram acintayan apatir hy asi kṛṣṇeti bruvan pārthān avaikṣata 81 yasya nāsīd bhayaṃ pārthaiḥ saputraiḥ sajanārdanaiḥ svabāhubalam āśritya muhūrtam api saṃjaya 82 tasya nāhaṃ vadhaṃ manye devair api sa vāsavaiḥ pratīpam upadhāvadbhiḥ kiṃ punas tāta pāṇḍavaiḥ 83 na hi jyāṃ spṛśamānasya talatre cāpi gṛhṇataḥ pumān ādhiratheḥ kaś cit pramukhe sthātum arhati 84 api syān medinī hīnā somasūryaprabhāṃśubhiḥ na vadhaḥ puruṣendrasya samareṣv apalāyinaḥ 85 yadi mandaḥ sahāyena bhrātrā duḥśāsanena ca vāsudevasya durbuddhiḥ pratyākhyānam arocayat 86 sa nūnam ṛṣabhaskandhaṃ dṛṣṭvā karṇaṃ nipātitam duḥśāsanaṃ ca nihataṃ manye śocati putrakaḥ 87 hataṃ vaikartanaṃ śrutvā dvairathe savyasācinā jayataḥ pāṇḍavān dṛṣṭvā kiṃsvid duryodhano 'bravīt 88 durmarṣaṇaṃ hataṃ śrutvā vṛṣasenaṃ ca saṃyuge prabhagnaṃ ca balaṃ dṛṣṭvā vadhyamānaṃ mahārathaiḥ 89 parāṅmukhāṃs tathā rājñaḥ palāyanaparāyaṇān vidrutān rathino dṛṣṭvā manye śocati putrakaḥ 90 aneyaś cābhimānena bāla buddhir amarṣaṇaḥ hatotsāhaṃ balaṃ dṛṣṭvā kiṃsvid duryodhano 'bravīt 91 bhrātaraṃ nihataṃ dṛṣṭvā bhīmasenena saṃyuge rudhiraṃ pīyamānena kiṃsvid duryodhano 'bravīt 92 saha gāndhārarājena sabhāyāṃ yad abhāṣata karṇo 'rjunaṃ raṇe hantā hate tasmin kim abravīt 93 dyūtaṃ kṛtvā purā hṛṣṭo vañcayitvā ca pāṇḍavān śakuniḥ saubalas tāta hate karṇe kim abravīt 94 kṛtavarmā maheṣvāsaḥ sātvatānāṃ mahārathaḥ karṇaṃ vinihataṃ dṛṣṭvā hārdikyaḥ kim abhāṣata 95 brāhmaṇāḥ kṣatriyā vaiśyā yasya śikṣām upāsate dhanurvedaṃ cikīrṣanto droṇaputrasya dhīmataḥ 96 yuvā rūpeṇa saṃpanno darśanīyo mahāyaśāḥ aśvatthāmā hate karṇe kim abhāṣata saṃjaya 97 ācāryatvaṃ dhanurvede gataḥ paramatattvavit kṛpaḥ śāradvatas tāta hate karṇe kim abravīt 98 madrarājo maheṣvāsaḥ śalyaḥ samitiśobhanaḥ diṣṭaṃ tena hi tat sarvaṃ yathā karṇo nipātitaḥ 99 ye ca ke cana rājānaḥ pṛthivyāṃ yoddhum āgatāḥ vaikartanaṃ hataṃ dṛṣṭvā kim abhāṣanta saṃjaya 100 karṇe tu nihate vīre rathavyāghre nararṣabhe kiṃ vo mukham anīkānām āsīt saṃjaya bhāgaśaḥ 101 madrarājaḥ kathaṃ śalyo niyukto rathināṃ varaḥ vaikartanasya sārathye tan mamācakṣva saṃjaya 102 ke 'rakṣan dakṣiṇaṃ cakraṃ sūtaputrasya saṃyuge vāmaṃ cakraṃ rarakṣur vā ke vā vīrasya pṛṣṭhataḥ 103 ke karṇaṃ vājahuḥ śūrāḥ ke kṣudrāḥ prādravan bhayāt kathaṃ ca vaḥ sametānāṃ hataḥ karṇo mahārathaḥ 104 pāṇḍavāś ca kathaṃ śūrāḥ pratyudīyur mahāratham sṛjantaṃ śaravarṣāṇi vāridhārā ivāmbudam 105 sa ca sarpamukho divyo maheṣu pravaras tadā vyarthaḥ kathaṃ samabhavat tan mamācakṣva saṃjaya 106 māmakasyāsya sainyasya hṛtotsedhasya saṃjaya avaśeṣaṃ na paśyāmi kakude mṛdite sati 107 tau hi vīrau maheṣvāsau madarthe kurusattamau bhīṣmadroṇau hatau śrutvā ko nv artho jīvitena me 108 na mṛṣyāmi ca rādheyaṃ hatam āhavaśobhinam yasya bāhvor balaṃ tulyaṃ kuñjarāṇāṃ śataṃ śatam 109 droṇe hate ca yadvṛttaṃ kauravāṇāṃ paraiḥ saha saṃgrāme naravīrāṇāṃ tan mamācakṣva saṃjaya 110 yathā ca karṇaḥ kaunteyaiḥ saha yuddham ayojayat yathā ca dviṣatāṃ hantā raṇe śāntas tad ucyatām |
The Mahabharata in Sanskrit
Book 8
Chapter 6
|
1
[स] हते दरॊणे महेष्वासे तस्मिन्न अहनि भारत कृते च मॊघसंकल्पे दरॊणपुत्रे महारथे 2 दरवमाणे महाराज कौरवाणां बले तथा वयूह्य पार्थः सवकं सैन्यम अतिष्ठद भरातृभिः सह 3 तम अवस्थितम आज्ञाय पुत्रस ते भरतर्षभ दरवच च सवबलं दृष्ट्वा पौरुषेण नयवारयत 4 सवम अनीकम अवस्थाप्य बाहुवीर्ये वयवस्थितः युद्ध्वा च सुचिरं कालं पाण्डवैः सह भारत 5 लब्धलक्षैः परैर हृष्टैर वयायच्छद्भिश चिरं तदा संध्याकालं समासाद्य परत्याहारम अकारयत 6 कृत्वावहारं सैन्यानां परविश्य शिबिरं सवकम कुरवॊ ऽऽतमहितं मन्त्रं मन्त्रयां चक्रिरे तदा 7 पर्यङ्केषु परार्ध्येषु सपर्ध्यास्तरणवत्सु च वरासनेषूपविष्टाः सुखशय्यास्व इवामराः 8 ततॊ दुर्यॊधनॊ राजा साम्ना परमवल्गुना तान आभाष्य महेष्वासान पराप्तकालम अभाषत 9 मतिं मतिमतां शरेष्ठाः सर्वे परब्रूत माचिरम एवंगते तु यत कार्यं भवेत कार्यकरं नृपाः 10 एवम उक्ते नरेन्द्रेण नरसिंहा युयुत्सवः चक्रुर नानाविधाश चेष्टाः सिंहासनगतास तदा 11 तेषां निशम्येङ्गितानि युद्धे पराणाञ जुहूषताम समुद्वीक्ष्य मुखं राज्ञॊ बालार्कसमवर्चसः आचार्य पुत्रॊ मेधावी वाक्यज्ञॊ वाक्यम आददे 12 रागॊ यॊगस तथा दाक्ष्यं नयश चेत्य अर्थसाधकाः उपायाः पण्डितैः परॊक्ताः सर्वे दैवसमाश्रिताः 13 लॊकप्रवीरा ये ऽसमाकं देवकल्पा महारथाः नीतिमन्तस तथायुक्ता दक्षा रक्ताश च ते हताः 14 न तव एव कार्यं नैराश्यम अस्माभिर विजयं परति सुनीतैर इह सर्वार्थैर दैवम अप्य अनुलॊम्यते 15 ते वयं परवरं नॄणां सर्वैर गुणगुणैर युतम कर्णं सेनापतिं कृत्वा परमथिष्यामहे रिपून 16 ततॊ दुर्यॊधनः परीतः परियं शरुत्वा वचस तदा परीतिसंस्कार संयुक्तं तथ्यम आत्महितं शुभम 17 सवं मनः समवस्थाप्य बाहुवीर्यम उपाश्रितः दुर्यॊधनॊ महाराज राधेयम इदम अब्ब्रवीत 18 कर्ण जानामि ते वीर्यं सौहृदं च परं मयि तथापि तवां महाबाहॊ परवक्ष्यामि हितं वचः 19 शरुत्वा यथेष्टं च कुरुवीर यत तव रॊचते भवान पराज्ञतमॊ नित्यं मम चैव परा गतिः 20 भीष्मद्रॊणाव अतिरथौ हतौ सेनापती मम सेनापतिर भवान अस्तु ताभ्यां दरविणवत्तरः 21 वेद्धौ च तौ महेष्वासौ सापेक्षौ च धनंजये मानितौ च मया वीरौ राधेय वचनात तव 22 पितामहत्वं संप्रेक्ष्य पाण्डुपुत्रा महारणे रक्षितास तात भीष्मेण दिवसानि दशैव ह 23 नयस्तशस्त्रे च भवति हतॊ भीष्मः पितामहः शिखण्डिनं पुरस्कृत्य फल्गुनेन महाहवे 24 हते तस्मिन महाभागे शरतल्पगते तदा तवयॊक्ते पुरुषव्याघ्र दरॊणॊ हय आसीत पुरःसरः 25 तेनापि रक्षिताः पार्थाः शिष्यत्वाद इह संयुगे स चापि निहतॊ वृद्धॊ धृष्टद्युम्नेन स तवरम 26 निहताभ्यां परधानाभ्यां ताभ्याम अमितविक्रम तवत्समं समरे यॊद्धं नान्यं पश्यामि चिन्तयन 27 भवान एव तु नः शक्तॊ विजयाय न संशयः पूर्वं मध्ये च पश्च्चाच च तवैव विदितं हि तत 28 स भवान धुर्यवत संख्ये दुरम उद्वॊढुम अर्हसि अभिषेचय सेनान्ये सवयम आत्मानम आत्मना 29 देवतानां यथा सकन्दः सेनानीः परभुर अव्ययः तथा भवान इमां सेनां धार्तराष्ट्रीं बिभर्तु मे जहि शत्रुगणान सर्वान महेन्द्र इव दानवान 30 अवस्थितं रणे जञात्वा पाण्डवास तवां महारथम दरविष्यन्ति स पाञ्चाला विष्णुं दृष्ट्वेव दानवाः तस्मात तवं पुरुषव्याघ्र परकर्षेथा महाचमूम 31 भवत्य अवस्थिते यत ते पाण्डवा गतचेतसः भविष्यन्ति सहामात्याः पाञ्चालैः सृञ्जयैः सह 32 यथा हय अभ्युदितः सूर्यः परतपन सवेन तेजसा वयपॊहति तमस तीव्रं तथा शत्रून वयपॊह नः 33 [कर्ण] उक्तम एतन मया पूर्वं गान्धरे तव संनिधौ जेष्यामि पाण्डवान राजन सपुत्रान सजनार्दनान 34 सेनापतिर भविष्यामि तवाहं नात्र संशयः सथिरॊ भव महाराज जितान विद्धि च पाण्डवान 35 [स] एवम उक्तॊ महातेजास ततॊ दुर्यॊधनॊ नृपः उत्तस्थौ राजभिः सार्धं देवैर इव शतक्रतुः सेनापत्येन सत्कर्तुं कर्णं सकन्दम इवामराः 36 ततॊ ऽभिषिषिचुस तूर्णं विधिदृष्टेन कर्मणा दुर्यॊधनमुखा राजन राजानॊ विजयैषिणः शातकौम्भ मयैः कुम्भैर माहेयैश चाभिमन्त्रितैः 37 तॊयपूर्णैर विषाणैश च दवीपिखड्गमहर्षभैः मणिमुक्ता मयैश चान्यैः पुण्यगन्धैस तथौषधैः 38 औदुम्बरे समासीनम आसने कषौमसंवृतम शास्त्रदृष्टेन विधिना संभारैश च सुसंभृतैः 39 जय पार्थान स गॊविन्दान सानुगांस तवं महाहवे इति तं बन्दिनः पराहुर दविजाश च भरतर्षभ 40 जहि पार्थान सपाञ्चालान राधेय विजयाय नः उद्यन्न इव सदा भानुस तमांस्य उग्रैर गभस्तिभिः 41 न हय अलं तवद विसृष्टानां शराणां ते स केशवाः कृतघ्नाः सूर्यरश्मीनां जवलताम इव दर्शने 42 न हि पार्थाः सपाञ्चालाः सथातुं शक्तास तवाग्रतः आत्तशस्त्रस्य समरे महेन्द्रस्येव दानवाः 43 अभिषिक्तस तु राधेयः परभया सॊ ऽमितप्रभः वयत्यरिच्यत रूपेण दिवाकर इवापरः 44 सेनापत्येन राधेयम अभिषिच्य सुतस तव अमन्यत तदात्मानं कृतार्थं कालचॊदितः 45 कर्णॊ ऽपि राजन संप्राप्य सेनापत्यम अरिंदमः यॊगम आज्ञापयाम आस सूर्यस्यॊदयनं परति 46 तव पुत्रैर वृतः कर्णः शुशुभे तत्र भारत देवैर इव यथा सकन्दः संग्रामे तारका मये |
1
[s] hate droṇe maheṣvāse tasminn ahani bhārata kṛte ca moghasaṃkalpe droṇaputre mahārathe 2 dravamāṇe mahārāja kauravāṇāṃ bale tathā vyūhya pārthaḥ svakaṃ sainyam atiṣṭhad bhrātṛbhiḥ saha 3 tam avasthitam ājñāya putras te bharatarṣabha dravac ca svabalaṃ dṛṣṭvā pauruṣeṇa nyavārayat 4 svam anīkam avasthāpya bāhuvīrye vyavasthitaḥ yuddhvā ca suciraṃ kālaṃ pāṇḍavaiḥ saha bhārata 5 labdhalakṣaiḥ parair hṛṣṭair vyāyacchadbhiś ciraṃ tadā saṃdhyākālaṃ samāsādya pratyāhāram akārayat 6 kṛtvāvahāraṃ sainyānāṃ praviśya śibiraṃ svakam kuravo ''tmahitaṃ mantraṃ mantrayāṃ cakrire tadā 7 paryaṅkeṣu parārdhyeṣu spardhyāstaraṇavatsu ca varāsaneṣūpaviṣṭāḥ sukhaśayyāsv ivāmarāḥ 8 tato duryodhano rājā sāmnā paramavalgunā tān ābhāṣya maheṣvāsān prāptakālam abhāṣata 9 matiṃ matimatāṃ śreṣṭhāḥ sarve prabrūta māciram evaṃgate tu yat kāryaṃ bhavet kāryakaraṃ nṛpāḥ 10 evam ukte narendreṇa narasiṃhā yuyutsavaḥ cakrur nānāvidhāś ceṣṭāḥ siṃhāsanagatās tadā 11 teṣāṃ niśamyeṅgitāni yuddhe prāṇāñ juhūṣatām samudvīkṣya mukhaṃ rājño bālārkasamavarcasaḥ ācārya putro medhāvī vākyajño vākyam ādade 12 rāgo yogas tathā dākṣyaṃ nayaś cety arthasādhakāḥ upāyāḥ paṇḍitaiḥ proktāḥ sarve daivasamāśritāḥ 13 lokapravīrā ye 'smākaṃ devakalpā mahārathāḥ nītimantas tathāyuktā dakṣā raktāś ca te hatāḥ 14 na tv eva kāryaṃ nairāśyam asmābhir vijayaṃ prati sunītair iha sarvārthair daivam apy anulomyate 15 te vayaṃ pravaraṃ nṝṇāṃ sarvair guṇaguṇair yutam karṇaṃ senāpatiṃ kṛtvā pramathiṣyāmahe ripūn 16 tato duryodhanaḥ prītaḥ priyaṃ śrutvā vacas tadā prītisaṃskāra saṃyuktaṃ tathyam ātmahitaṃ śubham 17 svaṃ manaḥ samavasthāpya bāhuvīryam upāśritaḥ duryodhano mahārāja rādheyam idam abbravīt 18 karṇa jānāmi te vīryaṃ sauhṛdaṃ ca paraṃ mayi tathāpi tvāṃ mahābāho pravakṣyāmi hitaṃ vacaḥ 19 śrutvā yatheṣṭaṃ ca kuruvīra yat tava rocate bhavān prājñatamo nityaṃ mama caiva parā gatiḥ 20 bhīṣmadroṇāv atirathau hatau senāpatī mama senāpatir bhavān astu tābhyāṃ draviṇavattaraḥ 21 veddhau ca tau maheṣvāsau sāpekṣau ca dhanaṃjaye mānitau ca mayā vīrau rādheya vacanāt tava 22 pitāmahatvaṃ saṃprekṣya pāṇḍuputrā mahāraṇe rakṣitās tāta bhīṣmeṇa divasāni daśaiva ha 23 nyastaśastre ca bhavati hato bhīṣmaḥ pitāmahaḥ śikhaṇḍinaṃ puraskṛtya phalgunena mahāhave 24 hate tasmin mahābhāge śaratalpagate tadā tvayokte puruṣavyāghra droṇo hy āsīt puraḥsaraḥ 25 tenāpi rakṣitāḥ pārthāḥ śiṣyatvād iha saṃyuge sa cāpi nihato vṛddho dhṛṣṭadyumnena sa tvaram 26 nihatābhyāṃ pradhānābhyāṃ tābhyām amitavikrama tvatsamaṃ samare yoddhaṃ nānyaṃ paśyāmi cintayan 27 bhavān eva tu naḥ śakto vijayāya na saṃśayaḥ pūrvaṃ madhye ca paśccāc ca tavaiva viditaṃ hi tat 28 sa bhavān dhuryavat saṃkhye duram udvoḍhum arhasi abhiṣecaya senānye svayam ātmānam ātmanā 29 devatānāṃ yathā skandaḥ senānīḥ prabhur avyayaḥ tathā bhavān imāṃ senāṃ dhārtarāṣṭrīṃ bibhartu me jahi śatrugaṇān sarvān mahendra iva dānavān 30 avasthitaṃ raṇe jñātvā pāṇḍavās tvāṃ mahāratham draviṣyanti sa pāñcālā viṣṇuṃ dṛṣṭveva dānavāḥ tasmāt tvaṃ puruṣavyāghra prakarṣethā mahācamūm 31 bhavaty avasthite yat te pāṇḍavā gatacetasaḥ bhaviṣyanti sahāmātyāḥ pāñcālaiḥ sṛñjayaiḥ saha 32 yathā hy abhyuditaḥ sūryaḥ pratapan svena tejasā vyapohati tamas tīvraṃ tathā śatrūn vyapoha naḥ 33 [karṇa] uktam etan mayā pūrvaṃ gāndhare tava saṃnidhau jeṣyāmi pāṇḍavān rājan saputrān sajanārdanān 34 senāpatir bhaviṣyāmi tavāhaṃ nātra saṃśayaḥ sthiro bhava mahārāja jitān viddhi ca pāṇḍavān 35 [s] evam ukto mahātejās tato duryodhano nṛpaḥ uttasthau rājabhiḥ sārdhaṃ devair iva śatakratuḥ senāpatyena satkartuṃ karṇaṃ skandam ivāmarāḥ 36 tato 'bhiṣiṣicus tūrṇaṃ vidhidṛṣṭena karmaṇā duryodhanamukhā rājan rājāno vijayaiṣiṇaḥ śātakaumbha mayaiḥ kumbhair māheyaiś cābhimantritaiḥ 37 toyapūrṇair viṣāṇaiś ca dvīpikhaḍgamaharṣabhaiḥ maṇimuktā mayaiś cānyaiḥ puṇyagandhais tathauṣadhaiḥ 38 audumbare samāsīnam āsane kṣaumasaṃvṛtam śāstradṛṣṭena vidhinā saṃbhāraiś ca susaṃbhṛtaiḥ 39 jaya pārthān sa govindān sānugāṃs tvaṃ mahāhave iti taṃ bandinaḥ prāhur dvijāś ca bharatarṣabha 40 jahi pārthān sapāñcālān rādheya vijayāya naḥ udyann iva sadā bhānus tamāṃsy ugrair gabhastibhiḥ 41 na hy alaṃ tvad visṛṣṭānāṃ śarāṇāṃ te sa keśavāḥ kṛtaghnāḥ sūryaraśmīnāṃ jvalatām iva darśane 42 na hi pārthāḥ sapāñcālāḥ sthātuṃ śaktās tavāgrataḥ āttaśastrasya samare mahendrasyeva dānavāḥ 43 abhiṣiktas tu rādheyaḥ prabhayā so 'mitaprabhaḥ vyatyaricyata rūpeṇa divākara ivāparaḥ 44 senāpatyena rādheyam abhiṣicya sutas tava amanyata tadātmānaṃ kṛtārthaṃ kālacoditaḥ 45 karṇo 'pi rājan saṃprāpya senāpatyam ariṃdamaḥ yogam ājñāpayām āsa sūryasyodayanaṃ prati 46 tava putrair vṛtaḥ karṇaḥ śuśubhe tatra bhārata devair iva yathā skandaḥ saṃgrāme tārakā maye |
The Mahabharata in Sanskrit
Book 8
Chapter 7
|
1
[धृ] सेनापत्यं तु संप्राप्य कर्णॊ वैकर्तनस तदा तथॊक्तश च सवयं राज्ञा सनिग्धं भरातृसमं वचः 2 यॊगम आज्ञाप्य सेनाया आदित्ये ऽभयुदिते तदा अकरॊत किं महाप्राज्ञस तन ममाचक्ष्व संजय 3 [स] कर्णस्य मतम आज्ञाय पुत्रस ते भरतर्षभ यॊगम आज्ञापयाम आस नान्दी तूर्यपुरःसरम 4 महत्य अपररात्रे तु तव पुत्रस्य मारिष यॊगॊ गॊगेति सहसा परादुरासीन महास्वनः 5 नागानां कल्पमानानां रथानां च वरूथिनाम संनह्यतां पदातीनां वाजिनां च विशां पते 6 करॊशतां चापि यॊधानां तवरितानां परस्परम बभूव तुमुलः शब्दॊ दिवस्पृक सुमहांस तदा 7 ततः शवेतपताकेन बालार्काकार वाजिना हेमपृष्ठेन धनुषा हस्तिकक्ष्येण केतुना 8 तूणेन शरपूर्णेन साङ्गदेन वरूथिना शतघ्नी किङ्किणी शक्तिशूलतॊमर धारिणा 9 कार्मुकेणॊपपन्नेन विमलादित्य वर्चसा रथेनातिपताकेन सूतपुत्रॊ वयदृश्यत 10 धमन्तं वारिजं तात हेमजालविभूषितम विधुन्वानं महच चापं कार्तस्वरविभूषितम 11 दृष्ट्वा कर्णं महेष्वासं रथस्थं रथिनां वरम भानुमन्तम इवॊद्यन्तं तमॊ घनन्तं सहस्रशः 12 न भीष्म वयसनं के चिन नापि दरॊणस्य मारिष नान्येषां पुरुषव्याघ्र मेनिरे तत्र कौरवाः 13 ततस तु तवरयन यॊधाञ शङ्खशब्देन मारिष कर्णॊ निष्कासयाम आस कौरवाणां वरूथिनीम 14 वयूहं वयूह्य महेष्वासॊ माकरं शत्रुतापनः परत्युद्ययौ तदा कर्णः पाण्डवान विजिगीषया 15 मकरस्य तु तुण्डे वै कर्णॊ राजन वयवस्थितः नेत्राभ्यां शकुनिः शूर उलूकश च महारथः 16 दरॊणपुत्रस तु शिरसि गरीवायां सर्वसॊदराः मध्ये दुर्यॊधनॊ राजा बलेन महता वृतः 17 वामे पादे तु राजेन्द्र कृतवर्मा वयवस्थितः नारायण बलैर युक्तॊ गॊपालैर युद्धदुर्मदः 18 पादे तु दक्षिणे राजन गौतमः सत्यविक्रमः तरिगर्तैश च महेष्वासैर दाक्षिणात्यैश च संवृतः 19 अनुपादस तु यॊ वामस तत्र शल्यॊ वयवस्थितः महत्या सेनया सार्धं मद्रदेशसमुत्थया 20 दक्षिणे तु महाराज सुषेणः सत्यसंगरः वृतॊ रथसहस्रैश च दन्तिनां च शतैस तथा 21 पुच्छे आस्तां महावीरौ भरातरौ पार्थिवौ तदा चित्रसेनश च चित्रश च महत्या सेनया वृतौ 22 ततः परयाते राजेन्द्र कर्णे नरवरॊत्तमे धनंजयम अभिप्रेक्ष्य धर्मराजॊ ऽबरवीद इदम 23 पश्य पार्थ महासेनां धार्तराष्ट्रस्य संयुगे कर्णेन निर्मितां वीर गुप्तां वीरैर महारथैः 24 हतवीरतमा हय एषा धार्तराष्ट्री महाचमूः फल्गु शेषा महाबाहॊ तृणैस तुल्या मता मम 25 एकॊ हय अत्र महेष्वासः सूतपुत्रॊ वयवस्थितः स देवासुरगन्धर्वैः स किंनरमहॊरगैः चराचरैस तरिभिर लॊकैर यॊ ऽजय्यॊ रथिनां वरः 26 तं हत्वाद्य महाबाहॊ विजयस तव फल्गुना उद्धृतश च भवेच छल्यॊ मम दवादश वार्षिकः एवं जञात्वा महाबाहॊ वयूहं वयूह यथेच्छसि 27 भरातुस तद वचनं शरुत्वा पाण्डवः शवेतवाहनः अर्धचन्द्रेण वयूहेन परत्यव्यूहत तां चमूम 28 वामपार्श्वे ऽभवद राजन भीमसेनॊ वयवस्थितः दक्षिणे च महेष्वासॊ धृष्टद्युम्नॊ महाबलः 29 मध्ये वयूहस्य साक्षात तु पाण्डवः कृष्णसारथिः नकुलः सहदेवश च धर्मराजश च पृष्ठतः 30 चक्ररक्षौ तु पाञ्चाल्यौ युधामन्यूत्तमौजसौ नार्जुनं जहतुर युद्धे पाल्यमानौ किरीटिना 31 शेषा नृपतयॊ वीराः सथिता वयूहस्य दंशिताः यथा भावं यथॊत्साहं यथा सत्त्वं च भारत 32 एवम एतन महाव्यूहं वयूह्य भारत पाण्डवाः तावकाश च महेष्वासा युद्धायैव मनॊ दधुः 33 दृष्ट्वा वयूढां तव चमूं सूतपुत्रेण संयुगे निहतान पाण्डवान मेने तव पुत्रः सहान्वयः 34 तथैव पाण्डवीं सेनां वयूढां दृष्ट्वा युधिष्ठिरः धार्तराष्ट्रान हतान मेने स कर्णान वै जनाधिप 35 ततः शङ्खाश च भेर्यश च पणवानकगॊमुखाः सहसैवाभ्यहन्यन्त स शब्दाश च समन्ततः 36 सेनयॊर उभयॊ राजन परावाद्यन्त महास्वनाः सिंहनादश च संजज्ञे शूराणां जय गृद्धिनाम 37 हयहेषित शब्दाश च वारणानां च बृंहितम रथनेमि सवनाश चॊग्राः संबभूवुर जनाधिप 38 न दरॊण वयसनं कश चिज जानीते भरतर्षभ दृष्ट्वा कर्णं महेष्वासं मुखे वयूहस्य दंशितम 39 उभे सेने महासत्त्वे परहृष्टनरकुञ्जरे यॊद्धुकामे सथिते राजन हन्तुम अन्यॊन्यम अञ्जसा 40 तत्र यत्तौ सुसंरब्धौ दृष्ट्वान्यॊन्यं वयवस्थितौ अनीकमध्ये राजेन्द्र रेजतुः कर्णपाण्डवौ 41 नृत्यमाने तु ते सेने समेयातां परस्परम तयॊः पक्षैः परपक्षैश च निर्जग्मुर वै युयुत्सवः 42 ततः परववृते युद्धं नरवारणवाजिनाम रथिनां च महाराज अन्यॊन्यं निघ्नतां दृढम |
1
[dhṛ] senāpatyaṃ tu saṃprāpya karṇo vaikartanas tadā tathoktaś ca svayaṃ rājñā snigdhaṃ bhrātṛsamaṃ vacaḥ 2 yogam ājñāpya senāyā āditye 'bhyudite tadā akarot kiṃ mahāprājñas tan mamācakṣva saṃjaya 3 [s] karṇasya matam ājñāya putras te bharatarṣabha yogam ājñāpayām āsa nāndī tūryapuraḥsaram 4 mahaty apararātre tu tava putrasya māriṣa yogo gogeti sahasā prādurāsīn mahāsvanaḥ 5 nāgānāṃ kalpamānānāṃ rathānāṃ ca varūthinām saṃnahyatāṃ padātīnāṃ vājināṃ ca viśāṃ pate 6 krośatāṃ cāpi yodhānāṃ tvaritānāṃ parasparam babhūva tumulaḥ śabdo divaspṛk sumahāṃs tadā 7 tataḥ śvetapatākena bālārkākāra vājinā hemapṛṣṭhena dhanuṣā hastikakṣyeṇa ketunā 8 tūṇena śarapūrṇena sāṅgadena varūthinā śataghnī kiṅkiṇī śaktiśūlatomara dhāriṇā 9 kārmukeṇopapannena vimalāditya varcasā rathenātipatākena sūtaputro vyadṛśyata 10 dhamantaṃ vārijaṃ tāta hemajālavibhūṣitam vidhunvānaṃ mahac cāpaṃ kārtasvaravibhūṣitam 11 dṛṣṭvā karṇaṃ maheṣvāsaṃ rathasthaṃ rathināṃ varam bhānumantam ivodyantaṃ tamo ghnantaṃ sahasraśaḥ 12 na bhīṣma vyasanaṃ ke cin nāpi droṇasya māriṣa nānyeṣāṃ puruṣavyāghra menire tatra kauravāḥ 13 tatas tu tvarayan yodhāñ śaṅkhaśabdena māriṣa karṇo niṣkāsayām āsa kauravāṇāṃ varūthinīm 14 vyūhaṃ vyūhya maheṣvāso mākaraṃ śatrutāpanaḥ pratyudyayau tadā karṇaḥ pāṇḍavān vijigīṣayā 15 makarasya tu tuṇḍe vai karṇo rājan vyavasthitaḥ netrābhyāṃ śakuniḥ śūra ulūkaś ca mahārathaḥ 16 droṇaputras tu śirasi grīvāyāṃ sarvasodarāḥ madhye duryodhano rājā balena mahatā vṛtaḥ 17 vāme pāde tu rājendra kṛtavarmā vyavasthitaḥ nārāyaṇa balair yukto gopālair yuddhadurmadaḥ 18 pāde tu dakṣiṇe rājan gautamaḥ satyavikramaḥ trigartaiś ca maheṣvāsair dākṣiṇātyaiś ca saṃvṛtaḥ 19 anupādas tu yo vāmas tatra śalyo vyavasthitaḥ mahatyā senayā sārdhaṃ madradeśasamutthayā 20 dakṣiṇe tu mahārāja suṣeṇaḥ satyasaṃgaraḥ vṛto rathasahasraiś ca dantināṃ ca śatais tathā 21 pucche āstāṃ mahāvīrau bhrātarau pārthivau tadā citrasenaś ca citraś ca mahatyā senayā vṛtau 22 tataḥ prayāte rājendra karṇe naravarottame dhanaṃjayam abhiprekṣya dharmarājo 'bravīd idam 23 paśya pārtha mahāsenāṃ dhārtarāṣṭrasya saṃyuge karṇena nirmitāṃ vīra guptāṃ vīrair mahārathaiḥ 24 hatavīratamā hy eṣā dhārtarāṣṭrī mahācamūḥ phalgu śeṣā mahābāho tṛṇais tulyā matā mama 25 eko hy atra maheṣvāsaḥ sūtaputro vyavasthitaḥ sa devāsuragandharvaiḥ sa kiṃnaramahoragaiḥ carācarais tribhir lokair yo 'jayyo rathināṃ varaḥ 26 taṃ hatvādya mahābāho vijayas tava phalgunā uddhṛtaś ca bhavec chalyo mama dvādaśa vārṣikaḥ evaṃ jñātvā mahābāho vyūhaṃ vyūha yathecchasi 27 bhrātus tad vacanaṃ śrutvā pāṇḍavaḥ śvetavāhanaḥ ardhacandreṇa vyūhena pratyavyūhata tāṃ camūm 28 vāmapārśve 'bhavad rājan bhīmaseno vyavasthitaḥ dakṣiṇe ca maheṣvāso dhṛṣṭadyumno mahābalaḥ 29 madhye vyūhasya sākṣāt tu pāṇḍavaḥ kṛṣṇasārathiḥ nakulaḥ sahadevaś ca dharmarājaś ca pṛṣṭhataḥ 30 cakrarakṣau tu pāñcālyau yudhāmanyūttamaujasau nārjunaṃ jahatur yuddhe pālyamānau kirīṭinā 31 śeṣā nṛpatayo vīrāḥ sthitā vyūhasya daṃśitāḥ yathā bhāvaṃ yathotsāhaṃ yathā sattvaṃ ca bhārata 32 evam etan mahāvyūhaṃ vyūhya bhārata pāṇḍavāḥ tāvakāś ca maheṣvāsā yuddhāyaiva mano dadhuḥ 33 dṛṣṭvā vyūḍhāṃ tava camūṃ sūtaputreṇa saṃyuge nihatān pāṇḍavān mene tava putraḥ sahānvayaḥ 34 tathaiva pāṇḍavīṃ senāṃ vyūḍhāṃ dṛṣṭvā yudhiṣṭhiraḥ dhārtarāṣṭrān hatān mene sa karṇān vai janādhipa 35 tataḥ śaṅkhāś ca bheryaś ca paṇavānakagomukhāḥ sahasaivābhyahanyanta sa śabdāś ca samantataḥ 36 senayor ubhayo rājan prāvādyanta mahāsvanāḥ siṃhanādaś ca saṃjajñe śūrāṇāṃ jaya gṛddhinām 37 hayaheṣita śabdāś ca vāraṇānāṃ ca bṛṃhitam rathanemi svanāś cogrāḥ saṃbabhūvur janādhipa 38 na droṇa vyasanaṃ kaś cij jānīte bharatarṣabha dṛṣṭvā karṇaṃ maheṣvāsaṃ mukhe vyūhasya daṃśitam 39 ubhe sene mahāsattve prahṛṣṭanarakuñjare yoddhukāme sthite rājan hantum anyonyam añjasā 40 tatra yattau susaṃrabdhau dṛṣṭvānyonyaṃ vyavasthitau anīkamadhye rājendra rejatuḥ karṇapāṇḍavau 41 nṛtyamāne tu te sene sameyātāṃ parasparam tayoḥ pakṣaiḥ prapakṣaiś ca nirjagmur vai yuyutsavaḥ 42 tataḥ pravavṛte yuddhaṃ naravāraṇavājinām rathināṃ ca mahārāja anyonyaṃ nighnatāṃ dṛḍham |
The Mahabharata in Sanskrit
Book 8
Chapter 8
|
1
[स] ते सेने ऽनयॊन्यम आसाद्य परहृष्टाश्वनरद्विपे बृहत्यौ संप्रजह्राते देवासुरचमूपमे 2 ततॊ गजा रथाश चाश्वाः पत्तयश च महाहवे संप्रहारं परं चक्रुर देव पाप्म परणाशनम 3 पूर्णचन्द्रार्क पद्मानां कान्ति तविड गन्धतः समैः उत्तमाङ्गैर नृसिंहानां नृसिंहास तस्तरुर महीम 4 अर्धचन्द्रैस तथा भल्लैः कषुरप्रैर असि पट्टिशैः परश्वधैश चाप्य अकृन्तन्न उत्तमाङ्गानि युध्यताम 5 वयायतायत बाहूनां वयायतायत बाहुभिः वयायता बाहवः पेतुश छिन्नमुष्ट्य आयुधाङ्गदाः 6 तैः सफुरद्भिर मही भाति रक्ताङ्गुलि तलैस तदा गरुड परहतैर उग्रैः पञ्चास्यैर इव पन्नगैः 7 हयस्यन्दन नागेभ्यः पेतुर वीरा दविषद धताः विमानेभ्यॊ यथा कषीणे पुण्ये सवर्गसदस तथा 8 गदाभिर अन्यैर गुर्वीभिः परिघैर मुसलैर अपि पॊथिताः शतशः पेतुर वीरा वीरतरै रणे 9 रथा रथैर विनिहता मत्ता मत्तैर दविपैर दविपाः सादिनः सादिभिश चैव तस्मिन परमसंकुले 10 रथा वररथैर नागैर अश्वारॊहाश च पत्तिभिः अश्वारॊहैः पदाताश च निहता युधि शेरते 11 रथाश्वपत्तयॊ नागै रथैर नागाश च पत्तयः रथपत्तिद्विपाश चाश्वैर नृभिश चाश्वरथद्विपाः 12 रथाश्वेभ नराणां च नराश्वेभ रथैः कृतम पाणिपादैश च शस्त्रैश च रथैश च कदनं महत 13 तथा तस्मिन बले शूरैर वध्यमाने हते ऽपि च अस्मान अभ्यागमन पार्था वृकॊदर पुरॊगमाः 14 धृष्टद्युम्नः शिखण्डी च दरौपदेयाः परभद्रकाः सात्यकिश चेकितानश च दरविडैः सैनिकैः सह 15 भृता वित्तेन महता पाण्ड्याश चौड्राः स केरलाः वयूढॊरस्का दीर्घभुजाः परांशवः परियदर्शनाः 16 आपीडिनॊ रक्तदन्ता मत्तमातङ्गविक्रमाः नाना विराग वसना गन्धचूर्णावचूर्णिताः 17 बद्धासयः पाशहस्ता वारणप्रतिवारणाः समानमृत्यवॊ राजन्न अनीकस्थाः परस्परम 18 कलापिनश चापहस्ता दीर्घकेशाः परियाहवाः पत्तयः सात्यकेर अन्ध्रा घॊररूपपराक्रमाः 19 अथापरे पुनः शूराश चेदिपाञ्चालकेकयाः करूषाः कॊसलाः काश्या मागधाश चापि दुद्रुवुः 20 तेषां रथाश च नागाश च परवराश चापि पत्तयः नानाविध रवैर हृष्टा नृत्यन्ति च हसन्ति च 21 तस्य सैन्यस्य महतॊ महामात्रवरैर वृतः मध्यं वृकॊदरॊ ऽभयागात तवदीयं नागधूर गतः 22 स नागप्रवरॊ ऽतयुग्रॊ विधिवत कल्पितॊ बभौ उदयाद्र्य अग्र्यभवनं यथाभ्युदित भास्करम 23 तस्यायसं वर्म वरं वररत्नविभूषितम तारॊद्भासस्य नभसः शारदस्य समत्विषम 24 स तॊमरप्रासकरश चारु मौलिः सवलंकृतः चरन मध्यंदिनार्काभस तेजसा वयदहद रिपून 25 तं दृष्ट्वा दविरदं दूरात कषेमधूर्तिर दविपस्थितः आह्वयानॊ ऽभिदुद्राव परमनाः परमनस्तरम 26 तयॊः समभवद युद्धं दविपयॊर उग्ररूपयॊः यदृच्छया दरुमवतॊर महापर्वतयॊर इव 27 संसक्तनागौ तौ वीरौ तॊमरैर इतरेतरम बलवत सूर्यरश्म्य आभैर भित्त्वा भित्त्वा विनेदतुः 28 वयपसृत्य तु नागाभ्यां मडलानि विचेरतुः परगृह्य चैव धनुषी जघ्नतुर वै परस्परम 29 कष्वेडितास्फॊटित रवैर बाणशब्दैश च सर्वशः तौ जनान हर्षयित्वा च सिंहनादान परचक्रतुः 30 समुद्यतकराभ्यां तौ दविपाभ्यां कृतिनाव उभौ वातॊद्धूत पताकाभ्यां युयुधाते महाबलौ 31 ताव अन्यॊन्यस्य धनुषी छित्त्वान्यॊन्यं विनेदतुः शक्तितॊमर वर्षेण परावृण मेघाव इवाम्बुभिः 32 कषेमधूर्तिस तदा भीमं तॊमरेण सतनान्तरे निर्बिभेद तु वेगेन षड्भिश चाप्य अपरैर नदन 33 स भीमसेनः शुशुभे तॊमरैर अङ्गमाश्रितैः करॊधदीप्तवपुर मेघैः सप्त सप्तिर इवांशुमान 34 ततॊ भास्करवर्णाभम अञ्जॊ गतिमय समयम ससर्ज तॊमरं भीमः परत्यमित्राय यत्नवान 35 ततः कुलूताधिपतिश चापम आयम्य सायकैः दशभिस तॊमरं छित्त्वा शक्त्या विव्याध पाण्डवम 36 अथ कार्मुकम आदाय महाजलद निस्वनम रिपॊर अभ्यर्दयन नागम उन्मदः पाण्डवः शरैः 37 स शरौघार्दितॊ नागॊ भीमसेनेन संयुगे निगृह्यमाणॊ नातिष्ठद वातध्वस्त इवाम्बुदः 38 ताम अभ्यधावद दविरदं भीमसेनस्य नागराट महावातेरितं मेघं वातॊद्धूत इवाम्बुदः 39 संनिवर्त्यात्मनॊ नागं कषेमधूर्तिः परयत्नतः विव्याधाभिद्रुतं बाणैर भीमसेनं स कुञ्जरम 40 ततः साधु विसृष्टेन कषुरेण पुरुषर्षभः छित्त्वा शरासनं शत्रॊर नागम आमित्रम आर्दयत 41 ततः खजा कया भीमं कषेमधूर्तिः पराभिनत जघान चास्य दविरदं नाराचैः सर्वमर्मसु 42 पुरा नागस्य पतनाद अवप्लुत्य सथितॊ महीम भीमसेनॊ रिपॊर नागं गदया समपॊथयत 43 तस्मात परमथितान नागात कषेमधूर्तिम अवद्रुतम उद्यतासिम उपायान्तं गदयाहन वृकॊदरः 44 स पपात हतः सासिर वयसुः सवम अभितॊ दविपम वज्रप्ररुग्णम अचलं सिंहॊ वज्रहतॊ यथा 45 निहतं नृपतिं दृष्ट्वा कुलूतानां यशस्करम पराद्रवद वयथिता सेना तवदीया भरतर्षभ |
1
[s] te sene 'nyonyam āsādya prahṛṣṭāśvanaradvipe bṛhatyau saṃprajahrāte devāsuracamūpame 2 tato gajā rathāś cāśvāḥ pattayaś ca mahāhave saṃprahāraṃ paraṃ cakrur deva pāpma praṇāśanam 3 pūrṇacandrārka padmānāṃ kānti tviḍ gandhataḥ samaiḥ uttamāṅgair nṛsiṃhānāṃ nṛsiṃhās tastarur mahīm 4 ardhacandrais tathā bhallaiḥ kṣuraprair asi paṭṭiśaiḥ paraśvadhaiś cāpy akṛntann uttamāṅgāni yudhyatām 5 vyāyatāyata bāhūnāṃ vyāyatāyata bāhubhiḥ vyāyatā bāhavaḥ petuś chinnamuṣṭy āyudhāṅgadāḥ 6 taiḥ sphuradbhir mahī bhāti raktāṅguli talais tadā garuḍa prahatair ugraiḥ pañcāsyair iva pannagaiḥ 7 hayasyandana nāgebhyaḥ petur vīrā dviṣad dhatāḥ vimānebhyo yathā kṣīṇe puṇye svargasadas tathā 8 gadābhir anyair gurvībhiḥ parighair musalair api pothitāḥ śataśaḥ petur vīrā vīratarai raṇe 9 rathā rathair vinihatā mattā mattair dvipair dvipāḥ sādinaḥ sādibhiś caiva tasmin paramasaṃkule 10 rathā vararathair nāgair aśvārohāś ca pattibhiḥ aśvārohaiḥ padātāś ca nihatā yudhi śerate 11 rathāśvapattayo nāgai rathair nāgāś ca pattayaḥ rathapattidvipāś cāśvair nṛbhiś cāśvarathadvipāḥ 12 rathāśvebha narāṇāṃ ca narāśvebha rathaiḥ kṛtam pāṇipādaiś ca śastraiś ca rathaiś ca kadanaṃ mahat 13 tathā tasmin bale śūrair vadhyamāne hate 'pi ca asmān abhyāgaman pārthā vṛkodara purogamāḥ 14 dhṛṣṭadyumnaḥ śikhaṇḍī ca draupadeyāḥ prabhadrakāḥ sātyakiś cekitānaś ca draviḍaiḥ sainikaiḥ saha 15 bhṛtā vittena mahatā pāṇḍyāś cauḍrāḥ sa keralāḥ vyūḍhoraskā dīrghabhujāḥ prāṃśavaḥ priyadarśanāḥ 16 āpīḍino raktadantā mattamātaṅgavikramāḥ nānā virāga vasanā gandhacūrṇāvacūrṇitāḥ 17 baddhāsayaḥ pāśahastā vāraṇaprativāraṇāḥ samānamṛtyavo rājann anīkasthāḥ parasparam 18 kalāpinaś cāpahastā dīrghakeśāḥ priyāhavāḥ pattayaḥ sātyaker andhrā ghorarūpaparākramāḥ 19 athāpare punaḥ śūrāś cedipāñcālakekayāḥ karūṣāḥ kosalāḥ kāśyā māgadhāś cāpi dudruvuḥ 20 teṣāṃ rathāś ca nāgāś ca pravarāś cāpi pattayaḥ nānāvidha ravair hṛṣṭā nṛtyanti ca hasanti ca 21 tasya sainyasya mahato mahāmātravarair vṛtaḥ madhyaṃ vṛkodaro 'bhyāgāt tvadīyaṃ nāgadhūr gataḥ 22 sa nāgapravaro 'tyugro vidhivat kalpito babhau udayādry agryabhavanaṃ yathābhyudita bhāskaram 23 tasyāyasaṃ varma varaṃ vararatnavibhūṣitam tārodbhāsasya nabhasaḥ śāradasya samatviṣam 24 sa tomaraprāsakaraś cāru mauliḥ svalaṃkṛtaḥ caran madhyaṃdinārkābhas tejasā vyadahad ripūn 25 taṃ dṛṣṭvā dviradaṃ dūrāt kṣemadhūrtir dvipasthitaḥ āhvayāno 'bhidudrāva pramanāḥ pramanastaram 26 tayoḥ samabhavad yuddhaṃ dvipayor ugrarūpayoḥ yadṛcchayā drumavator mahāparvatayor iva 27 saṃsaktanāgau tau vīrau tomarair itaretaram balavat sūryaraśmy ābhair bhittvā bhittvā vinedatuḥ 28 vyapasṛtya tu nāgābhyāṃ maḍalāni viceratuḥ pragṛhya caiva dhanuṣī jaghnatur vai parasparam 29 kṣveḍitāsphoṭita ravair bāṇaśabdaiś ca sarvaśaḥ tau janān harṣayitvā ca siṃhanādān pracakratuḥ 30 samudyatakarābhyāṃ tau dvipābhyāṃ kṛtināv ubhau vātoddhūta patākābhyāṃ yuyudhāte mahābalau 31 tāv anyonyasya dhanuṣī chittvānyonyaṃ vinedatuḥ śaktitomara varṣeṇa prāvṛṇ meghāv ivāmbubhiḥ 32 kṣemadhūrtis tadā bhīmaṃ tomareṇa stanāntare nirbibheda tu vegena ṣaḍbhiś cāpy aparair nadan 33 sa bhīmasenaḥ śuśubhe tomarair aṅgamāśritaiḥ krodhadīptavapur meghaiḥ sapta saptir ivāṃśumān 34 tato bhāskaravarṇābham añjo gatimaya smayam sasarja tomaraṃ bhīmaḥ pratyamitrāya yatnavān 35 tataḥ kulūtādhipatiś cāpam āyamya sāyakaiḥ daśabhis tomaraṃ chittvā śaktyā vivyādha pāṇḍavam 36 atha kārmukam ādāya mahājalada nisvanam ripor abhyardayan nāgam unmadaḥ pāṇḍavaḥ śaraiḥ 37 sa śaraughārdito nāgo bhīmasenena saṃyuge nigṛhyamāṇo nātiṣṭhad vātadhvasta ivāmbudaḥ 38 tām abhyadhāvad dviradaṃ bhīmasenasya nāgarāṭ mahāvāteritaṃ meghaṃ vātoddhūta ivāmbudaḥ 39 saṃnivartyātmano nāgaṃ kṣemadhūrtiḥ prayatnataḥ vivyādhābhidrutaṃ bāṇair bhīmasenaṃ sa kuñjaram 40 tataḥ sādhu visṛṣṭena kṣureṇa puruṣarṣabhaḥ chittvā śarāsanaṃ śatror nāgam āmitram ārdayat 41 tataḥ khajā kayā bhīmaṃ kṣemadhūrtiḥ parābhinat jaghāna cāsya dviradaṃ nārācaiḥ sarvamarmasu 42 purā nāgasya patanād avaplutya sthito mahīm bhīmaseno ripor nāgaṃ gadayā samapothayat 43 tasmāt pramathitān nāgāt kṣemadhūrtim avadrutam udyatāsim upāyāntaṃ gadayāhan vṛkodaraḥ 44 sa papāta hataḥ sāsir vyasuḥ svam abhito dvipam vajraprarugṇam acalaṃ siṃho vajrahato yathā 45 nihataṃ nṛpatiṃ dṛṣṭvā kulūtānāṃ yaśaskaram prādravad vyathitā senā tvadīyā bharatarṣabha |
The Mahabharata in Sanskrit
Book 8
Chapter 9
|
1
[स] ततः कर्णॊ महेष्वासः पाण्डवानाम अनीकिनीम जघान समरे शूरः शरैः संनतपर्वभिः 2 तथैव पाण्डवा राजंस तव पुत्रस्य वाहिनीम कर्णस्य परमुखे करुद्धा विनिजघ्नुर महारथाः 3 कर्णॊ राजन महाबाहुर नयवधीत पाण्डवीं चमूम नाराचैर अर्करश्म्य आभैः कर्मार परिमार्जितैः 4 तत्र भारत कर्णेन नाराचैस ताडिता गजाः नेदुः सेदुश च मम्लुश च बभ्रमुश च दिशॊ दश 5 वध्यमाने बले तस्मिन सूतपुत्रेण मारिष नकुलॊ ऽभयद्रवत तूर्णं सूतपुत्रं महारणे 6 भीमसेनस तथा दरौणिं कुर्वाणं कर्म दुष्करम विन्दानुविन्दौ कैकेयौ सात्यकिः समवारयत 7 शरुतकर्माणम आयान्तं चित्रसेनॊ महीपतिः परतिविन्ध्यं तथा चित्रश चित्रकेतन कार्मुकः 8 दुर्यॊधनस तु राजानं धर्मपुत्रं युधिष्ठिरम संशप्तक गणान करुद्धॊ अभ्यधावद धनंजयः 9 धृष्टद्युम्नः कृपं चाथ तस्मिन वीरवरक्षये शिखण्डी कृतवर्माणं समासादयद अच्युतम 10 शरुतकीर्तिस तथा शल्यं माद्रीपुत्रः सुतं तव दुःशासनं महाराज सहदेवः परतापवान 11 केकयौ सात्यकिं युद्धे शरवर्षेण भास्वता सात्यकिः केकयौ चैव छादयाम आस भारत 12 ताव एनं भारतौ वीरं जघ्नतुर हृदये भृशम विषाणाभ्यां यथा नागौ परतिनागं महाहवे 13 शरसंभिन्न वर्माणौ ताव उभौ भरातरौ रणे सात्यकिं सत्यकर्माणं राजन विव्यधतुः शरैः 14 तौ सात्यकिर महाराज परहसन सर्वतॊदिशम छादयञ शरवर्षेण वारयाम आस भारत 15 वार्यमाणॊ ततस तौ तु शैनेय शरवृष्टिभिः शैनेयस्य रथं तूर्णं छादयाम आसतुः शरैः 16 तयॊस तु धनुषी चित्रे छित्त्वा शौरिर महाहवे अथ तौ सायकैस तीक्ष्णैश छादयाम आस दुःसहैः 17 अथान्ये धनुषी मृष्टे परगृह्य च महाशरान सात्यकिं पूरयन्तौ तौ चेरतुर लघु सुष्ठु च 18 ताभ्यां मुक्ता महाबाणाः कङ्कबर्हिण वाससः दयॊतयन्तॊ दिशः सर्वाः संपेतुः सवर्णभूषणाः 19 बाणान्ध कारम अभवत तयॊ राजन महाहवे अन्यॊन्यस्य धनुश चैव चिच्छिदुस ते महारथाः 20 ततः करुद्धॊ महाराज सात्वतॊ युद्धदुर्मदः धनुर अन्यत समादाय स जयं कृत्वा च संयुगे कषुरप्रेण सुतीक्ष्णेन अनुविन्द शिरॊ ऽहरत 21 तच्छिरॊ नयपतद भूमौ कुण्डलॊत्पीडितं महत शम्बरस्य शिरॊ यद्वन निहतस्य महारणे शॊषयन केकयान सर्वाञ जगामाशु वसुंधराम 22 तं दृष्ट्वा निहतं शूरं भराता तस्य महारथः स जयम अन्यद धनुः कृत्वा शैनेयं परत्यवारयत 23 स शक्त्या सात्यकिं विद्ध्वा सवर्णपुङ्खैः शिलाशितैः ननाद बलवन नादं तिष्ठ तिष्ठेति चाब्रवीत 24 स सात्यकिं पुनः करुद्धः केकयानां महारथः शरैर अग्निशिखाकारैर बाह्वॊर उरसि चार्दयत 25 स शरैः कषतसर्वाङ्गः सात्वतः सत्त्वकॊविदः रराज समरे राजन स पत्र इव किंशुकः 26 सात्यकिः समरे विद्धः केकयेन महात्मना केकयं पञ्चविंशत्या विव्याध परहसन्न इव 27 शतचन्द्र चिते गृह्य चर्मणी सुभुजौ तु तौ वयरॊचेतां महारङ्गे निस्त्रिंशवरधारिणौ यथा देवासुरे युद्धे जम्भ शक्रौ महाबलौ 28 मण्डलानि ततस तौ च विचरन्तौ महारणे अन्यॊन्यम असिभिस तूर्णं समाजघ्नतुर आहवे 29 केकयस्य ततश चर्म दविधा चिच्छेद सात्वतः सात्यकेश च तथैवासौ चर्म चिच्छेद पार्थिवः 30 चर्म छित्त्वा तु कैकेयस तारागणशतैर वृतम चचार मण्डलान्य एव गतप्रत्यागतानि च 31 तं चरन्तं महारङ्गे निस्त्रिंशवरधारिणम अपहस्तेन चिच्छेद शैनेयस तवरयान्वितः 32 स वर्मा केकयॊ राजन दविधा छिन्नॊ महाहवे निपपात महेष्वासॊ वज्रनुन्न इवाचलः 33 तं निहत्य रणे शूरः शैनेयॊ रथसत्तमः युधामन्यॊ रथं तूर्णम आरुरॊह परंतपः 34 ततॊ ऽनयं रथम आस्थाय विधिवत कल्पितं पुनः केकयानां महत सैन्यं वयधमत सात्यकिः शरैः 35 सा वध्यमाना समरे केकयस्य महाचमूः तम उत्सृज्य रथं शत्रुं परदुद्राव दिशॊ दश |
1
[s] tataḥ karṇo maheṣvāsaḥ pāṇḍavānām anīkinīm jaghāna samare śūraḥ śaraiḥ saṃnataparvabhiḥ 2 tathaiva pāṇḍavā rājaṃs tava putrasya vāhinīm karṇasya pramukhe kruddhā vinijaghnur mahārathāḥ 3 karṇo rājan mahābāhur nyavadhīt pāṇḍavīṃ camūm nārācair arkaraśmy ābhaiḥ karmāra parimārjitaiḥ 4 tatra bhārata karṇena nārācais tāḍitā gajāḥ neduḥ seduś ca mamluś ca babhramuś ca diśo daśa 5 vadhyamāne bale tasmin sūtaputreṇa māriṣa nakulo 'bhyadravat tūrṇaṃ sūtaputraṃ mahāraṇe 6 bhīmasenas tathā drauṇiṃ kurvāṇaṃ karma duṣkaram vindānuvindau kaikeyau sātyakiḥ samavārayat 7 śrutakarmāṇam āyāntaṃ citraseno mahīpatiḥ prativindhyaṃ tathā citraś citraketana kārmukaḥ 8 duryodhanas tu rājānaṃ dharmaputraṃ yudhiṣṭhiram saṃśaptaka gaṇān kruddho abhyadhāvad dhanaṃjayaḥ 9 dhṛṣṭadyumnaḥ kṛpaṃ cātha tasmin vīravarakṣaye śikhaṇḍī kṛtavarmāṇaṃ samāsādayad acyutam 10 śrutakīrtis tathā śalyaṃ mādrīputraḥ sutaṃ tava duḥśāsanaṃ mahārāja sahadevaḥ pratāpavān 11 kekayau sātyakiṃ yuddhe śaravarṣeṇa bhāsvatā sātyakiḥ kekayau caiva chādayām āsa bhārata 12 tāv enaṃ bhāratau vīraṃ jaghnatur hṛdaye bhṛśam viṣāṇābhyāṃ yathā nāgau pratināgaṃ mahāhave 13 śarasaṃbhinna varmāṇau tāv ubhau bhrātarau raṇe sātyakiṃ satyakarmāṇaṃ rājan vivyadhatuḥ śaraiḥ 14 tau sātyakir mahārāja prahasan sarvatodiśam chādayañ śaravarṣeṇa vārayām āsa bhārata 15 vāryamāṇo tatas tau tu śaineya śaravṛṣṭibhiḥ śaineyasya rathaṃ tūrṇaṃ chādayām āsatuḥ śaraiḥ 16 tayos tu dhanuṣī citre chittvā śaurir mahāhave atha tau sāyakais tīkṣṇaiś chādayām āsa duḥsahaiḥ 17 athānye dhanuṣī mṛṣṭe pragṛhya ca mahāśarān sātyakiṃ pūrayantau tau ceratur laghu suṣṭhu ca 18 tābhyāṃ muktā mahābāṇāḥ kaṅkabarhiṇa vāsasaḥ dyotayanto diśaḥ sarvāḥ saṃpetuḥ svarṇabhūṣaṇāḥ 19 bāṇāndha kāram abhavat tayo rājan mahāhave anyonyasya dhanuś caiva cicchidus te mahārathāḥ 20 tataḥ kruddho mahārāja sātvato yuddhadurmadaḥ dhanur anyat samādāya sa jyaṃ kṛtvā ca saṃyuge kṣurapreṇa sutīkṣṇena anuvinda śiro 'harat 21 tacchiro nyapatad bhūmau kuṇḍalotpīḍitaṃ mahat śambarasya śiro yadvan nihatasya mahāraṇe śoṣayan kekayān sarvāñ jagāmāśu vasuṃdharām 22 taṃ dṛṣṭvā nihataṃ śūraṃ bhrātā tasya mahārathaḥ sa jyam anyad dhanuḥ kṛtvā śaineyaṃ pratyavārayat 23 sa śaktyā sātyakiṃ viddhvā svarṇapuṅkhaiḥ śilāśitaiḥ nanāda balavan nādaṃ tiṣṭha tiṣṭheti cābravīt 24 sa sātyakiṃ punaḥ kruddhaḥ kekayānāṃ mahārathaḥ śarair agniśikhākārair bāhvor urasi cārdayat 25 sa śaraiḥ kṣatasarvāṅgaḥ sātvataḥ sattvakovidaḥ rarāja samare rājan sa patra iva kiṃśukaḥ 26 sātyakiḥ samare viddhaḥ kekayena mahātmanā kekayaṃ pañcaviṃśatyā vivyādha prahasann iva 27 śatacandra cite gṛhya carmaṇī subhujau tu tau vyarocetāṃ mahāraṅge nistriṃśavaradhāriṇau yathā devāsure yuddhe jambha śakrau mahābalau 28 maṇḍalāni tatas tau ca vicarantau mahāraṇe anyonyam asibhis tūrṇaṃ samājaghnatur āhave 29 kekayasya tataś carma dvidhā ciccheda sātvataḥ sātyakeś ca tathaivāsau carma ciccheda pārthivaḥ 30 carma chittvā tu kaikeyas tārāgaṇaśatair vṛtam cacāra maṇḍalāny eva gatapratyāgatāni ca 31 taṃ carantaṃ mahāraṅge nistriṃśavaradhāriṇam apahastena ciccheda śaineyas tvarayānvitaḥ 32 sa varmā kekayo rājan dvidhā chinno mahāhave nipapāta maheṣvāso vajranunna ivācalaḥ 33 taṃ nihatya raṇe śūraḥ śaineyo rathasattamaḥ yudhāmanyo rathaṃ tūrṇam āruroha paraṃtapaḥ 34 tato 'nyaṃ ratham āsthāya vidhivat kalpitaṃ punaḥ kekayānāṃ mahat sainyaṃ vyadhamat sātyakiḥ śaraiḥ 35 sā vadhyamānā samare kekayasya mahācamūḥ tam utsṛjya rathaṃ śatruṃ pradudrāva diśo daśa |
The Mahabharata in Sanskrit
Book 8
Chapter 10
|
1
[स] शरुतकर्मा महाराज चित्रसेनं महीपतिम आजघ्ने समरे करुद्धः पञ्चाशद्भिः शिलीमुखैः 2 अभिसारस तु तं राजा नवभिर निशितैः शरैः शरुतकर्माणम आहत्य सूतं विव्याध पञ्चभिः 3 शरुतकर्मा ततः करुद्धश चित्रसेनं चमूमुखे नाराचेन सुतीक्ष्णेन मर्म देशे समर्दयत 4 एतस्मिन्न अन्तरे चैनं शरुतकीर्तिर महायशाः नवत्या जगती पालं छादयाम आस पत्रिभिः 5 परतिलब्य ततः संज्ञां चित्रसेनॊ महारथः धनुश चिच्छेद भल्लेन तं च विव्याध सप्तभिः 6 सॊ ऽनयत कार्मुकम आदाय वेगघ्नं रुक्मभूषणम चित्ररूपतरं चक्रे चित्रसेनं शरॊर्मिभिः 7 स शरैश चित्रितॊ राजंश चित्रमाल्यधरॊ युवा युवेव समशॊभत स गॊष्ठीमध्ये सवलंकृतः 8 शरुतकर्माणम अथ वै नाराचेन सतनान्तरे बिभेद समरे करुद्धस तिष्ठ तिष्ठेति चाब्रवीत 9 शरुतकर्मापि समरे नाराचेन समर्दितः सुस्राव रुधिरं भूरि गौरिकाम्भ इवाचलः 10 ततः स रुधिराक्ताङ्गॊ रुधिरेण कृतच्छविः रराज समरे राजन स पुष्प इव किंशुकः 11 शरुतकर्मा ततॊ राजञ शत्रूणां समभिद्रुतः शत्रुसंवरणं कृत्वा दविधा चिच्छेद कार्मुकम 12 अथैनं छिन्नधन्वानं नाराचानां तरिभिः शतैः विव्याध भरतश्रेष्ठ शरुतकर्मा महायशाः 13 ततॊ ऽपरेण भल्लेन भृशं तीष्क्णेन स तवरः जहार स शिरस तराणं शिरस तस्य महात्मनः 14 तच्छिरॊ नयपतद भूमौ सुमहच चित्रवर्मणः यदृच्छया यथा चन्द्रश चयुतः सवर्गान महीतले 15 राजानं निहतं दृष्ट्वा अभिसारं च मारिष अभ्यद्रवन्त वेगेन चित्रसेनस्य सैनिकाः 16 ततः करुद्धॊ महेष्वासस तत सैन्यं पराद्रवच छरैः अन्तकाले यथा करुद्धः सर्वभूतानि परेतराट दरावयन्न इषुभिस तूर्णं शरुतकर्मा वयरॊचत 17 परतिविन्ध्यस ततश चित्रं भित्त्वा पञ्चभिर आशुगैः सारथिं तरिभिर आनर्च्छद धवजम एकेषुणा ततः 18 तं चित्रॊ नवभिर भल्लैर बाह्वॊर उरसि चार्दयत सवर्णपुङ्खैः शिला धौतैः कङ्कबर्हिण वाजितैः 19 परतिविन्ध्यॊ धनुस तस्य छित्त्वा भारत सायकैः पञ्चभिर निशितैर बाणैर अथैनं संप्रजघ्निवान 20 ततः शक्तिं महाराज हेमदण्डां दुरासदाम पराहिणॊत तव पुत्राय घॊराम अग्निशिखाम इव 21 ताम आपतन्तीं सहसा शक्तिम उल्काम इवाम्बरात दविधा चिच्छेद समरे परतिविन्ध्यॊ हसन्न इव 22 सा पपात तदा छिन्ना परतिविन्ध्य शरैः शितैः युगान्ते सर्वभूतानि तरासयन्ती यथाशनिः 23 शक्तिं तां परहतां दृष्ट्वा चित्रॊ गृह्य महागदाम परतिविन्ध्याय चिक्षेप रुक्मजालविभूषिताम 24 सा जघान हयांस तस्य सारथिं च महारणे रथं परमृद्य वेगेन धरणीम अन्वपद्यत 25 एतस्मिन्न एव काले तु रथाद आप्लुत्य भारत शक्तिं चिक्षेप चित्राय सवर्णघण्टाम अलंकृताम 26 ताम आपतन्तीं जग्राह चित्रॊ राजन महामनाः ततस ताम एव चिक्षेप परतिविन्ध्याय भारत 27 समासाद्य रणे शूरं परतिविन्ध्यं महाप्रभा निर्भिद्य दक्षिणं बाहुं निपपात महीतले पतिताभासयच चैव तं देशम अशनिर यथा 28 परतिविन्ध्यस ततॊ राजंस तॊमरं हेमभूषितम परेषयाम आस संक्रुद्धश चित्रस्य वधकाम्यया 29 स तस्य देवावरणं भित्त्वा हृदयम एव च जगाम धरणीं तूर्णं महॊरग इवाशयम 30 स पपात तदा राजंस तॊमरेण समाहतः परसार्य विपुलौ बाहू पीनौ परिघसंनिभौ 31 चित्र्म संप्रेक्ष्य निहतं तावका रणशॊभिनः अभ्यद्रवन्त वेगेन परतिविन्ध्यं समन्ततः 32 सृजन्तॊ विविधान बाणाञ शतघ्नीश च स किङ्किणीः त एनं छादयाम आसुः सूर्यम अभ्रगणा इव 33 तान अपास्य महाबाहुः शरजालेन संयुगे वयद्रावयत तव चमूं वज्रहस्त इवासुरीम 34 ते वध्यमानाः समरे तावकाः पाण्डवैर नृप विप्रकीर्यन्त सहसा वातनुन्ना घना इव 35 विप्रद्रुते बले तस्मिन वध्यमाने समन्ततः दरौणिर एकॊ ऽभययात तूर्णं भीमसेनं महाबलम 36 ततः समागमॊ घॊरॊ बभूव सहसा तयॊः यथा देवासुरे युद्धे वृत्रवासवयॊर अभूत |
1
[s] śrutakarmā mahārāja citrasenaṃ mahīpatim ājaghne samare kruddhaḥ pañcāśadbhiḥ śilīmukhaiḥ 2 abhisāras tu taṃ rājā navabhir niśitaiḥ śaraiḥ śrutakarmāṇam āhatya sūtaṃ vivyādha pañcabhiḥ 3 śrutakarmā tataḥ kruddhaś citrasenaṃ camūmukhe nārācena sutīkṣṇena marma deśe samardayat 4 etasminn antare cainaṃ śrutakīrtir mahāyaśāḥ navatyā jagatī pālaṃ chādayām āsa patribhiḥ 5 pratilabya tataḥ saṃjñāṃ citraseno mahārathaḥ dhanuś ciccheda bhallena taṃ ca vivyādha saptabhiḥ 6 so 'nyat kārmukam ādāya vegaghnaṃ rukmabhūṣaṇam citrarūpataraṃ cakre citrasenaṃ śarormibhiḥ 7 sa śaraiś citrito rājaṃś citramālyadharo yuvā yuveva samaśobhat sa goṣṭhīmadhye svalaṃkṛtaḥ 8 śrutakarmāṇam atha vai nārācena stanāntare bibheda samare kruddhas tiṣṭha tiṣṭheti cābravīt 9 śrutakarmāpi samare nārācena samarditaḥ susrāva rudhiraṃ bhūri gaurikāmbha ivācalaḥ 10 tataḥ sa rudhirāktāṅgo rudhireṇa kṛtacchaviḥ rarāja samare rājan sa puṣpa iva kiṃśukaḥ 11 śrutakarmā tato rājañ śatrūṇāṃ samabhidrutaḥ śatrusaṃvaraṇaṃ kṛtvā dvidhā ciccheda kārmukam 12 athainaṃ chinnadhanvānaṃ nārācānāṃ tribhiḥ śataiḥ vivyādha bharataśreṣṭha śrutakarmā mahāyaśāḥ 13 tato 'pareṇa bhallena bhṛśaṃ tīṣkṇena sa tvaraḥ jahāra sa śiras trāṇaṃ śiras tasya mahātmanaḥ 14 tacchiro nyapatad bhūmau sumahac citravarmaṇaḥ yadṛcchayā yathā candraś cyutaḥ svargān mahītale 15 rājānaṃ nihataṃ dṛṣṭvā abhisāraṃ ca māriṣa abhyadravanta vegena citrasenasya sainikāḥ 16 tataḥ kruddho maheṣvāsas tat sainyaṃ prādravac charaiḥ antakāle yathā kruddhaḥ sarvabhūtāni pretarāṭ drāvayann iṣubhis tūrṇaṃ śrutakarmā vyarocata 17 prativindhyas tataś citraṃ bhittvā pañcabhir āśugaiḥ sārathiṃ tribhir ānarcchad dhvajam ekeṣuṇā tataḥ 18 taṃ citro navabhir bhallair bāhvor urasi cārdayat svarṇapuṅkhaiḥ śilā dhautaiḥ kaṅkabarhiṇa vājitaiḥ 19 prativindhyo dhanus tasya chittvā bhārata sāyakaiḥ pañcabhir niśitair bāṇair athainaṃ saṃprajaghnivān 20 tataḥ śaktiṃ mahārāja hemadaṇḍāṃ durāsadām prāhiṇot tava putrāya ghorām agniśikhām iva 21 tām āpatantīṃ sahasā śaktim ulkām ivāmbarāt dvidhā ciccheda samare prativindhyo hasann iva 22 sā papāta tadā chinnā prativindhya śaraiḥ śitaiḥ yugānte sarvabhūtāni trāsayantī yathāśaniḥ 23 śaktiṃ tāṃ prahatāṃ dṛṣṭvā citro gṛhya mahāgadām prativindhyāya cikṣepa rukmajālavibhūṣitām 24 sā jaghāna hayāṃs tasya sārathiṃ ca mahāraṇe rathaṃ pramṛdya vegena dharaṇīm anvapadyata 25 etasminn eva kāle tu rathād āplutya bhārata śaktiṃ cikṣepa citrāya svarṇaghaṇṭām alaṃkṛtām 26 tām āpatantīṃ jagrāha citro rājan mahāmanāḥ tatas tām eva cikṣepa prativindhyāya bhārata 27 samāsādya raṇe śūraṃ prativindhyaṃ mahāprabhā nirbhidya dakṣiṇaṃ bāhuṃ nipapāta mahītale patitābhāsayac caiva taṃ deśam aśanir yathā 28 prativindhyas tato rājaṃs tomaraṃ hemabhūṣitam preṣayām āsa saṃkruddhaś citrasya vadhakāmyayā 29 sa tasya devāvaraṇaṃ bhittvā hṛdayam eva ca jagāma dharaṇīṃ tūrṇaṃ mahoraga ivāśayam 30 sa papāta tadā rājaṃs tomareṇa samāhataḥ prasārya vipulau bāhū pīnau parighasaṃnibhau 31 citrma saṃprekṣya nihataṃ tāvakā raṇaśobhinaḥ abhyadravanta vegena prativindhyaṃ samantataḥ 32 sṛjanto vividhān bāṇāñ śataghnīś ca sa kiṅkiṇīḥ ta enaṃ chādayām āsuḥ sūryam abhragaṇā iva 33 tān apāsya mahābāhuḥ śarajālena saṃyuge vyadrāvayat tava camūṃ vajrahasta ivāsurīm 34 te vadhyamānāḥ samare tāvakāḥ pāṇḍavair nṛpa viprakīryanta sahasā vātanunnā ghanā iva 35 vipradrute bale tasmin vadhyamāne samantataḥ drauṇir eko 'bhyayāt tūrṇaṃ bhīmasenaṃ mahābalam 36 tataḥ samāgamo ghoro babhūva sahasā tayoḥ yathā devāsure yuddhe vṛtravāsavayor abhūt |
The Mahabharata in Sanskrit
Book 8
Chapter 11
|
1
[स] भीमसेनं ततॊ दरौणी राजन विव्याध पत्रिणा तवरया परया युक्तॊ दर्शयन्न अस्त्रलाघवम 2 अथैनं पुनर आजघ्ने नवत्या निशितैः शरैः सर्वमर्माणि संप्रेक्ष्य मर्मज्ञॊ लघुहस्तवत 3 भीमसेनः समाकीर्णॊ दरौणिना निशितैः शरैः रराज समरे राजन रश्मिवान इव भास्करः 4 ततः शरसहस्रेण सुप्रयुक्तेन पाण्डवः दरॊणपुत्रम अवच्छाद्य सिंहनादम अमुञ्चत 5 शरैः शरांस ततॊ दरौणिः संवार्य युधि पाण्डवम ललाटे ऽभयहनद राजन नाराचेन समयन्न इव 6 ललाटस्थं ततॊ बाणं धारयाम आस पाण्डवः यथा शृङ्गं वने दृप्तः खड्गॊ धारयते नृप 7 ततॊ दरौणिं रणे भीमॊ यतमानं पराक्रमी तरिभिर विव्याध नाराचैर ललाटे विस्मयन्न इव 8 ललाटस्थैस ततॊ बाणैर बराह्मणः स वयरॊचत परावृषीव यथा सिक्तस तरिशृङ्गः पर्वतॊत्तमः 9 ततः शरशतैर दरौणिर मदयाम आस पाण्डवः न चैनं कम्पयाम आस मातरिश्वेव पर्वतम 10 तथैव पाण्डवं युद्धे दरौणिः शरशतैः शितैः नाकम्पयत संहृष्टॊ वार्यॊघ इव पर्वतम 11 ताव अन्यॊन्यं शरैर घॊरैश छादयानौ महारथौ रथचर्या गतौ शूरौ शुशुभाते रणॊत्कटौ 12 आदित्याव इव संदीप्तौ लॊकक्षयकराव उभौ सवरश्मिभिर इवान्यॊन्यं तापयन्तौ शरॊत्तमैः 13 कृतप्रतिकृते यत्नं कुर्वाणौ च महारणे कृतप्रतिकृते यत्नं चक्राते ताव अभीतवत 14 वयाघ्राव इव च संग्रामे चेरतुस तौ महारथौ शरदंष्ट्रौ दुराधर्षौ चापव्यात्तौ भयानकौ 15 अभूतां ताव अदृश्यौ च शरजालैः समन्ततः मेघजालैर इव चछन्नौ गगने चन्द्रभास्करौ 16 परकाशौ च मुहूर्तेन तत्रैवास्ताम अरिंदमौ विमुक्तौ मेघजालेन शशिसूर्यौ यथा दिवि 17 अपसव्यं ततश चक्रे दरौणिस तत्र वृकॊदरम किरञ शरशतैर उग्रैर धाराभिर इव पर्वतम 18 न तु तन ममृषे भीमः शत्रॊर विजयलक्षणम परतिचक्रे च तं राजन पाण्डवॊ ऽपय अपसव्यतः 19 मण्डलानां विभागेषु गतप्रत्यागतेषु च बभूव तुमुलं युद्धं तयॊस तत्र महामृधे 20 चरित्वा विविधान मार्गान मण्डलं सथानम एव च शरैः पूर्णायतॊत्सृष्टैर अन्यॊन्यम अभिजघ्नतुः 21 अन्यॊन्यस्य वधे यत्नं चक्रतुस तौ महारथौ ईषतुर विरथं चैव कर्तुम अन्यॊन्यम आहवे 22 ततॊ दरौणिर महास्त्राणि परादुश्चक्रे महारथः तान्य अस्त्रैर एव समरे परतिजघ्ने ऽसय पाण्डवः 23 ततॊ घॊरं महाराज अस्त्रयुद्धम अवर्तत गरहयुद्धं यथा घॊरं परजासंहरणे अभूत 24 ते बाणाः समसज्जन्त कषिप्तास ताभ्यां तु भारत दयॊतयन्तॊ दिशः सर्वास तच च सैन्यं समन्ततः 25 बाणसंघावृतं घॊरम आकाशं समपद्यत उक्ला पातकृतं यद्वत परजानां संक्षये नृप 26 बाणाभिघातात संजज्ञे तत्र भारत पावकः स विस्फुलिङ्गॊ दीप्तार्चिः सॊ ऽदहद वाहिनी दवयम 27 तत्र सिद्धा महाराज संपतन्तॊ ऽबरुवन वचः अति युद्धानि सर्वाणि युद्धम एतत ततॊ ऽधिकम 28 सर्वयुद्धानि चैतस्य कलां नार्हन्ति षॊडशीम नैतादृशं पुनर युद्धं न भूतं न भविष्यति 29 अहॊ जञानेन संयुक्ताव उभौ चॊग्रपराक्रमौ अहॊ भीमे बलं भीमम एतयॊश च कृतास्त्रता 30 अहॊ वीर्यस्य सारत्वम अहॊ सौष्ठवम एतयॊः सथिताव एतौ हि समरे कालान्तकयमॊपमौ 31 रुद्रौ दवाव इव संभूतौ यथा दवाव इव भास्करौ यमौ वा पुरुषव्याघ्रौ घॊररूपाव इमौ रणे 32 शरूयन्ते सम तदा वाचः सिद्धानां वै मुहुर मुहुः सिंहनादश च संजज्ञे समेतानां दिवौकसाम अद्भुतं चाप्य अचिन्त्यं च दृष्ट्वा कर्म तयॊर मृधे 33 तौ शूरौ समरे राजन परस्परकृतागसौ परस्परम उदैक्षेतां करॊधाद उद्वृत्य चाक्षुषी 34 करॊधरक्तेक्षणौ तौ तु करॊधात परस्फुरिताधरौ करॊधात संदष्ट दशनौ संदष्ट दशनच छदौ 35 अन्यॊन्यं छादयन्तौ सम शरवृष्ट्या महारथौ शराम्बुधारौ समरे शस्त्रविद्युत परकाशिनौ 36 ताव अन्यॊन्यं धवजौ विद्ध्वा सारथी च महारथौ अन्यॊन्यस्य हयान विद्ध्वा बिभिदाते परस्परम 37 ततः करुद्धौ महाराज बाणौ गृह्य महाहवे उभौ चिक्षिपतुस तूर्णम अन्यॊन्यस्य वधैषिणौ 38 तौ सायकौ महाराज दयॊतमानौ चमूमुखे आजघ्राते समासाद्य वज्रवेगौ दुरासदौ 39 तौ परस्परवेगाच च शराभ्यां च भृशाहतौ निपेततुर महावीरौ सवरथॊपस्थयॊस तदा 40 ततस तु सारथिर जञात्वा दरॊणपुत्रम अचेतनम अपॊवाह रणाद राजन सर्वक्षत्रस्य पश्यतः 41 तथैव पाण्डवं राजन विह्वलन्तं मुहुर मुहुः अपॊवाह रथेनाजौ सारथिः शत्रुतापनम |
1
[s] bhīmasenaṃ tato drauṇī rājan vivyādha patriṇā tvarayā parayā yukto darśayann astralāghavam 2 athainaṃ punar ājaghne navatyā niśitaiḥ śaraiḥ sarvamarmāṇi saṃprekṣya marmajño laghuhastavat 3 bhīmasenaḥ samākīrṇo drauṇinā niśitaiḥ śaraiḥ rarāja samare rājan raśmivān iva bhāskaraḥ 4 tataḥ śarasahasreṇa suprayuktena pāṇḍavaḥ droṇaputram avacchādya siṃhanādam amuñcata 5 śaraiḥ śarāṃs tato drauṇiḥ saṃvārya yudhi pāṇḍavam lalāṭe 'bhyahanad rājan nārācena smayann iva 6 lalāṭasthaṃ tato bāṇaṃ dhārayām āsa pāṇḍavaḥ yathā śṛṅgaṃ vane dṛptaḥ khaḍgo dhārayate nṛpa 7 tato drauṇiṃ raṇe bhīmo yatamānaṃ parākramī tribhir vivyādha nārācair lalāṭe vismayann iva 8 lalāṭasthais tato bāṇair brāhmaṇaḥ sa vyarocata prāvṛṣīva yathā siktas triśṛṅgaḥ parvatottamaḥ 9 tataḥ śaraśatair drauṇir madayām āsa pāṇḍavaḥ na cainaṃ kampayām āsa mātariśveva parvatam 10 tathaiva pāṇḍavaṃ yuddhe drauṇiḥ śaraśataiḥ śitaiḥ nākampayata saṃhṛṣṭo vāryogha iva parvatam 11 tāv anyonyaṃ śarair ghoraiś chādayānau mahārathau rathacaryā gatau śūrau śuśubhāte raṇotkaṭau 12 ādityāv iva saṃdīptau lokakṣayakarāv ubhau svaraśmibhir ivānyonyaṃ tāpayantau śarottamaiḥ 13 kṛtapratikṛte yatnaṃ kurvāṇau ca mahāraṇe kṛtapratikṛte yatnaṃ cakrāte tāv abhītavat 14 vyāghrāv iva ca saṃgrāme ceratus tau mahārathau śaradaṃṣṭrau durādharṣau cāpavyāttau bhayānakau 15 abhūtāṃ tāv adṛśyau ca śarajālaiḥ samantataḥ meghajālair iva cchannau gagane candrabhāskarau 16 prakāśau ca muhūrtena tatraivāstām ariṃdamau vimuktau meghajālena śaśisūryau yathā divi 17 apasavyaṃ tataś cakre drauṇis tatra vṛkodaram kirañ śaraśatair ugrair dhārābhir iva parvatam 18 na tu tan mamṛṣe bhīmaḥ śatror vijayalakṣaṇam praticakre ca taṃ rājan pāṇḍavo 'py apasavyataḥ 19 maṇḍalānāṃ vibhāgeṣu gatapratyāgateṣu ca babhūva tumulaṃ yuddhaṃ tayos tatra mahāmṛdhe 20 caritvā vividhān mārgān maṇḍalaṃ sthānam eva ca śaraiḥ pūrṇāyatotsṛṣṭair anyonyam abhijaghnatuḥ 21 anyonyasya vadhe yatnaṃ cakratus tau mahārathau īṣatur virathaṃ caiva kartum anyonyam āhave 22 tato drauṇir mahāstrāṇi prāduścakre mahārathaḥ tāny astrair eva samare pratijaghne 'sya pāṇḍavaḥ 23 tato ghoraṃ mahārāja astrayuddham avartata grahayuddhaṃ yathā ghoraṃ prajāsaṃharaṇe abhūt 24 te bāṇāḥ samasajjanta kṣiptās tābhyāṃ tu bhārata dyotayanto diśaḥ sarvās tac ca sainyaṃ samantataḥ 25 bāṇasaṃghāvṛtaṃ ghoram ākāśaṃ samapadyata uklā pātakṛtaṃ yadvat prajānāṃ saṃkṣaye nṛpa 26 bāṇābhighātāt saṃjajñe tatra bhārata pāvakaḥ sa visphuliṅgo dīptārciḥ so 'dahad vāhinī dvayam 27 tatra siddhā mahārāja saṃpatanto 'bruvan vacaḥ ati yuddhāni sarvāṇi yuddham etat tato 'dhikam 28 sarvayuddhāni caitasya kalāṃ nārhanti ṣoḍaśīm naitādṛśaṃ punar yuddhaṃ na bhūtaṃ na bhaviṣyati 29 aho jñānena saṃyuktāv ubhau cograparākramau aho bhīme balaṃ bhīmam etayoś ca kṛtāstratā 30 aho vīryasya sāratvam aho sauṣṭhavam etayoḥ sthitāv etau hi samare kālāntakayamopamau 31 rudrau dvāv iva saṃbhūtau yathā dvāv iva bhāskarau yamau vā puruṣavyāghrau ghorarūpāv imau raṇe 32 śrūyante sma tadā vācaḥ siddhānāṃ vai muhur muhuḥ siṃhanādaś ca saṃjajñe sametānāṃ divaukasām adbhutaṃ cāpy acintyaṃ ca dṛṣṭvā karma tayor mṛdhe 33 tau śūrau samare rājan parasparakṛtāgasau parasparam udaikṣetāṃ krodhād udvṛtya cākṣuṣī 34 krodharaktekṣaṇau tau tu krodhāt prasphuritādharau krodhāt saṃdaṣṭa daśanau saṃdaṣṭa daśanac chadau 35 anyonyaṃ chādayantau sma śaravṛṣṭyā mahārathau śarāmbudhārau samare śastravidyut prakāśinau 36 tāv anyonyaṃ dhvajau viddhvā sārathī ca mahārathau anyonyasya hayān viddhvā bibhidāte parasparam 37 tataḥ kruddhau mahārāja bāṇau gṛhya mahāhave ubhau cikṣipatus tūrṇam anyonyasya vadhaiṣiṇau 38 tau sāyakau mahārāja dyotamānau camūmukhe ājaghrāte samāsādya vajravegau durāsadau 39 tau parasparavegāc ca śarābhyāṃ ca bhṛśāhatau nipetatur mahāvīrau svarathopasthayos tadā 40 tatas tu sārathir jñātvā droṇaputram acetanam apovāha raṇād rājan sarvakṣatrasya paśyataḥ 41 tathaiva pāṇḍavaṃ rājan vihvalantaṃ muhur muhuḥ apovāha rathenājau sārathiḥ śatrutāpanam |
The Mahabharata in Sanskrit
Book 8
Chapter 12
|
1
[धृ] यथा संशप्तकैः सार्धम अर्जुनस्याभवद रणः अन्येषां च मदीयानां पाण्डवैस तद बरवीहि मे 2 [स] शृणु राजन यथावृत्तं संग्रामं बरुवतॊ मम वीराणां शत्रुभिः सार्धं देहपाप्म परणाशनम 3 पार्थः संशप्तक गणं परविश्यार्णव संनिभम वयक्षॊभयद अमित्रघ्नॊ महावात इवार्णवम 4 शिरांस्य उन्मथ्य वीराणां शितैर भल्लैर धनंजयः पूर्णचन्द्राभवक्त्राणि सवक्षिभ्रू दशनानि च संतस्तार कषितिं कषिप्रं विनालैर नलिनैर इव 5 सुवृत्तान आयतान पुष्टांश चन्दनागुरुभूषितान सायुधान स तनुत्राणान पञ्चास्यॊरग संनिभान बाहून कषुरैर अमित्राणां विचकर्तार्जुनॊ रणे 6 धुर्यान धुर्यतरान सूतान धवजांश चापानि सायकान पाणीन अरत्नान असकृद भल्लैश चिच्छेद पाण्डवः 7 दविपान हयान रथांश चैव सारॊहान अर्जुनॊ रणे शरैर अनेकसाहस्रै राजन निन्ये यमक्षयम 8 तं परवीरं परतीयाता नर्दमाना इवर्षभाः वाशितार्थम अभिक्रुद्धा हुंकृत्वा चाभिदुद्रुवुः निघ्नन्तम अभिजघ्नुस ते शरैः शृङ्गैर इवर्षभाः 9 तस्य तेषां च तद युद्धम अभवल लॊमहर्षणम तरैलॊक्यविजये यादृग दैत्यानां सह वज्रिणा 10 अस्त्रैर अस्त्राणि संवार्य दविषतां सर्वतॊ ऽरजुनः इषुभिर बहुभिस तूर्णं विद्ध्वा पराणान ररास सः 11 छिन्नत्रिवेणुचक्राक्षान हतयॊधाश्वसारथीन विध्वस्तायुध तूणीरान समुन्मथित केतनान 12 संछिन्नयॊक्त्र रश्मीकान वि तरिवेणून वि कूबरान विध्वस्तबन्धुर अयुगान विशस्तायुध मण्डलान रथान विशकलीकुर्वन महाभ्राणीव मारुतः 13 विस्मापयन परेक्षणीयं दविषातां भयवर्धनम महारथसहस्रस्य समं कर्मार्जुनॊ ऽकरॊत 14 सिद्धदेवर्षिसंघाश च चारणाश चैव तुष्टुवुः देवदुन्दुभयॊ नेदुः पुष्पवर्षाणि चापतन केशवार्जुनयॊर मूर्ध्नि पराह वाक चाशरीरिणी 15 चन्द्रार्कानिल वह्नीनां कान्ति दीप्तिबलद्युतीः यौ सदा बिभ्रतुर वीरौ ताव इमौ केशवार्जुनौ 16 बरह्मेशानाव इवाजय्यौ वीराव एकरथे सथितौ सर्वभूतवरौ वीरौ नरनारायणाव उभौ 17 इत्य एतन महद आश्चर्यं दृष्ट्वा शरुत्वा च भारत अश्वत्थामा सुसंयत्तः कृष्णाव अभ्यद्रवद रणे 18 अथ पाण्डवम अस्यन्तं यम कालान्तकाञ शरान सेषुणा पाणिनाहूय हसन दरौणिर अथाब्रवीत 19 यदि मां मन्यसे वीर पराप्तम अर्हम इवातिथिम ततः सर्वात्मनाद्य तवं युद्धातिथ्यं परयच्छ मे 20 एवम आचार्य पुत्रेण समाहूतॊ युयुत्सया बहु मेने ऽरजुनॊ ऽऽतमानम इदं चाह जनार्दनम 21 संशप्तकाश च मे वध्या दरौणिर आह्वयते च माम यद अत्रानन्तरं पराप्तं परशाधि तवं महाभुज 22 एवम उक्तॊ ऽवहत पार्थं कृष्णॊ दरॊणात्मजान्तिकम जैत्रेण विधिनाहूतं वायुर इन्द्रम इवाध्वरे 23 तम आमन्त्र्यैक मनसा केशवॊ दरौणिम अब्रवीत अश्वत्थामन सथिरॊ भूत्वा परहराशु सहस्व च 24 निर्वेष्टुं भर्तृपिण्डं हि कालॊ ऽयम उपजीविनाम सूक्ष्मॊ विवादॊ विप्राणां सथूलौ कषात्रौ जयाजयौ 25 यां न संक्षमसे मॊहाद दिव्यां पार्थस्य सत्क्रियाम ताम आप्तुम इच्छन युध्यस्व सथिरॊ भूत्वाद्य पाण्डवम 26 इत्य उक्तॊ वासुदेवेन तथेत्य उक्त्वा दविजॊत्तमः विव्याध केशवं षष्ट्या नाराचैर अर्जुनं तरिभिः 27 तस्यार्जुनः सुसंक्रुद्धस तरिभिर भल्लैः शरासनम चिच्छेदाथान्यद आदत्त दरौणिर घॊरतरं धनुः 28 स जयं कृत्वा निमेषात तद विव्याधार्जुन केशवौ तरिभिः शरैर वासुदेवं सहस्रेण च पाण्डवम 29 ततः शरसहस्राणि परयुतान्य अर्बुदानि च ससृजे दरौणिर आयस्तः संस्तभ्य च रणे ऽरजुनम 30 इषुधेर धनुषॊ जयाया अङ्गुलीभ्यश च मारिष बाह्वॊः कराभ्याम उरसॊ वदनघ्राणनेत्रतः 31 कर्णाभ्यां शिरसॊ ऽङगेभ्यॊ लॊम वर्त्मभ्य एव च रथध्वजेभ्यश च शरा निष्पेतुर बरह्मवादिनः 32 शरजालेन महता विद्ध्वा केशव पाण्डवौ ननाद मुदितॊ दरौणिर महामेघौघनिस्वनः 33 तस्य नानदतः शरुत्वा पाण्डवॊ ऽचयुतम अब्रवीत पश्य माधव दौरात्म्यं दरॊणपुत्रस्य मां परति 34 वधप्राप्तौ मन्यते नौ परवेश्य शरवेश्मनि एषॊ ऽसय हन्मि संकल्पं शिक्षया च बलेन च 35 अश्वत्थाम्नः शरान अस्तांश छित्त्वैकैकं तरिधा तरिधा वयधमद भरतश्रेष्ठॊ नीहारम इव मारुतः 36 ततः संशप्तकान भूयः साश्वसूत रथद्विपान धवजपत्तिगणान उग्रैर बाणैर विव्याध पाण्डवः 37 ये ये ददृशिरे तत्र यद यद रूपं यथा यथा ते ते तत तच छरैर वयाप्तं मेनिरे ऽऽतमानम एव च 38 ते गाण्डीवप्रणुदिता नानारूपाः पतत्रिणः करॊशे साग्रे सथितान घनन्ति दविपांश च पुरुषान रणे 39 भल्लैश छिन्नाः कराः पेतुः करिणां मदकर्षिणाम छिन्ना यथा परशुभिः परवृद्धाः शरदि दरुमाः 40 पश्चात तु शैलवत पेतुस ते गजाः सह सादिभिः वज्रिवज्रप्रमथिता यथैवाद्रिचयास तथा 41 गन्धर्वनगराकारान विधिवत कल्पितान रथान विनीतजवनान्य उक्तान आस्थितान युद्धदुर्मदान 42 शरैर विशकलीकुर्वन्न अमित्रान अभ्यवीवृषत अलंकृतान अश्वसादीन पतिंश चाहन्धनंजयः 43 धनंजय युगान्तार्कः संशप्तक महार्णवम वयशॊषयत दुःशॊषं तीव्रैः शरगभस्तिभिः 44 पुनर दरौणिमहाशैलं नाराचैः सूर्यसंनिभैः निर्बिभेद महावेगैस तवरन वज्रीव पर्वतम 45 तम आचार्य सुतः करुद्धः साश्वयन्तारम आशुगैः युयुत्सुर नाशकद यॊद्धुं पार्थस तान अन्तराच्छिनत 46 ततः परमसंक्रुद्धः काण्डकॊशान अवासृजत अश्वत्थामाभिरूपाय गृहान अतिथये यथा 47 अथ संशप्तकांस तयक्त्वा पाण्डवॊ दरौणिम अभ्ययात अपाङ्क्तेयम इव तयक्त्वा दाता पाङ्क्तेयम अर्थिनम 48 ततः समभवद युद्धं शुक्राङ्गिरस वर्चसॊः नक्षत्रम अभितॊ वयॊम्नि शुक्राङ्गिरसयॊर इव 49 संतापयन्ताव अन्यॊन्यं दीप्तैः शरगभस्तिभिः लॊकत्रास कराव आस्तां विमार्गस्थौ गरहाव इव 50 ततॊ ऽविध्यद भरुवॊर मध्ये नाराचेनार्जुनॊ भृशम स तेन विबभौ दरौणिर ऊर्ध्वरश्मिर यथा रविः 51 अथ कृष्णौ शरशतैर अश्वत्थाम्नार्दितौ भृशम सरश्मि जालनिकरौ युगान्तार्काव इवासतुः 52 ततॊ ऽरजुनः सर्वतॊ धारम अस्त्रम; अवासृजद वासुदेवाभिगुप्तः दरौणायनिं चाभ्यहनत पृषत्कैर; वज्राग्निवैवस्वतदण्डकल्पैः 53 स केशवं चार्जुनं चातितेजा; विव्याध मर्मस्व अतिरौद्र कर्मा बाणैः सुमुक्तैर अतितीव्र वेगैर; यैर आहतॊ मृत्युर अपि वयथेत 54 दरौणेर इषून अर्जुनः संनिवार्य; वयायच्छतस तद दविगुणैः सुपुङ्खैः तं साश्वसूत धवजम एकवीरम; आवृत्य संशप्तक सैन्यम आर्छत 55 धनूंषि बाणान इषुधीर धनुर्ज्याः; पाणीन भुजान पाणिगतं च शस्त्रम छत्राणि केतूंस तुरगान अथैषां; वस्त्राणि माल्यान्य अथ भूषणानि 56 चर्माणि वर्माणि मनॊरथांश च; परियाणि सर्वाणि शिरांसि चैव चिच्छेद पार्थॊ दविषतां परमुक्तैर; बाणैः सथितानाम अपराङ्मुखानाम 57 सुकल्पिताः सयन्दनवाजिनागाः; समास्थिताः कृतयत्नैर नृवीरैः पार्थेरितैर बाणगणैर निरस्तास; तैर एव सार्धं नृवरैर निपेतुः 58 पद्मार्क पूर्णेन्दुसमाननानि; किरीटमाला मुकुटॊत्कटानि भल्लार्ध चन्द्र कषुर हिंसितानि; परपेतुर उर्व्यां नृशिरांस्य अजस्रम 59 अथ विपैर देवपतिद्विपाभैर; देवारि दर्पॊल्बण मन्युदर्पैः कलिङ्ग वङ्गाङ्गनिषादवीरा; जिघांसवः पाण्डवम अभ्यधावन 60 तेषां दविपानां विचकर्त पार्थॊ; वर्माणि मर्माणि करान नियन्तॄन धवजाः पताकाश च ततः परपेतुर; वज्राहतानीव गिरेः शिरांसि 61 तेषु पररुग्णेषु गुरॊस तनूजं; बाणैः किरीटी नव सूर्यवर्णैः परच्छादयाम आस महाभ्रजालैर; वायुः समुद्युक्तम इवांशुमन्तम 62 ततॊ ऽरजुनेषून इषुभिर निरस्य; दरौणिः शरैर अर्जुन वासुदेवौ परच्छादयित्व दिवि चन्द्रसूर्यौ; ननाद सॊ ऽमभॊद इवातपान्ते 63 तम अर्जुनस तांश च पुनस तवदीयान; अभ्यर्दितस तैर अविकृत्त शस्त्रैः बाणान्ध कारं सहसैव कृत्वा; विव्याध सर्वान इषुभिः सुपुङ्खैः 64 नाप्य आददत संदधन नैव मुञ्चन; बाणान रणे ऽदृश्यत सव्यसाची हतांश च नागांस तुरगान पदातीन; संस्यूत देहान ददृशू रथांश च 65 संधाय नाराचवरान दशाशु; दरौणिस तवरन्न एकम इवॊत्ससर्ज तेषां च पञ्चार्जुनम अभ्यविध्यन; पञ्चाच्युतं निर्बिभिदुः सुमुक्ताः 66 तैर आहतौ सर्वमनुष्यमुख्याव; असृक कषरन्तौ धनदेन्द्र कल्पौ समाप्तविद्येन यथाभिभूतौ; हतौ सविद एतौ किम उ मेनिरे ऽनये 67 अथार्जुनं पराह दशार्ह नाथः; परमाद्यसे किं जहि यॊधम एतम कुर्याद धि दॊषं समुपेक्षितॊ ऽसौ; कष्टॊ भवेद वयाधिर इवाक्रियावान 68 तथेति चॊक्त्वाच्युतम अप्रमादी; दरौणिं परयत्नाद इषुभिस ततक्ष छित्त्वाश्वरश्मींस तुरगान अविध्यत; ते तं रणाद ऊहुर अतीव दूरम 69 आवृत्य नेयेष पुनस तु युद्धं; पार्थेन सार्धं मतिमान विमृश्य जानञ जयं नियतं वृष्णिवीरे; धनंजये चाङ्गिरसां वरिष्ठः 70 परतीप काये तु रणाद अश्वत्थाम्नि हृते हयैः मन्त्रौषधिक्रिया दानैर वयाधौ देहाद इवाहृते 71 संशप्तकान अभिमुखौ परयातौ केशवार्जुनौ वातॊद्धूत पताकेन सयन्दनेनौघनादिना |
1
[dhṛ] yathā saṃśaptakaiḥ sārdham arjunasyābhavad raṇaḥ anyeṣāṃ ca madīyānāṃ pāṇḍavais tad bravīhi me 2 [s] śṛṇu rājan yathāvṛttaṃ saṃgrāmaṃ bruvato mama vīrāṇāṃ śatrubhiḥ sārdhaṃ dehapāpma praṇāśanam 3 pārthaḥ saṃśaptaka gaṇaṃ praviśyārṇava saṃnibham vyakṣobhayad amitraghno mahāvāta ivārṇavam 4 śirāṃsy unmathya vīrāṇāṃ śitair bhallair dhanaṃjayaḥ pūrṇacandrābhavaktrāṇi svakṣibhrū daśanāni ca saṃtastāra kṣitiṃ kṣipraṃ vinālair nalinair iva 5 suvṛttān āyatān puṣṭāṃś candanāgurubhūṣitān sāyudhān sa tanutrāṇān pañcāsyoraga saṃnibhān bāhūn kṣurair amitrāṇāṃ vicakartārjuno raṇe 6 dhuryān dhuryatarān sūtān dhvajāṃś cāpāni sāyakān pāṇīn aratnān asakṛd bhallaiś ciccheda pāṇḍavaḥ 7 dvipān hayān rathāṃś caiva sārohān arjuno raṇe śarair anekasāhasrai rājan ninye yamakṣayam 8 taṃ pravīraṃ pratīyātā nardamānā ivarṣabhāḥ vāśitārtham abhikruddhā huṃkṛtvā cābhidudruvuḥ nighnantam abhijaghnus te śaraiḥ śṛṅgair ivarṣabhāḥ 9 tasya teṣāṃ ca tad yuddham abhaval lomaharṣaṇam trailokyavijaye yādṛg daityānāṃ saha vajriṇā 10 astrair astrāṇi saṃvārya dviṣatāṃ sarvato 'rjunaḥ iṣubhir bahubhis tūrṇaṃ viddhvā prāṇān rarāsa saḥ 11 chinnatriveṇucakrākṣān hatayodhāśvasārathīn vidhvastāyudha tūṇīrān samunmathita ketanān 12 saṃchinnayoktra raśmīkān vi triveṇūn vi kūbarān vidhvastabandhur ayugān viśastāyudha maṇḍalān rathān viśakalīkurvan mahābhrāṇīva mārutaḥ 13 vismāpayan prekṣaṇīyaṃ dviṣātāṃ bhayavardhanam mahārathasahasrasya samaṃ karmārjuno 'karot 14 siddhadevarṣisaṃghāś ca cāraṇāś caiva tuṣṭuvuḥ devadundubhayo neduḥ puṣpavarṣāṇi cāpatan keśavārjunayor mūrdhni prāha vāk cāśarīriṇī 15 candrārkānila vahnīnāṃ kānti dīptibaladyutīḥ yau sadā bibhratur vīrau tāv imau keśavārjunau 16 brahmeśānāv ivājayyau vīrāv ekarathe sthitau sarvabhūtavarau vīrau naranārāyaṇāv ubhau 17 ity etan mahad āścaryaṃ dṛṣṭvā śrutvā ca bhārata aśvatthāmā susaṃyattaḥ kṛṣṇāv abhyadravad raṇe 18 atha pāṇḍavam asyantaṃ yama kālāntakāñ śarān seṣuṇā pāṇināhūya hasan drauṇir athābravīt 19 yadi māṃ manyase vīra prāptam arham ivātithim tataḥ sarvātmanādya tvaṃ yuddhātithyaṃ prayaccha me 20 evam ācārya putreṇa samāhūto yuyutsayā bahu mene 'rjuno ''tmānam idaṃ cāha janārdanam 21 saṃśaptakāś ca me vadhyā drauṇir āhvayate ca mām yad atrānantaraṃ prāptaṃ praśādhi tvaṃ mahābhuja 22 evam ukto 'vahat pārthaṃ kṛṣṇo droṇātmajāntikam jaitreṇa vidhināhūtaṃ vāyur indram ivādhvare 23 tam āmantryaika manasā keśavo drauṇim abravīt aśvatthāman sthiro bhūtvā praharāśu sahasva ca 24 nirveṣṭuṃ bhartṛpiṇḍaṃ hi kālo 'yam upajīvinām sūkṣmo vivādo viprāṇāṃ sthūlau kṣātrau jayājayau 25 yāṃ na saṃkṣamase mohād divyāṃ pārthasya satkriyām tām āptum icchan yudhyasva sthiro bhūtvādya pāṇḍavam 26 ity ukto vāsudevena tathety uktvā dvijottamaḥ vivyādha keśavaṃ ṣaṣṭyā nārācair arjunaṃ tribhiḥ 27 tasyārjunaḥ susaṃkruddhas tribhir bhallaiḥ śarāsanam cicchedāthānyad ādatta drauṇir ghorataraṃ dhanuḥ 28 sa jyaṃ kṛtvā nimeṣāt tad vivyādhārjuna keśavau tribhiḥ śarair vāsudevaṃ sahasreṇa ca pāṇḍavam 29 tataḥ śarasahasrāṇi prayutāny arbudāni ca sasṛje drauṇir āyastaḥ saṃstabhya ca raṇe 'rjunam 30 iṣudher dhanuṣo jyāyā aṅgulībhyaś ca māriṣa bāhvoḥ karābhyām uraso vadanaghrāṇanetrataḥ 31 karṇābhyāṃ śiraso 'ṅgebhyo loma vartmabhya eva ca rathadhvajebhyaś ca śarā niṣpetur brahmavādinaḥ 32 śarajālena mahatā viddhvā keśava pāṇḍavau nanāda mudito drauṇir mahāmeghaughanisvanaḥ 33 tasya nānadataḥ śrutvā pāṇḍavo 'cyutam abravīt paśya mādhava daurātmyaṃ droṇaputrasya māṃ prati 34 vadhaprāptau manyate nau praveśya śaraveśmani eṣo 'sya hanmi saṃkalpaṃ śikṣayā ca balena ca 35 aśvatthāmnaḥ śarān astāṃś chittvaikaikaṃ tridhā tridhā vyadhamad bharataśreṣṭho nīhāram iva mārutaḥ 36 tataḥ saṃśaptakān bhūyaḥ sāśvasūta rathadvipān dhvajapattigaṇān ugrair bāṇair vivyādha pāṇḍavaḥ 37 ye ye dadṛśire tatra yad yad rūpaṃ yathā yathā te te tat tac charair vyāptaṃ menire ''tmānam eva ca 38 te gāṇḍīvapraṇuditā nānārūpāḥ patatriṇaḥ krośe sāgre sthitān ghnanti dvipāṃś ca puruṣān raṇe 39 bhallaiś chinnāḥ karāḥ petuḥ kariṇāṃ madakarṣiṇām chinnā yathā paraśubhiḥ pravṛddhāḥ śaradi drumāḥ 40 paścāt tu śailavat petus te gajāḥ saha sādibhiḥ vajrivajrapramathitā yathaivādricayās tathā 41 gandharvanagarākārān vidhivat kalpitān rathān vinītajavanāny uktān āsthitān yuddhadurmadān 42 śarair viśakalīkurvann amitrān abhyavīvṛṣat alaṃkṛtān aśvasādīn patiṃś cāhandhanaṃjayaḥ 43 dhanaṃjaya yugāntārkaḥ saṃśaptaka mahārṇavam vyaśoṣayata duḥśoṣaṃ tīvraiḥ śaragabhastibhiḥ 44 punar drauṇimahāśailaṃ nārācaiḥ sūryasaṃnibhaiḥ nirbibheda mahāvegais tvaran vajrīva parvatam 45 tam ācārya sutaḥ kruddhaḥ sāśvayantāram āśugaiḥ yuyutsur nāśakad yoddhuṃ pārthas tān antarācchinat 46 tataḥ paramasaṃkruddhaḥ kāṇḍakośān avāsṛjat aśvatthāmābhirūpāya gṛhān atithaye yathā 47 atha saṃśaptakāṃs tyaktvā pāṇḍavo drauṇim abhyayāt apāṅkteyam iva tyaktvā dātā pāṅkteyam arthinam 48 tataḥ samabhavad yuddhaṃ śukrāṅgirasa varcasoḥ nakṣatram abhito vyomni śukrāṅgirasayor iva 49 saṃtāpayantāv anyonyaṃ dīptaiḥ śaragabhastibhiḥ lokatrāsa karāv āstāṃ vimārgasthau grahāv iva 50 tato 'vidhyad bhruvor madhye nārācenārjuno bhṛśam sa tena vibabhau drauṇir ūrdhvaraśmir yathā raviḥ 51 atha kṛṣṇau śaraśatair aśvatthāmnārditau bhṛśam saraśmi jālanikarau yugāntārkāv ivāsatuḥ 52 tato 'rjunaḥ sarvato dhāram astram; avāsṛjad vāsudevābhiguptaḥ drauṇāyaniṃ cābhyahanat pṛṣatkair; vajrāgnivaivasvatadaṇḍakalpaiḥ 53 sa keśavaṃ cārjunaṃ cātitejā; vivyādha marmasv atiraudra karmā bāṇaiḥ sumuktair atitīvra vegair; yair āhato mṛtyur api vyatheta 54 drauṇer iṣūn arjunaḥ saṃnivārya; vyāyacchatas tad dviguṇaiḥ supuṅkhaiḥ taṃ sāśvasūta dhvajam ekavīram; āvṛtya saṃśaptaka sainyam ārchat 55 dhanūṃṣi bāṇān iṣudhīr dhanurjyāḥ; pāṇīn bhujān pāṇigataṃ ca śastram chatrāṇi ketūṃs turagān athaiṣāṃ; vastrāṇi mālyāny atha bhūṣaṇāni 56 carmāṇi varmāṇi manorathāṃś ca; priyāṇi sarvāṇi śirāṃsi caiva ciccheda pārtho dviṣatāṃ pramuktair; bāṇaiḥ sthitānām aparāṅmukhānām 57 sukalpitāḥ syandanavājināgāḥ; samāsthitāḥ kṛtayatnair nṛvīraiḥ pārtheritair bāṇagaṇair nirastās; tair eva sārdhaṃ nṛvarair nipetuḥ 58 padmārka pūrṇendusamānanāni; kirīṭamālā mukuṭotkaṭāni bhallārdha candra kṣura hiṃsitāni; prapetur urvyāṃ nṛśirāṃsy ajasram 59 atha vipair devapatidvipābhair; devāri darpolbaṇa manyudarpaiḥ kaliṅga vaṅgāṅganiṣādavīrā; jighāṃsavaḥ pāṇḍavam abhyadhāvan 60 teṣāṃ dvipānāṃ vicakarta pārtho; varmāṇi marmāṇi karān niyantṝn dhvajāḥ patākāś ca tataḥ prapetur; vajrāhatānīva gireḥ śirāṃsi 61 teṣu prarugṇeṣu guros tanūjaṃ; bāṇaiḥ kirīṭī nava sūryavarṇaiḥ pracchādayām āsa mahābhrajālair; vāyuḥ samudyuktam ivāṃśumantam 62 tato 'rjuneṣūn iṣubhir nirasya; drauṇiḥ śarair arjuna vāsudevau pracchādayitva divi candrasūryau; nanāda so 'mbhoda ivātapānte 63 tam arjunas tāṃś ca punas tvadīyān; abhyarditas tair avikṛtta śastraiḥ bāṇāndha kāraṃ sahasaiva kṛtvā; vivyādha sarvān iṣubhiḥ supuṅkhaiḥ 64 nāpy ādadat saṃdadhan naiva muñcan; bāṇān raṇe 'dṛśyata savyasācī hatāṃś ca nāgāṃs turagān padātīn; saṃsyūta dehān dadṛśū rathāṃś ca 65 saṃdhāya nārācavarān daśāśu; drauṇis tvarann ekam ivotsasarja teṣāṃ ca pañcārjunam abhyavidhyan; pañcācyutaṃ nirbibhiduḥ sumuktāḥ 66 tair āhatau sarvamanuṣyamukhyāv; asṛk kṣarantau dhanadendra kalpau samāptavidyena yathābhibhūtau; hatau svid etau kim u menire 'nye 67 athārjunaṃ prāha daśārha nāthaḥ; pramādyase kiṃ jahi yodham etam kuryād dhi doṣaṃ samupekṣito 'sau; kaṣṭo bhaved vyādhir ivākriyāvān 68 tatheti coktvācyutam apramādī; drauṇiṃ prayatnād iṣubhis tatakṣa chittvāśvaraśmīṃs turagān avidhyat; te taṃ raṇād ūhur atīva dūram 69 āvṛtya neyeṣa punas tu yuddhaṃ; pārthena sārdhaṃ matimān vimṛśya jānañ jayaṃ niyataṃ vṛṣṇivīre; dhanaṃjaye cāṅgirasāṃ variṣṭhaḥ 70 pratīpa kāye tu raṇād aśvatthāmni hṛte hayaiḥ mantrauṣadhikriyā dānair vyādhau dehād ivāhṛte 71 saṃśaptakān abhimukhau prayātau keśavārjunau vātoddhūta patākena syandanenaughanādinā |
The Mahabharata in Sanskrit
Book 8
Chapter 13
|
1
[स] अथॊत्तरेण पाण्डूनां सेनायां धवनिर उत्थितः रथनागाश्वपत्तीनां दण्डधारेण वध्यताम 2 निवर्तयित्वा तु रथं केशवॊ ऽरजुनम अब्रवीत वाहयन्न एव तुरगान गरुडानिलरंहसः 3 मागधॊ ऽथाप्य अतिक्रान्तॊ दविरदेन परमाथिना भगदत्ताद अनवरः शिक्षया च बलेन च 4 एनं हत्वा निहन्तासि पुनः संशप्तकान इति वाक्यान्ते परापयत पार्थं दण्डधारान्तिकं परति 5 स मागधानां परवरॊ ऽङकुश गरहॊ; गरहेष्व असह्यॊ विकचॊ यथा गरहः सपत्नसेनां परममाथ दारुणॊ; महीं समग्रां विकचॊ यथा गरहः 6 सुकल्पितं दानव नागसंनिभं; महाभ्रसंह्रादम अमित्रमर्दनम रथाश्वमातङ्गगणान सहस्रशः; समास्थितॊ हन्ति शरैर दविपान अपि 7 रथान अधिष्ठाय स वाजिसारथीन; रथांश च पद्भिस तवरितॊ वयपॊथयत दविपांश च पद्भ्यां चरणैः करेण च; दविपास्थितॊ हन्ति स कालचक्रवत 8 नरांश च कार्ष्णायस वर्म भूषणान; निपात्य साश्वान अपि पत्तिभिः सह वयपॊथयद दन्ति वरेण शुष्मिणा; स शब्दवत सथूलनडान यथातथा 9 अथार्जुनॊ जयातलनेमि निस्वने; मृदङ्गभेरीबहु शङ्खनादिते नराश्वमातङ्गसहस्रनादितै; रथॊत्तमेनाभ्यपतद दविपॊत्तमम 10 ततॊ ऽरजुनं दवादशभिः शरॊत्तमैर; जनार्दनं षॊडशभिः समार्दयत स दण्डधारस तुरगांस तरिभिस तरिभिस; ततॊ ननाद परजहास चासकृत 11 ततॊ ऽसय पार्थः स गुणेषु कार्मुकं; चकर्त भल्लैर धवजम अप्य अलंकृतम पुनर नियन्तॄन सह पादगॊप्तृभिस; ततस तु चुक्रॊध गिरिव्रजेश्वरः 12 ततॊ ऽरजुनं भिन्नकटेन दन्तिना; घनाघनेन अनिलतुल्यरंहसा अतीव चुक्षॊभयिषुर जनार्दनं; धनंजयं चाभिजघान तॊमरैः 13 अथास्य बाहू दविपहस्तसंनिभौ; शिरश च पूर्णेन्दुनिभाननं तरिभिः कषुरैः परचिच्छेद सहैव पाण्डवस; ततॊ दविपं बाणशतैः समार्दयत 14 स पार्थ बाणैस तपनीयभूषणैः; समारुचत काञ्चनवर्म भृद दविपः तथा चकाशे निशि पर्वतॊ यथा; दवाग्निना परज्वलितौषधि दरुमः 15 स वेदनार्तॊ ऽमबुदनिस्वनॊ नदंश; चलन भरमन परस्खलितॊ ऽऽतुरॊ दरवन पपात रुग्णः सनियन्तृकस तथा; यथा गिरिर वज्रनिपात चूर्णितः 16 हिमावदातेन सुवर्णमालिना; हिमाद्रिकूटप्रतिमेन दन्तिना हते रणे भरातरि दण्ड आव्रजज; जिघांसुर इन्द्रावरजं धनंजयम 17 स तॊमरैर अर्ककरप्रभैस तरिभिर; जनार्दनं पञ्चभिर एव चार्जुनम समर्पयित्वा विननाद चार्दर्यस; ततॊ ऽसय बाहू विचकर्त पाण्डवः 18 कषुर परकृत्तौ सुभृशं स तॊमरौ; चयुताङ्गदौ चन्दनरूषितौ भुजौ गजात पतन्तौ युगपद विरेजतुर; यथाद्रिशृङ्गात पतितौ महॊरगौ 19 अथार्धचन्द्रेण हृतं किरीटिना; पपात दण्डस्य शिरः कषितिं दविपात तच छॊणिताभं निपतद विरेजे; दिवाकरॊ ऽसताद इव पश्चिमां दिशम 20 अथ दविपं शवेतनगाग्र संनिभं; दिवाकरांशु परतिमैः शरॊत्तमैः बिभेद पार्तः स पपात नानदन; हिमाद्रिकूटः कुलिशाहतॊ यथा 21 ततॊ ऽपरे तत्प परतिमा जगॊत्तमा; जिगीषवः संयति सव्यसाचिनम तथा कृतास तेन यथैव तौ दविपौ; ततः परभग्नं सुमहद रिपॊर बलम 22 गजा रथाश्वाः पुरुषाश च संघशः; परस्परघ्नाः परिपेतुर आहवे परस्परप्रस्खलिताः समाहता; भृशं च तत तत कुलभाषिणॊ हताः 23 अथार्जुनं सवे परिवार्य सैनिकाः; पुरंदरं देवगणा इवाब्रुवन अभैष्म यस्मान मरणाद इव परजाः; स वीर दिष्ट्या निहतस तवया रिपुः 24 न चेत परित्रास्य इमाञ जनान भयाद; दविषद्भिर एवं बलिभिः परपीडितान तथाभविष्यद दविषतां परमॊदनं; यथा हतेष्व एष्व इह नॊ ऽरिषु तवया 25 इतीव भूयश च सुहृद्भिर ईरिता; निशम्य वाचः सुमनास ततॊ ऽरजुनः यथानुरूपं परतिपूज्य तं जनं; जगाम संशप्तक संघहा पुनः |
1
[s] athottareṇa pāṇḍūnāṃ senāyāṃ dhvanir utthitaḥ rathanāgāśvapattīnāṃ daṇḍadhāreṇa vadhyatām 2 nivartayitvā tu rathaṃ keśavo 'rjunam abravīt vāhayann eva turagān garuḍānilaraṃhasaḥ 3 māgadho 'thāpy atikrānto dviradena pramāthinā bhagadattād anavaraḥ śikṣayā ca balena ca 4 enaṃ hatvā nihantāsi punaḥ saṃśaptakān iti vākyānte prāpayat pārthaṃ daṇḍadhārāntikaṃ prati 5 sa māgadhānāṃ pravaro 'ṅkuśa graho; graheṣv asahyo vikaco yathā grahaḥ sapatnasenāṃ pramamātha dāruṇo; mahīṃ samagrāṃ vikaco yathā grahaḥ 6 sukalpitaṃ dānava nāgasaṃnibhaṃ; mahābhrasaṃhrādam amitramardanam rathāśvamātaṅgagaṇān sahasraśaḥ; samāsthito hanti śarair dvipān api 7 rathān adhiṣṭhāya sa vājisārathīn; rathāṃś ca padbhis tvarito vyapothayat dvipāṃś ca padbhyāṃ caraṇaiḥ kareṇa ca; dvipāsthito hanti sa kālacakravat 8 narāṃś ca kārṣṇāyasa varma bhūṣaṇān; nipātya sāśvān api pattibhiḥ saha vyapothayad danti vareṇa śuṣmiṇā; sa śabdavat sthūlanaḍān yathātathā 9 athārjuno jyātalanemi nisvane; mṛdaṅgabherībahu śaṅkhanādite narāśvamātaṅgasahasranāditai; rathottamenābhyapatad dvipottamam 10 tato 'rjunaṃ dvādaśabhiḥ śarottamair; janārdanaṃ ṣoḍaśabhiḥ samārdayat sa daṇḍadhāras turagāṃs tribhis tribhis; tato nanāda prajahāsa cāsakṛt 11 tato 'sya pārthaḥ sa guṇeṣu kārmukaṃ; cakarta bhallair dhvajam apy alaṃkṛtam punar niyantṝn saha pādagoptṛbhis; tatas tu cukrodha girivrajeśvaraḥ 12 tato 'rjunaṃ bhinnakaṭena dantinā; ghanāghanena anilatulyaraṃhasā atīva cukṣobhayiṣur janārdanaṃ; dhanaṃjayaṃ cābhijaghāna tomaraiḥ 13 athāsya bāhū dvipahastasaṃnibhau; śiraś ca pūrṇendunibhānanaṃ tribhiḥ kṣuraiḥ praciccheda sahaiva pāṇḍavas; tato dvipaṃ bāṇaśataiḥ samārdayat 14 sa pārtha bāṇais tapanīyabhūṣaṇaiḥ; samārucat kāñcanavarma bhṛd dvipaḥ tathā cakāśe niśi parvato yathā; davāgninā prajvalitauṣadhi drumaḥ 15 sa vedanārto 'mbudanisvano nadaṃś; calan bhraman praskhalito ''turo dravan papāta rugṇaḥ saniyantṛkas tathā; yathā girir vajranipāta cūrṇitaḥ 16 himāvadātena suvarṇamālinā; himādrikūṭapratimena dantinā hate raṇe bhrātari daṇḍa āvrajaj; jighāṃsur indrāvarajaṃ dhanaṃjayam 17 sa tomarair arkakaraprabhais tribhir; janārdanaṃ pañcabhir eva cārjunam samarpayitvā vinanāda cārdaryas; tato 'sya bāhū vicakarta pāṇḍavaḥ 18 kṣura prakṛttau subhṛśaṃ sa tomarau; cyutāṅgadau candanarūṣitau bhujau gajāt patantau yugapad virejatur; yathādriśṛṅgāt patitau mahoragau 19 athārdhacandreṇa hṛtaṃ kirīṭinā; papāta daṇḍasya śiraḥ kṣitiṃ dvipāt tac choṇitābhaṃ nipatad vireje; divākaro 'stād iva paścimāṃ diśam 20 atha dvipaṃ śvetanagāgra saṃnibhaṃ; divākarāṃśu pratimaiḥ śarottamaiḥ bibheda pārtaḥ sa papāta nānadan; himādrikūṭaḥ kuliśāhato yathā 21 tato 'pare tatp pratimā jagottamā; jigīṣavaḥ saṃyati savyasācinam tathā kṛtās tena yathaiva tau dvipau; tataḥ prabhagnaṃ sumahad ripor balam 22 gajā rathāśvāḥ puruṣāś ca saṃghaśaḥ; parasparaghnāḥ paripetur āhave parasparapraskhalitāḥ samāhatā; bhṛśaṃ ca tat tat kulabhāṣiṇo hatāḥ 23 athārjunaṃ sve parivārya sainikāḥ; puraṃdaraṃ devagaṇā ivābruvan abhaiṣma yasmān maraṇād iva prajāḥ; sa vīra diṣṭyā nihatas tvayā ripuḥ 24 na cet paritrāsya imāñ janān bhayād; dviṣadbhir evaṃ balibhiḥ prapīḍitān tathābhaviṣyad dviṣatāṃ pramodanaṃ; yathā hateṣv eṣv iha no 'riṣu tvayā 25 itīva bhūyaś ca suhṛdbhir īritā; niśamya vācaḥ sumanās tato 'rjunaḥ yathānurūpaṃ pratipūjya taṃ janaṃ; jagāma saṃśaptaka saṃghahā punaḥ |
The Mahabharata in Sanskrit
Book 8
Chapter 14
|
1
[स] परत्यागत्य पुनर जिष्णुर अहन संशप्तकान बहून वक्रानुवक्र गमनाद अङ्गारक इव गरहः 2 पार्थ बाणहता राजन नराश्वरथकुञ्जराः विचेलुर बभ्रमुर नेदुः पेतुर मम्लुश च मारिष 3 धुर्यं धुर्यतरान सूतान रथांश च परिसंक्षिपन पाणीन पाणिगतं शस्त्रं बाहून अपि शिरांसि च 4 भल्लैः कषुरैर अर्धचन्द्रैर वत्सदन्तैश च पाण्डवः चिच्छेदामित्र वीराणां समरे परतियुध्यताम 5 वाशितार्थे युयुत्सन्तॊ वृषभा वृषभं यथा आपतन्त्य अर्जुनं शूराः शतशॊ ऽथ सहस्रशः 6 तेषां तस्य च तद युद्धम अभवल लॊमहर्षणम तरैलॊक्यविजये यादृग दैत्यानां सह वज्रिणा 7 तम अविध्यत तरिभिर बाणैर दन्द शूकैर इवाहिभिः उग्रायुधस ततस तस्य शिरः कायाद अपाहरत 8 ते ऽरजुनं सर्वतः करुद्धा नानाशस्त्रैर अवीवृषन मरुद्भिः परेषिता मेघा हिमवन्तम इवॊष्णगे 9 अस्त्रैर अस्त्राणि संवार्य दविषतां सर्वतॊ ऽरजुनः सम्यग अस्तैः शरैः सर्वान सहितान अहनद बहून 10 छिन्नत्रिवेणुजङ्घेषान निहतपार्ष्णि सारथीन संछिन्नरश्मि यॊक्त्राक्षान वयनुकर्ष युगान रथान विध्वस्तसर्वसंनाहान बाणैश चक्रे ऽरजुनस तवरन 11 ते रथास तत्र विध्वस्ताः परार्ध्या भान्त्य अनेकशः धनिनाम इव वेश्मानि हतान्य अग्न्यनिलाम्बुभिः 12 दविपाः संभिन्नमर्माणॊ वज्राशनिसमैः शरैः पेतुर गिर्यग्रवेश्मानि वज्रवाताग्निभिर यथा 13 सारॊहास तुरगाः पेतुर बहवॊ ऽरजुन ताडिताः निर्जिह्वान्त्राः कषितौ कषीणा रुधिरार्द्राः सुदुर्दृशः 14 नराश्वनागा नाराचैः संस्यूताः सव्यसाचिना बभ्रमुश चस्खलुः पेतुर नेदुर मम्लुश च मारिष 15 अणकैश च शिला धातैर वज्राशनिविषॊपमैः शरैर निजघ्निवान पार्थॊ महेन्द्र इव दानवान 16 महार्हवर्माभरणा नानारूपाम्बरायुधाः स रथाः स धवजा वीरा हताः पार्थेन शेरते 17 विजिताः पुण्यकर्माणॊ विशिष्टाभिजन शरुताः गताः शरीरैर वसुधाम ऊर्जितैः कर्मभिर दिवम 18 अथार्जुन रथं वीरास तवदीयाः समुपाद्रवन नानाजनपदाध्यक्षाः सगणा जातमन्यवः 19 उह्यमाना रथाश्वैस ते पत्तयश च जिघांसवः समभ्यधावन्न अस्यन्तॊ विविधं कषिप्रम आयुधम 20 तदायुध महावर्षं कषिप्तं यॊधमहाम्बुदैः वयधमन निशितैर बाणैः कषिप्रम अर्जुन मारुतः 21 साश्वपत्तिद्विपरथं महाशस्त्रौघम अप्लवम सहसा संतितीर्षन्तं पार्थं शस्त्रास्त्रसेतुना 22 अथाब्रवीद वासुदेवः पार्थं किं करीडसे ऽनघ संशप्तकान परमथ्यैतांस ततः कर्णवधे तवर 23 तथेत्य उक्त्वार्जुनः कषिप्रं शिष्टान संशप्तकांस तदा आक्षिप्य शस्त्रेण बलाद दैत्यान इन्द्र इवावधीत 24 आदधत संदधन नाषून दृष्टः कैश चिद रणे ऽरजुनः विमुञ्चन वा शराञ शीघ्रं दृश्यते सम हि कैर अपि 25 आश्चर्यम इति गॊविन्दॊ बरुवन्न अश्वान अचॊदयत हंसांस गौरास ते सेनां हंसाः सर इवाविशन 26 ततः संग्रामभूमिं तां वर्तमाने जनक्षये अवेक्षमाणॊ गॊविन्दः सव्यसाचिनम अब्रवीत 27 एष पार्थ महारौद्रॊ वर्तते भरतक्षयः पृथिव्यां पार्थिवानां वै दुर्यॊधनकृते महान 28 पश्य भारत चापानि रुक्मपृष्ठानि धन्विनाम महताम अपविद्धानि कलापान इषुधीस तथा 29 जातरूपमयैः पुङ्खैः शरांश च नतपर्वणः तैलधौतांश च नाराचान निर्मुक्तान इव पन्नगान 30 हस्तिदन्त तसरून खड्गाञ जातरूपपरिष्कृतान आकीर्णांस तॊमरांश चापांश चित्रान हेमविभूषितान 31 वर्माणि चापविद्धानि रुक्मपृष्ठानि भारत सुवर्णविकृतान परासाञ शक्तीः कनकभूषिताः 32 जाम्बूनदमयैः पट्टैर बद्धाश च विपुला गदाः जातरूपमयीश चर्ष्टीः पट्टिशान हेमभूषितान 33 दण्डैः कनकचित्रैश च विप्रविद्धान परश्वधान अयः कुशान्तान पतितान मुसलानि गुरूणि च 34 शतघ्नीः पश्य चित्राश च विपुलान परिघांस तथा चक्राणि चापविद्धानि मुद्गरांश च बहून रणे 35 नानाविधानि शस्त्राणि परगृह्य जय गृद्धिनः जीवन्त इव लक्ष्यन्ते गतसत्त्वास तरस्विनः 36 गदा विमथितैर गात्रैर मुसलैर भिन्नमस्तकान गजवाजिरथक्षुण्णान पश्य यॊधान सहस्रशः 37 मनुष्यगजवाजीनां शरशक्त्यृष्टितॊमरैः निस्त्रिंशैः पट्टिशैः परासैर नखरैर लगुडैर अपि 38 शरीरैर बहुधा भिन्नैः शॊणितौघपरिप्लुतैः गतासुभिर अमित्रघ्न संवृता रणभूमयः 39 बाहुभिश चन्दनादिग्धैः साङ्गदैः शुभभूषणैः स तलत्रैः स केयूरैर भाति भारत मेदिनी 40 साङ्गुलित्रैर भुजाग्रैश च विप्रविद्धैर अलंकृतैः हस्तिहस्तॊपमैश छिन्नैर ऊरुभिश च तरस्विनाम 41 बद्धचूडा मणिवरैः शिरॊभिश च सकुण्डलैः निकृत्तैर वृषभाक्षाणां विराजति वसुंधरा 42 कबन्धैः शॊणितादिग्धैश छिन्नगात्रशिरॊ धरैः भूर भाति भरतश्रेष्ठ शान्तार्चिर्भिर इवाग्निभिः 43 रथान बहुविधान भग्नान हेमकिङ्किणिनः शुभान अश्वांश च बहुधा पश्य शॊणितेन परिप्लुतान 44 यॊधानां च महाशङ्खान पाण्डुरांश च परकीर्णकान निरस्तजिह्वान मातङ्गाञ शयानान पर्वतॊपमान 45 वैजयन्ती विचित्रांश च हतांश च गजयॊधिनः वारणानां परिस्तॊमान सुयुक्ताम्बर कम्बलान 46 विपाटिना विचित्राश च रूपचित्राः कुथास तथा भिन्नाश च बहुधा घण्टाः पतद्भिश चूर्णिता गजैः 47 वैडूर्य मणिदण्डांश च पतितान अङ्कुशान भुवि बद्धाः सादिध्वजाग्रेषु सुवर्णविकृताः कशाः 48 विचित्रान मणिचित्रांश च जातरूपपरिष्कृतान अश्वास्तर परिस्तॊमान राङ्कवान्पतितान भुवि 49 चूडामणीन नरेन्द्राणां विचित्राः काञ्चनस्रजः छत्राणि चापविद्धानि चामार वयजनानि च 50 चन्द्र नक्षत्रभासैश च वदनैश चारुकुण्डलैः कॢप्त शमश्रुभिर अत्यर्थं वीराणां समलंकृतैः वदनैः पश्य संछन्नां महीं शॊणितकर्दमाम 51 स जीवांश च नरान पश्य कूजमानान समन्ततः उपास्यमानान बहुभिर नयस्तशस्त्रैर विशां पते 52 जञातिभिः सहितैस तत्र रॊदमानैर मुहुर मुहुः वयुत्क्रान्तान अपरान यॊधांश छादयित्वा तरस्विनः पुनर युद्धाय गच्छन्ति जय गृद्धाः परमन्यवः 53 अपरे तत्र तत्रैव परिधावन्ति मानिनः जञातिभिः पतितैः शूरैर याच्यमानास तथॊदकम 54 जलार्थं च गताः के चिन निष्प्राणा बहवॊ ऽरजुन संनिवृत्ताश च ते शूरास तान दृष्ट्वैव विचेतसः 55 जलं दृष्ट्वा परधावन्ति करॊशमानाः परस्परम जलं पीत्वा मृतान पश्य पिबतॊ ऽनयांश च भारत 56 परित्यज्य परियान अन्ये बान्धवान बान्धवप्रिय वयुत्क्रान्ताः समदृश्यन्त तत्र तत्र महारणे 57 पश्यापरान नरश्रेष्ठ संदष्टौष्ठ पुटान पुनः भरुकुटी कुटिलैर वक्त्रैः परेक्षमाणान समन्ततः 58 एतत तवैवानुरूपं कर्मार्जुन महाहवे दिवि वा देवराजस्य तवया यत्कृतम आहवे 59 एवं तां दर्शयन कृष्णॊ युद्धभूमिं किरीटिने गच्छन्न एवाशृणॊच छब्दं दुर्यॊधन बले महत 60 शङ्खदुन्दुभिनिर्घॊषान भेरी पणवमिश्रितान रथाश्वगजनादांश च शस्त्त्र शब्दांश च दारुणान 61 परविश्य तद बलं कृष्णस तुरगैर वातवेगिभिः पाण्ड्येनाभ्यर्दितां सेनां तवदीयां वीक्ष्य धिष्ठितः 62 सहि नानाविधैर बाणैर इष्वास परवरॊ युधि नयहनद दविषतां वरातान गतासून अन्तकॊ यथा 63 गजवाजिमनुष्याणां शरीराणि शितैः शरैः भित्त्वा परहरतां शरेष्ठॊ विदेहासूंश चकार सः 64 शत्रुप्रवीरैर अस्तानि नानाशस्त्राणि सायकैः भित्त्वा तान अहनत पाण्ड्यः शत्रूञ शक्र इवासुरान |
1
[s] pratyāgatya punar jiṣṇur ahan saṃśaptakān bahūn vakrānuvakra gamanād aṅgāraka iva grahaḥ 2 pārtha bāṇahatā rājan narāśvarathakuñjarāḥ vicelur babhramur neduḥ petur mamluś ca māriṣa 3 dhuryaṃ dhuryatarān sūtān rathāṃś ca parisaṃkṣipan pāṇīn pāṇigataṃ śastraṃ bāhūn api śirāṃsi ca 4 bhallaiḥ kṣurair ardhacandrair vatsadantaiś ca pāṇḍavaḥ cicchedāmitra vīrāṇāṃ samare pratiyudhyatām 5 vāśitārthe yuyutsanto vṛṣabhā vṛṣabhaṃ yathā āpatanty arjunaṃ śūrāḥ śataśo 'tha sahasraśaḥ 6 teṣāṃ tasya ca tad yuddham abhaval lomaharṣaṇam trailokyavijaye yādṛg daityānāṃ saha vajriṇā 7 tam avidhyat tribhir bāṇair danda śūkair ivāhibhiḥ ugrāyudhas tatas tasya śiraḥ kāyād apāharat 8 te 'rjunaṃ sarvataḥ kruddhā nānāśastrair avīvṛṣan marudbhiḥ preṣitā meghā himavantam ivoṣṇage 9 astrair astrāṇi saṃvārya dviṣatāṃ sarvato 'rjunaḥ samyag astaiḥ śaraiḥ sarvān sahitān ahanad bahūn 10 chinnatriveṇujaṅgheṣān nihatapārṣṇi sārathīn saṃchinnaraśmi yoktrākṣān vyanukarṣa yugān rathān vidhvastasarvasaṃnāhān bāṇaiś cakre 'rjunas tvaran 11 te rathās tatra vidhvastāḥ parārdhyā bhānty anekaśaḥ dhaninām iva veśmāni hatāny agnyanilāmbubhiḥ 12 dvipāḥ saṃbhinnamarmāṇo vajrāśanisamaiḥ śaraiḥ petur giryagraveśmāni vajravātāgnibhir yathā 13 sārohās turagāḥ petur bahavo 'rjuna tāḍitāḥ nirjihvāntrāḥ kṣitau kṣīṇā rudhirārdrāḥ sudurdṛśaḥ 14 narāśvanāgā nārācaiḥ saṃsyūtāḥ savyasācinā babhramuś caskhaluḥ petur nedur mamluś ca māriṣa 15 aṇakaiś ca śilā dhātair vajrāśaniviṣopamaiḥ śarair nijaghnivān pārtho mahendra iva dānavān 16 mahārhavarmābharaṇā nānārūpāmbarāyudhāḥ sa rathāḥ sa dhvajā vīrā hatāḥ pārthena śerate 17 vijitāḥ puṇyakarmāṇo viśiṣṭābhijana śrutāḥ gatāḥ śarīrair vasudhām ūrjitaiḥ karmabhir divam 18 athārjuna rathaṃ vīrās tvadīyāḥ samupādravan nānājanapadādhyakṣāḥ sagaṇā jātamanyavaḥ 19 uhyamānā rathāśvais te pattayaś ca jighāṃsavaḥ samabhyadhāvann asyanto vividhaṃ kṣipram āyudham 20 tadāyudha mahāvarṣaṃ kṣiptaṃ yodhamahāmbudaiḥ vyadhaman niśitair bāṇaiḥ kṣipram arjuna mārutaḥ 21 sāśvapattidviparathaṃ mahāśastraugham aplavam sahasā saṃtitīrṣantaṃ pārthaṃ śastrāstrasetunā 22 athābravīd vāsudevaḥ pārthaṃ kiṃ krīḍase 'nagha saṃśaptakān pramathyaitāṃs tataḥ karṇavadhe tvara 23 tathety uktvārjunaḥ kṣipraṃ śiṣṭān saṃśaptakāṃs tadā ākṣipya śastreṇa balād daityān indra ivāvadhīt 24 ādadhat saṃdadhan nāṣūn dṛṣṭaḥ kaiś cid raṇe 'rjunaḥ vimuñcan vā śarāñ śīghraṃ dṛśyate sma hi kair api 25 āścaryam iti govindo bruvann aśvān acodayat haṃsāṃsa gaurās te senāṃ haṃsāḥ sara ivāviśan 26 tataḥ saṃgrāmabhūmiṃ tāṃ vartamāne janakṣaye avekṣamāṇo govindaḥ savyasācinam abravīt 27 eṣa pārtha mahāraudro vartate bharatakṣayaḥ pṛthivyāṃ pārthivānāṃ vai duryodhanakṛte mahān 28 paśya bhārata cāpāni rukmapṛṣṭhāni dhanvinām mahatām apaviddhāni kalāpān iṣudhīs tathā 29 jātarūpamayaiḥ puṅkhaiḥ śarāṃś ca nataparvaṇaḥ tailadhautāṃś ca nārācān nirmuktān iva pannagān 30 hastidanta tsarūn khaḍgāñ jātarūpapariṣkṛtān ākīrṇāṃs tomarāṃś cāpāṃś citrān hemavibhūṣitān 31 varmāṇi cāpaviddhāni rukmapṛṣṭhāni bhārata suvarṇavikṛtān prāsāñ śaktīḥ kanakabhūṣitāḥ 32 jāmbūnadamayaiḥ paṭṭair baddhāś ca vipulā gadāḥ jātarūpamayīś carṣṭīḥ paṭṭiśān hemabhūṣitān 33 daṇḍaiḥ kanakacitraiś ca vipraviddhān paraśvadhān ayaḥ kuśāntān patitān musalāni gurūṇi ca 34 śataghnīḥ paśya citrāś ca vipulān parighāṃs tathā cakrāṇi cāpaviddhāni mudgarāṃś ca bahūn raṇe 35 nānāvidhāni śastrāṇi pragṛhya jaya gṛddhinaḥ jīvanta iva lakṣyante gatasattvās tarasvinaḥ 36 gadā vimathitair gātrair musalair bhinnamastakān gajavājirathakṣuṇṇān paśya yodhān sahasraśaḥ 37 manuṣyagajavājīnāṃ śaraśaktyṛṣṭitomaraiḥ nistriṃśaiḥ paṭṭiśaiḥ prāsair nakharair laguḍair api 38 śarīrair bahudhā bhinnaiḥ śoṇitaughapariplutaiḥ gatāsubhir amitraghna saṃvṛtā raṇabhūmayaḥ 39 bāhubhiś candanādigdhaiḥ sāṅgadaiḥ śubhabhūṣaṇaiḥ sa talatraiḥ sa keyūrair bhāti bhārata medinī 40 sāṅgulitrair bhujāgraiś ca vipraviddhair alaṃkṛtaiḥ hastihastopamaiś chinnair ūrubhiś ca tarasvinām 41 baddhacūḍā maṇivaraiḥ śirobhiś ca sakuṇḍalaiḥ nikṛttair vṛṣabhākṣāṇāṃ virājati vasuṃdharā 42 kabandhaiḥ śoṇitādigdhaiś chinnagātraśiro dharaiḥ bhūr bhāti bharataśreṣṭha śāntārcirbhir ivāgnibhiḥ 43 rathān bahuvidhān bhagnān hemakiṅkiṇinaḥ śubhān aśvāṃś ca bahudhā paśya śoṇitena pariplutān 44 yodhānāṃ ca mahāśaṅkhān pāṇḍurāṃś ca prakīrṇakān nirastajihvān mātaṅgāñ śayānān parvatopamān 45 vaijayantī vicitrāṃś ca hatāṃś ca gajayodhinaḥ vāraṇānāṃ paristomān suyuktāmbara kambalān 46 vipāṭinā vicitrāś ca rūpacitrāḥ kuthās tathā bhinnāś ca bahudhā ghaṇṭāḥ patadbhiś cūrṇitā gajaiḥ 47 vaiḍūrya maṇidaṇḍāṃś ca patitān aṅkuśān bhuvi baddhāḥ sādidhvajāgreṣu suvarṇavikṛtāḥ kaśāḥ 48 vicitrān maṇicitrāṃś ca jātarūpapariṣkṛtān aśvāstara paristomān rāṅkavānpatitān bhuvi 49 cūḍāmaṇīn narendrāṇāṃ vicitrāḥ kāñcanasrajaḥ chatrāṇi cāpaviddhāni cāmāra vyajanāni ca 50 candra nakṣatrabhāsaiś ca vadanaiś cārukuṇḍalaiḥ kḷpta śmaśrubhir atyarthaṃ vīrāṇāṃ samalaṃkṛtaiḥ vadanaiḥ paśya saṃchannāṃ mahīṃ śoṇitakardamām 51 sa jīvāṃś ca narān paśya kūjamānān samantataḥ upāsyamānān bahubhir nyastaśastrair viśāṃ pate 52 jñātibhiḥ sahitais tatra rodamānair muhur muhuḥ vyutkrāntān aparān yodhāṃś chādayitvā tarasvinaḥ punar yuddhāya gacchanti jaya gṛddhāḥ pramanyavaḥ 53 apare tatra tatraiva paridhāvanti māninaḥ jñātibhiḥ patitaiḥ śūrair yācyamānās tathodakam 54 jalārthaṃ ca gatāḥ ke cin niṣprāṇā bahavo 'rjuna saṃnivṛttāś ca te śūrās tān dṛṣṭvaiva vicetasaḥ 55 jalaṃ dṛṣṭvā pradhāvanti krośamānāḥ parasparam jalaṃ pītvā mṛtān paśya pibato 'nyāṃś ca bhārata 56 parityajya priyān anye bāndhavān bāndhavapriya vyutkrāntāḥ samadṛśyanta tatra tatra mahāraṇe 57 paśyāparān naraśreṣṭha saṃdaṣṭauṣṭha puṭān punaḥ bhrukuṭī kuṭilair vaktraiḥ prekṣamāṇān samantataḥ 58 etat tavaivānurūpaṃ karmārjuna mahāhave divi vā devarājasya tvayā yatkṛtam āhave 59 evaṃ tāṃ darśayan kṛṣṇo yuddhabhūmiṃ kirīṭine gacchann evāśṛṇoc chabdaṃ duryodhana bale mahat 60 śaṅkhadundubhinirghoṣān bherī paṇavamiśritān rathāśvagajanādāṃś ca śasttra śabdāṃś ca dāruṇān 61 praviśya tad balaṃ kṛṣṇas turagair vātavegibhiḥ pāṇḍyenābhyarditāṃ senāṃ tvadīyāṃ vīkṣya dhiṣṭhitaḥ 62 sahi nānāvidhair bāṇair iṣvāsa pravaro yudhi nyahanad dviṣatāṃ vrātān gatāsūn antako yathā 63 gajavājimanuṣyāṇāṃ śarīrāṇi śitaiḥ śaraiḥ bhittvā praharatāṃ śreṣṭho videhāsūṃś cakāra saḥ 64 śatrupravīrair astāni nānāśastrāṇi sāyakaiḥ bhittvā tān ahanat pāṇḍyaḥ śatrūñ śakra ivāsurān |
The Mahabharata in Sanskrit
Book 8
Chapter 15
|
1
[धृ] परॊक्तस तवया पूर्वम एव परवीरॊ लॊकविश्रुतः न तव अस्य कर्मसंग्रामे तवया संजय कीर्तितम 2 तस्य विस्तरतॊ बरूहि परवीरस्याद्य विक्रमम शिक्षां परभावं वीर्यं च परमाणं दर्पम एव च 3 [स] दरॊण भीष्म कृप दरौणिकर्णार्जुन जनार्दनान समाप्तविद्यान धनुषि शरेष्ठान यान मन्यसे युधि 4 तुल्यता कर्ण भीष्माभ्याम आत्मनॊ येन दृश्यते वासुदेवार्जुनाभ्यां च नयूनतां नात्मनीच्छति 5 स पाण्ड्यॊ नृपतिश्रेष्ठः सर्वशस्त्रभृतां वरः कर्णस्यानीकम अवधीत परिभूत इवान्तकः 6 तद उदीर्णरथाश्वं च पत्तिप्रवर कुञ्जरम कुलाल चक्रवद भरान्तं पाण्ड्येनाधिष्ठितं बलम 7 वयश्व सूत धवजरथान विप्रविद्धायुधान रिपून सम्यग अस्तैः शरैः पाण्ड्यॊ वायुर मेघान इवाक्षिपत 8 दविरदान परहत परॊथान विपताक धवजायुधान स पादरक्षान अवधीद वज्रेणारीन इवारिहा 9 स शक्तिप्रास तूणीरान अश्वारॊहान हयान अपि पुलिन्द खश बाह्लीकान निषादान धरक तङ्गणान 10 दाक्षिणात्यांश च भॊजांश च करूरान संग्रामकर्कशान विशस्त्र कवचान बाणैः कृत्वा पाण्ड्यॊ ऽकरॊद वयसून 11 चतुरङ्गं बलं बाणैर निघ्नन्तं पाण्ड्यम आहवे दृष्ट्वा दरौणिर असंभ्रान्तम असंभ्रान्ततरॊ ऽभययात 12 आभाष्य चैनं मधुरम अभि नृत्यन्न अभीतवत पराह परहरतां शरेष्ठः समितपूर्वं समाह्वयन 13 राजन कमलपत्राक्ष परधानायुध वाहन वज्रसंहनन परख्यप्रधानबलपौरुष 14 मुष्टिश्लिष्टायुधाभ्यां च वयायताभ्यां महद धनुः दॊर्भ्यां विस्फारयन भासि महाजलदवद भृशम 15 शरवर्षैर महावेगैर अमित्रान अभिवर्षतः मद अन्यं नानुपश्यामि परतिवीरं तवाहवे 16 रथद्विरदपत्त्यश्वान एकः परमथसे बहून मृगसंघान इवारण्ये विभीर भीमबलॊ हरिः 17 महता रथघॊषेण दिवं भूमिं च नादयन वर्षान्ते सस्यहा पीथॊ भाभिर आपूरयन्न इव 18 संस्पृशानः शरांस तीक्ष्णांस तूणाद आशीविषॊपमान मयैवैकेन युध्यस्व तर्यम्बकेणान्धकॊ यथा 19 एवम उक्तस तथेत्य उक्त्वा परहरेति च ताडितः कर्णिना दरॊण तनयं विव्याध मलयध्वजः 20 मर्मभेदिभिर अत्युग्रैर बाणैर अग्निशिखॊपमैः समयन्न अभ्यहनद दरौणिः पाण्ड्यम आचार्य सत्तमः 21 ततॊ नवापरांस तीक्ष्णान नाराचान कङ्कवाससः गत्या दशम्या संयुक्तान अश्वत्थामा वयवासृजत 22 तेषां पञ्चाच्छिनत पाण्ड्यः पञ्चभिर निशितैः शरैः चत्वारॊ ऽभयाहनन वाहान आशु ते वयसवॊ ऽभवन 23 अथ दरॊणसुतस्येषूंस तांश छित्त्वा निशितैः शरैः धनुर्ज्यां विततां पाण्ड्यश चिच्छेदादित्य वर्चसः 24 विज्यं धनुर अथाधिज्यं कृत्वा दरौणिर अमित्रहा ततः शरसहस्राणि परेषयाम आस पाण्ड्यतः इषुसंबाधम आकाशम अकरॊद दिश एव च 25 ततस तान अस्यतः सर्वान दरौणेर बाणान महात्मनः जानानॊ ऽपय अक्षयान पाण्ड्यॊ ऽशातयत पुरुषर्षभः 26 परहितांस तान परयत्नेन छित्त्वा दरौणेर इषून अरिः चक्ररक्षौ ततस तस्य पराणुदन निशितैः शरैः 27 अथारेर लाघवं दृष्ट्वा मण्डलीकृतकार्मुकः परास्यद दरॊणसुतॊ बाणान वृष्टिं पूषानुजॊ यथा 28 अष्टाव अष्ट गवान्य ऊहुः शकटानि यद आयुधम अह्नस तद अष्ट भागेन दरौणिश चिक्षेप मारिष 29 तम अन्तकम इव करुद्धम अन्तकालान्तकॊपमम ये ये दादृशिरे तत्र विसंज्ञाः परायशॊ ऽभवन 30 पर्जन्य इव घर्मान्ते वृष्ट्या साद्रिद्रुमां महीम आचार्य पुत्रस तां सेनां बाणवृष्ट्याभ्यवीवृषत 31 दरौणिपर्जन्यमुक्तां तां बाणवृष्टिं सुदुःसहाम वायव्यास्त्रेण स कषिप्रं रुद्ध्वा पाण्ड्यानिलॊ ऽनदत 32 तस्य नानदतः केतुं चन्दनागुरुभूषितम मलयप्रतिमद्रौणिश छित्त्वाश्वांश चतुरॊ ऽहनत 33 सूतम एकेषुणा हत्वा महाजलद निस्वनम धनुश छित्त्वार्ध चन्द्रेण वयधमत तिलशॊ रथम 34 अस्त्रैर अस्त्राणि संवार्य छित्त्वा सर्वायुधानि च पराप्तम अप्य अहितं दरौणिर न जघान रणेप्सया 35 हतेश्वरॊ दन्ति वरः सुकल्पितस; तवराभिसृष्टः परतिशर्मगॊ बली तम अध्यतिष्ठन मलयेश्वरॊ महान; यथाद्रिशृङ्गं हरिर उन्नदंस तथा 36 स तॊमरं भास्कररश्मिसंनिभं; बलास्त्र सर्गॊत्तम यत्नमन्युभिः ससर्ज शीघ्रं परतिपीडयन गजं; गुरॊः सुतायाद्रिपतीश्वरॊ नदन 37 मणिप्रतानॊत्तम वज्रहाटकैर; अलंकृतं चांशुक माल्यमौक्तिकैः हतॊ ऽसय असाव इत्य असकृन मुदा नदन; पराभिनद दरौणिवराङ्गभूषणम 38 तद अर्कचन्द्र गरहपावकत्विषं; भृशाभिघातात पतितं विचूर्णितम महेन्द्रवज्राभिहतं महावनं; यथाद्रिशृङ्गं धरणीतले तथा 39 ततः परजज्वाल परेण मन्युना; पदाहतॊ नागपतिर यथातथा समादधे चान्तक दण्डसंनिभान; इषून अमित्रान्त करांश चतुर्दश 40 दविपस्य पादाग्र करान स पञ्चभिर; नृपस्य बाहू च शिरॊ ऽथ च तरिभिः जघान षड्भिः षड ऋतूत्तम तविषः; स पाण्ड्य राजानुचरान महारथान 41 सुदीर्घ वृत्तौ वरचन्दनॊक्षितौ; सुवर्णमुक्ता मणिवज्र भूषितौ भुजौ धरायां पतितौ नृपस्य तौ; विवेष्टतुर तार्क्ष्य हताव इवॊरगौ 42 शिरश च तत पूर्णशशिप्रभाननं; सरॊषताम्रायत नेत्रम उन्नसम कषितौ विबभ्राज पतत सकुण्डलं; विशाखयॊर मध्यगतः शशी यथा 43 समाप्तविद्यं तु गुरॊः सुतं नृपः; समाप्तकर्माणम उपेत्य ते सुतः सुहृद्वृतॊ ऽतयर्थम अपूजयन मुदा; जिते बलौ विष्णुम इवामरेश्वरः |
1
[dhṛ] proktas tvayā pūrvam eva pravīro lokaviśrutaḥ na tv asya karmasaṃgrāme tvayā saṃjaya kīrtitam 2 tasya vistarato brūhi pravīrasyādya vikramam śikṣāṃ prabhāvaṃ vīryaṃ ca pramāṇaṃ darpam eva ca 3 [s] droṇa bhīṣma kṛpa drauṇikarṇārjuna janārdanān samāptavidyān dhanuṣi śreṣṭhān yān manyase yudhi 4 tulyatā karṇa bhīṣmābhyām ātmano yena dṛśyate vāsudevārjunābhyāṃ ca nyūnatāṃ nātmanīcchati 5 sa pāṇḍyo nṛpatiśreṣṭhaḥ sarvaśastrabhṛtāṃ varaḥ karṇasyānīkam avadhīt paribhūta ivāntakaḥ 6 tad udīrṇarathāśvaṃ ca pattipravara kuñjaram kulāla cakravad bhrāntaṃ pāṇḍyenādhiṣṭhitaṃ balam 7 vyaśva sūta dhvajarathān vipraviddhāyudhān ripūn samyag astaiḥ śaraiḥ pāṇḍyo vāyur meghān ivākṣipat 8 dviradān prahata prothān vipatāka dhvajāyudhān sa pādarakṣān avadhīd vajreṇārīn ivārihā 9 sa śaktiprāsa tūṇīrān aśvārohān hayān api pulinda khaśa bāhlīkān niṣādān dhraka taṅgaṇān 10 dākṣiṇātyāṃś ca bhojāṃś ca krūrān saṃgrāmakarkaśān viśastra kavacān bāṇaiḥ kṛtvā pāṇḍyo 'karod vyasūn 11 caturaṅgaṃ balaṃ bāṇair nighnantaṃ pāṇḍyam āhave dṛṣṭvā drauṇir asaṃbhrāntam asaṃbhrāntataro 'bhyayāt 12 ābhāṣya cainaṃ madhuram abhi nṛtyann abhītavat prāha praharatāṃ śreṣṭhaḥ smitapūrvaṃ samāhvayan 13 rājan kamalapatrākṣa pradhānāyudha vāhana vajrasaṃhanana prakhyapradhānabalapauruṣa 14 muṣṭiśliṣṭāyudhābhyāṃ ca vyāyatābhyāṃ mahad dhanuḥ dorbhyāṃ visphārayan bhāsi mahājaladavad bhṛśam 15 śaravarṣair mahāvegair amitrān abhivarṣataḥ mad anyaṃ nānupaśyāmi prativīraṃ tavāhave 16 rathadviradapattyaśvān ekaḥ pramathase bahūn mṛgasaṃghān ivāraṇye vibhīr bhīmabalo hariḥ 17 mahatā rathaghoṣeṇa divaṃ bhūmiṃ ca nādayan varṣānte sasyahā pītho bhābhir āpūrayann iva 18 saṃspṛśānaḥ śarāṃs tīkṣṇāṃs tūṇād āśīviṣopamān mayaivaikena yudhyasva tryambakeṇāndhako yathā 19 evam uktas tathety uktvā prahareti ca tāḍitaḥ karṇinā droṇa tanayaṃ vivyādha malayadhvajaḥ 20 marmabhedibhir atyugrair bāṇair agniśikhopamaiḥ smayann abhyahanad drauṇiḥ pāṇḍyam ācārya sattamaḥ 21 tato navāparāṃs tīkṣṇān nārācān kaṅkavāsasaḥ gatyā daśamyā saṃyuktān aśvatthāmā vyavāsṛjat 22 teṣāṃ pañcācchinat pāṇḍyaḥ pañcabhir niśitaiḥ śaraiḥ catvāro 'bhyāhanan vāhān āśu te vyasavo 'bhavan 23 atha droṇasutasyeṣūṃs tāṃś chittvā niśitaiḥ śaraiḥ dhanurjyāṃ vitatāṃ pāṇḍyaś cicchedāditya varcasaḥ 24 vijyaṃ dhanur athādhijyaṃ kṛtvā drauṇir amitrahā tataḥ śarasahasrāṇi preṣayām āsa pāṇḍyataḥ iṣusaṃbādham ākāśam akarod diśa eva ca 25 tatas tān asyataḥ sarvān drauṇer bāṇān mahātmanaḥ jānāno 'py akṣayān pāṇḍyo 'śātayat puruṣarṣabhaḥ 26 prahitāṃs tān prayatnena chittvā drauṇer iṣūn ariḥ cakrarakṣau tatas tasya prāṇudan niśitaiḥ śaraiḥ 27 athārer lāghavaṃ dṛṣṭvā maṇḍalīkṛtakārmukaḥ prāsyad droṇasuto bāṇān vṛṣṭiṃ pūṣānujo yathā 28 aṣṭāv aṣṭa gavāny ūhuḥ śakaṭāni yad āyudham ahnas tad aṣṭa bhāgena drauṇiś cikṣepa māriṣa 29 tam antakam iva kruddham antakālāntakopamam ye ye dādṛśire tatra visaṃjñāḥ prāyaśo 'bhavan 30 parjanya iva gharmānte vṛṣṭyā sādridrumāṃ mahīm ācārya putras tāṃ senāṃ bāṇavṛṣṭyābhyavīvṛṣat 31 drauṇiparjanyamuktāṃ tāṃ bāṇavṛṣṭiṃ suduḥsahām vāyavyāstreṇa sa kṣipraṃ ruddhvā pāṇḍyānilo 'nadat 32 tasya nānadataḥ ketuṃ candanāgurubhūṣitam malayapratimadrauṇiś chittvāśvāṃś caturo 'hanat 33 sūtam ekeṣuṇā hatvā mahājalada nisvanam dhanuś chittvārdha candreṇa vyadhamat tilaśo ratham 34 astrair astrāṇi saṃvārya chittvā sarvāyudhāni ca prāptam apy ahitaṃ drauṇir na jaghāna raṇepsayā 35 hateśvaro danti varaḥ sukalpitas; tvarābhisṛṣṭaḥ pratiśarmago balī tam adhyatiṣṭhan malayeśvaro mahān; yathādriśṛṅgaṃ harir unnadaṃs tathā 36 sa tomaraṃ bhāskararaśmisaṃnibhaṃ; balāstra sargottama yatnamanyubhiḥ sasarja śīghraṃ pratipīḍayan gajaṃ; guroḥ sutāyādripatīśvaro nadan 37 maṇipratānottama vajrahāṭakair; alaṃkṛtaṃ cāṃśuka mālyamauktikaiḥ hato 'sy asāv ity asakṛn mudā nadan; parābhinad drauṇivarāṅgabhūṣaṇam 38 tad arkacandra grahapāvakatviṣaṃ; bhṛśābhighātāt patitaṃ vicūrṇitam mahendravajrābhihataṃ mahāvanaṃ; yathādriśṛṅgaṃ dharaṇītale tathā 39 tataḥ prajajvāla pareṇa manyunā; padāhato nāgapatir yathātathā samādadhe cāntaka daṇḍasaṃnibhān; iṣūn amitrānta karāṃś caturdaśa 40 dvipasya pādāgra karān sa pañcabhir; nṛpasya bāhū ca śiro 'tha ca tribhiḥ jaghāna ṣaḍbhiḥ ṣaḍ ṛtūttama tviṣaḥ; sa pāṇḍya rājānucarān mahārathān 41 sudīrgha vṛttau varacandanokṣitau; suvarṇamuktā maṇivajra bhūṣitau bhujau dharāyāṃ patitau nṛpasya tau; viveṣṭatur tārkṣya hatāv ivoragau 42 śiraś ca tat pūrṇaśaśiprabhānanaṃ; saroṣatāmrāyata netram unnasam kṣitau vibabhrāja patat sakuṇḍalaṃ; viśākhayor madhyagataḥ śaśī yathā 43 samāptavidyaṃ tu guroḥ sutaṃ nṛpaḥ; samāptakarmāṇam upetya te sutaḥ suhṛdvṛto 'tyartham apūjayan mudā; jite balau viṣṇum ivāmareśvaraḥ |
The Mahabharata in Sanskrit
Book 8
Chapter 16
|
1
[धृ] पाण्ड्ये हते किम अकरॊद अर्जुनॊ युधि संजय एकवीरेण कर्णेन दरावितेषु परेषु च 2 समाप्तविद्यॊ बलवान युक्तॊ वीरश च पाण्डवः सर्वभूतेष्व अनुज्ञातः शंकरेण महात्मना 3 तस्मान महद भयं तीव्रम अमित्रघ्नाद धनंजयात स यत तत्राकरॊत पार्थस तन ममाचक्ष्व संजय 4 [स] हते पाण्ड्ये ऽरजुनं कृष्णस तवरन्न आह वचॊ हितम पश्यातिमान्यं राजानम अपयातांश च पाण्डवान 5 अश्वत्थाम्नश च संकल्पाद धताः कर्णेन सृञ्जयाः तथाश्वनरनागानां कृतं च कदनं महत इत्य आचष्ट सुदुर्धर्षॊ वासुदेवः किरीटिने 6 एतच छरुत्वा च दृष्ट्वा च भरातुर घॊरे महद भयम वाहयाश्वान हृषीकेश कषिप्रम इत्य आह पाण्डवः 7 ततः परायाद धृषीकेशॊ रथेनाप्रतियॊधिना दारुणश च पुनस तत्र परादुरासीत समागमः 8 ततः परववृते भूयः संग्रामॊ राजसत्तम कर्णस्य पाण्डवानां च यम राष्ट्रविवर्धनः 9 धनूंषि बाणान परिघान असि तॊमरपट्टिशान मुसलानि भुशुण्डीश च शक्तिृष्टि परश्वधान 10 गदाः परासान असीन कुन्तान भिण्डिपालान महाङ्कुशान परगृह्य कषिप्रम आपेतुः परस्परजिगीषया 11 बाणज्या तलशब्देन दयां दिशः परदिशॊ वियत पृथिवीं नेमिघॊषेण नादयन्तॊ ऽभययुः परान 12 तेन शब्देन महता संहृष्टाश चक्रुर आहवम वीरा वीरैर महाघॊरं कलहान्तं तितीर्षवः 13 जयातलत्र धनुः शब्दाः कुञ्जराणां च बृंहितम ताडितानां च पततां निनादः सुमहान अभूत 14 बाणशब्दांश च विविधाञ शूराणाम अभिगर्जताम शरुत्वा शब्दं भृशं तरेसुर जघ्नुर मम्लुश च भारत 15 तेषां नानद्यतां चैव शस्त्रवृष्टिं च मुञ्चताम बहून आधिरथिः कर्णः परममाथ रणेषुभिः 16 पञ्च पाञ्चाल वीराणां रथान दश च पञ्च च साश्वसूत धवजान कर्णः शरैर निन्ये यमक्षयम 17 यॊधमुख्या महावीर्याः पाण्डूनां कर्णम आहवे शीघ्रास्त्रा दिवम आवृत्य परिवव्रुः समन्ततः 18 ततः कर्णॊ दविषत सेनां शरवर्षैर विलॊडयन विजगाहे ऽणडजापूर्णां पद्मिनीम इव यूथपः 19 दविषन मध्यम अवस्कन्द्य राधेयॊ धनुर उत्तमम विधुन्वानः शितैर बाणैः शिरांस्य उन्मथ्य पातयत 20 चर्म वर्माणि संछिन्द्य निर्वापम इव देहिनाम विषेहुर नास्य संपर्कं दवितीयस्य पतत्रिणः 21 वर्म देहासु मथनैर धनुषः परच्युतैः शरैः मौर्व्या तलत्रैर नयवधीत कशया वाजिनॊ यथा 22 पाण्डुसृञ्जय पाञ्चालाञ शरगॊचरम आनयत ममर्द कर्णस तरसा सिंहॊ मृगगणान इव 23 ततः पाञ्चाल पुत्राश च दरौपदेयाश च मारिष यमौ च युयुधानश च सहिताः कर्णम अभ्ययुः 24 वयायच्छमानाः सुभृशं कुरुपाण्डवसृञ्जयाः परियान असून रणे तयक्त्वा यॊधा जग्मुः परस्परम 25 सुसंनद्धाः कवचिनः स शिरस तराणभूषणाः गदाभिर मुसलैर चान्ये परिघैर्श च महारथाः 26 समभ्यधावन्त भृशं देवा दण्डैर इवॊद्यतैः नदन्तश चाह्वयन्तश च परवल्गन्तश च मारिष 27 ततॊ निजघ्नुर अन्यॊन्यं पेतुश चाहवताडिताः वमन्तॊ रुधिरं गात्रैर विमस्तिष्केक्षणा युधि 28 दन्तपूर्णैः स रुधिरैर वक्त्रैर दाडिम संनिभैः जीवन्त इव चाप्य एते तस्थुः शस्त्रॊपबृंहिताः 29 परस्परं चाप्य अपरे पट्टिशैर असिभिस तथा शक्तिभिर भिण्डिपालैश च नखरप्रासतॊमरैः 30 ततक्षुश चिच्छिदुश चान्ये बिभिदुश चिक्षिपुस तथा संचकर्तुश च जघ्नुश च करुद्धा निर्बिभिदुश च ह 31 पेतुर अन्यॊन्यनिहता वयसवॊ रुधिरॊक्षिताः कषरन्तः सवरसं रक्तं परकृताश चन्दना इव 32 रथै रथा विनिहता हस्तिनश चापि हस्तिभिः नरा नरवरैः पेतुर अश्वाश चाश्वैः सहस्रशः 33 धवजाः शिरांसि चछत्राणि दविपहस्ता नृणां भुजाः कषुरैर भल्लार्ध चन्द्रैश च छिन्नाः शस्त्राणि तत्यजुः 34 नरांश च नागांश च रथान हयान ममृदुर आहवे अश्वारॊहैर हताः शूराश छिन्नहस्ताश च दन्तिनः 35 स पताकाध्वजाः पेतुर विशीर्णा इव पर्वताः पत्तिभिश च समाप्लुत्य दविरदाः सयन्दनास तथा 36 परहता हन्यमानाश च पतिताश चैव सर्वशः अश्वारॊहाः समासाद्य तवरिताःपत्तिभिर हताः सादिभिः पत्तिसंघाश च निहता युधि शेरते 37 मृदितानीव पद्मानि परम्लाना इव च सरजः हतानां वदनान्य आसन गात्राणि च महामते 38 रूपाण्य अत्यर्थ काम्यानि दविरदाश्वनृणां नृप समुन्नानीव वस्त्राणि परापुर दुर्दर्शतां परम |
1
[dhṛ] pāṇḍye hate kim akarod arjuno yudhi saṃjaya ekavīreṇa karṇena drāviteṣu pareṣu ca 2 samāptavidyo balavān yukto vīraś ca pāṇḍavaḥ sarvabhūteṣv anujñātaḥ śaṃkareṇa mahātmanā 3 tasmān mahad bhayaṃ tīvram amitraghnād dhanaṃjayāt sa yat tatrākarot pārthas tan mamācakṣva saṃjaya 4 [s] hate pāṇḍye 'rjunaṃ kṛṣṇas tvarann āha vaco hitam paśyātimānyaṃ rājānam apayātāṃś ca pāṇḍavān 5 aśvatthāmnaś ca saṃkalpād dhatāḥ karṇena sṛñjayāḥ tathāśvanaranāgānāṃ kṛtaṃ ca kadanaṃ mahat ity ācaṣṭa sudurdharṣo vāsudevaḥ kirīṭine 6 etac chrutvā ca dṛṣṭvā ca bhrātur ghore mahad bhayam vāhayāśvān hṛṣīkeśa kṣipram ity āha pāṇḍavaḥ 7 tataḥ prāyād dhṛṣīkeśo rathenāpratiyodhinā dāruṇaś ca punas tatra prādurāsīt samāgamaḥ 8 tataḥ pravavṛte bhūyaḥ saṃgrāmo rājasattama karṇasya pāṇḍavānāṃ ca yama rāṣṭravivardhanaḥ 9 dhanūṃṣi bāṇān parighān asi tomarapaṭṭiśān musalāni bhuśuṇḍīś ca śaktiṛṣṭi paraśvadhān 10 gadāḥ prāsān asīn kuntān bhiṇḍipālān mahāṅkuśān pragṛhya kṣipram āpetuḥ parasparajigīṣayā 11 bāṇajyā talaśabdena dyāṃ diśaḥ pradiśo viyat pṛthivīṃ nemighoṣeṇa nādayanto 'bhyayuḥ parān 12 tena śabdena mahatā saṃhṛṣṭāś cakrur āhavam vīrā vīrair mahāghoraṃ kalahāntaṃ titīrṣavaḥ 13 jyātalatra dhanuḥ śabdāḥ kuñjarāṇāṃ ca bṛṃhitam tāḍitānāṃ ca patatāṃ ninādaḥ sumahān abhūt 14 bāṇaśabdāṃś ca vividhāñ śūrāṇām abhigarjatām śrutvā śabdaṃ bhṛśaṃ tresur jaghnur mamluś ca bhārata 15 teṣāṃ nānadyatāṃ caiva śastravṛṣṭiṃ ca muñcatām bahūn ādhirathiḥ karṇaḥ pramamātha raṇeṣubhiḥ 16 pañca pāñcāla vīrāṇāṃ rathān daśa ca pañca ca sāśvasūta dhvajān karṇaḥ śarair ninye yamakṣayam 17 yodhamukhyā mahāvīryāḥ pāṇḍūnāṃ karṇam āhave śīghrāstrā divam āvṛtya parivavruḥ samantataḥ 18 tataḥ karṇo dviṣat senāṃ śaravarṣair viloḍayan vijagāhe 'ṇḍajāpūrṇāṃ padminīm iva yūthapaḥ 19 dviṣan madhyam avaskandya rādheyo dhanur uttamam vidhunvānaḥ śitair bāṇaiḥ śirāṃsy unmathya pātayat 20 carma varmāṇi saṃchindya nirvāpam iva dehinām viṣehur nāsya saṃparkaṃ dvitīyasya patatriṇaḥ 21 varma dehāsu mathanair dhanuṣaḥ pracyutaiḥ śaraiḥ maurvyā talatrair nyavadhīt kaśayā vājino yathā 22 pāṇḍusṛñjaya pāñcālāñ śaragocaram ānayat mamarda karṇas tarasā siṃho mṛgagaṇān iva 23 tataḥ pāñcāla putrāś ca draupadeyāś ca māriṣa yamau ca yuyudhānaś ca sahitāḥ karṇam abhyayuḥ 24 vyāyacchamānāḥ subhṛśaṃ kurupāṇḍavasṛñjayāḥ priyān asūn raṇe tyaktvā yodhā jagmuḥ parasparam 25 susaṃnaddhāḥ kavacinaḥ sa śiras trāṇabhūṣaṇāḥ gadābhir musalair cānye parighairś ca mahārathāḥ 26 samabhyadhāvanta bhṛśaṃ devā daṇḍair ivodyataiḥ nadantaś cāhvayantaś ca pravalgantaś ca māriṣa 27 tato nijaghnur anyonyaṃ petuś cāhavatāḍitāḥ vamanto rudhiraṃ gātrair vimastiṣkekṣaṇā yudhi 28 dantapūrṇaiḥ sa rudhirair vaktrair dāḍima saṃnibhaiḥ jīvanta iva cāpy ete tasthuḥ śastropabṛṃhitāḥ 29 parasparaṃ cāpy apare paṭṭiśair asibhis tathā śaktibhir bhiṇḍipālaiś ca nakharaprāsatomaraiḥ 30 tatakṣuś cicchiduś cānye bibhiduś cikṣipus tathā saṃcakartuś ca jaghnuś ca kruddhā nirbibhiduś ca ha 31 petur anyonyanihatā vyasavo rudhirokṣitāḥ kṣarantaḥ svarasaṃ raktaṃ prakṛtāś candanā iva 32 rathai rathā vinihatā hastinaś cāpi hastibhiḥ narā naravaraiḥ petur aśvāś cāśvaiḥ sahasraśaḥ 33 dhvajāḥ śirāṃsi cchatrāṇi dvipahastā nṛṇāṃ bhujāḥ kṣurair bhallārdha candraiś ca chinnāḥ śastrāṇi tatyajuḥ 34 narāṃś ca nāgāṃś ca rathān hayān mamṛdur āhave aśvārohair hatāḥ śūrāś chinnahastāś ca dantinaḥ 35 sa patākādhvajāḥ petur viśīrṇā iva parvatāḥ pattibhiś ca samāplutya dviradāḥ syandanās tathā 36 prahatā hanyamānāś ca patitāś caiva sarvaśaḥ aśvārohāḥ samāsādya tvaritāḥpattibhir hatāḥ sādibhiḥ pattisaṃghāś ca nihatā yudhi śerate 37 mṛditānīva padmāni pramlānā iva ca srajaḥ hatānāṃ vadanāny āsan gātrāṇi ca mahāmate 38 rūpāṇy atyartha kāmyāni dviradāśvanṛṇāṃ nṛpa samunnānīva vastrāṇi prāpur durdarśatāṃ param |
The Mahabharata in Sanskrit
Book 8
Chapter 17
|
1
[स] हस्तिभिस तु महामात्रास तव पुत्रेण चॊदिताः धृष्टद्युम्नं जिघांसन्तः करुद्धाः पार्षतम अभ्ययुः 2 पराच्याश च दाक्षिणात्याश च परवीरा गजयॊधिनः अङ्गा वङ्गाश च पुण्ड्राश च मागधास ताम्रलिप्तकाः 3 मेकलाः कॊशला मद्रा दशार्णा निषधास तथा गजयुद्धेषु कुशलाः कलिङ्गैः सह भारत 4 शरतॊमर नाराचैर वृष्टिमन्त इवाम्बुदाः सिषिचुस ते ततः सर्वे पाञ्चालाचलम आहवे 5 तान संमिमर्दिषुर नागान पार्ष्ण्यङ्गुष्ठाङ्कुशैर भृशम पॊथितान पार्षतॊ बाणैर नाराचैश चाभ्यवीवृषत 6 एकैकं दशभिः षड्भिर अष्टाभिर अपि भारत दविरदान अभिविव्याध कषिप्तैर गिरिनिभाञ शरैः परच्छाद्यमानॊ दविरदैर मेघैर इव दिवाकरः 7 पर्यासुः पाण्डुपाञ्चाला नदन्तॊ निशितायुधाः तान नागान अभिवर्षन्तॊ जयातन्त्री शरनादितैः 8 नकुलः सहदेवश च दरौपदेयाः परभद्रकाः सात्यकिश च शिखण्डी च चेकितानश च वीर्यवान 9 ते मलेच्छैः परेषिता नागा नरान अश्वान रथान अपि हस्तैर आक्षिप्य ममृदुः पद्भिश चाप्य अतिमन्यवः 10 बिभिदुश च विषाणाग्रैः समाक्षिप्य च विक्षिपुः विषाण लग्नैश चाप्य अन्ये परिपेतुर विभीषणाः 11 परमुखे वर्तमानं तु दविपं वङ्गस्य सात्यकिः नाराचेनॊग्र वेगेन भित्त्वा मर्मण्य अपातयत 12 तस्यावर्जितनागस्य दविरदाद उत्पतिष्यतः नाराचेनाभिनद वक्षः सॊ ऽपतद भुवि सात्यकेः 13 पुण्ड्रस्यापततॊ नागं चलन्तम इव पर्वतम सहदेवः परयत्नात तैर नाराचैर वयहनत तरिभिः 14 विपताकं वियन्तारं विवर्म धवजजीवितम तं कृत्वा दविरदं भूयः सहदेवॊ ऽङगम अभ्यगात 15 सहदेवं तु नकुलॊ वारयित्वाङ्गम आर्दयत नाराचैर यमदण्डाभैस तरिभिर नागं शतेन च 16 दिवाकरकरप्रख्यान अङ्गश चिक्षेप तॊमरान नकुलाय शतान्य अष्टौ तरिधैकैकं तु सॊ ऽचछिनत 17 तथार्ध चन्द्रेण शिरस तस्य चिच्छेद पाण्डवः स पपात हतॊ मलेच्छस तेनैव सह दन्तिना 18 आचार्य पुत्रे निहते हस्तिशिक्षा विशारदे अङ्गाः करुद्धा महामात्रा नागैर नकुलम अभ्ययुः 19 चलत पताकैः परमुखैर हेमकक्ष्या तनुच छदैः मिमर्दिशन्तस तवरिताः परदीप्तैर इव पर्वतैः 20 मेकलॊत्कल कालिङ्गा निषादास ताम्रलिप्तकाः शरतॊमर वर्षाणि विमुञ्चन्तॊ जिघांसवः 21 तैश छाद्यमानं नकुलं दिवाकरम इवाम्बुदैः परि पेतुः सुसंरब्धाः पाण्डुपाञ्चाल सॊमकाः 22 ततस तद अभवद युद्धं रथिनां हस्तिभिः सह सृजतां शरवर्षाणि तॊमरांश च सहस्रशः 23 नागानां परस्फुटुः कुम्भा मर्माणि विविधानि च दन्ताश चैवातिविद्धानां नाराचैर भूषणानि च 24 तेषाम अष्टौ महानागांश चतुःषष्ट्या सुतेजनैः सहदेवॊ जघानाशु ते पेतुः सह सादिभिः 25 अञ्जॊ गतिभिर आयम्य परयत्नाद धनुर उत्तमम नाराचैर अहनन नागान नकुलः कुरनन्दन 26 ततः शैनेय पाञ्चाल्यौ दरौपदेयाः परभद्रकाः शिखण्डी च महानागान सिषिचुः शरवृष्टिभिः 27 ते पाण्डुयॊधाम्बुधरैः शत्रुद्विरदपर्वताः बाणवर्षैर हताः पेतुर वज्रवर्षैर इवाचलाः 28 एवं हत्वा तव गजांस ते पाण्डुनरकुञ्जराः दरुतं सेनाम अवैक्षन्त भिन्नकूलाम इवापगाम 29 ते तां सेनाम अवालॊक्य पाण्डुपुत्रस्य सैनिकाः विक्षॊभयित्वा च पुनः कर्णम एवाभिदुद्रुवुः 30 सहदेवं ततः करुद्धं दहन्तं तव वाहिनीम दुःशासनॊ महाराज भराता भरातरम अभ्ययात 31 तौ समेतौ महायुद्धे दृष्ट्वा तत्र नराधिपाः सिंहनाद रवांश चक्रुर वासांस्य आदुधुवुश च ह 32 ततॊ भारत करुद्धेन तव पुत्रेण धन्विना पाण्डुपुत्रस तरिभिर बाणैर वक्षस्य अभिहतॊ बली 33 सहदेवस ततॊ राजन नाराचेन तवात्मजम विद्ध्वा विव्याध सप्तत्या सारथिं च तरिभिस तरिभिः 34 दुःशासनस तदा राजंश छित्त्वा चापं महाहवे सहदेवं तरिसप्तत्या बाह्वॊर उरसि चार्दयत 35 सहदेवस ततः करुद्धः खड्गं गृह्य महाहवे वयाविध्यत युधां शरेष्ठः शरीमांस तव सुतं परति 36 स मार्गणगणं चापं छित्त्वा तस्य महान असिः निपपात ततॊ भूमौ चयुतः सर्प इवाम्बरात 37 अथान्यद धनुर आदाय सहदेवः परतापवान दुःशासनाय चिक्षेप बाणम अन्तकरं ततः 38 तम आपतन्तं विशिखं यमदण्डॊपमत्विषम खड्गेन शितधारेण दविधा चिच्छेद कौरवः 39 तम आपतन्तं सहसा निस्त्रिंशं निशितैः शरैः पातयाम आस समरे सहदेवॊ हसन्न इव 40 ततॊ बाणांश चतुःषष्टिं तव पुत्रॊ महारणे सहदेव रथे तूर्णं पातयाम आस भारत 41 ताञ शरान समरे राजन वेगेनापततॊ बहून एकैकं पञ्चभिर बाणैः सहदेवॊ नयकृन्तत 42 स निवार्य महाबाणांस तव पुत्रेण परेषितान अथास्मै सुबहून बबाणांर माद्रीपुत्रः समाचिनॊत 43 ततः करुद्धॊ महाराज सहदेवः परतावना समाधत्त शरं घॊरं मृत्युकालान्तकॊपमम विकृष्य बलवच चापं तव पुत्राय सॊ ऽसृजत 44 स तं निर्भिद्य वेगेन भित्त्वा च कवचं महत पराविशद धरणीं राजन वल्मीकम इव पन्नगः ततः स मुमुहे राजंस तव पुत्रॊ महारथः 45 मूढं चैनं समालक्ष्य सारथिस तवरितॊ रथम अपॊवाह भृशं तरस्तॊ वध्यमानं शितैः शरैः 46 पराजित्य रणे तं तु पाण्डवः पाण्डुपूर्वज दुर्यॊधन बलं हृष्टः परामथद वै समन्ततः 47 पिपीलिका पुटं राजन यथामृद्नान नरॊ रुषा तथा सा कौरवी सेना मृदिता तेन भारत 48 नकुलं रभसं युद्धे दारयन्तं वरूथिनीम कर्णॊ वैकर्तनॊ राजन वारयाम आस वै तदा 49 नकुलश च तदा कर्णं परहसन्न इदम अब्रवीत चिरस्य बत दृष्टॊ ऽहं दैवतैः सौम्य चक्षुषा 50 यस्य मे तवं रणे पापचक्षुर विषयम आगतः तवं हि मूलम अनर्थानां वैरस्य कलहस्य च 51 तवद दॊषात कुरवः कषीणाः समासाद्य परस्परम तवाम अद्य समरे हत्वा कृतकृत्यॊ ऽसमि विज्वरः 52 एवम उक्तः परत्युवाच नकुलं सूतनन्दनः सदृशं राजपुत्रस्य धन्विनश च विशेषतः 53 परहरस्व रणे बाल पश्यामस तव पौरुषम कर्मकृत्वा रणे शूर ततः कत्थितुम अर्हसि 54 अनुक्त्वा समरे तात शूरा युध्यन्ति शक्तितः स युध्यस्व मया शक्त्या विनेष्ये दर्पम अद्य ते 55 इत्य उक्त्वा पराहरत तूर्णं पाण्डुपुत्राय सूतजः विव्याध चैनं समरे तरिसप्तत्या शिलीमुखैः 56 नकुलस तु ततॊ विद्धः सूतपुत्रेण भारत अशीत्य आशीविषप्रख्यैः सूतपुत्रम अविध्यत 57 तस्य कर्णॊ धनुश छित्त्वा सवर्णपुङ्खैः शिलाशितैः तरिंशता परमेष्वासः शरैः पाण्डवम आर्दयत 58 ते तस्य कवचं भित्त्वा पपुः शॊणितम आहवे आशीविषा यथा नागा भित्त्वा गां सलिलं पपुः 59 अथान्यद धनुर आदाय हेमपृष्ठं दुरासदम कर्णं विव्याध विंशत्या सारथिं च तरिभिः शरैः 60 ततः करुद्धॊ महाराज नकुलः परवीरहा कषुरप्रेण सुतीक्ष्णेन कर्णस्य धनुर अच्छिनत 61 अथैनं छिन्नधन्वानं सायकानां शतैस तरिभिः आजघ्ने परहसन वीरः सर्वलॊकमहारथम 62 कर्णम अभ्यर्दितं दृष्ट्वा पाण्डुपुत्रेण मारिष विस्मयं परमं जग्मू रथिनः सह दैवतैः 63 अथान्यद धनुर आदाय कर्णॊ वैकर्तनस तदा नकुलं पञ्चभिर बाणैर जत्रु देशे समार्दयत 64 उरःस्थैर अथ तैर बाणैर माद्रीपुत्रॊ वयरॊचत सवरश्मिभिर इवादित्यॊ भुवने विसृजन परभाम 65 नकुकस तु ततः कर्णं विद्ध्वा सप्तभिर आयसैः अथास्य धनुषः कॊटिं पुनश चिच्छेद मारिष 66 सॊ ऽनयत कार्मुकम आदाय समरे वेगवत्तरम नकुलस्य ततॊ बाणैः सर्वतॊ ऽवारयद दिशः 67 संछाद्यमानः सहसा कर्ण चापच्युतैः शरैः चिच्छेद स शरांस तूर्णं शरैर एव महारथः 68 ततॊ बाणमयं जालं विततं वयॊम्न्य अदृश्यत खद्यॊतानां गणैर एवं संपतद्भिर यथा नभः 69 तैर विमुक्तैः शरशतैश छादितं गगनं तदा शलभानां यथा वरातैस तद्वद आसीत समाकुलम 70 ते शरा हेमविकृताः संपतन्तॊ मुहुर मुहुः शरेणी कृता अभासन्त हंसाः शरेणी गता इव 71 बाणजालावृते वयॊम्नि छादिते च दिवाकरे समसर्पत ततॊ भूतं किं चिद एव विशां पते 72 निरुद्धे तत्र मार्गे तु शरसंघैः समन्ततः वयरॊचतां महाभागौ बालसूर्याव इवॊदितौ 73 कर्ण चापच्युतैर बाणैर वध्यमानास तु सॊमकाः अवालीयन्त राजेन्द्र वेदनार्ताः शरार्दिताः 74 नकुलस्य तथा बाणैर वध्यमाना चमूस तव वयशीर्यत दिशॊ राजन वातनुन्ना इवाम्बुदाः 75 ते सेने वध्यमाने तु ताभ्यां दिव्यैर महाशरैः शरपातम अपक्रम्य ततः परेक्षकवत सथिते 76 परॊत्सारिते जने तस्मिन कर्ण पाण्डवयॊः शरैः विव्याधाते महात्मानाव अन्यॊन्यं शरवृष्टिभिः 77 निदर्शयन्तौ तव अस्त्राणि दिव्यानि रणमूर्धनि छादयन्तौ च सहसा परस्परवधैषिणौ 78 नकुलेन शरा मुक्ताः कङ्कबर्णिण वाससः ते तु कर्णम अवच्छाद्य वयतिष्ठन्त यथा पुरे 79 शरवेश्म परविष्टौ तौ ददृशाते न कैश चन चन्द्रसूर्यौ यथा राजंश छाद्यमानौ जलागमे 80 ततः करुद्धॊ रणे कर्णः कृत्वा घॊरतरं वपुः पाण्डवं छाद्दयाम आस समन्ताच छरवृष्टिभिः 81 सच्छाद्यमानः समरे सूतपुत्रेण पाण्डवः न चकार वयथां राजन भास्करॊ जलदैर यथा 82 ततः परहस्याधिरथिः शरजालानि मारिष परेषयाम आस समरे शतशॊ ऽथ सहस्रशः 83 एकच छायम अभूत सर्वं तस्य बाणैर महात्मनः अभ्रच छायेव संजज्ञे संपतद्भिः शरॊत्तमैः 84 ततः कर्णॊ महाराज धनुश छित्त्वा महात्मनः सारथिं पातयाम आस रथनीडाद धसन्न इव 85 तथाश्वांश चतुरश चास्य चतुर्भिर निशितैः शरैः यमस्य सदनं तूर्णं परेषयाम आस भारत 86 अथास्य तं रथं तूर्णं तिलशॊ वयधमच छरैः पताकां चक्ररक्षौ च धवजं खड्गं च मारिष शतचन्द्रं ततश चर्म सर्वॊपकरणानि च 87 हताश्वॊ विरथश चैव विवर्मा च विशां पते अवतीर्य रथात तूर्णं परिघं गृह्य विष्ठितः 88 तम उद्यतं महाघॊरं परिघं तस्य सूतजः वयहनत सायकै राजञ शतशॊ ऽथ सहस्रशः 89 वयायुधं चैनम आलक्ष्य शरैः संनतपर्वभिः आर्दयद बहुशः कर्णॊ न चैनं समपीडयत 90 स वध्यमानः समरे कृतास्त्रेण बलीयसा पराद्रवत सहसा राजन नकुलॊ वयाकुलेन्द्रियः 91 तम अभिद्रुत्य राधेयः परहसन वै पुनः पुनः स जयम अस्य धनुः कण्ठे सॊ ऽवासृजत भारत 92 ततः स शुशुभे राजन कण्ठासक्तमहाधनुः परिवेषम अनुप्राप्तॊ यथा सयाद वयॊम्नि चन्द्रमाः यथैव च सितॊ मेघः शक्रचापेन शॊभितः 93 तम अब्रवीत तदा कर्णॊ वयर्थं वयाहृतवान असि वदेदानीं पुनर हृष्टॊ वध्यं मां तवं पुनः पुनः 94 मा यॊत्सीर गुरुभिः सार्धं बलवद्भिश च पाण्डव सदृशैस तात युध्यस्व वरीडां मा कुरु पाण्डव गृहं वा गच्छ माद्रेय यत्र वा कृष्ण फल्गुनौ 95 एवम उक्त्वा महाराज वयसर्जयत तं ततः वधप्राप्तं तु तं राजन नावधीत सूतनन्दनः समृत्वा कुन्त्या वचॊ राजंस तत एनं वयसर्जयत 96 विसृष्टः पाण्डवॊ राजन सूतपुत्रेण धन्विना वरीडन्न इव जगामाथ युधिष्ठिर रथं परति 97 आरुरॊह रथं चापि सूतपुत्र परतापिनः निःश्वसन दुःखसंतप्तः कुम्भे कषिप्त इवॊरगः 98 तं विसृज्य रणे कर्णः पाञ्चालांस तवरितॊ ययौ रथेनातिपताकेन चन्द्र वर्णहयेन च 99 तत्राक्रन्दॊ महान आसीत पाण्डवानां विशां पते दृष्ट्वा सेनापतिं यान्तं पाञ्चालानां रथव्रजान 100 तत्राकरॊन महाराज कदनं सूतनन्दनः मध्यं गते दिनकरे चक्रवत परचरन परभुः 101 भग्नचक्रै रथैः केच चिच छन्नध्वजपताकिभिः ससूतैर हतसूतैश च भग्नाक्षैश चैव मारिष हरियमाणान अपश्याम पाञ्चालानां रथव्रजान 102 तत्र तत्र च संभ्रान्ता विच्चेरुर मत्तकुञ्जराः दवाग्निना परीताङ्गा यथैव सयुर महावने 103 भिन्नकुम्भा विरुधिराश छिन्नहस्ताश च वारणाः भिन्नगात्रवराश चैव छिन्नवालाश च मारिष छिन्नाब्भ्राणीव संपेतुर वध्यमाना महात्मना 104 अपरे तरासिता नागा नाराचशततॊमरैः तम एवाभिमुखा यान्ति शलभा इव पावकम 105 अपरे निष्टनन्तः सम वयदृश्यन्त महाद्विपाः कषरन्तः शॊणितं गात्रैर नगा इव जलप्लवम 106 उरश छदैर विमुक्ताश च वालबन्धैश च वाजिनः राजतैश च तथा कांस्यैः सौवर्णैश चैव भूषणैः 107 हीना आस्तरणैश चैव खलीनैश च विवर्जिताः चामरैश च कुथाभिश च तूणीरैः पतितैर अपि 108 निहतैः सादिभिश चैव शूरैर आहवशॊभिभिः अपश्याम रणे तत्र भराम्यमाणान हयॊत्तमान 109 परासैः खड्गैश च संस्यूतान ऋष्टिब्भिश च नराधिप हययॊधान अपश्याम कञ्चुकॊष्णीष धारिणः 110 रथान हेमपरिष्कारान सुयुक्ताञ जवनैर हयैः भरममाणान अपश्याम हतेषु रथिषु दरुतम 111 भग्नाक्षकूबरान कांश चिच छिन्नचक्रांश च मारिष विपताकाध्वजांश चान्याञ छिन्नेषायुग बन्धुरान 112 विहीनान रथिनस तत्र धावमानान समन्ततः सूर्यपुत्र शरैस तरस्तान अपश्याम विशां पते 113 विशस्त्रांश च तथैवान्यान सशस्त्रांश च बहून हतान तावकाञ जालसंछन्नान उरॊ घण्टा विभूषितान 114 नानावर्णविचित्राभिः पताकाभिर अलंकृतान पदातीन अन्वपश्याम धावमानान समन्ततः 115 शिरांसि बाहून ऊरूंश च छिन्नान अन्यांस तथा युधि कर्ण चाप चयुतैर बाणैर अपश्याम विनाकृतान 116 महान वयतिकरॊ रौद्रॊ यॊधानाम अन्वदृश्यत कर्ण सायकनुन्नानां हतानां निशितैः शरैः 117 ते वध्यमानाः समरे सूतपुत्रेण सृञ्जयाः तम एवाभिमुखा यान्ति पतंगा इव पावकम 118 तं दहन्तम अनीकानि तत्र तत्र महारथम कषत्रिया वर्जयाम आसुर युगान्ताग्निम इवॊल्बणम 119 हतशेषास तु ये वीराः पाञ्चालानां महारथाः तान परभग्नान दरुतान कर्णः पृष्ठतॊ विकिरञ शरैः अभ्यधावत तेजस्वी विशीर्णकवचध्वजान 120 तापयाम आस तान बाणैः सूतपुत्रॊ महारथः मध्यंदिनम अनुप्राप्तॊ भूतानीव तमॊनुदः |
1
[s] hastibhis tu mahāmātrās tava putreṇa coditāḥ dhṛṣṭadyumnaṃ jighāṃsantaḥ kruddhāḥ pārṣatam abhyayuḥ 2 prācyāś ca dākṣiṇātyāś ca pravīrā gajayodhinaḥ aṅgā vaṅgāś ca puṇḍrāś ca māgadhās tāmraliptakāḥ 3 mekalāḥ kośalā madrā daśārṇā niṣadhās tathā gajayuddheṣu kuśalāḥ kaliṅgaiḥ saha bhārata 4 śaratomara nārācair vṛṣṭimanta ivāmbudāḥ siṣicus te tataḥ sarve pāñcālācalam āhave 5 tān saṃmimardiṣur nāgān pārṣṇyaṅguṣṭhāṅkuśair bhṛśam pothitān pārṣato bāṇair nārācaiś cābhyavīvṛṣat 6 ekaikaṃ daśabhiḥ ṣaḍbhir aṣṭābhir api bhārata dviradān abhivivyādha kṣiptair girinibhāñ śaraiḥ pracchādyamāno dviradair meghair iva divākaraḥ 7 paryāsuḥ pāṇḍupāñcālā nadanto niśitāyudhāḥ tān nāgān abhivarṣanto jyātantrī śaranāditaiḥ 8 nakulaḥ sahadevaś ca draupadeyāḥ prabhadrakāḥ sātyakiś ca śikhaṇḍī ca cekitānaś ca vīryavān 9 te mlecchaiḥ preṣitā nāgā narān aśvān rathān api hastair ākṣipya mamṛduḥ padbhiś cāpy atimanyavaḥ 10 bibhiduś ca viṣāṇāgraiḥ samākṣipya ca vikṣipuḥ viṣāṇa lagnaiś cāpy anye paripetur vibhīṣaṇāḥ 11 pramukhe vartamānaṃ tu dvipaṃ vaṅgasya sātyakiḥ nārācenogra vegena bhittvā marmaṇy apātayat 12 tasyāvarjitanāgasya dviradād utpatiṣyataḥ nārācenābhinad vakṣaḥ so 'patad bhuvi sātyakeḥ 13 puṇḍrasyāpatato nāgaṃ calantam iva parvatam sahadevaḥ prayatnāt tair nārācair vyahanat tribhiḥ 14 vipatākaṃ viyantāraṃ vivarma dhvajajīvitam taṃ kṛtvā dviradaṃ bhūyaḥ sahadevo 'ṅgam abhyagāt 15 sahadevaṃ tu nakulo vārayitvāṅgam ārdayat nārācair yamadaṇḍābhais tribhir nāgaṃ śatena ca 16 divākarakaraprakhyān aṅgaś cikṣepa tomarān nakulāya śatāny aṣṭau tridhaikaikaṃ tu so 'cchinat 17 tathārdha candreṇa śiras tasya ciccheda pāṇḍavaḥ sa papāta hato mlecchas tenaiva saha dantinā 18 ācārya putre nihate hastiśikṣā viśārade aṅgāḥ kruddhā mahāmātrā nāgair nakulam abhyayuḥ 19 calat patākaiḥ pramukhair hemakakṣyā tanuc chadaiḥ mimardiśantas tvaritāḥ pradīptair iva parvataiḥ 20 mekalotkala kāliṅgā niṣādās tāmraliptakāḥ śaratomara varṣāṇi vimuñcanto jighāṃsavaḥ 21 taiś chādyamānaṃ nakulaṃ divākaram ivāmbudaiḥ pari petuḥ susaṃrabdhāḥ pāṇḍupāñcāla somakāḥ 22 tatas tad abhavad yuddhaṃ rathināṃ hastibhiḥ saha sṛjatāṃ śaravarṣāṇi tomarāṃś ca sahasraśaḥ 23 nāgānāṃ prasphuṭuḥ kumbhā marmāṇi vividhāni ca dantāś caivātividdhānāṃ nārācair bhūṣaṇāni ca 24 teṣām aṣṭau mahānāgāṃś catuḥṣaṣṭyā sutejanaiḥ sahadevo jaghānāśu te petuḥ saha sādibhiḥ 25 añjo gatibhir āyamya prayatnād dhanur uttamam nārācair ahanan nāgān nakulaḥ kuranandana 26 tataḥ śaineya pāñcālyau draupadeyāḥ prabhadrakāḥ śikhaṇḍī ca mahānāgān siṣicuḥ śaravṛṣṭibhiḥ 27 te pāṇḍuyodhāmbudharaiḥ śatrudviradaparvatāḥ bāṇavarṣair hatāḥ petur vajravarṣair ivācalāḥ 28 evaṃ hatvā tava gajāṃs te pāṇḍunarakuñjarāḥ drutaṃ senām avaikṣanta bhinnakūlām ivāpagām 29 te tāṃ senām avālokya pāṇḍuputrasya sainikāḥ vikṣobhayitvā ca punaḥ karṇam evābhidudruvuḥ 30 sahadevaṃ tataḥ kruddhaṃ dahantaṃ tava vāhinīm duḥśāsano mahārāja bhrātā bhrātaram abhyayāt 31 tau sametau mahāyuddhe dṛṣṭvā tatra narādhipāḥ siṃhanāda ravāṃś cakrur vāsāṃsy ādudhuvuś ca ha 32 tato bhārata kruddhena tava putreṇa dhanvinā pāṇḍuputras tribhir bāṇair vakṣasy abhihato balī 33 sahadevas tato rājan nārācena tavātmajam viddhvā vivyādha saptatyā sārathiṃ ca tribhis tribhiḥ 34 duḥśāsanas tadā rājaṃś chittvā cāpaṃ mahāhave sahadevaṃ trisaptatyā bāhvor urasi cārdayat 35 sahadevas tataḥ kruddhaḥ khaḍgaṃ gṛhya mahāhave vyāvidhyata yudhāṃ śreṣṭhaḥ śrīmāṃs tava sutaṃ prati 36 sa mārgaṇagaṇaṃ cāpaṃ chittvā tasya mahān asiḥ nipapāta tato bhūmau cyutaḥ sarpa ivāmbarāt 37 athānyad dhanur ādāya sahadevaḥ pratāpavān duḥśāsanāya cikṣepa bāṇam antakaraṃ tataḥ 38 tam āpatantaṃ viśikhaṃ yamadaṇḍopamatviṣam khaḍgena śitadhāreṇa dvidhā ciccheda kauravaḥ 39 tam āpatantaṃ sahasā nistriṃśaṃ niśitaiḥ śaraiḥ pātayām āsa samare sahadevo hasann iva 40 tato bāṇāṃś catuḥṣaṣṭiṃ tava putro mahāraṇe sahadeva rathe tūrṇaṃ pātayām āsa bhārata 41 tāñ śarān samare rājan vegenāpatato bahūn ekaikaṃ pañcabhir bāṇaiḥ sahadevo nyakṛntata 42 sa nivārya mahābāṇāṃs tava putreṇa preṣitān athāsmai subahūn bbāṇāṃr mādrīputraḥ samācinot 43 tataḥ kruddho mahārāja sahadevaḥ pratāvanā samādhatta śaraṃ ghoraṃ mṛtyukālāntakopamam vikṛṣya balavac cāpaṃ tava putrāya so 'sṛjat 44 sa taṃ nirbhidya vegena bhittvā ca kavacaṃ mahat prāviśad dharaṇīṃ rājan valmīkam iva pannagaḥ tataḥ sa mumuhe rājaṃs tava putro mahārathaḥ 45 mūḍhaṃ cainaṃ samālakṣya sārathis tvarito ratham apovāha bhṛśaṃ trasto vadhyamānaṃ śitaiḥ śaraiḥ 46 parājitya raṇe taṃ tu pāṇḍavaḥ pāṇḍupūrvaja duryodhana balaṃ hṛṣṭaḥ prāmathad vai samantataḥ 47 pipīlikā puṭaṃ rājan yathāmṛdnān naro ruṣā tathā sā kauravī senā mṛditā tena bhārata 48 nakulaṃ rabhasaṃ yuddhe dārayantaṃ varūthinīm karṇo vaikartano rājan vārayām āsa vai tadā 49 nakulaś ca tadā karṇaṃ prahasann idam abravīt cirasya bata dṛṣṭo 'haṃ daivataiḥ saumya cakṣuṣā 50 yasya me tvaṃ raṇe pāpacakṣur viṣayam āgataḥ tvaṃ hi mūlam anarthānāṃ vairasya kalahasya ca 51 tvad doṣāt kuravaḥ kṣīṇāḥ samāsādya parasparam tvām adya samare hatvā kṛtakṛtyo 'smi vijvaraḥ 52 evam uktaḥ pratyuvāca nakulaṃ sūtanandanaḥ sadṛśaṃ rājaputrasya dhanvinaś ca viśeṣataḥ 53 praharasva raṇe bāla paśyāmas tava pauruṣam karmakṛtvā raṇe śūra tataḥ katthitum arhasi 54 anuktvā samare tāta śūrā yudhyanti śaktitaḥ sa yudhyasva mayā śaktyā vineṣye darpam adya te 55 ity uktvā prāharat tūrṇaṃ pāṇḍuputrāya sūtajaḥ vivyādha cainaṃ samare trisaptatyā śilīmukhaiḥ 56 nakulas tu tato viddhaḥ sūtaputreṇa bhārata aśīty āśīviṣaprakhyaiḥ sūtaputram avidhyata 57 tasya karṇo dhanuś chittvā svarṇapuṅkhaiḥ śilāśitaiḥ triṃśatā parameṣvāsaḥ śaraiḥ pāṇḍavam ārdayat 58 te tasya kavacaṃ bhittvā papuḥ śoṇitam āhave āśīviṣā yathā nāgā bhittvā gāṃ salilaṃ papuḥ 59 athānyad dhanur ādāya hemapṛṣṭhaṃ durāsadam karṇaṃ vivyādha viṃśatyā sārathiṃ ca tribhiḥ śaraiḥ 60 tataḥ kruddho mahārāja nakulaḥ paravīrahā kṣurapreṇa sutīkṣṇena karṇasya dhanur acchinat 61 athainaṃ chinnadhanvānaṃ sāyakānāṃ śatais tribhiḥ ājaghne prahasan vīraḥ sarvalokamahāratham 62 karṇam abhyarditaṃ dṛṣṭvā pāṇḍuputreṇa māriṣa vismayaṃ paramaṃ jagmū rathinaḥ saha daivataiḥ 63 athānyad dhanur ādāya karṇo vaikartanas tadā nakulaṃ pañcabhir bāṇair jatru deśe samārdayat 64 uraḥsthair atha tair bāṇair mādrīputro vyarocata svaraśmibhir ivādityo bhuvane visṛjan prabhām 65 nakukas tu tataḥ karṇaṃ viddhvā saptabhir āyasaiḥ athāsya dhanuṣaḥ koṭiṃ punaś ciccheda māriṣa 66 so 'nyat kārmukam ādāya samare vegavattaram nakulasya tato bāṇaiḥ sarvato 'vārayad diśaḥ 67 saṃchādyamānaḥ sahasā karṇa cāpacyutaiḥ śaraiḥ ciccheda sa śarāṃs tūrṇaṃ śarair eva mahārathaḥ 68 tato bāṇamayaṃ jālaṃ vitataṃ vyomny adṛśyata khadyotānāṃ gaṇair evaṃ saṃpatadbhir yathā nabhaḥ 69 tair vimuktaiḥ śaraśataiś chāditaṃ gaganaṃ tadā śalabhānāṃ yathā vrātais tadvad āsīt samākulam 70 te śarā hemavikṛtāḥ saṃpatanto muhur muhuḥ śreṇī kṛtā abhāsanta haṃsāḥ śreṇī gatā iva 71 bāṇajālāvṛte vyomni chādite ca divākare samasarpat tato bhūtaṃ kiṃ cid eva viśāṃ pate 72 niruddhe tatra mārge tu śarasaṃghaiḥ samantataḥ vyarocatāṃ mahābhāgau bālasūryāv ivoditau 73 karṇa cāpacyutair bāṇair vadhyamānās tu somakāḥ avālīyanta rājendra vedanārtāḥ śarārditāḥ 74 nakulasya tathā bāṇair vadhyamānā camūs tava vyaśīryata diśo rājan vātanunnā ivāmbudāḥ 75 te sene vadhyamāne tu tābhyāṃ divyair mahāśaraiḥ śarapātam apakramya tataḥ prekṣakavat sthite 76 protsārite jane tasmin karṇa pāṇḍavayoḥ śaraiḥ vivyādhāte mahātmānāv anyonyaṃ śaravṛṣṭibhiḥ 77 nidarśayantau tv astrāṇi divyāni raṇamūrdhani chādayantau ca sahasā parasparavadhaiṣiṇau 78 nakulena śarā muktāḥ kaṅkabarṇiṇa vāsasaḥ te tu karṇam avacchādya vyatiṣṭhanta yathā pure 79 śaraveśma praviṣṭau tau dadṛśāte na kaiś cana candrasūryau yathā rājaṃś chādyamānau jalāgame 80 tataḥ kruddho raṇe karṇaḥ kṛtvā ghorataraṃ vapuḥ pāṇḍavaṃ chāddayām āsa samantāc charavṛṣṭibhiḥ 81 sacchādyamānaḥ samare sūtaputreṇa pāṇḍavaḥ na cakāra vyathāṃ rājan bhāskaro jaladair yathā 82 tataḥ prahasyādhirathiḥ śarajālāni māriṣa preṣayām āsa samare śataśo 'tha sahasraśaḥ 83 ekac chāyam abhūt sarvaṃ tasya bāṇair mahātmanaḥ abhrac chāyeva saṃjajñe saṃpatadbhiḥ śarottamaiḥ 84 tataḥ karṇo mahārāja dhanuś chittvā mahātmanaḥ sārathiṃ pātayām āsa rathanīḍād dhasann iva 85 tathāśvāṃś caturaś cāsya caturbhir niśitaiḥ śaraiḥ yamasya sadanaṃ tūrṇaṃ preṣayām āsa bhārata 86 athāsya taṃ rathaṃ tūrṇaṃ tilaśo vyadhamac charaiḥ patākāṃ cakrarakṣau ca dhvajaṃ khaḍgaṃ ca māriṣa śatacandraṃ tataś carma sarvopakaraṇāni ca 87 hatāśvo virathaś caiva vivarmā ca viśāṃ pate avatīrya rathāt tūrṇaṃ parighaṃ gṛhya viṣṭhitaḥ 88 tam udyataṃ mahāghoraṃ parighaṃ tasya sūtajaḥ vyahanat sāyakai rājañ śataśo 'tha sahasraśaḥ 89 vyāyudhaṃ cainam ālakṣya śaraiḥ saṃnataparvabhiḥ ārdayad bahuśaḥ karṇo na cainaṃ samapīḍayat 90 sa vadhyamānaḥ samare kṛtāstreṇa balīyasā prādravat sahasā rājan nakulo vyākulendriyaḥ 91 tam abhidrutya rādheyaḥ prahasan vai punaḥ punaḥ sa jyam asya dhanuḥ kaṇṭhe so 'vāsṛjata bhārata 92 tataḥ sa śuśubhe rājan kaṇṭhāsaktamahādhanuḥ pariveṣam anuprāpto yathā syād vyomni candramāḥ yathaiva ca sito meghaḥ śakracāpena śobhitaḥ 93 tam abravīt tadā karṇo vyarthaṃ vyāhṛtavān asi vadedānīṃ punar hṛṣṭo vadhyaṃ māṃ tvaṃ punaḥ punaḥ 94 mā yotsīr gurubhiḥ sārdhaṃ balavadbhiś ca pāṇḍava sadṛśais tāta yudhyasva vrīḍāṃ mā kuru pāṇḍava gṛhaṃ vā gaccha mādreya yatra vā kṛṣṇa phalgunau 95 evam uktvā mahārāja vyasarjayata taṃ tataḥ vadhaprāptaṃ tu taṃ rājan nāvadhīt sūtanandanaḥ smṛtvā kuntyā vaco rājaṃs tata enaṃ vyasarjayat 96 visṛṣṭaḥ pāṇḍavo rājan sūtaputreṇa dhanvinā vrīḍann iva jagāmātha yudhiṣṭhira rathaṃ prati 97 āruroha rathaṃ cāpi sūtaputra pratāpinaḥ niḥśvasan duḥkhasaṃtaptaḥ kumbhe kṣipta ivoragaḥ 98 taṃ visṛjya raṇe karṇaḥ pāñcālāṃs tvarito yayau rathenātipatākena candra varṇahayena ca 99 tatrākrando mahān āsīt pāṇḍavānāṃ viśāṃ pate dṛṣṭvā senāpatiṃ yāntaṃ pāñcālānāṃ rathavrajān 100 tatrākaron mahārāja kadanaṃ sūtanandanaḥ madhyaṃ gate dinakare cakravat pracaran prabhuḥ 101 bhagnacakrai rathaiḥ kec cic channadhvajapatākibhiḥ sasūtair hatasūtaiś ca bhagnākṣaiś caiva māriṣa hriyamāṇān apaśyāma pāñcālānāṃ rathavrajān 102 tatra tatra ca saṃbhrāntā viccerur mattakuñjarāḥ davāgninā parītāṅgā yathaiva syur mahāvane 103 bhinnakumbhā virudhirāś chinnahastāś ca vāraṇāḥ bhinnagātravarāś caiva chinnavālāś ca māriṣa chinnābbhrāṇīva saṃpetur vadhyamānā mahātmanā 104 apare trāsitā nāgā nārācaśatatomaraiḥ tam evābhimukhā yānti śalabhā iva pāvakam 105 apare niṣṭanantaḥ sma vyadṛśyanta mahādvipāḥ kṣarantaḥ śoṇitaṃ gātrair nagā iva jalaplavam 106 uraś chadair vimuktāś ca vālabandhaiś ca vājinaḥ rājataiś ca tathā kāṃsyaiḥ sauvarṇaiś caiva bhūṣaṇaiḥ 107 hīnā āstaraṇaiś caiva khalīnaiś ca vivarjitāḥ cāmaraiś ca kuthābhiś ca tūṇīraiḥ patitair api 108 nihataiḥ sādibhiś caiva śūrair āhavaśobhibhiḥ apaśyāma raṇe tatra bhrāmyamāṇān hayottamān 109 prāsaiḥ khaḍgaiś ca saṃsyūtān ṛṣṭibbhiś ca narādhipa hayayodhān apaśyāma kañcukoṣṇīṣa dhāriṇaḥ 110 rathān hemapariṣkārān suyuktāñ javanair hayaiḥ bhramamāṇān apaśyāma hateṣu rathiṣu drutam 111 bhagnākṣakūbarān kāṃś cic chinnacakrāṃś ca māriṣa vipatākādhvajāṃś cānyāñ chinneṣāyuga bandhurān 112 vihīnān rathinas tatra dhāvamānān samantataḥ sūryaputra śarais trastān apaśyāma viśāṃ pate 113 viśastrāṃś ca tathaivānyān saśastrāṃś ca bahūn hatān tāvakāñ jālasaṃchannān uro ghaṇṭā vibhūṣitān 114 nānāvarṇavicitrābhiḥ patākābhir alaṃkṛtān padātīn anvapaśyāma dhāvamānān samantataḥ 115 śirāṃsi bāhūn ūrūṃś ca chinnān anyāṃs tathā yudhi karṇa cāpa cyutair bāṇair apaśyāma vinākṛtān 116 mahān vyatikaro raudro yodhānām anvadṛśyata karṇa sāyakanunnānāṃ hatānāṃ niśitaiḥ śaraiḥ 117 te vadhyamānāḥ samare sūtaputreṇa sṛñjayāḥ tam evābhimukhā yānti pataṃgā iva pāvakam 118 taṃ dahantam anīkāni tatra tatra mahāratham kṣatriyā varjayām āsur yugāntāgnim ivolbaṇam 119 hataśeṣās tu ye vīrāḥ pāñcālānāṃ mahārathāḥ tān prabhagnān drutān karṇaḥ pṛṣṭhato vikirañ śaraiḥ abhyadhāvata tejasvī viśīrṇakavacadhvajān 120 tāpayām āsa tān bāṇaiḥ sūtaputro mahārathaḥ madhyaṃdinam anuprāpto bhūtānīva tamonudaḥ |
The Mahabharata in Sanskrit
Book 8
Chapter 18
|
1
[स] युयुत्सुं तव पुत्रं तु पराद्रवन्तं महद बलम उलूकॊ ऽभयपतत तूर्णं तिष्ठ तिष्ठेति चाब्रवीत 2 युयुत्सुस तु ततॊ राजञ शितधारेण पत्रिणा उलूकं ताडयाम आस वज्रेणेन्द्र इवाचलम 3 उलूकस तु ततः करुद्धस तव पुत्रस्य संयुगे कषुरप्रेण धनुश छित्त्वा ताडयाम आस कर्णिना 4 तद अपास्य धनुश छिन्नं युयुत्सुर वेगवत्तरम अन्यद आदत्त सुमहच चापं संरक्तलॊचनः 5 शाकुनिं च ततः षष्ट्या विव्याध भरतर्षभ सारथिं तरिभिर आनर्छत तं च भूयॊ वयविध्यत 6 उलूकस तं तु विंशत्या विद्ध्वा हेमविभूषितैः अथास्य समरे करुद्धॊ धवजं चिच्छेद काञ्चनम 7 सच्छिन्नयष्टिः सुमहाञ शीर्यमाणॊ महाध्वजः पपात परमुखे राजन युयुत्सॊः काञ्चनॊज्ज्वलः 8 धवजम उन्मथितं दृष्ट्वा युयुत्सुः करॊधमूर्छितः उलूकं पञ्चभिर बाणैर आजघान सतनान्तरे 9 उलूकस तस्य भल्लेन तैलधौतेन मारिष शिरश चिच्छेद सहसा यन्तुर भरतसत्तम 10 जघान चतुरॊ ऽशवांश च तं च विव्याध पञ्चभिः सॊ ऽतिविद्धॊ बलवता परत्यपायाद रथान्तरम 11 तं निर्जित्य रणे राजन्न उलूकस तवरितॊ ययौ पाञ्चालान सृञ्जयांश चैव विनिघ्नन निशितैः शरैः 12 शतानीकं महाराज शरुतकर्मा सुतस तव वयश्व सूत रथं चक्रे निमेषार्धाद असंभ्रमम 13 हताश्वे तु रथे तिष्ठञ शतानीकॊ महाबलः गदां चिक्षेप संक्रुद्धस तव पुत्रस्य मारिष 14 सा कृत्वा सयन्दनं भस्म हयांश चैव ससारथीन पपात धरणीं तूर्णं दारयन्तीव भारत 15 ताव उभौ विरथॊ वीरौ कुरूणां कीर्तिवर्धनौ अपाक्रमेतां युद्धार्तौ परेक्षमाणौ परस्परम 16 पुत्रस तु तव संभ्रान्तॊ विवित्सॊ रथम आविशत शतानीकॊ ऽपि तवरितः परतिविन्ध्य रथं गतः 17 सुत सॊमस तु शकुनिं विव्याध निशितैः शरैः नाकम्पयत संरब्धॊ वार्यॊघ इव पर्वतम 18 सुत सॊमस तु तं दृष्ट्वा पितुर अत्यन्तवैरिणम शरैर अनेकसाहस्रैश छादयाम आस भारत 19 ताञ शराञ शकुनिस तूर्णं चिच्छेदान्यैः पतत्रिभिः लध्व अस्त्रश चित्रयॊधी च जितकाशी च संयुगे 20 निवार्य समरे चापि शरांस तान निशितैः शरैः आजघान सुसंक्रुद्धः सुत सॊमं तरिभिः शरैः 21 तस्याश्वान केतनं सूतं तिलशॊ वयधमच छरैः सयालस तव महावीर्यस ततस ते चुक्रुशुर जनाः 22 हताश्वॊ विरथश चैव छिन्नधन्वा च मारिष धन्वी धनुर्वरं गृह्य रथाद भूमाव अतिष्ठत वयसृजत सायकांश चैव सवर्णपुङ्खाञ शिलाशितान 23 छादयाम आसुर अथ ते तव सयालस्य तं रथम पतंगानाम इव वराताः शरव्राता महारथम 24 रथॊपस्थान समीक्ष्यापि विव्यथे नैव सौबलः परमृद्नंश च शरांस तांस ताञ शरव्रातैर महायशाः 25 तत्रातुष्यन्त यॊधाश च सिद्धाश चापि दिवि सथिताः सुत सॊमस्य तत कर्म दृष्ट्वाश्रद्धेयम अद्भुतम रथस्थं नृपतिं तं तु पदातिः सन्न अयॊधयत 26 तस्य तीक्ष्णैर महावेगैर भल्लैः संनतपर्वभिः वयहनत कार्मुकं राजा तूणीरं चैव सर्वशः 27 सच्छिन्नधन्वा समरे खड्गम उद्यम्य नानदन वैडूर्यॊत्पल वर्णाभं हस्तिदन्त मय तसरुम 28 भराम्यमाणं ततस तं तु विमलाम्ब्बर वर्चसम कालॊपम ततॊ मेने सुत सॊमस्य धीमतः 29 सॊ ऽचरत सहसा खड्गी मण्डलानि सहस्रशः चतुर्विंशन महाराज शिक्षा बलसमन्वितः 30 सौबलस तु ततस तस्य शरांश चिक्षेप वीर्यवान तान आपतत एवाशु चिच्छेद परमासिना 31 ततः करुद्धॊ महाराज सौबलः परवीरहा पराहिणॊत सुत सॊमस्य शरान आशीविषॊपमान 32 चिच्छेद तांश च खड्गेन शिक्षया च बलेन च दर्शयँल लाघवं युद्धे तार्क्ष्य वीर्यसमद्युतिः 33 तस्य संचरतॊ राजन मण्डलावर्तने तदा कषुरप्रेण सुतीक्ष्णेन खड्गं चिच्छेद सुप्रभम 34 सच्छिन्नः सहसा भूमौ निपपात महान असिः अवशस्य सथितं हस्ते तं खड्गं सत्सरुं तदा 35 छिन्नम आज्ञाय निस्त्रिंशम अवप्लुत्य पदानि षट पराविध्यत ततः शेषं सुत सॊमॊ महारथः 36 सच छित्त्वा सगुणं चापं रणे तस्य महात्मनः पपात धरणीं तूर्णं सवर्णवज्रविभूषितः सुत सॊमस ततॊ ऽगच्छच छरुत कीर्तेर महारथम 37 सौबलॊ ऽपि धनुर गृह्य घॊरम अन्यत सुदुःसहम अभ्ययात पाण्डवानीकं निघ्नञ शत्रुगणान बहून 38 तत्र नादॊ महान आसीत पाण्डवानां विशां पते सौबलं समरे दृष्ट्वा विचरन्तम अभीतवत 39 तान्य अनीकानि दृप्तानि शस्त्रवन्ति महान्ति च दराव्यमाणान्य अदृश्यन्त सौबलेन महात्मना 40 यथा दैत्य चमूं राजन देवराजॊ ममर्द ह तथैव पाण्डवीं सेनां सौबलेयॊ वयनाशयत 41 धृष्टद्युम्नं कृपॊ राजन वारयाम आस संयुगे यथा दृप्तं वने नागं शरभॊ वारयेद युधि 42 निरुद्धः पार्षतस तेन गौतमेन बलीयसा पदात पदं विचलितुं नाशक्नॊत तत्र भारत 43 गौतमस्य वपुर दृष्ट्वा धृष्टद्युम्न रथं परति वित्रेसुः सर्वभूतानि कषयं पराप्तं च मेनिरे 44 तत्रावॊचन विमनसॊ रथिनः सादिनस तथा दरॊणस्य निधने नूनं संक्रुद्धॊ दविपदां वरः 45 शारद्वतॊ महातेजा दिव्यास्त्रविद उदारधीः अपि सवस्ति भवेद अद्य धृष्टद्युम्नस्य गौतमात 46 अपीयं वाहिनी कृत्स्ना मुच्येत महतॊ भयात अप्य अयं बराह्मणः सर्वान न नॊ हन्यात समागतान 47 यादृशं दृश्यते रूपम अन्तकप्रतिमं भृशम गमिष्यत्य अद्य पदवीं भारद्वाजस्य संयुगे 48 आचार्यः कषिप्रहस्तश च विजयी च सदा युधि अस्त्रवान वीर्यसंपन्नः करॊधेन च समन्वितः 49 पार्षतश च भृशं युद्धे विमुखॊ ऽदयापि लक्ष्यते इत्य एवं विविधा वाचस तावकानां परैः सह 50 विनिःश्वस्य ततः करुद्धः कृपः शारद्वतॊ नृप पार्षतं छादयाम आस निश्चेष्टं सर्वमर्मसु 51 स वध्यमानः समरे गौतमेन महात्मना कर्तव्यं न परजानाति मॊहितः परमाहवे 52 तम अब्रवीत ततॊ यन्ता कच चित कषेमं नु पार्षत ईदृशं वयसनं युद्धे न ते दृष्टं कदा चन 53 दैवयॊगात तु ते बाणा नातरन मर्मभेदिनः परेषिता दविजमुख्येन मर्माण्य उद्दिश्य सर्वशः 54 वयावर्तये तत्र रथं नदीवेगम इवार्णवात अवध्यं बराह्मणं मन्ये येन ते विक्रमॊ हतः 55 धृष्टद्युम्नस ततॊ राजञ शनकैर अब्रवीद वचः मुह्यते मे मनस तात गात्रे सवेदश च जायते 56 वेपथुं च शरीरे मे रॊमहर्षं च पश्य वै वर्जयन बराह्मणं युद्धे शनैर याहि यतॊ ऽचयुतः 57 अर्जुनं भीमसेनं वा समरे पराप्य सारथे कषेमम अद्य भवेद यन्तर इति मे नैष्ठिकी मतिः 58 ततः परायान महाराज सारथिस तवरयन हयान यतॊ भीमॊ महेष्वासॊ युयुधे तव सैनिकैः 59 परद्रुतं तु रथं दृष्ट्वा धृष्टद्युम्नस्य मारिष किरञ शरशतान्य एव गौतमॊ ऽनुययौ तदा 60 शङ्खं च पूरयाम आस मुहुर मुहुर अरिंदमः पार्षतं पराद्रवद यन्तं महेन्द्र इव शम्बरम 61 शिखण्डिनं तु समरे भीष्ममृत्युं दुरासदम हार्दिक्यॊ वारयाम आस समयन्न इव मुहुर मुहुः 62 शिखण्डी च समासाद्य हृदिकानां महारथम पञ्चभिर निशितैर भल्लैर जत्रु देशे समार्दयत 63 कृतवर्मा तु संक्रुद्धॊ भित्त्वा षष्टिभिर आशुगैः धनुर एकेन चिच्छेद हसन राजन महारथः 64 अथान्यद धनुर आदाय दरुपदस्यात्मजॊ बली तिष्ठ तिष्ठेति संक्रुद्धॊ हार्दिक्यं परत्यभाषत 65 ततॊ ऽसय नवतिं बाणान रुक्मपुङ्खान सुतेजनान परेषयाम आस राजेन्द्र ते ऽसयाभ्रश्यन्त वर्मणः 66 वितथांस तान समालक्ष्य पतितांश च महीतले कषुरप्रेण सुतीक्ष्णेन कार्मुकं चिच्छिदे बली 67 अथैनं छिन्नधन्वानं भग्नशृङ्गम इवर्षभम अशीत्या मार्गणैः करुद्धॊ बाह्वॊर उरसि चार्दयत 68 कृतवर्मा तु संक्रुद्धॊ मार्गणैः कृतविक्षतः धनुर अन्यत समादाय समार्गण गणं परभॊ शिखण्डिनं बाणवरैः सकन्धदेशे ऽभयताडयत 69 सकन्धदेशे सथितैर बाणैः शिखण्डी च रराज ह शाखा परतानैर विमलैः सुमहान स यथा दरुमः 70 ताव अन्यॊन्यं भृशं विद्ध्वा रुधिरेण समुक्षितौ अन्यॊन्यशृङ्गाभिहतौ रेजतुर वृषभाव इव 71 अन्यॊन्यस्य वधे यत्नं कुर्वाणौ तौ महारथौ रथाभ्यां चेरतुस तत्र मण्डलानि सहस्रशः 72 कृतवर्मा महाराज पार्षतं निशितैः शरैः रणे विव्याध सप्तत्या सवर्णपुङ्खैः शिलाशितैः 73 ततॊ ऽसय समरे बाणं भॊजः परहरतां वरः जीवितान्तकरं घॊरं वयसृजत तवरयान्वितः 74 स तेनाभिहतॊ राजन मूर्छाम आशु समाविशत धवजयष्टिं च सहसा शिश्रिये कश्मलावृतः 75 अपॊवाह रणात तं तु सारथी रथिनां वरम हार्दिक्य शरसंतप्तं निःश्वसन्तं पुनः पुनः 76 पराजिते ततः शूरे दरुपदस्य सुते परभॊ पराद्रवत पाण्डवी सेना वध्यमाना समन्ततः |
1
[s] yuyutsuṃ tava putraṃ tu prādravantaṃ mahad balam ulūko 'bhyapatat tūrṇaṃ tiṣṭha tiṣṭheti cābravīt 2 yuyutsus tu tato rājañ śitadhāreṇa patriṇā ulūkaṃ tāḍayām āsa vajreṇendra ivācalam 3 ulūkas tu tataḥ kruddhas tava putrasya saṃyuge kṣurapreṇa dhanuś chittvā tāḍayām āsa karṇinā 4 tad apāsya dhanuś chinnaṃ yuyutsur vegavattaram anyad ādatta sumahac cāpaṃ saṃraktalocanaḥ 5 śākuniṃ ca tataḥ ṣaṣṭyā vivyādha bharatarṣabha sārathiṃ tribhir ānarchat taṃ ca bhūyo vyavidhyata 6 ulūkas taṃ tu viṃśatyā viddhvā hemavibhūṣitaiḥ athāsya samare kruddho dhvajaṃ ciccheda kāñcanam 7 sacchinnayaṣṭiḥ sumahāñ śīryamāṇo mahādhvajaḥ papāta pramukhe rājan yuyutsoḥ kāñcanojjvalaḥ 8 dhvajam unmathitaṃ dṛṣṭvā yuyutsuḥ krodhamūrchitaḥ ulūkaṃ pañcabhir bāṇair ājaghāna stanāntare 9 ulūkas tasya bhallena tailadhautena māriṣa śiraś ciccheda sahasā yantur bharatasattama 10 jaghāna caturo 'śvāṃś ca taṃ ca vivyādha pañcabhiḥ so 'tividdho balavatā pratyapāyād rathāntaram 11 taṃ nirjitya raṇe rājann ulūkas tvarito yayau pāñcālān sṛñjayāṃś caiva vinighnan niśitaiḥ śaraiḥ 12 śatānīkaṃ mahārāja śrutakarmā sutas tava vyaśva sūta rathaṃ cakre nimeṣārdhād asaṃbhramam 13 hatāśve tu rathe tiṣṭhañ śatānīko mahābalaḥ gadāṃ cikṣepa saṃkruddhas tava putrasya māriṣa 14 sā kṛtvā syandanaṃ bhasma hayāṃś caiva sasārathīn papāta dharaṇīṃ tūrṇaṃ dārayantīva bhārata 15 tāv ubhau viratho vīrau kurūṇāṃ kīrtivardhanau apākrametāṃ yuddhārtau prekṣamāṇau parasparam 16 putras tu tava saṃbhrānto vivitso ratham āviśat śatānīko 'pi tvaritaḥ prativindhya rathaṃ gataḥ 17 suta somas tu śakuniṃ vivyādha niśitaiḥ śaraiḥ nākampayata saṃrabdho vāryogha iva parvatam 18 suta somas tu taṃ dṛṣṭvā pitur atyantavairiṇam śarair anekasāhasraiś chādayām āsa bhārata 19 tāñ śarāñ śakunis tūrṇaṃ cicchedānyaiḥ patatribhiḥ ladhv astraś citrayodhī ca jitakāśī ca saṃyuge 20 nivārya samare cāpi śarāṃs tān niśitaiḥ śaraiḥ ājaghāna susaṃkruddhaḥ suta somaṃ tribhiḥ śaraiḥ 21 tasyāśvān ketanaṃ sūtaṃ tilaśo vyadhamac charaiḥ syālas tava mahāvīryas tatas te cukruśur janāḥ 22 hatāśvo virathaś caiva chinnadhanvā ca māriṣa dhanvī dhanurvaraṃ gṛhya rathād bhūmāv atiṣṭhata vyasṛjat sāyakāṃś caiva svarṇapuṅkhāñ śilāśitān 23 chādayām āsur atha te tava syālasya taṃ ratham pataṃgānām iva vrātāḥ śaravrātā mahāratham 24 rathopasthān samīkṣyāpi vivyathe naiva saubalaḥ pramṛdnaṃś ca śarāṃs tāṃs tāñ śaravrātair mahāyaśāḥ 25 tatrātuṣyanta yodhāś ca siddhāś cāpi divi sthitāḥ suta somasya tat karma dṛṣṭvāśraddheyam adbhutam rathasthaṃ nṛpatiṃ taṃ tu padātiḥ sann ayodhayat 26 tasya tīkṣṇair mahāvegair bhallaiḥ saṃnataparvabhiḥ vyahanat kārmukaṃ rājā tūṇīraṃ caiva sarvaśaḥ 27 sacchinnadhanvā samare khaḍgam udyamya nānadan vaiḍūryotpala varṇābhaṃ hastidanta maya tsarum 28 bhrāmyamāṇaṃ tatas taṃ tu vimalāmbbara varcasam kālopama tato mene suta somasya dhīmataḥ 29 so 'carat sahasā khaḍgī maṇḍalāni sahasraśaḥ caturviṃśan mahārāja śikṣā balasamanvitaḥ 30 saubalas tu tatas tasya śarāṃś cikṣepa vīryavān tān āpatata evāśu ciccheda paramāsinā 31 tataḥ kruddho mahārāja saubalaḥ paravīrahā prāhiṇot suta somasya śarān āśīviṣopamān 32 ciccheda tāṃś ca khaḍgena śikṣayā ca balena ca darśayaṁl lāghavaṃ yuddhe tārkṣya vīryasamadyutiḥ 33 tasya saṃcarato rājan maṇḍalāvartane tadā kṣurapreṇa sutīkṣṇena khaḍgaṃ ciccheda suprabham 34 sacchinnaḥ sahasā bhūmau nipapāta mahān asiḥ avaśasya sthitaṃ haste taṃ khaḍgaṃ satsaruṃ tadā 35 chinnam ājñāya nistriṃśam avaplutya padāni ṣaṭ prāvidhyata tataḥ śeṣaṃ suta somo mahārathaḥ 36 sac chittvā saguṇaṃ cāpaṃ raṇe tasya mahātmanaḥ papāta dharaṇīṃ tūrṇaṃ svarṇavajravibhūṣitaḥ suta somas tato 'gacchac chruta kīrter mahāratham 37 saubalo 'pi dhanur gṛhya ghoram anyat suduḥsaham abhyayāt pāṇḍavānīkaṃ nighnañ śatrugaṇān bahūn 38 tatra nādo mahān āsīt pāṇḍavānāṃ viśāṃ pate saubalaṃ samare dṛṣṭvā vicarantam abhītavat 39 tāny anīkāni dṛptāni śastravanti mahānti ca drāvyamāṇāny adṛśyanta saubalena mahātmanā 40 yathā daitya camūṃ rājan devarājo mamarda ha tathaiva pāṇḍavīṃ senāṃ saubaleyo vyanāśayat 41 dhṛṣṭadyumnaṃ kṛpo rājan vārayām āsa saṃyuge yathā dṛptaṃ vane nāgaṃ śarabho vārayed yudhi 42 niruddhaḥ pārṣatas tena gautamena balīyasā padāt padaṃ vicalituṃ nāśaknot tatra bhārata 43 gautamasya vapur dṛṣṭvā dhṛṣṭadyumna rathaṃ prati vitresuḥ sarvabhūtāni kṣayaṃ prāptaṃ ca menire 44 tatrāvocan vimanaso rathinaḥ sādinas tathā droṇasya nidhane nūnaṃ saṃkruddho dvipadāṃ varaḥ 45 śāradvato mahātejā divyāstravid udāradhīḥ api svasti bhaved adya dhṛṣṭadyumnasya gautamāt 46 apīyaṃ vāhinī kṛtsnā mucyeta mahato bhayāt apy ayaṃ brāhmaṇaḥ sarvān na no hanyāt samāgatān 47 yādṛśaṃ dṛśyate rūpam antakapratimaṃ bhṛśam gamiṣyaty adya padavīṃ bhāradvājasya saṃyuge 48 ācāryaḥ kṣiprahastaś ca vijayī ca sadā yudhi astravān vīryasaṃpannaḥ krodhena ca samanvitaḥ 49 pārṣataś ca bhṛśaṃ yuddhe vimukho 'dyāpi lakṣyate ity evaṃ vividhā vācas tāvakānāṃ paraiḥ saha 50 viniḥśvasya tataḥ kruddhaḥ kṛpaḥ śāradvato nṛpa pārṣataṃ chādayām āsa niśceṣṭaṃ sarvamarmasu 51 sa vadhyamānaḥ samare gautamena mahātmanā kartavyaṃ na prajānāti mohitaḥ paramāhave 52 tam abravīt tato yantā kac cit kṣemaṃ nu pārṣata īdṛśaṃ vyasanaṃ yuddhe na te dṛṣṭaṃ kadā cana 53 daivayogāt tu te bāṇā nātaran marmabhedinaḥ preṣitā dvijamukhyena marmāṇy uddiśya sarvaśaḥ 54 vyāvartaye tatra rathaṃ nadīvegam ivārṇavāt avadhyaṃ brāhmaṇaṃ manye yena te vikramo hataḥ 55 dhṛṣṭadyumnas tato rājañ śanakair abravīd vacaḥ muhyate me manas tāta gātre svedaś ca jāyate 56 vepathuṃ ca śarīre me romaharṣaṃ ca paśya vai varjayan brāhmaṇaṃ yuddhe śanair yāhi yato 'cyutaḥ 57 arjunaṃ bhīmasenaṃ vā samare prāpya sārathe kṣemam adya bhaved yantar iti me naiṣṭhikī matiḥ 58 tataḥ prāyān mahārāja sārathis tvarayan hayān yato bhīmo maheṣvāso yuyudhe tava sainikaiḥ 59 pradrutaṃ tu rathaṃ dṛṣṭvā dhṛṣṭadyumnasya māriṣa kirañ śaraśatāny eva gautamo 'nuyayau tadā 60 śaṅkhaṃ ca pūrayām āsa muhur muhur ariṃdamaḥ pārṣataṃ prādravad yantaṃ mahendra iva śambaram 61 śikhaṇḍinaṃ tu samare bhīṣmamṛtyuṃ durāsadam hārdikyo vārayām āsa smayann iva muhur muhuḥ 62 śikhaṇḍī ca samāsādya hṛdikānāṃ mahāratham pañcabhir niśitair bhallair jatru deśe samārdayat 63 kṛtavarmā tu saṃkruddho bhittvā ṣaṣṭibhir āśugaiḥ dhanur ekena ciccheda hasan rājan mahārathaḥ 64 athānyad dhanur ādāya drupadasyātmajo balī tiṣṭha tiṣṭheti saṃkruddho hārdikyaṃ pratyabhāṣata 65 tato 'sya navatiṃ bāṇān rukmapuṅkhān sutejanān preṣayām āsa rājendra te 'syābhraśyanta varmaṇaḥ 66 vitathāṃs tān samālakṣya patitāṃś ca mahītale kṣurapreṇa sutīkṣṇena kārmukaṃ cicchide balī 67 athainaṃ chinnadhanvānaṃ bhagnaśṛṅgam ivarṣabham aśītyā mārgaṇaiḥ kruddho bāhvor urasi cārdayat 68 kṛtavarmā tu saṃkruddho mārgaṇaiḥ kṛtavikṣataḥ dhanur anyat samādāya samārgaṇa gaṇaṃ prabho śikhaṇḍinaṃ bāṇavaraiḥ skandhadeśe 'bhyatāḍayat 69 skandhadeśe sthitair bāṇaiḥ śikhaṇḍī ca rarāja ha śākhā pratānair vimalaiḥ sumahān sa yathā drumaḥ 70 tāv anyonyaṃ bhṛśaṃ viddhvā rudhireṇa samukṣitau anyonyaśṛṅgābhihatau rejatur vṛṣabhāv iva 71 anyonyasya vadhe yatnaṃ kurvāṇau tau mahārathau rathābhyāṃ ceratus tatra maṇḍalāni sahasraśaḥ 72 kṛtavarmā mahārāja pārṣataṃ niśitaiḥ śaraiḥ raṇe vivyādha saptatyā svarṇapuṅkhaiḥ śilāśitaiḥ 73 tato 'sya samare bāṇaṃ bhojaḥ praharatāṃ varaḥ jīvitāntakaraṃ ghoraṃ vyasṛjat tvarayānvitaḥ 74 sa tenābhihato rājan mūrchām āśu samāviśat dhvajayaṣṭiṃ ca sahasā śiśriye kaśmalāvṛtaḥ 75 apovāha raṇāt taṃ tu sārathī rathināṃ varam hārdikya śarasaṃtaptaṃ niḥśvasantaṃ punaḥ punaḥ 76 parājite tataḥ śūre drupadasya sute prabho prādravat pāṇḍavī senā vadhyamānā samantataḥ |
The Mahabharata in Sanskrit
Book 8
Chapter 19
|
1
[स] शवेताश्वॊ ऽपि महाराज वयधमत तावकं बलम यथा वायुः समासाद्य तूला राशिं समन्ततः 2 परत्युद्ययुस तरिगर्तास तं शिबयः कौरवैः सह शाल्वाः संशप्तकाश चैव नारायण बलं च यत 3 सत्यसेनः सत्यकीर्तिर मित्र देवः शरुतं जयः सौश्रुतिश चित्रसेनश च मित्र वर्मा च भारत 4 तरिगर्तराजः समरे भरातृभिः परिवारितः पुत्रैश चैव महेष्वासैर नानाशस्त्रधरैर युधि 5 ते सृजन्तः शरव्रातान किरन्तॊ ऽरजुनम आहवे अभ्यद्रवन्त समरे वार्यॊघा इव सागरम 6 ते तव अर्जुनं समासाद्य यॊधाः शतसहस्रशः अगच्छन विलयं सर्वे तार्क्ष्यं दृष्ट्वेव पन्नगाः 7 ते वध्यमानाः समरे नाजहुः पाण्डवं तदा दह्यमाना यथा राजञ शलभा इव पावकम 8 सत्यसेनस तरिभिर बाणैर विव्याध युधि पाण्डवम मित्र देवस तरिषष्ट्या च चन्द्र देवश च सप्तभिः 9 मित्र वर्मा तरिसप्तत्या सौश्रुतिश चापि पञ्चभिः शत्रुंजयश च विंशत्या सुशर्मा नवभिः शरैः 10 शत्रुंजयं च राजानं हत्वा तत्र शिलाशितैः सौश्रुतेः सशिरस्त्राणं शिरः कायाद अपाहरत तवरितश चन्द्र देवं च शरैर निन्ये यमक्षयम 11 अथेतरान महाराज यतमानान महारथान पञ्चभिः पञ्चभिर बाणैर एकैकं परत्यवारयत 12 सत्यसेनस तु संक्रुद्धस तॊमरं वयसृजन महत समुद्दिश्य रणे कृष्णं सिंहनादं ननाद च 13 स निर्भिद्य भुजं सव्यं माधवस्य महात्मनः अयॊ मयॊ महाचण्डॊ जगाम धरणीं तदा 14 माधवस्य तु विद्धस्य तॊमरेण महारणे परतॊदः परापतद धस्ताद रश्मयश च विशां पते 15 स परतॊदं पुनर गृह्य रश्मींश चैव महायशाः वाहयाम आस तान अश्वान सत्यसेनरथं परति 16 विष्वक्सेनं तु निर्भिन्नं परेक्ष्य पार्थॊ धनंजयः सत्यसेनं शरैस तीक्ष्णैर दारयित्वा महाबलः 17 ततः सुनिशितैर बाणै राज्ञस तस्य महच छिरः कुण्डलॊपचितं कायाच चकर्त पृतनान्तरे 18 तं निहत्य शितैर बाणैर मित्र वर्माणम आक्षिपत वत्सदन्तेन तीक्ष्णेन सारथिं चास्य मारिष 19 ततः शरशतैर भूयः संशप्तक गणान वशी पातयाम आस संक्रुद्धः शतशॊ ऽथ सहस्रशः 20 ततॊ रजतपुङ्खेन राज्ञः शीर्षं महात्मनः मित्र देवस्य चिच्छेद कषुरप्रेण महायशाः सुशर्माणं च संक्रुद्धॊ जत्रु देशे समार्दयत 21 ततः संशप्तकाः सर्वे परिवार्य धनंजयम शस्त्रौघैर ममृदुः करुद्धा नादयन्तॊ दिशॊ दश 22 अभ्यर्दितस तु तैर जिष्णुः शक्रतुल्यपराक्रमः ऐन्द्रम अस्त्रम अमेयात्मा परादुश्चक्रे महारथः ततः शरसहस्राणि परादुरासन विशां पते 23 धवजानां छिद्यमानानां कार्मुकाणां च संयुगे रथानां सपताकानां तूणीराणां शरैः सह 24 अक्षाणाम अथ यॊक्त्राणां चक्राणां रश्मिभिः सह कूबराणां वरूथानां पृषत्कानां च संयुगे 25 अश्मनां पततां चैव परासानाम ऋष्टिभिः सह गदानां परिघाणां च शक्तीनां तॊमरैः सह 26 शतघ्नीनां सचक्राणां भुजानाम ऊरुभिः सह कण्ठसूत्राङ्गदानां च केयूराणां च मारिष 27 हराणाम अथ निष्काणां तनुत्राणां च भारत छत्राणां वयजनानां च शिरसां मुकुटैः सह अश्रूयत महाञ शब्दस तत्र तत्र विशां पते 28 सकुण्डलानि सवक्षीणि पूर्णचन्द्र निभानि च शिरांस्य उर्व्याम अदृश्यन्त तारागण इवाम्बरे 29 सुस्रग्वीणि सुवासांसि चन्दनेनॊक्षितानि च शरीराणि वयदृश्यन्त हतानां च महीतले गन्धर्वनगराकारं घॊरम आयॊधनं तदा 30 निहतै राजपुत्रैश च कषत्रियैश च महाबलैः हस्तिभिः पतितैश चैव तुरगैश चाभवन मही अगम्यमार्गा समरे विशीर्णैर इव पर्वतैः 31 नासीच चक्रपथश चैव पाण्डवस्य महात्मनः निघ्नतः शात्रवान भल्लैर हस्त्यश्वं चामितम महत 32 आ तुम्बाद अवसीदन्ति रथचक्राणि मारिष रणे विचरतस तस्य तस्मिँल लॊहितकर्दमे 33 सीदमानानि चक्राणि समूहुस तुरगा भृशम शरमेण महता युक्ता मनॊमारुतरंहसः 34 वध्यमानं तु तत सैन्यं पाण्डुपुत्रेण धन्विना परायशॊ विमुखं सर्वं नावतिष्ठत संयुगे 35 ताञ जित्वा समरे जिष्णुः संशप्तक गणान बहून रराज स महाराज विधूमॊ ऽगनिर इव जवलन 36 युधिष्ठिरं महाराज विसृजन्तं शरान बहून सवयं दुर्यॊधनॊ राजा परत्यगृह्णाद अभीतवत 37 तम आपतन्तं सहसा तव पुत्रं महाबलम धर्मराजॊ दरुतं विद्ध्वा तिष्ठ तिष्ठेति चाब्रवीत 38 सा च तं परतिविव्याध नवभिर निशितैः शरैः सारथिं चास्य भल्लेन भृशं करुद्धॊ ऽभयताडयत 39 ततॊ युधिष्ठिरॊ राजा हेमपुङ्खाञ शिलीमुखान दुर्यॊधनाय चिक्षेप तरयॊदश शिलाशितान 40 चतुर्भिश चतुरॊ वाहांस तस्य हत्वा महारथः पञ्चमेन शिरः कायात सारथेस तु समाक्षिपत 41 षष्ठेन च धवजं राज्ञः सप्तमेन च कार्मुकम अष्टमेन तथा खड्गं पातयाम आस भूतले पञ्चभिर नृपतिं चापि धर्मराजॊ ऽरदयद भृशम 42 हताश्वात तु रथात तस्माद अवप्लुत्य सुतस तव उत्तमं वयसनं पराप्तॊ भूमाव एव वयतिष्ठत 43 तं तु कृच्छ्रगतं दृष्ट्वा कर्ण दरौणिकृपादयः अभ्यवर्तन्त सहिताः परीप्सन्तॊ नराधिपम 44 अथ पाण्डुसुताः सर्वे परिवार्य युधिष्ठिरम अभ्ययुः समरे राजंस ततॊ युद्धम अवर्तत 45 अथ तूर्यसहस्राणि परावाद्यन्त महामृधे कष्वेडाः किललिला शब्दाः परादुरासन महीपते यद अभ्यगच्छन समरे पाञ्चालाः कौरवैः सह 46 नरा नरैः समाजग्मुर वारणा वरवारणैः रथाश च रथिभिः सार्धं हयाश च हयसादिभिः 47 दवंद्वान्य आसन महाराज परेक्षणीयानि संयुगे विस्मापनान्य अचिन्त्यानि शस्त्रवन्त्य उत्तमानि च 48 अयुध्यन्त महावेगाः परस्परवधैषिणः अन्यॊन्यं समरे जघ्नुर यॊधव्रतम अनुष्ठिताः न हि ते समरं चक्रुः पृष्ठतॊ वै कथं चन 49 मुहूर्तम एव तद युद्धम आसीन मधुरदर्शनम तत उन्मत्तवद राजन निर्मर्यादम अवर्तत 50 रथी नागं समासाद्य विचरन रणमूर्धनि परेषयाम आस कालाय शरैः संनतपर्वभिः 51 नागा हयान समासाद्य विक्षिपन्तॊ बहून अथ दरावयाम आसुर अत्युग्रास तत्र तत्र तदा तदा 52 विद्राव्य च बहून अश्वान नागा राजन बलॊत्कटाः विषाणैश चापरे जघ्नुर ममृदुश चापरे भृशम 53 साश्वारॊहांश च तुरगान विषाणैर बिभिदू रणे अपरांश चिक्षिपुर वेगात परगृह्यातिबलास तथा 54 पादातैर आहता नागा विवरेषु समन्ततः चक्रुर आर्तस्वरं घॊरं वयद्रवन्त दिशॊ दश 55 पदातीनां तु सहसा परद्रुतानां महामृधे उत्सृज्याभरणं तूर्णम अवप्लुत्य रणाजिरे 56 निमित्तं मन्यमानास तु परिणम्य महागजाः जगृहुर बिभिदुश चैव चित्राण्य आभरणानि च 57 परतिमानेषु कुम्भेषु दन्तवेष्टेषु चापरे निगृहीता भृशं नागाः परासतॊमर शक्तिभिः 58 निगृह्य च गदाः के चित पार्श्वस्थैर भृशदारुणैः रथाश्वसादिभिस तत्र संभिन्ना नयपतन भुवि 59 सरथं सादिनं तत्र अपरे तु महागजाः भूमाव अमृद्नन वेगेन सवर्माणं पताकिनम 60 रथं नागाः समासाद्य धुरि गृह्य च मारिष वयाक्षिपन सहसा तत्र घॊररूपे महामृधे 61 नाराचैर निहतश चापि निपपात महागजः पर्वतस्येव शिखरं वज्रभग्नं महीतले 62 यॊधा यॊधान समासाद्य मुष्टिभिर वयहनन युधि केशेष्व अन्यॊन्यम आक्षिप्य चिच्छिदुर बिभिदुः सह 63 उद्यम्य च भुजाव अन्यॊ निक्षिप्य च महीतले पदा चॊरः समाक्रम्य सफुरतॊ वयहनच छिरः 64 मृतम अन्यॊ महाराज पद्भ्यां ताडितवांस तदा जीवतश च तथैवान्यः शस्त्रं काये नयमज्जयत 65 मुष्टियुद्धं महच चासीद यॊधानां तत्र भारत तथा केशग्रहश चॊग्रॊ बाहुयुद्धं च केवलम 66 समासक्तस्य चान्येन अविज्ञातस तथापरः जहार समरे पराणान नानाशस्त्रैर अनेकधा 67 संसक्तेषु च यॊधेषु वर्तमाने च संकुले कबन्धान्य उत्थितानि सम शतशॊ ऽथ सहस्रशः 68 लॊहितैः सिच्यमानानि शस्त्राणि कवचानि च महारङ्गानुरक्तानि वस्त्राणीव चकाशिरे 69 एवम एतन महायुद्धं दारुणं भृशसंकुलम उन्मत्तरङ्गप्रतिमं शब्देनापूरयज जगत 70 नैव सवे न परे राजन विज्ञायन्ते शरातुराः यॊद्धव्यम इति युध्यन्ते राजानॊ जय गृद्धिनः 71 सवान सवे जघ्नुर महाराज परांश चैव समागतान उभयॊः सेनयॊर वीरैर वयाकुलं समपद्यत 72 रथैर भग्नैर महाराज वारणैश च निपातितैः हयैश च पतितैस तत्र नरैश च विनिपातितैः 73 अगम्यरूपा पृथिवी मांसशॊणितकर्दमा कषणेनासीन महाराज कषतजौघप्रवर्तिनी 74 पाञ्चालान अवधीत कर्णस तरिगर्तांश च धनंजयः भीमसेनः कुरून राजन हस्त्यनीकं च सर्वशः 75 एवम एष कषयॊ वृत्तः कुरुपाण्डवसेनयॊः अपराह्णे महाराज काङ्क्षन्त्यॊर विपुलं जयम |
1
[s] śvetāśvo 'pi mahārāja vyadhamat tāvakaṃ balam yathā vāyuḥ samāsādya tūlā rāśiṃ samantataḥ 2 pratyudyayus trigartās taṃ śibayaḥ kauravaiḥ saha śālvāḥ saṃśaptakāś caiva nārāyaṇa balaṃ ca yat 3 satyasenaḥ satyakīrtir mitra devaḥ śrutaṃ jayaḥ sauśrutiś citrasenaś ca mitra varmā ca bhārata 4 trigartarājaḥ samare bhrātṛbhiḥ parivāritaḥ putraiś caiva maheṣvāsair nānāśastradharair yudhi 5 te sṛjantaḥ śaravrātān kiranto 'rjunam āhave abhyadravanta samare vāryoghā iva sāgaram 6 te tv arjunaṃ samāsādya yodhāḥ śatasahasraśaḥ agacchan vilayaṃ sarve tārkṣyaṃ dṛṣṭveva pannagāḥ 7 te vadhyamānāḥ samare nājahuḥ pāṇḍavaṃ tadā dahyamānā yathā rājañ śalabhā iva pāvakam 8 satyasenas tribhir bāṇair vivyādha yudhi pāṇḍavam mitra devas triṣaṣṭyā ca candra devaś ca saptabhiḥ 9 mitra varmā trisaptatyā sauśrutiś cāpi pañcabhiḥ śatruṃjayaś ca viṃśatyā suśarmā navabhiḥ śaraiḥ 10 śatruṃjayaṃ ca rājānaṃ hatvā tatra śilāśitaiḥ sauśruteḥ saśirastrāṇaṃ śiraḥ kāyād apāharat tvaritaś candra devaṃ ca śarair ninye yamakṣayam 11 athetarān mahārāja yatamānān mahārathān pañcabhiḥ pañcabhir bāṇair ekaikaṃ pratyavārayat 12 satyasenas tu saṃkruddhas tomaraṃ vyasṛjan mahat samuddiśya raṇe kṛṣṇaṃ siṃhanādaṃ nanāda ca 13 sa nirbhidya bhujaṃ savyaṃ mādhavasya mahātmanaḥ ayo mayo mahācaṇḍo jagāma dharaṇīṃ tadā 14 mādhavasya tu viddhasya tomareṇa mahāraṇe pratodaḥ prāpatad dhastād raśmayaś ca viśāṃ pate 15 sa pratodaṃ punar gṛhya raśmīṃś caiva mahāyaśāḥ vāhayām āsa tān aśvān satyasenarathaṃ prati 16 viṣvaksenaṃ tu nirbhinnaṃ prekṣya pārtho dhanaṃjayaḥ satyasenaṃ śarais tīkṣṇair dārayitvā mahābalaḥ 17 tataḥ suniśitair bāṇai rājñas tasya mahac chiraḥ kuṇḍalopacitaṃ kāyāc cakarta pṛtanāntare 18 taṃ nihatya śitair bāṇair mitra varmāṇam ākṣipat vatsadantena tīkṣṇena sārathiṃ cāsya māriṣa 19 tataḥ śaraśatair bhūyaḥ saṃśaptaka gaṇān vaśī pātayām āsa saṃkruddhaḥ śataśo 'tha sahasraśaḥ 20 tato rajatapuṅkhena rājñaḥ śīrṣaṃ mahātmanaḥ mitra devasya ciccheda kṣurapreṇa mahāyaśāḥ suśarmāṇaṃ ca saṃkruddho jatru deśe samārdayat 21 tataḥ saṃśaptakāḥ sarve parivārya dhanaṃjayam śastraughair mamṛduḥ kruddhā nādayanto diśo daśa 22 abhyarditas tu tair jiṣṇuḥ śakratulyaparākramaḥ aindram astram ameyātmā prāduścakre mahārathaḥ tataḥ śarasahasrāṇi prādurāsan viśāṃ pate 23 dhvajānāṃ chidyamānānāṃ kārmukāṇāṃ ca saṃyuge rathānāṃ sapatākānāṃ tūṇīrāṇāṃ śaraiḥ saha 24 akṣāṇām atha yoktrāṇāṃ cakrāṇāṃ raśmibhiḥ saha kūbarāṇāṃ varūthānāṃ pṛṣatkānāṃ ca saṃyuge 25 aśmanāṃ patatāṃ caiva prāsānām ṛṣṭibhiḥ saha gadānāṃ parighāṇāṃ ca śaktīnāṃ tomaraiḥ saha 26 śataghnīnāṃ sacakrāṇāṃ bhujānām ūrubhiḥ saha kaṇṭhasūtrāṅgadānāṃ ca keyūrāṇāṃ ca māriṣa 27 harāṇām atha niṣkāṇāṃ tanutrāṇāṃ ca bhārata chatrāṇāṃ vyajanānāṃ ca śirasāṃ mukuṭaiḥ saha aśrūyata mahāñ śabdas tatra tatra viśāṃ pate 28 sakuṇḍalāni svakṣīṇi pūrṇacandra nibhāni ca śirāṃsy urvyām adṛśyanta tārāgaṇa ivāmbare 29 susragvīṇi suvāsāṃsi candanenokṣitāni ca śarīrāṇi vyadṛśyanta hatānāṃ ca mahītale gandharvanagarākāraṃ ghoram āyodhanaṃ tadā 30 nihatai rājaputraiś ca kṣatriyaiś ca mahābalaiḥ hastibhiḥ patitaiś caiva turagaiś cābhavan mahī agamyamārgā samare viśīrṇair iva parvataiḥ 31 nāsīc cakrapathaś caiva pāṇḍavasya mahātmanaḥ nighnataḥ śātravān bhallair hastyaśvaṃ cāmitam mahat 32 ā tumbād avasīdanti rathacakrāṇi māriṣa raṇe vicaratas tasya tasmiṁl lohitakardame 33 sīdamānāni cakrāṇi samūhus turagā bhṛśam śrameṇa mahatā yuktā manomārutaraṃhasaḥ 34 vadhyamānaṃ tu tat sainyaṃ pāṇḍuputreṇa dhanvinā prāyaśo vimukhaṃ sarvaṃ nāvatiṣṭhata saṃyuge 35 tāñ jitvā samare jiṣṇuḥ saṃśaptaka gaṇān bahūn rarāja sa mahārāja vidhūmo 'gnir iva jvalan 36 yudhiṣṭhiraṃ mahārāja visṛjantaṃ śarān bahūn svayaṃ duryodhano rājā pratyagṛhṇād abhītavat 37 tam āpatantaṃ sahasā tava putraṃ mahābalam dharmarājo drutaṃ viddhvā tiṣṭha tiṣṭheti cābravīt 38 sā ca taṃ prativivyādha navabhir niśitaiḥ śaraiḥ sārathiṃ cāsya bhallena bhṛśaṃ kruddho 'bhyatāḍayat 39 tato yudhiṣṭhiro rājā hemapuṅkhāñ śilīmukhān duryodhanāya cikṣepa trayodaśa śilāśitān 40 caturbhiś caturo vāhāṃs tasya hatvā mahārathaḥ pañcamena śiraḥ kāyāt sārathes tu samākṣipat 41 ṣaṣṭhena ca dhvajaṃ rājñaḥ saptamena ca kārmukam aṣṭamena tathā khaḍgaṃ pātayām āsa bhūtale pañcabhir nṛpatiṃ cāpi dharmarājo 'rdayad bhṛśam 42 hatāśvāt tu rathāt tasmād avaplutya sutas tava uttamaṃ vyasanaṃ prāpto bhūmāv eva vyatiṣṭhata 43 taṃ tu kṛcchragataṃ dṛṣṭvā karṇa drauṇikṛpādayaḥ abhyavartanta sahitāḥ parīpsanto narādhipam 44 atha pāṇḍusutāḥ sarve parivārya yudhiṣṭhiram abhyayuḥ samare rājaṃs tato yuddham avartata 45 atha tūryasahasrāṇi prāvādyanta mahāmṛdhe kṣveḍāḥ kilalilā śabdāḥ prādurāsan mahīpate yad abhyagacchan samare pāñcālāḥ kauravaiḥ saha 46 narā naraiḥ samājagmur vāraṇā varavāraṇaiḥ rathāś ca rathibhiḥ sārdhaṃ hayāś ca hayasādibhiḥ 47 dvaṃdvāny āsan mahārāja prekṣaṇīyāni saṃyuge vismāpanāny acintyāni śastravanty uttamāni ca 48 ayudhyanta mahāvegāḥ parasparavadhaiṣiṇaḥ anyonyaṃ samare jaghnur yodhavratam anuṣṭhitāḥ na hi te samaraṃ cakruḥ pṛṣṭhato vai kathaṃ cana 49 muhūrtam eva tad yuddham āsīn madhuradarśanam tata unmattavad rājan nirmaryādam avartata 50 rathī nāgaṃ samāsādya vicaran raṇamūrdhani preṣayām āsa kālāya śaraiḥ saṃnataparvabhiḥ 51 nāgā hayān samāsādya vikṣipanto bahūn atha drāvayām āsur atyugrās tatra tatra tadā tadā 52 vidrāvya ca bahūn aśvān nāgā rājan balotkaṭāḥ viṣāṇaiś cāpare jaghnur mamṛduś cāpare bhṛśam 53 sāśvārohāṃś ca turagān viṣāṇair bibhidū raṇe aparāṃś cikṣipur vegāt pragṛhyātibalās tathā 54 pādātair āhatā nāgā vivareṣu samantataḥ cakrur ārtasvaraṃ ghoraṃ vyadravanta diśo daśa 55 padātīnāṃ tu sahasā pradrutānāṃ mahāmṛdhe utsṛjyābharaṇaṃ tūrṇam avaplutya raṇājire 56 nimittaṃ manyamānās tu pariṇamya mahāgajāḥ jagṛhur bibhiduś caiva citrāṇy ābharaṇāni ca 57 pratimāneṣu kumbheṣu dantaveṣṭeṣu cāpare nigṛhītā bhṛśaṃ nāgāḥ prāsatomara śaktibhiḥ 58 nigṛhya ca gadāḥ ke cit pārśvasthair bhṛśadāruṇaiḥ rathāśvasādibhis tatra saṃbhinnā nyapatan bhuvi 59 sarathaṃ sādinaṃ tatra apare tu mahāgajāḥ bhūmāv amṛdnan vegena savarmāṇaṃ patākinam 60 rathaṃ nāgāḥ samāsādya dhuri gṛhya ca māriṣa vyākṣipan sahasā tatra ghorarūpe mahāmṛdhe 61 nārācair nihataś cāpi nipapāta mahāgajaḥ parvatasyeva śikharaṃ vajrabhagnaṃ mahītale 62 yodhā yodhān samāsādya muṣṭibhir vyahanan yudhi keśeṣv anyonyam ākṣipya cicchidur bibhiduḥ saha 63 udyamya ca bhujāv anyo nikṣipya ca mahītale padā coraḥ samākramya sphurato vyahanac chiraḥ 64 mṛtam anyo mahārāja padbhyāṃ tāḍitavāṃs tadā jīvataś ca tathaivānyaḥ śastraṃ kāye nyamajjayat 65 muṣṭiyuddhaṃ mahac cāsīd yodhānāṃ tatra bhārata tathā keśagrahaś cogro bāhuyuddhaṃ ca kevalam 66 samāsaktasya cānyena avijñātas tathāparaḥ jahāra samare prāṇān nānāśastrair anekadhā 67 saṃsakteṣu ca yodheṣu vartamāne ca saṃkule kabandhāny utthitāni sma śataśo 'tha sahasraśaḥ 68 lohitaiḥ sicyamānāni śastrāṇi kavacāni ca mahāraṅgānuraktāni vastrāṇīva cakāśire 69 evam etan mahāyuddhaṃ dāruṇaṃ bhṛśasaṃkulam unmattaraṅgapratimaṃ śabdenāpūrayaj jagat 70 naiva sve na pare rājan vijñāyante śarāturāḥ yoddhavyam iti yudhyante rājāno jaya gṛddhinaḥ 71 svān sve jaghnur mahārāja parāṃś caiva samāgatān ubhayoḥ senayor vīrair vyākulaṃ samapadyata 72 rathair bhagnair mahārāja vāraṇaiś ca nipātitaiḥ hayaiś ca patitais tatra naraiś ca vinipātitaiḥ 73 agamyarūpā pṛthivī māṃsaśoṇitakardamā kṣaṇenāsīn mahārāja kṣatajaughapravartinī 74 pāñcālān avadhīt karṇas trigartāṃś ca dhanaṃjayaḥ bhīmasenaḥ kurūn rājan hastyanīkaṃ ca sarvaśaḥ 75 evam eṣa kṣayo vṛttaḥ kurupāṇḍavasenayoḥ aparāhṇe mahārāja kāṅkṣantyor vipulaṃ jayam |
The Mahabharata in Sanskrit
Book 8
Chapter 20
|
1
[धृ] अतितीव्राणि दुःखानि दुःसहानि बहूनि च तवाहं संजयाश्रौषं पुत्राणां मम संक्षयम 2 तथा तु मे कथयसे यथा युद्धं तु वर्तते न सन्ति सूत कौरव्या इति मे नैष्ठिकी मतिः 3 दुर्यॊधनस तु विरथः कृतस तत्र महारणे धर्मपुत्रः कथं चक्रे तस्मिन वा नृपतिः कथम 4 अपराह्णे कथं युद्धम अभवल लॊम हार्षणम तन ममाचक्ष्व तत्त्वेन कुशलॊ हय असि संजय 5 [स] संसक्तेषु च सैन्येषु युध्यमानेषु भागशः रथम अन्यं समास्थाय पुत्रस तव विशां पते 6 करॊधेन महताविष्टः सविषॊ भुजगॊ यथा दुर्यॊधनस तु दृष्ट्वा वै धर्मराजं युधिष्ठिरम उवाच सूत तवरितं याहि याहीति भारत 7 अत्र मां परापय कषिप्रं सारथे यत्र पाण्डवः धरियमाणेन छत्रेण राजा राजति दंशितः 8 ससूतश चॊदितॊ राज्ञा राज्ञः सयन्दनम उत्तमम युधिष्ठिरस्याभिमुखं परेषयाम आस संयुगे 9 ततॊ युधिष्ठिरः करुद्धः परमत्त इव सद गवः सारथिं चॊदयाम आस याहि यत्र सुयॊधनः 10 तौ समाजग्मतुर वीरौ भरातरौ रथसात्तमौ समेत्य च महावीर्यौ संनद्धौ युद्धदुर्मदौ ततक्षतुर महेष्वासौ शरैर अन्यॊन्यम आहवे 11 ततॊ दुर्यॊधनॊ राजा धर्मशीलस्य मारिष शिलाशितेन भल्लेन धनुश चिच्छेद संयुगे तं नामृष्यत संक्रुद्धॊ वयवसायं युधिष्ठिरः 12 अपविध्य धनुश छिन्नं करॊधसंरक्तलॊचनः अन्यत कार्मुकम आदाय धर्मपुत्रश चमूमुखे 13 दुर्यॊधनस्य चिच्छेद धवजं कार्मुकम एव च अथान्यद धनुर आदाय परत्यविध्यत पाण्डवम 14 ताव अन्यॊन्यं सुसंरब्धौ शरवर्षाण्य अमुञ्चताम सिंहाव इव सुसंक्रुद्धौ परस्परजिगीषया 15 अन्यॊन्यं जघ्नतुश चैव नर्दमानौ वृषाव इव अन्यॊन्यं परेक्षमाणौ च चेरतुस तौ महारथौ 16 ततः पूर्णायतॊत्सृष्टैर अन्यॊन्यं सुकृतव्रणौ विरेजतुर महाराज पुष्टिताव इव किंशुकौ 17 ततॊ राजन परतिभयान सिंहनादान मुहुर मुहुः तलयॊश च तथा शब्दान धनुषॊश च महाहवे 18 शङ्खशब्दरवांश चैव चक्रतुस तौ रथॊत्तमौ अन्यॊन्यं च महाराज पीडयां चक्रतुर भृशम 19 ततॊ युधिष्ठिरॊ राजा तव पुत्रं तरिभिः शरैः आजघानॊरसि करुद्धॊ वज्रवेगॊ दुरासदः 20 परतिविव्याध तं तूर्णं तव पुत्रॊ महीपतिम पञ्चभिर निशितैर बाणैर हेमपुङ्खैः शिलाशितैः 21 ततॊ दुर्यॊधनॊ राजा शक्तिं चिक्षेप भारत सर्वपारशवीं तीक्ष्णां महॊल्का परतिमां तदा 22 ताम आपतन्तीं सहसा धर्मराजः शिलाशितैः तरिभिश चिच्छेद सहसा तं च विव्याध सप्तभिः 23 निपपात ततः साथ हेमदण्डा महाघना निपतन्ती महॊल्केव वयराजच छिखि संनिभा 24 शक्तिं विनिहतां दृष्ट्वा पुत्रस तव विशां पते नवभिर निशितैर भल्लैर निजघान युधिष्ठिरम 25 सॊ ऽतिविद्धॊ बलवताम अग्रणीः शत्रुतापनः दुर्यॊधनं समुद्दिश्य बाणं जग्राह सत्वरः 26 समाधत्त च तं बाणं धनुष्य उग्रं महाबलः चिक्षेप च ततॊ राजा राज्ञः करुद्धः पराक्रमी 27 स तु बाणः समासाद्य तव पुत्रं महारथम वयमॊहयत राजानं धरणीं च जगाम ह 28 ततॊ दुर्यॊधनः करुद्धॊ गदाम उद्यम्य वेगितः विधित्सुः कलहस्यान्तम अभिदुद्राव पाण्डवम 29 तम आलक्ष्यॊद्यत गदं दण्डहस्तम इवान्तकम धर्मराजॊ महाशक्तिं पराहिणॊत तव सूनवे दीप्यमानां महावेगां महॊल्कां जवलिताम इव 30 रथस्थः स तया विद्धॊ वर्म भित्त्वा महाहवे भृशं संविग्नहृदयः पपात च मुमॊह च 31 ततस तवरितम आगत्य कृतवर्मा तवात्मजम परत्यपद्यत राजानं मग्नं वै वयसनार्णवे 32 भीमॊ ऽपि महतीं गृह्य गदां हेमपरिष्कृताम अभिदुद्राव वेगेन कृतवर्माणम आहवे एवं तद अभवद युद्धं तवदीयानां परैः सह |
1
[dhṛ] atitīvrāṇi duḥkhāni duḥsahāni bahūni ca tavāhaṃ saṃjayāśrauṣaṃ putrāṇāṃ mama saṃkṣayam 2 tathā tu me kathayase yathā yuddhaṃ tu vartate na santi sūta kauravyā iti me naiṣṭhikī matiḥ 3 duryodhanas tu virathaḥ kṛtas tatra mahāraṇe dharmaputraḥ kathaṃ cakre tasmin vā nṛpatiḥ katham 4 aparāhṇe kathaṃ yuddham abhaval loma hārṣaṇam tan mamācakṣva tattvena kuśalo hy asi saṃjaya 5 [s] saṃsakteṣu ca sainyeṣu yudhyamāneṣu bhāgaśaḥ ratham anyaṃ samāsthāya putras tava viśāṃ pate 6 krodhena mahatāviṣṭaḥ saviṣo bhujago yathā duryodhanas tu dṛṣṭvā vai dharmarājaṃ yudhiṣṭhiram uvāca sūta tvaritaṃ yāhi yāhīti bhārata 7 atra māṃ prāpaya kṣipraṃ sārathe yatra pāṇḍavaḥ dhriyamāṇena chatreṇa rājā rājati daṃśitaḥ 8 sasūtaś codito rājñā rājñaḥ syandanam uttamam yudhiṣṭhirasyābhimukhaṃ preṣayām āsa saṃyuge 9 tato yudhiṣṭhiraḥ kruddhaḥ pramatta iva sad gavaḥ sārathiṃ codayām āsa yāhi yatra suyodhanaḥ 10 tau samājagmatur vīrau bhrātarau rathasāttamau sametya ca mahāvīryau saṃnaddhau yuddhadurmadau tatakṣatur maheṣvāsau śarair anyonyam āhave 11 tato duryodhano rājā dharmaśīlasya māriṣa śilāśitena bhallena dhanuś ciccheda saṃyuge taṃ nāmṛṣyata saṃkruddho vyavasāyaṃ yudhiṣṭhiraḥ 12 apavidhya dhanuś chinnaṃ krodhasaṃraktalocanaḥ anyat kārmukam ādāya dharmaputraś camūmukhe 13 duryodhanasya ciccheda dhvajaṃ kārmukam eva ca athānyad dhanur ādāya pratyavidhyata pāṇḍavam 14 tāv anyonyaṃ susaṃrabdhau śaravarṣāṇy amuñcatām siṃhāv iva susaṃkruddhau parasparajigīṣayā 15 anyonyaṃ jaghnatuś caiva nardamānau vṛṣāv iva anyonyaṃ prekṣamāṇau ca ceratus tau mahārathau 16 tataḥ pūrṇāyatotsṛṣṭair anyonyaṃ sukṛtavraṇau virejatur mahārāja puṣṭitāv iva kiṃśukau 17 tato rājan pratibhayān siṃhanādān muhur muhuḥ talayoś ca tathā śabdān dhanuṣoś ca mahāhave 18 śaṅkhaśabdaravāṃś caiva cakratus tau rathottamau anyonyaṃ ca mahārāja pīḍayāṃ cakratur bhṛśam 19 tato yudhiṣṭhiro rājā tava putraṃ tribhiḥ śaraiḥ ājaghānorasi kruddho vajravego durāsadaḥ 20 prativivyādha taṃ tūrṇaṃ tava putro mahīpatim pañcabhir niśitair bāṇair hemapuṅkhaiḥ śilāśitaiḥ 21 tato duryodhano rājā śaktiṃ cikṣepa bhārata sarvapāraśavīṃ tīkṣṇāṃ maholkā pratimāṃ tadā 22 tām āpatantīṃ sahasā dharmarājaḥ śilāśitaiḥ tribhiś ciccheda sahasā taṃ ca vivyādha saptabhiḥ 23 nipapāta tataḥ sātha hemadaṇḍā mahāghanā nipatantī maholkeva vyarājac chikhi saṃnibhā 24 śaktiṃ vinihatāṃ dṛṣṭvā putras tava viśāṃ pate navabhir niśitair bhallair nijaghāna yudhiṣṭhiram 25 so 'tividdho balavatām agraṇīḥ śatrutāpanaḥ duryodhanaṃ samuddiśya bāṇaṃ jagrāha satvaraḥ 26 samādhatta ca taṃ bāṇaṃ dhanuṣy ugraṃ mahābalaḥ cikṣepa ca tato rājā rājñaḥ kruddhaḥ parākramī 27 sa tu bāṇaḥ samāsādya tava putraṃ mahāratham vyamohayata rājānaṃ dharaṇīṃ ca jagāma ha 28 tato duryodhanaḥ kruddho gadām udyamya vegitaḥ vidhitsuḥ kalahasyāntam abhidudrāva pāṇḍavam 29 tam ālakṣyodyata gadaṃ daṇḍahastam ivāntakam dharmarājo mahāśaktiṃ prāhiṇot tava sūnave dīpyamānāṃ mahāvegāṃ maholkāṃ jvalitām iva 30 rathasthaḥ sa tayā viddho varma bhittvā mahāhave bhṛśaṃ saṃvignahṛdayaḥ papāta ca mumoha ca 31 tatas tvaritam āgatya kṛtavarmā tavātmajam pratyapadyata rājānaṃ magnaṃ vai vyasanārṇave 32 bhīmo 'pi mahatīṃ gṛhya gadāṃ hemapariṣkṛtām abhidudrāva vegena kṛtavarmāṇam āhave evaṃ tad abhavad yuddhaṃ tvadīyānāṃ paraiḥ saha |
The Mahabharata in Sanskrit
Book 8
Chapter 21
|
1
[स] ततः कर्णं पुरस्कृत्य तवदीया युद्धदुर्मदाः पुनर आवृत्य संग्रामं चक्रुर देवासुरॊपमम 2 दविरदरथनराश्वशङ्खशब्दैः; परिहृषिता विविधैश च शस्त्रपातैः दविरदरथपदातिसार्थवाहाः; परिपतिताभिमुखाः परजह्रिरे ते 3 शरपरशु वरासि पट्टिशैर; इषुभिर अनेकविधैश च सादिताः दविरदरथहया महाहवे; वरपुरुषैः पुरुषाश च वाहनैः 4 कमलदिनकरेन्दु संनिभैः; सितदशनैः सुमुखाक्षि नासिकैः रुचिरमुकुट कुण्डलैर मही; पुरुषशिरॊभिर अवस्तृता बभौ 5 परिघमुसल शक्तितॊमरैर; नखरभुशुण्डि गदा शतैर दरुताः दविरदनरहयाः सहस्रशॊ; रुधिरनदी परवहास तदाब्भवन 6 परहत नररथाश्वकुञ्जरं; परतिभय दर्शनम उल्बणं तदा तद अहितनिहतं बभौ बलं; पितृपरिराष्ट्रम इव परजा कषये 7 अथ तव नरदेव सैनिकास; तव च सुताः सुरसूनु संनिभाः अमितबलपुरःसरा रणे; कुरु वृषभाः शिनिपुत्रम अभ्ययुः 8 तद अतिरुचिर भीमम आबभौ; पुरुषवराश्वरथद्विपाकुलम लवणजलसमुद्धत सवनं; बलम अमरासुरसैन्यसंनिभम 9 सुरपतिसमविक्रमस ततस; तरिदशवरावरजॊपमं युधि दिनकरकिरण परभैः पृषत्कैर; अवितनयॊ ऽभयहनच छिनि परवीरम 10 तम अपि सरथ वाजिसारथिं; शिनिवृषभॊ विविधैः शरैस तवरन भुजग विषसमप्रभै रणे; पुरुषवरं समवास्तृणॊत तदा 11 शिनिवृषभ शरप्रपीडित्तं; तव सुहृदॊ वसुषेणम अभ्ययुः तवरितम अतिरथा रथर्षभं; दविरदरथाश्वपदातिभिः सह 12 तम उदधि निभम आद्रवद बली; तवरिततरैः समभिद्रुतं परैः दरुपद सुत सखस तदाकरॊत; पुरुषरथाश्वगजक्षयं महत 13 अथ पुरुषवरौ कृताह्निकौ; भवम अभिपूज्य यथाविधि परभुम अरिवध कृतनिश्चयौ दरुतं; तव बलम अर्जुन केशवौ सृतौ 14 जलदनिनदनिस्वनं रथं; पवनविधूतपताक केतनम सितहयम उपयान्तम अन्तिकं; हृतमनसॊ ददृशुस तदारयः 15 अथ विस्फार्य गाण्डीवं रणे नृत्यन्न इवार्जुनः शरसंबाधम अकरॊत खं दिशः परदिशस तथा 16 रथान विमानप्रतिमान सज्जयन्त्रायुध धवजान ससारथींस तदा बाणैर अभ्राणीवानिलॊ ऽवधीत 17 गजान गजप्रयन्तॄंश च वैजयन्त्य अयुध धवजान सादिनॊ ऽशवांश च पत्तींश च शरैर निन्ये यमक्षयम 18 तम अन्तकम इव करुद्धम अनिवार्यं महारथम दुर्यॊधनॊ ऽभययाद एकॊ निघ्नन बाणैः पृथग्विधैः 19 तस्यार्जुनॊ धनुः सूतं केतुम अश्वांश च सायकैः हत्वा सप्तभिर एकैकं छत्रं चिच्छेद पत्रिणा 20 नवमं च समासाद्य वयजृजत परतिघातिनम दुर्यॊधनायेषु वरं तं दरौणिः सप्तधाच्छिनत 21 ततॊ दरौणेर धनुश छित्त्वा हत्वा चाश्ववराञ शरैः कृपस्यापि तथात्युग्रं धनुश चिच्छेद पाण्डवः 22 हार्दिक्यस्य धनुश छित्त्वा धवजं चाश्वं तथावधीत दुःशासनस्येषु वरं छित्त्वा राधेयम अभ्ययात 23 अथ सात्यकिम उत्सृज्य तवरन कर्णॊ ऽरजुनं तरिभिः विद्ध्वा विव्याध विंशत्या कृष्णं पार्थं पुनस तरिभिः 24 अथ सात्यकिर आगत्य कर्णं विद्ध्वा शितैः शरैः नवत्या नवभिश चॊग्रैः शतेन पुनर आर्दयत 25 ततः परवीराः पाण्डूनां सर्वे कर्णम अपीडयन युधामन्युः शिखण्डी च दरौपदेयाः परभद्रकाः 26 उत्तमौजा युयुत्सुश च यमौ पार्षत एव च चेदिकारूष मत्स्यानां केकयानां च यद बलम चेकितानश च बलवान धर्मराजश च सुव्रतः 27 एते रथाश्वद्विरदैः पत्तिभिश चॊग्रविक्रमैः परिवार्य रणे कर्णं नानाशस्त्रैर अवाकिरन भाषन्तॊ वाग्भिर उग्राभिः सर्वे कर्णवधे वृताः 28 तां शस्त्रवृष्टिं बहुधा छित्त्वा कर्णः शितैः शरैः अपॊवाह सम तान सर्वान दरुमान भङ्क्त्वेव मारुतः 29 रथिनः समहा मात्रान गजान अश्वान ससादिनः शरव्रातांश च संक्रुद्धॊ निघ्नन कर्णॊ वयदृश्यत 30 तद वध्यमानं पाण्डूनां बलं कर्णास्त्र तेजसा विशस्त्र कषतदेहं च पराय आसीत पराङ्मुखम 31 अथ कर्णास्त्रम अस्त्रेण परतिहत्यार्जुनः सवयम दिशः खं चैव भूमिं च परावृणॊच छरवृष्टिभिः 32 मुसलानीव निष्पेतुः परिघा इव चेषवः शतघ्न्य इव चाप्य अन्ये वज्राण्य उग्राणि वापरे 33 तैर वध्यमानं तत सैन्यं सपत्त्यश्वरथद्विपम निमीलिताक्षम अत्यर्थम उदभ्राम्यत समन्ततः 34 निष्कैवल्यं तदा युद्धं परापुर अश्वनरद्विपाः वध्यमानाः शरैर अन्ये तदा भीताः परदुद्रुवुः 35 एवं तेषां तदा युद्धे संसक्तानां जयैषिणाम गिरिमस्तं समासाद्य परत्यपद्यत भानुमान 36 तमसा च महाराज रजसा च विशेषतः न किं चित परत्यपश्याम शुभं वा यदि वाशुभम 37 ते तरसन्तॊ महेष्वासा रात्रियुद्धस्य भारत अपयानं ततश चक्रुः सहिताः सर्ववाजिभिः 38 कौरवेषु च यातेषु तदा राजन दिनक्षये जयं सुमनसः पराप्य पार्थाः सवशिबिरं ययुः 39 वादित्रशब्दैर विविधैः सिंहनादैश च नर्तितैः परान अवहसन्तश च सतुवन्तश चाच्युतार्जुनौ 40 कृते ऽवहारे तैर वीरैः सैनिकाः सर्व एव ते आशिषः पाण्डवेयेषु परायुज्यन्त नरेश्वराः 41 ततः कृते ऽवहारे च परहृष्टाः कुरुपाण्डवाः निशायां शिबिरं गत्वा नयविशन्त नरेश्वराः 42 यक्षरक्षःपिशाचाश च शवापदानि च संघशः जग्मुर आयॊधनं घॊरं रुद्रस्यानर्तनॊपमम |
1
[s] tataḥ karṇaṃ puraskṛtya tvadīyā yuddhadurmadāḥ punar āvṛtya saṃgrāmaṃ cakrur devāsuropamam 2 dviradarathanarāśvaśaṅkhaśabdaiḥ; parihṛṣitā vividhaiś ca śastrapātaiḥ dviradarathapadātisārthavāhāḥ; paripatitābhimukhāḥ prajahrire te 3 śaraparaśu varāsi paṭṭiśair; iṣubhir anekavidhaiś ca sāditāḥ dviradarathahayā mahāhave; varapuruṣaiḥ puruṣāś ca vāhanaiḥ 4 kamaladinakarendu saṃnibhaiḥ; sitadaśanaiḥ sumukhākṣi nāsikaiḥ ruciramukuṭa kuṇḍalair mahī; puruṣaśirobhir avastṛtā babhau 5 parighamusala śaktitomarair; nakharabhuśuṇḍi gadā śatair drutāḥ dviradanarahayāḥ sahasraśo; rudhiranadī pravahās tadābbhavan 6 prahata nararathāśvakuñjaraṃ; pratibhaya darśanam ulbaṇaṃ tadā tad ahitanihataṃ babhau balaṃ; pitṛparirāṣṭram iva prajā kṣaye 7 atha tava naradeva sainikās; tava ca sutāḥ surasūnu saṃnibhāḥ amitabalapuraḥsarā raṇe; kuru vṛṣabhāḥ śiniputram abhyayuḥ 8 tad atirucira bhīmam ābabhau; puruṣavarāśvarathadvipākulam lavaṇajalasamuddhata svanaṃ; balam amarāsurasainyasaṃnibham 9 surapatisamavikramas tatas; tridaśavarāvarajopamaṃ yudhi dinakarakiraṇa prabhaiḥ pṛṣatkair; avitanayo 'bhyahanac chini pravīram 10 tam api saratha vājisārathiṃ; śinivṛṣabho vividhaiḥ śarais tvaran bhujaga viṣasamaprabhai raṇe; puruṣavaraṃ samavāstṛṇot tadā 11 śinivṛṣabha śaraprapīḍittaṃ; tava suhṛdo vasuṣeṇam abhyayuḥ tvaritam atirathā ratharṣabhaṃ; dviradarathāśvapadātibhiḥ saha 12 tam udadhi nibham ādravad balī; tvaritataraiḥ samabhidrutaṃ paraiḥ drupada suta sakhas tadākarot; puruṣarathāśvagajakṣayaṃ mahat 13 atha puruṣavarau kṛtāhnikau; bhavam abhipūjya yathāvidhi prabhum arivadha kṛtaniścayau drutaṃ; tava balam arjuna keśavau sṛtau 14 jaladaninadanisvanaṃ rathaṃ; pavanavidhūtapatāka ketanam sitahayam upayāntam antikaṃ; hṛtamanaso dadṛśus tadārayaḥ 15 atha visphārya gāṇḍīvaṃ raṇe nṛtyann ivārjunaḥ śarasaṃbādham akarot khaṃ diśaḥ pradiśas tathā 16 rathān vimānapratimān sajjayantrāyudha dhvajān sasārathīṃs tadā bāṇair abhrāṇīvānilo 'vadhīt 17 gajān gajaprayantṝṃś ca vaijayanty ayudha dhvajān sādino 'śvāṃś ca pattīṃś ca śarair ninye yamakṣayam 18 tam antakam iva kruddham anivāryaṃ mahāratham duryodhano 'bhyayād eko nighnan bāṇaiḥ pṛthagvidhaiḥ 19 tasyārjuno dhanuḥ sūtaṃ ketum aśvāṃś ca sāyakaiḥ hatvā saptabhir ekaikaṃ chatraṃ ciccheda patriṇā 20 navamaṃ ca samāsādya vyajṛjat pratighātinam duryodhanāyeṣu varaṃ taṃ drauṇiḥ saptadhācchinat 21 tato drauṇer dhanuś chittvā hatvā cāśvavarāñ śaraiḥ kṛpasyāpi tathātyugraṃ dhanuś ciccheda pāṇḍavaḥ 22 hārdikyasya dhanuś chittvā dhvajaṃ cāśvaṃ tathāvadhīt duḥśāsanasyeṣu varaṃ chittvā rādheyam abhyayāt 23 atha sātyakim utsṛjya tvaran karṇo 'rjunaṃ tribhiḥ viddhvā vivyādha viṃśatyā kṛṣṇaṃ pārthaṃ punas tribhiḥ 24 atha sātyakir āgatya karṇaṃ viddhvā śitaiḥ śaraiḥ navatyā navabhiś cograiḥ śatena punar ārdayat 25 tataḥ pravīrāḥ pāṇḍūnāṃ sarve karṇam apīḍayan yudhāmanyuḥ śikhaṇḍī ca draupadeyāḥ prabhadrakāḥ 26 uttamaujā yuyutsuś ca yamau pārṣata eva ca cedikārūṣa matsyānāṃ kekayānāṃ ca yad balam cekitānaś ca balavān dharmarājaś ca suvrataḥ 27 ete rathāśvadviradaiḥ pattibhiś cogravikramaiḥ parivārya raṇe karṇaṃ nānāśastrair avākiran bhāṣanto vāgbhir ugrābhiḥ sarve karṇavadhe vṛtāḥ 28 tāṃ śastravṛṣṭiṃ bahudhā chittvā karṇaḥ śitaiḥ śaraiḥ apovāha sma tān sarvān drumān bhaṅktveva mārutaḥ 29 rathinaḥ samahā mātrān gajān aśvān sasādinaḥ śaravrātāṃś ca saṃkruddho nighnan karṇo vyadṛśyata 30 tad vadhyamānaṃ pāṇḍūnāṃ balaṃ karṇāstra tejasā viśastra kṣatadehaṃ ca prāya āsīt parāṅmukham 31 atha karṇāstram astreṇa pratihatyārjunaḥ svayam diśaḥ khaṃ caiva bhūmiṃ ca prāvṛṇoc charavṛṣṭibhiḥ 32 musalānīva niṣpetuḥ parighā iva ceṣavaḥ śataghnya iva cāpy anye vajrāṇy ugrāṇi vāpare 33 tair vadhyamānaṃ tat sainyaṃ sapattyaśvarathadvipam nimīlitākṣam atyartham udabhrāmyat samantataḥ 34 niṣkaivalyaṃ tadā yuddhaṃ prāpur aśvanaradvipāḥ vadhyamānāḥ śarair anye tadā bhītāḥ pradudruvuḥ 35 evaṃ teṣāṃ tadā yuddhe saṃsaktānāṃ jayaiṣiṇām girimastaṃ samāsādya pratyapadyata bhānumān 36 tamasā ca mahārāja rajasā ca viśeṣataḥ na kiṃ cit pratyapaśyāma śubhaṃ vā yadi vāśubham 37 te trasanto maheṣvāsā rātriyuddhasya bhārata apayānaṃ tataś cakruḥ sahitāḥ sarvavājibhiḥ 38 kauraveṣu ca yāteṣu tadā rājan dinakṣaye jayaṃ sumanasaḥ prāpya pārthāḥ svaśibiraṃ yayuḥ 39 vāditraśabdair vividhaiḥ siṃhanādaiś ca nartitaiḥ parān avahasantaś ca stuvantaś cācyutārjunau 40 kṛte 'vahāre tair vīraiḥ sainikāḥ sarva eva te āśiṣaḥ pāṇḍaveyeṣu prāyujyanta nareśvarāḥ 41 tataḥ kṛte 'vahāre ca prahṛṣṭāḥ kurupāṇḍavāḥ niśāyāṃ śibiraṃ gatvā nyaviśanta nareśvarāḥ 42 yakṣarakṣaḥpiśācāś ca śvāpadāni ca saṃghaśaḥ jagmur āyodhanaṃ ghoraṃ rudrasyānartanopamam |
The Mahabharata in Sanskrit
Book 8
Chapter 22
|
1
[धृ] सवेनच छन्देन नः सर्वान नावधीद वयक्तम अर्जुनः न हय अस्या समरे मुच्येतान्तकॊ ऽपय आततायिनः 2 पार्थॊ हय एकॊ ऽहरद भद्राम एकश चाग्निम अतर्पयत एकश चेमां महीं जित्वा चक्रे बलिभृतॊ नृपान 3 एकॊ निवातकवचान अवधीद दिव्यकार्मुकः एकः किरात रूपेण सथितं शर्वम अयॊधयत 4 एकॊ ऽभयरक्षद भरतान एकॊ भवम अतॊषयत तेनैकेन जिताः सर्वे मदीया उग्रतेजसः ते न निन्द्याः परशस्याश च यत ते चक्रुर बरवीहि तत 5 [स] हतप्रहत विध्वस्ता विवर्मायुध वाहनाः दीनस्वरा दूयमाना मानिनः शत्रुभिर जिताः 6 शिबिरस्थाः पुनर मन्त्रं मन्त्रयन्ति सम कौरवाः भग्नदंष्ट्रा हतविषाः पदाक्रान्ता इवॊरगाः 7 तान अब्रवीत ततः कर्णः करुद्धः सर्प इव शवसन करं करेणाभिपीड्य परेक्षमाणस तवात्मजम 8 यत्तॊ दृढश च दक्षश च धृतिमान अर्जुनः सदा स बॊधयति चाप्य एनं पराप्तकालम अधॊक्षजः 9 सहस्रास्त्र विसर्गेण वयं तेनाद्य वञ्जिताः शवस तव अहं तस्य संकल्पं सर्वं हन्ता महीपते 10 एवम उक्तस तथेत्य उक्त्वा सॊ ऽनुजज्ञे नृपॊत्तमान सुखॊषितास ते रजनीं हृष्टा युद्धाय निर्ययुः 11 ते ऽपश्यन विहितं वयूहं धर्मराजेन दुर्जयम परयत्नात कुरुमुख्येन बृहस्पत्युशनॊ मतात 12 अथ परतीप कर्तारं सततं विजितात्मनाम सस्मार वृषभस्कन्धं कर्णं दुर्यॊधनस तदा 13 पुरंदरसमं युद्धे मरुद्गणसमं बले कार्तवीर्य समं वीर्ये कर्णं राज्ञॊ ऽगमन मनः सूतपुत्रं महेष्वासं बन्धुम आत्ययिकेष्व इव 14 [धृ] यद वॊ ऽगमन मनॊ मन्दाः कर्णं वैकर्तनं तदा अप्य अद्राक्षत तं यूयं शीतार्ता इव भास्करम 15 कृते ऽवहारे सैन्यानां परवृत्ते च रणे पुनः कथं वैकर्तनः कर्णस तत्रायुध्यत संजय कथं च पाण्डवाः सर्वे युयुधुस तत्र सूतजम 16 कर्णॊ हय एकॊ महाबाहुर हन्यात पार्थान ससॊमकान कर्णस्य भुजयॊर वीर्यं शक्र विष्णुसमं मतम तथास्त्राणि सुघॊराणि विक्रमश च महात्मनः 17 दुर्यॊधनं तदा दृष्ट्वा पाण्डवेन भृशार्दितम पराक्रान्तान पाण्डुसुतान दृष्ट्वा चापि महाहवे 18 कर्णम आश्रित्य संग्रामे दर्पॊ दुर्यॊधने पुनः जेतुम उत्सहते पार्थान सपुत्रान सह केशवान 19 अहॊ बत महद दुःखं यत्र पाण्डुसुतान रणे नातरद रभसः कर्णॊ दैवं नूनं परायणम अहॊ दयूतस्य निष्ठेयं घॊरा संप्रति वर्तते 20 अहॊ दुःखानि तीव्राणि दुर्यॊधनकृतान्य अहम सहिष्यामि सुघॊराणि शल्य भूतानि संजय 21 सौबलं च तथा तात नीतिमान इति मन्यते 22 युद्धेषु नाम दिव्येषु वर्तमानेषु संजय अश्रौषं निहतान पुत्रान नित्यम एव च निर्जितान 23 न पाण्डवानां समरे कश चिद अस्ति निवारकः सत्रीमध्यम इव गाहन्ति दैवं हि बलवत्तरम 24 [स] अतिक्रान्तं हि यत कार्यं पश्चाच चिन्तयतीति च तच चास्य न भवेत कार्यं चिन्तया च विनश्यति 25 तद इदं तव कार्यं तु दूरप्राप्तं विजानता न कृतं यत तवया पूर्वं पराप्ताप्राप्त विचारणे 26 उक्तॊ ऽसि बहुधा राजन मा युध्यस्वेति पाण्डवैः गृह्णीषे न च तन मॊहात पाण्डवेषु विशां पते 27 तवया पापानि घॊराणि समाचीर्णानि पाण्डुषु तवत्कृते वर्तते घॊरः पार्थिवानां जनक्षयः 28 तत तव इदानीम अतिक्रम्य मा शुचॊ भरतर्षभ शृणु सर्वं यथावृत्तं घॊरं वैशसम अच्युत 29 परभातायां रजन्यां तु कर्णॊ राजानम अभ्ययात समेत्य च महाबाहुर दुर्यॊधनम अभाषत 30 अद्य राजन समेष्यामि पाण्डवेन यशस्विना हनिष्यामि च तं वीरं स वा मां निहनिष्यति 31 बहुत्वान मम कार्याणां तथा पार्थस्य पार्थिव नाभूत समागमॊ राजन मम चैवार्जुनस्य च 32 इदं तु मे यथा परज्ञं शृणु वाक्यं विशां पते अनिहत्य रणे पार्थं नाहम एष्यामि भारत 33 हतप्रवीरे सैन्ये ऽसमिन मयि चैव सथिते युधि अभियास्यति मां पार्थः शक्र शक्त्या विनाकृतम 34 ततः शरेयः करं यत ते तन निबॊध जनेश्वर आयुधानां च यद वीर्यं दरव्याणाम अर्जुनस्य च 35 कायस्य महतॊ भेदे लाघवे दूरपातने सौष्ठवे चास्त्रयॊगे च सव्यसाची न मत्समः 36 सर्वायुधमहामात्रं विजयं नाम तद धनुः इन्द्रार्थम अभिकामेन निर्मितं विश्वकर्मणा 37 येन दैत्य गणान राजञ जितवान वै शतक्रतुः यस्य घॊषेण दैत्यानां विमुह्यन्ति दिशॊ दश तद भार्गवाय परायच्छच छक्रः परमसंमतम 38 तद दिव्यं भार्गवॊ मह्यम अददाद धनुर उत्तमम येन यॊत्स्ये महाबाहुम अर्जुनं जयतां वरम यथेन्द्रः समरे सर्वान दैतेयान वै समागतान 39 धनुर घॊरं रामदत्तं गाण्डीवात तद विशिष्यते तरिः सप्तकृत्वः पृथिवी धनुषा तेन निर्जिता 40 धनुषॊ यस्य कर्माणि दिव्यानि पराह भार्गवः तद रामॊ हय अददान मह्यं येन यॊत्स्यामि पाण्डवम 41 अद्य दुर्यॊधनाहं तवां नन्दयिष्ये सबान्धवम निहत्य समरे वीरम अर्जुनं जयतां वरम 42 सपर्वतवनद्वीपा हतद्विड्भिः ससागरा पुत्रपौत्र परतिष्ठा ते भविष्यत्य अद्य पार्थिव 43 नासाध्यं विद्यते मे ऽदय तवत्प्रियार्थं विशेषतः सम्यग धर्मानुरक्तस्य सिद्धिर आत्मवतॊ यथा 44 न हि मां समरे सॊढुं स शक्तॊ ऽगनिं तरुर यथा अवश्यं तु मया वाच्यं येन हीनॊ ऽसमि फल्गुनात 45 जया तस्य धनुषॊ दिव्या तथाक्षय्यौ महेषुधी तस्य दिव्यं धनुःश्रेष्ठं गाण्डीवम अजरं युधि 46 विजयं च महद दिव्यं ममापि धनुर उत्तमम तत्राहम अधिकः पार्थाद धनुषा तेन पार्थिव 47 मया चाभ्यधिकॊ वीरः पाण्डवस तन निबॊध मे रश्मिग्राहश च दाशार्हः सर्वलॊकनमस्कृतः 48 अग्निदत्तश च वै दिव्यॊ रथः काञ्चनभूषणः अच्छेद्यः सर्वतॊ वीर वाजिनश च मनॊजवाः धवजश च दिव्यॊ दयुतिमान वानरॊ विस्मयं करः 49 कृष्णश च सरष्टा जगतॊ रथं तम अभिरक्षति एभिर दरव्यैर अहं हीनॊ यॊद्धुम इच्छामि पाण्डवम 50 अयं तु सदृशॊ वीरः शल्यः समितिशॊभनः सारथ्यं यदि मे कुर्याद धरुवस ते विजयॊ भवेत 51 तस्य मे सारथिः शल्यॊ भवत्व असु करः परैः नाराचान गार्ध्रपत्रांश च शकटानि वहन्तु मे 52 रथाश च मुख्या राजेन्द्र युक्ता वाजिभिर उत्तमैः आयान्तु पश्चात सततं माम एव भरतर्षभ 53 एवम अभ्यधिकः पार्थाद भविष्यामि गुणैर अहम शल्यॊ हय अभ्यधिकः कृष्णाद अर्जुनाद अधिकॊ हय अहम 54 यथाश्वहृदयं वेद दाशार्हः परवीरहा तथा शल्यॊ ऽपि जानीते हयानां वै महारथः 55 बाहुवीर्ये समॊ नास्ति मद्रराजस्य कश चन तथास्त्रैर मत्समॊ नास्ति कश चिद एव धनुर्धरः 56 तथा शल्य समॊ नास्ति हययाने ह कश चन सॊ ऽयम अभ्यधिकः पार्थाद भविष्यति रथॊ मम 57 एतत कृतं महाराज तवयेच्छामि परंतप एवं कृते कृतं मह्यं सर्वकामैर भविष्यति 58 ततॊ दरष्टासि समरे यत करिष्यामि भारत सर्वथा पाण्डवान सर्वाञ जेष्याम्य अद्य समागतान 59 [दुर] सर्वम एतत करिष्यामि यथा तवं कर्ण मन्यसे सॊपासङ्गा रथाः साश्वा अनुयास्यन्ति सूतज 60 नाराचान गार्ध्रपक्षांश च शकटानि वहन्तु ते अनुयास्याम कर्ण तवां वयं सर्वे च पार्थिवाः 61 [स] एवम उक्त्वा महाराज तव पुत्राः परतापवान अभिगम्याब्रवीद राजा मद्रराजम इदं वचः |
1
[dhṛ] svenac chandena naḥ sarvān nāvadhīd vyaktam arjunaḥ na hy asyā samare mucyetāntako 'py ātatāyinaḥ 2 pārtho hy eko 'harad bhadrām ekaś cāgnim atarpayat ekaś cemāṃ mahīṃ jitvā cakre balibhṛto nṛpān 3 eko nivātakavacān avadhīd divyakārmukaḥ ekaḥ kirāta rūpeṇa sthitaṃ śarvam ayodhayat 4 eko 'bhyarakṣad bharatān eko bhavam atoṣayat tenaikena jitāḥ sarve madīyā ugratejasaḥ te na nindyāḥ praśasyāś ca yat te cakrur bravīhi tat 5 [s] hataprahata vidhvastā vivarmāyudha vāhanāḥ dīnasvarā dūyamānā māninaḥ śatrubhir jitāḥ 6 śibirasthāḥ punar mantraṃ mantrayanti sma kauravāḥ bhagnadaṃṣṭrā hataviṣāḥ padākrāntā ivoragāḥ 7 tān abravīt tataḥ karṇaḥ kruddhaḥ sarpa iva śvasan karaṃ kareṇābhipīḍya prekṣamāṇas tavātmajam 8 yatto dṛḍhaś ca dakṣaś ca dhṛtimān arjunaḥ sadā sa bodhayati cāpy enaṃ prāptakālam adhokṣajaḥ 9 sahasrāstra visargeṇa vayaṃ tenādya vañjitāḥ śvas tv ahaṃ tasya saṃkalpaṃ sarvaṃ hantā mahīpate 10 evam uktas tathety uktvā so 'nujajñe nṛpottamān sukhoṣitās te rajanīṃ hṛṣṭā yuddhāya niryayuḥ 11 te 'paśyan vihitaṃ vyūhaṃ dharmarājena durjayam prayatnāt kurumukhyena bṛhaspatyuśano matāt 12 atha pratīpa kartāraṃ satataṃ vijitātmanām sasmāra vṛṣabhaskandhaṃ karṇaṃ duryodhanas tadā 13 puraṃdarasamaṃ yuddhe marudgaṇasamaṃ bale kārtavīrya samaṃ vīrye karṇaṃ rājño 'gaman manaḥ sūtaputraṃ maheṣvāsaṃ bandhum ātyayikeṣv iva 14 [dhṛ] yad vo 'gaman mano mandāḥ karṇaṃ vaikartanaṃ tadā apy adrākṣata taṃ yūyaṃ śītārtā iva bhāskaram 15 kṛte 'vahāre sainyānāṃ pravṛtte ca raṇe punaḥ kathaṃ vaikartanaḥ karṇas tatrāyudhyata saṃjaya kathaṃ ca pāṇḍavāḥ sarve yuyudhus tatra sūtajam 16 karṇo hy eko mahābāhur hanyāt pārthān sasomakān karṇasya bhujayor vīryaṃ śakra viṣṇusamaṃ matam tathāstrāṇi sughorāṇi vikramaś ca mahātmanaḥ 17 duryodhanaṃ tadā dṛṣṭvā pāṇḍavena bhṛśārditam parākrāntān pāṇḍusutān dṛṣṭvā cāpi mahāhave 18 karṇam āśritya saṃgrāme darpo duryodhane punaḥ jetum utsahate pārthān saputrān saha keśavān 19 aho bata mahad duḥkhaṃ yatra pāṇḍusutān raṇe nātarad rabhasaḥ karṇo daivaṃ nūnaṃ parāyaṇam aho dyūtasya niṣṭheyaṃ ghorā saṃprati vartate 20 aho duḥkhāni tīvrāṇi duryodhanakṛtāny aham sahiṣyāmi sughorāṇi śalya bhūtāni saṃjaya 21 saubalaṃ ca tathā tāta nītimān iti manyate 22 yuddheṣu nāma divyeṣu vartamāneṣu saṃjaya aśrauṣaṃ nihatān putrān nityam eva ca nirjitān 23 na pāṇḍavānāṃ samare kaś cid asti nivārakaḥ strīmadhyam iva gāhanti daivaṃ hi balavattaram 24 [s] atikrāntaṃ hi yat kāryaṃ paścāc cintayatīti ca tac cāsya na bhavet kāryaṃ cintayā ca vinaśyati 25 tad idaṃ tava kāryaṃ tu dūraprāptaṃ vijānatā na kṛtaṃ yat tvayā pūrvaṃ prāptāprāpta vicāraṇe 26 ukto 'si bahudhā rājan mā yudhyasveti pāṇḍavaiḥ gṛhṇīṣe na ca tan mohāt pāṇḍaveṣu viśāṃ pate 27 tvayā pāpāni ghorāṇi samācīrṇāni pāṇḍuṣu tvatkṛte vartate ghoraḥ pārthivānāṃ janakṣayaḥ 28 tat tv idānīm atikramya mā śuco bharatarṣabha śṛṇu sarvaṃ yathāvṛttaṃ ghoraṃ vaiśasam acyuta 29 prabhātāyāṃ rajanyāṃ tu karṇo rājānam abhyayāt sametya ca mahābāhur duryodhanam abhāṣata 30 adya rājan sameṣyāmi pāṇḍavena yaśasvinā haniṣyāmi ca taṃ vīraṃ sa vā māṃ nihaniṣyati 31 bahutvān mama kāryāṇāṃ tathā pārthasya pārthiva nābhūt samāgamo rājan mama caivārjunasya ca 32 idaṃ tu me yathā prajñaṃ śṛṇu vākyaṃ viśāṃ pate anihatya raṇe pārthaṃ nāham eṣyāmi bhārata 33 hatapravīre sainye 'smin mayi caiva sthite yudhi abhiyāsyati māṃ pārthaḥ śakra śaktyā vinākṛtam 34 tataḥ śreyaḥ karaṃ yat te tan nibodha janeśvara āyudhānāṃ ca yad vīryaṃ dravyāṇām arjunasya ca 35 kāyasya mahato bhede lāghave dūrapātane sauṣṭhave cāstrayoge ca savyasācī na matsamaḥ 36 sarvāyudhamahāmātraṃ vijayaṃ nāma tad dhanuḥ indrārtham abhikāmena nirmitaṃ viśvakarmaṇā 37 yena daitya gaṇān rājañ jitavān vai śatakratuḥ yasya ghoṣeṇa daityānāṃ vimuhyanti diśo daśa tad bhārgavāya prāyacchac chakraḥ paramasaṃmatam 38 tad divyaṃ bhārgavo mahyam adadād dhanur uttamam yena yotsye mahābāhum arjunaṃ jayatāṃ varam yathendraḥ samare sarvān daiteyān vai samāgatān 39 dhanur ghoraṃ rāmadattaṃ gāṇḍīvāt tad viśiṣyate triḥ saptakṛtvaḥ pṛthivī dhanuṣā tena nirjitā 40 dhanuṣo yasya karmāṇi divyāni prāha bhārgavaḥ tad rāmo hy adadān mahyaṃ yena yotsyāmi pāṇḍavam 41 adya duryodhanāhaṃ tvāṃ nandayiṣye sabāndhavam nihatya samare vīram arjunaṃ jayatāṃ varam 42 saparvatavanadvīpā hatadviḍbhiḥ sasāgarā putrapautra pratiṣṭhā te bhaviṣyaty adya pārthiva 43 nāsādhyaṃ vidyate me 'dya tvatpriyārthaṃ viśeṣataḥ samyag dharmānuraktasya siddhir ātmavato yathā 44 na hi māṃ samare soḍhuṃ sa śakto 'gniṃ tarur yathā avaśyaṃ tu mayā vācyaṃ yena hīno 'smi phalgunāt 45 jyā tasya dhanuṣo divyā tathākṣayyau maheṣudhī tasya divyaṃ dhanuḥśreṣṭhaṃ gāṇḍīvam ajaraṃ yudhi 46 vijayaṃ ca mahad divyaṃ mamāpi dhanur uttamam tatrāham adhikaḥ pārthād dhanuṣā tena pārthiva 47 mayā cābhyadhiko vīraḥ pāṇḍavas tan nibodha me raśmigrāhaś ca dāśārhaḥ sarvalokanamaskṛtaḥ 48 agnidattaś ca vai divyo rathaḥ kāñcanabhūṣaṇaḥ acchedyaḥ sarvato vīra vājinaś ca manojavāḥ dhvajaś ca divyo dyutimān vānaro vismayaṃ karaḥ 49 kṛṣṇaś ca sraṣṭā jagato rathaṃ tam abhirakṣati ebhir dravyair ahaṃ hīno yoddhum icchāmi pāṇḍavam 50 ayaṃ tu sadṛśo vīraḥ śalyaḥ samitiśobhanaḥ sārathyaṃ yadi me kuryād dhruvas te vijayo bhavet 51 tasya me sārathiḥ śalyo bhavatv asu karaḥ paraiḥ nārācān gārdhrapatrāṃś ca śakaṭāni vahantu me 52 rathāś ca mukhyā rājendra yuktā vājibhir uttamaiḥ āyāntu paścāt satataṃ mām eva bharatarṣabha 53 evam abhyadhikaḥ pārthād bhaviṣyāmi guṇair aham śalyo hy abhyadhikaḥ kṛṣṇād arjunād adhiko hy aham 54 yathāśvahṛdayaṃ veda dāśārhaḥ paravīrahā tathā śalyo 'pi jānīte hayānāṃ vai mahārathaḥ 55 bāhuvīrye samo nāsti madrarājasya kaś cana tathāstrair matsamo nāsti kaś cid eva dhanurdharaḥ 56 tathā śalya samo nāsti hayayāne ha kaś cana so 'yam abhyadhikaḥ pārthād bhaviṣyati ratho mama 57 etat kṛtaṃ mahārāja tvayecchāmi paraṃtapa evaṃ kṛte kṛtaṃ mahyaṃ sarvakāmair bhaviṣyati 58 tato draṣṭāsi samare yat kariṣyāmi bhārata sarvathā pāṇḍavān sarvāñ jeṣyāmy adya samāgatān 59 [dur] sarvam etat kariṣyāmi yathā tvaṃ karṇa manyase sopāsaṅgā rathāḥ sāśvā anuyāsyanti sūtaja 60 nārācān gārdhrapakṣāṃś ca śakaṭāni vahantu te anuyāsyāma karṇa tvāṃ vayaṃ sarve ca pārthivāḥ 61 [s] evam uktvā mahārāja tava putrāḥ pratāpavān abhigamyābravīd rājā madrarājam idaṃ vacaḥ |
The Mahabharata in Sanskrit
Book 8
Chapter 23
|
1
[स] पुत्रस तव महाराज मद्रराजम इदं वचः विनयेनॊपसंगम्य परणयाद वाक्यम अब्रवीत 2 सत्यव्रत महाभाग दविषताम अघवर्धन मद्रेश्वर रणे शूर परसैन्यभयंकर 3 शरुतवान असि कर्णस्य बरुवतॊ वदतां वर यथा नृपतिसिंहानां मध्ये तवां वरयत्य अयम 4 तस्मात पार्थ विनाशार्थं हितार्थं मम चैव हि सारथ्यं रथिनां शरेष्ठ सुमनाः कर्तुम अर्हसि 5 अस्याभीशु गरहॊ लॊके नान्यॊ ऽसति भवता समः स पातु सर्वतः कर्णं भवान बरह्मेव शंकरम 6 पार्थस्य सचिवः कृष्णॊ यथाभीशु गरहॊ वरः तथा तवम अपि राधेयं सर्वतः परिपालय 7 भीष्मॊ दरॊणः कृपः कर्णॊ भवान भॊजश च वीर्यवान शकुनिः सौबलॊ दरौणिर अहम एव च नॊ बलम एषाम एव कृतॊ भागॊ नवधा पृतना पते 8 नैव भागॊ ऽतर भीष्मस्य दरॊणस्य च महात्मनः ताभ्याम अतीत्य तौ भागौ निहता मम शत्रवः 9 वृद्धौ हि तौ नरव्याघ्रौ छलेन निहतौ च तौ कृत्वा नसुकरं कर्म गतौ सवर्गम इतॊ ऽनघ 10 तथान्ये पुरुषव्याघ्राः परैर विनिहता युधि अस्मदीयाश च बहवः सवर्गायॊपगता रणे तयक्त्वा पराणान यथाशक्ति चेष्टाः कृत्वा च पुष्कलाः 11 कर्णॊ हय एकॊ महाबाहुर अस्मत्प्रियहिते रतः भवांश च पुरुषव्याघ्र सर्वलॊकमहारथः तस्मिञ जयाशा विपुला मम मद्रजनाधिप 12 पार्थस्य समरे कृष्णॊ यथाभीशु वरग्रहः तेन युक्तॊ रणे पार्थॊ रक्ष्यमाणश च पार्थिव यानि कर्माणि कुरुते परत्यक्षाणि तथैव ते 13 पूर्वं न समरे हय एवम अवधीद अर्जुनॊ रिपून अहन्य अहनि मद्रेश दरावयन दृश्यते युधि 14 भागॊ ऽवशिष्टः कर्णस्य तव चैव महाद्युते तं भागं सह कर्णेन युगपन नाशयाहवे 15 सूर्यारुणौ यथादृष्ट्वा तमॊ नश्यति मारिष तथा नश्यन्तु कौन्तेयाः सपाञ्चालाः ससृञ्जयाः 16 रथानां परवरः कर्णॊ यन्तॄणां परवरॊ भवान संनिपातः समॊ लॊके भवतॊर नास्ति कश चन 17 यथा सर्वास्व अवस्थासु वार्ष्णेयः पाति पाण्डवम तथा भवान परित्रातु कर्णं वैकर्तनं रणे 18 तवया सारथिना हय एष अप्रधृष्यॊ भविष्यति देवतानाम अपि रणे सशक्राणां महीपते किं पुनः पाण्डवेयानां मातिशङ्कीर वचॊ मम 19 दुर्यॊधन वचः शरुत्वा शल्यः करॊधसमन्वितः तरिशिखां भरुकुटीं कृत्वा धुन्वन हस्तौ पुनः पुनः 20 करॊधरक्ते महानेत्रे परिवर्त्य महाभुजः कुलैश्वर्यश्रुतिबलैर दृप्तः शल्यॊ ऽबरवीद इदम 21 अवमन्यसे मां गान्धारे धरुवं मां परिशङ्कसे यन मां बरवीषि विस्रब्धं सारथ्यं करियताम इति 22 अस्मत्तॊ ऽभयधिकं कर्णं मन्यमानः परशंससि न चाहं युधि राधेयं गणये तुल्यम आत्मना 23 आदिश्यताम अभ्यधिकॊ ममांशः पृथिवीपते तम अहं समरे हत्वा गमिष्यामि यथागतम 24 अथ वाप्य एक एवाहं यॊत्स्यामि कुरुनन्दन पश्य वीर्यं ममाद्य तवं संग्रामे दहतॊ रिपून 25 न चाभिकामान कौरव्य विधाय हृदये पुमान अस्मद्विधः परवर्तेत मा मा तवम अतिशङ्किथाः 26 युधि चाप्य अवमानॊ मे न कर्तव्यः कथं चन पश्य हीमौ मम भुजौ वज्रसंहननॊपमौ 27 धनुः पश्य च मे चित्रं शरांश चाशीविषॊपमान रथं पश्य च मे कॢप्तं सदश्वैर वातवेगितैः गदां च पश्य गान्धारे हेमपट्ट विभूषिताम 28 दारयेयं महीं करुद्धॊ विकिरेयं च पर्वतान शॊषयेयं समुद्रांश च तेजसा सवेन पार्थिव 29 तन माम एवंविधं जानन समर्थम अरिनिग्रहे कस्माद युनक्षि सारथ्ये नयूनस्याधिरथेर नृप 30 न नाम धुरि राजेन्द्र परयॊक्तुं तवम इहार्हसि न हि पापीयसः शरेयान भूत्वा परेष्यत्वम उत्सहे 31 यॊ हय अभ्युपगतं परीत्या गरीयांसं वशे सथितम वशे पापीयसॊ धत्ते तत पापम अधरॊत्तरम 32 बराह्मणा बरह्मणा सृष्टा मुखात कषत्रम अथॊरसः ऊरुभ्याम असृजद वैश्याञ शूद्रान पद्भ्याम इति शरुतिः तेभ्यॊ वर्णविशेषाश च परतिलॊमानुलॊमजाः 33 अथान्यॊन्यस्य संयॊगाच चातुर्वर्ण्यस्य भारत गॊप्तारः संग्रहीतारौ दातारः कषत्रियाः समृताः 34 याजनाध्यापनैर विप्रा विशुद्धैश च परतिग्रहैः लॊकस्यानुग्रहार्थाय सथापिता बरह्मणा भुवि 35 कृषिश च पाशुपाल्यं च विशां दानं च सर्वशः बरह्मक्षत्रविशां शूद्रा विहिताः परिचारकाः 36 बरह्मक्षत्रस्य विहितः सूता वै परिचारकाः न विट शूद्रस्य तत्रैव शृणु वाक्यं ममानघ 37 सॊ ऽहं मूर्धावसिक्तः सन राजर्षिकुलसंभवः महारथः समाख्यातः सेव्यः सतव्यश च बन्दिनाम 38 सॊ ऽहम एतादृशॊ भूत्वा नेहारि कुलमर्दन सूतपुत्रस्य संग्रामे सारथ्यं कर्तुम उत्सहे 39 अवमानम अहं पराप्य न यॊत्स्यामि कथं चन आपृच्छ्य तवाद्य गान्धारे गमिष्यामि यथागतम 40 एवम उक्त्वा नरव्याघ्रः शल्यः समितिशॊभनः उत्थाय परययौ तूर्णं राजमध्याद अमर्षितः 41 परणयाद बहुमानाच च तं निगृह्य सुतस तव अब्रवीन मधुरं वाक्यं साम सर्वार्थसाधकम 42 यथा शल्य तवम आत्थेदम एवम एतद असंशयम अभिप्रायस तु मे कश चित तं निबॊध जनेश्वर 43 न कर्णॊ ऽभयधिकस तवत्तः शङ्के नैव कथं चन न हि मद्रेश्वरॊ राजा कुर्याद यद अनृतं भवेत 44 ऋतम एव हि पूर्वास ते वहन्ति पुरुषॊत्तमाः तस्माद आर्तायनिः परॊक्तॊ भवान इति मतिर मम 45 शल्य भूतश च शत्रूणां यस्मात तवं भुवि मानद तस्माच छल्येति ते नाम कथ्यते पृथिवीपते 46 यद एव वयाहृतं पूर्वं भवता भूरिदक्षिण तद एव कुरु धर्मज्ञ मदर्थं यद यद उच्यसे 47 न च तवत्तॊ हि राधेयॊ न चाहम अपि वीर्यवान वृणीमस तवां हयाग्र्याणां यन्तारम इति संयुगे 48 यथा हय अभ्यधिकं कर्णं गुणैस तात धनंजयात वासुदेवाद अपि तवां च लॊकॊ ऽयम इति मन्यते 49 कर्णॊ हय अभ्यधिकः पार्थाद अस्त्रैर एव नरर्षभ भवान अप्य अधिकः कृष्णाद अश्वयाने बले तथा 50 यथाश्वहृदयं वेद वासुदेवॊ महामनाः दविगुणं तवं तथा वेत्थ मद्रराज न संशयः 51 [ष] यन मा बरवीषि गान्धारे मध्ये सैन्यस्य कौरव विशिष्टं देवकीपुत्रात परीतिमान अस्म्य अहं तवयि 52 एष सारथ्यम आतिष्ठे राधेयस्य यशस्विनः युध्यतः पाण्डवाग्र्येण यथा तवं वीर मन्यसे 53 समयश च हि मे वीर कश चिद वैकर्तनं परति उत्सृजेयं यथाश्रद्धम अहं वाचॊ ऽसय संनिधौ 54 [स] तथेति राजन पुत्रस ते सह कर्णेन भारत अब्रवीन मद्रराजस्य सुतं भरतसत्तम |
1
[s] putras tava mahārāja madrarājam idaṃ vacaḥ vinayenopasaṃgamya praṇayād vākyam abravīt 2 satyavrata mahābhāga dviṣatām aghavardhana madreśvara raṇe śūra parasainyabhayaṃkara 3 śrutavān asi karṇasya bruvato vadatāṃ vara yathā nṛpatisiṃhānāṃ madhye tvāṃ varayaty ayam 4 tasmāt pārtha vināśārthaṃ hitārthaṃ mama caiva hi sārathyaṃ rathināṃ śreṣṭha sumanāḥ kartum arhasi 5 asyābhīśu graho loke nānyo 'sti bhavatā samaḥ sa pātu sarvataḥ karṇaṃ bhavān brahmeva śaṃkaram 6 pārthasya sacivaḥ kṛṣṇo yathābhīśu graho varaḥ tathā tvam api rādheyaṃ sarvataḥ paripālaya 7 bhīṣmo droṇaḥ kṛpaḥ karṇo bhavān bhojaś ca vīryavān śakuniḥ saubalo drauṇir aham eva ca no balam eṣām eva kṛto bhāgo navadhā pṛtanā pate 8 naiva bhāgo 'tra bhīṣmasya droṇasya ca mahātmanaḥ tābhyām atītya tau bhāgau nihatā mama śatravaḥ 9 vṛddhau hi tau naravyāghrau chalena nihatau ca tau kṛtvā nasukaraṃ karma gatau svargam ito 'nagha 10 tathānye puruṣavyāghrāḥ parair vinihatā yudhi asmadīyāś ca bahavaḥ svargāyopagatā raṇe tyaktvā prāṇān yathāśakti ceṣṭāḥ kṛtvā ca puṣkalāḥ 11 karṇo hy eko mahābāhur asmatpriyahite rataḥ bhavāṃś ca puruṣavyāghra sarvalokamahārathaḥ tasmiñ jayāśā vipulā mama madrajanādhipa 12 pārthasya samare kṛṣṇo yathābhīśu varagrahaḥ tena yukto raṇe pārtho rakṣyamāṇaś ca pārthiva yāni karmāṇi kurute pratyakṣāṇi tathaiva te 13 pūrvaṃ na samare hy evam avadhīd arjuno ripūn ahany ahani madreśa drāvayan dṛśyate yudhi 14 bhāgo 'vaśiṣṭaḥ karṇasya tava caiva mahādyute taṃ bhāgaṃ saha karṇena yugapan nāśayāhave 15 sūryāruṇau yathādṛṣṭvā tamo naśyati māriṣa tathā naśyantu kaunteyāḥ sapāñcālāḥ sasṛñjayāḥ 16 rathānāṃ pravaraḥ karṇo yantṝṇāṃ pravaro bhavān saṃnipātaḥ samo loke bhavator nāsti kaś cana 17 yathā sarvāsv avasthāsu vārṣṇeyaḥ pāti pāṇḍavam tathā bhavān paritrātu karṇaṃ vaikartanaṃ raṇe 18 tvayā sārathinā hy eṣa apradhṛṣyo bhaviṣyati devatānām api raṇe saśakrāṇāṃ mahīpate kiṃ punaḥ pāṇḍaveyānāṃ mātiśaṅkīr vaco mama 19 duryodhana vacaḥ śrutvā śalyaḥ krodhasamanvitaḥ triśikhāṃ bhrukuṭīṃ kṛtvā dhunvan hastau punaḥ punaḥ 20 krodharakte mahānetre parivartya mahābhujaḥ kulaiśvaryaśrutibalair dṛptaḥ śalyo 'bravīd idam 21 avamanyase māṃ gāndhāre dhruvaṃ māṃ pariśaṅkase yan māṃ bravīṣi visrabdhaṃ sārathyaṃ kriyatām iti 22 asmatto 'bhyadhikaṃ karṇaṃ manyamānaḥ praśaṃsasi na cāhaṃ yudhi rādheyaṃ gaṇaye tulyam ātmanā 23 ādiśyatām abhyadhiko mamāṃśaḥ pṛthivīpate tam ahaṃ samare hatvā gamiṣyāmi yathāgatam 24 atha vāpy eka evāhaṃ yotsyāmi kurunandana paśya vīryaṃ mamādya tvaṃ saṃgrāme dahato ripūn 25 na cābhikāmān kauravya vidhāya hṛdaye pumān asmadvidhaḥ pravarteta mā mā tvam atiśaṅkithāḥ 26 yudhi cāpy avamāno me na kartavyaḥ kathaṃ cana paśya hīmau mama bhujau vajrasaṃhananopamau 27 dhanuḥ paśya ca me citraṃ śarāṃś cāśīviṣopamān rathaṃ paśya ca me kḷptaṃ sadaśvair vātavegitaiḥ gadāṃ ca paśya gāndhāre hemapaṭṭa vibhūṣitām 28 dārayeyaṃ mahīṃ kruddho vikireyaṃ ca parvatān śoṣayeyaṃ samudrāṃś ca tejasā svena pārthiva 29 tan mām evaṃvidhaṃ jānan samartham arinigrahe kasmād yunakṣi sārathye nyūnasyādhirather nṛpa 30 na nāma dhuri rājendra prayoktuṃ tvam ihārhasi na hi pāpīyasaḥ śreyān bhūtvā preṣyatvam utsahe 31 yo hy abhyupagataṃ prītyā garīyāṃsaṃ vaśe sthitam vaśe pāpīyaso dhatte tat pāpam adharottaram 32 brāhmaṇā brahmaṇā sṛṣṭā mukhāt kṣatram athorasaḥ ūrubhyām asṛjad vaiśyāñ śūdrān padbhyām iti śrutiḥ tebhyo varṇaviśeṣāś ca pratilomānulomajāḥ 33 athānyonyasya saṃyogāc cāturvarṇyasya bhārata goptāraḥ saṃgrahītārau dātāraḥ kṣatriyāḥ smṛtāḥ 34 yājanādhyāpanair viprā viśuddhaiś ca pratigrahaiḥ lokasyānugrahārthāya sthāpitā brahmaṇā bhuvi 35 kṛṣiś ca pāśupālyaṃ ca viśāṃ dānaṃ ca sarvaśaḥ brahmakṣatraviśāṃ śūdrā vihitāḥ paricārakāḥ 36 brahmakṣatrasya vihitaḥ sūtā vai paricārakāḥ na viṭ śūdrasya tatraiva śṛṇu vākyaṃ mamānagha 37 so 'haṃ mūrdhāvasiktaḥ san rājarṣikulasaṃbhavaḥ mahārathaḥ samākhyātaḥ sevyaḥ stavyaś ca bandinām 38 so 'ham etādṛśo bhūtvā nehāri kulamardana sūtaputrasya saṃgrāme sārathyaṃ kartum utsahe 39 avamānam ahaṃ prāpya na yotsyāmi kathaṃ cana āpṛcchya tvādya gāndhāre gamiṣyāmi yathāgatam 40 evam uktvā naravyāghraḥ śalyaḥ samitiśobhanaḥ utthāya prayayau tūrṇaṃ rājamadhyād amarṣitaḥ 41 praṇayād bahumānāc ca taṃ nigṛhya sutas tava abravīn madhuraṃ vākyaṃ sāma sarvārthasādhakam 42 yathā śalya tvam ātthedam evam etad asaṃśayam abhiprāyas tu me kaś cit taṃ nibodha janeśvara 43 na karṇo 'bhyadhikas tvattaḥ śaṅke naiva kathaṃ cana na hi madreśvaro rājā kuryād yad anṛtaṃ bhavet 44 ṛtam eva hi pūrvās te vahanti puruṣottamāḥ tasmād ārtāyaniḥ prokto bhavān iti matir mama 45 śalya bhūtaś ca śatrūṇāṃ yasmāt tvaṃ bhuvi mānada tasmāc chalyeti te nāma kathyate pṛthivīpate 46 yad eva vyāhṛtaṃ pūrvaṃ bhavatā bhūridakṣiṇa tad eva kuru dharmajña madarthaṃ yad yad ucyase 47 na ca tvatto hi rādheyo na cāham api vīryavān vṛṇīmas tvāṃ hayāgryāṇāṃ yantāram iti saṃyuge 48 yathā hy abhyadhikaṃ karṇaṃ guṇais tāta dhanaṃjayāt vāsudevād api tvāṃ ca loko 'yam iti manyate 49 karṇo hy abhyadhikaḥ pārthād astrair eva nararṣabha bhavān apy adhikaḥ kṛṣṇād aśvayāne bale tathā 50 yathāśvahṛdayaṃ veda vāsudevo mahāmanāḥ dviguṇaṃ tvaṃ tathā vettha madrarāja na saṃśayaḥ 51 [ṣ] yan mā bravīṣi gāndhāre madhye sainyasya kaurava viśiṣṭaṃ devakīputrāt prītimān asmy ahaṃ tvayi 52 eṣa sārathyam ātiṣṭhe rādheyasya yaśasvinaḥ yudhyataḥ pāṇḍavāgryeṇa yathā tvaṃ vīra manyase 53 samayaś ca hi me vīra kaś cid vaikartanaṃ prati utsṛjeyaṃ yathāśraddham ahaṃ vāco 'sya saṃnidhau 54 [s] tatheti rājan putras te saha karṇena bhārata abravīn madrarājasya sutaṃ bharatasattama |
The Mahabharata in Sanskrit
Book 8
Chapter 24
|
1
[दुर] भूय एव तु मद्रेश यत ते वक्ष्यामि तच छृणु यथा पुरावृत्तम इदं युद्धे देवासुरे विभॊ 2 यद उक्तवान पितुर मह्यं मार्कण्डेयॊ महान ऋषिः तद अशेषेण बरुवतॊ मम राजर्षिसत्तम तवं निबॊध न चाप्य अत्र कर्तव्या ते विचारणा 3 देवानाम असुराणां च महान आसीत समागमः बभूव परथमॊ राजन संग्रामस तारका मयः निर्जिताश च तदा दैत्या दैवतैर इति नः शरुतम 4 निर्जितेषु च दैत्येषु तारकस्य सुतास तरयः ताराक्षः कमलाक्षश च विद्युन्माली च पार्थिव 5 तप उग्रं समास्थाय नियमे परमे सथिताः तपसा कर्शयाम आसुर देहान सवाञ शत्रुतापन 6 दमेन तपसा चैव नियमेन च पार्थिव तेषां पितामहः परीतॊ वरदः परददौ वरान 7 अवध्यत्वं च ते राजन सर्वभूतेषु सर्वदा सहिता वरयाम आसुः सर्वलॊकपितामहम 8 तान बरवीत तदा देवॊ लॊकानां परभुर ईश्वरः नास्ति सर्वामरत्वं हि निवर्तध्वम अतॊ ऽसुराः वरम अन्यं वृणीध्वं वै यादृशं संप्ररॊचते 9 ततस ते सहिता राजन संप्रधार्यासकृद बहु सर्वलॊकेश्वरं वाक्यं परणम्यैनम अथाब्रुवन 10 अस्माकं तवं वरं देव परयच्छेमं पितामह वयं पुराणि तरीण्य एव समास्थाय महीम इमाम विचरिष्याम लॊके ऽसमिंस तवत्प्रसाद पुरस्कृताः 11 ततॊ वर्षसहस्रे तु समेष्यामः परस्परम एकीभावं गमिष्यन्ति पुराण्य एतानि चानघ 12 समागतानि चैतानि यॊ हन्याद भगवंस तदा एकेषुणा देववरः स नॊ मृत्युर भविष्यति एवम अस्त्व इति तान देवः परत्युक्त्वा पराविशद दिवम 13 ते तु लब्धवराः परीताः संप्रधार्य परस्परम पुरत्रय विसृष्ट्य अर्थं मयं वव्रुर महासुरम विश्वकर्माणम अजरं दैत्यदानव पूजितम 14 ततॊ मयः सवतपसा चक्रे धीमान पुराणि ह तरीणि काञ्चनम एकं तु रौप्यं कार्ष्णायसं तथा 15 काञ्चनं दिवि तत्रासीद अन्तरिक्षे च राजतम आयसं चाभवद भूमौ चक्रस्थं पृथिवीपते 16 एकैकं यॊजनशतं विस्तारायाम संमितम गृहाट्टाट्टालक युतं बृहत पराकारतॊरणम 17 गुणप्रसव संबाधम असंबाधम अनामयम परासादैर विविधैश चैव दवारैश चाप्य उपशॊभितम 18 पुरेषु चाभवन राजन राजानॊ वै पृथक पृथक काञ्चनं तारकाक्षस्य चित्रम आसीन महात्मनः राजतं कमलाक्षस्य विद्युन्मालिन आयसम 19 तरयस ते दैत्य राजानस तरीँल लॊकान आशु तेजसा आक्रम्य तस्थुर वर्षाणां पूगान नाम परजापतिः 20 तेषां दानवमुख्यानां परयुतान्य अर्बुदानि च कॊट्यश चाप्रतिवीराणां समाजग्मुस ततस ततः महद ऐश्वर्यम इच्छन्तस तरिपुरं दुर्गम आश्रिताः 21 सर्वेषां च पुनस तेषां सर्वयॊगवहॊ मयः तम आश्रित्य हि ते सर्वे अवर्तन्ताकुतॊ भयाः 22 यॊ हि यं मनसा कामं दध्यौ तरिपुरसंश्रयः तस्मै कामं मयस तं तं विदधे मायया तदा 23 तारकाक्ष सुतश चासीद धरिर नाम महाबलः तपस तेपे परमकं येनातुष्यत पितामहः 24 स तुष्टम अवृणॊद देवं वापी भवतु नः पुरे शस्त्रैर विनिहता यत्र कषिप्ताः सयुर बलवत्तराः 25 स तु लब्ध्वा वरं वीरस तारकाक्ष सुतॊ हरिः ससृजे तत्र वापीं तां मृतानां जीवनीं परभॊ 26 येन रूपेण दैत्यस तु येन वेषेण चैव ह मृतस तस्यां परिक्षिप्तस तादृशेनैव जज्ञिवान 27 तां पराप्य तरैपुरस्थास तु सर्वाँल लॊकान बबाधिरे महता तपसा सिद्धाः सुराणां भयवर्धनाः न तेषाम अभवद राजन कषयॊ युद्धे कथं चन 28 ततस ते लॊभमॊहाभ्याम अभिभूता विचेतसः निर्ह्रीकाः संस्थितिं सर्वे सथापितां समलूलुपन 29 विद्राव्य सगणान देवांस तत्र तत्र तदा तदा विचेरुः सवेन कामेन वरदानेन दर्पिताः 30 देवारण्यानि सर्वाणि परियाणि च दिवौकसाम ऋषीणाम आश्रमान्पुण्यान यूपाञ्जन पदांस तथा वयनाशयन्त मर्यादा दानवा दुष्टचारिणः 31 ते देवाः सहिताः सर्वे पितामहम अरिंदम अभिजग्मुस तदाख्यातुं विप्र कारं सुरेतरैः 32 ते तत्त्वं सर्वम आख्याय शिरसाभिप्रणम्य च वधॊपायमपृच्छन्त भगवन्तं पितामहम 33 शरुत्वा तद भगवान देवॊ देवान इदम उवाच ह असुराश च दुरात्मानस ते चापि विभुध दविषः अपराध्यन्ति सततं ये युष्मान पीडयन्त्य उत 34 अहं हि तुल्यः सर्वेषां भूतानां नात्र संशयः अधार्मिकास तु हन्तव्या इत्य अहं परब्रवीमि वः 35 ते यूयं सथाणुम ईशानं जिष्णुम अक्लिष्टकारिणम यॊद्धारं वृणुतादित्याः स तान हन्ता सुरेतरान 36 इति तस्य वचः शरुत्वा देवाः शक्रपुरॊगमाः बरह्माणम अग्रतः कृत्वा वृषाङ्कं शरणं ययुः 37 तपः परं समातस्थुर गृणन्तॊ बरह्म शाश्वतम ऋषिभिः सहधर्मज्ञा भवं सर्वात्मना गताः 38 तुष्टुवुर वाग्भिर अर्थ्याभिर भयेष्व अभयकृत्तमम सर्वात्मानं महात्मानं येनाप्तं सर्वम आत्मना 39 तपॊ विशेषैर बहुभिर यॊगं यॊ वेद चात्मनः यः सांख्यम आत्मनॊ वेद यस्य चात्मा वशे सदा 40 ते तं ददृशुर ईशानं तेजॊराशिम उमापतिम अनन्यसदृशं लॊके वरतवन्तम अकल्मषम 41 एकं च भगवन्तं ते नानारूपम अकल्पयन आत्मनः परतिरूपाणि रूपाण्य अथ महात्मनि परस्परस्य चापश्यन सर्वे परमविस्मिताः 42 सर्वभूतमयं चेशं तम अजं जगतः पतिम देवा बरह्मर्षयश चैव शिरॊभिर धरणीं गताः 43 तान सवस्ति वाक्येनाभ्यर्च्य समुत्थाप्य च शंकरः बरूत बरूतेति भगवान समयमानॊ ऽभयभाषत 44 तर्यम्बकेणाभ्यनुज्ञातास ततस ते ऽसवस्थचेतसः नमॊ नमस ते ऽसतु विभॊ तत इत्य अब्रुवन भवम 45 नमॊ देवातिदेवाय धन्विने चातिमन्यवे परजापतिमखघ्नाय परजापतिभिर ईड्यसे 46 नमः सतुताय सतुत्याय सतूयमानाय मृत्यवे विलॊहिताय रुद्राय नीलग्रीवाय शूलिने 47 अमॊघाय मृगाक्षाय परवरायुध यॊधिने दुर्वारणाय शुक्राय बरह्मणे बरह्मचारिणे 48 ईशानायाप्रमेयाय नियन्त्रे चर्म वाससे तपॊनित्याय पिङ्गाय वरतिने कृत्ति वाससे 49 कुमार पित्रे तर्यक्षाय परवरायुध धारिणे परपन्नार्ति विनाशाय बरह्म दविट संघघातिने 50 वनस्पतीनां पतये नराणां पतये नमः गवां च पतये नित्यं यज्ञानां पतये नमः 51 नमॊ ऽसतु ते ससैन्याय तर्यम्बकायॊग्र तेजसे मनॊवाक कर्मभिर देव तवां परपन्नान भजस्व नः 52 ततः परसन्नॊ भगवान सवागतेनाभिनन्द्य तान परॊवाच वयेतु वस्त्रासॊ बरूत किं करवाणि वः 53 पितृदेवर्षिसंघेभ्यॊ वरे दत्ते महात्मना सत्कृत्य शंकरं पराह बरह्मा लॊकहितं वचः 54 तवातिसर्गाद देवेश पराजापत्यम इदं पदम मयाधितिष्ठता दत्तॊ दानवेभ्यॊ महान वरः 55 तान अतिक्रान्त मर्यादान नान्यः संहर्तुम अर्हति तवाम ऋते भूतभव्येश तवं हय एषां परत्य अरिर वधे 56 स तवं देव परपन्नानां याचतां च दिवौकसाम कुरु परसादं देवेश दानवाञ जहि शूलभृत 57 [भग] हन्तव्याः शत्रवः सर्वे युष्माकम इति मे मतिः न तव एकॊ ऽहं वधे तेषां समर्थॊ वै सुरद्विषाम 58 ते यूयं सहिताः सर्वे मदीयेनास्त्र तेजसा जयध्वं युधि ताञ शत्रून संघातॊ हि महाबलः 59 [देवाह] अस्मत तेजॊबलं यावत तावद दविगुणम एव च तेषाम इति ह मन्यामॊ दृष्टतेजॊबला हि ते 60 [भग] वध्यास ते सर्वतः पापा ये युष्मास्व अपराधिनः मम तेजॊबलार्धेन सर्वांस तान घनत शात्रवान 61 [देवाह] बिभर्तुं तेजसॊ ऽरधं ते न शक्ष्यामॊ महेश्वर सर्वेषां नॊ बलार्धेन तवम एव जहि शात्रवान 62 [दुर] ततस तथेति देवेशस तैर उक्तॊ राजसत्तम अर्धम आदाय सर्वेभ्यस तेजसाभ्यधिकॊ ऽभवत 63 स तु देवॊ बलेनासीत सर्वेभ्यॊ बलवत्तरः महादेव इति खयातस तदा परभृति शंकरः 64 ततॊ ऽबरवीन महादेवॊ धनुर बाणधरस तव अहम हनिष्यामि रथेनाजौ तान रिपून वै दिवौकसः 65 ते यूयं मे रथं चैव धनुर बाणं तथैव च पश्यध्वं यावद अद्यैतान पातयामि महीतले 66 [देवाह] मूर्ति सर्वस्वम आदाय तरैलॊक्यस्य ततस ततः रथं ते कल्पयिष्याम देवेश्वर महौजसम 67 तथैव बुद्ध्या विहितं विश्वकर्म कृतं शुभम ततॊ विबुधशार्दूलास तं रथं समकल्पयन 68 वन्धुरं पृथिवीं देवीं विशालपुरमालिनीम सपर्वतवनद्वीपां चक्रूर भूतधरां तदा 69 मन्दरं पर्वतं चाक्षं जङ्घास तस्य महानदीः दिशश च परदिशश चैव परिवारं रथस्य हि 70 अनुकर्षान गरहान दीप्तान वरूथं चापि तारकाः धर्मार्थकामसंयुक्तं तरिवेणुं चापि बन्धुरम ओषधीर विविधास तत्र नानापुष्पफलॊद्गमाः 71 सूर्या चन्द्रमसौ कृत्वा चक्रे रथवरॊत्तमे पक्षौ पूर्वापरौ तत्र कृते रात्र्यहनी शुभे 72 दशनागपतीनीषाम धृतराष्ट्र मुखान दृढाम दयां युगं युगचर्माणि संवर्तक बलाहकान 73 शम्यां धृतिं च मेघां च सथितिं संनतिम एव च गरहनक्षत्रताराभिश चर्म चित्रं नभस्तलम 74 सुराम्बुप्रेतवित्तानां पतीँल लॊकेश्वरान हयान सिनीवालीम अनुमतिं कुहूं राकां च सुव्रताम यॊक्त्राणि चक्रुर वाहानां रॊहकांश चापि कण्ठकम 75 कर्म सत्यं तपॊ ऽरथश च विहितास तत्र रश्मयः अधिष्ठानं मनस तव आसीत परिरथ्यं सरस्वती 76 नानावर्णाश च चित्राश च पताकाः पवनेरिताः विद्युद इन्द्र धनुर नद्धं रथं दीप्तं वयदीपयत 77 एवं तस्मिन महाराज कल्पिते रथसत्तमे देवैर मनुजशार्दूल दविषताम अभिमर्दने 78 सवान्य आयुधानि मुख्यानि नयदधाच छंकरॊ रथे रथयष्टिं वियत कृष्टां सथापयाम आस गॊवृषम 79 बरह्मदण्डः कालदण्डॊ रुद्र दण्डस तथा जवरः परिस्कन्दा रथस्यास्य सर्वतॊदिशम उद्यताः 80 अथर्वाङ्गिरसाव आस्तां चक्ररक्षौ महात्मनः ऋग्वेदः सामवेदश च पुराणं च पुरःसराः 81 इतिहास यजुर्वेदौ पृष्ठरक्षौ बभूवतुः दिव्या वाचश च विद्याश च परिपार्श्व चराः कृताः 82 तॊत्त्रादयश च राजेन्द्र वषट्कारस तथैव च ओंकारश च मुखे राजन्न अतिशॊभा करॊ ऽभवत 83 विचित्रम ऋतुभिः षड्भिः कृत्वा संवत्सरं धनुः तस्मान नॄणां कालरात्रिर जया कृता धनुषॊ ऽजरा 84 इषुश चाप्य अभवद विष्णुर जवलनः सॊम एव च अग्नी षॊमौ जगत कृत्स्नं वैष्णवं चॊच्यते जगत 85 विष्णुश चात्मा भगवतॊ भवस्यामित तेजसः तस्माद धनुर्ज्या संस्पर्शं न विषेहुर हरस्य ते 86 तस्मिञ शरे तिग्ममन्युर मुमॊचाविषहं परभुः भृग्वङ्गिरॊ मन्युभवं करॊधाग्निम अतिदुःसहम 87 स नीललॊहितॊ धूम्रः कृत्तिवासा भयंकरः आदित्यायुत संकाशस तेजॊ जवालावृतॊ जवलन 88 दुश्च्यावश चयावनॊ जेता हन्ता बरह्म दविषां हरः नित्यं तराता च हन्ता च धर्माधर्माश्रिताञ जनान 89 परमाथिभिर घॊररूपैर भीमॊदग्रैर गणैर वृतः विभाति भगवान सथाणुस तैर एवात्म गुणैर वृतः 90 तस्याङ्गानि समाश्रित्य सथितं विश्वम इदं जगत जङ्गमाजङ्गमं राजञ शुशुभे ऽदभुतदर्शनम 91 दृष्ट्वा तु तं रथं दिव्यं कवची स शरासनी बाणम आदत्त तं दिव्यं सॊमविष्ण्व अग्निसंभवम 92 तस्य वाजांस ततॊ देवाः कल्पयां चक्रिरे विभॊः पुण्यगन्धवहं राजञ शवसनं राजसत्तम 93 तम आस्थाय महादेवस तरासयन दैवतान्य अपि आरुरॊह तदा यत्तः कम्पयन्न इव रॊदसी 94 स शॊभमानॊ वरदः खड्गी बाणी शरासनी हसन्न इवारवीद देवॊ सारथिः कॊ भविष्यति 95 तम अब्रुवन देवगणा यं भवान संनियॊक्ष्यते स भविष्यति देवेश सारथिस ते न संशयः 96 तान अब्रवीत पुनर देवॊ मत्तः शरेष्ठतरॊ हि यः तं सारथिं कुरुध्वं मे सवयं संचिन्त्य माचिरम 97 एतच छरुत्वा ततॊ देवा वाक्यम उक्तं महात्मना गत्वा पितामहं देवं परसाद्यैवं वचॊ ऽबरुवन 98 देव तवयेदं कथितं तरिदशारिनिबर्हणम तथा च कृतम अस्माभिः परसन्नॊ वृषभध्वजः 99 रथश च विहितॊ ऽसमाभिर विचित्रायुध संवृतः सारथिं तु न जानीमः कः सयात तस्मिन रथॊत्तमे 100 तस्माद विधीयतां कश चित सारथिर देव सत्तम सफलां तां गिरं देवकर्तुम अर्हसि नॊ विभॊ 101 एवम अस्मासु हि पुरा भगवन्न उक्तवान असि हितंकर्तास्मि भवताम इति तत कर्तुम अर्हसि 102 स देव युक्तॊ रथसत्तमॊ नॊ; दुरावरॊ दरावणः शात्रवाणाम पिनाक पाणिर विहितॊ ऽतर यॊद्धा; विभीषयन दानवान उद्यतॊ ऽसौ 103 तथैव वेदाश चतुरॊ हयाग्र्या; धरा सशैला च रथॊ महात्मन नक्षत्रवंशॊ ऽनुगतॊ वरूथे; यस्मिन यॊद्धा सारथिनाभिरक्ष्यः 104 तत्र सारथिर एष्टव्यः सर्वैर एतैर विशेषवान तत परतिष्ठॊ रथॊ देव हया यॊद्धा तथैव च कवचानि च शस्त्राणि कार्मुकं च पितामह 105 तवाम ऋते सारथिं तत्र नान्यं पश्यामहे वयम तवं हि सर्वैर गुणैर युक्तॊ देवताभ्यॊ ऽधिकः परभॊ सारथ्ये तूर्णम आरॊह संयच्छ परमान हयान 106 इति ते शिरसा नत्वा तरिलॊकेशं पितामहम देवाः परसादयाम आसुः सारथ्यायेति नः शरुतम 107 [बरह्मा] नात्र किं चिन मृषा वाक्यं यद उक्तं वॊ दिवौकसः संयच्छामि हयान एष युध्यतॊ वै कपर्दिनः 108 ततः स भगवान देवॊ लॊकस्रष्टा पितामहः सारथ्ये कल्पितॊ देवैर ईशानस्य महात्मनः 109 तस्मिन्न आरॊहति कषिप्रं सयन्दनं लॊकपूजिते शिरॊभिर अगमंस तूर्णं ते हया वातरंहसः 110 महेश्वरे तवारुहति जानुभ्याम अगमन महीम 111 अभीशून हि तरिलॊकेशः संगृह्य परपितामहः तान अश्वांश चॊदयाम आस मनॊमारुतरंहसः 112 ततॊ ऽधिरूढे वरदे परयाते चासुरान परति साधु साध्व इति विश्वेशः समयमानॊ ऽभयभाषत 113 याहि देव यतॊ दैत्याश चॊदयाश्वान अतन्द्रितः पश्य बाह्वॊर बलं मे ऽदय निघ्नतः शात्रवान रणे 114 ततस तांश चॊदयाम आस वायुवेगसमाञ्जवे येन तन्त्रिपुरं राजन दैत्यदानवरक्षितम 115 अथाधिज्यं धनुः कृत्वा शर्वः संधाय तं शरम युक्त्वा पाशुपतास्त्रेण तरिपुरं समचिन्तयत 116 तस्मिन सथिते तदा राजन करुद्धे विधृत कार्मुके पुराणि तानि कालेन जग्मुर एकत्वतां तदा 117 एकीभावं गते चैव तरिपुरे समुपागते बभूव तुमुलॊ हर्षॊ दैवतानां महात्मनाम 118 ततॊ देवगणाः सर्वे सिद्धाश च परमर्षयः जयेति वाचॊ मुमुचुः संस्तुवन्तॊ मुदान्विताः 119 ततॊ ऽगरतॊ परादुरभूत तरिपुरं जघ्नुषॊ ऽसुरान अनिर्देश्यॊग्र वपुषॊ देवस्यासह्य तेजसः 120 स तद विकृष्य भगवान दिव्यं लॊकेश्वरॊ धनुः तरैलॊक्यसारं तम इषुं मुमॊच तरिपुरं परति तत सासुरगणं दग्ध्वा पराक्षिपत पश्चिमार्णवे 121 एवं तत तरिपुरं दग्धं दानवाश चाप्य अशेषतः महेश्वरेण करुद्धेन तरैलॊक्यस्य हितैषिणा 122 स चात्मक्रॊधजॊ वह्निर हाहेत्य उक्त्वा निवारितः मा कार्षीर भस्मसाल लॊकान इति तर्यक्षॊ ऽबरवीच च तम 123 ततः परकृतिम आपन्ना देवा लॊकास तथर्षयः तुष्टुवुर वाग्भिर अर्थ्याभिः सथाणुम अप्रतिमौजसम 124 ते ऽनुज्ञाता भगवता जग्मुः सर्वे यथागतम कृतकामाः परसन्नेन परजापतिमुखाः सुराः 125 यथैव भगवान बरह्मा लॊकधाता पिता महः संयच्छ तवं हयान अस्य राधेयस्य महात्मनः 126 तवं हि कृष्णाच च कर्णाच च फल्गुनाच च विशेषतः विशिष्टॊ राजशार्दूल नास्ति तत्र विचारणा 127 युद्धे हय अयं रुद्र कल्पस तवं च बरह्म समॊ ऽनघ तस्माच छक्तौ युवां जेतुं मच्छत्रूंस ताव इवासुरान 128 यथा शल्याद्य कर्णॊ ऽयं शवेताश्वं कृष्णसारथिम परमथ्य हन्यात कौन्तेयं तथा शीघ्रं विधीयताम तवयि कर्णश च राज्यं च वयं चैव परतिष्ठिताः 129 इंमं चाप्य अपरं भूय इतिहासं निबॊध मे पितुर मम सकाशे यं बराह्मणः पराह धर्मवित 130 शरुत्वा चैतद वचश चित्रं हेतुकार्यार्थ संहितम कुरु शल्य विनिश्चित्य मा भूद अत्र विचारणा 131 भार्गवाणां कुले जातॊ जमद अग्निर महातपाः तस्य रामेति विख्यातः पुत्रस तेजॊ गुणान्वितः 132 स तीव्रं तप आस्थाय परसादयितवान भवम अस्त्रहेतॊः परसन्नात्मा नियतः संयतेन्द्रियः 133 तस्य तुष्टॊ महादेवॊ भक्त्या च परशमेन च हृद्गतं चास्य विज्ञाय दर्शयाम आस शंकरः 134 [इष्वर] राम तुष्टॊ ऽसमि भद्रं ते विदितं मे तवेप्सितम कुरुष्व पूतम आत्मानं सर्वम एतद अवाप्स्यसि 135 दास्यामि ते तदास्त्राणि यदा पूतॊ भविष्यसि अपात्रम असमर्थं च दहन्त्य अस्त्राणि भार्गव 136 इत्य उक्तॊ जामदग्न्यस तु देवदेवेन शूलिना परत्युवाच महात्मानं शिरसावनतः परभुम 137 यदा जानासि देवेश पात्रं माम अस्त्रधारणे तदा शुश्रूषते ऽसत्राणि भवान मे दातुम अर्हति 138 [दुर] ततः स तपसा चैव दमेन नियमेन च पूजॊपहार बलिभिर हॊममन्त्रपुरस्कृतैः 139 आराधयितवाञ शर्वं बहून वर्षगणांस तदा परसन्नश च महादेवॊ भार्गवस्य महात्मनः 140 अब्रवीत तस्य बहुशॊ गुणान देव्याः समीपतः भक्तिमान एष सततं मयि रामॊ दृढव्रतः 141 एवं तस्य गुणान परीतॊ बहुशॊ ऽकथयत परभुः देवतानां पितॄणां च समक्षम अरिसूदनः 142 एतस्मिन्न एव काले तु दैत्या आसन महाबलाः तैस तदा दर्पमॊहान्धैर अबाध्यन्त दिवौकसः 143 ततः संभूय विबुधास तान हन्तुं कृतनिश्चयाः चक्रुः शत्रुवधे यत्नं न शेकुर जेतुम एव ते 144 अभिगम्य ततॊ देवा महेश्वरम अथाब्रुवन परसादयन्तस तं भक्त्या जहि शत्रुगणान इति 145 परतिज्ञाय ततॊ देवॊ देवतानां रिपुक्षयम रामं भार्गवम आहूय सॊ ऽभयभाषत शंकरः 146 रिपून भार्गव देवानां जहि सर्वान समागतान लॊकानां हितकामार्थं मत्प्रीत्यर्थं तथैव च 147 [राम] अकृतास्त्रस्य देवेश का शक्तिर मे महेश्वर निहन्तुं दानवान सर्वान कृतास्त्रान युद्धदुर्मदान 148 [इष्वर] गच्छ तवं मद अनुध्यानान निहनिष्यसि दानवान विजित्य च रिपून सर्वान गुणान पराप्स्यसि पुष्कलान 149 [दुर] एतच छरुत्वा च वचनं परतिगृह्य च सर्वशः रामः कृतस्वस्त्ययनः परययौ दानवान परति 150 अवधीद देवशत्रूंस तान मददर्प बलान्वितान वज्राशनिसमस्पर्शैः परहारैर एव भार्गवः 151 स दानवैः कषततनुर जामद अग्न्यॊ दविजॊत्तमः संस्पृष्टः सथाणुना सद्यॊ निर्व्रणः समजायत 152 परीतश च भगवान देवः कर्मणा तेन तस्य वै वरान परादाद बरह्म विदे भार्गवाय महात्मने 153 उक्तश च देवदेवेन परीतियुक्तेन शूलिना निपातात तव शस्त्राणां शरीरे याभवद रुजा 154 तया ते मानुषं कर्म वयपॊढं भृगुनन्दन गृहाणास्त्राणि दिव्यानि मत्सकाशाद यथेप्सितम 155 ततॊ ऽसत्राणि समस्तानि वरांश च मनसेप्सितान लब्ध्वा बहुविधान रामः परणम्या शिरसा शिवम 156 अनुज्ञां पराप्य देवेशाञ जगाम स महातपाः एवम एतत पुरावृत्तं तदा कथितवान ऋषिः 157 भार्गवॊ ऽपय अददात सर्वं धनुर्वेदं महात्मने कर्णाय पुरुषव्याघ्र सुप्रीतेनान्तरात्मना 158 वृजिनं हि भवेत किं चिद यदि कर्णस्य पार्थिव नास्मै हय अस्त्राणि दिव्यानि परादास्यद भृगुनन्दनः 159 नापि सूत कुले जात्म कर्णं मन्ये कथं चन देवपुत्रम अहं मन्ये कषत्रियाणां कुलॊद्भवम 160 सकुण्डलं सकवचं दीर्घबाहुं महारथम कथम आदित्यसदृशं मृगी वयाघ्रं जनिष्यति 161 पश्य हय अस्य भुजौ पीनौ नागराजकरॊपमौ वक्षः पश्य विशालं च सर्वशत्रुनिबर्हणम |
1
[dur] bhūya eva tu madreśa yat te vakṣyāmi tac chṛṇu yathā purāvṛttam idaṃ yuddhe devāsure vibho 2 yad uktavān pitur mahyaṃ mārkaṇḍeyo mahān ṛṣiḥ tad aśeṣeṇa bruvato mama rājarṣisattama tvaṃ nibodha na cāpy atra kartavyā te vicāraṇā 3 devānām asurāṇāṃ ca mahān āsīt samāgamaḥ babhūva prathamo rājan saṃgrāmas tārakā mayaḥ nirjitāś ca tadā daityā daivatair iti naḥ śrutam 4 nirjiteṣu ca daityeṣu tārakasya sutās trayaḥ tārākṣaḥ kamalākṣaś ca vidyunmālī ca pārthiva 5 tapa ugraṃ samāsthāya niyame parame sthitāḥ tapasā karśayām āsur dehān svāñ śatrutāpana 6 damena tapasā caiva niyamena ca pārthiva teṣāṃ pitāmahaḥ prīto varadaḥ pradadau varān 7 avadhyatvaṃ ca te rājan sarvabhūteṣu sarvadā sahitā varayām āsuḥ sarvalokapitāmaham 8 tāna bravīt tadā devo lokānāṃ prabhur īśvaraḥ nāsti sarvāmaratvaṃ hi nivartadhvam ato 'surāḥ varam anyaṃ vṛṇīdhvaṃ vai yādṛśaṃ saṃprarocate 9 tatas te sahitā rājan saṃpradhāryāsakṛd bahu sarvalokeśvaraṃ vākyaṃ praṇamyainam athābruvan 10 asmākaṃ tvaṃ varaṃ deva prayacchemaṃ pitāmaha vayaṃ purāṇi trīṇy eva samāsthāya mahīm imām vicariṣyāma loke 'smiṃs tvatprasāda puraskṛtāḥ 11 tato varṣasahasre tu sameṣyāmaḥ parasparam ekībhāvaṃ gamiṣyanti purāṇy etāni cānagha 12 samāgatāni caitāni yo hanyād bhagavaṃs tadā ekeṣuṇā devavaraḥ sa no mṛtyur bhaviṣyati evam astv iti tān devaḥ pratyuktvā prāviśad divam 13 te tu labdhavarāḥ prītāḥ saṃpradhārya parasparam puratraya visṛṣṭy arthaṃ mayaṃ vavrur mahāsuram viśvakarmāṇam ajaraṃ daityadānava pūjitam 14 tato mayaḥ svatapasā cakre dhīmān purāṇi ha trīṇi kāñcanam ekaṃ tu raupyaṃ kārṣṇāyasaṃ tathā 15 kāñcanaṃ divi tatrāsīd antarikṣe ca rājatam āyasaṃ cābhavad bhūmau cakrasthaṃ pṛthivīpate 16 ekaikaṃ yojanaśataṃ vistārāyāma saṃmitam gṛhāṭṭāṭṭālaka yutaṃ bṛhat prākāratoraṇam 17 guṇaprasava saṃbādham asaṃbādham anāmayam prāsādair vividhaiś caiva dvāraiś cāpy upaśobhitam 18 pureṣu cābhavan rājan rājāno vai pṛthak pṛthak kāñcanaṃ tārakākṣasya citram āsīn mahātmanaḥ rājataṃ kamalākṣasya vidyunmālina āyasam 19 trayas te daitya rājānas trīṁl lokān āśu tejasā ākramya tasthur varṣāṇāṃ pūgān nāma prajāpatiḥ 20 teṣāṃ dānavamukhyānāṃ prayutāny arbudāni ca koṭyaś cāprativīrāṇāṃ samājagmus tatas tataḥ mahad aiśvaryam icchantas tripuraṃ durgam āśritāḥ 21 sarveṣāṃ ca punas teṣāṃ sarvayogavaho mayaḥ tam āśritya hi te sarve avartantākuto bhayāḥ 22 yo hi yaṃ manasā kāmaṃ dadhyau tripurasaṃśrayaḥ tasmai kāmaṃ mayas taṃ taṃ vidadhe māyayā tadā 23 tārakākṣa sutaś cāsīd dharir nāma mahābalaḥ tapas tepe paramakaṃ yenātuṣyat pitāmahaḥ 24 sa tuṣṭam avṛṇod devaṃ vāpī bhavatu naḥ pure śastrair vinihatā yatra kṣiptāḥ syur balavattarāḥ 25 sa tu labdhvā varaṃ vīras tārakākṣa suto hariḥ sasṛje tatra vāpīṃ tāṃ mṛtānāṃ jīvanīṃ prabho 26 yena rūpeṇa daityas tu yena veṣeṇa caiva ha mṛtas tasyāṃ parikṣiptas tādṛśenaiva jajñivān 27 tāṃ prāpya traipurasthās tu sarvāṁl lokān babādhire mahatā tapasā siddhāḥ surāṇāṃ bhayavardhanāḥ na teṣām abhavad rājan kṣayo yuddhe kathaṃ cana 28 tatas te lobhamohābhyām abhibhūtā vicetasaḥ nirhrīkāḥ saṃsthitiṃ sarve sthāpitāṃ samalūlupan 29 vidrāvya sagaṇān devāṃs tatra tatra tadā tadā viceruḥ svena kāmena varadānena darpitāḥ 30 devāraṇyāni sarvāṇi priyāṇi ca divaukasām ṛṣīṇām āśramānpuṇyān yūpāñjana padāṃs tathā vyanāśayanta maryādā dānavā duṣṭacāriṇaḥ 31 te devāḥ sahitāḥ sarve pitāmaham ariṃdama abhijagmus tadākhyātuṃ vipra kāraṃ suretaraiḥ 32 te tattvaṃ sarvam ākhyāya śirasābhipraṇamya ca vadhopāyamapṛcchanta bhagavantaṃ pitāmaham 33 śrutvā tad bhagavān devo devān idam uvāca ha asurāś ca durātmānas te cāpi vibhudha dviṣaḥ aparādhyanti satataṃ ye yuṣmān pīḍayanty uta 34 ahaṃ hi tulyaḥ sarveṣāṃ bhūtānāṃ nātra saṃśayaḥ adhārmikās tu hantavyā ity ahaṃ prabravīmi vaḥ 35 te yūyaṃ sthāṇum īśānaṃ jiṣṇum akliṣṭakāriṇam yoddhāraṃ vṛṇutādityāḥ sa tān hantā suretarān 36 iti tasya vacaḥ śrutvā devāḥ śakrapurogamāḥ brahmāṇam agrataḥ kṛtvā vṛṣāṅkaṃ śaraṇaṃ yayuḥ 37 tapaḥ paraṃ samātasthur gṛṇanto brahma śāśvatam ṛṣibhiḥ sahadharmajñā bhavaṃ sarvātmanā gatāḥ 38 tuṣṭuvur vāgbhir arthyābhir bhayeṣv abhayakṛttamam sarvātmānaṃ mahātmānaṃ yenāptaṃ sarvam ātmanā 39 tapo viśeṣair bahubhir yogaṃ yo veda cātmanaḥ yaḥ sāṃkhyam ātmano veda yasya cātmā vaśe sadā 40 te taṃ dadṛśur īśānaṃ tejorāśim umāpatim ananyasadṛśaṃ loke vratavantam akalmaṣam 41 ekaṃ ca bhagavantaṃ te nānārūpam akalpayan ātmanaḥ pratirūpāṇi rūpāṇy atha mahātmani parasparasya cāpaśyan sarve paramavismitāḥ 42 sarvabhūtamayaṃ ceśaṃ tam ajaṃ jagataḥ patim devā brahmarṣayaś caiva śirobhir dharaṇīṃ gatāḥ 43 tān svasti vākyenābhyarcya samutthāpya ca śaṃkaraḥ brūta brūteti bhagavān smayamāno 'bhyabhāṣata 44 tryambakeṇābhyanujñātās tatas te 'svasthacetasaḥ namo namas te 'stu vibho tata ity abruvan bhavam 45 namo devātidevāya dhanvine cātimanyave prajāpatimakhaghnāya prajāpatibhir īḍyase 46 namaḥ stutāya stutyāya stūyamānāya mṛtyave vilohitāya rudrāya nīlagrīvāya śūline 47 amoghāya mṛgākṣāya pravarāyudha yodhine durvāraṇāya śukrāya brahmaṇe brahmacāriṇe 48 īśānāyāprameyāya niyantre carma vāsase taponityāya piṅgāya vratine kṛtti vāsase 49 kumāra pitre tryakṣāya pravarāyudha dhāriṇe prapannārti vināśāya brahma dviṭ saṃghaghātine 50 vanaspatīnāṃ pataye narāṇāṃ pataye namaḥ gavāṃ ca pataye nityaṃ yajñānāṃ pataye namaḥ 51 namo 'stu te sasainyāya tryambakāyogra tejase manovāk karmabhir deva tvāṃ prapannān bhajasva naḥ 52 tataḥ prasanno bhagavān svāgatenābhinandya tān provāca vyetu vastrāso brūta kiṃ karavāṇi vaḥ 53 pitṛdevarṣisaṃghebhyo vare datte mahātmanā satkṛtya śaṃkaraṃ prāha brahmā lokahitaṃ vacaḥ 54 tavātisargād deveśa prājāpatyam idaṃ padam mayādhitiṣṭhatā datto dānavebhyo mahān varaḥ 55 tān atikrānta maryādān nānyaḥ saṃhartum arhati tvām ṛte bhūtabhavyeśa tvaṃ hy eṣāṃ praty arir vadhe 56 sa tvaṃ deva prapannānāṃ yācatāṃ ca divaukasām kuru prasādaṃ deveśa dānavāñ jahi śūlabhṛt 57 [bhag] hantavyāḥ śatravaḥ sarve yuṣmākam iti me matiḥ na tv eko 'haṃ vadhe teṣāṃ samartho vai suradviṣām 58 te yūyaṃ sahitāḥ sarve madīyenāstra tejasā jayadhvaṃ yudhi tāñ śatrūn saṃghāto hi mahābalaḥ 59 [devāh] asmat tejobalaṃ yāvat tāvad dviguṇam eva ca teṣām iti ha manyāmo dṛṣṭatejobalā hi te 60 [bhag] vadhyās te sarvataḥ pāpā ye yuṣmāsv aparādhinaḥ mama tejobalārdhena sarvāṃs tān ghnata śātravān 61 [devāh] bibhartuṃ tejaso 'rdhaṃ te na śakṣyāmo maheśvara sarveṣāṃ no balārdhena tvam eva jahi śātravān 62 [dur] tatas tatheti deveśas tair ukto rājasattama ardham ādāya sarvebhyas tejasābhyadhiko 'bhavat 63 sa tu devo balenāsīt sarvebhyo balavattaraḥ mahādeva iti khyātas tadā prabhṛti śaṃkaraḥ 64 tato 'bravīn mahādevo dhanur bāṇadharas tv aham haniṣyāmi rathenājau tān ripūn vai divaukasaḥ 65 te yūyaṃ me rathaṃ caiva dhanur bāṇaṃ tathaiva ca paśyadhvaṃ yāvad adyaitān pātayāmi mahītale 66 [devāh] mūrti sarvasvam ādāya trailokyasya tatas tataḥ rathaṃ te kalpayiṣyāma deveśvara mahaujasam 67 tathaiva buddhyā vihitaṃ viśvakarma kṛtaṃ śubham tato vibudhaśārdūlās taṃ rathaṃ samakalpayan 68 vandhuraṃ pṛthivīṃ devīṃ viśālapuramālinīm saparvatavanadvīpāṃ cakrūr bhūtadharāṃ tadā 69 mandaraṃ parvataṃ cākṣaṃ jaṅghās tasya mahānadīḥ diśaś ca pradiśaś caiva parivāraṃ rathasya hi 70 anukarṣān grahān dīptān varūthaṃ cāpi tārakāḥ dharmārthakāmasaṃyuktaṃ triveṇuṃ cāpi bandhuram oṣadhīr vividhās tatra nānāpuṣpaphalodgamāḥ 71 sūryā candramasau kṛtvā cakre rathavarottame pakṣau pūrvāparau tatra kṛte rātryahanī śubhe 72 daśanāgapatīnīṣām dhṛtarāṣṭra mukhān dṛḍhām dyāṃ yugaṃ yugacarmāṇi saṃvartaka balāhakān 73 śamyāṃ dhṛtiṃ ca meghāṃ ca sthitiṃ saṃnatim eva ca grahanakṣatratārābhiś carma citraṃ nabhastalam 74 surāmbupretavittānāṃ patīṁl lokeśvarān hayān sinīvālīm anumatiṃ kuhūṃ rākāṃ ca suvratām yoktrāṇi cakrur vāhānāṃ rohakāṃś cāpi kaṇṭhakam 75 karma satyaṃ tapo 'rthaś ca vihitās tatra raśmayaḥ adhiṣṭhānaṃ manas tv āsīt parirathyaṃ sarasvatī 76 nānāvarṇāś ca citrāś ca patākāḥ pavaneritāḥ vidyud indra dhanur naddhaṃ rathaṃ dīptaṃ vyadīpayat 77 evaṃ tasmin mahārāja kalpite rathasattame devair manujaśārdūla dviṣatām abhimardane 78 svāny āyudhāni mukhyāni nyadadhāc chaṃkaro rathe rathayaṣṭiṃ viyat kṛṣṭāṃ sthāpayām āsa govṛṣam 79 brahmadaṇḍaḥ kāladaṇḍo rudra daṇḍas tathā jvaraḥ pariskandā rathasyāsya sarvatodiśam udyatāḥ 80 atharvāṅgirasāv āstāṃ cakrarakṣau mahātmanaḥ ṛgvedaḥ sāmavedaś ca purāṇaṃ ca puraḥsarāḥ 81 itihāsa yajurvedau pṛṣṭharakṣau babhūvatuḥ divyā vācaś ca vidyāś ca paripārśva carāḥ kṛtāḥ 82 tottrādayaś ca rājendra vaṣaṭkāras tathaiva ca oṃkāraś ca mukhe rājann atiśobhā karo 'bhavat 83 vicitram ṛtubhiḥ ṣaḍbhiḥ kṛtvā saṃvatsaraṃ dhanuḥ tasmān nṝṇāṃ kālarātrir jyā kṛtā dhanuṣo 'jarā 84 iṣuś cāpy abhavad viṣṇur jvalanaḥ soma eva ca agnī ṣomau jagat kṛtsnaṃ vaiṣṇavaṃ cocyate jagat 85 viṣṇuś cātmā bhagavato bhavasyāmita tejasaḥ tasmād dhanurjyā saṃsparśaṃ na viṣehur harasya te 86 tasmiñ śare tigmamanyur mumocāviṣahaṃ prabhuḥ bhṛgvaṅgiro manyubhavaṃ krodhāgnim atiduḥsaham 87 sa nīlalohito dhūmraḥ kṛttivāsā bhayaṃkaraḥ ādityāyuta saṃkāśas tejo jvālāvṛto jvalan 88 duścyāvaś cyāvano jetā hantā brahma dviṣāṃ haraḥ nityaṃ trātā ca hantā ca dharmādharmāśritāñ janān 89 pramāthibhir ghorarūpair bhīmodagrair gaṇair vṛtaḥ vibhāti bhagavān sthāṇus tair evātma guṇair vṛtaḥ 90 tasyāṅgāni samāśritya sthitaṃ viśvam idaṃ jagat jaṅgamājaṅgamaṃ rājañ śuśubhe 'dbhutadarśanam 91 dṛṣṭvā tu taṃ rathaṃ divyaṃ kavacī sa śarāsanī bāṇam ādatta taṃ divyaṃ somaviṣṇv agnisaṃbhavam 92 tasya vājāṃs tato devāḥ kalpayāṃ cakrire vibhoḥ puṇyagandhavahaṃ rājañ śvasanaṃ rājasattama 93 tam āsthāya mahādevas trāsayan daivatāny api āruroha tadā yattaḥ kampayann iva rodasī 94 sa śobhamāno varadaḥ khaḍgī bāṇī śarāsanī hasann ivāravīd devo sārathiḥ ko bhaviṣyati 95 tam abruvan devagaṇā yaṃ bhavān saṃniyokṣyate sa bhaviṣyati deveśa sārathis te na saṃśayaḥ 96 tān abravīt punar devo mattaḥ śreṣṭhataro hi yaḥ taṃ sārathiṃ kurudhvaṃ me svayaṃ saṃcintya māciram 97 etac chrutvā tato devā vākyam uktaṃ mahātmanā gatvā pitāmahaṃ devaṃ prasādyaivaṃ vaco 'bruvan 98 deva tvayedaṃ kathitaṃ tridaśārinibarhaṇam tathā ca kṛtam asmābhiḥ prasanno vṛṣabhadhvajaḥ 99 rathaś ca vihito 'smābhir vicitrāyudha saṃvṛtaḥ sārathiṃ tu na jānīmaḥ kaḥ syāt tasmin rathottame 100 tasmād vidhīyatāṃ kaś cit sārathir deva sattama saphalāṃ tāṃ giraṃ devakartum arhasi no vibho 101 evam asmāsu hi purā bhagavann uktavān asi hitaṃkartāsmi bhavatām iti tat kartum arhasi 102 sa deva yukto rathasattamo no; durāvaro drāvaṇaḥ śātravāṇām pināka pāṇir vihito 'tra yoddhā; vibhīṣayan dānavān udyato 'sau 103 tathaiva vedāś caturo hayāgryā; dharā saśailā ca ratho mahātman nakṣatravaṃśo 'nugato varūthe; yasmin yoddhā sārathinābhirakṣyaḥ 104 tatra sārathir eṣṭavyaḥ sarvair etair viśeṣavān tat pratiṣṭho ratho deva hayā yoddhā tathaiva ca kavacāni ca śastrāṇi kārmukaṃ ca pitāmaha 105 tvām ṛte sārathiṃ tatra nānyaṃ paśyāmahe vayam tvaṃ hi sarvair guṇair yukto devatābhyo 'dhikaḥ prabho sārathye tūrṇam āroha saṃyaccha paramān hayān 106 iti te śirasā natvā trilokeśaṃ pitāmaham devāḥ prasādayām āsuḥ sārathyāyeti naḥ śrutam 107 [brahmā] nātra kiṃ cin mṛṣā vākyaṃ yad uktaṃ vo divaukasaḥ saṃyacchāmi hayān eṣa yudhyato vai kapardinaḥ 108 tataḥ sa bhagavān devo lokasraṣṭā pitāmahaḥ sārathye kalpito devair īśānasya mahātmanaḥ 109 tasminn ārohati kṣipraṃ syandanaṃ lokapūjite śirobhir agamaṃs tūrṇaṃ te hayā vātaraṃhasaḥ 110 maheśvare tvāruhati jānubhyām agaman mahīm 111 abhīśūn hi trilokeśaḥ saṃgṛhya prapitāmahaḥ tān aśvāṃś codayām āsa manomārutaraṃhasaḥ 112 tato 'dhirūḍhe varade prayāte cāsurān prati sādhu sādhv iti viśveśaḥ smayamāno 'bhyabhāṣata 113 yāhi deva yato daityāś codayāśvān atandritaḥ paśya bāhvor balaṃ me 'dya nighnataḥ śātravān raṇe 114 tatas tāṃś codayām āsa vāyuvegasamāñjave yena tantripuraṃ rājan daityadānavarakṣitam 115 athādhijyaṃ dhanuḥ kṛtvā śarvaḥ saṃdhāya taṃ śaram yuktvā pāśupatāstreṇa tripuraṃ samacintayat 116 tasmin sthite tadā rājan kruddhe vidhṛta kārmuke purāṇi tāni kālena jagmur ekatvatāṃ tadā 117 ekībhāvaṃ gate caiva tripure samupāgate babhūva tumulo harṣo daivatānāṃ mahātmanām 118 tato devagaṇāḥ sarve siddhāś ca paramarṣayaḥ jayeti vāco mumucuḥ saṃstuvanto mudānvitāḥ 119 tato 'grato prādurabhūt tripuraṃ jaghnuṣo 'surān anirdeśyogra vapuṣo devasyāsahya tejasaḥ 120 sa tad vikṛṣya bhagavān divyaṃ lokeśvaro dhanuḥ trailokyasāraṃ tam iṣuṃ mumoca tripuraṃ prati tat sāsuragaṇaṃ dagdhvā prākṣipat paścimārṇave 121 evaṃ tat tripuraṃ dagdhaṃ dānavāś cāpy aśeṣataḥ maheśvareṇa kruddhena trailokyasya hitaiṣiṇā 122 sa cātmakrodhajo vahnir hāhety uktvā nivāritaḥ mā kārṣīr bhasmasāl lokān iti tryakṣo 'bravīc ca tam 123 tataḥ prakṛtim āpannā devā lokās tatharṣayaḥ tuṣṭuvur vāgbhir arthyābhiḥ sthāṇum apratimaujasam 124 te 'nujñātā bhagavatā jagmuḥ sarve yathāgatam kṛtakāmāḥ prasannena prajāpatimukhāḥ surāḥ 125 yathaiva bhagavān brahmā lokadhātā pitā mahaḥ saṃyaccha tvaṃ hayān asya rādheyasya mahātmanaḥ 126 tvaṃ hi kṛṣṇāc ca karṇāc ca phalgunāc ca viśeṣataḥ viśiṣṭo rājaśārdūla nāsti tatra vicāraṇā 127 yuddhe hy ayaṃ rudra kalpas tvaṃ ca brahma samo 'nagha tasmāc chaktau yuvāṃ jetuṃ macchatrūṃs tāv ivāsurān 128 yathā śalyādya karṇo 'yaṃ śvetāśvaṃ kṛṣṇasārathim pramathya hanyāt kaunteyaṃ tathā śīghraṃ vidhīyatām tvayi karṇaś ca rājyaṃ ca vayaṃ caiva pratiṣṭhitāḥ 129 iṃmaṃ cāpy aparaṃ bhūya itihāsaṃ nibodha me pitur mama sakāśe yaṃ brāhmaṇaḥ prāha dharmavit 130 śrutvā caitad vacaś citraṃ hetukāryārtha saṃhitam kuru śalya viniścitya mā bhūd atra vicāraṇā 131 bhārgavāṇāṃ kule jāto jamad agnir mahātapāḥ tasya rāmeti vikhyātaḥ putras tejo guṇānvitaḥ 132 sa tīvraṃ tapa āsthāya prasādayitavān bhavam astrahetoḥ prasannātmā niyataḥ saṃyatendriyaḥ 133 tasya tuṣṭo mahādevo bhaktyā ca praśamena ca hṛdgataṃ cāsya vijñāya darśayām āsa śaṃkaraḥ 134 [iṣvara] rāma tuṣṭo 'smi bhadraṃ te viditaṃ me tavepsitam kuruṣva pūtam ātmānaṃ sarvam etad avāpsyasi 135 dāsyāmi te tadāstrāṇi yadā pūto bhaviṣyasi apātram asamarthaṃ ca dahanty astrāṇi bhārgava 136 ity ukto jāmadagnyas tu devadevena śūlinā pratyuvāca mahātmānaṃ śirasāvanataḥ prabhum 137 yadā jānāsi deveśa pātraṃ mām astradhāraṇe tadā śuśrūṣate 'strāṇi bhavān me dātum arhati 138 [dur] tataḥ sa tapasā caiva damena niyamena ca pūjopahāra balibhir homamantrapuraskṛtaiḥ 139 ārādhayitavāñ śarvaṃ bahūn varṣagaṇāṃs tadā prasannaś ca mahādevo bhārgavasya mahātmanaḥ 140 abravīt tasya bahuśo guṇān devyāḥ samīpataḥ bhaktimān eṣa satataṃ mayi rāmo dṛḍhavrataḥ 141 evaṃ tasya guṇān prīto bahuśo 'kathayat prabhuḥ devatānāṃ pitṝṇāṃ ca samakṣam arisūdanaḥ 142 etasminn eva kāle tu daityā āsan mahābalāḥ tais tadā darpamohāndhair abādhyanta divaukasaḥ 143 tataḥ saṃbhūya vibudhās tān hantuṃ kṛtaniścayāḥ cakruḥ śatruvadhe yatnaṃ na śekur jetum eva te 144 abhigamya tato devā maheśvaram athābruvan prasādayantas taṃ bhaktyā jahi śatrugaṇān iti 145 pratijñāya tato devo devatānāṃ ripukṣayam rāmaṃ bhārgavam āhūya so 'bhyabhāṣata śaṃkaraḥ 146 ripūn bhārgava devānāṃ jahi sarvān samāgatān lokānāṃ hitakāmārthaṃ matprītyarthaṃ tathaiva ca 147 [rāma] akṛtāstrasya deveśa kā śaktir me maheśvara nihantuṃ dānavān sarvān kṛtāstrān yuddhadurmadān 148 [iṣvara] gaccha tvaṃ mad anudhyānān nihaniṣyasi dānavān vijitya ca ripūn sarvān guṇān prāpsyasi puṣkalān 149 [dur] etac chrutvā ca vacanaṃ pratigṛhya ca sarvaśaḥ rāmaḥ kṛtasvastyayanaḥ prayayau dānavān prati 150 avadhīd devaśatrūṃs tān madadarpa balānvitān vajrāśanisamasparśaiḥ prahārair eva bhārgavaḥ 151 sa dānavaiḥ kṣatatanur jāmad agnyo dvijottamaḥ saṃspṛṣṭaḥ sthāṇunā sadyo nirvraṇaḥ samajāyata 152 prītaś ca bhagavān devaḥ karmaṇā tena tasya vai varān prādād brahma vide bhārgavāya mahātmane 153 uktaś ca devadevena prītiyuktena śūlinā nipātāt tava śastrāṇāṃ śarīre yābhavad rujā 154 tayā te mānuṣaṃ karma vyapoḍhaṃ bhṛgunandana gṛhāṇāstrāṇi divyāni matsakāśād yathepsitam 155 tato 'strāṇi samastāni varāṃś ca manasepsitān labdhvā bahuvidhān rāmaḥ praṇamyā śirasā śivam 156 anujñāṃ prāpya deveśāñ jagāma sa mahātapāḥ evam etat purāvṛttaṃ tadā kathitavān ṛṣiḥ 157 bhārgavo 'py adadāt sarvaṃ dhanurvedaṃ mahātmane karṇāya puruṣavyāghra suprītenāntarātmanā 158 vṛjinaṃ hi bhavet kiṃ cid yadi karṇasya pārthiva nāsmai hy astrāṇi divyāni prādāsyad bhṛgunandanaḥ 159 nāpi sūta kule jātma karṇaṃ manye kathaṃ cana devaputram ahaṃ manye kṣatriyāṇāṃ kulodbhavam 160 sakuṇḍalaṃ sakavacaṃ dīrghabāhuṃ mahāratham katham ādityasadṛśaṃ mṛgī vyāghraṃ janiṣyati 161 paśya hy asya bhujau pīnau nāgarājakaropamau vakṣaḥ paśya viśālaṃ ca sarvaśatrunibarhaṇam |
The Mahabharata in Sanskrit
Book 8
Chapter 25
|
1
[दुर] एवं स भगवान देवः सर्वलॊकपितामहः सारथ्यम अकरॊत तत्र यत्र रुद्रॊ ऽभवद रथी 2 रथिनाभ्यधिकॊ वीरः कर्तव्यॊ रथसारथिः तस्मात तवं पुरुषव्याघ्र नियच्छ तुरगान युधि 3 [स] ततः शल्यः परिष्वज्य सुतं ते वाक्यम अब्रवीत दुर्यॊधनम अमित्रघ्नः परीतॊ मद्राधिपस तदा 4 एवं चेन मन्यसे राजन गान्धारे परियदर्शन तस्मात ते यत परियं किं चित तत सर्वं करवाण्य अहम 5 यत्रास्मि भरतश्रेष्ठ यॊग्यः कर्मणि कर्हि चित तत्र सर्वात्मना युक्तॊ वक्ष्ये कार्यधुरं तव 6 यत तु कर्णम अहं बरूयां हितकामः परियाप्रियम मम तत्क्षमतां सर्वं भवान कर्णश च सर्वशः 7 [कर्ण] ईशानस्य यथा बरह्मा यथा पार्थस्य केशवः तथा नित्यं हिते युक्तॊ मद्रराजभजस्व नः 8 [षल्य] आत्मनिन्दात्मपूजा च परनिन्दा परस्तवः अनाचरितम आर्याणां वृत्तम एतच चतुर्विधम 9 यत तु विद्वान परवक्ष्यामि परत्ययार्थम अहं तव आत्मनः सतवसंयुक्तं तन निबॊध यथातथम 10 अहं शक्रस्य सारथ्ये यॊग्यॊ मातलिवत परभॊ अप्रमाद परयॊगाच च जञानविद्या चिकित्सितैः 11 ततः पार्थेन संग्रामे युध्यमानस्य ते ऽनघ वाहयिष्यामि तुरगान विज्वरॊ भव सूतज |
1
[dur] evaṃ sa bhagavān devaḥ sarvalokapitāmahaḥ sārathyam akarot tatra yatra rudro 'bhavad rathī 2 rathinābhyadhiko vīraḥ kartavyo rathasārathiḥ tasmāt tvaṃ puruṣavyāghra niyaccha turagān yudhi 3 [s] tataḥ śalyaḥ pariṣvajya sutaṃ te vākyam abravīt duryodhanam amitraghnaḥ prīto madrādhipas tadā 4 evaṃ cen manyase rājan gāndhāre priyadarśana tasmāt te yat priyaṃ kiṃ cit tat sarvaṃ karavāṇy aham 5 yatrāsmi bharataśreṣṭha yogyaḥ karmaṇi karhi cit tatra sarvātmanā yukto vakṣye kāryadhuraṃ tava 6 yat tu karṇam ahaṃ brūyāṃ hitakāmaḥ priyāpriyam mama tatkṣamatāṃ sarvaṃ bhavān karṇaś ca sarvaśaḥ 7 [karṇa] īśānasya yathā brahmā yathā pārthasya keśavaḥ tathā nityaṃ hite yukto madrarājabhajasva naḥ 8 [ṣalya] ātmanindātmapūjā ca paranindā parastavaḥ anācaritam āryāṇāṃ vṛttam etac caturvidham 9 yat tu vidvān pravakṣyāmi pratyayārtham ahaṃ tava ātmanaḥ stavasaṃyuktaṃ tan nibodha yathātatham 10 ahaṃ śakrasya sārathye yogyo mātalivat prabho apramāda prayogāc ca jñānavidyā cikitsitaiḥ 11 tataḥ pārthena saṃgrāme yudhyamānasya te 'nagha vāhayiṣyāmi turagān vijvaro bhava sūtaja |
The Mahabharata in Sanskrit
Book 8
Chapter 26
|
1
[दुर] अयं ते कर्ण सारथ्यं मद्रराजः करिष्यति कृष्णाद अभ्यधिकॊ यन्ता देवेन्द्रस्येव मातलिः 2 यथा हरिहयैर युक्तं संगृह्णाति स मातलिः शल्यस तव तथाद्यायं संयन्ता रथवाजिनाम 3 यॊधे तवयि रथस्थे च मद्रराजे च सारथौ रथश्रेष्ठॊ धरुवं संख्ये पार्थॊ नाभिभविष्यति 4 [स] ततॊ दुर्यॊधनॊ भूयॊ मद्रराजं तरस्विनम उवाच राजन संग्रामे संयच्छन्तं हयॊत्तमान 5 तवयाभिगुप्तॊ राधेयॊ विजेष्यति धनंजयम इत्य उक्तॊ रथम आस्थाय तथेति पराह भारत 6 शल्ये ऽभयुपगते कर्णः सारथिं सुमनॊऽबरवीत सवं सूत सयन्दनं मह्यं कल्पयेत्य असकृत तवरन 7 ततॊ जैत्रं रथवरं गन्धर्वनगरॊपमम विधिवत कल्पितं भर्त्रे जयेत्य उक्त्वा नयवेदयत 8 तं रथं रथिनां शरेष्ठः कर्णॊ ऽभयर्च्य यथाविधि संपादितं बरह्मविदा पूर्वम एव पुरॊधसा 9 कृत्वा परदक्षिणं यत्नाद उपस्थाय च भास्करम समीपस्थं मद्रराजं समारॊपयद अग्रतः 10 ततः कर्णस्य दुर्धर्षं सयन्दनप्रवरं महत आरुरॊह महातेजाः शल्यः सिंह इवाचलम 11 ततः शल्यास्थितं राजन कर्णः सवरथम उत्तमम अध्यतिष्ठद यथाम्भॊदं विद्युत्वन्तं दिवाकरः 12 ताव एकरथम आरूढाव आदित्याग्निसमत्विषौ वयभ्राजेतां यथा मेघं सूर्याग्नी सहितौ दिवि 13 संस्तूयमानौ तौ वीरौ तदास्तां दयुतिमत्तरौ ऋत्विक सदस्यैर इन्द्राग्नी हूयमानाव इवाध्वरे 14 स शल्य संगृहीताश्वे रथे कर्णः सथितॊ ऽभवत धनुर विस्फारयन घॊरं परिवेषीव भास्करः 15 आस्थितः स रथश्रेष्ठं कर्णः शरगभस्तिमान परबभौ पुरुषव्याघ्रॊ मन्दरस्थ इवांशुमान 16 तं रथस्थं महावीरं यान्तं चामिततेजसम दुर्यॊधनः सम राधेयम इदं वचनम अब्रवीत 17 अकृतं दरॊण भीष्माभ्यां दुष्करं कर्म संयुगे कुरुष्वाधिरथे वीर मिषतां सर्वधन्विनाम 18 मनॊगतं मम हय आसीद भीष्मद्रॊणौ महारथौ अर्जुनं भीमसेनं च निहन्ताराव इति धरुवम 19 ताभ्यां यद अकृतं वीर वीरकर्म महामृधे तत कर्म कुरु राधेय वज्रपाणिर इवापरः 20 गृहाण धर्मराजं वा जहि वा तवं धनंजयम भीमसेनं च राधेय माद्रीपुत्रौ यमाव अपि 21 जयश च ते ऽसतु भद्रं च परयाहि पुरुषर्षभ पाण्डुपुत्रस्य सैन्यानि कुरु सर्वाणि भस्मसात 22 ततस तूर्यसहस्राणि भेरीणाम अयुतानि च वाद्यमानान्य अरॊचन्त मेघशब्दा यथा दिवि 23 परतिगृह्य तु तद वाक्यं रथस्थॊ रथसत्तमः अभ्यभाषत राधेयः शल्यं युद्धविशादरम 24 चॊदयाश्वान महाबाहॊ यावद धन्मि धनंजयम भीमसेनं यमौ चॊभौ राजानं च युधिष्ठिरम 25 अद्य पश्यतु मे शल्य बाहुवीर्यं धनंजयः अस्यतः कङ्कपत्राणां सहस्राणि शतानि च 26 अद्य कषेप्स्याम्य अहं शल्य शरान परमतेजनान पाण्डवानां विनाशाय दुर्यॊधन जयाय च 27 [षल्य] सूतपुत्र कथं नु तवं पाण्डवान अवमन्यसे सर्वास्त्रज्ञान महेष्वासान सर्वान एव महारथान 28 अनिवर्तिनॊ महाभागान अजेयान सत्यविक्रमान अपि संजनयेयुर ये भयं साक्षाच छतक्रतॊः 29 यदा शरॊष्यसि निर्घॊषं विस्फूर्जितम इवाशनेः राधेय गाण्डिवस्याजौ तदा नैवं वदिष्यसि 30 [स] अनादृत्य तु तद वाक्यं मद्रराजेन भाषितम दरक्ष्यस्य अद्येत्य अवॊचद वै शक्यं कर्णॊ नरेश्वर 31 दृष्ट्वा कर्णं महेष्वासं युयुत्सुं समवस्थितम चुक्रुशुः कुरवः सर्वे हृष्टरूपाः परंतप 32 ततॊ दुन्दुभिघॊषेण भेरीणां निनदेन च बाणशब्दैश च विविधैर गर्जितैश च तरस्विनाम निर्ययुस तावका युद्धे मृत्युं कृत्वा निवर्तनम 33 परयाते तु ततः कर्णे यॊधेषु मुदितेषु च चचाल पृथिवी राजन ररास च सुविस्वरम 34 निश्चरन्तॊ वयदृश्यन्त सूर्यात सप्त महाग्रहाः उल्का पातश च संजज्ञे दिशां दाहस तथैव च तथाशन्यश च संपेतुर ववुर वाताश च दारुणाः 35 मृगपक्षिगणाश चैव बहुशः पृतनां तव अपसव्यं तदा चक्रुर वेदयन्तॊ महद भयम 36 परस्थितस्य च कर्णस्य निपेतुस तुरगा भुवि अस्थि वर्षं च पतितम अन्तरिक्षाद भयानकम 37 जज्वलुश चैव शस्त्राणि धवजाश चैव चकम्पिरे अश्रूणि च वयमुञ्चन्त वाहनानि विशां पते 38 एते चान्ये च बहव उत्पातास तत्र मारिष समुत्पेतुर विनाशाय कौरवाणां सुदारुणाः 39 न च तान गणयाम आसुः सर्वे ते दैवमॊहिताः परस्थितं सूतपुत्रं च जयेत्य ऊचुर नरा भुवि निर्जितान पाण्डवांश चैव मेनिरे तव कौरवाः 40 ततॊ रथस्थः परवीर हन्ता; भीष्मद्रॊणाव आत्तवीर्यौ निरीक्ष्य समज्वलद भारत पावकाभॊ; वैकर्तनॊ ऽसौ रथकुञ्जरॊ वृषः 41 स शल्यम आभाष्य जगाद वाक्यं; पार्थस्य कर्माप्रतिमं च दृष्ट्वा मानेन दर्पेण च दह्यमानः; करॊधेन दीप्यन्न इव निःश्वसित्वा 42 नाहं महेन्द्राद अपि वज्रवाणेः; करुद्धाद बिभेम्य आत्तधनू रथस्थः दृष्ट्वा तु भीष्म परमुखाञ शयानान; न तव एव मां सथिरता संजहाति 43 महेन्द्र विष्णुप्रतिमाव अनिन्दितौ; रथाश्वनागप्रवर परमाथिनौ अवध्यकल्पौ निहतौ यदा परैस; ततॊ ममाद्यापि रणे ऽसति साध्वसम 44 समीक्ष्य संख्ये ऽतिबालान नराधिपैर; नराश्वमातङ्गरथाञ शरैर हतान कथं न सर्वान अहितान रणे ऽवधीन; महास्त्रविद बराह्मणपुंगवॊ गुरुः 45 स संस्मरन दरॊण हवं महाहवे; बरवीमि सत्यं कुरवॊ निबॊधत न वॊ मद अन्यः परसहेद रणे ऽरजुनं; करमागतं मृत्युम इवॊग्ररूपिणम 46 शिक्षा परसादश च बलं धृतिश च; दरॊणे महास्त्राणि च संनतिश च स चेद अगान मृत्युवशं महात्मा; सर्वान अन्यान आतुरान अद्य मन्ये 47 नेह धरुवं किं चिद अपि परचिन्त्यं; विदुर लॊके कर्मणॊ ऽनित्य यॊगात सूर्यॊदये कॊ हि विमुक्तसंशयॊ; गर्वं कुर्वीताद्य गुरौ निपातिते 48 न नूनम अस्त्राणि बलं पराक्रमः; करिया सुनीतं परमायुधानि वा अलं मनुष्यस्य सुखाय वर्तितुं; तथा हि युद्धे निहतः परैर गुरुः 49 हुताशनादित्य समानतेजसं; पराक्रमे विष्णुपुरंदरॊपमम नये बृहस्पत्युशनः समं सदा; न चैनम अस्त्रं तद अपात सुदुःसहम 50 संप्रक्रुष्टे रुदितस्त्री कुमारे; पराभूते पौरुषे धार्तराष्ट्रे मया कृत्यम इति जानामि शल्य; परयाहि तस्माद दविषताम अनीकम 51 यत्र राजा पाण्डवाः सत्यसंधॊ; वयवस्थितॊ भीमसेनार्जुनौ च वासुदेवः सृञ्जयाः सात्यकिश च; यमौ च कस तौ विषहेन मद अन्यः 52 तस्मात कषिप्रं मद्रपते परयाहि; रणे पाञ्चालान पाण्डवान सृञ्जयांश च तान वा हनिष्यामि समेत्य संख्ये; यास्यामि वा दरॊण मुखाय मन्ये 53 न तव एवाहं न गमिष्यामि मध्यं; तेषां शूराणाम इति मा शल्यविद्धि मित्रद्रॊहॊ मर्षणीयॊ न मे ऽयं; तयक्त्वा पराणान अनुयास्यामि दरॊणम 54 पराज्ञस्य मूढस्य च जीवितान्ते; पराणप्रमॊक्षॊ ऽनतकवक्त्रगस्य अतॊ विद्वन्न अभियास्यामि पार्थं; दिष्टं न शक्यं वयतिवर्तितुं वै 55 कल्याण वृत्तः सततं हि राजन; वैचित्रवीर्यस्य सुतॊ ममासीत तस्यार्थसिद्ध्यर्थम अहं तयजामि; परियान भॊगान दुस्त्यजं जीवितं च 56 वैयाघ्रचर्माणम अकूजनाक्षं; हैमत्रिकॊशं रजतत्रिवेणुम रथप्रबर्हं तुरगप्रबर्हैर; युक्तं परादान मह्यम इदं हि रामः 57 धनूंषि चित्राणि निरीक्ष्य शल्य; धवजं गदां सायकांश चॊग्ररूपान असिं च दीप्तं परमायुधं च; शङ्खं च शुभ्रं सवनवन्तम उग्रम 58 पताकिनं वज्रनिपात निस्वनं; सिताश्वयुक्तं शुभतूण शॊभितम इमं समास्थाय रथं रथर्षभं; रणे हनिष्याम्य अहम अर्जुनं बलात 59 तं चेन मृत्युः सर्वहरॊ ऽभिरक्षते; सदा परमत्तः समरे पाण्डुपुत्रम तं वा हनिष्यामि समेत्य युद्धे; यास्यामि वा भीष्म मुखॊ यमाय 60 यम वरुण कुबेर वासवा वा; यदि युगपत सगणा महाहवे जुगुपिषव इहैत्य पाण्डवं; किम उ बहुना सह तैर जयामि तम 61 इति रणरभसस्य कत्थतस; तद उपनिशम्य वचः स मद्रराट अवहसद अवमन्य वीर्यवान; परतिषिषिधे च जागाद चॊत्तरम 62 विरम विरम कर्ण कत्थनाद; अतिरभसॊ ऽसयति चाप्य अयुक्तवाक कव च हि नरवरॊ धनंजयः; कव पुनर इह तवम उपारमाबुध 63 यदुसदनम उपेन्द्र पालितं; तरिदिवम इवामर राजरक्षितम परसभम इह विलॊक्य कॊ हरेत; पुरुषवरावरजाम ऋते ऽरजुनात 64 तरिभुवन सृजम ईश्वरेश्वरं; क इह पुमान भवम आह्वयेद युधि मृगवध कलहे ऋते ऽरजुनात; सुरपतिवीर्यसमप्रभावतः 65 असुरसुरमहॊरगान नरान; गरुड पिशाच सयक्षराक्षसान इषुभिर अजयद अग्निगौरवात; सवभिलषितं च हविर ददौ जयः 66 समरसि ननु यदा परैर हृतः; स च धृतराष्ट्र सुतॊ विमॊक्षितः दिनकरज नरॊत्तमैर यदा; मरुषु बहून विनिहत्य तान अरीन 67 परथमम अपि पलायिते तवयि; परिय कलहा धृतराष्ट्र सूनवः समरसि ननु यदा परमॊचिताः; खचर गणान अवजित्य पाण्डवैः 68 समुदित बलवाहनाः पुनः; पुरुषवरेण जिताः सथ गॊग्रहे सगुरु गुरु सुताः सभीष्मकाः; किम उ न जितः स तदा तवयार्जुनः 69 इदम अपरम उपस्थितं पुनस; तव निधनाय सुयुद्धम अद्य वै यदि न रिपुभयात पलायसे; समरगतॊ ऽदय हतॊ ऽसि सूतज 70 [स] इति बहु परुषं परभाषति; परमनसि मद्रपतौ रिपुस्तवम भृशम अतिरुषितः परं वृषः; कुरु पृतना पतिर आह मद्रपम 71 भवतु भवतु किं विकत्थसे; ननु मम तस्य च युद्धम उद्यतम यदि स जयति मां महाहवे; तत इदम अस्तु सुकत्थितं तव 72 एवम अस्त्व इति मद्रेश उक्त्वा नॊत्तरम उक्तवान याहि मद्रेश चाप्य एनं कर्णः पराह युयुत्सया 73 स रथः परययौ शत्रूञ शवेताश्वः शल्य सारथिः निघ्नन्न अमित्रान समरे तमॊ घनन सविता यथा 74 ततः परायात परीतिमान वै रथेन; वैयाघ्रेण शवेतयुजाथ कर्णः स चालॊक्य धवजिनीं पाण्डवानां; धनंजयं तवरया पर्यपृच्छत |
1
[dur] ayaṃ te karṇa sārathyaṃ madrarājaḥ kariṣyati kṛṣṇād abhyadhiko yantā devendrasyeva mātaliḥ 2 yathā harihayair yuktaṃ saṃgṛhṇāti sa mātaliḥ śalyas tava tathādyāyaṃ saṃyantā rathavājinām 3 yodhe tvayi rathasthe ca madrarāje ca sārathau rathaśreṣṭho dhruvaṃ saṃkhye pārtho nābhibhaviṣyati 4 [s] tato duryodhano bhūyo madrarājaṃ tarasvinam uvāca rājan saṃgrāme saṃyacchantaṃ hayottamān 5 tvayābhigupto rādheyo vijeṣyati dhanaṃjayam ity ukto ratham āsthāya tatheti prāha bhārata 6 śalye 'bhyupagate karṇaḥ sārathiṃ sumano'bravīt svaṃ sūta syandanaṃ mahyaṃ kalpayety asakṛt tvaran 7 tato jaitraṃ rathavaraṃ gandharvanagaropamam vidhivat kalpitaṃ bhartre jayety uktvā nyavedayat 8 taṃ rathaṃ rathināṃ śreṣṭhaḥ karṇo 'bhyarcya yathāvidhi saṃpāditaṃ brahmavidā pūrvam eva purodhasā 9 kṛtvā pradakṣiṇaṃ yatnād upasthāya ca bhāskaram samīpasthaṃ madrarājaṃ samāropayad agrataḥ 10 tataḥ karṇasya durdharṣaṃ syandanapravaraṃ mahat āruroha mahātejāḥ śalyaḥ siṃha ivācalam 11 tataḥ śalyāsthitaṃ rājan karṇaḥ svaratham uttamam adhyatiṣṭhad yathāmbhodaṃ vidyutvantaṃ divākaraḥ 12 tāv ekaratham ārūḍhāv ādityāgnisamatviṣau vyabhrājetāṃ yathā meghaṃ sūryāgnī sahitau divi 13 saṃstūyamānau tau vīrau tadāstāṃ dyutimattarau ṛtvik sadasyair indrāgnī hūyamānāv ivādhvare 14 sa śalya saṃgṛhītāśve rathe karṇaḥ sthito 'bhavat dhanur visphārayan ghoraṃ pariveṣīva bhāskaraḥ 15 āsthitaḥ sa rathaśreṣṭhaṃ karṇaḥ śaragabhastimān prababhau puruṣavyāghro mandarastha ivāṃśumān 16 taṃ rathasthaṃ mahāvīraṃ yāntaṃ cāmitatejasam duryodhanaḥ sma rādheyam idaṃ vacanam abravīt 17 akṛtaṃ droṇa bhīṣmābhyāṃ duṣkaraṃ karma saṃyuge kuruṣvādhirathe vīra miṣatāṃ sarvadhanvinām 18 manogataṃ mama hy āsīd bhīṣmadroṇau mahārathau arjunaṃ bhīmasenaṃ ca nihantārāv iti dhruvam 19 tābhyāṃ yad akṛtaṃ vīra vīrakarma mahāmṛdhe tat karma kuru rādheya vajrapāṇir ivāparaḥ 20 gṛhāṇa dharmarājaṃ vā jahi vā tvaṃ dhanaṃjayam bhīmasenaṃ ca rādheya mādrīputrau yamāv api 21 jayaś ca te 'stu bhadraṃ ca prayāhi puruṣarṣabha pāṇḍuputrasya sainyāni kuru sarvāṇi bhasmasāt 22 tatas tūryasahasrāṇi bherīṇām ayutāni ca vādyamānāny arocanta meghaśabdā yathā divi 23 pratigṛhya tu tad vākyaṃ rathastho rathasattamaḥ abhyabhāṣata rādheyaḥ śalyaṃ yuddhaviśādaram 24 codayāśvān mahābāho yāvad dhanmi dhanaṃjayam bhīmasenaṃ yamau cobhau rājānaṃ ca yudhiṣṭhiram 25 adya paśyatu me śalya bāhuvīryaṃ dhanaṃjayaḥ asyataḥ kaṅkapatrāṇāṃ sahasrāṇi śatāni ca 26 adya kṣepsyāmy ahaṃ śalya śarān paramatejanān pāṇḍavānāṃ vināśāya duryodhana jayāya ca 27 [ṣalya] sūtaputra kathaṃ nu tvaṃ pāṇḍavān avamanyase sarvāstrajñān maheṣvāsān sarvān eva mahārathān 28 anivartino mahābhāgān ajeyān satyavikramān api saṃjanayeyur ye bhayaṃ sākṣāc chatakratoḥ 29 yadā śroṣyasi nirghoṣaṃ visphūrjitam ivāśaneḥ rādheya gāṇḍivasyājau tadā naivaṃ vadiṣyasi 30 [s] anādṛtya tu tad vākyaṃ madrarājena bhāṣitam drakṣyasy adyety avocad vai śakyaṃ karṇo nareśvara 31 dṛṣṭvā karṇaṃ maheṣvāsaṃ yuyutsuṃ samavasthitam cukruśuḥ kuravaḥ sarve hṛṣṭarūpāḥ paraṃtapa 32 tato dundubhighoṣeṇa bherīṇāṃ ninadena ca bāṇaśabdaiś ca vividhair garjitaiś ca tarasvinām niryayus tāvakā yuddhe mṛtyuṃ kṛtvā nivartanam 33 prayāte tu tataḥ karṇe yodheṣu muditeṣu ca cacāla pṛthivī rājan rarāsa ca suvisvaram 34 niścaranto vyadṛśyanta sūryāt sapta mahāgrahāḥ ulkā pātaś ca saṃjajñe diśāṃ dāhas tathaiva ca tathāśanyaś ca saṃpetur vavur vātāś ca dāruṇāḥ 35 mṛgapakṣigaṇāś caiva bahuśaḥ pṛtanāṃ tava apasavyaṃ tadā cakrur vedayanto mahad bhayam 36 prasthitasya ca karṇasya nipetus turagā bhuvi asthi varṣaṃ ca patitam antarikṣād bhayānakam 37 jajvaluś caiva śastrāṇi dhvajāś caiva cakampire aśrūṇi ca vyamuñcanta vāhanāni viśāṃ pate 38 ete cānye ca bahava utpātās tatra māriṣa samutpetur vināśāya kauravāṇāṃ sudāruṇāḥ 39 na ca tān gaṇayām āsuḥ sarve te daivamohitāḥ prasthitaṃ sūtaputraṃ ca jayety ūcur narā bhuvi nirjitān pāṇḍavāṃś caiva menire tava kauravāḥ 40 tato rathasthaḥ paravīra hantā; bhīṣmadroṇāv āttavīryau nirīkṣya samajvalad bhārata pāvakābho; vaikartano 'sau rathakuñjaro vṛṣaḥ 41 sa śalyam ābhāṣya jagāda vākyaṃ; pārthasya karmāpratimaṃ ca dṛṣṭvā mānena darpeṇa ca dahyamānaḥ; krodhena dīpyann iva niḥśvasitvā 42 nāhaṃ mahendrād api vajravāṇeḥ; kruddhād bibhemy āttadhanū rathasthaḥ dṛṣṭvā tu bhīṣma pramukhāñ śayānān; na tv eva māṃ sthiratā saṃjahāti 43 mahendra viṣṇupratimāv aninditau; rathāśvanāgapravara pramāthinau avadhyakalpau nihatau yadā parais; tato mamādyāpi raṇe 'sti sādhvasam 44 samīkṣya saṃkhye 'tibālān narādhipair; narāśvamātaṅgarathāñ śarair hatān kathaṃ na sarvān ahitān raṇe 'vadhīn; mahāstravid brāhmaṇapuṃgavo guruḥ 45 sa saṃsmaran droṇa havaṃ mahāhave; bravīmi satyaṃ kuravo nibodhata na vo mad anyaḥ prasahed raṇe 'rjunaṃ; kramāgataṃ mṛtyum ivograrūpiṇam 46 śikṣā prasādaś ca balaṃ dhṛtiś ca; droṇe mahāstrāṇi ca saṃnatiś ca sa ced agān mṛtyuvaśaṃ mahātmā; sarvān anyān āturān adya manye 47 neha dhruvaṃ kiṃ cid api pracintyaṃ; vidur loke karmaṇo 'nitya yogāt sūryodaye ko hi vimuktasaṃśayo; garvaṃ kurvītādya gurau nipātite 48 na nūnam astrāṇi balaṃ parākramaḥ; kriyā sunītaṃ paramāyudhāni vā alaṃ manuṣyasya sukhāya vartituṃ; tathā hi yuddhe nihataḥ parair guruḥ 49 hutāśanāditya samānatejasaṃ; parākrame viṣṇupuraṃdaropamam naye bṛhaspatyuśanaḥ samaṃ sadā; na cainam astraṃ tad apāt suduḥsaham 50 saṃprakruṣṭe ruditastrī kumāre; parābhūte pauruṣe dhārtarāṣṭre mayā kṛtyam iti jānāmi śalya; prayāhi tasmād dviṣatām anīkam 51 yatra rājā pāṇḍavāḥ satyasaṃdho; vyavasthito bhīmasenārjunau ca vāsudevaḥ sṛñjayāḥ sātyakiś ca; yamau ca kas tau viṣahen mad anyaḥ 52 tasmāt kṣipraṃ madrapate prayāhi; raṇe pāñcālān pāṇḍavān sṛñjayāṃś ca tān vā haniṣyāmi sametya saṃkhye; yāsyāmi vā droṇa mukhāya manye 53 na tv evāhaṃ na gamiṣyāmi madhyaṃ; teṣāṃ śūrāṇām iti mā śalyaviddhi mitradroho marṣaṇīyo na me 'yaṃ; tyaktvā prāṇān anuyāsyāmi droṇam 54 prājñasya mūḍhasya ca jīvitānte; prāṇapramokṣo 'ntakavaktragasya ato vidvann abhiyāsyāmi pārthaṃ; diṣṭaṃ na śakyaṃ vyativartituṃ vai 55 kalyāṇa vṛttaḥ satataṃ hi rājan; vaicitravīryasya suto mamāsīt tasyārthasiddhyartham ahaṃ tyajāmi; priyān bhogān dustyajaṃ jīvitaṃ ca 56 vaiyāghracarmāṇam akūjanākṣaṃ; haimatrikośaṃ rajatatriveṇum rathaprabarhaṃ turagaprabarhair; yuktaṃ prādān mahyam idaṃ hi rāmaḥ 57 dhanūṃṣi citrāṇi nirīkṣya śalya; dhvajaṃ gadāṃ sāyakāṃś cograrūpān asiṃ ca dīptaṃ paramāyudhaṃ ca; śaṅkhaṃ ca śubhraṃ svanavantam ugram 58 patākinaṃ vajranipāta nisvanaṃ; sitāśvayuktaṃ śubhatūṇa śobhitam imaṃ samāsthāya rathaṃ ratharṣabhaṃ; raṇe haniṣyāmy aham arjunaṃ balāt 59 taṃ cen mṛtyuḥ sarvaharo 'bhirakṣate; sadā pramattaḥ samare pāṇḍuputram taṃ vā haniṣyāmi sametya yuddhe; yāsyāmi vā bhīṣma mukho yamāya 60 yama varuṇa kubera vāsavā vā; yadi yugapat sagaṇā mahāhave jugupiṣava ihaitya pāṇḍavaṃ; kim u bahunā saha tair jayāmi tam 61 iti raṇarabhasasya katthatas; tad upaniśamya vacaḥ sa madrarāṭ avahasad avamanya vīryavān; pratiṣiṣidhe ca jāgāda cottaram 62 virama virama karṇa katthanād; atirabhaso 'syati cāpy ayuktavāk kva ca hi naravaro dhanaṃjayaḥ; kva punar iha tvam upāramābudha 63 yadusadanam upendra pālitaṃ; tridivam ivāmara rājarakṣitam prasabham iha vilokya ko haret; puruṣavarāvarajām ṛte 'rjunāt 64 tribhuvana sṛjam īśvareśvaraṃ; ka iha pumān bhavam āhvayed yudhi mṛgavadha kalahe ṛte 'rjunāt; surapativīryasamaprabhāvataḥ 65 asurasuramahoragān narān; garuḍa piśāca sayakṣarākṣasān iṣubhir ajayad agnigauravāt; svabhilaṣitaṃ ca havir dadau jayaḥ 66 smarasi nanu yadā parair hṛtaḥ; sa ca dhṛtarāṣṭra suto vimokṣitaḥ dinakaraja narottamair yadā; maruṣu bahūn vinihatya tān arīn 67 prathamam api palāyite tvayi; priya kalahā dhṛtarāṣṭra sūnavaḥ smarasi nanu yadā pramocitāḥ; khacara gaṇān avajitya pāṇḍavaiḥ 68 samudita balavāhanāḥ punaḥ; puruṣavareṇa jitāḥ stha gograhe saguru guru sutāḥ sabhīṣmakāḥ; kim u na jitaḥ sa tadā tvayārjunaḥ 69 idam aparam upasthitaṃ punas; tava nidhanāya suyuddham adya vai yadi na ripubhayāt palāyase; samaragato 'dya hato 'si sūtaja 70 [s] iti bahu paruṣaṃ prabhāṣati; pramanasi madrapatau ripustavam bhṛśam atiruṣitaḥ paraṃ vṛṣaḥ; kuru pṛtanā patir āha madrapam 71 bhavatu bhavatu kiṃ vikatthase; nanu mama tasya ca yuddham udyatam yadi sa jayati māṃ mahāhave; tata idam astu sukatthitaṃ tava 72 evam astv iti madreśa uktvā nottaram uktavān yāhi madreśa cāpy enaṃ karṇaḥ prāha yuyutsayā 73 sa rathaḥ prayayau śatrūñ śvetāśvaḥ śalya sārathiḥ nighnann amitrān samare tamo ghnan savitā yathā 74 tataḥ prāyāt prītimān vai rathena; vaiyāghreṇa śvetayujātha karṇaḥ sa cālokya dhvajinīṃ pāṇḍavānāṃ; dhanaṃjayaṃ tvarayā paryapṛcchat |
The Mahabharata in Sanskrit
Book 8
Chapter 27
|
1
[स] परयान एव तदा कर्णॊ हर्षयन वाहिनीं तव एकैकं समरे दृष्ट्वा पाण्डवं पर्यपृच्छत 2 यॊ ममाद्य महात्मानं दर्शयेच छवेत वाहनम तस्मै दद्याम अभिप्रेतं वरं यं मनसेच्छति 3 स चेत तद अभिमन्येत तस्मै दद्याम अहं पुनः शक्तटं रत्नसंपूर्णं यॊ मे बरूयाद धनंजयम 4 स चेत तद अभिमन्येत पुरुषॊ ऽरजुन दर्शिवान अन्यं तस्मै पुनर दद्यां सौवर्णं हस्तिषड्गवम 5 तथा तस्मै पुनर दद्यां सत्रीणां शतम अलंकृतम शयामानां निष्ककण्ठीनां गीतवाद्य विपश्चिताम 6 स चेत तद अभिमन्येत पुरुषॊ ऽरजुन दर्शिवान अन्यं तस्मै वरं दद्यां शवेतान पञ्च शतान हयान 7 हेमभाण्ड परिच्छन्नान सुमृष्टमणिकुण्डलान सुदान्तान अपि चैवाहं दद्याम अष्ट शतान परान 8 रथं च शुभ्रं सौवर्णं दद्यां तस्मै सवलंकृतम युक्तं परमकाम्बॊजैर यॊ मे बरूयाद धनंजयम 9 अन्यं तस्मै वरं दद्यां कुञ्जराणां शतानि षट काञ्चनैर विविधैर भाण्डैर आच्छन्नान हेममालिनः उत्पन्नान अपरान्तेषु विनीतान हस्तिशिक्षकैः 10 स चेत तद अभिमन्येत पुरुषॊ ऽरजुन दर्शिवान अन्यं तस्मै वरं दद्यां यम असौ कामयेत सवयम 11 पुत्रदारान विहारांश च यद अन्यद वित्तम अस्ति मे तच च तस्मै पुनर दद्यां यद यत स मनसेच्छति 12 हत्वा च सहितौ कृष्णौ तयॊर वित्तानि सर्वशः तस्मै दद्याम अहं यॊ मे परब्रूयात केशवार्जुनौ 13 एता वाचः सुबहुशः कर्ण उच्चारयन युधि दध्मौ सागरसंभूतं सुस्वनं शङ्खम उत्तमम 14 ता वाचः सूतपुत्रस्य तथायुक्ता निशम्य तु दुर्यॊधनॊ महाराज परहृष्टः सानुगॊ ऽभवत 15 ततॊ दुन्दुभिनिर्घॊषॊ मृदङ्गानां च सर्वशः सिंहनादः सवादित्रः कुञ्जराणाम अनिस्वनः 16 परादुरासीत तदा राजंस तवत सैन्ये भरतर्षभ यॊधानां संप्रहृष्टानां तथा समभवत सवनः 17 तथा परहृष्टे सैन्ये तु परवमानं महारथम विकत्थमानं समरे राधेयम अरिकर्शनम मद्रराजः परहस्येवं वचनं परथ्यभाषत 18 मा सूतपुत्र मानेन सौवर्णं हस्तिषड्गवम परयच्छ पुरुषायाद्य दरक्ष्यसि तवं धनंजयम 19 बाल्याद इव तवं तयजसि वसु वैश्रवणॊ यथा अयत्नेनैव राधेय दरष्टास्य अद्य धनंजयम 20 परासृजसि मिथ्या किं किं च तवं बहु मूढवत अपात्र दाने ये दॊषास तान मॊहान नावबुध्यसे 21 यत परवेदयसे वित्तं बहुत्वेन खलु तवया शक्यं बहुविधैर यज्ञैर यष्टुं सूत यजस्व तैः 22 यच च परार्थयसे हन्तुं कृष्णौ मॊहान मृषैव तत न हि शुश्रुम संमर्दे करॊष्ट्रा सिंहौ निपातितौ 23 अप्रार्थितं परार्थयसे सुहृदॊ न हि सन्ति ते ये तवां न वारयन्त्य आशु परपतन्तं हुताशने 24 कालकार्यं न जानीषे कालपक्वॊ ऽसय असंशयम बह्वबद्धम अकर्णीयं कॊ हि बरूयाज जिजीविषुः 25 समुद्रतरणं दॊर्भ्यां कण्ठे बद्ध्वा यथा शिलाम गिर्यग्राद वा निपतनं तादृक तव चिकीर्षितम 26 सहितः सर्वयॊधैस तवं वयूढानीकैः सुरक्षितः धनंजयेन युध्यस्व शरेयश चेत पराप्तुम इच्छसि 27 हितार्थं धार्तराष्ट्रस्य बरवीमि तवा न हिंसया शरद्धत्स्वैतन मया परॊक्तं यदि ते ऽसति जिजीविषा 28 [कर्ण] सववीर्ये ऽहं पराश्वस्य परार्थयाम्य अर्जुनं रणे तवं तु मित्र मुखः शत्रुर मां भीषयितुम इच्छसि 29 न माम अस्माद अभिप्रायात कश चिद अद्य निवर्तयेत अपीन्द्रॊ वज्रम उद्यम्य किं नु मर्त्यः करिष्यति 30 [स] इति कर्णस्य वाक्यान्ते शल्यः पराहॊत्तरं वचः चुकॊपयिषुर अत्यर्थं कर्णं मद्रेश्वरः पुनः 31 यदा वै तवां फल्गुन वेगनुन्ना; जया चॊदिता हस्तवता विसृष्टाः अन्वेतारः कङ्कपत्राः शिताग्रास; तदा तप्स्यस्य अर्जुनस्याभियॊगात 32 यदा दिव्यं धनुर आदाय पार्थः; परभासयन पृतनां सव्यसाची तवाम अर्दयेत निशितैः पृषत्कैस; तदा पश्चात तप्स्यसे सूतपुत्र 33 बालश चन्द्रं मातुर अङ्के शयानॊ; यथा कश चित परार्थयते ऽपहर्तुम तद्वन मॊहाद यतमानॊ रथस्थस; तवं परार्थयस्य अर्जुनम अद्य जेतुम 34 तरिशूलम आश्लिष्य सुतीक्ष्णधारं; सर्वाणि गात्राणि निघर्षसि तवम सुतीक्ष्णधारॊपम कर्मणा तवं; युयुत्ससे यॊ ऽरजुनेनाद्य कर्ण 35 सिद्धं सिंहं केसरिणं बृहन्तं; बालॊ मूढः कषुद्रमृगस तरस्वी समाह्वयेत तद्वद एतत तवाद्य; समाह्वानं सूतपुत्रार्जुनस्य 36 मा सूतपुत्राह्वय राजपुत्रं; महावीर्यं केसरिणं यथैव वने सृगालः पिशितस्य तृप्तॊ; मा मार्थम आसाद्य विनङ्क्ष्यसि तवम 37 ईषादन्तं महानागं परभिन्नकरटा मुखम शशक आह्वयसे युद्धे कर्ण पार्थं धनंजयम 38 बिलस्थं कृष्णसर्पं तवं बाल्यात काष्ठेन विध्यसि महाविषं पूर्णकॊशं यत पार्थं यॊद्धुम इच्छसि 39 सिंहं केसरिणं करुद्धम अतिक्रम्याभिनर्दसि सृगाल इव मूढत्वान नृसिंहं कर्ण पाण्डवम 40 सुपर्णं पतगश्रेष्ठं वैनतेयं तरस्विनम लट्व एवाह्वयसे पाते कर्ण पार्थं धनंजयम 41 सर्वाम्भॊ निलयं भीमम ऊर्मिमन्तं झषायुतम चन्द्रॊदये विवर्तन्तम अप्लवः संतितीर्षसि 42 ऋषभं दुन्दुभिग्रीवं तीक्ष्णशृङ्गं परहारिणम वत्स आह्वयसे युद्धे कर्ण पार्थं धनंजयम 43 महाघॊषं महामेघं दर्दुरः परतिनर्दसि कामतॊय परदं लॊके नरपर्जन्यम अर्जुनम 44 यथा च सवगृहस्थः शवा वयाघ्रं वनगतं भषेत तथा तवं भषसे कर्ण नरव्याघ्रं धनंजयम 45 सृगालॊ ऽपि वने कर्ण शशैः परिवृतॊ वसन मन्यते सिंहम आत्मानं यावत सिंहं न पश्यति 46 तथा तवम अपि राधेय सिंहम आत्मानम इच्छसि अपश्यञ शत्रुदमनं नरव्याघ्रं धनंजयम 47 वयाघ्रं तवं मन्यसे ऽऽतमानं यावत कृष्णौ न पश्यसि समास्थिताव एकरथे सूर्यचन्द्रमसाव इव 48 यावद गाण्डीवनिर्घॊषं न शृणॊषि महाहवे तावद एव तवया कर्ण शक्यं वक्तुं यथेच्छसि 49 रथशब्दधनुः शब्दैर नादयन्तं दिशॊ दश नर्दन्तम इव शार्दूलं दृष्ट्वा करॊष्टा भविष्यसि 50 नित्यम एव सृगाजस तवं नित्यं सिंहॊ धनंजयः वीर परद्वेषणान मूढ नित्यं करॊष्टेव लक्ष्यसे 51 यथाखुः सयाद बिडालश च शवा वयाघ्रश च बलाबले यथा सृगालः सिंहश च यथा च शशकुञ्जरौ 52 यथानृतं च सत्यं च यथा चापि वृषामृते तथा तवम अपि पार्थश च परख्याताव आत्मकर्मभिः 53 [स] अधिक्षिप्तस तु राधेयः शल्येनामित तेजसा शल्यम आह सुसंक्रुद्धॊ वाक्शल्यम अवधारयन 54 गुणान गुणवतः शल्य गुणवान वेत्ति नागुणः तवं तु नित्यं गुणैर हीनः किं जञास्यस्य अगुणॊ गुणान 55 अर्जुनस्य महास्त्राणि करॊधं वीर्यं धनुः शरान अहं शल्याभिजानामि न तवं जानासि तत तथा 56 एवम एवात्मनॊ वीर्यम अहं वीर्यं च पाण्डवे जानन्न एवाह्वये युद्धे शल्य नाग्निं पतंगवत 57 अस्ति चायम इषुः शल्य सुपुङ्खॊ रथभॊजनः एकतूणी शयः पत्री सुधौतः समलंकृतः 58 शेते चन्दनपूर्णेन पूजितॊ बहुलाः समाः आहेयॊ विषवान उग्रॊ नराश्वद्विपसंघहा 59 एकवीरॊ महारौद्रस तनुत्रास्थि विदारणः निर्भिन्द्यां येन रुष्टॊ ऽहम अपि मेरुं महागिरिम 60 तम अहं जातु नास्येयम अन्यस्मिन फल्गुनाद ऋते कृष्णाद वा देवकीपुत्रात सत्यं चात्र शृणुष्व मे 61 तेनाहम इषुणा शल्य वासुदेवधनंजयौ यॊत्स्ये परमसंक्रुद्धस तत कर्म सदृशं मम 62 सर्वेषां वासुदेवानां कृष्णे लक्ष्मीः परतिष्ठिता सर्वेषां पाण्डुपुत्राणां जयः पार्थे परतिष्ठितः उभयं तत समासाद्य कॊ ऽतिवर्तितुम अर्हति 63 ताव एतौ पुरुषव्याघ्रौ समेतौ सयन्दने सथितौ माम एकम अभिसंयातौ सुजातं शल्य पश्य मे 64 पितृष्वसा मातुलजौ भरातराव अपराजितौ मणी सूत्र इव परॊक्तौ दरष्टासि निहतौ मया 65 अर्जुने गाण्डिवं कृष्णे चक्रं तार्क्ष्य कपिध्वजौ भीरूणां तरासजननौ शल्य हर्षकरौ मम 66 तवं तु दुष्प्रकृतिर मूढॊ महायुद्धेष्व अकॊविदः भयावतीर्णः संत्रासाद अबद्धं बहु भाषसे 67 संस्तौषि तवं तु केनापि हेतुना तौ कुदेशज तौ हत्वा समरे हन्ता तवाम अद्धा सहबान्धवम 68 पापदेशज दुर्बुद्धे कषुद्रक्षत्रियपांसन सुहृद भूत्वा रिपुः किं मां कृष्णाभ्यां भीषयन्न असि 69 तौ वा ममाद्य हन्तारौ हन्तास्मि समरे सथितौ नाहं बिभेमि कृष्णाभ्यां विजानन्न आत्मनॊ बलम 70 वासुदेव सहस्रं वा फल्गुनानां शतानि च अहम एकॊ हनिष्यामि जॊषम आस्स्व कुदेशज 71 सत्रियॊ बालाश च वृद्धाश च परायः करीडा गता जनाः या गाथाः संप्रगायन्ति कुर्वन्तॊ ऽधययनं यथा ता गाथाः शृणु मे शल्य मद्रकेषु दुरात्मसु 72 बराह्मणैः कथिताः पूर्वं यथावद राजसंनिधौ शरुत्वा चैकमना मूढ कषम वा बरूहि वॊत्तमम 73 मित्रध्रुन मद्रकॊ नित्यं यॊ नॊ दवेष्टि स मद्रकः मद्रके संगतं नास्ति कषुद्रवाक्ये नराधमे 74 दुरात्मा मद्रकॊ नित्यं नित्यं चानृतिकॊ ऽनृजुः यावदन्तं हि दौरात्म्यं मद्रकेष्व इति नः शरुतम 75 पिता माता च पुत्रश च शवश्रू शवशुर मातुलाः जामाता दुहिता भराता नप्ता ते ते च बान्धवाः 76 वयस्याभ्यागताश चान्ये दासीदासं च संगतम पुम्भिर विमिश्रा नार्यश च जञाताज्ञाताः सवयेच्छया 77 येषां गृहेषु शिष्टानां सक्तु मन्थाशिनां सदा पीत्वा सीधुं सगॊ मांसं नर्दन्ति च हसन्ति च 78 यानि चैवाप्य अबद्धानि परवर्तन्ते च कामतः कामप्रलापिनॊ ऽनयॊन्यं तेषु धर्मः कथं भवेत 79 मद्रकेषु विलुप्तेषु परख्याताशुभ कर्मसु नापि वैरं न सौहार्दं मद्रकेषु समाचरेत 80 मद्रके संगतं नास्ति मद्रकॊ हि सचापलः मद्रकेषु च दुःस्पर्शं शौचं गान्धारकेषु च 81 राजयाजक याज्येन नष्टं दत्तं हविर भवेत 82 शूद्र संस्कारकॊ विप्रॊ यथा याति पराभवम तथा बरह्म दविषॊ नित्यं गच्छन्तीह पराभवम 83 मद्रके संगतं नास्ति हतं वृश्चिकतॊ विषम आथर्वणेन मन्त्रेण सर्वा शान्तिः कृता भवेत 84 इति वृश्चिक दष्टस्य नाना विषहतस्य च कुर्वन्ति भेषजं पराज्ञाः सत्यं तच चापि दृश्यते एवं विद्वञ जॊषम आस्स्व शृणु चात्रॊत्तरं वचः 85 वासांस्य उत्सृज्य नृत्यन्ति सत्रियॊ या मद्य मॊहिताः मिथुने ऽसंयताश चापि यथा कामचराश च ताः तासां पुत्रः कथं धर्मं मद्रकॊ वक्तुम अर्हति 86 यास तिष्ठन्त्यः परमेहन्ति यथैवॊष्ट्री दशेरके तासां विभ्रष्टलज्जानां निर्लज्जानां ततस ततः तवं पुत्रस तादृशीनां हि धर्मं वक्तुम इहेच्छसि 87 सुवीरकं याच्यमाना मद्रका कषति सफिजौ अदातु कामा वचनम इदं वदति दारुणम 88 मा मा सुवीरकं कश चिद याचतां दयितॊ मम पुत्रं दद्यां परतिपदं न तु दद्यां सुवीरकम 89 नार्यॊ बृहत्यॊ निर्ह्रीका मद्रकाः कम्बलावृताः घस्मरा नष्टशौचाश च पराय इत्य अनुशुश्रुम 90 एवमादि मयान्यैर वा शक्यं वक्तुं भवेद बहु आ केशाग्रान नखाग्राच च वक्तव्येषु कुवर्त्मसु 91 मद्रकाः सिन्धुसौवीरा धर्मं विद्युः कथं तव इह पापदेशॊद्भवा मलेच्छा धर्माणम अविचक्षणाः 92 एष मुख्यतमॊ धर्मः कषत्रियस्येति नः शरुतम यद आजौ निहतः शेते सद्भिः समभिपूजितः 93 आयुधानां संपराये यन मुच्येयम अहं ततः न मे स परथमः कल्पॊ निधने सवर्गम इच्छतः 94 सॊ ऽहं परियः सखा चास्मि धार्तराष्ट्रस्य धीमतः तदर्थे हि मम पराणा यच च मे विद्यते वसु 95 वयक्तं तवम अप्य उपहितः पाण्डवैः पापदेशज यथा हय अमित्रवत सर्वं तवम अस्मासु परवर्तसे 96 कामं न खलु शक्यॊ ऽहं तवद्विधानां शतैर अपि संग्रामाद विमुखः कर्तुं धर्मज्ञ इव नास्तिकैः 97 सारङ्ग इव घर्मार्तः कामं विलप शुष्य च नाहं भीषयितुं शक्यः कषत्रवृत्ते वयवस्थितः 98 तनु तयजां नृसिंहानाम आहवेष्व अनिवर्तिनाम या गतिर गुरुणा पराङ मे परॊक्ता रामेण तां समर 99 सवेषां तराणार्थम उद्युक्तं वधाय दविषताम अपि विद्धि माम आस्थितं वृत्तं पौरूरव समुत्तमम 100 न तद भूतं परपश्यामि तरिषु लॊकेषु मद्रक यॊ माम अस्माद अभिप्रायाद वारयेद इति मे मतिः 101 एवं विद्वञ जॊषम आस्स्व तरासात किं बहु भाषसे मा तवा हत्वा परदास्यामि करव्याद्भ्यॊ मद्रकाधम 102 मित्र परतीक्षया शल्य धार्तराष्ट्रस्य चॊभयॊः अपवादतितिक्षाभिस तरिभिर एतैर हि जीवसि 103 पुनश चेद ईद्दृशं वाक्यं मद्रराजवदिष्यसि शिरस ते पातयिष्यामि गदया वज्रकल्पया 104 शरॊतारस तव इदम अद्येह दरष्टारॊ वा कुदेशज कर्णं वा जघ्नतुः कृष्णौ कर्णॊ वापि जघान तौ 105 एवम उक्त्वा तु राधेयः पुनर एव विशां पते अब्रवीन मद्रराजानं याहि याहीत्य असंभ्रमम |
1
[s] prayān eva tadā karṇo harṣayan vāhinīṃ tava ekaikaṃ samare dṛṣṭvā pāṇḍavaṃ paryapṛcchata 2 yo mamādya mahātmānaṃ darśayec chveta vāhanam tasmai dadyām abhipretaṃ varaṃ yaṃ manasecchati 3 sa cet tad abhimanyeta tasmai dadyām ahaṃ punaḥ śaktaṭaṃ ratnasaṃpūrṇaṃ yo me brūyād dhanaṃjayam 4 sa cet tad abhimanyeta puruṣo 'rjuna darśivān anyaṃ tasmai punar dadyāṃ sauvarṇaṃ hastiṣaḍgavam 5 tathā tasmai punar dadyāṃ strīṇāṃ śatam alaṃkṛtam śyāmānāṃ niṣkakaṇṭhīnāṃ gītavādya vipaścitām 6 sa cet tad abhimanyeta puruṣo 'rjuna darśivān anyaṃ tasmai varaṃ dadyāṃ śvetān pañca śatān hayān 7 hemabhāṇḍa paricchannān sumṛṣṭamaṇikuṇḍalān sudāntān api caivāhaṃ dadyām aṣṭa śatān parān 8 rathaṃ ca śubhraṃ sauvarṇaṃ dadyāṃ tasmai svalaṃkṛtam yuktaṃ paramakāmbojair yo me brūyād dhanaṃjayam 9 anyaṃ tasmai varaṃ dadyāṃ kuñjarāṇāṃ śatāni ṣaṭ kāñcanair vividhair bhāṇḍair ācchannān hemamālinaḥ utpannān aparānteṣu vinītān hastiśikṣakaiḥ 10 sa cet tad abhimanyeta puruṣo 'rjuna darśivān anyaṃ tasmai varaṃ dadyāṃ yam asau kāmayet svayam 11 putradārān vihārāṃś ca yad anyad vittam asti me tac ca tasmai punar dadyāṃ yad yat sa manasecchati 12 hatvā ca sahitau kṛṣṇau tayor vittāni sarvaśaḥ tasmai dadyām ahaṃ yo me prabrūyāt keśavārjunau 13 etā vācaḥ subahuśaḥ karṇa uccārayan yudhi dadhmau sāgarasaṃbhūtaṃ susvanaṃ śaṅkham uttamam 14 tā vācaḥ sūtaputrasya tathāyuktā niśamya tu duryodhano mahārāja prahṛṣṭaḥ sānugo 'bhavat 15 tato dundubhinirghoṣo mṛdaṅgānāṃ ca sarvaśaḥ siṃhanādaḥ savāditraḥ kuñjarāṇām anisvanaḥ 16 prādurāsīt tadā rājaṃs tvat sainye bharatarṣabha yodhānāṃ saṃprahṛṣṭānāṃ tathā samabhavat svanaḥ 17 tathā prahṛṣṭe sainye tu pravamānaṃ mahāratham vikatthamānaṃ samare rādheyam arikarśanam madrarājaḥ prahasyevaṃ vacanaṃ prathyabhāṣata 18 mā sūtaputra mānena sauvarṇaṃ hastiṣaḍgavam prayaccha puruṣāyādya drakṣyasi tvaṃ dhanaṃjayam 19 bālyād iva tvaṃ tyajasi vasu vaiśravaṇo yathā ayatnenaiva rādheya draṣṭāsy adya dhanaṃjayam 20 parāsṛjasi mithyā kiṃ kiṃ ca tvaṃ bahu mūḍhavat apātra dāne ye doṣās tān mohān nāvabudhyase 21 yat pravedayase vittaṃ bahutvena khalu tvayā śakyaṃ bahuvidhair yajñair yaṣṭuṃ sūta yajasva taiḥ 22 yac ca prārthayase hantuṃ kṛṣṇau mohān mṛṣaiva tat na hi śuśruma saṃmarde kroṣṭrā siṃhau nipātitau 23 aprārthitaṃ prārthayase suhṛdo na hi santi te ye tvāṃ na vārayanty āśu prapatantaṃ hutāśane 24 kālakāryaṃ na jānīṣe kālapakvo 'sy asaṃśayam bahvabaddham akarṇīyaṃ ko hi brūyāj jijīviṣuḥ 25 samudrataraṇaṃ dorbhyāṃ kaṇṭhe baddhvā yathā śilām giryagrād vā nipatanaṃ tādṛk tava cikīrṣitam 26 sahitaḥ sarvayodhais tvaṃ vyūḍhānīkaiḥ surakṣitaḥ dhanaṃjayena yudhyasva śreyaś cet prāptum icchasi 27 hitārthaṃ dhārtarāṣṭrasya bravīmi tvā na hiṃsayā śraddhatsvaitan mayā proktaṃ yadi te 'sti jijīviṣā 28 [karṇa] svavīrye 'haṃ parāśvasya prārthayāmy arjunaṃ raṇe tvaṃ tu mitra mukhaḥ śatrur māṃ bhīṣayitum icchasi 29 na mām asmād abhiprāyāt kaś cid adya nivartayet apīndro vajram udyamya kiṃ nu martyaḥ kariṣyati 30 [s] iti karṇasya vākyānte śalyaḥ prāhottaraṃ vacaḥ cukopayiṣur atyarthaṃ karṇaṃ madreśvaraḥ punaḥ 31 yadā vai tvāṃ phalguna veganunnā; jyā coditā hastavatā visṛṣṭāḥ anvetāraḥ kaṅkapatrāḥ śitāgrās; tadā tapsyasy arjunasyābhiyogāt 32 yadā divyaṃ dhanur ādāya pārthaḥ; prabhāsayan pṛtanāṃ savyasācī tvām ardayeta niśitaiḥ pṛṣatkais; tadā paścāt tapsyase sūtaputra 33 bālaś candraṃ mātur aṅke śayāno; yathā kaś cit prārthayate 'pahartum tadvan mohād yatamāno rathasthas; tvaṃ prārthayasy arjunam adya jetum 34 triśūlam āśliṣya sutīkṣṇadhāraṃ; sarvāṇi gātrāṇi nigharṣasi tvam sutīkṣṇadhāropama karmaṇā tvaṃ; yuyutsase yo 'rjunenādya karṇa 35 siddhaṃ siṃhaṃ kesariṇaṃ bṛhantaṃ; bālo mūḍhaḥ kṣudramṛgas tarasvī samāhvayet tadvad etat tavādya; samāhvānaṃ sūtaputrārjunasya 36 mā sūtaputrāhvaya rājaputraṃ; mahāvīryaṃ kesariṇaṃ yathaiva vane sṛgālaḥ piśitasya tṛpto; mā mārtham āsādya vinaṅkṣyasi tvam 37 īṣādantaṃ mahānāgaṃ prabhinnakaraṭā mukham śaśaka āhvayase yuddhe karṇa pārthaṃ dhanaṃjayam 38 bilasthaṃ kṛṣṇasarpaṃ tvaṃ bālyāt kāṣṭhena vidhyasi mahāviṣaṃ pūrṇakośaṃ yat pārthaṃ yoddhum icchasi 39 siṃhaṃ kesariṇaṃ kruddham atikramyābhinardasi sṛgāla iva mūḍhatvān nṛsiṃhaṃ karṇa pāṇḍavam 40 suparṇaṃ patagaśreṣṭhaṃ vainateyaṃ tarasvinam laṭv evāhvayase pāte karṇa pārthaṃ dhanaṃjayam 41 sarvāmbho nilayaṃ bhīmam ūrmimantaṃ jhaṣāyutam candrodaye vivartantam aplavaḥ saṃtitīrṣasi 42 ṛṣabhaṃ dundubhigrīvaṃ tīkṣṇaśṛṅgaṃ prahāriṇam vatsa āhvayase yuddhe karṇa pārthaṃ dhanaṃjayam 43 mahāghoṣaṃ mahāmeghaṃ darduraḥ pratinardasi kāmatoya pradaṃ loke naraparjanyam arjunam 44 yathā ca svagṛhasthaḥ śvā vyāghraṃ vanagataṃ bhaṣet tathā tvaṃ bhaṣase karṇa naravyāghraṃ dhanaṃjayam 45 sṛgālo 'pi vane karṇa śaśaiḥ parivṛto vasan manyate siṃham ātmānaṃ yāvat siṃhaṃ na paśyati 46 tathā tvam api rādheya siṃham ātmānam icchasi apaśyañ śatrudamanaṃ naravyāghraṃ dhanaṃjayam 47 vyāghraṃ tvaṃ manyase ''tmānaṃ yāvat kṛṣṇau na paśyasi samāsthitāv ekarathe sūryacandramasāv iva 48 yāvad gāṇḍīvanirghoṣaṃ na śṛṇoṣi mahāhave tāvad eva tvayā karṇa śakyaṃ vaktuṃ yathecchasi 49 rathaśabdadhanuḥ śabdair nādayantaṃ diśo daśa nardantam iva śārdūlaṃ dṛṣṭvā kroṣṭā bhaviṣyasi 50 nityam eva sṛgājas tvaṃ nityaṃ siṃho dhanaṃjayaḥ vīra pradveṣaṇān mūḍha nityaṃ kroṣṭeva lakṣyase 51 yathākhuḥ syād biḍālaś ca śvā vyāghraś ca balābale yathā sṛgālaḥ siṃhaś ca yathā ca śaśakuñjarau 52 yathānṛtaṃ ca satyaṃ ca yathā cāpi vṛṣāmṛte tathā tvam api pārthaś ca prakhyātāv ātmakarmabhiḥ 53 [s] adhikṣiptas tu rādheyaḥ śalyenāmita tejasā śalyam āha susaṃkruddho vākśalyam avadhārayan 54 guṇān guṇavataḥ śalya guṇavān vetti nāguṇaḥ tvaṃ tu nityaṃ guṇair hīnaḥ kiṃ jñāsyasy aguṇo guṇān 55 arjunasya mahāstrāṇi krodhaṃ vīryaṃ dhanuḥ śarān ahaṃ śalyābhijānāmi na tvaṃ jānāsi tat tathā 56 evam evātmano vīryam ahaṃ vīryaṃ ca pāṇḍave jānann evāhvaye yuddhe śalya nāgniṃ pataṃgavat 57 asti cāyam iṣuḥ śalya supuṅkho rathabhojanaḥ ekatūṇī śayaḥ patrī sudhautaḥ samalaṃkṛtaḥ 58 śete candanapūrṇena pūjito bahulāḥ samāḥ āheyo viṣavān ugro narāśvadvipasaṃghahā 59 ekavīro mahāraudras tanutrāsthi vidāraṇaḥ nirbhindyāṃ yena ruṣṭo 'ham api meruṃ mahāgirim 60 tam ahaṃ jātu nāsyeyam anyasmin phalgunād ṛte kṛṣṇād vā devakīputrāt satyaṃ cātra śṛṇuṣva me 61 tenāham iṣuṇā śalya vāsudevadhanaṃjayau yotsye paramasaṃkruddhas tat karma sadṛśaṃ mama 62 sarveṣāṃ vāsudevānāṃ kṛṣṇe lakṣmīḥ pratiṣṭhitā sarveṣāṃ pāṇḍuputrāṇāṃ jayaḥ pārthe pratiṣṭhitaḥ ubhayaṃ tat samāsādya ko 'tivartitum arhati 63 tāv etau puruṣavyāghrau sametau syandane sthitau mām ekam abhisaṃyātau sujātaṃ śalya paśya me 64 pitṛṣvasā mātulajau bhrātarāv aparājitau maṇī sūtra iva proktau draṣṭāsi nihatau mayā 65 arjune gāṇḍivaṃ kṛṣṇe cakraṃ tārkṣya kapidhvajau bhīrūṇāṃ trāsajananau śalya harṣakarau mama 66 tvaṃ tu duṣprakṛtir mūḍho mahāyuddheṣv akovidaḥ bhayāvatīrṇaḥ saṃtrāsād abaddhaṃ bahu bhāṣase 67 saṃstauṣi tvaṃ tu kenāpi hetunā tau kudeśaja tau hatvā samare hantā tvām addhā sahabāndhavam 68 pāpadeśaja durbuddhe kṣudrakṣatriyapāṃsana suhṛd bhūtvā ripuḥ kiṃ māṃ kṛṣṇābhyāṃ bhīṣayann asi 69 tau vā mamādya hantārau hantāsmi samare sthitau nāhaṃ bibhemi kṛṣṇābhyāṃ vijānann ātmano balam 70 vāsudeva sahasraṃ vā phalgunānāṃ śatāni ca aham eko haniṣyāmi joṣam āssva kudeśaja 71 striyo bālāś ca vṛddhāś ca prāyaḥ krīḍā gatā janāḥ yā gāthāḥ saṃpragāyanti kurvanto 'dhyayanaṃ yathā tā gāthāḥ śṛṇu me śalya madrakeṣu durātmasu 72 brāhmaṇaiḥ kathitāḥ pūrvaṃ yathāvad rājasaṃnidhau śrutvā caikamanā mūḍha kṣama vā brūhi vottamam 73 mitradhrun madrako nityaṃ yo no dveṣṭi sa madrakaḥ madrake saṃgataṃ nāsti kṣudravākye narādhame 74 durātmā madrako nityaṃ nityaṃ cānṛtiko 'nṛjuḥ yāvadantaṃ hi daurātmyaṃ madrakeṣv iti naḥ śrutam 75 pitā mātā ca putraś ca śvaśrū śvaśura mātulāḥ jāmātā duhitā bhrātā naptā te te ca bāndhavāḥ 76 vayasyābhyāgatāś cānye dāsīdāsaṃ ca saṃgatam pumbhir vimiśrā nāryaś ca jñātājñātāḥ svayecchayā 77 yeṣāṃ gṛheṣu śiṣṭānāṃ saktu manthāśināṃ sadā pītvā sīdhuṃ sago māṃsaṃ nardanti ca hasanti ca 78 yāni caivāpy abaddhāni pravartante ca kāmataḥ kāmapralāpino 'nyonyaṃ teṣu dharmaḥ kathaṃ bhavet 79 madrakeṣu vilupteṣu prakhyātāśubha karmasu nāpi vairaṃ na sauhārdaṃ madrakeṣu samācaret 80 madrake saṃgataṃ nāsti madrako hi sacāpalaḥ madrakeṣu ca duḥsparśaṃ śaucaṃ gāndhārakeṣu ca 81 rājayājaka yājyena naṣṭaṃ dattaṃ havir bhavet 82 śūdra saṃskārako vipro yathā yāti parābhavam tathā brahma dviṣo nityaṃ gacchantīha parābhavam 83 madrake saṃgataṃ nāsti hataṃ vṛścikato viṣam ātharvaṇena mantreṇa sarvā śāntiḥ kṛtā bhavet 84 iti vṛścika daṣṭasya nānā viṣahatasya ca kurvanti bheṣajaṃ prājñāḥ satyaṃ tac cāpi dṛśyate evaṃ vidvañ joṣam āssva śṛṇu cātrottaraṃ vacaḥ 85 vāsāṃsy utsṛjya nṛtyanti striyo yā madya mohitāḥ mithune 'saṃyatāś cāpi yathā kāmacarāś ca tāḥ tāsāṃ putraḥ kathaṃ dharmaṃ madrako vaktum arhati 86 yās tiṣṭhantyaḥ pramehanti yathaivoṣṭrī daśerake tāsāṃ vibhraṣṭalajjānāṃ nirlajjānāṃ tatas tataḥ tvaṃ putras tādṛśīnāṃ hi dharmaṃ vaktum ihecchasi 87 suvīrakaṃ yācyamānā madrakā kaṣati sphijau adātu kāmā vacanam idaṃ vadati dāruṇam 88 mā mā suvīrakaṃ kaś cid yācatāṃ dayito mama putraṃ dadyāṃ pratipadaṃ na tu dadyāṃ suvīrakam 89 nāryo bṛhatyo nirhrīkā madrakāḥ kambalāvṛtāḥ ghasmarā naṣṭaśaucāś ca prāya ity anuśuśruma 90 evamādi mayānyair vā śakyaṃ vaktuṃ bhaved bahu ā keśāgrān nakhāgrāc ca vaktavyeṣu kuvartmasu 91 madrakāḥ sindhusauvīrā dharmaṃ vidyuḥ kathaṃ tv iha pāpadeśodbhavā mlecchā dharmāṇam avicakṣaṇāḥ 92 eṣa mukhyatamo dharmaḥ kṣatriyasyeti naḥ śrutam yad ājau nihataḥ śete sadbhiḥ samabhipūjitaḥ 93 āyudhānāṃ saṃparāye yan mucyeyam ahaṃ tataḥ na me sa prathamaḥ kalpo nidhane svargam icchataḥ 94 so 'haṃ priyaḥ sakhā cāsmi dhārtarāṣṭrasya dhīmataḥ tadarthe hi mama prāṇā yac ca me vidyate vasu 95 vyaktaṃ tvam apy upahitaḥ pāṇḍavaiḥ pāpadeśaja yathā hy amitravat sarvaṃ tvam asmāsu pravartase 96 kāmaṃ na khalu śakyo 'haṃ tvadvidhānāṃ śatair api saṃgrāmād vimukhaḥ kartuṃ dharmajña iva nāstikaiḥ 97 sāraṅga iva gharmārtaḥ kāmaṃ vilapa śuṣya ca nāhaṃ bhīṣayituṃ śakyaḥ kṣatravṛtte vyavasthitaḥ 98 tanu tyajāṃ nṛsiṃhānām āhaveṣv anivartinām yā gatir guruṇā prāṅ me proktā rāmeṇa tāṃ smara 99 sveṣāṃ trāṇārtham udyuktaṃ vadhāya dviṣatām api viddhi mām āsthitaṃ vṛttaṃ paurūrava samuttamam 100 na tad bhūtaṃ prapaśyāmi triṣu lokeṣu madraka yo mām asmād abhiprāyād vārayed iti me matiḥ 101 evaṃ vidvañ joṣam āssva trāsāt kiṃ bahu bhāṣase mā tvā hatvā pradāsyāmi kravyādbhyo madrakādhama 102 mitra pratīkṣayā śalya dhārtarāṣṭrasya cobhayoḥ apavādatitikṣābhis tribhir etair hi jīvasi 103 punaś ced īddṛśaṃ vākyaṃ madrarājavadiṣyasi śiras te pātayiṣyāmi gadayā vajrakalpayā 104 śrotāras tv idam adyeha draṣṭāro vā kudeśaja karṇaṃ vā jaghnatuḥ kṛṣṇau karṇo vāpi jaghāna tau 105 evam uktvā tu rādheyaḥ punar eva viśāṃ pate abravīn madrarājānaṃ yāhi yāhīty asaṃbhramam |
The Mahabharata in Sanskrit
Book 8
Chapter 28
|
1
[स] मारिषाधिरथेः शरुत्वा वचॊ युद्धाभिनन्दिनः शल्यॊ ऽबरवीत पुनः कर्णं निदर्शनम उदाहरन 2 यथैव मत्तॊ मद्येन तवं तथा न च वा तथा तथाहं तवां परमाद्यन्तं चिकित्सामि सुहृत्तया 3 इमां काकॊपमां कर्ण परॊच्यमानां निबॊध मे शरुत्वा यथेष्टं कुर्यास तवं विहीनकुलपांसन 4 नाहम आत्मनि किं चिद वै किल्बिषं कर्ण संस्मरे येन तवं मां महाबाहॊ हन्तुम इच्छस्य अनागसम 5 अवश्यं तु मया वाच्यं बुध्यतां यदि ते हितम विशेषतॊ रथस्थेन राज्ञश चैव हितैषिणा 6 समं च विषमं चैव रथिनश च बलाबलम शरमः खेदश च सततं हयानां रथिना सह 7 आयुधस्य परिज्ञानं रुतं च मृगपक्षिणाम भारश चाप्य अतिभारश च शल्यानां च परतिक्रिया 8 अस्त्रयॊगश च युद्धं च निमित्तानि तथैव च सर्वम एतन मया जञेयं रथस्यास्य कुटुम्बिना अतस तवां कथये कर्ण निदर्शनम इदं पुनः 9 वैश्यः किल समुद्रान्ते परभूतधनधान्यवान यज्वा दानपतिः कषान्तः सवकर्मस्थॊ ऽभवच छुचिः 10 बहुपुत्रः परियापत्यः सर्वभूतानुकम्पकः राज्ञॊ धर्मप्रधानस्य राष्ट्रे वसति निर्भयः 11 पुत्राणां तस्य बालानां कुमाराणां यशस्विनाम काकॊ बहूनाम अभवद उच्चिष्ट कृतभॊजनः 12 तस्मै सदा परयच्छन्ति वैश्य पुत्राः कुमारकाः मांसौदनं दधि कषीरं पायसं मधुसर्पिषी 13 स चॊच्छिष्ट भृतः काकॊ वैश्य पुत्रैः कुमारकैः सदृशान पक्षिणॊ दृप्तः शरेयसश चावमन्यते 14 अथ हंसाः समुद्रान्ते कदा चिद अभिपातितः गरुडस्य गतौ तुल्याश चक्राङ्गा हृष्टचेतसः 15 कुमारकास ततॊ हंसान दृष्ट्वा काकम अथाब्रुवन भवान एव विशिष्टॊ हि पतत्रिभ्यॊ विहंगम 16 परतार्यमाणस तु स तैर अल्पबुद्धिभिर अण्डजः तद वचः सत्यम इत्य एव मौर्ख्याद दर्पाच च मन्यते 17 तान सॊ ऽभिपत्य जिज्ञासुः क एषां शरेष्ठ भाग इति उच्छिष्ट दर्पितः काकॊ बहूनां दूरपातिनाम 18 तेषां यं परवरं मेने हंसानां दूरपातिनाम तम आह्वयत दुर्बुद्धिः पताम इति पक्षिणम 19 तच छरुत्वा पराहसन हंसा ये तत्रासन समागताः भाषतॊ बहु काकस्य बलिनः पततां वराः इदम ऊचुश च चक्राङ्गा वचः काकं विहंगमाः 20 वयं हंसाश चरामेमां पृथिवीं मानसौकसः पक्षिणां च वयं नित्यं दूरपातेन पूजिताः 21 कथं नु हंसं बलिनं वज्राङ्गं दूरपातिनम काकॊ भूत्वा निपतने समाह्वायसि दुर्मते कथं तवं पतनं काक सहास्माभिर बरवीषि तत 22 अथ हंसवचॊ मूढः कुत्सयित्वा पुनः पुनः परजगादॊत्तरं काकः कत्थनॊ जातिलाघवात 23 शतम एकं च पातानां पतितास्मि न संशयः शतयॊजनम एकैकं विचित्रं विविधं तथा 24 उड्डीनम अवडीनं च परडीनं डीनम एव च निडीनम अथ संडीनं तिर्यक चातिगतानि च 25 विडीनं परिडीनं च पराडीनं सुडीनकम अतिडीनं महाडीनं निडीनं परिडीनकम 26 गतागत परतिगता बह्वीश च निकुडीनिकाः कर्तास्मि मिषतां वॊ ऽदय ततॊ दरक्ष्यथ मे बलम 27 एवम उक्ते तु काकेन परहस्यैकॊ विहंगमः उवाच हंसस तं काकं वचनं तन निबॊध मे 28 शतम एकं च पातानां तवं काकपतिता धरुवम एकम एव तु ये पातं विदुः सर्वे विहंगमाः 29 तम अहं पतिता काकनान्यं जानामि कं चन पत तवम अपि रक्ताक्ष येन वा तेन मन्यसे 30 अथ काकाः परजहसुर ये तत्रासन समागताः कथम एकेन पातेन हंसः पातशतं जयेत 31 एकेनैव शतस्यैकं पातेनाभिभविष्यति हंसस्य पतितं काकॊ बलवान आशु विक्रमः 32 परपेततुः सपर्धयाथ ततस तौ हंसवायसौ एकपाती च चक्राङ्गः काकः पातशतेन च 33 पेतिवान अथ चक्राङ्कः पेतिवान थ वायसः विसिस्मापयिषुः पातैर आचक्षाणॊ ऽऽतमनः करियाम 34 अथ काकस्य चित्राणि पतितानीतराणि च दृष्ट्वा परमुदिताः काका विनेदुर अथ तैः सवरैः 35 हंसांश चावहसन्ति सम परावदन्न अप्रियाणि च उत्पत्यॊत्पत्य च पराहुर मुहूर्तम इति चेति च 36 वृक्षाग्रेभ्यः सथलेभ्यश च निपतन्त्य उत्पतन्ति च कुर्वाणा विविधान रावान आशंसन्तस तदा जयम 37 हंसस तु मृदुकेनैव विक्रान्तुम उपचक्रमे परत्यहीयत काकाच च मुहूर्तम इव मारिष 38 अवमन्य रयं हंसान इदं वचनम अब्रवीत यॊ ऽसाव उत्पतितॊ हंसः सॊ ऽसाव एव परहीयते 39 अथ हंसः स तच छरुत्वा परापतत पश्चिमां दिशम उपर्य उपरि वेगेन सागरं वरुणालयम 40 ततॊ भीः पराविशत काकं तदा तत्र विचेतसम दवीपद्रुमान अपश्यन्तं निपतन्तं शरमान्वितम निपतेयं कव नु शरान्त इति तस्मिञ जलार्णवे 41 अविषह्यः समुद्रॊ हि बहु सत्त्वगणालयः महाभूतशतॊद्भासी नभसॊ ऽपि विशिष्यते 42 गाम्भीर्याद धि समुद्रस्य न विशेषः कुलाधम दिग अम्बराम्भसां कर्ण समुद्रस्था हि दुर्जयाः विदूर पातात तॊयस्य किं पुनः कर्ण वायसः 43 अथ हंसॊ ऽभयतिक्रम्य मुहूर्तम इति चेति च अवेक्षमाणस तं काकं नाशक्नॊद वयपसर्पितुम अतिक्रम्य च चक्राङ्गः काकं तं समुदैक्षत 44 तं तथा हीयमानं च हंसॊ दृष्ट्वाब्रवीद इदम उज्जिहीर्षुर निमज्जन्तं समरन सत्पुरुषव्रतम 45 बहूनि पतनानि तवम आचक्षाणॊ मुहुर मुहुः पतस्य अव्याहरंश चेदं न नॊ गुह्यं परभाषसे 46 किंनाम पतनं काकयत तवं पतसि सांप्रतम जलं सपृशसि पक्षाभ्यां तुण्डेन च पुनः पुनः 47 स पक्षाभ्यां सपृशन्न आर्तस तुण्डेन जलम अर्णवे काकॊ दृढं परिश्रान्तः सहसा निपपात ह 48 [हम्स] शतम एकं च पातानां यत परभाषसि वायस नानाविधानीह पुरा तच चानृतम इहाद्य ते 49 [काक] उच्छिष्ट दर्पितॊ हंस मन्ये ऽऽतमानं सुपर्णवत अवमन्य बहूंश चाहं काकान अन्यांश च पक्षिणः पराणैर हंसप्रपद्ये तवं दवीपात्नं परापयस्व माम 50 यद्य अहं सवस्तिमान हंसस्वदेशं पराप्नुयां पुनः न कं चिद अवमन्येयम आपदॊ मां समुद्धर 51 तम एवं वादिनं दीनं विलपन्तम अचेतनम काककाकेति वाशन्तं निमज्जन्तं महार्णवे 52 तथैत्य वायसं हंसॊ जलक्लिन्नं सुदुर्दशम पद्भ्याम उत्क्षिप्य वेपन्तं पृष्ठम आरॊपयच छनैः 53 आरॊप्य पृष्ठं काकं तं हंसः कर्ण विचेतसम आजगाम पुनर दवीपं सपर्धया पेततुर यतः 54 संस्थाप्य तं चापि पुनः समाश्वास्य च खेचरम गतॊ यथेप्सितं देशं हंसॊ मन इवाशुगः 55 उच्छिष्ट भॊजनात काकॊ यथा वैश्य कुले तु सः एवं तवम उच्छिष्ट भृतॊ धार्तराष्ट्रैर न संशयः सदृशाञ शरेयसश चापि सर्वान कर्णातिमन्यसे 56 दरॊण दरौणिकृपैर गुप्तॊ भीष्मेणान्यैश च कौरवैः विराटनगरे पार्थम एकं किं नावधीस तदा 57 यत्र वयस्ताः समस्ताश च निर्जिताः सथ किरीटिना सृगाला इव सिंहेन कव ते वीर्यम अभूत तदा 58 भरातरं च हतं दृष्ट्वा निर्जितः सव्यसाचिना पश्यतां कुरुवीराणां परथमं तवं पलायथाः 59 तथा दवैतवने कर्ण गन्धर्वैः समभिद्रुतः कुरून समग्रान उत्सृज्य परथमं तवं पलायथाः 60 हत्वा जित्वा च गन्धर्वांश चित्रसेनमुखान रणे कर्णदुर्यॊधनं पार्थः सभार्यं सममॊचयत 61 पुनः परभावः पार्थस्य पुराणः केशवस्य च कथितः कर्ण रामेण सभायां राजसंसदि 62 सततं च तद अश्रौषीर वचनं दरॊण भीष्मयॊः अवध्यौ वदतॊः कृष्णौ संनिधौ वै महीक्षिताम 63 कियन्तं तत्र वक्ष्यामि येन येन धनंजयः तवत्तॊ ऽतिरिक्तः सर्वेभ्यॊ भूतेभ्यॊ बराह्मणॊ यथा 64 इदानीम एव दरष्टासि परधने सयन्दने सथितौ पुत्रं च वसुदेवस्य पाण्डवं च धनंजयम 65 देवासुरमनुष्येषु परख्यातौ यौ नरर्षभौ परकाशेनाभिविख्यातौ तवं तु खद्यॊतवन नृषु 66 एवं विद्वान मावमंस्थाः सूतपुत्राच्युतार्जुनौ नृसिंहौ तौ नरश्वा तवं जॊषम आस्स्व विकत्थन |
1
[s] māriṣādhiratheḥ śrutvā vaco yuddhābhinandinaḥ śalyo 'bravīt punaḥ karṇaṃ nidarśanam udāharan 2 yathaiva matto madyena tvaṃ tathā na ca vā tathā tathāhaṃ tvāṃ pramādyantaṃ cikitsāmi suhṛttayā 3 imāṃ kākopamāṃ karṇa procyamānāṃ nibodha me śrutvā yatheṣṭaṃ kuryās tvaṃ vihīnakulapāṃsana 4 nāham ātmani kiṃ cid vai kilbiṣaṃ karṇa saṃsmare yena tvaṃ māṃ mahābāho hantum icchasy anāgasam 5 avaśyaṃ tu mayā vācyaṃ budhyatāṃ yadi te hitam viśeṣato rathasthena rājñaś caiva hitaiṣiṇā 6 samaṃ ca viṣamaṃ caiva rathinaś ca balābalam śramaḥ khedaś ca satataṃ hayānāṃ rathinā saha 7 āyudhasya parijñānaṃ rutaṃ ca mṛgapakṣiṇām bhāraś cāpy atibhāraś ca śalyānāṃ ca pratikriyā 8 astrayogaś ca yuddhaṃ ca nimittāni tathaiva ca sarvam etan mayā jñeyaṃ rathasyāsya kuṭumbinā atas tvāṃ kathaye karṇa nidarśanam idaṃ punaḥ 9 vaiśyaḥ kila samudrānte prabhūtadhanadhānyavān yajvā dānapatiḥ kṣāntaḥ svakarmastho 'bhavac chuciḥ 10 bahuputraḥ priyāpatyaḥ sarvabhūtānukampakaḥ rājño dharmapradhānasya rāṣṭre vasati nirbhayaḥ 11 putrāṇāṃ tasya bālānāṃ kumārāṇāṃ yaśasvinām kāko bahūnām abhavad ucciṣṭa kṛtabhojanaḥ 12 tasmai sadā prayacchanti vaiśya putrāḥ kumārakāḥ māṃsaudanaṃ dadhi kṣīraṃ pāyasaṃ madhusarpiṣī 13 sa cocchiṣṭa bhṛtaḥ kāko vaiśya putraiḥ kumārakaiḥ sadṛśān pakṣiṇo dṛptaḥ śreyasaś cāvamanyate 14 atha haṃsāḥ samudrānte kadā cid abhipātitaḥ garuḍasya gatau tulyāś cakrāṅgā hṛṣṭacetasaḥ 15 kumārakās tato haṃsān dṛṣṭvā kākam athābruvan bhavān eva viśiṣṭo hi patatribhyo vihaṃgama 16 pratāryamāṇas tu sa tair alpabuddhibhir aṇḍajaḥ tad vacaḥ satyam ity eva maurkhyād darpāc ca manyate 17 tān so 'bhipatya jijñāsuḥ ka eṣāṃ śreṣṭha bhāg iti ucchiṣṭa darpitaḥ kāko bahūnāṃ dūrapātinām 18 teṣāṃ yaṃ pravaraṃ mene haṃsānāṃ dūrapātinām tam āhvayata durbuddhiḥ patāma iti pakṣiṇam 19 tac chrutvā prāhasan haṃsā ye tatrāsan samāgatāḥ bhāṣato bahu kākasya balinaḥ patatāṃ varāḥ idam ūcuś ca cakrāṅgā vacaḥ kākaṃ vihaṃgamāḥ 20 vayaṃ haṃsāś carāmemāṃ pṛthivīṃ mānasaukasaḥ pakṣiṇāṃ ca vayaṃ nityaṃ dūrapātena pūjitāḥ 21 kathaṃ nu haṃsaṃ balinaṃ vajrāṅgaṃ dūrapātinam kāko bhūtvā nipatane samāhvāyasi durmate kathaṃ tvaṃ patanaṃ kāka sahāsmābhir bravīṣi tat 22 atha haṃsavaco mūḍhaḥ kutsayitvā punaḥ punaḥ prajagādottaraṃ kākaḥ katthano jātilāghavāt 23 śatam ekaṃ ca pātānāṃ patitāsmi na saṃśayaḥ śatayojanam ekaikaṃ vicitraṃ vividhaṃ tathā 24 uḍḍīnam avaḍīnaṃ ca praḍīnaṃ ḍīnam eva ca niḍīnam atha saṃḍīnaṃ tiryak cātigatāni ca 25 viḍīnaṃ pariḍīnaṃ ca parāḍīnaṃ suḍīnakam atiḍīnaṃ mahāḍīnaṃ niḍīnaṃ pariḍīnakam 26 gatāgata pratigatā bahvīś ca nikuḍīnikāḥ kartāsmi miṣatāṃ vo 'dya tato drakṣyatha me balam 27 evam ukte tu kākena prahasyaiko vihaṃgamaḥ uvāca haṃsas taṃ kākaṃ vacanaṃ tan nibodha me 28 śatam ekaṃ ca pātānāṃ tvaṃ kākapatitā dhruvam ekam eva tu ye pātaṃ viduḥ sarve vihaṃgamāḥ 29 tam ahaṃ patitā kākanānyaṃ jānāmi kaṃ cana pata tvam api raktākṣa yena vā tena manyase 30 atha kākāḥ prajahasur ye tatrāsan samāgatāḥ katham ekena pātena haṃsaḥ pātaśataṃ jayet 31 ekenaiva śatasyaikaṃ pātenābhibhaviṣyati haṃsasya patitaṃ kāko balavān āśu vikramaḥ 32 prapetatuḥ spardhayātha tatas tau haṃsavāyasau ekapātī ca cakrāṅgaḥ kākaḥ pātaśatena ca 33 petivān atha cakrāṅkaḥ petivāna tha vāyasaḥ visismāpayiṣuḥ pātair ācakṣāṇo ''tmanaḥ kriyām 34 atha kākasya citrāṇi patitānītarāṇi ca dṛṣṭvā pramuditāḥ kākā vinedur atha taiḥ svaraiḥ 35 haṃsāṃś cāvahasanti sma prāvadann apriyāṇi ca utpatyotpatya ca prāhur muhūrtam iti ceti ca 36 vṛkṣāgrebhyaḥ sthalebhyaś ca nipatanty utpatanti ca kurvāṇā vividhān rāvān āśaṃsantas tadā jayam 37 haṃsas tu mṛdukenaiva vikrāntum upacakrame pratyahīyata kākāc ca muhūrtam iva māriṣa 38 avamanya rayaṃ haṃsān idaṃ vacanam abravīt yo 'sāv utpatito haṃsaḥ so 'sāv eva prahīyate 39 atha haṃsaḥ sa tac chrutvā prāpatat paścimāṃ diśam upary upari vegena sāgaraṃ varuṇālayam 40 tato bhīḥ prāviśat kākaṃ tadā tatra vicetasam dvīpadrumān apaśyantaṃ nipatantaṃ śramānvitam nipateyaṃ kva nu śrānta iti tasmiñ jalārṇave 41 aviṣahyaḥ samudro hi bahu sattvagaṇālayaḥ mahābhūtaśatodbhāsī nabhaso 'pi viśiṣyate 42 gāmbhīryād dhi samudrasya na viśeṣaḥ kulādhama dig ambarāmbhasāṃ karṇa samudrasthā hi durjayāḥ vidūra pātāt toyasya kiṃ punaḥ karṇa vāyasaḥ 43 atha haṃso 'bhyatikramya muhūrtam iti ceti ca avekṣamāṇas taṃ kākaṃ nāśaknod vyapasarpitum atikramya ca cakrāṅgaḥ kākaṃ taṃ samudaikṣata 44 taṃ tathā hīyamānaṃ ca haṃso dṛṣṭvābravīd idam ujjihīrṣur nimajjantaṃ smaran satpuruṣavratam 45 bahūni patanāni tvam ācakṣāṇo muhur muhuḥ patasy avyāharaṃś cedaṃ na no guhyaṃ prabhāṣase 46 kiṃnāma patanaṃ kākayat tvaṃ patasi sāṃpratam jalaṃ spṛśasi pakṣābhyāṃ tuṇḍena ca punaḥ punaḥ 47 sa pakṣābhyāṃ spṛśann ārtas tuṇḍena jalam arṇave kāko dṛḍhaṃ pariśrāntaḥ sahasā nipapāta ha 48 [hamsa] śatam ekaṃ ca pātānāṃ yat prabhāṣasi vāyasa nānāvidhānīha purā tac cānṛtam ihādya te 49 [kāka] ucchiṣṭa darpito haṃsa manye ''tmānaṃ suparṇavat avamanya bahūṃś cāhaṃ kākān anyāṃś ca pakṣiṇaḥ prāṇair haṃsaprapadye tvaṃ dvīpātnaṃ prāpayasva mām 50 yady ahaṃ svastimān haṃsasvadeśaṃ prāpnuyāṃ punaḥ na kaṃ cid avamanyeyam āpado māṃ samuddhara 51 tam evaṃ vādinaṃ dīnaṃ vilapantam acetanam kākakāketi vāśantaṃ nimajjantaṃ mahārṇave 52 tathaitya vāyasaṃ haṃso jalaklinnaṃ sudurdaśam padbhyām utkṣipya vepantaṃ pṛṣṭham āropayac chanaiḥ 53 āropya pṛṣṭhaṃ kākaṃ taṃ haṃsaḥ karṇa vicetasam ājagāma punar dvīpaṃ spardhayā petatur yataḥ 54 saṃsthāpya taṃ cāpi punaḥ samāśvāsya ca khecaram gato yathepsitaṃ deśaṃ haṃso mana ivāśugaḥ 55 ucchiṣṭa bhojanāt kāko yathā vaiśya kule tu saḥ evaṃ tvam ucchiṣṭa bhṛto dhārtarāṣṭrair na saṃśayaḥ sadṛśāñ śreyasaś cāpi sarvān karṇātimanyase 56 droṇa drauṇikṛpair gupto bhīṣmeṇānyaiś ca kauravaiḥ virāṭanagare pārtham ekaṃ kiṃ nāvadhīs tadā 57 yatra vyastāḥ samastāś ca nirjitāḥ stha kirīṭinā sṛgālā iva siṃhena kva te vīryam abhūt tadā 58 bhrātaraṃ ca hataṃ dṛṣṭvā nirjitaḥ savyasācinā paśyatāṃ kuruvīrāṇāṃ prathamaṃ tvaṃ palāyathāḥ 59 tathā dvaitavane karṇa gandharvaiḥ samabhidrutaḥ kurūn samagrān utsṛjya prathamaṃ tvaṃ palāyathāḥ 60 hatvā jitvā ca gandharvāṃś citrasenamukhān raṇe karṇaduryodhanaṃ pārthaḥ sabhāryaṃ samamocayat 61 punaḥ prabhāvaḥ pārthasya purāṇaḥ keśavasya ca kathitaḥ karṇa rāmeṇa sabhāyāṃ rājasaṃsadi 62 satataṃ ca tad aśrauṣīr vacanaṃ droṇa bhīṣmayoḥ avadhyau vadatoḥ kṛṣṇau saṃnidhau vai mahīkṣitām 63 kiyantaṃ tatra vakṣyāmi yena yena dhanaṃjayaḥ tvatto 'tiriktaḥ sarvebhyo bhūtebhyo brāhmaṇo yathā 64 idānīm eva draṣṭāsi pradhane syandane sthitau putraṃ ca vasudevasya pāṇḍavaṃ ca dhanaṃjayam 65 devāsuramanuṣyeṣu prakhyātau yau nararṣabhau prakāśenābhivikhyātau tvaṃ tu khadyotavan nṛṣu 66 evaṃ vidvān māvamaṃsthāḥ sūtaputrācyutārjunau nṛsiṃhau tau naraśvā tvaṃ joṣam āssva vikatthana |
The Mahabharata in Sanskrit
Book 8
Chapter 29
|
1
[स] मद्राधिपस्याधिरथिस तदैवं; वचॊ निशम्याप्रियम अप्रतीतः उवाच शल्यं विदितं ममैतद; यथाविधाव अर्जुन वासुदेवौ 2 शौरे रथं वाहयतॊ ऽरजुनस्य; बलं महास्त्राणि च पाण्डवस्य अहं विजानामि यथावद अद्य; परॊक्षभूतं तव तत तु शल्यल 3 तौ चाप्रधृष्यौ शस्त्रभृतां वरिष्ठौ; वयपेतभीर यॊधयिष्यामि कृष्णौ संतापयत्य अभ्यधिकं तु रामाच; छापॊ ऽदय मां बराह्मणसत्तमाच च 4 अवात्सं वै बराह्मणच छद्मनाहं; रामे पुरा दिव्यम अस्त्रं चिकीर्षुः तत्रापि मे देवराजेन विघ्नॊ; हितार्थिना फल्गुनस्यैव शल्य 5 कृतॊ ऽवभेदेन ममॊरुम एत्य; परविश्य कीटस्य तनुं विरूपाम गुरॊर भयाच चापि न चेलिवान अहं; तच चावबुद्धॊ ददृशे स विप्रः 6 पृष्ठश चाहं तम अवॊचं महर्षिं; सूतॊ ऽहम अस्मीति स मां शशाप सूतॊपधाव आप्तम इदं तवयास्त्रं; न कर्मकाले परतिभास्यति तवाम 7 अन्यत्र यस्मात तव मृत्युकालाद; अब्राह्मणे बरह्म न हि धरुवं सयात तद अद्य पर्याप्तम अतीव शस्त्रम; अस्मिन संग्रामे तुमुले तात भीमे 8 अपां पतिर वेगवान अप्रमेयॊ; निमज्जयिष्यन निवहान परजानाम महानगं यः कुरुते समुद्रं; वेलैव तं वारयत्य अप्रमेयम 9 परमुञ्चन्तं बाणसंघान अमॊघान; मर्मच छिदॊ वीर हणः सपत्रान कुन्तीपुत्रं परतियॊत्स्यामि युद्धे; जया कर्षिणाम उत्तमम अद्य लॊके 10 एवं बलेनातिबलं महास्त्रं; समुद्रकल्पं सुदुरापम उग्रम शरौघिणं पार्थिवान मज्जयन्तं; वेलेव पार्थम इषुभिः संसहिष्ये 11 अद्याहवे यस्य न तुल्यम अन्यं; मन्ये मनुष्यं धनुर आददानम सुरासुरान वै युधि यॊ जयेत; तेनाद्य मे पश्य युद्धं सुघॊरम 12 अतिमानी पाण्डवॊ युद्धकामॊ; अमानुषैर एष्यति मे महास्त्रैः तस्यास्त्रम अस्त्रैर अभिहत्य संख्ये; शरॊत्तमैः पातयिष्यामि पार्थम 13 दिवाकरेणापि समं तपन्तं; समाप्तरश्मिं यशसा जवलन्तम तमॊनुदं मेघ इवातिमात्रॊ; धनंजयं छादयिष्यामि बाणैः 14 वैश्वानरं धूमशिखं जवलन्तं; तेजस्विनं लॊकम इमं दहन्तम मेघॊ भूत्वा शरवर्षैर यथाग्निं; तथा पार्थं शमयिष्यामि युद्धे 15 परमाथिनं बलवन्तं परहारिणं; परभञ्जनं मातरिश्वानम उग्रम युद्धे सहिष्ये हिमवान इवाचलॊ; धनंजयं करुद्धम अमृष्यमाणम 16 विशारदं रथमार्गेष्व असक्तं; धुर्यं नित्यं समरेषु परवीरम लॊके वरं सर्वधनुर्धराणां; धनंजयं संयुगे संसहिष्ये 17 अद्याहवे यस्य न तुल्यम अन्यं; मध्ये मनुष्यं धनुर आददानम सर्वाम इमां यः पृथिवीं सहेत; तथा विद्वान यॊत्स्यमानॊ ऽसमि तेन 18 यः सर्वभूतानि सदेवकानि; परस्थे ऽजयत खाण्डवे सव्यसाची कॊ जीवितं रक्षमाणॊ हि तेन; युयुत्सते माम ऋते मानुषॊ ऽनयः 19 अहं तस्य पौरुषं पाण्डवस्य; बरूयां हृष्टः समितौ कषत्रियाणाम किं तवं मूर्खः परभषन मूढ चेता; माम अवॊचः पौरुषम अर्जुनस्य 20 अप्रियॊ यः परुषॊ निष्ठुरॊ हि; कषुद्रः कषेप्ता कषमिणश चाक्षमावान हन्याम अहं तादृशानां शतानि; कषमामि तवां कषमया कालयॊगात 21 अवॊचस तवं पाण्डवार्थे ऽपरियाणि; परधर्षयन मां मूढवत पापकर्मन मय्य आर्जवे जिह्मगतिर हतस तवं; मित्रद्रॊही सप्त पदं हि मित्रम 22 कालस तव अयं मृत्युमयॊ ऽतिदारुणॊ; दुर्यॊधनॊ युद्धम उपागमद यत तस्यार्थसिद्धिम अभिकाङ्क्षमाणस; तम अभ्येष्ये यत्र नैकान्त्यम अस्ति 23 मित्रं मिदेर नन्दतेः परीयतेर वा; संत्रायतेर मानद मॊदतेर वा बरवीति तच चामुत विप्र पूर्वात; तच चापि सर्वं मम दुर्यॊधने ऽसति 24 शत्रुः शदेः शासतेः शायतेर वा; शृणातेर वा शवयतेर वापि सर्गे उपसर्गाद बहुधा सूदतेश च; परायेण सर्वं तवयि तच च मह्यम 25 दुर्यॊधनार्थं तव चाप्रियार्थं; यशॊऽरथम आत्मार्थम अपीश्वरार्थम तस्माद अहं पाण्डव वासुदेवौ; यॊत्स्ये यत्नात कर्म तत पश्य मे ऽदय 26 अस्त्राणि पश्याद्य ममॊत्तमानि; बराह्माणि दिव्यान्य अथ मानुषाणि आसादयिष्याम्य अहम उग्रवीर्यं; दविपॊत्तमं मत्तम इवाभिमत्तः 27 अस्त्रं बराह्मं मनसा तद धयजय्यं; कषेप्स्ये पार्थायाप्रतिमं जयाय तेनापि मे नैव मुच्येत युद्धे; न चेत पतेद विषमे मे ऽदय चक्रम 28 वैवस्वताद दण्डहस्ताद वरुणाद वापि पाशिनः सगदाद वा धनपतेः सवर्जाद वापि वासवात 29 नान्यस्माद अपि कस्माच चिद बिभिमॊ हय आततायिनः इति शल्य विजानीहि यथा नाहं बिभेम्य अभीः 30 तस्माद भयं न मे पार्थान नापि चैव जनार्दनात अद्य युद्धं हि ताभ्यां मे संपराये भविष्यति 31 शवभ्रे ते पततां चक्रम इति मे बराह्मणॊ ऽवदत युध्यमानस्य संग्रामे पराप्तस्यैकायने भयम 32 तस्माद बिभेमि बलवद बराह्मण वयाहृताद अहम एते हि सॊमराजान ईश्वराः सुखदुःखयॊः 33 हॊमधेन्वा वत्सम अस्य परमत्त इषुणाहनम चरन्तम अजने शल्य बराह्मणात तपसॊ निधेः 34 ईषादन्तान सप्तशतान दासीदास शतानि च ददतॊ दविजमुख्याय परसादं न चकार मे 35 कृष्णानां शवेतवत्सानां सहस्राणि चतुर्दश आहरन न लभे तस्मात परसादं दविजसत्तमात 36 ऋद्धं गेहं सर्वकामैर यच च मे वसु किं चन तत सर्वम अस्मै सत्कृत्य परयच्छामि न चेच्छति 37 ततॊ ऽबरवीन मां याचन्तम अपराद्धं परयत्नतः वयाहृतं यन मया सूत तत तथा न तद अन्यथा 38 अनृतॊक्तं परजा हन्यात ततः पापम अवाप्नुयात तस्माद धर्माभिरक्षार्थं नानृतं वक्क्तुम उत्सहे 39 मा तवं बरह्म गतिं हिंस्याः परायश्चित्तं कृतं तवया मद्वाक्यं नानृतं लॊके कश चित कुर्यात समाप्नुहि 40 इत्य एतत ते मया परॊक्तं कषिप्तेनापि सुहृत्तया जानामि तवाधिक्षिपन्तं जॊषम आस्स्वॊत्तरं शृणु |
1
[s] madrādhipasyādhirathis tadaivaṃ; vaco niśamyāpriyam apratītaḥ uvāca śalyaṃ viditaṃ mamaitad; yathāvidhāv arjuna vāsudevau 2 śaure rathaṃ vāhayato 'rjunasya; balaṃ mahāstrāṇi ca pāṇḍavasya ahaṃ vijānāmi yathāvad adya; parokṣabhūtaṃ tava tat tu śalyal 3 tau cāpradhṛṣyau śastrabhṛtāṃ variṣṭhau; vyapetabhīr yodhayiṣyāmi kṛṣṇau saṃtāpayaty abhyadhikaṃ tu rāmāc; chāpo 'dya māṃ brāhmaṇasattamāc ca 4 avātsaṃ vai brāhmaṇac chadmanāhaṃ; rāme purā divyam astraṃ cikīrṣuḥ tatrāpi me devarājena vighno; hitārthinā phalgunasyaiva śalya 5 kṛto 'vabhedena mamorum etya; praviśya kīṭasya tanuṃ virūpām guror bhayāc cāpi na celivān ahaṃ; tac cāvabuddho dadṛśe sa vipraḥ 6 pṛṣṭhaś cāhaṃ tam avocaṃ maharṣiṃ; sūto 'ham asmīti sa māṃ śaśāpa sūtopadhāv āptam idaṃ tvayāstraṃ; na karmakāle pratibhāsyati tvām 7 anyatra yasmāt tava mṛtyukālād; abrāhmaṇe brahma na hi dhruvaṃ syāt tad adya paryāptam atīva śastram; asmin saṃgrāme tumule tāta bhīme 8 apāṃ patir vegavān aprameyo; nimajjayiṣyan nivahān prajānām mahānagaṃ yaḥ kurute samudraṃ; velaiva taṃ vārayaty aprameyam 9 pramuñcantaṃ bāṇasaṃghān amoghān; marmac chido vīra haṇaḥ sapatrān kuntīputraṃ pratiyotsyāmi yuddhe; jyā karṣiṇām uttamam adya loke 10 evaṃ balenātibalaṃ mahāstraṃ; samudrakalpaṃ sudurāpam ugram śaraughiṇaṃ pārthivān majjayantaṃ; veleva pārtham iṣubhiḥ saṃsahiṣye 11 adyāhave yasya na tulyam anyaṃ; manye manuṣyaṃ dhanur ādadānam surāsurān vai yudhi yo jayeta; tenādya me paśya yuddhaṃ sughoram 12 atimānī pāṇḍavo yuddhakāmo; amānuṣair eṣyati me mahāstraiḥ tasyāstram astrair abhihatya saṃkhye; śarottamaiḥ pātayiṣyāmi pārtham 13 divākareṇāpi samaṃ tapantaṃ; samāptaraśmiṃ yaśasā jvalantam tamonudaṃ megha ivātimātro; dhanaṃjayaṃ chādayiṣyāmi bāṇaiḥ 14 vaiśvānaraṃ dhūmaśikhaṃ jvalantaṃ; tejasvinaṃ lokam imaṃ dahantam megho bhūtvā śaravarṣair yathāgniṃ; tathā pārthaṃ śamayiṣyāmi yuddhe 15 pramāthinaṃ balavantaṃ prahāriṇaṃ; prabhañjanaṃ mātariśvānam ugram yuddhe sahiṣye himavān ivācalo; dhanaṃjayaṃ kruddham amṛṣyamāṇam 16 viśāradaṃ rathamārgeṣv asaktaṃ; dhuryaṃ nityaṃ samareṣu pravīram loke varaṃ sarvadhanurdharāṇāṃ; dhanaṃjayaṃ saṃyuge saṃsahiṣye 17 adyāhave yasya na tulyam anyaṃ; madhye manuṣyaṃ dhanur ādadānam sarvām imāṃ yaḥ pṛthivīṃ saheta; tathā vidvān yotsyamāno 'smi tena 18 yaḥ sarvabhūtāni sadevakāni; prasthe 'jayat khāṇḍave savyasācī ko jīvitaṃ rakṣamāṇo hi tena; yuyutsate mām ṛte mānuṣo 'nyaḥ 19 ahaṃ tasya pauruṣaṃ pāṇḍavasya; brūyāṃ hṛṣṭaḥ samitau kṣatriyāṇām kiṃ tvaṃ mūrkhaḥ prabhaṣan mūḍha cetā; mām avocaḥ pauruṣam arjunasya 20 apriyo yaḥ paruṣo niṣṭhuro hi; kṣudraḥ kṣeptā kṣamiṇaś cākṣamāvān hanyām ahaṃ tādṛśānāṃ śatāni; kṣamāmi tvāṃ kṣamayā kālayogāt 21 avocas tvaṃ pāṇḍavārthe 'priyāṇi; pradharṣayan māṃ mūḍhavat pāpakarman mayy ārjave jihmagatir hatas tvaṃ; mitradrohī sapta padaṃ hi mitram 22 kālas tv ayaṃ mṛtyumayo 'tidāruṇo; duryodhano yuddham upāgamad yat tasyārthasiddhim abhikāṅkṣamāṇas; tam abhyeṣye yatra naikāntyam asti 23 mitraṃ mider nandateḥ prīyater vā; saṃtrāyater mānada modater vā bravīti tac cāmuta vipra pūrvāt; tac cāpi sarvaṃ mama duryodhane 'sti 24 śatruḥ śadeḥ śāsateḥ śāyater vā; śṛṇāter vā śvayater vāpi sarge upasargād bahudhā sūdateś ca; prāyeṇa sarvaṃ tvayi tac ca mahyam 25 duryodhanārthaṃ tava cāpriyārthaṃ; yaśo'rtham ātmārtham apīśvarārtham tasmād ahaṃ pāṇḍava vāsudevau; yotsye yatnāt karma tat paśya me 'dya 26 astrāṇi paśyādya mamottamāni; brāhmāṇi divyāny atha mānuṣāṇi āsādayiṣyāmy aham ugravīryaṃ; dvipottamaṃ mattam ivābhimattaḥ 27 astraṃ brāhmaṃ manasā tad dhyajayyaṃ; kṣepsye pārthāyāpratimaṃ jayāya tenāpi me naiva mucyeta yuddhe; na cet pated viṣame me 'dya cakram 28 vaivasvatād daṇḍahastād varuṇād vāpi pāśinaḥ sagadād vā dhanapateḥ savarjād vāpi vāsavāt 29 nānyasmād api kasmāc cid bibhimo hy ātatāyinaḥ iti śalya vijānīhi yathā nāhaṃ bibhemy abhīḥ 30 tasmād bhayaṃ na me pārthān nāpi caiva janārdanāt adya yuddhaṃ hi tābhyāṃ me saṃparāye bhaviṣyati 31 śvabhre te patatāṃ cakram iti me brāhmaṇo 'vadat yudhyamānasya saṃgrāme prāptasyaikāyane bhayam 32 tasmād bibhemi balavad brāhmaṇa vyāhṛtād aham ete hi somarājāna īśvarāḥ sukhaduḥkhayoḥ 33 homadhenvā vatsam asya pramatta iṣuṇāhanam carantam ajane śalya brāhmaṇāt tapaso nidheḥ 34 īṣādantān saptaśatān dāsīdāsa śatāni ca dadato dvijamukhyāya prasādaṃ na cakāra me 35 kṛṣṇānāṃ śvetavatsānāṃ sahasrāṇi caturdaśa āharan na labhe tasmāt prasādaṃ dvijasattamāt 36 ṛddhaṃ gehaṃ sarvakāmair yac ca me vasu kiṃ cana tat sarvam asmai satkṛtya prayacchāmi na cecchati 37 tato 'bravīn māṃ yācantam aparāddhaṃ prayatnataḥ vyāhṛtaṃ yan mayā sūta tat tathā na tad anyathā 38 anṛtoktaṃ prajā hanyāt tataḥ pāpam avāpnuyāt tasmād dharmābhirakṣārthaṃ nānṛtaṃ vakktum utsahe 39 mā tvaṃ brahma gatiṃ hiṃsyāḥ prāyaścittaṃ kṛtaṃ tvayā madvākyaṃ nānṛtaṃ loke kaś cit kuryāt samāpnuhi 40 ity etat te mayā proktaṃ kṣiptenāpi suhṛttayā jānāmi tvādhikṣipantaṃ joṣam āssvottaraṃ śṛṇu |
The Mahabharata in Sanskrit
Book 8
Chapter 30
|
1
[स] ततः पुनर महाराज मद्रराजम अरिंदमम अभ्यभाषत राधेयः संनिवार्यॊत्तरं वचः 2 यत तवं निदर्शनार्थं मां शल्य जल्पितवान असि नाहं शक्यस तवया वाचा विभीषयितुम आहवे 3 यदि मां देवताः सर्वा यॊधयेयुः सवासवाः तथापि मे भयं न सयात किम उ पार्थात सकेशवात 4 नाहं भीषयितुं शक्यॊ वान मात्रेण कथं चन अन्यं जानीहि यः शक्यस तवया भीषयितुं रणे 5 नीचस्य बलम एतावत पारुष्यं यत तवम आत्थ माम अशक्तॊ ऽसमद गुणान पराप्तुं वल्गसे बहु दुर्मते 6 न हि कर्णः समुद्भूतॊ भयार्थम इह मारिष विक्रमार्थम अहं जातॊ यशॊऽरथं च तथैव च 7 इदं तु मे तवम एकाग्रः शृणु मद्रजनाधिप संनिधौ धृतराष्ट्रस्य परॊच्यमानं मया शरुतम 8 देशांश च विविधांश चित्रान पूर्ववृत्तांश च पार्थिवान बराह्मणाः कथयन्तः सम धृतराष्ठम उपासते 9 तत्र वृद्धः पुरावृत्ताः कथाः काश चिद दविजॊत्तमः बाह्लीक देशं मद्रांश च कुत्सयन वाक्यम अब्रवीत 10 बहिष्कृता हिमवता गङ्गया च तिरस्कृताः सरस्वत्या यमुनया कुरुक्षेत्रेण चापि ये 11 पञ्चानां सिन्धुषष्ठानां नदीनां ये ऽनतर आश्रिताः तान धर्मबाह्यान अशुचीन बाह्लीकान परिवर्जयेत 12 गॊवर्धनॊ नाम वटः सुभाण्डं नाम चत्वरम एतद राजकुलद्वारम आकुमारः समराम्य अहम 13 कार्येणात्यर्थ गाढेन बाह्लीकेषूषितं मया तत एषां समाचारः संवासाद विदितॊ मम 14 शाकलं नाम नगरम आपगा नाम निम्नगा जर्तिका नाम बाह्लीकास तेषां वृत्तं सुनिन्दितम 15 धाना गौडासवे पीत्वा गॊमांसं लशुनैः सह अपूप मांसवाट्यानाम आशिनः शीलवर्जिताः 16 हसन्ति गान्ति नृत्यन्ति सत्रीभिर मत्ता विवाससः नगरागार वप्रेषु बहिर माल्यानुलेपनाः 17 मत्तावगीतैर विविधैः खरॊष्ट्रनिनदॊपमैः आहुर अन्यॊन्यम उक्तानि परब्रुवाणा मदॊत्कटाः 18 हाहते हाहतेत्य एव सवामिभर्तृहतेति च आक्रॊशन्त्यः परनृत्यन्ति मन्दाः पर्वस्व असंयताः 19 तेषां किलावलिप्तानां निवसन कुरुजाङ्गले कश चिद बाह्लीक मुख्यानां नातिहृष्टमना जगौ 20 सा नूनं बृहती गौरी सूक्ष्मकम्बलवासिनी माम अनुस्मरती शेते बाह्लीकं कुरु वासिनम 21 शतद्रुक नदीं तीर्त्वा तां च रम्याम इरावतीम गत्वा सवदेशं दरक्ष्यामि सथूलशङ्खाः शुभाः सत्रियः 22 मनःशिलॊज्ज्वलापाङ्गा गौर्यस तरिककुदाञ्जनाः केवलाजिनसंवीताः कूर्दन्त्यः परियदर्शनाः 23 मृदङ्गानक शङ्खानां मर्दलानां च निस्वनैः खरॊष्ट्राश्वतरैश चैव मत्ता यास्यामहे सुखम 24 शमी पीलु करीराणां वनेषु सुखवर्त्मसु अपूपान सक्तु पिण्डीश च खादन्तॊ मथितान्विताः 25 पथिषु परबला भूत्वा कदास मृदिते ऽधवनि खलॊपहारं कुर्वाणास ताडयिष्याम भूयसः 26 एवं हीनेषु वरात्येषु बाह्लीकेषु दुरात्मसु कश चेतयानॊ निवसेन मुहूर्तम अपि मानवः 27 ईदृशा बराह्मणेनॊक्ता बाह्लीका मॊघचारिणः येषां षड्भागहर्ता तवम उभयॊः शुभपापयॊः 28 इत्य उक्त्वा बराह्मणः साधुर उत्तरं पुनर उक्तवान बाह्लीकेष्व अविनीतेषु परॊच्यमानं निबॊधत 29 तत्र सम राक्षसी गाति सदा कृष्ण चतुर्दशीम नगरे शाकले सफीते आहत्य निशि दुन्दुभिम 30 कदा वा घॊषिका गाथाः पुनर गास्यन्ति शाकले गव्यस्य तृप्ता मांसस्य पीत्वा गौडं महासवम 31 गौरीभिः सह नारीभिर बृहतीभिः सवलंकृताः पलाण्डु गाण्डूष युतान खादन्ते चैडकान बहून 32 वाराहं कौक्कुटं मांसं गव्यं गार्दभम औष्ट्रकम ऐडं च ये न खादन्ति तेषां जन्म निरर्थकम 33 इति गायन्ति ये मत्ताः शीधुना शाकलावतः सबालवृद्धाः कूर्दन्तस तेषु वृत्तं कथं भवेत 34 इति शल्य विजानीहि हन्त भूयॊ बरवीमि ते यद अन्यॊ ऽपय उक्तवान अस्मान बराह्मणः कुरुसंसदि 35 पञ्च नद्यॊ वहन्त्य एता यत्र पीलु वनान्य अपि शतद्रुश च विपाशा च तृतीयेरावती तथा चन्द्र भागा वितस्ता च सिन्धुषष्ठा बहिर गताः 36 आरट्टा नाम ते देशा नष्टधर्मान न तान वरजेत वरात्यानां दासमीयानां विदेहानाम अयज्वनाम 37 न देवाः परतिगृह्णन्ति पितरॊ बराह्मणास तथा तेषां परनष्टधर्माणां बाह्लीकानाम इति शरुतिः 38 बराह्मणेन तथा परॊक्तं विदुषा साधु संसदि काष्ठकुण्डेषु बाह्लीका मृण्मयेषु च भुञ्जते सक्तु वाट्यावलिप्तेषु शवादि लीढेषु निर्घृणाः 39 आविकं चौष्ट्रिकं चैव कषीरं गार्दभम एव च तद विकारांश च बाह्लीकाः खादन्ति च पिबन्ति च 40 पुत्र संकरिणॊ जाल्माः सर्वान नक्षीर भॊजनाः आरट्टा नाम बाह्लीका वर्जनीया विपश्चिता 41 उत शल्य विजानीहि हन्त भूयॊ बरवीमि ते यद अन्यॊ ऽपय उक्तवान सभ्यॊ बराह्मणः कुरुसंसदि 42 युगं धरे पयः पीत्वा परॊष्य चाप्य अच्युतस्थले तद्वद भूतिलये सनात्वा कथं सवर्गं गमिष्यति 43 पञ्च नद्यॊ वहन्त्य एता यत्र निःसृत्य पर्वतात आरट्टा नाम बाह्लीका न तेष्व आर्यॊ दव्यहं वसेत 44 बहिश च नाम हलीकश च विपाशायां पिशाचकौ तयॊर अपत्यं बाह्लीका नैषा सृष्टिः परजापतेः 45 कारः करान महिषकान कलिङ्गान कीकटाटवीन कर्कॊटकान वीरकांश च दुर्धर्मांश च विवर्जयेत 46 इति तीर्थानुसर्तारं राक्षसी का चिद अब्रवीत एकरात्रा शमी गेहे महॊलूखल मेखला 47 आरट्टा नाम ते देशा बाह्लीका नाम ते जनाः वसाति सिन्धुसौवीरा इति परायॊ विकुत्सिताः 48 उत शल्य विजानीहि हन्त भूयॊ बरवीमि ते उच्यमानं मया सम्यक तद एकाग्रमनाः शृणु 49 बराह्मणः शिल्पिनॊ गेहम अभ्यगच्छत पुरातिथिः आचारं तत्र संप्रेक्ष्य परीतः शिल्पिनम अब्रवीत 50 मया हिमवतः शृङ्गम एकेनाध्युषितं चिरम दृष्टाश च बहवॊ देशा नानाधर्मसमाकुलाः 51 न च केन च धर्मेण विरुध्यन्ते परजा इमाः सर्वे हि ते ऽबरुवन धर्मं यथॊक्तं वेदपारगैः 52 अटता तु सदा देशान नानाधर्मसमाकुलान आगच्छता महाराज बाह्लीकेषु निशामितम 53 तत्रैव बराह्मणॊ भूत्वा ततॊ भवति कषत्रियः वैश्यः शूद्रश च बाह्लीकस ततॊ भवति नापितः 54 नापितश च ततॊ भूत्वा पुनर भवति बराह्मणः दविजॊ भूत्वा च तत्रैव पुनर दासॊ ऽपि जायते 55 भवत्य एकः कुले विप्रः शिष्टान्ये कामचारिणः गान्धारा मद्रकाश चैव बाह्लीकाः के ऽपय अचेतसः 56 एतन मया शरुतं तत्र धर्मसंकरकारकम कृत्स्नाम अटित्वा पृथिवीं बाह्लीकेषु विपर्ययः 57 उत शल्य विजानीहि हन्त भूयॊ बरवीमि ते यद अप्य अन्यॊ ऽबरवीद वाक्यं बाह्लीकानां विकुत्सितम 58 सती पुरा हृता का चिद आरट्टा किल दस्युभिः अधर्मतश चॊपयाता सा तान अभ्यशपत ततः 59 बालां बन्धुमतीं यन माम अधर्मेणॊपगच्छथ तस्मान नार्यॊ भविष्यन्ति बन्धक्यॊ वै कुलेषु वः न चैवास्मात परमॊक्ष्यध्वं घॊरात पापान नराधमाः 60 कुरवः सहपाञ्चालाः शाल्वा मत्स्याः सनैमिषाः कॊसलाः काशयॊ ऽङगाश च कलिङ्गा मगधास तथा 61 चेदयश च महाभागा धर्मं जानन्ति शाश्वतम नानादेशेषु सन्तश च परायॊ बाह्या लयाद ऋते 62 आ मत्स्येभ्यः कुरुपाञ्चालदेश्या; आ नैमिषाच चेदयॊ ये विशिष्टाः धर्मं पुराणम उपजीवन्ति सन्तॊ; मद्रान ऋते पञ्च नदांश च जिह्मान 63 एवं विद्वन धर्मकथांश च राजंस; तूष्णींभूतॊ जडवच छल्य भूयाह तवं तस्य गॊप्ता च जनस्य राजा; षड्भागहर्ता शुभदुष्कृतस्य 64 अथ वा दुष्कृतस्य तवं हर्ता तेषाम अरक्षिता रक्षिता पुण्यभाग राजा परजानां तवं तव अपुण्य भाक 65 पूज्यमाने पुरा धर्मे सर्वदेशेषु शाश्वते धर्मं पाञ्चनदं दृष्ट्वा धिग इत्य आह पितामहः 66 वरात्यानां दाशमीयानां कृते ऽपय अशुभ कर्मणाम इति पाञ्चनदं धर्मम अवमेने पितामहः सवधर्मस्थेषु वर्णेषु सॊ ऽपय एतं नाभिपूजयेत 67 उत शल्य विजानीहि हन्त भूयॊ बरवीमि ते कल्माषपादः सरसि निमज्जन राक्षसॊ ऽबरवीत 68 कषत्रियस्य मलं भैक्षं बराह्मणस्यानृतं मलम मलं पृथिव्या बाह्लीकाः सत्रीणां मद्रस्त्रियॊ मलम 69 निमज्जमानम उद्धृत्य कश चिद राजा निशाचरम अपृच्छत तेन चाख्यात्म परॊक्तवान यन निबॊध तत 70 मानुषाणां मलं मेच्छा मेच्छानां मौष्टिका मलम मौष्टिकानां मलं शण्डाः शण्डानां राजयाजकाः 71 राजयाजक याज्यानां मद्रकाणां च यन मलम तद भवेद वै तव मलं यद्य अस्मान न विमुञ्चसि 72 इति रक्षॊपसृष्टेषु विषवीर्यहतेषु च राक्षसं भेषजं परॊक्तं संसिद्धं वचनॊत्तरम 73 बराह्मं पाञ्चाला कौरवेयाः सवधर्मः; सत्यं मत्स्याः शूरसेनाश च यज्ञः पराच्या दासा वृषला दाक्षिणात्याः; सतेना बाह्लीकाः संकरा वै सुराष्ट्राः 74 कृतघ्नता परवित्तापहारः; सुरा पानं गुरु दारावमर्शः येषां धर्मस तान परति नास्त्य अधर्म; आरट्टकान पाञ्चनदान धिग अस्तु 75 आ पाञ्चालेभ्यः कुरवॊ नैमिषाश च; मत्स्याश चैवाप्य अथ जानन्ति धर्मम कलिङ्गकाश चाङ्गका मागधाश च; शिष्टान धर्मान उपजीवन्ति वृद्धाः 76 पराचीं दिशं शरिता देवा जातवेदः पुरॊगमाः दक्षिणां पितरॊ गुप्तां यमेन शुभकर्मणा 77 परतीचीं वरुणः पाति पालयन्न असुरान बली उदीचीं भगवां सॊमॊ बरह्मण्यॊ बराह्मणैः सह 78 रक्षःपिशाचान हिमवान गुह्यकान गन्धमादनः धरुवः सर्वाणि भूतानि विष्णुर लॊकाञ जनार्दनः 79 इङ्गितज्ञाश च मगधाः परेक्षितज्ञाश च कॊसलाः अर्धॊक्ताः कुरुपाञ्चालाः शाल्वाः कृत्स्नानुशासनाः पार्वतीयाश च विषमा यथैव गिरयस तथा 80 सर्वज्ञा यवना राजञ शूराश चैव विशेषतः मलेच्छाः सवसंज्ञा नियता नानुक्त इतरॊ जनः 81 परतिरब्धास तु बाह्लीका न च के चन मद्रकाः स तवम एतादृशः शल्य नॊत्तरं वक्तुम अर्हसि 82 एतज जञात्वा जॊषम आस्स्व परतीपं मा सम वै कृथाः स तवां पूर्वम अहं हत्वा हनिष्ये केशवार्जुनौ 83 [षल्य] आतुराणां परित्यागः सवदारसुत विक्रयः अङ्गेषु वर्तते कर्ण येषाम अधिपतिर भवान 84 रथातिरथ संख्यायां यत तवा भीष्मस तदाब्रवीत तान विदित्वात्मनॊ दॊषान निर्मन्युर भव मा करुधः 85 सर्वत्र बराह्मणाः सन्ति सन्ति सर्वत्र कषत्रियाः वैश्याः शूद्रास तथा कर्ण सत्रियः साध्व्यश च सुव्रताः 86 रमन्ते चॊपहासेन पुरुषाः पुरुषैः सह अन्यॊन्यम अवतक्षन्तॊ देशे देशे समैथुनाः 87 परवाच्येषु निपुणः सर्वॊ भवति सर्वदा आत्मवाच्यं न जानीते जानन्न अपि विमुह्यति 88 [स] कर्णॊ ऽपि नॊत्तरं पराह शल्यॊ ऽपय अभिमुखः परान पुनः परहस्य राधेयः पुनर याहीत्य अचॊदयत |
1
[s] tataḥ punar mahārāja madrarājam ariṃdamam abhyabhāṣata rādheyaḥ saṃnivāryottaraṃ vacaḥ 2 yat tvaṃ nidarśanārthaṃ māṃ śalya jalpitavān asi nāhaṃ śakyas tvayā vācā vibhīṣayitum āhave 3 yadi māṃ devatāḥ sarvā yodhayeyuḥ savāsavāḥ tathāpi me bhayaṃ na syāt kim u pārthāt sakeśavāt 4 nāhaṃ bhīṣayituṃ śakyo vān mātreṇa kathaṃ cana anyaṃ jānīhi yaḥ śakyas tvayā bhīṣayituṃ raṇe 5 nīcasya balam etāvat pāruṣyaṃ yat tvam āttha mām aśakto 'smad guṇān prāptuṃ valgase bahu durmate 6 na hi karṇaḥ samudbhūto bhayārtham iha māriṣa vikramārtham ahaṃ jāto yaśo'rthaṃ ca tathaiva ca 7 idaṃ tu me tvam ekāgraḥ śṛṇu madrajanādhipa saṃnidhau dhṛtarāṣṭrasya procyamānaṃ mayā śrutam 8 deśāṃś ca vividhāṃś citrān pūrvavṛttāṃś ca pārthivān brāhmaṇāḥ kathayantaḥ sma dhṛtarāṣṭham upāsate 9 tatra vṛddhaḥ purāvṛttāḥ kathāḥ kāś cid dvijottamaḥ bāhlīka deśaṃ madrāṃś ca kutsayan vākyam abravīt 10 bahiṣkṛtā himavatā gaṅgayā ca tiraskṛtāḥ sarasvatyā yamunayā kurukṣetreṇa cāpi ye 11 pañcānāṃ sindhuṣaṣṭhānāṃ nadīnāṃ ye 'ntar āśritāḥ tān dharmabāhyān aśucīn bāhlīkān parivarjayet 12 govardhano nāma vaṭaḥ subhāṇḍaṃ nāma catvaram etad rājakuladvāram ākumāraḥ smarāmy aham 13 kāryeṇātyartha gāḍhena bāhlīkeṣūṣitaṃ mayā tata eṣāṃ samācāraḥ saṃvāsād vidito mama 14 śākalaṃ nāma nagaram āpagā nāma nimnagā jartikā nāma bāhlīkās teṣāṃ vṛttaṃ suninditam 15 dhānā gauḍāsave pītvā gomāṃsaṃ laśunaiḥ saha apūpa māṃsavāṭyānām āśinaḥ śīlavarjitāḥ 16 hasanti gānti nṛtyanti strībhir mattā vivāsasaḥ nagarāgāra vapreṣu bahir mālyānulepanāḥ 17 mattāvagītair vividhaiḥ kharoṣṭraninadopamaiḥ āhur anyonyam uktāni prabruvāṇā madotkaṭāḥ 18 hāhate hāhatety eva svāmibhartṛhateti ca ākrośantyaḥ pranṛtyanti mandāḥ parvasv asaṃyatāḥ 19 teṣāṃ kilāvaliptānāṃ nivasan kurujāṅgale kaś cid bāhlīka mukhyānāṃ nātihṛṣṭamanā jagau 20 sā nūnaṃ bṛhatī gaurī sūkṣmakambalavāsinī mām anusmaratī śete bāhlīkaṃ kuru vāsinam 21 śatadruka nadīṃ tīrtvā tāṃ ca ramyām irāvatīm gatvā svadeśaṃ drakṣyāmi sthūlaśaṅkhāḥ śubhāḥ striyaḥ 22 manaḥśilojjvalāpāṅgā gauryas trikakudāñjanāḥ kevalājinasaṃvītāḥ kūrdantyaḥ priyadarśanāḥ 23 mṛdaṅgānaka śaṅkhānāṃ mardalānāṃ ca nisvanaiḥ kharoṣṭrāśvataraiś caiva mattā yāsyāmahe sukham 24 śamī pīlu karīrāṇāṃ vaneṣu sukhavartmasu apūpān saktu piṇḍīś ca khādanto mathitānvitāḥ 25 pathiṣu prabalā bhūtvā kadāsa mṛdite 'dhvani khalopahāraṃ kurvāṇās tāḍayiṣyāma bhūyasaḥ 26 evaṃ hīneṣu vrātyeṣu bāhlīkeṣu durātmasu kaś cetayāno nivasen muhūrtam api mānavaḥ 27 īdṛśā brāhmaṇenoktā bāhlīkā moghacāriṇaḥ yeṣāṃ ṣaḍbhāgahartā tvam ubhayoḥ śubhapāpayoḥ 28 ity uktvā brāhmaṇaḥ sādhur uttaraṃ punar uktavān bāhlīkeṣv avinīteṣu procyamānaṃ nibodhata 29 tatra sma rākṣasī gāti sadā kṛṣṇa caturdaśīm nagare śākale sphīte āhatya niśi dundubhim 30 kadā vā ghoṣikā gāthāḥ punar gāsyanti śākale gavyasya tṛptā māṃsasya pītvā gauḍaṃ mahāsavam 31 gaurībhiḥ saha nārībhir bṛhatībhiḥ svalaṃkṛtāḥ palāṇḍu gāṇḍūṣa yutān khādante caiḍakān bahūn 32 vārāhaṃ kaukkuṭaṃ māṃsaṃ gavyaṃ gārdabham auṣṭrakam aiḍaṃ ca ye na khādanti teṣāṃ janma nirarthakam 33 iti gāyanti ye mattāḥ śīdhunā śākalāvataḥ sabālavṛddhāḥ kūrdantas teṣu vṛttaṃ kathaṃ bhavet 34 iti śalya vijānīhi hanta bhūyo bravīmi te yad anyo 'py uktavān asmān brāhmaṇaḥ kurusaṃsadi 35 pañca nadyo vahanty etā yatra pīlu vanāny api śatadruś ca vipāśā ca tṛtīyerāvatī tathā candra bhāgā vitastā ca sindhuṣaṣṭhā bahir gatāḥ 36 āraṭṭā nāma te deśā naṣṭadharmān na tān vrajet vrātyānāṃ dāsamīyānāṃ videhānām ayajvanām 37 na devāḥ pratigṛhṇanti pitaro brāhmaṇās tathā teṣāṃ pranaṣṭadharmāṇāṃ bāhlīkānām iti śrutiḥ 38 brāhmaṇena tathā proktaṃ viduṣā sādhu saṃsadi kāṣṭhakuṇḍeṣu bāhlīkā mṛṇmayeṣu ca bhuñjate saktu vāṭyāvalipteṣu śvādi līḍheṣu nirghṛṇāḥ 39 āvikaṃ cauṣṭrikaṃ caiva kṣīraṃ gārdabham eva ca tad vikārāṃś ca bāhlīkāḥ khādanti ca pibanti ca 40 putra saṃkariṇo jālmāḥ sarvān nakṣīra bhojanāḥ āraṭṭā nāma bāhlīkā varjanīyā vipaścitā 41 uta śalya vijānīhi hanta bhūyo bravīmi te yad anyo 'py uktavān sabhyo brāhmaṇaḥ kurusaṃsadi 42 yugaṃ dhare payaḥ pītvā proṣya cāpy acyutasthale tadvad bhūtilaye snātvā kathaṃ svargaṃ gamiṣyati 43 pañca nadyo vahanty etā yatra niḥsṛtya parvatāt āraṭṭā nāma bāhlīkā na teṣv āryo dvyahaṃ vaset 44 bahiś ca nāma hlīkaś ca vipāśāyāṃ piśācakau tayor apatyaṃ bāhlīkā naiṣā sṛṣṭiḥ prajāpateḥ 45 kāraḥ karān mahiṣakān kaliṅgān kīkaṭāṭavīn karkoṭakān vīrakāṃś ca durdharmāṃś ca vivarjayet 46 iti tīrthānusartāraṃ rākṣasī kā cid abravīt ekarātrā śamī gehe maholūkhala mekhalā 47 āraṭṭā nāma te deśā bāhlīkā nāma te janāḥ vasāti sindhusauvīrā iti prāyo vikutsitāḥ 48 uta śalya vijānīhi hanta bhūyo bravīmi te ucyamānaṃ mayā samyak tad ekāgramanāḥ śṛṇu 49 brāhmaṇaḥ śilpino geham abhyagacchat purātithiḥ ācāraṃ tatra saṃprekṣya prītaḥ śilpinam abravīt 50 mayā himavataḥ śṛṅgam ekenādhyuṣitaṃ ciram dṛṣṭāś ca bahavo deśā nānādharmasamākulāḥ 51 na ca kena ca dharmeṇa virudhyante prajā imāḥ sarve hi te 'bruvan dharmaṃ yathoktaṃ vedapāragaiḥ 52 aṭatā tu sadā deśān nānādharmasamākulān āgacchatā mahārāja bāhlīkeṣu niśāmitam 53 tatraiva brāhmaṇo bhūtvā tato bhavati kṣatriyaḥ vaiśyaḥ śūdraś ca bāhlīkas tato bhavati nāpitaḥ 54 nāpitaś ca tato bhūtvā punar bhavati brāhmaṇaḥ dvijo bhūtvā ca tatraiva punar dāso 'pi jāyate 55 bhavaty ekaḥ kule vipraḥ śiṣṭānye kāmacāriṇaḥ gāndhārā madrakāś caiva bāhlīkāḥ ke 'py acetasaḥ 56 etan mayā śrutaṃ tatra dharmasaṃkarakārakam kṛtsnām aṭitvā pṛthivīṃ bāhlīkeṣu viparyayaḥ 57 uta śalya vijānīhi hanta bhūyo bravīmi te yad apy anyo 'bravīd vākyaṃ bāhlīkānāṃ vikutsitam 58 satī purā hṛtā kā cid āraṭṭā kila dasyubhiḥ adharmataś copayātā sā tān abhyaśapat tataḥ 59 bālāṃ bandhumatīṃ yan mām adharmeṇopagacchatha tasmān nāryo bhaviṣyanti bandhakyo vai kuleṣu vaḥ na caivāsmāt pramokṣyadhvaṃ ghorāt pāpān narādhamāḥ 60 kuravaḥ sahapāñcālāḥ śālvā matsyāḥ sanaimiṣāḥ kosalāḥ kāśayo 'ṅgāś ca kaliṅgā magadhās tathā 61 cedayaś ca mahābhāgā dharmaṃ jānanti śāśvatam nānādeśeṣu santaś ca prāyo bāhyā layād ṛte 62 ā matsyebhyaḥ kurupāñcāladeśyā; ā naimiṣāc cedayo ye viśiṣṭāḥ dharmaṃ purāṇam upajīvanti santo; madrān ṛte pañca nadāṃś ca jihmān 63 evaṃ vidvan dharmakathāṃś ca rājaṃs; tūṣṇīṃbhūto jaḍavac chalya bhūyāh tvaṃ tasya goptā ca janasya rājā; ṣaḍbhāgahartā śubhaduṣkṛtasya 64 atha vā duṣkṛtasya tvaṃ hartā teṣām arakṣitā rakṣitā puṇyabhāg rājā prajānāṃ tvaṃ tv apuṇya bhāk 65 pūjyamāne purā dharme sarvadeśeṣu śāśvate dharmaṃ pāñcanadaṃ dṛṣṭvā dhig ity āha pitāmahaḥ 66 vrātyānāṃ dāśamīyānāṃ kṛte 'py aśubha karmaṇām iti pāñcanadaṃ dharmam avamene pitāmahaḥ svadharmastheṣu varṇeṣu so 'py etaṃ nābhipūjayet 67 uta śalya vijānīhi hanta bhūyo bravīmi te kalmāṣapādaḥ sarasi nimajjan rākṣaso 'bravīt 68 kṣatriyasya malaṃ bhaikṣaṃ brāhmaṇasyānṛtaṃ malam malaṃ pṛthivyā bāhlīkāḥ strīṇāṃ madrastriyo malam 69 nimajjamānam uddhṛtya kaś cid rājā niśācaram apṛcchat tena cākhyātma proktavān yan nibodha tat 70 mānuṣāṇāṃ malaṃ mecchā mecchānāṃ mauṣṭikā malam mauṣṭikānāṃ malaṃ śaṇḍāḥ śaṇḍānāṃ rājayājakāḥ 71 rājayājaka yājyānāṃ madrakāṇāṃ ca yan malam tad bhaved vai tava malaṃ yady asmān na vimuñcasi 72 iti rakṣopasṛṣṭeṣu viṣavīryahateṣu ca rākṣasaṃ bheṣajaṃ proktaṃ saṃsiddhaṃ vacanottaram 73 brāhmaṃ pāñcālā kauraveyāḥ svadharmaḥ; satyaṃ matsyāḥ śūrasenāś ca yajñaḥ prācyā dāsā vṛṣalā dākṣiṇātyāḥ; stenā bāhlīkāḥ saṃkarā vai surāṣṭrāḥ 74 kṛtaghnatā paravittāpahāraḥ; surā pānaṃ guru dārāvamarśaḥ yeṣāṃ dharmas tān prati nāsty adharma; āraṭṭakān pāñcanadān dhig astu 75 ā pāñcālebhyaḥ kuravo naimiṣāś ca; matsyāś caivāpy atha jānanti dharmam kaliṅgakāś cāṅgakā māgadhāś ca; śiṣṭān dharmān upajīvanti vṛddhāḥ 76 prācīṃ diśaṃ śritā devā jātavedaḥ purogamāḥ dakṣiṇāṃ pitaro guptāṃ yamena śubhakarmaṇā 77 pratīcīṃ varuṇaḥ pāti pālayann asurān balī udīcīṃ bhagavāṃ somo brahmaṇyo brāhmaṇaiḥ saha 78 rakṣaḥpiśācān himavān guhyakān gandhamādanaḥ dhruvaḥ sarvāṇi bhūtāni viṣṇur lokāñ janārdanaḥ 79 iṅgitajñāś ca magadhāḥ prekṣitajñāś ca kosalāḥ ardhoktāḥ kurupāñcālāḥ śālvāḥ kṛtsnānuśāsanāḥ pārvatīyāś ca viṣamā yathaiva girayas tathā 80 sarvajñā yavanā rājañ śūrāś caiva viśeṣataḥ mlecchāḥ svasaṃjñā niyatā nānukta itaro janaḥ 81 pratirabdhās tu bāhlīkā na ca ke cana madrakāḥ sa tvam etādṛśaḥ śalya nottaraṃ vaktum arhasi 82 etaj jñātvā joṣam āssva pratīpaṃ mā sma vai kṛthāḥ sa tvāṃ pūrvam ahaṃ hatvā haniṣye keśavārjunau 83 [ṣalya] āturāṇāṃ parityāgaḥ svadārasuta vikrayaḥ aṅgeṣu vartate karṇa yeṣām adhipatir bhavān 84 rathātiratha saṃkhyāyāṃ yat tvā bhīṣmas tadābravīt tān viditvātmano doṣān nirmanyur bhava mā krudhaḥ 85 sarvatra brāhmaṇāḥ santi santi sarvatra kṣatriyāḥ vaiśyāḥ śūdrās tathā karṇa striyaḥ sādhvyaś ca suvratāḥ 86 ramante copahāsena puruṣāḥ puruṣaiḥ saha anyonyam avatakṣanto deśe deśe samaithunāḥ 87 paravācyeṣu nipuṇaḥ sarvo bhavati sarvadā ātmavācyaṃ na jānīte jānann api vimuhyati 88 [s] karṇo 'pi nottaraṃ prāha śalyo 'py abhimukhaḥ parān punaḥ prahasya rādheyaḥ punar yāhīty acodayat |
The Mahabharata in Sanskrit
Book 8
Chapter 31
|
1
[स] ततः परानीक भिदं वयूहम अप्रतिमं परैः समीक्ष्य कर्णः पार्थानां धृष्टद्युम्नाभिरक्षितम 2 परययौ रथघॊषेण सिंहनाद रवेण च वादित्राणां च निनदैः कम्पयन्न इव मेदिनीम 3 वेपमान इव करॊधाद युद्धशौण्डः परंतपः पतिव्यूह्य महातेजा यथावद भरतर्षभ 4 वयधमत पाण्डवीं सेनाम आसुरीं मघवान इव युधिष्ठिरं चाभिभवन्न असपव्यं चकार ह 5 [धृ] कथं संजय राधेयः परत्यव्यूहत पाण्डवान धृष्टद्युम्नमुखान वीरान भीमसेनाभिरक्षितान 6 के च परपक्षौ पक्षौ वा मम सैन्यस्य संजय परविभज्य यथान्यायं कथं वा समवस्थिताः 7 कथं पाण्डुसुतश चापि परत्यव्यूहन्त मामकान कथं चैतान महायुद्धं परावर्तत सुदारुणम 8 कव च बीभत्सुर अभवद यत कर्णॊ ऽयाद युधिष्ठिरम कॊ हय अर्जुनस्य सांनिध्ये शक्तॊ ऽभयेतुं युधिष्ठिरम 9 सर्वभूतानि यॊ हय एकः खाण्डवे जितवान पुरा कस तम अन्यत्र राधेयात परतियुध्येज जिजीविषुः 10 [स] शृणु वयूहस्य रचनाम अर्जुनश च यथागतः परिदाय नृपं तेभ्यः संग्रामश चाभवद यथा 11 कृपः शारद्वतॊ राजन मागधश च तरस्विनः सात्वतः कृतवर्मा च दक्षिणं पक्षम आश्रिताः 12 तेषां परपक्षे शकुनिर उलूकश च महारथः सादिभिर विमलप्रासैस तवानीकम अरक्षताम 13 गान्धारिभिर असंभ्रान्तैः पार्वतीयैश च दुर्जयैः शलभानाम इव वरातैः पिशाचैर इव दुर्दृशैः 14 चतुस्त्रिंशत सहस्राणि रथानाम अनिवर्तिनाम संशप्तका युद्धशौण्डा वामं पार्श्वम अपालयन 15 समुच्चितास तव सुतैः कृष्णार्जुन जिघांसवः तेषां परपक्षः काम्बॊजाः शकाश च यवनैः सह 16 निदेशात सूतपुत्रस्य सरथाः साश्वपत्तयः आह्वयन्तॊ ऽरजुनं तस्थुः केशवं च महाबलम 17 मध्ये सेनामुखं कर्णॊ वयवातिष्ठत दंशितः चित्रवर्माङ्गदः सरग्वी पालयन धवज्जिनी मुखम 18 रक्ष्यमाणः सुसंरब्धैः पुत्रैः शस्त्रभृतां वरः वाहिनी परमुखं वीरः संप्रकर्षन्न अशॊभत 19 अयॊ ऽरत्निर महाबाहुः सूर्यवैश्वानर दयुतिः महाद्विप सकन्धगतः पिङ्गलः परियदर्शनः दुःशासनॊ वृतः सैन्यैः सथितॊ वयूहस्य पृष्ठ्यतः 20 तम अन्वयान महाराज सवयं दुर्यॊधनॊ नृपः चित्राश्वैश चित्रसंनाहैः सॊदर्यैर अभिरक्षितः 21 रक्ष्यमाणॊ महावीर्यैः सहितैर मद्रकेकयैः अशॊभत महाराज देवैर इव शतक्रतुः 22 अश्वत्थामा कुरूणां च ये परवीरा महारथाः नित्यमत्ताश च मातङ्गाः शूरैर मलेच्छैर अधिष्ठिताः अन्वयुस तद्रथानीकं कषरन्त इव तॊयदाः 23 ते धवजैर वैजयन्तीभिर जवलद्भिः परमायुधैः सादिभिश चास्थिता रेजुर दरुमवन्त इवाचलाः 24 तेषां पदातिनागानां पादरक्षाः सहस्रशः पट्टिशासि धराः शूरा बभूवुर अनिवर्तिनः 25 सादिभिः सयन्दनैर नागैर अधिकं समलंकृतैः स वयूह राजॊ विबभौ देवासुरचमूपमः 26 बार्हस्पत्यः सुविहितॊ नायकेन विपश्चिता नृत्यतीव महाव्यूहः परेषाम आदधद भयम 27 तस्य पक्षप्रपक्षेभ्यॊ निष्पतन्ति युयुत्सवः पत्त्यश्वरथमातङ्गाः परावृषीव बलाहकाः 28 ततः सेनामुखे कर्णं दृष्ट्वा राजा युधिष्ठिरः धनंजयम अमित्रघ्नम एकवीरम उवाच ह 29 पश्यार्जुन महाव्यूहं कर्णेन विहितं रणे युक्तं पक्षैः परपक्षैश च सेनानीकं परकाशते 30 तद एतद वै समालॊक्य परत्यमित्रं महद बलम यथा नाभिभवत्य अस्मांस तथा नीतिर विधीयताम 31 एवम उक्तॊ ऽरजुनॊ राज्ञा पराञ्जलिर नृपम अब्रवीत यथा भवान आह तथा तत सर्वं न तद अन्यथा 32 यस तव अस्य विहितॊ घातस तं करिष्यामि भारत परधानवध एवास्य विनाशस तं करॊम्य अहम 33 [य] यस्मात तवम एव राधेयं भीमसेनः सुयॊधनम वृषसेनं च नकुलः सहदेवॊ ऽपि सौबलम 34 दुःशासनं शतानीकॊ हार्दिक्यं शिनिपुंगवः धृष्टद्युम्नस तथा दरौणिं सवयं यास्याम्य अहं कृपम 35 दरौपदेया धार्तराष्ट्राञ शिष्टान सह शिखण्डिना ते ते च तांस तान अहितान अस्माकं घनन्तु मामकाः 36 [स] इत्य उक्तॊ धर्मराजेन तथेत्य उक्त्वा धनंजयः वयादिदेश सवसैन्यानि सवयं चागाच चमूमुखम 37 अथ तं रथम आयान्तं दृष्ट्वात्यद्भुत दर्शनम उवाचाधिरथिं शल्यः पुनस तं युद्धदुर्मदम 38 अयं स रथ आयाति शवेताश्वः कृष्णसारथिः निघ्नन्न अमित्रान कौन्तेयॊ यं यं तवं परिपृच्छसि 39 शरूयते तुमुलः शब्दॊ रथनेमि सवनॊ महान एष रेणुः समुद्भूतॊ दिवम आवृत्य तिष्ठति 40 चक्रनेमि परणुन्ना च कम्पते कर्ण मेदिनी परवात्य एष महावायुर अभितस तव वाहिनीम करव्यादा वयाहरन्त्य एते मृगाः कुर्वन्ति भैरवम 41 पश्य कर्ण महाघॊरं भयदं लॊमहर्षणम कबन्धं मेघसंकाशं भानुम आवृत्य संस्थितम 42 पश्य यूथैर बहुविधैर मृगाणां सर्वतॊदिशम बलिभिर दृप्तशार्दूलैर आदित्यॊ ऽभिनिरीक्ष्यते 43 पश्य कङ्कांश च गृध्रांश च समवेतान सहस्रशः सथितान अभिमुखान घॊरान अन्यॊन्यम अभिभाषतः 44 सिताश चाश्वाः समायुक्तास तव कर्ण महारथे परदराः परज्वलन्त्य एते धवजश चैव परकम्पते 45 उदीर्यतॊ हयान पश्य महाकायान महाजवान पलवमानान दर्शनीयान आकाशे गरुडान इव 46 धरुवम एषु निमित्तेषु भीमिम आवृत्य पार्थिवाः सवप्स्यन्ति निहताः कर्ण शतशॊ ऽथ सहस्रशः 47 शङ्खानां तुमुलः शब्दः शरूयते लॊमहर्षणः आनकानां च राधेय मृदङ्गानां च सर्वशः 48 बाणशब्दान बहुविधान नराश्वरथनिस्वना जयातलत्रेषु शब्दांश च शृणु कर्ण महात्मनाम 49 हेमरूप्य परमृष्टानां वाससां शिल्पिनिर्मिताः नानावर्णा रथे भान्ति शवसनेन परकम्पिताः 50 सहेम चन्द्र तारार्काः पताकाः किङ्किणी युताः पश्य कर्णार्जुनस्यैताः सौदामिन्य इवाम्बुदे 51 धवजाः कणकणायन्ते वातेनाभिसमीरिताः सपताका रथाश चापि पाञ्चालानां महात्मनाम 52 नागाश्वरथपत्त्यौघांस तावकान समभिघ्नतः धवजाग्रं दृश्यते तव अस्य जयाशब्दश चापि शरूयते 53 अद्य दरष्टासि तं वीरं शवेताश्वं कृष्णसारथिम निघ्नन्तं शात्रवान संख्ये यं कर्ण परिपृच्छसि 54 अद्य तौ पुरुषव्याघ्रौ लॊहिताक्षौ परंतपौ वासुदेवार्जुनौ कर्ण दरष्टास्य एकरथस्थितौ 55 सारथिर यस्य वार्ष्णेयॊ गाण्डीवं यस्य कार्मुकम तं चेद धन्तासि राधेय तवं नॊ राजा भविष्यसि 56 एष संशप्तकाहूतस तान एवाभिमुखॊ गतः करॊति कदनं चैषां संग्रामे दविषतां बली इति बरुवाणं मद्रेशं कर्णः पराहातिमन्युमान 57 पश्य संशप्तकैः करुद्धैः सर्वतः समभिद्रुतः एष सूर्य इवाम्भॊदैर्श छन्नः पार्थॊ न दृश्यते एतद अन्तॊ ऽरजुनः शल्य निमग्नः शॊकसागरे 58 [षल्य] वरुणं कॊ ऽमभसा हन्याद इन्धनेन च पावकम कॊ वानिलं निगृह्णीयात पिबेद वा कॊ महार्णवम 59 ईदृग रूपम अहं मन्ये पार्थस्य युधि निग्रहम न हि शक्यॊ ऽरजुनॊ जेतुं सेन्द्रैः सर्वैः सुरासुरैः 60 अथैवं परितॊषस ते वाचॊक्त्वा सुमना भव न स शक्यॊ युधा जेतुम अन्यं कुरु मनॊरथम 61 बाहुभ्याम उद्धरेद भूमिं दहेत करुद्ध इमाः परजाः पातयेत तरिदिवाद देवान यॊ ऽरजुनं समरे जयेत 62 पश्य कुन्तीसुतं वीरं भीमम अक्लिष्टकारिणम परभासन्तं महाबाहुं सथितं मेरुम इवाचलम 63 अमर्षी नित्यसंरब्धश चिरं वैरम अनुस्मरन एष भीमॊ जय परेप्सुर युधि तिष्ठति वीर्यवान 64 एष धर्मभृतां शरेष्ठॊ धर्मराजॊ युधिष्ठिरः तिष्ठत्य असुकरः संख्ये परैः परपुरंजयः 65 एतौ च पुरुषव्याघ्राव अश्विनाव इव सॊदरौ नकुलः सहदेवश च तिष्ठतॊ युधि दुर्जयौ 66 दृश्यन्त एते कार्ष्णेयाः पञ्च पञ्चाचला इव वयवस्थिता यॊत्स्यमानाः सर्वे ऽरजुन समा युधि 67 एते दरुपदपुत्राश च धृष्टद्युम्नपुरॊगमाः हीनाः सत्यजिता वीरास तिष्ठन्ति परमौजसः 68 इति संवदतॊर एव तयॊः पुरुषसिंहयॊः ते सेने समसज्जेतां गङ्गा यमुनवद भृषम |
1
[s] tataḥ parānīka bhidaṃ vyūham apratimaṃ paraiḥ samīkṣya karṇaḥ pārthānāṃ dhṛṣṭadyumnābhirakṣitam 2 prayayau rathaghoṣeṇa siṃhanāda raveṇa ca vāditrāṇāṃ ca ninadaiḥ kampayann iva medinīm 3 vepamāna iva krodhād yuddhaśauṇḍaḥ paraṃtapaḥ pativyūhya mahātejā yathāvad bharatarṣabha 4 vyadhamat pāṇḍavīṃ senām āsurīṃ maghavān iva yudhiṣṭhiraṃ cābhibhavann asapavyaṃ cakāra ha 5 [dhṛ] kathaṃ saṃjaya rādheyaḥ pratyavyūhata pāṇḍavān dhṛṣṭadyumnamukhān vīrān bhīmasenābhirakṣitān 6 ke ca prapakṣau pakṣau vā mama sainyasya saṃjaya pravibhajya yathānyāyaṃ kathaṃ vā samavasthitāḥ 7 kathaṃ pāṇḍusutaś cāpi pratyavyūhanta māmakān kathaṃ caitān mahāyuddhaṃ prāvartata sudāruṇam 8 kva ca bībhatsur abhavad yat karṇo 'yād yudhiṣṭhiram ko hy arjunasya sāṃnidhye śakto 'bhyetuṃ yudhiṣṭhiram 9 sarvabhūtāni yo hy ekaḥ khāṇḍave jitavān purā kas tam anyatra rādheyāt pratiyudhyej jijīviṣuḥ 10 [s] śṛṇu vyūhasya racanām arjunaś ca yathāgataḥ paridāya nṛpaṃ tebhyaḥ saṃgrāmaś cābhavad yathā 11 kṛpaḥ śāradvato rājan māgadhaś ca tarasvinaḥ sātvataḥ kṛtavarmā ca dakṣiṇaṃ pakṣam āśritāḥ 12 teṣāṃ prapakṣe śakunir ulūkaś ca mahārathaḥ sādibhir vimalaprāsais tavānīkam arakṣatām 13 gāndhāribhir asaṃbhrāntaiḥ pārvatīyaiś ca durjayaiḥ śalabhānām iva vrātaiḥ piśācair iva durdṛśaiḥ 14 catustriṃśat sahasrāṇi rathānām anivartinām saṃśaptakā yuddhaśauṇḍā vāmaṃ pārśvam apālayan 15 samuccitās tava sutaiḥ kṛṣṇārjuna jighāṃsavaḥ teṣāṃ prapakṣaḥ kāmbojāḥ śakāś ca yavanaiḥ saha 16 nideśāt sūtaputrasya sarathāḥ sāśvapattayaḥ āhvayanto 'rjunaṃ tasthuḥ keśavaṃ ca mahābalam 17 madhye senāmukhaṃ karṇo vyavātiṣṭhata daṃśitaḥ citravarmāṅgadaḥ sragvī pālayan dhvajjinī mukham 18 rakṣyamāṇaḥ susaṃrabdhaiḥ putraiḥ śastrabhṛtāṃ varaḥ vāhinī pramukhaṃ vīraḥ saṃprakarṣann aśobhata 19 ayo 'ratnir mahābāhuḥ sūryavaiśvānara dyutiḥ mahādvipa skandhagataḥ piṅgalaḥ priyadarśanaḥ duḥśāsano vṛtaḥ sainyaiḥ sthito vyūhasya pṛṣṭhyataḥ 20 tam anvayān mahārāja svayaṃ duryodhano nṛpaḥ citrāśvaiś citrasaṃnāhaiḥ sodaryair abhirakṣitaḥ 21 rakṣyamāṇo mahāvīryaiḥ sahitair madrakekayaiḥ aśobhata mahārāja devair iva śatakratuḥ 22 aśvatthāmā kurūṇāṃ ca ye pravīrā mahārathāḥ nityamattāś ca mātaṅgāḥ śūrair mlecchair adhiṣṭhitāḥ anvayus tadrathānīkaṃ kṣaranta iva toyadāḥ 23 te dhvajair vaijayantībhir jvaladbhiḥ paramāyudhaiḥ sādibhiś cāsthitā rejur drumavanta ivācalāḥ 24 teṣāṃ padātināgānāṃ pādarakṣāḥ sahasraśaḥ paṭṭiśāsi dharāḥ śūrā babhūvur anivartinaḥ 25 sādibhiḥ syandanair nāgair adhikaṃ samalaṃkṛtaiḥ sa vyūha rājo vibabhau devāsuracamūpamaḥ 26 bārhaspatyaḥ suvihito nāyakena vipaścitā nṛtyatīva mahāvyūhaḥ pareṣām ādadhad bhayam 27 tasya pakṣaprapakṣebhyo niṣpatanti yuyutsavaḥ pattyaśvarathamātaṅgāḥ prāvṛṣīva balāhakāḥ 28 tataḥ senāmukhe karṇaṃ dṛṣṭvā rājā yudhiṣṭhiraḥ dhanaṃjayam amitraghnam ekavīram uvāca ha 29 paśyārjuna mahāvyūhaṃ karṇena vihitaṃ raṇe yuktaṃ pakṣaiḥ prapakṣaiś ca senānīkaṃ prakāśate 30 tad etad vai samālokya pratyamitraṃ mahad balam yathā nābhibhavaty asmāṃs tathā nītir vidhīyatām 31 evam ukto 'rjuno rājñā prāñjalir nṛpam abravīt yathā bhavān āha tathā tat sarvaṃ na tad anyathā 32 yas tv asya vihito ghātas taṃ kariṣyāmi bhārata pradhānavadha evāsya vināśas taṃ karomy aham 33 [y] yasmāt tvam eva rādheyaṃ bhīmasenaḥ suyodhanam vṛṣasenaṃ ca nakulaḥ sahadevo 'pi saubalam 34 duḥśāsanaṃ śatānīko hārdikyaṃ śinipuṃgavaḥ dhṛṣṭadyumnas tathā drauṇiṃ svayaṃ yāsyāmy ahaṃ kṛpam 35 draupadeyā dhārtarāṣṭrāñ śiṣṭān saha śikhaṇḍinā te te ca tāṃs tān ahitān asmākaṃ ghnantu māmakāḥ 36 [s] ity ukto dharmarājena tathety uktvā dhanaṃjayaḥ vyādideśa svasainyāni svayaṃ cāgāc camūmukham 37 atha taṃ ratham āyāntaṃ dṛṣṭvātyadbhuta darśanam uvācādhirathiṃ śalyaḥ punas taṃ yuddhadurmadam 38 ayaṃ sa ratha āyāti śvetāśvaḥ kṛṣṇasārathiḥ nighnann amitrān kaunteyo yaṃ yaṃ tvaṃ paripṛcchasi 39 śrūyate tumulaḥ śabdo rathanemi svano mahān eṣa reṇuḥ samudbhūto divam āvṛtya tiṣṭhati 40 cakranemi praṇunnā ca kampate karṇa medinī pravāty eṣa mahāvāyur abhitas tava vāhinīm kravyādā vyāharanty ete mṛgāḥ kurvanti bhairavam 41 paśya karṇa mahāghoraṃ bhayadaṃ lomaharṣaṇam kabandhaṃ meghasaṃkāśaṃ bhānum āvṛtya saṃsthitam 42 paśya yūthair bahuvidhair mṛgāṇāṃ sarvatodiśam balibhir dṛptaśārdūlair ādityo 'bhinirīkṣyate 43 paśya kaṅkāṃś ca gṛdhrāṃś ca samavetān sahasraśaḥ sthitān abhimukhān ghorān anyonyam abhibhāṣataḥ 44 sitāś cāśvāḥ samāyuktās tava karṇa mahārathe pradarāḥ prajvalanty ete dhvajaś caiva prakampate 45 udīryato hayān paśya mahākāyān mahājavān plavamānān darśanīyān ākāśe garuḍān iva 46 dhruvam eṣu nimitteṣu bhīmim āvṛtya pārthivāḥ svapsyanti nihatāḥ karṇa śataśo 'tha sahasraśaḥ 47 śaṅkhānāṃ tumulaḥ śabdaḥ śrūyate lomaharṣaṇaḥ ānakānāṃ ca rādheya mṛdaṅgānāṃ ca sarvaśaḥ 48 bāṇaśabdān bahuvidhān narāśvarathanisvanā jyātalatreṣu śabdāṃś ca śṛṇu karṇa mahātmanām 49 hemarūpya pramṛṣṭānāṃ vāsasāṃ śilpinirmitāḥ nānāvarṇā rathe bhānti śvasanena prakampitāḥ 50 sahema candra tārārkāḥ patākāḥ kiṅkiṇī yutāḥ paśya karṇārjunasyaitāḥ saudāminya ivāmbude 51 dhvajāḥ kaṇakaṇāyante vātenābhisamīritāḥ sapatākā rathāś cāpi pāñcālānāṃ mahātmanām 52 nāgāśvarathapattyaughāṃs tāvakān samabhighnataḥ dhvajāgraṃ dṛśyate tv asya jyāśabdaś cāpi śrūyate 53 adya draṣṭāsi taṃ vīraṃ śvetāśvaṃ kṛṣṇasārathim nighnantaṃ śātravān saṃkhye yaṃ karṇa paripṛcchasi 54 adya tau puruṣavyāghrau lohitākṣau paraṃtapau vāsudevārjunau karṇa draṣṭāsy ekarathasthitau 55 sārathir yasya vārṣṇeyo gāṇḍīvaṃ yasya kārmukam taṃ ced dhantāsi rādheya tvaṃ no rājā bhaviṣyasi 56 eṣa saṃśaptakāhūtas tān evābhimukho gataḥ karoti kadanaṃ caiṣāṃ saṃgrāme dviṣatāṃ balī iti bruvāṇaṃ madreśaṃ karṇaḥ prāhātimanyumān 57 paśya saṃśaptakaiḥ kruddhaiḥ sarvataḥ samabhidrutaḥ eṣa sūrya ivāmbhodairś channaḥ pārtho na dṛśyate etad anto 'rjunaḥ śalya nimagnaḥ śokasāgare 58 [ṣalya] varuṇaṃ ko 'mbhasā hanyād indhanena ca pāvakam ko vānilaṃ nigṛhṇīyāt pibed vā ko mahārṇavam 59 īdṛg rūpam ahaṃ manye pārthasya yudhi nigraham na hi śakyo 'rjuno jetuṃ sendraiḥ sarvaiḥ surāsuraiḥ 60 athaivaṃ paritoṣas te vācoktvā sumanā bhava na sa śakyo yudhā jetum anyaṃ kuru manoratham 61 bāhubhyām uddhared bhūmiṃ dahet kruddha imāḥ prajāḥ pātayet tridivād devān yo 'rjunaṃ samare jayet 62 paśya kuntīsutaṃ vīraṃ bhīmam akliṣṭakāriṇam prabhāsantaṃ mahābāhuṃ sthitaṃ merum ivācalam 63 amarṣī nityasaṃrabdhaś ciraṃ vairam anusmaran eṣa bhīmo jaya prepsur yudhi tiṣṭhati vīryavān 64 eṣa dharmabhṛtāṃ śreṣṭho dharmarājo yudhiṣṭhiraḥ tiṣṭhaty asukaraḥ saṃkhye paraiḥ parapuraṃjayaḥ 65 etau ca puruṣavyāghrāv aśvināv iva sodarau nakulaḥ sahadevaś ca tiṣṭhato yudhi durjayau 66 dṛśyanta ete kārṣṇeyāḥ pañca pañcācalā iva vyavasthitā yotsyamānāḥ sarve 'rjuna samā yudhi 67 ete drupadaputrāś ca dhṛṣṭadyumnapurogamāḥ hīnāḥ satyajitā vīrās tiṣṭhanti paramaujasaḥ 68 iti saṃvadator eva tayoḥ puruṣasiṃhayoḥ te sene samasajjetāṃ gaṅgā yamunavad bhṛṣam |
The Mahabharata in Sanskrit
Book 8
Chapter 32
|
1
[धृ] तथा वयूढेष्व अनीकेषु संसक्तेषु च संजय संशप्तकान कथं पार्थॊ गतः कर्णश च पाण्डवान 2 एतद विस्तरतॊ युद्धं परब्रूहि कुशलॊ हय असि न हि तृप्यामि वीराणां शृण्वानॊ विक्रमान रणे 3 [स] तत सथाने समवस्थाप्य परत्यमित्रं महाबलम अव्यूहतार्जुनॊ वयूहं पुत्रस्य तव दुर्नये 4 तत सादिनागकलिलं पदातिरथसंकुलम धृष्टद्युम्नमुखैर वयूढम अशॊभत महद बलम 5 पारावत सवर्णाश्वश चन्द्रादित्य समद्युतिः पार्षतः परबभौ धन्वी कालॊ विग्रहवान इव 6 पार्षतं तव अभि संतस्थुर दरौपदेया युयुत्सवः सानुगा भीमवपुशश चन्द्रं तारागणा इव 7 अथ वयूढेष्व अनीकेषु परेक्ष्य संशप्तकान रणे करुद्धॊ ऽरजुनॊ ऽभिदुद्राव वयाक्षिपन गाण्डिवं धनुः 8 अथ संशप्तकाः पार्थम अभ्यधावन वधैषिणः विजये कृतसंकल्पा मृत्युं कृत्वा निवर्तनम 9 तद अश्वसंघ बहुलं मत्तनागरथाकुलम पत्तिमच छूर वीरौघैर दरुतम अर्जुनम आद्रवत 10 स संप्रहारस तुमुलस तेषाम आसीत किरीटिना तस्यैव नः शरुतॊ यादृङ निवातकवचैः सह 11 रथान अश्वान धवजान नागान पत्तीन रथपतीन अपि इषून धनूंषि खड्गांश च चक्राणि च परश्वधान 12 सायुधान उद्यतान बाहून उद्यतान्य आयुधानि च चिच्छेद दविषतां पार्थः शिरांसि च सहस्रशः 13 तस्मिन सैन्ये महावर्ते पातालावर्त संनिभे निमग्नं तं रथं मत्वा नेदुः संशप्तका मुदा 14 स पुरस्ताद अरीन हत्वा पश्चार्धेनॊत्तरेण च दक्षिणेन च बीभत्सुः करुद्धॊ रुद्रः पशून इव 15 अथ पाञ्चाल चेदीनां सृञ्जयानां च मारिष तवदीयैः सह संग्राम आसीत परमदारुणः 16 कृपश च कृतवर्मा च शकुनिश चापि सौबलः हृष्टसेनाः सुसंरब्धा रथानीकैः परहारिणः 17 कॊसलैः काशिमत्स्यैश च कारूषैः केकयैर अपि शूरसेनैः शूर वीरैर युयुधुर युद्धदुर्मदाः 18 तेषाम अन्तकरं युद्धं देहपाप्म परणाशनम शूद्र विट कषत्रवीराणां धर्म्यं सवर्ग्यं यशः करम 19 दुर्यॊधनॊ ऽपि सहितॊ भरातृभिर भरतर्षभ गुप्तः कुरुप्रवीरैश च मद्राणां च महारथैः 20 पाण्डवैः सहपाञ्चालैश चेदिभिः सात्यकेन च युध्यमानं रणे कर्णं कुरुवीरॊ ऽभयपालयत 21 कर्णॊ ऽपि निशितैर बाणैर विनिहत्य महाचमूम परमृद्य च रथश्रेष्ठान युधिष्ठिरम अपीडयत 22 विपत्रायुध देहासून कृत्वा शत्रून सहस्रशः युक्त्वा सवर्गयशॊभ्यां च सवेभ्यॊ मुदम उदावहत 23 [धृ] यत तत परविश्य पार्थानां सेनां कुर्वञ जनक्षयम कर्णॊ राजानम अभ्यर्च्छत तन ममाचक्ष्व संजय 24 के च परवीराः पार्थानां युधि कर्णम अवारयन कांश च परमथ्याधिरथिर युधिष्ठिरम अपीडयत 25 [स] धृष्टद्युम्नमुखान पार्थान दृष्ट्वा कर्णॊ वयवस्थितान समभ्यधावत तवरितः पाञ्चालाञ शत्रुकर्शनः 26 तं तूर्णम अभिधावन्तं पाञ्चाला जितकाशिनः परत्युद्ययुर महाराज हंसा इव महार्णवम 27 ततः शङ्खसहस्राणां निस्वनॊ हृदयंगमः परादुरासीद उभयतॊ भेरीशब्दश च दारुणः 28 नाना वादित्रनादश च दविपाश्वरथनिस्वनः सिंहनादश च वीराणाम अभवद दारुणस तदा 29 साद्रि दरुमार्णवा भूमिः सवाताम्बुदम अम्बरम सार्केन्दु गरहनक्षत्रा दयौश च वयक्तं वयघूर्णत 30 अति भूतानि तं शब्दं मेनिरे ऽति च विव्यथुः यानि चाप्लव सत्त्वानि परायस तानि मृतानि च 31 अथ कर्णॊ भृशं करुद्धः शीघ्रम अस्त्रम उदीरयन जघान पाण्डवीं सेनाम आसुरीं मघवान इव 32 स पाण्डवरथांस तूर्णं परविश्य विसृजञ शरान परभद्रकाणां परवरान अहनत सप्त सप्ततिम 33 ततः सुपुङ्खैर निशितै रथश्रेष्ठॊ रथेषुभिः अवधीत पञ्चविंशत्या पाञ्चालान पञ्चविंशतिम 34 सुवर्णपुङ्खैर नाराचैः परकायविदारणैः चेदिकान अवधीद वीरः शतशॊ ऽथ सहस्रशः 35 तं तथा समरे कर्म कुर्वाणम अतिमानुषम परिवव्रुर महाराज पाञ्चालानां रथव्रजाः 36 ततः संधाय विशिखान पञ्च भारत दुःसहान पाञ्चालान अवधीत पञ्च कर्णॊ वैकर्तनॊ वृषः 37 भानुदेवं चित्रसेनं सेना बिन्दुं च भारत तपनं शूरसेनं च पाञ्चालान अवधीद रणे 38 पाञ्चालेषु च शूरेषु वध्यमानेषु सायकैः हाहाकारॊ महान आसीत पाञ्चालानां महाहवे 39 तेषां संकीर्यमाणानां हाहाकारकृता दिशः पुनर एव च तान कर्णॊ जघानाशु पतत्रिभिः 40 चक्ररक्षौ तु कर्णस्य पुत्रौ मारिष दुर्जयौ सुषेणः सत्यसेनश च तयक्त्वा पराणान अयुध्यताम 41 पृष्ठगॊपस तु कर्णस्य जयेष्ठः पुत्रॊ महारथः वृषसेनः सवयं कर्णं पृष्ठतः पर्यपालयत 42 धृष्टद्युम्नः सात्यकिश च दरौपदेया वृकॊदरः जनमेजयः शिखण्डी च परवीराश च परभद्रकाः 43 चेदिकेकयपाञ्चाला यमौ मत्स्याश च दंशिताः समभ्यधावन राधेयं जिघांसन्तः परहारिणः 44 त एनं विविधैः शस्त्रैः शरधाराभिर एव च अभ्यवर्षन विमृद्नन्तः परावृषीवाम्बुदा गिरिम 45 पितरं तु परीप्सन्तः कर्ण पुत्राः परहारिणः तवदीयाश चापरे राजन वीरा वीरान अवारयन 46 सुषेणॊ भीमसेनस्य छित्त्वा भल्लेन कार्मुकम नाराचैः सप्तभिर विद्ध्वा हृदि भीमं ननाद ह 47 अथान्यद धनुर आदाय सुदृढं भीमविक्रमः सज्यं वृकॊदरः कृत्वा सुषेणस्याच्छिनद धनुः 48 विव्याध चैनं नवभिः करुद्धॊ नृत्यन्न इवेषुभिः कर्णं च तूर्णं विव्याध तरिसप्तत्या शितैः शरैः 49 सत्यसेनं च दशभिः साश्वसूतध्वजायुधम पश्यतां सुहृदां मध्ये कर्ण पुत्रम अपातयत 50 कषुरप्र णुन्नं तत तस्य शिरश चन्द्रनिभाननम शुभदर्शनम एवासीन नालभ्रष्टम इवाम्बुजम 51 हत्वा कर्णसुतं भीमस तावकान पुनर आर्दयत कृप हार्दिक्ययॊश छित्त्वा चापे ताव अप्य अथार्दयत 52 दुःशासनं तरिभिर विद्ध्वा शकुनिं षड्भिर आयसैः उलूकं च पतत्रिं च चकार विरथाव उभौ 53 हे सुषेण हतॊ ऽसीति बरुवन्न आदत्त सायकम तम अस्य कर्णश चिच्छेद तरिभिश चैनम अताडयत 54 अथान्यम अपि जग्राह सुपर्वाणं सुतेजनम सुषेणायासृजद भीमस तम अप्य अस्याच्छिनद वृषः 55 पुनः कर्णस तरिसप्तत्या भीमसेनं रथेषुभिः पुत्रं परीप्सन विव्याध करूरं करूरैर जिघांसया 56 सुषेणस तु धनुर गृह्य भारसाधनम उत्तमम नकुलं पञ्चभिर बाणैर बाह्वॊर उरसि चार्दयत 57 नकुलस तं तु विंशत्या विद्ध्वा भारसहैर दृढैः ननाद बलवन नादं कर्णस्य भयम आदधत 58 तं सुषेणॊ महाराज विद्ध्वा दशभिर आशुगैः चिच्छेद च धनुः शीघ्रं कषुरप्रेण महारथः 59 अथान्यद धनुर आदाय नकुलः करॊधमूर्च्छितः सुषेणं बहुभिर बाणैर वारयाम आस संयुगे 60 स तु बाणैर दिशॊ राजन्न आच्छाद्य परवीरहा आजघ्ने सारथिं चास्य सुषेणं च ततस तरिभिः चिच्छेद चास्य सुदृढं धनुर भल्लैस तरिभिस तरिधा 61 अथान्यद धनुर आदाय सुषेणः करॊधमूर्छितः अविध्यन नकुलं षष्ट्या सहदेवं च सप्तभिः 62 तद युद्धं सुमहद घॊरम आसीद देवासुरॊपमम निघ्नतां सायकैस तूर्णम अन्यॊन्यस्य वधं परति 63 सात्यकिर वृषसेनस्य हत्वा सूतं तरिभिः शरैः धनुश चिच्छेद भल्लेन जघानाश्वांश च सप्तभिः धवजम एकेषुणॊन्मथ्य तरिभिस तं हृद्य अताडयत 64 अथावसन्नः सवरथे मुहूर्तात पुनर उत्थितः अथॊ जिघांसुः शैनेयं खड्गचर्म भृद अभ्ययात 65 तस्य चाप्लवतः शीघ्रं वृषसेनस्य सात्यकिः वराहकर्णैर दशभिर अविध्यद असि चर्मणी 66 दुःशासनस तु तं दृष्ट्वा विरथं वयायुधं कृतम आरॊप्य सवरथे तूर्णम अपॊवाह रथान्तरम 67 अथान्यं रथम आस्थाय वृषसेनॊ महारथः कर्णस्य युधि दुर्धर्षः पुनः पृष्ठम अपालयत 68 दुःशासनं तु शैनेयॊ नवैर नवभिर आशुगैः विसूताश्वरथं कृत्वा ललाडे तरिभिर आर्पयत 69 स तव अन्यं रथम आस्थाय विधिवत कल्पितं पुनः युयुधे पाण्डुभिः सार्धं कर्णस्याप्याययन बलम 70 धृष्टद्युम्नस ततः कर्णम अविध्यद दशभिः शरैः दरौपदेयास तरिसप्तत्या युयुधानस तु सप्तभिः 71 भीमसेनश चतुःषष्ट्या सहदेवश च पञ्चभिः नकुलस तरिंशता बाणैः शतानीकश च सप्तभिः शिखण्डी दशभिर वीरॊ धर्मराजः शतेन तु 72 एते चान्ये च राजेन्द्र परवीरा जय गृद्धिनः अभ्यर्दयन महेष्वासं सूतपुत्रं महामृधे 73 तान सूतपुत्रॊ विशिखैर दशभिर दशभिः शितैः रथे चारु चरन वीरः पत्यविध्यद अरिंदमः 74 तत्रास्त्र वीर्यं कर्णस्य लाघवं च महात्मनः अपश्याम महाराज तद अद्भुतम इवाभवत 75 न हय आददानं ददृशुः संदधानं च सायकान विमुञ्चन्तं च संरम्भाद ददृशुस ते महारथम 76 दयौर वियद भूर दिशश चाशु परणुन्ना निशितैः शरैः अरुणाभ्रावृताकारं तस्मिन देशे बभौ वियत 77 नृत्यन्न इव हि राधेयश चापहस्तः परतापवान यैर विद्धः परत्यविध्यत तान एकैकं तरिगुणैः शरैः 78 दशभिर दशभिश चैनान पुनर विद्ध्वा ननाद ह साश्वसूत धवजच छत्रास ततस ते विवरं ददुः 79 तान परमृद्नन महेष्वासान राधेयः शरवृष्टिभिः राजानीकम असंबाधं पराविशच छत्रुकर्शनः 80 स रथांस तरिशतान हत्वा चेदीनाम अनिवर्तिनाम राधेयॊ निशितैर बाणैर ततॊ ऽभयार्च्छद युधिष्ठिरम 81 ततस ते पाण्डवा राजञ शिखण्डी च ससात्यकिः राधेयात परिरक्षन्तॊ राजानं पर्यवारयन 82 तथैव तावकाः सर्वे कर्णं दुर्वारणं रणे यत्ताः सेना महेष्वासाः पर्यरक्षन्त सर्वशः 83 नाना वादित्रघॊषाश च परादुरासन विशां पते सिंहनादश च संजज्ञे शूराणाम अनिवर्तिनाम 84 ततः पुनः समाजग्मुर अभीताः कुरुपाण्डवाः युधिष्ठिर मुखाः पार्थाः सूतपुत्र मुखा वयम |
1
[dhṛ] tathā vyūḍheṣv anīkeṣu saṃsakteṣu ca saṃjaya saṃśaptakān kathaṃ pārtho gataḥ karṇaś ca pāṇḍavān 2 etad vistarato yuddhaṃ prabrūhi kuśalo hy asi na hi tṛpyāmi vīrāṇāṃ śṛṇvāno vikramān raṇe 3 [s] tat sthāne samavasthāpya pratyamitraṃ mahābalam avyūhatārjuno vyūhaṃ putrasya tava durnaye 4 tat sādināgakalilaṃ padātirathasaṃkulam dhṛṣṭadyumnamukhair vyūḍham aśobhata mahad balam 5 pārāvata savarṇāśvaś candrāditya samadyutiḥ pārṣataḥ prababhau dhanvī kālo vigrahavān iva 6 pārṣataṃ tv abhi saṃtasthur draupadeyā yuyutsavaḥ sānugā bhīmavapuśaś candraṃ tārāgaṇā iva 7 atha vyūḍheṣv anīkeṣu prekṣya saṃśaptakān raṇe kruddho 'rjuno 'bhidudrāva vyākṣipan gāṇḍivaṃ dhanuḥ 8 atha saṃśaptakāḥ pārtham abhyadhāvan vadhaiṣiṇaḥ vijaye kṛtasaṃkalpā mṛtyuṃ kṛtvā nivartanam 9 tad aśvasaṃgha bahulaṃ mattanāgarathākulam pattimac chūra vīraughair drutam arjunam ādravat 10 sa saṃprahāras tumulas teṣām āsīt kirīṭinā tasyaiva naḥ śruto yādṛṅ nivātakavacaiḥ saha 11 rathān aśvān dhvajān nāgān pattīn rathapatīn api iṣūn dhanūṃṣi khaḍgāṃś ca cakrāṇi ca paraśvadhān 12 sāyudhān udyatān bāhūn udyatāny āyudhāni ca ciccheda dviṣatāṃ pārthaḥ śirāṃsi ca sahasraśaḥ 13 tasmin sainye mahāvarte pātālāvarta saṃnibhe nimagnaṃ taṃ rathaṃ matvā neduḥ saṃśaptakā mudā 14 sa purastād arīn hatvā paścārdhenottareṇa ca dakṣiṇena ca bībhatsuḥ kruddho rudraḥ paśūn iva 15 atha pāñcāla cedīnāṃ sṛñjayānāṃ ca māriṣa tvadīyaiḥ saha saṃgrāma āsīt paramadāruṇaḥ 16 kṛpaś ca kṛtavarmā ca śakuniś cāpi saubalaḥ hṛṣṭasenāḥ susaṃrabdhā rathānīkaiḥ prahāriṇaḥ 17 kosalaiḥ kāśimatsyaiś ca kārūṣaiḥ kekayair api śūrasenaiḥ śūra vīrair yuyudhur yuddhadurmadāḥ 18 teṣām antakaraṃ yuddhaṃ dehapāpma praṇāśanam śūdra viṭ kṣatravīrāṇāṃ dharmyaṃ svargyaṃ yaśaḥ karam 19 duryodhano 'pi sahito bhrātṛbhir bharatarṣabha guptaḥ kurupravīraiś ca madrāṇāṃ ca mahārathaiḥ 20 pāṇḍavaiḥ sahapāñcālaiś cedibhiḥ sātyakena ca yudhyamānaṃ raṇe karṇaṃ kuruvīro 'bhyapālayat 21 karṇo 'pi niśitair bāṇair vinihatya mahācamūm pramṛdya ca rathaśreṣṭhān yudhiṣṭhiram apīḍayat 22 vipatrāyudha dehāsūn kṛtvā śatrūn sahasraśaḥ yuktvā svargayaśobhyāṃ ca svebhyo mudam udāvahat 23 [dhṛ] yat tat praviśya pārthānāṃ senāṃ kurvañ janakṣayam karṇo rājānam abhyarcchat tan mamācakṣva saṃjaya 24 ke ca pravīrāḥ pārthānāṃ yudhi karṇam avārayan kāṃś ca pramathyādhirathir yudhiṣṭhiram apīḍayat 25 [s] dhṛṣṭadyumnamukhān pārthān dṛṣṭvā karṇo vyavasthitān samabhyadhāvat tvaritaḥ pāñcālāñ śatrukarśanaḥ 26 taṃ tūrṇam abhidhāvantaṃ pāñcālā jitakāśinaḥ pratyudyayur mahārāja haṃsā iva mahārṇavam 27 tataḥ śaṅkhasahasrāṇāṃ nisvano hṛdayaṃgamaḥ prādurāsīd ubhayato bherīśabdaś ca dāruṇaḥ 28 nānā vāditranādaś ca dvipāśvarathanisvanaḥ siṃhanādaś ca vīrāṇām abhavad dāruṇas tadā 29 sādri drumārṇavā bhūmiḥ savātāmbudam ambaram sārkendu grahanakṣatrā dyauś ca vyaktaṃ vyaghūrṇata 30 ati bhūtāni taṃ śabdaṃ menire 'ti ca vivyathuḥ yāni cāplava sattvāni prāyas tāni mṛtāni ca 31 atha karṇo bhṛśaṃ kruddhaḥ śīghram astram udīrayan jaghāna pāṇḍavīṃ senām āsurīṃ maghavān iva 32 sa pāṇḍavarathāṃs tūrṇaṃ praviśya visṛjañ śarān prabhadrakāṇāṃ pravarān ahanat sapta saptatim 33 tataḥ supuṅkhair niśitai rathaśreṣṭho ratheṣubhiḥ avadhīt pañcaviṃśatyā pāñcālān pañcaviṃśatim 34 suvarṇapuṅkhair nārācaiḥ parakāyavidāraṇaiḥ cedikān avadhīd vīraḥ śataśo 'tha sahasraśaḥ 35 taṃ tathā samare karma kurvāṇam atimānuṣam parivavrur mahārāja pāñcālānāṃ rathavrajāḥ 36 tataḥ saṃdhāya viśikhān pañca bhārata duḥsahān pāñcālān avadhīt pañca karṇo vaikartano vṛṣaḥ 37 bhānudevaṃ citrasenaṃ senā binduṃ ca bhārata tapanaṃ śūrasenaṃ ca pāñcālān avadhīd raṇe 38 pāñcāleṣu ca śūreṣu vadhyamāneṣu sāyakaiḥ hāhākāro mahān āsīt pāñcālānāṃ mahāhave 39 teṣāṃ saṃkīryamāṇānāṃ hāhākārakṛtā diśaḥ punar eva ca tān karṇo jaghānāśu patatribhiḥ 40 cakrarakṣau tu karṇasya putrau māriṣa durjayau suṣeṇaḥ satyasenaś ca tyaktvā prāṇān ayudhyatām 41 pṛṣṭhagopas tu karṇasya jyeṣṭhaḥ putro mahārathaḥ vṛṣasenaḥ svayaṃ karṇaṃ pṛṣṭhataḥ paryapālayat 42 dhṛṣṭadyumnaḥ sātyakiś ca draupadeyā vṛkodaraḥ janamejayaḥ śikhaṇḍī ca pravīrāś ca prabhadrakāḥ 43 cedikekayapāñcālā yamau matsyāś ca daṃśitāḥ samabhyadhāvan rādheyaṃ jighāṃsantaḥ prahāriṇaḥ 44 ta enaṃ vividhaiḥ śastraiḥ śaradhārābhir eva ca abhyavarṣan vimṛdnantaḥ prāvṛṣīvāmbudā girim 45 pitaraṃ tu parīpsantaḥ karṇa putrāḥ prahāriṇaḥ tvadīyāś cāpare rājan vīrā vīrān avārayan 46 suṣeṇo bhīmasenasya chittvā bhallena kārmukam nārācaiḥ saptabhir viddhvā hṛdi bhīmaṃ nanāda ha 47 athānyad dhanur ādāya sudṛḍhaṃ bhīmavikramaḥ sajyaṃ vṛkodaraḥ kṛtvā suṣeṇasyācchinad dhanuḥ 48 vivyādha cainaṃ navabhiḥ kruddho nṛtyann iveṣubhiḥ karṇaṃ ca tūrṇaṃ vivyādha trisaptatyā śitaiḥ śaraiḥ 49 satyasenaṃ ca daśabhiḥ sāśvasūtadhvajāyudham paśyatāṃ suhṛdāṃ madhye karṇa putram apātayat 50 kṣurapra ṇunnaṃ tat tasya śiraś candranibhānanam śubhadarśanam evāsīn nālabhraṣṭam ivāmbujam 51 hatvā karṇasutaṃ bhīmas tāvakān punar ārdayat kṛpa hārdikyayoś chittvā cāpe tāv apy athārdayat 52 duḥśāsanaṃ tribhir viddhvā śakuniṃ ṣaḍbhir āyasaiḥ ulūkaṃ ca patatriṃ ca cakāra virathāv ubhau 53 he suṣeṇa hato 'sīti bruvann ādatta sāyakam tam asya karṇaś ciccheda tribhiś cainam atāḍayat 54 athānyam api jagrāha suparvāṇaṃ sutejanam suṣeṇāyāsṛjad bhīmas tam apy asyācchinad vṛṣaḥ 55 punaḥ karṇas trisaptatyā bhīmasenaṃ ratheṣubhiḥ putraṃ parīpsan vivyādha krūraṃ krūrair jighāṃsayā 56 suṣeṇas tu dhanur gṛhya bhārasādhanam uttamam nakulaṃ pañcabhir bāṇair bāhvor urasi cārdayat 57 nakulas taṃ tu viṃśatyā viddhvā bhārasahair dṛḍhaiḥ nanāda balavan nādaṃ karṇasya bhayam ādadhat 58 taṃ suṣeṇo mahārāja viddhvā daśabhir āśugaiḥ ciccheda ca dhanuḥ śīghraṃ kṣurapreṇa mahārathaḥ 59 athānyad dhanur ādāya nakulaḥ krodhamūrcchitaḥ suṣeṇaṃ bahubhir bāṇair vārayām āsa saṃyuge 60 sa tu bāṇair diśo rājann ācchādya paravīrahā ājaghne sārathiṃ cāsya suṣeṇaṃ ca tatas tribhiḥ ciccheda cāsya sudṛḍhaṃ dhanur bhallais tribhis tridhā 61 athānyad dhanur ādāya suṣeṇaḥ krodhamūrchitaḥ avidhyan nakulaṃ ṣaṣṭyā sahadevaṃ ca saptabhiḥ 62 tad yuddhaṃ sumahad ghoram āsīd devāsuropamam nighnatāṃ sāyakais tūrṇam anyonyasya vadhaṃ prati 63 sātyakir vṛṣasenasya hatvā sūtaṃ tribhiḥ śaraiḥ dhanuś ciccheda bhallena jaghānāśvāṃś ca saptabhiḥ dhvajam ekeṣuṇonmathya tribhis taṃ hṛdy atāḍayat 64 athāvasannaḥ svarathe muhūrtāt punar utthitaḥ atho jighāṃsuḥ śaineyaṃ khaḍgacarma bhṛd abhyayāt 65 tasya cāplavataḥ śīghraṃ vṛṣasenasya sātyakiḥ varāhakarṇair daśabhir avidhyad asi carmaṇī 66 duḥśāsanas tu taṃ dṛṣṭvā virathaṃ vyāyudhaṃ kṛtam āropya svarathe tūrṇam apovāha rathāntaram 67 athānyaṃ ratham āsthāya vṛṣaseno mahārathaḥ karṇasya yudhi durdharṣaḥ punaḥ pṛṣṭham apālayat 68 duḥśāsanaṃ tu śaineyo navair navabhir āśugaiḥ visūtāśvarathaṃ kṛtvā lalāḍe tribhir ārpayat 69 sa tv anyaṃ ratham āsthāya vidhivat kalpitaṃ punaḥ yuyudhe pāṇḍubhiḥ sārdhaṃ karṇasyāpyāyayan balam 70 dhṛṣṭadyumnas tataḥ karṇam avidhyad daśabhiḥ śaraiḥ draupadeyās trisaptatyā yuyudhānas tu saptabhiḥ 71 bhīmasenaś catuḥṣaṣṭyā sahadevaś ca pañcabhiḥ nakulas triṃśatā bāṇaiḥ śatānīkaś ca saptabhiḥ śikhaṇḍī daśabhir vīro dharmarājaḥ śatena tu 72 ete cānye ca rājendra pravīrā jaya gṛddhinaḥ abhyardayan maheṣvāsaṃ sūtaputraṃ mahāmṛdhe 73 tān sūtaputro viśikhair daśabhir daśabhiḥ śitaiḥ rathe cāru caran vīraḥ patyavidhyad ariṃdamaḥ 74 tatrāstra vīryaṃ karṇasya lāghavaṃ ca mahātmanaḥ apaśyāma mahārāja tad adbhutam ivābhavat 75 na hy ādadānaṃ dadṛśuḥ saṃdadhānaṃ ca sāyakān vimuñcantaṃ ca saṃrambhād dadṛśus te mahāratham 76 dyaur viyad bhūr diśaś cāśu praṇunnā niśitaiḥ śaraiḥ aruṇābhrāvṛtākāraṃ tasmin deśe babhau viyat 77 nṛtyann iva hi rādheyaś cāpahastaḥ pratāpavān yair viddhaḥ pratyavidhyat tān ekaikaṃ triguṇaiḥ śaraiḥ 78 daśabhir daśabhiś cainān punar viddhvā nanāda ha sāśvasūta dhvajac chatrās tatas te vivaraṃ daduḥ 79 tān pramṛdnan maheṣvāsān rādheyaḥ śaravṛṣṭibhiḥ rājānīkam asaṃbādhaṃ prāviśac chatrukarśanaḥ 80 sa rathāṃs triśatān hatvā cedīnām anivartinām rādheyo niśitair bāṇair tato 'bhyārcchad yudhiṣṭhiram 81 tatas te pāṇḍavā rājañ śikhaṇḍī ca sasātyakiḥ rādheyāt parirakṣanto rājānaṃ paryavārayan 82 tathaiva tāvakāḥ sarve karṇaṃ durvāraṇaṃ raṇe yattāḥ senā maheṣvāsāḥ paryarakṣanta sarvaśaḥ 83 nānā vāditraghoṣāś ca prādurāsan viśāṃ pate siṃhanādaś ca saṃjajñe śūrāṇām anivartinām 84 tataḥ punaḥ samājagmur abhītāḥ kurupāṇḍavāḥ yudhiṣṭhira mukhāḥ pārthāḥ sūtaputra mukhā vayam |
The Mahabharata in Sanskrit
Book 8
Chapter 33
|
1
[स] विदार्य कर्णस तां सेनां धर्मराजम उपाद्रवत रथहस्त्यश्वपत्तीनां सहस्रैः परिवारितः 2 नानायुध सहस्राणि परेषितान्य अरिभिर वृषः छित्त्वा बाणशतैर उग्रैस तान विध्यद असंभ्रमः 3 निचकर्त शिरांस्य एषां बाहून ऊरूंश च सर्वशः ते हता वसुधां पेतुर भग्नाश चान्ये विदुद्रुवुः 4 दरविडान्ध्र निषादास तु पुनः सात्यकिचॊदिताः अभ्यर्दयञ जिघांसन्तः पत्तयः कर्णम आहवे 5 ते विबाहु शिरस तराणाः परहताः कर्ण सायकैः पेतुः पृथिव्यां युगपच छिन्नं शालवनं यथा 6 एवं यॊधशतान्य आजौ सहस्राण्य अयुतानि च हतानीयुर महीं देहैर यशसापूरयन दिशः 7 अथ वैकर्तनं कर्णं रणे करुद्धम इवान्तकम रुरुधुः पाण्डुपाञ्चाला वयाधिं मन्त्रौषधैर इव 8 स तान परमृद्याभ्यपतत पुनर एव युधिष्ठिरम मन्त्रौषधिक्रियातीतॊ वयाधिर इत्य उल्बणॊ यथा 9 स राजगृद्धिभी रुद्धः पाण्डुपाञ्चाल केकयैः नाशकत तान अतिक्रान्तुं मृत्युर बरह्मविदॊ यथा 10 ततॊ युधिष्ठिरः कर्णम अदूरस्थं निवारितम अब्रवीत परवीरघ्नः करॊधसंरक्तलॊचनः 11 कर्ण कर्ण वृथा दृष्टे सूतपुत्र वचः शृणु सदा सपर्धसि संग्रामे फल्गुनेन यशस्विना तथास्मान बाधसे नित्यं धार्तराष्ट्र मते सथितः 12 यद बलं यच च ते वीर्यं परद्वेषॊ यश च पाण्डुषु तत सर्वं दर्शयस्वाद्य पौरुषं महद आस्थितः युद्धश्रद्धां स ते ऽदयाहं विनेष्यामि महाहवे 13 एवम उक्त्वा महाराज कर्णं पाण्डुसुतस तदा सुवर्णपुङ्खैर दशभिर विव्याधायॊ मयैः शितैः 14 तं सूतपुत्रॊ नवभिः परत्यविध्यद अरिंदमः वत्सदन्तैर महेष्वासः परहसन्न इव भारत 15 ततः कषुराभ्यां पाञ्चाल्यौ चक्ररक्षौ महात्मनः जघान समरे शूरः शरैः संनतपर्वभिः 16 ताव उभौ धर्मराजस्य परवीरौ परिपार्श्वतः रथाभ्याशे चकाशेते चन्द्रस्येव पुनर वसू 17 युधिष्ठिरः पुनः कर्णम अविध्यत तरिंशता शरैः सुषेणं सत्यसेनं च तरिभिस तरिभिर अताडयत 18 शल्यं नवत्या विव्याध तरिसप्तत्या च सूतजम तांश चास्य गॊप्तॄन विव्याध तरिभिस तरिभिर अजिह्मगैः 19 ततः परहस्याधिरथिर विधुन्वानः स कार्मुकम भित्त्वा भल्लेन राजानं विद्ध्वा षष्ट्यानदन मुदा 20 ततः परवीराः पाण्डूनाम अभ्यधावन युधिष्ठिरम सूतपुत्रात परीप्सन्तः कर्णम अभ्यर्दयञ शरैः 21 सात्यकिश चेकितानश च युयुत्सुः पाण्ड्य एव च धृष्टद्युम्नः शिखण्डी च दरौपदेयाः परभद्रकाः 22 यमौ च भीमसेनश च शिशुपालस्य चात्मजः कारूषा मत्स्यशेषाश च केकयाः काशिकॊसलाः एते च तवरिता वीरा वसुषेणम अवारयन 23 जनमेजयश च पाञ्चाल्यः कर्णं विव्याध सायकैः वराहकर्णैर नाराचैर नालीकैर निशितैः शरैः वत्सदन्तैर विपाठैश च कषुरप्रैश चटका मुखैः 24 नानाप्रहरणैश चॊग्रै रथहस्त्यश्वसादिनः सर्वतॊ ऽभयाद्रवन कर्णं परिवार्य जिघांसया 25 स पाण्डवानां परवरैः सर्वतः समभिद्रुतः उदैरयद बराह्मम अस्त्रं शरैः संपूरयन दिशः 26 तथा शरमहाज्वालॊ वीर्यॊष्मा कर्ण पावकः निर्दहन पाण्डव वनं चारु पर्यचरद रणे 27 स संवार्य महास्त्राणि महेष्वासॊ महात्मनाम परहस्य पुरुषेन्द्रस्य शरैश चिच्छेद कार्मुकम 28 तथ संधाय नवतिं निमेषान नतपर्वणाम बिभेद कवचं राज्ञॊ रणे कर्णः शितैः शरैः 29 तद वर्म हेमविकृतं रराज निपतत तदा सविद्युदभ्रं सवितुः शिष्टं वातहतं यथा 30 तद अङ्गं पुरुषेन्द्रस्य भरष्टवर्म वयरॊचत रत्नैर अलंकृतं दिव्यैर वयभ्रं निशि यथा नभः 31 स विवर्मा शरैः पार्थॊ रुधिरेण समुक्षितः करुद्धः सर्वायसीं शक्तिं चिक्षेपाधिरथिं परति 32 तां जवलन्तीम इवाकाशे शरैश चिच्छेद सप्तभिः सा छिन्ना भूमिम अपतन महेष्वासस्य सायकैः 33 ततॊ बाह्वॊर ललाटे च हृदि चैव युधिष्ठिरः चतुर्भिस तॊमरैः कर्णं ताडयित्वा मुदानदत 34 उद्भिन्न रुधिरः कर्णः करुद्धः सर्प इव शवसन धवजं चिच्छेद भल्लेन तरिभिर विव्याध पाण्डवम इषुधी चास्य चिच्छेद रथं च तिलशॊ ऽचछिनत 35 एवं पार्थॊ वयपायात स निहतप्रार्ष्टि सारथिः अशक्नुवन परमुखतः सथातुं कर्णस्य दुर्मनाः 36 तम अभिद्रुत्य राधेयः सकन्धं संस्पृश्य पाणिना अब्रवीत परहसन राजन कुत्सयन्न इव पाण्डवम 37 कथं नाम कुले जातः कषत्रधर्मे वयवस्थितः परजह्यात समरे शत्रून पराणान रक्षन महाहवे 38 न भवान कषत्रधर्मेषु कुशलॊ ऽसीति मे मतिः बराह्मे बले भवान युक्तः सवाध्याये यज्ञकर्मणि 39 मां सम युध्यस्व कौन्तेय मा च वीरान समासदः मा चैनान अप्रियं बरूहि मा च वरज महारणम 40 एवम उक्त्वा ततः पार्थं विसृज्य च महाबलः नयहनत पाण्डवीं सेनां वज्रहस्त इवासुरीम ततः परायाद दरुतं राजन वरीडन्न इव जनेश्वरः 41 अथ परयान्तं राजानम अन्वयुस ते तदाच्युतम चेदिपाण्डव पाञ्चालाः सात्यकिश च महारथ दरौपदेयास तथा शूरा माद्रीपुत्रौ च पाण्डवौ 42 ततॊ युधिष्ठिरानीकं दृष्ट्वा कर्णः पराङ्मुखम कुरुभिः सहितॊ वीरैः पृष्ठगैः पृष्ठम अन्वयात 43 शङ्खभेरी निनादैश च कार्मुकाणां च निस्वनैः बभूव धार्तराष्ट्राणां सिंहनाद रवस तदा 44 युधिष्ठिरस तु कौरव्य रथम आरुह्य सत्वरः शरुतकीर्तेर महाराज दृष्टवान कर्ण विक्रमम 45 काल्यमानं बलं दृष्ट्वा धर्मराजॊ युधिष्ठिरः तान यॊधान अब्रवीत करुद्धॊ हतैनं वै सहस्रशः 46 ततॊ राज्ञाभ्यनुज्ञाताः पाण्डवानां महारथाः भीमसेनमुखाः सर्वे पुत्रांस ते परत्युपाद्रवन 47 अभवत तुमुलः शब्दॊ यॊधानां तत्र भारत हस्त्यश्वरथपत्तीनां शस्त्राणां च ततस ततः 48 उत्तिष्ठत परहरत परैताभिपततेति च इति बरुवाणा अन्यॊन्यं जघ्नुर यॊधा रणाजिरे 49 अभ्रच छायेव तत्रासीच छरवृष्टिभिर अम्बरे समावृत्तैर नरवरैर निघ्नद्भिर इतरेतरम 50 विपताका धवजच छत्रा वयश्व सूतायुधा रणे वयङ्गाङ्गावयवाः पेतुः कषितौ कषीणा हतेश्वराः 51 परवराणीव शैलानां शिखराणि दविपॊत्तमाः सारॊहा निहताः पेतुर वज्रभिन्ना इवाद्रयः 52 छिन्नभिन्न विपर्यस्तैर वर्मालंकार विग्रहैः सारॊहास तुरगाः पेतुर हतवीराः सहस्रशः 53 विप्र विद्धायुधाङ्गाश च दविरदाश्वरथैर हताः परतिवीरैश च संमर्दे पत्तिसंघाः सहस्रशः 54 विशालायतताम्राक्षैः पद्मेन्दु सदृशाननैः शिरॊभिर युद्धशौण्डानां सर्वतः संस्तृता मही 55 तथा तु वितते वयॊम्नि निस्वनं शुश्रुवुर जनाः विमानैर अप्सरः संघैर गीतवादित्रनिस्वनैः 56 हतान कृत्तान अभिमुखान वीरान वीरैः सहस्रशः आरॊप्यारॊप्य गच्छन्ति विमानेष्व अप्सरॊगणाः 57 तद दृष्ट्वा महद आश्चर्यं परत्यक्षं सवर्गलिप्सया परहृष्टमनसः शूराः कषिप्रं जग्मुः परस्परम 58 रथिनॊ रथिभिः सार्धं चित्रं युयुधुर आहवे पत्तयः पत्तिभिर नागा नागैः सह हयैर हयाः 59 एवं परवृत्ते संग्रामे गजवाजिजनक्षये सैन्ये च रजसा वयाप्ते सवे सवाञ जघ्नुः परे परान 60 कचाकचि बभौ युद्धं दन्ता दन्ति नखा नखि मुष्टियुद्धं नियुद्धं च देहपाप्म विनाशनम 61 तथा वर्तति संग्रामे गजवाजिजनक्षये नराश्वगजदेहेभ्यः परसृता लॊहितापगा नराश्वगजदेहान सा वयुवाह पतितान बहून 62 नराश्वगजसंबाधे नराश्वगजसादिनाम लॊहितॊदा महाघॊरा नदी लॊहितकर्दमा नराश्वगजदेहान सा वहन्ती भीरु भीषणी 63 तस्याः परमपारं च वरजन्ति विजयैषिणः गाधेन च पलवन्तश च निमज्ज्यॊन्मज्ज्य चापरे 64 ते तु लॊहितदिग्धाङ्गा रक्तवर्मायुधाम्बराः सस्नुस तस्याम पपुश चासृन मम्लुश च भरतर्षभ 65 रथान अश्वान नरान नागान आयुधाभरणानि च वसनान्य अथ वर्माणि हन्यमानान हतान अपि भूमिं खं दयां दिशश चैव परायः पश्याम लॊहितम 66 लॊहितस्य तु गन्धेन सपर्शेन च रसेन च रूपेण चातिरिक्तेन शब्देन च विसर्पता विषादः सुमहान आसीत परायः सैन्यस्य भारत 67 तत तु विप्रहतं सैन्यं भीमसेनमुखैस तव भूयः समाद्रवन वीराः सात्यकिप्रमुखा रथाः 68 तेषाम आपततां वेगम अविषह्य महात्मनाम पुत्राणां ते महत सैन्यम आसीद राजन पराङ्मुखम 69 तत परकीर्णरथाश्वेभं नरवाजि समाकुलम विध्वस्तचर्म कवचं परविद्धायुध कार्मुकम 70 वयद्रवत तावकं सैन्यं लॊड्यमानं समन्ततः सिंहार्दितं महारण्ये यथा गजकुलं तथा |
1
[s] vidārya karṇas tāṃ senāṃ dharmarājam upādravat rathahastyaśvapattīnāṃ sahasraiḥ parivāritaḥ 2 nānāyudha sahasrāṇi preṣitāny aribhir vṛṣaḥ chittvā bāṇaśatair ugrais tāna vidhyad asaṃbhramaḥ 3 nicakarta śirāṃsy eṣāṃ bāhūn ūrūṃś ca sarvaśaḥ te hatā vasudhāṃ petur bhagnāś cānye vidudruvuḥ 4 draviḍāndhra niṣādās tu punaḥ sātyakicoditāḥ abhyardayañ jighāṃsantaḥ pattayaḥ karṇam āhave 5 te vibāhu śiras trāṇāḥ prahatāḥ karṇa sāyakaiḥ petuḥ pṛthivyāṃ yugapac chinnaṃ śālavanaṃ yathā 6 evaṃ yodhaśatāny ājau sahasrāṇy ayutāni ca hatānīyur mahīṃ dehair yaśasāpūrayan diśaḥ 7 atha vaikartanaṃ karṇaṃ raṇe kruddham ivāntakam rurudhuḥ pāṇḍupāñcālā vyādhiṃ mantrauṣadhair iva 8 sa tān pramṛdyābhyapatat punar eva yudhiṣṭhiram mantrauṣadhikriyātīto vyādhir ity ulbaṇo yathā 9 sa rājagṛddhibhī ruddhaḥ pāṇḍupāñcāla kekayaiḥ nāśakat tān atikrāntuṃ mṛtyur brahmavido yathā 10 tato yudhiṣṭhiraḥ karṇam adūrasthaṃ nivāritam abravīt paravīraghnaḥ krodhasaṃraktalocanaḥ 11 karṇa karṇa vṛthā dṛṣṭe sūtaputra vacaḥ śṛṇu sadā spardhasi saṃgrāme phalgunena yaśasvinā tathāsmān bādhase nityaṃ dhārtarāṣṭra mate sthitaḥ 12 yad balaṃ yac ca te vīryaṃ pradveṣo yaś ca pāṇḍuṣu tat sarvaṃ darśayasvādya pauruṣaṃ mahad āsthitaḥ yuddhaśraddhāṃ sa te 'dyāhaṃ vineṣyāmi mahāhave 13 evam uktvā mahārāja karṇaṃ pāṇḍusutas tadā suvarṇapuṅkhair daśabhir vivyādhāyo mayaiḥ śitaiḥ 14 taṃ sūtaputro navabhiḥ pratyavidhyad ariṃdamaḥ vatsadantair maheṣvāsaḥ prahasann iva bhārata 15 tataḥ kṣurābhyāṃ pāñcālyau cakrarakṣau mahātmanaḥ jaghāna samare śūraḥ śaraiḥ saṃnataparvabhiḥ 16 tāv ubhau dharmarājasya pravīrau paripārśvataḥ rathābhyāśe cakāśete candrasyeva punar vasū 17 yudhiṣṭhiraḥ punaḥ karṇam avidhyat triṃśatā śaraiḥ suṣeṇaṃ satyasenaṃ ca tribhis tribhir atāḍayat 18 śalyaṃ navatyā vivyādha trisaptatyā ca sūtajam tāṃś cāsya goptṝn vivyādha tribhis tribhir ajihmagaiḥ 19 tataḥ prahasyādhirathir vidhunvānaḥ sa kārmukam bhittvā bhallena rājānaṃ viddhvā ṣaṣṭyānadan mudā 20 tataḥ pravīrāḥ pāṇḍūnām abhyadhāvan yudhiṣṭhiram sūtaputrāt parīpsantaḥ karṇam abhyardayañ śaraiḥ 21 sātyakiś cekitānaś ca yuyutsuḥ pāṇḍya eva ca dhṛṣṭadyumnaḥ śikhaṇḍī ca draupadeyāḥ prabhadrakāḥ 22 yamau ca bhīmasenaś ca śiśupālasya cātmajaḥ kārūṣā matsyaśeṣāś ca kekayāḥ kāśikosalāḥ ete ca tvaritā vīrā vasuṣeṇam avārayan 23 janamejayaś ca pāñcālyaḥ karṇaṃ vivyādha sāyakaiḥ varāhakarṇair nārācair nālīkair niśitaiḥ śaraiḥ vatsadantair vipāṭhaiś ca kṣurapraiś caṭakā mukhaiḥ 24 nānāpraharaṇaiś cograi rathahastyaśvasādinaḥ sarvato 'bhyādravan karṇaṃ parivārya jighāṃsayā 25 sa pāṇḍavānāṃ pravaraiḥ sarvataḥ samabhidrutaḥ udairayad brāhmam astraṃ śaraiḥ saṃpūrayan diśaḥ 26 tathā śaramahājvālo vīryoṣmā karṇa pāvakaḥ nirdahan pāṇḍava vanaṃ cāru paryacarad raṇe 27 sa saṃvārya mahāstrāṇi maheṣvāso mahātmanām prahasya puruṣendrasya śaraiś ciccheda kārmukam 28 tatha saṃdhāya navatiṃ nimeṣān nataparvaṇām bibheda kavacaṃ rājño raṇe karṇaḥ śitaiḥ śaraiḥ 29 tad varma hemavikṛtaṃ rarāja nipatat tadā savidyudabhraṃ savituḥ śiṣṭaṃ vātahataṃ yathā 30 tad aṅgaṃ puruṣendrasya bhraṣṭavarma vyarocata ratnair alaṃkṛtaṃ divyair vyabhraṃ niśi yathā nabhaḥ 31 sa vivarmā śaraiḥ pārtho rudhireṇa samukṣitaḥ kruddhaḥ sarvāyasīṃ śaktiṃ cikṣepādhirathiṃ prati 32 tāṃ jvalantīm ivākāśe śaraiś ciccheda saptabhiḥ sā chinnā bhūmim apatan maheṣvāsasya sāyakaiḥ 33 tato bāhvor lalāṭe ca hṛdi caiva yudhiṣṭhiraḥ caturbhis tomaraiḥ karṇaṃ tāḍayitvā mudānadat 34 udbhinna rudhiraḥ karṇaḥ kruddhaḥ sarpa iva śvasan dhvajaṃ ciccheda bhallena tribhir vivyādha pāṇḍavam iṣudhī cāsya ciccheda rathaṃ ca tilaśo 'cchinat 35 evaṃ pārtho vyapāyāt sa nihataprārṣṭi sārathiḥ aśaknuvan pramukhataḥ sthātuṃ karṇasya durmanāḥ 36 tam abhidrutya rādheyaḥ skandhaṃ saṃspṛśya pāṇinā abravīt prahasan rājan kutsayann iva pāṇḍavam 37 kathaṃ nāma kule jātaḥ kṣatradharme vyavasthitaḥ prajahyāt samare śatrūn prāṇān rakṣan mahāhave 38 na bhavān kṣatradharmeṣu kuśalo 'sīti me matiḥ brāhme bale bhavān yuktaḥ svādhyāye yajñakarmaṇi 39 māṃ sma yudhyasva kaunteya mā ca vīrān samāsadaḥ mā cainān apriyaṃ brūhi mā ca vraja mahāraṇam 40 evam uktvā tataḥ pārthaṃ visṛjya ca mahābalaḥ nyahanat pāṇḍavīṃ senāṃ vajrahasta ivāsurīm tataḥ prāyād drutaṃ rājan vrīḍann iva janeśvaraḥ 41 atha prayāntaṃ rājānam anvayus te tadācyutam cedipāṇḍava pāñcālāḥ sātyakiś ca mahāratha draupadeyās tathā śūrā mādrīputrau ca pāṇḍavau 42 tato yudhiṣṭhirānīkaṃ dṛṣṭvā karṇaḥ parāṅmukham kurubhiḥ sahito vīraiḥ pṛṣṭhagaiḥ pṛṣṭham anvayāt 43 śaṅkhabherī ninādaiś ca kārmukāṇāṃ ca nisvanaiḥ babhūva dhārtarāṣṭrāṇāṃ siṃhanāda ravas tadā 44 yudhiṣṭhiras tu kauravya ratham āruhya satvaraḥ śrutakīrter mahārāja dṛṣṭavān karṇa vikramam 45 kālyamānaṃ balaṃ dṛṣṭvā dharmarājo yudhiṣṭhiraḥ tān yodhān abravīt kruddho hatainaṃ vai sahasraśaḥ 46 tato rājñābhyanujñātāḥ pāṇḍavānāṃ mahārathāḥ bhīmasenamukhāḥ sarve putrāṃs te pratyupādravan 47 abhavat tumulaḥ śabdo yodhānāṃ tatra bhārata hastyaśvarathapattīnāṃ śastrāṇāṃ ca tatas tataḥ 48 uttiṣṭhata praharata praitābhipatateti ca iti bruvāṇā anyonyaṃ jaghnur yodhā raṇājire 49 abhrac chāyeva tatrāsīc charavṛṣṭibhir ambare samāvṛttair naravarair nighnadbhir itaretaram 50 vipatākā dhvajac chatrā vyaśva sūtāyudhā raṇe vyaṅgāṅgāvayavāḥ petuḥ kṣitau kṣīṇā hateśvarāḥ 51 pravarāṇīva śailānāṃ śikharāṇi dvipottamāḥ sārohā nihatāḥ petur vajrabhinnā ivādrayaḥ 52 chinnabhinna viparyastair varmālaṃkāra vigrahaiḥ sārohās turagāḥ petur hatavīrāḥ sahasraśaḥ 53 vipra viddhāyudhāṅgāś ca dviradāśvarathair hatāḥ prativīraiś ca saṃmarde pattisaṃghāḥ sahasraśaḥ 54 viśālāyatatāmrākṣaiḥ padmendu sadṛśānanaiḥ śirobhir yuddhaśauṇḍānāṃ sarvataḥ saṃstṛtā mahī 55 tathā tu vitate vyomni nisvanaṃ śuśruvur janāḥ vimānair apsaraḥ saṃghair gītavāditranisvanaiḥ 56 hatān kṛttān abhimukhān vīrān vīraiḥ sahasraśaḥ āropyāropya gacchanti vimāneṣv apsarogaṇāḥ 57 tad dṛṣṭvā mahad āścaryaṃ pratyakṣaṃ svargalipsayā prahṛṣṭamanasaḥ śūrāḥ kṣipraṃ jagmuḥ parasparam 58 rathino rathibhiḥ sārdhaṃ citraṃ yuyudhur āhave pattayaḥ pattibhir nāgā nāgaiḥ saha hayair hayāḥ 59 evaṃ pravṛtte saṃgrāme gajavājijanakṣaye sainye ca rajasā vyāpte sve svāñ jaghnuḥ pare parān 60 kacākaci babhau yuddhaṃ dantā danti nakhā nakhi muṣṭiyuddhaṃ niyuddhaṃ ca dehapāpma vināśanam 61 tathā vartati saṃgrāme gajavājijanakṣaye narāśvagajadehebhyaḥ prasṛtā lohitāpagā narāśvagajadehān sā vyuvāha patitān bahūn 62 narāśvagajasaṃbādhe narāśvagajasādinām lohitodā mahāghorā nadī lohitakardamā narāśvagajadehān sā vahantī bhīru bhīṣaṇī 63 tasyāḥ paramapāraṃ ca vrajanti vijayaiṣiṇaḥ gādhena ca plavantaś ca nimajjyonmajjya cāpare 64 te tu lohitadigdhāṅgā raktavarmāyudhāmbarāḥ sasnus tasyām papuś cāsṛn mamluś ca bharatarṣabha 65 rathān aśvān narān nāgān āyudhābharaṇāni ca vasanāny atha varmāṇi hanyamānān hatān api bhūmiṃ khaṃ dyāṃ diśaś caiva prāyaḥ paśyāma lohitam 66 lohitasya tu gandhena sparśena ca rasena ca rūpeṇa cātiriktena śabdena ca visarpatā viṣādaḥ sumahān āsīt prāyaḥ sainyasya bhārata 67 tat tu viprahataṃ sainyaṃ bhīmasenamukhais tava bhūyaḥ samādravan vīrāḥ sātyakipramukhā rathāḥ 68 teṣām āpatatāṃ vegam aviṣahya mahātmanām putrāṇāṃ te mahat sainyam āsīd rājan parāṅmukham 69 tat prakīrṇarathāśvebhaṃ naravāji samākulam vidhvastacarma kavacaṃ praviddhāyudha kārmukam 70 vyadravat tāvakaṃ sainyaṃ loḍyamānaṃ samantataḥ siṃhārditaṃ mahāraṇye yathā gajakulaṃ tathā |
The Mahabharata in Sanskrit
Book 8
Chapter 34
|
1
[स] तान अभिद्रवतॊ दृष्ट्वा पाण्डवांस तावकं बलम करॊशतस तव पुत्रस्य न सम राजन नयवर्तत 2 ततः पक्षात परपक्षाच च परपक्षैश चापि दक्षिणात उदस्त शस्त्राः कुरवॊ भीमम अभ्यद्रवन रणे 3 कर्णॊ ऽपि दृष्ट्वा दरवतॊ धार्तराष्ट्रान पराङ्मुखान हंसवर्णान हयाग्र्यांस तान परैषीद यत्र वृकॊदरः 4 ते परेषिता महाराज शल्येनाहव शॊभिना भीमसेनरथं पराप्य समसज्जन्त वाजिनः 5 दृष्ट्वा कर्णं समायान्तं भीमः करॊधसमन्वितः मतिं दध्रे विनाशाय कर्णस्य भरतर्षभ 6 सॊ ऽबरवीत सात्यकिं वीरं धृष्टद्युम्नं च पार्षतम एनं रक्षत राजानं धर्मात्मानं युधिष्ठिरम संशयान महतॊ मुक्तं कथं चित परेक्षितॊ मम 7 अग्रतॊ मे कृतॊ राजा छिन्नसर्वपरिच्छदः दुर्यॊधनस्य परीत्यर्थं राधेयेन दुरात्मना 8 अन्तम अद्य करिष्यामि तस्य दुःखस्य पार्षत हन्ता वास्मि रणे कर्णं स वा मां निहनिष्यति संग्रामेण सुघॊरेण सत्यम एतद बरवीमि वः 9 राजानम अद्य भवतां नयासभूतं ददामि वै अस्य संरक्षणे सर्वे यतध्वं विगतज्वराः 10 एवम उक्त्वा महाबाहुः परायाद आधिरथिं परति सिंहनादेन महता सर्वाः संनादयन दिशः 11 दृष्ट्वा तवरितम आयान्तं भीमं युद्धाभिनन्दिनम सूतपुत्रम अथॊवाच मद्राणाम ईश्वरॊ विभुः 12 पश्य कर्ण महाबाहुं करुद्धं पाण्डवनन्दनम दीर्घकालार्जितं करॊधं मॊक्तु कामं तवयि धरुवम 13 ईदृशं नास्य रूपं मे दृष्टपूर्वं कदा चन अभिमन्यौ हते कर्णे राक्षसे वा घटॊत्कचे 14 तरैलॊक्यस्य समस्तस्य शक्तः करुद्धॊ निवारणे बिभर्ति यादृशं रूपं कालाग्निसदृशं शुभम 15 इति बरुवति राधेयं मद्राणाम ईश्वरे नृप अभ्यवर्तत वै कर्णं करॊधदीप्तॊ वृकॊदरः 16 तथागतं तु संप्रेक्ष्य भीमं युद्धाभिनन्दिनम अब्रवीद वचनं शल्यं राधेयः परहसन्न इव 17 यद उक्तं वचनं मे ऽदय तवया मद्रजनेश्वर भीमसेनं परति विभॊ तत सत्यं नात्र संशयः 18 एष शूरश च वीरश च करॊधनश च वृकॊदरः निरपेक्षः शरीरे च पराणतश च बलाधिकः 19 अज्ञातवासं वसता विराटनगरे तदा दरौपद्याः परियकामेन केवलं बाहुसंश्रयात गूढभावं समाश्रित्य कीचकः सगणॊ हतः 20 सॊ ऽदय संग्रामशिरसि सन्नद्धः करॊधमूर्च्छितः किंकरॊद्यत दण्डेन मृत्युनापि वरजेद रणम 21 चिरकालाभिलषितॊ ममायं तु मनॊरथः अर्जुनं समरे हन्यां मां वा हन्याद धनंजयः स मे कदा चिद अद्यैव भवेद भीम समागमात 22 निहते भीम सेते तु यदि वा विरथी कृते अभियास्यति मां पार्थस तन मे साधु भविष्यति अत्र यन मन्यसे पराप्तं तच छीघ्रं संप्रधारय 23 एतच छरुत्वा तु वचनं राधेयस्य महात्मनः उवाच वचनं शल्यः सूतपुत्रं तथागतम 24 अभियासि महाबाहॊ भीमसेनं महाबलम निरस्य भीमसेनं तु ततः पराप्स्यसि फल्गुनम 25 यस ते कामॊ ऽभिलषितश चिरात परभृति हृद्गतः स वै संपत्स्यते कर्ण सत्यम एतद बरवीमि ते 26 एवम उक्ते ततः कर्णः शल्यं पुनर अभाषत हन्ताहम अर्जुनं संख्ये मां वा हन्ता धनंजयः युद्धे मनः समाधाय याहि याहीत्य अचॊदयत 27 ततः परायाद रथेनाशु शल्यस तत्र विशां पते यत्र भीमॊ महेष्वासॊ वयद्रावयत वाहिनीम 28 ततस तूर्यनिनादश च भेरीणां च महास्वनः उदतिष्ठत राजेन्द्र कर्ण भीम समागमे 29 भीमसेनॊ ऽथ संक्रुद्धस तव सैन्यं दुरासदम नाराचैर विमलैस तीक्ष्णैर दिशः पराद्रावयद बली 30 स संनिपातस तुमुलॊ भीमरूपॊ विशां पते आसीद रौद्रॊ महाराज कर्ण पाण्डवयॊर मृधे ततॊ मुहूर्ताद राजेन्द्र पाण्डवः कर्णम आद्रवत 31 तम आपतन्तं संप्रेक्ष्य कर्णॊ वैकर्तनॊ वृषः आजघानॊरसि करुद्धॊ नाराचेन सतनान्तरे पुनश चैनम अमेयात्मा शरवर्षैर अवाकिरत 32 स विद्धः सूतपुत्रेण छादयाम आस पत्रिभिः विव्याध निशितैः कर्ण नवभिर नतपर्वभिः 33 तस्य कर्णॊ धनुर्मध्ये दविधा चिच्छेद पत्रिणा अथ तं छिन्नधन्वानम अभ्यविध्यत सतनान्तरे नाराचेन सुतीक्ष्णेन सर्वावरणभेदिना 34 सॊ ऽनयत कार्मुकम आदाय सूतपुत्रं वृकॊदरः राजन मर्मसु मर्मज्ञॊ विद्ध्वा सुनिशितैः शरैः ननाद बलवन नादं कम्पयन्न इव रॊदसी 35 तं कर्णः पञ्चविंशत्या नाराचानां समार्दयत मदॊत्कटं वने दृप्तम उल्काभिर इव कुञ्जरम 36 ततः सायकभिन्नाङ्गः पाण्डवः करॊधमूर्च्छितः संरम्भामर्ष ताम्राक्षः सूतपुत्र वधेच्छया 37 स कार्मुके महावेगं भारसाधनम उत्तमम गिरीणाम अपि भेत्तारं सायकं समयॊजयत 38 वीकृष्य बलवच चापम आ कर्णाद अतिमारुतिः तं मुमॊच महेष्वासः करुद्धः कर्ण जिघांसया 39 स विसृष्टॊ बलवता बाणॊ वज्राशनिस्वनः अदारयद रणे कर्णं वज्रवेग इवाचलम 40 स भीमसेनाभिहतॊ सूतपुत्रः कुरूद्वहा निषसाद रथॊपस्थे विसंज्ञः पृतना पतिः 41 ततॊ मद्राधिपॊ दृष्ट्वा विसंज्ञं सूतनन्दनम अपॊवाह रथेनाजौ कर्णम आहवशॊभिनम 42 ततः पराजिते कर्णे धार्तराष्ट्रीं महाचमूम वयद्रावयद भीमसेनॊ यथेन्द्रॊ दानवीं चमूम |
1
[s] tān abhidravato dṛṣṭvā pāṇḍavāṃs tāvakaṃ balam krośatas tava putrasya na sma rājan nyavartata 2 tataḥ pakṣāt prapakṣāc ca prapakṣaiś cāpi dakṣiṇāt udasta śastrāḥ kuravo bhīmam abhyadravan raṇe 3 karṇo 'pi dṛṣṭvā dravato dhārtarāṣṭrān parāṅmukhān haṃsavarṇān hayāgryāṃs tān praiṣīd yatra vṛkodaraḥ 4 te preṣitā mahārāja śalyenāhava śobhinā bhīmasenarathaṃ prāpya samasajjanta vājinaḥ 5 dṛṣṭvā karṇaṃ samāyāntaṃ bhīmaḥ krodhasamanvitaḥ matiṃ dadhre vināśāya karṇasya bharatarṣabha 6 so 'bravīt sātyakiṃ vīraṃ dhṛṣṭadyumnaṃ ca pārṣatam enaṃ rakṣata rājānaṃ dharmātmānaṃ yudhiṣṭhiram saṃśayān mahato muktaṃ kathaṃ cit prekṣito mama 7 agrato me kṛto rājā chinnasarvaparicchadaḥ duryodhanasya prītyarthaṃ rādheyena durātmanā 8 antam adya kariṣyāmi tasya duḥkhasya pārṣata hantā vāsmi raṇe karṇaṃ sa vā māṃ nihaniṣyati saṃgrāmeṇa sughoreṇa satyam etad bravīmi vaḥ 9 rājānam adya bhavatāṃ nyāsabhūtaṃ dadāmi vai asya saṃrakṣaṇe sarve yatadhvaṃ vigatajvarāḥ 10 evam uktvā mahābāhuḥ prāyād ādhirathiṃ prati siṃhanādena mahatā sarvāḥ saṃnādayan diśaḥ 11 dṛṣṭvā tvaritam āyāntaṃ bhīmaṃ yuddhābhinandinam sūtaputram athovāca madrāṇām īśvaro vibhuḥ 12 paśya karṇa mahābāhuṃ kruddhaṃ pāṇḍavanandanam dīrghakālārjitaṃ krodhaṃ moktu kāmaṃ tvayi dhruvam 13 īdṛśaṃ nāsya rūpaṃ me dṛṣṭapūrvaṃ kadā cana abhimanyau hate karṇe rākṣase vā ghaṭotkace 14 trailokyasya samastasya śaktaḥ kruddho nivāraṇe bibharti yādṛśaṃ rūpaṃ kālāgnisadṛśaṃ śubham 15 iti bruvati rādheyaṃ madrāṇām īśvare nṛpa abhyavartata vai karṇaṃ krodhadīpto vṛkodaraḥ 16 tathāgataṃ tu saṃprekṣya bhīmaṃ yuddhābhinandinam abravīd vacanaṃ śalyaṃ rādheyaḥ prahasann iva 17 yad uktaṃ vacanaṃ me 'dya tvayā madrajaneśvara bhīmasenaṃ prati vibho tat satyaṃ nātra saṃśayaḥ 18 eṣa śūraś ca vīraś ca krodhanaś ca vṛkodaraḥ nirapekṣaḥ śarīre ca prāṇataś ca balādhikaḥ 19 ajñātavāsaṃ vasatā virāṭanagare tadā draupadyāḥ priyakāmena kevalaṃ bāhusaṃśrayāt gūḍhabhāvaṃ samāśritya kīcakaḥ sagaṇo hataḥ 20 so 'dya saṃgrāmaśirasi sannaddhaḥ krodhamūrcchitaḥ kiṃkarodyata daṇḍena mṛtyunāpi vrajed raṇam 21 cirakālābhilaṣito mamāyaṃ tu manorathaḥ arjunaṃ samare hanyāṃ māṃ vā hanyād dhanaṃjayaḥ sa me kadā cid adyaiva bhaved bhīma samāgamāt 22 nihate bhīma sete tu yadi vā virathī kṛte abhiyāsyati māṃ pārthas tan me sādhu bhaviṣyati atra yan manyase prāptaṃ tac chīghraṃ saṃpradhāraya 23 etac chrutvā tu vacanaṃ rādheyasya mahātmanaḥ uvāca vacanaṃ śalyaḥ sūtaputraṃ tathāgatam 24 abhiyāsi mahābāho bhīmasenaṃ mahābalam nirasya bhīmasenaṃ tu tataḥ prāpsyasi phalgunam 25 yas te kāmo 'bhilaṣitaś cirāt prabhṛti hṛdgataḥ sa vai saṃpatsyate karṇa satyam etad bravīmi te 26 evam ukte tataḥ karṇaḥ śalyaṃ punar abhāṣata hantāham arjunaṃ saṃkhye māṃ vā hantā dhanaṃjayaḥ yuddhe manaḥ samādhāya yāhi yāhīty acodayat 27 tataḥ prāyād rathenāśu śalyas tatra viśāṃ pate yatra bhīmo maheṣvāso vyadrāvayata vāhinīm 28 tatas tūryaninādaś ca bherīṇāṃ ca mahāsvanaḥ udatiṣṭhata rājendra karṇa bhīma samāgame 29 bhīmaseno 'tha saṃkruddhas tava sainyaṃ durāsadam nārācair vimalais tīkṣṇair diśaḥ prādrāvayad balī 30 sa saṃnipātas tumulo bhīmarūpo viśāṃ pate āsīd raudro mahārāja karṇa pāṇḍavayor mṛdhe tato muhūrtād rājendra pāṇḍavaḥ karṇam ādravat 31 tam āpatantaṃ saṃprekṣya karṇo vaikartano vṛṣaḥ ājaghānorasi kruddho nārācena stanāntare punaś cainam ameyātmā śaravarṣair avākirat 32 sa viddhaḥ sūtaputreṇa chādayām āsa patribhiḥ vivyādha niśitaiḥ karṇa navabhir nataparvabhiḥ 33 tasya karṇo dhanurmadhye dvidhā ciccheda patriṇā atha taṃ chinnadhanvānam abhyavidhyat stanāntare nārācena sutīkṣṇena sarvāvaraṇabhedinā 34 so 'nyat kārmukam ādāya sūtaputraṃ vṛkodaraḥ rājan marmasu marmajño viddhvā suniśitaiḥ śaraiḥ nanāda balavan nādaṃ kampayann iva rodasī 35 taṃ karṇaḥ pañcaviṃśatyā nārācānāṃ samārdayat madotkaṭaṃ vane dṛptam ulkābhir iva kuñjaram 36 tataḥ sāyakabhinnāṅgaḥ pāṇḍavaḥ krodhamūrcchitaḥ saṃrambhāmarṣa tāmrākṣaḥ sūtaputra vadhecchayā 37 sa kārmuke mahāvegaṃ bhārasādhanam uttamam girīṇām api bhettāraṃ sāyakaṃ samayojayat 38 vīkṛṣya balavac cāpam ā karṇād atimārutiḥ taṃ mumoca maheṣvāsaḥ kruddhaḥ karṇa jighāṃsayā 39 sa visṛṣṭo balavatā bāṇo vajrāśanisvanaḥ adārayad raṇe karṇaṃ vajravega ivācalam 40 sa bhīmasenābhihato sūtaputraḥ kurūdvahā niṣasāda rathopasthe visaṃjñaḥ pṛtanā patiḥ 41 tato madrādhipo dṛṣṭvā visaṃjñaṃ sūtanandanam apovāha rathenājau karṇam āhavaśobhinam 42 tataḥ parājite karṇe dhārtarāṣṭrīṃ mahācamūm vyadrāvayad bhīmaseno yathendro dānavīṃ camūm |
The Mahabharata in Sanskrit
Book 8
Chapter 35
|
1
[धृ] सुदुष्करम इदं कर्मकृतं भीमेन संजय येन कर्णॊ महाबाहू रथॊपस्थे निपातितः 2 कर्णॊ हय एकॊ रणे हन्ता सृञ्जयान पाण्डवैः सह इति दुर्यॊधनः सूत पराब्रवीन मां मुहुर मुहुः 3 पराजितं तु राधेयं दृष्ट्वा भीमेन संयुगे ततः परं किम अकरॊत पुत्रॊ दुर्यॊधनॊ मम 4 [स] विभ्रान्तं परेक्ष्य राधेयं सूतपुत्रं महाहवे महत्या सेनया राजन सॊदर्यान समभाषत 5 शीघ्रं गच्छत भद्रं वॊ राधेयं परिरक्षत भीमसेनभयागाधे मज्जन्तं वयसनार्णवे 6 ते तु राज्ञः समादिष्टा भीमसेनजिघांसवः अभ्यवर्तन्त संक्रुद्धाः पतंगा इव पावकम 7 शरुतायुर दुर्धरः कराथॊ विवित्सुर विकटः समः निषङ्गी कवची पाशी तथा नन्दॊपनन्दकौ 8 दुष्प्रधर्षः सुबाहुश च वातवेगसुवर्चसौ धनुर गराहॊ दुर्मदश च तथा सत्त्वसमः सहः 9 एते रथैः परिवृता वीर्यवन्तॊ महाबलाः भीमसेनं समासाद्य समन्तात पर्यवारयन ते वयमुञ्चञ शरव्रातान नाना लिङ्गान समन्ततः 10 स तैर अभ्यर्द्यमानस तु भीमसेनॊ महाबलः तेषाम आपततां कषिप्रं सुतानां ते नराधिप रथैः पञ्चाशता सार्धं पञ्चाशन नयहनद रथान 11 विवित्सॊस तु ततः करुद्धॊ भल्लेनापाहरच छिरः सकुण्डल शिरस तराणं पूर्णचन्द्रॊपमं तदा भीमेन च महाराज स पपात हतॊ भुवि 12 तं दृष्ट्वा निहतं शूरं भरातरः सर्वतः परभॊ अब्भ्यद्रवन्त समरे भीमं भीमपराक्रमम 13 ततॊ ऽपराभ्यां भल्लाभ्यां पुत्रयॊस ते महाहवे जहार समरे पराणान भीमॊ भीमपराक्रमः 14 तौ धराम अन्वपद्येतां वातरुग्णाव इव दरुमौ विकटश च समश चॊभौ देवगर्भसमौ नृप 15 ततस तु तवरितॊ भीमः कराथं निन्ये यमक्षयम नाराचेन सुतीक्ष्णेन स हतॊ नयपतद भुवि 16 हाहाकारस ततस तीव्रः संबभूव जनेश्वर वध्यमानेषु ते राजंस तदा पुत्रेषु धन्विषु 17 तेषां संलुलिते सैन्ये भीमसेनॊ महाबलः नन्दॊपनन्दौ समरे परापयद यमसादनम 18 ततस ते पराद्रवन भीताः पुत्रास ते विह्वली कृताः भीमसेनं रणे दृष्ट्वा कालान्तकयमॊपमम 19 पुत्रांस ते निहतान दृष्ट्वा सूतपुत्रॊ महामनाः हंसवर्णान हयान भूयः पराहिणॊद यत्र पाण्डवः 20 ते परेषिता महाराज मद्रराजेन वाजिनः भीमसेनरथं पराप्य समसज्जन्त वेगिताः 21 स संनिपातस तुमुलॊ घॊररूपॊ विशां पते आसीद रौद्रॊ महाराज कर्ण पाण्डवयॊर मृधे 22 दृष्ट्वा मम महाराज तौ समेतौ महारथौ आसीद बुद्धिः कथं नूनम एतद अद्य भविष्यति 23 ततॊ मुहूर्ताद राजेन्द्र नातिकृच्छ्राद धसन्न इव विरथं भीमकर्माणं भीमं कर्णश चकार ह 24 विरथॊ भरतश्रेष्ठः परहसन्न अनिलॊपमः गदाहस्तॊ महाबाहुर अपतत सयन्दनॊत्तमात 25 नागान सप्तशतान राजान्न ईष दन्तान परहारिणः वयधमत सहसा भीमः करुद्ध रूपाः परंतपः 26 दन्तवेष्टेषु नेत्रेषु कम्भेषु स कटेषु च मर्मस्व अपि च मर्मज्ञॊ निनदन वयधमद भृशम 27 ततस ते पराद्रवन भीताः परतीपं परहिताः पुनः महामात्रैस तम आवव्रुर मेघा इव दिवाकरम 28 तान स सप्तशतान नागान सारॊहायुध केतनान भूमिष्ठॊ गदया जघ्ने शरन मेघान इवानिलः 29 ततः सुबल पुत्रस्य नागान अतिबलान पुनः पॊथयाम आस कौन्तेयॊ दवापञ्चाशतम आहवे 30 तथा रथशतं साग्रं पत्तींश च शतशॊ ऽपरान नयहनत पाण्डवॊ युद्धे तापयंस तव वाहिनीम 31 परताप्यमानं सूर्येण भीमेन च महात्मना तव सैन्यं संच्चुकॊच चर्म वह्नि गतं यथा 32 ते भीम भयसंत्रस्तास तावका भरतर्षभ विहाय समरे भीमं दुद्रुवुर वै दिशॊ दश 33 रथाः पञ्चशताश चान्ये हरादिनश चर्म वर्मिणः भीमम अभ्यद्रवंस तूर्णं शरपूगैः समन्ततः 34 तान ससूत रथान सर्वान सपताका धवजायुधान पॊथयाम आस गदया भीमॊ विष्णुर इवासुरान 35 ततः शकुनिनिर्दिष्टाः सादिनः शूर संमताः तरिसाहस्रा ययुर भीमं शक्त्यृष्टि परासपाणयः 36 तान परत्युद्गम्य यवनान अश्वारॊहान वरारिहा विचरन विविधान मार्गान घातयाम आस पॊथयन 37 तेषाम आसीन महाञ शब्दस ताडितानां च सार्वशः असिभिश छिद्यमानानां नडानाम इव भारत 38 एवं सुबल पुत्रस्य तरिसाहस्रान हयॊत्तमान हत्वान्यं रथम आस्थाय करुद्धॊ राधेयम अभ्ययात 39 कर्णॊ ऽपि समरे राजन धर्मपुत्रम अरिंदमम शरैः परच्छादयाम आस सारथिं चाप्य अपातयत 40 ततः संम्प्रद्रुतं संख्ये रथं दृष्ट्वा महारथः अन्वधावत किरन बाणैः कङ्कपत्रैर अजिह्मगैः 41 राजानम अभि धावन्तं शरैर आवृत्य रॊदसी करुद्धः परच्छादयाम आस शरजालेन मारुतिः 42 संनिवृत्तस ततस तूर्णं राधेयः शत्रुकर्शनः भीमं परच्छादयाम आस समन्तान निशितैः शरैः 43 भीमसेनरथव्यग्रं कर्णं भारत सात्यकिः अभ्यर्दयद अमेयात्मा पार्ष्णिग्रहणकारणात अभ्यवर्तत कर्णस तम अर्दितॊ ऽपि शरैर भृशम 44 ताव अन्यॊन्यं समासाद्य वृषाभौ सर्वधन्विनाम विसृजन्तौ शरांश चित्रान विभ्राजेतां मनस्विनौ 45 ताभ्यां वियति राजेन्द्र विततं भीमदर्शनम करौञ्चपृष्ठारुणं रौद्रं बाणजालं वयदृश्यत 46 नैव सूर्यप्रभां खं वा न दिशः परदिशः कुतः पराज्ञासिष्म वयं ताभ्यां शरैर मुक्तैः सहस्रशः 47 मध्याह्ने तपतॊ राजन भास्करस्य महाप्रभाः हृताः सर्वाः शरौघैस तैः कर्णम आधवयॊस तदा 48 सौबलं कृतवर्माणं दरौणिम आधिरथिं कृपम संसक्तान पाण्डवैर दृष्ट्वा निवृत्ताः कुरवः पुनः 49 तेषाम आपततां शब्दस तीव्र आसीद विशां पते उद्धूतानां यथा वृष्ट्या सागराणां भयावहः 50 ते सेने भृशसंविग्ने दृष्ट्वान्यॊन्यं महारणे हर्षेण महता युक्ते परिगृह्य परस्परम 51 ततः परववृते युद्धं मध्यं पराप्ते दिवाकरे यादृशं न कदाचिद धि दृष्टपूर्वं न च शरुतम 52 बलौघस तु समासाद्य बलौघं सहसा रणे उपासर्पत वेगेन जलौघ इव सागरम 53 आसीन निनादः सुमहान बलौघानां परस्परम गर्जतां सागरौघाणां यथा सयान निस्वनॊ महान 54 ते तु सेने समासाद्य वेगवत्यौ परस्परम एकीभावम अनुप्राप्ते नद्याव इव समागमे 55 ततः परववृते युद्धं घॊररूपं विशां पते कुरूणां पाण्डवानां च लिप्सतां सुमहद यशः 56 कुरूणां गर्जतां तत्र अविच्छेद कृता गिरः शरूयन्ते विविधा राजन नामान्य उद्दिश्य भारत 57 यस्य यद धि रणे नयङ्गं पितृतॊ मातृतॊ ऽपि वा कर्मतः शीलतॊ वापि स तच छरावयते युधि 58 तान दृष्ट्वा समरे शूरांस तर्जयानान परस्परम अब्भवन मे मती राजन्न एषाम अस्तीति जीवितम 59 तेषां दृष्ट्वा तु करुद्धानां वपूंष्य अमिततेजसाम अभवन मे भयं तीव्रं कथम एतद भविष्यति 60 ततस ते पाण्डवा राजन कौरवाश च महारथाः ततक्षुः सायकैस तीक्ष्णैर निघ्नन्तॊ हि परस्परम |
1
[dhṛ] suduṣkaram idaṃ karmakṛtaṃ bhīmena saṃjaya yena karṇo mahābāhū rathopasthe nipātitaḥ 2 karṇo hy eko raṇe hantā sṛñjayān pāṇḍavaiḥ saha iti duryodhanaḥ sūta prābravīn māṃ muhur muhuḥ 3 parājitaṃ tu rādheyaṃ dṛṣṭvā bhīmena saṃyuge tataḥ paraṃ kim akarot putro duryodhano mama 4 [s] vibhrāntaṃ prekṣya rādheyaṃ sūtaputraṃ mahāhave mahatyā senayā rājan sodaryān samabhāṣata 5 śīghraṃ gacchata bhadraṃ vo rādheyaṃ parirakṣata bhīmasenabhayāgādhe majjantaṃ vyasanārṇave 6 te tu rājñaḥ samādiṣṭā bhīmasenajighāṃsavaḥ abhyavartanta saṃkruddhāḥ pataṃgā iva pāvakam 7 śrutāyur durdharaḥ krātho vivitsur vikaṭaḥ samaḥ niṣaṅgī kavacī pāśī tathā nandopanandakau 8 duṣpradharṣaḥ subāhuś ca vātavegasuvarcasau dhanur grāho durmadaś ca tathā sattvasamaḥ sahaḥ 9 ete rathaiḥ parivṛtā vīryavanto mahābalāḥ bhīmasenaṃ samāsādya samantāt paryavārayan te vyamuñcañ śaravrātān nānā liṅgān samantataḥ 10 sa tair abhyardyamānas tu bhīmaseno mahābalaḥ teṣām āpatatāṃ kṣipraṃ sutānāṃ te narādhipa rathaiḥ pañcāśatā sārdhaṃ pañcāśan nyahanad rathān 11 vivitsos tu tataḥ kruddho bhallenāpāharac chiraḥ sakuṇḍala śiras trāṇaṃ pūrṇacandropamaṃ tadā bhīmena ca mahārāja sa papāta hato bhuvi 12 taṃ dṛṣṭvā nihataṃ śūraṃ bhrātaraḥ sarvataḥ prabho abbhyadravanta samare bhīmaṃ bhīmaparākramam 13 tato 'parābhyāṃ bhallābhyāṃ putrayos te mahāhave jahāra samare prāṇān bhīmo bhīmaparākramaḥ 14 tau dharām anvapadyetāṃ vātarugṇāv iva drumau vikaṭaś ca samaś cobhau devagarbhasamau nṛpa 15 tatas tu tvarito bhīmaḥ krāthaṃ ninye yamakṣayam nārācena sutīkṣṇena sa hato nyapatad bhuvi 16 hāhākāras tatas tīvraḥ saṃbabhūva janeśvara vadhyamāneṣu te rājaṃs tadā putreṣu dhanviṣu 17 teṣāṃ saṃlulite sainye bhīmaseno mahābalaḥ nandopanandau samare prāpayad yamasādanam 18 tatas te prādravan bhītāḥ putrās te vihvalī kṛtāḥ bhīmasenaṃ raṇe dṛṣṭvā kālāntakayamopamam 19 putrāṃs te nihatān dṛṣṭvā sūtaputro mahāmanāḥ haṃsavarṇān hayān bhūyaḥ prāhiṇod yatra pāṇḍavaḥ 20 te preṣitā mahārāja madrarājena vājinaḥ bhīmasenarathaṃ prāpya samasajjanta vegitāḥ 21 sa saṃnipātas tumulo ghorarūpo viśāṃ pate āsīd raudro mahārāja karṇa pāṇḍavayor mṛdhe 22 dṛṣṭvā mama mahārāja tau sametau mahārathau āsīd buddhiḥ kathaṃ nūnam etad adya bhaviṣyati 23 tato muhūrtād rājendra nātikṛcchrād dhasann iva virathaṃ bhīmakarmāṇaṃ bhīmaṃ karṇaś cakāra ha 24 viratho bharataśreṣṭhaḥ prahasann anilopamaḥ gadāhasto mahābāhur apatat syandanottamāt 25 nāgān saptaśatān rājānn īṣa dantān prahāriṇaḥ vyadhamat sahasā bhīmaḥ kruddha rūpāḥ paraṃtapaḥ 26 dantaveṣṭeṣu netreṣu kambheṣu sa kaṭeṣu ca marmasv api ca marmajño ninadan vyadhamad bhṛśam 27 tatas te prādravan bhītāḥ pratīpaṃ prahitāḥ punaḥ mahāmātrais tam āvavrur meghā iva divākaram 28 tān sa saptaśatān nāgān sārohāyudha ketanān bhūmiṣṭho gadayā jaghne śaran meghān ivānilaḥ 29 tataḥ subala putrasya nāgān atibalān punaḥ pothayām āsa kaunteyo dvāpañcāśatam āhave 30 tathā rathaśataṃ sāgraṃ pattīṃś ca śataśo 'parān nyahanat pāṇḍavo yuddhe tāpayaṃs tava vāhinīm 31 pratāpyamānaṃ sūryeṇa bhīmena ca mahātmanā tava sainyaṃ saṃccukoca carma vahni gataṃ yathā 32 te bhīma bhayasaṃtrastās tāvakā bharatarṣabha vihāya samare bhīmaṃ dudruvur vai diśo daśa 33 rathāḥ pañcaśatāś cānye hrādinaś carma varmiṇaḥ bhīmam abhyadravaṃs tūrṇaṃ śarapūgaiḥ samantataḥ 34 tān sasūta rathān sarvān sapatākā dhvajāyudhān pothayām āsa gadayā bhīmo viṣṇur ivāsurān 35 tataḥ śakuninirdiṣṭāḥ sādinaḥ śūra saṃmatāḥ trisāhasrā yayur bhīmaṃ śaktyṛṣṭi prāsapāṇayaḥ 36 tān pratyudgamya yavanān aśvārohān varārihā vicaran vividhān mārgān ghātayām āsa pothayan 37 teṣām āsīn mahāñ śabdas tāḍitānāṃ ca sārvaśaḥ asibhiś chidyamānānāṃ naḍānām iva bhārata 38 evaṃ subala putrasya trisāhasrān hayottamān hatvānyaṃ ratham āsthāya kruddho rādheyam abhyayāt 39 karṇo 'pi samare rājan dharmaputram ariṃdamam śaraiḥ pracchādayām āsa sārathiṃ cāpy apātayat 40 tataḥ saṃmpradrutaṃ saṃkhye rathaṃ dṛṣṭvā mahārathaḥ anvadhāvat kiran bāṇaiḥ kaṅkapatrair ajihmagaiḥ 41 rājānam abhi dhāvantaṃ śarair āvṛtya rodasī kruddhaḥ pracchādayām āsa śarajālena mārutiḥ 42 saṃnivṛttas tatas tūrṇaṃ rādheyaḥ śatrukarśanaḥ bhīmaṃ pracchādayām āsa samantān niśitaiḥ śaraiḥ 43 bhīmasenarathavyagraṃ karṇaṃ bhārata sātyakiḥ abhyardayad ameyātmā pārṣṇigrahaṇakāraṇāt abhyavartata karṇas tam ardito 'pi śarair bhṛśam 44 tāv anyonyaṃ samāsādya vṛṣābhau sarvadhanvinām visṛjantau śarāṃś citrān vibhrājetāṃ manasvinau 45 tābhyāṃ viyati rājendra vitataṃ bhīmadarśanam krauñcapṛṣṭhāruṇaṃ raudraṃ bāṇajālaṃ vyadṛśyata 46 naiva sūryaprabhāṃ khaṃ vā na diśaḥ pradiśaḥ kutaḥ prājñāsiṣma vayaṃ tābhyāṃ śarair muktaiḥ sahasraśaḥ 47 madhyāhne tapato rājan bhāskarasya mahāprabhāḥ hṛtāḥ sarvāḥ śaraughais taiḥ karṇam ādhavayos tadā 48 saubalaṃ kṛtavarmāṇaṃ drauṇim ādhirathiṃ kṛpam saṃsaktān pāṇḍavair dṛṣṭvā nivṛttāḥ kuravaḥ punaḥ 49 teṣām āpatatāṃ śabdas tīvra āsīd viśāṃ pate uddhūtānāṃ yathā vṛṣṭyā sāgarāṇāṃ bhayāvahaḥ 50 te sene bhṛśasaṃvigne dṛṣṭvānyonyaṃ mahāraṇe harṣeṇa mahatā yukte parigṛhya parasparam 51 tataḥ pravavṛte yuddhaṃ madhyaṃ prāpte divākare yādṛśaṃ na kadācid dhi dṛṣṭapūrvaṃ na ca śrutam 52 balaughas tu samāsādya balaughaṃ sahasā raṇe upāsarpata vegena jalaugha iva sāgaram 53 āsīn ninādaḥ sumahān balaughānāṃ parasparam garjatāṃ sāgaraughāṇāṃ yathā syān nisvano mahān 54 te tu sene samāsādya vegavatyau parasparam ekībhāvam anuprāpte nadyāv iva samāgame 55 tataḥ pravavṛte yuddhaṃ ghorarūpaṃ viśāṃ pate kurūṇāṃ pāṇḍavānāṃ ca lipsatāṃ sumahad yaśaḥ 56 kurūṇāṃ garjatāṃ tatra aviccheda kṛtā giraḥ śrūyante vividhā rājan nāmāny uddiśya bhārata 57 yasya yad dhi raṇe nyaṅgaṃ pitṛto mātṛto 'pi vā karmataḥ śīlato vāpi sa tac chrāvayate yudhi 58 tān dṛṣṭvā samare śūrāṃs tarjayānān parasparam abbhavan me matī rājann eṣām astīti jīvitam 59 teṣāṃ dṛṣṭvā tu kruddhānāṃ vapūṃṣy amitatejasām abhavan me bhayaṃ tīvraṃ katham etad bhaviṣyati 60 tatas te pāṇḍavā rājan kauravāś ca mahārathāḥ tatakṣuḥ sāyakais tīkṣṇair nighnanto hi parasparam |
The Mahabharata in Sanskrit
Book 8
Chapter 36
|
1
[] कषत्रियास ते महाराज परस्परवधैषिणः अन्यॊन्यं समरे जघ्नुः कृतवैराः परस्परम 2 रथौघाश च हयौघाश च नरौघाश च समन्ततः गजौघाश च महाराज संसक्ताः सम परस्परम 3 गदानां परिघाणां च कणपानां च सर्पताम परासानां भिण्डिपालानां भुशुण्डीनां च सर्वशः 4 संपातं चान्वपश्याम संग्रामे भृशदारुणे शलभा इव संपेतुः समन्ताच छरवृष्टयः 5 नागा नागान समासाद्य वयधमन्त परस्परम हया हयांश च समरे रथिनॊ रथिनस तथा पत्तयः पत्तिसंघैश च हयसंघैर हयास तथा 6 पत्तयॊ रथमातङ्गान रथा हस्त्यश्वम एव च नागाश च समरे तर्यङ्गं ममृदुः शीघ्रगा नृप 7 पततां तत्र शूराणां करॊशतां च परस्परम घॊरम आयॊधनं जज्ञे पशूनां वैशसं यथा 8 रुधिरेण समास्तीर्णा भाति भारत मेदिनी शक्र गॊप गणाकीर्णा परावृषीव यथा धरा 9 यथा वा वाससी शुक्ले महारजन रञ्जिते बिभृत्याद युवतिः शयामा तद्वद आसीद वसुंधरा मांसशॊणितचित्रेव शातकौम्भमयीव च 10 छिन्नानां चॊत्तमाङ्गानां बाहूनां चॊरुभिः सह कुण्डलानां परविद्धानां भूषणानां च भारत 11 निष्काणाम अधिसूत्राणां शरीराणां च धन्विनाम वर्मणां सपताकानां संघास तत्रापतन भुवि 12 गजान गजाः समासाद्य विषाणाग्रैर अदारयन विषाणाभिहतास ते च भराजन्ते दविरदा यथा 13 रुधिरेणावसिक्ताङ्गा गैरिकप्रस्रवा इव यथा भराजन्ति सयन्दन्तः पर्वता धातुमण्डिताः 14 तॊमरान गजिभिर मुक्तान परतीपान आस्थितान बहून हस्तैर विचेरुस ते नागा बभञ्जुश चापरे तथा 15 नाराचैश छिन्नवर्माणॊ भराजन्ते सम गजॊत्तमाः हिमागमे महाराज वयभ्रा इव महीधराः 16 शरैः कनकपुङ्खैस तु चिता रेजुर गजॊत्तमाः उल्काभिः संप्रदीप्ताग्राः पर्वता इव मारिष 17 केच चिद अभ्याहता नागा नागैर नगनिभा भुवि निपेतुः समरे तस्मिन पक्षवन्त इवाद्रयः 18 अपरे पराद्रवन नागाः शल्यार्ता वरणपीडिताः परतिमानैश च कुम्भैश च पेतुर उर्व्यां महाहवे 19 निषेदुः सिंहवच चान्ये नदन्तॊ भैरवान रवान मम्लुश च बहवॊ राजंश चुकूजुश चापरे तथा 20 हयाश च निहता बाकैः सवर्णभाण्ड परिच्छदाः निषेदुश चैव मम्लुश च बभ्रमुश च दिशॊ दश 21 अपरे कृष्यमाणाश च विवेष्टन्तॊ महीतले भावान बहुविधांश चक्रुस ताडिताः शरतॊमरैः 22 नरास तु निहता भूमौ कूजन्तस तत्र मारिष दृष्ट्वा च बान्धवान अन्ये पितॄन अन्ये पितामहान 23 धावमानान परांश चैव दृष्ट्वान्ये तत्र भारत गॊत्र नामानि खयातानि शशंसुर इतरेतरम 24 तेषां छिन्ना महाराज भुजाः कनकभूषणाः उद्वेष्टन्ते विवेष्टन्ते पतन्ते चॊत्पतन्ति च 25 निपतन्ति तथा भूमौ सफुरन्ति च सहस्रशः वेगांश चान्ये रणे चक्रुः सफुरन्त इव पन्नगाः 26 ते भुजा भॊगि भॊगाभाश चन्दनाक्ता विशां पते लॊहितार्द्रा भृशं रेजुस तपनीयध्वजा इव 27 वर्तमाने तथा घॊरे संकुले सर्वतॊदिशम अविज्ञाताः सम युध्यन्ते विनिघ्नन्तः परस्परम 28 भौमेन रजसा कीर्णे शस्त्रसंपात संकुले नैव सवे न परे राजन वयज्ञायन्त तमॊवृते 29 तथा तद अभवद युद्धं घॊररूपं भयानकम शॊणितॊदा महानद्यः परसस्रुस तत्र चासकृत 30 शीर्ष पाषाण संछन्नाः केशशैवलशाद्वलाः अस्थि संघातसंकीर्णा धनुः शरवरॊत्तमाः 31 मांसकर्दम पङ्काश च शॊणितौघाः सुदारुणाः नदीः परवर्तयाम आसुर यम राष्ट्रविवर्धनीः 32 ता नद्यॊ घॊररूपाश च नयन्त्यॊ यमसादनम अवगाढा मज्जयन्त्यः कषत्रस्याजनयन भयम 33 करव्यादानां नरव्याघ्र नर्दतां तत्र तत्र ह घॊरम आयॊधनं जज्ञे परेतराजपुरॊपमम 34 उत्थितान्य अगणेयानि कबन्धानि समन्ततः नृत्यन्ति वै भूतगणाः संतृप्ता मांसशॊणितैः 35 पीत्वा च शॊणितं तत्र वसां पीत्वा च भारत मेदॊ मज्जा वसा तृप्तास तृप्ता मांसस्य चैव हि धावमानाश च दृश्यन्ते काकगृध्रबलास तथा 36 शूरास ते समरे राजन भयं तयक्त्वा सुदुस्त्यजम यॊधव्रतसमाख्याताश चक्रुः कर्माण्य अभीतवत 37 शरशक्तिसमाकीर्णे करव्यादगणसंकुले वयचरन्त गणैः शूराः खयापयन्तः सवपौरुषम 38 अन्यॊन्यं शरावयन्ति सम नामगॊत्राणि भारत पितृनामानि च रणे गॊत्र नामानि चाभितः 39 शरावयन्तॊ हि बहवस तत्र यॊधा विशां पते अन्यॊन्यम अवमृद्नन्तः शक्तितॊमरपट्टिशैः 40 वर्तमाने तदा युद्धे घॊररूपे सुदारुणे वयषीदत कौरवी सेना भिन्ना नौर इव सागरे |
1
[] kṣatriyās te mahārāja parasparavadhaiṣiṇaḥ anyonyaṃ samare jaghnuḥ kṛtavairāḥ parasparam 2 rathaughāś ca hayaughāś ca naraughāś ca samantataḥ gajaughāś ca mahārāja saṃsaktāḥ sma parasparam 3 gadānāṃ parighāṇāṃ ca kaṇapānāṃ ca sarpatām prāsānāṃ bhiṇḍipālānāṃ bhuśuṇḍīnāṃ ca sarvaśaḥ 4 saṃpātaṃ cānvapaśyāma saṃgrāme bhṛśadāruṇe śalabhā iva saṃpetuḥ samantāc charavṛṣṭayaḥ 5 nāgā nāgān samāsādya vyadhamanta parasparam hayā hayāṃś ca samare rathino rathinas tathā pattayaḥ pattisaṃghaiś ca hayasaṃghair hayās tathā 6 pattayo rathamātaṅgān rathā hastyaśvam eva ca nāgāś ca samare tryaṅgaṃ mamṛduḥ śīghragā nṛpa 7 patatāṃ tatra śūrāṇāṃ krośatāṃ ca parasparam ghoram āyodhanaṃ jajñe paśūnāṃ vaiśasaṃ yathā 8 rudhireṇa samāstīrṇā bhāti bhārata medinī śakra gopa gaṇākīrṇā prāvṛṣīva yathā dharā 9 yathā vā vāsasī śukle mahārajana rañjite bibhṛtyād yuvatiḥ śyāmā tadvad āsīd vasuṃdharā māṃsaśoṇitacitreva śātakaumbhamayīva ca 10 chinnānāṃ cottamāṅgānāṃ bāhūnāṃ corubhiḥ saha kuṇḍalānāṃ praviddhānāṃ bhūṣaṇānāṃ ca bhārata 11 niṣkāṇām adhisūtrāṇāṃ śarīrāṇāṃ ca dhanvinām varmaṇāṃ sapatākānāṃ saṃghās tatrāpatan bhuvi 12 gajān gajāḥ samāsādya viṣāṇāgrair adārayan viṣāṇābhihatās te ca bhrājante dviradā yathā 13 rudhireṇāvasiktāṅgā gairikaprasravā iva yathā bhrājanti syandantaḥ parvatā dhātumaṇḍitāḥ 14 tomarān gajibhir muktān pratīpān āsthitān bahūn hastair vicerus te nāgā babhañjuś cāpare tathā 15 nārācaiś chinnavarmāṇo bhrājante sma gajottamāḥ himāgame mahārāja vyabhrā iva mahīdharāḥ 16 śaraiḥ kanakapuṅkhais tu citā rejur gajottamāḥ ulkābhiḥ saṃpradīptāgrāḥ parvatā iva māriṣa 17 kec cid abhyāhatā nāgā nāgair naganibhā bhuvi nipetuḥ samare tasmin pakṣavanta ivādrayaḥ 18 apare prādravan nāgāḥ śalyārtā vraṇapīḍitāḥ pratimānaiś ca kumbhaiś ca petur urvyāṃ mahāhave 19 niṣeduḥ siṃhavac cānye nadanto bhairavān ravān mamluś ca bahavo rājaṃś cukūjuś cāpare tathā 20 hayāś ca nihatā bākaiḥ svarṇabhāṇḍa paricchadāḥ niṣeduś caiva mamluś ca babhramuś ca diśo daśa 21 apare kṛṣyamāṇāś ca viveṣṭanto mahītale bhāvān bahuvidhāṃś cakrus tāḍitāḥ śaratomaraiḥ 22 narās tu nihatā bhūmau kūjantas tatra māriṣa dṛṣṭvā ca bāndhavān anye pitṝn anye pitāmahān 23 dhāvamānān parāṃś caiva dṛṣṭvānye tatra bhārata gotra nāmāni khyātāni śaśaṃsur itaretaram 24 teṣāṃ chinnā mahārāja bhujāḥ kanakabhūṣaṇāḥ udveṣṭante viveṣṭante patante cotpatanti ca 25 nipatanti tathā bhūmau sphuranti ca sahasraśaḥ vegāṃś cānye raṇe cakruḥ sphuranta iva pannagāḥ 26 te bhujā bhogi bhogābhāś candanāktā viśāṃ pate lohitārdrā bhṛśaṃ rejus tapanīyadhvajā iva 27 vartamāne tathā ghore saṃkule sarvatodiśam avijñātāḥ sma yudhyante vinighnantaḥ parasparam 28 bhaumena rajasā kīrṇe śastrasaṃpāta saṃkule naiva sve na pare rājan vyajñāyanta tamovṛte 29 tathā tad abhavad yuddhaṃ ghorarūpaṃ bhayānakam śoṇitodā mahānadyaḥ prasasrus tatra cāsakṛt 30 śīrṣa pāṣāṇa saṃchannāḥ keśaśaivalaśādvalāḥ asthi saṃghātasaṃkīrṇā dhanuḥ śaravarottamāḥ 31 māṃsakardama paṅkāś ca śoṇitaughāḥ sudāruṇāḥ nadīḥ pravartayām āsur yama rāṣṭravivardhanīḥ 32 tā nadyo ghorarūpāś ca nayantyo yamasādanam avagāḍhā majjayantyaḥ kṣatrasyājanayan bhayam 33 kravyādānāṃ naravyāghra nardatāṃ tatra tatra ha ghoram āyodhanaṃ jajñe pretarājapuropamam 34 utthitāny agaṇeyāni kabandhāni samantataḥ nṛtyanti vai bhūtagaṇāḥ saṃtṛptā māṃsaśoṇitaiḥ 35 pītvā ca śoṇitaṃ tatra vasāṃ pītvā ca bhārata medo majjā vasā tṛptās tṛptā māṃsasya caiva hi dhāvamānāś ca dṛśyante kākagṛdhrabalās tathā 36 śūrās te samare rājan bhayaṃ tyaktvā sudustyajam yodhavratasamākhyātāś cakruḥ karmāṇy abhītavat 37 śaraśaktisamākīrṇe kravyādagaṇasaṃkule vyacaranta gaṇaiḥ śūrāḥ khyāpayantaḥ svapauruṣam 38 anyonyaṃ śrāvayanti sma nāmagotrāṇi bhārata pitṛnāmāni ca raṇe gotra nāmāni cābhitaḥ 39 śrāvayanto hi bahavas tatra yodhā viśāṃ pate anyonyam avamṛdnantaḥ śaktitomarapaṭṭiśaiḥ 40 vartamāne tadā yuddhe ghorarūpe sudāruṇe vyaṣīdat kauravī senā bhinnā naur iva sāgare |
The Mahabharata in Sanskrit
Book 8
Chapter 37
|
1
[स] वर्तमाने तदा युद्धे कषत्रियाणां निमज्जने गाण्डीवस्य महान घॊषः शुश्रुवे युधि मारिष 2 संशप्तकानां कदनम अकरॊद यत्र पाण्डवः कॊसलानां तथा राजन नारायण बलस्य च 3 संशप्तकास तु समरे शरवृष्टिं समन्ततः अपातयन पार्थ मूर्ध्नि जय गृद्धाः परमन्यवः 4 तां वृष्टिं सहसा राजंस तरसा धारयन परभुः वयगाहत रणे पार्थॊ विनिघ्नन रथिनां वरः 5 निगृह्य तु रथानीकं कङ्कपत्रैः शिलाशितैः आससाद रणे पार्थः सुशर्माणं महारथम 6 स तस्य शरवर्षाणि ववर्ष रथिनां वरः तथा संशप्तकाश चैव पार्थस्य समरे सथिताः 7 सुशर्मा तु ततः पार्थां विद्ध्वा नवभिर आशुगैः जनार्दनं तरिभिर बाणैर अभ्यहन दक्षिणे भुजे ततॊ ऽपरेण भल्लेन केतुं विव्याध मारिष 8 स वानरवरॊ राजन विश्वकर्म कृतॊ महान ननाद सुमहान नादं भीषयन वै ननर्द च 9 कपेस तु निनदं शरुत्वा संत्रस्ता तव वाहिनी भयं विपुलम आदाय निश्चेष्टा समपद्यत 10 ततः सा शुशुभे सेना निश्चेष्टावस्थिता नृप नानापुष्पसमाकीर्णं यथा चैत्ररथं वनम 11 परतिलभ्य ततः संज्ञां यॊधास ते कुरुसत्तम अर्जुनं सिषिचुर बाणैः पर्वतं जलदा इव परिवव्रुस तदा सर्वे पाण्डवस्य महारथम 12 ते हयान रथचक्रे च रथेषाश चापि भारत निगृह्य बलवत तूर्णं सिंहनादम अथानदन 13 अपरे जगृहुश चैव केशवस्य महाभुजौ पार्थम अन्ये महाराज रथस्थं जगृहुर मुदा 14 केशवस तु तदा बाहू विधुन्वन रणमूर्धनि पातयाम आस तान सर्वान दुष्टहस्तीव हस्तिनः 15 ततः करुद्धॊ रणे पार्थः संवृतस तैर महारथैः निगृहीतं रथं दृष्ट्वा केशवं चाप्य अभिद्रुतम रथारूढांश च सुबहून पदातींश चाप्य अपातयत 16 आसन्नांश च ततॊ यॊधाञ शरैर आसन्न यॊधिभिः चयावयाम आस समरे केशवं चेदम अब्रवीत 17 पश्य कृष्ण महाबाहॊ संशप्तक गणान मया कुर्वाणान दारुणं कर्म वध्यमानान सहस्रशः 18 रथबन्धम इदं घॊरं पृथिव्यां नास्ति कश चन यः सहेत पुमाँल लॊके मद अन्यॊ यदुपुंगव 19 इत्य एवम उक्त्वा बीभत्सुर देवदत्तम अथाधमत पाञ्चजन्यं च कृष्णॊ ऽपि पूरयन्न इव रॊदसी 20 तं तु शङ्खस्वनं शरुत्वा संशप्तक वरूथिनी संचचाल महाराज वित्रस्ता चाभवद भृषम 21 पदबन्धं ततश चक्रे पाण्डवः परवीरहा नागम अस्त्रं महाराज संप्रॊदीर्य मुहुर मुहुः 22 यान उद्दिश्य रणे पार्थः पदबन्धं चकार ह ते बद्धाः पदबन्धेन पाण्डवेन महात्मना निश्चेष्टा अभवन राजन्न अश्मसारमया इव 23 निश्चेष्टांस तु ततॊ यॊधान अवधीत पाण्डुनन्दनः यथेन्दुः समरे दैत्यांस तारकस्य वधे पुरा 24 ते वध्यमानाः समरे मुमुचुस तं रथॊत्तमम आयुधानि च सर्वाणि विस्रष्टुम उपचक्रमुः 25 ततः सुशर्मा राजेन्द्र गृहीतां वीक्ष्य वाहिनीम सौपर्णम अस्त्रं तवरितः परादुश्चक्रे महारथः 26 ततः सुपर्णाः संपेतुर भक्षयन्तॊ भुजंगमान ते वै विदुद्रुवुर नागा दृष्ट्वा तान खचरान नृप 27 बभौ बलं तद विमुक्तं पदबन्धाद विशां पते मेघवृन्दाद यथा मुक्तॊ भास्करस तापयन परजाः 28 विप्रमुक्तास तु ते यॊधाः फल्गुनस्य रथं परति ससृजुर बाणसंघांश च शस्त्रसंघांश च मारिष 29 तां महास्त्र मयीं वृष्टिं संछिद्य शरवृष्टिभिः वयवातिष्ठत ततॊ यॊधान वासविः परवीरहा 30 सुशर्मा तु ततॊ राजन बाणेनानत पर्वणा अर्जुनं हृदये विद्ध्वा विव्याधान्यैस तरिभिः शरैः स गाढविद्धॊ वयथितॊ रथॊपस्थ उपाविशत 31 परतिलभ्य ततः संज्ञां शवेताश्वः कृष्णसारथिः ऐन्द्रम अस्त्रम अमेयात्मा परादुश्चक्रे तवरान्वितः ततॊ बाणसहस्राणि समुत्पन्नानि मारिष 32 सर्वदिक्षु वयदृश्यन्त सूदयन्तॊ नृप दविपान हयान रथांश च समरे शस्त्रैः शतसहस्रशः 33 वध्यमाने ततः सैन्ये विपुला भीः समाविशत संशप्तक गणानां च गॊपालानां च भारत न हि कश चित पुमांस तत्र यॊ ऽरजुनं परत्ययुध्यत 34 पश्यतां तत्र वीराणाम अहन्यत महद बलम हन्यमानम अपश्यंश च निश्चेष्टाः सम पराक्रमे 35 अयुतं तत्र यॊधानां हत्वा पाण्डुसुतॊ रणे वयभ्राजत रणे राजन विधूमॊ ऽगनिर इव जवलन 36 चतुर्दशसहस्राणि यानि शिष्टानि भारत रथानाम अयुतं चैव तरिसाहस्राश च दन्तिनः 37 ततः संशप्तका भूयः परिवव्रुर धनंजयम मर्तव्यम इति निश्चित्य जयं वापि निवर्तनम 38 तत्र युद्धं महद धयासीत तावकानां विशां पते शूरेण बलिना सार्धं पाण्डवेन किरीटिना |
1
[s] vartamāne tadā yuddhe kṣatriyāṇāṃ nimajjane gāṇḍīvasya mahān ghoṣaḥ śuśruve yudhi māriṣa 2 saṃśaptakānāṃ kadanam akarod yatra pāṇḍavaḥ kosalānāṃ tathā rājan nārāyaṇa balasya ca 3 saṃśaptakās tu samare śaravṛṣṭiṃ samantataḥ apātayan pārtha mūrdhni jaya gṛddhāḥ pramanyavaḥ 4 tāṃ vṛṣṭiṃ sahasā rājaṃs tarasā dhārayan prabhuḥ vyagāhata raṇe pārtho vinighnan rathināṃ varaḥ 5 nigṛhya tu rathānīkaṃ kaṅkapatraiḥ śilāśitaiḥ āsasāda raṇe pārthaḥ suśarmāṇaṃ mahāratham 6 sa tasya śaravarṣāṇi vavarṣa rathināṃ varaḥ tathā saṃśaptakāś caiva pārthasya samare sthitāḥ 7 suśarmā tu tataḥ pārthāṃ viddhvā navabhir āśugaiḥ janārdanaṃ tribhir bāṇair abhyahan dakṣiṇe bhuje tato 'pareṇa bhallena ketuṃ vivyādha māriṣa 8 sa vānaravaro rājan viśvakarma kṛto mahān nanāda sumahān nādaṃ bhīṣayan vai nanarda ca 9 kapes tu ninadaṃ śrutvā saṃtrastā tava vāhinī bhayaṃ vipulam ādāya niśceṣṭā samapadyata 10 tataḥ sā śuśubhe senā niśceṣṭāvasthitā nṛpa nānāpuṣpasamākīrṇaṃ yathā caitrarathaṃ vanam 11 pratilabhya tataḥ saṃjñāṃ yodhās te kurusattama arjunaṃ siṣicur bāṇaiḥ parvataṃ jaladā iva parivavrus tadā sarve pāṇḍavasya mahāratham 12 te hayān rathacakre ca ratheṣāś cāpi bhārata nigṛhya balavat tūrṇaṃ siṃhanādam athānadan 13 apare jagṛhuś caiva keśavasya mahābhujau pārtham anye mahārāja rathasthaṃ jagṛhur mudā 14 keśavas tu tadā bāhū vidhunvan raṇamūrdhani pātayām āsa tān sarvān duṣṭahastīva hastinaḥ 15 tataḥ kruddho raṇe pārthaḥ saṃvṛtas tair mahārathaiḥ nigṛhītaṃ rathaṃ dṛṣṭvā keśavaṃ cāpy abhidrutam rathārūḍhāṃś ca subahūn padātīṃś cāpy apātayat 16 āsannāṃś ca tato yodhāñ śarair āsanna yodhibhiḥ cyāvayām āsa samare keśavaṃ cedam abravīt 17 paśya kṛṣṇa mahābāho saṃśaptaka gaṇān mayā kurvāṇān dāruṇaṃ karma vadhyamānān sahasraśaḥ 18 rathabandham idaṃ ghoraṃ pṛthivyāṃ nāsti kaś cana yaḥ saheta pumāṁl loke mad anyo yadupuṃgava 19 ity evam uktvā bībhatsur devadattam athādhamat pāñcajanyaṃ ca kṛṣṇo 'pi pūrayann iva rodasī 20 taṃ tu śaṅkhasvanaṃ śrutvā saṃśaptaka varūthinī saṃcacāla mahārāja vitrastā cābhavad bhṛṣam 21 padabandhaṃ tataś cakre pāṇḍavaḥ paravīrahā nāgam astraṃ mahārāja saṃprodīrya muhur muhuḥ 22 yān uddiśya raṇe pārthaḥ padabandhaṃ cakāra ha te baddhāḥ padabandhena pāṇḍavena mahātmanā niśceṣṭā abhavan rājann aśmasāramayā iva 23 niśceṣṭāṃs tu tato yodhān avadhīt pāṇḍunandanaḥ yathenduḥ samare daityāṃs tārakasya vadhe purā 24 te vadhyamānāḥ samare mumucus taṃ rathottamam āyudhāni ca sarvāṇi visraṣṭum upacakramuḥ 25 tataḥ suśarmā rājendra gṛhītāṃ vīkṣya vāhinīm sauparṇam astraṃ tvaritaḥ prāduścakre mahārathaḥ 26 tataḥ suparṇāḥ saṃpetur bhakṣayanto bhujaṃgamān te vai vidudruvur nāgā dṛṣṭvā tān khacarān nṛpa 27 babhau balaṃ tad vimuktaṃ padabandhād viśāṃ pate meghavṛndād yathā mukto bhāskaras tāpayan prajāḥ 28 vipramuktās tu te yodhāḥ phalgunasya rathaṃ prati sasṛjur bāṇasaṃghāṃś ca śastrasaṃghāṃś ca māriṣa 29 tāṃ mahāstra mayīṃ vṛṣṭiṃ saṃchidya śaravṛṣṭibhiḥ vyavātiṣṭhat tato yodhān vāsaviḥ paravīrahā 30 suśarmā tu tato rājan bāṇenānata parvaṇā arjunaṃ hṛdaye viddhvā vivyādhānyais tribhiḥ śaraiḥ sa gāḍhaviddho vyathito rathopastha upāviśat 31 pratilabhya tataḥ saṃjñāṃ śvetāśvaḥ kṛṣṇasārathiḥ aindram astram ameyātmā prāduścakre tvarānvitaḥ tato bāṇasahasrāṇi samutpannāni māriṣa 32 sarvadikṣu vyadṛśyanta sūdayanto nṛpa dvipān hayān rathāṃś ca samare śastraiḥ śatasahasraśaḥ 33 vadhyamāne tataḥ sainye vipulā bhīḥ samāviśat saṃśaptaka gaṇānāṃ ca gopālānāṃ ca bhārata na hi kaś cit pumāṃs tatra yo 'rjunaṃ pratyayudhyata 34 paśyatāṃ tatra vīrāṇām ahanyata mahad balam hanyamānam apaśyaṃś ca niśceṣṭāḥ sma parākrame 35 ayutaṃ tatra yodhānāṃ hatvā pāṇḍusuto raṇe vyabhrājata raṇe rājan vidhūmo 'gnir iva jvalan 36 caturdaśasahasrāṇi yāni śiṣṭāni bhārata rathānām ayutaṃ caiva trisāhasrāś ca dantinaḥ 37 tataḥ saṃśaptakā bhūyaḥ parivavrur dhanaṃjayam martavyam iti niścitya jayaṃ vāpi nivartanam 38 tatra yuddhaṃ mahad dhyāsīt tāvakānāṃ viśāṃ pate śūreṇa balinā sārdhaṃ pāṇḍavena kirīṭinā |
The Mahabharata in Sanskrit
Book 8
Chapter 38
|
1
[स] कृतवर्मा कृपॊ दरौणिः सूतपुत्रश च मारिष उलूकः सौबलश चैव राजा च सह सॊदरैः 2 सीदमानां चमूं दृष्ट्वा पाण्डुपुत्र भयार्दिताम समुज्जिहीर्षुर वेगेन भिन्नां नावम इवार्णवे 3 ततॊ युद्धम अतीवासीन मुहूर्तम इव भारत भीरूणां तरासजननं शूराणां हर्षवर्धनम 4 कृपेण शरवर्षाणि विप्र मुक्तानि संयुगे सृञ्जयाः शातयाम आसुः शलभानां वरजा इव 5 शिखण्डी तु ततः करुद्धॊ गौतमं तवरितॊ ययौ ववर्ष शरवर्षाणि समन्ताद एव बराह्मणे 6 कृपस तु शरवर्षं तद विनिहत्य महास्त्रवित शिखण्डिनं रणे करुद्धॊ विव्याध दशभिः शरैः 7 ततः शिखण्डी कुपीतः शरैः सप्तभिर आहवे कृपं विव्याध सुभृशं कङ्कपत्रैर अजिह्मगैः 8 ततः कृपः शरैस तीक्ष्णैः सॊ ऽतिविद्धॊ महारथः वयश्व सूत रथं चक्रे पार्षतं तु दविजॊत्तमः 9 हताश्वात तु ततॊ यानाद अवप्लुत्य महारथः चर्मखड्गे च संगृह्य सत्वरं बराह्मणं ययौ 10 तम आपतन्तं सहसा शरैः संनतपर्वभिः छादयाम आस समरे तद अद्भुतम इवाभवत 11 तत्राद्भुतम अपश्याम शिलानां पलवनं यथा निश्चेष्टॊ यद रणे राजञ शिखण्डी समतिष्ठत 12 कृपेण छादितं दृष्ट्वा नृपॊत्तम शिखण्डिनम परत्युद्ययौ कृपं तूर्णं धृष्टद्युम्नॊ महारथ 13 धृष्टद्युम्नं ततॊ यान्तं शारद्वत रथं परति परतिजग्राह वेगेन कृतवर्मा महारथः 14 युधिष्ठिरम अथायान्तं शारद्वत रथं परति सपुत्रं सहसेनं च दरॊणपुत्रॊ नयवारयत 15 नकुलं सहदेवं च तवरमाणौ महारथौ परतिजग्राह ते पुत्रः शरवर्षेण वारयन 16 भीमसेनं करूषांश च केकयान सहसृञ्जयान कर्णॊ वैकर्तनॊ युद्धे वारयाम आस भारत 17 शिखण्डिनस ततॊ बाणान कृपः शारद्वतॊ युधि पराहिणॊत तवरया युक्तॊ दिधक्षुर इव मारिष 18 ताञ शरान परेषितांस तेन समन्ताद धेमभूषणान चिच्छेद खड्गम आविध्य भरामयंश च पुनः पुनः 19 शतचन्द्रं ततश चर्म गौतमः पार्षतस्य ह वयधमत सायकैस तूर्णं तत उच्चुक्रुशुर जनाः 20 स विचर्मा महाराज खड्गपाणिर उपाद्रवत कृपस्य वशम आपन्नॊ मृत्यॊर आस्यम इवातुरः 21 शारद्वत शरैर गरस्तं कलिश्यमानं महाबलम चित्रकेतुसुतॊ राजन सुकेतुस तवरितॊ ययौ 22 विकिरन बराह्मणं युद्धे बहुभिर निशितैः शरैः अभ्यापतद अमेयात्मा गौतमस्य रथं परति 23 दृष्ट्वाविषह्यं तं युद्धे बराह्मणं चरितव्रतम अपयातस ततस तूर्णं शिखण्डी राजसत्तम 24 सुकेतुस तु ततॊ राजन गौतमं नवभिः शरैः विद्ध्वा विव्याध सप्तत्या पुनश चैनं तरिभिः शरैः 25 अथास्य सशरं चापं पुनश चिच्छेद मारिष सारथिं च शरेणास्य भृशं मर्मण्य अताडयत 26 गौतमस तु ततः करुद्धॊ धनुर गृह्य नवं दृढम सुकेतुं तरिंशता बाणैः सर्वमर्मस्व अताडयत 27 स विह्वलितसर्वाङ्गः परचचाल रथॊत्तमे भूमिचाले यथा वृक्षश चलत्य आकम्पितॊ भृशम 28 चलतस तस्य कायात तु शिरॊ जवलितकुण्डलम सॊष्णीषं सशिरस्त्राणं कषुरप्रेणान्वपातयत 29 तच्छिरः परापतद भूमौ शयेनाहृतम इवामिषम ततॊ ऽसय कायॊ वसुधां पश्चात पराप तदा चयुतः 30 तस्मिन हते महाराज तरस्तास तस्य पदानुगाः गौतमं समरे तयक्त्वा दुद्रुवुस ते दिशॊ दश 31 धृष्टद्युम्नं तु समरे संनिवार्य महाबलः कृतवर्माब्रवीद धृष्टस तिष्ठ तिष्ठेति पार्षतम 32 तद अभूत तुमुलं युद्धं वृष्णिपार्षतयॊ रणे आमिषार्थे यथा युद्धं शयेनयॊर गृद्धयॊर नृप 33 धृष्टद्युम्नस तु समरे हार्दिक्यं नवभिः शरैः आजघानॊरसि करुद्धः पीडयन हृदिकात्मजम 34 कृतवर्मा तु समरे पार्षतेन दृढाहतः पार्षतं सरथं साश्वं छादयाम आस सायकैः 35 सरथश छादितॊ राजन धृष्टद्युम्नॊ न दृश्यते मेघैर इव परिच्छन्नॊ भास्करॊ जलदागमे 36 विधूय तं बाणगणं शरैः कनकभूषणैः वयरॊचत रणे राजन धृष्टद्युम्नः कृतव्रणः 37 ततस तु पार्षतः करुद्धः शस्त्रवृष्टिं सुदारुणाम कृतवर्माणम आसाद्य वयसृजत पृतना पतिः 38 ताम आपतन्तीं सहसा शस्त्रवृष्टिं निरन्तराम शरैर अनेकसाहस्रैर हार्दिक्यॊ वयधमद युधि 39 दृष्ट्वा तु दारितां युद्धे शस्त्रवृष्टिं दुरुत्तराम कृतवर्माणम अभ्येत्य वारयाम आस पार्षतः 40 सारथिं चास्य तरसा पराहिणॊद यमसादनम भल्लेन शितधारेण स हतः परापतद रथात 41 धृष्टद्युम्नस तु बलवाञ जित्वा शत्रुं महारथम कौरवान समरे तूर्णं वारयाम आस सायकैः 42 ततस ते तावका यॊधा धृष्टद्युम्नम उपाद्रवन सिंहनाद रवं कृत्वा ततॊ युद्धम अवर्तत |
1
[s] kṛtavarmā kṛpo drauṇiḥ sūtaputraś ca māriṣa ulūkaḥ saubalaś caiva rājā ca saha sodaraiḥ 2 sīdamānāṃ camūṃ dṛṣṭvā pāṇḍuputra bhayārditām samujjihīrṣur vegena bhinnāṃ nāvam ivārṇave 3 tato yuddham atīvāsīn muhūrtam iva bhārata bhīrūṇāṃ trāsajananaṃ śūrāṇāṃ harṣavardhanam 4 kṛpeṇa śaravarṣāṇi vipra muktāni saṃyuge sṛñjayāḥ śātayām āsuḥ śalabhānāṃ vrajā iva 5 śikhaṇḍī tu tataḥ kruddho gautamaṃ tvarito yayau vavarṣa śaravarṣāṇi samantād eva brāhmaṇe 6 kṛpas tu śaravarṣaṃ tad vinihatya mahāstravit śikhaṇḍinaṃ raṇe kruddho vivyādha daśabhiḥ śaraiḥ 7 tataḥ śikhaṇḍī kupītaḥ śaraiḥ saptabhir āhave kṛpaṃ vivyādha subhṛśaṃ kaṅkapatrair ajihmagaiḥ 8 tataḥ kṛpaḥ śarais tīkṣṇaiḥ so 'tividdho mahārathaḥ vyaśva sūta rathaṃ cakre pārṣataṃ tu dvijottamaḥ 9 hatāśvāt tu tato yānād avaplutya mahārathaḥ carmakhaḍge ca saṃgṛhya satvaraṃ brāhmaṇaṃ yayau 10 tam āpatantaṃ sahasā śaraiḥ saṃnataparvabhiḥ chādayām āsa samare tad adbhutam ivābhavat 11 tatrādbhutam apaśyāma śilānāṃ plavanaṃ yathā niśceṣṭo yad raṇe rājañ śikhaṇḍī samatiṣṭhata 12 kṛpeṇa chāditaṃ dṛṣṭvā nṛpottama śikhaṇḍinam pratyudyayau kṛpaṃ tūrṇaṃ dhṛṣṭadyumno mahāratha 13 dhṛṣṭadyumnaṃ tato yāntaṃ śāradvata rathaṃ prati pratijagrāha vegena kṛtavarmā mahārathaḥ 14 yudhiṣṭhiram athāyāntaṃ śāradvata rathaṃ prati saputraṃ sahasenaṃ ca droṇaputro nyavārayat 15 nakulaṃ sahadevaṃ ca tvaramāṇau mahārathau pratijagrāha te putraḥ śaravarṣeṇa vārayan 16 bhīmasenaṃ karūṣāṃś ca kekayān sahasṛñjayān karṇo vaikartano yuddhe vārayām āsa bhārata 17 śikhaṇḍinas tato bāṇān kṛpaḥ śāradvato yudhi prāhiṇot tvarayā yukto didhakṣur iva māriṣa 18 tāñ śarān preṣitāṃs tena samantād dhemabhūṣaṇān ciccheda khaḍgam āvidhya bhrāmayaṃś ca punaḥ punaḥ 19 śatacandraṃ tataś carma gautamaḥ pārṣatasya ha vyadhamat sāyakais tūrṇaṃ tata uccukruśur janāḥ 20 sa vicarmā mahārāja khaḍgapāṇir upādravat kṛpasya vaśam āpanno mṛtyor āsyam ivāturaḥ 21 śāradvata śarair grastaṃ kliśyamānaṃ mahābalam citraketusuto rājan suketus tvarito yayau 22 vikiran brāhmaṇaṃ yuddhe bahubhir niśitaiḥ śaraiḥ abhyāpatad ameyātmā gautamasya rathaṃ prati 23 dṛṣṭvāviṣahyaṃ taṃ yuddhe brāhmaṇaṃ caritavratam apayātas tatas tūrṇaṃ śikhaṇḍī rājasattama 24 suketus tu tato rājan gautamaṃ navabhiḥ śaraiḥ viddhvā vivyādha saptatyā punaś cainaṃ tribhiḥ śaraiḥ 25 athāsya saśaraṃ cāpaṃ punaś ciccheda māriṣa sārathiṃ ca śareṇāsya bhṛśaṃ marmaṇy atāḍayat 26 gautamas tu tataḥ kruddho dhanur gṛhya navaṃ dṛḍham suketuṃ triṃśatā bāṇaiḥ sarvamarmasv atāḍayat 27 sa vihvalitasarvāṅgaḥ pracacāla rathottame bhūmicāle yathā vṛkṣaś calaty ākampito bhṛśam 28 calatas tasya kāyāt tu śiro jvalitakuṇḍalam soṣṇīṣaṃ saśirastrāṇaṃ kṣurapreṇānvapātayat 29 tacchiraḥ prāpatad bhūmau śyenāhṛtam ivāmiṣam tato 'sya kāyo vasudhāṃ paścāt prāpa tadā cyutaḥ 30 tasmin hate mahārāja trastās tasya padānugāḥ gautamaṃ samare tyaktvā dudruvus te diśo daśa 31 dhṛṣṭadyumnaṃ tu samare saṃnivārya mahābalaḥ kṛtavarmābravīd dhṛṣṭas tiṣṭha tiṣṭheti pārṣatam 32 tad abhūt tumulaṃ yuddhaṃ vṛṣṇipārṣatayo raṇe āmiṣārthe yathā yuddhaṃ śyenayor gṛddhayor nṛpa 33 dhṛṣṭadyumnas tu samare hārdikyaṃ navabhiḥ śaraiḥ ājaghānorasi kruddhaḥ pīḍayan hṛdikātmajam 34 kṛtavarmā tu samare pārṣatena dṛḍhāhataḥ pārṣataṃ sarathaṃ sāśvaṃ chādayām āsa sāyakaiḥ 35 sarathaś chādito rājan dhṛṣṭadyumno na dṛśyate meghair iva paricchanno bhāskaro jaladāgame 36 vidhūya taṃ bāṇagaṇaṃ śaraiḥ kanakabhūṣaṇaiḥ vyarocata raṇe rājan dhṛṣṭadyumnaḥ kṛtavraṇaḥ 37 tatas tu pārṣataḥ kruddhaḥ śastravṛṣṭiṃ sudāruṇām kṛtavarmāṇam āsādya vyasṛjat pṛtanā patiḥ 38 tām āpatantīṃ sahasā śastravṛṣṭiṃ nirantarām śarair anekasāhasrair hārdikyo vyadhamad yudhi 39 dṛṣṭvā tu dāritāṃ yuddhe śastravṛṣṭiṃ duruttarām kṛtavarmāṇam abhyetya vārayām āsa pārṣataḥ 40 sārathiṃ cāsya tarasā prāhiṇod yamasādanam bhallena śitadhāreṇa sa hataḥ prāpatad rathāt 41 dhṛṣṭadyumnas tu balavāñ jitvā śatruṃ mahāratham kauravān samare tūrṇaṃ vārayām āsa sāyakaiḥ 42 tatas te tāvakā yodhā dhṛṣṭadyumnam upādravan siṃhanāda ravaṃ kṛtvā tato yuddham avartata |
The Mahabharata in Sanskrit
Book 8
Chapter 39
|
1
[स] दरौणिर युधिष्ठिरं दृष्ट्वा शैनेयेनाभिरक्षितम दरौपदेयैस तथा शूरैर अभ्यवर्तत हृष्टवत 2 किरन्न इषुगणान घॊरान सवर्णपुङ्खाञ शिलाशितान दर्शयन विविधान मार्गाञ शिक्षार्थं लघुहस्तवत 3 ततः खं पूरयाम आस शरैर दिव्यास्त्रमन्त्रितैः युधिष्ठिरं च समरे पर्यवारयद अस्त्रवित 4 दरौणायनि शरच छन्नं न पराज्ञायत किं चन बाणभूतम अभूत सर्वम आयॊधन शिरॊ हि तत 5 बाणजालं दिविष्ठं तत सवर्णजालविभूषितम शुशुभे भरतश्रेष्ठ वितानम इव विष्ठितम 6 तेन छन्ने रणे राजन बाणजालेन भास्वता अभ्रच छायेव संजज्ञे बाणरुद्धे नभस्तले 7 तत्राश्चर्यम अपश्याम बाणभूते तथाविधे न सम संपतते भूमौ दृष्ट्वा दरौणेः पराक्रमम 8 लाघवं दरॊणपुत्रस्य दृष्ट्वा तत्र महारथाः वयस्मयन्त महाराज न चैनं परतिवीक्षितुम शेकुस ते सर्वराजानस तपन्तम इव भास्करम 9 सात्यकिर यतमानस तु धर्मराजश च पाण्डवः तथेतराणि सैन्यानि न सम चक्रुः पराक्रमम 10 वध्यमाने ततः सैन्ये दरौपदेया महारथाः सात्यकिर धर्मराजश च पाञ्चालाश चापि संगताः तयक्त्वा मृत्युभयं घॊरं दरौणायनिम उपाद्रवन 11 सात्यकिः पञ्चविंशत्या दरौणिं विद्ध्वा शिला मुखैः पुनर विव्याध नाराचैः सप्तभिः सवर्णभूषितैः 12 युधिष्ठिरस तरिसप्तत्या परतिविन्ध्यश च सप्तभिः शरुतकर्मा तरिभिर बाणैः शरुतकीर्तिस तु सप्तभिः 13 सुत सॊमश च नवभिः शतानीकश च सप्तभिः अन्ये च बहवः शूरा विव्यधुस तं समन्ततः 14 सॊ ऽतिक्रुद्धस ततॊ राजन्न आशीविष इव शवसन सात्यकिं पञ्चविंशत्या पराविध्यत शिलाशितैः 15 शरुतकीर्तिं च नवभिः सुत सॊमं च पञ्चभिः अष्टभिः शरुतकर्माणं परतिविन्ध्यं तरिभिः शरैः शतानीकं च नवभिर धर्मपुत्रं च सप्तभिः 16 अथेतरांस ततः शूरान दवाभ्यां दवाभ्याम अताडयत शरुतकीर्तेस तथा चापं चिच्छेद निशितैः शरैः 17 अथान्यद धनुर आदाय शरुतकीर्तिर महारथः दरौणायनिं तरिभिर विद्ध्वा विव्याधान्यैः शितैः शरैः 18 ततॊ दरौणिर महाराज शरवर्षेण भारत छादयाम आस तत सैन्यं समन्ताच च शरैर नृपान 19 ततः पुनर अमेयात्मा धर्मराजस्य कार्मुकम दरौणिश चिच्छेद विहसन विव्याध च शरैस तरिभिः 20 ततॊ धर्मसुतॊ राजन परगृह्यान्यन महद धनुः दरौणिं विव्याध सप्तत्या बाह्वॊर उरसि चार्दयत 21 सात्यकिस तु ततः करुद्धॊ दरौणेः परहरतॊ रणे अर्धचन्द्रेण तीक्ष्णेन धनुश छित्त्वानदद भृशम 22 छिन्नधन्वा ततॊ दरौणिः शक्त्या शक्तिमतां वरः सारथिं पातयाम आस शैनेयस्य रथाद दरुतम 23 अथान्यद धनुर आदाय दरॊणपुत्रः परतापवान शैनेयं शरवर्षेण छादयाम आस भारत 24 तस्याश्वाः परद्रुताः संख्ये पतिते रथसारथौ तत्र तत्रैव धावन्तः समदृश्यन्त भारत 25 युधिष्ठिरपुरॊगास ते दरौणिं शस्त्रभृतां वरम अभ्यवर्षन्त वेगेन विसृजन्तः शिताञ शरान 26 आगच्छमानांस तान दृष्ट्वा रौद्ररूपान परंतपः परहसन परतिजग्राह दरॊणपुत्रॊ महारणे 27 ततः शरशतज्वालः सेना कक्षंमहा रथः दरौणिर ददाह समरे कक्षम अग्निर यथा वने 28 तद बलं पाण्डुपुत्रस्य दरॊणपुत्र परतापितम चुक्षुभे भरतश्रेष्ठ तिमिनेव नदी मुखम 29 दृष्ट्वा ते च महाराज दरॊणपुत्र पराक्रमम निहतान मेनिरे सर्वान पाण्डून दरॊणसुतेन वै 30 युधिष्ठिरस तु तवरितॊ दरौणिं शलिष्य महारथम अब्रवीद दरॊणपुत्रं तु रॊषामर्षसमन्वितः 31 नैव नाम तव परीतिर नैव नाम कृतज्ञता यतस तवं पुरुषव्याघ्र माम एवाद्य जिघांससि 32 बराह्मणेन तपः कार्यं दानम अध्ययनं तथा कषत्रियेण धनुर नाम्यं स भवान बराह्मण बरुवः 33 मिषतस ते महाबाहॊ जेष्यामि युधि कौरवान कुरुष्व समरे कर्म बरह्म बन्धुर असि धरुवम 34 एवम उक्तॊ महाराज दरॊणपुत्रः समयन्न इव युक्तत्वं तच च संचिन्त्य नॊत्तरं किं चिद अब्रवीत 35 अनुक्त्वा च ततः किं चिच छरवर्षेण पाण्डवम छादयाम आस समरे करुद्धॊ ऽनतक इव परजाः 36 संछाद्यमानस तु तदा दरॊणपुत्रेण मारिष पार्थॊ ऽपयातः शीघ्रं वै विहाय महतीं चमूम 37 अपयाते ततस तस्मिन धर्मपुत्रे युधिष्ठिरे दरॊणपुत्रः सथितॊ राजन परत्यादेशान महात्मनः 38 ततॊ युधिष्ठिरॊ राजा तयक्त्वा दरौणिं महाहवे परययौ तावकं सैन्यं युक्तः करूराय कर्मणे |
1
[s] drauṇir yudhiṣṭhiraṃ dṛṣṭvā śaineyenābhirakṣitam draupadeyais tathā śūrair abhyavartata hṛṣṭavat 2 kirann iṣugaṇān ghorān svarṇapuṅkhāñ śilāśitān darśayan vividhān mārgāñ śikṣārthaṃ laghuhastavat 3 tataḥ khaṃ pūrayām āsa śarair divyāstramantritaiḥ yudhiṣṭhiraṃ ca samare paryavārayad astravit 4 drauṇāyani śarac channaṃ na prājñāyata kiṃ cana bāṇabhūtam abhūt sarvam āyodhana śiro hi tat 5 bāṇajālaṃ diviṣṭhaṃ tat svarṇajālavibhūṣitam śuśubhe bharataśreṣṭha vitānam iva viṣṭhitam 6 tena channe raṇe rājan bāṇajālena bhāsvatā abhrac chāyeva saṃjajñe bāṇaruddhe nabhastale 7 tatrāścaryam apaśyāma bāṇabhūte tathāvidhe na sma saṃpatate bhūmau dṛṣṭvā drauṇeḥ parākramam 8 lāghavaṃ droṇaputrasya dṛṣṭvā tatra mahārathāḥ vyasmayanta mahārāja na cainaṃ prativīkṣitum śekus te sarvarājānas tapantam iva bhāskaram 9 sātyakir yatamānas tu dharmarājaś ca pāṇḍavaḥ tathetarāṇi sainyāni na sma cakruḥ parākramam 10 vadhyamāne tataḥ sainye draupadeyā mahārathāḥ sātyakir dharmarājaś ca pāñcālāś cāpi saṃgatāḥ tyaktvā mṛtyubhayaṃ ghoraṃ drauṇāyanim upādravan 11 sātyakiḥ pañcaviṃśatyā drauṇiṃ viddhvā śilā mukhaiḥ punar vivyādha nārācaiḥ saptabhiḥ svarṇabhūṣitaiḥ 12 yudhiṣṭhiras trisaptatyā prativindhyaś ca saptabhiḥ śrutakarmā tribhir bāṇaiḥ śrutakīrtis tu saptabhiḥ 13 suta somaś ca navabhiḥ śatānīkaś ca saptabhiḥ anye ca bahavaḥ śūrā vivyadhus taṃ samantataḥ 14 so 'tikruddhas tato rājann āśīviṣa iva śvasan sātyakiṃ pañcaviṃśatyā prāvidhyata śilāśitaiḥ 15 śrutakīrtiṃ ca navabhiḥ suta somaṃ ca pañcabhiḥ aṣṭabhiḥ śrutakarmāṇaṃ prativindhyaṃ tribhiḥ śaraiḥ śatānīkaṃ ca navabhir dharmaputraṃ ca saptabhiḥ 16 athetarāṃs tataḥ śūrān dvābhyāṃ dvābhyām atāḍayat śrutakīrtes tathā cāpaṃ ciccheda niśitaiḥ śaraiḥ 17 athānyad dhanur ādāya śrutakīrtir mahārathaḥ drauṇāyaniṃ tribhir viddhvā vivyādhānyaiḥ śitaiḥ śaraiḥ 18 tato drauṇir mahārāja śaravarṣeṇa bhārata chādayām āsa tat sainyaṃ samantāc ca śarair nṛpān 19 tataḥ punar ameyātmā dharmarājasya kārmukam drauṇiś ciccheda vihasan vivyādha ca śarais tribhiḥ 20 tato dharmasuto rājan pragṛhyānyan mahad dhanuḥ drauṇiṃ vivyādha saptatyā bāhvor urasi cārdayat 21 sātyakis tu tataḥ kruddho drauṇeḥ praharato raṇe ardhacandreṇa tīkṣṇena dhanuś chittvānadad bhṛśam 22 chinnadhanvā tato drauṇiḥ śaktyā śaktimatāṃ varaḥ sārathiṃ pātayām āsa śaineyasya rathād drutam 23 athānyad dhanur ādāya droṇaputraḥ pratāpavān śaineyaṃ śaravarṣeṇa chādayām āsa bhārata 24 tasyāśvāḥ pradrutāḥ saṃkhye patite rathasārathau tatra tatraiva dhāvantaḥ samadṛśyanta bhārata 25 yudhiṣṭhirapurogās te drauṇiṃ śastrabhṛtāṃ varam abhyavarṣanta vegena visṛjantaḥ śitāñ śarān 26 āgacchamānāṃs tān dṛṣṭvā raudrarūpān paraṃtapaḥ prahasan pratijagrāha droṇaputro mahāraṇe 27 tataḥ śaraśatajvālaḥ senā kakṣaṃmahā rathaḥ drauṇir dadāha samare kakṣam agnir yathā vane 28 tad balaṃ pāṇḍuputrasya droṇaputra pratāpitam cukṣubhe bharataśreṣṭha timineva nadī mukham 29 dṛṣṭvā te ca mahārāja droṇaputra parākramam nihatān menire sarvān pāṇḍūn droṇasutena vai 30 yudhiṣṭhiras tu tvarito drauṇiṃ śliṣya mahāratham abravīd droṇaputraṃ tu roṣāmarṣasamanvitaḥ 31 naiva nāma tava prītir naiva nāma kṛtajñatā yatas tvaṃ puruṣavyāghra mām evādya jighāṃsasi 32 brāhmaṇena tapaḥ kāryaṃ dānam adhyayanaṃ tathā kṣatriyeṇa dhanur nāmyaṃ sa bhavān brāhmaṇa bruvaḥ 33 miṣatas te mahābāho jeṣyāmi yudhi kauravān kuruṣva samare karma brahma bandhur asi dhruvam 34 evam ukto mahārāja droṇaputraḥ smayann iva yuktatvaṃ tac ca saṃcintya nottaraṃ kiṃ cid abravīt 35 anuktvā ca tataḥ kiṃ cic charavarṣeṇa pāṇḍavam chādayām āsa samare kruddho 'ntaka iva prajāḥ 36 saṃchādyamānas tu tadā droṇaputreṇa māriṣa pārtho 'payātaḥ śīghraṃ vai vihāya mahatīṃ camūm 37 apayāte tatas tasmin dharmaputre yudhiṣṭhire droṇaputraḥ sthito rājan pratyādeśān mahātmanaḥ 38 tato yudhiṣṭhiro rājā tyaktvā drauṇiṃ mahāhave prayayau tāvakaṃ sainyaṃ yuktaḥ krūrāya karmaṇe |
The Mahabharata in Sanskrit
Book 8
Chapter 40
|
1
[स] भीमसेनं सपाञ्चाल्यं चेदिकेकयसंवृतम वैकर्तनः सवयं रुद्ध्वा वरयाम आस सायकैः 2 ततस तु चेदिकारूषान सृञ्जयांश च महारथान कर्णॊ जघान संक्रुद्धॊ भीमसेनस्य पश्यतः 3 भीमसेनस ततः कर्णं विहाय रथसत्तमम परययौ कौरवं सैन्यं कक्षम अग्निर इव जवलन 4 सूतपुत्रॊ ऽपि समरे पाञ्चालान केकयांस तथा सृञ्जयांश च महेष्वासान निजघान सहस्रशः 5 संशप्तकेषु पार्थाश च कौरवेषु वृकॊदरः पाञ्चालेषु तथा कर्णः कषयं चक्रूर महारथाः 6 ते कषत्रिया दह्यमानास तरिभिस तैः पावकॊपमैः जग्मुर विनाशं समरे राजन दुर्मन्त्रिते तव 7 ततॊ दुर्यॊधनः करुद्धॊ नकुलं नवभिः शरैः विव्याध भरतश्रेष्ठ चतुरश चास्य वाजिनः 8 ततः पुनर अमेयात्मा तव पुत्रॊ जनाधिपः कषुरेण सहदेवस्य धवजं चिच्छेद काञ्चनम 9 नकुलस तु ततः करुद्धस तव पुत्रं तरिसप्तभिः जघान समरे राजन सहदेवश च पञ्चभिः 10 ताव उभौ भरतश्रेष्ठौ शरेष्ठौ सर्वधनुष्मताम विव्याधॊरसि संक्रुद्धः पञ्चभिः पञ्चभिः शरैः 11 ततॊ ऽपराभ्यां भल्लाभ्यां धनुषी समकृन्तत यमयॊः परहसन राजन विव्याधैव च सप्तभिः 12 ताव अन्ये धनुषी शरेष्ठे शक्रचापनिभे शुभे परगृह्य रेजतुः शूरौ देवपुत्रसमौ युधि 13 ततस तौ रभसौ युद्धे भरातरौ भरातरं नृप शरैर ववर्षतुर घॊरैर महामेघौ यथाचलम 14 ततः करुद्धॊ महाराज तव पुत्रॊ महारथः पाण्डुपुत्रौ महेष्वासौ वारयाम आस पत्रिभिः 15 धनुर्मण्डलम एवास्य दृश्यते युधि भारत सायकाश चैव दृश्यन्ते निश्चरन्तः समन्ततः 16 तस्य सायकसंछन्नौ चकाशेतां च पाण्डवौ मेघच छन्नौ यथा वयॊम्नि चन्द्रसूर्यौ हतप्रभौ 17 ते तु बाणा महाराज हेमपुङ्खाः शिलाशिताः आछादयन दिशः सर्वाः सूर्यस्येवांशवस तदा 18 बाणभूते ततस तस्मिन संछन्ने च नभस्तले यमाभ्यां ददृशे रूपं कालान्तकयमॊपमम 19 पराक्रमं तु तं दृष्ट्वा तव सूनॊर महारथाः मृत्यॊर उपान्तिकं पराप्तौ माद्रीपुत्रौ सम मेनिरे 20 ततः सेनापती राजन पाण्डवस्य महात्मनः पार्षतः परययौ तत्र यत्र राजा सुयॊधनः 21 माद्रीपुत्रौ ततः शूरौ वयतिक्रम्य महारथौ धृष्टद्युम्नस तव सुतं ताडयाम आस सायकैः 22 तम अविध्यद अमेयात्मा तव पुत्रॊ ऽतयमर्षणः पाञ्चाल्यं पञ्चविंशत्या परहस्य पुरुषर्षभ 23 ततः पुनर अमेयात्मा पुत्रस ते पृथिवीपते विद्ध्वा ननाद पाञ्चाल्यं षष्ट्या पञ्चभिर एव च 24 अथास्य सशरं चापं हस्तावापं च मारिष कषुरप्रेण सुतीक्ष्णेन राजा चिच्छेद संयुगे 25 तद अपास्य धनुश छिन्नं पाञ्चाल्यः शक्र कर्शनः अन्यद आदत्त वेगेन धनुर भारसहं नवम 26 परज्वलन्न इव वेगेन संरम्भाद रुधिरेक्षणः अशॊभत महेष्वासॊ धृष्टद्युम्नः कृतव्रणः 27 स पञ्चदश नाराचाञ शवसतः पन्नगान इव जिघांसुर भरतश्रेष्ठं धृष्टद्युम्नॊ वयवासृजत 28 ते वर्म हेमविकृतं भित्त्वा राज्ञः शिलाशिताः विविशुर वसुधां वेगात कङ्कबर्हिण वाससः 29 सॊ ऽतिविद्धॊ महाराज पुत्रस ते ऽतिव्यराजत वसन्ते पुष्पशबलः सपुष्प इव किंशुकः 30 स छिन्नवर्मा नाराचैः परहारैर जर्जरच्छविः धृष्टद्युम्नस्य भल्लेन करुद्धश चिच्छेद कार्मुकम 31 अथैनं छिन्नधन्वानं तवरमाणॊ महीपतिः सायकैर दशभी राजन भरुवॊर मध्ये समार्दयत 32 तस्य ते ऽशॊभयन वक्त्रं कर्मार परिमार्जिताः परफुल्लं चम्पकं यद्वद भरमरा मधु लिप्सवः 33 तद अपास्य धनुश छिन्नं धृष्टद्युम्नॊ महामनाः अन्यद आदत्त वेगेन धनुर भल्लांश च षॊडश 34 ततॊ दुर्यॊधनस्याश्वान हत्वा सूतं च पञ्चभिः धनुश चिच्छेद भल्लेन जातरूपपरिष्कृतम 35 रथं सॊपस्करं छत्रं शक्तिं खड्गं गदां धवजम भल्लैश चिच्छेद नवभिः पुत्रस्य तव पार्षतः 36 तपनीयाङ्गदं चित्रं नागं मणिमयं शुभम धवजं कुरुपतेश छिन्नं ददृशुः सर्वपार्थिवाः 37 दुर्यॊधनं तु विरथं छिन्नसर्वायुधं रणे भरातरः पर्यरक्षन्त सॊदर्या भरतर्षभ 38 तम आरॊप्य रथे राजन दण्डधारॊ जनाधिपम अपॊवाह च संभ्रान्तॊ धृष्टद्युम्नस्य पश्यतः 39 कर्णस तु सात्यकिं जित्वा राजगृद्धी महाबलः दरॊण हन्तारम उग्रेषुं ससाराभिमुखं रणे 40 तं पृष्ठतॊ ऽभययात तूर्णं शैनेयॊ वितुदञ शरैः वारणं जघनॊपान्ते विषाणाभ्याम इव दविपः 41 स भारत महान आसीद यॊधानां सुमहात्मनाम कर्ण पार्षतयॊर मध्ये तवदीयानां महारणः 42 न पाण्डवानां नास्माकं यॊधः कश्च चित पराङ्मुखः परत्यदृश्यत यत कर्णः पाञ्चालांस तवरितॊ ययौ 43 तस्मिन कषणे नरश्रेष्ठ गजवाजिन रक्षयः परादुरासीद उभयतॊ राजन मध्यं गते ऽहनि 44 पाञ्चालास तु महाराज तवरिता विजिगीषवः सर्वतॊ ऽभयद्रवन कर्णं पतत्रिण इव दरुमम 45 तेषाम आधिरथिः करुद्धॊ यतमानान मनस्विनः विचिन्वन्न एव बाणाग्रैः समासादयद अग्रतः 46 वयाघ्रकेतुं सुशर्माणं शङ्कुं चॊग्रं धनंजयम शुक्लं च रॊचमानं च सिंहसेनं च दुर्जयम 47 ते वीरा रथवेगेन परिवव्रुर नरॊत्तरम सृजन्तं सायकान करुद्धं कर्णम आहवशॊभिनम 48 युध्यमानांस तु ताञ शूरान मनुजेन्द्रः परतापवान अष्टाभिर अष्टौ राधेयॊ नयहनन निशितैः शरैः 49 अथापरान महाराज सूतपुत्रः परतापवान जघान बहुसाहस्रान यॊधान युद्धविशारदः 50 विष्णुं च विष्णुकर्माणं देवापिं भद्रम एव च दण्डं च समरे राजंश चित्रं चित्रायुधं हरिम 51 सिंहकेतुं रॊचमानं शलभं च महारथम निजघान सुसंक्रुद्धश चेदीनां च महारथान 52 तेषाम आददतः पराणान आसीद आधिरथेर वपुः शॊणिताभ्युक्षिताङ्गस्य रुद्रस्येवॊर्जितं महत 53 तत्र भारत कर्णेन मातङ्गास ताडिताः शरैः सर्वतॊ ऽभयद्रवन भीताः कुर्वन्तॊ महद आकुलम 54 निपेतुर उर्व्यां समरे कर्ण सायकपीडिताः कुर्वन्तॊ विविधान नादान वज्रनुन्ना इवाचलाः 55 गजवाजिमनुष्यैश च निपतद्भिः समन्ततः रथैश चावगतैर मार्गे पर्यस्तीर्यत मेदिनी 56 नैव भीष्मॊ न च दरॊणॊ नाप्य अन्ये युधि तावकाः चक्रुः सम तादृशं कर्म यादृशं वै कृतं रणे 57 सूतपुत्रेण नागेषु रथेषु च हयेषु च नरेषु च नरव्याघ्र कृतं सम कदनं महत 58 मृगमध्ये यथा सिंहॊ दृश्यते निर्भयश चरन पाञ्चालानां तथा मध्ये कर्णॊ ऽचरद अभीतवत 59 यथा मृगगणांस तरस्तान सिंहॊ दरावयते दिशः पाञ्चालानां रथव्रातान कर्णॊ दरावयते तथा 60 सिंहास्यं च यथा पराप्य न जीवन्ति मृगाः कव चित तथा कर्णम अनुप्राप्य न जीवन्ति महारथाः 61 वैश्वानरं यथा दीप्तं दह्यन्ते पराप्य वै जनाः कर्णाग्निना रणे तद्वद दग्धा भारत सृञ्जयाः 62 कर्णेन चेदिष्व एकेन पाञ्चालेषु च भारत विश्राव्य नाम निहता बहवः शूर संमताः 63 मम चासीन मनुष्येन्द्र दृष्ट्वा कर्णस्य विक्रमम नैकॊ ऽपय आधिरथेर जीवन पाञ्चाल्यॊ मॊक्ष्यते युधि 64 पाञ्चालान विधमन संख्ये सूतपुत्रः परतापवान अभ्यधावत संक्रुद्धॊ धर्मपुत्रं युधिष्ठिरम 65 धृष्टद्युम्नश च राजानं दरौपदेयाश च मारिष परिवव्रुर अमित्रघ्नं शतशश चापरे जनाः 66 शिखण्डी सहदेवश च नकुलॊ नाकुलिस तथा जनमेजयः शिनेर नप्ता बहवश च परभद्रकाः 67 एते पुरॊगमा भूत्वा धृष्टद्युम्नस्य संयुगे कर्णम अस्यन्तम इष्वस्त्रैर विचेरुर अमितौजसः 68 तांस तत्राधिरथिः संख्ये चेदिपाञ्चालपाण्डवान एकॊ बहून अभ्यपतद गरुत्मन पान्नगान इव 69 भीमसेनस तु संक्रुद्धः कुरून मद्रान सकेकयान एकः संख्ये महेष्वासॊ यॊधयन बह्व अशॊभत 70 तत्र मर्मसु भीमेन नाराचैस ताडिता गजाः परपतन्तॊ हतारॊहाः कम्पयन्ति सम मेदिनीम 71 वाजिनश च हतारॊहाः पत्तयश च गतासवः शेरते युधि निर्भिन्ना वमन्तॊ रुधिरं बहु 72 सहस्रशश च रथिनः पतिताः पतितायुधाः अक्षताः समदृश्यन्त भीमाद भीता गतासवः 73 रथिभिर वाजिभिः सूतैः पत्तिभिश च तथा गजैः भीमसेनशरच छिन्नैर आस्तीर्णा वसुधाभवत 74 तत सतम्भितम इवातिष्ठद भीमसेनबलार्दितम दुर्यॊधन बलं राजन निरुत्साहं कृतव्रणम 75 निश्चेष्टं तुमुले दीनं बभौ तस्मिन महारणे परसन्नसलिलः काले यथा सयात सागरॊ नृप 76 मन्युवीर्यबलॊपेतं बलात पर्यवरॊपितम अभवत तव पुत्रस्य तत सैन्यम इषुभिस तदा रुधिरौघपरिक्लिन्नं रुधिरार्द्रं बभूव ह 77 सूतपुत्रॊ रणे करुद्धः पाण्डवानाम अनीकिनीम भीमसेनः कुरूंश चापि दरावयन बह्व अशॊभत 78 वर्तमाने तथा रौद्रे संग्रामे ऽदभुतदर्शने निहत्य पृतना मध्ये संशप्तक गणान बहून 79 अर्जुनॊ जयतां शरेष्ठॊ वासुदेवम अथाब्रवीत परभग्नं बलम एतद धि यॊत्स्यमानं जनार्दन 80 एते धावन्ति सगणाः संशप्तक महारथाः अपारयन्तॊ मद्बाणान सिंहशब्दान मृगा इव 81 दीर्यते च महत सैन्यं सृञ्जयानां महारणे हस्तिकक्ष्यॊ हय असौ कृष्ण केतुः कर्णस्य धीमतः दृश्यते राजसैन्यस्य मध्ये विचरतॊ मुहुः 82 न च कर्णं रणे शक्ता जेतुम अन्ये महारथाः जानीते हि भवान कर्णं वीर्यवन्तं पराक्रमे 83 तत्र याहि यतः कर्णॊ दरावयत्य एष नॊ बलम 84 वर्जयित्वा रणे याहि सूतपुत्रं महारथम शरमॊ मा बाधते कृष्ण यथा वा तव रॊचते 85 एतच छरुत्वा महाराज गॊविन्दः परहसन्न इव अब्रवीद अर्जुनं तूर्णं कौरवाञ जहि पाण्डव 86 ततस तव महत सैन्यं गॊविन्द परेरिता हयाः हंसवर्णाः परविविशुर वहन्तः कृष्ण पाण्डवौ 87 केशव परहितैर अश्वैः शवेतैः काञ्चनभूषणैः परविशद्भिस तव बलं चतुर्दिशम अभिद्यत 88 तौ विदार्य महासेना परविष्टौ केशवार्जुनौ करुद्धौ संरम्भरक्ताक्षौ वयभ्राजेतां महाद्युती 89 युद्धशौण्डौ समाहूताव अरिभिस तौ रणाध्वरम यज्वभिर विधिनाहूतौ मखे देवाव इवाश्विनौ 90 करुद्धौ तौ तु नरव्याघ्रौ वेगवन्तौल बभूवतुः तलशब्देन रुषितौ यथा नागौ महाहवे 91 विगाहन स रथानीकम अश्वसंघांश च फल्गुनः वयचरत पृतना मध्ये पाशहस्त इवान्तकः 92 तं दृष्ट्वा युधि विक्रान्तं सेनायां तव भारत संशप्तक गणान भूयः पुत्रस ते समचॊदयत 93 ततॊ रथसहस्रेण दविरदानां तरिभिः शतैः चतुर्दशसहस्रैश च तुरगाणां महाहवे 94 दवाभ्यां शतसहस्राभ्यां पदातीनां च धन्विनाम शूराणां नाम लब्धानां विदितानां समन्ततः अभ्यवर्तन्त तौ वीरौ छादयन्तॊ महारथाः 95 स छाद्यमानः समरे शरैः परबलार्दनः दर्शयन रौद्रम आत्मानं पाशहस्त इवान्तकः निघ्नन संशप्तकान पार्थः परेक्षणीयतरॊ ऽभवत 96 ततॊ विद्युत्प्रभैर बाणैः कार्तस्वरविभूषितैः निरन्तरम इवाकाशम आसीन नुन्नैः किरीटिना 97 किरीटिभुजनिर्मुक्तैः संपतद्भिर महाशरैः समाच्छन्नं बभौ सर्वं काद्रवेयैर इव परभॊ 98 रुक्मपुङ्खान परसन्नाग्राञ शरान संनतपर्वणः अदर्शयद अमेयात्मा दिक्षु सर्वासु पाण्डवः 99 हत्वा दशसहस्राणि पार्थिवानां महारथ संशप्तकानां कौन्तेयः परपक्षं तवरितॊ ऽभययात 100 परपक्षं स समासाद्य पार्थः काम्बॊजरक्षितम परममाथ बलाद बाणैर दानवान इव वासवः 101 परचिच्छेदाशु भल्लैश च दविषताम आततायिनाम शस्त्रपाणींस तथा बाहूंस तथापि च शिरांस्य उत 102 अङ्गाङ्गावयवैश छिन्नैर वयायुधास ते ऽपतन कषितौ विष्वग वाताभिसंभग्ना बहुशाखा इव दरुमाः 103 हस्त्यश्वरथपत्तीनां वरातान निघ्नन्तम अर्जुनम सुदक्षिणाद अवरजः शरवृष्ट्याभ्यवीवृषत 104 अस्यास्यतॊ ऽरधचन्द्राभ्यां स बाहू परिघॊपमौ पूर्णचन्द्राभवक्त्रं च कषुरेणाभ्यहनच छिरः 105 स पपात ततॊ वाहात सवलॊहित परिस्रवः मनःशिला गिरेः शृङ्गं वज्रेणेवावदारितम 106 सुदक्षिणाद अवरजं काम्बॊजं ददृशुर हतम परांशुं कमलपत्राक्षम अत्यर्थं परियदर्शनम काञ्चनस्तम्भसंकाशं भिन्नं हेमगिरिं यथा 107 ततॊ ऽभवत पुनर युद्धं घॊरम अद्भुतदर्शनम नानावस्थाश च यॊधानां बभूवुस तत्र युध्यताम 108 एतेष्व आवर्जितैर अश्वैः काम्बॊजैर यवनैः शकैः शॊणिताक्तैस तदा रक्तं सर्वम आसीद विशां पते 109 रथै रथाश्वसूतैश च हतारॊहैश च वाजिभिः दविरदैश च हतारॊहैर महामात्रैर हतद्विपैः अन्यॊन्येन महाराज कृतॊ घॊरॊ जनक्षयः 110 तस्मिन परपक्षे पक्षे च वध्यमाने महात्मना अर्जुनं जयतां शरेष्ठं तवरितॊ दरौणिर आययौ 111 विधुन्वानॊ महच चापं कार्तस्वरविभूषितम आददानः शरान घॊरान सवा रश्मीन इव भास्करः 112 तैः पतद्भिर महाराज दरौणिमुक्तैः समन्ततः संछादितौ रथस्थौ ताव उभौ कृष्ण धनंजयौ 113 ततः शरशतैस तीक्ष्णैर भारद्वाजः परतावपान निश्चेष्टौ ताव उभौ चक्रे युद्धे माधव पाण्डवौ 114 हाहाकृतम अभूत सर्वं जङ्गमं सथावरं तथा चराचरस्य गॊप्तारौ दृष्ट्वा संछादितौ शरैः 115 सिद्धचारणसंघाश च संपेतुर वै समन्ततः चिन्तयन्तॊ भवेद अद्य लॊकानां सवस्त्य अपीत्य अह 116 न मया तादृशॊ राजन दृष्टपूर्वः पराक्रमः संजज्ञे यादृशॊ दरौणेः कृष्णौ संछादयिष्यतः 117 दरौणेस तु धनुषः शब्दम अहितत्रासनं रणे अश्रौषं बहुशॊ राजन सिंहस्य नदतॊ यथा 118 जया चास्य चरतॊ युद्धे सव्यदक्षिणम अस्यतः विद्युद अम्बुदमध्यस्था भराजमानेव साभवत 119 स तथा कषिप्रकारी च दृढहस्तश च पाण्डवः संमॊहं परमं गत्वा परैक्षत दरॊणजं ततः 120 स विक्रमं हृतं मेने आत्मानः सुमहात्मना तथास्य समरे राजन वपुर आसीत सुदुर्दृशम 121 दरौणिपाण्डवयॊर एवं वतमाने महारणे वर्धमाने च राजेन्द्र दरॊणपुत्रे महाबले हीयमाने च कौन्तेये कृष्णं रॊषः समभ्ययात 122 सरॊषान निःश्वसन राजन निर्दहन्न इव चक्षुषा दरौणिं हय अपश्यत संग्रामे फल्गुनं च मुहुर मुहुः 123 ततः करुद्धॊ ऽबरवीत कृष्णः पार्थं सप्रणयं तदा अत्यद्भुतम इदं पार्थ तव पश्यामि संयुगे अतिशेते हि यत्र तवा दरॊणपुत्रॊ ऽदय भारत 124 कच चित ते गाण्डिवं हस्ते रथे तिष्ठसि चार्जुन कच चित कुशलिनौ बाहू कच चिद वीर्यं तद एव ते 125 एवम उक्तस तु कृष्णेन कषिप्त्वा भल्लांश चतुर्दश तवरमाणस तवरा काले दरौणेर धनुर अथाच्छिनत धवजं छत्रं पताकां च रथां शक्तिं गदां तथा 126 जत्रु देशे च सुभृशं वत्सदन्तैर अताडयत स पूर्च्छां परमां गत्वा धवजयष्टिं समाश्रितः 127 तं विसंज्ञं महाराज किरीटिभयपीडितम अपॊवाह रणात सूतॊ रक्षमाणॊ धनंजयात 128 एतस्मिन्न एव काले तु विजयः शत्रुतापनः नयवधीत तावकं सैन्यं शतशॊ ऽथ सहस्रशः पश्यतस तव पुत्रस्य तस्य वीरस्य भारत 129 एवम एष कषयॊ वृत्तस तावकानां परैः सह करूरॊ विशसनॊ घॊरॊ राजन दुर्मन्त्रिते तव 130 संशप्तकांश च कौन्तेयः कुरूंश चापि वृकॊदरः वसुषेणं च पाञ्चालः कृत्स्नेन वयधमद रणे |
1
[s] bhīmasenaṃ sapāñcālyaṃ cedikekayasaṃvṛtam vaikartanaḥ svayaṃ ruddhvā varayām āsa sāyakaiḥ 2 tatas tu cedikārūṣān sṛñjayāṃś ca mahārathān karṇo jaghāna saṃkruddho bhīmasenasya paśyataḥ 3 bhīmasenas tataḥ karṇaṃ vihāya rathasattamam prayayau kauravaṃ sainyaṃ kakṣam agnir iva jvalan 4 sūtaputro 'pi samare pāñcālān kekayāṃs tathā sṛñjayāṃś ca maheṣvāsān nijaghāna sahasraśaḥ 5 saṃśaptakeṣu pārthāś ca kauraveṣu vṛkodaraḥ pāñcāleṣu tathā karṇaḥ kṣayaṃ cakrūr mahārathāḥ 6 te kṣatriyā dahyamānās tribhis taiḥ pāvakopamaiḥ jagmur vināśaṃ samare rājan durmantrite tava 7 tato duryodhanaḥ kruddho nakulaṃ navabhiḥ śaraiḥ vivyādha bharataśreṣṭha caturaś cāsya vājinaḥ 8 tataḥ punar ameyātmā tava putro janādhipaḥ kṣureṇa sahadevasya dhvajaṃ ciccheda kāñcanam 9 nakulas tu tataḥ kruddhas tava putraṃ trisaptabhiḥ jaghāna samare rājan sahadevaś ca pañcabhiḥ 10 tāv ubhau bharataśreṣṭhau śreṣṭhau sarvadhanuṣmatām vivyādhorasi saṃkruddhaḥ pañcabhiḥ pañcabhiḥ śaraiḥ 11 tato 'parābhyāṃ bhallābhyāṃ dhanuṣī samakṛntata yamayoḥ prahasan rājan vivyādhaiva ca saptabhiḥ 12 tāv anye dhanuṣī śreṣṭhe śakracāpanibhe śubhe pragṛhya rejatuḥ śūrau devaputrasamau yudhi 13 tatas tau rabhasau yuddhe bhrātarau bhrātaraṃ nṛpa śarair vavarṣatur ghorair mahāmeghau yathācalam 14 tataḥ kruddho mahārāja tava putro mahārathaḥ pāṇḍuputrau maheṣvāsau vārayām āsa patribhiḥ 15 dhanurmaṇḍalam evāsya dṛśyate yudhi bhārata sāyakāś caiva dṛśyante niścarantaḥ samantataḥ 16 tasya sāyakasaṃchannau cakāśetāṃ ca pāṇḍavau meghac channau yathā vyomni candrasūryau hataprabhau 17 te tu bāṇā mahārāja hemapuṅkhāḥ śilāśitāḥ āchādayan diśaḥ sarvāḥ sūryasyevāṃśavas tadā 18 bāṇabhūte tatas tasmin saṃchanne ca nabhastale yamābhyāṃ dadṛśe rūpaṃ kālāntakayamopamam 19 parākramaṃ tu taṃ dṛṣṭvā tava sūnor mahārathāḥ mṛtyor upāntikaṃ prāptau mādrīputrau sma menire 20 tataḥ senāpatī rājan pāṇḍavasya mahātmanaḥ pārṣataḥ prayayau tatra yatra rājā suyodhanaḥ 21 mādrīputrau tataḥ śūrau vyatikramya mahārathau dhṛṣṭadyumnas tava sutaṃ tāḍayām āsa sāyakaiḥ 22 tam avidhyad ameyātmā tava putro 'tyamarṣaṇaḥ pāñcālyaṃ pañcaviṃśatyā prahasya puruṣarṣabha 23 tataḥ punar ameyātmā putras te pṛthivīpate viddhvā nanāda pāñcālyaṃ ṣaṣṭyā pañcabhir eva ca 24 athāsya saśaraṃ cāpaṃ hastāvāpaṃ ca māriṣa kṣurapreṇa sutīkṣṇena rājā ciccheda saṃyuge 25 tad apāsya dhanuś chinnaṃ pāñcālyaḥ śakra karśanaḥ anyad ādatta vegena dhanur bhārasahaṃ navam 26 prajvalann iva vegena saṃrambhād rudhirekṣaṇaḥ aśobhata maheṣvāso dhṛṣṭadyumnaḥ kṛtavraṇaḥ 27 sa pañcadaśa nārācāñ śvasataḥ pannagān iva jighāṃsur bharataśreṣṭhaṃ dhṛṣṭadyumno vyavāsṛjat 28 te varma hemavikṛtaṃ bhittvā rājñaḥ śilāśitāḥ viviśur vasudhāṃ vegāt kaṅkabarhiṇa vāsasaḥ 29 so 'tividdho mahārāja putras te 'tivyarājata vasante puṣpaśabalaḥ sapuṣpa iva kiṃśukaḥ 30 sa chinnavarmā nārācaiḥ prahārair jarjaracchaviḥ dhṛṣṭadyumnasya bhallena kruddhaś ciccheda kārmukam 31 athainaṃ chinnadhanvānaṃ tvaramāṇo mahīpatiḥ sāyakair daśabhī rājan bhruvor madhye samārdayat 32 tasya te 'śobhayan vaktraṃ karmāra parimārjitāḥ praphullaṃ campakaṃ yadvad bhramarā madhu lipsavaḥ 33 tad apāsya dhanuś chinnaṃ dhṛṣṭadyumno mahāmanāḥ anyad ādatta vegena dhanur bhallāṃś ca ṣoḍaśa 34 tato duryodhanasyāśvān hatvā sūtaṃ ca pañcabhiḥ dhanuś ciccheda bhallena jātarūpapariṣkṛtam 35 rathaṃ sopaskaraṃ chatraṃ śaktiṃ khaḍgaṃ gadāṃ dhvajam bhallaiś ciccheda navabhiḥ putrasya tava pārṣataḥ 36 tapanīyāṅgadaṃ citraṃ nāgaṃ maṇimayaṃ śubham dhvajaṃ kurupateś chinnaṃ dadṛśuḥ sarvapārthivāḥ 37 duryodhanaṃ tu virathaṃ chinnasarvāyudhaṃ raṇe bhrātaraḥ paryarakṣanta sodaryā bharatarṣabha 38 tam āropya rathe rājan daṇḍadhāro janādhipam apovāha ca saṃbhrānto dhṛṣṭadyumnasya paśyataḥ 39 karṇas tu sātyakiṃ jitvā rājagṛddhī mahābalaḥ droṇa hantāram ugreṣuṃ sasārābhimukhaṃ raṇe 40 taṃ pṛṣṭhato 'bhyayāt tūrṇaṃ śaineyo vitudañ śaraiḥ vāraṇaṃ jaghanopānte viṣāṇābhyām iva dvipaḥ 41 sa bhārata mahān āsīd yodhānāṃ sumahātmanām karṇa pārṣatayor madhye tvadīyānāṃ mahāraṇaḥ 42 na pāṇḍavānāṃ nāsmākaṃ yodhaḥ kaśc cit parāṅmukhaḥ pratyadṛśyata yat karṇaḥ pāñcālāṃs tvarito yayau 43 tasmin kṣaṇe naraśreṣṭha gajavājina rakṣayaḥ prādurāsīd ubhayato rājan madhyaṃ gate 'hani 44 pāñcālās tu mahārāja tvaritā vijigīṣavaḥ sarvato 'bhyadravan karṇaṃ patatriṇa iva drumam 45 teṣām ādhirathiḥ kruddho yatamānān manasvinaḥ vicinvann eva bāṇāgraiḥ samāsādayad agrataḥ 46 vyāghraketuṃ suśarmāṇaṃ śaṅkuṃ cograṃ dhanaṃjayam śuklaṃ ca rocamānaṃ ca siṃhasenaṃ ca durjayam 47 te vīrā rathavegena parivavrur narottaram sṛjantaṃ sāyakān kruddhaṃ karṇam āhavaśobhinam 48 yudhyamānāṃs tu tāñ śūrān manujendraḥ pratāpavān aṣṭābhir aṣṭau rādheyo nyahanan niśitaiḥ śaraiḥ 49 athāparān mahārāja sūtaputraḥ pratāpavān jaghāna bahusāhasrān yodhān yuddhaviśāradaḥ 50 viṣṇuṃ ca viṣṇukarmāṇaṃ devāpiṃ bhadram eva ca daṇḍaṃ ca samare rājaṃś citraṃ citrāyudhaṃ harim 51 siṃhaketuṃ rocamānaṃ śalabhaṃ ca mahāratham nijaghāna susaṃkruddhaś cedīnāṃ ca mahārathān 52 teṣām ādadataḥ prāṇān āsīd ādhirather vapuḥ śoṇitābhyukṣitāṅgasya rudrasyevorjitaṃ mahat 53 tatra bhārata karṇena mātaṅgās tāḍitāḥ śaraiḥ sarvato 'bhyadravan bhītāḥ kurvanto mahad ākulam 54 nipetur urvyāṃ samare karṇa sāyakapīḍitāḥ kurvanto vividhān nādān vajranunnā ivācalāḥ 55 gajavājimanuṣyaiś ca nipatadbhiḥ samantataḥ rathaiś cāvagatair mārge paryastīryata medinī 56 naiva bhīṣmo na ca droṇo nāpy anye yudhi tāvakāḥ cakruḥ sma tādṛśaṃ karma yādṛśaṃ vai kṛtaṃ raṇe 57 sūtaputreṇa nāgeṣu ratheṣu ca hayeṣu ca nareṣu ca naravyāghra kṛtaṃ sma kadanaṃ mahat 58 mṛgamadhye yathā siṃho dṛśyate nirbhayaś caran pāñcālānāṃ tathā madhye karṇo 'carad abhītavat 59 yathā mṛgagaṇāṃs trastān siṃho drāvayate diśaḥ pāñcālānāṃ rathavrātān karṇo drāvayate tathā 60 siṃhāsyaṃ ca yathā prāpya na jīvanti mṛgāḥ kva cit tathā karṇam anuprāpya na jīvanti mahārathāḥ 61 vaiśvānaraṃ yathā dīptaṃ dahyante prāpya vai janāḥ karṇāgninā raṇe tadvad dagdhā bhārata sṛñjayāḥ 62 karṇena cediṣv ekena pāñcāleṣu ca bhārata viśrāvya nāma nihatā bahavaḥ śūra saṃmatāḥ 63 mama cāsīn manuṣyendra dṛṣṭvā karṇasya vikramam naiko 'py ādhirather jīvan pāñcālyo mokṣyate yudhi 64 pāñcālān vidhaman saṃkhye sūtaputraḥ pratāpavān abhyadhāvata saṃkruddho dharmaputraṃ yudhiṣṭhiram 65 dhṛṣṭadyumnaś ca rājānaṃ draupadeyāś ca māriṣa parivavrur amitraghnaṃ śataśaś cāpare janāḥ 66 śikhaṇḍī sahadevaś ca nakulo nākulis tathā janamejayaḥ śiner naptā bahavaś ca prabhadrakāḥ 67 ete purogamā bhūtvā dhṛṣṭadyumnasya saṃyuge karṇam asyantam iṣvastrair vicerur amitaujasaḥ 68 tāṃs tatrādhirathiḥ saṃkhye cedipāñcālapāṇḍavān eko bahūn abhyapatad garutman pānnagān iva 69 bhīmasenas tu saṃkruddhaḥ kurūn madrān sakekayān ekaḥ saṃkhye maheṣvāso yodhayan bahv aśobhata 70 tatra marmasu bhīmena nārācais tāḍitā gajāḥ prapatanto hatārohāḥ kampayanti sma medinīm 71 vājinaś ca hatārohāḥ pattayaś ca gatāsavaḥ śerate yudhi nirbhinnā vamanto rudhiraṃ bahu 72 sahasraśaś ca rathinaḥ patitāḥ patitāyudhāḥ akṣatāḥ samadṛśyanta bhīmād bhītā gatāsavaḥ 73 rathibhir vājibhiḥ sūtaiḥ pattibhiś ca tathā gajaiḥ bhīmasenaśarac chinnair āstīrṇā vasudhābhavat 74 tat stambhitam ivātiṣṭhad bhīmasenabalārditam duryodhana balaṃ rājan nirutsāhaṃ kṛtavraṇam 75 niśceṣṭaṃ tumule dīnaṃ babhau tasmin mahāraṇe prasannasalilaḥ kāle yathā syāt sāgaro nṛpa 76 manyuvīryabalopetaṃ balāt paryavaropitam abhavat tava putrasya tat sainyam iṣubhis tadā rudhiraughapariklinnaṃ rudhirārdraṃ babhūva ha 77 sūtaputro raṇe kruddhaḥ pāṇḍavānām anīkinīm bhīmasenaḥ kurūṃś cāpi drāvayan bahv aśobhata 78 vartamāne tathā raudre saṃgrāme 'dbhutadarśane nihatya pṛtanā madhye saṃśaptaka gaṇān bahūn 79 arjuno jayatāṃ śreṣṭho vāsudevam athābravīt prabhagnaṃ balam etad dhi yotsyamānaṃ janārdana 80 ete dhāvanti sagaṇāḥ saṃśaptaka mahārathāḥ apārayanto madbāṇān siṃhaśabdān mṛgā iva 81 dīryate ca mahat sainyaṃ sṛñjayānāṃ mahāraṇe hastikakṣyo hy asau kṛṣṇa ketuḥ karṇasya dhīmataḥ dṛśyate rājasainyasya madhye vicarato muhuḥ 82 na ca karṇaṃ raṇe śaktā jetum anye mahārathāḥ jānīte hi bhavān karṇaṃ vīryavantaṃ parākrame 83 tatra yāhi yataḥ karṇo drāvayaty eṣa no balam 84 varjayitvā raṇe yāhi sūtaputraṃ mahāratham śramo mā bādhate kṛṣṇa yathā vā tava rocate 85 etac chrutvā mahārāja govindaḥ prahasann iva abravīd arjunaṃ tūrṇaṃ kauravāñ jahi pāṇḍava 86 tatas tava mahat sainyaṃ govinda preritā hayāḥ haṃsavarṇāḥ praviviśur vahantaḥ kṛṣṇa pāṇḍavau 87 keśava prahitair aśvaiḥ śvetaiḥ kāñcanabhūṣaṇaiḥ praviśadbhis tava balaṃ caturdiśam abhidyata 88 tau vidārya mahāsenā praviṣṭau keśavārjunau kruddhau saṃrambharaktākṣau vyabhrājetāṃ mahādyutī 89 yuddhaśauṇḍau samāhūtāv aribhis tau raṇādhvaram yajvabhir vidhināhūtau makhe devāv ivāśvinau 90 kruddhau tau tu naravyāghrau vegavantaul babhūvatuḥ talaśabdena ruṣitau yathā nāgau mahāhave 91 vigāhan sa rathānīkam aśvasaṃghāṃś ca phalgunaḥ vyacarat pṛtanā madhye pāśahasta ivāntakaḥ 92 taṃ dṛṣṭvā yudhi vikrāntaṃ senāyāṃ tava bhārata saṃśaptaka gaṇān bhūyaḥ putras te samacodayat 93 tato rathasahasreṇa dviradānāṃ tribhiḥ śataiḥ caturdaśasahasraiś ca turagāṇāṃ mahāhave 94 dvābhyāṃ śatasahasrābhyāṃ padātīnāṃ ca dhanvinām śūrāṇāṃ nāma labdhānāṃ viditānāṃ samantataḥ abhyavartanta tau vīrau chādayanto mahārathāḥ 95 sa chādyamānaḥ samare śaraiḥ parabalārdanaḥ darśayan raudram ātmānaṃ pāśahasta ivāntakaḥ nighnan saṃśaptakān pārthaḥ prekṣaṇīyataro 'bhavat 96 tato vidyutprabhair bāṇaiḥ kārtasvaravibhūṣitaiḥ nirantaram ivākāśam āsīn nunnaiḥ kirīṭinā 97 kirīṭibhujanirmuktaiḥ saṃpatadbhir mahāśaraiḥ samācchannaṃ babhau sarvaṃ kādraveyair iva prabho 98 rukmapuṅkhān prasannāgrāñ śarān saṃnataparvaṇaḥ adarśayad ameyātmā dikṣu sarvāsu pāṇḍavaḥ 99 hatvā daśasahasrāṇi pārthivānāṃ mahāratha saṃśaptakānāṃ kaunteyaḥ prapakṣaṃ tvarito 'bhyayāt 100 prapakṣaṃ sa samāsādya pārthaḥ kāmbojarakṣitam pramamātha balād bāṇair dānavān iva vāsavaḥ 101 pracicchedāśu bhallaiś ca dviṣatām ātatāyinām śastrapāṇīṃs tathā bāhūṃs tathāpi ca śirāṃsy uta 102 aṅgāṅgāvayavaiś chinnair vyāyudhās te 'patan kṣitau viṣvag vātābhisaṃbhagnā bahuśākhā iva drumāḥ 103 hastyaśvarathapattīnāṃ vrātān nighnantam arjunam sudakṣiṇād avarajaḥ śaravṛṣṭyābhyavīvṛṣat 104 asyāsyato 'rdhacandrābhyāṃ sa bāhū parighopamau pūrṇacandrābhavaktraṃ ca kṣureṇābhyahanac chiraḥ 105 sa papāta tato vāhāt svalohita parisravaḥ manaḥśilā gireḥ śṛṅgaṃ vajreṇevāvadāritam 106 sudakṣiṇād avarajaṃ kāmbojaṃ dadṛśur hatam prāṃśuṃ kamalapatrākṣam atyarthaṃ priyadarśanam kāñcanastambhasaṃkāśaṃ bhinnaṃ hemagiriṃ yathā 107 tato 'bhavat punar yuddhaṃ ghoram adbhutadarśanam nānāvasthāś ca yodhānāṃ babhūvus tatra yudhyatām 108 eteṣv āvarjitair aśvaiḥ kāmbojair yavanaiḥ śakaiḥ śoṇitāktais tadā raktaṃ sarvam āsīd viśāṃ pate 109 rathai rathāśvasūtaiś ca hatārohaiś ca vājibhiḥ dviradaiś ca hatārohair mahāmātrair hatadvipaiḥ anyonyena mahārāja kṛto ghoro janakṣayaḥ 110 tasmin prapakṣe pakṣe ca vadhyamāne mahātmanā arjunaṃ jayatāṃ śreṣṭhaṃ tvarito drauṇir āyayau 111 vidhunvāno mahac cāpaṃ kārtasvaravibhūṣitam ādadānaḥ śarān ghorān svā raśmīn iva bhāskaraḥ 112 taiḥ patadbhir mahārāja drauṇimuktaiḥ samantataḥ saṃchāditau rathasthau tāv ubhau kṛṣṇa dhanaṃjayau 113 tataḥ śaraśatais tīkṣṇair bhāradvājaḥ pratāvapān niśceṣṭau tāv ubhau cakre yuddhe mādhava pāṇḍavau 114 hāhākṛtam abhūt sarvaṃ jaṅgamaṃ sthāvaraṃ tathā carācarasya goptārau dṛṣṭvā saṃchāditau śaraiḥ 115 siddhacāraṇasaṃghāś ca saṃpetur vai samantataḥ cintayanto bhaved adya lokānāṃ svasty apīty aha 116 na mayā tādṛśo rājan dṛṣṭapūrvaḥ parākramaḥ saṃjajñe yādṛśo drauṇeḥ kṛṣṇau saṃchādayiṣyataḥ 117 drauṇes tu dhanuṣaḥ śabdam ahitatrāsanaṃ raṇe aśrauṣaṃ bahuśo rājan siṃhasya nadato yathā 118 jyā cāsya carato yuddhe savyadakṣiṇam asyataḥ vidyud ambudamadhyasthā bhrājamāneva sābhavat 119 sa tathā kṣiprakārī ca dṛḍhahastaś ca pāṇḍavaḥ saṃmohaṃ paramaṃ gatvā praikṣata droṇajaṃ tataḥ 120 sa vikramaṃ hṛtaṃ mene ātmānaḥ sumahātmanā tathāsya samare rājan vapur āsīt sudurdṛśam 121 drauṇipāṇḍavayor evaṃ vatamāne mahāraṇe vardhamāne ca rājendra droṇaputre mahābale hīyamāne ca kaunteye kṛṣṇaṃ roṣaḥ samabhyayāt 122 saroṣān niḥśvasan rājan nirdahann iva cakṣuṣā drauṇiṃ hy apaśyat saṃgrāme phalgunaṃ ca muhur muhuḥ 123 tataḥ kruddho 'bravīt kṛṣṇaḥ pārthaṃ sapraṇayaṃ tadā atyadbhutam idaṃ pārtha tava paśyāmi saṃyuge atiśete hi yatra tvā droṇaputro 'dya bhārata 124 kac cit te gāṇḍivaṃ haste rathe tiṣṭhasi cārjuna kac cit kuśalinau bāhū kac cid vīryaṃ tad eva te 125 evam uktas tu kṛṣṇena kṣiptvā bhallāṃś caturdaśa tvaramāṇas tvarā kāle drauṇer dhanur athācchinat dhvajaṃ chatraṃ patākāṃ ca rathāṃ śaktiṃ gadāṃ tathā 126 jatru deśe ca subhṛśaṃ vatsadantair atāḍayat sa pūrcchāṃ paramāṃ gatvā dhvajayaṣṭiṃ samāśritaḥ 127 taṃ visaṃjñaṃ mahārāja kirīṭibhayapīḍitam apovāha raṇāt sūto rakṣamāṇo dhanaṃjayāt 128 etasminn eva kāle tu vijayaḥ śatrutāpanaḥ nyavadhīt tāvakaṃ sainyaṃ śataśo 'tha sahasraśaḥ paśyatas tava putrasya tasya vīrasya bhārata 129 evam eṣa kṣayo vṛttas tāvakānāṃ paraiḥ saha krūro viśasano ghoro rājan durmantrite tava 130 saṃśaptakāṃś ca kaunteyaḥ kurūṃś cāpi vṛkodaraḥ vasuṣeṇaṃ ca pāñcālaḥ kṛtsnena vyadhamad raṇe |
The Mahabharata in Sanskrit
Book 8
Chapter 41
|
1
[स] तरमाणः पुनः कृष्णः पार्थम अभ्यवदच छनैः पश्य कौरव्य राजानम अपयातांश च पाण्डवान 2 कर्णं पश्य महारङ्गे जवलन्तम इव पावकम असौ भीमॊ महेष्वासः संनिवृत्तॊ रणं परति 3 तम एते ऽनु निवर्तन्ते धृष्टद्युम्नपुरॊगमाः पाञ्चालानां सृञ्जयानां पाण्डवानां च यन मुखम निवृत्तैश च तथा पार्थैर भग्नं शत्रुबलं महत 4 कौरवान दरवतॊ हय एष कर्णॊ धारयते ऽरजुन अन्तकप्रतिमॊ वेगे शक्रतुल्यपराक्रमः 5 असौ गच्छति कौरव्य दरौणिर अस्त्रभृतां वरः तम एष परद्रुतः संख्ये धृष्टद्युम्नॊ महारथः 6 सर्वं वयाचष्ट दुर्धर्षॊ वासुदेवः किरीटिने ततॊ राजन परादुरासीन महाघॊरॊ महारणः 7 सिंहनाद रवाश चात्र परादुरासन समागमे उभयॊः सेनयॊ राजन मृत्युं कृत्वा निवर्तनम |
1
[s] taramāṇaḥ punaḥ kṛṣṇaḥ pārtham abhyavadac chanaiḥ paśya kauravya rājānam apayātāṃś ca pāṇḍavān 2 karṇaṃ paśya mahāraṅge jvalantam iva pāvakam asau bhīmo maheṣvāsaḥ saṃnivṛtto raṇaṃ prati 3 tam ete 'nu nivartante dhṛṣṭadyumnapurogamāḥ pāñcālānāṃ sṛñjayānāṃ pāṇḍavānāṃ ca yan mukham nivṛttaiś ca tathā pārthair bhagnaṃ śatrubalaṃ mahat 4 kauravān dravato hy eṣa karṇo dhārayate 'rjuna antakapratimo vege śakratulyaparākramaḥ 5 asau gacchati kauravya drauṇir astrabhṛtāṃ varaḥ tam eṣa pradrutaḥ saṃkhye dhṛṣṭadyumno mahārathaḥ 6 sarvaṃ vyācaṣṭa durdharṣo vāsudevaḥ kirīṭine tato rājan prādurāsīn mahāghoro mahāraṇaḥ 7 siṃhanāda ravāś cātra prādurāsan samāgame ubhayoḥ senayo rājan mṛtyuṃ kṛtvā nivartanam |
The Mahabharata in Sanskrit
Book 8
Chapter 42
|
1
[स] ततः पुनः समाजग्मुर अभीताः कुरुसृञ्जयाः युधिष्ठिर मुखाः पार्था वैकर्तन मुखा वयम 2 ततः परववृते भीमः संग्रामॊ लॊमहर्षणः कर्णस्य पाण्डवानां च यम राष्ट्रविवर्धनः 3 तस्मिन परवृत्ते संग्रामे तुमुले शॊणितॊदके संशप्तकेषु शूरेषु किं चिच छिष्टेषु भारत 4 धृष्टद्युम्नॊ महाराज सहितः सर्वराजभिः कर्णम एवाभिदुद्राव पाण्डवाश च महारथाः 5 आगच्छमानांस तान संख्ये परहृष्टान विजयैषिणः दधारैकॊ रणे कर्णॊ जलौघान इव पर्वतः 6 तम आसाद्य तु ते कर्णं वयशीर्यन्त महारथः यथाचलं समासाद्य जलौघाः सर्वतॊदिशम तयॊर आसीन महाराज संग्रामॊ लॊमहर्षणः 7 धृष्टद्युम्नस तु राधेयं शरेण नतपर्वणा ताडयाम आस संक्रुद्धस तिष्ठ तिष्ठेति चाब्रवीत 8 विजयं तु धनुःश्रेष्ठं विधुन्वानॊ महारथः पार्षतस्य धनुश छित्त्वा शरान आशीविषॊपमान ताडयाम आस संक्रुद्धः पार्षतं नवभिः शरैः 9 ते वर्म हेमविकृतं भित्त्वा तस्य महात्मनः शॊणिताक्ता वयराजन्त शक्र गॊपा इवानघ 10 तद अपास्य धनुश छिन्नं धृष्टद्युम्नॊ महारथः अन्यद धनुर उपादाय शरांश चाशीविषॊपमान कर्णं विव्याध सप्तत्या शरैः संनतपर्वभिः 11 तथैव राजन कर्णॊ ऽपि पार्षतं शत्रुतापनम दरॊण शत्रुं महेष्वासॊ विव्याध निशितैः शरैः 12 तस्य कर्णॊ महाराज शरं कनकभूषणम परेषयाम आस संक्रुद्धॊ मृत्युदण्डम इवापरम 13 तम आपतन्तं सहसा घॊररूपं विशां पते चिच्छेद सप्तधा राजञ शैनेयः कृतहस्तवत 14 दृष्ट्वा विनिहितं बाणं शरैः कर्णॊ विशां पते सात्यकिं शरवर्षेण समन्तात पर्यवारयत 15 विव्याध चैनं समरे नाराचैस तत्र सप्तभिः तं परत्यविध्यच छैनेयः शरैर हेमविभूषितैः 16 ततॊ युद्धम अतीवासीच चक्षुः शरॊत्रभयावहम राजन घॊरं च चित्रं च परेक्षणीयं समन्ततः 17 सर्वेषां तत्र भूतानां लॊम हर्षॊ वयजायत तद दृष्ट्वा समरे कर्म कर्ण शैनेययॊर नृप 18 एतस्मिन्न अन्तरे दरौणिर अभ्ययात सुमहाबलम पार्षतं शत्रुदमनं शत्रुवीर्यासु नाशनम 19 अभ्यभाषत संक्रुद्धॊ दरौणिर दूरे धनंजये तिष्ठ तिष्ठाद्य बरह्मघ्न न मे जीवन विमॊक्ष्यसे 20 इत्य उक्त्वा सुभृशं वीरः शीघ्रकृन निशितैः शरैः पार्षतं छादयाम आस घॊररूपैः सुतेजनैः यतमानं परं शक्त्या यतमानॊ महारथः 21 यथा हि समरे दरौणिः पार्षतं वीक्ष्य मारिष तथा दरौणिं रणे दृष्ट्वा पार्षतः परवीरहा नातिहृष्टमना भूत्वा मन्यते मृत्युम आत्मनः 22 दरौणिस तु दृष्ट्वा राजेन्द्र धृष्टद्युम्नं रणे सथितम करॊधेन निःश्वसन वीरः पार्षतं समुपाद्रवत ताव अन्यॊन्यं तु दृष्ट्वैव संरम्भं जग्मतुः परम 23 अथाब्रवीन महाराज दरॊणपुत्रः परतापवान धृष्टद्युम्नं समीपस्थं तवरमाणॊ विशां पते पाञ्चालापसदाद्य तवां परेषयिष्यामि मृत्यवे 24 पापं हि यत तवया कर्म घनता दरॊणं पुरा कृतम अद्य तवा पत्स्यते तद वै यथा हय अकुशलं तथा 25 अरक्ष्यमाणः पार्थेन यदि तिष्ठसि संयुगे नापक्रमसि वा मूढ सत्यम एतद बरवीमि ते 26 एवम उक्तः परत्युवाच धृष्टद्युम्नः परतापवान परतिवाक्यं स एवासिर मामकॊ दास्यते तव येनैव ते पितुर दत्तं यतमानस्य संयुगे 27 यदि तावन मया दरॊणॊ निहतॊ बराह्मण बरुवः तवाम इदानीं कथं युद्धे न हनिष्यामि विक्रमात 28 एवम उक्त्वा महाराज सेनापतिर अमर्षणः निशितेनाथ बाणेन दरौणिं विव्याध पार्षत 29 ततॊ दरॊणिः सुसंक्रुद्धः शरैः संनतपर्वभिः पराच्छादयद दिशॊ राजन धृष्टद्युम्नस्य संयुगे 30 नैवान्तरिक्षं न दिशॊ नैव यॊधाः समन्ततः दृश्यन्ते वै महाराज शरैश छन्नाः सहस्रशः 31 तथैव पार्षतॊ राजन दरौणिम आहवशॊभिनम शरैः संछादयाम आस सूतपुत्रस्य पश्यतः 32 राधेयॊ ऽपि महाराज पाञ्चालान सह पाण्डवैः दरौपदेयान युधामन्युं सात्यकिं च महारथम एकः स वारयाम आस परेक्षणीयः समन्ततः 33 धृष्टद्युम्नॊ ऽपि समरे दरौणेश चिच्छेद कार्मुकम तद अपास्य धनुश छिन्नम अन्यद आदत्त कार्मुकम वेगवत समरे घॊरं शरांश चाशीविषॊपमान 34 स पार्षतस्य राजेन्द्र धनुः शक्तिं गदां धवजम हयान सूतं रथं चैव निमेषाद वयधमच छरैः 35 स छिन्नधन्वा विरथॊ हताश्वॊ हतसारथिः खड्गम आदत्त विपुलं शतचन्द्रं च भानुमत 36 दरौणिस तद अपि राजेन्द्र भल्लैः कषिप्रं महारथः चिच्छेद समरे वीरः कषिप्रहस्तॊ दृढायुधः रथाद अनवरूढस्य तद अद्भुतम इवाभवत 37 धृष्टद्युम्नं तु विरथं हताश्वं छिन्नकार्मुकम शरैश च बहुधा विद्धम अस्त्रैश च शकलीकृतम नातरद भरतश्रेष्ठ यतमानॊ महारथः 38 तस्यान्तम इषुभी राजन यदा दरौणिर न जग्मिवान अथ तयक्त्वा धनुर वीरः पार्षतं तवरितॊ ऽनवगात 39 आसीद आद्रवतॊ राजन वेगस तस्य महात्मनः गरुडस्येव पततॊ जिघृक्षॊः पन्नगॊत्तमम 40 एतस्मिन्न एव काले तु माधवॊ ऽरजुनम अब्रवीत पश्य पार्थ यथा दरौणिः पार्षतस्य वधं परति यत्नं करॊति विपुलं हन्याच चैनम असंशयम 41 तं मॊचय महाबाहॊ पार्षतं शत्रुतापनम दरौणेर आस्यम अनुप्राप्तं मृत्यॊर आस्य गतं यथा 42 एवम उक्त्वा महाराज वासुदेवः परतापवान परैषयत तत्र तुरगान यत्र दरौणिर वयवस्थितः 43 ते हयाश चन्द्रसंकाशाः केशवेन परचॊदिताः पिबन्त इव तद वयॊम जग्मुर दरौणि रथं परथि 44 दृष्ट्वायान्तौ महावीर्याव उभौ कृष्ण धनंजयौ धृष्टद्युम्न वधे राजंश चक्रे यत्नं महाबलः 45 विकृष्यमाणं दृष्ट्वैव धृष्टद्युम्नं जनेश्वर शरांश चिक्षेप वै पार्थॊ दरौणिं परति महाबलः 46 ते शरा हेमविकृता गाण्डीवप्रेषिता भृशम दरौणिम आसाद्य विविशुर वल्मीकम इव पन्नगाः 47 स विद्धस तैः शरैर घॊरैर दरॊणपुत्रः परतापवान रथम आरुरुहे वीरॊ धनंजय शरार्दितः परगृह्य च धनुःश्रेष्ठं पार्थं विव्याध सायकैः 48 एतस्मिन्न अन्तरे वीरः सहदेवॊ जनाधिप अपॊवाह रथेनाजौ पार्षतं शत्रुतापनम 49 अर्जुनॊ ऽपि महाराज दरौणिं विव्याध पत्रिभिः तं दरॊणपुत्रः संक्रुद्धॊ बाह्वॊर उरसि चार्दयत 50 करॊधितस तु रणे पार्थॊ नाराचं कालसंमितम दरॊणपुत्राय चिक्षेप कालदण्डम इवापरम स बराह्मणस्यांस देशे कालदण्डम इवापरम 51 स विह्वलॊ महाराज शरवेगेन संयुगे निषसाद रथॊपस्थे वयाक्षिपद विजयं धनुः 52 अर्जुनं समरे करुद्धः परेक्षमाणॊ मुहुर मुहुः दवैरथं चापि पार्थेन कामयानॊ महारणे 53 तं तु हित्वा हतं वीरं सारथिः शत्रुकर्शनम अपॊवाह रथेनाजौ तवरमाणॊ रणाजिरात 54 अथॊत्क्रुष्टं महा राजपाञ्चालैर जितकाशिभिः मॊक्षितं पार्षतं दृष्ट्वा दरॊणपुत्रं च पीडितम 55 वादित्राणि च दिव्यानि परावाद्यन्त सहस्रशः सिंहनादश च संजज्ञे दृष्ट्वा घॊरं महाद्भुतम 56 एवं कृत्वाब्रवीत पार्थॊ वासुदेवं धनंजयः याहि संशप्तकान कृष्ण कार्यम एतत परं मम 57 ततः परयातॊ दाशार्हः शरुत्वा पाण्डव भाषितम रथेनातिपताकेन मनॊमारुतरंहसा |
1
[s] tataḥ punaḥ samājagmur abhītāḥ kurusṛñjayāḥ yudhiṣṭhira mukhāḥ pārthā vaikartana mukhā vayam 2 tataḥ pravavṛte bhīmaḥ saṃgrāmo lomaharṣaṇaḥ karṇasya pāṇḍavānāṃ ca yama rāṣṭravivardhanaḥ 3 tasmin pravṛtte saṃgrāme tumule śoṇitodake saṃśaptakeṣu śūreṣu kiṃ cic chiṣṭeṣu bhārata 4 dhṛṣṭadyumno mahārāja sahitaḥ sarvarājabhiḥ karṇam evābhidudrāva pāṇḍavāś ca mahārathāḥ 5 āgacchamānāṃs tān saṃkhye prahṛṣṭān vijayaiṣiṇaḥ dadhāraiko raṇe karṇo jalaughān iva parvataḥ 6 tam āsādya tu te karṇaṃ vyaśīryanta mahārathaḥ yathācalaṃ samāsādya jalaughāḥ sarvatodiśam tayor āsīn mahārāja saṃgrāmo lomaharṣaṇaḥ 7 dhṛṣṭadyumnas tu rādheyaṃ śareṇa nataparvaṇā tāḍayām āsa saṃkruddhas tiṣṭha tiṣṭheti cābravīt 8 vijayaṃ tu dhanuḥśreṣṭhaṃ vidhunvāno mahārathaḥ pārṣatasya dhanuś chittvā śarān āśīviṣopamān tāḍayām āsa saṃkruddhaḥ pārṣataṃ navabhiḥ śaraiḥ 9 te varma hemavikṛtaṃ bhittvā tasya mahātmanaḥ śoṇitāktā vyarājanta śakra gopā ivānagha 10 tad apāsya dhanuś chinnaṃ dhṛṣṭadyumno mahārathaḥ anyad dhanur upādāya śarāṃś cāśīviṣopamān karṇaṃ vivyādha saptatyā śaraiḥ saṃnataparvabhiḥ 11 tathaiva rājan karṇo 'pi pārṣataṃ śatrutāpanam droṇa śatruṃ maheṣvāso vivyādha niśitaiḥ śaraiḥ 12 tasya karṇo mahārāja śaraṃ kanakabhūṣaṇam preṣayām āsa saṃkruddho mṛtyudaṇḍam ivāparam 13 tam āpatantaṃ sahasā ghorarūpaṃ viśāṃ pate ciccheda saptadhā rājañ śaineyaḥ kṛtahastavat 14 dṛṣṭvā vinihitaṃ bāṇaṃ śaraiḥ karṇo viśāṃ pate sātyakiṃ śaravarṣeṇa samantāt paryavārayat 15 vivyādha cainaṃ samare nārācais tatra saptabhiḥ taṃ pratyavidhyac chaineyaḥ śarair hemavibhūṣitaiḥ 16 tato yuddham atīvāsīc cakṣuḥ śrotrabhayāvaham rājan ghoraṃ ca citraṃ ca prekṣaṇīyaṃ samantataḥ 17 sarveṣāṃ tatra bhūtānāṃ loma harṣo vyajāyata tad dṛṣṭvā samare karma karṇa śaineyayor nṛpa 18 etasminn antare drauṇir abhyayāt sumahābalam pārṣataṃ śatrudamanaṃ śatruvīryāsu nāśanam 19 abhyabhāṣata saṃkruddho drauṇir dūre dhanaṃjaye tiṣṭha tiṣṭhādya brahmaghna na me jīvan vimokṣyase 20 ity uktvā subhṛśaṃ vīraḥ śīghrakṛn niśitaiḥ śaraiḥ pārṣataṃ chādayām āsa ghorarūpaiḥ sutejanaiḥ yatamānaṃ paraṃ śaktyā yatamāno mahārathaḥ 21 yathā hi samare drauṇiḥ pārṣataṃ vīkṣya māriṣa tathā drauṇiṃ raṇe dṛṣṭvā pārṣataḥ paravīrahā nātihṛṣṭamanā bhūtvā manyate mṛtyum ātmanaḥ 22 drauṇis tu dṛṣṭvā rājendra dhṛṣṭadyumnaṃ raṇe sthitam krodhena niḥśvasan vīraḥ pārṣataṃ samupādravat tāv anyonyaṃ tu dṛṣṭvaiva saṃrambhaṃ jagmatuḥ param 23 athābravīn mahārāja droṇaputraḥ pratāpavān dhṛṣṭadyumnaṃ samīpasthaṃ tvaramāṇo viśāṃ pate pāñcālāpasadādya tvāṃ preṣayiṣyāmi mṛtyave 24 pāpaṃ hi yat tvayā karma ghnatā droṇaṃ purā kṛtam adya tvā patsyate tad vai yathā hy akuśalaṃ tathā 25 arakṣyamāṇaḥ pārthena yadi tiṣṭhasi saṃyuge nāpakramasi vā mūḍha satyam etad bravīmi te 26 evam uktaḥ pratyuvāca dhṛṣṭadyumnaḥ pratāpavān prativākyaṃ sa evāsir māmako dāsyate tava yenaiva te pitur dattaṃ yatamānasya saṃyuge 27 yadi tāvan mayā droṇo nihato brāhmaṇa bruvaḥ tvām idānīṃ kathaṃ yuddhe na haniṣyāmi vikramāt 28 evam uktvā mahārāja senāpatir amarṣaṇaḥ niśitenātha bāṇena drauṇiṃ vivyādha pārṣata 29 tato droṇiḥ susaṃkruddhaḥ śaraiḥ saṃnataparvabhiḥ prācchādayad diśo rājan dhṛṣṭadyumnasya saṃyuge 30 naivāntarikṣaṃ na diśo naiva yodhāḥ samantataḥ dṛśyante vai mahārāja śaraiś channāḥ sahasraśaḥ 31 tathaiva pārṣato rājan drauṇim āhavaśobhinam śaraiḥ saṃchādayām āsa sūtaputrasya paśyataḥ 32 rādheyo 'pi mahārāja pāñcālān saha pāṇḍavaiḥ draupadeyān yudhāmanyuṃ sātyakiṃ ca mahāratham ekaḥ sa vārayām āsa prekṣaṇīyaḥ samantataḥ 33 dhṛṣṭadyumno 'pi samare drauṇeś ciccheda kārmukam tad apāsya dhanuś chinnam anyad ādatta kārmukam vegavat samare ghoraṃ śarāṃś cāśīviṣopamān 34 sa pārṣatasya rājendra dhanuḥ śaktiṃ gadāṃ dhvajam hayān sūtaṃ rathaṃ caiva nimeṣād vyadhamac charaiḥ 35 sa chinnadhanvā viratho hatāśvo hatasārathiḥ khaḍgam ādatta vipulaṃ śatacandraṃ ca bhānumat 36 drauṇis tad api rājendra bhallaiḥ kṣipraṃ mahārathaḥ ciccheda samare vīraḥ kṣiprahasto dṛḍhāyudhaḥ rathād anavarūḍhasya tad adbhutam ivābhavat 37 dhṛṣṭadyumnaṃ tu virathaṃ hatāśvaṃ chinnakārmukam śaraiś ca bahudhā viddham astraiś ca śakalīkṛtam nātarad bharataśreṣṭha yatamāno mahārathaḥ 38 tasyāntam iṣubhī rājan yadā drauṇir na jagmivān atha tyaktvā dhanur vīraḥ pārṣataṃ tvarito 'nvagāt 39 āsīd ādravato rājan vegas tasya mahātmanaḥ garuḍasyeva patato jighṛkṣoḥ pannagottamam 40 etasminn eva kāle tu mādhavo 'rjunam abravīt paśya pārtha yathā drauṇiḥ pārṣatasya vadhaṃ prati yatnaṃ karoti vipulaṃ hanyāc cainam asaṃśayam 41 taṃ mocaya mahābāho pārṣataṃ śatrutāpanam drauṇer āsyam anuprāptaṃ mṛtyor āsya gataṃ yathā 42 evam uktvā mahārāja vāsudevaḥ pratāpavān praiṣayat tatra turagān yatra drauṇir vyavasthitaḥ 43 te hayāś candrasaṃkāśāḥ keśavena pracoditāḥ pibanta iva tad vyoma jagmur drauṇi rathaṃ prathi 44 dṛṣṭvāyāntau mahāvīryāv ubhau kṛṣṇa dhanaṃjayau dhṛṣṭadyumna vadhe rājaṃś cakre yatnaṃ mahābalaḥ 45 vikṛṣyamāṇaṃ dṛṣṭvaiva dhṛṣṭadyumnaṃ janeśvara śarāṃś cikṣepa vai pārtho drauṇiṃ prati mahābalaḥ 46 te śarā hemavikṛtā gāṇḍīvapreṣitā bhṛśam drauṇim āsādya viviśur valmīkam iva pannagāḥ 47 sa viddhas taiḥ śarair ghorair droṇaputraḥ pratāpavān ratham āruruhe vīro dhanaṃjaya śarārditaḥ pragṛhya ca dhanuḥśreṣṭhaṃ pārthaṃ vivyādha sāyakaiḥ 48 etasminn antare vīraḥ sahadevo janādhipa apovāha rathenājau pārṣataṃ śatrutāpanam 49 arjuno 'pi mahārāja drauṇiṃ vivyādha patribhiḥ taṃ droṇaputraḥ saṃkruddho bāhvor urasi cārdayat 50 krodhitas tu raṇe pārtho nārācaṃ kālasaṃmitam droṇaputrāya cikṣepa kāladaṇḍam ivāparam sa brāhmaṇasyāṃsa deśe kāladaṇḍam ivāparam 51 sa vihvalo mahārāja śaravegena saṃyuge niṣasāda rathopasthe vyākṣipad vijayaṃ dhanuḥ 52 arjunaṃ samare kruddhaḥ prekṣamāṇo muhur muhuḥ dvairathaṃ cāpi pārthena kāmayāno mahāraṇe 53 taṃ tu hitvā hataṃ vīraṃ sārathiḥ śatrukarśanam apovāha rathenājau tvaramāṇo raṇājirāt 54 athotkruṣṭaṃ mahā rājapāñcālair jitakāśibhiḥ mokṣitaṃ pārṣataṃ dṛṣṭvā droṇaputraṃ ca pīḍitam 55 vāditrāṇi ca divyāni prāvādyanta sahasraśaḥ siṃhanādaś ca saṃjajñe dṛṣṭvā ghoraṃ mahādbhutam 56 evaṃ kṛtvābravīt pārtho vāsudevaṃ dhanaṃjayaḥ yāhi saṃśaptakān kṛṣṇa kāryam etat paraṃ mama 57 tataḥ prayāto dāśārhaḥ śrutvā pāṇḍava bhāṣitam rathenātipatākena manomārutaraṃhasā |
The Mahabharata in Sanskrit
Book 8
Chapter 43
|
1
[स] एतस्मिन्न अन्तरे कृष्णः पार्थं वचनम अब्रवीत दर्शयन्न इव कौन्तेयं धर्मराजं युधिष्ठिरम 2 एष पाण्डव ते भराता धार्तराष्ट्रैर महाबलैः जिघांसुभिर महेष्वासैर दरुतं पार्थानुसर्यते 3 तथानुयान्ति संरब्धाः पाञ्चाला युद्धदुर्मदाः युधिष्ठिरं महात्मानं परीप्सन्तॊ महाजवाः 4 एष दुर्यॊधनः पार्थरथानीकेन दंशितः राजा सर्वस्य लॊकस्य राजानम अनुधावति 5 जिघांसुः पुरुषव्याघ्रं भरातृभिः सहितॊ बली आशीविषा समस्पर्शैः सर्वयुद्धविशारदैः 6 एते जिघृक्षवॊ यान्ति दविपाश्वरथपत्तयः युधिष्ठिरं धार्तराष्ट्रा रत्नॊत्तमम इवार्थिनः 7 पश्य सात्वत भीमाभ्यां निरुद्धाधिष्ठितः परभुः जिहीर्षवॊ ऽमृतं दैत्याः शक्राग्निभ्याम इवावशाः 8 एते बहुत्वात तवरिताः पुनर गच्छन्ति पाण्डवम समुद्रम इव वार्यॊघाः परावृट्काले महारथः 9 नदन्तः सिंहनादांश च धमन्तश चापि वारिजान बलवन्तॊ महेष्वासा विधुन्वन्तॊ धनूंषि च 10 मृत्यॊर मुखगतं मन्ये कुन्तीपुत्रं युधिष्ट्ष्हिरम हुतम अग्नौ च भद्रं ते दुर्यॊधन वशंगतम 11 यथा युक्तम अनीकं हि धार्तराष्ट्रस्य पाण्डव नास्य शक्रॊ ऽपि मुच्येत संप्राप्तॊ बाणगॊच्चरम 12 दुर्यॊधनस्य शूरस्य दरौणेः शारद्वतस्य च कर्णस्य चेषु वेगॊ वै पर्वतान अपि दारयेत 13 दुर्यॊधनस्य शूरस्य शरौघाञ शीघ्रम अस्यतः संक्रुद्धस्यान्तकस्येव कॊ वेगं संसहेद रणे 14 कर्णेन च कृतॊ राजा विमुखः शत्रुतापनः बलवाँल लघु तस्तश च कृती युद्धविशारदः 15 राधेयः पाण्डवश्रेष्ठं शक्तः पीडयितुं रणे सहितॊ धृतराष्ट्रस्य पुत्रैः शूरॊ महात्मभिः 16 तस्यैवं युध्यमानस्य संग्रामे संयतात्मनः अन्यैर अपि च पार्थस्य हृतं वर्म महारथैः 17 उपवासकृशॊ राजा भृशं भरतसत्तम बराह्मे बले सथितॊ हय एष न कषत्रे ऽतिबले विभॊ 18 न जीवति महाराजॊ मन्ये पार्थ युधिष्ठिरः यद भीमसेनः सहते सिंहनादम अमर्षणः 19 नर्दतां धार्तराष्ट्राणां पुनः पुनर अरिंदम धमतां च महाशङ्खान संग्रामे जितकर्शिनाम 20 युधिष्ठिरं पाण्डवेयं हतेति भरतर्षभ संचॊदयत्य असौ कर्णॊ धार्तराष्ट्रान महाबलान 21 सथूणाकर्णेन्दु जालेन पार्थ पाशुपतेन च परच्छादयन्तॊ राजानम अनुयान्ति महारथाः आतुरॊ मे मतॊ राजा संनिषेव्यश च भारत 22 यथैनम अनुवर्तन्ते पाञ्चालाः सह पाण्डवैः तवरमाणास तवरा काले सर्वशस्त्रभृतां वराः मज्जन्तम इव पाताले बलिनॊ ऽपय उज्जिहीर्षवः 23 न केतुर दृश्यते राज्ञः कर्णेन निहतः शरैः पश्यतॊर यमयॊः पार्थ सात्यकेश च शिखण्डिनः 24 धृष्टद्युम्नस्य भीमस्य शतानीकस्य वा विभॊ पाञ्चालानां च सर्वेषां चेदीनां चैव भारत 25 एष कर्णॊ रणे पार्थ पाण्डवानाम अनीकिनीम शरैर विध्वंसयति वै नलिनीम इव कुञ्जरः 26 एते दरवन्ति रथिनस तवदीयाः पाण्डुनन्दन पश्य पश्य यथा पार्थ गच्छन्त्य एते महारथाः 27 एते भारत मातङ्गाः कर्णेनाभिहता रणे आर्तनादान विकुर्वाणा विद्रवन्ति दिशॊ दश 28 रथानां दरवतां वृन्दं पश्य पार्थ समन्ततः दराव्यमाणं रणे चैव कर्णेनामित्र कर्शिना 29 हस्तिकक्ष्यां रणे पश्य चरन्तीं तत्र तत्र ह रथस्थं सूतपुत्रस्य केतुं केतुमतां वर 30 असौ धावति राधेयॊ भीमसेनरथं परति किरञ शरशतानीव विनिघ्नंस तव वाहिनीम 31 एतान पश्य च पाञ्चालान दराव्यमाणान महात्मना शक्रेणेव यथा दैत्यान हन्यमानान महाहवे 32 एष कर्णॊ रणे जित्वा पाञ्चालान पाण्डुसृञ्जयान दिशॊ विप्रेक्षते सर्वास तवदर्थम इति मे मतिः 33 पश्य पार्थधनुःश्रेष्ठं विकर्षन साधु शॊभते शत्रूञ जित्वा यथा शक्रॊ देवसंघैः समावृतः 34 एते नदन्ति कौरव्या दृष्ट्वा कर्णस्य विक्रमम तरासयन्तॊ रणे पार्थान सृञ्जयांश च सहस्रशः 35 एष सर्वात्मना पाण्डूंस तरासयित्वा महारणे अभिभाषति राधेयः सर्वसैन्यानि मानद 36 अभिद्रवत गच्छध्वं दरुतं दरवत कौरवाः यथा जीवन न वः कश चिन मुच्यते युधि सृञ्जयः 37 तथा कुरुत संयत्ता वयं यास्याम पृष्ठतः एवम उक्त्वा ययाव एष पृष्ठतॊ विकिरञ शरैः 38 पश्य कर्णं रणे पार्थ शवेतच्छवि विराजितम उदयं पर्वतं यद्वच छॊभयन वै दिवाकरः 39 पूर्णचन्द्र निकाशेन मूर्ध्नि छत्रेण भारत धरियमाणेन समरे तथा शतशलाकिना 40 एष तवां परेक्षते कर्णः सकताक्षॊ विशां पते उत्तमं यत्नम आस्थाय धरुवाम एष्यति संयुगे 41 पश्य हय एनं महाबाहॊ विधुन्वानं महद धनुः शरांश चाशीविषाकारान विसृजन्तं महाबलम 42 असौ निवृत्तॊ राधेयॊ दृश्यते वानरध्वज वधाय चात्मनॊ ऽभयेति दीपस्य शलभॊ यथा 43 कर्णम एकाकिनं दृष्ट्वा रथानीकेन भारत रिरक्षिषुः सुसंयत्तॊ धार्तराष्ट्रॊ ऽभिवर्तते 44 सार्वैः सहैभिर दुष्टात्मा वध्य एष परयत्नतः तवया यशश च राज्यं च सुखं चॊत्तमम इच्छता 45 आत्मानं च कृतात्मानं समीक्ष्य भरतर्षभ कृतागसं च राधेयं धर्मात्मनि युधिष्ठिरे 46 परतिपद्यस्व राधेयं पराप्तकालम अनन्तरम आर्यां युद्धे मतिं कृत्वा परत्येहि रथयूथपम 47 पञ्च हय एतानि मिख्यानां रथानां रथसत्तम शतान्य आयान्ति वेगेन बलिनां भीम तेजसाम 48 पञ्च नागसहस्राणि दविगुणा वाजिनस तथा अभिसंहत्य कौन्तेय पदातिप्रयुतानि च अन्यॊन्यरक्षितं वीर बलं तवाम अभिवर्तते 49 सूतपुत्रे महेष्वासे दर्शयात्मानम आत्मना उत्तमं यत्नम आस्थाय परत्येहि भरतर्षभ 50 असौ कर्णः सुसंरब्धः पाञ्चालान अभिधावति केतुम अस्य हि पश्यामि धृष्टद्युम्न रथं परति समुच्छेत्स्यति पाञ्चालान इति मन्ये परंतप 51 आचक्षे ते परियं पार्थ तद एवं भरतर्षभ राजा जीवति कौरव्यॊ धर्मपुत्रॊ युधिष्ठिरः 52 असौ भिमॊ महाबाहुह्ल संनिवृत्तश चमूमुखे वृतः सृञ्जय सैन्येन सात्यकेन च भातत 53 वध्यन्त एते समरे कौरवा निशितैः शरैः भीमसेनेन कौन्तेय पाञ्चालैश च महात्मभिः 54 सेना हि धार्तराष्ट्रस्य विमुखा चाभवद रणात विप्रधावति वेगेन भीमस्य निहता शरैः 55 विपन्नसस्येव मही रुधिरेण समुक्षिता भारती भरतश्रेष्ठ सेना कृपण दर्शना 56 निवृत्तं पश्य कौन्तेय भीमसेनं युधां पतिम आशीविषम इव करुद्धं तस्माद दरवति वाहिनी 57 पीतरक्तासित सितास तारा चन्द्रार्क मण्डिताः पताकाविप्रकीर्यन्ते छत्राण्य एतानि चार्जुन 58 सौवर्णा राजताश चैव तैजसाश च पृथग्विधाः केतवॊ विनिपात्यन्ते हस्त्यश्वं विप्रकीर्यते 59 रथेभ्यः परपतन्त्य एते रथिनॊ विगतासवः नानावर्णैर हता बाणैः पाञ्चालैर अपलायिभिः 60 निर्मनुष्यान गजान अश्वान रथांश चैव धनंजय समाद्रवन्ति पाञ्चाला धार्तराष्ट्रांस तरस्विनः 61 मृद्नन्ति च नरव्याघ्रा भीमसेनव्यपाश्रयात बलं परेषां दुर्धर्षं तयक्त्वा पराणान अरिंदम 62 एते नदन्ति पाञ्चाला धमन्त्य अपि च वारिजान अभिद्रवन्ति च रणे निघ्नन्तः सायकैः परान 63 पश्य सवर्गस्य माहात्म्यं पाञ्चाला हि परंतप धार्तराष्ट्रान विनिघ्नन्ति करुद्धाः सिंहा इव दविपान 64 सर्वतश चाभिपन्नैषा धार्तराष्ट्री महाचमूः पाञ्चालैर मानसाद एत्य हंसैर गङ्गेव वेगितैः 65 सुभृशं च पराक्रान्ताः पाञ्चालानां निवारणे कृप कर्णादयॊ वीरा ऋषभाणाम इवर्षभाः 66 सुनिमग्नांश च भीमास्त्रैर धार्तराष्ट्रान महारथान धृष्टद्युम्नमुखा वीरा घनन्ति शत्रून सहस्रशः विषण्णभूयिष्ठ रथा धार्तराष्ट्री महाचमूः 67 पश्य भीमेन नाराचैश छिन्ना नागाःपतन्त्य अमी वज्रिवज्राहतानीव शिखराणि महीभृताम 68 भीमसेनस्य निर्विद्धा बाणैः संनतपर्वभिः सवान्य अनीकानि मृद्नन्तॊ दरवत्य एते महागजाः 69 नाभिजानासि भीमस्य सिंहनादं दुरुत्सहम नदतॊ ऽरजुन संग्रामे वीरस्य जितकाशिनः 70 एष नैषादिर अब्भ्येति दविपमुख्येन पाण्डवम जिघांसुस तॊमरैः करुद्धॊ दण्डा पाणिर इवान्तकः 71 सतॊमराव अस्य भुजौ छिन्नौ भीमेन गर्जतः तीक्ष्णैर अग्निशिखा परख्यैर नाराचैर दशभिर हतः 72 हत्वैनं पुनर आयाति नागान अन्यान परहारिणः पश्य नीलाम्बुदनिभान महामात्रैर अधिष्ठितान शक्तितॊमरसंकाशैर विनिघ्नन्तं वृकॊदरम 73 सप्त सप्त च नागंस तान वैजयन्तीश च सध्वजाः निहत्य निशितैर बाणैश छिन्नाः पार्थाग्रजेन ते दशभिर दशभिश चैकॊ नाराचैर निहतॊ गजः 74 न चासौ धार्तराष्ट्राणां शरूयते निनदस तथा पुरंदरसमे करुद्धे निवृत्ते भरतर्षभे 75 अक्षौहिण्यस तथा तिस्रॊ धार्तराष्ट्रस्य संहताः करुद्धेन नरसिंहेन भीमसेनेन वारिताः 76 [स] भीमसेनेन तत कर्मकृतं दृष्ट्वा सुदुष्करम अर्जुनॊ वयधमच छिष्टान अहितान निशितैः शरैः 77 ते वध्यमानाः समरे संशप्तक गणाः परभॊ शक्रस्यातिथितां गत्वा विशॊका हय अभवन मुदा 78 पार्थश च पुरुषव्याघ्रः शरैः संनतपर्वभिः जघान धार्तराष्ट्रस्य चतुर्विध बलां चमूम |
1
[s] etasminn antare kṛṣṇaḥ pārthaṃ vacanam abravīt darśayann iva kaunteyaṃ dharmarājaṃ yudhiṣṭhiram 2 eṣa pāṇḍava te bhrātā dhārtarāṣṭrair mahābalaiḥ jighāṃsubhir maheṣvāsair drutaṃ pārthānusaryate 3 tathānuyānti saṃrabdhāḥ pāñcālā yuddhadurmadāḥ yudhiṣṭhiraṃ mahātmānaṃ parīpsanto mahājavāḥ 4 eṣa duryodhanaḥ pārtharathānīkena daṃśitaḥ rājā sarvasya lokasya rājānam anudhāvati 5 jighāṃsuḥ puruṣavyāghraṃ bhrātṛbhiḥ sahito balī āśīviṣā samasparśaiḥ sarvayuddhaviśāradaiḥ 6 ete jighṛkṣavo yānti dvipāśvarathapattayaḥ yudhiṣṭhiraṃ dhārtarāṣṭrā ratnottamam ivārthinaḥ 7 paśya sātvata bhīmābhyāṃ niruddhādhiṣṭhitaḥ prabhuḥ jihīrṣavo 'mṛtaṃ daityāḥ śakrāgnibhyām ivāvaśāḥ 8 ete bahutvāt tvaritāḥ punar gacchanti pāṇḍavam samudram iva vāryoghāḥ prāvṛṭkāle mahārathaḥ 9 nadantaḥ siṃhanādāṃś ca dhamantaś cāpi vārijān balavanto maheṣvāsā vidhunvanto dhanūṃṣi ca 10 mṛtyor mukhagataṃ manye kuntīputraṃ yudhiṣṭṣhiram hutam agnau ca bhadraṃ te duryodhana vaśaṃgatam 11 yathā yuktam anīkaṃ hi dhārtarāṣṭrasya pāṇḍava nāsya śakro 'pi mucyeta saṃprāpto bāṇagoccaram 12 duryodhanasya śūrasya drauṇeḥ śāradvatasya ca karṇasya ceṣu vego vai parvatān api dārayet 13 duryodhanasya śūrasya śaraughāñ śīghram asyataḥ saṃkruddhasyāntakasyeva ko vegaṃ saṃsahed raṇe 14 karṇena ca kṛto rājā vimukhaḥ śatrutāpanaḥ balavāṁl laghu tastaś ca kṛtī yuddhaviśāradaḥ 15 rādheyaḥ pāṇḍavaśreṣṭhaṃ śaktaḥ pīḍayituṃ raṇe sahito dhṛtarāṣṭrasya putraiḥ śūro mahātmabhiḥ 16 tasyaivaṃ yudhyamānasya saṃgrāme saṃyatātmanaḥ anyair api ca pārthasya hṛtaṃ varma mahārathaiḥ 17 upavāsakṛśo rājā bhṛśaṃ bharatasattama brāhme bale sthito hy eṣa na kṣatre 'tibale vibho 18 na jīvati mahārājo manye pārtha yudhiṣṭhiraḥ yad bhīmasenaḥ sahate siṃhanādam amarṣaṇaḥ 19 nardatāṃ dhārtarāṣṭrāṇāṃ punaḥ punar ariṃdama dhamatāṃ ca mahāśaṅkhān saṃgrāme jitakarśinām 20 yudhiṣṭhiraṃ pāṇḍaveyaṃ hateti bharatarṣabha saṃcodayaty asau karṇo dhārtarāṣṭrān mahābalān 21 sthūṇākarṇendu jālena pārtha pāśupatena ca pracchādayanto rājānam anuyānti mahārathāḥ āturo me mato rājā saṃniṣevyaś ca bhārata 22 yathainam anuvartante pāñcālāḥ saha pāṇḍavaiḥ tvaramāṇās tvarā kāle sarvaśastrabhṛtāṃ varāḥ majjantam iva pātāle balino 'py ujjihīrṣavaḥ 23 na ketur dṛśyate rājñaḥ karṇena nihataḥ śaraiḥ paśyator yamayoḥ pārtha sātyakeś ca śikhaṇḍinaḥ 24 dhṛṣṭadyumnasya bhīmasya śatānīkasya vā vibho pāñcālānāṃ ca sarveṣāṃ cedīnāṃ caiva bhārata 25 eṣa karṇo raṇe pārtha pāṇḍavānām anīkinīm śarair vidhvaṃsayati vai nalinīm iva kuñjaraḥ 26 ete dravanti rathinas tvadīyāḥ pāṇḍunandana paśya paśya yathā pārtha gacchanty ete mahārathāḥ 27 ete bhārata mātaṅgāḥ karṇenābhihatā raṇe ārtanādān vikurvāṇā vidravanti diśo daśa 28 rathānāṃ dravatāṃ vṛndaṃ paśya pārtha samantataḥ drāvyamāṇaṃ raṇe caiva karṇenāmitra karśinā 29 hastikakṣyāṃ raṇe paśya carantīṃ tatra tatra ha rathasthaṃ sūtaputrasya ketuṃ ketumatāṃ vara 30 asau dhāvati rādheyo bhīmasenarathaṃ prati kirañ śaraśatānīva vinighnaṃs tava vāhinīm 31 etān paśya ca pāñcālān drāvyamāṇān mahātmanā śakreṇeva yathā daityān hanyamānān mahāhave 32 eṣa karṇo raṇe jitvā pāñcālān pāṇḍusṛñjayān diśo viprekṣate sarvās tvadartham iti me matiḥ 33 paśya pārthadhanuḥśreṣṭhaṃ vikarṣan sādhu śobhate śatrūñ jitvā yathā śakro devasaṃghaiḥ samāvṛtaḥ 34 ete nadanti kauravyā dṛṣṭvā karṇasya vikramam trāsayanto raṇe pārthān sṛñjayāṃś ca sahasraśaḥ 35 eṣa sarvātmanā pāṇḍūṃs trāsayitvā mahāraṇe abhibhāṣati rādheyaḥ sarvasainyāni mānada 36 abhidravata gacchadhvaṃ drutaṃ dravata kauravāḥ yathā jīvan na vaḥ kaś cin mucyate yudhi sṛñjayaḥ 37 tathā kuruta saṃyattā vayaṃ yāsyāma pṛṣṭhataḥ evam uktvā yayāv eṣa pṛṣṭhato vikirañ śaraiḥ 38 paśya karṇaṃ raṇe pārtha śvetacchavi virājitam udayaṃ parvataṃ yadvac chobhayan vai divākaraḥ 39 pūrṇacandra nikāśena mūrdhni chatreṇa bhārata dhriyamāṇena samare tathā śataśalākinā 40 eṣa tvāṃ prekṣate karṇaḥ sakatākṣo viśāṃ pate uttamaṃ yatnam āsthāya dhruvām eṣyati saṃyuge 41 paśya hy enaṃ mahābāho vidhunvānaṃ mahad dhanuḥ śarāṃś cāśīviṣākārān visṛjantaṃ mahābalam 42 asau nivṛtto rādheyo dṛśyate vānaradhvaja vadhāya cātmano 'bhyeti dīpasya śalabho yathā 43 karṇam ekākinaṃ dṛṣṭvā rathānīkena bhārata rirakṣiṣuḥ susaṃyatto dhārtarāṣṭro 'bhivartate 44 sārvaiḥ sahaibhir duṣṭātmā vadhya eṣa prayatnataḥ tvayā yaśaś ca rājyaṃ ca sukhaṃ cottamam icchatā 45 ātmānaṃ ca kṛtātmānaṃ samīkṣya bharatarṣabha kṛtāgasaṃ ca rādheyaṃ dharmātmani yudhiṣṭhire 46 pratipadyasva rādheyaṃ prāptakālam anantaram āryāṃ yuddhe matiṃ kṛtvā pratyehi rathayūthapam 47 pañca hy etāni mikhyānāṃ rathānāṃ rathasattama śatāny āyānti vegena balināṃ bhīma tejasām 48 pañca nāgasahasrāṇi dviguṇā vājinas tathā abhisaṃhatya kaunteya padātiprayutāni ca anyonyarakṣitaṃ vīra balaṃ tvām abhivartate 49 sūtaputre maheṣvāse darśayātmānam ātmanā uttamaṃ yatnam āsthāya pratyehi bharatarṣabha 50 asau karṇaḥ susaṃrabdhaḥ pāñcālān abhidhāvati ketum asya hi paśyāmi dhṛṣṭadyumna rathaṃ prati samucchetsyati pāñcālān iti manye paraṃtapa 51 ācakṣe te priyaṃ pārtha tad evaṃ bharatarṣabha rājā jīvati kauravyo dharmaputro yudhiṣṭhiraḥ 52 asau bhimo mahābāhuhl saṃnivṛttaś camūmukhe vṛtaḥ sṛñjaya sainyena sātyakena ca bhātata 53 vadhyanta ete samare kauravā niśitaiḥ śaraiḥ bhīmasenena kaunteya pāñcālaiś ca mahātmabhiḥ 54 senā hi dhārtarāṣṭrasya vimukhā cābhavad raṇāt vipradhāvati vegena bhīmasya nihatā śaraiḥ 55 vipannasasyeva mahī rudhireṇa samukṣitā bhāratī bharataśreṣṭha senā kṛpaṇa darśanā 56 nivṛttaṃ paśya kaunteya bhīmasenaṃ yudhāṃ patim āśīviṣam iva kruddhaṃ tasmād dravati vāhinī 57 pītaraktāsita sitās tārā candrārka maṇḍitāḥ patākāviprakīryante chatrāṇy etāni cārjuna 58 sauvarṇā rājatāś caiva taijasāś ca pṛthagvidhāḥ ketavo vinipātyante hastyaśvaṃ viprakīryate 59 rathebhyaḥ prapatanty ete rathino vigatāsavaḥ nānāvarṇair hatā bāṇaiḥ pāñcālair apalāyibhiḥ 60 nirmanuṣyān gajān aśvān rathāṃś caiva dhanaṃjaya samādravanti pāñcālā dhārtarāṣṭrāṃs tarasvinaḥ 61 mṛdnanti ca naravyāghrā bhīmasenavyapāśrayāt balaṃ pareṣāṃ durdharṣaṃ tyaktvā prāṇān ariṃdama 62 ete nadanti pāñcālā dhamanty api ca vārijān abhidravanti ca raṇe nighnantaḥ sāyakaiḥ parān 63 paśya svargasya māhātmyaṃ pāñcālā hi paraṃtapa dhārtarāṣṭrān vinighnanti kruddhāḥ siṃhā iva dvipān 64 sarvataś cābhipannaiṣā dhārtarāṣṭrī mahācamūḥ pāñcālair mānasād etya haṃsair gaṅgeva vegitaiḥ 65 subhṛśaṃ ca parākrāntāḥ pāñcālānāṃ nivāraṇe kṛpa karṇādayo vīrā ṛṣabhāṇām ivarṣabhāḥ 66 sunimagnāṃś ca bhīmāstrair dhārtarāṣṭrān mahārathān dhṛṣṭadyumnamukhā vīrā ghnanti śatrūn sahasraśaḥ viṣaṇṇabhūyiṣṭha rathā dhārtarāṣṭrī mahācamūḥ 67 paśya bhīmena nārācaiś chinnā nāgāḥpatanty amī vajrivajrāhatānīva śikharāṇi mahībhṛtām 68 bhīmasenasya nirviddhā bāṇaiḥ saṃnataparvabhiḥ svāny anīkāni mṛdnanto dravaty ete mahāgajāḥ 69 nābhijānāsi bhīmasya siṃhanādaṃ durutsaham nadato 'rjuna saṃgrāme vīrasya jitakāśinaḥ 70 eṣa naiṣādir abbhyeti dvipamukhyena pāṇḍavam jighāṃsus tomaraiḥ kruddho daṇḍā pāṇir ivāntakaḥ 71 satomarāv asya bhujau chinnau bhīmena garjataḥ tīkṣṇair agniśikhā prakhyair nārācair daśabhir hataḥ 72 hatvainaṃ punar āyāti nāgān anyān prahāriṇaḥ paśya nīlāmbudanibhān mahāmātrair adhiṣṭhitān śaktitomarasaṃkāśair vinighnantaṃ vṛkodaram 73 sapta sapta ca nāgaṃs tān vaijayantīś ca sadhvajāḥ nihatya niśitair bāṇaiś chinnāḥ pārthāgrajena te daśabhir daśabhiś caiko nārācair nihato gajaḥ 74 na cāsau dhārtarāṣṭrāṇāṃ śrūyate ninadas tathā puraṃdarasame kruddhe nivṛtte bharatarṣabhe 75 akṣauhiṇyas tathā tisro dhārtarāṣṭrasya saṃhatāḥ kruddhena narasiṃhena bhīmasenena vāritāḥ 76 [s] bhīmasenena tat karmakṛtaṃ dṛṣṭvā suduṣkaram arjuno vyadhamac chiṣṭān ahitān niśitaiḥ śaraiḥ 77 te vadhyamānāḥ samare saṃśaptaka gaṇāḥ prabho śakrasyātithitāṃ gatvā viśokā hy abhavan mudā 78 pārthaś ca puruṣavyāghraḥ śaraiḥ saṃnataparvabhiḥ jaghāna dhārtarāṣṭrasya caturvidha balāṃ camūm |
The Mahabharata in Sanskrit
Book 8
Chapter 44
|
1
[धृ] निवृत्ते भीमसेने च पाण्डवे च युधिष्ठिरे वध्यमाने बले चापि मामके पाण्डुसृञ्जयैः 2 दरवमाणे बलौघे च निराक्रन्दे मुहुर मुहुः किम अकुर्वन्त कुरवस तन ममाचक्ष्व संजय 3 [स] दृष्ट्वा भीमं महाबाहुं सूतपुत्रः परतापवान करॊधरक्तेक्षणॊ राजन भीमसेनम उपाद्रवत 4 तावकं च बलं दृष्ट्वा भीमसेनात पराङ्मुखम यत्नेन महता राजन पर्यवस्थापयद बली 5 वयवस्थाप्य महाबाहुस तव पुत्रस्य वाहिनीम परत्युद्ययौ तदा कर्णः पाण्डवान युद्धदुर्मदान 6 परत्युद्ययुस तु राधेयं पाण्डवानां महारथाः धुन्वानाः कार्मुकाण्य आजौ विक्षिपन्तश च सायकान 7 भीमसेनः सिनेर नप्ता शिखण्डी जनमेजयः धृष्टद्युम्नश च बलवान सर्वे चापि परभद्रकाः 8 पाञ्चालाश च नरव्याघ्राः समन्तात तव वाहिनीम अभ्यद्रवन्त संक्रुद्धाः समरे जितकाशिनः 9 तथैव तावका राजन पाण्डवानाम अनीकिनीम अभ्यद्रवन्त तवरिता जिघांसन्तॊ महारथाः 10 रथनागाश्वकलिलं पत्तिध्वजसमाकुलम बभूव पुरुषव्याघ्र सैन्यम अद्भुतदर्शनम 11 शिखण्डी च ययौ कर्णं धृष्टद्युम्नः सुतं तव दुःशासनं महाराज महत्या सेनया वृतम 12 नकुलॊ वृषसेनं च चित्रसेनं समभ्ययात उलूकं समरे राजन सहदेवः समभ्ययात 13 सात्यकिः शकुनिं चापि भीमसेनश च कौरवान अर्जुनं च रणे यत्तं दरॊणपुत्रॊ महारथः 14 युधामन्युं महेष्वासं गौतमॊ ऽभयपतद रणे कृतवर्मा च बलवान उत्तमौजसम आद्रवत 15 भीमसेनः कुरून सर्वान पुत्रांश च तव मारिष सहानीकान महाबाहुर एक एवाभ्यवारयत 16 शिखण्डी च ततः कर्णं विचरन्तम अभीतवत भीष्म हन्ता महाराज वारयाम आस पत्रिभिः 17 परतिरब्धस ततः कर्णॊ रॊषात परस्फुरिताधरः शिखण्डिनं तरिभिर बाणैर भरुवॊर मध्ये वयताडयत 18 धारयंस तु स तान बाणाञ शिखण्डी बह्व अशॊभत राजतः पर्वतॊ यद्वत तरिभिः शृङ्गैः समन्वितः 19 सॊ ऽतिविद्धॊ महेष्वासः सूतपुत्रेण संयुगे कर्णं विव्याध समरे नवत्या निशितैः शरैः 20 तस्य कर्णॊ हयान हत्वा सारथिं च तरिभिः शरैः उन्ममाथ धवजं चास्य कषुप्रप्रेण महारथः 21 हताश्वात तु ततॊ यानाद अवप्लुत्य महारथः शक्तिं चिक्षेप कर्णाय संक्रुद्धः शत्रुतापनः 22 तां छित्त्वा समरे कर्णस तरिभिर भारत सायकैः शिखण्डिनम अथाविध्यन नवभिर निशितैः शरैः 23 कर्ण चापच्युतान बाणान वर्जयंस तु नरॊत्तमः अपयातस ततस तूर्णं शिखण्डी जयतां वरः 24 ततः कर्णॊ महाराज पाण्डुसैन्यान्य अशातयत तूलराशिं समासाद्य यथा वायुर महाजवः 25 धृष्टद्युम्नॊ महाराज तव पुत्रेण पीडितः दुःशासनं तरिभिर बाणैर अभ्यविध्यत सतनान्तरे 26 तस्य दुःशासनॊ बाहुं सव्यं विव्याध मारिष शितेन रुक्मपुङ्खेन भल्लेन नतपर्वणा 27 धृष्टद्युम्नस तु निर्विद्धः शरं घॊरम अमर्षणः दुःशासनाय संक्रुद्धः परेषयाम आस भारत 28 आपतन्तं महावेगं धृष्टद्युम्न समीरितम शरैश चिच्छेद पुत्रस ते तरिभिर एव विशां पते 29 अथापरैः सप्त दशैर भल्लैः कनकभूषणैः धृष्टद्युम्नं समासाद्य बाह्वॊर उरसि चार्दयत 30 ततः स पार्षतः करुद्धॊ धनुश चिच्छेद मारिष कषुरप्रेण सुतीक्ष्णेन तत उच्चुक्रुशुर जनाः 31 अथान्यद धनुर आदाय पुत्रस ते भरतर्षभ धृष्टद्युम्नं शरव्रातैः समन्तात पर्यवारयत 32 तव पुत्रस्य ते दृष्ट्वा विक्रमं तं महात्मनः वयहसन्त रणे यॊधाः सिद्धाश चाप्सरसां गणाः 33 ततः परववृते युद्धं तावकानां परैः सह घॊरं पराणभृतां काले घॊररूपं परंतप 34 नकुलं वृषसेनस तु विद्ध्वा पञ्चभिर आयसैः पितुः समीपे तिष्ठन्तं तरिभिर अन्यैर अविध्यत 35 नकुलस तु ततः करुद्धॊ वृषसेनं समयन्न इव नाराचेन सुतीक्ष्णेन विव्याध हृदये दृढम 36 सॊ ऽतिविद्धॊ बलवता शत्रुणा शत्रुकर्शनः शत्रुं विव्याध विंशत्या स च तं पञ्चभिः शरैः 37 ततः शरसहस्रेण ताव उभौ पुरुषर्षभौ अन्यॊन्यम आच्छादयताम अथाभज्यत वाहिनी 38 दृष्ट्वा तु परद्रुतां सेनां धार्तराष्ट्रस्य सूतजः निवारयाम आस बलाद अनुपत्य विशां पते निवृत्ते तु ततः कर्णे नकुलः कौरवान ययौ 39 कर्णपुत्रस तु समरे हित्वा नकुलम एव तु जुगॊप चक्रं तवरितं राधेयस्यैव मारिष 40 उलूकस तु रणे करुद्धः सहदेवेन वारितः तस्याश्वांश चतुरॊ हत्वा सहदेवः परतापवान सारथिं परेषयाम आस यमस्य सदनं परति 41 उलूकस तु ततॊ यानाद अवप्लुत्य विशां पते तरिगर्तानां बलं पूर्णं जगाम पितृनन्दनः 42 सात्यकिः शकुनिं विद्ध्वा विंशत्या निशितैः शरैः धवजं चिच्छेद भल्लेन सौबलस्य हसन्न इव 43 सौबलस तस्य समरे करुद्धॊ राजन परतापवान विदार्य कवचं भूयॊ धवजं चिच्छेद काञ्चनम 44 अथैनं निशितैर बाणैः सात्यकिः परत्यविध्यत सारथिं च महाराज तरिभिर एव समार्दयत अथास्य वाहांस तवरितः शरैर निन्ये यमक्षयम 45 ततॊ ऽवप्लुत्य सहसा शकुनिर भरतर्षभ आरुरॊह रथं तूर्णम उलूकस्य महारथः अपॊवाहाथ शीघ्रं स शैनेयाद युद्धशालिनः 46 सात्यकिस तु रणे राजंस तावकानाम अनीकिनीम अभिदुद्राव वेगेन ततॊ ऽनीकम अभिद्यत 47 शैनेय शरनुन्नं तु ततः सैन्यं विशां पते भेजे दश दिशस तूर्णं नयपतच च गतासुवत 48 भीमसेनं तव सुतॊ वारयाम आस संयुगे तं तु भीमॊ मुहूर्तेन वयश्व सूत रथध्वजम चक्रे लॊकेश्वरं तत्र तेनातुष्यन्त चारणाः 49 ततॊ ऽपायान नृपस तत्र भीमसेनस्य गॊचरात कुरुसैन्यं ततः सर्वं भीमसेनम उपाद्रवत तत्र रावॊ महान आसीद भीमम एकं जिघांसताम 50 युधामन्युः कृपं विद्ध्वा धनुर अस्याशु चिच्छिदे अथान्यद धनुर आदाय कृपः शस्त्रभृतां वरः 51 युधामन्यॊर धवजं सूतं छत्रं चापातयत कषितौ ततॊ ऽपायाद रथेनैव युधामन्युर महारथः 52 उत्तमौजास तु हार्दिक्यं शरैर भीमपराक्रमम छादयाम आस सहसा मेघॊ वृष्ट्या यथाचलम 53 तद युद्धं सुमहच चासीद घॊररूपं परंतप यादृशं न मया युद्धं दृष्टपूर्वं विशां पते 54 कृतवर्मा ततॊ राजन्न उत्तमौजसम आहवे हृदि विव्याध स तदा रथॊपस्थ उपाविशत 55 सारथिस तम अपॊवाह रथेन रथिनां वरम ततस तु सत्वरं राजन पाण्डुसैन्यम उपाद्रवत |
1
[dhṛ] nivṛtte bhīmasene ca pāṇḍave ca yudhiṣṭhire vadhyamāne bale cāpi māmake pāṇḍusṛñjayaiḥ 2 dravamāṇe balaughe ca nirākrande muhur muhuḥ kim akurvanta kuravas tan mamācakṣva saṃjaya 3 [s] dṛṣṭvā bhīmaṃ mahābāhuṃ sūtaputraḥ pratāpavān krodharaktekṣaṇo rājan bhīmasenam upādravat 4 tāvakaṃ ca balaṃ dṛṣṭvā bhīmasenāt parāṅmukham yatnena mahatā rājan paryavasthāpayad balī 5 vyavasthāpya mahābāhus tava putrasya vāhinīm pratyudyayau tadā karṇaḥ pāṇḍavān yuddhadurmadān 6 pratyudyayus tu rādheyaṃ pāṇḍavānāṃ mahārathāḥ dhunvānāḥ kārmukāṇy ājau vikṣipantaś ca sāyakān 7 bhīmasenaḥ siner naptā śikhaṇḍī janamejayaḥ dhṛṣṭadyumnaś ca balavān sarve cāpi prabhadrakāḥ 8 pāñcālāś ca naravyāghrāḥ samantāt tava vāhinīm abhyadravanta saṃkruddhāḥ samare jitakāśinaḥ 9 tathaiva tāvakā rājan pāṇḍavānām anīkinīm abhyadravanta tvaritā jighāṃsanto mahārathāḥ 10 rathanāgāśvakalilaṃ pattidhvajasamākulam babhūva puruṣavyāghra sainyam adbhutadarśanam 11 śikhaṇḍī ca yayau karṇaṃ dhṛṣṭadyumnaḥ sutaṃ tava duḥśāsanaṃ mahārāja mahatyā senayā vṛtam 12 nakulo vṛṣasenaṃ ca citrasenaṃ samabhyayāt ulūkaṃ samare rājan sahadevaḥ samabhyayāt 13 sātyakiḥ śakuniṃ cāpi bhīmasenaś ca kauravān arjunaṃ ca raṇe yattaṃ droṇaputro mahārathaḥ 14 yudhāmanyuṃ maheṣvāsaṃ gautamo 'bhyapatad raṇe kṛtavarmā ca balavān uttamaujasam ādravat 15 bhīmasenaḥ kurūn sarvān putrāṃś ca tava māriṣa sahānīkān mahābāhur eka evābhyavārayat 16 śikhaṇḍī ca tataḥ karṇaṃ vicarantam abhītavat bhīṣma hantā mahārāja vārayām āsa patribhiḥ 17 pratirabdhas tataḥ karṇo roṣāt prasphuritādharaḥ śikhaṇḍinaṃ tribhir bāṇair bhruvor madhye vyatāḍayat 18 dhārayaṃs tu sa tān bāṇāñ śikhaṇḍī bahv aśobhata rājataḥ parvato yadvat tribhiḥ śṛṅgaiḥ samanvitaḥ 19 so 'tividdho maheṣvāsaḥ sūtaputreṇa saṃyuge karṇaṃ vivyādha samare navatyā niśitaiḥ śaraiḥ 20 tasya karṇo hayān hatvā sārathiṃ ca tribhiḥ śaraiḥ unmamātha dhvajaṃ cāsya kṣuprapreṇa mahārathaḥ 21 hatāśvāt tu tato yānād avaplutya mahārathaḥ śaktiṃ cikṣepa karṇāya saṃkruddhaḥ śatrutāpanaḥ 22 tāṃ chittvā samare karṇas tribhir bhārata sāyakaiḥ śikhaṇḍinam athāvidhyan navabhir niśitaiḥ śaraiḥ 23 karṇa cāpacyutān bāṇān varjayaṃs tu narottamaḥ apayātas tatas tūrṇaṃ śikhaṇḍī jayatāṃ varaḥ 24 tataḥ karṇo mahārāja pāṇḍusainyāny aśātayat tūlarāśiṃ samāsādya yathā vāyur mahājavaḥ 25 dhṛṣṭadyumno mahārāja tava putreṇa pīḍitaḥ duḥśāsanaṃ tribhir bāṇair abhyavidhyat stanāntare 26 tasya duḥśāsano bāhuṃ savyaṃ vivyādha māriṣa śitena rukmapuṅkhena bhallena nataparvaṇā 27 dhṛṣṭadyumnas tu nirviddhaḥ śaraṃ ghoram amarṣaṇaḥ duḥśāsanāya saṃkruddhaḥ preṣayām āsa bhārata 28 āpatantaṃ mahāvegaṃ dhṛṣṭadyumna samīritam śaraiś ciccheda putras te tribhir eva viśāṃ pate 29 athāparaiḥ sapta daśair bhallaiḥ kanakabhūṣaṇaiḥ dhṛṣṭadyumnaṃ samāsādya bāhvor urasi cārdayat 30 tataḥ sa pārṣataḥ kruddho dhanuś ciccheda māriṣa kṣurapreṇa sutīkṣṇena tata uccukruśur janāḥ 31 athānyad dhanur ādāya putras te bharatarṣabha dhṛṣṭadyumnaṃ śaravrātaiḥ samantāt paryavārayat 32 tava putrasya te dṛṣṭvā vikramaṃ taṃ mahātmanaḥ vyahasanta raṇe yodhāḥ siddhāś cāpsarasāṃ gaṇāḥ 33 tataḥ pravavṛte yuddhaṃ tāvakānāṃ paraiḥ saha ghoraṃ prāṇabhṛtāṃ kāle ghorarūpaṃ paraṃtapa 34 nakulaṃ vṛṣasenas tu viddhvā pañcabhir āyasaiḥ pituḥ samīpe tiṣṭhantaṃ tribhir anyair avidhyata 35 nakulas tu tataḥ kruddho vṛṣasenaṃ smayann iva nārācena sutīkṣṇena vivyādha hṛdaye dṛḍham 36 so 'tividdho balavatā śatruṇā śatrukarśanaḥ śatruṃ vivyādha viṃśatyā sa ca taṃ pañcabhiḥ śaraiḥ 37 tataḥ śarasahasreṇa tāv ubhau puruṣarṣabhau anyonyam ācchādayatām athābhajyata vāhinī 38 dṛṣṭvā tu pradrutāṃ senāṃ dhārtarāṣṭrasya sūtajaḥ nivārayām āsa balād anupatya viśāṃ pate nivṛtte tu tataḥ karṇe nakulaḥ kauravān yayau 39 karṇaputras tu samare hitvā nakulam eva tu jugopa cakraṃ tvaritaṃ rādheyasyaiva māriṣa 40 ulūkas tu raṇe kruddhaḥ sahadevena vāritaḥ tasyāśvāṃś caturo hatvā sahadevaḥ pratāpavān sārathiṃ preṣayām āsa yamasya sadanaṃ prati 41 ulūkas tu tato yānād avaplutya viśāṃ pate trigartānāṃ balaṃ pūrṇaṃ jagāma pitṛnandanaḥ 42 sātyakiḥ śakuniṃ viddhvā viṃśatyā niśitaiḥ śaraiḥ dhvajaṃ ciccheda bhallena saubalasya hasann iva 43 saubalas tasya samare kruddho rājan pratāpavān vidārya kavacaṃ bhūyo dhvajaṃ ciccheda kāñcanam 44 athainaṃ niśitair bāṇaiḥ sātyakiḥ pratyavidhyata sārathiṃ ca mahārāja tribhir eva samārdayat athāsya vāhāṃs tvaritaḥ śarair ninye yamakṣayam 45 tato 'vaplutya sahasā śakunir bharatarṣabha āruroha rathaṃ tūrṇam ulūkasya mahārathaḥ apovāhātha śīghraṃ sa śaineyād yuddhaśālinaḥ 46 sātyakis tu raṇe rājaṃs tāvakānām anīkinīm abhidudrāva vegena tato 'nīkam abhidyata 47 śaineya śaranunnaṃ tu tataḥ sainyaṃ viśāṃ pate bheje daśa diśas tūrṇaṃ nyapatac ca gatāsuvat 48 bhīmasenaṃ tava suto vārayām āsa saṃyuge taṃ tu bhīmo muhūrtena vyaśva sūta rathadhvajam cakre lokeśvaraṃ tatra tenātuṣyanta cāraṇāḥ 49 tato 'pāyān nṛpas tatra bhīmasenasya gocarāt kurusainyaṃ tataḥ sarvaṃ bhīmasenam upādravat tatra rāvo mahān āsīd bhīmam ekaṃ jighāṃsatām 50 yudhāmanyuḥ kṛpaṃ viddhvā dhanur asyāśu cicchide athānyad dhanur ādāya kṛpaḥ śastrabhṛtāṃ varaḥ 51 yudhāmanyor dhvajaṃ sūtaṃ chatraṃ cāpātayat kṣitau tato 'pāyād rathenaiva yudhāmanyur mahārathaḥ 52 uttamaujās tu hārdikyaṃ śarair bhīmaparākramam chādayām āsa sahasā megho vṛṣṭyā yathācalam 53 tad yuddhaṃ sumahac cāsīd ghorarūpaṃ paraṃtapa yādṛśaṃ na mayā yuddhaṃ dṛṣṭapūrvaṃ viśāṃ pate 54 kṛtavarmā tato rājann uttamaujasam āhave hṛdi vivyādha sa tadā rathopastha upāviśat 55 sārathis tam apovāha rathena rathināṃ varam tatas tu satvaraṃ rājan pāṇḍusainyam upādravat |
The Mahabharata in Sanskrit
Book 8
Chapter 45
|
1
[स] दरौणिस तु रथवंशेन महता परिवारितः आपतत सहसा राजन यत्र राजा वयवस्थिथ 2 तम आपतन्तं सहसा शूरः शौरि सहायवान दधार सहसा पार्थॊ वेलेव मकलालयम 3 ततः करुद्धॊ महाराज दरॊणपुत्रः परताववान अर्जुनं वासुदेवं च छादयाम आस पत्रिभिः 4 अवच्छन्नौ ततः कृष्णौ दृष्ट्वा तत्र महारथाः विस्मयं परमं गत्वा परैक्षान्त कुरवस तदा 5 अर्जुनस तु ततॊ दिव्यम अस्त्रं चक्रे हसन्न इव तद अस्त्रं बराह्मणॊ युद्धे वारयाम आस भारत 6 यद यद धि वयाक्षिपद युद्धे पाण्डवॊ ऽसत्रं जिघांसया तत तद अस्त्रं महेष्वासॊ दरॊणपुत्रॊ वयशातयत 7 अस्त्रयुद्धे ततॊ राजन अर्तमाने भयावहे अपश्याम रणे दरौणिं वयात्ताननम इवान्तकम 8 स दिशॊ विदिशश चैव छादयित्वा विजिह्मगैः वासुदेवं तरिभिर बाणैर अविध्यद दक्षिणे भुजे 9 ततॊ ऽरजुनॊ हयान हत्वा सर्वांस तस्य महात्मनः चकार समरे भूमिं शॊणितौघतरङ्गिणीम 10 निहता रथिनः पेतुः पार्थ चापच्युतैः शरैः हयाश च पर्यधावन्त मुक्तयॊक्त्रास ततस ततः 11 तद दृष्ट्वा कर्म पार्थस्य दरौणिर आहवशॊभिनः अवाकिरद रणे कृष्णं समन्तान निशितैः शरैः 12 ततॊ ऽरजुनं महाराज दरौणिर आयम्य पत्रिणा वक्षॊ देशे समासाद्य ताडयाम आस संयुगे 13 सॊ ऽतिविद्धॊ रणे तेन दरॊणपुत्रेण भारत आदत्त परिघं घॊरं दरौणेश चैनम अवाक्षिपत 14 तम आपतन्तं परिघं कार्तस्वरविभूषितम दरौणिश चिच्छेद सहसा तत उच्चुक्रुशुर जनाः 15 सॊ ऽनेकधापतद भूमौ भारद्वाजस्य सायकैः विशीर्णः पर्वतॊ राजन यथा सयान मातरिश्वना 16 ततॊ ऽरजुनॊ रणे दरौणिं विव्याध दशभिः शरैः सारथिं चास्य भल्लेन रथनीडाद अपाहरत 17 स संगृह्य सवयं वाहान कृणौ पराच्छादयच छरैः तत्राद्भुतम अपश्याम दरौणेर आशु पराक्रमम 18 अयच्छत तुरगान यच च फल्गुनं चाप्य अयॊधयत तद अस्य समरे राजन सर्वे यॊधा अपूजयन 19 यदा तव अग्रस्यत रणे दरॊण पुत्रेण फल्गुनः ततॊ रश्मीन रथाश्वानां कषुरप्रैश चिच्छिदे जयः 20 पराद्रवंस तुरगास ते तु शरवेगप्रबाधिताः ततॊ ऽभून निनदॊ भूयस तव सैन्यस्य भारत 21 पाण्डवास तु जयं लब्ध्वा तव सैन्यम उपाद्रवन समन्तान निशितान बाणान विमुञ्चन्तॊ जयैषिणः 22 पाण्डवैस तु महाराज धार्तराष्ट्री महाचमूः पुनः पुनर अथॊ वीरैर अभज्यत जयॊद्धतैः 23 पश्यतां ते महाराज पुत्राणां चित्रयॊधिनाम शकुनेः सौबलेयस्य कर्णस्य च महात्मनः 24 वार्यमाणा महासेना पुत्रैस तव जनेश्वर नावतिष्ठत संग्रामे ताड्यमाना समन्ततः 25 ततॊ यॊधैर महाराज पलायद्भिस ततस ततः अभवद वयाकुलं भीतैः पुत्राणां ते महद बलम 26 तिष्ठ तिष्ठेति सततं सूतपुत्रस्य जल्पतः नावतिष्ठत सा सेना वध्यमाना महात्मभिः 27 अथॊत्क्रष्टं महाराज पाण्डवैर जितकाशिभिः धार्तराष्ट्र बलं दृष्ट्वा दरवमाणं समन्ततः 28 ततॊ दुर्यॊधनः कर्णम अब्रवीत परणयाद इव पश्य कर्ण यथा सेना पाण्डवैर अर्दिता भृशम 29 तवयि तिष्ठति संत्रासात पलायति समन्ततः एतज जञात्वा महाबाहॊ कुरु पराप्तम अरिंदम 30 सहस्राणि च यॊधानां तवाम एव पुरुषर्षभ करॊशन्ति समरे वीर दराव्यमाणानि पाण्डवैः 31 एतच छरुत्वा तु राधेयॊ दुर्यॊधन वचॊ महत मद्रराजम इदं वाक्यम अब्रवीत सूतनन्दनः 32 पश्य मे भुजयॊर वीर्यम अस्त्राणां च जनेश्वर अद्य हन्मि रणे सर्वान पाञ्चालान पाण्डुभिः सह वाहयाश्वान नरव्याघ्र भद्रेणैव जनेश्वर 33 एवम उक्त्वा महाराज सूतपुत्रः परतापवान परगृह्य विजयं वीरॊ धनुः शरेष्ठं पुरातनम सज्यं कृत्वा महाराज संमृज्य च पुनः पुनः 34 संनिवार्य च यॊधान सवान सात्येन शपथेन च परायॊजयद अमेयात्मा भार्गवास्त्रं महाबलः 35 ततॊ राजन सहस्राणि परयुतान्य अर्बुदानि च कॊटिशश च शरास तीक्ष्णा निरगछन महामृधे 36 जवलितैस तैर महाघॊरैः कङ्कबर्हिण वाजितैः संछन्ना पाण्डवी सेना न पराज्ञायत किंच चन 37 हाहाकारॊ महान आसीत पाञ्चालानां विशां पते पीडितानां बलवता भार्गवास्त्रेण संयुगे 38 निपतद्भिर गजै राजन नरैश चापि सहस्रशः रथैश चापि नरव्याघ्र हयैश चापि समन्ततः 39 पराकम्पत मही राजन निहतैस तैस ततस ततः वयाकुलं सर्वम अभवत पाण्डवानां महद बलम 40 कर्णस तव एकॊ युधां शरेष्ठॊ विधूम इव पावकः दहञ शत्रून नरव्याघ्र शुशुभे सा परंतपः 41 ते वध्यमानाः कर्णेन पाञ्चालाश चेदिभिः सह तत्र तत्र वयमुह्यन्त वनदाहे यथा दविपाः चुक्रुशुस ते नरव्याघ्र यथा पराग वा नरॊत्तमाः 42 तेषां तु करॊशतां शरुत्वा भीतानां रणमूर्धनि धावतां च दिशॊ राजन वित्रस्तानं समन्ततः आर्तनादॊ महांस तत्र परेतानाम इव संप्लवे 43 वध्यमानांस तु तान दृष्ट्वा सूतपुत्रेण मारिष वित्रेसुः सर्वभूतानि तिर्यग्यॊनिगतान्य अपि 44 ते वध्यमानाः समरे सूतपुत्रेण सृञ्जयाः अर्जुनं वासुदेवं च वयाक्रॊशन्त मुहुर मुहुः परेतराजपुरे यद्वत परेतराजं विचेतसः 45 अथाब्रवीद वासुदेवं कुन्तीपुत्रॊ धनंजयः भार्गवास्त्रं महाघॊरं दृष्ट्वा तत्र सभीरितम 46 पश्य कृष्ण महाबाहॊ भार्गवास्त्रस्य वीक्रमम नैतद अस्त्रं हि समरे शक्यं हन्तुं कथं चन 47 सूतपुत्रं च संरब्धं पश्य कृष्ण महारणे अन्तकप्रतिमं वीरं कुर्वाणं कर्म दारुणम 48 सुतीक्ष्णां चॊदयन्न अश्वान परेकते मां मुहुर मुहुः न च पश्यामि समरे कर्णस्य परपलायितम 49 जीवन पराप्नॊति पुरुषः संख्ये जयपराजयौ जितस्य तु हृषीकेश बध एव कुतॊ जयः 50 ततॊ जनार्दनः परायाद दरष्टुम इच्छन युधिष्ठिरम शरमेण गराहयिष्यंश च कर्णं युद्धेन मारिष 51 अर्जुनं चाब्रवीत कृष्णॊ भृशं राजा परिक्षतः तम आश्वास्य कुरु शरेष्ठ तताः कर्णं हनिष्यसि 52 ततॊ धनंजयॊ दरष्टुं राजानं बाणपीडितम रथेन परययौ कषिप्रं संग्रामे केशवाज्ञया 53 गच्छन्न एव तु कौन्तेयॊ धर्मराज दिदृक्षया सैन्यम आलॊकयाम आस नापश्यत तत्र चाग्रजम 54 युद्धं कृत्वा तु कौन्तेयॊ दरॊणपुत्रेण भारत दुःसहं वाजिणा संख्ये पराजिग्ये भृगॊः सुतम 55 दरौणिं पराजित्य ततॊ ऽगरधन्वा; कृत्वा महद दुष्करम आर्य कर्म आलॊकयाम आस ततः सवसैन्यं; धनंजयः शत्रुभिर अप्रधृष्यः 56 स युध्यमानः पृतना मुखस्थाञ; शूराञ शूरॊ हर्षयन सव्यसाची पूर्वापदानैः परथितैः परशंसन; सथिरांश चकारात्म रथान अनीके 57 अपश्यमानस तु किरीटमाली; युधि जयेष्ठं भरातरम आजमीढम उवाच भीमं तरसाभ्युपेत्य; राज्ञः परवृत्तिस तव इह केति राजन 58 [भम] अपयात इतॊ राजा धर्मपुत्रॊ युधिष्ठिरः कर्ण बाणविभुग्नाङ्गॊ यदि जीवेत कथं चन 59 [अर्ज] तस्माद भवाञ शीघ्रम इतः परयातु; राज्ञः परवृत्त्यै कुरुसत्तमस्य नूनं हि विद्धॊ ऽतिभृशं पृषत्कैः; कर्णेन राजा शिबिरं गतॊ ऽसौ 60 यः संप्रहारे निशि संप्रवृत्ते; दरॊणेन विद्धॊ ऽतिभृशं तरस्वी तस्थौ च तत्रापि जय परतीक्षॊ; दरॊणेन यावन न हतः किलासीत 61 स संशयं गमितः पाण्डवाग्र्यः; संख्ये ऽदय कर्णेन महानुभावः जञातुं परयाह्य आशु तम अद्य भीम; सथास्याम्य अहं शत्रुगणान निरुध्य 62 [भम] तवाम एव जानीहि महानुभाव; राज्ञः परवृत्तिं भरतर्षभस्य अहं हि यद्य अर्जुन यामि तत्र; वक्ष्यन्ति मां भीत इति परवीराः 63 ततॊ ऽबरवीद अर्जुनॊ भीमसेनं; संशप्तकाः परत्यनीकं सथिता मे एतान अहत्वा न मया तु शक्यम; इतॊ ऽपयातुं रिपुसंघ गॊष्ठात 64 अथाब्रवीद अर्जुनं भीमसेनः; सववीर्यम आश्रित्य कुरुप्रवीर संशप्तकान परतियॊत्स्यामि संख्ये; सर्वान अहं याहि धनंजयेति 65 तद भीमसेनस्य वचॊ निशम्य; सुदुर्वचं भरातुर अमित्रमध्ये दरष्टुं कुरुश्रेष्ठम अभिप्रयातुं; परॊवाच वृष्णिप्रवरं तदानीम 66 चॊदयाश्वान हृषीकेश विगाह्यैतं रथार्णवम अजातशत्रुं राजानं दरष्टुम इच्छामि केशव 67 ततॊ हयान सर्वदाशार्ह मुख्यः; पराचॊदयद भीमम उवाच चेदम नैतच चित्रं तव कर्माद्य वीर; यास्यामहे जहि भीमारि संघान 68 ततॊ ययौ हृषीकेशॊ यत्र राजा युधिष्ठिरः शीघ्राच छीघ्रतरं राजन वाजिभिर गरुडॊपमैः 69 परत्यनीके वयवस्थाप्य भीमसेनम अरिंदमम संदिश्य चैव राजेन्द्र युद्धं परति वृकॊदरम 70 ततस तु गत्वा पुरुषप्रवीरौ; राजानम आसाद्य शयानम एकम रथाद उभौ परत्यवरुह्य तस्माद; ववन्दतुर धर्मराजस्य पादौ 71 तौ दृष्ट्वा पुरुषव्याघ्रौ कषेमिणौ पुरुषर्षभ मुदाभ्युपगतौ कृष्णाव अश्विनाव इव वासवम 72 ताव अभ्यनन्दद राजा हि विवस्वान अश्विनाव इव हते महासुरे जम्भे शक्र विष्णू यथा गुरुः 73 मन्यमानॊ हतं कर्णं धर्मराजॊ युधिष्ठिरः हर्षगद्गदया वाचा परीतः पराह परंतपौ |
1
[s] drauṇis tu rathavaṃśena mahatā parivāritaḥ āpatat sahasā rājan yatra rājā vyavasthitha 2 tam āpatantaṃ sahasā śūraḥ śauri sahāyavān dadhāra sahasā pārtho veleva makalālayam 3 tataḥ kruddho mahārāja droṇaputraḥ pratāvavān arjunaṃ vāsudevaṃ ca chādayām āsa patribhiḥ 4 avacchannau tataḥ kṛṣṇau dṛṣṭvā tatra mahārathāḥ vismayaṃ paramaṃ gatvā praikṣānta kuravas tadā 5 arjunas tu tato divyam astraṃ cakre hasann iva tad astraṃ brāhmaṇo yuddhe vārayām āsa bhārata 6 yad yad dhi vyākṣipad yuddhe pāṇḍavo 'straṃ jighāṃsayā tat tad astraṃ maheṣvāso droṇaputro vyaśātayat 7 astrayuddhe tato rājan artamāne bhayāvahe apaśyāma raṇe drauṇiṃ vyāttānanam ivāntakam 8 sa diśo vidiśaś caiva chādayitvā vijihmagaiḥ vāsudevaṃ tribhir bāṇair avidhyad dakṣiṇe bhuje 9 tato 'rjuno hayān hatvā sarvāṃs tasya mahātmanaḥ cakāra samare bhūmiṃ śoṇitaughataraṅgiṇīm 10 nihatā rathinaḥ petuḥ pārtha cāpacyutaiḥ śaraiḥ hayāś ca paryadhāvanta muktayoktrās tatas tataḥ 11 tad dṛṣṭvā karma pārthasya drauṇir āhavaśobhinaḥ avākirad raṇe kṛṣṇaṃ samantān niśitaiḥ śaraiḥ 12 tato 'rjunaṃ mahārāja drauṇir āyamya patriṇā vakṣo deśe samāsādya tāḍayām āsa saṃyuge 13 so 'tividdho raṇe tena droṇaputreṇa bhārata ādatta parighaṃ ghoraṃ drauṇeś cainam avākṣipat 14 tam āpatantaṃ parighaṃ kārtasvaravibhūṣitam drauṇiś ciccheda sahasā tata uccukruśur janāḥ 15 so 'nekadhāpatad bhūmau bhāradvājasya sāyakaiḥ viśīrṇaḥ parvato rājan yathā syān mātariśvanā 16 tato 'rjuno raṇe drauṇiṃ vivyādha daśabhiḥ śaraiḥ sārathiṃ cāsya bhallena rathanīḍād apāharat 17 sa saṃgṛhya svayaṃ vāhān kṛṇau prācchādayac charaiḥ tatrādbhutam apaśyāma drauṇer āśu parākramam 18 ayacchat turagān yac ca phalgunaṃ cāpy ayodhayat tad asya samare rājan sarve yodhā apūjayan 19 yadā tv agrasyata raṇe droṇa putreṇa phalgunaḥ tato raśmīn rathāśvānāṃ kṣurapraiś cicchide jayaḥ 20 prādravaṃs turagās te tu śaravegaprabādhitāḥ tato 'bhūn ninado bhūyas tava sainyasya bhārata 21 pāṇḍavās tu jayaṃ labdhvā tava sainyam upādravan samantān niśitān bāṇān vimuñcanto jayaiṣiṇaḥ 22 pāṇḍavais tu mahārāja dhārtarāṣṭrī mahācamūḥ punaḥ punar atho vīrair abhajyata jayoddhataiḥ 23 paśyatāṃ te mahārāja putrāṇāṃ citrayodhinām śakuneḥ saubaleyasya karṇasya ca mahātmanaḥ 24 vāryamāṇā mahāsenā putrais tava janeśvara nāvatiṣṭhata saṃgrāme tāḍyamānā samantataḥ 25 tato yodhair mahārāja palāyadbhis tatas tataḥ abhavad vyākulaṃ bhītaiḥ putrāṇāṃ te mahad balam 26 tiṣṭha tiṣṭheti satataṃ sūtaputrasya jalpataḥ nāvatiṣṭhata sā senā vadhyamānā mahātmabhiḥ 27 athotkraṣṭaṃ mahārāja pāṇḍavair jitakāśibhiḥ dhārtarāṣṭra balaṃ dṛṣṭvā dravamāṇaṃ samantataḥ 28 tato duryodhanaḥ karṇam abravīt praṇayād iva paśya karṇa yathā senā pāṇḍavair arditā bhṛśam 29 tvayi tiṣṭhati saṃtrāsāt palāyati samantataḥ etaj jñātvā mahābāho kuru prāptam ariṃdama 30 sahasrāṇi ca yodhānāṃ tvām eva puruṣarṣabha krośanti samare vīra drāvyamāṇāni pāṇḍavaiḥ 31 etac chrutvā tu rādheyo duryodhana vaco mahat madrarājam idaṃ vākyam abravīt sūtanandanaḥ 32 paśya me bhujayor vīryam astrāṇāṃ ca janeśvara adya hanmi raṇe sarvān pāñcālān pāṇḍubhiḥ saha vāhayāśvān naravyāghra bhadreṇaiva janeśvara 33 evam uktvā mahārāja sūtaputraḥ pratāpavān pragṛhya vijayaṃ vīro dhanuḥ śreṣṭhaṃ purātanam sajyaṃ kṛtvā mahārāja saṃmṛjya ca punaḥ punaḥ 34 saṃnivārya ca yodhān svān sātyena śapathena ca prāyojayad ameyātmā bhārgavāstraṃ mahābalaḥ 35 tato rājan sahasrāṇi prayutāny arbudāni ca koṭiśaś ca śarās tīkṣṇā niragachan mahāmṛdhe 36 jvalitais tair mahāghoraiḥ kaṅkabarhiṇa vājitaiḥ saṃchannā pāṇḍavī senā na prājñāyata kiṃc cana 37 hāhākāro mahān āsīt pāñcālānāṃ viśāṃ pate pīḍitānāṃ balavatā bhārgavāstreṇa saṃyuge 38 nipatadbhir gajai rājan naraiś cāpi sahasraśaḥ rathaiś cāpi naravyāghra hayaiś cāpi samantataḥ 39 prākampata mahī rājan nihatais tais tatas tataḥ vyākulaṃ sarvam abhavat pāṇḍavānāṃ mahad balam 40 karṇas tv eko yudhāṃ śreṣṭho vidhūma iva pāvakaḥ dahañ śatrūn naravyāghra śuśubhe sā paraṃtapaḥ 41 te vadhyamānāḥ karṇena pāñcālāś cedibhiḥ saha tatra tatra vyamuhyanta vanadāhe yathā dvipāḥ cukruśus te naravyāghra yathā prāg vā narottamāḥ 42 teṣāṃ tu krośatāṃ śrutvā bhītānāṃ raṇamūrdhani dhāvatāṃ ca diśo rājan vitrastānaṃ samantataḥ ārtanādo mahāṃs tatra pretānām iva saṃplave 43 vadhyamānāṃs tu tān dṛṣṭvā sūtaputreṇa māriṣa vitresuḥ sarvabhūtāni tiryagyonigatāny api 44 te vadhyamānāḥ samare sūtaputreṇa sṛñjayāḥ arjunaṃ vāsudevaṃ ca vyākrośanta muhur muhuḥ pretarājapure yadvat pretarājaṃ vicetasaḥ 45 athābravīd vāsudevaṃ kuntīputro dhanaṃjayaḥ bhārgavāstraṃ mahāghoraṃ dṛṣṭvā tatra sabhīritam 46 paśya kṛṣṇa mahābāho bhārgavāstrasya vīkramam naitad astraṃ hi samare śakyaṃ hantuṃ kathaṃ cana 47 sūtaputraṃ ca saṃrabdhaṃ paśya kṛṣṇa mahāraṇe antakapratimaṃ vīraṃ kurvāṇaṃ karma dāruṇam 48 sutīkṣṇāṃ codayann aśvān prekate māṃ muhur muhuḥ na ca paśyāmi samare karṇasya prapalāyitam 49 jīvan prāpnoti puruṣaḥ saṃkhye jayaparājayau jitasya tu hṛṣīkeśa badha eva kuto jayaḥ 50 tato janārdanaḥ prāyād draṣṭum icchan yudhiṣṭhiram śrameṇa grāhayiṣyaṃś ca karṇaṃ yuddhena māriṣa 51 arjunaṃ cābravīt kṛṣṇo bhṛśaṃ rājā parikṣataḥ tam āśvāsya kuru śreṣṭha tatāḥ karṇaṃ haniṣyasi 52 tato dhanaṃjayo draṣṭuṃ rājānaṃ bāṇapīḍitam rathena prayayau kṣipraṃ saṃgrāme keśavājñayā 53 gacchann eva tu kaunteyo dharmarāja didṛkṣayā sainyam ālokayām āsa nāpaśyat tatra cāgrajam 54 yuddhaṃ kṛtvā tu kaunteyo droṇaputreṇa bhārata duḥsahaṃ vājiṇā saṃkhye parājigye bhṛgoḥ sutam 55 drauṇiṃ parājitya tato 'gradhanvā; kṛtvā mahad duṣkaram ārya karma ālokayām āsa tataḥ svasainyaṃ; dhanaṃjayaḥ śatrubhir apradhṛṣyaḥ 56 sa yudhyamānaḥ pṛtanā mukhasthāñ; śūrāñ śūro harṣayan savyasācī pūrvāpadānaiḥ prathitaiḥ praśaṃsan; sthirāṃś cakārātma rathān anīke 57 apaśyamānas tu kirīṭamālī; yudhi jyeṣṭhaṃ bhrātaram ājamīḍham uvāca bhīmaṃ tarasābhyupetya; rājñaḥ pravṛttis tv iha keti rājan 58 [bhm] apayāta ito rājā dharmaputro yudhiṣṭhiraḥ karṇa bāṇavibhugnāṅgo yadi jīvet kathaṃ cana 59 [arj] tasmād bhavāñ śīghram itaḥ prayātu; rājñaḥ pravṛttyai kurusattamasya nūnaṃ hi viddho 'tibhṛśaṃ pṛṣatkaiḥ; karṇena rājā śibiraṃ gato 'sau 60 yaḥ saṃprahāre niśi saṃpravṛtte; droṇena viddho 'tibhṛśaṃ tarasvī tasthau ca tatrāpi jaya pratīkṣo; droṇena yāvan na hataḥ kilāsīt 61 sa saṃśayaṃ gamitaḥ pāṇḍavāgryaḥ; saṃkhye 'dya karṇena mahānubhāvaḥ jñātuṃ prayāhy āśu tam adya bhīma; sthāsyāmy ahaṃ śatrugaṇān nirudhya 62 [bhm] tvām eva jānīhi mahānubhāva; rājñaḥ pravṛttiṃ bharatarṣabhasya ahaṃ hi yady arjuna yāmi tatra; vakṣyanti māṃ bhīta iti pravīrāḥ 63 tato 'bravīd arjuno bhīmasenaṃ; saṃśaptakāḥ pratyanīkaṃ sthitā me etān ahatvā na mayā tu śakyam; ito 'payātuṃ ripusaṃgha goṣṭhāt 64 athābravīd arjunaṃ bhīmasenaḥ; svavīryam āśritya kurupravīra saṃśaptakān pratiyotsyāmi saṃkhye; sarvān ahaṃ yāhi dhanaṃjayeti 65 tad bhīmasenasya vaco niśamya; sudurvacaṃ bhrātur amitramadhye draṣṭuṃ kuruśreṣṭham abhiprayātuṃ; provāca vṛṣṇipravaraṃ tadānīm 66 codayāśvān hṛṣīkeśa vigāhyaitaṃ rathārṇavam ajātaśatruṃ rājānaṃ draṣṭum icchāmi keśava 67 tato hayān sarvadāśārha mukhyaḥ; prācodayad bhīmam uvāca cedam naitac citraṃ tava karmādya vīra; yāsyāmahe jahi bhīmāri saṃghān 68 tato yayau hṛṣīkeśo yatra rājā yudhiṣṭhiraḥ śīghrāc chīghrataraṃ rājan vājibhir garuḍopamaiḥ 69 pratyanīke vyavasthāpya bhīmasenam ariṃdamam saṃdiśya caiva rājendra yuddhaṃ prati vṛkodaram 70 tatas tu gatvā puruṣapravīrau; rājānam āsādya śayānam ekam rathād ubhau pratyavaruhya tasmād; vavandatur dharmarājasya pādau 71 tau dṛṣṭvā puruṣavyāghrau kṣemiṇau puruṣarṣabha mudābhyupagatau kṛṣṇāv aśvināv iva vāsavam 72 tāv abhyanandad rājā hi vivasvān aśvināv iva hate mahāsure jambhe śakra viṣṇū yathā guruḥ 73 manyamāno hataṃ karṇaṃ dharmarājo yudhiṣṭhiraḥ harṣagadgadayā vācā prītaḥ prāha paraṃtapau |
The Mahabharata in Sanskrit
Book 8
Chapter 46
|
1
[स] महासत्त्वौ तु तौ दृष्ट्वा सहितौ केशवार्जुनौ हतम आधिरथिं मेने संख्ये गाण्डीवधन्वना 2 ताव अभ्यनन्दत कौन्तेयः साम्ना परमवल्गुना समितपूर्वम अमित्रघ्नः पूजयन भरतर्षभ 3 [य] सवागत्वं देवकीपुत्र सवागतं ते धनंजय परियं मे दर्शनं बाढं युवयॊर अच्युतार्जुनौ 4 अक्षताब्भ्याम अरिष्टाभ्यां कथं युध्य महारथ आशीविषसमं युद्धे सर्वशस्त्रविशारदम 5 अग्रगं धार्तराष्ट्राणां सवेषां शर्म वर्म च रक्षितं वृषसेनेन सुषेणेन च धन्विना 6 अनुज्ञातं महावीर्यं रमेणास्त्रेषु दुर्जयम तरातारं धार्तराष्ट्राणां गन्तारं वाहिनीमुखे 7 हन्तारम अरिसैन्यानाम अमित्रगणमर्दनम दुर्यॊधन हिते युक्तम अस्मद युद्धाय चॊद्यतम 8 अप्रधृष्यं महायुद्धे देवैर अपि सवासवैः अनलानिलयॊस तुल्यं तेजसा च बलेन च 9 पातालम इव गम्भीरं सुहृद आनन्दवर्धनम अन्तकाभम अमित्राणां कर्णं हत्वा महाहवे दिष्ट्या युवाम अनुप्राप्तौ जित्वासुरम इवामरौ 10 तेन युद्धम अदीनेन मया हय अद्याच्युतार्जुनौ कुपितेनान्तकेनेव परजाः सर्वा जिघांसता 11 तेन केतुश च मे छिन्नॊ हतौ च पार्ष्णिसारथी हतवाहः कृतश चास्मि युयुधानस्य पश्यतः 12 धृष्टद्युम्नस्य यमयॊर वीरस्य च शिखण्डिनः पश्यतां दरौपदेयानां पाञ्चालानां च सर्वशः 13 एताञ जित्वा महावीर्यान कर्णः शत्रुगणान बहून जितवान मां महाबाहॊ यतमानं महारणे 14 अनुसृज्य च मां युद्धे परुषाण्य उक्तवान बहु तत्र तत्र युधां शरेष्ठः परिभूय न संशयः 15 भीमसेनप्रभावात तु यज जीवामि धनंजय बहुनात्र किम उक्तेन नाहं तत सॊढुम उत्सहे 16 तरयॊदशाहं वर्षाणि यस्माद भीतॊ धनंजय न सम निद्रां लभे रात्रौ न चाहनि सुखं कव चित 17 तस्य दवेषेण संयुक्तः परिदह्ये धनंजय आत्मनॊ मरणां जानन वाध्रीणस इव दविपः 18 यस्यायम अगमत कालश चिन्तयानस्य मे विभॊ कथं शक्यॊ मया कर्णॊ युद्धे कषपयितुं भवेत 19 जाग्रत सवपंश च कौन्तेय कर्णम एव सदा हय अहम पश्यामि तत्र तत्रैव कर्ण भूतम इदं जगत 20 यत्र यत्र हि गच्छामि कर्णाद भीतॊ धनंजय तत्र तत्र हि पश्यामि कर्णम एवाग्रतः सथितम 21 सॊ ऽहं तेनैव वीरेण समरेष्व अपलायिना सहयः सरथः पार्थ जित्वा जीवन विसार्जितः 22 कॊ नु मे जीवितेनार्थॊ राज्येनार्थॊ ऽथ वा पुनः ममैवं धिक्कृतस्येह कर्णेनाहव शॊभिना 23 न पराप्तपूर्वं यद भीष्मात कृपाद दरॊणाच च संयुगे तत पराप्तम अद्य मे युद्धे सूतपुत्रान महारथात 24 तत तवा पृच्छामि कौन्तेय यथा हय अकुशलस तथा तन ममाचक्ष्व कार्त्स्न्येन यथा कर्णस तवया हतः 25 शक्र वीर्यसमॊ युद्धे यम तुल्यपराक्रमः राम तुल्यस तथास्त्रे यः स कथं वै निषूदितः 26 महारथः समाख्यातः सर्वयुद्धविशारदः धनुर्धराणां परवरः सर्वेषाम एकपूरुषः 27 पूजितॊ धृतराष्ट्रेण सपुत्रेण विशां पते सदा तवदर्थं राधेयः स कथं निहतस तवया 28 धृतराष्ट्रॊ हि यॊधेषु सर्वेष्व एव सदार्जुन तव मृत्युं रणे कर्णं मन्यते पुरुषर्षभः 29 स तवया पुरुषव्याघ्र कथं युद्धे निषूदितः तं ममाचक्ष्व बीभत्सॊ यथा कर्णॊ हतस तवया 30 सॊत्सेधम अस्य च शिरः पश्यतां सुहृदां हृतम तवया पुरुषशार्दूल शार्दूलेन यथा रुरॊः 31 यः पर्युपासीत परदिशॊ दिशश च; तवां सूतपुत्रः समरे परीप्सन दित्सुः कर्णः समरे हस्तिपूगं; स हीदानीं कङ्कपत्रैः सुतीक्ष्णैः 32 तवया रणे निहतः सूतपुत्रः; कच चिच छेते भूमितले दुरात्मा कच चित परियं मे परमं तवयाद्य; कृतं रणे सूतपुत्रं निहत्य 33 यः सर्वतः पर्यपतत तवदर्थे; महान्वितॊ गर्वितः सूतपुत्रः सा शूरमानी समरे समेत्य; कच चित तवया निहतः संयुगे ऽदय 34 रौक्मं रथं हस्तिवरैश च युक्तं; रथं दित्सुर यःपरेभ्यस तवदर्थे सादा रणे सपर्धते यः स पापः; कच चित तवया निहतस तात युद्धे 35 यॊ ऽसौ नित्यं शूर मदेन मत्तॊ; विकत्थते संसदि कौरवाणाम परियॊ ऽतयर्थं तस्य सुयॊधनस्य; कच चित स पापॊ निहतस तवयाद्य 36 कच चित समागम्य धनुःप्रमुक्तैस; तवत परेषितैर लॊहितार्थैर विहंगैः शेते ऽदय पापः स विभिन्नगात्रः; कच चिद भग्नॊ धार्तराष्ट्रस्य बाहुः 37 यॊ ऽसौ सदा शलाघते राजमध्ये; दुर्यॊधनं हर्षयन दर्पपूर्णः अहं हन्ता फल्गुनस्येति मॊहात; कच्चिद धतस तस्य न वै तथा रथः 38 नाहं पादौ धावयिष्ये कदा चिद; यावत सथितः पार्थ इत्य अल्पबुद्धिः वरतं तस्यैतत सर्वदा शक्रसूनॊ; कच चित तवया निहतः सॊ ऽदय कर्णः 39 यॊ ऽसौ कृष्णाम अब्रवीद दुष्टबुद्धिः; कर्णः सभायां कुरुवीरमध्ये किं पाण्डवांस तवं न जहासि कृष्णे; सुदुर्बलान पतितान हीनसत्त्वान 40 यत तत कर्णः परत्यजानात तवदर्थे; नाहत्वाहं सह कृष्णेन पार्थम इहॊपयातेति स पापबुद्धिः; कच चिच छेते शरसंभिन्न गात्रः 41 कच चित संग्रामे विदितॊ वा तदायं; समागमः सृञ्जय कौरवाणाम यत्रावस्थाम ईदृशीं परापितॊ ऽहं; कच चित तवया सॊ ऽदय हतः समेत्य 42 कच चित तवया तस्य सुमन्दबुद्धेर; गाण्डीवमुक्तैर विशिखैर जवलद्भिः सकुण्डलं भानुमद उत्तमाङ्गं; कायात परकृत्तं युधि सव्यसाचिन 43 यत तन मया बाणसमर्पितेन; धयातॊ ऽसि कर्णस्य वधाय वीर तन मे तवया कच चिद अमॊघम अद्य; धयातं कृतं कर्ण निपातनेन 44 यद दर्पपूर्णः स सुयॊधनॊ ऽसमान; अवेक्षते कर्ण समाश्रयेण कच चित तवया सॊ ऽदय समाश्रयॊ ऽसय; भग्नः पराक्रम्य सुयॊधनस्य 45 यॊ नः पुरा षण्ढतिलान अवॊचत; सभामध्ये पार्थिवानां समक्षम स दुर्मतिः कच्च चिद उपेत्य संख्ये; तवया हतः सूतपुत्रॊ ऽतयमर्षी 46 यः सूतपुत्रः परहसन दुरात्मा; पुराब्रवीन निजितां सौबलेन सवयं परसह्यानय याज्ञसेनीम; अपीह कच्च चित स हतस तवयाद्य 47 यः शस्त्रभृच छरेष्ठतमं पृथिव्यां; पितामहं वयाक्षिपद अल्पचेताः संख्यायमानॊ ऽरधरथः स कच चित; तवया हतॊ ऽदयाधिरथिर दुरात्मा 48 अमर्षणं निकृतिसमीरणेरितं; हृदि शरितं जवलनम इमं सदा मम हतॊ मया सॊ ऽदय समेत्य पापधीर; इति बरुवन परशमय मे ऽदय फल्गुन |
1
[s] mahāsattvau tu tau dṛṣṭvā sahitau keśavārjunau hatam ādhirathiṃ mene saṃkhye gāṇḍīvadhanvanā 2 tāv abhyanandat kaunteyaḥ sāmnā paramavalgunā smitapūrvam amitraghnaḥ pūjayan bharatarṣabha 3 [y] svāgatvaṃ devakīputra svāgataṃ te dhanaṃjaya priyaṃ me darśanaṃ bāḍhaṃ yuvayor acyutārjunau 4 akṣatābbhyām ariṣṭābhyāṃ kathaṃ yudhya mahāratha āśīviṣasamaṃ yuddhe sarvaśastraviśāradam 5 agragaṃ dhārtarāṣṭrāṇāṃ saveṣāṃ śarma varma ca rakṣitaṃ vṛṣasenena suṣeṇena ca dhanvinā 6 anujñātaṃ mahāvīryaṃ rameṇāstreṣu durjayam trātāraṃ dhārtarāṣṭrāṇāṃ gantāraṃ vāhinīmukhe 7 hantāram arisainyānām amitragaṇamardanam duryodhana hite yuktam asmad yuddhāya codyatam 8 apradhṛṣyaṃ mahāyuddhe devair api savāsavaiḥ analānilayos tulyaṃ tejasā ca balena ca 9 pātālam iva gambhīraṃ suhṛd ānandavardhanam antakābham amitrāṇāṃ karṇaṃ hatvā mahāhave diṣṭyā yuvām anuprāptau jitvāsuram ivāmarau 10 tena yuddham adīnena mayā hy adyācyutārjunau kupitenāntakeneva prajāḥ sarvā jighāṃsatā 11 tena ketuś ca me chinno hatau ca pārṣṇisārathī hatavāhaḥ kṛtaś cāsmi yuyudhānasya paśyataḥ 12 dhṛṣṭadyumnasya yamayor vīrasya ca śikhaṇḍinaḥ paśyatāṃ draupadeyānāṃ pāñcālānāṃ ca sarvaśaḥ 13 etāñ jitvā mahāvīryān karṇaḥ śatrugaṇān bahūn jitavān māṃ mahābāho yatamānaṃ mahāraṇe 14 anusṛjya ca māṃ yuddhe paruṣāṇy uktavān bahu tatra tatra yudhāṃ śreṣṭhaḥ paribhūya na saṃśayaḥ 15 bhīmasenaprabhāvāt tu yaj jīvāmi dhanaṃjaya bahunātra kim uktena nāhaṃ tat soḍhum utsahe 16 trayodaśāhaṃ varṣāṇi yasmād bhīto dhanaṃjaya na sma nidrāṃ labhe rātrau na cāhani sukhaṃ kva cit 17 tasya dveṣeṇa saṃyuktaḥ paridahye dhanaṃjaya ātmano maraṇāṃ jānan vādhrīṇasa iva dvipaḥ 18 yasyāyam agamat kālaś cintayānasya me vibho kathaṃ śakyo mayā karṇo yuddhe kṣapayituṃ bhavet 19 jāgrat svapaṃś ca kaunteya karṇam eva sadā hy aham paśyāmi tatra tatraiva karṇa bhūtam idaṃ jagat 20 yatra yatra hi gacchāmi karṇād bhīto dhanaṃjaya tatra tatra hi paśyāmi karṇam evāgrataḥ sthitam 21 so 'haṃ tenaiva vīreṇa samareṣv apalāyinā sahayaḥ sarathaḥ pārtha jitvā jīvan visārjitaḥ 22 ko nu me jīvitenārtho rājyenārtho 'tha vā punaḥ mamaivaṃ dhikkṛtasyeha karṇenāhava śobhinā 23 na prāptapūrvaṃ yad bhīṣmāt kṛpād droṇāc ca saṃyuge tat prāptam adya me yuddhe sūtaputrān mahārathāt 24 tat tvā pṛcchāmi kaunteya yathā hy akuśalas tathā tan mamācakṣva kārtsnyena yathā karṇas tvayā hataḥ 25 śakra vīryasamo yuddhe yama tulyaparākramaḥ rāma tulyas tathāstre yaḥ sa kathaṃ vai niṣūditaḥ 26 mahārathaḥ samākhyātaḥ sarvayuddhaviśāradaḥ dhanurdharāṇāṃ pravaraḥ sarveṣām ekapūruṣaḥ 27 pūjito dhṛtarāṣṭreṇa saputreṇa viśāṃ pate sadā tvadarthaṃ rādheyaḥ sa kathaṃ nihatas tvayā 28 dhṛtarāṣṭro hi yodheṣu sarveṣv eva sadārjuna tava mṛtyuṃ raṇe karṇaṃ manyate puruṣarṣabhaḥ 29 sa tvayā puruṣavyāghra kathaṃ yuddhe niṣūditaḥ taṃ mamācakṣva bībhatso yathā karṇo hatas tvayā 30 sotsedham asya ca śiraḥ paśyatāṃ suhṛdāṃ hṛtam tvayā puruṣaśārdūla śārdūlena yathā ruroḥ 31 yaḥ paryupāsīt pradiśo diśaś ca; tvāṃ sūtaputraḥ samare parīpsan ditsuḥ karṇaḥ samare hastipūgaṃ; sa hīdānīṃ kaṅkapatraiḥ sutīkṣṇaiḥ 32 tvayā raṇe nihataḥ sūtaputraḥ; kac cic chete bhūmitale durātmā kac cit priyaṃ me paramaṃ tvayādya; kṛtaṃ raṇe sūtaputraṃ nihatya 33 yaḥ sarvataḥ paryapatat tvadarthe; mahānvito garvitaḥ sūtaputraḥ sā śūramānī samare sametya; kac cit tvayā nihataḥ saṃyuge 'dya 34 raukmaṃ rathaṃ hastivaraiś ca yuktaṃ; rathaṃ ditsur yaḥparebhyas tvadarthe sādā raṇe spardhate yaḥ sa pāpaḥ; kac cit tvayā nihatas tāta yuddhe 35 yo 'sau nityaṃ śūra madena matto; vikatthate saṃsadi kauravāṇām priyo 'tyarthaṃ tasya suyodhanasya; kac cit sa pāpo nihatas tvayādya 36 kac cit samāgamya dhanuḥpramuktais; tvat preṣitair lohitārthair vihaṃgaiḥ śete 'dya pāpaḥ sa vibhinnagātraḥ; kac cid bhagno dhārtarāṣṭrasya bāhuḥ 37 yo 'sau sadā ślāghate rājamadhye; duryodhanaṃ harṣayan darpapūrṇaḥ ahaṃ hantā phalgunasyeti mohāt; kaccid dhatas tasya na vai tathā rathaḥ 38 nāhaṃ pādau dhāvayiṣye kadā cid; yāvat sthitaḥ pārtha ity alpabuddhiḥ vrataṃ tasyaitat sarvadā śakrasūno; kac cit tvayā nihataḥ so 'dya karṇaḥ 39 yo 'sau kṛṣṇām abravīd duṣṭabuddhiḥ; karṇaḥ sabhāyāṃ kuruvīramadhye kiṃ pāṇḍavāṃs tvaṃ na jahāsi kṛṣṇe; sudurbalān patitān hīnasattvān 40 yat tat karṇaḥ pratyajānāt tvadarthe; nāhatvāhaṃ saha kṛṣṇena pārtham ihopayāteti sa pāpabuddhiḥ; kac cic chete śarasaṃbhinna gātraḥ 41 kac cit saṃgrāme vidito vā tadāyaṃ; samāgamaḥ sṛñjaya kauravāṇām yatrāvasthām īdṛśīṃ prāpito 'haṃ; kac cit tvayā so 'dya hataḥ sametya 42 kac cit tvayā tasya sumandabuddher; gāṇḍīvamuktair viśikhair jvaladbhiḥ sakuṇḍalaṃ bhānumad uttamāṅgaṃ; kāyāt prakṛttaṃ yudhi savyasācin 43 yat tan mayā bāṇasamarpitena; dhyāto 'si karṇasya vadhāya vīra tan me tvayā kac cid amogham adya; dhyātaṃ kṛtaṃ karṇa nipātanena 44 yad darpapūrṇaḥ sa suyodhano 'smān; avekṣate karṇa samāśrayeṇa kac cit tvayā so 'dya samāśrayo 'sya; bhagnaḥ parākramya suyodhanasya 45 yo naḥ purā ṣaṇḍhatilān avocat; sabhāmadhye pārthivānāṃ samakṣam sa durmatiḥ kacc cid upetya saṃkhye; tvayā hataḥ sūtaputro 'tyamarṣī 46 yaḥ sūtaputraḥ prahasan durātmā; purābravīn nijitāṃ saubalena svayaṃ prasahyānaya yājñasenīm; apīha kacc cit sa hatas tvayādya 47 yaḥ śastrabhṛc chreṣṭhatamaṃ pṛthivyāṃ; pitāmahaṃ vyākṣipad alpacetāḥ saṃkhyāyamāno 'rdharathaḥ sa kac cit; tvayā hato 'dyādhirathir durātmā 48 amarṣaṇaṃ nikṛtisamīraṇeritaṃ; hṛdi śritaṃ jvalanam imaṃ sadā mama hato mayā so 'dya sametya pāpadhīr; iti bruvan praśamaya me 'dya phalguna |
The Mahabharata in Sanskrit
Book 8
Chapter 47
|
1
[स] तद धर्मशीलस्य वचॊ निशम्य; राज्ञः करुद्धस्याधिरथौ महात्मा उवाच दुर्धर्षम अदीनसत्त्वं; युधिष्ठिरं जिष्णुर अनन्तवीर्यः 2 संशप्तकैर युध्यमानस्य मे ऽदय; सेनाग्रयायी कुरुसैन्यस्य राजन आशीविषाभान खगमान परमुञ्चन; दरौणिः पुरस्तात सहसा वयतिष्ठत 3 दृष्ट्वा रथं मेघनिभं ममेमम; अम्बष्ठ सेना मरणे वयतिष्ठत तेषाम अहं पञ्च शतानि हत्वा; ततॊ दरौणिम अगमं पार्थिवाग्र्य 4 ततॊ ऽपरान बाणसंघान अनेकान; आकर्णपूर्णायत विप्रमुक्तान ससर्ज शिक्षास्त्र बलप्रयत्नैर; तथा यथा परावृषि काममेघः 5 नैवाददानं न च संदधानं; जानीमहे कतरेणास्यति इति वामेन वा यदि वा दक्षिणेन; स दरॊणपुत्रः समरे पर्यवर्तत 6 अविध्यन मां पञ्चभिर दरॊणपुत्रः; शितैः शरैः पञ्चभिर वासुदेवम अहं तु तं तरिंशता वज्रकल्पैः; समार्दयं निमिषस्यान्तरेण 7 स विक्षरन रुधिरं सर्वगात्रै; रथानीकं सूत सूनॊर विवेश मयाभिभूतः सैनिकानां परबर्हान; असाव अपश्यन रुधिरेण परदिग्धान 8 ततॊ ऽभिभूतं युधि वीक्ष्य सैन्यं; विध्वस्तयॊधं दरुतवाजिनागम पञ्चाशता रथमुखैः समेतः; कर्णस तवरन माम उपायात परमाथी 9 तान सूदयित्वाहम अपास्य कर्णं; दरष्टुं भवन्तं तवरयाभियातः सर्वे पाञ्चाला हय उद्विजन्ते सम कर्णाद; गन्धाद गावः केसरिणॊ यथैव 10 महाझषस्येव मुखं परपन्नाः; परभद्रकाः कर्णम अभि दरवन्ति मृत्यॊर आस्यं वयात्तम इवान्वपद्यन; परभद्रकाः कर्णम आसाद्य राजन 11 आयाहि पश्याद्य युयुत्समानं; मां सूतपुत्रं च वृतौ जयाय षट साहस्रा भारत राजपुत्राः; सवर्गाय लॊकाय रथा निमग्नाः 12 समेत्याहं सूतपुत्रेण संख्ये; वृत्रेण वज्रीव नरेन्द्रमुख्य यॊत्स्ये भृशं भारत सूतपुत्रम; अस्मिन संग्रामे यदि वै दृश्यते ऽदय 13 कर्णं न चेद अद्य निहन्मि राजन; सबान्धवं युध्यमानं परसह्य परतिश्रुत्याकुर्वतां वै गतिर या; कष्टां गच्छेयं ताम अहं राजसिंह 14 आमन्त्रये तवां बरूहि जयं रणे मे; पुरा भीमं धार्तराष्ट्रा गरसन्ते सौतिं हनिष्यामि नरेन्द्र सिंह; सैन्यं तथा शत्रुगणांश च सर्वान |
1
[s] tad dharmaśīlasya vaco niśamya; rājñaḥ kruddhasyādhirathau mahātmā uvāca durdharṣam adīnasattvaṃ; yudhiṣṭhiraṃ jiṣṇur anantavīryaḥ 2 saṃśaptakair yudhyamānasya me 'dya; senāgrayāyī kurusainyasya rājan āśīviṣābhān khagamān pramuñcan; drauṇiḥ purastāt sahasā vyatiṣṭhat 3 dṛṣṭvā rathaṃ meghanibhaṃ mamemam; ambaṣṭha senā maraṇe vyatiṣṭhat teṣām ahaṃ pañca śatāni hatvā; tato drauṇim agamaṃ pārthivāgrya 4 tato 'parān bāṇasaṃghān anekān; ākarṇapūrṇāyata vipramuktān sasarja śikṣāstra balaprayatnair; tathā yathā prāvṛṣi kāmameghaḥ 5 naivādadānaṃ na ca saṃdadhānaṃ; jānīmahe katareṇāsyati iti vāmena vā yadi vā dakṣiṇena; sa droṇaputraḥ samare paryavartat 6 avidhyan māṃ pañcabhir droṇaputraḥ; śitaiḥ śaraiḥ pañcabhir vāsudevam ahaṃ tu taṃ triṃśatā vajrakalpaiḥ; samārdayaṃ nimiṣasyāntareṇa 7 sa vikṣaran rudhiraṃ sarvagātrai; rathānīkaṃ sūta sūnor viveśa mayābhibhūtaḥ sainikānāṃ prabarhān; asāv apaśyan rudhireṇa pradigdhān 8 tato 'bhibhūtaṃ yudhi vīkṣya sainyaṃ; vidhvastayodhaṃ drutavājināgam pañcāśatā rathamukhaiḥ sametaḥ; karṇas tvaran mām upāyāt pramāthī 9 tān sūdayitvāham apāsya karṇaṃ; draṣṭuṃ bhavantaṃ tvarayābhiyātaḥ sarve pāñcālā hy udvijante sma karṇād; gandhād gāvaḥ kesariṇo yathaiva 10 mahājhaṣasyeva mukhaṃ prapannāḥ; prabhadrakāḥ karṇam abhi dravanti mṛtyor āsyaṃ vyāttam ivānvapadyan; prabhadrakāḥ karṇam āsādya rājan 11 āyāhi paśyādya yuyutsamānaṃ; māṃ sūtaputraṃ ca vṛtau jayāya ṣaṭ sāhasrā bhārata rājaputrāḥ; svargāya lokāya rathā nimagnāḥ 12 sametyāhaṃ sūtaputreṇa saṃkhye; vṛtreṇa vajrīva narendramukhya yotsye bhṛśaṃ bhārata sūtaputram; asmin saṃgrāme yadi vai dṛśyate 'dya 13 karṇaṃ na ced adya nihanmi rājan; sabāndhavaṃ yudhyamānaṃ prasahya pratiśrutyākurvatāṃ vai gatir yā; kaṣṭāṃ gaccheyaṃ tām ahaṃ rājasiṃha 14 āmantraye tvāṃ brūhi jayaṃ raṇe me; purā bhīmaṃ dhārtarāṣṭrā grasante sautiṃ haniṣyāmi narendra siṃha; sainyaṃ tathā śatrugaṇāṃś ca sarvān |
The Mahabharata in Sanskrit
Book 8
Chapter 48
|
1
[स] शरुत्वा कर्णं कल्यम उदारवीर्यं; करुद्धः पार्थः फल्गुनस्यामितौजाः धनंजयं वाक्यम उवाच चेदं; युधिष्ठिरः कर्ण शराभितप्तः 2 इदं यदि दवैतवने हय अवक्ष्यः; कर्णं यॊद्धुं न परसहे नृपेति वयं तदा पराप्तकालानि सर्वे; वृत्तान्य उपैष्याम तदैव पार्थ 3 मयि परतिश्रुत्य वधं हि तस्य; बलस्य चाप्तस्य तथैव वीर आनीय नः शत्रुमध्यं स कस्मात; समुत्क्षिप्य सथण्डिले परत्यपिंष्ठाह 4 अन्वाशिष्म वयम अर्जुन तवयि; यियासवॊ बहुकल्याणम इष्टम तन नः सर्वं विफलं राजपुत्र; फलार्थिनां निचुलेवातिपुष्पः 5 परच्छादितं बडिशम इवामिषेण; परच्छादितॊ गवय इवापवाचा अनर्थकं मे दर्शितवान असि तवं; राज्यार्थिनॊ राज्यरूपं विनाशम 6 यत तत पृथां वाग उवाचान्तरिक्षे; सप्ताह जाते तवयि मन्दबुद्धौ जातः पुत्रॊ वासव विक्रमॊ ऽयं; सर्वाञ शूराञ शात्रवाञ जेष्यतीति 7 अयं जेता खाण्डवे देवसंघान; सर्वाणि भूतान्य अपि चॊत्तमौजाः अयं जेता मद्रकलिङ्गकेकयान; अयं कुरून हन्ति च राजमध्ये 8 अस्मात परॊ न भविता धनुर्धरॊ; न वै भूतः कश चन जातु जेता इच्छन्न आर्यः सर्वभूतानि कुर्याद; वशे वशीसर्वसमाप्त विद्यः 9 कान्त्या शशाङ्कस्य जवेन वायॊः; सथैर्येण मेरॊः कषमया पृथिव्याः सूर्यस्य भासा धनदस्य लक्ष्म्या; शौर्येण शक्रस्य बबलेन विष्णॊः 10 तुल्यॊ महात्मा तव कुन्ति पुत्रॊ; जातॊ ऽदितेर विष्णुर इवारि हन्ता सवेषां जयाय दविषतां वधाय; खयातॊ ऽमितौजाः कुलतन्तु कर्ता 11 इत्य अन्तरिक्षे शतशृङ्गमूर्ध्नि; तपस्विनां शृण्वतां वाग उवाच एवंविधं तवां तच च नाभूत तवाद्य; देवा हि नूनम अनृतं वदन्ति 12 तथापरेषाम ऋषिसत्तमानां; शरुत्वा गिरं पूजयतां सदैव न संनतिं परैति सुयॊधनस्य; न तवा जानाम्य आधिरथेर भयार्तम 13 तवष्टा कृतं वाहम अकूजनाक्षं; शुभं समास्थाय कपिध्वजं तवम खड्गं गृहीत्वा हेमचित्रं समिद्धं; धनुश चेदं गाण्डिवं तालमात्रम स केशवेनॊह्यमानः कथं नु; कर्णाद भीतॊ वयपयातॊ ऽसि पार्थ 14 धनुश चैतत केशवाय परदाय; यन्ता भविष्यस तवं रणे चेद दुरात्मन ततॊ ऽहनिष्यत केशवः कर्णम उग्रं; मरुत्पतिर वृत्रम इवात्त वज्रः 15 मासे ऽपतिष्यः पञ्चमे तवं परकृच्छ्रे; न वा गर्भॊ ऽपय अभविष्यः पृथायाः तत ते शरमॊ राजपुत्राभविष्यन; न संग्रामाद अपयातुं दुरात्मन |
1
[s] śrutvā karṇaṃ kalyam udāravīryaṃ; kruddhaḥ pārthaḥ phalgunasyāmitaujāḥ dhanaṃjayaṃ vākyam uvāca cedaṃ; yudhiṣṭhiraḥ karṇa śarābhitaptaḥ 2 idaṃ yadi dvaitavane hy avakṣyaḥ; karṇaṃ yoddhuṃ na prasahe nṛpeti vayaṃ tadā prāptakālāni sarve; vṛttāny upaiṣyāma tadaiva pārtha 3 mayi pratiśrutya vadhaṃ hi tasya; balasya cāptasya tathaiva vīra ānīya naḥ śatrumadhyaṃ sa kasmāt; samutkṣipya sthaṇḍile pratyapiṃṣṭhāh 4 anvāśiṣma vayam arjuna tvayi; yiyāsavo bahukalyāṇam iṣṭam tan naḥ sarvaṃ viphalaṃ rājaputra; phalārthināṃ niculevātipuṣpaḥ 5 pracchāditaṃ baḍiśam ivāmiṣeṇa; pracchādito gavaya ivāpavācā anarthakaṃ me darśitavān asi tvaṃ; rājyārthino rājyarūpaṃ vināśam 6 yat tat pṛthāṃ vāg uvācāntarikṣe; saptāha jāte tvayi mandabuddhau jātaḥ putro vāsava vikramo 'yaṃ; sarvāñ śūrāñ śātravāñ jeṣyatīti 7 ayaṃ jetā khāṇḍave devasaṃghān; sarvāṇi bhūtāny api cottamaujāḥ ayaṃ jetā madrakaliṅgakekayān; ayaṃ kurūn hanti ca rājamadhye 8 asmāt paro na bhavitā dhanurdharo; na vai bhūtaḥ kaś cana jātu jetā icchann āryaḥ sarvabhūtāni kuryād; vaśe vaśīsarvasamāpta vidyaḥ 9 kāntyā śaśāṅkasya javena vāyoḥ; sthairyeṇa meroḥ kṣamayā pṛthivyāḥ sūryasya bhāsā dhanadasya lakṣmyā; śauryeṇa śakrasya bbalena viṣṇoḥ 10 tulyo mahātmā tava kunti putro; jāto 'diter viṣṇur ivāri hantā sveṣāṃ jayāya dviṣatāṃ vadhāya; khyāto 'mitaujāḥ kulatantu kartā 11 ity antarikṣe śataśṛṅgamūrdhni; tapasvināṃ śṛṇvatāṃ vāg uvāca evaṃvidhaṃ tvāṃ tac ca nābhūt tavādya; devā hi nūnam anṛtaṃ vadanti 12 tathāpareṣām ṛṣisattamānāṃ; śrutvā giraṃ pūjayatāṃ sadaiva na saṃnatiṃ praiti suyodhanasya; na tvā jānāmy ādhirather bhayārtam 13 tvaṣṭā kṛtaṃ vāham akūjanākṣaṃ; śubhaṃ samāsthāya kapidhvajaṃ tvam khaḍgaṃ gṛhītvā hemacitraṃ samiddhaṃ; dhanuś cedaṃ gāṇḍivaṃ tālamātram sa keśavenohyamānaḥ kathaṃ nu; karṇād bhīto vyapayāto 'si pārtha 14 dhanuś caitat keśavāya pradāya; yantā bhaviṣyas tvaṃ raṇe ced durātman tato 'haniṣyat keśavaḥ karṇam ugraṃ; marutpatir vṛtram ivātta vajraḥ 15 māse 'patiṣyaḥ pañcame tvaṃ prakṛcchre; na vā garbho 'py abhaviṣyaḥ pṛthāyāḥ tat te śramo rājaputrābhaviṣyan; na saṃgrāmād apayātuṃ durātman |
The Mahabharata in Sanskrit
Book 8
Chapter 49
|
1
[स] युधिष्ठिरेणैवम उक्तः कौन्तेयः शवेतवाहनः असिं जग्राह संक्रुद्धॊ जिघांसुर भरतर्षभम 2 तस्य कॊपं समुद्वीक्ष्य चित्तज्ञः केशवस तदा उवाच किम इदं पार्थ गृहीतः खड्ग इत्य उत 3 नेह पश्यामि यॊद्धव्यं तव किं चिद धनंजय ते धवस्ता धार्तराष्ट्रा हि सर्वे भीमेन धीमता 4 अपयातॊ ऽसि कौन्तेय राजा दरष्टव्य इत्य अपि स राजा भवता दृष्टः कुशली च युधिष्ठिरः 5 तं दृष्ट्वा नृपशार्दूल शार्दूल समविक्रमम हर्षकाले तु संप्राप्ते कस्मात तवा मन्युर आविशत 6 न तं पश्यामि कौन्तेय यस ते वध्यॊ भवेद इह कस्माद भवान महाखड्गं परिगृह्णाति सत्वरम 7 तत तवा पृच्छामि कौन्तेय किम इदं ते चिकीर्षितम परामृशसि यत करुद्धः खड्गम अद्भुतविक्रम 8 एवम उक्तस तु कृष्णेन परेक्षमाणॊ युधिष्ठिरम अर्जुनः पराह गॊविन्दं करुद्धः सर्प इव शवसन 9 दद गाण्डीवम अन्यस्मा इति मां यॊ ऽभिचॊदयेत छिन्द्याम अहं शिरस तस्य इत्य उपांशु वरतं मम 10 तद उक्तॊ ऽहम अदीनात्मन राज्ञामित पराक्रम समक्षं तव गॊविन्द न तत कषन्तुम इहॊत्सहे 11 तस्माद एनं वधिष्यामि राजानं धर्मभीरुकम परतिज्ञां पालयिष्यामि हत्वेमं नरसत्तमम एतदर्थं मया खड्ग्गॊ गृहीतॊ यदुनन्दन 12 सॊ ऽहं युधिष्ठिरं हत्वा सत्ये ऽपय आनृण्यतां गतः विशॊकॊ विज्वरश चापि भविष्यामि जनार्दन 13 किं वा तवं मन्यसे पराप्तम अस्मिन काले समुत्थिते तवम अस्य जगतस तात वेत्थ सर्वं गतागतम तत तथा परकरिष्यामि यथा मां वक्ष्यते भवान 14 [क] इदानीं पाथ जानामि न वृद्धाः सेवितास तवया अकाले पुरुषव्याघ्र संरम्भक्रिययानया न हि धर्मविभागज्ञः कुर्याद एवं धनंजय 15 अकार्याणां च कार्याणां संयॊगं यः करॊति वै कार्याणाम अक्रियाणां च स पार्थ पुरुषाधमः 16 अनुसृत्य तु ये धर्मं कवयः समुपस्थिताः समास विस्तरविदां न तेषां वेत्थ निश्चयम 17 अनिश्चयज्ञॊ हि नरः कार्याकार्यविनिश्चये अवशॊ मुह्यते पार्थ यथा तवं मूढ एव तु 18 न हि कार्यम अकार्यं वा सुखं जञातुं कथं चन शरुतेन जञायते सर्वं तच च तवं नावबुध्यसे 19 अविज्ञानाद भवान यच च धर्मं रक्षति धर्मवित पराणिनां हि वधं पार्थ धार्मिकॊ नावबुध्यते 20 पराणिनाम अवधस तात सर्वज्यायान मतॊ मम अनृतं तु भवेद वाच्यं न च हिंस्यात कथं चन 21 स कथं भरातरं जयेष्ठं राजानं धर्मकॊविदम हन्याद भवान नरश्रेष्ठ पराकृतॊ ऽनयः पुमान इव 22 अयुध्यमानस्य वधस तथाशस्त्रस्य भारत पराङ्मुखस्य दरवतः शरणं वाभिगच्छतः कृताञ्जलेः परपन्नस्य न वधः पुज्यते बुधैः 23 तवया चैव वरतं पार्थ बालेनैव कृतं पुरा तस्माद अधर्मसंयुक्तं मौढ्यात कर्म वयवस्यसि 24 स गुरुं पार्थ कस्मात तवं हन्या धर्मम अनुस्मरन असंप्रधार्य धर्माणां गतिं सूक्ष्मां दुरन्वयाम 25 इदं धर्मरहस्यं च वक्ष्यामि भरतर्षभ यद बरूयात तव भीष्मॊ वा धर्मज्ञॊ वा युधिष्ठिरः 26 विदुरॊ वा तथा कषत्ता कुन्ती वापि यशस्विनी तत ते वक्ष्यामि तत्त्वेन तन निबॊध धनंजय 27 सत्यस्य वचनं साधु न सत्याद विद्यते परम तत्त्वेनैतत सुदुर्ज्ञेयं यस्य सत्यम अनुष्ठितम 28 भवेत सत्यम अवक्तव्यं वक्तव्यम अनृतं भवेत सर्वस्वस्यापहारे तु वक्तव्यम अनृतं भवेत 29 पराणात्यये विवाहे च वक्तव्यम अनृतं भवेत यत्रानृतं भवेत सत्यं सत्यं चाप्य अनृतं भवेत 30 तादृशं पश्यते बालॊ यस्य सत्यम अनुष्ठितम सत्यानृते विनिश्चित्यल ततॊ भवति धर्मवित 31 किम आश्चर्यं कृतप्रज्ञः पुरुषॊ ऽपि सुदारुणः सुमहत पराप्नुयात पुण्यं बलाकॊ ऽनधवधाद इव 32 किम आश्चर्यं पुनर मूढॊ धर्मकामॊ ऽपय अपण्डितः सुमहत पराप्नुयात पापम आपगाम इव कौशिकः 33 [अर्ज] आचक्ष्व भगवन्न एतद यथा विद्याम अहं तथा बलाकान्धाभिसंबद्धं नदीनां कौशिकस्य च 34 [क] मृगव्याधॊ ऽभवत कश चिद बलाकॊ नाम भारत यात्रार्थं पुत्रदारस्य मृगान हन्ति न कामतः 35 सॊ ऽनधौ च माता पितरौ बिभर्त्य अन्यांश च संश्रितान सवधर्मनिरतॊ नित्यं सत्यवाग अनसूयकः 36 स कदा चिन मृगाँल लिप्सुर नान्वविन्दत परयत्नवान अथापश्यत स पीतॊदं शवापदं घराणचक्षुषम 37 अदृष्टपूर्वम अपि तत सत्त्वं तेन हतं तदा अन्व एव च ततॊ वयॊम्नः पुष्पवर्षम अवापतत 38 अप्सरॊगीतवादित्रैर नादितं च मनॊरमम विमानम आगमत सवर्गान मृगव्याध निनीषया 39 तद भूतं सर भूतानाम अभावाय किलार्जुन तपस तप्त्वा वरं पराप्तं कृतम अन्धं सवयं भुवा 40 तद धत्वा सर्वभूतानाम अभाव कृतनिश्चयम ततॊ बलाकः सवरगाद एवं धर्मः सुदुर्विदः 41 कौशिकॊ ऽपय अभवद विप्रस तपस्वी न बहुश्रुतः नदीनां संगमे गरामाद अदूरे स किलावसत 42 सत्यं मया सदा वाच्यम इति तस्याभवद वरतम सत्यवादीति विख्यातः स तदासीद धनंजय 43 अथ दस्यु भयात केचित्तदा तद वनम आविशन दस्यवॊ ऽपि गताः करूरा वयमार्गन्त परयत्नतः 44 अथ कौशिकम अभ्येत्य पराहुस तं सत्यवादिनम कतमेन पथा याता भगवन बहवॊ जनाः सत्येन पृष्ठप्रब्रूहि यदि तान वेत्थ शंस नः 45 स पृष्ठः कौशिकः सत्यं वचनं तान उवाच ह बहुवृक्ष लतागुल्मम एतद वनम उपाश्रिताः ततस ते तान समासाद्य करूरा जघ्नुर इति शरुतिः 46 तेनाधर्मेण महता वाग दुरुक्तेन कौशिकः गतः सुकष्टं नरकं सूक्ष्मधर्मेष्व अकॊविदः अप्रभूत शरुतॊ मूढॊ धर्माणाम अविभागवित 47 वृद्धान अपृष्ट्वा संदेहं महच छवभ्रम इतॊ ऽरहति तत्र ते लक्षणॊद्देशः कश चिद एव भविष्यति 48 दुष्करं परमज्ञानं कर्तेणात्र वयवस्यति शरुतिर धर्म इति हय एके वदन्ति बहवॊ जनाः 49 न तव एतत परतिसूयामि न हि सर्वं विधीयते परभवार्थाय भूतानां धर्मप्रवचनं कृतम 50 धारणाद धर्मम इत्य आहुर धर्मॊ धारयति परजाः यः सयाद धारण संयुक्तः स धर्म इति निश्चयः 51 ये ऽनयायेन जिहीर्षन्तॊ जना इच्छन्ति कर्हि चित अकूजनेन चेन मॊक्षॊ नात्र कूजेत कथं चन 52 अवश्यं कूजितव्यं वा शङ्केरन वाप्य अकूजतः शरेयस तत्रानृतं वक्तुं सत्याद इति विचारितम 53 पराणात्यये विवाहे वा सर्वज्ञाति धनक्षये नर्मण्य अभिप्रवृत्ते वा परवक्तव्यं मृषा भवेत अधर्मं नात्र पश्यन्ति धर्मतत्त्वार्थ दर्शिनः 54 यः सतेनैः सह संबन्धान मुच्यते शपथैर अपि शरेयस तत्रानृतं वक्तुं तत सत्यम अविचारितम 55 न च तेभ्यॊ धनं देयं शक्ये सति कथं चन पापेभ्यॊ हि धनं देयं शक्ये सति कथं चन तस्माद धर्मार्थम अनृतम उक्त्वा नानृत वाग भवेत 56 एष ते लक्षणॊद्देशः समुद्दिष्टॊ यथाविधि एतच छरुत्वा बरूहि पार्थ यदि वध्यॊ युधिष्ठिरः 57 [अर्ज] यथा बरूयान महाप्राज्ञॊ यथा बरूयान महामतिः हितं चैव यथास्माकं तथैतद वचनं तव 58 भवान मातृसमॊ ऽसमाकं तथा पितृसमॊ ऽपि च गतिश च परमा कृष्ण तेन ते वाक्यम अद्भुतम 59 न हि ते तरिषु लॊकेषु विद्यते ऽविदितं कव चित तस्माद भवान परं धर्मं वेद सर्वं यथातथम 60 अवध्यं पाण्डवं मन्ये धर्मराजं युधिष्ठिरम यस्मिन समयसंयॊगे बरूहि किं चिद अनुग्रहम इदं चापरम अत्रैव शृणु हृत्स्थं विवक्षितम 61 जानामि दाशार्ह मम वरतं तवं; यॊ मां बरूयात कश चन मानुषेषु अन्यस्मै तवं गाण्डिवं देहि पार्थ; यस तवत्तॊ ऽसत्रैर भविता वा विशिष्टः 62 हन्याम अहं केशव तं परसह्य; भीमॊ हन्यात तूबरकेति चॊक्तः तन मे राजा परॊक्तवांस ते समक्षं; धनुर देहीत्य असकृद वृष्णिसिंह 63 तं हत्वा चेत केशव जीवलॊके; सथाता कालं नाहम अप्य अल्पमात्रम सा च परतिज्ञा मम लॊकप्रबुद्धा; भवेत सत्या धर्मभृतां वरिष्ठ यथा जीवेत पाण्डवॊ ऽहं च कृष्ण; तथा बुद्धिं दातुम अद्यार्हसि तवम 64 [वा] राजा शरान्तॊ जगतॊ विक्षतश च; कर्णेन संख्ये निशितैर बाणसंघैः तस्मात पार्थ तवां परुषाण्य अवॊचत; कर्णे दयूतंह्य अद्य रणे निबद्धम 65 तस्मिन हते कुरवॊ निर्जिताः सयुर; एवं बुद्धिः पार्थिवॊ धर्मपुत्रः यदावमानं लभते महान्तं; तदा जीवन मृत इत्य उच्यते सः 66 तन मानितः पार्थिवॊ ऽयं सदैव; तवया सभीमेन तथा यमाभ्याम वृद्धैश च लॊके पुरुषप्रवीरैस; तस्यावमानं कलया तवं परयुङ्क्ष्व 67 तवम इत्य अत्र भवन्तं तवं बरूहि पार्थ युधिष्ठिरम तवम इत्य उक्तॊ हि निहतॊ गुरुर भवति भारत 68 एवम आचर कौन्तेय धर्मराजे युधिष्ठिरे अधर्मयुक्तं संयॊगं कुरुष्वैवं कुरूद्वह 69 अथर्वाङ्गिरसी हय एषा शरुतीनाम उत्तमा शरुतिः अविचार्यैव कार्यैषा शरेयः कामैर नरैः सदा 70 वधॊ हय अयं पाण्डव धर्मराज्ञस; तवत्तॊ युक्तॊ वेत्स्यते चैवम एषः ततॊ ऽसय पादाव अभिवाद्य पश्चाच; छमं बरूयाः सान्त्वपूर्वं च पार्थम 71 भराता पराज्ञस तव कॊपं न जातु; कुर्याद राजा कं चन पाण्डवेयः मुक्तॊ ऽनृताद भरातृवधाच च पार्थ; हृष्टः कर्णं तवं जहि सूतपुत्रम 72 [स] इत्य एवम उक्तस तु जनार्दनेन; पार्थः परशस्याथ सुहृद वधं तम ततॊ ऽबरवीद अर्जुनॊ धर्मराजम; अनुक्तपूर्वं परुषं परसह्य 73 मा तवं राजन वयाहर वयाहरत्सु; न तिष्ठसे करॊशमात्रे रणार्धे भीमस तु माम अर्हति गर्हणाय; यॊ दयुध्यते सर्वयॊधप्रवीरः 74 काले हि शत्रून परतिपीड्य संख्ये; हत्वा च शूरान पृथिवीपतींस तान यः कुञ्जराणाम अधिकं सहस्रं; हत्वानदत तुमुलं सिंहनादम 75 सुदुष्करं कर्म करॊति वीरः; कर्तुं यथा नार्हसि तवं कदा चित रथाद अवप्लुत्य गदां परामृशंस; तया निहन्त्य अश्वनरद्विपान रणे 76 वरासिना वाजिरथाश्वकुञ्जरांस; तथा रथाङ्गैर धनुषा च हन्त्य अरीन परमृद्य पद्भ्याम अहितान निहन्ति यः; पुनश च दॊर्भ्यां शतमन्युविक्रमः 77 महाबलॊ वैश्रवणान्तकॊपमः; परसह्य हन्ता दविषतां यथार्हम स भीमसेनॊ ऽरहति गर्हणां मे; न तवं नित्यं रक्ष्यसे यः सुहृद्भिः 78 महारथान नागवरान हयांश च; पदातिमिख्यान अपि च परमथ्य एकॊ भीमॊ धार्तराष्ट्रेषु मग्नः; स माम उपालब्धुम अरिंदमॊ ऽरहति 79 कलिङ्ग वङ्ग अनङ्ग निषादमागधान; सदा मदान नीलबलाहकॊपमान निहन्ति यः शत्रुगणान अनेकशः; स माभिवक्तुं परभवत्य अनागसम 80 सुयुक्तम आस्थाय रथं हि काले; धनुर विकर्षञ शरपूर्णमुष्टिः सृजत्य असौ शरवर्षाणि वीरॊ; महाहवे मेघ इवाम्बुधाराः 81 बलं तु वाचि दविजसत्तमानां; कषात्रं बुधा बाहुबलं वदन्ति तवं वाग्बलॊ भारत निष्ठुरश च; तवम एव मां वेत्सि यथाविधॊ ऽहम 82 यतामि नित्यं तव कर्तुम इष्टं; दारैः सुतैर जीवितेनात्मना च एवं च मां वाग विशिखैर निहंसि; तवत्तः सुखं न वयं विद्म किं चित 83 अवामंस्था मां दरौपदी तल्प संस्थॊ; महारथान परतिहन्मि तवदर्थे तेनातिशङ्की भारत निष्ठुरॊ ऽसि; तवत्तः सुखं नाभिजानामि किं चित 84 परॊक्तः सवयं सत्यसंधेन मृत्युस; तव परियार्थं नददेव युद्धे वीरः शिखण्डी दरौपदॊ ऽसौ महात्मा; मयाभिगुप्तेन हतश च तेन 85 न चाभिनन्दामि तवाधिराज्यं; यतस तम अक्षेष्व अहिताय सक्तः सवयं कृत्वा पापम अनार्यजुष्टम; एभिर युद्धे तर्तुम इच्छस्य अरींस तु 86 अक्षेषु दॊषा बहवॊ विधर्माः; शरुतास तवया सहदेवॊ ऽबरवीद यान तान नैषि सांतर्तुम असाधु जुष्टान; येन सम सर्वे निरयं परपन्नाः 87 तवं देविता तवत्कृते राज्यनाशस; तवत संभवं वयसनं नॊ नरेन्द्र मास्मान करूरैर वाक परतॊदैस तुद तवं; भूयॊ राजन कॊपयन्न अल्पभाग्यान 88 एता वाचः परुषाः साव्य साची; सथिरप्रज्ञं शरावयित्वा ततक्ष तदानुतेपे सुरराजपुत्रॊ; विनिःश्वसंश चाप्य असिम उद्बबर्ह 89 तम आह कृष्णाः किम इदं पुनर भवान; विकॊशम आकाशनिभं करॊत्य असिम परब्रूहि सत्यं पुरर उत्तरं विधेर; वचः परवक्ष्याम्य अहम अर्थसिद्धये 90 इत्य एव पृष्ठः पुरुषॊत्तमेन; सुदुःखितः केशवम आह वाक्यम अहं हनिष्ये सवशरीरम एव; परसह्य येनाहितम आचरं वै 91 निशम्य तत पार्थ वचॊ ऽबरवीद इदं; धनंजयं धर्मभृतां वरिष्ठः परब्रूहि पार्थ सवगुणान इहात्मनस; तथा सवहार्दं भवतीह सद्यः 92 तथास्तु कृष्णेत्य अभिनन्द्य वाक्यं; धनंजयः पराह धनुर विनाम्य युधिष्ठिरं धर्मभृतां वरिष्ठं; शृणुष्व राजन्न इति शक्रसूनुः 93 न मादृशॊ ऽनयॊ नरदेव विद्यते; धनुर्धरॊ देवम ऋते पिनाकिनम अहं हि तेनानुमतॊ महात्मना; कषणेन हन्यां सचराचरं जगत 94 मया हि राजन सदिग ईश्वरा दिशॊ; विजित्य सर्वा भवतः कृता वशे स राजसूयश च समाप्तदक्षिणः; सभा च दिव्या भवतॊ ममौजसा 95 पापौ पृषत्का लिखिता ममेमे; धनुश च संख्ये विततं सबाणम पादौ च मे सशरौ सहध्वजौ; न मादृशं युद्धगतं जयन्ति 96 हता उदीच्या निहताः परतीच्याः; पराच्या निरस्ता दाक्षिणात्या विशस्ताः संशप्तकानां किं चिद एवावशिष्टं; सर्वस्य सैन्यस्य हतं मयार्धम 97 शेते मया निहता भारती च; चमू राजन देव चमू परकाशा ये नास्त्रज्ञास तान अहं हन्मि शस्त्रैस; तस्माल लॊकं नेह करॊमि भस्मसात 98 इत्य एवम उक्त्वा पुनर आह पार्थॊ; युधिष्ठिरं धर्मभृतां वरिष्ठम अप्य अपुत्रा तेन राधा भवित्री; कुन्ती मया वा तद ऋतं विद्धि राजन परसीद राजन कषम यन मयॊक्तं; काले भवान वेत्स्यति तन नमस ते 99 परसाद्य राजानम अमित्रसाहं; सथितॊ ऽबरवीच चैनम अभिप्रपन्नः याम्य एष भीमं समरात परमॊक्तुं; सर्वात्मना सूतपुत्रं च हन्तुम 100 तव परियार्थं मम जीवितं हि; बरवीमि सत्यं तद अवेहि राजन इति परायाद उपसंगृह्य पादौ; समुत्थितॊ दीप्ततेजाः किरीटी नेदं चिरात कषिप्रम इदं भविष्यत्य; आवर्तते ऽसाव अभियामि चैनम 101 एतच छरुत्वा पाण्डवॊ धर्मराजॊ; भरातुर वाक्यं परुषं फल्गुनस्य उत्थाय तस्माच छयनाद उवाच; पार्थं ततॊ दुःखपरीत चेताः 102 कृतं मया पार्थ यथा न साधु; येन पराप्तं वयसनं वः सुघॊरम तस्माच छिरश छिन्द्धि ममेदम अद्य; कुलान्तकस्याधम पुरुषस्य 103 पापस्य पापव्यसनान्वितस्य; विमूढबुद्धेर अलसस्य भीरॊः वृद्धावमन्तुः परुषस्य चैव; किं ते चिरं माम अनुवृत्य रूक्षम 104 गच्छाम्य अहं वनम एवाद्य पापः; सुखं भवान वर्ततां मद्विहीनः यॊग्यॊ राजा भीमसेनॊ महात्मा; कलीबस्य वा मम किं राज्यकृत्यम 105 न चास्मि शक्तः परुषाणि सॊढुं; पुनस तवेमानि रुषान्वितस्य भीमॊ ऽसतु राजा मम जीवितेन; किं कार्यम अद्यावमतस्य वीर 106 इत्य एवम उक्त्वा सहसॊत्पपात; राजा ततस तच छयनं विहाय इयेष निर्गन्तुम अथॊ वनाय; तं वासुदेवः परणतॊ ऽभयुवाच 107 राजन विदितम एतत ते यथा गाण्डीवधन्वनः परतिज्ञा सत्यसंधस्य गाण्डीवं परति विश्रुता 108 बरूयाद य एवं गाण्डीवं देह्य अन्यस्मै तवम इत्य उत स वध्यॊ ऽसय पुमाँल लॊके तवया चॊक्तॊ ऽयम ईदृशम 109 अतः सत्यां परतिज्ञां तां पार्थेन परिरक्षता मच्छन्दाद अवमानॊ ऽयं कृतस तव महीपते गुरूणाम अवमानॊ हि वध इत्य अभिधीयते 110 तस्मात तवं वै महाबाहॊ मम पार्थस्य चॊभयॊः वयतिक्रमम इमं राजन संक्षमस्वार्जुनं परति 111 शरणं तवां महाराज परपन्नौ सव उभाव अपि कषन्तुम अर्हसि मे राजन परणतस्याभियाचतः 112 राधेयस्याद्य पापस्य भूमिः पास्यति शॊणितम सत्यं ते परतिजानामि हतं विद्ध्य अद्य सूतजम यस्येच्छसि वधं तस्य गतम एवाद्य जीवितम 113 इति कृष्ण वचः शरुत्वा धर्मराजॊ युधिष्ठिरः ससंभ्रमं हृषीकेशम उत्थाप्य परणतं तदा कृताञ्जलिम इदं वाक्यम उवाचानन्तरं वचः 114 एवम एतद यथात्थ तवम अस्त्य एषॊ ऽतिक्रमॊ मम अनुनीतॊ ऽसमि गॊविन्द तारितश चाद्य माधव मॊक्षिता वयसनाद घॊराद वयम अद्य तवयाच्युत 115 भवन्तं नाथम आसाद्य आवां वयसनसागरात घॊराद अद्य समुत्तीर्णाव उभाव अज्ञानमॊहितौ 116 तवद बुद्धिप्रवम आसाद्य दुःखशॊकार्णवाद वयम समुत्तीर्णाः सहामात्याः सनाथाः सम तवयाच्युत |
1
[s] yudhiṣṭhireṇaivam uktaḥ kaunteyaḥ śvetavāhanaḥ asiṃ jagrāha saṃkruddho jighāṃsur bharatarṣabham 2 tasya kopaṃ samudvīkṣya cittajñaḥ keśavas tadā uvāca kim idaṃ pārtha gṛhītaḥ khaḍga ity uta 3 neha paśyāmi yoddhavyaṃ tava kiṃ cid dhanaṃjaya te dhvastā dhārtarāṣṭrā hi sarve bhīmena dhīmatā 4 apayāto 'si kaunteya rājā draṣṭavya ity api sa rājā bhavatā dṛṣṭaḥ kuśalī ca yudhiṣṭhiraḥ 5 taṃ dṛṣṭvā nṛpaśārdūla śārdūla samavikramam harṣakāle tu saṃprāpte kasmāt tvā manyur āviśat 6 na taṃ paśyāmi kaunteya yas te vadhyo bhaved iha kasmād bhavān mahākhaḍgaṃ parigṛhṇāti satvaram 7 tat tvā pṛcchāmi kaunteya kim idaṃ te cikīrṣitam parāmṛśasi yat kruddhaḥ khaḍgam adbhutavikrama 8 evam uktas tu kṛṣṇena prekṣamāṇo yudhiṣṭhiram arjunaḥ prāha govindaṃ kruddhaḥ sarpa iva śvasan 9 dada gāṇḍīvam anyasmā iti māṃ yo 'bhicodayet chindyām ahaṃ śiras tasya ity upāṃśu vrataṃ mama 10 tad ukto 'ham adīnātman rājñāmita parākrama samakṣaṃ tava govinda na tat kṣantum ihotsahe 11 tasmād enaṃ vadhiṣyāmi rājānaṃ dharmabhīrukam pratijñāṃ pālayiṣyāmi hatvemaṃ narasattamam etadarthaṃ mayā khaḍggo gṛhīto yadunandana 12 so 'haṃ yudhiṣṭhiraṃ hatvā satye 'py ānṛṇyatāṃ gataḥ viśoko vijvaraś cāpi bhaviṣyāmi janārdana 13 kiṃ vā tvaṃ manyase prāptam asmin kāle samutthite tvam asya jagatas tāta vettha sarvaṃ gatāgatam tat tathā prakariṣyāmi yathā māṃ vakṣyate bhavān 14 [k] idānīṃ pātha jānāmi na vṛddhāḥ sevitās tvayā akāle puruṣavyāghra saṃrambhakriyayānayā na hi dharmavibhāgajñaḥ kuryād evaṃ dhanaṃjaya 15 akāryāṇāṃ ca kāryāṇāṃ saṃyogaṃ yaḥ karoti vai kāryāṇām akriyāṇāṃ ca sa pārtha puruṣādhamaḥ 16 anusṛtya tu ye dharmaṃ kavayaḥ samupasthitāḥ samāsa vistaravidāṃ na teṣāṃ vettha niścayam 17 aniścayajño hi naraḥ kāryākāryaviniścaye avaśo muhyate pārtha yathā tvaṃ mūḍha eva tu 18 na hi kāryam akāryaṃ vā sukhaṃ jñātuṃ kathaṃ cana śrutena jñāyate sarvaṃ tac ca tvaṃ nāvabudhyase 19 avijñānād bhavān yac ca dharmaṃ rakṣati dharmavit prāṇināṃ hi vadhaṃ pārtha dhārmiko nāvabudhyate 20 prāṇinām avadhas tāta sarvajyāyān mato mama anṛtaṃ tu bhaved vācyaṃ na ca hiṃsyāt kathaṃ cana 21 sa kathaṃ bhrātaraṃ jyeṣṭhaṃ rājānaṃ dharmakovidam hanyād bhavān naraśreṣṭha prākṛto 'nyaḥ pumān iva 22 ayudhyamānasya vadhas tathāśastrasya bhārata parāṅmukhasya dravataḥ śaraṇaṃ vābhigacchataḥ kṛtāñjaleḥ prapannasya na vadhaḥ pujyate budhaiḥ 23 tvayā caiva vrataṃ pārtha bālenaiva kṛtaṃ purā tasmād adharmasaṃyuktaṃ mauḍhyāt karma vyavasyasi 24 sa guruṃ pārtha kasmāt tvaṃ hanyā dharmam anusmaran asaṃpradhārya dharmāṇāṃ gatiṃ sūkṣmāṃ duranvayām 25 idaṃ dharmarahasyaṃ ca vakṣyāmi bharatarṣabha yad brūyāt tava bhīṣmo vā dharmajño vā yudhiṣṭhiraḥ 26 viduro vā tathā kṣattā kuntī vāpi yaśasvinī tat te vakṣyāmi tattvena tan nibodha dhanaṃjaya 27 satyasya vacanaṃ sādhu na satyād vidyate param tattvenaitat sudurjñeyaṃ yasya satyam anuṣṭhitam 28 bhavet satyam avaktavyaṃ vaktavyam anṛtaṃ bhavet sarvasvasyāpahāre tu vaktavyam anṛtaṃ bhavet 29 prāṇātyaye vivāhe ca vaktavyam anṛtaṃ bhavet yatrānṛtaṃ bhavet satyaṃ satyaṃ cāpy anṛtaṃ bhavet 30 tādṛśaṃ paśyate bālo yasya satyam anuṣṭhitam satyānṛte viniścityal tato bhavati dharmavit 31 kim āścaryaṃ kṛtaprajñaḥ puruṣo 'pi sudāruṇaḥ sumahat prāpnuyāt puṇyaṃ balāko 'ndhavadhād iva 32 kim āścaryaṃ punar mūḍho dharmakāmo 'py apaṇḍitaḥ sumahat prāpnuyāt pāpam āpagām iva kauśikaḥ 33 [arj] ācakṣva bhagavann etad yathā vidyām ahaṃ tathā balākāndhābhisaṃbaddhaṃ nadīnāṃ kauśikasya ca 34 [k] mṛgavyādho 'bhavat kaś cid balāko nāma bhārata yātrārthaṃ putradārasya mṛgān hanti na kāmataḥ 35 so 'ndhau ca mātā pitarau bibharty anyāṃś ca saṃśritān svadharmanirato nityaṃ satyavāg anasūyakaḥ 36 sa kadā cin mṛgāṁl lipsur nānvavindat prayatnavān athāpaśyat sa pītodaṃ śvāpadaṃ ghrāṇacakṣuṣam 37 adṛṣṭapūrvam api tat sattvaṃ tena hataṃ tadā anv eva ca tato vyomnaḥ puṣpavarṣam avāpatat 38 apsarogītavāditrair nāditaṃ ca manoramam vimānam āgamat svargān mṛgavyādha ninīṣayā 39 tad bhūtaṃ sara bhūtānām abhāvāya kilārjuna tapas taptvā varaṃ prāptaṃ kṛtam andhaṃ svayaṃ bhuvā 40 tad dhatvā sarvabhūtānām abhāva kṛtaniścayam tato balākaḥ svaragād evaṃ dharmaḥ sudurvidaḥ 41 kauśiko 'py abhavad vipras tapasvī na bahuśrutaḥ nadīnāṃ saṃgame grāmād adūre sa kilāvasat 42 satyaṃ mayā sadā vācyam iti tasyābhavad vratam satyavādīti vikhyātaḥ sa tadāsīd dhanaṃjaya 43 atha dasyu bhayāt kecittadā tad vanam āviśan dasyavo 'pi gatāḥ krūrā vyamārganta prayatnataḥ 44 atha kauśikam abhyetya prāhus taṃ satyavādinam katamena pathā yātā bhagavan bahavo janāḥ satyena pṛṣṭhaprabrūhi yadi tān vettha śaṃsa naḥ 45 sa pṛṣṭhaḥ kauśikaḥ satyaṃ vacanaṃ tān uvāca ha bahuvṛkṣa latāgulmam etad vanam upāśritāḥ tatas te tān samāsādya krūrā jaghnur iti śrutiḥ 46 tenādharmeṇa mahatā vāg duruktena kauśikaḥ gataḥ sukaṣṭaṃ narakaṃ sūkṣmadharmeṣv akovidaḥ aprabhūta śruto mūḍho dharmāṇām avibhāgavit 47 vṛddhān apṛṣṭvā saṃdehaṃ mahac chvabhram ito 'rhati tatra te lakṣaṇoddeśaḥ kaś cid eva bhaviṣyati 48 duṣkaraṃ paramajñānaṃ karteṇātra vyavasyati śrutir dharma iti hy eke vadanti bahavo janāḥ 49 na tv etat pratisūyāmi na hi sarvaṃ vidhīyate prabhavārthāya bhūtānāṃ dharmapravacanaṃ kṛtam 50 dhāraṇād dharmam ity āhur dharmo dhārayati prajāḥ yaḥ syād dhāraṇa saṃyuktaḥ sa dharma iti niścayaḥ 51 ye 'nyāyena jihīrṣanto janā icchanti karhi cit akūjanena cen mokṣo nātra kūjet kathaṃ cana 52 avaśyaṃ kūjitavyaṃ vā śaṅkeran vāpy akūjataḥ śreyas tatrānṛtaṃ vaktuṃ satyād iti vicāritam 53 prāṇātyaye vivāhe vā sarvajñāti dhanakṣaye narmaṇy abhipravṛtte vā pravaktavyaṃ mṛṣā bhavet adharmaṃ nātra paśyanti dharmatattvārtha darśinaḥ 54 yaḥ stenaiḥ saha saṃbandhān mucyate śapathair api śreyas tatrānṛtaṃ vaktuṃ tat satyam avicāritam 55 na ca tebhyo dhanaṃ deyaṃ śakye sati kathaṃ cana pāpebhyo hi dhanaṃ deyaṃ śakye sati kathaṃ cana tasmād dharmārtham anṛtam uktvā nānṛta vāg bhavet 56 eṣa te lakṣaṇoddeśaḥ samuddiṣṭo yathāvidhi etac chrutvā brūhi pārtha yadi vadhyo yudhiṣṭhiraḥ 57 [arj] yathā brūyān mahāprājño yathā brūyān mahāmatiḥ hitaṃ caiva yathāsmākaṃ tathaitad vacanaṃ tava 58 bhavān mātṛsamo 'smākaṃ tathā pitṛsamo 'pi ca gatiś ca paramā kṛṣṇa tena te vākyam adbhutam 59 na hi te triṣu lokeṣu vidyate 'viditaṃ kva cit tasmād bhavān paraṃ dharmaṃ veda sarvaṃ yathātatham 60 avadhyaṃ pāṇḍavaṃ manye dharmarājaṃ yudhiṣṭhiram yasmin samayasaṃyoge brūhi kiṃ cid anugraham idaṃ cāparam atraiva śṛṇu hṛtsthaṃ vivakṣitam 61 jānāmi dāśārha mama vrataṃ tvaṃ; yo māṃ brūyāt kaś cana mānuṣeṣu anyasmai tvaṃ gāṇḍivaṃ dehi pārtha; yas tvatto 'strair bhavitā vā viśiṣṭaḥ 62 hanyām ahaṃ keśava taṃ prasahya; bhīmo hanyāt tūbaraketi coktaḥ tan me rājā proktavāṃs te samakṣaṃ; dhanur dehīty asakṛd vṛṣṇisiṃha 63 taṃ hatvā cet keśava jīvaloke; sthātā kālaṃ nāham apy alpamātram sā ca pratijñā mama lokaprabuddhā; bhavet satyā dharmabhṛtāṃ variṣṭha yathā jīvet pāṇḍavo 'haṃ ca kṛṣṇa; tathā buddhiṃ dātum adyārhasi tvam 64 [vā] rājā śrānto jagato vikṣataś ca; karṇena saṃkhye niśitair bāṇasaṃghaiḥ tasmāt pārtha tvāṃ paruṣāṇy avocat; karṇe dyūtaṃhy adya raṇe nibaddham 65 tasmin hate kuravo nirjitāḥ syur; evaṃ buddhiḥ pārthivo dharmaputraḥ yadāvamānaṃ labhate mahāntaṃ; tadā jīvan mṛta ity ucyate saḥ 66 tan mānitaḥ pārthivo 'yaṃ sadaiva; tvayā sabhīmena tathā yamābhyām vṛddhaiś ca loke puruṣapravīrais; tasyāvamānaṃ kalayā tvaṃ prayuṅkṣva 67 tvam ity atra bhavantaṃ tvaṃ brūhi pārtha yudhiṣṭhiram tvam ity ukto hi nihato gurur bhavati bhārata 68 evam ācara kaunteya dharmarāje yudhiṣṭhire adharmayuktaṃ saṃyogaṃ kuruṣvaivaṃ kurūdvaha 69 atharvāṅgirasī hy eṣā śrutīnām uttamā śrutiḥ avicāryaiva kāryaiṣā śreyaḥ kāmair naraiḥ sadā 70 vadho hy ayaṃ pāṇḍava dharmarājñas; tvatto yukto vetsyate caivam eṣaḥ tato 'sya pādāv abhivādya paścāc; chamaṃ brūyāḥ sāntvapūrvaṃ ca pārtham 71 bhrātā prājñas tava kopaṃ na jātu; kuryād rājā kaṃ cana pāṇḍaveyaḥ mukto 'nṛtād bhrātṛvadhāc ca pārtha; hṛṣṭaḥ karṇaṃ tvaṃ jahi sūtaputram 72 [s] ity evam uktas tu janārdanena; pārthaḥ praśasyātha suhṛd vadhaṃ tam tato 'bravīd arjuno dharmarājam; anuktapūrvaṃ paruṣaṃ prasahya 73 mā tvaṃ rājan vyāhara vyāharatsu; na tiṣṭhase krośamātre raṇārdhe bhīmas tu mām arhati garhaṇāya; yo dyudhyate sarvayodhapravīraḥ 74 kāle hi śatrūn pratipīḍya saṃkhye; hatvā ca śūrān pṛthivīpatīṃs tān yaḥ kuñjarāṇām adhikaṃ sahasraṃ; hatvānadat tumulaṃ siṃhanādam 75 suduṣkaraṃ karma karoti vīraḥ; kartuṃ yathā nārhasi tvaṃ kadā cit rathād avaplutya gadāṃ parāmṛśaṃs; tayā nihanty aśvanaradvipān raṇe 76 varāsinā vājirathāśvakuñjarāṃs; tathā rathāṅgair dhanuṣā ca hanty arīn pramṛdya padbhyām ahitān nihanti yaḥ; punaś ca dorbhyāṃ śatamanyuvikramaḥ 77 mahābalo vaiśravaṇāntakopamaḥ; prasahya hantā dviṣatāṃ yathārham sa bhīmaseno 'rhati garhaṇāṃ me; na tvaṃ nityaṃ rakṣyase yaḥ suhṛdbhiḥ 78 mahārathān nāgavarān hayāṃś ca; padātimikhyān api ca pramathya eko bhīmo dhārtarāṣṭreṣu magnaḥ; sa mām upālabdhum ariṃdamo 'rhati 79 kaliṅga vaṅg anaṅga niṣādamāgadhān; sadā madān nīlabalāhakopamān nihanti yaḥ śatrugaṇān anekaśaḥ; sa mābhivaktuṃ prabhavaty anāgasam 80 suyuktam āsthāya rathaṃ hi kāle; dhanur vikarṣañ śarapūrṇamuṣṭiḥ sṛjaty asau śaravarṣāṇi vīro; mahāhave megha ivāmbudhārāḥ 81 balaṃ tu vāci dvijasattamānāṃ; kṣātraṃ budhā bāhubalaṃ vadanti tvaṃ vāgbalo bhārata niṣṭhuraś ca; tvam eva māṃ vetsi yathāvidho 'ham 82 yatāmi nityaṃ tava kartum iṣṭaṃ; dāraiḥ sutair jīvitenātmanā ca evaṃ ca māṃ vāg viśikhair nihaṃsi; tvattaḥ sukhaṃ na vayaṃ vidma kiṃ cit 83 avāmaṃsthā māṃ draupadī talpa saṃstho; mahārathān pratihanmi tvadarthe tenātiśaṅkī bhārata niṣṭhuro 'si; tvattaḥ sukhaṃ nābhijānāmi kiṃ cit 84 proktaḥ svayaṃ satyasaṃdhena mṛtyus; tava priyārthaṃ nadadeva yuddhe vīraḥ śikhaṇḍī draupado 'sau mahātmā; mayābhiguptena hataś ca tena 85 na cābhinandāmi tavādhirājyaṃ; yatas tam akṣeṣv ahitāya saktaḥ svayaṃ kṛtvā pāpam anāryajuṣṭam; ebhir yuddhe tartum icchasy arīṃs tu 86 akṣeṣu doṣā bahavo vidharmāḥ; śrutās tvayā sahadevo 'bravīd yān tān naiṣi sāṃtartum asādhu juṣṭān; yena sma sarve nirayaṃ prapannāḥ 87 tvaṃ devitā tvatkṛte rājyanāśas; tvat saṃbhavaṃ vyasanaṃ no narendra māsmān krūrair vāk pratodais tuda tvaṃ; bhūyo rājan kopayann alpabhāgyān 88 etā vācaḥ paruṣāḥ sāvya sācī; sthiraprajñaṃ śrāvayitvā tatakṣa tadānutepe surarājaputro; viniḥśvasaṃś cāpy asim udbabarha 89 tam āha kṛṣṇāḥ kim idaṃ punar bhavān; vikośam ākāśanibhaṃ karoty asim prabrūhi satyaṃ purar uttaraṃ vidher; vacaḥ pravakṣyāmy aham arthasiddhaye 90 ity eva pṛṣṭhaḥ puruṣottamena; suduḥkhitaḥ keśavam āha vākyam ahaṃ haniṣye svaśarīram eva; prasahya yenāhitam ācaraṃ vai 91 niśamya tat pārtha vaco 'bravīd idaṃ; dhanaṃjayaṃ dharmabhṛtāṃ variṣṭhaḥ prabrūhi pārtha svaguṇān ihātmanas; tathā svahārdaṃ bhavatīha sadyaḥ 92 tathāstu kṛṣṇety abhinandya vākyaṃ; dhanaṃjayaḥ prāha dhanur vināmya yudhiṣṭhiraṃ dharmabhṛtāṃ variṣṭhaṃ; śṛṇuṣva rājann iti śakrasūnuḥ 93 na mādṛśo 'nyo naradeva vidyate; dhanurdharo devam ṛte pinākinam ahaṃ hi tenānumato mahātmanā; kṣaṇena hanyāṃ sacarācaraṃ jagat 94 mayā hi rājan sadig īśvarā diśo; vijitya sarvā bhavataḥ kṛtā vaśe sa rājasūyaś ca samāptadakṣiṇaḥ; sabhā ca divyā bhavato mamaujasā 95 pāpau pṛṣatkā likhitā mameme; dhanuś ca saṃkhye vitataṃ sabāṇam pādau ca me saśarau sahadhvajau; na mādṛśaṃ yuddhagataṃ jayanti 96 hatā udīcyā nihatāḥ pratīcyāḥ; prācyā nirastā dākṣiṇātyā viśastāḥ saṃśaptakānāṃ kiṃ cid evāvaśiṣṭaṃ; sarvasya sainyasya hataṃ mayārdham 97 śete mayā nihatā bhāratī ca; camū rājan deva camū prakāśā ye nāstrajñās tān ahaṃ hanmi śastrais; tasmāl lokaṃ neha karomi bhasmasāt 98 ity evam uktvā punar āha pārtho; yudhiṣṭhiraṃ dharmabhṛtāṃ variṣṭham apy aputrā tena rādhā bhavitrī; kuntī mayā vā tad ṛtaṃ viddhi rājan prasīda rājan kṣama yan mayoktaṃ; kāle bhavān vetsyati tan namas te 99 prasādya rājānam amitrasāhaṃ; sthito 'bravīc cainam abhiprapannaḥ yāmy eṣa bhīmaṃ samarāt pramoktuṃ; sarvātmanā sūtaputraṃ ca hantum 100 tava priyārthaṃ mama jīvitaṃ hi; bravīmi satyaṃ tad avehi rājan iti prāyād upasaṃgṛhya pādau; samutthito dīptatejāḥ kirīṭī nedaṃ cirāt kṣipram idaṃ bhaviṣyaty; āvartate 'sāv abhiyāmi cainam 101 etac chrutvā pāṇḍavo dharmarājo; bhrātur vākyaṃ paruṣaṃ phalgunasya utthāya tasmāc chayanād uvāca; pārthaṃ tato duḥkhaparīta cetāḥ 102 kṛtaṃ mayā pārtha yathā na sādhu; yena prāptaṃ vyasanaṃ vaḥ sughoram tasmāc chiraś chinddhi mamedam adya; kulāntakasyādhama puruṣasya 103 pāpasya pāpavyasanānvitasya; vimūḍhabuddher alasasya bhīroḥ vṛddhāvamantuḥ paruṣasya caiva; kiṃ te ciraṃ mām anuvṛtya rūkṣam 104 gacchāmy ahaṃ vanam evādya pāpaḥ; sukhaṃ bhavān vartatāṃ madvihīnaḥ yogyo rājā bhīmaseno mahātmā; klībasya vā mama kiṃ rājyakṛtyam 105 na cāsmi śaktaḥ paruṣāṇi soḍhuṃ; punas tavemāni ruṣānvitasya bhīmo 'stu rājā mama jīvitena; kiṃ kāryam adyāvamatasya vīra 106 ity evam uktvā sahasotpapāta; rājā tatas tac chayanaṃ vihāya iyeṣa nirgantum atho vanāya; taṃ vāsudevaḥ praṇato 'bhyuvāca 107 rājan viditam etat te yathā gāṇḍīvadhanvanaḥ pratijñā satyasaṃdhasya gāṇḍīvaṃ prati viśrutā 108 brūyād ya evaṃ gāṇḍīvaṃ dehy anyasmai tvam ity uta sa vadhyo 'sya pumāṁl loke tvayā cokto 'yam īdṛśam 109 ataḥ satyāṃ pratijñāṃ tāṃ pārthena parirakṣatā macchandād avamāno 'yaṃ kṛtas tava mahīpate gurūṇām avamāno hi vadha ity abhidhīyate 110 tasmāt tvaṃ vai mahābāho mama pārthasya cobhayoḥ vyatikramam imaṃ rājan saṃkṣamasvārjunaṃ prati 111 śaraṇaṃ tvāṃ mahārāja prapannau sva ubhāv api kṣantum arhasi me rājan praṇatasyābhiyācataḥ 112 rādheyasyādya pāpasya bhūmiḥ pāsyati śoṇitam satyaṃ te pratijānāmi hataṃ viddhy adya sūtajam yasyecchasi vadhaṃ tasya gatam evādya jīvitam 113 iti kṛṣṇa vacaḥ śrutvā dharmarājo yudhiṣṭhiraḥ sasaṃbhramaṃ hṛṣīkeśam utthāpya praṇataṃ tadā kṛtāñjalim idaṃ vākyam uvācānantaraṃ vacaḥ 114 evam etad yathāttha tvam asty eṣo 'tikramo mama anunīto 'smi govinda tāritaś cādya mādhava mokṣitā vyasanād ghorād vayam adya tvayācyuta 115 bhavantaṃ nātham āsādya āvāṃ vyasanasāgarāt ghorād adya samuttīrṇāv ubhāv ajñānamohitau 116 tvad buddhipravam āsādya duḥkhaśokārṇavād vayam samuttīrṇāḥ sahāmātyāḥ sanāthāḥ sma tvayācyuta |
The Mahabharata in Sanskrit
Book 8
Chapter 50
|
1
[स] इति सम कृष्ण वचनात परत्युच्चार्य युधिष्ठिरम बभूव विमनाः पार्थः किं चित कृत्वेव पातकम 2 ततॊ ऽबरवीद वासुदेवः परहसन्न इव पाण्डवम कथं नाम भवेद एतद यदि तवं पार्थ धर्मजम असिना तीक्ष्णधारेण हन्या धर्मे वयवस्थितम 3 तवम इत्य उक्त्वैव राजानम एवं कश्मलम आविशः हत्वा तु नृपतिं पार्थ अकरिष्यः किम उत्तरम एवं सुदुर्विदॊ धर्मॊ मन्दप्रज्ञैर विशेषतः 4 स भवान धर्मभीरुत्वाद धरुवम ऐष्यान महत तपः नरकं घॊररूपं च भरातुर जयेष्ठस्य वै वधात 5 स तवं धर्मभृतां शरेष्ठं राजानं धर्मसंहितम परसादय कुरुश्रेष्ठम एतद अत्र मतं मम 6 परसाद्य भक्त्या राजानं परीतं चैव युधिष्ठिरम परयामस तवरिता यॊद्धुं सूतपुत्र रथं परथि 7 हत्वा सुदुर्जयं कर्णं तवम अद्य निशितैः शरैः विपुलां परीतिम आधत्स्व धर्मपुत्रस्य मानद 8 एतद अत्र महाबाहॊ पराप्तकालं मतं मम एवं कृते कृतं चैव तव कार्यभविष्यति 9 ततॊ ऽरजुनॊ महाराज लज्जया वै समन्वितः धर्मराजस्य चरणौ परपेदे शिरसानघ 10 उवाच भरतश्रेष्ठ परसीदेति पुनः पुनः कषमस्व राजन यत परॊक्तं धर्मकामेन भीरुणा 11 पादयॊः पतितं दृष्ट्वा धर्मराजॊ युधिष्ठिरः धनंजयम अमित्रघ्नं रुदन्तं भरतर्षभ 12 उत्थाप्य भरातरं राजा धर्मराजॊ धनंजयम समाश्लिष्य च सस्नेहं पररुरॊद महीपतिः 13 रुदित्वा तु चिरं कालं भरातरौ सुमहाद्युती कृतशौचौ नरव्याघ्रौ परीतिमन्तौ बभूवतुः 14 तत आश्लिष्य स परेम्णा मूर्ध्नि चाग्राय पाण्डवम परीत्या परमया युक्तः परस्मयंश चाब्रवीज जयम 15 कर्णेन मे महाबाहॊ सर्वसैन्यस्य पश्यतः कवचं च धवजश चैव धनुः शक्तिर हया गदा शरैः कृत्ता महेष्वास यतमानस्य संयुगे 16 सॊ ऽहं जञात्वा रणे तस्य कर्म दृष्ट्वा च फल्गुन वयवसीदामि दुःखेन न च मे जीवितं परियम 17 तम अद्य यदि वै वीर न हनिष्यसि सूतजम पराणान एव परित्यक्ष्ये जीवितार्थॊ हि कॊ मम 18 एवम उक्तः परत्युवाच विजयॊ भरतर्षभ सत्येन ते शपे राजन परसादेन तवैव च भीमेन च नरश्रेष्ठ यमाभ्यां च महीपते 19 यथाद्य समरे कर्णं हनिष्यामि हतॊ ऽथ वा महीतले पतिष्यामि सत्येनायुधम आलभे 20 एवम आभाष्य राजानम अब्रवीन माधवं वचः अद्य कर्णं रणे कृष्ण सूदयिष्ये न संशयः तद अनुध्याहि भद्रं ते वधं तस्य दुरात्मनः 21 एवम उक्तॊ ऽबरवीत पार्थं केशवॊ राजसत्तम शक्तॊ ऽसमि भरतश्रेष्ठ यत्नं कर्तुं यथाबलम 22 एवं चापि हि मे कामॊ नित्यम एव महारथ कथं भवान रणे कर्णं निहन्याद इति मे मतिः 23 भूयश चॊवाच मतिमान माधवॊ धर्मनन्दनम युधिष्ठिरेमं बीभत्सुं तवं सान्त्वयितुम अर्हसि अनुज्ञातुं च कर्णस्य वधायाद्य दुरात्मनः 24 शरुत्वा हय अयम अहं चैव तवां कर्ण शरपीडितम परवृत्तिं जञातुम आयाताव इह पाण्डवनन्दन 25 दिष्ट्यासि राजन निरुजॊ दिष्ट्या न गरहणं गतः परिसान्त्वय बीभत्सुं जयम आशाधि चानघ 26 [य] एह्य एहि पार्थ बीभत्सॊ मां परिष्वज पाण्डव वक्तव्यम उक्तॊ ऽसम्य अहितं तवया कषान्तं च तन मया 27 अहं तवाम अनुजानामि जहि कर्णं धनंजय मन्युं च मा कृथाः पार्थ यन मयॊक्तॊ ऽसि दारुणम 28 [स] ततॊ धनंजयॊ राजञ शिरसा परणतस तदा पादौ जग्राह पाणिभ्यां भरातुर जयेष्ठस्य मारिष 29 समुत्थाप्य ततॊ राजा परिष्वज्य च पीडितम मूर्ध्न्य उपाघ्राय चैवैनम इदं पुनर उवाच ह 30 धनंजय महाबाहॊ मानितॊ ऽसमि दृढं तवया माहात्म्यं विजयं चैव भूयः पराप्नुहि शाश्वतम 31 [अर्ज] अद्य तं पापकर्माणं सानुबन्धं रणे शरैः नयाम्य अन्तं समासाद्य राधेयं बलगर्वितम 32 येन तवं पीडितॊ बाणैर दृढम आयम्य कार्मुकम तस्याद्य कर्मणः कर्णः फलं पराप्स्यति दारुणम 33 अद्य तवाम अहम एष्यामि कर्णं हत्वा महीपते सभाजयितुम आक्रन्दाद इति सत्यं बरवीमि ते 34 नाहत्वा विनिवर्ते ऽहं कर्णम अद्य रणाजिरात इति सत्येन ते पादौ सपृशामि जगतीपते 35 [स] परसाद्य धर्मराजानं परहृष्टेनान्तरात्मना पार्थः परॊवाच गॊविन्दं सूतपुत्र वधॊद्यतः 36 कल्प्यतां च रथॊ भूयॊ युज्यन्तां च हयॊत्तमाः आयुधानि च सर्वाणि सज्ज्यन्तां वै महारथे 37 उपावृत्ताश च तुरगाः शिक्षिताश चाश्वसादिनः रथॊपकरणैः सर्वैर उपायान्तु तवरान्विताः 38 एवम उक्ते महाराज फल्गुनेन महात्मना उवाच दारुकं कृष्णः कुरु सर्वं यथाब्रवीत अर्जुनॊ भरतश्रेष्ठः शरेष्ठः सर्वधनुष्मताम 39 आज्ञप्तस तव अथ कृष्णेन दारुकॊ राजसत्तम यॊजयाम आस स रथं वैयाघ्रं शत्रुतापनम 40 युक्तं तु रथम आस्थाय दारुकेण महात्मना आपृच्छ्य धर्मराजानं बराह्मणान सवस्ति वाच्य च समङ्गल सवस्त्ययनम आरुरॊह रथॊत्तमम 41 तस्य राजा महाप्राज्ञॊ धर्मराजॊ युधिष्ठिरः आशिषॊ ऽयुङ्क्त परमा युक्ताः कर्णवधं परति 42 तं परयान्तं महेष्वासं दृष्ट्वा भूतानि भारत निहतं मेनिरे कर्णं पाण्डवेन महात्मना 43 बभूवुर विमलाः सर्वा दिशॊ राजन समन्ततः चाषाश च शतपत्राश च करौञ्चाश चैव जनेश्वर परदक्षिणम अकुर्वन्त तदा वै पाण्डुनन्दनम 44 बहवः पक्षिणॊ राजन पुंनामानः शुभाः शिवाः तवरयन्तॊ ऽरजुनं युद्धे हृष्टरूपा ववाशिरे 45 कङ्का गृध्रा वडाश चैव वायसाश च विशां पते अग्रतस तस्य गच्छन्ति भक्ष्यहेतॊर भयानकाः 46 निमित्तानि च धन्यानि पार्थस्य परशशंसिरे विनाशम अरिसैन्यानां कर्णस्य च वधं तथा 47 परयातस्याथ पार्थस्य महान सवेदॊ वयजायत चिन्ता च विपुला जज्ञे कथं नव एतद भविष्यति 48 ततॊ गाण्डीवधन्वानम अब्रवीन मधुसूदनः दृष्ट्वा पार्थं तदायस्तं चिन्तापरिगतं तदा 49 गाण्डीवधन्वन संग्रामे ये तवया धनुषा जिताः न तेषां मानुषॊ जेता तवदन्य इह विद्यते 50 दृष्टा हि बहवः शूराः शक्रतुल्यपराक्रमाः तवां पराप्य समरे वीरं ये गताः परमां गतिम 51 कॊ हि दरॊणं च भीष्मं च भगदत्तं च मारिष विन्दानुविन्दाव आवन्त्यौ काम्बॊजं च सुदक्षिणम 52 शरुतायुषं महावीर्यम अच्युतायुषम एव च परत्युद्गम्य भवेत कषेमी यॊ न सयात तवम इव कषमी 53 तव हय अस्त्राणि दिव्यानि लाघवं बलम एव च वेधः पातश च लक्षश च यॊगश चैव तवार्जुन असंमॊहश च युद्धेषु विज्ञानस्य च संनतिः 54 भवान देवासुरान सर्वान हन्यात सहचराचरान पृथिव्यां हि रणे पार्थ न यॊद्धा तवत्समः पुमान 55 धनुर गरहा हि ये के चित कषत्रिया युद्धदुर्मदाः आ देवात तवत्समं तेषां न पश्यामि शृणॊमि वा 56 बराह्मणा च परजाः सृष्टा गाण्डीवं च महाद्भुतम येन तवं युध्यसे पार्थ तस्मान नास्ति तवया समः 57 अवश्यं तु मया वाच्यं यत पथ्यं तव पाण्डव मावमंस्था महाबाहॊ कर्णम आहवशॊभिनम 58 कर्णॊ हि बलवान धृष्टः कृतास्त्रश च महारथः कृती च चित्रयॊधी च देशे काले च कॊविदः 59 तेजसा वह्नि सदृशॊ वायुवेगसमॊ जवे अन्तकप्रतिमः करॊधे सिंहसंहननॊ बली 60 अयॊ रत्निर महाबाहुर वयूढॊरस्कः सुदुर्जयः अतिमानी च शूरश च परवीरः परियदर्शनः 61 सर्वैर यॊधगुणैर युक्तॊ मित्राणाम अभयंकरः सततं पाण्डव दवेषी धार्तराष्ट्र हिते रतः 62 सर्वैर अवध्यॊ राधेयॊ देवैर अपि सवासवैः ऋते तवाम इति मे बुद्धिस तवम अद्य जहि सूतजम 63 देवैर अपि हि संयत्तैर बिभ्रद्भिर मांसशॊणितम अशक्यः समरे जेतुं सर्वैर अपि युयुत्सुभिः 64 दुरात्मानं पापमतिं नृशंसं; दुष्टप्रज्ञं पाण्डवेयेषु नित्यम हीनस्वार्थं पाण्डवेयैर विरॊधे; हत्वा कर्णं धिष्ठितार्थॊ भवाद्य 65 वीरं मन्यत आत्मानं येन पापः सुयॊधनः तम अद्य मूलं पापानां जय सौतिं धनंजय |
1
[s] iti sma kṛṣṇa vacanāt pratyuccārya yudhiṣṭhiram babhūva vimanāḥ pārthaḥ kiṃ cit kṛtveva pātakam 2 tato 'bravīd vāsudevaḥ prahasann iva pāṇḍavam kathaṃ nāma bhaved etad yadi tvaṃ pārtha dharmajam asinā tīkṣṇadhāreṇa hanyā dharme vyavasthitam 3 tvam ity uktvaiva rājānam evaṃ kaśmalam āviśaḥ hatvā tu nṛpatiṃ pārtha akariṣyaḥ kim uttaram evaṃ sudurvido dharmo mandaprajñair viśeṣataḥ 4 sa bhavān dharmabhīrutvād dhruvam aiṣyān mahat tapaḥ narakaṃ ghorarūpaṃ ca bhrātur jyeṣṭhasya vai vadhāt 5 sa tvaṃ dharmabhṛtāṃ śreṣṭhaṃ rājānaṃ dharmasaṃhitam prasādaya kuruśreṣṭham etad atra mataṃ mama 6 prasādya bhaktyā rājānaṃ prītaṃ caiva yudhiṣṭhiram prayāmas tvaritā yoddhuṃ sūtaputra rathaṃ prathi 7 hatvā sudurjayaṃ karṇaṃ tvam adya niśitaiḥ śaraiḥ vipulāṃ prītim ādhatsva dharmaputrasya mānada 8 etad atra mahābāho prāptakālaṃ mataṃ mama evaṃ kṛte kṛtaṃ caiva tava kāryabhaviṣyati 9 tato 'rjuno mahārāja lajjayā vai samanvitaḥ dharmarājasya caraṇau prapede śirasānagha 10 uvāca bharataśreṣṭha prasīdeti punaḥ punaḥ kṣamasva rājan yat proktaṃ dharmakāmena bhīruṇā 11 pādayoḥ patitaṃ dṛṣṭvā dharmarājo yudhiṣṭhiraḥ dhanaṃjayam amitraghnaṃ rudantaṃ bharatarṣabha 12 utthāpya bhrātaraṃ rājā dharmarājo dhanaṃjayam samāśliṣya ca sasnehaṃ praruroda mahīpatiḥ 13 ruditvā tu ciraṃ kālaṃ bhrātarau sumahādyutī kṛtaśaucau naravyāghrau prītimantau babhūvatuḥ 14 tata āśliṣya sa premṇā mūrdhni cāgrāya pāṇḍavam prītyā paramayā yuktaḥ prasmayaṃś cābravīj jayam 15 karṇena me mahābāho sarvasainyasya paśyataḥ kavacaṃ ca dhvajaś caiva dhanuḥ śaktir hayā gadā śaraiḥ kṛttā maheṣvāsa yatamānasya saṃyuge 16 so 'haṃ jñātvā raṇe tasya karma dṛṣṭvā ca phalguna vyavasīdāmi duḥkhena na ca me jīvitaṃ priyam 17 tam adya yadi vai vīra na haniṣyasi sūtajam prāṇān eva parityakṣye jīvitārtho hi ko mama 18 evam uktaḥ pratyuvāca vijayo bharatarṣabha satyena te śape rājan prasādena tavaiva ca bhīmena ca naraśreṣṭha yamābhyāṃ ca mahīpate 19 yathādya samare karṇaṃ haniṣyāmi hato 'tha vā mahītale patiṣyāmi satyenāyudham ālabhe 20 evam ābhāṣya rājānam abravīn mādhavaṃ vacaḥ adya karṇaṃ raṇe kṛṣṇa sūdayiṣye na saṃśayaḥ tad anudhyāhi bhadraṃ te vadhaṃ tasya durātmanaḥ 21 evam ukto 'bravīt pārthaṃ keśavo rājasattama śakto 'smi bharataśreṣṭha yatnaṃ kartuṃ yathābalam 22 evaṃ cāpi hi me kāmo nityam eva mahāratha kathaṃ bhavān raṇe karṇaṃ nihanyād iti me matiḥ 23 bhūyaś covāca matimān mādhavo dharmanandanam yudhiṣṭhiremaṃ bībhatsuṃ tvaṃ sāntvayitum arhasi anujñātuṃ ca karṇasya vadhāyādya durātmanaḥ 24 śrutvā hy ayam ahaṃ caiva tvāṃ karṇa śarapīḍitam pravṛttiṃ jñātum āyātāv iha pāṇḍavanandana 25 diṣṭyāsi rājan nirujo diṣṭyā na grahaṇaṃ gataḥ parisāntvaya bībhatsuṃ jayam āśādhi cānagha 26 [y] ehy ehi pārtha bībhatso māṃ pariṣvaja pāṇḍava vaktavyam ukto 'smy ahitaṃ tvayā kṣāntaṃ ca tan mayā 27 ahaṃ tvām anujānāmi jahi karṇaṃ dhanaṃjaya manyuṃ ca mā kṛthāḥ pārtha yan mayokto 'si dāruṇam 28 [s] tato dhanaṃjayo rājañ śirasā praṇatas tadā pādau jagrāha pāṇibhyāṃ bhrātur jyeṣṭhasya māriṣa 29 samutthāpya tato rājā pariṣvajya ca pīḍitam mūrdhny upāghrāya caivainam idaṃ punar uvāca ha 30 dhanaṃjaya mahābāho mānito 'smi dṛḍhaṃ tvayā māhātmyaṃ vijayaṃ caiva bhūyaḥ prāpnuhi śāśvatam 31 [arj] adya taṃ pāpakarmāṇaṃ sānubandhaṃ raṇe śaraiḥ nayāmy antaṃ samāsādya rādheyaṃ balagarvitam 32 yena tvaṃ pīḍito bāṇair dṛḍham āyamya kārmukam tasyādya karmaṇaḥ karṇaḥ phalaṃ prāpsyati dāruṇam 33 adya tvām aham eṣyāmi karṇaṃ hatvā mahīpate sabhājayitum ākrandād iti satyaṃ bravīmi te 34 nāhatvā vinivarte 'haṃ karṇam adya raṇājirāt iti satyena te pādau spṛśāmi jagatīpate 35 [s] prasādya dharmarājānaṃ prahṛṣṭenāntarātmanā pārthaḥ provāca govindaṃ sūtaputra vadhodyataḥ 36 kalpyatāṃ ca ratho bhūyo yujyantāṃ ca hayottamāḥ āyudhāni ca sarvāṇi sajjyantāṃ vai mahārathe 37 upāvṛttāś ca turagāḥ śikṣitāś cāśvasādinaḥ rathopakaraṇaiḥ sarvair upāyāntu tvarānvitāḥ 38 evam ukte mahārāja phalgunena mahātmanā uvāca dārukaṃ kṛṣṇaḥ kuru sarvaṃ yathābravīt arjuno bharataśreṣṭhaḥ śreṣṭhaḥ sarvadhanuṣmatām 39 ājñaptas tv atha kṛṣṇena dāruko rājasattama yojayām āsa sa rathaṃ vaiyāghraṃ śatrutāpanam 40 yuktaṃ tu ratham āsthāya dārukeṇa mahātmanā āpṛcchya dharmarājānaṃ brāhmaṇān svasti vācya ca samaṅgala svastyayanam āruroha rathottamam 41 tasya rājā mahāprājño dharmarājo yudhiṣṭhiraḥ āśiṣo 'yuṅkta paramā yuktāḥ karṇavadhaṃ prati 42 taṃ prayāntaṃ maheṣvāsaṃ dṛṣṭvā bhūtāni bhārata nihataṃ menire karṇaṃ pāṇḍavena mahātmanā 43 babhūvur vimalāḥ sarvā diśo rājan samantataḥ cāṣāś ca śatapatrāś ca krauñcāś caiva janeśvara pradakṣiṇam akurvanta tadā vai pāṇḍunandanam 44 bahavaḥ pakṣiṇo rājan puṃnāmānaḥ śubhāḥ śivāḥ tvarayanto 'rjunaṃ yuddhe hṛṣṭarūpā vavāśire 45 kaṅkā gṛdhrā vaḍāś caiva vāyasāś ca viśāṃ pate agratas tasya gacchanti bhakṣyahetor bhayānakāḥ 46 nimittāni ca dhanyāni pārthasya praśaśaṃsire vināśam arisainyānāṃ karṇasya ca vadhaṃ tathā 47 prayātasyātha pārthasya mahān svedo vyajāyata cintā ca vipulā jajñe kathaṃ nv etad bhaviṣyati 48 tato gāṇḍīvadhanvānam abravīn madhusūdanaḥ dṛṣṭvā pārthaṃ tadāyastaṃ cintāparigataṃ tadā 49 gāṇḍīvadhanvan saṃgrāme ye tvayā dhanuṣā jitāḥ na teṣāṃ mānuṣo jetā tvadanya iha vidyate 50 dṛṣṭā hi bahavaḥ śūrāḥ śakratulyaparākramāḥ tvāṃ prāpya samare vīraṃ ye gatāḥ paramāṃ gatim 51 ko hi droṇaṃ ca bhīṣmaṃ ca bhagadattaṃ ca māriṣa vindānuvindāv āvantyau kāmbojaṃ ca sudakṣiṇam 52 śrutāyuṣaṃ mahāvīryam acyutāyuṣam eva ca pratyudgamya bhavet kṣemī yo na syāt tvam iva kṣamī 53 tava hy astrāṇi divyāni lāghavaṃ balam eva ca vedhaḥ pātaś ca lakṣaś ca yogaś caiva tavārjuna asaṃmohaś ca yuddheṣu vijñānasya ca saṃnatiḥ 54 bhavān devāsurān sarvān hanyāt sahacarācarān pṛthivyāṃ hi raṇe pārtha na yoddhā tvatsamaḥ pumān 55 dhanur grahā hi ye ke cit kṣatriyā yuddhadurmadāḥ ā devāt tvatsamaṃ teṣāṃ na paśyāmi śṛṇomi vā 56 brāhmaṇā ca prajāḥ sṛṣṭā gāṇḍīvaṃ ca mahādbhutam yena tvaṃ yudhyase pārtha tasmān nāsti tvayā samaḥ 57 avaśyaṃ tu mayā vācyaṃ yat pathyaṃ tava pāṇḍava māvamaṃsthā mahābāho karṇam āhavaśobhinam 58 karṇo hi balavān dhṛṣṭaḥ kṛtāstraś ca mahārathaḥ kṛtī ca citrayodhī ca deśe kāle ca kovidaḥ 59 tejasā vahni sadṛśo vāyuvegasamo jave antakapratimaḥ krodhe siṃhasaṃhanano balī 60 ayo ratnir mahābāhur vyūḍhoraskaḥ sudurjayaḥ atimānī ca śūraś ca pravīraḥ priyadarśanaḥ 61 sarvair yodhaguṇair yukto mitrāṇām abhayaṃkaraḥ satataṃ pāṇḍava dveṣī dhārtarāṣṭra hite rataḥ 62 sarvair avadhyo rādheyo devair api savāsavaiḥ ṛte tvām iti me buddhis tvam adya jahi sūtajam 63 devair api hi saṃyattair bibhradbhir māṃsaśoṇitam aśakyaḥ samare jetuṃ sarvair api yuyutsubhiḥ 64 durātmānaṃ pāpamatiṃ nṛśaṃsaṃ; duṣṭaprajñaṃ pāṇḍaveyeṣu nityam hīnasvārthaṃ pāṇḍaveyair virodhe; hatvā karṇaṃ dhiṣṭhitārtho bhavādya 65 vīraṃ manyata ātmānaṃ yena pāpaḥ suyodhanaḥ tam adya mūlaṃ pāpānāṃ jaya sautiṃ dhanaṃjaya |
The Mahabharata in Sanskrit
Book 8
Chapter 51
|
1
[स] ततः पुनर अमेयात्मा केशवॊ ऽरजुनम अब्रवीत कृतसंकल्पम आयस्तं वधे कर्णस्य सर्वशः 2 अद्य सप्त दशाहानि वर्तमानस्य भारत विनाशस्यातिघॊरस्य नरवारणवाजिनाम 3 भूत्वा हि विपुला सेना तावकानां परैः सह अन्यॊन्यं समरे पराप्य किं चिच छेषा विशां पते 4 भूत्वा हि कौरव्याः पार्थ परभूतगजवाजिनः तवां वै शत्रुं समासाद्य विनष्टा रणमूर्धनि 5 एते च सर्वे पाञ्चालाः सृञ्जयाश च सहान्वयाः तवां समासाद्य दुर्धर्षं पाण्डवाश च वयवस्थिताः 6 पाञ्चालैः पाण्डवैर मत्स्यैः कारूषैश चेदिकेकयैः तवया गुप्तैर अमित्रघ्न कृतः शत्रुगणक्षयः 7 कॊ हि शक्तॊ रणे जेतुं कौरवांस तात संगतान अन्यत्र पाण्डवान युद्धे तवया गुप्तान महारथान 8 तवं हि शक्तॊ रणे जेतुं स सुरासुरमानुषान तरीँल लॊकान समम उद्युक्तान किं पुनः कौरवं बलम 9 भगदत्तं हि राजानं कॊ ऽनयः शक्तस तवया विना जेतुं पुरुषशार्दूल यॊ ऽपि सयाद वासवॊपमः 10 तथेमां विपुलां सेनां गुप्तां पार्थ तवयानघ न शेकुः पार्थिवाः सर्वे चक्षुर्भिर अभिवीक्षितुम 11 तथैव सततं पार्थ रक्षिताभ्यां तवया रणे धृष्टद्युम्न शिखण्डिभ्यां भीष्मद्रॊणौ निपातितौ 12 कॊ हि शक्तॊ रणे पार्थ पाञ्चालानां महारथौ भीष्मद्रॊणौ युधा जेतुं शक्रतुल्यपराक्रमौ 13 कॊ हि शांतनवं संख्ये दरॊणं वैकर्तनं कृपम दरौणिं च सौमदत्तिं च कृतवर्माणम एव च सौन्धवं मद्रराजं च राजानं च सुयॊधनम 14 वीरान कृतास्त्रान समरे सर्वान एवानुवर्तिनः अक्षौहिणीपतीन उग्रान संरब्धान युद्धदुर्मदान 15 शरेण्यश च बहुलाः कषीणाः परदीर्णाश्वरथद्विपाः नानाजनपदाश चॊग्राः कषत्रियाणाम अमर्षिणाम 16 गॊवास दासम ईयानां वसातीनां च भारत वरात्यानां वाटधानानां भॊजानां चापि मानिनाम 17 उदीर्णाश च महासेना बरह्मक्षत्रस्य भारत तवां समासाद्य निधनं गताः साश्वरथद्विपाः 18 उग्राश च करूरकर्माणस तुखारा यवनाः खशाः दार्वाभिसारा दरदाः शका रमठ तङ्गणाः 19 अन्ध्रकाश च पुलिन्दाश च किराताश चॊग्रविक्रमाः मलेच्छाश च पार्वतीयाश च सागरानूपवासिनः संरम्भिणॊ युद्धशौण्डा बलिनॊ दृब्ध पाणयः 20 एते सुयॊधनस्यार्थे संरब्धाः कुरुभिः सह न शक्या युधि निर्जेतुं तवदन्येन परंतप 21 धार्तराष्ट्रम उदग्रं हि वयूढं दृष्ट्वा महाबलम यस्य तवं न भवेस तराता परतीयात कॊ नु मानवः 22 तत सागरम इवॊद्धूतं रजसा संवृतं बलम विदार्य पाण्डवैः करुद्धैस तवया गुप्तैर हतं विभॊ 23 मागधानाम अधिपतिर जयत्सेनॊ महाबलः अद्य सप्तैव चाहानि हतः संख्ये ऽभिमन्युना 24 तदॊ दशसहस्राणि गजानां भीमकर्मणाम जघान गदया भीमस तस्य राज्ञः परिच्छदम ततॊ ऽनये ऽपि हता नागा रथाश च शतशॊ बलात 25 तद एवं समरे तात वर्तमाने महाभये भीमसेनं समासाद्य तवां च पाण्डव कौरवाः सवाजिरथनागाश च मृत्युलॊकम इतॊ गताः 26 तथा सेनामुखे तत्र निहते पार्थ पाडवैः भीष्मः परासृजद उग्राणि शरवर्षाणि मारिष 27 स चेदिकाशिपाञ्चालान करूषान मत्स्यकेकयान शरैः परच्छाद्य निधनम अनयत परुषास्त्रवित 28 तस्य चापच्युतैर बाणैः परदेहविदारणैः पूर्णम आकाशम अभवद रुक्मपुङ्खरजिह्मगैः 29 गत्या दशम्या ते गत्वा जघ्नुर वाजिरथद्विपान हित्वा नव गतीर दुष्टाः स बाणान वयायतॊ ऽमुचत 30 दिनानि दश भीष्मेण निघ्नता तावकं बलम शून्याः कृता रथॊपस्था हताश च गजवाजिनः 31 दर्शयित्वात्मनॊ रूपं रुद्रॊपेन्द्र समं युधि पाण्डवानाम अनीकानि परविगाह्य वयशातयत 32 विनिघ्नन पृथिवीपालांश चेदिपाञ्चालकेकयान वयदहत पाण्डवीं मन्दम उज्जिहीर्षुः सुयॊधनम 33 तथा चरन्तं समरे तपन्तम इव भास्करम न शेकुः सृञ्जया दरष्टुं तथैवान्ये महीक्षितः 34 विचरन्तं तथा तं तु संग्रामे जितकाशिनम सवाद यॊगेन सहसा पाण्डवा समुपाद्रवन 35 स तु विद्राव्य समरे पाण्डवान सृञ्जयान अपि एक एव रणे भीष्म एक वीरत्वम आगतः 36 तं शिखण्डी समासाद्य तवया गुप्तॊ महारथम जघान पुरुषव्याघ्रं शरैः संनतपर्वभिः 37 स एष पतितः शेते शरतल्पे पितामहः तवां पराप्य पुरुषव्याघ्र गृध्रः पराप्येव वायसम 38 दरॊणः पञ्च दिनान्य उग्रॊ विधम्य रिपुवाहिनीः कृत्वा वयूहं महायुद्धे पातयित्वा महारथान 39 जयद्रथस्य समरे कृत्वा रक्षां महारथः अन्तकप्रतिमश चॊग्रां रात्रिं युद्ध्वादहत परजाः 40 अद्येति दवे दिने वीरॊ भारद्वाजः परतापवान धृष्टद्युम्नं समासाद्य स गतः परमां गतिम 41 यदि चैव परान्य युद्धे सूतपुत्र मुखान रथान नावारयिष्यः संग्रामे न सम दरॊणॊ वयनङ्क्ष्यत 42 भवता तु बलं सर्वं धार्तराष्ट्रस्य वारितम ततॊ दरॊणॊ हतॊ युद्धे पार्षतेन धनंजय 43 क इवान्यॊ रणे कुर्यात तवदन्यः कषत्रियॊ युधि यादृशं ते कृतं पार्थ जयद्रथवधं परति 44 निवार्य सेनां महतीं हत्वा शूरांश च पार्थिवान निहतः सैन्धवॊ राजा तवयास्त्र बलतेजसा 45 आश्चर्यं सिन्धुराजस्य वधं जानन्ति पार्थिवाः अनाश्चर्यं हि तत तवत्तस तवं हि पार्थ महारथः 46 तवां हि पराप्य रणे कषत्रम एकाहाद इति भारत तप्यमानम असंयुक्तं न भवेद इति मे मतिः 47 सेयं पार्थ चमूर घॊरा धार्तराष्ट्रस्य संयुगे हता ससर्व वीरा हि भीष्मद्रॊणौ यदा हतौ 48 शीर्णप्रवर यॊधा अद्य हतवाजि नरद्विपा हीना सूर्येन्दु नक्षत्रैर दयौर इवाभाति भारती 49 विध्वस्ता हि रणे पार्थ सेनेयं भीमविक्रमात आसुरीव पुरा सेना शक्रस्येव पराक्रमैः 50 तेषां हतावशिष्टास तु पञ्च सन्ति महारथाः अश्वत्थामा कृतवर्मा कर्णॊ मद्राधिपः कृपः 51 तांस तवम अद्य नरव्याघ्र हत्वा पञ्च महारथान हतामित्रः परयच्छॊर्वीं राज्ञः सद्वीप पत्तनाम 52 साकाश जलपातालां सपर्वतमहावनाम पराप्नॊत्व अमितवीर्यश्रीर अद्य पार्थॊ वसुंधराम 53 एतां पुरा विष्णुर इव हत्वा दैतेय दानवान परयच्छ मेदिनीं राज्ञे शक्रायेव यथा हरिः 54 अद्य मॊदन्तु पाञ्चाला निहतेष्व अरिषु तवया विष्णुना निहतेष्व एव दानवेयेषु देवताः 55 यदि वा दविपदां शरेष्ठ दरॊणं मानयतॊ गुरुम अश्वत्थाम्नि कृपा ते ऽसति कृपे चाचार्य गौरवात 56 अत्यन्तॊपचितान वा तवं मानयन भरातृबान्धवान कृतवर्माणम आसाद्य न नेष्यामि यमक्षयम 57 भरातरं मातुर आसाद्य शल्यं मद्रजनाधिपम यदि तवम अरविन्दाक्ष दयावान न जिघांससि 58 इमं पापमतिं कषुद्रम अत्यन्तं पाण्डवान परति कर्णम अद्य नरश्रेष्ठ जह्य आशु निशितैः शरैः 59 एतत ते सुकृतं कर्म नात्र किं चिन न युज्यते वयम अप्य अत्र जानीमॊ नात्र दॊषॊ ऽसति कश चन 60 दहने यत सपुत्राया निशि मातुस तवानघ दयूतार्थे यच च युष्मासु परावर्तत सुयॊधनः तत्र सर्वत्र दुष्टात्मा कर्णॊ मूलम इहार्जुन 61 कर्णाद धि मन्यते तराणं नित्यम एव सुयॊधनः ततॊ माम अपि संरब्धॊ निग्रहीतुं परचक्रमे 62 सथिरा बुद्धिर नरेन्द्रस्य धार्तराष्ट्रस्य मानद कर्णः पार्थान रणे सर्वान विजेष्यति न संशयः 63 कर्णम आश्रित्य कौन्तेय धार्तराष्ट्रेण विग्रहः रॊचितॊ भवता सार्धं जानतापि बलं तव 64 कर्णॊ हि भाषते नित्यम अहं पार्थान समागतान वासुदेवं सराजानं विजेष्यामि महारणे 65 परॊत्साहयन दुरात्मानं धार्तराष्ट्रं सुदुर्मतिः समतौ गर्जते कर्णस तम अद्य जहि भारत 66 यच च युष्मासु पापं वै धार्तराष्ट्रः परयुक्तवान तत्र सर्वत्र दुष्टात्मा कर्णः पापमतिर मुखम 67 यच च तद धार्तराष्ट्राणां करूरैः षड्भिर महारथैः अपश्यं निहतं वीरं सौभद्रम ऋषभेक्षणम 68 दरॊण दरौणिकृपान वीरान कम्पयन्तॊ महारथान निर्मनुष्यांश च मातङ्गान्विरथांश च महारथान 69 वयश्वारॊहांश च तुरगान पत्तीन वयायुध जीवितान कुर्वन्तम ऋषभस्कन्धं कुरु वृष्णियशः करम 70 विधमन्तम अनीकानि वयथयन्तं महारथान मनुष्यवाजि मातङ्गान परहिण्वन्तं यमक्षयम 71 शरैः सौभद्रम आयस्तं दहन्तम इव वाहिनीम तन मे दहति गात्राणि सखे सत्येन ते शपे 72 यत तत्रापि च दुष्टात्मा कर्णॊ ऽभयद्रुह्यत परभॊ अशक्नुवंश चाभिमन्यॊः कर्णः सथातुं रणे ऽगरतः 73 सौभद्र शरनिर्भिन्नॊ विसंज्ञः शॊणितॊक्षितः निःश्वसन करॊधसंदीप्तॊ विमुखः सायकार्दितः 74 अपयान कृतॊत्साहॊ निराशश चापि जीविते तस्थौ सुविह्वलः संख्ये परहार जनितश्रमः 75 अथ दरॊणस्य समरे तत कालसदृशं तदा शरुत्वा कर्णॊ वचः करूरं ततश चिच्छेद कार्मुकम 76 ततश छिन्नायुधं तेन रणे पञ्च महारथाः स चैव निकृतिप्रज्ञः परावधीच छरवृष्टिभिः 77 यच च कर्णॊ ऽबरवीत कृष्णां सभायां परुषं वचः परमुखे पाण्डवेयानां कुरूणां च नृशंसवत 78 विनष्टाः पाण्डवाः कृष्णे शाश्वतं नरकं गताः पतिम अन्यं पृथुश्रॊणिवृणीष्व मित भाषिणि 79 लेखाभ्रु धृतराष्ट्रस्य दासी भूत्वा निवेशनम परविशाराल पक्ष्माक्षि न सन्ति पतयस तव 80 इत्य उक्तवान अधर्मज्ञस तदा परमदुर्मतिः पापः पापं वचः कर्णः शृण्वतस तव भारत 81 तस्य पापस्य तद वाक्यं सुवर्णविकृताः शराः शमयन्तु शिला धौतास तवयास्ता जीवितच छिदः 82 यानि चान्यानि दुष्टात्मा पापानि कृतवांस तवयि तान्य अद्य जीवितं चास्य शमयन्तु शरास तव 83 गाण्डीवप्रहितान घॊरान अद्य गात्रैः सपृशञ शरान कर्णः समरतु दुष्टात्मा वचनं दरॊण भीष्मयॊः 84 सुवर्णपुङ्खा नाराचाः शत्रुघ्ना वैद्युत परभाः तवयास्तास तस्य मर्माणि भित्त्वा पास्यन्ति शॊणितम 85 उग्रास तवद भुजनिर्मुक्ता मर्म भित्त्वा शिताः शराः अद्य कर्णं महावेगाः परेषयन्तु यमक्षयम 86 अद्य हाहाकृता दीना विषण्णास तवच छरार्दिताः परपतन्तं रथा कर्णं पश्यन्तु वसुधाधिपाः 87 अद्य सवशॊणिते मग्नं शयानं पतितं भुवि अपविद्धायुधं कर्णं पश्यन्तु सुहृदॊ निजाः 88 हस्तिकक्ष्यॊ महान अस्य भल्लेनॊन्मथितस तवया परकम्पमानः पततु भूमाव आधिरथेर धवजः 89 तवया शरशतैश छिन्नं रथं हेमविभूषितम हतयॊधं समुत्सृज्य भीतः शल्यः पलायताम 90 ततः सुयॊधनॊ दृष्ट्वा हतम आधिरथिं तवया निराशॊ जीविते तव अद्य राज्ये चैव धनंजय 91 एते दरवन्ति पाञ्चाला वध्यमानाः शितैः शरैः कर्णेन भरतश्रेष्ठ पाण्डवान उज्जिहीर्षवः 92 पाञ्चालान दरौपदेयांश च धृष्टद्युम्न शिखण्डिनौ धृष्टद्युम्न तनूजांश च शतानीकं च नाकुलिम 93 नकुलं सहदेवं च दुर्मुखं जनमेजयम सुवर्माणं सात्यकिं च विद्धि कर्ण वशंगतान 94 अभ्याहतानां कर्णेन पाञ्चालानां महारणे शरूयते निनदॊ घॊरस तद बन्धूनां परंतप 95 न तव एव भीताः पाञ्चालाः कथं चित सयुः पराङ्मुखाः न हि मृत्युं महेष्वासा गणयन्ति महारथाः 96 य एकः पाण्डवीं सेनां शरौघैः समवेष्टयत तं समासाद्य पाञ्चाला भीष्मं नासान पराङ्मुखाः 97 तथा जवलन्तम अस्त्राग्निं गुरुं सर्वधनुष्मताम निर्दहन्तं समारॊहन दुर्धर्षं दरॊणम ओजसा 98 ते नित्यम उदिता जेतुं युद्धे शत्रून अरिंदमाः न जात्व आधिरथेर भीताः पाञ्चालाः सयुः पराङ्मुखाः 99 तेषाम आपततां शूरः पाञ्चालानां तरस्विनाम आदत्ते ऽसूञ शरैः कर्णः पतंगानाम इवानलः 100 तांस तथाभिमुखान वीरान मित्रार्थे तयक्तजीवितान कषयं नयति राधेयः पाञ्चालाञ शतशॊ रणे 101 अस्त्रं हि रामात कर्णेन भार्गवाद ऋषिसत्तमात यद उपात्तं पुरा घॊरं तस्य रूपम उदीर्यते 102 तापनं सर्वसैन्यानां घॊररूपं सुदारुणम समावृत्य महासेनां जवलति सवेन तेजसा 103 एते चरन्ति संग्रामे कर्ण चापच्युताः शराः भरमराणाम इव वरातास तापयन्तः सम तावकान 104 एते चरन्ति पाञ्चाला दिक्षु सर्वासु भारत कर्णास्त्रं समरे पराप्य दुर्निवारम अनात्मभिः 105 एष भीमॊ दृढक्रॊधॊ वृतः पार्थ समन्ततः सृञ्जयैर यॊधयन कर्णं पीड्यते सम शितैः शरैः 106 पाण्डवान सृञ्जयांश चैव पाञ्चालांश चैव भारत हन्याद उपेक्षितः कर्णॊ रॊगॊ देहम इवाततः 107 नान्यं तवत्तॊ ऽभिपश्यामि यॊधं यौधिष्ठिरे बले यः समासाद्य राधेयं सवस्तिमान आव्रजेद गृहम 108 तम अद्य निशितैर बाणैर निहत्य भरतर्षभ यथाप्रतिज्ञं पार्थ तवं कृत्वा कीर्तिम अवाप्नुहि 109 तवं हि शक्तॊ रणे जेतुं सकर्णान अपि कौरवान नान्यॊ युधि युधां शरेष्ठ सत्यम एतद बरवीमि ते 110 एत कृत्वा महत कर्महत्वा कर्णं महारथम कृतार्थः सफलः पार्थ सुखी भव नरॊत्तम |
1
[s] tataḥ punar ameyātmā keśavo 'rjunam abravīt kṛtasaṃkalpam āyastaṃ vadhe karṇasya sarvaśaḥ 2 adya sapta daśāhāni vartamānasya bhārata vināśasyātighorasya naravāraṇavājinām 3 bhūtvā hi vipulā senā tāvakānāṃ paraiḥ saha anyonyaṃ samare prāpya kiṃ cic cheṣā viśāṃ pate 4 bhūtvā hi kauravyāḥ pārtha prabhūtagajavājinaḥ tvāṃ vai śatruṃ samāsādya vinaṣṭā raṇamūrdhani 5 ete ca sarve pāñcālāḥ sṛñjayāś ca sahānvayāḥ tvāṃ samāsādya durdharṣaṃ pāṇḍavāś ca vyavasthitāḥ 6 pāñcālaiḥ pāṇḍavair matsyaiḥ kārūṣaiś cedikekayaiḥ tvayā guptair amitraghna kṛtaḥ śatrugaṇakṣayaḥ 7 ko hi śakto raṇe jetuṃ kauravāṃs tāta saṃgatān anyatra pāṇḍavān yuddhe tvayā guptān mahārathān 8 tvaṃ hi śakto raṇe jetuṃ sa surāsuramānuṣān trīṁl lokān samam udyuktān kiṃ punaḥ kauravaṃ balam 9 bhagadattaṃ hi rājānaṃ ko 'nyaḥ śaktas tvayā vinā jetuṃ puruṣaśārdūla yo 'pi syād vāsavopamaḥ 10 tathemāṃ vipulāṃ senāṃ guptāṃ pārtha tvayānagha na śekuḥ pārthivāḥ sarve cakṣurbhir abhivīkṣitum 11 tathaiva satataṃ pārtha rakṣitābhyāṃ tvayā raṇe dhṛṣṭadyumna śikhaṇḍibhyāṃ bhīṣmadroṇau nipātitau 12 ko hi śakto raṇe pārtha pāñcālānāṃ mahārathau bhīṣmadroṇau yudhā jetuṃ śakratulyaparākramau 13 ko hi śāṃtanavaṃ saṃkhye droṇaṃ vaikartanaṃ kṛpam drauṇiṃ ca saumadattiṃ ca kṛtavarmāṇam eva ca saundhavaṃ madrarājaṃ ca rājānaṃ ca suyodhanam 14 vīrān kṛtāstrān samare sarvān evānuvartinaḥ akṣauhiṇīpatīn ugrān saṃrabdhān yuddhadurmadān 15 śreṇyaś ca bahulāḥ kṣīṇāḥ pradīrṇāśvarathadvipāḥ nānājanapadāś cogrāḥ kṣatriyāṇām amarṣiṇām 16 govāsa dāsam īyānāṃ vasātīnāṃ ca bhārata vrātyānāṃ vāṭadhānānāṃ bhojānāṃ cāpi māninām 17 udīrṇāś ca mahāsenā brahmakṣatrasya bhārata tvāṃ samāsādya nidhanaṃ gatāḥ sāśvarathadvipāḥ 18 ugrāś ca krūrakarmāṇas tukhārā yavanāḥ khaśāḥ dārvābhisārā daradāḥ śakā ramaṭha taṅgaṇāḥ 19 andhrakāś ca pulindāś ca kirātāś cogravikramāḥ mlecchāś ca pārvatīyāś ca sāgarānūpavāsinaḥ saṃrambhiṇo yuddhaśauṇḍā balino dṛbdha pāṇayaḥ 20 ete suyodhanasyārthe saṃrabdhāḥ kurubhiḥ saha na śakyā yudhi nirjetuṃ tvadanyena paraṃtapa 21 dhārtarāṣṭram udagraṃ hi vyūḍhaṃ dṛṣṭvā mahābalam yasya tvaṃ na bhaves trātā pratīyāt ko nu mānavaḥ 22 tat sāgaram ivoddhūtaṃ rajasā saṃvṛtaṃ balam vidārya pāṇḍavaiḥ kruddhais tvayā guptair hataṃ vibho 23 māgadhānām adhipatir jayatseno mahābalaḥ adya saptaiva cāhāni hataḥ saṃkhye 'bhimanyunā 24 tado daśasahasrāṇi gajānāṃ bhīmakarmaṇām jaghāna gadayā bhīmas tasya rājñaḥ paricchadam tato 'nye 'pi hatā nāgā rathāś ca śataśo balāt 25 tad evaṃ samare tāta vartamāne mahābhaye bhīmasenaṃ samāsādya tvāṃ ca pāṇḍava kauravāḥ savājirathanāgāś ca mṛtyulokam ito gatāḥ 26 tathā senāmukhe tatra nihate pārtha pāḍavaiḥ bhīṣmaḥ prāsṛjad ugrāṇi śaravarṣāṇi māriṣa 27 sa cedikāśipāñcālān karūṣān matsyakekayān śaraiḥ pracchādya nidhanam anayat paruṣāstravit 28 tasya cāpacyutair bāṇaiḥ paradehavidāraṇaiḥ pūrṇam ākāśam abhavad rukmapuṅkharajihmagaiḥ 29 gatyā daśamyā te gatvā jaghnur vājirathadvipān hitvā nava gatīr duṣṭāḥ sa bāṇān vyāyato 'mucat 30 dināni daśa bhīṣmeṇa nighnatā tāvakaṃ balam śūnyāḥ kṛtā rathopasthā hatāś ca gajavājinaḥ 31 darśayitvātmano rūpaṃ rudropendra samaṃ yudhi pāṇḍavānām anīkāni pravigāhya vyaśātayat 32 vinighnan pṛthivīpālāṃś cedipāñcālakekayān vyadahat pāṇḍavīṃ mandam ujjihīrṣuḥ suyodhanam 33 tathā carantaṃ samare tapantam iva bhāskaram na śekuḥ sṛñjayā draṣṭuṃ tathaivānye mahīkṣitaḥ 34 vicarantaṃ tathā taṃ tu saṃgrāme jitakāśinam savād yogena sahasā pāṇḍavā samupādravan 35 sa tu vidrāvya samare pāṇḍavān sṛñjayān api eka eva raṇe bhīṣma eka vīratvam āgataḥ 36 taṃ śikhaṇḍī samāsādya tvayā gupto mahāratham jaghāna puruṣavyāghraṃ śaraiḥ saṃnataparvabhiḥ 37 sa eṣa patitaḥ śete śaratalpe pitāmahaḥ tvāṃ prāpya puruṣavyāghra gṛdhraḥ prāpyeva vāyasam 38 droṇaḥ pañca dināny ugro vidhamya ripuvāhinīḥ kṛtvā vyūhaṃ mahāyuddhe pātayitvā mahārathān 39 jayadrathasya samare kṛtvā rakṣāṃ mahārathaḥ antakapratimaś cogrāṃ rātriṃ yuddhvādahat prajāḥ 40 adyeti dve dine vīro bhāradvājaḥ pratāpavān dhṛṣṭadyumnaṃ samāsādya sa gataḥ paramāṃ gatim 41 yadi caiva parāny yuddhe sūtaputra mukhān rathān nāvārayiṣyaḥ saṃgrāme na sma droṇo vyanaṅkṣyata 42 bhavatā tu balaṃ sarvaṃ dhārtarāṣṭrasya vāritam tato droṇo hato yuddhe pārṣatena dhanaṃjaya 43 ka ivānyo raṇe kuryāt tvadanyaḥ kṣatriyo yudhi yādṛśaṃ te kṛtaṃ pārtha jayadrathavadhaṃ prati 44 nivārya senāṃ mahatīṃ hatvā śūrāṃś ca pārthivān nihataḥ saindhavo rājā tvayāstra balatejasā 45 āścaryaṃ sindhurājasya vadhaṃ jānanti pārthivāḥ anāścaryaṃ hi tat tvattas tvaṃ hi pārtha mahārathaḥ 46 tvāṃ hi prāpya raṇe kṣatram ekāhād iti bhārata tapyamānam asaṃyuktaṃ na bhaved iti me matiḥ 47 seyaṃ pārtha camūr ghorā dhārtarāṣṭrasya saṃyuge hatā sasarva vīrā hi bhīṣmadroṇau yadā hatau 48 śīrṇapravara yodhā adya hatavāji naradvipā hīnā sūryendu nakṣatrair dyaur ivābhāti bhāratī 49 vidhvastā hi raṇe pārtha seneyaṃ bhīmavikramāt āsurīva purā senā śakrasyeva parākramaiḥ 50 teṣāṃ hatāvaśiṣṭās tu pañca santi mahārathāḥ aśvatthāmā kṛtavarmā karṇo madrādhipaḥ kṛpaḥ 51 tāṃs tvam adya naravyāghra hatvā pañca mahārathān hatāmitraḥ prayacchorvīṃ rājñaḥ sadvīpa pattanām 52 sākāśa jalapātālāṃ saparvatamahāvanām prāpnotv amitavīryaśrīr adya pārtho vasuṃdharām 53 etāṃ purā viṣṇur iva hatvā daiteya dānavān prayaccha medinīṃ rājñe śakrāyeva yathā hariḥ 54 adya modantu pāñcālā nihateṣv ariṣu tvayā viṣṇunā nihateṣv eva dānaveyeṣu devatāḥ 55 yadi vā dvipadāṃ śreṣṭha droṇaṃ mānayato gurum aśvatthāmni kṛpā te 'sti kṛpe cācārya gauravāt 56 atyantopacitān vā tvaṃ mānayan bhrātṛbāndhavān kṛtavarmāṇam āsādya na neṣyāmi yamakṣayam 57 bhrātaraṃ mātur āsādya śalyaṃ madrajanādhipam yadi tvam aravindākṣa dayāvān na jighāṃsasi 58 imaṃ pāpamatiṃ kṣudram atyantaṃ pāṇḍavān prati karṇam adya naraśreṣṭha jahy āśu niśitaiḥ śaraiḥ 59 etat te sukṛtaṃ karma nātra kiṃ cin na yujyate vayam apy atra jānīmo nātra doṣo 'sti kaś cana 60 dahane yat saputrāyā niśi mātus tavānagha dyūtārthe yac ca yuṣmāsu prāvartata suyodhanaḥ tatra sarvatra duṣṭātmā karṇo mūlam ihārjuna 61 karṇād dhi manyate trāṇaṃ nityam eva suyodhanaḥ tato mām api saṃrabdho nigrahītuṃ pracakrame 62 sthirā buddhir narendrasya dhārtarāṣṭrasya mānada karṇaḥ pārthān raṇe sarvān vijeṣyati na saṃśayaḥ 63 karṇam āśritya kaunteya dhārtarāṣṭreṇa vigrahaḥ rocito bhavatā sārdhaṃ jānatāpi balaṃ tava 64 karṇo hi bhāṣate nityam ahaṃ pārthān samāgatān vāsudevaṃ sarājānaṃ vijeṣyāmi mahāraṇe 65 protsāhayan durātmānaṃ dhārtarāṣṭraṃ sudurmatiḥ samatau garjate karṇas tam adya jahi bhārata 66 yac ca yuṣmāsu pāpaṃ vai dhārtarāṣṭraḥ prayuktavān tatra sarvatra duṣṭātmā karṇaḥ pāpamatir mukham 67 yac ca tad dhārtarāṣṭrāṇāṃ krūraiḥ ṣaḍbhir mahārathaiḥ apaśyaṃ nihataṃ vīraṃ saubhadram ṛṣabhekṣaṇam 68 droṇa drauṇikṛpān vīrān kampayanto mahārathān nirmanuṣyāṃś ca mātaṅgānvirathāṃś ca mahārathān 69 vyaśvārohāṃś ca turagān pattīn vyāyudha jīvitān kurvantam ṛṣabhaskandhaṃ kuru vṛṣṇiyaśaḥ karam 70 vidhamantam anīkāni vyathayantaṃ mahārathān manuṣyavāji mātaṅgān prahiṇvantaṃ yamakṣayam 71 śaraiḥ saubhadram āyastaṃ dahantam iva vāhinīm tan me dahati gātrāṇi sakhe satyena te śape 72 yat tatrāpi ca duṣṭātmā karṇo 'bhyadruhyata prabho aśaknuvaṃś cābhimanyoḥ karṇaḥ sthātuṃ raṇe 'grataḥ 73 saubhadra śaranirbhinno visaṃjñaḥ śoṇitokṣitaḥ niḥśvasan krodhasaṃdīpto vimukhaḥ sāyakārditaḥ 74 apayāna kṛtotsāho nirāśaś cāpi jīvite tasthau suvihvalaḥ saṃkhye prahāra janitaśramaḥ 75 atha droṇasya samare tat kālasadṛśaṃ tadā śrutvā karṇo vacaḥ krūraṃ tataś ciccheda kārmukam 76 tataś chinnāyudhaṃ tena raṇe pañca mahārathāḥ sa caiva nikṛtiprajñaḥ prāvadhīc charavṛṣṭibhiḥ 77 yac ca karṇo 'bravīt kṛṣṇāṃ sabhāyāṃ paruṣaṃ vacaḥ pramukhe pāṇḍaveyānāṃ kurūṇāṃ ca nṛśaṃsavat 78 vinaṣṭāḥ pāṇḍavāḥ kṛṣṇe śāśvataṃ narakaṃ gatāḥ patim anyaṃ pṛthuśroṇivṛṇīṣva mita bhāṣiṇi 79 lekhābhru dhṛtarāṣṭrasya dāsī bhūtvā niveśanam praviśārāla pakṣmākṣi na santi patayas tava 80 ity uktavān adharmajñas tadā paramadurmatiḥ pāpaḥ pāpaṃ vacaḥ karṇaḥ śṛṇvatas tava bhārata 81 tasya pāpasya tad vākyaṃ suvarṇavikṛtāḥ śarāḥ śamayantu śilā dhautās tvayāstā jīvitac chidaḥ 82 yāni cānyāni duṣṭātmā pāpāni kṛtavāṃs tvayi tāny adya jīvitaṃ cāsya śamayantu śarās tava 83 gāṇḍīvaprahitān ghorān adya gātraiḥ spṛśañ śarān karṇaḥ smaratu duṣṭātmā vacanaṃ droṇa bhīṣmayoḥ 84 suvarṇapuṅkhā nārācāḥ śatrughnā vaidyuta prabhāḥ tvayāstās tasya marmāṇi bhittvā pāsyanti śoṇitam 85 ugrās tvad bhujanirmuktā marma bhittvā śitāḥ śarāḥ adya karṇaṃ mahāvegāḥ preṣayantu yamakṣayam 86 adya hāhākṛtā dīnā viṣaṇṇās tvac charārditāḥ prapatantaṃ rathā karṇaṃ paśyantu vasudhādhipāḥ 87 adya svaśoṇite magnaṃ śayānaṃ patitaṃ bhuvi apaviddhāyudhaṃ karṇaṃ paśyantu suhṛdo nijāḥ 88 hastikakṣyo mahān asya bhallenonmathitas tvayā prakampamānaḥ patatu bhūmāv ādhirather dhvajaḥ 89 tvayā śaraśataiś chinnaṃ rathaṃ hemavibhūṣitam hatayodhaṃ samutsṛjya bhītaḥ śalyaḥ palāyatām 90 tataḥ suyodhano dṛṣṭvā hatam ādhirathiṃ tvayā nirāśo jīvite tv adya rājye caiva dhanaṃjaya 91 ete dravanti pāñcālā vadhyamānāḥ śitaiḥ śaraiḥ karṇena bharataśreṣṭha pāṇḍavān ujjihīrṣavaḥ 92 pāñcālān draupadeyāṃś ca dhṛṣṭadyumna śikhaṇḍinau dhṛṣṭadyumna tanūjāṃś ca śatānīkaṃ ca nākulim 93 nakulaṃ sahadevaṃ ca durmukhaṃ janamejayam suvarmāṇaṃ sātyakiṃ ca viddhi karṇa vaśaṃgatān 94 abhyāhatānāṃ karṇena pāñcālānāṃ mahāraṇe śrūyate ninado ghoras tad bandhūnāṃ paraṃtapa 95 na tv eva bhītāḥ pāñcālāḥ kathaṃ cit syuḥ parāṅmukhāḥ na hi mṛtyuṃ maheṣvāsā gaṇayanti mahārathāḥ 96 ya ekaḥ pāṇḍavīṃ senāṃ śaraughaiḥ samaveṣṭayat taṃ samāsādya pāñcālā bhīṣmaṃ nāsān parāṅmukhāḥ 97 tathā jvalantam astrāgniṃ guruṃ sarvadhanuṣmatām nirdahantaṃ samārohan durdharṣaṃ droṇam ojasā 98 te nityam uditā jetuṃ yuddhe śatrūn ariṃdamāḥ na jātv ādhirather bhītāḥ pāñcālāḥ syuḥ parāṅmukhāḥ 99 teṣām āpatatāṃ śūraḥ pāñcālānāṃ tarasvinām ādatte 'sūñ śaraiḥ karṇaḥ pataṃgānām ivānalaḥ 100 tāṃs tathābhimukhān vīrān mitrārthe tyaktajīvitān kṣayaṃ nayati rādheyaḥ pāñcālāñ śataśo raṇe 101 astraṃ hi rāmāt karṇena bhārgavād ṛṣisattamāt yad upāttaṃ purā ghoraṃ tasya rūpam udīryate 102 tāpanaṃ sarvasainyānāṃ ghorarūpaṃ sudāruṇam samāvṛtya mahāsenāṃ jvalati svena tejasā 103 ete caranti saṃgrāme karṇa cāpacyutāḥ śarāḥ bhramarāṇām iva vrātās tāpayantaḥ sma tāvakān 104 ete caranti pāñcālā dikṣu sarvāsu bhārata karṇāstraṃ samare prāpya durnivāram anātmabhiḥ 105 eṣa bhīmo dṛḍhakrodho vṛtaḥ pārtha samantataḥ sṛñjayair yodhayan karṇaṃ pīḍyate sma śitaiḥ śaraiḥ 106 pāṇḍavān sṛñjayāṃś caiva pāñcālāṃś caiva bhārata hanyād upekṣitaḥ karṇo rogo deham ivātataḥ 107 nānyaṃ tvatto 'bhipaśyāmi yodhaṃ yaudhiṣṭhire bale yaḥ samāsādya rādheyaṃ svastimān āvrajed gṛham 108 tam adya niśitair bāṇair nihatya bharatarṣabha yathāpratijñaṃ pārtha tvaṃ kṛtvā kīrtim avāpnuhi 109 tvaṃ hi śakto raṇe jetuṃ sakarṇān api kauravān nānyo yudhi yudhāṃ śreṣṭha satyam etad bravīmi te 110 eta kṛtvā mahat karmahatvā karṇaṃ mahāratham kṛtārthaḥ saphalaḥ pārtha sukhī bhava narottama |
The Mahabharata in Sanskrit
Book 8
Chapter 52
|
1
[स] स केशवस्या बीभत्सुः शरुत्वा भारत भाषितम विशॊकः संप्रहृष्टश च कषणेन समपद्यत 2 ततॊ जयाम अनुमृज्याशु वयाक्षिपद गाण्डिवं धनुः दध्रे कर्ण विनाशाय केशवं चाभ्यभाषत 3 तवया नाथेन गॊविन्द धरुव एष जयॊ मम परसन्नॊ यस्य मे ऽदय तवं भूतभव्य भवत परभुः 4 तवत्सहायॊ हय अहं कृष्ण तरीँल लॊकान वै समागतान परापयेयं परं लॊकं किम उ कर्णं महारणे 5 पश्यामि दरवतीं सेनां पाञ्चालानां जनार्दन पश्यामि कर्णं समरे विचरन्तम अभीतवत 6 भार्गवास्त्रं च पश्यामि विचरन्तं समन्ततः सृष्टं कर्णेन वार्ष्णेय शक्रेणेव महाशनिम 7 अयं खलु स संग्रामॊ यत्र कृष्ण मया कृतम कथयिष्यन्ति भूतानि यावद भूमिर धरिष्यति 8 अद्य कृष्ण विकर्णा मे कर्णं नेष्यन्ति मृत्यवे गाण्डीवमुक्ताः कषिण्वन्तॊ मम हस्तप्रचॊदिताः 9 अद्य राजा धृतराष्ट्रः सवां बुद्धिम अवमंस्यते दुर्यॊधनम अराज्यार्हं यया राज्ये ऽभिषेचयत 10 अद्य राज्यात सुखाच चैव शरियॊ राष्ट्रात तथा पुरात पुत्रेभ्यश च महाबाहॊ धृतराष्ट्रॊ वियॊक्ष्यते 11 अद्य दुर्यॊधनॊ राजा जीविताच च निराशकः भविष्यति हते कर्णे कृष्ण सत्यं बरवीमि ते 12 अद्य दृष्ट्वा मया कर्णं शरैर विशकलीकृतम समरतां तव वाक्यानि शमं परति जनेश्वरः 13 अद्यासौ सौबलः कृष्ण गलहं जानातु वै शरान दुरॊदरं च गाण्डीवं मण्डलं च रथं मम 14 यॊ ऽसौ रणे नरं नान्यं पृथिव्याम अभिमन्यते तस्याद्य सूतपुत्रस्य भूमिः पास्यति शॊणितम गाण्डीवसृष्टा दास्यन्ति कर्णस्य परमां गतिम 15 अद्य तप्स्यति राधेयः पाञ्चालीं यत तदाब्रवीत सभामध्ये वचः करूरं कुत्सयन पाण्डवान परति 16 ये वै षण्ढतिलास तत्र भवितारॊ ऽदय ते तिलाः हते वैकर्तने कर्णे सूतपुत्रे दुरात्मनि 17 अहं वः पाण्डुपुत्रेभ्यस तरास्यामीति यद अब्रवीत अनृतं तत करिष्यन्ति मामका निशिताः शराः 18 हन्ताहं पाण्डवान सर्वान सपुत्रान इति यॊ ऽबरवीत तम अद्य कर्णं हन्तास्मि मिषतां सर्वधन्विनाम 19 यस्य वीर्ये समाश्वस्य धार्तराष्ट्रॊ बृहन मनाः अवामन्यत दुर्बुद्धिर नित्यम अस्मान दुरात्मवान तम अद्य कर्णं राधेयं हन्तास्मि मधुसूदन 20 अद्य कर्णे हते कृष्ण धार्तराष्ट्राः सराजकाः विद्रवन्तु दिशॊ भीताः सिंहत्रस्ता मृगा इव 21 अद्य दुर्यॊधनॊ राजा पृथिवीम अन्ववेक्षताम हते कर्णे मया संख्ये सपुत्रे ससुहृज्जने 22 अद्य कर्णं हतं दृष्ट्वा धार्तराष्ट्रॊ ऽतयमर्षणः जानातु मां रणे कृष्ण परवरं सर्वधन्विनाम 23 अद्याहम अनृणः कृष्ण भविष्यामिधनुर भृताम करॊधस्य च कुरूणां च शराणां गाण्डिवस्य च 24 अद्य दुःखम अहं मॊक्ष्ये तरयॊदश समार्जितम हत्वा कर्णं रणे कृष्ण शम्बरं मघवान इव 25 अद्य कर्णे हते युद्धे सॊमकानां महारथाः कृतं कार्यं च मन्यन्तां मित्रकार्येप्सवॊ युधि 26 न जाने च कथं परीतिः शैनेयस्याद्य माधव भविष्यान्ति हते कर्णे मयि चापि जयाधिके 27 अहं हत्वा रणे कर्णं पुत्रं चास्य महारथम परीतिं दास्यामि भीमस्य यमयॊः सात्यकेर अपि 28 धृष्टद्युम्न शिखण्डिभ्यां पाञ्चालानां च माधव अध्यानृण्यं गमिष्यामि हत्वा कर्णं महारणे 29 अद्य पश्यन्तु संग्रामे धनंजयम अमर्षणम युध्यन्तं कौरवान संख्ये पातयन्तं च सूतजम भवत सकाशे वक्ष्ये च पुनर एवात्म संस्तवम 30 धनुर्वेदे मत्समॊ नास्ति लॊके; पराक्रमे वा मम कॊ ऽसति तुल्यः कॊ वाप्य अन्यॊ मत्समॊ ऽसति कषमायां; तथा करॊधे सदृशॊ ऽनयॊ न मे ऽसति 31 अहं धनुष्मान असुरान सुरांश च; सर्वाणि भूतानि च संगतानि सवबाहुवीर्याद गमये पराभवं; मत्पौरुषं विद्धि परः परेभ्यः 32 शरार्चिषा गाण्डिवेनाहम एकः; सर्वान कुरून बाह्लिकांश चाभिपत्य हिमात्यये कक्षगतॊ यथाग्निस; तहा दहेयं सगणान परसह्य 33 पाणौ पृषत्का लिखिता ममैते; धनुश च सव्ये निहितं सबाणम पादौ च मे सरथौ सध्वजौ च; न मादृशं युद्धगतं जयन्ति |
1
[s] sa keśavasyā bībhatsuḥ śrutvā bhārata bhāṣitam viśokaḥ saṃprahṛṣṭaś ca kṣaṇena samapadyata 2 tato jyām anumṛjyāśu vyākṣipad gāṇḍivaṃ dhanuḥ dadhre karṇa vināśāya keśavaṃ cābhyabhāṣata 3 tvayā nāthena govinda dhruva eṣa jayo mama prasanno yasya me 'dya tvaṃ bhūtabhavya bhavat prabhuḥ 4 tvatsahāyo hy ahaṃ kṛṣṇa trīṁl lokān vai samāgatān prāpayeyaṃ paraṃ lokaṃ kim u karṇaṃ mahāraṇe 5 paśyāmi dravatīṃ senāṃ pāñcālānāṃ janārdana paśyāmi karṇaṃ samare vicarantam abhītavat 6 bhārgavāstraṃ ca paśyāmi vicarantaṃ samantataḥ sṛṣṭaṃ karṇena vārṣṇeya śakreṇeva mahāśanim 7 ayaṃ khalu sa saṃgrāmo yatra kṛṣṇa mayā kṛtam kathayiṣyanti bhūtāni yāvad bhūmir dhariṣyati 8 adya kṛṣṇa vikarṇā me karṇaṃ neṣyanti mṛtyave gāṇḍīvamuktāḥ kṣiṇvanto mama hastapracoditāḥ 9 adya rājā dhṛtarāṣṭraḥ svāṃ buddhim avamaṃsyate duryodhanam arājyārhaṃ yayā rājye 'bhiṣecayat 10 adya rājyāt sukhāc caiva śriyo rāṣṭrāt tathā purāt putrebhyaś ca mahābāho dhṛtarāṣṭro viyokṣyate 11 adya duryodhano rājā jīvitāc ca nirāśakaḥ bhaviṣyati hate karṇe kṛṣṇa satyaṃ bravīmi te 12 adya dṛṣṭvā mayā karṇaṃ śarair viśakalīkṛtam smaratāṃ tava vākyāni śamaṃ prati janeśvaraḥ 13 adyāsau saubalaḥ kṛṣṇa glahaṃ jānātu vai śarān durodaraṃ ca gāṇḍīvaṃ maṇḍalaṃ ca rathaṃ mama 14 yo 'sau raṇe naraṃ nānyaṃ pṛthivyām abhimanyate tasyādya sūtaputrasya bhūmiḥ pāsyati śoṇitam gāṇḍīvasṛṣṭā dāsyanti karṇasya paramāṃ gatim 15 adya tapsyati rādheyaḥ pāñcālīṃ yat tadābravīt sabhāmadhye vacaḥ krūraṃ kutsayan pāṇḍavān prati 16 ye vai ṣaṇḍhatilās tatra bhavitāro 'dya te tilāḥ hate vaikartane karṇe sūtaputre durātmani 17 ahaṃ vaḥ pāṇḍuputrebhyas trāsyāmīti yad abravīt anṛtaṃ tat kariṣyanti māmakā niśitāḥ śarāḥ 18 hantāhaṃ pāṇḍavān sarvān saputrān iti yo 'bravīt tam adya karṇaṃ hantāsmi miṣatāṃ sarvadhanvinām 19 yasya vīrye samāśvasya dhārtarāṣṭro bṛhan manāḥ avāmanyata durbuddhir nityam asmān durātmavān tam adya karṇaṃ rādheyaṃ hantāsmi madhusūdana 20 adya karṇe hate kṛṣṇa dhārtarāṣṭrāḥ sarājakāḥ vidravantu diśo bhītāḥ siṃhatrastā mṛgā iva 21 adya duryodhano rājā pṛthivīm anvavekṣatām hate karṇe mayā saṃkhye saputre sasuhṛjjane 22 adya karṇaṃ hataṃ dṛṣṭvā dhārtarāṣṭro 'tyamarṣaṇaḥ jānātu māṃ raṇe kṛṣṇa pravaraṃ sarvadhanvinām 23 adyāham anṛṇaḥ kṛṣṇa bhaviṣyāmidhanur bhṛtām krodhasya ca kurūṇāṃ ca śarāṇāṃ gāṇḍivasya ca 24 adya duḥkham ahaṃ mokṣye trayodaśa samārjitam hatvā karṇaṃ raṇe kṛṣṇa śambaraṃ maghavān iva 25 adya karṇe hate yuddhe somakānāṃ mahārathāḥ kṛtaṃ kāryaṃ ca manyantāṃ mitrakāryepsavo yudhi 26 na jāne ca kathaṃ prītiḥ śaineyasyādya mādhava bhaviṣyānti hate karṇe mayi cāpi jayādhike 27 ahaṃ hatvā raṇe karṇaṃ putraṃ cāsya mahāratham prītiṃ dāsyāmi bhīmasya yamayoḥ sātyaker api 28 dhṛṣṭadyumna śikhaṇḍibhyāṃ pāñcālānāṃ ca mādhava adhyānṛṇyaṃ gamiṣyāmi hatvā karṇaṃ mahāraṇe 29 adya paśyantu saṃgrāme dhanaṃjayam amarṣaṇam yudhyantaṃ kauravān saṃkhye pātayantaṃ ca sūtajam bhavat sakāśe vakṣye ca punar evātma saṃstavam 30 dhanurvede matsamo nāsti loke; parākrame vā mama ko 'sti tulyaḥ ko vāpy anyo matsamo 'sti kṣamāyāṃ; tathā krodhe sadṛśo 'nyo na me 'sti 31 ahaṃ dhanuṣmān asurān surāṃś ca; sarvāṇi bhūtāni ca saṃgatāni svabāhuvīryād gamaye parābhavaṃ; matpauruṣaṃ viddhi paraḥ parebhyaḥ 32 śarārciṣā gāṇḍivenāham ekaḥ; sarvān kurūn bāhlikāṃś cābhipatya himātyaye kakṣagato yathāgnis; tahā daheyaṃ sagaṇān prasahya 33 pāṇau pṛṣatkā likhitā mamaite; dhanuś ca savye nihitaṃ sabāṇam pādau ca me sarathau sadhvajau ca; na mādṛśaṃ yuddhagataṃ jayanti |
The Mahabharata in Sanskrit
Book 8
Chapter 53
|
1
[स] तेषाम अनीकानि बृहद धवजानि; रणे समृद्धानि समागतानि गर्जन्ति भेरी निनदॊन्मुखानि; मेघैर यथा मेघगणास तपान्ते 2 महागजाभ्राकुलम अस्त्रतॊयं; वादित्रनेमी तलशब्दवच च हिरण्यचित्रायुध वैद्युतं च; महारथैर आवृतशब्दवच च 3 तद भीमवेगं रुधिरौघवाहि; खड्गाकुलं कषत्रिय जीव वाहि अनार्तवं करूरम अनिष्ट वर्षं; बभूव तत संहरणं परजानाम 4 रथान ससूतान सहयान गजांश च; सर्वान अरीन मृत्युवशं शरौघैः निन्ये हयांश चैव तथा ससादीन; पदातिसंघांश च तथैव पार्थः 5 कृपः शिखण्डी च रणे समेतौ; दुर्यॊधनं सात्यकिर अभ्यगच्छत शरुतश्रवा दरॊणसुतेन सार्धं; युधामन्युश चित्रसेनेन चापि 6 कर्णस्य पुत्रस तु रथी सुषेणं; समागतः सृञ्जयांश चॊत्तमौजाः गान्धारराजं सहदेवः कषुधार्तॊ; महर्षभं सिंह इवाभ्यधावत 7 शतानीकॊ नाकुलिः कर्ण पुत्रं; युवा युवानं वृषसेनं शरौघैः समार्दयत कर्णसुतश च वीरः; पाञ्चालेयं शरवर्षैर अनेकैः 8 रथर्षभः कृतवर्माणम आर्च्छन; माद्रीपुत्रॊ नकुलश चित्रयॊधी पाञ्चालानाम अधिपॊ याज्ञसेनिः; सेनापतिं कर्णम आर्च्छत ससैन्यम 9 दुःशासनॊ भारत भारती च; संशप्तकानां पृतना समृद्धा भीमं रणे शस्त्रभृतां वरिष्ठं; तदा समार्च्छत तम असह्य वेगम 10 कर्णात्मजं तत्र जघान शूरस; तथाछिन्नच चॊत्तमौजाः परसह्य तस्यॊत्तमाङ्गं निपपात भूमौ; जञिनादयद गां निनदेन खं च 11 सुषेण शीर्षं पतितं पृथिव्यां; विलॊक्य कर्णॊ ऽथ तदार्तरूपः करॊधाद धयांस तस्य रथं धवजं च; बाणैः सुधारैर निशितैर नयकृन्तत 12 स तूत्तमौजा निशितैः पृषत्कैर; विव्याध खड्गेन च भास्वरेण पार्ष्णिं हयांश चैव कृपस्य हत्वा; शिखण्डिवाहं स ततॊ ऽभयरॊहत 13 कृपं तु दृष्ट्वा विरथं रथस्थॊ; नैच्छच छरैस ताडयितुं शिखण्डी तं दरौणिर आवार्य रथं कृपं सम; समुज्जह्रे पङ्कगतां यथा गाम 14 हिरण्यवर्मा निशितैः पृषत्कैस; तवात्मजानाम अनिलात्मजॊ वै अतापयत सैन्यम अतीव भीमः; काले शुचौ मध्यगतॊ यथार्कः |
1
[s] teṣām anīkāni bṛhad dhvajāni; raṇe samṛddhāni samāgatāni garjanti bherī ninadonmukhāni; meghair yathā meghagaṇās tapānte 2 mahāgajābhrākulam astratoyaṃ; vāditranemī talaśabdavac ca hiraṇyacitrāyudha vaidyutaṃ ca; mahārathair āvṛtaśabdavac ca 3 tad bhīmavegaṃ rudhiraughavāhi; khaḍgākulaṃ kṣatriya jīva vāhi anārtavaṃ krūram aniṣṭa varṣaṃ; babhūva tat saṃharaṇaṃ prajānām 4 rathān sasūtān sahayān gajāṃś ca; sarvān arīn mṛtyuvaśaṃ śaraughaiḥ ninye hayāṃś caiva tathā sasādīn; padātisaṃghāṃś ca tathaiva pārthaḥ 5 kṛpaḥ śikhaṇḍī ca raṇe sametau; duryodhanaṃ sātyakir abhyagacchata śrutaśravā droṇasutena sārdhaṃ; yudhāmanyuś citrasenena cāpi 6 karṇasya putras tu rathī suṣeṇaṃ; samāgataḥ sṛñjayāṃś cottamaujāḥ gāndhārarājaṃ sahadevaḥ kṣudhārto; maharṣabhaṃ siṃha ivābhyadhāvat 7 śatānīko nākuliḥ karṇa putraṃ; yuvā yuvānaṃ vṛṣasenaṃ śaraughaiḥ samārdayat karṇasutaś ca vīraḥ; pāñcāleyaṃ śaravarṣair anekaiḥ 8 ratharṣabhaḥ kṛtavarmāṇam ārcchan; mādrīputro nakulaś citrayodhī pāñcālānām adhipo yājñaseniḥ; senāpatiṃ karṇam ārcchat sasainyam 9 duḥśāsano bhārata bhāratī ca; saṃśaptakānāṃ pṛtanā samṛddhā bhīmaṃ raṇe śastrabhṛtāṃ variṣṭhaṃ; tadā samārcchat tam asahya vegam 10 karṇātmajaṃ tatra jaghāna śūras; tathāchinnac cottamaujāḥ prasahya tasyottamāṅgaṃ nipapāta bhūmau; jñinādayad gāṃ ninadena khaṃ ca 11 suṣeṇa śīrṣaṃ patitaṃ pṛthivyāṃ; vilokya karṇo 'tha tadārtarūpaḥ krodhād dhayāṃs tasya rathaṃ dhvajaṃ ca; bāṇaiḥ sudhārair niśitair nyakṛntat 12 sa tūttamaujā niśitaiḥ pṛṣatkair; vivyādha khaḍgena ca bhāsvareṇa pārṣṇiṃ hayāṃś caiva kṛpasya hatvā; śikhaṇḍivāhaṃ sa tato 'bhyarohat 13 kṛpaṃ tu dṛṣṭvā virathaṃ rathastho; naicchac charais tāḍayituṃ śikhaṇḍī taṃ drauṇir āvārya rathaṃ kṛpaṃ sma; samujjahre paṅkagatāṃ yathā gām 14 hiraṇyavarmā niśitaiḥ pṛṣatkais; tavātmajānām anilātmajo vai atāpayat sainyam atīva bhīmaḥ; kāle śucau madhyagato yathārkaḥ |
The Mahabharata in Sanskrit
Book 8
Chapter 54
|
1
[स] अथ तव इदानीं तुमुले विमर्दे; दविषद्भिर एकॊ बहुभिः समावृतः महाभये सारथिम इत्य उवाच; भीमश चमूं वारयन धार्तराष्ट्रीम तवं सारथे याहि जवेन वाहैर; नयाम्य एतान धार्तराष्ट्रान यमाय 2 संचॊदितॊ भीमसेनेन चैवं; स सारथिः पुत्रबलं तवदीयम परायात ततः सारथिर उग्रवेगॊ; यतॊ भीमस तद बलं गन्तुम ऐच्छत 3 ततॊ ऽपरे नागरथाश्वपत्तिभिः; परत्युद्ययुः कुरवस तं समन्तात भीमस्य वाहाग्र्यम उदारवेगं; समन्ततॊ बाणगणैर निजघ्नुः 4 ततः शरान आपततॊ महात्मा; चिच्छेद बाणैर तपनीयपुङ्खैः ते वै निपेतुस तपनीयपुङ्खा; दविधा तरिधा भीम शरैर निकृत्ताः 5 ततॊ राजन नार रथाश्वयूनां; भीमाहतानां तव राजमध्ये घॊरॊ निनादः परबभौ नरेन्द्र; वज्राहतानाम इव पर्वतानाम 6 ते वध्यमानाश च नरेन्द्रमुख्या; निर्भिन्ना वै भीमसेनप्रवेकैः भीमं समन्तात समरे ऽधयरॊहन; वृक्षं शकुन्ता इव पुष्पहेतॊः 7 ततॊ ऽभिपातं तव सैन्यमध्ये; परादुश्चक्रे वेगम इवात्त वेगः यथान्त काले कषपयन दिधक्षुर; भूतान्त कृत काल इवात्त दण्डः 8 तस्यातिवेगस्य रणे ऽतिवेगं; नाशक्नुवन धारयितुं तवदीयाः वयात्ताननस्यापततॊ यथैव; कालस्य काले हरतः परजा वै 9 ततॊ बलं भारत भारतानां; परदह्यमानं समरे महात्मन भीतं दिशॊ ऽकीर्यत भीम नुन्नं; महानिलेनाभ्र गणॊ यथैव 10 ततॊ धीमान सारथिम अब्रवीद बली; स भीमसेनः पुनर एव हृष्टः सूताभिजानीहि परान सवकान वा; रथान धवजांश चापततः समेतान युध्यन्न अहं नाभिजानामि किं चिन; मा सैन्यं सवं छादयिष्ये पृषत्कैः 11 अरीन विशॊकाभिनिरीक्ष्य सर्वतॊ; मनस तु चिन्ता परदुनॊति मे भृशम राजातुरॊ नागम अद्यत किरीटी; बहून दुःखान्य अभिजातॊ ऽसमि सूत 12 एतद दुःखं सारथे धर्मराजॊ; यन मां हित्वा यातवाञ शत्रुमध्ये नैनं जीवन नापि जानाम्य अजीवन; बीभत्सुं वा तन ममाद्यातिदुःखम 13 सॊ ऽहं दविषत सैन्यम उदग्रकल्पं; विनाशयिष्ये परमप्रतीतः एतान निहत्याजिमध्ये समेतान; परीतॊ भविष्यामि सह तवयाद्य 14 सर्वांस तूणीरान मार्गणान वान्ववेक्ष्य; किं शिष्टं सयात सायकानां रथे मे का वाजातिः किंप्रमाणं च तेषां; जञात्वा वयक्तं तन ममाचक्ष्व सूत 15 [विषॊक] षण मार्गणानाम अयुतानि वीर; कषुराश च भल्लाश च तथायुताख्याः नाराचानां दवे सहस्रे तु वीर; तरीण्य एव च परदराणां च पार्थ 16 अस्त्य आयुधं पाण्डवेयावशिष्टं; न यद वहेच छकटं षड गवीयम एतद विद्वन मुञ्च सहस्रशॊ ऽपि; गदासिबाहुद्रविणं च ते ऽसति 17 [भस] सूताद्येमं पश्य भीम परमुक्तैः; संभिन्दद्भिः पार्थिवान आशु वेगैः उग्रैर बाणैर आहवं घॊररूपं; नष्टादित्यं मृत्युलॊकेन तुल्यम 18 अद्यैव तद विदितं पार्थिवानां; भविष्यतिय आकुमारं च सूत निमग्नॊ वा समरे भीमसेन; एकः कुरून वा समरे विजेता 19 सर्वे संख्ये कुरवॊ निष्पतन्तु; मां वा लॊकाः कीर्तयन्त्व आकुमारम सवान एकस तान अहं पातयिष्ये; ते वा सर्वे भीमसेनं तुदन्तु 20 आशास्तारः कर्म चाप्य उत्तमं वा; तन मे देवाः केवलं साधयन्तु आयात्व इहाद्यार्जुनः शत्रुघाती; शक्रस तूर्णं यज्ञ इवॊपहूतः 21 ईक्ष्वस्वैतां भारतीं दीर्यमाणाम; एते कस्माद विद्रवन्ते नरेन्द्राः वयक्तं धीमान सव्यसाची नराग्र्यः; सैन्यं हय एतच छादयत्य आशु बाणैः 22 पश्य धवजांश च दरवतॊ विशॊक; नागान हयान पत्तिसंघांश च संख्ये राथान विशीर्णाञ शरशक्तिताडितान; पश्यस्वैतान रथिनश चैव सूत 23 आपूर्यते कौरवी चाप्य अभीक्ष्णं; सेना हय असौ सुभृशं हन्यमाना धनंजयस्याशनि तुल्यवेगैर; गरस्ता शरैर बर्हि सुवर्णवाजैः 24 एते दरवन्ति सम रथाश्वनागाः; पदातिसंघान अवमर्दयन्तः संमुह्यमानाः कौरवाः सर्व एव; दरवन्ति नागा इव दावभीताः हाहाकृताश चैव रणे विशॊक; मुञ्चन्ति नादान विपुलान गजेन्द्राः 25 [विषॊक] सर्वे कामाः पाण्डव ते समृद्धाः; कपिध्वजॊ दृश्यते हस्तिसैन्ये नीलाद धनाद विद्युतम उच्चरन्तीं; तथापश्यं विस्फुरद वै धनुस तत 26 कपिर हय असौ वीक्ष्यते सर्वतॊ वै; धवजाग्रम आरुह्य धनंजयस्य दिवाकराब्भॊ मणिर एष दिव्यॊ; विभ्राजते चैव किरीटसंस्थः 27 पार्श्वे भीमं पाण्डुराभ्रप्रकाशं; पश्येमं तवं देवदत्तं सुघॊषम अभीशु हस्तस्य जनार्दनस्य; विगाहमानस्य चमूं परेषाम 28 रविप्रभं वज्रनाभं कषुरान्तं; पार्श्वे सथितं पश्य जनार्दनस्य चक्रं यशॊ वर्धयत केशवस्य; सदार्चितं यदुभिः पश्य वीर 29 [भम] ददामि ते गरामवरांश चतुर्दश; परियाख्याने सारथे सुप्रसन्नः दसी शतं चापि रथांश च विंशतिं; यद अर्जुनं वेदयसे विशॊक |
1
[s] atha tv idānīṃ tumule vimarde; dviṣadbhir eko bahubhiḥ samāvṛtaḥ mahābhaye sārathim ity uvāca; bhīmaś camūṃ vārayan dhārtarāṣṭrīm tvaṃ sārathe yāhi javena vāhair; nayāmy etān dhārtarāṣṭrān yamāya 2 saṃcodito bhīmasenena caivaṃ; sa sārathiḥ putrabalaṃ tvadīyam prāyāt tataḥ sārathir ugravego; yato bhīmas tad balaṃ gantum aicchat 3 tato 'pare nāgarathāśvapattibhiḥ; pratyudyayuḥ kuravas taṃ samantāt bhīmasya vāhāgryam udāravegaṃ; samantato bāṇagaṇair nijaghnuḥ 4 tataḥ śarān āpatato mahātmā; ciccheda bāṇair tapanīyapuṅkhaiḥ te vai nipetus tapanīyapuṅkhā; dvidhā tridhā bhīma śarair nikṛttāḥ 5 tato rājan nāra rathāśvayūnāṃ; bhīmāhatānāṃ tava rājamadhye ghoro ninādaḥ prababhau narendra; vajrāhatānām iva parvatānām 6 te vadhyamānāś ca narendramukhyā; nirbhinnā vai bhīmasenapravekaiḥ bhīmaṃ samantāt samare 'dhyarohan; vṛkṣaṃ śakuntā iva puṣpahetoḥ 7 tato 'bhipātaṃ tava sainyamadhye; prāduścakre vegam ivātta vegaḥ yathānta kāle kṣapayan didhakṣur; bhūtānta kṛt kāla ivātta daṇḍaḥ 8 tasyātivegasya raṇe 'tivegaṃ; nāśaknuvan dhārayituṃ tvadīyāḥ vyāttānanasyāpatato yathaiva; kālasya kāle harataḥ prajā vai 9 tato balaṃ bhārata bhāratānāṃ; pradahyamānaṃ samare mahātman bhītaṃ diśo 'kīryata bhīma nunnaṃ; mahānilenābhra gaṇo yathaiva 10 tato dhīmān sārathim abravīd balī; sa bhīmasenaḥ punar eva hṛṣṭaḥ sūtābhijānīhi parān svakān vā; rathān dhvajāṃś cāpatataḥ sametān yudhyann ahaṃ nābhijānāmi kiṃ cin; mā sainyaṃ svaṃ chādayiṣye pṛṣatkaiḥ 11 arīn viśokābhinirīkṣya sarvato; manas tu cintā pradunoti me bhṛśam rājāturo nāgam adyat kirīṭī; bahūn duḥkhāny abhijāto 'smi sūta 12 etad duḥkhaṃ sārathe dharmarājo; yan māṃ hitvā yātavāñ śatrumadhye nainaṃ jīvan nāpi jānāmy ajīvan; bībhatsuṃ vā tan mamādyātiduḥkham 13 so 'haṃ dviṣat sainyam udagrakalpaṃ; vināśayiṣye paramapratītaḥ etān nihatyājimadhye sametān; prīto bhaviṣyāmi saha tvayādya 14 sarvāṃs tūṇīrān mārgaṇān vānvavekṣya; kiṃ śiṣṭaṃ syāt sāyakānāṃ rathe me kā vājātiḥ kiṃpramāṇaṃ ca teṣāṃ; jñātvā vyaktaṃ tan mamācakṣva sūta 15 [viṣoka] ṣaṇ mārgaṇānām ayutāni vīra; kṣurāś ca bhallāś ca tathāyutākhyāḥ nārācānāṃ dve sahasre tu vīra; trīṇy eva ca pradarāṇāṃ ca pārtha 16 asty āyudhaṃ pāṇḍaveyāvaśiṣṭaṃ; na yad vahec chakaṭaṃ ṣaḍ gavīyam etad vidvan muñca sahasraśo 'pi; gadāsibāhudraviṇaṃ ca te 'sti 17 [bhs] sūtādyemaṃ paśya bhīma pramuktaiḥ; saṃbhindadbhiḥ pārthivān āśu vegaiḥ ugrair bāṇair āhavaṃ ghorarūpaṃ; naṣṭādityaṃ mṛtyulokena tulyam 18 adyaiva tad viditaṃ pārthivānāṃ; bhaviṣyatiy ākumāraṃ ca sūta nimagno vā samare bhīmasena; ekaḥ kurūn vā samare vijetā 19 sarve saṃkhye kuravo niṣpatantu; māṃ vā lokāḥ kīrtayantv ākumāram savān ekas tān ahaṃ pātayiṣye; te vā sarve bhīmasenaṃ tudantu 20 āśāstāraḥ karma cāpy uttamaṃ vā; tan me devāḥ kevalaṃ sādhayantu āyātv ihādyārjunaḥ śatrughātī; śakras tūrṇaṃ yajña ivopahūtaḥ 21 īkṣvasvaitāṃ bhāratīṃ dīryamāṇām; ete kasmād vidravante narendrāḥ vyaktaṃ dhīmān savyasācī narāgryaḥ; sainyaṃ hy etac chādayaty āśu bāṇaiḥ 22 paśya dhvajāṃś ca dravato viśoka; nāgān hayān pattisaṃghāṃś ca saṃkhye rāthān viśīrṇāñ śaraśaktitāḍitān; paśyasvaitān rathinaś caiva sūta 23 āpūryate kauravī cāpy abhīkṣṇaṃ; senā hy asau subhṛśaṃ hanyamānā dhanaṃjayasyāśani tulyavegair; grastā śarair barhi suvarṇavājaiḥ 24 ete dravanti sma rathāśvanāgāḥ; padātisaṃghān avamardayantaḥ saṃmuhyamānāḥ kauravāḥ sarva eva; dravanti nāgā iva dāvabhītāḥ hāhākṛtāś caiva raṇe viśoka; muñcanti nādān vipulān gajendrāḥ 25 [viṣoka] sarve kāmāḥ pāṇḍava te samṛddhāḥ; kapidhvajo dṛśyate hastisainye nīlād dhanād vidyutam uccarantīṃ; tathāpaśyaṃ visphurad vai dhanus tat 26 kapir hy asau vīkṣyate sarvato vai; dhvajāgram āruhya dhanaṃjayasya divākarābbho maṇir eṣa divyo; vibhrājate caiva kirīṭasaṃsthaḥ 27 pārśve bhīmaṃ pāṇḍurābhraprakāśaṃ; paśyemaṃ tvaṃ devadattaṃ sughoṣam abhīśu hastasya janārdanasya; vigāhamānasya camūṃ pareṣām 28 raviprabhaṃ vajranābhaṃ kṣurāntaṃ; pārśve sthitaṃ paśya janārdanasya cakraṃ yaśo vardhayat keśavasya; sadārcitaṃ yadubhiḥ paśya vīra 29 [bhm] dadāmi te grāmavarāṃś caturdaśa; priyākhyāne sārathe suprasannaḥ dasī śataṃ cāpi rathāṃś ca viṃśatiṃ; yad arjunaṃ vedayase viśoka |
The Mahabharata in Sanskrit
Book 8
Chapter 55
|
1
[स] शरुत्वा च रथि निर्घॊषं सिंहनादं च संयुगे अर्जुनः पराह गॊविन्दं शीघ्रं चॊदय वाजिनः 2 अर्जुनस्य वचः शरुत्वा गॊविन्दॊ ऽरजुनम अब्रवीत एष गच्छामि सुक्षिप्रं यत्र भीमॊ वयवस्थितः 3 आयान्तम अश्वैर हिमशङ्खवर्णैः; सुवर्णमुक्ता मणिजालनद्धैः जम्भं जिघांसुं परगृहीतवज्रं; जयाय देवेन्द्रम इवॊग्रमन्युम 4 रथाश्वमातङ्गपदातिसंघा; बाणस्वनैर नेमिखुर सवनैश च संनादयन्तॊ वसुधां दिशश च; करुद्धा नृसिंहा जयम अभ्युदीयुः 5 तेषां च पार्थस्य महत तदासीद; देहासु पाप्म कषपणं सुयुद्धम तरैलॊक्यहेतॊर असुरैर यथासीद; देवस्य विष्णॊर जयतां वरस्य 6 तैर अस्तम उच्चावचम आयुधौघम; एकः परतिच्छेदे किरीटमाली कषुरार्धचन्द्रैर निशितैश च बाणैः; शिरांसि तेषां बहुधा च बाहून 7 छत्राणि वालव्यजनानि केतून; अश्वान रथान पत्तिगणान दविपांश च ते पेतुर उर्व्यां बहुधा विरूपा; वातप्रभग्नानि यथा वनानि 8 सुवर्णजालावतता महागजाः; सवैजयन्ती धवजयॊधकल्पिताः सुवर्णपुङ्खैर इषुभिः समाचिताश; चकाशिरे परज्वलिता यथाचलाः 9 विदार्य नागांश च रथांश च वाजिनः; शरॊत्तमैर वासव वज्रसंनिभैः दरुतं ययौ कर्ण जिघांसया तथा; यथा मरुत्वान बलभेदने पुरा 10 ततः स पुरुषव्याघ्रः सूत सैन्यम अरिंदम परविवेश महाबाहुर मकरः सागरं यथा 11 तं दृष्ट्वा तावका राजन रथपत्तिसमन्विताः गजाश्वसादि बहुलाः पाण्डवं समुपाद्रवन 12 तत्राभिद्रवतां पार्थम आरावः सुमहान अभूत सागरस्येव मत्तस्य यथा सयात सलिलस्वनः 13 ते तु तं पुरुषव्याघ्रं वयाघ्रा इव महारथाः अभ्यद्रवन्त संग्रामे तयक्त्वा पराणकृतं भयम 14 तेषाम आपततां तत्र शरवर्षाणि मुञ्चताम अर्जुनॊ वयधमत सैन्यं महावातॊ घनान इव 15 ते ऽरजुनं सहिता भूत्वा रथवंशैः परहारिणः अभियाय महेष्वासा विव्यधुर निशितैः शरैः 16 ततॊ ऽरजुनः सहस्राणि रथवारणवाजिनाम परेषयाम आस विशिखैर यमस्य सदनं परति 17 ते वध्यमानाः समरे पार्थ चापच्युतैः शरैः तत्र तत्र सम लीयन्ते भये जाते महारथाः 18 तेषां चतुःशतान वीरान यतमानान महारथान अर्जुनॊ निशितैर बाणैर अनयद यमसादनम 19 ते वध्यमानाः समरे नाना लिङ्गैः शितैः शरैः अर्जुनं समभित्यज्य दुद्रुवुर वै दिशॊ भयात 20 तेषां शब्दॊ महान आसीद दरवतां वाहिनीमुखे महौघस्येव भद्रं ते गिरिम आसाद्य दीर्यतः 21 तां तु सेनां भृशं विद्ध्वा दरावयित्वार्जुनः शरैः परायाद अभिमुखः पार्थः सूतानीकानि मारिष 22 तस्य शब्दॊ महान आसीत परान अभिमुखस्य वै गरुडस्येव पततः पन्नगार्थे यथा पुरा 23 तं तु शब्दम अभिश्रुत्य भीमसेनॊ महाबलः बभूव परमप्रीतः पार्थ दर्शनलालसः 24 शरुत्वैव पार्थम आयान्तं भीमसेनः परतापवान तयक्त्वा पराणान महाराज सेनां तव ममर्द ह 25 स वायुवेगप्रतिमॊ वायुवेगसमॊ जवे वायुवद वयचरद भीमॊ वायुपुत्रः परतापवान 26 तेनार्द्यमाना राजेन्द्र सेना तव विशां पते वयभ्राम्यत महाराज भिन्ना नौर इव सागरे 27 तां तु सेनां तदा भीमॊ दर्शयन पाणिलाघवम शरैर अवचकर्तॊग्रैः परेषयिष्यन यमक्षयम 28 तत्र भारत भीमस्य बलं दृष्ट्वातिमानुषम वयत्रस्यन्त रणे यॊधाः कालस्येव युगक्षये 29 तथार्दितान भीमबलान भीमसेनेन भारत दृष्ट्वा दुर्यॊधनॊ राजा इदं वचनम अब्रवीत 30 सैनिकान स महेष्वासॊ यॊधाश च भरतर्षभ समादिशद रणे सर्वान हतभीमम इति सम ह तस्मिन हते हतं मन्ये सर्वसैन्यम अशेषतः 31 परतिगृह्य च ताम आज्ञां तव पुत्रस्य पार्थिवाः भीमं परच्छादयाम आसुः शरवर्षैः समन्ततः 32 गजाश च बहुला राजन नराश च जय गृद्धिनः रथा हयाश च राजेन्द्र परिवव्रुर वृकॊदरम 33 स तैः परिवृतः शूरैः शूरॊ राजन समन्ततः शुशुभे भरतश्रेष्ठ नक्षत्रैर इव चन्द्रमाः 34 स रराज तथा संख्ये दर्शनीयॊ नरॊत्तमः निर्विशेषं महाराज यथा हि विजयस तथा 35 तत्र ते पार्थिवाः सर्वे शरवृष्टी समासृजन करॊधरक्तेक्षणाः करूरा हन्तुकामा वृकॊदरम 36 स विदार्य महासेनां शरैः संनतपर्वभिः निश्चक्राम रणाद भीमॊ मत्स्यॊ जालाद इवाम्भसि 37 हत्वा दशसहस्राणि गजानाम अनिवर्तिनाम नृषां शतसहस्रे दवे दवे शते चैव भारत 38 पञ्च चाश्वसहस्राणि रथानां शतम एव च हत्वा परास्यन्दयद भीमॊ नदीं शॊणितकर्दमा 39 शॊणितॊदां रथावर्तां हस्तिग्राहसमाकुलाम नरमीनाम अश्वनक्रां केशशैवलशाद्वलाम 40 संछिन्नभुज नागेन्द्रां बहुरत्नापहारिणीम ऊरुग्राहां मज्ज पङ्कां शीर्षॊपल समाकुलाम 41 धनुष्काशां शरावापां गदापरिघकेतनाम यॊधव्रातवतीं संख्ये वहन्तीं यमसादनम 42 कषणेन पुरुषव्याघ्रः परावर्तयत निम्नगाम यथा वैतरणीम उग्रां दुस्तराम अकृतात्मभिः 43 यतॊ यतः पाण्डवेयः परवृत्तॊ रथसत्तमः ततस ततॊ ऽपातयत यॊधाञ शतसहस्रशः 44 एवं दृष्ट्वा कृतं कर्म भीमसेनेन संयुगे दुर्यॊधनॊ महाराज शकुनिं वाक्यम अब्रवीत 45 जय मातुलसंग्रामे भीमसेनं महाबलम अस्मिञ जिते जितं मन्ये पाण्डवेयं महाबलम 46 ततः परायान महाराज सौबलेयः परतापवान रणाय महते युक्तॊ भरातृभिः परिवारितः रणाय महते युक्तॊ भरातृभिः पारिवारितः 47 स समासाद्य संग्रामे भीमं भीमपराक्रमम वारयाम आस तं वीरॊ वेलेव मकरालयम स नयवर्तत तं भीमॊ वार्यमाणः शितैः शरैः 48 शकुनिस तस्य राजेन्द्र वामे पार्श्वे सतनान्तरे परेषयाम आस नाराचान रुक्मपुङ्खाञ शिलाशितान 49 वर्म भित्त्वा तु सौवर्णं बाणास तस्य महात्मनः नयमज्जन्त महाराज कङ्कबर्हिण वाससः 50 सॊ ऽतिविद्धॊ रणे भीमः शरं हेमविभूषितम परेषयाम आस सहसा सौबलं परति भारत 51 तम आयान्तं शरं घॊरं शकुनिः शत्रुतापनः चिच्छेद शतधा राजन कृतहस्तॊ महाबलः 52 तस्मिन निपतिते भूमौ भीमः करुद्धॊ विशां पते धनुश चिच्छेद भल्लेन सौबलस्य हसन्न इव 53 तद अपास्य धनुश छिन्नं सौबलेयः परतापवान अन्यद आदत्त वेगेन धनुर भल्लांश च षॊडश 54 तैस तस्य तु महाराज भल्लैः संनतपर्वभिः चतुर्भिः सारथिं हय आर्च्छद भीमं पञ्चभिर एव च 55 धवजम एकेन चिच्छेद छत्रं दवाभ्यां विशां पते चतुर्भिश चतुरॊ वाहान विव्याध सुबलात्मजः 56 ततः करुद्धॊ महाराज भीमसेनः परतापवान शक्तिं चिक्षेप समरे रुक्मदण्डाम अयॊ मयीम 57 सा भीम भुजनिर्मुक्ता नागजिह्वेव चञ्चला निपपात रथे तूर्णं सौबलस्य महात्मनः 58 ततस ताम एव संगृह्य शक्तिं कनकभूषणाम भीमसेनाय चिक्षेप करुद्ध रूपॊ विशां पते 59 सा निर्भिद्य भुजं सव्यं पाण्डवस्य महात्मनः पपात च ततॊ भूमौ यथा विद्युन नभश चयुता 60 अथॊत्क्रुष्टं महाराज धार्तराष्ट्रैः समन्ततः न तु तं ममृषे भीमः सिंहनादं तरस्विनाम 61 स संगृह्य धनुः सज्यं तवरमाणॊ महारथः मुहूर्ताद इव राजेन्द्र छादयाम आस सायकैः सौबलस्य बलं संख्ये तयक्त्वात्मानं महाबलः 62 तस्याश्वांश चतुरॊ हत्वा सूतं चैव विशां पते धवजं चिच्छेद मल्लेन तवरमाणः पराक्रमी 63 हताश्वं रथम उत्सृज्य तवरमाणॊ नरॊत्तमः तस्थौ विस्फारयंश चापं करॊधरक्तेक्षणः शवसन शरैश च बहुधा राजन भीमम आर्च्छत समन्ततः 64 परतिहत्य तु वेगेन भीमसेनः परतापवान धनुश चिच्छेद संक्रुद्धॊ विव्याध च शितैः शरैः 65 सॊ ऽतिविद्धॊ बलवता शत्रुणा शत्रुकर्शनः निपपात ततॊ भूमौ किं चित पराणॊ नराधिप 66 ततस तं विह्वलं जञात्वा पुत्रस तव विशां पते अपॊवाह रथेनाजौ भीमसेनस्य पश्यतः 67 रथस्थे तु नरव्याघ्रे धार्तराष्ट्राः पराङ्मुखाः परदुद्रुवुर दिशॊ भीता भीमाञ जाते महाभये 68 सौबले निर्जिते राजन भीमसेनेन धन्विना भयेन महता भग्नः पुत्रॊ दुर्यॊधनस तव अपायाज जवनैर अश्वैः सापेक्षॊ मातुलं परति 69 पराङ्मुखं तु राजानं दृष्ट्वा सैन्यानि भारत विप्रजग्मुः समुत्सृज्य दवैरथानि समन्ततः 70 तान दृष्ट्वातिरथान सर्वान धार्तराष्ट्रान पराङ्मुखान जवेनाभ्यपतद भीमः किरञ शरशतान बहून 71 ते वध्यमाना भीमेन धार्तराष्ट्राः पराङ्मुखाः कर्णम आसाद्य समरे सथिता राजन समन्ततः स हि तेषां महावीर्यॊ दवीपॊ ऽभूत सुमहाबलः 72 भिन्ननौका यथा राजन दवीपम आसाद्य निर्वृताः भवन्ति पुरुषव्याघ्र नाविकाः कालपर्यये 73 तथा कर्णं समासाद्य तावका भरतर्षभ समाश्वस्ताः सथिता राजन संप्रहृष्टाः परस्परम समाजग्मुश च युद्धाय मृत्युं कृत्वा निवर्तनम |
1
[s] śrutvā ca rathi nirghoṣaṃ siṃhanādaṃ ca saṃyuge arjunaḥ prāha govindaṃ śīghraṃ codaya vājinaḥ 2 arjunasya vacaḥ śrutvā govindo 'rjunam abravīt eṣa gacchāmi sukṣipraṃ yatra bhīmo vyavasthitaḥ 3 āyāntam aśvair himaśaṅkhavarṇaiḥ; suvarṇamuktā maṇijālanaddhaiḥ jambhaṃ jighāṃsuṃ pragṛhītavajraṃ; jayāya devendram ivogramanyum 4 rathāśvamātaṅgapadātisaṃghā; bāṇasvanair nemikhura svanaiś ca saṃnādayanto vasudhāṃ diśaś ca; kruddhā nṛsiṃhā jayam abhyudīyuḥ 5 teṣāṃ ca pārthasya mahat tadāsīd; dehāsu pāpma kṣapaṇaṃ suyuddham trailokyahetor asurair yathāsīd; devasya viṣṇor jayatāṃ varasya 6 tair astam uccāvacam āyudhaugham; ekaḥ praticchede kirīṭamālī kṣurārdhacandrair niśitaiś ca bāṇaiḥ; śirāṃsi teṣāṃ bahudhā ca bāhūn 7 chatrāṇi vālavyajanāni ketūn; aśvān rathān pattigaṇān dvipāṃś ca te petur urvyāṃ bahudhā virūpā; vātaprabhagnāni yathā vanāni 8 suvarṇajālāvatatā mahāgajāḥ; savaijayantī dhvajayodhakalpitāḥ suvarṇapuṅkhair iṣubhiḥ samācitāś; cakāśire prajvalitā yathācalāḥ 9 vidārya nāgāṃś ca rathāṃś ca vājinaḥ; śarottamair vāsava vajrasaṃnibhaiḥ drutaṃ yayau karṇa jighāṃsayā tathā; yathā marutvān balabhedane purā 10 tataḥ sa puruṣavyāghraḥ sūta sainyam ariṃdama praviveśa mahābāhur makaraḥ sāgaraṃ yathā 11 taṃ dṛṣṭvā tāvakā rājan rathapattisamanvitāḥ gajāśvasādi bahulāḥ pāṇḍavaṃ samupādravan 12 tatrābhidravatāṃ pārtham ārāvaḥ sumahān abhūt sāgarasyeva mattasya yathā syāt salilasvanaḥ 13 te tu taṃ puruṣavyāghraṃ vyāghrā iva mahārathāḥ abhyadravanta saṃgrāme tyaktvā prāṇakṛtaṃ bhayam 14 teṣām āpatatāṃ tatra śaravarṣāṇi muñcatām arjuno vyadhamat sainyaṃ mahāvāto ghanān iva 15 te 'rjunaṃ sahitā bhūtvā rathavaṃśaiḥ prahāriṇaḥ abhiyāya maheṣvāsā vivyadhur niśitaiḥ śaraiḥ 16 tato 'rjunaḥ sahasrāṇi rathavāraṇavājinām preṣayām āsa viśikhair yamasya sadanaṃ prati 17 te vadhyamānāḥ samare pārtha cāpacyutaiḥ śaraiḥ tatra tatra sma līyante bhaye jāte mahārathāḥ 18 teṣāṃ catuḥśatān vīrān yatamānān mahārathān arjuno niśitair bāṇair anayad yamasādanam 19 te vadhyamānāḥ samare nānā liṅgaiḥ śitaiḥ śaraiḥ arjunaṃ samabhityajya dudruvur vai diśo bhayāt 20 teṣāṃ śabdo mahān āsīd dravatāṃ vāhinīmukhe mahaughasyeva bhadraṃ te girim āsādya dīryataḥ 21 tāṃ tu senāṃ bhṛśaṃ viddhvā drāvayitvārjunaḥ śaraiḥ prāyād abhimukhaḥ pārthaḥ sūtānīkāni māriṣa 22 tasya śabdo mahān āsīt parān abhimukhasya vai garuḍasyeva patataḥ pannagārthe yathā purā 23 taṃ tu śabdam abhiśrutya bhīmaseno mahābalaḥ babhūva paramaprītaḥ pārtha darśanalālasaḥ 24 śrutvaiva pārtham āyāntaṃ bhīmasenaḥ pratāpavān tyaktvā prāṇān mahārāja senāṃ tava mamarda ha 25 sa vāyuvegapratimo vāyuvegasamo jave vāyuvad vyacarad bhīmo vāyuputraḥ pratāpavān 26 tenārdyamānā rājendra senā tava viśāṃ pate vyabhrāmyata mahārāja bhinnā naur iva sāgare 27 tāṃ tu senāṃ tadā bhīmo darśayan pāṇilāghavam śarair avacakartograiḥ preṣayiṣyan yamakṣayam 28 tatra bhārata bhīmasya balaṃ dṛṣṭvātimānuṣam vyatrasyanta raṇe yodhāḥ kālasyeva yugakṣaye 29 tathārditān bhīmabalān bhīmasenena bhārata dṛṣṭvā duryodhano rājā idaṃ vacanam abravīt 30 sainikān sa maheṣvāso yodhāś ca bharatarṣabha samādiśad raṇe sarvān hatabhīmam iti sma ha tasmin hate hataṃ manye sarvasainyam aśeṣataḥ 31 pratigṛhya ca tām ājñāṃ tava putrasya pārthivāḥ bhīmaṃ pracchādayām āsuḥ śaravarṣaiḥ samantataḥ 32 gajāś ca bahulā rājan narāś ca jaya gṛddhinaḥ rathā hayāś ca rājendra parivavrur vṛkodaram 33 sa taiḥ parivṛtaḥ śūraiḥ śūro rājan samantataḥ śuśubhe bharataśreṣṭha nakṣatrair iva candramāḥ 34 sa rarāja tathā saṃkhye darśanīyo narottamaḥ nirviśeṣaṃ mahārāja yathā hi vijayas tathā 35 tatra te pārthivāḥ sarve śaravṛṣṭī samāsṛjan krodharaktekṣaṇāḥ krūrā hantukāmā vṛkodaram 36 sa vidārya mahāsenāṃ śaraiḥ saṃnataparvabhiḥ niścakrāma raṇād bhīmo matsyo jālād ivāmbhasi 37 hatvā daśasahasrāṇi gajānām anivartinām nṛṣāṃ śatasahasre dve dve śate caiva bhārata 38 pañca cāśvasahasrāṇi rathānāṃ śatam eva ca hatvā prāsyandayad bhīmo nadīṃ śoṇitakardamā 39 śoṇitodāṃ rathāvartāṃ hastigrāhasamākulām naramīnām aśvanakrāṃ keśaśaivalaśādvalām 40 saṃchinnabhuja nāgendrāṃ bahuratnāpahāriṇīm ūrugrāhāṃ majja paṅkāṃ śīrṣopala samākulām 41 dhanuṣkāśāṃ śarāvāpāṃ gadāparighaketanām yodhavrātavatīṃ saṃkhye vahantīṃ yamasādanam 42 kṣaṇena puruṣavyāghraḥ prāvartayata nimnagām yathā vaitaraṇīm ugrāṃ dustarām akṛtātmabhiḥ 43 yato yataḥ pāṇḍaveyaḥ pravṛtto rathasattamaḥ tatas tato 'pātayata yodhāñ śatasahasraśaḥ 44 evaṃ dṛṣṭvā kṛtaṃ karma bhīmasenena saṃyuge duryodhano mahārāja śakuniṃ vākyam abravīt 45 jaya mātulasaṃgrāme bhīmasenaṃ mahābalam asmiñ jite jitaṃ manye pāṇḍaveyaṃ mahābalam 46 tataḥ prāyān mahārāja saubaleyaḥ pratāpavān raṇāya mahate yukto bhrātṛbhiḥ parivāritaḥ raṇāya mahate yukto bhrātṛbhiḥ pārivāritaḥ 47 sa samāsādya saṃgrāme bhīmaṃ bhīmaparākramam vārayām āsa taṃ vīro veleva makarālayam sa nyavartata taṃ bhīmo vāryamāṇaḥ śitaiḥ śaraiḥ 48 śakunis tasya rājendra vāme pārśve stanāntare preṣayām āsa nārācān rukmapuṅkhāñ śilāśitān 49 varma bhittvā tu sauvarṇaṃ bāṇās tasya mahātmanaḥ nyamajjanta mahārāja kaṅkabarhiṇa vāsasaḥ 50 so 'tividdho raṇe bhīmaḥ śaraṃ hemavibhūṣitam preṣayām āsa sahasā saubalaṃ prati bhārata 51 tam āyāntaṃ śaraṃ ghoraṃ śakuniḥ śatrutāpanaḥ ciccheda śatadhā rājan kṛtahasto mahābalaḥ 52 tasmin nipatite bhūmau bhīmaḥ kruddho viśāṃ pate dhanuś ciccheda bhallena saubalasya hasann iva 53 tad apāsya dhanuś chinnaṃ saubaleyaḥ pratāpavān anyad ādatta vegena dhanur bhallāṃś ca ṣoḍaśa 54 tais tasya tu mahārāja bhallaiḥ saṃnataparvabhiḥ caturbhiḥ sārathiṃ hy ārcchad bhīmaṃ pañcabhir eva ca 55 dhvajam ekena ciccheda chatraṃ dvābhyāṃ viśāṃ pate caturbhiś caturo vāhān vivyādha subalātmajaḥ 56 tataḥ kruddho mahārāja bhīmasenaḥ pratāpavān śaktiṃ cikṣepa samare rukmadaṇḍām ayo mayīm 57 sā bhīma bhujanirmuktā nāgajihveva cañcalā nipapāta rathe tūrṇaṃ saubalasya mahātmanaḥ 58 tatas tām eva saṃgṛhya śaktiṃ kanakabhūṣaṇām bhīmasenāya cikṣepa kruddha rūpo viśāṃ pate 59 sā nirbhidya bhujaṃ savyaṃ pāṇḍavasya mahātmanaḥ papāta ca tato bhūmau yathā vidyun nabhaś cyutā 60 athotkruṣṭaṃ mahārāja dhārtarāṣṭraiḥ samantataḥ na tu taṃ mamṛṣe bhīmaḥ siṃhanādaṃ tarasvinām 61 sa saṃgṛhya dhanuḥ sajyaṃ tvaramāṇo mahārathaḥ muhūrtād iva rājendra chādayām āsa sāyakaiḥ saubalasya balaṃ saṃkhye tyaktvātmānaṃ mahābalaḥ 62 tasyāśvāṃś caturo hatvā sūtaṃ caiva viśāṃ pate dhvajaṃ ciccheda mallena tvaramāṇaḥ parākramī 63 hatāśvaṃ ratham utsṛjya tvaramāṇo narottamaḥ tasthau visphārayaṃś cāpaṃ krodharaktekṣaṇaḥ śvasan śaraiś ca bahudhā rājan bhīmam ārcchat samantataḥ 64 pratihatya tu vegena bhīmasenaḥ pratāpavān dhanuś ciccheda saṃkruddho vivyādha ca śitaiḥ śaraiḥ 65 so 'tividdho balavatā śatruṇā śatrukarśanaḥ nipapāta tato bhūmau kiṃ cit prāṇo narādhipa 66 tatas taṃ vihvalaṃ jñātvā putras tava viśāṃ pate apovāha rathenājau bhīmasenasya paśyataḥ 67 rathasthe tu naravyāghre dhārtarāṣṭrāḥ parāṅmukhāḥ pradudruvur diśo bhītā bhīmāñ jāte mahābhaye 68 saubale nirjite rājan bhīmasenena dhanvinā bhayena mahatā bhagnaḥ putro duryodhanas tava apāyāj javanair aśvaiḥ sāpekṣo mātulaṃ prati 69 parāṅmukhaṃ tu rājānaṃ dṛṣṭvā sainyāni bhārata viprajagmuḥ samutsṛjya dvairathāni samantataḥ 70 tān dṛṣṭvātirathān sarvān dhārtarāṣṭrān parāṅmukhān javenābhyapatad bhīmaḥ kirañ śaraśatān bahūn 71 te vadhyamānā bhīmena dhārtarāṣṭrāḥ parāṅmukhāḥ karṇam āsādya samare sthitā rājan samantataḥ sa hi teṣāṃ mahāvīryo dvīpo 'bhūt sumahābalaḥ 72 bhinnanaukā yathā rājan dvīpam āsādya nirvṛtāḥ bhavanti puruṣavyāghra nāvikāḥ kālaparyaye 73 tathā karṇaṃ samāsādya tāvakā bharatarṣabha samāśvastāḥ sthitā rājan saṃprahṛṣṭāḥ parasparam samājagmuś ca yuddhāya mṛtyuṃ kṛtvā nivartanam |
The Mahabharata in Sanskrit
Book 8
Chapter 56
|
1
[धृ] ततॊ भग्नेषु सैन्येषु भीमसेनेन संयुगे दुर्यॊधनॊ ऽबरवीत किं नु सौबलॊ वापि संजय 2 कर्णॊ वा जयतां शरेष्ठॊ यॊधा वा मामका युधि कृपॊ वा कृतवर्मा च दरौणिर दुःशासनॊ ऽपि वा 3 अत्यद्भुतम इदं मन्ये पाण्डवेयस्य विक्रमम यथाप्रतिज्ञं यॊधानां राधेयः कृतवान अपि 4 कुरूणाम अपि सर्वेषां कर्णः शत्रुनिषूदनः शर्म वर्म परतिष्ठा च जीविताशा च संजय 5 तत परभग्नं बलं दृष्ट्वा कौन्तेयेनामितौजसा राधेयानाम अधिरथः कर्णः किम अकरॊद युधि 6 पुत्रा वा मम दुर्धर्षा राजानॊ वा महारथाः एतन मे सर्वम आचक्ष्व कुशलॊ हय असि संजय 7 [स] अपराह्णे महाराज सूतपुत्रः परतापवान जघान सॊमकान सर्वान भीमसेनस्य पश्यतः भीमॊ ऽपय अतिबलः सैन्यं धार्तराष्ट्रं वयपॊथयत 8 दराव्यमाणं बलं दृष्ट्वा भीमसेनेन धीमता यन्तारम अब्रवीत कर्णः पाञ्चालान एव मा वह 9 मद्रराजस ततः शल्यः शवेतान अश्वान महाजवान पराहिणॊच चेदिपाञ्चालान करूषांश च महाबलः 10 परविश्य च स तां सेनां शल्यः परबलार्दनः नययच्छत तुरगान हृष्टॊ यत्र यत्रैच्छद अग्रणीः 11 तं रतहं मेघसंकाशं वैयाघ्रपरिवारणम संदृश्य पाण्डुपाञ्चालास तरस्ता आसन विशां पते 12 ततॊ रथस्य निनदः परादुरासीन महारणे पर्जन्यसमनिर्घॊषः पर्वतस्येव दीर्यतः 13 ततः शरशतैस तीक्ष्णैः कर्णॊ ऽपय आकर्णनिःसृतैः जघान पाण्डव बलं शतशॊ ऽथ सहस्रशः 14 तं तथा समरे कर्म कुर्वाणम अतिमानुषम परिवव्रुर महेष्वासाः पाण्डवानां महारथाः 15 तं शिखण्डी च भीमश च धृष्टद्युम्नश च पार्षतः नकुलः सहदेवश च दरौपदेयाः ससात्यकाः परिवव्रुर जिघांसन्तॊ राधेयं शरवृष्टिभिः 16 सात्यकिस तु ततः कर्णं विंशत्या निशितैः शरैः अताडयद रणे शूरॊ जत्रु देशे नरॊत्तमः 17 शिखण्डी पञ्चविंशत्या धृष्टद्युम्नश च पञ्चभिः दरौपदेयाश चतुःषष्ट्या सहदेवश च सप्तभिः नकुलश च शतेनाजौ कर्णं विव्याध सायकैः 18 भीमसेनस तु राधेयं नवत्या नतपर्वणाम विव्याध समरे करुद्धॊ जत्रु देशे महाबलः 19 ततः परहस्याधिरथिर विक्षिपन धनुर उत्तमम मुमॊच निशितान बाणान पीडयन सुमहाबलः तान परत्यविध्यद राधेयः पञ्चभिः पञ्चभिः शरैः 20 सात्यकेस तु धनुश छित्त्वा धवजं च पुरुषर्षभः अथैनं नवभिर बाणैर आजघान सतनान्तरे 21 भीमसेनस तु तं करुद्धॊ विव्याध तरिंशता शरैः सारथिं च तरिभिर बाणैर आजघान परंतपः 22 विरथान दरौपदेयांश च चकार पुरुषर्षभः अक्ष्णॊर निमेष मात्रेण तद अद्भुतम इवाभवत 23 विमुखीकृत्य तान सर्वाञ शरैः संनतपर्वभिः पाञ्चालान अहनच छूरश चेदीनां च महारथान 24 ते वध्यमानाः समरे चेदिमत्स्या विशां पते कर्णम एकम अभिद्रुत्य शरसंघैः समार्दयन ताञ जघान शितैर बाणैः सूतपुत्रॊ महारथः 25 एतद अत्यद्भुतं कर्णे दृष्टवान अस्मि भारत यद एकः समरे शूरान सूतपुत्रः परतापवान 26 यातमानान परं शक्त्यायॊधयत तांश च धन्विनः पाण्डवेयान महाराज शरैर वारितवान रणे 27 तत्र भारत कर्णस्य ललाघवेन महात्मनः तुतुषुर देवताः सर्वाः सिद्धाश च परमर्षयः 28 अपूजयन महेष्वासा धार्तराष्ट्रा नरॊत्तमम कर्णं रथवरश्रेष्ठं शरेष्ठं सर्वधनुष्मताम 29 ततः कर्णॊ महाराज ददाह रिपुवाहिनीम कक्षम इद्धॊ यथा वह्निर निदाघे जवलितॊ महान 30 ते वध्यमानाः कर्णेन पाण्डवेयास ततस ततः पराद्रवन्त रणे भीताः कर्णं दृष्ट्वा महाबलम 31 तत्राक्रन्दॊ महान आसीत पाञ्चालानां महारणे वध्यतां सायकैस तीक्ष्णैः कर्ण चापवरच्युतैः 32 तेन शब्देन वित्रस्ता पाण्डवानां महाचमूः कर्णम एकं रणे यॊधं मेनिरे तत्र शात्रवाः 33 तत्राद्भुतं परं चक्रे राधेयः शत्रुकर्शनः यद एकं पाण्डवाः सर्वे न शेकुर अभिवीक्षितुम 34 यथौघः पर्वतश्रेष्ठम आसाद्याभिप्रदीर्यतेल तथा तत पाण्डवं सैन्यं कर्णम आस्साद्य दीर्यते 35 कर्णॊ ऽपि समरे राजन विधूमॊ ऽगनिर इव जवलन दहंस तस्थौ महाबाहुः पाण्डवानां महाचमूम 36 शिरांसि च महाराज कर्णांश चञ्चल कुण्डलान बाहूंश च वीरॊ वीराणां चिच्छेद लघु चेषुभिः 37 हस्तिदन्तान तसरून खड्गान धवजाञ शक्तीर हयान गजान रथांश च विविधान राजन पताकाव्यजनानि च 38 अक्षेषा युगयॊक्त्राणि चक्राणि विविधानि च चिच्छेद शतधा कर्णॊ यॊधव्रतम अनुष्ठितः 39 तत्र भारत कर्णेन निहतैर गजवाजिभिः अगम्यरूपा पृथिवी मांसशॊणितकर्दमा 40 विषमं च समं चैव हतैर अश्वपदातिभिः रथैश च कुञ्जरैश चैव न परज्ञायत किं चन 41 नापि सवे न परे यॊधाः परज्ञायन्त परस्परम घॊरे शरान्धकारे तु कर्णास्त्रे च विजृम्भिते 42 राधेय चापनिर्मुक्तैः शरैः काञ्चनभूषितैः संछादिता महाराज यतमाना महारथाः 43 ते पाण्डवेयाः समरे कर्णेन सम पुनः पुनः अभज्यन्त महाराज यतमाना महारथाः 44 मृगसंघान यथा करुद्धः सिंहॊ दरावयते वने कर्णस तु समरे यॊधांस तत्र तत्र महायशाः कालयाम आस तत सैन्यं यथा पशुगणान वृकः 45 दृष्ट्वा तु पाण्डवीं सेनां धार्तराष्ट्राः पराङ्मुखीम अभिजग्मुर महेष्वासा रुवन्तॊ भैरवान रवान 46 दुर्यॊधनॊ हि राजेन्द्र मुदा परमया युतः वादयाम आस संहृष्टॊ नानावाद्यानि सर्वशः 47 पाञ्चालापि महेष्वासा भग्नभग्ना नरॊत्तमाः नयवर्तन्त यथा शूरा मृत्युं कृत्वा निवर्तनम 48 तान निवृत्तान रणे शूरान राधेयः शत्रुतापनः अनेकशॊ महाराज बभञ्ज पुरुषर्षभः 49 तत्र भारत कर्णेन पाञ्चाला विंशती रथाः निहताः सादयः करॊधाच चेदयश च परःशताः 50 कृत्वा शून्यान रथॊपस्थान वाजिपृष्ठांश च भारत निर्मनुष्यान गजस्कन्धान पादातांश चैव विद्रुतान 51 आदित्य इव मध्याह्ने दुर्निरीक्ष्यः परंतह कालान्तकवपुः करूदः सूतपुत्रश चचाल ह 52 एवम एतान महाराज नरवाजि रथा दविपान हत्वा तस्थौ महेष्वासः कर्णॊ ऽरिगणसूदनः 53 यथा भूतगणान हत्वा कालस तिष्ठेन महाबलः तथा स सॊमकान हत्वा तस्थाव एकॊ महारथः 54 तत्राद्भुतम अपश्याम पाञ्चालानां पराक्रमम वध्यमानापि कर्णेन नाजहू रणमूर्धनि 55 राजा दुःशासनश चैव कृपः शारद्वतस तथा अश्वत्थामा कृतवर्मा शकुनिश चापि सौबलः नयहनन पाण्डवीं सेनां शतशॊ ऽथ सहस्रशः 56 कर्ण पुत्रौ च राजेन्द्र भरातरौ सत्यविक्रमौ अनाशयेतां बलिनः पाञ्चालान वै ततस ततः तत्र युद्धं तदा हय आसीत करूरं विशसनं महत 57 तथैव पाण्डवाः शूरा धृष्टद्युम्न शिखण्डिनौ दरौपदेयाश च संक्रुद्धा अभ्यघ्नंस तावकं बलम 58 एवम एष कषयॊ वृत्तः पाण्डवानां ततस ततः तावकानाम अपि रणे भीमं पराप्य महाबलम |
1
[dhṛ] tato bhagneṣu sainyeṣu bhīmasenena saṃyuge duryodhano 'bravīt kiṃ nu saubalo vāpi saṃjaya 2 karṇo vā jayatāṃ śreṣṭho yodhā vā māmakā yudhi kṛpo vā kṛtavarmā ca drauṇir duḥśāsano 'pi vā 3 atyadbhutam idaṃ manye pāṇḍaveyasya vikramam yathāpratijñaṃ yodhānāṃ rādheyaḥ kṛtavān api 4 kurūṇām api sarveṣāṃ karṇaḥ śatruniṣūdanaḥ śarma varma pratiṣṭhā ca jīvitāśā ca saṃjaya 5 tat prabhagnaṃ balaṃ dṛṣṭvā kaunteyenāmitaujasā rādheyānām adhirathaḥ karṇaḥ kim akarod yudhi 6 putrā vā mama durdharṣā rājāno vā mahārathāḥ etan me sarvam ācakṣva kuśalo hy asi saṃjaya 7 [s] aparāhṇe mahārāja sūtaputraḥ pratāpavān jaghāna somakān sarvān bhīmasenasya paśyataḥ bhīmo 'py atibalaḥ sainyaṃ dhārtarāṣṭraṃ vyapothayat 8 drāvyamāṇaṃ balaṃ dṛṣṭvā bhīmasenena dhīmatā yantāram abravīt karṇaḥ pāñcālān eva mā vaha 9 madrarājas tataḥ śalyaḥ śvetān aśvān mahājavān prāhiṇoc cedipāñcālān karūṣāṃś ca mahābalaḥ 10 praviśya ca sa tāṃ senāṃ śalyaḥ parabalārdanaḥ nyayacchat turagān hṛṣṭo yatra yatraicchad agraṇīḥ 11 taṃ ratahṃ meghasaṃkāśaṃ vaiyāghraparivāraṇam saṃdṛśya pāṇḍupāñcālās trastā āsan viśāṃ pate 12 tato rathasya ninadaḥ prādurāsīn mahāraṇe parjanyasamanirghoṣaḥ parvatasyeva dīryataḥ 13 tataḥ śaraśatais tīkṣṇaiḥ karṇo 'py ākarṇaniḥsṛtaiḥ jaghāna pāṇḍava balaṃ śataśo 'tha sahasraśaḥ 14 taṃ tathā samare karma kurvāṇam atimānuṣam parivavrur maheṣvāsāḥ pāṇḍavānāṃ mahārathāḥ 15 taṃ śikhaṇḍī ca bhīmaś ca dhṛṣṭadyumnaś ca pārṣataḥ nakulaḥ sahadevaś ca draupadeyāḥ sasātyakāḥ parivavrur jighāṃsanto rādheyaṃ śaravṛṣṭibhiḥ 16 sātyakis tu tataḥ karṇaṃ viṃśatyā niśitaiḥ śaraiḥ atāḍayad raṇe śūro jatru deśe narottamaḥ 17 śikhaṇḍī pañcaviṃśatyā dhṛṣṭadyumnaś ca pañcabhiḥ draupadeyāś catuḥṣaṣṭyā sahadevaś ca saptabhiḥ nakulaś ca śatenājau karṇaṃ vivyādha sāyakaiḥ 18 bhīmasenas tu rādheyaṃ navatyā nataparvaṇām vivyādha samare kruddho jatru deśe mahābalaḥ 19 tataḥ prahasyādhirathir vikṣipan dhanur uttamam mumoca niśitān bāṇān pīḍayan sumahābalaḥ tān pratyavidhyad rādheyaḥ pañcabhiḥ pañcabhiḥ śaraiḥ 20 sātyakes tu dhanuś chittvā dhvajaṃ ca puruṣarṣabhaḥ athainaṃ navabhir bāṇair ājaghāna stanāntare 21 bhīmasenas tu taṃ kruddho vivyādha triṃśatā śaraiḥ sārathiṃ ca tribhir bāṇair ājaghāna paraṃtapaḥ 22 virathān draupadeyāṃś ca cakāra puruṣarṣabhaḥ akṣṇor nimeṣa mātreṇa tad adbhutam ivābhavat 23 vimukhīkṛtya tān sarvāñ śaraiḥ saṃnataparvabhiḥ pāñcālān ahanac chūraś cedīnāṃ ca mahārathān 24 te vadhyamānāḥ samare cedimatsyā viśāṃ pate karṇam ekam abhidrutya śarasaṃghaiḥ samārdayan tāñ jaghāna śitair bāṇaiḥ sūtaputro mahārathaḥ 25 etad atyadbhutaṃ karṇe dṛṣṭavān asmi bhārata yad ekaḥ samare śūrān sūtaputraḥ pratāpavān 26 yātamānān paraṃ śaktyāyodhayat tāṃś ca dhanvinaḥ pāṇḍaveyān mahārāja śarair vāritavān raṇe 27 tatra bhārata karṇasya llāghavena mahātmanaḥ tutuṣur devatāḥ sarvāḥ siddhāś ca paramarṣayaḥ 28 apūjayan maheṣvāsā dhārtarāṣṭrā narottamam karṇaṃ rathavaraśreṣṭhaṃ śreṣṭhaṃ sarvadhanuṣmatām 29 tataḥ karṇo mahārāja dadāha ripuvāhinīm kakṣam iddho yathā vahnir nidāghe jvalito mahān 30 te vadhyamānāḥ karṇena pāṇḍaveyās tatas tataḥ prādravanta raṇe bhītāḥ karṇaṃ dṛṣṭvā mahābalam 31 tatrākrando mahān āsīt pāñcālānāṃ mahāraṇe vadhyatāṃ sāyakais tīkṣṇaiḥ karṇa cāpavaracyutaiḥ 32 tena śabdena vitrastā pāṇḍavānāṃ mahācamūḥ karṇam ekaṃ raṇe yodhaṃ menire tatra śātravāḥ 33 tatrādbhutaṃ paraṃ cakre rādheyaḥ śatrukarśanaḥ yad ekaṃ pāṇḍavāḥ sarve na śekur abhivīkṣitum 34 yathaughaḥ parvataśreṣṭham āsādyābhipradīryatel tathā tat pāṇḍavaṃ sainyaṃ karṇam āssādya dīryate 35 karṇo 'pi samare rājan vidhūmo 'gnir iva jvalan dahaṃs tasthau mahābāhuḥ pāṇḍavānāṃ mahācamūm 36 śirāṃsi ca mahārāja karṇāṃś cañcala kuṇḍalān bāhūṃś ca vīro vīrāṇāṃ ciccheda laghu ceṣubhiḥ 37 hastidantān tsarūn khaḍgān dhvajāñ śaktīr hayān gajān rathāṃś ca vividhān rājan patākāvyajanāni ca 38 akṣeṣā yugayoktrāṇi cakrāṇi vividhāni ca ciccheda śatadhā karṇo yodhavratam anuṣṭhitaḥ 39 tatra bhārata karṇena nihatair gajavājibhiḥ agamyarūpā pṛthivī māṃsaśoṇitakardamā 40 viṣamaṃ ca samaṃ caiva hatair aśvapadātibhiḥ rathaiś ca kuñjaraiś caiva na prajñāyata kiṃ cana 41 nāpi sve na pare yodhāḥ prajñāyanta parasparam ghore śarāndhakāre tu karṇāstre ca vijṛmbhite 42 rādheya cāpanirmuktaiḥ śaraiḥ kāñcanabhūṣitaiḥ saṃchāditā mahārāja yatamānā mahārathāḥ 43 te pāṇḍaveyāḥ samare karṇena sma punaḥ punaḥ abhajyanta mahārāja yatamānā mahārathāḥ 44 mṛgasaṃghān yathā kruddhaḥ siṃho drāvayate vane karṇas tu samare yodhāṃs tatra tatra mahāyaśāḥ kālayām āsa tat sainyaṃ yathā paśugaṇān vṛkaḥ 45 dṛṣṭvā tu pāṇḍavīṃ senāṃ dhārtarāṣṭrāḥ parāṅmukhīm abhijagmur maheṣvāsā ruvanto bhairavān ravān 46 duryodhano hi rājendra mudā paramayā yutaḥ vādayām āsa saṃhṛṣṭo nānāvādyāni sarvaśaḥ 47 pāñcālāpi maheṣvāsā bhagnabhagnā narottamāḥ nyavartanta yathā śūrā mṛtyuṃ kṛtvā nivartanam 48 tān nivṛttān raṇe śūrān rādheyaḥ śatrutāpanaḥ anekaśo mahārāja babhañja puruṣarṣabhaḥ 49 tatra bhārata karṇena pāñcālā viṃśatī rathāḥ nihatāḥ sādayaḥ krodhāc cedayaś ca paraḥśatāḥ 50 kṛtvā śūnyān rathopasthān vājipṛṣṭhāṃś ca bhārata nirmanuṣyān gajaskandhān pādātāṃś caiva vidrutān 51 āditya iva madhyāhne durnirīkṣyaḥ paraṃtaha kālāntakavapuḥ krūdaḥ sūtaputraś cacāla ha 52 evam etān mahārāja naravāji rathā dvipān hatvā tasthau maheṣvāsaḥ karṇo 'rigaṇasūdanaḥ 53 yathā bhūtagaṇān hatvā kālas tiṣṭhen mahābalaḥ tathā sa somakān hatvā tasthāv eko mahārathaḥ 54 tatrādbhutam apaśyāma pāñcālānāṃ parākramam vadhyamānāpi karṇena nājahū raṇamūrdhani 55 rājā duḥśāsanaś caiva kṛpaḥ śāradvatas tathā aśvatthāmā kṛtavarmā śakuniś cāpi saubalaḥ nyahanan pāṇḍavīṃ senāṃ śataśo 'tha sahasraśaḥ 56 karṇa putrau ca rājendra bhrātarau satyavikramau anāśayetāṃ balinaḥ pāñcālān vai tatas tataḥ tatra yuddhaṃ tadā hy āsīt krūraṃ viśasanaṃ mahat 57 tathaiva pāṇḍavāḥ śūrā dhṛṣṭadyumna śikhaṇḍinau draupadeyāś ca saṃkruddhā abhyaghnaṃs tāvakaṃ balam 58 evam eṣa kṣayo vṛttaḥ pāṇḍavānāṃ tatas tataḥ tāvakānām api raṇe bhīmaṃ prāpya mahābalam |
The Mahabharata in Sanskrit
Book 8
Chapter 57
|
1
[स] अर्जुनस तु महाराज कृत्वा सैन्यं पृथग्विधाम सूतपुत्रं सुसंरब्धं दृष्ट्वा चैव महारणे 2 शॊणितॊदां महीं कृत्वा मांसमज्जास्थि वाहिनीम वासुदेवम इदं वाक्यम अब्रवीत पुरुषर्षभ 3 एष केतू रणे कृष्ण सूतपुत्रस्य दृश्यते भीमसेनादयश चैते यॊधयन्ति महारथान एते दरवन्ति पाञ्चालाः कर्णास तरस्ता जनार्दन 4 एष दुर्यॊधनॊ राजा शवेतच छत्रेण भास्वता कर्णेन भग्नान पाञ्चालान दरावयन बहु शॊभते 5 कृपश च कृतवर्मा च दरौणिश चैव महाबलः एते रक्षन्ति राजानं सूतपुत्रेण रक्षिताः अवध्यमानास ते ऽसमाभिर घातयिष्यन्ति सॊमकान 6 एष शल्यॊ रथॊपस्थे रश्मिसंचार कॊविदः सूतपुत्र रथं कृष्ण वाहयन बहु शॊभते 7 तत्र मे बुद्धिर उत्पन्ना वाहयात्र महारथम नाहत्वा समरे कर्णं निवर्तिष्ये कथं चन 8 राधेयॊ ऽपय अन्यथा पर्थान सृञ्जयांश च महारथान निःशेषान समरे कुर्यात पश्यातॊर नौ जनार्दन 9 ततः परायाद रथेनाशु केशवस तव वाहिनीम कर्णं परति महेष्वासं दवैरथे सव्यसाचिना 10 परयातश च महाबाहुः पाण्डवानुज्ञया हरिः आश्वासयन रथेनैव पाण्डुसैन्यानि सर्वशः 11 रथघॊषः स संग्रामे पाण्डवेयस्य संबभौ वासवाशनि तुल्यस्य महौघस्येव मारिष 12 महता रथघॊषेण पाण्डवः सत्यविक्रमः अभ्ययाद अप्रमेयात्मा विजयस तव वाहिनीम 13 तम आयान्तं समीक्ष्यैव शवेताश्वं कृष्णसारथिम मद्रराजॊ ऽबरवीत कृष्णं केतुं दृष्ट्वा महात्मनः 14 अयं स रथ आयाति शवेताश्वः कृष्णसारथिः निघ्नन्न अमित्रान समरे यं कर्ण परिपृच्छसि 15 एष तिष्ठति कौन्तेयः संस्पृशन गाण्डिवं धनुः तं हनिष्यसि चेद अद्य तन नः शरेयॊ भविष्यति 16 एषा विदीर्यते सेना धार्तराष्ट्री समन्ततः अर्जुनस्य भयात तूर्णं निघ्नतः शात्रवान बहून 17 वर्जयन सर्वसैन्यानि तवरते हि धनंजयः तवदर्थम इति मन्ये ऽहं यथास्यॊदीर्यते वपुः 18 न हय अवस्थाप्यते पार्थॊ युयुत्सुः केन चित सह तवाम ऋते करॊधदीप्तॊ हि पीड्यमाने वृकॊदरे 19 विरथं धर्मराजं च दृष्ट्वा सुदृढ विक्षतम शिखण्डिनं सात्यकिं च धृष्टद्युम्नं च पार्षतम 20 दरौपदेयान युधामन्युम उत्तमौजसम एव च नकुलं सहदेवं च भरातरौ दवौ समीक्ष्य च 21 सहसैक रथः पार्थस तवाम अभ्येति परंतप करॊधरक्तेक्षणः करुद्धॊ जिघांसुः सर्वधन्विनाम 22 तवरितॊ ऽभिपतत्य अस्मांस तयक्त्वा सैन्यान्य असंशयम तवं कर्ण परतियाह्य एनं नास्त्य अन्यॊ हि धनुर्धरः 23 न तं पश्यामि लॊके ऽसमिंस तवत्तॊ ऽपय अन्यं धनुर्धरम अर्जुनं समरे करुद्धां यॊ वेलाम इव धारयेत 24 न चास्य रक्षां पश्यामि पृष्ठतॊ न च पार्श्वतः एक एवाभियाति तवां पश्य साफल्यम आत्मनः 25 तवं हि कृष्णौ रणे शक्तः संसाधयितुम आहवे तवैष भारॊ राधेय परत्युद्याहि धनंजयम 26 तवं कृतॊ हय एव भीष्मेण दरॊण दरौणिकृपैर अपि सव्यसाचि परतिरथस तं निवर्तत पाण्डवम 27 लेलिहानं यथा सर्पं गर्जन्तम ऋषभं यथा लयस्थितं यथा वयाघ्रं जहि कर्ण धनंजयम 28 एते दरवन्ति समरे धार्तराष्ट्रा महारथाः अर्जुनस्या भयात तूर्णं निरपेक्षा जनाधिपाः 29 दरवताम अथ तेषां तु युधि नान्यॊ ऽसति मानवः भयहा यॊ भवेद वीर तवाम ऋते सूतनन्दन 30 एते तवां कुरवः सर्वे दीपम आसाद्य संयुगे विष्ठिताः पुरुषव्याघ्र तवात्तः शरण काङ्क्षिणः 31 वैदेहाम्बष्ठ काम्बॊजास तथा नग्न जितस तवया गान्धाराश च यया धृत्या जिताः संख्ये सुदुर्जयाः 32 तां धृतिं कुरु राधेय ततः परत्येहि पाण्डवम वासुदेवं च वार्ष्णेयं परीयमाणं किरीटिना 33 [कर्ण] परकृतिस्थॊ हि मे शल्य इदानीं संमतस तथा परतिभासि महाबाहॊ विभीश चैव धनंजयात 34 पश्य बाह्वॊर बलं मे ऽदय शिक्षितस्य च पश्य मे एकॊ ऽदय निहनिष्यामि पाण्डवानां महाचमूम 35 कृष्णौ च पुरुषव्याघ्रौ तच च सत्यं बरवीमि ते नाहत्वा युधि तौ वीराव अपयास्ये कथं चन 36 सवप्स्ये वा निह्यतस ताभ्याम असत्यॊ हि रणे जयः कृतार्थॊ वा भविष्यामि हत्वा ताव अथ वा हतः 37 नैतादृशॊ जातु बभूव लॊके; रथॊत्तमॊ यावद अनुश्रुतं नः तम ईदृशं परतियॊत्स्यामि पार्थं; महाहवे पश्य च पौरुषं मे 38 रथे चरत्य एष रथप्रवीरः; शीघ्रैर हयैः कौरव राजपुत्रः स वाद्य मां नेष्यति कृच्छ्रम एतत; कर्णस्यान्ताद एतद अन्ताः सथ सर्वे 39 अस्वेदिनौ राजपुत्रस्य हस्ताव; अवेपिनौ जातकिणौ बृहन्तौ दृढायुधः कृतिमान कषिप्रहस्तॊ; न पाण्डवेयेन समॊ ऽसति यॊधः 40 गृह्णात्य अनेकान अपि कङ्कपत्रान; एकं यथा तान कषितिपान परमथ्य ते करॊशमात्रं निपतन्त्य अमॊघाः; कस तेन यॊधॊ ऽसति समः पृथिव्याम 41 अतॊषयत पाण्डवेयॊ हुताशं; कृष्ण दवितीयॊ ऽतिरथस तरस्वी लेभे चक्रं यत्र कृष्णॊ महात्मा; धनुर गाण्डीवं पाण्डवः सव्य साची 42 शवेताश्वयुक्तं च सुघॊषम अग्र्यं; रथं महाबाहुर अदीनसत्त्वः महेषुधी चाक्षयौ दिव्यरूपौ; शस्त्राणि दिव्यानि च हव्यवाहात 43 तथेन्द्र लॊके निजघान दैत्यान; असंख्येयान कालकेयांश च सर्वान लेभे शङ्खं देवदत्तं सम तत्र; कॊ नाम तेनाभ्यधिकः पृथिव्याम 44 महादेवं तॊषयाम आस चैव; साक्षात सुयुद्धेन महानुभावः लेभे ततः पाशुपतं सुघॊरं; तरैलॊक्यसंहार करं महास्त्रम 45 पृथक्पृथग लॊकपालाः समेता; ददुर हय अस्त्राण्य अप्रमेयाणि यस्य यैस ताञ जघानाशु रणे नृसिंहान; स कालखञ्जान असुरान समेतान 46 तथा विराटस्य पुरे समेतान; सर्वान अस्मान एकरथेन जित्वा जहार तद गॊधनम आजिमध्ये; वस्त्राणि चादत्त महारथेभ्यः 47 तम ईदृश्म वीर्यगुणॊपपन्नं; कृष्ण दवितीयं वरये रणाय अनन्तवीर्येण च केशवेन; नारायणेनाप्रतिमेन गुप्तम 48 वर्षायुतैर यस्य गुणा न शक्या; वक्तुं समेतैर अपि सर्वलॊकैः महात्मनः शङ्खचक्रासि पाणेर; विष्णॊर जिष्णॊर वसुदेवात्मजस्य भयं मे वै जायते साध्वसं च; दृष्ट्वा कृष्णाव एकरथे समेतौ 49 उभौ हि शूरौ कृतिनौ दृढास्त्रौ; महारथौ संहननॊपपन्नौ एतादृशौ फल्गुन वासुदेवौ; कॊ ऽनयः परतीयान मद ऋते नु शल्य 50 एताव अहं युधि वा पातयिष्ये; मां वा कृष्णौ निहनिष्यतॊ ऽदय इति बरुवञ शक्यम अमित्रहन्ता; कर्णॊ रणे मेघ इवॊन्ननाद 51 अभ्येत्य पुत्रेण तवाभिनन्दितः; समेत्य चॊवाच कुरुप्रवीरान कृपं च भॊजं च महाभुजाव उभौ; तथैव गान्धार नृपं सहानुजम गुरॊः सुतं चावरजं तथात्मनः; पदातिनॊ ऽथ दविपसादिनॊ ऽनयान 52 निरुन्धताभिद्रवताच्युतार्जुनौ; शरमेण संयॊजयताशु सर्वतः यथा भवद्भिर भृशविक्षताव उभौ; सुखेन हन्याम अहम अद्य भूमिपाः 53 तथेति चॊक्त्वा तवरिताः सम ते ऽरजुनं; जिघांसवॊ वीरतमाः समभ्ययुः नदीनदान भूरि जलॊ महार्णवॊ; यथातथा तान समरे ऽरजुनॊ ऽगरसत 54 न संदधानॊ न तथा शरॊत्तमान; परमुञ्चमानॊ रिपुभिः परदृश्यते धनंजयस तस्य शरैश च दारिता; हताश च पेतुर नरवाजि कुञ्जराः 55 शरार्चिषं गाण्डिवचारु मण्डलं; युगान्तसूर्यप्रतिमान तेजसम न कौरवाः शेकुर उदीक्षितुं जयं; यथा रविं वयाधित चक्षुषॊ जनाः 56 तम अभ्यधावद विसृजञ शरान कृपस; तथैव भॊजस तव चात्मजः सवयम जिघांसुभिस तान कुशलैः शरॊत्तमान; महाहवे संजवितान परयत्नतः शरैः परचिच्छेद च पाण्डवस तवरन; पराभिनद वक्षसि च तरिभिस तरिभिः 57 स गाण्डिवाभ्यायत पूर्णमण्डलस; तपन रिपून अर्जुन भास्करॊ बभौ शरॊग्र रश्मिः शुचि शुक्रमध्यगॊ; यथैव सूर्यः परिवेषगस तथा 58 अथाग्र्य बाणैर दशभिर धनंजयं; पराभिनद दरॊणसुतॊ ऽचयुतं तरिभिः चतुर्भिर अश्वांश चतुरः कपिं तथा; शरैः स नाराचवरैर अवाकिरत 59 तथा तु तत तत सफुरद आत्तकार्मुकं; तरिभिः शरैर यन्तृशिरः कषुरेण हयांश चतुर्भिश चतुरस तरिभिर धवजं; धनंजयॊ दरौणिरथान नयपातयत 60 स रॊषपूर्णॊ ऽशनिवज्रहाटकैर; अलंकृतं तक्षक भॊगवर्चसम सुबन्धनं कार्मुकम अन्यद आददे; यथा महाहिप्रवरं गिरेस तथा 61 सवम आयुधं चॊपविकीर्य भूतले; धनुश च कृत्वा सगुणं गुणाधिकः समानयानाव अजितौ नरॊत्तमौ; शरॊत्तमैर दरौणिर अविध्यद अन्तिकात 62 कृपश च भॊजश च तथात्मजश च ते; तमॊनुदं वारिधरा इवापतन कृपस्य पार्थः सशरं शरासनं; हयान धवजं सारथिम एव पत्रिभिः 63 शरैः परचिच्छेद तवात्मजस्य; धवजं धनुश च परचकर्त नर्दतः जघान चाश्वान कृतवर्मणः शुभान; धवजं च चिच्छेद ततः परतापवान 64 सवाजिसूतेष्व असनान सकेतनाञ; जघान नागाश्वरथांस तवरंश च सः ततः परकीर्णं सुमहद बलं तव; परदारितं सेतुर इवाम्भसा यथा ततॊ ऽरजुनस्याशु रथेन केशवश; चकार शत्रून अपसव्य मातुरान 65 तथ परयान्तं तवरितं धनंजयं; शतक्रतुं वृत्र निजघ्नुषं यथा समन्वधावन पुनर उच्छ्रितैर धवजै; रथैः सुयुक्तैर अपरे युयुत्सवः 66 अथाभिसृत्य परतिवार्य तान अरीन; धनंजयस्याभि रथं महारथाः शिखण्डिशैनेय यमाः शितैः शरैर; विदारयन्तॊ वयनदन सुभौरवम 67 ततॊ ऽभिजघ्नुः कुपिताः परस्परं; शरैस तदाञ्जॊ गतिभिः सुतेजनैः कुरुप्रवीराः सह सृञ्जयैर यथा; असुराः पुरा देववरैर अयॊधयन 68 जयेप्सवः सवर्गमनाय चॊत्सुकाः; पतन्ति नागाश्वरथाः परंतप जगर्जुर उच्चैर बलवच च विव्यधुः; शरैः सुमुक्तैर इतरेतरं पृथक 69 शरान्धकारे तु महात्मभिः कृते; महामृधे यॊधवरैः परस्परम बभुर दशाशा न दिवं च पार्थिव; परभा च सूर्यस्य तमॊवृताभवत |
1
[s] arjunas tu mahārāja kṛtvā sainyaṃ pṛthagvidhām sūtaputraṃ susaṃrabdhaṃ dṛṣṭvā caiva mahāraṇe 2 śoṇitodāṃ mahīṃ kṛtvā māṃsamajjāsthi vāhinīm vāsudevam idaṃ vākyam abravīt puruṣarṣabha 3 eṣa ketū raṇe kṛṣṇa sūtaputrasya dṛśyate bhīmasenādayaś caite yodhayanti mahārathān ete dravanti pāñcālāḥ karṇās trastā janārdana 4 eṣa duryodhano rājā śvetac chatreṇa bhāsvatā karṇena bhagnān pāñcālān drāvayan bahu śobhate 5 kṛpaś ca kṛtavarmā ca drauṇiś caiva mahābalaḥ ete rakṣanti rājānaṃ sūtaputreṇa rakṣitāḥ avadhyamānās te 'smābhir ghātayiṣyanti somakān 6 eṣa śalyo rathopasthe raśmisaṃcāra kovidaḥ sūtaputra rathaṃ kṛṣṇa vāhayan bahu śobhate 7 tatra me buddhir utpannā vāhayātra mahāratham nāhatvā samare karṇaṃ nivartiṣye kathaṃ cana 8 rādheyo 'py anyathā parthān sṛñjayāṃś ca mahārathān niḥśeṣān samare kuryāt paśyātor nau janārdana 9 tataḥ prāyād rathenāśu keśavas tava vāhinīm karṇaṃ prati maheṣvāsaṃ dvairathe savyasācinā 10 prayātaś ca mahābāhuḥ pāṇḍavānujñayā hariḥ āśvāsayan rathenaiva pāṇḍusainyāni sarvaśaḥ 11 rathaghoṣaḥ sa saṃgrāme pāṇḍaveyasya saṃbabhau vāsavāśani tulyasya mahaughasyeva māriṣa 12 mahatā rathaghoṣeṇa pāṇḍavaḥ satyavikramaḥ abhyayād aprameyātmā vijayas tava vāhinīm 13 tam āyāntaṃ samīkṣyaiva śvetāśvaṃ kṛṣṇasārathim madrarājo 'bravīt kṛṣṇaṃ ketuṃ dṛṣṭvā mahātmanaḥ 14 ayaṃ sa ratha āyāti śvetāśvaḥ kṛṣṇasārathiḥ nighnann amitrān samare yaṃ karṇa paripṛcchasi 15 eṣa tiṣṭhati kaunteyaḥ saṃspṛśan gāṇḍivaṃ dhanuḥ taṃ haniṣyasi ced adya tan naḥ śreyo bhaviṣyati 16 eṣā vidīryate senā dhārtarāṣṭrī samantataḥ arjunasya bhayāt tūrṇaṃ nighnataḥ śātravān bahūn 17 varjayan sarvasainyāni tvarate hi dhanaṃjayaḥ tvadartham iti manye 'haṃ yathāsyodīryate vapuḥ 18 na hy avasthāpyate pārtho yuyutsuḥ kena cit saha tvām ṛte krodhadīpto hi pīḍyamāne vṛkodare 19 virathaṃ dharmarājaṃ ca dṛṣṭvā sudṛḍha vikṣatam śikhaṇḍinaṃ sātyakiṃ ca dhṛṣṭadyumnaṃ ca pārṣatam 20 draupadeyān yudhāmanyum uttamaujasam eva ca nakulaṃ sahadevaṃ ca bhrātarau dvau samīkṣya ca 21 sahasaika rathaḥ pārthas tvām abhyeti paraṃtapa krodharaktekṣaṇaḥ kruddho jighāṃsuḥ sarvadhanvinām 22 tvarito 'bhipataty asmāṃs tyaktvā sainyāny asaṃśayam tvaṃ karṇa pratiyāhy enaṃ nāsty anyo hi dhanurdharaḥ 23 na taṃ paśyāmi loke 'smiṃs tvatto 'py anyaṃ dhanurdharam arjunaṃ samare kruddhāṃ yo velām iva dhārayet 24 na cāsya rakṣāṃ paśyāmi pṛṣṭhato na ca pārśvataḥ eka evābhiyāti tvāṃ paśya sāphalyam ātmanaḥ 25 tvaṃ hi kṛṣṇau raṇe śaktaḥ saṃsādhayitum āhave tavaiṣa bhāro rādheya pratyudyāhi dhanaṃjayam 26 tvaṃ kṛto hy eva bhīṣmeṇa droṇa drauṇikṛpair api savyasāci pratirathas taṃ nivartata pāṇḍavam 27 lelihānaṃ yathā sarpaṃ garjantam ṛṣabhaṃ yathā layasthitaṃ yathā vyāghraṃ jahi karṇa dhanaṃjayam 28 ete dravanti samare dhārtarāṣṭrā mahārathāḥ arjunasyā bhayāt tūrṇaṃ nirapekṣā janādhipāḥ 29 dravatām atha teṣāṃ tu yudhi nānyo 'sti mānavaḥ bhayahā yo bhaved vīra tvām ṛte sūtanandana 30 ete tvāṃ kuravaḥ sarve dīpam āsādya saṃyuge viṣṭhitāḥ puruṣavyāghra tvāttaḥ śaraṇa kāṅkṣiṇaḥ 31 vaidehāmbaṣṭha kāmbojās tathā nagna jitas tvayā gāndhārāś ca yayā dhṛtyā jitāḥ saṃkhye sudurjayāḥ 32 tāṃ dhṛtiṃ kuru rādheya tataḥ pratyehi pāṇḍavam vāsudevaṃ ca vārṣṇeyaṃ prīyamāṇaṃ kirīṭinā 33 [karṇa] prakṛtistho hi me śalya idānīṃ saṃmatas tathā pratibhāsi mahābāho vibhīś caiva dhanaṃjayāt 34 paśya bāhvor balaṃ me 'dya śikṣitasya ca paśya me eko 'dya nihaniṣyāmi pāṇḍavānāṃ mahācamūm 35 kṛṣṇau ca puruṣavyāghrau tac ca satyaṃ bravīmi te nāhatvā yudhi tau vīrāv apayāsye kathaṃ cana 36 svapsye vā nihyatas tābhyām asatyo hi raṇe jayaḥ kṛtārtho vā bhaviṣyāmi hatvā tāv atha vā hataḥ 37 naitādṛśo jātu babhūva loke; rathottamo yāvad anuśrutaṃ naḥ tam īdṛśaṃ pratiyotsyāmi pārthaṃ; mahāhave paśya ca pauruṣaṃ me 38 rathe caraty eṣa rathapravīraḥ; śīghrair hayaiḥ kaurava rājaputraḥ sa vādya māṃ neṣyati kṛcchram etat; karṇasyāntād etad antāḥ stha sarve 39 asvedinau rājaputrasya hastāv; avepinau jātakiṇau bṛhantau dṛḍhāyudhaḥ kṛtimān kṣiprahasto; na pāṇḍaveyena samo 'sti yodhaḥ 40 gṛhṇāty anekān api kaṅkapatrān; ekaṃ yathā tān kṣitipān pramathya te krośamātraṃ nipatanty amoghāḥ; kas tena yodho 'sti samaḥ pṛthivyām 41 atoṣayat pāṇḍaveyo hutāśaṃ; kṛṣṇa dvitīyo 'tirathas tarasvī lebhe cakraṃ yatra kṛṣṇo mahātmā; dhanur gāṇḍīvaṃ pāṇḍavaḥ svya sācī 42 śvetāśvayuktaṃ ca sughoṣam agryaṃ; rathaṃ mahābāhur adīnasattvaḥ maheṣudhī cākṣayau divyarūpau; śastrāṇi divyāni ca havyavāhāt 43 tathendra loke nijaghāna daityān; asaṃkhyeyān kālakeyāṃś ca sarvān lebhe śaṅkhaṃ devadattaṃ sma tatra; ko nāma tenābhyadhikaḥ pṛthivyām 44 mahādevaṃ toṣayām āsa caiva; sākṣāt suyuddhena mahānubhāvaḥ lebhe tataḥ pāśupataṃ sughoraṃ; trailokyasaṃhāra karaṃ mahāstram 45 pṛthakpṛthag lokapālāḥ sametā; dadur hy astrāṇy aprameyāṇi yasya yais tāñ jaghānāśu raṇe nṛsiṃhān; sa kālakhañjān asurān sametān 46 tathā virāṭasya pure sametān; sarvān asmān ekarathena jitvā jahāra tad godhanam ājimadhye; vastrāṇi cādatta mahārathebhyaḥ 47 tam īdṛśma vīryaguṇopapannaṃ; kṛṣṇa dvitīyaṃ varaye raṇāya anantavīryeṇa ca keśavena; nārāyaṇenāpratimena guptam 48 varṣāyutair yasya guṇā na śakyā; vaktuṃ sametair api sarvalokaiḥ mahātmanaḥ śaṅkhacakrāsi pāṇer; viṣṇor jiṣṇor vasudevātmajasya bhayaṃ me vai jāyate sādhvasaṃ ca; dṛṣṭvā kṛṣṇāv ekarathe sametau 49 ubhau hi śūrau kṛtinau dṛḍhāstrau; mahārathau saṃhananopapannau etādṛśau phalguna vāsudevau; ko 'nyaḥ pratīyān mad ṛte nu śalya 50 etāv ahaṃ yudhi vā pātayiṣye; māṃ vā kṛṣṇau nihaniṣyato 'dya iti bruvañ śakyam amitrahantā; karṇo raṇe megha ivonnanāda 51 abhyetya putreṇa tavābhinanditaḥ; sametya covāca kurupravīrān kṛpaṃ ca bhojaṃ ca mahābhujāv ubhau; tathaiva gāndhāra nṛpaṃ sahānujam guroḥ sutaṃ cāvarajaṃ tathātmanaḥ; padātino 'tha dvipasādino 'nyān 52 nirundhatābhidravatācyutārjunau; śrameṇa saṃyojayatāśu sarvataḥ yathā bhavadbhir bhṛśavikṣatāv ubhau; sukhena hanyām aham adya bhūmipāḥ 53 tatheti coktvā tvaritāḥ sma te 'rjunaṃ; jighāṃsavo vīratamāḥ samabhyayuḥ nadīnadān bhūri jalo mahārṇavo; yathātathā tān samare 'rjuno 'grasat 54 na saṃdadhāno na tathā śarottamān; pramuñcamāno ripubhiḥ pradṛśyate dhanaṃjayas tasya śaraiś ca dāritā; hatāś ca petur naravāji kuñjarāḥ 55 śarārciṣaṃ gāṇḍivacāru maṇḍalaṃ; yugāntasūryapratimāna tejasam na kauravāḥ śekur udīkṣituṃ jayaṃ; yathā raviṃ vyādhita cakṣuṣo janāḥ 56 tam abhyadhāvad visṛjañ śarān kṛpas; tathaiva bhojas tava cātmajaḥ svayam jighāṃsubhis tān kuśalaiḥ śarottamān; mahāhave saṃjavitān prayatnataḥ śaraiḥ praciccheda ca pāṇḍavas tvaran; parābhinad vakṣasi ca tribhis tribhiḥ 57 sa gāṇḍivābhyāyata pūrṇamaṇḍalas; tapan ripūn arjuna bhāskaro babhau śarogra raśmiḥ śuci śukramadhyago; yathaiva sūryaḥ pariveṣagas tathā 58 athāgrya bāṇair daśabhir dhanaṃjayaṃ; parābhinad droṇasuto 'cyutaṃ tribhiḥ caturbhir aśvāṃś caturaḥ kapiṃ tathā; śaraiḥ sa nārācavarair avākirat 59 tathā tu tat tat sphurad āttakārmukaṃ; tribhiḥ śarair yantṛśiraḥ kṣureṇa hayāṃś caturbhiś caturas tribhir dhvajaṃ; dhanaṃjayo drauṇirathān nyapātayat 60 sa roṣapūrṇo 'śanivajrahāṭakair; alaṃkṛtaṃ takṣaka bhogavarcasam subandhanaṃ kārmukam anyad ādade; yathā mahāhipravaraṃ gires tathā 61 svam āyudhaṃ copavikīrya bhūtale; dhanuś ca kṛtvā saguṇaṃ guṇādhikaḥ samānayānāv ajitau narottamau; śarottamair drauṇir avidhyad antikāt 62 kṛpaś ca bhojaś ca tathātmajaś ca te; tamonudaṃ vāridharā ivāpatan kṛpasya pārthaḥ saśaraṃ śarāsanaṃ; hayān dhvajaṃ sārathim eva patribhiḥ 63 śaraiḥ praciccheda tavātmajasya; dhvajaṃ dhanuś ca pracakarta nardataḥ jaghāna cāśvān kṛtavarmaṇaḥ śubhān; dhvajaṃ ca ciccheda tataḥ pratāpavān 64 savājisūteṣv asanān saketanāñ; jaghāna nāgāśvarathāṃs tvaraṃś ca saḥ tataḥ prakīrṇaṃ sumahad balaṃ tava; pradāritaṃ setur ivāmbhasā yathā tato 'rjunasyāśu rathena keśavaś; cakāra śatrūn apasavya māturān 65 tatha prayāntaṃ tvaritaṃ dhanaṃjayaṃ; śatakratuṃ vṛtra nijaghnuṣaṃ yathā samanvadhāvan punar ucchritair dhvajai; rathaiḥ suyuktair apare yuyutsavaḥ 66 athābhisṛtya prativārya tān arīn; dhanaṃjayasyābhi rathaṃ mahārathāḥ śikhaṇḍiśaineya yamāḥ śitaiḥ śarair; vidārayanto vyanadan subhauravam 67 tato 'bhijaghnuḥ kupitāḥ parasparaṃ; śarais tadāñjo gatibhiḥ sutejanaiḥ kurupravīrāḥ saha sṛñjayair yathā; asurāḥ purā devavarair ayodhayan 68 jayepsavaḥ svargamanāya cotsukāḥ; patanti nāgāśvarathāḥ paraṃtapa jagarjur uccair balavac ca vivyadhuḥ; śaraiḥ sumuktair itaretaraṃ pṛthak 69 śarāndhakāre tu mahātmabhiḥ kṛte; mahāmṛdhe yodhavaraiḥ parasparam babhur daśāśā na divaṃ ca pārthiva; prabhā ca sūryasya tamovṛtābhavat |
The Mahabharata in Sanskrit
Book 8
Chapter 58
|
1
[स] राजन कुरूणां परवरैर बलैर भीमम अभिद्रुतम मज्जन्तम इव कौन्तेयम उज्जिहीर्षुर धनंजयः 2 विमृद्य सूतपुत्रस्य सेनां भारत सायकैः पराहिणॊन मृत्युलॊकाय परवीरान धनंजयः 3 ततॊ ऽसयाम्बरम आवृत्य शरजालानि भागशः अदृश्यन्त तथान्ये च निघ्नन्तस तव वाहिनीम 4 स पक्षिसंघाचरितम आकाशं पूरयञ शरैः धनंजयॊ महाराज कुरूणाम अन्तकॊ ऽभवत 5 ततॊ भल्लैः कषुरप्रैश च नाराचैर निर्मलैर अपि गात्राणि पराक्षिणॊत पार्थः शैरांसि च चकर्त ह 6 छिन्नगात्रैर विकवचैर विशिरस्कैः समन्ततः पतितैश चपतद्भिश च यॊधैर आसीत समावृतम 7 धनंजय शराभ्यस्तैः सयन्दनाश्वनरद्विपैः रणभूमिर अभूद राजन महावैतरणी यथा 8 इषा चक्राक्षभङ्गैश च वयश्वैः साश्वैश च युध्यताम ससूतैर हतसूतैश च रथैः सतीर्णाभवन मही 9 सुवर्णवर्म संनाहैर यॊधैः कनकभूषणैः आस्थिताः कृतवर्माणॊ भद्रा नित्यमदा दविपाः करुद्धाः करुद्धैर महामात्रैः परेषितार्जुनम अभ्ययुः 10 चतुःशताः शरवर्षैर हताः पेतुः किरीटिना पर्यस्तानीव शृङ्गाणि ससत्त्वानि महागिरेः 11 धनंजय शराभ्यस्तैः सतीर्णा भूर वरवारणैः अभिपेदे ऽरजुन रथॊ घनान भिन्दन्निवांशुमान 12 हतैर गजमनुष्याश्वैर भग्नैश च बहुधा रथैः विशस्त्र पत्रकवचैर युद्धशौण्डैर गतासुभिः अपविद्धायुधैर मार्गः सतीर्णॊ ऽभूत फल्गुनेन वै 13 वयस्फूर्जयच च गाण्डीवं सुमहद भैरवस्वनम घॊरॊ वज्रविनिष्पेषः सतनयित्नॊर इवाम्बरे 14 ततः परदीर्यत चमूर धनंजय शराहता महावातसमाविद्धा महानौर इव सागरे 15 नानारूपाः परहरणाः शरा गाण्डीवचॊदिताः अलातॊल्काशनि परख्यास तव सैन्यं विनिर्दहन 16 महागिरौ वेणुवनं निशि परज्वलितं यथा तथा तव महत सैन्यं परास्फुरच छरपीडितम 17 संपिष्ट दग्धविध्वस्तं तव सैन्यं किरीटिना हतम्प्रविहतं बाणैः सर्वतः परद्रुतं दिशः 18 महावने मृगगणा दावाग्निग्रसिता यथा कुरवः पर्यवर्तन्त निर्दग्धाः सव्यसाचिना 19 उत्सृज्य हि महाबाहुं भीमसेनं तदा रणे बलं कुरूणाम उद्विग्नं सर्वम आसीत पराङ्मुखम 20 ततः कुरुषु भग्नेषु बीभत्सुर अपराजितः भीमसेनं समासाद्य मुहूर्तं सॊ ऽभयवर्तत 21 समागम्य स भीमेन मन्त्रयित्वा च फल्गुनः विशल्यम अरुजं चास्मै कथयित्वा युधिष्ठिरम 22 भीमसेनाभ्यनुज्ञातस ततः परायाद धनंजयः नादयन रथघॊषेण पृथिवीं दयां च भारत 23 ततः परिवृतॊ भीमैर दशभिः शत्रुपुङ्गवैः दुःशासनाद अवरजैस तव पुत्रैर धनंजयः 24 ते तम अभ्यर्दयन बाणैर उल्काभिर इव कुञ्जरम आततेष्व असनाः करूरा नृत्यन्त इव भारत 25 अपसव्यांस तु तांश चक्रे रथेन मधुसूदनः ततस ते पराद्रवञ शूराः पराङ्मुख रथे ऽरजुने 26 तेषाम आपततां केतून रथांश चापानि सायकान नाराचैर अर्धचन्द्रैश च कषिप्रं पार्थॊ नयपातयत 27 अथान्यैर दशभिर भल्लैः शिरांस्य एषां नयपातयत रॊषसंरक्त नेत्राणि संदष्टौष्ठानि भूतले तानि वक्त्राणि विबभुर वयॊम्नि तारागणा इव 28 तांस तु भल्लैर महावेगैर दशभिर दश कौरवान रुक्माङ्गदान रुक्मपुङ्खैर विद्ध्वा परायाद अमित्रहा |
1
[s] rājan kurūṇāṃ pravarair balair bhīmam abhidrutam majjantam iva kaunteyam ujjihīrṣur dhanaṃjayaḥ 2 vimṛdya sūtaputrasya senāṃ bhārata sāyakaiḥ prāhiṇon mṛtyulokāya paravīrān dhanaṃjayaḥ 3 tato 'syāmbaram āvṛtya śarajālāni bhāgaśaḥ adṛśyanta tathānye ca nighnantas tava vāhinīm 4 sa pakṣisaṃghācaritam ākāśaṃ pūrayañ śaraiḥ dhanaṃjayo mahārāja kurūṇām antako 'bhavat 5 tato bhallaiḥ kṣurapraiś ca nārācair nirmalair api gātrāṇi prākṣiṇot pārthaḥ śairāṃsi ca cakarta ha 6 chinnagātrair vikavacair viśiraskaiḥ samantataḥ patitaiś capatadbhiś ca yodhair āsīt samāvṛtam 7 dhanaṃjaya śarābhyastaiḥ syandanāśvanaradvipaiḥ raṇabhūmir abhūd rājan mahāvaitaraṇī yathā 8 iṣā cakrākṣabhaṅgaiś ca vyaśvaiḥ sāśvaiś ca yudhyatām sasūtair hatasūtaiś ca rathaiḥ stīrṇābhavan mahī 9 suvarṇavarma saṃnāhair yodhaiḥ kanakabhūṣaṇaiḥ āsthitāḥ kṛtavarmāṇo bhadrā nityamadā dvipāḥ kruddhāḥ kruddhair mahāmātraiḥ preṣitārjunam abhyayuḥ 10 catuḥśatāḥ śaravarṣair hatāḥ petuḥ kirīṭinā paryastānīva śṛṅgāṇi sasattvāni mahāgireḥ 11 dhanaṃjaya śarābhyastaiḥ stīrṇā bhūr varavāraṇaiḥ abhipede 'rjuna ratho ghanān bhindannivāṃśumān 12 hatair gajamanuṣyāśvair bhagnaiś ca bahudhā rathaiḥ viśastra patrakavacair yuddhaśauṇḍair gatāsubhiḥ apaviddhāyudhair mārgaḥ stīrṇo 'bhūt phalgunena vai 13 vyasphūrjayac ca gāṇḍīvaṃ sumahad bhairavasvanam ghoro vajraviniṣpeṣaḥ stanayitnor ivāmbare 14 tataḥ pradīryata camūr dhanaṃjaya śarāhatā mahāvātasamāviddhā mahānaur iva sāgare 15 nānārūpāḥ praharaṇāḥ śarā gāṇḍīvacoditāḥ alātolkāśani prakhyās tava sainyaṃ vinirdahan 16 mahāgirau veṇuvanaṃ niśi prajvalitaṃ yathā tathā tava mahat sainyaṃ prāsphurac charapīḍitam 17 saṃpiṣṭa dagdhavidhvastaṃ tava sainyaṃ kirīṭinā hatampravihataṃ bāṇaiḥ sarvataḥ pradrutaṃ diśaḥ 18 mahāvane mṛgagaṇā dāvāgnigrasitā yathā kuravaḥ paryavartanta nirdagdhāḥ savyasācinā 19 utsṛjya hi mahābāhuṃ bhīmasenaṃ tadā raṇe balaṃ kurūṇām udvignaṃ sarvam āsīt parāṅmukham 20 tataḥ kuruṣu bhagneṣu bībhatsur aparājitaḥ bhīmasenaṃ samāsādya muhūrtaṃ so 'bhyavartata 21 samāgamya sa bhīmena mantrayitvā ca phalgunaḥ viśalyam arujaṃ cāsmai kathayitvā yudhiṣṭhiram 22 bhīmasenābhyanujñātas tataḥ prāyād dhanaṃjayaḥ nādayan rathaghoṣeṇa pṛthivīṃ dyāṃ ca bhārata 23 tataḥ parivṛto bhīmair daśabhiḥ śatrupuṅgavaiḥ duḥśāsanād avarajais tava putrair dhanaṃjayaḥ 24 te tam abhyardayan bāṇair ulkābhir iva kuñjaram ātateṣv asanāḥ krūrā nṛtyanta iva bhārata 25 apasavyāṃs tu tāṃś cakre rathena madhusūdanaḥ tatas te prādravañ śūrāḥ parāṅmukha rathe 'rjune 26 teṣām āpatatāṃ ketūn rathāṃś cāpāni sāyakān nārācair ardhacandraiś ca kṣipraṃ pārtho nyapātayat 27 athānyair daśabhir bhallaiḥ śirāṃsy eṣāṃ nyapātayat roṣasaṃrakta netrāṇi saṃdaṣṭauṣṭhāni bhūtale tāni vaktrāṇi vibabhur vyomni tārāgaṇā iva 28 tāṃs tu bhallair mahāvegair daśabhir daśa kauravān rukmāṅgadān rukmapuṅkhair viddhvā prāyād amitrahā |
The Mahabharata in Sanskrit
Book 8
Chapter 59
|
1
[स] तं तु यान्तं महावेगैर अश्वैः कपिवरध्वजम युद्धायाभ्यद्रवन वीराः कुरूणां नवती रथाः परिवव्रुर नरव्याघ्रा नरव्याघ्रं रणे ऽरजुनम 2 कृष्णः शवेतान महावेगान अश्वान कनकभूषणान मुक्ताजालप्रतिच्छन्नान परैषीत कर्ण रथं परति 3 ततः कर्ण रथं यान्तम अरीन घनन्तं धनंजयम बाणवर्षैर अभिघ्नन्तः संशप्तक रथा ययुः 4 तवरमाणांस तु तान सर्वान ससूतेष्व असन धवजान जघान नवतिं वीरान अर्जुनॊ निशितैः शरैः 5 ते ऽपतन्त हता बाणैर नानारूपैः किरीटिना सविमाना यथा सिद्धाः सवर्गात पुण्यक्षये तथा 6 ततः सरथ नागाश्वाः कुरवः कुरुसत्तम निर्भया भरतश्रेष्ठम अभ्यवर्तन्त फल्गुनम 7 तद आयस्तम अमुक्तास्त्रम उदीर्णवरवारणम पुत्राणां ते महत सैन्यं समरौत्सीद धनंजयः 8 शक्त्यृष्टि तॊमरप्रासैर गदा निस्त्रिंशसायकैः पराच्छादयन महेष्वासाः कुरवः कुरुनन्दनम 9 तां कुरूणां परविततां शस्त्रवृष्टिं समुद्यताम वयधमत पाण्डवॊ बाणैस तमः सूर्य इवांशुभिः 10 ततॊ मलेच्छाः सथितैर मत्तैस तरयॊदश शतैर गजैः पार्श्वतॊ ऽभयहनन पार्थं तव पुत्रस्य शासनात 11 कर्णिनालीकनाराचैस तॊमरैः परासशक्तिभिः कम्पनैर भिण्डिपालैश च रथस्थं पार्थम आर्दयन 12 ताम अस्त्रवृष्टिं परहितां दविपस्थैर यवनैः समयन चिच्छेद निशितैर भल्लैर अर्धचन्द्रैश च फल्गुनः 13 अथ तान दविरदान सर्वान नाना लिङ्गैर महाशरैः सपताकान सहारॊहान गिरीन वज्रैर इवाभिनत 14 ते हेमपुङ्खैर इषुभिर आचिता हेममालिनः हताः पेतुर महानागाः साग्निज्वाला इवाद्रयः 15 ततॊ गाण्डीवनिर्घॊषॊ महान आसीद विशां पते सतनतां कूजतां चैव मनुष्यगजवाजिनाम 16 कुञ्जराश च हता राजन पराद्रवंस ते समन्ततः अश्वांश च पर्यधावन्त हतारॊहा दिशॊ दश 17 रथा हीना महाराज रथिभिर वाजिभिस तथा गन्धर्वनगराकारा दृश्यन्ते सम सहस्रशः 18 अश्वारॊहा महाराज धावमानास ततस ततः तत्र तत्रैव दृश्यन्ते पतिताः पार्थ सायकैः 19 तस्मिन कषणे पाण्डवस्य बाह्वॊर बलम अदृश्यत यत सादिनॊ वारणांश च रथांश चैकॊ ऽजयद युधि 20 ततस तर्यङ्गेण महता बलेन भरतर्षभ दृष्ट्वा परिवृतं राजन भीमसेनः किरीटिनम 21 हतावशेषान उत्सृज्य तवदीयान कति चिद रथान जवेनाभ्यद्रवद राजन धनंजयरथं परति 22 ततस तत पराद्रवत सैन्यं हतभूयिष्ठम आतुरम दृष्ट्वा यद अर्जुनं भीमॊ जगाम भरातरं परति 23 हतावशिष्टांस तुरगान अर्जुनेन महाजवान भीमॊ वयधमद अभ्रान्तॊ गदापाणिर महाहवे 24 कालरात्रिम इवात्युग्रां नरनागाश्वभॊजनाम पराकाराट्ट पुरद्वार दारणीम अतिदारुणाम 25 ततॊ गदां नृनागाश्वेष्व आशु भीमॊ वयवासृजत सा जघान बहून अश्वान अश्वारॊहांश च मारिष 26 कांस्यायस तनुत्रांस तान नरान अश्वांश च पाण्डवः पॊथयाम आस गदया सशब्दहं ते ऽपतन हताः 27 हत्वा तु तद गजानीकं भीमसेनॊ महाबलः पुनः सवरथम आस्थाय पृष्ठतॊ ऽरजुनम अन्वगात 28 हतं पराङ्मुख परायं निरुत्साहं परं बलम वयालम्बत महाराज परायशः शस्त्रवेष्टितम 29 विलम्बमानं तत सैन्यम अप्रगल्भम अवस्थितम दृष्ट्वा पराच्छादयद बाणैर अर्जुनः पराणतापनैः 30 ततः कुरूणाम अभवद आर्तनादॊ महामृधे रथाश्वनागासु हरैर वध्यताम अर्जुनेषुभिः 31 हाहाकृतं भृशं तस्थौ लीयमानं परस्परम अलातचक्रवत सैन्यं तदाब्भ्रमत तावकम 32 आदीप्तं तव तत सैन्यं शरैश छिन्नतनुच छदम आसीत सवशॊणित कलिन्नं फुल्लाशॊक वनं यथा 33 तद दृष्ट्वा कुरवस तत्र विक्रान्तं सव्यसाचिनः निराशाः समपद्यन्त सर्वे कर्णस्य जीविते 34 अविषह्यं तु पार्थस्य शरसंपातम आहवे मत्वा नयवर्तन कुरवॊ जिता गाण्डीवधन्वना 35 ते हित्वा समरे पार्थं वध्यमानाश च सायकैः परदुद्रुवुर दिशॊ भीताश चुक्रुशुश चापि सूतजम 36 अभ्यद्रवत तान पार्थः किरञ शरशतान बहून हर्षयन पाण्डवान यॊधान भीमसेनपुरॊगमान 37 पुत्रास तु ते महाराज जग्मुः कर्ण रथं परथि अगाधे मज्जतां तेषां दवीपः कर्णॊ ऽभवत तदा 38 कुरवॊ हि महाराज निर्विषाः पन्नगा इव कर्णम एवॊपलीयन्त भयाद गाण्डीवधन्वनः 39 यथा सर्वाणि भूतानि मृत्यॊर भीतानि भारत धर्मम एवॊपलीयन्ते कर्मवन्ति हि यानि च 40 तथा कर्णं महेष्वासं पुत्रास तव नराधिप उपालीयन्त संत्रासात पाण्डवस्यमहात्मनः 41 ताञ शॊणितपरिक्लिन्नान विषमस्थाञ शरातुरान मा भैष्टेत्य अब्रवीत कर्णॊ हय अभितॊ माम इतेति च 42 संभग्नं हि बलं दृष्ट्वा बलात पार्थेन तावकम धनुर विस्फारयन कर्णस तस्थौ शत्रुजिघांसया पाञ्चालान पुनर आधावत पश्यतः सव्यसाचिनः 43 ततः कषणेन कषितिपाः कषतजप्रतिमेक्षणाः कर्णं ववर्षुर बाणौघैर यथा मेघा महीधरम 44 ततः शरसहस्राणि कर्ण मुक्तानि मारिष वययॊजयन्त पाञ्चालान पराणैः पराणभृतां वर 45 ततॊ रणॊ महान आसीत पाञ्चालानां विशां पते वध्यतां सूतपुत्रेण मित्रार्थे ऽमित्रघातिनाम |
1
[s] taṃ tu yāntaṃ mahāvegair aśvaiḥ kapivaradhvajam yuddhāyābhyadravan vīrāḥ kurūṇāṃ navatī rathāḥ parivavrur naravyāghrā naravyāghraṃ raṇe 'rjunam 2 kṛṣṇaḥ śvetān mahāvegān aśvān kanakabhūṣaṇān muktājālapraticchannān praiṣīt karṇa rathaṃ prati 3 tataḥ karṇa rathaṃ yāntam arīn ghnantaṃ dhanaṃjayam bāṇavarṣair abhighnantaḥ saṃśaptaka rathā yayuḥ 4 tvaramāṇāṃs tu tān sarvān sasūteṣv asana dhvajān jaghāna navatiṃ vīrān arjuno niśitaiḥ śaraiḥ 5 te 'patanta hatā bāṇair nānārūpaiḥ kirīṭinā savimānā yathā siddhāḥ svargāt puṇyakṣaye tathā 6 tataḥ saratha nāgāśvāḥ kuravaḥ kurusattama nirbhayā bharataśreṣṭham abhyavartanta phalgunam 7 tad āyastam amuktāstram udīrṇavaravāraṇam putrāṇāṃ te mahat sainyaṃ samarautsīd dhanaṃjayaḥ 8 śaktyṛṣṭi tomaraprāsair gadā nistriṃśasāyakaiḥ prācchādayan maheṣvāsāḥ kuravaḥ kurunandanam 9 tāṃ kurūṇāṃ pravitatāṃ śastravṛṣṭiṃ samudyatām vyadhamat pāṇḍavo bāṇais tamaḥ sūrya ivāṃśubhiḥ 10 tato mlecchāḥ sthitair mattais trayodaśa śatair gajaiḥ pārśvato 'bhyahanan pārthaṃ tava putrasya śāsanāt 11 karṇinālīkanārācais tomaraiḥ prāsaśaktibhiḥ kampanair bhiṇḍipālaiś ca rathasthaṃ pārtham ārdayan 12 tām astravṛṣṭiṃ prahitāṃ dvipasthair yavanaiḥ smayan ciccheda niśitair bhallair ardhacandraiś ca phalgunaḥ 13 atha tān dviradān sarvān nānā liṅgair mahāśaraiḥ sapatākān sahārohān girīn vajrair ivābhinat 14 te hemapuṅkhair iṣubhir ācitā hemamālinaḥ hatāḥ petur mahānāgāḥ sāgnijvālā ivādrayaḥ 15 tato gāṇḍīvanirghoṣo mahān āsīd viśāṃ pate stanatāṃ kūjatāṃ caiva manuṣyagajavājinām 16 kuñjarāś ca hatā rājan prādravaṃs te samantataḥ aśvāṃś ca paryadhāvanta hatārohā diśo daśa 17 rathā hīnā mahārāja rathibhir vājibhis tathā gandharvanagarākārā dṛśyante sma sahasraśaḥ 18 aśvārohā mahārāja dhāvamānās tatas tataḥ tatra tatraiva dṛśyante patitāḥ pārtha sāyakaiḥ 19 tasmin kṣaṇe pāṇḍavasya bāhvor balam adṛśyata yat sādino vāraṇāṃś ca rathāṃś caiko 'jayad yudhi 20 tatas tryaṅgeṇa mahatā balena bharatarṣabha dṛṣṭvā parivṛtaṃ rājan bhīmasenaḥ kirīṭinam 21 hatāvaśeṣān utsṛjya tvadīyān kati cid rathān javenābhyadravad rājan dhanaṃjayarathaṃ prati 22 tatas tat prādravat sainyaṃ hatabhūyiṣṭham āturam dṛṣṭvā yad arjunaṃ bhīmo jagāma bhrātaraṃ prati 23 hatāvaśiṣṭāṃs turagān arjunena mahājavān bhīmo vyadhamad abhrānto gadāpāṇir mahāhave 24 kālarātrim ivātyugrāṃ naranāgāśvabhojanām prākārāṭṭa puradvāra dāraṇīm atidāruṇām 25 tato gadāṃ nṛnāgāśveṣv āśu bhīmo vyavāsṛjat sā jaghāna bahūn aśvān aśvārohāṃś ca māriṣa 26 kāṃsyāyasa tanutrāṃs tān narān aśvāṃś ca pāṇḍavaḥ pothayām āsa gadayā saśabdahṃ te 'patan hatāḥ 27 hatvā tu tad gajānīkaṃ bhīmaseno mahābalaḥ punaḥ svaratham āsthāya pṛṣṭhato 'rjunam anvagāt 28 hataṃ parāṅmukha prāyaṃ nirutsāhaṃ paraṃ balam vyālambata mahārāja prāyaśaḥ śastraveṣṭitam 29 vilambamānaṃ tat sainyam apragalbham avasthitam dṛṣṭvā prācchādayad bāṇair arjunaḥ prāṇatāpanaiḥ 30 tataḥ kurūṇām abhavad ārtanādo mahāmṛdhe rathāśvanāgāsu harair vadhyatām arjuneṣubhiḥ 31 hāhākṛtaṃ bhṛśaṃ tasthau līyamānaṃ parasparam alātacakravat sainyaṃ tadābbhramata tāvakam 32 ādīptaṃ tava tat sainyaṃ śaraiś chinnatanuc chadam āsīt svaśoṇita klinnaṃ phullāśoka vanaṃ yathā 33 tad dṛṣṭvā kuravas tatra vikrāntaṃ savyasācinaḥ nirāśāḥ samapadyanta sarve karṇasya jīvite 34 aviṣahyaṃ tu pārthasya śarasaṃpātam āhave matvā nyavartan kuravo jitā gāṇḍīvadhanvanā 35 te hitvā samare pārthaṃ vadhyamānāś ca sāyakaiḥ pradudruvur diśo bhītāś cukruśuś cāpi sūtajam 36 abhyadravata tān pārthaḥ kirañ śaraśatān bahūn harṣayan pāṇḍavān yodhān bhīmasenapurogamān 37 putrās tu te mahārāja jagmuḥ karṇa rathaṃ prathi agādhe majjatāṃ teṣāṃ dvīpaḥ karṇo 'bhavat tadā 38 kuravo hi mahārāja nirviṣāḥ pannagā iva karṇam evopalīyanta bhayād gāṇḍīvadhanvanaḥ 39 yathā sarvāṇi bhūtāni mṛtyor bhītāni bhārata dharmam evopalīyante karmavanti hi yāni ca 40 tathā karṇaṃ maheṣvāsaṃ putrās tava narādhipa upālīyanta saṃtrāsāt pāṇḍavasyamahātmanaḥ 41 tāñ śoṇitapariklinnān viṣamasthāñ śarāturān mā bhaiṣṭety abravīt karṇo hy abhito mām iteti ca 42 saṃbhagnaṃ hi balaṃ dṛṣṭvā balāt pārthena tāvakam dhanur visphārayan karṇas tasthau śatrujighāṃsayā pāñcālān punar ādhāvat paśyataḥ savyasācinaḥ 43 tataḥ kṣaṇena kṣitipāḥ kṣatajapratimekṣaṇāḥ karṇaṃ vavarṣur bāṇaughair yathā meghā mahīdharam 44 tataḥ śarasahasrāṇi karṇa muktāni māriṣa vyayojayanta pāñcālān prāṇaiḥ prāṇabhṛtāṃ vara 45 tato raṇo mahān āsīt pāñcālānāṃ viśāṃ pate vadhyatāṃ sūtaputreṇa mitrārthe 'mitraghātinām |
The Mahabharata in Sanskrit
Book 8
Chapter 60
|
1
[स] ततः कर्णः कुरुषु परद्रुतेषु; वरूथिना शवेतहयेन राजन पाञ्चाल पुत्रान वयधमत सूतपुत्रॊ; महेषुभिर वात इवाभ्रसंघान 2 सूतं रथाद अज्ञलिकेन पात्य; जघान चाश्वाञ जनमेजयस्य शतानीकं सुत सॊमं च भल्लैर; अवाकिरद धनुषी चाप्य अकृन्तत 3 धृष्टद्युम्नं निर्बिभेदाथ षड्भिर; जघान चाश्वं दक्षिणं तस्य संख्ये हत्वा चाश्वान सात्यकेः सूतपुत्रः; कैकेय पुत्रं नयवधीद विशॊकम 4 तम अभ्यधावन निहते कुमारे; कैकेय सेनापतिर उग्रधन्वा शरैर विभिन्नं भृशम उग्रवेगैः; कर्णात्मजं सॊ ऽभयहनत सुषेणम 5 तस्यार्ध चन्द्रैस तरिभिर उच्चकर्त; परसह्य बाहू च शिरश च कर्णः स सयन्दनाद गाम अपतद गतासुः; परश्वधैः शाल इवावरुग्णः 6 हताश्वम अञ्जॊ गतिभिः सुषेणः; शिनिप्रवीरं निशितैः पृषत्कैः परच्छाद्य नृत्यन्न इव सौति पुत्रः; शैनेय बाणाभिहतः पपात 7 पुत्रे हते करॊधपरीत चेताः; कर्णः शिनीनाम ऋषभं जिघांसुः हतॊ ऽसि शैनेय इति बरुवन स; वयवासृजद बाणम अमित्रसाहम 8 स तस्य चिच्छेद शरं शिखण्डी; तरिभिस तरिभिश च परतुतॊद कर्णम शिखण्डिनः कर्मुकं स धवजं च; छित्त्वा शराभ्याम अहनत सुजातम 9 शिखण्डिनं षड्भिर अविध्यद उग्रॊ; दान्तॊ धर्ष्टद्युम्न शिरश चकर्त अथाभिनत सुत सॊमं शरेण; स संशितेनाधिरथिर महात्मा 10 अथाक्रन्दे तुमुले वर्तमाने; धार्ष्टद्युम्ने निहते तत्र कृष्णः अपाञ्चाल्यं करियते याहि पार्थ; कर्णं जहीत्य अब्रवीद राजसिंह 11 ततः परहस्याशु नरप्रवीरॊ; रथं रथेनाधिरथेर जगाम भये तेषां तराणम इच्छन सुबाहुर; अभ्याहतानां रथरूथपेन 12 विस्फार्य गाण्डीवम अथॊग्र घॊषं; जयया समाहत्य तले भृशं च बाणान्ध कारं सहसैव कृत्वा; जघान नागाश्वरथान नरांश च 13 तं भीमसेनॊ ऽनु ययौ रथेन; पृष्ठे रक्षन पाण्डवम एकवीरम तौ राजपुत्रौ तवरितौ रथाभ्यां; कर्णाय याताव अरिभिर विमुक्तौ 14 अत्रान्तरे सुमहत सूतपुत्रश; चक्रे युद्धं सॊमकान संप्रमृद्नन रथाश्वमातङ्गगणाञ जघान; परच्छादयाम आस दिशः शरैश च 15 तम उत्तमौजा जनमेजयश च; करुद्धौ युधामन्युशिखण्डिनौ च कर्णं विनेदुः सहिताः पृषत्कैः; संमर्दमानाः सह पार्षतेन 16 ते पञ्च पाञ्चाल रथाः सुरूपैर; वैकर्तनं कर्णम अभिद्रवन्तः तस्माद रथाच चयावयितुं न शेकुर; धैर्यात कृतात्मानम इवेन्द्रियाणि 17 तेषां धनूंषि धवजवाजि सूतांस; तूणं पताकाश च निकृत्य बाणैः तान पञ्चभिः स तव अहनत पृषत्कैः; कर्णस ततः सिंह इवॊन्ननाद 18 तस्यास्यतस तान अभिनिघ्नतश च; जया बाणहस्तस्य धनुः सवनेन साद्रि दरुमा सयात पृथिवी विशीर्णा; इत्य एव मत्वा जनता वयषीदत 19 स शक्रचापप्रतिमेन धन्वना; भृशाततेनाधिरथिः शरान सृजन बभौ रणे दीप्तमरीचि मण्डलॊ; यथांशु माली परिवृषवांस तथा 20 शिखण्डिनं दवादशभिः पराभिनच; छितैः शरैः षड्भिर अथॊत्तमौजसम तरिहिर युधामन्युम अविध्यद आशुगैस; तरिभिस तरिभिः सॊमक पार्षतात्मजौ 21 पराजिताः पञ्च महारथास तु ते; महाहवे सूत सूतेन मारिष निरुद्यमास तस्थुर अमित्रमर्दना; यथेन्द्रियार्थात्मवता पराजिताः 22 निमज्जतस तान अथ कर्ण सागरे; विपन्ननावॊ वणिजॊ यथार्णवे उद्दध्रिरे नौभिर इवार्णवाद रथैः; सुकल्पितैर दरौपदिजाः सवमातुलान 23 ततः शिनीनाम ऋषबः शितैः शरैर; निकृत्य कर्ण परहितान इषून बहून विदार्य कर्णं निशितैर अयॊ मयैस; तवात्मजं जयेष्ठम अविध्यद अष्टभिः 24 कृपॊ ऽथ भॊजश च तवात्मजस तथा; सवयं च कर्णॊ निशितैर अताडयत स तैश चतुर्भिर युयुधे यदूत्तमॊ; दिग ईश्वरैर दैत्य पतिर यथातथा 25 समानतेनेष्व असनेन कूजता; भृशाततेनामित बाणवर्षिणा बभूव दुर्धर्षतरः स सात्यकिः; शरन नभॊ मध्यगतॊ यथा रविः 26 पुनः समासाद्य रथान सुदंशिताः; शिनिप्रवीरं जुगुपुः परंतपः समेत्य पाञ्चाल रथा महारणे; मरुद्गणाः शक्रम इवारि निग्रहे 27 ततॊ ऽभवद युद्धम अतीव दारुणं; तवाहितानां तव सैनिकैः सह रथाश्वमातङ्गविनाशनं तथा; यथा सुराणाम असुरैः पुराभवत 28 रथद्विपा वाजिपदातयॊ ऽपि वा; भरमन्ति नानाविध शस्त्रवृष्टिताः परस्परेणाभिहताश च चस्खलुर; विनेदुर आर्ता वयसवॊ ऽपतन्त च 29 तथागते भीम भीस तवात्मजः; ससार राजावरजः किरञ शरैः तम अभ्यधावत तवरितॊ वृकॊदरॊ; महारुरुं सिंह इवाभिपेतिवान 30 ततस तयॊर युद्धम अतीतमानुषं; परदीव्यतॊः पराणदुरॊदरे ऽभवत परस्परेणाभिनिविष्ट रॊषयॊर; उदग्रयॊः शम्बर शक्रयॊर यथा 31 शरैः शरीरान्तकरैः सुतेजनैर; निजघ्नतुस ताव इतरेतरं भृशम सकृत परभिन्नाव इव वाशितान्तरे; महागजौ मन्मथ सक्तचेतसौ 32 तवात्मजस्याथ वृकॊदरस तवरन; धनुः कषुराभ्यां धवजम एव चाच्छिनत ललाटम अप्य अस्य बिभेद पत्रिणा; शिरश च कायात परजहार सारथेः 33 स राजपुत्रॊ ऽनयद अवाप्य कार्मुकं; वृकॊदरं दवादशभिः पराभिनत सवयं नियच्छंस तुरगान अजिह्मगैः; शरैश च भीमं पुनर अभ्यवीवृषत |
1
[s] tataḥ karṇaḥ kuruṣu pradruteṣu; varūthinā śvetahayena rājan pāñcāla putrān vyadhamat sūtaputro; maheṣubhir vāta ivābhrasaṃghān 2 sūtaṃ rathād ajñalikena pātya; jaghāna cāśvāñ janamejayasya śatānīkaṃ suta somaṃ ca bhallair; avākirad dhanuṣī cāpy akṛntat 3 dhṛṣṭadyumnaṃ nirbibhedātha ṣaḍbhir; jaghāna cāśvaṃ dakṣiṇaṃ tasya saṃkhye hatvā cāśvān sātyakeḥ sūtaputraḥ; kaikeya putraṃ nyavadhīd viśokam 4 tam abhyadhāvan nihate kumāre; kaikeya senāpatir ugradhanvā śarair vibhinnaṃ bhṛśam ugravegaiḥ; karṇātmajaṃ so 'bhyahanat suṣeṇam 5 tasyārdha candrais tribhir uccakarta; prasahya bāhū ca śiraś ca karṇaḥ sa syandanād gām apatad gatāsuḥ; paraśvadhaiḥ śāla ivāvarugṇaḥ 6 hatāśvam añjo gatibhiḥ suṣeṇaḥ; śinipravīraṃ niśitaiḥ pṛṣatkaiḥ pracchādya nṛtyann iva sauti putraḥ; śaineya bāṇābhihataḥ papāta 7 putre hate krodhaparīta cetāḥ; karṇaḥ śinīnām ṛṣabhaṃ jighāṃsuḥ hato 'si śaineya iti bruvan sa; vyavāsṛjad bāṇam amitrasāham 8 sa tasya ciccheda śaraṃ śikhaṇḍī; tribhis tribhiś ca pratutoda karṇam śikhaṇḍinaḥ karmukaṃ sa dhvajaṃ ca; chittvā śarābhyām ahanat sujātam 9 śikhaṇḍinaṃ ṣaḍbhir avidhyad ugro; dānto dharṣṭadyumna śiraś cakarta athābhinat suta somaṃ śareṇa; sa saṃśitenādhirathir mahātmā 10 athākrande tumule vartamāne; dhārṣṭadyumne nihate tatra kṛṣṇaḥ apāñcālyaṃ kriyate yāhi pārtha; karṇaṃ jahīty abravīd rājasiṃha 11 tataḥ prahasyāśu narapravīro; rathaṃ rathenādhirather jagāma bhaye teṣāṃ trāṇam icchan subāhur; abhyāhatānāṃ ratharūthapena 12 visphārya gāṇḍīvam athogra ghoṣaṃ; jyayā samāhatya tale bhṛśaṃ ca bāṇāndha kāraṃ sahasaiva kṛtvā; jaghāna nāgāśvarathān narāṃś ca 13 taṃ bhīmaseno 'nu yayau rathena; pṛṣṭhe rakṣan pāṇḍavam ekavīram tau rājaputrau tvaritau rathābhyāṃ; karṇāya yātāv aribhir vimuktau 14 atrāntare sumahat sūtaputraś; cakre yuddhaṃ somakān saṃpramṛdnan rathāśvamātaṅgagaṇāñ jaghāna; pracchādayām āsa diśaḥ śaraiś ca 15 tam uttamaujā janamejayaś ca; kruddhau yudhāmanyuśikhaṇḍinau ca karṇaṃ vineduḥ sahitāḥ pṛṣatkaiḥ; saṃmardamānāḥ saha pārṣatena 16 te pañca pāñcāla rathāḥ surūpair; vaikartanaṃ karṇam abhidravantaḥ tasmād rathāc cyāvayituṃ na śekur; dhairyāt kṛtātmānam ivendriyāṇi 17 teṣāṃ dhanūṃṣi dhvajavāji sūtāṃs; tūṇaṃ patākāś ca nikṛtya bāṇaiḥ tān pañcabhiḥ sa tv ahanat pṛṣatkaiḥ; karṇas tataḥ siṃha ivonnanāda 18 tasyāsyatas tān abhinighnataś ca; jyā bāṇahastasya dhanuḥ svanena sādri drumā syāt pṛthivī viśīrṇā; ity eva matvā janatā vyaṣīdat 19 sa śakracāpapratimena dhanvanā; bhṛśātatenādhirathiḥ śarān sṛjan babhau raṇe dīptamarīci maṇḍalo; yathāṃśu mālī parivṛṣavāṃs tathā 20 śikhaṇḍinaṃ dvādaśabhiḥ parābhinac; chitaiḥ śaraiḥ ṣaḍbhir athottamaujasam trihir yudhāmanyum avidhyad āśugais; tribhis tribhiḥ somaka pārṣatātmajau 21 parājitāḥ pañca mahārathās tu te; mahāhave sūta sūtena māriṣa nirudyamās tasthur amitramardanā; yathendriyārthātmavatā parājitāḥ 22 nimajjatas tān atha karṇa sāgare; vipannanāvo vaṇijo yathārṇave uddadhrire naubhir ivārṇavād rathaiḥ; sukalpitair draupadijāḥ svamātulān 23 tataḥ śinīnām ṛṣabaḥ śitaiḥ śarair; nikṛtya karṇa prahitān iṣūn bahūn vidārya karṇaṃ niśitair ayo mayais; tavātmajaṃ jyeṣṭham avidhyad aṣṭabhiḥ 24 kṛpo 'tha bhojaś ca tavātmajas tathā; svayaṃ ca karṇo niśitair atāḍayat sa taiś caturbhir yuyudhe yadūttamo; dig īśvarair daitya patir yathātathā 25 samānateneṣv asanena kūjatā; bhṛśātatenāmita bāṇavarṣiṇā babhūva durdharṣataraḥ sa sātyakiḥ; śaran nabho madhyagato yathā raviḥ 26 punaḥ samāsādya rathān sudaṃśitāḥ; śinipravīraṃ jugupuḥ paraṃtapaḥ sametya pāñcāla rathā mahāraṇe; marudgaṇāḥ śakram ivāri nigrahe 27 tato 'bhavad yuddham atīva dāruṇaṃ; tavāhitānāṃ tava sainikaiḥ saha rathāśvamātaṅgavināśanaṃ tathā; yathā surāṇām asuraiḥ purābhavat 28 rathadvipā vājipadātayo 'pi vā; bhramanti nānāvidha śastravṛṣṭitāḥ paraspareṇābhihatāś ca caskhalur; vinedur ārtā vyasavo 'patanta ca 29 tathāgate bhīma bhīs tavātmajaḥ; sasāra rājāvarajaḥ kirañ śaraiḥ tam abhyadhāvat tvarito vṛkodaro; mahāruruṃ siṃha ivābhipetivān 30 tatas tayor yuddham atītamānuṣaṃ; pradīvyatoḥ prāṇadurodare 'bhavat paraspareṇābhiniviṣṭa roṣayor; udagrayoḥ śambara śakrayor yathā 31 śaraiḥ śarīrāntakaraiḥ sutejanair; nijaghnatus tāv itaretaraṃ bhṛśam sakṛt prabhinnāv iva vāśitāntare; mahāgajau manmatha saktacetasau 32 tavātmajasyātha vṛkodaras tvaran; dhanuḥ kṣurābhyāṃ dhvajam eva cācchinat lalāṭam apy asya bibheda patriṇā; śiraś ca kāyāt prajahāra sāratheḥ 33 sa rājaputro 'nyad avāpya kārmukaṃ; vṛkodaraṃ dvādaśabhiḥ parābhinat svayaṃ niyacchaṃs turagān ajihmagaiḥ; śaraiś ca bhīmaṃ punar abhyavīvṛṣat |
The Mahabharata in Sanskrit
Book 8
Chapter 61
|
1
[स] तत्राकरॊद दुष्करं राजपुत्रॊ; दुःशासनस तुमुले युध्यमानः चिच्छेद भीमस्य धनुः कषुरेण; षड्भिः शरैः सारथिम अप्य अविध्यत 2 ततॊ ऽभिनद बहुभिः कषिप्रम एव; वरेषुभिर भीमसेनं महात्मा स विक्षरन नाग इव परभिन्नॊ; गदाम अस्मै तुमुले पराहिणॊद वै 3 तयाहरद दश धन्वन्तराणि; दुःशासनं भीमसेनः परसह्य तया हतः पतितॊ वेपमानॊ; दुःशासनॊ गदया वेगवत्या 4 हयाः ससूताश च हता नरेन्द्र; चूर्णीकृतश चास्य रतः पतन्त्या विध्वस्तवर्माभरणाम्बर सरग; विचेष्टमानॊ भृशवेदनार्तः 5 ततः समृत्वा भीमसेनस तरस्वी; सापत्नकं यत परयुक्तं सुतैस ते रथाद अवप्लुत्य गतः स भूमौ; यत्नेन तस्मिन परणिधाय चक्षुः 6 असिं समुद्धृत्य शितं सुधारं; कण्ठे समाक्रम्य च वेपमानम उत्कृत्य वक्षः पतितस्य भूमाव; अथापिबच छॊणितम अस्य कॊष्णम आस्वाद्य चास्वाद्य च वीक्षमाणः; करुद्धॊ ऽतिवेलं परजगाद वाक्यम 7 सतन्यस्य मातुर मधुसर्पिषॊ वा; माध्वीक पानस्य च सत्कृतस्य दिव्यस्य वा तॊयरसस्य पानात; पयॊ दधिभ्यां मथिताच च मुख्यात सर्वेभ्य एवाभ्यधिकॊ रसॊ ऽयं; मतॊ ममाद्याहित लॊहितस्य 8 एवं बरुवाणं पुनर आद्रवन्तम; आस्वाद्य वल्गन्तम अतिप्रहृष्टम ये भीमसेनं ददृशुस तदानीं; भयेन ते ऽपि वयथिता निपेतुः 9 ये चापि तत्रापतिता मनुष्यास; तेषां करेभ्यः पतितं च शस्त्रम भयाच च संचुक्रुशुर उच्चकैस ते; निमीलिताक्षा ददृशुश च तन न 10 ये तत्र भीमं ददृशुः समन्ताद; दौःशासनं तद्रुधिरं पिबन्तम सर्वे पलायन्त भयाभिपन्ना; नायं मनुष्य इति भाषमाणाः 11 शृण्वतां लॊकवीराणाम इदं वचनम अब्रवीत एष ते रुधिरं कण्ठात पिबामि पुरुषाधम बरूहीदानीं सुसंरब्धः पुनर गौर इति गौर इति 12 परमाण कॊट्यां शयनं कालकूटस्य भॊजनम दशनं चाहिभिः कष्टं दाहं च जतु वेश्मनि 13 दयूतेन राज्यहरणम अरण्ये वसतिश च या इष्वस्त्राणि च संग्रामेष्व असुखानि च वेश्मनि 14 दुःखान्य एतानि जानीमॊ न सुखानि कदा चन धृतराष्ट्रस्य दौरात्म्यात सपुत्रस्या सदा वयम 15 इत्य उक्त्वा वचनं राजञ जयं पराप्य वृकॊदरः पुनर आह महाराज समयंस तौ केशवार्जुनौ 16 दुःशासने यद रणे संश्रुतं मे; तद वै सर्वं कृतम अद्येह वीरौ अद्यैव दास्याम्य अपरं दवितीयं; दुर्यॊधनं यज्ञपशुं विशस्या शिरॊमृदित्वा च पदा दुरात्मनः; शान्तिं लप्स्ये कौरवाणां समक्षम 17 एतावद उक्त्वा वचनं परहृष्टॊ; ननाद अचॊच्चै रुधिरार्द्रगात्रः ननर्त चैवातिबलॊ महात्मा; वृत्रं निहत्येव सहस्रनेत्रः |
1
[s] tatrākarod duṣkaraṃ rājaputro; duḥśāsanas tumule yudhyamānaḥ ciccheda bhīmasya dhanuḥ kṣureṇa; ṣaḍbhiḥ śaraiḥ sārathim apy avidhyat 2 tato 'bhinad bahubhiḥ kṣipram eva; vareṣubhir bhīmasenaṃ mahātmā sa vikṣaran nāga iva prabhinno; gadām asmai tumule prāhiṇod vai 3 tayāharad daśa dhanvantarāṇi; duḥśāsanaṃ bhīmasenaḥ prasahya tayā hataḥ patito vepamāno; duḥśāsano gadayā vegavatyā 4 hayāḥ sasūtāś ca hatā narendra; cūrṇīkṛtaś cāsya rataḥ patantyā vidhvastavarmābharaṇāmbara srag; viceṣṭamāno bhṛśavedanārtaḥ 5 tataḥ smṛtvā bhīmasenas tarasvī; sāpatnakaṃ yat prayuktaṃ sutais te rathād avaplutya gataḥ sa bhūmau; yatnena tasmin praṇidhāya cakṣuḥ 6 asiṃ samuddhṛtya śitaṃ sudhāraṃ; kaṇṭhe samākramya ca vepamānam utkṛtya vakṣaḥ patitasya bhūmāv; athāpibac choṇitam asya koṣṇam āsvādya cāsvādya ca vīkṣamāṇaḥ; kruddho 'tivelaṃ prajagāda vākyam 7 stanyasya mātur madhusarpiṣo vā; mādhvīka pānasya ca satkṛtasya divyasya vā toyarasasya pānāt; payo dadhibhyāṃ mathitāc ca mukhyāt sarvebhya evābhyadhiko raso 'yaṃ; mato mamādyāhita lohitasya 8 evaṃ bruvāṇaṃ punar ādravantam; āsvādya valgantam atiprahṛṣṭam ye bhīmasenaṃ dadṛśus tadānīṃ; bhayena te 'pi vyathitā nipetuḥ 9 ye cāpi tatrāpatitā manuṣyās; teṣāṃ karebhyaḥ patitaṃ ca śastram bhayāc ca saṃcukruśur uccakais te; nimīlitākṣā dadṛśuś ca tan na 10 ye tatra bhīmaṃ dadṛśuḥ samantād; dauḥśāsanaṃ tadrudhiraṃ pibantam sarve palāyanta bhayābhipannā; nāyaṃ manuṣya iti bhāṣamāṇāḥ 11 śṛṇvatāṃ lokavīrāṇām idaṃ vacanam abravīt eṣa te rudhiraṃ kaṇṭhāt pibāmi puruṣādhama brūhīdānīṃ susaṃrabdhaḥ punar gaur iti gaur iti 12 pramāṇa koṭyāṃ śayanaṃ kālakūṭasya bhojanam daśanaṃ cāhibhiḥ kaṣṭaṃ dāhaṃ ca jatu veśmani 13 dyūtena rājyaharaṇam araṇye vasatiś ca yā iṣvastrāṇi ca saṃgrāmeṣv asukhāni ca veśmani 14 duḥkhāny etāni jānīmo na sukhāni kadā cana dhṛtarāṣṭrasya daurātmyāt saputrasyā sadā vayam 15 ity uktvā vacanaṃ rājañ jayaṃ prāpya vṛkodaraḥ punar āha mahārāja smayaṃs tau keśavārjunau 16 duḥśāsane yad raṇe saṃśrutaṃ me; tad vai sarvaṃ kṛtam adyeha vīrau adyaiva dāsyāmy aparaṃ dvitīyaṃ; duryodhanaṃ yajñapaśuṃ viśasyā śiromṛditvā ca padā durātmanaḥ; śāntiṃ lapsye kauravāṇāṃ samakṣam 17 etāvad uktvā vacanaṃ prahṛṣṭo; nanād acoccai rudhirārdragātraḥ nanarta caivātibalo mahātmā; vṛtraṃ nihatyeva sahasranetraḥ |
The Mahabharata in Sanskrit
Book 8
Chapter 62
|
1
[स] दुःशासने तु निहते पुत्रास तव महारथाः महाक्रॊधविषा वीराः समरेष्व अपलायिनः दश राजन महावीर्यॊ भीमं पराच्छादयञ शरैः 2 कवची निषङ्गी पाशी दण्डधारॊ धनुर्धरः अलॊलुपः शलः संधॊ वातवेगसुवर्चसौ 3 एते समेत्य सहिता भरातृव्यसनकर्शिताः भीमसेनं महाबाहुं मार्गणैः समवारयन 4 स वार्यमाणॊ विशिखैः समन्तात तैर महारथैः भीमः करॊधाभिरक्ताक्षः करुद्धः काल इवाबभौ 5 तांस तु भल्लैर महावेगैर दशभिर दशभिः शितैः रुक्माङ्गदॊ रुक्मपुङ्खैः पार्थॊ निन्ये यमक्षयम 6 हतेषु तेषु वीरेषु परदुद्राव बलं तव पश्यतः सूतपुत्रस्य पाण्डवस्य भयार्दितम 7 ततः कर्णॊ महाराज परविवेश महारणम दृष्ट्वा भीमस्य विक्रान्तम अन्तकस्य परजास्व इव 8 तस्य तव आकार भावज्ञः शल्यः समितिशॊभनः उवाच वचनं कर्णां परप्त कालम अरिंदम मा वयथां कुरु राधेय नैतत तवय्य उपपद्यते 9 एते दरवन्ति राजानॊ भीमसेनभयार्दिताः दुर्यॊधनश च संमूढॊ भरातृव्यसनदुःखितः 10 दुःशासनस्य रुधिरे पीयमाने महात्मना वयापन्न चेतसश चैव शॊकॊपहतमन्यवः 11 दुर्यॊधनम उपासन्ते परिवार्य समन्ततः कृपप्रभृतयः कर्णहतशेषाश च सॊदराः 12 पाण्डवा लब्धलक्षाश च धनंजय पुरॊगमाः तवाम एवाभिमुखाः शूरा युद्धाय समुपास्थिताः 13 स तं पुरुषशार्दूल पौरुषे महति सथितः कषत्रधर्मं पुरस्कृत्य परत्युद्याहि धनंजयम 14 भारॊ हि धार्तराष्ट्रेण तवयि सर्वः समर्पितः तम उद्वह महाबाहॊ यथाशक्ति यथाबलम जये सयाद विपुला कीर्तिर धरुवः सवर्गः पराजये 15 वृषसेनश च राधेय संक्रुद्धस तनयस तव तवयि मॊहसमापन्ने पाण्डवान अभिधावति 16 एतच छरुत्वा तु वचनं शल्यस्यामित तेजसः हृदि मानुष्यकं भावं चक्रे युद्धाय सुस्थिरम 17 ततः करुद्धॊ वृषसेनॊ ऽभयधावद; आतस्थिवांसं सवरथं हतारिम वृकॊदरं कालम इवात्त दण्डं; गदाहस्तं पॊथमानं तवदीयान 18 तम अभ्यधावन नकुलः परवीरॊ; रॊषाद अमित्रं परतुदन पृषत्कैः कर्णस्य पुत्रं समरे परहृष्टं; जिष्णुर जिघांसुर मघवेव जम्भम 19 ततॊ धवजं सफाटिकचित्रकम्बुं; चिच्छेद वीरॊ नकुलः कषुरेण कर्णात्मजस्येष्व असनं च चित्रं; भल्लेन जाम्बूनदपट्ट नद्धम 20 अथान्यद आदाय धनुः सुशीघ्रं; कर्णात्मजः पाण्डवम अभ्यविध्यत दिव्यैर महास्त्रैर नकुलं महास्त्रॊ; दुःशासनस्यापचितिं यियासुः 21 ततः करुद्धॊ नकुलस तं महात्मा; शरैर महॊल्का परतिमैर अविध्यत दिव्यैरस्त्रैर अभ्यविध्यच च सॊ ऽपि; कर्णस्या पुत्रॊ नकुलं कृतास्त्रः 22 कर्णस्या पुत्रॊ नकुलस्य राजन; सर्वान अश्वान अक्षिणॊद उत्तमास्त्रैः वनायुजान सुकुमारस्य शुभ्रान; अलंकृताञ जातरूपेण शीघ्रान 23 ततॊ हताश्वाद अवरुह्य यानाद; आदाय चर्म रुचिरं चाष्ट चन्द्रम आकाशसंकाशम असिं गृहीत्वा; पॊप्लूयमानः खगवच चचार 24 ततॊ ऽनतरिक्षे नृवराश्वनागंश; चिच्छेद मार्गान विचरन विचित्रान ते परापतन्न असिना गां विशस्ता; यथाश्वमेधे पशवः शमित्रा 25 दविसाहस्रा विदिता युद्धशौण्डा; नानादेश्याः सुभृताः सत्यसंधाः एकेन शीघ्रं नकुलेन कृत्ताः; सारेप्सुना इवॊत्तम चन्दनास ते 26 तम आपतन्तं नकुलं सॊ ऽभिपत्य; समन्ततः सायकैर अभ्यविध्यत स तुद्यमानॊ नकुलः पृषत्कैर; विव्याध वीरं स चुकॊप विद्धः 27 तं कर्ण पुत्रॊ विधमन्तम एकं; नराश्वमातङ्गरथप्रवेकान करीडन्तम अष्टादशभिः पृषत्कैर; विव्याध वीरं स चुकॊप विद्धः 28 ततॊ ऽभयधावत समरे जिघांसुः; कर्णात्मजं पाण्डुसुतॊ नृवीरः तस्येषुभिर वयधमत कर्ण पुत्रॊ; महारणे चर्म सहस्रतारम 29 तस्यायसं निशितं तीक्ष्णधारम; असिं विकॊशं गुरुभारसाहम दविषच छरीरापहरं सुघॊरम; आधुन्वतः सर्पम इवॊग्ररूपम 30 कषिप्रं शरैः षड्भिर अमित्रसाहश; चकर्त खड्गं निशितैः सुघॊरैः पुनश च पीतैर निशितैः पृषत्कैः; सतनान्तरे गाढम अथाभ्यविध्यत 31 स भीमसेनस्य रतहं हताश्वॊ; माद्री सुतः कर्णसुताभितप्तः आपुप्लुवे सिंह इवाचलाग्रं; संप्रेक्षमाणस्य धनंजयस्य 32 नकुलम अथ विदित्वा छिन्नबाणासनासिं; विरथम अरिशरार्तं कर्ण पुत्रास्त्र भग्नम पवनधुत पताका हरादिनॊ वल्गिताश्वा; वरपुरुषनियत्तास ते रथाः शीघ्रम ईयुः 33 दरुपद सुत वरिष्ठाः पञ्च शैनेय षष्ठा; दरुपद दुहितृपुत्राः पञ्च चामित्रसाहाः दविरदरथनराश्वान सूदयन्तस तवदीयान; भुजग पतिनिकाशैर मार्गणैर आत्तशस्त्राः 34 अथ तव रथमुख्यास तान परतीयुस तवरन्तॊ; हृदिक सुत कृपौ च दरौणिदुर्यॊधनौ च शकुनिशुकवृकाश च कराथ देवावृधौ च; दविरदजलदघॊषैः सयन्दनैः कार्मुकैश च 35 तव नरवरवर्यास तान दशैकं च वीरान; परवर शरवराग्र्यैस ताडयन्तॊ ऽभयरुन्धन नव जलदसवर्णैर हस्तिभिर तान उदीयुर; गिरिशिखरनिकाशैर भीमवेगैः कुणिन्दाः 36 सुकल्पिता हैमवता मदॊत्कटा; रणाभिकामैः कृतिभिः समास्थिताः सुवर्णजालावतता बभुर गजास; तथा यथा वै जलदाः सविद्युतः 37 कुणिन्द पुत्रॊ दशभिर महायसैः; कृपं ससूताश्वम अपीडयद भृशम ततः शरद्वत सुत सायकैर हतः; सहैव नागेन पपात भूतले 38 कुणिन्द पुत्रावरजस तु तॊमरैर; दिवाकरांशु परतिमैर अयॊ मयैः रथं च विक्षॊभ्य ननाद नर्दतस; ततॊ ऽसय गान्धारपतिः शिरॊ ऽहरत 39 ततः कुणिन्देषु हतेषु तेष्व अथ; परहृष्टरूपास तव ते महारथाः भृशं परदध्मुर लवनाम्बुसंभवान; परांश च बाणासनपाणयॊ ऽभययुः 40 अथाभवद युद्धम अतीव दारुणं; पुनः कुरूणां सह पाणु सृञ्जयैः शरासि शक्त्यृष्टि गदा परश्वधैर; नराश्वनागासु हरं भृशाकुलम 41 रथाश्वमातङ्गपदातिभिस ततः; परस्परं विप्रहतापतन कषितौ यथा सविद्युत्स्तनिता बलाहकाः; समास्थिता दिग्भ्य इवॊग्रमारुतैः 42 ततः शतानीक हतान महागजांस; तथा रथान पत्तिगणांश च तावकान जघान भॊजश च हयान अथापतन; विशस्त्र कृत्ताः कृतवर्मणा दविपाः 43 अथापरे दरौणिशराहता दविपास; तरयः ससर्वायुध यॊधकेतवः निपेतुर उर्व्यां वयसवः परपातितास; तथा यथा वज्रहता महाचलाः 44 कुणिन्द राजावरजाद अनन्तरः; सतनान्तरे पत्रिवरैर अताडयत तवात्मजं तस्य तवात्मजः शरैः; शितैः शरीरं बिभिदे दविपं च तम 45 स नागराजः सह राजसूनुना; पपात रक्तं बहु सर्वतः कषरन शचीश वज्रप्रहतॊ ऽमुदागमे; यथा जलं गैरिकपर्वतस तथा 46 कुणिन्द पुत्र परहितॊ ऽपरद्विपः; शुकं ससूताश्वरथं वयपॊथयत ततॊ ऽपतत कराथ शराभिदारितः; सहेश्वरॊ वज्रहतॊ यथा गिरिः 47 रथी दविपस्थेन हतॊ ऽपतच छरैः; कराथाधिपः पर्वतजेन दुर्जयः स वाजिसूतेष्व असनस तथापतद; यथा महावातहतॊ महाद्रुमः 48 वृकॊ दविपस्थं गिरिराजवासिनं; भृशं शरैर दवादशभिः पराभिनत ततॊ वृकं साश्वरथं महाजवं; तवरंश चतुर्भिश चरणे वयपॊथयत 49 स नागराजः सनियन्तृकॊ ऽपतत; पराहतॊ बभ्रु सुतेषु भिर भृशम स चापि देवावृध सूनुर अर्दितः; पपात नुन्नः सहदेव सूनुना 50 विषाण पॊत्रापरगात्रघातिना; गजेन हन्तुं शकुनेः कुणिन्दजः जगाम वेगेन भृशार्दयंश च तं; ततॊ ऽसय गान्धारपतिः शिरॊ ऽहरत 51 ततः शतानीक हता महागजा; हया रथाः पत्तिगणाश च तावकाः सुपर्णवातप्रहता यथा नगास; तथागता गाम अवशा विचूर्णिताः 52 ततॊ ऽभयविध्यद बहुभिः शितैः शरैः; कुणिन्द पुत्रॊ नकुलात्मजं समयन ततॊ ऽसय कायान निचकर्त नाकुलिः; शिरः करुषेणाम्बुज संनिभाननम 53 ततः शतानीकम अविध्यद आशुगैस; तरिभिः शितैः कर्णसुतॊ ऽरजुनं तरिभिः तरिभिश च भीमं नकुलं च सप्तभिर; जनार्दनं दवादशभिश च सायकैः 54 तद अस्य कर्मातिमनुष्य कर्मणः; समीक्ष्य हृष्टाः कुरवॊ ऽभयपूजयन पराक्रमज्ञास तु धनंजयस्य ते; हुतॊ ऽयम अग्नाव इति तं तु मेनिरे 55 ततः किरीटी परवीर घाती; हताश्वम आलॊक्य नरप्रवीरम तम अभ्यधावद वृषसेनम आहवे; ससूतजस्य परमुखे सथितं तदा 56 तम आपतन्तं नरवीरम उग्रं; महाहवे बाणसहस्रधारिणम अभ्यापतत कर्णसुतॊ महारथॊ; यथैव चेन्द्रं नमुचिः पुरातने 57 ततॊ ऽदभुतेनैक शतेन पार्थं; शरैर विद्ध्वा सूतपुत्रस्य पुत्रः ननाद नादं सुमहानुभावॊ; विद्ध्वेव शक्रं नमुचिः पुरा वै 58 पुनः स पार्थं वृषसेन उग्रैर; बाणैर अविध्यद भुजमूलमध्ये तथैव कृष्णं नवभिः समार्दयत; पुनश च पार्थं दशभिः शिताग्रैः 59 ततः किरीटी रणमूर्ध्नि कॊपात; कृत्वा तरिशाखां भरुकुटिं ललाटे मुमॊच बाणान विशिखान महात्मा; वधाय राजन सूतपुत्रस्य संख्ये 60 विव्याध चैनं दशभिः पृषत्कैर; मर्मस्व असक्तं परसभं किरीटी चिच्छेद चास्येष्व असनं भुजौ च; कषुरैर चतुर्भिः शिर एव चॊग्रैः 61 स पार्थ बाणाभिहतः पपात; रथाद विबाहुर विशिरा धरायाम सुपुष्पितः पर्णधरॊ ऽतिकायॊ; वातेरितः शाल इवाद्रिशृङ्गात 62 तं परेक्ष्य बाणाभिहतं पतन्तं; रथात सुतं सूतजः कषिप्रकारी रथं रथेनाशु जगाम वेगात; किरीटिनः पुत्र बधाभितप्तः |
1
[s] duḥśāsane tu nihate putrās tava mahārathāḥ mahākrodhaviṣā vīrāḥ samareṣv apalāyinaḥ daśa rājan mahāvīryo bhīmaṃ prācchādayañ śaraiḥ 2 kavacī niṣaṅgī pāśī daṇḍadhāro dhanurdharaḥ alolupaḥ śalaḥ saṃdho vātavegasuvarcasau 3 ete sametya sahitā bhrātṛvyasanakarśitāḥ bhīmasenaṃ mahābāhuṃ mārgaṇaiḥ samavārayan 4 sa vāryamāṇo viśikhaiḥ samantāt tair mahārathaiḥ bhīmaḥ krodhābhiraktākṣaḥ kruddhaḥ kāla ivābabhau 5 tāṃs tu bhallair mahāvegair daśabhir daśabhiḥ śitaiḥ rukmāṅgado rukmapuṅkhaiḥ pārtho ninye yamakṣayam 6 hateṣu teṣu vīreṣu pradudrāva balaṃ tava paśyataḥ sūtaputrasya pāṇḍavasya bhayārditam 7 tataḥ karṇo mahārāja praviveśa mahāraṇam dṛṣṭvā bhīmasya vikrāntam antakasya prajāsv iva 8 tasya tv ākāra bhāvajñaḥ śalyaḥ samitiśobhanaḥ uvāca vacanaṃ karṇāṃ prapta kālam ariṃdama mā vyathāṃ kuru rādheya naitat tvayy upapadyate 9 ete dravanti rājāno bhīmasenabhayārditāḥ duryodhanaś ca saṃmūḍho bhrātṛvyasanaduḥkhitaḥ 10 duḥśāsanasya rudhire pīyamāne mahātmanā vyāpanna cetasaś caiva śokopahatamanyavaḥ 11 duryodhanam upāsante parivārya samantataḥ kṛpaprabhṛtayaḥ karṇahataśeṣāś ca sodarāḥ 12 pāṇḍavā labdhalakṣāś ca dhanaṃjaya purogamāḥ tvām evābhimukhāḥ śūrā yuddhāya samupāsthitāḥ 13 sa taṃ puruṣaśārdūla pauruṣe mahati sthitaḥ kṣatradharmaṃ puraskṛtya pratyudyāhi dhanaṃjayam 14 bhāro hi dhārtarāṣṭreṇa tvayi sarvaḥ samarpitaḥ tam udvaha mahābāho yathāśakti yathābalam jaye syād vipulā kīrtir dhruvaḥ svargaḥ parājaye 15 vṛṣasenaś ca rādheya saṃkruddhas tanayas tava tvayi mohasamāpanne pāṇḍavān abhidhāvati 16 etac chrutvā tu vacanaṃ śalyasyāmita tejasaḥ hṛdi mānuṣyakaṃ bhāvaṃ cakre yuddhāya susthiram 17 tataḥ kruddho vṛṣaseno 'bhyadhāvad; ātasthivāṃsaṃ svarathaṃ hatārim vṛkodaraṃ kālam ivātta daṇḍaṃ; gadāhastaṃ pothamānaṃ tvadīyān 18 tam abhyadhāvan nakulaḥ pravīro; roṣād amitraṃ pratudan pṛṣatkaiḥ karṇasya putraṃ samare prahṛṣṭaṃ; jiṣṇur jighāṃsur maghaveva jambham 19 tato dhvajaṃ sphāṭikacitrakambuṃ; ciccheda vīro nakulaḥ kṣureṇa karṇātmajasyeṣv asanaṃ ca citraṃ; bhallena jāmbūnadapaṭṭa naddham 20 athānyad ādāya dhanuḥ suśīghraṃ; karṇātmajaḥ pāṇḍavam abhyavidhyat divyair mahāstrair nakulaṃ mahāstro; duḥśāsanasyāpacitiṃ yiyāsuḥ 21 tataḥ kruddho nakulas taṃ mahātmā; śarair maholkā pratimair avidhyat divyairastrair abhyavidhyac ca so 'pi; karṇasyā putro nakulaṃ kṛtāstraḥ 22 karṇasyā putro nakulasya rājan; sarvān aśvān akṣiṇod uttamāstraiḥ vanāyujān sukumārasya śubhrān; alaṃkṛtāñ jātarūpeṇa śīghrān 23 tato hatāśvād avaruhya yānād; ādāya carma ruciraṃ cāṣṭa candram ākāśasaṃkāśam asiṃ gṛhītvā; poplūyamānaḥ khagavac cacāra 24 tato 'ntarikṣe nṛvarāśvanāgaṃś; ciccheda mārgān vicaran vicitrān te prāpatann asinā gāṃ viśastā; yathāśvamedhe paśavaḥ śamitrā 25 dvisāhasrā viditā yuddhaśauṇḍā; nānādeśyāḥ subhṛtāḥ satyasaṃdhāḥ ekena śīghraṃ nakulena kṛttāḥ; sārepsunā ivottama candanās te 26 tam āpatantaṃ nakulaṃ so 'bhipatya; samantataḥ sāyakair abhyavidhyat sa tudyamāno nakulaḥ pṛṣatkair; vivyādha vīraṃ sa cukopa viddhaḥ 27 taṃ karṇa putro vidhamantam ekaṃ; narāśvamātaṅgarathapravekān krīḍantam aṣṭādaśabhiḥ pṛṣatkair; vivyādha vīraṃ sa cukopa viddhaḥ 28 tato 'bhyadhāvat samare jighāṃsuḥ; karṇātmajaṃ pāṇḍusuto nṛvīraḥ tasyeṣubhir vyadhamat karṇa putro; mahāraṇe carma sahasratāram 29 tasyāyasaṃ niśitaṃ tīkṣṇadhāram; asiṃ vikośaṃ gurubhārasāham dviṣac charīrāpaharaṃ sughoram; ādhunvataḥ sarpam ivograrūpam 30 kṣipraṃ śaraiḥ ṣaḍbhir amitrasāhaś; cakarta khaḍgaṃ niśitaiḥ sughoraiḥ punaś ca pītair niśitaiḥ pṛṣatkaiḥ; stanāntare gāḍham athābhyavidhyat 31 sa bhīmasenasya ratahṃ hatāśvo; mādrī sutaḥ karṇasutābhitaptaḥ āpupluve siṃha ivācalāgraṃ; saṃprekṣamāṇasya dhanaṃjayasya 32 nakulam atha viditvā chinnabāṇāsanāsiṃ; viratham ariśarārtaṃ karṇa putrāstra bhagnam pavanadhuta patākā hrādino valgitāśvā; varapuruṣaniyattās te rathāḥ śīghram īyuḥ 33 drupada suta variṣṭhāḥ pañca śaineya ṣaṣṭhā; drupada duhitṛputrāḥ pañca cāmitrasāhāḥ dviradarathanarāśvān sūdayantas tvadīyān; bhujaga patinikāśair mārgaṇair āttaśastrāḥ 34 atha tava rathamukhyās tān pratīyus tvaranto; hṛdika suta kṛpau ca drauṇiduryodhanau ca śakuniśukavṛkāś ca krātha devāvṛdhau ca; dviradajaladaghoṣaiḥ syandanaiḥ kārmukaiś ca 35 tava naravaravaryās tān daśaikaṃ ca vīrān; pravara śaravarāgryais tāḍayanto 'bhyarundhan nava jaladasavarṇair hastibhir tān udīyur; giriśikharanikāśair bhīmavegaiḥ kuṇindāḥ 36 sukalpitā haimavatā madotkaṭā; raṇābhikāmaiḥ kṛtibhiḥ samāsthitāḥ suvarṇajālāvatatā babhur gajās; tathā yathā vai jaladāḥ savidyutaḥ 37 kuṇinda putro daśabhir mahāyasaiḥ; kṛpaṃ sasūtāśvam apīḍayad bhṛśam tataḥ śaradvat suta sāyakair hataḥ; sahaiva nāgena papāta bhūtale 38 kuṇinda putrāvarajas tu tomarair; divākarāṃśu pratimair ayo mayaiḥ rathaṃ ca vikṣobhya nanāda nardatas; tato 'sya gāndhārapatiḥ śiro 'harat 39 tataḥ kuṇindeṣu hateṣu teṣv atha; prahṛṣṭarūpās tava te mahārathāḥ bhṛśaṃ pradadhmur lavanāmbusaṃbhavān; parāṃś ca bāṇāsanapāṇayo 'bhyayuḥ 40 athābhavad yuddham atīva dāruṇaṃ; punaḥ kurūṇāṃ saha pāṇu sṛñjayaiḥ śarāsi śaktyṛṣṭi gadā paraśvadhair; narāśvanāgāsu haraṃ bhṛśākulam 41 rathāśvamātaṅgapadātibhis tataḥ; parasparaṃ viprahatāpatan kṣitau yathā savidyutstanitā balāhakāḥ; samāsthitā digbhya ivogramārutaiḥ 42 tataḥ śatānīka hatān mahāgajāṃs; tathā rathān pattigaṇāṃś ca tāvakān jaghāna bhojaś ca hayān athāpatan; viśastra kṛttāḥ kṛtavarmaṇā dvipāḥ 43 athāpare drauṇiśarāhatā dvipās; trayaḥ sasarvāyudha yodhaketavaḥ nipetur urvyāṃ vyasavaḥ prapātitās; tathā yathā vajrahatā mahācalāḥ 44 kuṇinda rājāvarajād anantaraḥ; stanāntare patrivarair atāḍayat tavātmajaṃ tasya tavātmajaḥ śaraiḥ; śitaiḥ śarīraṃ bibhide dvipaṃ ca tam 45 sa nāgarājaḥ saha rājasūnunā; papāta raktaṃ bahu sarvataḥ kṣaran śacīśa vajraprahato 'mudāgame; yathā jalaṃ gairikaparvatas tathā 46 kuṇinda putra prahito 'paradvipaḥ; śukaṃ sasūtāśvarathaṃ vyapothayat tato 'patat krātha śarābhidāritaḥ; saheśvaro vajrahato yathā giriḥ 47 rathī dvipasthena hato 'patac charaiḥ; krāthādhipaḥ parvatajena durjayaḥ sa vājisūteṣv asanas tathāpatad; yathā mahāvātahato mahādrumaḥ 48 vṛko dvipasthaṃ girirājavāsinaṃ; bhṛśaṃ śarair dvādaśabhiḥ parābhinat tato vṛkaṃ sāśvarathaṃ mahājavaṃ; tvaraṃś caturbhiś caraṇe vyapothayat 49 sa nāgarājaḥ saniyantṛko 'patat; parāhato babhru suteṣu bhir bhṛśam sa cāpi devāvṛdha sūnur arditaḥ; papāta nunnaḥ sahadeva sūnunā 50 viṣāṇa potrāparagātraghātinā; gajena hantuṃ śakuneḥ kuṇindajaḥ jagāma vegena bhṛśārdayaṃś ca taṃ; tato 'sya gāndhārapatiḥ śiro 'harat 51 tataḥ śatānīka hatā mahāgajā; hayā rathāḥ pattigaṇāś ca tāvakāḥ suparṇavātaprahatā yathā nagās; tathāgatā gām avaśā vicūrṇitāḥ 52 tato 'bhyavidhyad bahubhiḥ śitaiḥ śaraiḥ; kuṇinda putro nakulātmajaṃ smayan tato 'sya kāyān nicakarta nākuliḥ; śiraḥ kruṣeṇāmbuja saṃnibhānanam 53 tataḥ śatānīkam avidhyad āśugais; tribhiḥ śitaiḥ karṇasuto 'rjunaṃ tribhiḥ tribhiś ca bhīmaṃ nakulaṃ ca saptabhir; janārdanaṃ dvādaśabhiś ca sāyakaiḥ 54 tad asya karmātimanuṣya karmaṇaḥ; samīkṣya hṛṣṭāḥ kuravo 'bhyapūjayan parākramajñās tu dhanaṃjayasya te; huto 'yam agnāv iti taṃ tu menire 55 tataḥ kirīṭī paravīra ghātī; hatāśvam ālokya narapravīram tam abhyadhāvad vṛṣasenam āhave; sasūtajasya pramukhe sthitaṃ tadā 56 tam āpatantaṃ naravīram ugraṃ; mahāhave bāṇasahasradhāriṇam abhyāpatat karṇasuto mahāratho; yathaiva cendraṃ namuciḥ purātane 57 tato 'dbhutenaika śatena pārthaṃ; śarair viddhvā sūtaputrasya putraḥ nanāda nādaṃ sumahānubhāvo; viddhveva śakraṃ namuciḥ purā vai 58 punaḥ sa pārthaṃ vṛṣasena ugrair; bāṇair avidhyad bhujamūlamadhye tathaiva kṛṣṇaṃ navabhiḥ samārdayat; punaś ca pārthaṃ daśabhiḥ śitāgraiḥ 59 tataḥ kirīṭī raṇamūrdhni kopāt; kṛtvā triśākhāṃ bhrukuṭiṃ lalāṭe mumoca bāṇān viśikhān mahātmā; vadhāya rājan sūtaputrasya saṃkhye 60 vivyādha cainaṃ daśabhiḥ pṛṣatkair; marmasv asaktaṃ prasabhaṃ kirīṭī ciccheda cāsyeṣv asanaṃ bhujau ca; kṣurair caturbhiḥ śira eva cograiḥ 61 sa pārtha bāṇābhihataḥ papāta; rathād vibāhur viśirā dharāyām supuṣpitaḥ parṇadharo 'tikāyo; vāteritaḥ śāla ivādriśṛṅgāt 62 taṃ prekṣya bāṇābhihataṃ patantaṃ; rathāt sutaṃ sūtajaḥ kṣiprakārī rathaṃ rathenāśu jagāma vegāt; kirīṭinaḥ putra badhābhitaptaḥ |
The Mahabharata in Sanskrit
Book 8
Chapter 63
|
1
[स] वृषसेनं हतं दृष्ट्वा शॊकामर्ष समन्वितः मुक्त्वा शॊकॊद्भवं वारि नेत्राभ्यां सहसा वृषः 2 रथेन कर्णस तेजस्वी जगामाभिमुखॊ रिपून युद्धायामर्ष ताम्राक्षः समाहूय धनंजयम 3 तौ रथौ सूर्यसंकाशौ वैयाघ्रपरिवारणौ समेतौ ददृशुस तत्र दवाव इवार्कौ समागतौ 4 शवेताश्वौ पुरुषादित्याव आस्थिताव अरिमर्दनौ शुशुभाते महात्मानौ चन्द्रादित्यौ यथा दिवि 5 तौ दृष्ट्वा विस्मयं जग्मुः सर्वभूतानि मारिष तरैलॊक्यविजये यत्ताव इन्द्र वैरॊचनाव इव 6 रथज्या तलनिर्ह्रादैर बाणशङ्खरवैर अपि तौ रथाव अभिधावन्तौ समालॊक्य महीक्षिताम 7 धवजौ च दृष्ट्वा संसक्तौ विस्मयः समपद्यत हस्तिकक्ष्यां च कर्णस्य वानरं च किरीटिनः 8 तौ रथौ संप्रसक्तौ च दृष्ट्वा भारत पार्थिवाः सिंहनाद रवांश चक्रुः साधुवादांश च पुष्कलान 9 शरुत्वा तु दवैरथं ताभ्यां तत्र यॊधाः समन्ततः चक्रुर बाहुवलम चैव तथा चेला वलं महत 10 आजग्मुः कुरवस तत्र वादित्रानुगतास तदा कर्णं परहर्षयन्तश च शङ्खान दध्मुश च पुष्कलान 11 तथैव पाण्डवाः सर्वे हर्षयन्तॊ धनंजयम तूर्यशङ्खनिनादेन दिशः सर्वा वयनादयन 12 कष्वेडितास्फॊटितॊत्क्रुष्टैस तुमुलं सर्वतॊ ऽभवत बाहुघॊषाश च वीराणां कर्णार्जुन समागमे 13 तौ दृष्ट्वा पुरुषव्याघ्रौ रथस्थौ रथिनां वरौ परगृहीतमहाचापौ शरशक्तिगदायुधौ 14 वर्मिणौ बद्धनिस्त्रिंशॊ शेताश्वौ शङ्खशॊभिनौ तूणीरवरसंपन्नौ दवाव अपि सम सुदर्शनौ 15 रक्तचन्दन दिग्धाङ्गौ समदौ वृषभाव इव आशीविषसमप्रख्यौ यम कालान्तकॊपमौ 16 इन्द्र वृत्राव इव करुद्धौ सूर्या चान्द्रमस परभौ महाग्रहाव इव करूरौ युगान्ते समुपस्थितौ 17 देवगर्भौ देवसमौ देवतुल्यौ च रूपतः समेतौ पुरुषव्याघ्रौ परेक्ष्य कर्ण धनंजयौ 18 उभौ वरायुधधराव उभौ रणकृतश्रमौ उभौ च बाहुशब्देन नादयन्तौ नभस्तलम 19 उभौ विश्रुत कर्माणौ पौरुषेणा बलेन च उभौ च सदृशौ युद्धे शम्बरामर राजयॊः 20 कातवीर्य समौ युद्धे तथा दाशरभेः समौ विष्णुवीर्यसमौ वीर्ये तथा बव समौ युधि 21 उभौ शवेतहयौ राजन रथप्रवर वाहिनौ सारथी परवरौ चैव तयॊर आस्तां महाबलौ 22 तौ तु दृष्ट्वा महाराज राजमानौ महारथौ सिद्धचारणसंघानां विस्मयः समपद्यत 23 धार्तराष्ट्रास ततः कर्णं सबला भरतर्षभ परिवाव्रुर महात्मानं कषिप्रम आहवशॊभिनम 24 तथैव पाण्डवा हृष्टा धृष्टद्युम्नपुरॊगमाः परिवव्रुर महात्मानं पार्थम अप्रतिमां युधि 25 तावकानां रणे कर्णॊ गलह आसीद विशां पते तथैव पाण्डवेयानां गलहः पार्थॊ ऽभवद युधि 26 त एव सभ्यास तत्रासान परेक्षकाश चाभवन सम ते तत्रैषां गलहमानानां धरुवौ जयपराजयौ 27 ताभ्यां दयूतं समायत्तं विजयायेतराय वा अस्माकं पण्डवानां च सथितानां रणमूर्धनि 28 तौ तु सथितौ महाराज समरे युद्धशालिनौ अन्यॊन्यं परतिसंरब्धाव अन्यॊन्यस्या जयैषिणौ अन्यॊन्यं परतिसंरब्धाव अन्यॊन्यस्य जयैषिणौ 29 ताव उभौ परतिहीर्षेताम इन्द्र वृत्राव इवाभितः भीमरूपा धराव आस्तं महाधूमाव इव गरहौ 30 ततॊ ऽनतरिक्षे साक्षेपा विवादा भरतर्षभ मिथॊ भेदाश च भूतानाम आसन कर्णाजुनान्तरे वयाश्रयन्त दिशॊ भिन्नाः सर्वलॊकाश च मारिष 31 देवदानवगन्धर्वाः पिशाच्चॊरग राक्षसाः परतिपक्ष गरहं चक्रुः कर्णार्जुन समागमे 32 दयौर आसीत्क कर्णतॊ वयग्रा सनक्षत्रा विशां पते भूमिर विशाला पार्थस्य मातापुत्रस्य भारत 33 सरितः सागराश चैव गिरयश च नरॊत्तम वृक्षाश चौषधयस तत्र वयाश्रयन्ति किरीटिनम 34 असुरा यातुधानाश च गरुह्यकाश च परंतप कर्णतः समपद्यन्त खे चराणि वयांसि च 35 रत्नानि निधयः सर्वे वेदाश चाख्यानपाञ्चमाः सॊपवेदॊपनिषदः सरहस्याः ससंग्रहाः 36 वासुकिश चित्रसेनश च तक्षाकश चॊपतक्षकः पर्वताश च तथा सर्वे काद्रवेयाश च सान्वयाः विषवन्तॊ महारॊषा नागाश चार्जुनतॊ ऽभवन 37 ऐरावताः सौरभेया वैशालेयाश च भॊगिनः एते ऽभवन्न अर्जुनतः कषुद्र सर्पास तु कर्णतः 38 ईहामृगा वयाड मृगा मङ्गल्याश च मृगद्विजाः पार्थस्य विजयं राजन सर्व एवाभिसंश्रिताः 39 वसवॊ मरुतः साध्या रुद्रा विश्वे ऽशविनौ तथा अग्निर इन्द्रश च सॊमश च पवनश च दिशॊ दश धनंजयम उपाजग्मुर आदित्याः कर्णतॊ ऽभवन 40 देवास तु पितृभिः सार्धां सगणार्जुनतॊ ऽभवन यमॊ वैश्रवणश चैव वरुणश च यतॊ ऽरजुनः 41 देव बरह्म नृपर्षीणां गणाः पाण्डवतॊ ऽभवन तुम्बुरु परमुखा राजन गन्धर्वाश च यतॊ ऽरजुनः 42 परावेयाः साह मौनेयैर गन्धर्वाप्सरसां गणाः ईहामृगव्याड मृगैर दविपाश च रथपत्तिभिः 43 उह्यमानास तथा मेघैर वायुना च मनीषिणः दिदृक्षवः समाजग्मुः कर्णार्जुन समागमम 44 देवदानवगन्धर्वा नागा यक्षाः पतत्रिणः महर्षयॊ वेद विदः पितरश च सवधा भुजः 45 तपॊ विद्यास तथौषध्यॊ नानारूपाम्बर तविषः अन्तरिक्षे महाराज विनदन्तॊ ऽवतस्थिरे 46 बरह्मा बरह्मर्षिभिः सार्धं परजापतिभिर एव च भवेनावस्थितॊ यानं दिव्यं तं देशम आभ्ययात 47 दृष्ट्वा परजापतिं देवाः सवयं भुवम उपागमन समॊ ऽसतु देव विजय एतयॊर नरसिंहयॊः 48 तद उपश्रुत्य मघवा परणिपत्य पितामहम कर्णाजुन विनाशेन मा नश्यत्व अखिलं जगत 49 सवयम्भॊ बरूहि तद वाक्यं समॊ ऽसतु विजयॊ ऽनयॊः तत तथास्तु नमस ते ऽसतु परसीद भगवन मम 50 बरह्मेशानाव अथॊ वाक्यम ऊचतुस तरिदशेश्वरम विजयॊ धरुव एवास्तु विजयस्य महात्मनः 51 मनस्वी बलवाञ शूरः कृतास्त्रश च तपॊधनः बिभर्ति च महातेजा धनुर्वेदम अशेषतः 52 अतिक्रमेच च माहात्म्याद दिष्टम एतस्य पर्ययात अतिक्रान्ते च लॊकानाम अभावॊ नियतॊ भवेत 53 न विद्यते वयवस्थानं कृष्णयॊः करुद्धयॊः कव चित सरष्टारौ हय असतश चॊभौ सतश च पुरुषर्षभौ 54 नरनारायणाव एतौ पुराणाव ऋषिसत्तमौ अनियत्तौ नियन्ताराव अभीतौ सम परंतपौ 55 कर्णॊ लॊकान अयं मुख्यान पराप्त्नॊतु पुरुषर्षभः वीरॊ वैकर्तनः शूरॊ विजयस तव अस्तु कृष्णयॊः 56 वसूनां च सलॊकत्वं मरुतां वा समाप्नुयात सहितॊ दरॊण भीष्माभ्यां नाकलॊके महीयताम 57 इत्य उक्तॊ देवदेवाभ्यां सहस्राक्षॊ ऽबरवीद वचः आमन्त्र्य सर्वभूतानि बरह्मेशानानुशासनात 58 शरुतं भवद्भिर यात परॊक्तं भगवाद्भ्यां जगद धितम तत तथा नान्यथा तद धि तिष्ठध्वं गतमन्यवः 59 इति शरुत्वेन्द्र वचनां सर्वभूतानि मारिष विस्मितान्य अभवन राजन पूजयां चक्रिरे च तत 60 वयसृजांश च सुगन्धीनि नानारूपाणि खात तथा पुष्पवर्षाणि बिबुधा देव तूर्याण्य अवादयन 61 दिदृक्षवश चाप्रतिमं दवैरथं नरसिंहयॊः देवदानवगन्धर्वाः सर्व एवावतस्थिरे रथौ च तौ शवेतहयौ युक्तकेतू महास्वनौ 62 समागता लॊकवीराः शङ्खान दध्मुः पृथक पृथक वासुदेवार्जुनौ वीरौ कर्ण शल्यौ च भारत 63 तद भीरु संत्रास करं युद्धं समभवत तदा अन्यॊन्यस्पर्धिनॊर वीर्ये शक्रशम्बरयॊर इव 64 तयॊर धवजौ वीतमालौ शुशुभाते रथस्थितौ पृथग रूपौ समार्छन्तौ करॊधं युद्धे परस्परम 65 कर्णस्याशीविषनिभा रत्नसारवती दृढा पुरंदर धनुःप्रख्या हस्तिकक्ष्या वयराजत 66 कपिश्रेष्ठस तु पार्थस्य वयादितास्यॊ भयंकरः भीषयन्न एव दंष्ट्राभिर दुर्निरीक्ष्यॊ रविर यथा 67 युद्द्धाभिलाषुकॊ भूत्वा धवजॊ गाण्डीवधन्वनः कर्ण धवजम उपातिष्ठत सॊ ऽवदीद अभिनर्दयन 68 उत्पत्य च महावेगः कक्ष्याम अभ्यहनत कपि नखैश च दशनैर्श चैव गरुडः पन्नगं यथा 69 सुकिङ्किणीकाभरणा कालपाशॊपमायसी अभ्यद्रवत सुसंक्रुद्धा नागकक्ष्या महाकपिम 70 उभयॊर उत्तमे युद्धे दवैरथे दयूत आहृते परकुर्वाते धवजौ युद्धं परत्यहेषन हयान हयाः 71 अविध्यत पुण्डरीकाक्षः शल्यं नयनसायकैः स चापि पुण्डरीकाक्षं तथैवाभिसमैक्षत 72 तत्राजयद वासुदेवः शल्यं नयनसायकैः कर्णं चाप्य अजयद दृष्ट्या कुन्तीपुत्रॊ धनंजयः 73 अथाब्रवीत सूतपुत्रः शल्यम आभाष्य सस्मितम यदि पार्थॊ रणे हन्याद अद्य माम इह कर्हि चित किम उत्तरं तदा ते सयात सखे सत्यं बरवीहि मे 74 [षल्य] यदि कर्ण रणे हन्याद अद्य तवां शवेतवाहनः उभाव एकरथेनाहं हन्यां माधव पाण्डवौ 75 [स] एवम एव तु गॊविंदम अर्जुनः परत्यभाषत तं परहस्याब्रवीत कृष्णः पार्थं परम इदं वचः 76 पतेद दिवाकरः सथानाच छीर्येतानेकधा कषितिः शैत्यम आग्निर इयान न तवा कर्णॊ हन्याद धनंजयम 77 यदि तव एवं कथं चित सयाल लॊकपर्यसनं यथा हन्यां कर्णं तथा शल्यं बाहुभ्याम एव संयुगे 78 इति कृष्ण वचः शरुत्वा परहसन कपिकेतनः अर्जुनः परत्युवाचेदं कृष्णम अक्लिष्टकारिणम ममाप्य एताव अपर्याप्तौ कर्ण शल्यौ जनार्दन 79 सपताका धवजं कर्णं सशल्य रथवाजिनम सच्छत्र कवचं चैव सशक्ति शरकार्मुकम 80 दरष्टास्य अद्य शरैः कर्णं रणे कृत्तम अनेकधा अद्यैनं सरथं साश्वं सशक्ति कवचायुधम न हि मे शाम्यते वैरं कृष्णां यत पराहसत पुरा 81 अद्य दरष्टासि गॊविन्दकर्णम उन्मथितं मया वारणेनेव मत्तेन पुष्पितं जगती रुहम 82 अद्य ता मधुरा वाचः शरॊतासि मधुसूदन अद्याभिमन्यु जननीम अनृणः सान्त्वयिष्यसि कुन्तीं पितृष्वसारं च संप्रहृष्टॊ जनार्दन 83 अद्य बाष्पमुखीं कृष्णां सान्त्वयिष्यसि माधव वाग्भिश चामृतकल्पाभिर धर्मराजं युधिष्ठिरम |
1
[s] vṛṣasenaṃ hataṃ dṛṣṭvā śokāmarṣa samanvitaḥ muktvā śokodbhavaṃ vāri netrābhyāṃ sahasā vṛṣaḥ 2 rathena karṇas tejasvī jagāmābhimukho ripūn yuddhāyāmarṣa tāmrākṣaḥ samāhūya dhanaṃjayam 3 tau rathau sūryasaṃkāśau vaiyāghraparivāraṇau sametau dadṛśus tatra dvāv ivārkau samāgatau 4 śvetāśvau puruṣādityāv āsthitāv arimardanau śuśubhāte mahātmānau candrādityau yathā divi 5 tau dṛṣṭvā vismayaṃ jagmuḥ sarvabhūtāni māriṣa trailokyavijaye yattāv indra vairocanāv iva 6 rathajyā talanirhrādair bāṇaśaṅkharavair api tau rathāv abhidhāvantau samālokya mahīkṣitām 7 dhvajau ca dṛṣṭvā saṃsaktau vismayaḥ samapadyata hastikakṣyāṃ ca karṇasya vānaraṃ ca kirīṭinaḥ 8 tau rathau saṃprasaktau ca dṛṣṭvā bhārata pārthivāḥ siṃhanāda ravāṃś cakruḥ sādhuvādāṃś ca puṣkalān 9 śrutvā tu dvairathaṃ tābhyāṃ tatra yodhāḥ samantataḥ cakrur bāhuvalam caiva tathā celā valaṃ mahat 10 ājagmuḥ kuravas tatra vāditrānugatās tadā karṇaṃ praharṣayantaś ca śaṅkhān dadhmuś ca puṣkalān 11 tathaiva pāṇḍavāḥ sarve harṣayanto dhanaṃjayam tūryaśaṅkhaninādena diśaḥ sarvā vyanādayan 12 kṣveḍitāsphoṭitotkruṣṭais tumulaṃ sarvato 'bhavat bāhughoṣāś ca vīrāṇāṃ karṇārjuna samāgame 13 tau dṛṣṭvā puruṣavyāghrau rathasthau rathināṃ varau pragṛhītamahācāpau śaraśaktigadāyudhau 14 varmiṇau baddhanistriṃśo śetāśvau śaṅkhaśobhinau tūṇīravarasaṃpannau dvāv api sma sudarśanau 15 raktacandana digdhāṅgau samadau vṛṣabhāv iva āśīviṣasamaprakhyau yama kālāntakopamau 16 indra vṛtrāv iva kruddhau sūryā cāndramasa prabhau mahāgrahāv iva krūrau yugānte samupasthitau 17 devagarbhau devasamau devatulyau ca rūpataḥ sametau puruṣavyāghrau prekṣya karṇa dhanaṃjayau 18 ubhau varāyudhadharāv ubhau raṇakṛtaśramau ubhau ca bāhuśabdena nādayantau nabhastalam 19 ubhau viśruta karmāṇau pauruṣeṇā balena ca ubhau ca sadṛśau yuddhe śambarāmara rājayoḥ 20 kātavīrya samau yuddhe tathā dāśarabheḥ samau viṣṇuvīryasamau vīrye tathā bava samau yudhi 21 ubhau śvetahayau rājan rathapravara vāhinau sārathī pravarau caiva tayor āstāṃ mahābalau 22 tau tu dṛṣṭvā mahārāja rājamānau mahārathau siddhacāraṇasaṃghānāṃ vismayaḥ samapadyata 23 dhārtarāṣṭrās tataḥ karṇaṃ sabalā bharatarṣabha parivāvrur mahātmānaṃ kṣipram āhavaśobhinam 24 tathaiva pāṇḍavā hṛṣṭā dhṛṣṭadyumnapurogamāḥ parivavrur mahātmānaṃ pārtham apratimāṃ yudhi 25 tāvakānāṃ raṇe karṇo glaha āsīd viśāṃ pate tathaiva pāṇḍaveyānāṃ glahaḥ pārtho 'bhavad yudhi 26 ta eva sabhyās tatrāsān prekṣakāś cābhavan sma te tatraiṣāṃ glahamānānāṃ dhruvau jayaparājayau 27 tābhyāṃ dyūtaṃ samāyattaṃ vijayāyetarāya vā asmākaṃ paṇḍavānāṃ ca sthitānāṃ raṇamūrdhani 28 tau tu sthitau mahārāja samare yuddhaśālinau anyonyaṃ pratisaṃrabdhāv anyonyasyā jayaiṣiṇau anyonyaṃ pratisaṃrabdhāv anyonyasya jayaiṣiṇau 29 tāv ubhau pratihīrṣetām indra vṛtrāv ivābhitaḥ bhīmarūpā dharāv āstaṃ mahādhūmāv iva grahau 30 tato 'ntarikṣe sākṣepā vivādā bharatarṣabha mitho bhedāś ca bhūtānām āsan karṇājunāntare vyāśrayanta diśo bhinnāḥ sarvalokāś ca māriṣa 31 devadānavagandharvāḥ piśāccoraga rākṣasāḥ pratipakṣa grahaṃ cakruḥ karṇārjuna samāgame 32 dyaur āsītk karṇato vyagrā sanakṣatrā viśāṃ pate bhūmir viśālā pārthasya mātāputrasya bhārata 33 saritaḥ sāgarāś caiva girayaś ca narottama vṛkṣāś cauṣadhayas tatra vyāśrayanti kirīṭinam 34 asurā yātudhānāś ca gruhyakāś ca paraṃtapa karṇataḥ samapadyanta khe carāṇi vayāṃsi ca 35 ratnāni nidhayaḥ sarve vedāś cākhyānapāñcamāḥ sopavedopaniṣadaḥ sarahasyāḥ sasaṃgrahāḥ 36 vāsukiś citrasenaś ca takṣākaś copatakṣakaḥ parvatāś ca tathā sarve kādraveyāś ca sānvayāḥ viṣavanto mahāroṣā nāgāś cārjunato 'bhavan 37 airāvatāḥ saurabheyā vaiśāleyāś ca bhoginaḥ ete 'bhavann arjunataḥ kṣudra sarpās tu karṇataḥ 38 īhāmṛgā vyāḍa mṛgā maṅgalyāś ca mṛgadvijāḥ pārthasya vijayaṃ rājan sarva evābhisaṃśritāḥ 39 vasavo marutaḥ sādhyā rudrā viśve 'śvinau tathā agnir indraś ca somaś ca pavanaś ca diśo daśa dhanaṃjayam upājagmur ādityāḥ karṇato 'bhavan 40 devās tu pitṛbhiḥ sārdhāṃ sagaṇārjunato 'bhavan yamo vaiśravaṇaś caiva varuṇaś ca yato 'rjunaḥ 41 deva brahma nṛparṣīṇāṃ gaṇāḥ pāṇḍavato 'bhavan tumburu pramukhā rājan gandharvāś ca yato 'rjunaḥ 42 prāveyāḥ sāha mauneyair gandharvāpsarasāṃ gaṇāḥ īhāmṛgavyāḍa mṛgair dvipāś ca rathapattibhiḥ 43 uhyamānās tathā meghair vāyunā ca manīṣiṇaḥ didṛkṣavaḥ samājagmuḥ karṇārjuna samāgamam 44 devadānavagandharvā nāgā yakṣāḥ patatriṇaḥ maharṣayo veda vidaḥ pitaraś ca svadhā bhujaḥ 45 tapo vidyās tathauṣadhyo nānārūpāmbara tviṣaḥ antarikṣe mahārāja vinadanto 'vatasthire 46 brahmā brahmarṣibhiḥ sārdhaṃ prajāpatibhir eva ca bhavenāvasthito yānaṃ divyaṃ taṃ deśam ābhyayāt 47 dṛṣṭvā prajāpatiṃ devāḥ svayaṃ bhuvam upāgaman samo 'stu deva vijaya etayor narasiṃhayoḥ 48 tad upaśrutya maghavā praṇipatya pitāmaham karṇājuna vināśena mā naśyatv akhilaṃ jagat 49 svayambho brūhi tad vākyaṃ samo 'stu vijayo 'nayoḥ tat tathāstu namas te 'stu prasīda bhagavan mama 50 brahmeśānāv atho vākyam ūcatus tridaśeśvaram vijayo dhruva evāstu vijayasya mahātmanaḥ 51 manasvī balavāñ śūraḥ kṛtāstraś ca tapodhanaḥ bibharti ca mahātejā dhanurvedam aśeṣataḥ 52 atikramec ca māhātmyād diṣṭam etasya paryayāt atikrānte ca lokānām abhāvo niyato bhavet 53 na vidyate vyavasthānaṃ kṛṣṇayoḥ kruddhayoḥ kva cit sraṣṭārau hy asataś cobhau sataś ca puruṣarṣabhau 54 naranārāyaṇāv etau purāṇāv ṛṣisattamau aniyattau niyantārāv abhītau sma paraṃtapau 55 karṇo lokān ayaṃ mukhyān prāptnotu puruṣarṣabhaḥ vīro vaikartanaḥ śūro vijayas tv astu kṛṣṇayoḥ 56 vasūnāṃ ca salokatvaṃ marutāṃ vā samāpnuyāt sahito droṇa bhīṣmābhyāṃ nākaloke mahīyatām 57 ity ukto devadevābhyāṃ sahasrākṣo 'bravīd vacaḥ āmantrya sarvabhūtāni brahmeśānānuśāsanāt 58 śrutaṃ bhavadbhir yāt proktaṃ bhagavādbhyāṃ jagad dhitam tat tathā nānyathā tad dhi tiṣṭhadhvaṃ gatamanyavaḥ 59 iti śrutvendra vacanāṃ sarvabhūtāni māriṣa vismitāny abhavan rājan pūjayāṃ cakrire ca tat 60 vyasṛjāṃś ca sugandhīni nānārūpāṇi khāt tathā puṣpavarṣāṇi bibudhā deva tūryāṇy avādayan 61 didṛkṣavaś cāpratimaṃ dvairathaṃ narasiṃhayoḥ devadānavagandharvāḥ sarva evāvatasthire rathau ca tau śvetahayau yuktaketū mahāsvanau 62 samāgatā lokavīrāḥ śaṅkhān dadhmuḥ pṛthak pṛthak vāsudevārjunau vīrau karṇa śalyau ca bhārata 63 tad bhīru saṃtrāsa karaṃ yuddhaṃ samabhavat tadā anyonyaspardhinor vīrye śakraśambarayor iva 64 tayor dhvajau vītamālau śuśubhāte rathasthitau pṛthag rūpau samārchantau krodhaṃ yuddhe parasparam 65 karṇasyāśīviṣanibhā ratnasāravatī dṛḍhā puraṃdara dhanuḥprakhyā hastikakṣyā vyarājata 66 kapiśreṣṭhas tu pārthasya vyāditāsyo bhayaṃkaraḥ bhīṣayann eva daṃṣṭrābhir durnirīkṣyo ravir yathā 67 yudddhābhilāṣuko bhūtvā dhvajo gāṇḍīvadhanvanaḥ karṇa dhvajam upātiṣṭhat so 'vadīd abhinardayan 68 utpatya ca mahāvegaḥ kakṣyām abhyahanat kapi nakhaiś ca daśanairś caiva garuḍaḥ pannagaṃ yathā 69 sukiṅkiṇīkābharaṇā kālapāśopamāyasī abhyadravat susaṃkruddhā nāgakakṣyā mahākapim 70 ubhayor uttame yuddhe dvairathe dyūta āhṛte prakurvāte dhvajau yuddhaṃ pratyaheṣan hayān hayāḥ 71 avidhyat puṇḍarīkākṣaḥ śalyaṃ nayanasāyakaiḥ sa cāpi puṇḍarīkākṣaṃ tathaivābhisamaikṣata 72 tatrājayad vāsudevaḥ śalyaṃ nayanasāyakaiḥ karṇaṃ cāpy ajayad dṛṣṭyā kuntīputro dhanaṃjayaḥ 73 athābravīt sūtaputraḥ śalyam ābhāṣya sasmitam yadi pārtho raṇe hanyād adya mām iha karhi cit kim uttaraṃ tadā te syāt sakhe satyaṃ bravīhi me 74 [ṣalya] yadi karṇa raṇe hanyād adya tvāṃ śvetavāhanaḥ ubhāv ekarathenāhaṃ hanyāṃ mādhava pāṇḍavau 75 [s] evam eva tu goviṃdam arjunaḥ pratyabhāṣata taṃ prahasyābravīt kṛṣṇaḥ pārthaṃ param idaṃ vacaḥ 76 pated divākaraḥ sthānāc chīryetānekadhā kṣitiḥ śaityam āgnir iyān na tvā karṇo hanyād dhanaṃjayam 77 yadi tv evaṃ kathaṃ cit syāl lokaparyasanaṃ yathā hanyāṃ karṇaṃ tathā śalyaṃ bāhubhyām eva saṃyuge 78 iti kṛṣṇa vacaḥ śrutvā prahasan kapiketanaḥ arjunaḥ pratyuvācedaṃ kṛṣṇam akliṣṭakāriṇam mamāpy etāv aparyāptau karṇa śalyau janārdana 79 sapatākā dhvajaṃ karṇaṃ saśalya rathavājinam sacchatra kavacaṃ caiva saśakti śarakārmukam 80 draṣṭāsy adya śaraiḥ karṇaṃ raṇe kṛttam anekadhā adyainaṃ sarathaṃ sāśvaṃ saśakti kavacāyudham na hi me śāmyate vairaṃ kṛṣṇāṃ yat prāhasat purā 81 adya draṣṭāsi govindakarṇam unmathitaṃ mayā vāraṇeneva mattena puṣpitaṃ jagatī ruham 82 adya tā madhurā vācaḥ śrotāsi madhusūdana adyābhimanyu jananīm anṛṇaḥ sāntvayiṣyasi kuntīṃ pitṛṣvasāraṃ ca saṃprahṛṣṭo janārdana 83 adya bāṣpamukhīṃ kṛṣṇāṃ sāntvayiṣyasi mādhava vāgbhiś cāmṛtakalpābhir dharmarājaṃ yudhiṣṭhiram |
The Mahabharata in Sanskrit
Book 8
Chapter 64
|
1
[स] तद देव नागासुरसिद्धसंघैर; गन्धर्वयक्षाप्सरसां च संघैः बरह्मर्षिराजर्षिसुपर्णजुष्टं; बभौ वियद विस्मयनीय रूपम 2 नानद्यमानं निनदैर मनॊज्ञैर; वादित्रगीतस्तुतिभिश च नृत्तैः सर्वे ऽनतरिक्षे ददृशुर मनुष्याः; खस्थांश च तान विस्मयनीय रूपान 3 ततः परहृष्टाः कुरु पाण्डुयॊधा; वादित्रपत्रायुध सिंहनादैः निनादयन्तॊ वसुधां दिशश च; सवनेन सर्वे दविषतॊ निजघ्नुः 4 नानाश्वमातङ्गरथायुताकुलं; वरासि शक्त्यृष्टि निपातदुःसहम अभीरुजुष्टं हतदेहसंकुलं; रणाजिरं लॊहितरक्तम आबभौ 5 तथा परवृत्ते ऽसत्रभृतां पराभवे; धनंजयश चाधिरथिश च सायकैः दिशश च सैन्यं च शितैर अजिह्मगैः; परस्परं परॊर्णुवतुः सम दंशितौ 6 ततस तवदीयाश च परे च सायकैः; कृते ऽनधकारे विविदुर न किं चन भयात तु ताव एव रथौ समाश्रयंस; तमॊनुदौ खे परसृता इवांशवः 7 ततॊ ऽसत्रम अस्त्रेण परस्परस्य तौ; विधूय वाताव इव पूर्वपश्चिमौ घनान्धकारे वितते तमॊनुदौ; यथॊदितौ तद्वद अतीव रेजतुः 8 न चाभिमन्तव्यम इति परचॊदिताः; परे तवदीयाश च तदावतस्थिरे महारथौ तौ परिवार्य सर्वतः; सुरासुरा वासव शम्बराव इव 9 मृदङ्गभेरीपणवानकस्वनैर; निनादिते भारत शङ्खनिस्वनैः ससिंह नादौ बभतुर नरॊत्तमौ; शशाङ्कसूर्याव इव मेघसंप्लवे 10 महाधनुर मण्डला मध्यगाव उभौ; सुवर्चसौ बाणसहस्ररश्मिनौ दिधक्षमाणौ सचराचरं जगद; युगास्त सूर्याव इव दुःसहौ रणे 11 उभाव अजेयाव अहितान्तकाव उभौ; जिघांसतुस तौ कृतिनौ परस्परम महाहवे वीर वरौ समीयतुर; यथेन्द्र जम्भाव इव कर्ण पाण्डवौ 12 ततॊ महास्त्राणि महाधनुर्धरौ; विमुञ्चमानाव इषुभिर भयानकैः नराश्वनागानमितौ निजघ्नतुः; परस्परं जघ्नतुर उत्तमेषुभिः 13 ततॊ विसस्रुः पुनर अर्दिताः शरैर; नरॊत्तमाभ्यां कुरुपाण्डवाश्रयाः सनागपत्त्यश्वरथा दिशॊ गतास; तथा यथा सिंहभयाद वनौकसः 14 ततस तु दुर्यॊधन भॊजसौबलाः; कृपश च शारद्वत सूनुना सह महारथाः पञ्च धनंजयाच्युतौ; शरैः शरीरान्तकरैर अताडयन 15 धनूंषि तेषाम इषुधीन हयान धवजान; रथांश च सूतांश च धनंजयः शरैः समं च चिच्छेद पराभिनच च ताञ; शरॊत्तमैर दवादशभिश च सूतजम 16 अथाभ्यधावंस तवरिताः शतं रथाः; शतं च नागार्जुनम आततायिनः शकास तुखारा यवनाश च सादिनः; सहैव काम्बॊजवरैर जिघांसवः 17 वरायुधान पाणिगतान करैः सह; कषुरैर नयकृन्तंस तवरिताः शिरांसि च हयांश च नागांश च रथांश च युध्यतां; धनंजयः शत्रुगणं तम अक्षिणॊत 18 ततॊ ऽनतरिक्षे सुरतूर्य निस्वनाः; ससाधु वादा हृषितैः समीरिताः निपेतुर अप्य उत्तमपुष्पपृष्टयः; सुरूप गन्धाः पवनेरिताः शिवाः 19 तद अद्भुतं देवमनुष्यसाक्षिकं; समीक्ष्य भूतानि विसिष्मियुर नृप तवात्मजः सूत सूतश च न वयथां; न विस्मयं जग्मतुर एकनिश्चयौ 20 अथाब्रवीद दरॊणसुतस तवात्मजं; करं करेण परतिपीड्य सान्त्वयन परसीद दुर्यॊधन शाम्य पाण्डवैर; अलं विरॊधेन धिग अस्तु विग्रहम 21 हतॊ गुरुर बरह्म समॊ महास्त्रवित; तथैव भीष्म परमुखा नरर्षभाः अहं तव अवध्यॊ मम चापि मातुलः; परशाधि राज्यं साह पाण्डवैर चिरम 22 धनंजयः सथास्यति वारितॊ मया; जनार्दनॊ नैव विरॊधम इच्छति युधिष्ठिरॊ भूतहिते सदा रतॊ; वृकॊदरस तद्वशगस तथा यमौ 23 तवया च पार्थैश च परस्परेण; परजाः शिवं पराप्नुयुर इच्छति तवयि वरजन्तु शेषाः सवपुराणि पार्थिवा; निवृत्तवैराश च भवन्तु सैनिकाः 24 न चेद वचः शरॊष्यसि मे नराधिप; धरुवं परतप्तासि हतॊ ऽरिभिर युधि इदं च दृष्टं जगता सह तवया; कृतं यद एकेन किरीटिमालिना यथा न कुर्याद बलभिन्न चान्तकॊ; न च परचेता भगवान न यक्षराट 25 अतॊ ऽपि भूयांश च गुणैर धनंजयः; स चाभिपत्स्यत्य अखिलं वचॊ मम तवानुयात्रां च तथा करिष्यति; परसीद राजञ जगतः शमाय वै 26 ममापि मानः परमः सदा तवयि; बरवीम्य अतस तवां परमाच च सौहृदात निवारयिष्यामि हि कर्णम अप्य अहं; यदा भवान सप्रणयॊ भविष्यति 27 वदन्ति मित्रं सहजं विचक्षणास; तथैव साम्ना च धनेन चार्जितम परतापतश चॊपनतं चतुर्विधं; तद अस्ति सर्वं तवयि पाण्डवेषु च 28 निसर्गतस ते तव वीर बान्धवाः; पुनश च साम्ना च समाप्नुहि सथिरम तवयि परसन्ने यदि मित्रताम इयुर; धरुवं नरेन्द्रेन्द्र तथा तवम आचर 29 स एवम उक्तः सुहृदा वचॊ हितं; विचिन्त्य निःश्वस्य च दुर्मनाब्रवीत यथा भवान आह सखे तथैव तन; ममापि च जञापयतॊ वचः शृणु 30 निहत्य दुःशासनम उक्तवान बहु; परसह्य शार्दूलवद एष दुर्मतिः वृकॊदरस तद धृदये मम सथितं; न तत्परॊक्षं भवतः कुतः शमः 31 न चापि कर्णं गुरुपुत्र संस्तवाद; उपारमेत्य अर्हसि वक्तुम अच्युत शरमेण युक्तॊ महताद्य फल्गुनस; तम एष कर्णः परसाभं हनिष्यति 32 तम एवम उक्त्वाभ्यनुनीय चासकृत; तवात्मजः सवान अनुशास्ति सैनिकान समाघ्नताभिद्रवताहितान इमान; सबाणशब्दान किम उ जॊषम आस्यते |
1
[s] tad deva nāgāsurasiddhasaṃghair; gandharvayakṣāpsarasāṃ ca saṃghaiḥ brahmarṣirājarṣisuparṇajuṣṭaṃ; babhau viyad vismayanīya rūpam 2 nānadyamānaṃ ninadair manojñair; vāditragītastutibhiś ca nṛttaiḥ sarve 'ntarikṣe dadṛśur manuṣyāḥ; khasthāṃś ca tān vismayanīya rūpān 3 tataḥ prahṛṣṭāḥ kuru pāṇḍuyodhā; vāditrapatrāyudha siṃhanādaiḥ ninādayanto vasudhāṃ diśaś ca; svanena sarve dviṣato nijaghnuḥ 4 nānāśvamātaṅgarathāyutākulaṃ; varāsi śaktyṛṣṭi nipātaduḥsaham abhīrujuṣṭaṃ hatadehasaṃkulaṃ; raṇājiraṃ lohitaraktam ābabhau 5 tathā pravṛtte 'strabhṛtāṃ parābhave; dhanaṃjayaś cādhirathiś ca sāyakaiḥ diśaś ca sainyaṃ ca śitair ajihmagaiḥ; parasparaṃ prorṇuvatuḥ sma daṃśitau 6 tatas tvadīyāś ca pare ca sāyakaiḥ; kṛte 'ndhakāre vividur na kiṃ cana bhayāt tu tāv eva rathau samāśrayaṃs; tamonudau khe prasṛtā ivāṃśavaḥ 7 tato 'stram astreṇa parasparasya tau; vidhūya vātāv iva pūrvapaścimau ghanāndhakāre vitate tamonudau; yathoditau tadvad atīva rejatuḥ 8 na cābhimantavyam iti pracoditāḥ; pare tvadīyāś ca tadāvatasthire mahārathau tau parivārya sarvataḥ; surāsurā vāsava śambarāv iva 9 mṛdaṅgabherīpaṇavānakasvanair; ninādite bhārata śaṅkhanisvanaiḥ sasiṃha nādau babhatur narottamau; śaśāṅkasūryāv iva meghasaṃplave 10 mahādhanur maṇḍalā madhyagāv ubhau; suvarcasau bāṇasahasraraśminau didhakṣamāṇau sacarācaraṃ jagad; yugāsta sūryāv iva duḥsahau raṇe 11 ubhāv ajeyāv ahitāntakāv ubhau; jighāṃsatus tau kṛtinau parasparam mahāhave vīra varau samīyatur; yathendra jambhāv iva karṇa pāṇḍavau 12 tato mahāstrāṇi mahādhanurdharau; vimuñcamānāv iṣubhir bhayānakaiḥ narāśvanāgānamitau nijaghnatuḥ; parasparaṃ jaghnatur uttameṣubhiḥ 13 tato visasruḥ punar arditāḥ śarair; narottamābhyāṃ kurupāṇḍavāśrayāḥ sanāgapattyaśvarathā diśo gatās; tathā yathā siṃhabhayād vanaukasaḥ 14 tatas tu duryodhana bhojasaubalāḥ; kṛpaś ca śāradvata sūnunā saha mahārathāḥ pañca dhanaṃjayācyutau; śaraiḥ śarīrāntakarair atāḍayan 15 dhanūṃṣi teṣām iṣudhīn hayān dhvajān; rathāṃś ca sūtāṃś ca dhanaṃjayaḥ śaraiḥ samaṃ ca ciccheda parābhinac ca tāñ; śarottamair dvādaśabhiś ca sūtajam 16 athābhyadhāvaṃs tvaritāḥ śataṃ rathāḥ; śataṃ ca nāgārjunam ātatāyinaḥ śakās tukhārā yavanāś ca sādinaḥ; sahaiva kāmbojavarair jighāṃsavaḥ 17 varāyudhān pāṇigatān karaiḥ saha; kṣurair nyakṛntaṃs tvaritāḥ śirāṃsi ca hayāṃś ca nāgāṃś ca rathāṃś ca yudhyatāṃ; dhanaṃjayaḥ śatrugaṇaṃ tam akṣiṇot 18 tato 'ntarikṣe suratūrya nisvanāḥ; sasādhu vādā hṛṣitaiḥ samīritāḥ nipetur apy uttamapuṣpapṛṣṭayaḥ; surūpa gandhāḥ pavaneritāḥ śivāḥ 19 tad adbhutaṃ devamanuṣyasākṣikaṃ; samīkṣya bhūtāni visiṣmiyur nṛpa tavātmajaḥ sūta sūtaś ca na vyathāṃ; na vismayaṃ jagmatur ekaniścayau 20 athābravīd droṇasutas tavātmajaṃ; karaṃ kareṇa pratipīḍya sāntvayan prasīda duryodhana śāmya pāṇḍavair; alaṃ virodhena dhig astu vigraham 21 hato gurur brahma samo mahāstravit; tathaiva bhīṣma pramukhā nararṣabhāḥ ahaṃ tv avadhyo mama cāpi mātulaḥ; praśādhi rājyaṃ sāha pāṇḍavair ciram 22 dhanaṃjayaḥ sthāsyati vārito mayā; janārdano naiva virodham icchati yudhiṣṭhiro bhūtahite sadā rato; vṛkodaras tadvaśagas tathā yamau 23 tvayā ca pārthaiś ca paraspareṇa; prajāḥ śivaṃ prāpnuyur icchati tvayi vrajantu śeṣāḥ svapurāṇi pārthivā; nivṛttavairāś ca bhavantu sainikāḥ 24 na ced vacaḥ śroṣyasi me narādhipa; dhruvaṃ prataptāsi hato 'ribhir yudhi idaṃ ca dṛṣṭaṃ jagatā saha tvayā; kṛtaṃ yad ekena kirīṭimālinā yathā na kuryād balabhinna cāntako; na ca pracetā bhagavān na yakṣarāṭ 25 ato 'pi bhūyāṃś ca guṇair dhanaṃjayaḥ; sa cābhipatsyaty akhilaṃ vaco mama tavānuyātrāṃ ca tathā kariṣyati; prasīda rājañ jagataḥ śamāya vai 26 mamāpi mānaḥ paramaḥ sadā tvayi; bravīmy atas tvāṃ paramāc ca sauhṛdāt nivārayiṣyāmi hi karṇam apy ahaṃ; yadā bhavān sapraṇayo bhaviṣyati 27 vadanti mitraṃ sahajaṃ vicakṣaṇās; tathaiva sāmnā ca dhanena cārjitam pratāpataś copanataṃ caturvidhaṃ; tad asti sarvaṃ tvayi pāṇḍaveṣu ca 28 nisargatas te tava vīra bāndhavāḥ; punaś ca sāmnā ca samāpnuhi sthiram tvayi prasanne yadi mitratām iyur; dhruvaṃ narendrendra tathā tvam ācara 29 sa evam uktaḥ suhṛdā vaco hitaṃ; vicintya niḥśvasya ca durmanābravīt yathā bhavān āha sakhe tathaiva tan; mamāpi ca jñāpayato vacaḥ śṛṇu 30 nihatya duḥśāsanam uktavān bahu; prasahya śārdūlavad eṣa durmatiḥ vṛkodaras tad dhṛdaye mama sthitaṃ; na tatparokṣaṃ bhavataḥ kutaḥ śamaḥ 31 na cāpi karṇaṃ guruputra saṃstavād; upāramety arhasi vaktum acyuta śrameṇa yukto mahatādya phalgunas; tam eṣa karṇaḥ prasābhaṃ haniṣyati 32 tam evam uktvābhyanunīya cāsakṛt; tavātmajaḥ svān anuśāsti sainikān samāghnatābhidravatāhitān imān; sabāṇaśabdān kim u joṣam āsyate |
The Mahabharata in Sanskrit
Book 8
Chapter 65
|
1
[स] तौ शङ्खभेरी निनदे समृद्धे; समीयतुः शवेतहयौ नराग्र्यौ वैकर्तनः सूतपुत्रॊ ऽरजुनश च; दुर्मन्त्रिते तव पुत्रस्य राजन 2 यथा गजौ हैमवतौ परभिन्नौ; परगृह्य दन्ताव इव वाशितार्थे तथा समाजग्मतुर उग्रवेगौ; धनंजयश चाधिरथिश च वीरौ 3 बलाहकेनेव यथाबलाहकॊ; यदृच्छया वा गिरिणा गिरिर यथा तथा धनुर्ज्यातलनेमि निस्वनौ; समीयतुस ताव इषुवर्षवर्षिणौ 4 परवृद्धशृङ्गद्रुम वीरुद ओषधी; परवृद्धनानाविध पर्वतौकसौ यथाचलौ वा गलितौ महाबलौ; तथा महास्त्रैर इतरेतरं घनतः 5 स संनिपातस तु तयॊर महान अभूत; सुरेश वैरॊच्चनयॊर यथा पुरा शरैर विभुग्नाङ्गनियन्तृवाहनः; सुदुःसहॊ ऽनयैः पटु शॊणितॊदकः 6 परभूतपद्मॊत्पल मत्स्यकच्छपौ; महाह्रदौ पण्षि गणानुनादितौ सुसंनिकृष्टाव अनिलॊद्धतौ यथा; तथा रथौ तौ धवजिनौ समीयतुः 7 उभौ महेन्द्रस्य सामान विक्रमाव; उभौ महेन्द्रप्रतिमौ महारथौ महेन्द्रवज्रप्रतिमैश च सायकैर; महेन्द्र वृत्राव इव संप्रजह्रतुः 8 सनागपत्त्यश्वरथे उभे बले; विचित्रवर्णाभरणाम्बर सरजे चकम्पतुश चॊन्नमतः सम विस्मयाद; वियद गताश चार्जुन कर्ण संयुगे 9 भुजाः सवज्राङ्गुलयः समुच्छ्रिताः; ससिंह नादा हृषितैर दिदृक्षुभिः यदार्जुनं मत्तम इव दविपॊ दविपं; समभ्ययाद आधिरथिर जिघांसया 10 अभ्यक्रॊशन सॊमकास तत्र पार्थं; वरस्व याह्य अर्जुन विध्य कर्णम छिन्ध्य अस्य मूर्धानम अलं चिरेण; शरद्धां च राज्याद धृतराष्ट्र सूनॊः 11 तथास्माकं बहवस तत्र यॊधाः; कर्णं तदा याहि याहीत्य अवॊचन जह्य अर्जुनं कर्ण ततः सचीराः; पुनर वनं यान्तु चिराय पार्थाः 12 ततः कर्णः परथमं तत्र पार्थं; महेषुभिर दशभिः पर्यविध्यत तम अर्जुनः परत्यविध्यच छिताग्रैः; कक्षान्तरे दशभिर अतीव करुद्धः 13 परस्परं तौ विशिखैः सुतीक्ष्णैस; ततक्षतुः सूतपुत्रॊ ऽरजुनश च परस्परस्यान्तरेप्सू विमर्दे; सुभीमम अभ्याययतुः परहृष्टौ 14 अमृष्यमाणश च महाविमर्दे; तत्राक्रुध्यद भीमसेनॊ महात्मा अथाब्रवीत पाणिना पाणिम आघ्नन; संदष्टौष्ठ नृत्यति वादयन्न इव कथं नु तवां सूतपुत्रः किरीटिन; महेषुभिर दशभिर अविध्यद अग्रे 15 यया धृत्या सर्वभूतान्य अजैषीर; गरासं ददद वह्नये खाण्डवे तवम तया धृत्या सूतपुत्रं जहि तवम; अहं वैनं गदया पॊथयिष्ये 16 अथाब्रवीद वासुदेवॊऽपि पार्थं; दृष्ट्वा रथेषून परतिहन्यमानान अमीमृदत सर्वथा ते ऽदय कर्णॊ; हय अस्त्रैर अस्त्राणि किम इदं किरीटिन 17 स वीर किं मुह्यसि नावधीयसे; नदन्त्य एते कुरवः संप्रहृष्टाः कर्णं पुरस्कृत्य विदुर हि सर्वे; तवद अस्त्रम अस्त्रैर विनिपात्यमानम 18 यया धृत्या निहतं तामसास्त्रं; युगे युगे राक्षसाश चापि घॊराः दम्भॊद्भवाश चासुराश चाहवेषु; तया धृत्या तवं जहि सूतपुत्रम 19 अनेना वास्य कषुर नेमिनाद्य; संछिन्द्धि मूर्धानम अरेः परसह्य मया निसृष्टेन सुदर्शनेन; वज्रेण शक्रॊ नमुचेर इवारेः 20 किरात रूपी भगवान यया च; तवया महत्या परितॊषितॊ ऽभूत तां तवं धृतिं वीर पुनर गृहीत्वा; सहानुबन्धं जहि सूतपुत्रम 21 ततॊ महीं सागरमेखलां तं; सपत्तनां गरामवतीं समृद्धाम परयच्छ राज्ञे निहतारि सांघां; यशश च पार्थातुलम आप्नुहि तवम 22 संचॊदितॊ भीम जनार्दनभ्यं; समृत्वा तदात्मानम अवेक्ष्य सत्त्वम महात्मनश चागमने विदित्वा; परयॊजनं केशवम इत्य उवाच 23 परादुष्करॊम्य एष महास्त्रम उग्रं; शिवाय लॊकस्य वधाय सौतेः तन मे ऽनुजनातु भवान सुराश च; बरह्मा भुवॊ बरह्म विदश च सर्वे 24 इत्य ऊचिवान बराह्मम असह्यम अस्त्रं; परादुश्चक्रे मनसा संविधेयम ततॊ दिशश च परदिशश च सर्वाः; समावृणॊत सायकैर भूरि तेजाः स सर्जबाणान भरतर्षभॊ ऽपि; शतं शतानेकवद आशु वेगान 25 वैकर्तनेनापि तथाजिमध्ये; सहस्रशॊ बाणगणा विसृष्टाः ते घॊषिणः पाण्डवम अभ्युपेयुः; पजन्य मुक्ता इव वारिधाराः 26 स भीमासेनं च जनार्दनं च; किरीटिनं चाप्य अमनुष्यकर्मा तरिभिस तरिभिर भीमबलॊ निहत्या; ननाद घॊरं महता सवरेण 27 स कर्ण बाणाभिहतः किरीटी; भीमं तथा परेक्ष्य जनार्दनं च अमृष्यमाणः पुनार एव पार्थः; शरान दशाष्टौ च समुद्बबर्ह 28 सुषेणम एकेन शरेण विद्ध्वा शल्यां; चतुर्भिस तरिभिर एव कर्णम ततः सुमुक्तैर दशभिर जघान; सभा पतिं काञ्चनवर्म नाद्धम 29 सा राजपुत्रॊ विशिरा विबाहुर; विवाजि सूतॊ विधनुर विकेतुः ततॊ रथाग्राद अपतत परभग्नः; परश्वधैः शाल इवाभिकृत्तः 30 पुनश च कर्णं तरिभिर अष्टभिश च; दवाभ्यां चतुर्भिर दशभिश च विद्ध्वा चातुः शतन दविरदान सायुधीयान; हत्वा रथान अष्ट शतं जघान सहस्रम अश्वांश च पुनश च सादीन; अष्टौ सहस्राणि च पात्ति वीरान 31 दृष्ट्वाजि मुख्याव अथ युध्यमानौ; दिदृक्षवः शूर वराव अरिघ्नौ कर्णं च पार्थं च नियाम्य वाहान; खस्था महीस्थाश च जनावतस्थुः 32 ततॊ धनुर्ज्या सहसातिकृष्टा; सुघॊषम आच्छिद्यत पाण्डवस्य तस्मिन कषणे सूतपुत्रस तु पार्थं; समाच्चिनॊत कषुद्रकाणां शतेन 33 निर्मुक्तसर्पप्रतिमैश च तीक्ष्णैस; तैलप्रधौतैः खग पात्रवाजैः षष्ट्या नाराचैर वासुदेवं बिभेद; तदन्तरं सॊमकाः पराद्रवन्त 34 ततॊ धनुर्ज्याम अवधम्य शीघ्रं; शरान अस्तान आधिरथेर विधम्य सुसंरब्धः कर्ण शरक्षताङ्गॊ; रणे पार्थः सॊमकान परत्यगृह्णात न पक्षिणः साम्पतन्त्य अन्तरिक्षे; कषेपीयसास्त्रेण कृते ऽनधकारे 35 शल्यं च पार्थॊ दशभिः पृषत्कैर; भृशं तनुत्रे परहसन्न अविध्यत ततः कार्णं दवादशभिः सुमुक्तैर; विद्ध्वा पुनः सप्तभिर अभ्यविध्यत 36 स पार्थ बाणासनवेगनुन्नैर; दृढाहतः पत्रिभिर उग्रवेगैः विभिन्नगात्रः कषतजॊक्षिताङ्गः; कर्णॊ बभौ रुद्र इवाततेषुः 37 ततस तरिभिश च तरिदाशाधिपॊपमं; शरैर बिभेदाधिरथिर धनंजयम शरांस तु पञ्च जवलितान इवॊरगान; परवीरयाम आस जिघांसुर अच्च्युते 38 ते वर्म भित्त्वा पुरुषॊत्तमस्य; सुवर्णचित्रं नयपतन सुमुक्ताः वेगेन गाम आविविशुः सुवेगाः; सनात्वा च कर्णाभिमुखाः परतीयुः 39 तान पञ्च भल्लैस तवरितैः सुमुक्तैस; तरिधा तरिधैकैकम अथॊच्चकर्त धनंजयस ते नयपतन पृथिव्यां; महाहयस तक्षक पुत्र पक्षाः 40 ततः परजज्वाल किरीटमाली; करॊधेन कक्षं परदहन्न इवाग्निः स कर्णम आकर्णविकृष्टसृष्टैः; शरैः शरीरान्तकरैर जवलद्भिः मर्मस्व अविध्यत स चचाल दुःखाद; धैर्यात तु तस्थाव अतिमात्रधैर्यः 41 ततः शरौघैः परदिशॊ दिशश च; रविप्रभा कर्ण रथश च राजन अदृश्य आसीत कुपिते धनंजये; तुषारनीहारवृतं यथा नभः 42 सचक्ररक्षान अथ पादरक्षान; पुरःसरान पृष्ठगॊपांश च सर्वान दुर्यॊधनेनानुमतान अरिघ्नान; समुच्चितान सुरथान सारभूतान 43 दविसाहस्रान समरे सव्यसाची; कुरुप्रवीरान ऋषभः कुरूणाम कषणेन सर्वान सरथाश्वसूतान; निनाय राजन कषायम एकवीरः 44 अथापलायन्त विहाय कर्णं; तवात्मजाः कुरवश चावशिष्टाः हतान अवकीर्य शरक्षतांश च; लालप्यमानांस तनयान पितॄंश च 45 सा सर्वतः परेक्ष्य दिशॊ विशून्या; भयावदीर्णैः कुरुभिर विहीनः न विव्यथे भारत तत्र कर्णः; परतीपम एवार्जुनम अभ्यधावत |
1
[s] tau śaṅkhabherī ninade samṛddhe; samīyatuḥ śvetahayau narāgryau vaikartanaḥ sūtaputro 'rjunaś ca; durmantrite tava putrasya rājan 2 yathā gajau haimavatau prabhinnau; pragṛhya dantāv iva vāśitārthe tathā samājagmatur ugravegau; dhanaṃjayaś cādhirathiś ca vīrau 3 balāhakeneva yathābalāhako; yadṛcchayā vā giriṇā girir yathā tathā dhanurjyātalanemi nisvanau; samīyatus tāv iṣuvarṣavarṣiṇau 4 pravṛddhaśṛṅgadruma vīrud oṣadhī; pravṛddhanānāvidha parvataukasau yathācalau vā galitau mahābalau; tathā mahāstrair itaretaraṃ ghnataḥ 5 sa saṃnipātas tu tayor mahān abhūt; sureśa vairoccanayor yathā purā śarair vibhugnāṅganiyantṛvāhanaḥ; suduḥsaho 'nyaiḥ paṭu śoṇitodakaḥ 6 prabhūtapadmotpala matsyakacchapau; mahāhradau paṇṣi gaṇānunāditau susaṃnikṛṣṭāv aniloddhatau yathā; tathā rathau tau dhvajinau samīyatuḥ 7 ubhau mahendrasya sāmāna vikramāv; ubhau mahendrapratimau mahārathau mahendravajrapratimaiś ca sāyakair; mahendra vṛtrāv iva saṃprajahratuḥ 8 sanāgapattyaśvarathe ubhe bale; vicitravarṇābharaṇāmbara sraje cakampatuś connamataḥ sma vismayād; viyad gatāś cārjuna karṇa saṃyuge 9 bhujāḥ savajrāṅgulayaḥ samucchritāḥ; sasiṃha nādā hṛṣitair didṛkṣubhiḥ yadārjunaṃ mattam iva dvipo dvipaṃ; samabhyayād ādhirathir jighāṃsayā 10 abhyakrośan somakās tatra pārthaṃ; varasva yāhy arjuna vidhya karṇam chindhy asya mūrdhānam alaṃ cireṇa; śraddhāṃ ca rājyād dhṛtarāṣṭra sūnoḥ 11 tathāsmākaṃ bahavas tatra yodhāḥ; karṇaṃ tadā yāhi yāhīty avocan jahy arjunaṃ karṇa tataḥ sacīrāḥ; punar vanaṃ yāntu cirāya pārthāḥ 12 tataḥ karṇaḥ prathamaṃ tatra pārthaṃ; maheṣubhir daśabhiḥ paryavidhyat tam arjunaḥ pratyavidhyac chitāgraiḥ; kakṣāntare daśabhir atīva kruddhaḥ 13 parasparaṃ tau viśikhaiḥ sutīkṣṇais; tatakṣatuḥ sūtaputro 'rjunaś ca parasparasyāntarepsū vimarde; subhīmam abhyāyayatuḥ prahṛṣṭau 14 amṛṣyamāṇaś ca mahāvimarde; tatrākrudhyad bhīmaseno mahātmā athābravīt pāṇinā pāṇim āghnan; saṃdaṣṭauṣṭha nṛtyati vādayann iva kathaṃ nu tvāṃ sūtaputraḥ kirīṭin; maheṣubhir daśabhir avidhyad agre 15 yayā dhṛtyā sarvabhūtāny ajaiṣīr; grāsaṃ dadad vahnaye khāṇḍave tvam tayā dhṛtyā sūtaputraṃ jahi tvam; ahaṃ vainaṃ gadayā pothayiṣye 16 athābravīd vāsudevo'pi pārthaṃ; dṛṣṭvā ratheṣūn pratihanyamānān amīmṛdat sarvathā te 'dya karṇo; hy astrair astrāṇi kim idaṃ kirīṭin 17 sa vīra kiṃ muhyasi nāvadhīyase; nadanty ete kuravaḥ saṃprahṛṣṭāḥ karṇaṃ puraskṛtya vidur hi sarve; tvad astram astrair vinipātyamānam 18 yayā dhṛtyā nihataṃ tāmasāstraṃ; yuge yuge rākṣasāś cāpi ghorāḥ dambhodbhavāś cāsurāś cāhaveṣu; tayā dhṛtyā tvaṃ jahi sūtaputram 19 anenā vāsya kṣura neminādya; saṃchinddhi mūrdhānam areḥ prasahya mayā nisṛṣṭena sudarśanena; vajreṇa śakro namucer ivāreḥ 20 kirāta rūpī bhagavān yayā ca; tvayā mahatyā paritoṣito 'bhūt tāṃ tvaṃ dhṛtiṃ vīra punar gṛhītvā; sahānubandhaṃ jahi sūtaputram 21 tato mahīṃ sāgaramekhalāṃ taṃ; sapattanāṃ grāmavatīṃ samṛddhām prayaccha rājñe nihatāri sāṃghāṃ; yaśaś ca pārthātulam āpnuhi tvam 22 saṃcodito bhīma janārdanabhyaṃ; smṛtvā tadātmānam avekṣya sattvam mahātmanaś cāgamane viditvā; prayojanaṃ keśavam ity uvāca 23 prāduṣkaromy eṣa mahāstram ugraṃ; śivāya lokasya vadhāya sauteḥ tan me 'nujanātu bhavān surāś ca; brahmā bhuvo brahma vidaś ca sarve 24 ity ūcivān brāhmam asahyam astraṃ; prāduścakre manasā saṃvidheyam tato diśaś ca pradiśaś ca sarvāḥ; samāvṛṇot sāyakair bhūri tejāḥ sa sarjabāṇān bharatarṣabho 'pi; śataṃ śatānekavad āśu vegān 25 vaikartanenāpi tathājimadhye; sahasraśo bāṇagaṇā visṛṣṭāḥ te ghoṣiṇaḥ pāṇḍavam abhyupeyuḥ; pajanya muktā iva vāridhārāḥ 26 sa bhīmāsenaṃ ca janārdanaṃ ca; kirīṭinaṃ cāpy amanuṣyakarmā tribhis tribhir bhīmabalo nihatyā; nanāda ghoraṃ mahatā svareṇa 27 sa karṇa bāṇābhihataḥ kirīṭī; bhīmaṃ tathā prekṣya janārdanaṃ ca amṛṣyamāṇaḥ punār eva pārthaḥ; śarān daśāṣṭau ca samudbabarha 28 suṣeṇam ekena śareṇa viddhvā śalyāṃ; caturbhis tribhir eva karṇam tataḥ sumuktair daśabhir jaghāna; sabhā patiṃ kāñcanavarma nāddham 29 sā rājaputro viśirā vibāhur; vivāji sūto vidhanur viketuḥ tato rathāgrād apatat prabhagnaḥ; paraśvadhaiḥ śāla ivābhikṛttaḥ 30 punaś ca karṇaṃ tribhir aṣṭabhiś ca; dvābhyāṃ caturbhir daśabhiś ca viddhvā cātuḥ śatan dviradān sāyudhīyān; hatvā rathān aṣṭa śataṃ jaghāna sahasram aśvāṃś ca punaś ca sādīn; aṣṭau sahasrāṇi ca pātti vīrān 31 dṛṣṭvāji mukhyāv atha yudhyamānau; didṛkṣavaḥ śūra varāv arighnau karṇaṃ ca pārthaṃ ca niyāmya vāhān; khasthā mahīsthāś ca janāvatasthuḥ 32 tato dhanurjyā sahasātikṛṣṭā; sughoṣam ācchidyata pāṇḍavasya tasmin kṣaṇe sūtaputras tu pārthaṃ; samāccinot kṣudrakāṇāṃ śatena 33 nirmuktasarpapratimaiś ca tīkṣṇais; tailapradhautaiḥ khaga pātravājaiḥ ṣaṣṭyā nārācair vāsudevaṃ bibheda; tadantaraṃ somakāḥ prādravanta 34 tato dhanurjyām avadhamya śīghraṃ; śarān astān ādhirather vidhamya susaṃrabdhaḥ karṇa śarakṣatāṅgo; raṇe pārthaḥ somakān pratyagṛhṇāt na pakṣiṇaḥ sāmpatanty antarikṣe; kṣepīyasāstreṇa kṛte 'ndhakāre 35 śalyaṃ ca pārtho daśabhiḥ pṛṣatkair; bhṛśaṃ tanutre prahasann avidhyat tataḥ kārṇaṃ dvādaśabhiḥ sumuktair; viddhvā punaḥ saptabhir abhyavidhyat 36 sa pārtha bāṇāsanaveganunnair; dṛḍhāhataḥ patribhir ugravegaiḥ vibhinnagātraḥ kṣatajokṣitāṅgaḥ; karṇo babhau rudra ivātateṣuḥ 37 tatas tribhiś ca tridāśādhipopamaṃ; śarair bibhedādhirathir dhanaṃjayam śarāṃs tu pañca jvalitān ivoragān; pravīrayām āsa jighāṃsur accyute 38 te varma bhittvā puruṣottamasya; suvarṇacitraṃ nyapatan sumuktāḥ vegena gām āviviśuḥ suvegāḥ; snātvā ca karṇābhimukhāḥ pratīyuḥ 39 tān pañca bhallais tvaritaiḥ sumuktais; tridhā tridhaikaikam athoccakarta dhanaṃjayas te nyapatan pṛthivyāṃ; mahāhayas takṣaka putra pakṣāḥ 40 tataḥ prajajvāla kirīṭamālī; krodhena kakṣaṃ pradahann ivāgniḥ sa karṇam ākarṇavikṛṣṭasṛṣṭaiḥ; śaraiḥ śarīrāntakarair jvaladbhiḥ marmasv avidhyat sa cacāla duḥkhād; dhairyāt tu tasthāv atimātradhairyaḥ 41 tataḥ śaraughaiḥ pradiśo diśaś ca; raviprabhā karṇa rathaś ca rājan adṛśya āsīt kupite dhanaṃjaye; tuṣāranīhāravṛtaṃ yathā nabhaḥ 42 sacakrarakṣān atha pādarakṣān; puraḥsarān pṛṣṭhagopāṃś ca sarvān duryodhanenānumatān arighnān; samuccitān surathān sārabhūtān 43 dvisāhasrān samare savyasācī; kurupravīrān ṛṣabhaḥ kurūṇām kṣaṇena sarvān sarathāśvasūtān; nināya rājan kṣāyam ekavīraḥ 44 athāpalāyanta vihāya karṇaṃ; tavātmajāḥ kuravaś cāvaśiṣṭāḥ hatān avakīrya śarakṣatāṃś ca; lālapyamānāṃs tanayān pitṝṃś ca 45 sā sarvataḥ prekṣya diśo viśūnyā; bhayāvadīrṇaiḥ kurubhir vihīnaḥ na vivyathe bhārata tatra karṇaḥ; pratīpam evārjunam abhyadhāvat |
The Mahabharata in Sanskrit
Book 8
Chapter 66
|
1
[स] ततॊ ऽपयाताः शरपात मात्रम; अवस्थिताः कुरवॊ भिन्नसेनाः विद्युत परकाशं ददृशुः समन्ताद; धनंजयास्त्रं समुदीर्यमाणम 2 तद अर्जुनास्त्रं गरसते सम वीरान; वियत तथाकाशम अनन्त घॊषम करुद्धेन पार्थेन तदाशु सृष्टं; वधाय कर्णस्य महाविमर्दे 3 रामाद उपात्तेन महामहिम्ना; आथर्वणेनारि विनाशनेन तद अर्जुनास्त्रं वयधमद दहन्तं; पार्थं च बाणैर निशितैर निजघ्ने 4 ततॊ विमर्दः सुमहान बभूव; तस्यार्जुनस्याधिरथेश च राजन अन्यॊन्यम आसादयतॊः पृषत्कैर; विषाण घातैर दविपयॊर इवॊग्रैः 5 ततॊ रिपुघ्नं समधत्त कर्णः; सुसंशितं सर्पमुखं जवलन्तम रौद्रं शरं संयति सुप्रधौतं; पार्थार्थम अत्यर्थ चिराय गुप्तम 6 सदार्चितं चन्दनचूर्णशायिनं; सुवर्णनाली शयनं महाविषम परदीप्तम ऐरावत वंशसंभवं; शिरॊ जिहीर्षुर युधि फल्गुनस्य 7 तम अब्रवीन मद्रराजॊ महात्मा; वैकर्तनं परेक्ष्य हि संहितेषुम न कार्ण गरीवाम इषुर एष पराप्स्यते; संलक्ष्य संधत्स्व शरं शिरॊघ्नम 8 अथाब्रवीत करॊधसंरक्तनेत्रः; कर्णः शल्यं संधितेषुः परसह्य न संधत्ते दविः शरं शल्य कर्णॊ; न मादृशाः शाठ्य युक्ता भवन्ति 9 तथैवम उक्त्वा विससार्ज तं शरं; बलाहकं वर्षघनाभिपूजितम हतॊ ऽसि वै फल्गुन इत्य अवॊचत; ततस तवरन्न ऊर्जितम उत्ससर्ज 10 संधीयमानं भुजगं दृष्ट्वा कर्णेन माधवः आक्रम्य सयन्दनं पद्भ्यां बलेन बलिनां वरः 11 अवगाढे रथे भूमौ जानुभ्याम अगमन हयाः ततः शरः सॊ भयहनत किरीटं तस्य धीमतः 12 अथार्जुनस्यॊत्तमगात्रभूषणं; धरावियद्द्यॊसलिलेषु विश्रुतम बलास्स्त्र सर्गॊत्तम यत्नमन्युभिः; शरेण मूर्ध्नः सा जहार सूतजः 13 दिवाकरेन्दु जवलनग्रहत्विषां; सुवर्णमुक्ता मणिजालभूषितम पुरंदरार्थं तपसा परयत्नतः; सवयं कृतं यद भुवनस्य सूनुना 14 महार्हरूपं दविषतां भयंकरं; विभाति चात्यर्थ सुखं सुगन्धि तत निजघ्नुषे देवरिपून सुरेश्वरः; सवयं ददौ यत सुमनाः किरीटिने 15 हराम्बुपाखण्डल वित्तगॊप्तृभिः; पिनाक पाशाशनि सायकॊत्तमैः सुरॊत्तमैर अप्य अविषह्यम अर्दितुं; परसाह्य नागेन जहार यद वृषः 16 तद उत्तमेषून मथितं विषाग्निना; परदीप्तम अर्चिष्मद अभिक्षिति परियम पपात पार्थस्य किरीटम उत्तमं; दिवाकरॊ ऽसताद इव पर्वताज जवलन 17 ततः किरीटं बहुरत्नमण्डितं; जहार नागॊ ऽरजुन मूर्धतॊ बलात गिरेः सुजाताङ्कुर पुष्पितद्रुमं; महेन्द्रवज्रः शिखरं यथॊत्तमम 18 मही वियद दयौः सलिलानि वायुना; यथा विभिन्नानि विभान्ति भारत तथैव शब्दॊ भुवनेष्व अभूत तदा; जना वयवस्यन वयथिताश च चस्खलुः 19 ततः सामुद्ग्रथ्य सितेन वाससा; सवमूर्ध जानव्यथितः सथितॊ ऽरजुनः विभाति संपूर्णमरीच्चि भास्वता; शिरॊ गतेनॊदय पर्वतॊ यथा 20 बलाहकाः कर्ण भुजेरितस ततॊ; हुताशनार्क परतिमद्युतिर महान महॊरगः कृतवैरॊ ऽरजुनेन; किरीटम आसाद्य समुत्पपात 21 तम अब्रवीद विद्धि कृतागसं मे; कृष्णाद्य मातुर वधजातवैरम ततः कृष्णः पार्थम उवाच संख्ये; महॊरगं कृतवैरं जहि तवम 22 स एवम उक्तॊ मधुसूदनेन; गाण्डीवधन्वा रिपुषूग्र धन्वा उवाच कॊ नव एष ममाद्य नागः; सवयं य आगाद गरुडस्य वक्त्रम 23 [कृस्ण] यॊ ऽसौ तवया खाण्डावे चित्रभानुं; संतर्पयानेन धनुर्धरेण वियद गतॊ बाणनिकृत्त देहॊ; हय अनेकरूपॊ निहतास्य माता 24 ततस तु जिष्णुः परिहृत्य शेषांश; चिच्छेद षड्भिर निशितैः सुधारैः नागं वियत तिर्यग इवॊत्पतन्तं; स छिन्नगात्रॊ निपपात भूमौ 25 तस्मिन मुहूर्ते दशभिः पृषात्कैः; शिलाशितैर बर्हिणवाजितैश च विव्याध कर्णः पुरुषप्रवीरं; धनंजयं तिर्यग अवेक्षमाणाम 26 ततॊ ऽरजुनॊ दवादशभिर विमुक्तैर; आकर्णमुक्तैर निशितैः समर्प्य नाराचम आशीविषतुल्यवेगाम; आकर्णा पूर्णायतम उत्ससर्ज 27 स चित्र वर्मेषु वरॊ विदार्य; पराणान निरस्यन्न इव साधु मुक्तः कर्णस्य पीत्वा रुधिरं विवेश; वसुंधरां शॊणितवाज दिग्धः 28 ततॊ वृषॊ बाणनिपात कॊपितॊ; महॊरगॊ दण्डविघट्टितॊ यथा तथाशु कारी वयसृजच छरॊत्तमान; महाविषः सर्प इवॊत्तमं विषम 29 जनर्दनं दवादशभिः पराभिनन; नवैर नवत्या च शरैस तथार्जुनम शरेण घॊरेण पुनश च पाण्डवं; विभिद्य कर्णॊ ऽभयनदज जहास च 30 तम अस्य हर्षं ममृषे न पाण्डवॊ; बिभेद मर्माणि ततॊ ऽसय मर्मवित परं शरैः पत्रिभिर इन्द्र विक्रमस; तथा यथेन्द्रॊ बलम ओजसाहनत 31 ततः शराणां नवतीर नवार्जुनः; ससर्ज कर्णे ऽनतकदण्डसंनिभाः शरैर भृशायस्त तनुः परविव्यथे; तथा यथा वज्रविदारितॊ ऽचलः 32 मणिप्रवेकॊत्तम वज्रहाटकैर; अलं कृतं चास्य वराङ्गभूषणम परविद्धमुर्व्यां निपपात पत्रिभिर; धनंजयेनॊत्तम कुण्डले ऽपि च 33 महाधनं शिल्पिवरैः परयत्नतः; कृतं यद अस्यॊत्तम वर्म भास्वरम सुदीर्घ कालेन तद अस्य पाण्डवः; कषणेन बाणैर बहुधा वयशातयत 34 स तं विवर्माणम अथॊत्तमेषुभिः; शरैश चतुर्भिः कुपितः पराभिनत स विव्यथे ऽतयर्थम अरिप्रहारितॊ; यथातुरः पित्त कफानिल वरणैः 35 महाधनुर मण्डलनिःसृतैः शितैः; करिया परयत्नप्रहितैर बलेन च ततक्ष कर्णं बहुभिः शरॊत्तमैर; बिभेद मर्मस्व अपि चार्जुनस तवरन 36 दृढाहतः पत्रिभिर उग्रवेगैः; पार्थेन कर्णॊ विविधैः शिताग्रैः बभौ गिरिर गैरिकधातुरक्तः; कषरन परपातैर इव रक्तम अम्भः 37 साश्वं तु कर्णं सरथं किरीटी; सामाचिनॊद भारत वत्सदन्तैः परच्छादयाम आस दिशश च बाणैः; सर्वप्रयत्नात तपनीयपुङ्खैः 38 स वत्सदन्तैः पृथु पीनवक्षाः; समाच्चितः समाधिरथिर विभाति सुपुष्पिताशॊक पलाशशाल्मालिर; यथाचलः सपन्दन चन्दनायुतः 39 शरैः शरीरे बहुधा समर्पितैर; विभाति कर्णः समरे विशां पते महीरुहैर आचितसानु कन्दरॊ; यथा महेन्द्रः शुभकर्णिकारवान 40 स बाणसंघान धनुषा वयवासृजन; विभाति कर्णः शरजालरश्मिवान सलॊहितॊ रक्तगभस्ति मण्डलॊ; दिवाकरॊ ऽसताभिमुखॊ यथातथा 41 बाह्वन्तराद आधिरथेर विमुक्तान; बाणान महाहीन इव दीप्यमानान वयध्वंसयन्न अर्जुन बाहुमुक्ताः; शराः समासाद्य दिशः शिताग्राः 42 ततश चक्रमपतत तस्य भूमौ; स विह्वलः सामरे सूतपुत्रः घूर्णे रथे बराह्मणस्याभिशापाद; रमाद उपात्ते ऽपरतिभाति चास्त्रे 43 अमृष्यमाणॊ वयसनानि तानि; हस्तौ विधुन्वन स विगर्हमाणः धर्मप्रधानान अभिपाति धर्म; इत्य अब्रुवन धर्मविदः सदैव ममापि निम्नॊ ऽदय न पाति भक्तान; मन्ये न नित्यं परिपाति धार्मः 44 एवं बरुवन परस्खलिताश्वसूतॊ; विचाल्यमानॊ ऽरजुन शस्त्रपातैः मर्माभिघाताच चलितः करियासु; पुनः पुनर धर्मम अगर्हद आजौ 45 ततः शरैर भीमतरैर आविध्यत तरिभिर आहवे हस्ते कर्णस तदा पार्थम अभ्यविध्यच च साप्तभिः 46 ततॊ ऽरजुनः साप्त दश तिग्मतेजान अजिह्मगान इन्द्राशनिसमान घॊरान असृजत पावकॊपमान 47 निर्भिद्य ते भीमवेगा नयपतन पृथिवीतले कम्पितात्मा तथा कर्णः शक्त्या चेष्टाम अदर्शयत 48 बलेनाथ स संस्तभ्य बरह्मास्त्रं समुदैरयत ऐन्द्रास्त्रम अर्जुनश चापि तद दृष्ट्वाभिन्यमन्त्रयत 49 गाण्डीवं जयां च बाणांश च अनुमन्त्र्य धनंजयः असृजच छरवर्षाणि वर्षाणीव पुरंदरः 50 ततस तेजॊमया बाणा रथात पार्थस्य निःसृताः परादुरासन महावीर्याः कर्णस्य रथम अन्तिकात 51 तान कर्णस तव अग्रतॊ ऽभयस्तान मॊघांश चक्रे महारथः ततॊ ऽबरवीद वृष्णि वीरस तस्मिन्न अस्त्रे विनाशिते 52 विसृजास्त्रं परं पार्थ राधेयॊ गरसते शरान बरह्मास्त्रम अर्जुनश चापि संमन्त्र्याथ परयॊजयत 53 हादयित्वा ततॊ बाणैः कर्णां परभ्राम्य चार्जुनः तस्य कर्णः शरैः करुद्धश चिच्छेद जयां सुतेजनैः 54 ततॊ जयाम अवधायान्याम अनुमृज्या च पाण्डवः शरैर अवाकिरत कर्णं दीप्यमानैः सहस्रशः 55 तस्य जयाच छेदनं कर्णॊ जयावधानं च संयुगे नान्वबुध्यत शीघ्रत्वात तद अद्भुतम इवाभवत 56 अस्त्रैर अस्त्राणि राधेयः परत्यहन सव्यसाचिनः चक्रे चाभ्यद्धिकं पार्थात सववीर्यं परतिदार्शयन 57 ततः कृष्णॊ ऽरजुनं दृष्ट्वा कर्णास्त्रेणाभिपीडितम अभ्यस्येत्य अब्रवीत पार्थम आतिष्ठास्त्रम अनुत्तमम 58 ततॊ ऽनयम आग्निसदृशं शरं सर्पविषॊपमम अश्मसारमयं दिव्यम अनुमन्त्र्य धनंजयः 59 रौद्रम अस्स्त्रं समादाय कषेप्तु कामः किरीटिवान ततॊ ऽगरसन मही चक्रं राधेयस्य महामृधे 60 गरस्त चक्रस तु राधेयः कॊपाद अश्रूण्य अवर्तयत सॊ ऽबरवीद अर्जुनं चापि मुहूर्तं कषम पाण्डव 61 मध्ये चक्रम अवग्रस्तं दृष्ट्वा दैवाद इदं मम पार्थ कापुरुषाचीर्णम आभिसंधिं विवर्जय 62 परकीर्णकेशं विमुखे बराह्माणे च कृताञ्जलौ शरणा गते नयस्तशस्त्रे तथा वयसनगे ऽरजुन 63 अबाणे भरष्टकवचे भरष्ट भग्नायुधे तथा न शूराः परहरन्त्य आजौ न राज्ञे पार्थिवास तथा तवं च शूरॊ ऽसि कौन्तेय तस्मात कषम मुहूर्तकम 64 यावच चक्रम इदं भूमेर उद्धरामि धनंजय न मां रथस्थॊ भूमिष्ठम असज्जं हन्तुम अर्हसि न वासुदेवात तवत्तॊ वा पाण्डवेय विभेम्य अहम 65 तवं हि कषत्रिय दायादॊ महाकुलविवर्धनः समृत्वा धर्मॊपदेशं तवं मुहूर्तं कषम पाण्डव |
1
[s] tato 'payātāḥ śarapāta mātram; avasthitāḥ kuravo bhinnasenāḥ vidyut prakāśaṃ dadṛśuḥ samantād; dhanaṃjayāstraṃ samudīryamāṇam 2 tad arjunāstraṃ grasate sma vīrān; viyat tathākāśam ananta ghoṣam kruddhena pārthena tadāśu sṛṣṭaṃ; vadhāya karṇasya mahāvimarde 3 rāmād upāttena mahāmahimnā; ātharvaṇenāri vināśanena tad arjunāstraṃ vyadhamad dahantaṃ; pārthaṃ ca bāṇair niśitair nijaghne 4 tato vimardaḥ sumahān babhūva; tasyārjunasyādhiratheś ca rājan anyonyam āsādayatoḥ pṛṣatkair; viṣāṇa ghātair dvipayor ivograiḥ 5 tato ripughnaṃ samadhatta karṇaḥ; susaṃśitaṃ sarpamukhaṃ jvalantam raudraṃ śaraṃ saṃyati supradhautaṃ; pārthārtham atyartha cirāya guptam 6 sadārcitaṃ candanacūrṇaśāyinaṃ; suvarṇanālī śayanaṃ mahāviṣam pradīptam airāvata vaṃśasaṃbhavaṃ; śiro jihīrṣur yudhi phalgunasya 7 tam abravīn madrarājo mahātmā; vaikartanaṃ prekṣya hi saṃhiteṣum na kārṇa grīvām iṣur eṣa prāpsyate; saṃlakṣya saṃdhatsva śaraṃ śiroghnam 8 athābravīt krodhasaṃraktanetraḥ; karṇaḥ śalyaṃ saṃdhiteṣuḥ prasahya na saṃdhatte dviḥ śaraṃ śalya karṇo; na mādṛśāḥ śāṭhya yuktā bhavanti 9 tathaivam uktvā visasārja taṃ śaraṃ; balāhakaṃ varṣaghanābhipūjitam hato 'si vai phalguna ity avocat; tatas tvarann ūrjitam utsasarja 10 saṃdhīyamānaṃ bhujagaṃ dṛṣṭvā karṇena mādhavaḥ ākramya syandanaṃ padbhyāṃ balena balināṃ varaḥ 11 avagāḍhe rathe bhūmau jānubhyām agaman hayāḥ tataḥ śaraḥ so bhyahanat kirīṭaṃ tasya dhīmataḥ 12 athārjunasyottamagātrabhūṣaṇaṃ; dharāviyaddyosalileṣu viśrutam balāsstra sargottama yatnamanyubhiḥ; śareṇa mūrdhnaḥ sā jahāra sūtajaḥ 13 divākarendu jvalanagrahatviṣāṃ; suvarṇamuktā maṇijālabhūṣitam puraṃdarārthaṃ tapasā prayatnataḥ; svayaṃ kṛtaṃ yad bhuvanasya sūnunā 14 mahārharūpaṃ dviṣatāṃ bhayaṃkaraṃ; vibhāti cātyartha sukhaṃ sugandhi tat nijaghnuṣe devaripūn sureśvaraḥ; svayaṃ dadau yat sumanāḥ kirīṭine 15 harāmbupākhaṇḍala vittagoptṛbhiḥ; pināka pāśāśani sāyakottamaiḥ surottamair apy aviṣahyam ardituṃ; prasāhya nāgena jahāra yad vṛṣaḥ 16 tad uttameṣūn mathitaṃ viṣāgninā; pradīptam arciṣmad abhikṣiti priyam papāta pārthasya kirīṭam uttamaṃ; divākaro 'stād iva parvatāj jvalan 17 tataḥ kirīṭaṃ bahuratnamaṇḍitaṃ; jahāra nāgo 'rjuna mūrdhato balāt gireḥ sujātāṅkura puṣpitadrumaṃ; mahendravajraḥ śikharaṃ yathottamam 18 mahī viyad dyauḥ salilāni vāyunā; yathā vibhinnāni vibhānti bhārata tathaiva śabdo bhuvaneṣv abhūt tadā; janā vyavasyan vyathitāś ca caskhaluḥ 19 tataḥ sāmudgrathya sitena vāsasā; svamūrdha jānavyathitaḥ sthito 'rjunaḥ vibhāti saṃpūrṇamarīcci bhāsvatā; śiro gatenodaya parvato yathā 20 balāhakāḥ karṇa bhujeritas tato; hutāśanārka pratimadyutir mahān mahoragaḥ kṛtavairo 'rjunena; kirīṭam āsādya samutpapāta 21 tam abravīd viddhi kṛtāgasaṃ me; kṛṣṇādya mātur vadhajātavairam tataḥ kṛṣṇaḥ pārtham uvāca saṃkhye; mahoragaṃ kṛtavairaṃ jahi tvam 22 sa evam ukto madhusūdanena; gāṇḍīvadhanvā ripuṣūgra dhanvā uvāca ko nv eṣa mamādya nāgaḥ; svayaṃ ya āgād garuḍasya vaktram 23 [kṛsṇa] yo 'sau tvayā khāṇḍāve citrabhānuṃ; saṃtarpayānena dhanurdhareṇa viyad gato bāṇanikṛtta deho; hy anekarūpo nihatāsya mātā 24 tatas tu jiṣṇuḥ parihṛtya śeṣāṃś; ciccheda ṣaḍbhir niśitaiḥ sudhāraiḥ nāgaṃ viyat tiryag ivotpatantaṃ; sa chinnagātro nipapāta bhūmau 25 tasmin muhūrte daśabhiḥ pṛṣātkaiḥ; śilāśitair barhiṇavājitaiś ca vivyādha karṇaḥ puruṣapravīraṃ; dhanaṃjayaṃ tiryag avekṣamāṇām 26 tato 'rjuno dvādaśabhir vimuktair; ākarṇamuktair niśitaiḥ samarpya nārācam āśīviṣatulyavegām; ākarṇā pūrṇāyatam utsasarja 27 sa citra varmeṣu varo vidārya; prāṇān nirasyann iva sādhu muktaḥ karṇasya pītvā rudhiraṃ viveśa; vasuṃdharāṃ śoṇitavāja digdhaḥ 28 tato vṛṣo bāṇanipāta kopito; mahorago daṇḍavighaṭṭito yathā tathāśu kārī vyasṛjac charottamān; mahāviṣaḥ sarpa ivottamaṃ viṣam 29 janardanaṃ dvādaśabhiḥ parābhinan; navair navatyā ca śarais tathārjunam śareṇa ghoreṇa punaś ca pāṇḍavaṃ; vibhidya karṇo 'bhyanadaj jahāsa ca 30 tam asya harṣaṃ mamṛṣe na pāṇḍavo; bibheda marmāṇi tato 'sya marmavit paraṃ śaraiḥ patribhir indra vikramas; tathā yathendro balam ojasāhanat 31 tataḥ śarāṇāṃ navatīr navārjunaḥ; sasarja karṇe 'ntakadaṇḍasaṃnibhāḥ śarair bhṛśāyasta tanuḥ pravivyathe; tathā yathā vajravidārito 'calaḥ 32 maṇipravekottama vajrahāṭakair; alaṃ kṛtaṃ cāsya varāṅgabhūṣaṇam praviddhamurvyāṃ nipapāta patribhir; dhanaṃjayenottama kuṇḍale 'pi ca 33 mahādhanaṃ śilpivaraiḥ prayatnataḥ; kṛtaṃ yad asyottama varma bhāsvaram sudīrgha kālena tad asya pāṇḍavaḥ; kṣaṇena bāṇair bahudhā vyaśātayat 34 sa taṃ vivarmāṇam athottameṣubhiḥ; śaraiś caturbhiḥ kupitaḥ parābhinat sa vivyathe 'tyartham ariprahārito; yathāturaḥ pitta kaphānila vraṇaiḥ 35 mahādhanur maṇḍalaniḥsṛtaiḥ śitaiḥ; kriyā prayatnaprahitair balena ca tatakṣa karṇaṃ bahubhiḥ śarottamair; bibheda marmasv api cārjunas tvaran 36 dṛḍhāhataḥ patribhir ugravegaiḥ; pārthena karṇo vividhaiḥ śitāgraiḥ babhau girir gairikadhāturaktaḥ; kṣaran prapātair iva raktam ambhaḥ 37 sāśvaṃ tu karṇaṃ sarathaṃ kirīṭī; sāmācinod bhārata vatsadantaiḥ pracchādayām āsa diśaś ca bāṇaiḥ; sarvaprayatnāt tapanīyapuṅkhaiḥ 38 sa vatsadantaiḥ pṛthu pīnavakṣāḥ; samāccitaḥ smādhirathir vibhāti supuṣpitāśoka palāśaśālmālir; yathācalaḥ spandana candanāyutaḥ 39 śaraiḥ śarīre bahudhā samarpitair; vibhāti karṇaḥ samare viśāṃ pate mahīruhair ācitasānu kandaro; yathā mahendraḥ śubhakarṇikāravān 40 sa bāṇasaṃghān dhanuṣā vyavāsṛjan; vibhāti karṇaḥ śarajālaraśmivān salohito raktagabhasti maṇḍalo; divākaro 'stābhimukho yathātathā 41 bāhvantarād ādhirather vimuktān; bāṇān mahāhīn iva dīpyamānān vyadhvaṃsayann arjuna bāhumuktāḥ; śarāḥ samāsādya diśaḥ śitāgrāḥ 42 tataś cakramapatat tasya bhūmau; sa vihvalaḥ sāmare sūtaputraḥ ghūrṇe rathe brāhmaṇasyābhiśāpād; ramād upātte 'pratibhāti cāstre 43 amṛṣyamāṇo vyasanāni tāni; hastau vidhunvan sa vigarhamāṇaḥ dharmapradhānān abhipāti dharma; ity abruvan dharmavidaḥ sadaiva mamāpi nimno 'dya na pāti bhaktān; manye na nityaṃ paripāti dhārmaḥ 44 evaṃ bruvan praskhalitāśvasūto; vicālyamāno 'rjuna śastrapātaiḥ marmābhighātāc calitaḥ kriyāsu; punaḥ punar dharmam agarhad ājau 45 tataḥ śarair bhīmatarair āvidhyat tribhir āhave haste karṇas tadā pārtham abhyavidhyac ca sāptabhiḥ 46 tato 'rjunaḥ sāpta daśa tigmatejān ajihmagān indrāśanisamān ghorān asṛjat pāvakopamān 47 nirbhidya te bhīmavegā nyapatan pṛthivītale kampitātmā tathā karṇaḥ śaktyā ceṣṭām adarśayat 48 balenātha sa saṃstabhya brahmāstraṃ samudairayat aindrāstram arjunaś cāpi tad dṛṣṭvābhinyamantrayat 49 gāṇḍīvaṃ jyāṃ ca bāṇāṃś ca anumantrya dhanaṃjayaḥ asṛjac charavarṣāṇi varṣāṇīva puraṃdaraḥ 50 tatas tejomayā bāṇā rathāt pārthasya niḥsṛtāḥ prādurāsan mahāvīryāḥ karṇasya ratham antikāt 51 tān karṇas tv agrato 'bhyastān moghāṃś cakre mahārathaḥ tato 'bravīd vṛṣṇi vīras tasminn astre vināśite 52 visṛjāstraṃ paraṃ pārtha rādheyo grasate śarān brahmāstram arjunaś cāpi saṃmantryātha prayojayat 53 hādayitvā tato bāṇaiḥ karṇāṃ prabhrāmya cārjunaḥ tasya karṇaḥ śaraiḥ kruddhaś ciccheda jyāṃ sutejanaiḥ 54 tato jyām avadhāyānyām anumṛjyā ca pāṇḍavaḥ śarair avākirat karṇaṃ dīpyamānaiḥ sahasraśaḥ 55 tasya jyāc chedanaṃ karṇo jyāvadhānaṃ ca saṃyuge nānvabudhyata śīghratvāt tad adbhutam ivābhavat 56 astrair astrāṇi rādheyaḥ pratyahan savyasācinaḥ cakre cābhyaddhikaṃ pārthāt svavīryaṃ pratidārśayan 57 tataḥ kṛṣṇo 'rjunaṃ dṛṣṭvā karṇāstreṇābhipīḍitam abhyasyety abravīt pārtham ātiṣṭhāstram anuttamam 58 tato 'nyam āgnisadṛśaṃ śaraṃ sarpaviṣopamam aśmasāramayaṃ divyam anumantrya dhanaṃjayaḥ 59 raudram asstraṃ samādāya kṣeptu kāmaḥ kirīṭivān tato 'grasan mahī cakraṃ rādheyasya mahāmṛdhe 60 grasta cakras tu rādheyaḥ kopād aśrūṇy avartayat so 'bravīd arjunaṃ cāpi muhūrtaṃ kṣama pāṇḍava 61 madhye cakram avagrastaṃ dṛṣṭvā daivād idaṃ mama pārtha kāpuruṣācīrṇam ābhisaṃdhiṃ vivarjaya 62 prakīrṇakeśaṃ vimukhe brāhmāṇe ca kṛtāñjalau śaraṇā gate nyastaśastre tathā vyasanage 'rjuna 63 abāṇe bhraṣṭakavace bhraṣṭa bhagnāyudhe tathā na śūrāḥ praharanty ājau na rājñe pārthivās tathā tvaṃ ca śūro 'si kaunteya tasmāt kṣama muhūrtakam 64 yāvac cakram idaṃ bhūmer uddharāmi dhanaṃjaya na māṃ rathastho bhūmiṣṭham asajjaṃ hantum arhasi na vāsudevāt tvatto vā pāṇḍaveya vibhemy aham 65 tvaṃ hi kṣatriya dāyādo mahākulavivardhanaḥ smṛtvā dharmopadeśaṃ tvaṃ muhūrtaṃ kṣama pāṇḍava |
The Mahabharata in Sanskrit
Book 8
Chapter 67
|
1
[स] अथाब्रवीद वासुदेवॊ रथस्थॊ; राधेय दिष्ट्या समरसीह धर्मम परायेण नीचा वयसनेषु मग्ना; निन्दन्ति दैवं कुकृतं न तत तत 2 यद दरौपदीम एकवस्त्रां सभायाम; आनाय्य तवं चैव सुयॊधनश च दुःशासनः शकुनिः सौबलश च; न ते कर्ण परत्यभात तत्र धर्मः 3 यदा सभायां कौन्तेयम अनक्षज्ञं युधिष्ठिरम अक्षज्ञः शकुनिर जेता तदा धर्मः कव ते गतः 4 यदा रजस्वलां कृष्णां दुःशासन वशे सथिताम सभायां पराहसः कर्ण कव ते धर्मस तदा गतः 5 राज्यलुब्धः पुनः कर्ण समाह्वयसि पाण्डवम गान्धारराजम आश्रित्य कव ते धर्मस तदा गतः 6 एवम उक्ते तु राधेये वासुदेवेन पाण्डवम मन्युर अभ्याविशत तीव्रः समृत्वा तत तद धनंजयम 7 तस्या करॊधेन सर्वेभ्यः सरॊतॊभ्यस तेजसॊ ऽरचिषः परादुरासन महाराज तद अद्भुतम इवाभवत 8 तं समीक्ष्य ततः कर्णॊ बरह्मास्त्रेण धनंजयम अभ्यवर्षत पुनर यत्नम अकरॊद रथसर्जने तद अस्त्रम अस्त्रेणावार्य परजहारास्य पाण्डवः 9 ततॊ ऽनयद अस्त्रं कौन्तेयॊ दयितं जातवेदसः मुमॊच कर्णम उद्दिश्य तत परजज्वाल वै भृशम 10 वारुणेन ततः कर्णः शमयाम आस पावकम जीमूतैश च दिशः सर्वाश चक्रे तिमिरदुर्दिनाः 11 पाण्डवेयस तव असंभ्रान्तॊ वायव्यास्त्रेण वीर्यवान अपॊवाह तदाभ्राणि राधेयस्य परपश्यतः 12 तं हस्तिकक्ष्या परवरं च बाणैः; सुवर्णमुक्ता मणिवज्र मृष्टम कालप्रयत्नॊत्तम शिल्पियत्नैः; कृतं सुरूपं वितमस्कम उच्चैः 13 ऊर्जः करं तव सैन्यस्य नित्यम; अमित्रवित्रासनम ईड्य रूपम विख्यातम आदित्यसमस्य लॊके; तविषा समं पावकभानु चन्द्रैः 14 ततः कषुरेणाधिरथेः किरीटी; सुवर्णपुङ्खेन शितेन यत्तः शरिया जवलन्तं धवजम उन्ममाथ; महारथस्याधिरथेर महात्मा 15 यशश च धर्मश च जयश च मारिष; परियाणि सर्वाणि च तेन केतुना तदा कुरूणां हृदयानि चापतन; बभूव हाहेति च निस्वनॊ महान 16 अथ तवरन कर्णवधाय पाण्डवॊ; महेन्द्रवज्रानल दण्डसंनिभम आदत्त पार्थॊ ऽञजलिकं निषङ्गात; सहस्ररश्मेर इव रश्मिम उत्तमम 17 मर्मच छिदं शॊणितमांसदिग्धं; वैश्वानरार्क परतिमं महार्हम नराश्वनागासु हरं तर्यरत्निं; षड वाजम अज्ञॊ गतिम उग्रवेगम 18 सहस्रनेत्राशनि तुल्यतेजसं; समानक्रव्यादम इवातिदुःसहम पिनाक नारायण चक्रसंनिभं; भयंकरं पराणभृतां विनाशनम 19 युक्त्वा महास्त्रेण परेण मन्त्रविद; विकृष्य गाण्डीवम उवाच सस्वनम अयं महास्त्रॊ ऽपरतिमॊ धृतः शरः; शरीरभिच चासु हरश च दुर्हृदः 20 तपॊ ऽसति तप्तं गुरवश च तॊषिता; मया यद इष्टं सुहृदां तथा शरुतम अनेन सत्येन निहन्त्व अयं शरः; सुदंशितः कर्णम अरिं ममाजितह 21 इत्य ऊच्चिवांस तं सा मुमॊच बाणं; धनंजयः कर्णवधाय घॊरम कृत्याम अथर्वाङ्गिरसीम इवॊग्रां; दीप्ताम असह्यां युधि मृत्युनापि 22 बरुवन किरीटी तम अतिप्रहृष्टॊ; अयं शरॊ मे विजयावहॊ ऽसतु जिघांसुर अर्केन्दुसम परभावः; कर्णं समाप्तिं नयतां यमाय 23 तेनेषु वर्येण किरीटमाली; परहृष्टरूपॊ विजयावहेन जिघांसुर अर्केन्दुर समप्रभेण; चक्रे विषक्तं रिपुम आततायी 24 तद उद्यतादित्य समानवर्चसं; शरन नभॊ मध्यग भास्करॊपमम वराङ्गम उर्व्याम अपतच चमूपतेर; दिवाकरॊ ऽसताद इव रक्तमण्डलः 25 तद अस्य देही सततं सुखॊदितं; सवरूपम अत्यर्थम उदारकर्मणः परेण कृच्छ्रेण शरीरम अत्यजद; गृहं महर्द्धीव ससङ्गम ईश्वरः 26 शरैर विभुग्नं वयसु तद विवर्मणः; पपात कर्णस्य शरीरम उच्छ्रितम सरवद वरणं गैरिकतॊय विस्रवं; गिरेर यथा वज्रहतं शिरस तथा 27 देहात तु कर्णस्य निपातितस्य; तेजॊ दीप्तं खं विगाह्याचिरेण तद अद्भुतं सर्वमनुष्ययॊधाः; पश्यन्ति राजन निहते सम कर्णे 28 तं सॊमकाः परेक्ष्य हतं शयानं; परीता नादं सह सैन्यैर अकुर्वन तूर्याणि चाजघ्नुर अतीव हृष्टा; वासांसि चैवादुधुवुर भुजांश च बलान्विताश चाप्य अपरे हय अनृत्यन्न; अन्यॊन्यम आश्लिष्य नदन्त ऊचुः 29 दृष्ट्वा तु कर्णं भुवि निष्टनन्तं; हतं रथात सायकेनावभिन्नम महानिलेनाग्निम इवापविद्धं; यज्ञावसाने शयने निशान्ते 30 शरैर आचितसर्वाङ्गः शॊणितौघपरिप्लुतः विभाति देहः कर्णस्य सवरश्मिभिर इवांशुमान 31 परताप्य सेनाम आमित्रीं दीप्तैः शरगभस्स्तिभिः बलिनार्जुन कालेन नीतॊ ऽसतं कर्ण भास्करः 32 अस्तं गच्छन्त्य अथादित्यः परभाम आदाय गच्छति एवं जीवितम आदाय कर्णस्येषुर जगाम ह 33 अपराह्णे पराह्णस्य सूतपुत्रस्य मारिष छिन्नम अञ्जलिकेनाजौ सॊत्सेधम अपतच छिरः 34 उपर्य उपरि सैन्यानां तस्य शत्रॊस तद अञ्जसा शिरः कर्णस्य सॊत्सेधम इषुः सॊ ऽपाहरद दरुतम 35 [स] कर्णं तु शूरं पतितं पृथिव्यां; शराचितं शॊणितदिग्ध गात्रम दृष्ट्वा शयानं भुवि मद्रराजश; छिन्नध्वजेनापययौ रथेन 36 कर्णे हते कुरवः पराद्रवन्त; भयार्दिता गाढविद्धाश च संख्ये अवेक्षमाणा मुहुर अर्जुनस्य; धवजं महान्तं वपुषा जवलन्तम 37 सहस्रनेत्र परतिमानकर्मणः; सहस्रपत्र परतिमाननं शुभम सहस्ररश्मिर दिनसंक्षये यथा; तथापतत तस्य शिरॊ वसुंधराम |
1
[s] athābravīd vāsudevo rathastho; rādheya diṣṭyā smarasīha dharmam prāyeṇa nīcā vyasaneṣu magnā; nindanti daivaṃ kukṛtaṃ na tat tat 2 yad draupadīm ekavastrāṃ sabhāyām; ānāyya tvaṃ caiva suyodhanaś ca duḥśāsanaḥ śakuniḥ saubalaś ca; na te karṇa pratyabhāt tatra dharmaḥ 3 yadā sabhāyāṃ kaunteyam anakṣajñaṃ yudhiṣṭhiram akṣajñaḥ śakunir jetā tadā dharmaḥ kva te gataḥ 4 yadā rajasvalāṃ kṛṣṇāṃ duḥśāsana vaśe sthitām sabhāyāṃ prāhasaḥ karṇa kva te dharmas tadā gataḥ 5 rājyalubdhaḥ punaḥ karṇa samāhvayasi pāṇḍavam gāndhārarājam āśritya kva te dharmas tadā gataḥ 6 evam ukte tu rādheye vāsudevena pāṇḍavam manyur abhyāviśat tīvraḥ smṛtvā tat tad dhanaṃjayam 7 tasyā krodhena sarvebhyaḥ srotobhyas tejaso 'rciṣaḥ prādurāsan mahārāja tad adbhutam ivābhavat 8 taṃ samīkṣya tataḥ karṇo brahmāstreṇa dhanaṃjayam abhyavarṣat punar yatnam akarod rathasarjane tad astram astreṇāvārya prajahārāsya pāṇḍavaḥ 9 tato 'nyad astraṃ kaunteyo dayitaṃ jātavedasaḥ mumoca karṇam uddiśya tat prajajvāla vai bhṛśam 10 vāruṇena tataḥ karṇaḥ śamayām āsa pāvakam jīmūtaiś ca diśaḥ sarvāś cakre timiradurdināḥ 11 pāṇḍaveyas tv asaṃbhrānto vāyavyāstreṇa vīryavān apovāha tadābhrāṇi rādheyasya prapaśyataḥ 12 taṃ hastikakṣyā pravaraṃ ca bāṇaiḥ; suvarṇamuktā maṇivajra mṛṣṭam kālaprayatnottama śilpiyatnaiḥ; kṛtaṃ surūpaṃ vitamaskam uccaiḥ 13 ūrjaḥ karaṃ tava sainyasya nityam; amitravitrāsanam īḍya rūpam vikhyātam ādityasamasya loke; tviṣā samaṃ pāvakabhānu candraiḥ 14 tataḥ kṣureṇādhiratheḥ kirīṭī; suvarṇapuṅkhena śitena yattaḥ śriyā jvalantaṃ dhvajam unmamātha; mahārathasyādhirather mahātmā 15 yaśaś ca dharmaś ca jayaś ca māriṣa; priyāṇi sarvāṇi ca tena ketunā tadā kurūṇāṃ hṛdayāni cāpatan; babhūva hāheti ca nisvano mahān 16 atha tvaran karṇavadhāya pāṇḍavo; mahendravajrānala daṇḍasaṃnibham ādatta pārtho 'ñjalikaṃ niṣaṅgāt; sahasraraśmer iva raśmim uttamam 17 marmac chidaṃ śoṇitamāṃsadigdhaṃ; vaiśvānarārka pratimaṃ mahārham narāśvanāgāsu haraṃ tryaratniṃ; ṣaḍ vājam ajño gatim ugravegam 18 sahasranetrāśani tulyatejasaṃ; samānakravyādam ivātiduḥsaham pināka nārāyaṇa cakrasaṃnibhaṃ; bhayaṃkaraṃ prāṇabhṛtāṃ vināśanam 19 yuktvā mahāstreṇa pareṇa mantravid; vikṛṣya gāṇḍīvam uvāca sasvanam ayaṃ mahāstro 'pratimo dhṛtaḥ śaraḥ; śarīrabhic cāsu haraś ca durhṛdaḥ 20 tapo 'sti taptaṃ guravaś ca toṣitā; mayā yad iṣṭaṃ suhṛdāṃ tathā śrutam anena satyena nihantv ayaṃ śaraḥ; sudaṃśitaḥ karṇam ariṃ mamājitah 21 ity ūccivāṃs taṃ sā mumoca bāṇaṃ; dhanaṃjayaḥ karṇavadhāya ghoram kṛtyām atharvāṅgirasīm ivogrāṃ; dīptām asahyāṃ yudhi mṛtyunāpi 22 bruvan kirīṭī tam atiprahṛṣṭo; ayaṃ śaro me vijayāvaho 'stu jighāṃsur arkendusama prabhāvaḥ; karṇaṃ samāptiṃ nayatāṃ yamāya 23 teneṣu varyeṇa kirīṭamālī; prahṛṣṭarūpo vijayāvahena jighāṃsur arkendur samaprabheṇa; cakre viṣaktaṃ ripum ātatāyī 24 tad udyatāditya samānavarcasaṃ; śaran nabho madhyaga bhāskaropamam varāṅgam urvyām apatac camūpater; divākaro 'stād iva raktamaṇḍalaḥ 25 tad asya dehī satataṃ sukhoditaṃ; svarūpam atyartham udārakarmaṇaḥ pareṇa kṛcchreṇa śarīram atyajad; gṛhaṃ maharddhīva sasaṅgam īśvaraḥ 26 śarair vibhugnaṃ vyasu tad vivarmaṇaḥ; papāta karṇasya śarīram ucchritam sravad vraṇaṃ gairikatoya visravaṃ; girer yathā vajrahataṃ śiras tathā 27 dehāt tu karṇasya nipātitasya; tejo dīptaṃ khaṃ vigāhyācireṇa tad adbhutaṃ sarvamanuṣyayodhāḥ; paśyanti rājan nihate sma karṇe 28 taṃ somakāḥ prekṣya hataṃ śayānaṃ; prītā nādaṃ saha sainyair akurvan tūryāṇi cājaghnur atīva hṛṣṭā; vāsāṃsi caivādudhuvur bhujāṃś ca balānvitāś cāpy apare hy anṛtyann; anyonyam āśliṣya nadanta ūcuḥ 29 dṛṣṭvā tu karṇaṃ bhuvi niṣṭanantaṃ; hataṃ rathāt sāyakenāvabhinnam mahānilenāgnim ivāpaviddhaṃ; yajñāvasāne śayane niśānte 30 śarair ācitasarvāṅgaḥ śoṇitaughapariplutaḥ vibhāti dehaḥ karṇasya svaraśmibhir ivāṃśumān 31 pratāpya senām āmitrīṃ dīptaiḥ śaragabhasstibhiḥ balinārjuna kālena nīto 'staṃ karṇa bhāskaraḥ 32 astaṃ gacchanty athādityaḥ prabhām ādāya gacchati evaṃ jīvitam ādāya karṇasyeṣur jagāma ha 33 aparāhṇe parāhṇasya sūtaputrasya māriṣa chinnam añjalikenājau sotsedham apatac chiraḥ 34 upary upari sainyānāṃ tasya śatros tad añjasā śiraḥ karṇasya sotsedham iṣuḥ so 'pāharad drutam 35 [s] karṇaṃ tu śūraṃ patitaṃ pṛthivyāṃ; śarācitaṃ śoṇitadigdha gātram dṛṣṭvā śayānaṃ bhuvi madrarājaś; chinnadhvajenāpayayau rathena 36 karṇe hate kuravaḥ prādravanta; bhayārditā gāḍhaviddhāś ca saṃkhye avekṣamāṇā muhur arjunasya; dhvajaṃ mahāntaṃ vapuṣā jvalantam 37 sahasranetra pratimānakarmaṇaḥ; sahasrapatra pratimānanaṃ śubham sahasraraśmir dinasaṃkṣaye yathā; tathāpatat tasya śiro vasuṃdharām |
The Mahabharata in Sanskrit
Book 8
Chapter 68
|
1
[स] शल्यस तु कर्णार्जुनयॊर विमर्दे; बलानि दृष्ट्वा मृदितानि बाणैः दुर्यॊधनं यान्तम अवेक्षमाणॊ; संदर्शयद भारत युद्धभूमिम 2 निपातितस्यन्दनवाजिनागं; दृष्ट्वा बलं तद धतसूतपुत्रम दुर्यॊधनॊ ऽशरुप्रति पूर्णनेत्रॊ; मुहुर मुहुर नयश्वसद आर्तरूपः 3 कर्मं तु शूरं पतितं पृथिव्यां; शराचितं शॊणितदिग्ध गात्रम यदृच्छया सूर्यम इवावनिस्थं; दिदृक्षवः संपरिवार्य तस्थुः 4 परहृष्टवित्रस्त विषण्णविस्मृतास; तथापरे शॊकगता इवाभवन परे तवदीयाश च परस्परेण; यथा यथैषां परकृतिस तथाभवन 5 परविद्ध वर्माभरणाम्बरायुधं; धनंजयेनाभिहतं हतौजसम निशम्य कर्णं कुरवः परदुद्रुवुर; हतर्षभा गाव इवाकुलाकुलाः 6 कृत्वा विमर्दं भृशम अर्जुनेन; कर्णं हतं केसरिणेव नागम दृष्ट्वा शयानं भुवि मद्रराजॊ; भीतॊ ऽपसर्पत सरथः सुशीघ्रम 7 मद्राधिपश चापि विमूढचेतास; तूर्णं रथेनापहृत धवजेन दुर्यॊधनस्यान्तिकम एत्य शीघ्रं; संभाष्य दुःखार्तम उवाच वाक्यम 8 विशीर्णनागाश्वरथप्रवीरं; बलं तवदियं यम राष्ट्रकल्पम अन्यॊन्यम आसाद्य हतं महद्भिर; नराश्वनागैर गिरिकूट कल्पैः 9 नैतादृशं भारत युद्धम आसीद; यथाद्य कर्णार्जुनयॊर बभूव गरस्तौ हि कर्णेन समेत्य कृष्णाव; अन्ये च सर्वे तव शत्रवॊ ये 10 दैवं तु यत तत सववशं परवृत्तं; तत पाण्डवान पाति हिनस्ति चास्मान तवार्थ सिद्ध्यर्थकरा हि सर्वे; परसह्य वीरा निहता दविषद्भिः 11 कुबेर वैवस्वतवासवानां; तुल्यप्रभावाम्बुपतेश च वीराः वीर्येण शौर्येण बलेन चैव; तैस तैश च युक्ता विपुलैर गुणौघैः 12 अवध्यकल्पा निहता नरेन्द्रास; तवार्थ कामा युधि पाण्डवेयैः तन मा शुचॊ भारत दिष्टम एतत; पर्याय सिद्धिर न सदास्ति सिद्धिः 13 एतद वचॊ मद्रपतेर निशम्य; सवं चापनीतं मनसा निरीक्ष्य दुर्यॊधनॊ दीनमना विसंज्ञः; पुनः पुनर नयश्वसद आर्तरूपः 14 तं धयानमूकं कृपणं भृशार्तम; आर्तायनिर दीनम उवाच वाक्यम पश्येदम उग्रं नरवाजि नागैर; आयॊधनं वीर हतैः परपन्नम 15 महीधराभैः पतितैर महागजैः; सकृत परविद्धैः शरविद्ध मर्मभिः तैर विह्वलद्भिश च गतासुभिश च; परध्वस्त यन्त्रायुध वर्म यॊधैः 16 वज्रापविद्धैर इव चाचलेन्द्रैर; विभिन्नपाषाण मृगद्रुमौषधैः परविद्ध घण्टाङ्कुश तॊमरध्वजैः; सहेम मालै रुधिरौघसंप्लुतैः 17 शरावभिन्नैः पतितैश च वाजिभिः; शवसद्भिर अन्यैः कषतजं वमद्भिः दीनैः सतनद्भिः परिवृत्तनेत्रैर; महीं दशद्भिः कृपणं नदद्भिः 18 तथापविद्धैर गजवाजियॊधैर; मन्दासुभिश चैव गतासुभिश च नराश्वनागैश च रथैश च मर्दितैर; मही महावैतरणीव दुर्दृशा 19 गजैर निकृत्तापरहस्तगात्रैर; उद्वेपमानैः पतितैः पृथिव्याम यशस्विभिर नागरथाश्वयॊधिभिः; पदातिभिश चाभिमुखैर हतैः परैः विशीर्णवर्माभरणाम्बरायुधैर; वृता निशान्तैर इव पावकैर मही 20 शरप्रहाराभिहतैर महाबलैर; अवेक्ष्यमाणैः पतितैः सहस्रशः परनष्टसंज्ञैः पुनर उच्छ्वसद्भिर; मही बभूवानुगतैर इवाग्निभिः दिवश चयुतैर भूर अतिदीप्तम अद्भिर; नक्तं गरहैर दयौर अमलेव दीप्तैः 21 शरास तु कर्णार्जुन बाहुमुक्ता; विदार्य नागाश्वमनुष्यदेहान पराणान निरस्याशु महीम अतीयुर; महॊरगा वासम इवाभितॊ ऽसत्रैः 22 हतैर मनुष्याश्वगजैश च संख्ये; शरावभिन्नैश च रथैर बभूव धनंजयस्याधिरथेश च मार्गे; गजैर अगम्या वसुधातिदुर्गा 23 रथैर वरेषून मथितैश च यॊधैः; संस्यूत सूताश्ववरायुधध्वजैः विशीर्णशस्त्रैर विनिकृत्तबन्धुरैर; निकृत्तचक्राक्ष युगत्रिवेणुभिः 24 विमुक्तयन्त्रैर निहतैर अयॊमयैर; हतानुषङ्गैर विनिषङ्ग बन्धुरैः परभग्ननीडैर मणिहेममण्डितैः; सतृता मही दयौर इव शारदैर घनैः 25 विकृष्यमणैर जवनैर अलंकृतैर; हतेश्वरैर आजिरथैः सुकल्पितैः मनुष्यमातङ्गरथाश्वराशिभिर; दरुतं वरजन्तॊ बहुधा विचूर्णिताः 26 सहेम पट्टाः परिघाः परश्वधाः; कडङ्ग रायॊ मुसलानि पट्टिशाः पेतुश च खड्गा विमला विकॊशा; गदाश च जाम्बूनदपट्ट बद्धाः 27 चापानि रुक्माङ्गद भूषणानि; शराश च कार्तस्वरचित्रपुङ्खाः ऋष्ट्यश च पीता विमला विकॊशाः; परासाः सखड्गाः कनकावभासाः 28 छत्त्राणि वालव्यजनानि शङ्खाः; सरजश च पुष्पॊत्तम हेमचित्राः कुथाः पताकाम्बर वेष्टिताश च; किरीटमाला मुकुटाश च शुभ्राः 29 परकीर्णका विप्रकीर्णाः कुथाश च; परधानमुक्ता तरलाश च हाराः आपीड केयूरवराङ्गदानि; गरैवेय निष्काः ससुवर्ण सूत्राः 30 मण्युत्तमा वज्रसुवर्णमुक्ता; रत्नानि चॊच्चावचमङ्गलानि गात्राणि चात्यन्त सुखॊचितानि; शिरांसि चेन्दु परतिमाननानि 31 देहांश च भॊगांश च परिच्छदांश च; तयक्त्वा मनॊज्ञानि सुखानि चापि सवधर्मनिष्ठां महतीम अवाप्य; वयाप्तांश च लॊकान यशसा समीयुः 32 इत्य एवम उक्त्वा विरराम शल्यॊ; दुर्यॊधनः शॊकपरीत चेताः हा कर्ण हा कर्ण इति बरुवाण; आर्तॊ विसंज्ञॊ भृशम अश्रुनेत्रः 33 तं दरॊणपुत्र परमुखा नरेन्द्राः; सर्वे समाश्वास्य सह परयान्ति निरीक्षमाणा मुहुर अर्जुनस्य; धवजं महान्तं यशसा जवलन्तम 34 नराश्वमातङ्गशरीरजेन; रक्तेन सिक्ता रुधिरेण भूमिः रक्ताम्बरस्रक तपनीययॊगान; नारी परकाशा इव सर्वगम्या 35 परच्छन्नरूपा रुधिरेण राजन; रौद्रे मुहूर्ते ऽतिविराजमानाः नैवावतस्थुः कुरवः समीक्ष्य; परव्राजिता देवलॊकाश च सर्वे 36 वधेन कर्णस्य सुदुःखितास ते; हा कर्ण हा कर्ण इति बरुवाणाः दरुतं परयाताः शिबिराणि राजन; दिवाकरं रक्तम अवेक्षमाणाः 37 गाण्डीवमुक्तैस तु सुवर्णपुङ्खैः; शितैः शरैः शॊणितदिग्ध वाजैः शरैश चिताङ्गॊ भुवि भाति कर्णॊ; हतॊ ऽपि सन सूर्य इवांशुमाली 38 कर्णस्य देहं रुधिरावसिक्तं; भक्तानुकम्पी भगवान विवस्वान सपृष्ट्वा करैर लॊहितरक्तरूपः; सिष्णासुर अभ्येति परं समुद्रम 39 इतीव संचिन्त्य सुरर्षिसंघाः; संप्रथिता यान्ति यथानिकेतम संचिन्तयित्वा च जना विसस्रुर; यथासुखं खं च महीतलं च 40 तद अद्भुतं पराणभृतां भयंकरं; निशम्य युद्धं कुरुवीरमुख्ययॊः धनंजयस्याधिरथेश च विस्मिताः; परशंसमानाः परययुस तदा जनाः 41 शरैः संकृत्तवर्माणं वीरं शिवसने हतम गतासुम अपि राधेयं नैव लक्ष्मीर वयमुञ्चत 42 नानाभरणवान राजन मृष्टजाम्बूनदाङ्गदः हतॊ वैकर्तनः शेते पादपॊ ऽङकुरवान इव 43 कनकॊत्तम संकाशः परदीप्त इव पावकः सपुत्रः पुरुषव्याघ्रः संशान्तः पार्थ तेजसा परताप्य पाण्डवान राजन पाञ्चालांश चास्त्रतेजसा 44 ददानीत्य एव यॊ ऽवॊचन न नातीत्य अर्थितॊ ऽरथिभिः सद्भिः सदा सत्पुरुषः स हतॊ दवैरथे वृषः 45 यस्य बराह्मणसात सर्वम आत्मार्थं न महात्मनः नादेयं बराह्मणेष्व आसीद यस्य सवम अपि जीवितम 46 सदा नॄणां परियॊ दाता परिय दानॊ दिवं गतः आदाय तव पुत्राणां जयाशां शर्म वर्म च 47 हते सम कर्णे सरितॊ न सरवन्ति; जगाम चास्तं कलुषॊ दिवाकरः गरहश च तिर्यग जवलितार्कवर्णॊ; यमस्य पुत्रॊ ऽभयुदियाय राजन 48 नभः पफालाथ ननादचॊर्वी; ववुश च वाताः परुषातिवेलम दिशः सधूमाश च भृशं परजज्वलुर; महार्णवाश चुक्षुभिरे च सस्वनाः 49 सकाननाः साद्रि चयाश चकम्पुः; परविव्यथुर भूतगणाश च मारिष बृहस्पती रॊहिणीं संप्रपीड्य; बभूव चन्द्रार्कसमानवर्णः 50 हते कर्णे न दिशॊ विप्रजज्ञुस; तमॊवृता दयौर विचचाल भूमिः पपात चॊल्का जवलनप्रकाशा; निशाचराश चाप्य अभवन परहृष्टाः 51 शशिप्रकाशाननम अर्जुनॊ यदा; कषुरेण कर्णस्य शिरॊ नयपातयत अथान्तरिक्षे दिवि चेह चासकृद; बभूव हाहेति जनस्य निस्वनः 52 स देवगन्धर्वमनुष्यपूजितं; निहत्य कर्णं रिपुम आहवे ऽरजुनः रराज पार्थः परमेण तेजसा; वृत्रं निहत्येव सहस्रलॊचनः 53 ततॊ रथेनाम्बुदवृन्दनादिना; शरन नभॊ मध्यग भास्करत्विषा पताकिना भीम निनाद केतुना; हिमेन्दु शङ्खस्फटिकावभासिना सुवर्णमुक्ता मणिवज्र विद्रुमैर; अलंकृतेनाप्रतिमान रंहसा 54 नरॊत्तमौ पाण्डव केशि मर्दनाव; उदाहिताव अग्निदिवाकरॊपमौ रणाजिरे वीतभयौ विरेजतुः; समानयानाव इव विष्णुवासवौ 55 ततॊ धनुर्ज्यातलनेमि निस्वनैः; परसह्य कृत्वा च रिपून हतप्रभान संसाधयित्वैव कुरूञ शरौघैः; कपिध्वजः पक्षिवरध्वजश च परसह्य शङ्खौ धमतुः सुघॊषौ; मनांस्य अरिणाम अवसादयन्तौ 56 सुवर्णजालावततौ महास्वनौ; हिमावदातौ परिगृह्य पाणिभिः चुचुम्बतुः शङ्खवरौ नृणां वरौ; वराननाभ्यां युगपच च दध्मतुः 57 पाञ्चजन्यस्य निर्घॊषॊ देवदत्तस्य चॊभयॊः पृथिवीम अन्तरिक्षं च दयाम अपश चाप्य अपूरयत 58 तौ शङ्खशब्देन निनादयन्तौ; वननै शैलान सरितॊ दिशश च वित्रासयन्तौ तव पुत्र सेनां; युधिष्ठिरं नन्दयतः सम वीरौ 59 ततः परयाताः कुरवॊ जवेन; शरुत्वैव शङ्खस्वनम ईर्यमाणम विहाय मद्राधिपतिं पतिं च; दुर्यॊधनं भारत भारतानाम 60 महाहवे तं बहु शॊभमानं; धनंजयं भूतगणाः समेताः तदान्वमॊदन्त जनार्दनं च; परभाकराव अभ्युदितौ यथैव 61 समाचितौ कर्ण शरैः परंतपाव; उभौ वयभातां समरे ऽचयुतार्जुनौ तमॊ निहत्याभ्युदितौ यथामलौ; शशाङ्कसूर्याव इव रश्मिमालिनौ 62 विहाय तान बाणगणान अथागतौ; सुहृद्वृताव अप्रतिमान विक्रमौ सुखं परविष्टौ शिबिरं सवम ईश्वरौ; सदस्य हुताव इव वासवाच्युतौ 63 सदेवगन्धर्वमनुष्यचारणैर; महर्षिभिर यक्षमहॊरगैर अपि जयाभिवृद्ध्या परयाभिपूजितौ; निहत्य कर्णं परमाहवे तदा |
1
[s] śalyas tu karṇārjunayor vimarde; balāni dṛṣṭvā mṛditāni bāṇaiḥ duryodhanaṃ yāntam avekṣamāṇo; saṃdarśayad bhārata yuddhabhūmim 2 nipātitasyandanavājināgaṃ; dṛṣṭvā balaṃ tad dhatasūtaputram duryodhano 'śruprati pūrṇanetro; muhur muhur nyaśvasad ārtarūpaḥ 3 karmaṃ tu śūraṃ patitaṃ pṛthivyāṃ; śarācitaṃ śoṇitadigdha gātram yadṛcchayā sūryam ivāvanisthaṃ; didṛkṣavaḥ saṃparivārya tasthuḥ 4 prahṛṣṭavitrasta viṣaṇṇavismṛtās; tathāpare śokagatā ivābhavan pare tvadīyāś ca paraspareṇa; yathā yathaiṣāṃ prakṛtis tathābhavan 5 praviddha varmābharaṇāmbarāyudhaṃ; dhanaṃjayenābhihataṃ hataujasam niśamya karṇaṃ kuravaḥ pradudruvur; hatarṣabhā gāva ivākulākulāḥ 6 kṛtvā vimardaṃ bhṛśam arjunena; karṇaṃ hataṃ kesariṇeva nāgam dṛṣṭvā śayānaṃ bhuvi madrarājo; bhīto 'pasarpat sarathaḥ suśīghram 7 madrādhipaś cāpi vimūḍhacetās; tūrṇaṃ rathenāpahṛta dhvajena duryodhanasyāntikam etya śīghraṃ; saṃbhāṣya duḥkhārtam uvāca vākyam 8 viśīrṇanāgāśvarathapravīraṃ; balaṃ tvadiyaṃ yama rāṣṭrakalpam anyonyam āsādya hataṃ mahadbhir; narāśvanāgair girikūṭa kalpaiḥ 9 naitādṛśaṃ bhārata yuddham āsīd; yathādya karṇārjunayor babhūva grastau hi karṇena sametya kṛṣṇāv; anye ca sarve tava śatravo ye 10 daivaṃ tu yat tat svavaśaṃ pravṛttaṃ; tat pāṇḍavān pāti hinasti cāsmān tavārtha siddhyarthakarā hi sarve; prasahya vīrā nihatā dviṣadbhiḥ 11 kubera vaivasvatavāsavānāṃ; tulyaprabhāvāmbupateś ca vīrāḥ vīryeṇa śauryeṇa balena caiva; tais taiś ca yuktā vipulair guṇaughaiḥ 12 avadhyakalpā nihatā narendrās; tavārtha kāmā yudhi pāṇḍaveyaiḥ tan mā śuco bhārata diṣṭam etat; paryāya siddhir na sadāsti siddhiḥ 13 etad vaco madrapater niśamya; svaṃ cāpanītaṃ manasā nirīkṣya duryodhano dīnamanā visaṃjñaḥ; punaḥ punar nyaśvasad ārtarūpaḥ 14 taṃ dhyānamūkaṃ kṛpaṇaṃ bhṛśārtam; ārtāyanir dīnam uvāca vākyam paśyedam ugraṃ naravāji nāgair; āyodhanaṃ vīra hataiḥ prapannam 15 mahīdharābhaiḥ patitair mahāgajaiḥ; sakṛt praviddhaiḥ śaraviddha marmabhiḥ tair vihvaladbhiś ca gatāsubhiś ca; pradhvasta yantrāyudha varma yodhaiḥ 16 vajrāpaviddhair iva cācalendrair; vibhinnapāṣāṇa mṛgadrumauṣadhaiḥ praviddha ghaṇṭāṅkuśa tomaradhvajaiḥ; sahema mālai rudhiraughasaṃplutaiḥ 17 śarāvabhinnaiḥ patitaiś ca vājibhiḥ; śvasadbhir anyaiḥ kṣatajaṃ vamadbhiḥ dīnaiḥ stanadbhiḥ parivṛttanetrair; mahīṃ daśadbhiḥ kṛpaṇaṃ nadadbhiḥ 18 tathāpaviddhair gajavājiyodhair; mandāsubhiś caiva gatāsubhiś ca narāśvanāgaiś ca rathaiś ca marditair; mahī mahāvaitaraṇīva durdṛśā 19 gajair nikṛttāparahastagātrair; udvepamānaiḥ patitaiḥ pṛthivyām yaśasvibhir nāgarathāśvayodhibhiḥ; padātibhiś cābhimukhair hataiḥ paraiḥ viśīrṇavarmābharaṇāmbarāyudhair; vṛtā niśāntair iva pāvakair mahī 20 śaraprahārābhihatair mahābalair; avekṣyamāṇaiḥ patitaiḥ sahasraśaḥ pranaṣṭasaṃjñaiḥ punar ucchvasadbhir; mahī babhūvānugatair ivāgnibhiḥ divaś cyutair bhūr atidīptam adbhir; naktaṃ grahair dyaur amaleva dīptaiḥ 21 śarās tu karṇārjuna bāhumuktā; vidārya nāgāśvamanuṣyadehān prāṇān nirasyāśu mahīm atīyur; mahoragā vāsam ivābhito 'straiḥ 22 hatair manuṣyāśvagajaiś ca saṃkhye; śarāvabhinnaiś ca rathair babhūva dhanaṃjayasyādhiratheś ca mārge; gajair agamyā vasudhātidurgā 23 rathair vareṣūn mathitaiś ca yodhaiḥ; saṃsyūta sūtāśvavarāyudhadhvajaiḥ viśīrṇaśastrair vinikṛttabandhurair; nikṛttacakrākṣa yugatriveṇubhiḥ 24 vimuktayantrair nihatair ayomayair; hatānuṣaṅgair viniṣaṅga bandhuraiḥ prabhagnanīḍair maṇihemamaṇḍitaiḥ; stṛtā mahī dyaur iva śāradair ghanaiḥ 25 vikṛṣyamaṇair javanair alaṃkṛtair; hateśvarair ājirathaiḥ sukalpitaiḥ manuṣyamātaṅgarathāśvarāśibhir; drutaṃ vrajanto bahudhā vicūrṇitāḥ 26 sahema paṭṭāḥ parighāḥ paraśvadhāḥ; kaḍaṅga rāyo musalāni paṭṭiśāḥ petuś ca khaḍgā vimalā vikośā; gadāś ca jāmbūnadapaṭṭa baddhāḥ 27 cāpāni rukmāṅgada bhūṣaṇāni; śarāś ca kārtasvaracitrapuṅkhāḥ ṛṣṭyaś ca pītā vimalā vikośāḥ; prāsāḥ sakhaḍgāḥ kanakāvabhāsāḥ 28 chattrāṇi vālavyajanāni śaṅkhāḥ; srajaś ca puṣpottama hemacitrāḥ kuthāḥ patākāmbara veṣṭitāś ca; kirīṭamālā mukuṭāś ca śubhrāḥ 29 prakīrṇakā viprakīrṇāḥ kuthāś ca; pradhānamuktā taralāś ca hārāḥ āpīḍa keyūravarāṅgadāni; graiveya niṣkāḥ sasuvarṇa sūtrāḥ 30 maṇyuttamā vajrasuvarṇamuktā; ratnāni coccāvacamaṅgalāni gātrāṇi cātyanta sukhocitāni; śirāṃsi cendu pratimānanāni 31 dehāṃś ca bhogāṃś ca paricchadāṃś ca; tyaktvā manojñāni sukhāni cāpi svadharmaniṣṭhāṃ mahatīm avāpya; vyāptāṃś ca lokān yaśasā samīyuḥ 32 ity evam uktvā virarāma śalyo; duryodhanaḥ śokaparīta cetāḥ hā karṇa hā karṇa iti bruvāṇa; ārto visaṃjño bhṛśam aśrunetraḥ 33 taṃ droṇaputra pramukhā narendrāḥ; sarve samāśvāsya saha prayānti nirīkṣamāṇā muhur arjunasya; dhvajaṃ mahāntaṃ yaśasā jvalantam 34 narāśvamātaṅgaśarīrajena; raktena siktā rudhireṇa bhūmiḥ raktāmbarasrak tapanīyayogān; nārī prakāśā iva sarvagamyā 35 pracchannarūpā rudhireṇa rājan; raudre muhūrte 'tivirājamānāḥ naivāvatasthuḥ kuravaḥ samīkṣya; pravrājitā devalokāś ca sarve 36 vadhena karṇasya suduḥkhitās te; hā karṇa hā karṇa iti bruvāṇāḥ drutaṃ prayātāḥ śibirāṇi rājan; divākaraṃ raktam avekṣamāṇāḥ 37 gāṇḍīvamuktais tu suvarṇapuṅkhaiḥ; śitaiḥ śaraiḥ śoṇitadigdha vājaiḥ śaraiś citāṅgo bhuvi bhāti karṇo; hato 'pi san sūrya ivāṃśumālī 38 karṇasya dehaṃ rudhirāvasiktaṃ; bhaktānukampī bhagavān vivasvān spṛṣṭvā karair lohitaraktarūpaḥ; siṣṇāsur abhyeti paraṃ samudram 39 itīva saṃcintya surarṣisaṃghāḥ; saṃprathitā yānti yathāniketam saṃcintayitvā ca janā visasrur; yathāsukhaṃ khaṃ ca mahītalaṃ ca 40 tad adbhutaṃ prāṇabhṛtāṃ bhayaṃkaraṃ; niśamya yuddhaṃ kuruvīramukhyayoḥ dhanaṃjayasyādhiratheś ca vismitāḥ; praśaṃsamānāḥ prayayus tadā janāḥ 41 śaraiḥ saṃkṛttavarmāṇaṃ vīraṃ śivasane hatam gatāsum api rādheyaṃ naiva lakṣmīr vyamuñcata 42 nānābharaṇavān rājan mṛṣṭajāmbūnadāṅgadaḥ hato vaikartanaḥ śete pādapo 'ṅkuravān iva 43 kanakottama saṃkāśaḥ pradīpta iva pāvakaḥ saputraḥ puruṣavyāghraḥ saṃśāntaḥ pārtha tejasā pratāpya pāṇḍavān rājan pāñcālāṃś cāstratejasā 44 dadānīty eva yo 'vocan na nātīty arthito 'rthibhiḥ sadbhiḥ sadā satpuruṣaḥ sa hato dvairathe vṛṣaḥ 45 yasya brāhmaṇasāt sarvam ātmārthaṃ na mahātmanaḥ nādeyaṃ brāhmaṇeṣv āsīd yasya svam api jīvitam 46 sadā nṝṇāṃ priyo dātā priya dāno divaṃ gataḥ ādāya tava putrāṇāṃ jayāśāṃ śarma varma ca 47 hate sma karṇe sarito na sravanti; jagāma cāstaṃ kaluṣo divākaraḥ grahaś ca tiryag jvalitārkavarṇo; yamasya putro 'bhyudiyāya rājan 48 nabhaḥ paphālātha nanādacorvī; vavuś ca vātāḥ paruṣātivelam diśaḥ sadhūmāś ca bhṛśaṃ prajajvalur; mahārṇavāś cukṣubhire ca sasvanāḥ 49 sakānanāḥ sādri cayāś cakampuḥ; pravivyathur bhūtagaṇāś ca māriṣa bṛhaspatī rohiṇīṃ saṃprapīḍya; babhūva candrārkasamānavarṇaḥ 50 hate karṇe na diśo viprajajñus; tamovṛtā dyaur vicacāla bhūmiḥ papāta colkā jvalanaprakāśā; niśācarāś cāpy abhavan prahṛṣṭāḥ 51 śaśiprakāśānanam arjuno yadā; kṣureṇa karṇasya śiro nyapātayat athāntarikṣe divi ceha cāsakṛd; babhūva hāheti janasya nisvanaḥ 52 sa devagandharvamanuṣyapūjitaṃ; nihatya karṇaṃ ripum āhave 'rjunaḥ rarāja pārthaḥ parameṇa tejasā; vṛtraṃ nihatyeva sahasralocanaḥ 53 tato rathenāmbudavṛndanādinā; śaran nabho madhyaga bhāskaratviṣā patākinā bhīma nināda ketunā; himendu śaṅkhasphaṭikāvabhāsinā suvarṇamuktā maṇivajra vidrumair; alaṃkṛtenāpratimāna raṃhasā 54 narottamau pāṇḍava keśi mardanāv; udāhitāv agnidivākaropamau raṇājire vītabhayau virejatuḥ; samānayānāv iva viṣṇuvāsavau 55 tato dhanurjyātalanemi nisvanaiḥ; prasahya kṛtvā ca ripūn hataprabhān saṃsādhayitvaiva kurūñ śaraughaiḥ; kapidhvajaḥ pakṣivaradhvajaś ca prasahya śaṅkhau dhamatuḥ sughoṣau; manāṃsy ariṇām avasādayantau 56 suvarṇajālāvatatau mahāsvanau; himāvadātau parigṛhya pāṇibhiḥ cucumbatuḥ śaṅkhavarau nṛṇāṃ varau; varānanābhyāṃ yugapac ca dadhmatuḥ 57 pāñcajanyasya nirghoṣo devadattasya cobhayoḥ pṛthivīm antarikṣaṃ ca dyām apaś cāpy apūrayat 58 tau śaṅkhaśabdena ninādayantau; vananai śailān sarito diśaś ca vitrāsayantau tava putra senāṃ; yudhiṣṭhiraṃ nandayataḥ sma vīrau 59 tataḥ prayātāḥ kuravo javena; śrutvaiva śaṅkhasvanam īryamāṇam vihāya madrādhipatiṃ patiṃ ca; duryodhanaṃ bhārata bhāratānām 60 mahāhave taṃ bahu śobhamānaṃ; dhanaṃjayaṃ bhūtagaṇāḥ sametāḥ tadānvamodanta janārdanaṃ ca; prabhākarāv abhyuditau yathaiva 61 samācitau karṇa śaraiḥ paraṃtapāv; ubhau vyabhātāṃ samare 'cyutārjunau tamo nihatyābhyuditau yathāmalau; śaśāṅkasūryāv iva raśmimālinau 62 vihāya tān bāṇagaṇān athāgatau; suhṛdvṛtāv apratimāna vikramau sukhaṃ praviṣṭau śibiraṃ svam īśvarau; sadasya hutāv iva vāsavācyutau 63 sadevagandharvamanuṣyacāraṇair; maharṣibhir yakṣamahoragair api jayābhivṛddhyā parayābhipūjitau; nihatya karṇaṃ paramāhave tadā |
The Mahabharata in Sanskrit
Book 8
Chapter 69
|
1
[स] तथा निपातिते कर्णे तव सैन्ये च विद्रुते आश्लिष्य पार्थं दाशार्हॊ हर्षाद वचनम अब्रवीत 2 हतॊ बलभिदा वृत्रस तवया कर्णॊ धनंजय वधं वै कर्ण वृत्राभ्यां कथयिष्यन्ति मानवाः 3 वज्रिणा निहतॊ वृत्रः समयुगे भूरि तेजसा तवया तु निहतः कर्णॊ धनुषा निशितैः शरैः 4 तम इमं विक्रमं लॊके परथितं ते यशॊ वहम निवेदयावः कौन्तेय धर्मराजाय धीमते 5 वधं कर्णस्य संग्रामे दीर्घकालचिकीर्षितम निवेद्य धर्मराजस्य तवम आनृण्यं गमिष्यसि 6 तथेत्य उक्ते केशवस तु पार्थेन यदुपुङ्गवः पर्यवर्तयद अव्यग्रॊ रथं रथवरस्य तम 7 धृष्टद्युम्नं युधामन्युं माद्रीपुत्रौ वृकॊदरम युयुधानं च गॊविन्द इदं वचनम अब्रवीत 8 परान अभिमुखा यत्तास तिष्ठध्वं भद्रम अस्तु वः यावद आवेद्यते राज्ञे हतः कर्णॊ ऽरजुनेन वै 9 स तैः शूरैर अनुज्ञातॊ ययौ राजनिवेशनम पार्थम आदाय गॊविन्दॊ ददर्श च युधिष्ठिरम 10 शयानं राजशार्दूलं काञ्चने शयनॊत्तमे अगृह्णीतां च चरणौ मुदितौ पार्थिवस्य तौ 11 तयॊः परहर्षम आलाक्ष्य परहारांश चातिमानुषान राधेयं निहतंमत्वा समुत्तस्थौ युधिष्ठिरः 12 ततॊ ऽसमै याद यथावृत्तं वासुदेवः परियंवदः कथयाम आस कर्णस्य निधनं यदुनन्दनः 13 ईषद उत्स्मयमानस तु कृष्णॊ राजानम अब्रवीत युधिष्ठिरं हतामित्रं कृताञ्जालिर अथाच्युतः 14 दिष्ट्या गाण्डीवधन्वा च पाण्डवश च वृकॊदरः तवं चापि कुशली राजन माद्रीपुत्रौ च पाण्डवौ 15 मुक्ता वीर कषयाद अस्मात संग्रामाल लॊमहर्षणात कषिप्रम उत्तरकालानि कुरु कार्याणि पार्थिव 16 हतॊ वैकार्तनः करूरः सूतपुत्रॊ महाबलः दिष्ट्या जयसि राजेन्द्र दिष्ट्या वर्धसि पाण्डव 17 यः स दयूतजितां कृष्णां पराह सत्पुरुषाधमः तस्याद्य सूतपुत्रस्य भूमिः पिबति शॊणितम 18 शेते ऽसौ शरदीर्णाङ्गः शत्रुस ते कुरुपुंगव तं पाश्या पुरुषव्याघ्र विभिन्नं बहुधा शरैः 19 युधिष्ठिरस तु दाशार्हं परहृष्टः परत्यपूजयत दिष्ट्या दिष्ट्येति राजेन्द्र परीत्या चेदम उवाच ह 20 नैतच चित्रं महाबाहॊ तवायि देवकिनन्दन तवया सारथिना पार्थॊ यत कुर्याद अद्य पौरुषम 21 परगृह्य च कुरु शरेष्ठः साङ्गदं दक्षिणं भुजम उवाच धर्मभृत पार्थ उभौ तौ केशवार्जुनौ 22 नरनारायणौ देवौ कथितौ नारदेन ह धर्मसंस्थापने युक्तौ पुराणौ पुरुषॊत्तमौ 23 असकृच चापि मेधावी कृष्णा दवैपायनॊ मम कथाम एतां महाबाहॊ दिव्याम अकथयत परभुः 24 तव कृष्ण परभावेण गाण्डीवेन धनंजयः जयत्य अभिमुखाञ शत्रून न चासीद विमुखः कव चित 25 जयश चैवा धरुवॊ ऽसमाकं न तव अस्माकं पराजयः यदा तवं युधि पार्थस्य सारथ्यमुपजग्मिवान 26 एवम उक्त्वा महाराज तं रथं हेमभूषितम दन्तवर्णैर हयैर युक्तं कालवालैर महारथः 27 आस्थाय पुरुषव्याघ्रः सवबलेनाभिसंवृतः कृष्णार्जुनाभ्यां वीराभ्याम अनुमन्य ततः परियम 28 आगतॊ बहु वृत्तान्तं दरष्टुम आयॊधनं तदा आभाषमाणस तौ वीराव उभौ माधव फल्गुनौ 29 स ददर्श रणे कर्णं शयानं पुरुषर्षभम गाण्डीवमुक्तैर विशिखैः सर्वतः शकलीकृतम 30 सपुत्रं निहतं दृष्ट्वा कर्णं राजा युधिष्ठिरः परशशंस नरव्याघ्राव उभौ माधव पाण्डवौ 31 अद्य राजास्मि गॊविन्द पृथिव्यां भरातृभिः सह तवया नाथेन वीरेण विदुषा परिपालितः 32 हतं दृष्ट्वा नरव्याघ्रं राधेयम अभिमानिनम निराशॊ ऽदय दुरात्मासौ धार्तराष्ट्रॊ भविष्यति जीविताच चापि राज्याच च हते कर्णे महारथे 33 तवत्प्रसादाद वयं चैव कृतार्थाः पुरुषर्षभ तवं च गाण्डीवधन्वा च विजयी यदुनन्दन दिष्ट्या जयसि गॊविन्द दिष्ट्या कर्णॊ निपातितः 34 एवं स बहुशॊ हृष्टः परशशंस जनार्दनम अर्जुनं चापि राजेन्द्र धर्मराजॊ युधिष्ठिरः 35 ततॊ भीमप्रभृतिभिः सार्वैश च भरातृभिर वृतम वर्धयन्ति सम राजानं हर्ष युक्ता महारथाः 36 नकुलः साहदेवश च पाण्डावश च वृकॊदरः सात्यकिश च महाराज वृष्णीनां परवरॊ रथः 37 धृष्टद्युम्नः शिखण्डी च पाण्डुपाञ्चाल सृञ्जयाः पूजयन्ति सम कौन्तेयं निहते सूतनन्दने 38 ते वर्धयित्वा नृपतिं पाण्डुपुत्रं युधिष्ठिरम जितकाशिनॊ लब्धलक्षा युद्धशौण्डाः परहारिणः 39 सतुवन्तः सतवयुक्ताभिर वाग्भिः कृष्णौ परंतपौ जग्मुः सवशिबिरायैव मुदा युक्ता महारथाः 40 एवम एष कषयॊ वृत्तः सुमहाँल लॊमहर्षणः तव दुर्मन्त्रिते राजन्न अतीतं किं नु शॊचसि 41 [वै] शरुत्वा तद अप्रियं राजन धृतराष्ट्रॊ महीपतिः पपात भूमौ निश्चेष्टः कौरव्यः परमार्तिवान तथा सत्यव्रता देवी गान्धारी धर्मदर्शिनी 42 तं परत्यगृह्णाद विदुरॊ नृपतिं संजयस तथा पर्याश्वासयतश चैवं ताव उभाव एव भूमिपम 43 तथैवॊत्थापयाम आसुर गान्धारीं राजयॊषितः ताभ्याम आश्वसितॊ राजा तूष्णीम आसीद विचेतनः |
1
[s] tathā nipātite karṇe tava sainye ca vidrute āśliṣya pārthaṃ dāśārho harṣād vacanam abravīt 2 hato balabhidā vṛtras tvayā karṇo dhanaṃjaya vadhaṃ vai karṇa vṛtrābhyāṃ kathayiṣyanti mānavāḥ 3 vajriṇā nihato vṛtraḥ smayuge bhūri tejasā tvayā tu nihataḥ karṇo dhanuṣā niśitaiḥ śaraiḥ 4 tam imaṃ vikramaṃ loke prathitaṃ te yaśo vaham nivedayāvaḥ kaunteya dharmarājāya dhīmate 5 vadhaṃ karṇasya saṃgrāme dīrghakālacikīrṣitam nivedya dharmarājasya tvam ānṛṇyaṃ gamiṣyasi 6 tathety ukte keśavas tu pārthena yadupuṅgavaḥ paryavartayad avyagro rathaṃ rathavarasya tam 7 dhṛṣṭadyumnaṃ yudhāmanyuṃ mādrīputrau vṛkodaram yuyudhānaṃ ca govinda idaṃ vacanam abravīt 8 parān abhimukhā yattās tiṣṭhadhvaṃ bhadram astu vaḥ yāvad āvedyate rājñe hataḥ karṇo 'rjunena vai 9 sa taiḥ śūrair anujñāto yayau rājaniveśanam pārtham ādāya govindo dadarśa ca yudhiṣṭhiram 10 śayānaṃ rājaśārdūlaṃ kāñcane śayanottame agṛhṇītāṃ ca caraṇau muditau pārthivasya tau 11 tayoḥ praharṣam ālākṣya prahārāṃś cātimānuṣān rādheyaṃ nihataṃmatvā samuttasthau yudhiṣṭhiraḥ 12 tato 'smai yād yathāvṛttaṃ vāsudevaḥ priyaṃvadaḥ kathayām āsa karṇasya nidhanaṃ yadunandanaḥ 13 īṣad utsmayamānas tu kṛṣṇo rājānam abravīt yudhiṣṭhiraṃ hatāmitraṃ kṛtāñjālir athācyutaḥ 14 diṣṭyā gāṇḍīvadhanvā ca pāṇḍavaś ca vṛkodaraḥ tvaṃ cāpi kuśalī rājan mādrīputrau ca pāṇḍavau 15 muktā vīra kṣayād asmāt saṃgrāmāl lomaharṣaṇāt kṣipram uttarakālāni kuru kāryāṇi pārthiva 16 hato vaikārtanaḥ krūraḥ sūtaputro mahābalaḥ diṣṭyā jayasi rājendra diṣṭyā vardhasi pāṇḍava 17 yaḥ sa dyūtajitāṃ kṛṣṇāṃ prāha satpuruṣādhamaḥ tasyādya sūtaputrasya bhūmiḥ pibati śoṇitam 18 śete 'sau śaradīrṇāṅgaḥ śatrus te kurupuṃgava taṃ pāśyā puruṣavyāghra vibhinnaṃ bahudhā śaraiḥ 19 yudhiṣṭhiras tu dāśārhaṃ prahṛṣṭaḥ pratyapūjayat diṣṭyā diṣṭyeti rājendra prītyā cedam uvāca ha 20 naitac citraṃ mahābāho tvāyi devakinandana tvayā sārathinā pārtho yat kuryād adya pauruṣam 21 pragṛhya ca kuru śreṣṭhaḥ sāṅgadaṃ dakṣiṇaṃ bhujam uvāca dharmabhṛt pārtha ubhau tau keśavārjunau 22 naranārāyaṇau devau kathitau nāradena ha dharmasaṃsthāpane yuktau purāṇau puruṣottamau 23 asakṛc cāpi medhāvī kṛṣṇā dvaipāyano mama kathām etāṃ mahābāho divyām akathayat prabhuḥ 24 tava kṛṣṇa prabhāveṇa gāṇḍīvena dhanaṃjayaḥ jayaty abhimukhāñ śatrūn na cāsīd vimukhaḥ kva cit 25 jayaś caivā dhruvo 'smākaṃ na tv asmākaṃ parājayaḥ yadā tvaṃ yudhi pārthasya sārathyamupajagmivān 26 evam uktvā mahārāja taṃ rathaṃ hemabhūṣitam dantavarṇair hayair yuktaṃ kālavālair mahārathaḥ 27 āsthāya puruṣavyāghraḥ svabalenābhisaṃvṛtaḥ kṛṣṇārjunābhyāṃ vīrābhyām anumanya tataḥ priyam 28 āgato bahu vṛttāntaṃ draṣṭum āyodhanaṃ tadā ābhāṣamāṇas tau vīrāv ubhau mādhava phalgunau 29 sa dadarśa raṇe karṇaṃ śayānaṃ puruṣarṣabham gāṇḍīvamuktair viśikhaiḥ sarvataḥ śakalīkṛtam 30 saputraṃ nihataṃ dṛṣṭvā karṇaṃ rājā yudhiṣṭhiraḥ praśaśaṃsa naravyāghrāv ubhau mādhava pāṇḍavau 31 adya rājāsmi govinda pṛthivyāṃ bhrātṛbhiḥ saha tvayā nāthena vīreṇa viduṣā paripālitaḥ 32 hataṃ dṛṣṭvā naravyāghraṃ rādheyam abhimāninam nirāśo 'dya durātmāsau dhārtarāṣṭro bhaviṣyati jīvitāc cāpi rājyāc ca hate karṇe mahārathe 33 tvatprasādād vayaṃ caiva kṛtārthāḥ puruṣarṣabha tvaṃ ca gāṇḍīvadhanvā ca vijayī yadunandana diṣṭyā jayasi govinda diṣṭyā karṇo nipātitaḥ 34 evaṃ sa bahuśo hṛṣṭaḥ praśaśaṃsa janārdanam arjunaṃ cāpi rājendra dharmarājo yudhiṣṭhiraḥ 35 tato bhīmaprabhṛtibhiḥ sārvaiś ca bhrātṛbhir vṛtam vardhayanti sma rājānaṃ harṣa yuktā mahārathāḥ 36 nakulaḥ sāhadevaś ca pāṇḍāvaś ca vṛkodaraḥ sātyakiś ca mahārāja vṛṣṇīnāṃ pravaro rathaḥ 37 dhṛṣṭadyumnaḥ śikhaṇḍī ca pāṇḍupāñcāla sṛñjayāḥ pūjayanti sma kaunteyaṃ nihate sūtanandane 38 te vardhayitvā nṛpatiṃ pāṇḍuputraṃ yudhiṣṭhiram jitakāśino labdhalakṣā yuddhaśauṇḍāḥ prahāriṇaḥ 39 stuvantaḥ stavayuktābhir vāgbhiḥ kṛṣṇau paraṃtapau jagmuḥ svaśibirāyaiva mudā yuktā mahārathāḥ 40 evam eṣa kṣayo vṛttaḥ sumahāṁl lomaharṣaṇaḥ tava durmantrite rājann atītaṃ kiṃ nu śocasi 41 [vai] śrutvā tad apriyaṃ rājan dhṛtarāṣṭro mahīpatiḥ papāta bhūmau niśceṣṭaḥ kauravyaḥ paramārtivān tathā satyavratā devī gāndhārī dharmadarśinī 42 taṃ pratyagṛhṇād viduro nṛpatiṃ saṃjayas tathā paryāśvāsayataś caivaṃ tāv ubhāv eva bhūmipam 43 tathaivotthāpayām āsur gāndhārīṃ rājayoṣitaḥ tābhyām āśvasito rājā tūṣṇīm āsīd vicetanaḥ |
The Mahabharata in Sanskrit
Book 9
Chapter 1
|
1
[ज] एवं निपतिते कर्णे समरे सव्यसाचिना अल्पावशिष्टाः कुरवः किमकुर्वत वै दविज 2 उदीर्यमाणं च बलं दृष्ट्वा राजा सुयॊधनः पाण्डवैः पराप्तकालं च किं परापद्यत कौरवः 3 एतद इच्छाम्य अहं शरॊतुं तद आचक्ष्व दविजॊत्तम न हि तृप्यामि पूर्वेषां शृण्वानश चरितं महत 4 [वै] ततः कर्णे हते राजन धार्तराष्ट्रः सुयॊधनः भृशं शॊकार्णवे मग्नॊ निराशः सर्वतॊ ऽभवत 5 हा कर्ण हा कर्ण इति शॊचमानः पुनः पुनः कृच्छ्रात सवशिबिरं परायाद धतशेषैर नृपैः सह 6 स समाश्वास्यमानॊ ऽपि हेतुभिः शास्त्रनिश्चितैः राजभिर नालभच छर्म सूतपुत्र वधं समरन 7 स दिवं बलवन मत्वा भवितव्यं च पार्थिवः संग्रामे निश्चयं कृत्वा पुनर युद्धाय निर्ययौ 8 शल्यं सेनापतिं कृत्वा विधिवद राजपुंगवः रणायनिर्ययौ राजा हतशेषैर नृपैः सह 9 ततः सुतुमुलं युद्धं कुरुपाण्डवसेनयॊः बभूव भरतश्रेष्ठ देवासुररणॊपमम 10 ततः शल्यॊ महाराज कृत्वा कदनम आहवे पाण्डुसैन्यस्य मध्याह्ने धर्मराजेन पातितः 11 ततॊ दुर्यॊधनॊ राजा हतबन्धू रणाजिरात अपसृत्य हरदं घॊरं विवेश रिपुजाद भयात 12 अथापराह्णे तस्याह्नः परिवार्य महारथैः हरदाद आहूय यॊगेन भीमसेनेन पातितः 13 तस्मिन हते महेष्वासे हतशिष्टास तरयॊ रथाः संरभान निशि राजेन्द्र जघ्नुः पाञ्चाल सैनिकान 14 ततः पूर्वाह्णसमये शिबिराद एत्य संजयः परविवेश पुरीं दीनॊ दुःखशॊकसमन्वितः 15 परविश्य च पुरं तूर्णं भुजाव उच्छ्रित्य दुःखितः वेपमानस ततॊ राज्ञः परविवेश निवेशनम 16 रुरॊद च नरव्याघ्र हा राजन्न इति दुःखितः अहॊ बत विविग्नाः सम निधनेन महात्मनः 17 अहॊ सुबलवान कालॊ गतिश च परमा तथा शक्रतुल्यबलाः सर्वे यत्रावध्यन्त पार्थिवाः 18 दृष्ट्वैव च पुरॊ राजञ जनः सार्वः स संजयम पररुरॊद भृशॊद्विग्नॊ हा राजन्न इति सस्वरम 19 आकुमारं नरव्याघ्र तत पुरं वै समन्ततः आर्तनादं महच चक्रे शरुत्वा विनिहतं नृपम 20 धावतश चाप्य अपश्यच च तत्र तरीन पुरुषर्षभान नष्टचित्तान इवॊन्मत्ताञ शॊकेन भृशपीडितान 21 तथा स विह्वलः सूतः परविश्य नृपतिक्षयम ददर्श नृपतिश्रेष्ठं परज्ञा चक्षुषम ईश्वरम 22 दृष्ट्वा चासीनम अनघं समन्तात परिवारितम सनुषाभिर भरतश्रेष्ठ गान्धार्या विदुरेण च 23 तथान्यैश च सुहृद्भिश च जञातिभिश च हितैषिभिः तम एव चार्थं धयायन्तं कर्णस्य निधनं परति 24 रुदन्न एवाब्रवीद वाक्यं राजानं जनमेजय नातिहृष्टमनाः सूतॊ बाष्पसंदिग्धया गिरा 25 संजयॊ ऽयं नरव्याघ्र नमस ते भरतर्षभ अद्राधिपॊ हतः शल्यः शकुनिः सौबलस तथा उलूकः पुरुषव्याघ्र कैतव्यॊ दृढविक्रमः 26 संशप्तका हताः सर्वे काम्बॊजाश च शकैः सह मलेच्छाश च पार्वतीयाश च यवनाश च निपातिताः 27 पराच्या हता महाराज दाक्षिणात्याश च सर्वशः उदीच्या निहताः सर्वे परतीच्याश च नराधिप राजानॊ राजपुत्राश च सर्वतॊ निहता नृप 28 दुर्यॊधनॊ हतॊ राजन यथॊक्तं पाण्डवेन च भग्नसक्थॊ महाराज शेते पांसुषु रूषितः 29 धृष्टद्द्युम्नॊ हतॊ राजञ शिखाण्डी चापराजितः उत्तमौजा युधामन्युस तथा राजन परभद्रकाः 30 पाञ्चालाश च नरव्याघ्राश चेदयश च निषूदिताः तव पुत्रा हताः सर्वे दरौपदेयाश च भारत कर्ण पुत्रॊ हतः शूरॊ वृषा सेनॊ महाबलः 31 नरा विनिहताः सर्वे गजाश च विनिपातिताः रथिनश च नरव्याघ्र हयाश च निहता युधि 32 किं चिच छेषं च शिबिरं तावकानां कृतं विभॊ पाण्डवानां च शूराणां समासाद्य परस्परम 33 परायः सत्री शेषम अभवज जगत कालेन मॊहितम साप्त पाण्डवतः शेषा धार्तराष्ट्रास तथा तरयः 34 ते चैव भरातरः पञ्च वासुदेवॊ ऽथ सात्यकिः कृपश च कृतवर्मा च दरौणिश च जयतां वरः 35 तवाप्य एते महाराज रथिनॊ नृपसत्तम अक्षौहिणीनां सर्वासां समेतानां जनेश्वर एते शेषा महाराज सर्वे ऽनये निधनं गताः 36 कालेन निहतं सर्वं जगद वै भरतर्षभ दुर्यॊधनं वै पुरतः कृत्वा वैरस्य भारत 37 एतच छरुत्वा वचः करूरं धृतराष्ट्रॊ जनेश्वरः निपपात महाराज गतसत्त्वॊ महीतले 38 तस्मिन निपतिते भूमौ विदुरॊ ऽपि महायशाः निपपात महाराज राजव्यसनकर्शितः 39 गान्धारी च नृपश्रेष्ठ सर्वाश च कुरु यॊषितः पतिताः सहसा भूमौ शरुत्वा करूरं वचश च ताः 40 निःसंज्ञं पतितं भूमौ तदासीद राजमण्डलम परलाप युक्ता महती कथा नयस्ता पटे यथा 41 कृच्छ्रेण तु ततॊ राजा धृतराष्ट्रॊ महीपतिः शनैर अलभत पराणान पुत्रव्यसनकर्शितः 42 लब्ध्वा तु स नृपः संज्ञां वेपमानः सुदुःखितः उदीक्ष्य च दिशः सर्वाः कषत्तारं वाक्यम अब्रवीत 43 विद्वन कषत्तर महाप्राज्ञ तवं गतिर भरतर्षभ ममानाथस्य सुभृशं पुत्रैर हीनस्य सर्वशः एवम उक्त्वा ततॊ भूयॊ विसंज्ञॊ निपपात ह 44 तं तथा पतितं दृष्ट्वा बान्धवा ये ऽसय के चन शीतैस तु सिषिचुस तॊयैर विव्यजुर वयजनैर अपि 45 स तु दीर्घेण कालेन परत्याश्वस्तॊ महीपतिः तूष्णीं दध्यौ महीपालः पुत्रव्यसनकर्शितः निःश्वसञ जिह्मग इव कुम्भक्षिप्तॊ विशां पते 46 संजयॊ ऽपय अरुदत तत्र दृष्ट्वा राजानम आतुरम तथा सर्वाः सत्रियश चैव गान्धारी च यशस्विनी 47 ततॊ दीर्घेण कालेन विदुरं वाक्यम अब्रवीत धृतराष्ट्रॊ नरव्याघ्रॊ मुह्यमानॊ मुहुर मुहुः 48 गच्छन्तु यॊषितः सर्वा गान्धारी च यशस्विनी तथेमे सुहृदः सर्वे भरश्यते मे मनॊ भृशम 49 एवम उक्तस ततः कषत्ता ताः सत्रियॊ भरतर्षभ विसर्जयाम आस शनैर वेपमानः पुनः पुनः 50 निश्चक्रमुस ततः सर्वास ताः सत्रियॊ भरतर्षभ सुहृदश च ततः सर्वे दृष्ट्वा राजानम आतुरम 51 ततॊ नरपतिं तत्र लब्धसंज्ञं परंतप अवेक्ष्य संजयॊ दीनॊ रॊदमानं भृशातुरम 52 पराञ्जलिर निःश्वसन्तं च तं नरेन्द्रं मुहुर मुहुः समाश्वासयत कषत्ता वचसा मधुरेण ह |
1
[j] evaṃ nipatite karṇe samare savyasācinā alpāvaśiṣṭāḥ kuravaḥ kimakurvata vai dvija 2 udīryamāṇaṃ ca balaṃ dṛṣṭvā rājā suyodhanaḥ pāṇḍavaiḥ prāptakālaṃ ca kiṃ prāpadyata kauravaḥ 3 etad icchāmy ahaṃ śrotuṃ tad ācakṣva dvijottama na hi tṛpyāmi pūrveṣāṃ śṛṇvānaś caritaṃ mahat 4 [vai] tataḥ karṇe hate rājan dhārtarāṣṭraḥ suyodhanaḥ bhṛśaṃ śokārṇave magno nirāśaḥ sarvato 'bhavat 5 hā karṇa hā karṇa iti śocamānaḥ punaḥ punaḥ kṛcchrāt svaśibiraṃ prāyād dhataśeṣair nṛpaiḥ saha 6 sa samāśvāsyamāno 'pi hetubhiḥ śāstraniścitaiḥ rājabhir nālabhac charma sūtaputra vadhaṃ smaran 7 sa divaṃ balavan matvā bhavitavyaṃ ca pārthivaḥ saṃgrāme niścayaṃ kṛtvā punar yuddhāya niryayau 8 śalyaṃ senāpatiṃ kṛtvā vidhivad rājapuṃgavaḥ raṇāyaniryayau rājā hataśeṣair nṛpaiḥ saha 9 tataḥ sutumulaṃ yuddhaṃ kurupāṇḍavasenayoḥ babhūva bharataśreṣṭha devāsuraraṇopamam 10 tataḥ śalyo mahārāja kṛtvā kadanam āhave pāṇḍusainyasya madhyāhne dharmarājena pātitaḥ 11 tato duryodhano rājā hatabandhū raṇājirāt apasṛtya hradaṃ ghoraṃ viveśa ripujād bhayāt 12 athāparāhṇe tasyāhnaḥ parivārya mahārathaiḥ hradād āhūya yogena bhīmasenena pātitaḥ 13 tasmin hate maheṣvāse hataśiṣṭās trayo rathāḥ saṃrabhān niśi rājendra jaghnuḥ pāñcāla sainikān 14 tataḥ pūrvāhṇasamaye śibirād etya saṃjayaḥ praviveśa purīṃ dīno duḥkhaśokasamanvitaḥ 15 praviśya ca puraṃ tūrṇaṃ bhujāv ucchritya duḥkhitaḥ vepamānas tato rājñaḥ praviveśa niveśanam 16 ruroda ca naravyāghra hā rājann iti duḥkhitaḥ aho bata vivignāḥ sma nidhanena mahātmanaḥ 17 aho subalavān kālo gatiś ca paramā tathā śakratulyabalāḥ sarve yatrāvadhyanta pārthivāḥ 18 dṛṣṭvaiva ca puro rājañ janaḥ sārvaḥ sa saṃjayam praruroda bhṛśodvigno hā rājann iti sasvaram 19 ākumāraṃ naravyāghra tat puraṃ vai samantataḥ ārtanādaṃ mahac cakre śrutvā vinihataṃ nṛpam 20 dhāvataś cāpy apaśyac ca tatra trīn puruṣarṣabhān naṣṭacittān ivonmattāñ śokena bhṛśapīḍitān 21 tathā sa vihvalaḥ sūtaḥ praviśya nṛpatikṣayam dadarśa nṛpatiśreṣṭhaṃ prajñā cakṣuṣam īśvaram 22 dṛṣṭvā cāsīnam anaghaṃ samantāt parivāritam snuṣābhir bharataśreṣṭha gāndhāryā vidureṇa ca 23 tathānyaiś ca suhṛdbhiś ca jñātibhiś ca hitaiṣibhiḥ tam eva cārthaṃ dhyāyantaṃ karṇasya nidhanaṃ prati 24 rudann evābravīd vākyaṃ rājānaṃ janamejaya nātihṛṣṭamanāḥ sūto bāṣpasaṃdigdhayā girā 25 saṃjayo 'yaṃ naravyāghra namas te bharatarṣabha adrādhipo hataḥ śalyaḥ śakuniḥ saubalas tathā ulūkaḥ puruṣavyāghra kaitavyo dṛḍhavikramaḥ 26 saṃśaptakā hatāḥ sarve kāmbojāś ca śakaiḥ saha mlecchāś ca pārvatīyāś ca yavanāś ca nipātitāḥ 27 prācyā hatā mahārāja dākṣiṇātyāś ca sarvaśaḥ udīcyā nihatāḥ sarve pratīcyāś ca narādhipa rājāno rājaputrāś ca sarvato nihatā nṛpa 28 duryodhano hato rājan yathoktaṃ pāṇḍavena ca bhagnasaktho mahārāja śete pāṃsuṣu rūṣitaḥ 29 dhṛṣṭaddyumno hato rājañ śikhāṇḍī cāparājitaḥ uttamaujā yudhāmanyus tathā rājan prabhadrakāḥ 30 pāñcālāś ca naravyāghrāś cedayaś ca niṣūditāḥ tava putrā hatāḥ sarve draupadeyāś ca bhārata karṇa putro hataḥ śūro vṛṣā seno mahābalaḥ 31 narā vinihatāḥ sarve gajāś ca vinipātitāḥ rathinaś ca naravyāghra hayāś ca nihatā yudhi 32 kiṃ cic cheṣaṃ ca śibiraṃ tāvakānāṃ kṛtaṃ vibho pāṇḍavānāṃ ca śūrāṇāṃ samāsādya parasparam 33 prāyaḥ strī śeṣam abhavaj jagat kālena mohitam sāpta pāṇḍavataḥ śeṣā dhārtarāṣṭrās tathā trayaḥ 34 te caiva bhrātaraḥ pañca vāsudevo 'tha sātyakiḥ kṛpaś ca kṛtavarmā ca drauṇiś ca jayatāṃ varaḥ 35 tavāpy ete mahārāja rathino nṛpasattama akṣauhiṇīnāṃ sarvāsāṃ sametānāṃ janeśvara ete śeṣā mahārāja sarve 'nye nidhanaṃ gatāḥ 36 kālena nihataṃ sarvaṃ jagad vai bharatarṣabha duryodhanaṃ vai purataḥ kṛtvā vairasya bhārata 37 etac chrutvā vacaḥ krūraṃ dhṛtarāṣṭro janeśvaraḥ nipapāta mahārāja gatasattvo mahītale 38 tasmin nipatite bhūmau viduro 'pi mahāyaśāḥ nipapāta mahārāja rājavyasanakarśitaḥ 39 gāndhārī ca nṛpaśreṣṭha sarvāś ca kuru yoṣitaḥ patitāḥ sahasā bhūmau śrutvā krūraṃ vacaś ca tāḥ 40 niḥsaṃjñaṃ patitaṃ bhūmau tadāsīd rājamaṇḍalam pralāpa yuktā mahatī kathā nyastā paṭe yathā 41 kṛcchreṇa tu tato rājā dhṛtarāṣṭro mahīpatiḥ śanair alabhata prāṇān putravyasanakarśitaḥ 42 labdhvā tu sa nṛpaḥ saṃjñāṃ vepamānaḥ suduḥkhitaḥ udīkṣya ca diśaḥ sarvāḥ kṣattāraṃ vākyam abravīt 43 vidvan kṣattar mahāprājña tvaṃ gatir bharatarṣabha mamānāthasya subhṛśaṃ putrair hīnasya sarvaśaḥ evam uktvā tato bhūyo visaṃjño nipapāta ha 44 taṃ tathā patitaṃ dṛṣṭvā bāndhavā ye 'sya ke cana śītais tu siṣicus toyair vivyajur vyajanair api 45 sa tu dīrgheṇa kālena pratyāśvasto mahīpatiḥ tūṣṇīṃ dadhyau mahīpālaḥ putravyasanakarśitaḥ niḥśvasañ jihmaga iva kumbhakṣipto viśāṃ pate 46 saṃjayo 'py arudat tatra dṛṣṭvā rājānam āturam tathā sarvāḥ striyaś caiva gāndhārī ca yaśasvinī 47 tato dīrgheṇa kālena viduraṃ vākyam abravīt dhṛtarāṣṭro naravyāghro muhyamāno muhur muhuḥ 48 gacchantu yoṣitaḥ sarvā gāndhārī ca yaśasvinī tatheme suhṛdaḥ sarve bhraśyate me mano bhṛśam 49 evam uktas tataḥ kṣattā tāḥ striyo bharatarṣabha visarjayām āsa śanair vepamānaḥ punaḥ punaḥ 50 niścakramus tataḥ sarvās tāḥ striyo bharatarṣabha suhṛdaś ca tataḥ sarve dṛṣṭvā rājānam āturam 51 tato narapatiṃ tatra labdhasaṃjñaṃ paraṃtapa avekṣya saṃjayo dīno rodamānaṃ bhṛśāturam 52 prāñjalir niḥśvasantaṃ ca taṃ narendraṃ muhur muhuḥ samāśvāsayata kṣattā vacasā madhureṇa ha |
The Mahabharata in Sanskrit
Book 9
Chapter 2
|
1
[वै] विसृष्टास्व अथ नारीषु धृतराष्ट्रॊ ऽमबिका सुतः विललाप महाराज दुःखाद दुःखतरं गतः 2 सधूमम इव निःश्वस्य करौ धुन्वन पुनः पुनः विचिन्त्य च महाराज ततॊ वचनम अब्रवीत 3 अहॊ बत महद दुःखं यद अहं पाण्डवान रणे कषेमिणश चाव्ययांश चैव तवत्तः सूत शृणॊमि वै 4 वज्रसार मयं नूनं हृदयं सुदृढं मम यच छरुत्वा निहतान पुत्रान दीर्यते न सहस्रधा 5 इन्तयित्वा वचस तेषां बाल करीडां च संजय अद्य शरुत्वा हतान पुत्रान भृशं मे दीर्यते मनः 6 अन्धत्वाद यदि तेषां तु न मे रूपनिदर्शनम पुत्रस्नेह कृता परीतिर नित्यम एतेषु धारिता 7 बालभावम अतिक्रान्तान यौवनस्थांश च तान अहम मध्यप्राप्तांस तथा शरुत्वा हृष्ट आसं तथानघ 8 तान अद्य निहतन शरुत्वा हृतैश्वर्यान हृतौजसः न लभे वै कव चिच छान्तिं पुत्राधिभिर अभिप्लुतः 9 एह्य एहि पुत्र राजेन्द्र ममानाथस्य सांप्रतम तवया हीनॊ महाबाहॊ कां नु यास्याम्य अहं गतिम 10 गतिर भूत्वा महाराज जञातीनां सुहृदां तथा अन्धं वृद्धं च मां वीर विहाय कव नु गच्छसि 11 सा कृपा सा च ते परीतिः सा च राजन सुमानिता कथं विनिहतः पार्थैः संयुगेष्व अपराजितः 12 कथं तवं पृथिवीपालान भुक्त्वा ताथ समागतान शेषे विनिहतॊ भूमौ पराकृतः कुनृपॊ यथा 13 कॊ नु माम उत्थितं काल्ये तात तातेति वक्ष्यति महाराजेति सततं लॊकनाथेति चासकृत 14 परिष्वज्य च मां कण्ठे सनेहेनाक्लिन्न लॊचनः अनुशाधीति कौरव्य तत साधु वद मे वचः 15 ननु नामाहम अश्रौषं वचनं तव पुत्रक भूयसी मम पृथ्वीयं यथा पार्थस्य नॊ तथा 16 भगदत्तः कृपः शल्य आवन्त्यॊ ऽथ जयद्रथः भूरिश्रवाः सॊमदत्तॊ महाराजॊ ऽथ बाह्लिकः 17 अश्वत्थामा च भॊजश च मागधश च महाबलः बृहद्बलश च काशीशः शकुनिश चापि सौबलः 18 मलेच्छाश च बहुसाहस्राः शकाश च यवनैः सह सुदक्षिणश च काम्बॊजस तरिगर्ताधिपतिस तथा 19 भीष्मः पितामहश चैव भारद्वाजॊ ऽथ गौतमः शरुतायुश चाच्युतायुश च शतायुश चापि वीर्यवान 20 जलसंधॊ ऽथार्श्यशृङ्गी राक्षसश चाप्य अलायुधः अलम्बुसॊ महाबाहुः सुबाहुश च महारथः 21 एते चान्ये च बहवॊ राजानॊ राजसत्तम मदर्थम उद्यताः सर्वे पराणांस तयक्त्वा रणे परभॊ 22 येषां मध्ये सथितॊ युद्धे भरातृभिः परिवारितः यॊधयिष्याम्य अहं पार्थान पाञ्चालांश चैव सर्वशः 23 चेदींश च नृपशार्दूल दरौपदेयांश च संयुगे सात्यकिं कुन्तिभॊजं च राक्षसं च घटॊत्कचम 24 एकॊ ऽपय एषां महाराज समर्थः संनिवारणे समरे पाण्डवेयानां संक्रुद्धॊ हय अभिधावताम किं पुनः सहिता वीराः कृतवैराश च पाण्डवैः 25 अथ वा सर्व एवैते पाण्डवस्यानुयायिभिः यॊत्स्यन्ति सह राजैन्द्र हनिष्यन्ति च तान मृधे 26 कर्णस तव एकॊ मया सार्धं निहनिष्यति पाण्डवान ततॊ नृपतयॊ वीराः सथास्यन्ति मम शासने 27 यश च तेषां परणेता वै वासुदेवॊ महाबलः न स संनह्यते राजन्न इति माम अब्रवीद वचः 28 तस्याहं वदतः सूत बहुशॊ मम संनिधौ युक्तितॊ हय अनुपश्यामि निहतान पाण्डवान मृधे 29 तेषां मध्ये सथिता यत्र हन्यन्ते मम पुत्रकाः वयायच्छमानाः समरे किम अन्यद भागधेयतः 30 भीष्मश च निहतॊ यत्र लॊकनाथः परतापवान शिखण्डिनं समासाद्य मृगेन्द्र इव जम्बुकम 31 दरॊणश च बराह्मणॊ यत्र सार्व शस्त्रास्त्रपारगः निहतः पाण्डवैः संख्ये किम अन्यद भागधेयतः 32 भूरि शवरा हतॊ यत्र सॊमदत्तश च साम्युगे बाह्लीकश च महाराज किम अन्याद भग धेयतः 33 सुदक्षिणॊ हतॊ यत्र जलसंधश च कौरवः शरुतायुश चाच्युतायुश च किम अन्यद भागधेयतः 34 बृहद्बलॊ हतॊ यत्र मगधश च महाबलः आवन्त्यॊ निहतॊ यत्र तरिगर्तश च जनाधिपः संशप्तकाश च बहवः किम अन्यद भागधेयतः 35 अलम्बुसस तथा राजन राक्षासश चाप्य अलायुधः आर्श्यशृङ्गश च निहतः किम अन्यद भागधेयतः 36 नारायणा हता यत्र गॊपाला युद्धदुर्मदाः मलेच्छाश च बहुसाहस्राः किम अन्यद भागधेयतः 37 शकुनिः सौबलॊ यत्र कैतव्यश च महाबलः निहतः सबलॊ वीरः किम अन्यद भागधेयतः 38 राजानॊ राजपुत्राश च शूराः परिघबाहवः निहता बहवॊ यत्र किम अन्यद भागधेयतः 39 नानादेशसमावृत्ताः कषत्रिया यत्र संजय निहताः समरे सर्वे किम अन्यद भागधेयतः 40 पुत्राश च मे विनिहताः पौत्राश चैव महाबलाः वयस्या भरातरश चैव किम अन्यद भागधेयतः 41 भागधेय समायुक्तॊ धरुवम उत्पद्यते नरः यश च भाग्यसमायुक्तः स शुभं पराप्नुयान नरः 42 अहं वियुक्तः सवैर भाग्यैः पुत्रैश चैवेह संजय कथम अद्य भविष्यामि वृद्धः शत्रुवशं गतः 43 नान्यद अत्र परं मन्ये वनवासाद ऋते परभॊ सॊ ऽहं वनं गमिष्यामि निर्बन्धुर जञातिसंक्षये 44 न हि मे ऽनयद भवेच छरेयॊ वनाभ्युपगमाद ऋते इमाम अवस्थां पराप्तस्य लूनपक्षस्य संजय 45 दुर्यॊधनॊ हतॊ यत्र शल्यश च निहतॊ युधि दुःशासनॊ विशस्तश च विकर्णश च महाबलः 46 कथं हि भीमसेनस्य शरॊष्ये ऽहं शब्दम उत्तमम एकेन समरे येन हतं पुत्रशतं मम 47 असकृद वदतस तस्य दुर्यॊधन वधेन च दुःखशॊकाभिसंतप्तॊ न शरॊष्ये परुषा गिरः 48 एवं स शॊकसंतप्तः पार्थिवॊ हतबान्धवः मुहुर मुहुर मुह्यमानः पुत्राधिभिर अभिप्लुतः 49 विलप्य सुचिरं कालं धृतराष्ट्रॊ ऽमबिका सुतः दीर्घम उष्णं च निःश्वस्य चिन्तयित्वा पराभवम 50 दुःखेन महता राजा संतप्तॊ भरतर्षभ पुनर्गावल्गणिं सूतं पर्यपृच्छद यथातथम 51 भीष्मद्रॊणौ हतौ शरुत्वा सूतपुत्रं च पातितम सेनापतिं परणेतारं किम अकुर्वत मामकाः 52 यं यं सेना परणेतारं युधि कुर्वन्ति मामकाः अचिरेणैव कालेन तं तं निघ्नन्ति पाण्डवाः 53 रणमूर्ध्नि हतॊ भीष्मः पश्यतां वः किरीटिना एवम एव हतॊ दरॊणः सर्वेषाम एव पश्यताम 54 एवम एव हतः कर्णः सूतपुत्रः परतापवान सा राजकानां सर्वेषां पश्यतां वः किरीटिना 55 पूर्वम एवाहम उक्तॊ वै विदुरेण महात्मना दुर्यॊधनापराधेन परजेयं विनशिष्यति 56 के चिन न सम्यक पश्यन्ति मूढाः सम्यक तथापरे तद इदं मम मूढस्या तथा भूतं वचः सम ह 57 यद अब्रवीन मे धर्मात्मा विदुरॊ दीर्घदर्शिवान तत तथा समनुप्राप्तं वचनं सत्यवादिनः 58 दैवॊपहतचित्तेन यन मयापकृतं पुरा अनयस्य फलं तस्य बरूहि गावल्गणे पुनः 59 कॊ वा मुखम अनीकानाम आसीत कर्णे निपातिते अर्जुनं वासुदेवं च कॊ वा परत्युद्ययौ रथी 60 के ऽरक्षन दक्षिणं चक्रं मद्रराजस्य संयुगे वामं च यॊद्धुकामस्य के वा वीरस्य पृष्ठतः 61 कथं च वः समेतानां मद्रराजॊ महाबलः निहतः पाण्डवैः संख्ये पुत्रॊ वा मम संजय 62 बरूहि सर्वं यथातत्त्वं भरतानां महाक्षयम यथा च निहतः संख्ये पुत्रॊ दुर्यॊधनॊ मम 63 पाञ्चालाश च यथा सर्वे निहताः सपदानुगाः धृष्टद्युम्नः शिखाण्डी च दरौपद्याः पञ्च चात्मजाः 64 पाण्डवाश च यथा मुक्तास तथॊभौ सात्वतौ युधि कृपश च कृतवर्मा च भारद्वाजस्य चात्मजः 65 यद यथा यादृशं चैव युद्धं वृत्तं च सांप्रतम अहिलं शरॊतुम इच्छामि कुशलॊ हय असि संजय |
1
[vai] visṛṣṭāsv atha nārīṣu dhṛtarāṣṭro 'mbikā sutaḥ vilalāpa mahārāja duḥkhād duḥkhataraṃ gataḥ 2 sadhūmam iva niḥśvasya karau dhunvan punaḥ punaḥ vicintya ca mahārāja tato vacanam abravīt 3 aho bata mahad duḥkhaṃ yad ahaṃ pāṇḍavān raṇe kṣemiṇaś cāvyayāṃś caiva tvattaḥ sūta śṛṇomi vai 4 vajrasāra mayaṃ nūnaṃ hṛdayaṃ sudṛḍhaṃ mama yac chrutvā nihatān putrān dīryate na sahasradhā 5 intayitvā vacas teṣāṃ bāla krīḍāṃ ca saṃjaya adya śrutvā hatān putrān bhṛśaṃ me dīryate manaḥ 6 andhatvād yadi teṣāṃ tu na me rūpanidarśanam putrasneha kṛtā prītir nityam eteṣu dhāritā 7 bālabhāvam atikrāntān yauvanasthāṃś ca tān aham madhyaprāptāṃs tathā śrutvā hṛṣṭa āsaṃ tathānagha 8 tān ady nihatana śrutvā hṛtaiśvaryān hṛtaujasaḥ na labhe vai kva cic chāntiṃ putrādhibhir abhiplutaḥ 9 ehy ehi putra rājendra mamānāthasya sāṃpratam tvayā hīno mahābāho kāṃ nu yāsyāmy ahaṃ gatim 10 gatir bhūtvā mahārāja jñātīnāṃ suhṛdāṃ tathā andhaṃ vṛddhaṃ ca māṃ vīra vihāya kva nu gacchasi 11 sā kṛpā sā ca te prītiḥ sā ca rājan sumānitā kathaṃ vinihataḥ pārthaiḥ saṃyugeṣv aparājitaḥ 12 kathaṃ tvaṃ pṛthivīpālān bhuktvā tātha samāgatān śeṣe vinihato bhūmau prākṛtaḥ kunṛpo yathā 13 ko nu mām utthitaṃ kālye tāta tāteti vakṣyati mahārājeti satataṃ lokanātheti cāsakṛt 14 pariṣvajya ca māṃ kaṇṭhe snehenāklinna locanaḥ anuśādhīti kauravya tat sādhu vada me vacaḥ 15 nanu nāmāham aśrauṣaṃ vacanaṃ tava putraka bhūyasī mama pṛthvīyaṃ yathā pārthasya no tathā 16 bhagadattaḥ kṛpaḥ śalya āvantyo 'tha jayadrathaḥ bhūriśravāḥ somadatto mahārājo 'tha bāhlikaḥ 17 aśvatthāmā ca bhojaś ca māgadhaś ca mahābalaḥ bṛhadbalaś ca kāśīśaḥ śakuniś cāpi saubalaḥ 18 mlecchāś ca bahusāhasrāḥ śakāś ca yavanaiḥ saha sudakṣiṇaś ca kāmbojas trigartādhipatis tathā 19 bhīṣmaḥ pitāmahaś caiva bhāradvājo 'tha gautamaḥ śrutāyuś cācyutāyuś ca śatāyuś cāpi vīryavān 20 jalasaṃdho 'thārśyaśṛṅgī rākṣasaś cāpy alāyudhaḥ alambuso mahābāhuḥ subāhuś ca mahārathaḥ 21 ete cānye ca bahavo rājāno rājasattama madartham udyatāḥ sarve prāṇāṃs tyaktvā raṇe prabho 22 yeṣāṃ madhye sthito yuddhe bhrātṛbhiḥ parivāritaḥ yodhayiṣyāmy ahaṃ pārthān pāñcālāṃś caiva sarvaśaḥ 23 cedīṃś ca nṛpaśārdūla draupadeyāṃś ca saṃyuge sātyakiṃ kuntibhojaṃ ca rākṣasaṃ ca ghaṭotkacam 24 eko 'py eṣāṃ mahārāja samarthaḥ saṃnivāraṇe samare pāṇḍaveyānāṃ saṃkruddho hy abhidhāvatām kiṃ punaḥ sahitā vīrāḥ kṛtavairāś ca pāṇḍavaiḥ 25 atha vā sarva evaite pāṇḍavasyānuyāyibhiḥ yotsyanti saha rājaindra haniṣyanti ca tān mṛdhe 26 karṇas tv eko mayā sārdhaṃ nihaniṣyati pāṇḍavān tato nṛpatayo vīrāḥ sthāsyanti mama śāsane 27 yaś ca teṣāṃ praṇetā vai vāsudevo mahābalaḥ na sa saṃnahyate rājann iti mām abravīd vacaḥ 28 tasyāhaṃ vadataḥ sūta bahuśo mama saṃnidhau yuktito hy anupaśyāmi nihatān pāṇḍavān mṛdhe 29 teṣāṃ madhye sthitā yatra hanyante mama putrakāḥ vyāyacchamānāḥ samare kim anyad bhāgadheyataḥ 30 bhīṣmaś ca nihato yatra lokanāthaḥ pratāpavān śikhaṇḍinaṃ samāsādya mṛgendra iva jambukam 31 droṇaś ca brāhmaṇo yatra sārva śastrāstrapāragaḥ nihataḥ pāṇḍavaiḥ saṃkhye kim anyad bhāgadheyataḥ 32 bhūri śvarā hato yatra somadattaś ca sāmyuge bāhlīkaś ca mahārāja kim anyād bhaga dheyataḥ 33 sudakṣiṇo hato yatra jalasaṃdhaś ca kauravaḥ śrutāyuś cācyutāyuś ca kim anyad bhāgadheyataḥ 34 bṛhadbalo hato yatra magadhaś ca mahābalaḥ āvantyo nihato yatra trigartaś ca janādhipaḥ saṃśaptakāś ca bahavaḥ kim anyad bhāgadheyataḥ 35 alambusas tathā rājan rākṣāsaś cāpy alāyudhaḥ ārśyaśṛṅgaś ca nihataḥ kim anyad bhāgadheyataḥ 36 nārāyaṇā hatā yatra gopālā yuddhadurmadāḥ mlecchāś ca bahusāhasrāḥ kim anyad bhāgadheyataḥ 37 śakuniḥ saubalo yatra kaitavyaś ca mahābalaḥ nihataḥ sabalo vīraḥ kim anyad bhāgadheyataḥ 38 rājāno rājaputrāś ca śūrāḥ parighabāhavaḥ nihatā bahavo yatra kim anyad bhāgadheyataḥ 39 nānādeśasamāvṛttāḥ kṣatriyā yatra saṃjaya nihatāḥ samare sarve kim anyad bhāgadheyataḥ 40 putrāś ca me vinihatāḥ pautrāś caiva mahābalāḥ vayasyā bhrātaraś caiva kim anyad bhāgadheyataḥ 41 bhāgadheya samāyukto dhruvam utpadyate naraḥ yaś ca bhāgyasamāyuktaḥ sa śubhaṃ prāpnuyān naraḥ 42 ahaṃ viyuktaḥ svair bhāgyaiḥ putraiś caiveha saṃjaya katham adya bhaviṣyāmi vṛddhaḥ śatruvaśaṃ gataḥ 43 nānyad atra paraṃ manye vanavāsād ṛte prabho so 'haṃ vanaṃ gamiṣyāmi nirbandhur jñātisaṃkṣaye 44 na hi me 'nyad bhavec chreyo vanābhyupagamād ṛte imām avasthāṃ prāptasya lūnapakṣasya saṃjaya 45 duryodhano hato yatra śalyaś ca nihato yudhi duḥśāsano viśastaś ca vikarṇaś ca mahābalaḥ 46 kathaṃ hi bhīmasenasya śroṣye 'haṃ śabdam uttamam ekena samare yena hataṃ putraśataṃ mama 47 asakṛd vadatas tasya duryodhana vadhena ca duḥkhaśokābhisaṃtapto na śroṣye paruṣā giraḥ 48 evaṃ sa śokasaṃtaptaḥ pārthivo hatabāndhavaḥ muhur muhur muhyamānaḥ putrādhibhir abhiplutaḥ 49 vilapya suciraṃ kālaṃ dhṛtarāṣṭro 'mbikā sutaḥ dīrgham uṣṇaṃ ca niḥśvasya cintayitvā parābhavam 50 duḥkhena mahatā rājā saṃtapto bharatarṣabha punargāvalgaṇiṃ sūtaṃ paryapṛcchad yathātatham 51 bhīṣmadroṇau hatau śrutvā sūtaputraṃ ca pātitam senāpatiṃ praṇetāraṃ kim akurvata māmakāḥ 52 yaṃ yaṃ senā praṇetāraṃ yudhi kurvanti māmakāḥ acireṇaiva kālena taṃ taṃ nighnanti pāṇḍavāḥ 53 raṇamūrdhni hato bhīṣmaḥ paśyatāṃ vaḥ kirīṭinā evam eva hato droṇaḥ sarveṣām eva paśyatām 54 evam eva hataḥ karṇaḥ sūtaputraḥ pratāpavān sā rājakānāṃ sarveṣāṃ paśyatāṃ vaḥ kirīṭinā 55 pūrvam evāham ukto vai vidureṇa mahātmanā duryodhanāparādhena prajeyaṃ vinaśiṣyati 56 ke cin na samyak paśyanti mūḍhāḥ samyak tathāpare tad idaṃ mama mūḍhasyā tathā bhūtaṃ vacaḥ sma ha 57 yad abravīn me dharmātmā viduro dīrghadarśivān tat tathā samanuprāptaṃ vacanaṃ satyavādinaḥ 58 daivopahatacittena yan mayāpakṛtaṃ purā anayasya phalaṃ tasya brūhi gāvalgaṇe punaḥ 59 ko vā mukham anīkānām āsīt karṇe nipātite arjunaṃ vāsudevaṃ ca ko vā pratyudyayau rathī 60 ke 'rakṣan dakṣiṇaṃ cakraṃ madrarājasya saṃyuge vāmaṃ ca yoddhukāmasya ke vā vīrasya pṛṣṭhataḥ 61 kathaṃ ca vaḥ sametānāṃ madrarājo mahābalaḥ nihataḥ pāṇḍavaiḥ saṃkhye putro vā mama saṃjaya 62 brūhi sarvaṃ yathātattvaṃ bharatānāṃ mahākṣayam yathā ca nihataḥ saṃkhye putro duryodhano mama 63 pāñcālāś ca yathā sarve nihatāḥ sapadānugāḥ dhṛṣṭadyumnaḥ śikhāṇḍī ca draupadyāḥ pañca cātmajāḥ 64 pāṇḍavāś ca yathā muktās tathobhau sātvatau yudhi kṛpaś ca kṛtavarmā ca bhāradvājasya cātmajaḥ 65 yad yathā yādṛśaṃ caiva yuddhaṃ vṛttaṃ ca sāṃpratam ahilaṃ śrotum icchāmi kuśalo hy asi saṃjaya |
The Mahabharata in Sanskrit
Book 9
Chapter 3
|
1
[स] शृणु राजन्न अवहितॊ यथावृत्तॊ महान कषयः कुरूणां पाण्डवानां च समासाद्य परस्परम 2 निहते सूतपुत्रे तु पाण्डवेन महात्मना विद्रुतेषु च सैन्येषु समानीतेषु चासकृत 3 विमुखे तव पुत्रे तु शॊकॊपहतचेतसि भृशॊद्विग्नेषु सैन्येषु दृष्ट्वा पार्थस्य विक्रमम 4 धयायमानेषु सैन्येषु दुःखं पराप्तेषु भारत बलानां मध्यमानानां शरुत्वा निनदम उत्तमम 5 अभिज्ञानं नरेन्द्राणां विकृतं परेक्ष्य संयुगे पतितान रथनीडांश च रथांश चापि महात्मनाम 6 रणे विनिहतान नागान दृष्ट्वा पत्तींश च मारिष आयॊधनं चातिघॊरं रुद्रस्याक्रीड संनिभम 7 अप्रख्यातिं गतानां तु राज्ञां शतसहस्रशः कृपाविष्टः कृपॊ राजन वयः शीलसमन्वितः 8 अब्रवीत तत्र तेजस्वी सॊ ऽभिसृत्य जनाधिपम दुर्यॊधनं मन्युवशाद वचनं वचनक्षमः 9 दुर्यॊधन निबॊधेदं यत तवा वक्ष्यामि कौरव शरुत्वा कुरु महाराज यदि ते रॊचते ऽनघ 10 न युद्धधर्माच छरेयान वै पन्था राजेन्द्र विद्यते यं समाश्रित्य युध्यन्ते कषत्रियाः कषत्रियर्षभ 11 पुत्रॊ भराता पिता चैव सवस्रेयॊ मातुलस तथा संबन्धिबन्धवाश चैव यॊध्या वै कषत्रजीविना 12 वधे चैव परॊ धर्मस तथाधर्मः पलायने ते सम घॊरां समापन्ना जीविकां जीवितार्थिनः 13 तत्र तवां परतिवक्ष्यामि किं चिद एव हितं वचः हते भीष्मे च दरॊणे च कर्णे चैव महारथे 14 जयद्रथे च निहते तव भरातृषु चानघ लक्ष्मणे तव पुत्रे च किं शेषं पर्युपास्महे 15 येषु भारं समासज्य राज्ये मतिम अकुर्महि ते संत्यज्य तनूर याताः शूरा बरह्म विदां गतिम 16 वयं तव इह विना भूता गुणवद्भिर महारथैः कृपणं वर्तयिष्याम पातयित्वा नृपान बहून 17 सर्वैर अपि च जीवद्भिर बीभत्सुर अपराजितः कृष्ण नेत्रॊ महाबाहुर देवैर अपि दुरासदः 18 इन्द्र कार्मुकवज्राभम इन्द्रकेतुम इवॊच्छ्रितम वानरं केतुम आसाद्य संचचाल महाचमूः 19 सिंहनादेन भीमस्य पाञ्चजन्य सवनेन च गाण्डीवस्य च निर्घॊषात संहृष्यन्ति मनांसि नः 20 चरन्तीव महाविद्युन मुष्णन्ति नयनप्रभाम अलातम इव चाविद्धं गाण्डीवं समदृश्यत 21 जाम्बूनदविचित्रं च धूयमानं महद धनुः दृश्यते दिक्षु सर्वासु विद्युद अभ्रघनेष्व इव 22 उद्यमानश च कृष्णेन वायुनेव बलाहकः तावकं तद बलं राजन्न अर्जुनॊ ऽसत्रविदां वरः गहनं शिशिरे कक्षं ददाहाग्निर इवॊत्थितः 23 गाहमानम अनीकानि महेन्द्रसदृशप्रभम धनंजयम अपश्याम चतुर्दन्तम इव दविपम 24 विक्षॊभयन्तं सेनां ते तरासयन्तं च पार्थिवान धनंजयम अपश्याम नलिनीम इव कुञ्जरम 25 तरासयन्तं तथा यॊधान धनुर घॊषेण पाण्डवम भूय एनम अपश्याम सिंहं मृगगणा इव 26 सर्वलॊकमहेष्वासौ वृषभौ सर्वधन्विनाम आमुक्तकवचौ कृष्णौ लॊकमध्ये विरेजतुः 27 अद्य सप्त दशाहानि वर्तमानस्य भारत संग्रामस्यातिघॊरस्य वध्यतां चाभितॊ युधि 28 वायुनेव विधूतानि तवानीकानि सर्वशः शरद अम्भॊद जालानि वयशीर्यन्त समन्ततः 29 तां नावम इव पर्यस्तां भरान्तवातां महार्णवे तव सेनां महाराज सव्यसाची वयकम्पयत 30 कव नु ते सूतपुत्रॊ ऽभूत कव नु दरॊणः सहानुगः अहं कव च कव चात्मा ते हार्दिक्यश च तथा कव नु दुःशासनश च भराता ते भरातृभिः सहितः कव नु 31 बाणगॊचर संपाप्तं परेक्ष्य चैव जयद्रथम संबन्धिनस ते भरातॄंश च सहायान मातुलांस तथा 32 सर्वान विक्रम्य मिषतॊ लॊकांश चाक्रम्य मूर्धनि जयद्रथॊ हतॊ राजन किं नु शेषम उपास्महे 33 कॊ वेह स पुमान अस्ति यॊ विजेष्यति पाण्डवम तस्य चास्त्राणि दिव्यानि विविधानि महात्मनः गाण्डीवस्य च निर्घॊषॊ वीर्याणि हरते हि नः 34 नष्टचन्द्रा यथा रात्रिः सेनेयं हतनायका नागभग्नद्रुमा शुष्का नदीवाकुलतां गता 35 धवजिन्यां हतनेत्रायां यथेष्टं शवेतवाहनः चरिष्यति महाबाहुः कक्षे ऽगनिर इव संज्वलन 36 सात्यकेश चैव यॊ वेगॊ भीमसेनस्य चॊभयॊः दरयेत गिरीन सर्वाञ शॊषयेत च सागरान 37 उवाच वाक्यं यद भीमः सभामध्ये विशां पते कृतं त सकलं तेन भूयश चैव करिष्यति 38 परमुखस्थे तदा कर्णे बलं पाण्डव रक्षितम दुरासदं तथा गुप्तं गूढं गाण्डीवधन्वना 39 युष्माभिस तानि चीर्णानि यान्य असाहूनि साधुषु अकारणकृतान्य एव तेषां वः फलम आगतम 40 आत्मनॊ ऽरथे तवया लॊकॊ यत्नतः सर्व आहृतः स ते संशयितस तात आत्मा च भरतर्षभ 41 रक्ष दुर्यॊधनात्मानम आत्मा सर्वस्य भाजनम भिन्ने हि भाजने तात दिशॊ गच्छति तद्गतम 42 हीयमानेन वै संधिः पर्येष्टव्यः समेन च विग्रहॊ वर्धमानेन नीतिर एषा बृहस्पतेः 43 ते वयं पाण्डुपुत्रेभ्यॊ हीनाः सवबलशक्तितः अत्र ते पाण्डवैः सार्धं संधिं मन्ये कषमं परभॊ 44 न जानीते हि यः शरेयः शरेयसश चावमन्यते स कषिप्रं भरश्यते राज्यान न च शरेयॊ ऽनुविन्दति 45 परणिपत्य हि राजानं राज्यं यदि लभेमहि शरेयः सयान न तु मौढ्येन राजन गन्तुं पराभवम 46 वैचित्रवीर्य वचनात कृपा शील्लॊ युधिष्ठिरः विनियुञ्जीत राज्ये तवां गॊविन्द वचनेन च 47 यद बरूयाद धि हृषीकेशॊ राजानम अपराजितम अर्जुनं भीमसेनं च सर्वं कुर्युर असंशयम 48 नातिक्रमिष्यते कृष्णॊ वचनं कौरवस्य ह धृतराष्ट्रस्य मन्ये ऽहं नापि कृष्णस्य पाण्डवः 49 एतत कषमम अहं मन्ये तव पार्थैर अविग्रहम न तव बरवीमि कार्पण्यान न पराणपरिरक्षणात पथ्यं राजन बरवीमि तवां तत्परासुः समरिष्यसि 50 इति वृद्धॊ विलप्यैतत कृपः शारद्वतॊ वचः दीर्घम उष्णं च निःश्वस्य शुशॊच च मुमॊह च |
1
[s] śṛṇu rājann avahito yathāvṛtto mahān kṣayaḥ kurūṇāṃ pāṇḍavānāṃ ca samāsādya parasparam 2 nihate sūtaputre tu pāṇḍavena mahātmanā vidruteṣu ca sainyeṣu samānīteṣu cāsakṛt 3 vimukhe tava putre tu śokopahatacetasi bhṛśodvigneṣu sainyeṣu dṛṣṭvā pārthasya vikramam 4 dhyāyamāneṣu sainyeṣu duḥkhaṃ prāpteṣu bhārata balānāṃ madhyamānānāṃ śrutvā ninadam uttamam 5 abhijñānaṃ narendrāṇāṃ vikṛtaṃ prekṣya saṃyuge patitān rathanīḍāṃś ca rathāṃś cāpi mahātmanām 6 raṇe vinihatān nāgān dṛṣṭvā pattīṃś ca māriṣa āyodhanaṃ cātighoraṃ rudrasyākrīḍa saṃnibham 7 aprakhyātiṃ gatānāṃ tu rājñāṃ śatasahasraśaḥ kṛpāviṣṭaḥ kṛpo rājan vayaḥ śīlasamanvitaḥ 8 abravīt tatra tejasvī so 'bhisṛtya janādhipam duryodhanaṃ manyuvaśād vacanaṃ vacanakṣamaḥ 9 duryodhana nibodhedaṃ yat tvā vakṣyāmi kaurava śrutvā kuru mahārāja yadi te rocate 'nagha 10 na yuddhadharmāc chreyān vai panthā rājendra vidyate yaṃ samāśritya yudhyante kṣatriyāḥ kṣatriyarṣabha 11 putro bhrātā pitā caiva svasreyo mātulas tathā saṃbandhibandhavāś caiva yodhyā vai kṣatrajīvinā 12 vadhe caiva paro dharmas tathādharmaḥ palāyane te sma ghorāṃ samāpannā jīvikāṃ jīvitārthinaḥ 13 tatra tvāṃ prativakṣyāmi kiṃ cid eva hitaṃ vacaḥ hate bhīṣme ca droṇe ca karṇe caiva mahārathe 14 jayadrathe ca nihate tava bhrātṛṣu cānagha lakṣmaṇe tava putre ca kiṃ śeṣaṃ paryupāsmahe 15 yeṣu bhāraṃ samāsajya rājye matim akurmahi te saṃtyajya tanūr yātāḥ śūrā brahma vidāṃ gatim 16 vayaṃ tv iha vinā bhūtā guṇavadbhir mahārathaiḥ kṛpaṇaṃ vartayiṣyāma pātayitvā nṛpān bahūn 17 sarvair api ca jīvadbhir bībhatsur aparājitaḥ kṛṣṇa netro mahābāhur devair api durāsadaḥ 18 indra kārmukavajrābham indraketum ivocchritam vānaraṃ ketum āsādya saṃcacāla mahācamūḥ 19 siṃhanādena bhīmasya pāñcajanya svanena ca gāṇḍīvasya ca nirghoṣāt saṃhṛṣyanti manāṃsi naḥ 20 carantīva mahāvidyun muṣṇanti nayanaprabhām alātam iva cāviddhaṃ gāṇḍīvaṃ samadṛśyata 21 jāmbūnadavicitraṃ ca dhūyamānaṃ mahad dhanuḥ dṛśyate dikṣu sarvāsu vidyud abhraghaneṣv iva 22 udyamānaś ca kṛṣṇena vāyuneva balāhakaḥ tāvakaṃ tad balaṃ rājann arjuno 'stravidāṃ varaḥ gahanaṃ śiśire kakṣaṃ dadāhāgnir ivotthitaḥ 23 gāhamānam anīkāni mahendrasadṛśaprabham dhanaṃjayam apaśyāma caturdantam iva dvipam 24 vikṣobhayantaṃ senāṃ te trāsayantaṃ ca pārthivān dhanaṃjayam apaśyāma nalinīm iva kuñjaram 25 trāsayantaṃ tathā yodhān dhanur ghoṣeṇa pāṇḍavam bhūya enam apaśyāma siṃhaṃ mṛgagaṇā iva 26 sarvalokamaheṣvāsau vṛṣabhau sarvadhanvinām āmuktakavacau kṛṣṇau lokamadhye virejatuḥ 27 adya sapta daśāhāni vartamānasya bhārata saṃgrāmasyātighorasya vadhyatāṃ cābhito yudhi 28 vāyuneva vidhūtāni tavānīkāni sarvaśaḥ śarad ambhoda jālāni vyaśīryanta samantataḥ 29 tāṃ nāvam iva paryastāṃ bhrāntavātāṃ mahārṇave tava senāṃ mahārāja savyasācī vyakampayat 30 kva nu te sūtaputro 'bhūt kva nu droṇaḥ sahānugaḥ ahaṃ kva ca kva cātmā te hārdikyaś ca tathā kva nu duḥśāsanaś ca bhrātā te bhrātṛbhiḥ sahitaḥ kva nu 31 bāṇagocara saṃpāptaṃ prekṣya caiva jayadratham saṃbandhinas te bhrātṝṃś ca sahāyān mātulāṃs tathā 32 sarvān vikramya miṣato lokāṃś cākramya mūrdhani jayadratho hato rājan kiṃ nu śeṣam upāsmahe 33 ko veha sa pumān asti yo vijeṣyati pāṇḍavam tasya cāstrāṇi divyāni vividhāni mahātmanaḥ gāṇḍīvasya ca nirghoṣo vīryāṇi harate hi naḥ 34 naṣṭacandrā yathā rātriḥ seneyaṃ hatanāyakā nāgabhagnadrumā śuṣkā nadīvākulatāṃ gatā 35 dhvajinyāṃ hatanetrāyāṃ yatheṣṭaṃ śvetavāhanaḥ cariṣyati mahābāhuḥ kakṣe 'gnir iva saṃjvalan 36 sātyakeś caiva yo vego bhīmasenasya cobhayoḥ darayeta girīn sarvāñ śoṣayeta ca sāgarān 37 uvāca vākyaṃ yad bhīmaḥ sabhāmadhye viśāṃ pate kṛtaṃ ta sakalaṃ tena bhūyaś caiva kariṣyati 38 pramukhasthe tadā karṇe balaṃ pāṇḍava rakṣitam durāsadaṃ tathā guptaṃ gūḍhaṃ gāṇḍīvadhanvanā 39 yuṣmābhis tāni cīrṇāni yāny asāhūni sādhuṣu akāraṇakṛtāny eva teṣāṃ vaḥ phalam āgatam 40 ātmano 'rthe tvayā loko yatnataḥ sarva āhṛtaḥ sa te saṃśayitas tāta ātmā ca bharatarṣabha 41 rakṣa duryodhanātmānam ātmā sarvasya bhājanam bhinne hi bhājane tāta diśo gacchati tadgatam 42 hīyamānena vai saṃdhiḥ paryeṣṭavyaḥ samena ca vigraho vardhamānena nītir eṣā bṛhaspateḥ 43 te vayaṃ pāṇḍuputrebhyo hīnāḥ svabalaśaktitaḥ atra te pāṇḍavaiḥ sārdhaṃ saṃdhiṃ manye kṣamaṃ prabho 44 na jānīte hi yaḥ śreyaḥ śreyasaś cāvamanyate sa kṣipraṃ bhraśyate rājyān na ca śreyo 'nuvindati 45 praṇipatya hi rājānaṃ rājyaṃ yadi labhemahi śreyaḥ syān na tu mauḍhyena rājan gantuṃ parābhavam 46 vaicitravīrya vacanāt kṛpā śīllo yudhiṣṭhiraḥ viniyuñjīta rājye tvāṃ govinda vacanena ca 47 yad brūyād dhi hṛṣīkeśo rājānam aparājitam arjunaṃ bhīmasenaṃ ca sarvaṃ kuryur asaṃśayam 48 nātikramiṣyate kṛṣṇo vacanaṃ kauravasya ha dhṛtarāṣṭrasya manye 'haṃ nāpi kṛṣṇasya pāṇḍavaḥ 49 etat kṣamam ahaṃ manye tava pārthair avigraham na tva bravīmi kārpaṇyān na prāṇaparirakṣaṇāt pathyaṃ rājan bravīmi tvāṃ tatparāsuḥ smariṣyasi 50 iti vṛddho vilapyaitat kṛpaḥ śāradvato vacaḥ dīrgham uṣṇaṃ ca niḥśvasya śuśoca ca mumoha ca |
The Mahabharata in Sanskrit
Book 9
Chapter 4
|
1
[स] एवम उक्तॊ ऽतॊ राजा गौतमेन यशस्विना निःश्वस्य दीर्घम उष्णं च तूष्णीम आसीद विशां पते 2 ततॊ मुहूर्तं स धयात्वा धार्तराष्ट्रॊ महामनाः कृपं शारद्वतं वाक्यम इत्य उवाच परंतपः 3 यत किं चित सुहृदा वाच्यं तत सर्वं शरावितॊ हय अहम कृतं च भवता सर्वं पराणान संत्यज्य युध्यता 4 गाहमानम अनीकानि युध्यमानं महारथैः पाण्डवैर अतितेजॊभिर लॊकस तवाम अनुदृष्टवान 5 सुहृदा यद इदं वाच्यं भवता शरावितॊ हय अहम न मां परीणाति तत सर्वं मुमूर्षॊर इव भेषजम 6 हेतुकारण संयुक्तं हितं वचनम उत्तमम उच्यमानं महाबाहॊ न मे विप्राग्र्य रॊच्चते 7 राज्याद विनिकृतॊ ऽसमाभिः कथं सॊ ऽसमासु विश्वसेत अक्षद्यूते च नृपतिर जितॊ ऽसमाभिर महाधनः स कथं मम वाक्यानि शरद्दध्याद भूय एव तु 8 तथा दौत्येन संप्राप्तः कृष्णः पार्थ हिते रतः परलब्धश च हृषीकेशस तच च कर्म विरॊधितम स च मे वचनं बरह्मन कथम एवाभिमंस्यते 9 विललाप हि यत कृष्णा सभामध्ये समेयुषी न तन मर्षयते कृष्णॊ न राज्यहरणं तथा 10 एकप्राणाव उभौ कृष्णाव अन्यॊन्यं परति संहतौ पुरा यच छरुतम एवासीद अद्य पश्यामितत परभॊ 11 सवस्रीयं च हतं शरुत्वा दुःखस्वपिति केशवः कृतागसॊ वयं तस्य स मदर्थं कथं कषमेत 12 अभिमन्यॊर विनाशेन न शर्म लभते ऽरजुनः स कथं मद धिते यत्नं परकरिष्यति याचितः 13 मध्यमः पाण्डवस तीक्ष्णॊ भीमसेनॊ महाबलः परतिज्ञात्म च तेनॊग्रं स भाज्येत न संनमेत 14 उभौ तौ बद्धनिस्त्रिंशाव उभौ चाबद्ध कङ्कटौ कृतवैराव उभौ वीरौ यमाव अपि यमॊपमौ 15 धृष्टद्युम्नः शिखण्डी च कृतवैरौ मया सह तौ कथं मद धिते यत्नं परकुर्यातां दविजॊत्तम 16 दुःशासनेन यत कृष्णा एकवस्त्रा रजस्वला परिक्लिष्टा सभामध्ये सर्वलॊकस्य पश्यतः 17 तथा विवसनां दीनां समरन्त्य अद्यापि पाण्डवाः न निवारयितुं शक्याः संग्रामात ते परंतपाः 18 यदा च दरौपदी कृष्णा मद विनाशाय दुःखिता उग्रं तेपे तपः कृष्णा भर्तॄणाम अर्थसिद्धये सथण्डिले नित्यदा शेते यावद वैरस्य यातना 19 निक्षिप्य मानं दर्पं च वासुदेव सहॊदरा कृष्णायाः परेक्ष्यवद भूत्वा शुश्रूषां कुरुते सदा 20 इति सर्वं समुन्नद्धं न निर्वाति कथं चन अभिमन्यॊर विनाशेन स संधेयः कथं मया 21 कथं च नाम भुक्त्वेमां पृथिवीं सागराम्बराम पाण्डवानां परसादेन भुञ्जीयां राज्यम अल्पकम 22 उपर्य उपरि राज्ञां वै जवलितॊ भास्करॊ यथा युधिष्ठिरं कथं पश्चाद अनुयास्यामि दासवत 23 कथं भुक्त्वा सवयं भॊगान दत्त्वा दायांश च पुष्कलान कृपणं वर्तयिष्यामि कृपणैः सह जीविकाम 24 नाभ्यसूयामि ते वाक्यम उक्तं सनिग्धं हितं तवया न तु संधिम अहं मन्ये पराप्तकालं कथं चन 25 सुनीतम अनुपश्यामि सुयुद्धेन परंतप नायं कलीबयितुं कालः संयॊद्धुं काल एव नः 26 इष्टं मे बहुभिर यज्ञैर दत्ता विप्रेषु दक्ष्णिणाः पराप्ताः करमश्रुता वेदाः शत्रूणां मूर्ध्नि च सथितम 27 भृत्यमे सुभृतास तात दीनश चाभ्युद्धृतॊ जनः यातानि परराष्ट्राणि सवराष्ट्रम अनुपालितम 28 भुक्ताश च विविधा भॊगास तरिवर्गः सेवितॊ मया पितॄणां गतम आनृण्यं कषत्रधर्मस्य चॊभयॊः 29 न धरुवं सुखम अस्तीह कुतॊ राज्यं कुतॊ यशः इह कीर्तिर विधातव्या सा च युद्धेन नान्यथा 30 गृहे यत कषत्रियस्यापि निधनं तद विगर्हितम अधर्मः सुमहान एष यच छय्या मरणं गृहे 31 अरण्ये यॊ विमुञ्चेत संग्रामे वा तनुं नरः करतून आहृत्य महतॊ महिमानं स गच्छति 32 कृपणं विपलन्न आर्तॊ जरयाभिपरिप्लुतः मरियते रुदतां मध्ये जञातीनां न स पूरुषः 33 तयक्त्वा तु विविधान भॊगान पराप्तानां मरमां गतिम अपीदानीं सुयुद्धेन गच्छेयं सत सलॊकताम 34 शूराणाम आर्य वृत्तानां संग्रमेष्व अनिवर्तिनाम धीमतां सत्यसंधानां सर्वेषां करतुयाजिनाम 35 शस्त्रावभृथम आप्तानां धरुवं वासस तरिविष्टपे मुदा नूनं परपश्यन्ति शुभ्रा हय अप्सरसां गणाः 36 पश्यन्ति नूनं पितरः पूजिताञ शक्र संसदि अप्सरॊभिः परिवृतान मॊदमानांस तरिविष्टपे 37 पन्थानम अमरैर यातं शूरैश चैवानिवर्तिभिः अपि तैः संगतं मार्गं वयम अप्य आरुहेमहि 38 पितामहेन वृद्धेन तथाचर्येण धीमता जयद्रथेन कर्णेन तथा दुःशासनेन च 39 घटमाना मदर्थे ऽसमिन हताः शूरा जनाधिपाः शेरते लॊहिताक्ताङ्गाः पृथिव्यां शरविक्षताः 40 उत्तमास्त्रविदः शूरा यथॊक्तक्रतुयाजिनः तयक्त्वा पराणान यथान्यायम इन्द्र सद्मसु धिष्ठिताः 41 तैस तव अयं रचितः पन्था दुर्गमॊ हि पुनर भवेत संपतद्भिर महावेगैर इतॊ याद्भिश च सद गतिम 42 ये मदर्थे हताः शूरास तेषां कृतम अनुस्मरन ऋणं तत परतिमुञ्चानॊ न राज्ये मन आदधे 43 पातयित्वा वयस्यांश च भरातॄन अथ पितामहान जीवितं यदि रक्षेयं लॊकॊ मां गर्हयेद धरुवम 44 कीदृशं च भवेद राज्यं मम हीनस्य बन्धुभिः सखिभिश च सुहृद्भिश च परणिपत्य च पाण्डवम 45 सॊ ऽहम एतादृशं कृत्वा जगतॊ ऽसय पराभवम सुयुद्धेन ततः सवर्गं पराप्स्यामि न तद अन्यथा 46 एवं दुर्यॊधनेनॊक्तं सर्वे संपूज्य तद वचः साधु साध्व इति राजानं कषत्रियाः संबभाषिरे 47 पराजयम अशॊचन्तः कृतचित्ताश च विक्रमे सर्वे सुनिश्चिता यॊद्धुम उदग्रमनसॊ ऽभवन 48 ततॊ वाहान समाश्वास्य सर्वे युद्धाभिनन्दिनः ऊने दवियॊजने गत्वा परत्यतिष्ठन्त कौरवाः 49 आकाशे विद्रुमे पुण्ये परस्थे हिमवतः शुभे अरुणां सरस्वतीं पराप्य पपुः सस्नुश च तज जलम 50 तव पुत्राः कृतॊत्साहाः पर्यवर्तन्त ते ततः पर्यवस्थाप्य चात्मानम अन्यॊन्येन पुनस तदा सर्वे राजन नयवर्तन्त कषत्रियाः कालचॊदिताः |
1
[s] evam ukto 'to rājā gautamena yaśasvinā niḥśvasya dīrgham uṣṇaṃ ca tūṣṇīm āsīd viśāṃ pate 2 tato muhūrtaṃ sa dhyātvā dhārtarāṣṭro mahāmanāḥ kṛpaṃ śāradvataṃ vākyam ity uvāca paraṃtapaḥ 3 yat kiṃ cit suhṛdā vācyaṃ tat sarvaṃ śrāvito hy aham kṛtaṃ ca bhavatā sarvaṃ prāṇān saṃtyajya yudhyatā 4 gāhamānam anīkāni yudhyamānaṃ mahārathaiḥ pāṇḍavair atitejobhir lokas tvām anudṛṣṭavān 5 suhṛdā yad idaṃ vācyaṃ bhavatā śrāvito hy aham na māṃ prīṇāti tat sarvaṃ mumūrṣor iva bheṣajam 6 hetukāraṇa saṃyuktaṃ hitaṃ vacanam uttamam ucyamānaṃ mahābāho na me viprāgrya roccate 7 rājyād vinikṛto 'smābhiḥ kathaṃ so 'smāsu viśvaset akṣadyūte ca nṛpatir jito 'smābhir mahādhanaḥ sa kathaṃ mama vākyāni śraddadhyād bhūya eva tu 8 tathā dautyena saṃprāptaḥ kṛṣṇaḥ pārtha hite rataḥ pralabdhaś ca hṛṣīkeśas tac ca karma virodhitam sa ca me vacanaṃ brahman katham evābhimaṃsyate 9 vilalāpa hi yat kṛṣṇā sabhāmadhye sameyuṣī na tan marṣayate kṛṣṇo na rājyaharaṇaṃ tathā 10 ekaprāṇāv ubhau kṛṣṇāv anyonyaṃ prati saṃhatau purā yac chrutam evāsīd adya paśyāmitat prabho 11 svasrīyaṃ ca hataṃ śrutvā duḥkhasvapiti keśavaḥ kṛtāgaso vayaṃ tasya sa madarthaṃ kathaṃ kṣamet 12 abhimanyor vināśena na śarma labhate 'rjunaḥ sa kathaṃ mad dhite yatnaṃ prakariṣyati yācitaḥ 13 madhyamaḥ pāṇḍavas tīkṣṇo bhīmaseno mahābalaḥ pratijñātma ca tenograṃ sa bhājyeta na saṃnamet 14 ubhau tau baddhanistriṃśāv ubhau cābaddha kaṅkaṭau kṛtavairāv ubhau vīrau yamāv api yamopamau 15 dhṛṣṭadyumnaḥ śikhaṇḍī ca kṛtavairau mayā saha tau kathaṃ mad dhite yatnaṃ prakuryātāṃ dvijottama 16 duḥśāsanena yat kṛṣṇā ekavastrā rajasvalā parikliṣṭā sabhāmadhye sarvalokasya paśyataḥ 17 tathā vivasanāṃ dīnāṃ smaranty adyāpi pāṇḍavāḥ na nivārayituṃ śakyāḥ saṃgrāmāt te paraṃtapāḥ 18 yadā ca draupadī kṛṣṇā mad vināśāya duḥkhitā ugraṃ tepe tapaḥ kṛṣṇā bhartṝṇām arthasiddhaye sthaṇḍile nityadā śete yāvad vairasya yātanā 19 nikṣipya mānaṃ darpaṃ ca vāsudeva sahodarā kṛṣṇāyāḥ prekṣyavad bhūtvā śuśrūṣāṃ kurute sadā 20 iti sarvaṃ samunnaddhaṃ na nirvāti kathaṃ cana abhimanyor vināśena sa saṃdheyaḥ kathaṃ mayā 21 kathaṃ ca nāma bhuktvemāṃ pṛthivīṃ sāgarāmbarām pāṇḍavānāṃ prasādena bhuñjīyāṃ rājyam alpakam 22 upary upari rājñāṃ vai jvalito bhāskaro yathā yudhiṣṭhiraṃ kathaṃ paścād anuyāsyāmi dāsavat 23 kathaṃ bhuktvā svayaṃ bhogān dattvā dāyāṃś ca puṣkalān kṛpaṇaṃ vartayiṣyāmi kṛpaṇaiḥ saha jīvikām 24 nābhyasūyāmi te vākyam uktaṃ snigdhaṃ hitaṃ tvayā na tu saṃdhim ahaṃ manye prāptakālaṃ kathaṃ cana 25 sunītam anupaśyāmi suyuddhena paraṃtapa nāyaṃ klībayituṃ kālaḥ saṃyoddhuṃ kāla eva naḥ 26 iṣṭaṃ me bahubhir yajñair dattā vipreṣu dakṣṇiṇāḥ prāptāḥ kramaśrutā vedāḥ śatrūṇāṃ mūrdhni ca sthitam 27 bhṛtyame subhṛtās tāta dīnaś cābhyuddhṛto janaḥ yātāni pararāṣṭrāṇi svarāṣṭram anupālitam 28 bhuktāś ca vividhā bhogās trivargaḥ sevito mayā pitṝṇāṃ gatam ānṛṇyaṃ kṣatradharmasya cobhayoḥ 29 na dhruvaṃ sukham astīha kuto rājyaṃ kuto yaśaḥ iha kīrtir vidhātavyā sā ca yuddhena nānyathā 30 gṛhe yat kṣatriyasyāpi nidhanaṃ tad vigarhitam adharmaḥ sumahān eṣa yac chayyā maraṇaṃ gṛhe 31 araṇye yo vimuñceta saṃgrāme vā tanuṃ naraḥ kratūn āhṛtya mahato mahimānaṃ sa gacchati 32 kṛpaṇaṃ vipalann ārto jarayābhipariplutaḥ mriyate rudatāṃ madhye jñātīnāṃ na sa pūruṣaḥ 33 tyaktvā tu vividhān bhogān prāptānāṃ maramāṃ gatim apīdānīṃ suyuddhena gaccheyaṃ sat salokatām 34 śūrāṇām ārya vṛttānāṃ saṃgrameṣv anivartinām dhīmatāṃ satyasaṃdhānāṃ sarveṣāṃ kratuyājinām 35 śastrāvabhṛtham āptānāṃ dhruvaṃ vāsas triviṣṭape mudā nūnaṃ prapaśyanti śubhrā hy apsarasāṃ gaṇāḥ 36 paśyanti nūnaṃ pitaraḥ pūjitāñ śakra saṃsadi apsarobhiḥ parivṛtān modamānāṃs triviṣṭape 37 panthānam amarair yātaṃ śūraiś caivānivartibhiḥ api taiḥ saṃgataṃ mārgaṃ vayam apy āruhemahi 38 pitāmahena vṛddhena tathācaryeṇa dhīmatā jayadrathena karṇena tathā duḥśāsanena ca 39 ghaṭamānā madarthe 'smin hatāḥ śūrā janādhipāḥ śerate lohitāktāṅgāḥ pṛthivyāṃ śaravikṣatāḥ 40 uttamāstravidaḥ śūrā yathoktakratuyājinaḥ tyaktvā prāṇān yathānyāyam indra sadmasu dhiṣṭhitāḥ 41 tais tv ayaṃ racitaḥ panthā durgamo hi punar bhavet saṃpatadbhir mahāvegair ito yādbhiś ca sad gatim 42 ye madarthe hatāḥ śūrās teṣāṃ kṛtam anusmaran ṛṇaṃ tat pratimuñcāno na rājye mana ādadhe 43 pātayitvā vayasyāṃś ca bhrātṝn atha pitāmahān jīvitaṃ yadi rakṣeyaṃ loko māṃ garhayed dhruvam 44 kīdṛśaṃ ca bhaved rājyaṃ mama hīnasya bandhubhiḥ sakhibhiś ca suhṛdbhiś ca praṇipatya ca pāṇḍavam 45 so 'ham etādṛśaṃ kṛtvā jagato 'sya parābhavam suyuddhena tataḥ svargaṃ prāpsyāmi na tad anyathā 46 evaṃ duryodhanenoktaṃ sarve saṃpūjya tad vacaḥ sādhu sādhv iti rājānaṃ kṣatriyāḥ saṃbabhāṣire 47 parājayam aśocantaḥ kṛtacittāś ca vikrame sarve suniścitā yoddhum udagramanaso 'bhavan 48 tato vāhān samāśvāsya sarve yuddhābhinandinaḥ ūne dviyojane gatvā pratyatiṣṭhanta kauravāḥ 49 ākāśe vidrume puṇye prasthe himavataḥ śubhe aruṇāṃ sarasvatīṃ prāpya papuḥ sasnuś ca taj jalam 50 tava putrāḥ kṛtotsāhāḥ paryavartanta te tataḥ paryavasthāpya cātmānam anyonyena punas tadā sarve rājan nyavartanta kṣatriyāḥ kālacoditāḥ |
The Mahabharata in Sanskrit
Book 9
Chapter 5
|
1
[स] अथ हैमवते परस्थे सथित्वा युद्धाभिनन्दिनः सर्व एव महाराज यॊधास तत्र समागताः 2 शल्यश च चित्रसेनश च शकुनिश च महारथः अश्वत्थामा कृपश चैव कृतवर्मा च सात्वतः 3 सुषेणॊ ऽरिष्टसेनश च धृतसेनश च वीर्यवान जयत्सेनश च राजानस ते रात्रिम उषितास ततः 4 रणे कर्णे हते वीरे तरासिता जितकाशिभिः नालभञ शर्म ते पुत्रा हिमवन्तम ऋते गिरिम 5 ते ऽबरुवन सहितास तत्र राजानं सैन्यसंनिधौ कृतयत्ना रणे राजन साम्पूज्य विधिवत तदा 6 कृत्वा सेना परणेतारं परांस तवं यॊद्धुम अर्हसि येनाभिगुप्ताः संग्रामे जयेमासु हृदॊ वयम 7 ततॊ दुर्यॊधनः सथित्वा रणे रथवरॊत्तमम सर्वयुद्धविभागज्ञम अन्तकप्रतिमं युधि 8 सवङ्गं परच्छन्नशिरसं कम्बुग्रीवं परियंवदम वयाकॊशपद्माभिमुखं वयाघ्रास्यं मेरुगौरवम 9 सथाणॊर वृषस्य सदृशं सकन्धनेत्र गतिस्वरैः पुष्टश्लिष्टायत भुजं सुविस्तीर्ण घनॊरसम 10 जवे बले च सदृशम अरुणानुज वातयॊः आदित्यस्य तविषा तुल्यं बुद्ध्या चॊशनसा समम 11 कान्ति रूपमुखैश्वर्यैस तरिभिश चन्द्रमसॊपमम काञ्चनॊपल संघातैः सदृशं शलिष्टसंधिकम 12 सुवृत्तॊरु कटी जङ्घं सुपादं सवङ्गुलीनखम समृत्वा समृत्वैव च गुणान धात्रा यत्नाद विनिर्मितम 13 सर्वलक्षणसंपन्नं निपुणं शरुतिसागरम जेतारं तरसारीणाम अजेयं शत्रुभिर बलात 14 दशाङ्गं यश चतुष्पादम इष्वस्त्रं वेद तत्त्वतः साङ्गंश च चतुरॊ वेदान सम्यग आख्यान पञ्चमान 15 आराध्य तर्यम्बलं यत्नाद वरतैर उग्रैर महातपाः अयॊनिजायाम उत्पन्नॊ दरॊणेनायॊनिजेन यः 16 तम अप्रतिमकर्माणं रूपेणासदृशं भुवि पारगं सर्वविद्यानां गुणार्णवम अनिन्दितम तम अभ्येत्यात्मजस तुभ्यम अश्वत्थामानम अब्रवीत 17 यं पुरसः कृत्यसहिता युधि जेष्याम पाण्डवान गुरुपुत्रॊ ऽदय सर्वेषाम अस्माकं परमा गतिः भवांस तस्मान नियॊगात ते कॊ ऽसतु सेनापतिर मम 18 [दरुणि] अयं कुलेन वीर्येण तेजसा यशसा शरिया सर्वैर गुणैः समुदितः शल्यॊ नॊ ऽसतु चमूपतिः 19 भागिनेयान निजांस तयक्त्वा कृतज्ञॊ ऽसमान उपागतः महासेनॊ महाबाहुर महासेन इवापरः 20 एनं सेनापतिं कृत्वा नृपतिं नृपसत्तम शक्यः पराप्तुं जयॊ ऽसमाभिर देवैः सकन्दम इवाजितम 21 तथॊक्ते दरॊणपुत्रेण सर्व एव नराधिपाः परिवार्य सथिताः शल्यं जयशब्दांश च चक्रिरे युद्धाय च मतिं चक्रूर आवेशं च परं ययुः 22 ततॊ दुर्यॊधनः शल्यं भूमौ सथित्वा रथे सथितम उवाच पराञ्जलिर भूत्वा राम भीष्म समं रणे 23 अयं स कालः संप्राप्तॊ मित्राणां मित्रवत्सल यत्र मित्रम अमित्रं वा परीक्षन्ते बुधा जनाः 24 स भवान अस्तु नः शूरः परणेता वाहिनीमुखे रणं च याते भवति पाण्डवा मन्दचेतसः भविष्यन्ति सहामात्याः पाञ्चालाश च निरुद्यमाः 25 [षल्य] यत तु मां मन्यसे राजन कुरुराज करॊमि तत तवत्प्रियार्थं हि मे सर्वं पराणा राज्यं धनानि च 26 [दुर] सेनापत्येन वरये तवाम अहं मातुलातुलम सॊ ऽसमान पाहि युधां शरेष्ठ सकान्दॊ देवान इवाहवे 27 अभिषिच्यस्व राजेन्द्र देवानाम इव पावकिः जहि शत्रून रणे वीर महेन्द्रॊ दानवान इव |
1
[s] atha haimavate prasthe sthitvā yuddhābhinandinaḥ sarva eva mahārāja yodhās tatra samāgatāḥ 2 śalyaś ca citrasenaś ca śakuniś ca mahārathaḥ aśvatthāmā kṛpaś caiva kṛtavarmā ca sātvataḥ 3 suṣeṇo 'riṣṭasenaś ca dhṛtasenaś ca vīryavān jayatsenaś ca rājānas te rātrim uṣitās tataḥ 4 raṇe karṇe hate vīre trāsitā jitakāśibhiḥ nālabhañ śarma te putrā himavantam ṛte girim 5 te 'bruvan sahitās tatra rājānaṃ sainyasaṃnidhau kṛtayatnā raṇe rājan sāmpūjya vidhivat tadā 6 kṛtvā senā praṇetāraṃ parāṃs tvaṃ yoddhum arhasi yenābhiguptāḥ saṃgrāme jayemāsu hṛdo vayam 7 tato duryodhanaḥ sthitvā raṇe rathavarottamam sarvayuddhavibhāgajñam antakapratimaṃ yudhi 8 svaṅgaṃ pracchannaśirasaṃ kambugrīvaṃ priyaṃvadam vyākośapadmābhimukhaṃ vyāghrāsyaṃ merugauravam 9 sthāṇor vṛṣasya sadṛśaṃ skandhanetra gatisvaraiḥ puṣṭaśliṣṭāyata bhujaṃ suvistīrṇa ghanorasam 10 jave bale ca sadṛśam aruṇānuja vātayoḥ ādityasya tviṣā tulyaṃ buddhyā cośanasā samam 11 kānti rūpamukhaiśvaryais tribhiś candramasopamam kāñcanopala saṃghātaiḥ sadṛśaṃ śliṣṭasaṃdhikam 12 suvṛttoru kaṭī jaṅghaṃ supādaṃ svaṅgulīnakham smṛtvā smṛtvaiva ca guṇān dhātrā yatnād vinirmitam 13 sarvalakṣaṇasaṃpannaṃ nipuṇaṃ śrutisāgaram jetāraṃ tarasārīṇām ajeyaṃ śatrubhir balāt 14 daśāṅgaṃ yaś catuṣpādam iṣvastraṃ veda tattvataḥ sāṅgaṃś ca caturo vedān samyag ākhyāna pañcamān 15 ārādhya tryambalaṃ yatnād vratair ugrair mahātapāḥ ayonijāyām utpanno droṇenāyonijena yaḥ 16 tam apratimakarmāṇaṃ rūpeṇāsadṛśaṃ bhuvi pāragaṃ sarvavidyānāṃ guṇārṇavam aninditam tam abhyetyātmajas tubhyam aśvatthāmānam abravīt 17 yaṃ purasḥ kṛtyasahitā yudhi jeṣyāma pāṇḍavān guruputro 'dya sarveṣām asmākaṃ paramā gatiḥ bhavāṃs tasmān niyogāt te ko 'stu senāpatir mama 18 [druaṇi] ayaṃ kulena vīryeṇa tejasā yaśasā śriyā sarvair guṇaiḥ samuditaḥ śalyo no 'stu camūpatiḥ 19 bhāgineyān nijāṃs tyaktvā kṛtajño 'smān upāgataḥ mahāseno mahābāhur mahāsena ivāparaḥ 20 enaṃ senāpatiṃ kṛtvā nṛpatiṃ nṛpasattama śakyaḥ prāptuṃ jayo 'smābhir devaiḥ skandam ivājitam 21 tathokte droṇaputreṇa sarva eva narādhipāḥ parivārya sthitāḥ śalyaṃ jayaśabdāṃś ca cakrire yuddhāya ca matiṃ cakrūr āveśaṃ ca paraṃ yayuḥ 22 tato duryodhanaḥ śalyaṃ bhūmau sthitvā rathe sthitam uvāca prāñjalir bhūtvā rāma bhīṣma samaṃ raṇe 23 ayaṃ sa kālaḥ saṃprāpto mitrāṇāṃ mitravatsala yatra mitram amitraṃ vā parīkṣante budhā janāḥ 24 sa bhavān astu naḥ śūraḥ praṇetā vāhinīmukhe raṇaṃ ca yāte bhavati pāṇḍavā mandacetasaḥ bhaviṣyanti sahāmātyāḥ pāñcālāś ca nirudyamāḥ 25 [ṣalya] yat tu māṃ manyase rājan kururāja karomi tat tvatpriyārthaṃ hi me sarvaṃ prāṇā rājyaṃ dhanāni ca 26 [dur] senāpatyena varaye tvām ahaṃ mātulātulam so 'smān pāhi yudhāṃ śreṣṭha skāndo devān ivāhave 27 abhiṣicyasva rājendra devānām iva pāvakiḥ jahi śatrūn raṇe vīra mahendro dānavān iva |
The Mahabharata in Sanskrit
Book 9
Chapter 6
|
1
[स] एतच छरुत्वा वचॊ राज्ञॊ मद्रराजः परतापवान दुर्यॊधनं तदा राजन वाक्यम एतद उवाच ह 2 दुर्यॊधन महाबाहॊ शृणु वाक्यविदां वर याव एतौ मन्यसे कृष्णौ रथस्थौ रथिनां वरौ न मे तुल्याव उभाव एतौ बाहुवीर्ये कथं चन 3 उद्यतां पृथिवीं सर्वां ससुरासुरमानवाम यॊधयेयं रणमुखे संक्रुद्धः किम उ पाण्डवान विजेष्ये च रणे पार्थान सॊमकांश च समागतान 4 अहं सेना परणेता ते भविष्यामि न संशयः तं च वयूहं विधास्यामि न तरिष्यन्ति यं परे इति सत्यं बरवीम्य एष दुर्यॊधन न संशयः 5 एवम उक्तस ततॊ राजा मद्राधिपतिम अञ्जसा अभ्यषिञ्चत सेनाया मध्ये भरतसत्तम विधिना शस्त्रदृष्टेन हृष्टरूपॊ विशां पते 6 अभिषिक्ते ततस तस्मिन सिंहनादॊ महान अभूत तव सैन्येष्व अवाद्यन्त वादित्राणि च भारत 7 हृष्टाश चासंस तदा यॊधा मद्रकाश च महारथाः तुष्टुवुश चैव राजानं शल्यम आहवशॊभिनम 8 जय राजंश चिरं जीव जहि शत्रून समागतान तव बाहुबलं पराप्य धार्तराष्ट्रामहा बलाः निखिलां पृथिवीं सर्वां परशासन्तु हतद्विषः 9 तवं हि शक्तॊ रणे जेतुं ससुरासुरमानवान मर्त्यधर्माण इह तु किम उ सॊमक सृञ्जयान 10 एवं संस्तूयमानस तु मद्राणाम अधिपॊ बली हर्षं पराप तदा वीरॊ दुरापम अकृतात्मभिः 11 [षल्य] अद्यैवाहं रणे सर्वान पाञ्चालान सह पाण्डवैः निहनिष्यामि राजेन्द्र सवर्गं यास्यामि वा हतः 12 अद्य पश्यन्तु मां लॊका विचरन्तम अभीतवत अद्य पाण्डुसुताः सर्वे वासुदेवः ससात्यकिः 13 पाञ्चालाश चेदयश चैव दरौपदेयाश च सर्वशः धृष्टद्युम्नः शिखण्डी च सर्वे चापि परभद्रकाः 14 विक्रमं मम पश्यन्तु धनुषश च महद बलम लाघवं चास्त्रवीर्यं च भुजयॊश च बलं युधि 15 अद्य पश्यन्तु मे पार्थाः सिद्धाश च सहचारणैः यादृशं मे बलं बाह्वॊः साम्पद अस्त्रेषु या च मे 16 अद्य मे विक्रमं दृष्ट्वा पाण्डवानां महारथाः परतीकार परा भूत्वा चेष्टन्तां विविधाः करियाः 17 अद्य सैन्यानि पाण्डूनां दरावयिष्ये समन्ततः दरॊण भीष्माव अति विभॊ सूतपुत्रं च संयुगे विचरिष्ये रणे युध्यन परियार्थं तव कौरव 18 [स] अभिषिक्ते तदा शल्ये तव सैन्येषु मानद न कर्ण वयसनं किं चिन मेनिरे तत्र भारत 19 हृष्टाः सुमनसश चैव बभूवुस तत्र सैनिकाः मेनिरे निहतान पार्थान मद्रराजवशं गतान 20 परहर्षं पराप्य सेना तु तावकी भरतर्षभ तां रात्रिं सुखिनी सुप्ता सवस्थचित्तेव साभवत 21 सैन्यस्य तव तं शब्दं शरुत्वा राजा युधिष्ठिरः वार्ष्णेयम अब्रवीद वाक्यं सर्व कषत्रस्य शृण्वतः 22 मद्रराजः कृतः शल्यॊ धार्तराष्ट्रेण माधव सेनापतिर महेष्वासः सर्वसैन्येषु पूजितः 23 एतच छरुत्वा यथा भूतं कुरु माधव यत कषमम भवान नेताच गॊप्ता च विधत्स्व यद अनन्तरम 24 तम अब्रवीन महाराज वासुदेवॊ जनाधिपम आर्तायनिम अहं जाने यथातत्त्वेन भारत 25 वीर्यवांश च महातेजा महात्मा च विशेषतः कृती च चित्रयॊधी च समयुक्तॊ लाघवेन च 26 यादृग भीष्मस तथा दरॊणॊ यादृक कर्णश च संयुगे तादृशस तद विशिष्टॊ वा मद्रराजॊ मतॊ मम 27 युध्यमानस्य तस्याजौ चिन्तयन्न एव भारत यॊद्धारं नाधिगच्छामि तुल्यरूपं जनाधिप 28 शिखण्ड्यर्जुन भीमानां सात्वतस्य च भारत धृष्टद्युम्नस्य च तथा बलेनाभ्यधिकॊ रणे 29 मद्रराजॊ महाराज सिंहद्विरदविक्रमः विचरिष्यत्य अभीः काले कालः करुद्धः परजास्व इव 30 तस्याद्य न परपश्यामि परतियॊद्धारम आहवे तवाम ऋते पुरुषव्याघ्र शार्दूलसमविक्रमम 31 सदेवलॊके कृत्स्ने ऽसमिन नान्यस तवत्तः पुमान भवेत मद्रराजं रणे करुद्धं यॊ हन्यात कुरुनन्दन अहन्य अहनि युध्यन्तं कषॊभयन्तं बलं तव 32 तस्माज जहि रणे शल्यं मघवान इव शम्बरम अतिपश्चाद असौ वीरॊ धार्तराष्ट्रेण सत्कृतः 33 तवैव हि जयॊ नूनं हते मद्रेश्वरे युधि तस्मिन हते हतं सर्वं धार्तराष्ट्र बलं महत 34 एतच छरुत्वा महाराज वचनं मम सांप्रतम परत्युद्याहि रणे पार्थ मद्रराजं महाबलम जहि चैनं महाबाहॊ वासवॊ नमुचिं यथा 35 न चैव अत्र दया कार्या मातुलॊ ऽयं ममेति वै कषत्रधर्मं पुरस्कृत्य जहि मद्रजनेश्वरम 36 भीष्मद्रॊणार्णवं तीर्त्वा कर्ण पातालसंभवम मा निमज्जस्व सगणः शल्यम आसाद्य गॊष्पदम 37 यच च ते तपसॊ वीर्यं यच च कषात्रं बलं तव तद दर्शय रणे सर्वं जहि चैनं महारथम 38 एतावद उक्त्वा वचनं केशवः परवीरहा जगाम शिबिरं सायं पूज्यमानॊ ऽथ पाण्डवैः 39 केशवे तु तदा याते धर्मराजॊ युधिष्ठिरः विसृज्य सर्वान भरातॄंश च पाञ्चालान अथ सॊमकान सुष्वाप रजनीं तां तु विशल्य इव कुञ्जरः 40 ते च सर्वे महेष्वासाः पाञ्चालाः पाण्डवास तथा कर्णस्य निधने हृष्टाः सुषुपुस तां निशां तदा 41 गतज्वरं महेष्वासं तीर्णपारं महारथम बभूव पाण्डवेयानां सैन्यं परमुदितं निशि सूतपुत्रस्य निधने जयं लब्ध्वा च मारिष |
1
[s] etac chrutvā vaco rājño madrarājaḥ pratāpavān duryodhanaṃ tadā rājan vākyam etad uvāca ha 2 duryodhana mahābāho śṛṇu vākyavidāṃ vara yāv etau manyase kṛṣṇau rathasthau rathināṃ varau na me tulyāv ubhāv etau bāhuvīrye kathaṃ cana 3 udyatāṃ pṛthivīṃ sarvāṃ sasurāsuramānavām yodhayeyaṃ raṇamukhe saṃkruddhaḥ kim u pāṇḍavān vijeṣye ca raṇe pārthān somakāṃś ca samāgatān 4 ahaṃ senā praṇetā te bhaviṣyāmi na saṃśayaḥ taṃ ca vyūhaṃ vidhāsyāmi na tariṣyanti yaṃ pare iti satyaṃ bravīmy eṣa duryodhana na saṃśayaḥ 5 evam uktas tato rājā madrādhipatim añjasā abhyaṣiñcata senāyā madhye bharatasattama vidhinā śastradṛṣṭena hṛṣṭarūpo viśāṃ pate 6 abhiṣikte tatas tasmin siṃhanādo mahān abhūt tava sainyeṣv avādyanta vāditrāṇi ca bhārata 7 hṛṣṭāś cāsaṃs tadā yodhā madrakāś ca mahārathāḥ tuṣṭuvuś caiva rājānaṃ śalyam āhavaśobhinam 8 jaya rājaṃś ciraṃ jīva jahi śatrūn samāgatān tava bāhubalaṃ prāpya dhārtarāṣṭrāmahā balāḥ nikhilāṃ pṛthivīṃ sarvāṃ praśāsantu hatadviṣaḥ 9 tvaṃ hi śakto raṇe jetuṃ sasurāsuramānavān martyadharmāṇa iha tu kim u somaka sṛñjayān 10 evaṃ saṃstūyamānas tu madrāṇām adhipo balī harṣaṃ prāpa tadā vīro durāpam akṛtātmabhiḥ 11 [ṣalya] adyaivāhaṃ raṇe sarvān pāñcālān saha pāṇḍavaiḥ nihaniṣyāmi rājendra svargaṃ yāsyāmi vā hataḥ 12 adya paśyantu māṃ lokā vicarantam abhītavat adya pāṇḍusutāḥ sarve vāsudevaḥ sasātyakiḥ 13 pāñcālāś cedayaś caiva draupadeyāś ca sarvaśaḥ dhṛṣṭadyumnaḥ śikhaṇḍī ca sarve cāpi prabhadrakāḥ 14 vikramaṃ mama paśyantu dhanuṣaś ca mahad balam lāghavaṃ cāstravīryaṃ ca bhujayoś ca balaṃ yudhi 15 adya paśyantu me pārthāḥ siddhāś ca sahacāraṇaiḥ yādṛśaṃ me balaṃ bāhvoḥ sāmpad astreṣu yā ca me 16 adya me vikramaṃ dṛṣṭvā pāṇḍavānāṃ mahārathāḥ pratīkāra parā bhūtvā ceṣṭantāṃ vividhāḥ kriyāḥ 17 adya sainyāni pāṇḍūnāṃ drāvayiṣye samantataḥ droṇa bhīṣmāv ati vibho sūtaputraṃ ca saṃyuge vicariṣye raṇe yudhyan priyārthaṃ tava kaurava 18 [s] abhiṣikte tadā śalye tava sainyeṣu mānada na karṇa vyasanaṃ kiṃ cin menire tatra bhārata 19 hṛṣṭāḥ sumanasaś caiva babhūvus tatra sainikāḥ menire nihatān pārthān madrarājavaśaṃ gatān 20 praharṣaṃ prāpya senā tu tāvakī bharatarṣabha tāṃ rātriṃ sukhinī suptā svasthacitteva sābhavat 21 sainyasya tava taṃ śabdaṃ śrutvā rājā yudhiṣṭhiraḥ vārṣṇeyam abravīd vākyaṃ sarva kṣatrasya śṛṇvataḥ 22 madrarājaḥ kṛtaḥ śalyo dhārtarāṣṭreṇa mādhava senāpatir maheṣvāsaḥ sarvasainyeṣu pūjitaḥ 23 etac chrutvā yathā bhūtaṃ kuru mādhava yat kṣamam bhavān netāca goptā ca vidhatsva yad anantaram 24 tam abravīn mahārāja vāsudevo janādhipam ārtāyanim ahaṃ jāne yathātattvena bhārata 25 vīryavāṃś ca mahātejā mahātmā ca viśeṣataḥ kṛtī ca citrayodhī ca smayukto lāghavena ca 26 yādṛg bhīṣmas tathā droṇo yādṛk karṇaś ca saṃyuge tādṛśas tad viśiṣṭo vā madrarājo mato mama 27 yudhyamānasya tasyājau cintayann eva bhārata yoddhāraṃ nādhigacchāmi tulyarūpaṃ janādhipa 28 śikhaṇḍyarjuna bhīmānāṃ sātvatasya ca bhārata dhṛṣṭadyumnasya ca tathā balenābhyadhiko raṇe 29 madrarājo mahārāja siṃhadviradavikramaḥ vicariṣyaty abhīḥ kāle kālaḥ kruddhaḥ prajāsv iva 30 tasyādya na prapaśyāmi pratiyoddhāram āhave tvām ṛte puruṣavyāghra śārdūlasamavikramam 31 sadevaloke kṛtsne 'smin nānyas tvattaḥ pumān bhavet madrarājaṃ raṇe kruddhaṃ yo hanyāt kurunandana ahany ahani yudhyantaṃ kṣobhayantaṃ balaṃ tava 32 tasmāj jahi raṇe śalyaṃ maghavān iva śambaram atipaścād asau vīro dhārtarāṣṭreṇa satkṛtaḥ 33 tavaiva hi jayo nūnaṃ hate madreśvare yudhi tasmin hate hataṃ sarvaṃ dhārtarāṣṭra balaṃ mahat 34 etac chrutvā mahārāja vacanaṃ mama sāṃpratam pratyudyāhi raṇe pārtha madrarājaṃ mahābalam jahi cainaṃ mahābāho vāsavo namuciṃ yathā 35 na caiv atra dayā kāryā mātulo 'yaṃ mameti vai kṣatradharmaṃ puraskṛtya jahi madrajaneśvaram 36 bhīṣmadroṇārṇavaṃ tīrtvā karṇa pātālasaṃbhavam mā nimajjasva sagaṇaḥ śalyam āsādya goṣpadam 37 yac ca te tapaso vīryaṃ yac ca kṣātraṃ balaṃ tava tad darśaya raṇe sarvaṃ jahi cainaṃ mahāratham 38 etāvad uktvā vacanaṃ keśavaḥ paravīrahā jagāma śibiraṃ sāyaṃ pūjyamāno 'tha pāṇḍavaiḥ 39 keśave tu tadā yāte dharmarājo yudhiṣṭhiraḥ visṛjya sarvān bhrātṝṃś ca pāñcālān atha somakān suṣvāpa rajanīṃ tāṃ tu viśalya iva kuñjaraḥ 40 te ca sarve maheṣvāsāḥ pāñcālāḥ pāṇḍavās tathā karṇasya nidhane hṛṣṭāḥ suṣupus tāṃ niśāṃ tadā 41 gatajvaraṃ maheṣvāsaṃ tīrṇapāraṃ mahāratham babhūva pāṇḍaveyānāṃ sainyaṃ pramuditaṃ niśi sūtaputrasya nidhane jayaṃ labdhvā ca māriṣa |
The Mahabharata in Sanskrit
Book 9
Chapter 7
|
1
[स] वयतीतायां रजन्यां तु राजा दुर्यॊधनस तदा अब्रवीत तावकान सर्वान संनह्यन्तां महारथाः 2 राज्ञस तु मतम आज्ञाय सामनह्यत सा चमूः अयॊजयन रथांस तूर्णं पर्यधावंस तथापरे 3 अकल्प्यन्त च मातङ्गाः समनह्यन्त पत्तयः हयान आस्तरणॊपेतांश चक्रुर अन्ये सहास्रशः 4 वादित्राणां च निनदः परादुरासीद विशां पते बॊधनार्थं हि यॊधानां सैन्यानां चाप्य उदीर्यताम 5 ततॊ बलानि सर्वाणि सेना शिष्टानि भारत संनद्धान्य एव ददृशुर मृत्युं कृत्वा निवर्तनम 6 शल्यं सेनापतिं कृत्वा मद्रराजं महारथाः परविभज्य बलं सर्वम अनीकेषु वयवस्थिताः 7 ततः सर्वे समागम्य पुत्रेण तव सैनिकाः कृपश च कृतवर्मा च दरौणिः शल्यॊ ऽथ सौबलः 8 अन्ये च पार्थिवाः शेषाः समयं चक्रिरे तदा न न एकेन यॊद्धव्यं कथं चिद अपि पाण्डवैः 9 यॊ हय एकः पाण्डवैर युध्येद यॊ वा युध्यन्तम उत्सृजेत स पञ्चभिर भवेद युक्तः पातकैः सॊपपातकैः अन्यॊन्यं परिरक्षद्भिर यॊद्धव्यं सहितैश च नः 10 एवं ते समयं कृत्वा सर्वे तत्र महारथाः मद्रराजं पुरस्कृत्य तूर्णम अभ्यद्रवन परान 11 तथैव पाण्डवा राजन वयूह्य सैन्यं महारणे अभ्ययुः कौरवान सर्वान यॊत्स्यमानाः समन्ततः 12 तद बलं भरतश्रेष्ठ कषुब्ब्धार्णव समस्वनम समुद्धूतार्णवाकारम उद्धूत रथकुञ्जरम 13 [धृ] दरॊणस्य भीष्मस्य च वै राधेयस्य च मे शरुतम पातनं शंस मे भूयः शल्यस्याथ सुतस्य मे 14 कथं रणे हतः शल्यॊ धर्मराजेन संजय भीमेन च महाबाहुः पुत्रॊ दुर्यॊधनॊ मम 15 [स] कषयं मनुष्यदेहानां रथनागाश्वसंक्षयम शृणु राजन सथिरॊ भूत्वा संग्रामं शंसतॊ मम 16 आशा बलवती राजन पुत्राणां ते ऽभवत तदा हते भीष्मे च दरॊणे च सूतपुत्रे च पातिते शल्यः पार्थान रणे सर्वान निहनिष्यति मारिष 17 ताम आशां हृदये कृत्वा समाश्वास्य च भारत मद्रराजं च समरे समाश्रित्य महारथम नाथवन्तम अथात्मानम अमन्यत सुतस तव 18 यदा कर्णे हते पार्थाः सिंहनादं परचक्रिरे तदा राजन धार्तराष्ट्रान आविवेश महद भयम 19 तान समाश्वास्यतु तदा मद्रराजः परतापवान वयूह्य वयूहं महाराज सर्वतॊभद्रम ऋद्धिमत 20 परत्युद्यातॊ रणे पार्थान मद्रराजः परतापवान विधुन्वन कार्मुकं चित्रं भारघ्नं वेगवत्तरम 21 रथप्रवरम आस्थाय सैन्धवाश्वं महारथः तस्य सीता महाराज रथस्थाशॊभयद रथम 22 स तेन संवृतॊ वीरॊ रथेनामित्रकर्शनः तस्थौ शूरॊ महाराज पुत्राणां ते भयप्रणुत 23 परयाणे मद्रराजॊ ऽभून मुखं वयूहस्य दंशितः मद्रकैः सहितॊ वीरैः कर्ण पुत्रैश च दुर्जयैः 24 सव्ये ऽभूत कृतवर्मा च तरिगर्तैः परिवारितः गौतमॊ दक्षिणे पार्श्वे शकैश च यवनैः सह 25 अश्वत्थामा पृष्ठतॊ ऽभूत काम्बॊजैः परिवारितः दुर्यॊधनॊ ऽभवन मध्ये रक्षितः कुरुपुंगवैः 26 हयानीकेन महता सौबलश चापि संवृतः परययौ सर्वसैन्येन कैतव्यश च महारथः 27 पाण्डवाश च महेष्वासा वयूह्य सैन्यम अरिंदमाः तरिधा भूत्वा महाराज तव सैन्यम उपाद्रवन 28 धृष्टद्युम्नः शिखण्डी च सत्यकिश च महारथः शलयस्य वाहिनीं तूर्णम अभिदुद्रुवुर आहवे 29 ततॊ युधिष्ठिरॊ राजा सवेनानीकेन संवृतः शल्यम एवाभिदुद्राव जिघांसुर भरतर्षभ 30 हार्दिक्यं तु महेष्वासम अर्जुनः शत्रुपूगहा संशप्तक गणांश चैव वेगतॊ ऽभिविदुद्रुवे 31 गौतमं भीमसेनॊ वै सॊमकाश च महारथाः अभ्यद्रवन्त राजेन्द्र जिघांसन्तः परान युधि 32 माद्रीपुत्रौ तु शकुनिम उलूकं च महारथौ ससैन्यौ सहसेनौ ताव उपतस्थतुर आहवे 33 तथैवायुतशॊ यॊधास तावकाः पाण्डवान रणे अभ्यद्रवन्त संक्रुद्धा विविधायुधपाणयः 34 [धृ] हते भीष्मे महेष्वासे दरॊणे कर्णे महारथे कुरु षवल्पावशिष्टेषु पाण्डवेषु च संयुगे 35 सुसंरब्धेषु पार्थेषु पराक्रान्तेषु संजय मामकानां परेषां च किं शिष्टम अभवद बलम 36 [स] यथा वयं परे राजन युद्धाय समवस्थिताः यावच चासीद बलं शिष्टं संग्रामे तन निबॊध मे 37 एकादश सहस्राणि रथानां भरतर्षभ दश दन्ति सहस्राणि सप्त चैव शतानि च 38 पूर्णे शतसहस्रे दवे हयानां भरतर्षभ नरकॊट्यस तथा तिस्रॊ बलम एतत तवाभवत 39 रथानां षट सहस्राणि षट सहस्राश च कुञ्जराः दश चाश्वसहस्राणि पत्तिकॊटी च भारत 40 एतद बलं पाण्डवानाम अभवच छेषम आहवे एत एव समाजग्मुर युद्धाय भरतर्षभ 41 एवं विभज्य राजेन्द्र मद्रराजमते सथिताः पाण्डवान परत्युदीयाम जय गृद्धाः परमन्यवः 42 तथैव पाण्डवाः शूराः समरे जितकाशिनः उपयाता नरव्याघ्राः पाञ्चालाश च यशस्विनः 43 एवम एते बलौघेन परस्परवधैषिणः उपयाता नरव्याघ्राः पूर्वां संध्यां परति परभॊ 44 ततः परववृते युद्धं घॊररूपं भयानकम तावकानां परेषां च निघ्नताम इतरेतरम |
1
[s] vyatītāyāṃ rajanyāṃ tu rājā duryodhanas tadā abravīt tāvakān sarvān saṃnahyantāṃ mahārathāḥ 2 rājñas tu matam ājñāya sāmanahyata sā camūḥ ayojayan rathāṃs tūrṇaṃ paryadhāvaṃs tathāpare 3 akalpyanta ca mātaṅgāḥ samanahyanta pattayaḥ hayān āstaraṇopetāṃś cakrur anye sahāsraśaḥ 4 vāditrāṇāṃ ca ninadaḥ prādurāsīd viśāṃ pate bodhanārthaṃ hi yodhānāṃ sainyānāṃ cāpy udīryatām 5 tato balāni sarvāṇi senā śiṣṭāni bhārata saṃnaddhāny eva dadṛśur mṛtyuṃ kṛtvā nivartanam 6 śalyaṃ senāpatiṃ kṛtvā madrarājaṃ mahārathāḥ pravibhajya balaṃ sarvam anīkeṣu vyavasthitāḥ 7 tataḥ sarve samāgamya putreṇa tava sainikāḥ kṛpaś ca kṛtavarmā ca drauṇiḥ śalyo 'tha saubalaḥ 8 anye ca pārthivāḥ śeṣāḥ samayaṃ cakrire tadā na na ekena yoddhavyaṃ kathaṃ cid api pāṇḍavaiḥ 9 yo hy ekaḥ pāṇḍavair yudhyed yo vā yudhyantam utsṛjet sa pañcabhir bhaved yuktaḥ pātakaiḥ sopapātakaiḥ anyonyaṃ parirakṣadbhir yoddhavyaṃ sahitaiś ca naḥ 10 evaṃ te samayaṃ kṛtvā sarve tatra mahārathāḥ madrarājaṃ puraskṛtya tūrṇam abhyadravan parān 11 tathaiva pāṇḍavā rājan vyūhya sainyaṃ mahāraṇe abhyayuḥ kauravān sarvān yotsyamānāḥ samantataḥ 12 tad balaṃ bharataśreṣṭha kṣubbdhārṇava samasvanam samuddhūtārṇavākāram uddhūta rathakuñjaram 13 [dhṛ] droṇasya bhīṣmasya ca vai rādheyasya ca me śrutam pātanaṃ śaṃsa me bhūyaḥ śalyasyātha sutasya me 14 kathaṃ raṇe hataḥ śalyo dharmarājena saṃjaya bhīmena ca mahābāhuḥ putro duryodhano mama 15 [s] kṣayaṃ manuṣyadehānāṃ rathanāgāśvasaṃkṣayam śṛṇu rājan sthiro bhūtvā saṃgrāmaṃ śaṃsato mama 16 āśā balavatī rājan putrāṇāṃ te 'bhavat tadā hate bhīṣme ca droṇe ca sūtaputre ca pātite śalyaḥ pārthān raṇe sarvān nihaniṣyati māriṣa 17 tām āśāṃ hṛdaye kṛtvā samāśvāsya ca bhārata madrarājaṃ ca samare samāśritya mahāratham nāthavantam athātmānam amanyata sutas tava 18 yadā karṇe hate pārthāḥ siṃhanādaṃ pracakrire tadā rājan dhārtarāṣṭrān āviveśa mahad bhayam 19 tān samāśvāsyatu tadā madrarājaḥ pratāpavān vyūhya vyūhaṃ mahārāja sarvatobhadram ṛddhimat 20 pratyudyāto raṇe pārthān madrarājaḥ pratāpavān vidhunvan kārmukaṃ citraṃ bhāraghnaṃ vegavattaram 21 rathapravaram āsthāya saindhavāśvaṃ mahārathaḥ tasya sītā mahārāja rathasthāśobhayad ratham 22 sa tena saṃvṛto vīro rathenāmitrakarśanaḥ tasthau śūro mahārāja putrāṇāṃ te bhayapraṇut 23 prayāṇe madrarājo 'bhūn mukhaṃ vyūhasya daṃśitaḥ madrakaiḥ sahito vīraiḥ karṇa putraiś ca durjayaiḥ 24 savye 'bhūt kṛtavarmā ca trigartaiḥ parivāritaḥ gautamo dakṣiṇe pārśve śakaiś ca yavanaiḥ saha 25 aśvatthāmā pṛṣṭhato 'bhūt kāmbojaiḥ parivāritaḥ duryodhano 'bhavan madhye rakṣitaḥ kurupuṃgavaiḥ 26 hayānīkena mahatā saubalaś cāpi saṃvṛtaḥ prayayau sarvasainyena kaitavyaś ca mahārathaḥ 27 pāṇḍavāś ca maheṣvāsā vyūhya sainyam ariṃdamāḥ tridhā bhūtvā mahārāja tava sainyam upādravan 28 dhṛṣṭadyumnaḥ śikhaṇḍī ca satyakiś ca mahārathaḥ ślayasya vāhinīṃ tūrṇam abhidudruvur āhave 29 tato yudhiṣṭhiro rājā svenānīkena saṃvṛtaḥ śalyam evābhidudrāva jighāṃsur bharatarṣabha 30 hārdikyaṃ tu maheṣvāsam arjunaḥ śatrupūgahā saṃśaptaka gaṇāṃś caiva vegato 'bhividudruve 31 gautamaṃ bhīmaseno vai somakāś ca mahārathāḥ abhyadravanta rājendra jighāṃsantaḥ parān yudhi 32 mādrīputrau tu śakunim ulūkaṃ ca mahārathau sasainyau sahasenau tāv upatasthatur āhave 33 tathaivāyutaśo yodhās tāvakāḥ pāṇḍavān raṇe abhyadravanta saṃkruddhā vividhāyudhapāṇayaḥ 34 [dhṛ] hate bhīṣme maheṣvāse droṇe karṇe mahārathe kuru ṣvalpāvaśiṣṭeṣu pāṇḍaveṣu ca saṃyuge 35 susaṃrabdheṣu pārtheṣu parākrānteṣu saṃjaya māmakānāṃ pareṣāṃ ca kiṃ śiṣṭam abhavad balam 36 [s] yathā vayaṃ pare rājan yuddhāya samavasthitāḥ yāvac cāsīd balaṃ śiṣṭaṃ saṃgrāme tan nibodha me 37 ekādaśa sahasrāṇi rathānāṃ bharatarṣabha daśa danti sahasrāṇi sapta caiva śatāni ca 38 pūrṇe śatasahasre dve hayānāṃ bharatarṣabha narakoṭyas tathā tisro balam etat tavābhavat 39 rathānāṃ ṣaṭ sahasrāṇi ṣaṭ sahasrāś ca kuñjarāḥ daśa cāśvasahasrāṇi pattikoṭī ca bhārata 40 etad balaṃ pāṇḍavānām abhavac cheṣam āhave eta eva samājagmur yuddhāya bharatarṣabha 41 evaṃ vibhajya rājendra madrarājamate sthitāḥ pāṇḍavān pratyudīyāma jaya gṛddhāḥ pramanyavaḥ 42 tathaiva pāṇḍavāḥ śūrāḥ samare jitakāśinaḥ upayātā naravyāghrāḥ pāñcālāś ca yaśasvinaḥ 43 evam ete balaughena parasparavadhaiṣiṇaḥ upayātā naravyāghrāḥ pūrvāṃ saṃdhyāṃ prati prabho 44 tataḥ pravavṛte yuddhaṃ ghorarūpaṃ bhayānakam tāvakānāṃ pareṣāṃ ca nighnatām itaretaram |
The Mahabharata in Sanskrit
Book 9
Chapter 8
|
1
[स] तथ परववृते युद्धं कुरूणां भयवर्धनम सृञ्जयैः सह राजेन्द्र घॊरं देवासुरॊपमम 2 नरा रथा गजौघाश च सादिनश च सहस्रशः वाजिनश च पराक्रान्ताः समाजग्मुः परस्परम 3 नागानां भीमरूपाणां दरवतां निस्वनॊ महान अश्रूयत यथाकाले जलदानां नभस्तले 4 नागैर अभ्याहताः के चित सरथा रथिनॊ ऽपतन वयद्रवन्त रणे वीरा दराव्यमाणा मदॊत्कटैः 5 हयौघान पादरक्षांश च रथिनस तत्र शिक्षिताः शरैः संप्रेषयाम आसुः परलॊकाय भारत 6 सादिनः शिक्षिता राजन परिवार्य महारथान विचरन्तॊ रणे ऽभयघ्नन परासशक्त्यृष्टिभिस तथा 7 धन्विनः पुरुषाः के चित संनिवार्य महारथान एकं बहव आसाद्य परेषयेयुर यमक्षयम 8 नागं रथवरांश चान्ये परिवार्य महारथाः सॊत्तरायुधिनं जघ्नुर दरवमाणा महारवम 9 तथा च रथिनं करुद्धं विकिरन्तं शरान बहून नागा जघ्नुर महाराज परिवार्य समन्ततः 10 नागॊ नागम अभिद्रुत्य रथी च रथिनं रणे शक्तॊ तॊमरनाराचैर निजघ्नुस तत्र तत्र ह 11 पादातान अवमृद्नन्तॊ रथवारणवाजिनः रणमध्ये वयदृश्यन्त कुर्वन्तॊ महद आकुलम 12 हयाश च पर्यधावन्त चामरैर उपशॊभिताः हंसा हिमवतः परस्थे पिबन्त इव मेदिनीम 13 तेषां तु वाजिनां भूमिः खुरैश चित्रा विशां पते अशॊभत यथा नारी करज कषतविक्षता 14 वाजिनां खुरशब्देन रथे नेमिस्वनेन च पत्तीनां चापि शब्देन नागानां बृह्मितेन च 15 वादित्राणां च घॊषेण शङ्खानां निस्वनेन च अभवन नादिता भूमिर निर्घातिर इव भारत 16 धनुषां कूजमानानां निस्त्रिंशानां च दीप्यताम कवचानां परभाभिश च न पराज्ञायत किं चन 17 बहवॊ बाहवश छिन्ना नागराजकरॊपमाः उद्वेष्टन्ते विवेष्टन्ते वेगं कुर्वन्ति दारुणम 18 शिरसां च महाराज पततां वसुधातले चयुतानाम इव तालेभ्यः फलानां शरूयते सवनः 19 शिरॊभिः पतितैर भाति रुधिरार्द्रैर वसुंधरा तपनीयनिभैः काले नलिनैर इव भारत 20 उद्वृत्तनयनैस तैस तु गतसत्त्वैः सुविक्षतैः वयभ्राजत महाराज पुण्डरीकैर इवावृता 21 बाहुभिश चन्दनादिग्धैः सकेयूरैर महाधनैः पतितैर भाति राजेन्द्र मही शक्रध्वजैर इव 22 ऊरुभिश च नरेन्द्राणां विनिकृत्तैर महाहवे हस्तिहस्तॊपमैर अन्यैः संवृतं तद रणाङ्गणम 23 कबन्ध शतसंकीर्णं छत्त्र चामरशॊभितम सेना वनं तच छुशुभे वनं पुष्पाचितं यथा 24 तत्र यॊधा महाराज विचरन्तॊ हय अभीतवत दृश्यन्ते रुधिराक्ताङ्गाः पुष्पिता इव किंशुकाः 25 मातङ्गाश चाप्य अदृश्यन्त शरतॊमर पीडिताः पतन्तस तत्र तत्रैव छिन्नाभ्र सदृशा रणे 26 गजानीकं महाराज वध्यमानं महात्मभिः वयदीर्यत दिशः सर्वा वातनुन्ना घना इव 27 ते गजा घनसंकाशाः पेतुर उव्यां समन्ततः वज्ररुग्णा इव बभुः पर्वता युगसंक्षये 28 हयानां सादिभिः सार्धं पतितानां महीतले राशयः संप्रदृश्यन्ते गिरिमात्रास ततस ततः 29 संजज्ञे रणभूमौ तु परलॊकवहा नदी शॊणितॊदा रथावर्ता धवजवृक्षास्थि शर्करा 30 भुजनक्रा धनुः सरॊता हस्तिशैला हयॊपला मेदॊ मज्जा कर्दमिनी छत्त्र हंसा गदॊडुपा 31 कवचॊष्णीष संछन्ना पताका रुचिरद्रुमा चक्रचक्रावली जुष्टा तरिवेणू दण्डकावृता 32 शूराणां हर्षजननी भीरूणां भयवर्धिनी परावर्तत नदी रौरा कुरुसृञ्जयसंकुला 33 तां नदीं पितृलॊकाय वहन्तीम अतिभैरवाम तेरुर वाहन नौभिस ते शूराः परिघबाहवः 34 वर्तमाने तथा युद्धे निर्मर्यादे विशां पते चतुरङ्गक्षये घॊरे पूर्वं देवासुरॊपमे 35 अक्रॊशन बान्धवान अन्ये तत्र तत्र परंतप करॊशद्भिर बान्धवैश चान्ये भयार्ता न निवर्तिरे 36 निर्मर्यादे तथा युद्धे वर्तमाने भयानके अर्जुनॊ भीमसेनश च मॊहयां चक्रतुः परान 37 सा वध्यमाना महती सेना तव जनाधिप अमुह्यत तत्र तत्रैव यॊषिन मदवशाद इव 38 मॊहयित्वाच तां सेनां भिम सेनधनंजयौ दध्मतुर वारिजौ तत्र सिंहनादं च नेदतुः 39 शरुत्वैव तु महाशब्दं धृष्टद्युम्न शिखण्डिनौ धर्मराजं पुरस्कृत्य मद्रराजम अभिद्रुतौ 40 तत्राश्चर्यम अपश्याम घॊररूपं विशां पते शल्येन संगताः शूरा यद अयुध्यन्त भागशः 41 माद्रीपुत्रौ सरभसौ कृतास्त्रौ युद्धदुर्मदौ अभ्ययातां तवरायुक्तौ जिगीषन्तौ बलं तव 42 ततॊ नयवर्तत बलं तावकं भरतर्षभ शरैः परणुन्नं बहुधा पाण्डवैर जितकाशिभिः 43 वद्यमाना चमूः सा तु पुत्राणां परेक्षतां तव भेजे दिशॊ महाराज परणुन्ना दृढधन्विभिः हाहाकारॊ महाञ जज्ञे यॊधानां तव भारत 44 तिष्ठ तिष्ठेति वाग आसीद दरावितानां महात्मनाम कषत्रियाणां तदान्यॊन्यं संयुगे जयम इच्छताम आद्रवन्न एव भग्नास ते पाण्डवस तव सैनिकाः 45 तयक्त्वा युद्धि परियान पुत्रान भरातॄन अथ पितामहान मातुलान भागिनेयांश च तथा संबन्धिबान्धवान 46 हयान दविपांस तवरयन्तॊ यॊधा जग्मुः समन्ततः आत्मत्राण कृतॊत्साहास तावका भरतर्षभ |
1
[s] tatha pravavṛte yuddhaṃ kurūṇāṃ bhayavardhanam sṛñjayaiḥ saha rājendra ghoraṃ devāsuropamam 2 narā rathā gajaughāś ca sādinaś ca sahasraśaḥ vājinaś ca parākrāntāḥ samājagmuḥ parasparam 3 nāgānāṃ bhīmarūpāṇāṃ dravatāṃ nisvano mahān aśrūyata yathākāle jaladānāṃ nabhastale 4 nāgair abhyāhatāḥ ke cit sarathā rathino 'patan vyadravanta raṇe vīrā drāvyamāṇā madotkaṭaiḥ 5 hayaughān pādarakṣāṃś ca rathinas tatra śikṣitāḥ śaraiḥ saṃpreṣayām āsuḥ paralokāya bhārata 6 sādinaḥ śikṣitā rājan parivārya mahārathān vicaranto raṇe 'bhyaghnan prāsaśaktyṛṣṭibhis tathā 7 dhanvinaḥ puruṣāḥ ke cit saṃnivārya mahārathān ekaṃ bahava āsādya preṣayeyur yamakṣayam 8 nāgaṃ rathavarāṃś cānye parivārya mahārathāḥ sottarāyudhinaṃ jaghnur dravamāṇā mahāravam 9 tathā ca rathinaṃ kruddhaṃ vikirantaṃ śarān bahūn nāgā jaghnur mahārāja parivārya samantataḥ 10 nāgo nāgam abhidrutya rathī ca rathinaṃ raṇe śakto tomaranārācair nijaghnus tatra tatra ha 11 pādātān avamṛdnanto rathavāraṇavājinaḥ raṇamadhye vyadṛśyanta kurvanto mahad ākulam 12 hayāś ca paryadhāvanta cāmarair upaśobhitāḥ haṃsā himavataḥ prasthe pibanta iva medinīm 13 teṣāṃ tu vājināṃ bhūmiḥ khuraiś citrā viśāṃ pate aśobhata yathā nārī karaja kṣatavikṣatā 14 vājināṃ khuraśabdena rathe nemisvanena ca pattīnāṃ cāpi śabdena nāgānāṃ bṛhmitena ca 15 vāditrāṇāṃ ca ghoṣeṇa śaṅkhānāṃ nisvanena ca abhavan nāditā bhūmir nirghātir iva bhārata 16 dhanuṣāṃ kūjamānānāṃ nistriṃśānāṃ ca dīpyatām kavacānāṃ prabhābhiś ca na prājñāyata kiṃ cana 17 bahavo bāhavaś chinnā nāgarājakaropamāḥ udveṣṭante viveṣṭante vegaṃ kurvanti dāruṇam 18 śirasāṃ ca mahārāja patatāṃ vasudhātale cyutānām iva tālebhyaḥ phalānāṃ śrūyate svanaḥ 19 śirobhiḥ patitair bhāti rudhirārdrair vasuṃdharā tapanīyanibhaiḥ kāle nalinair iva bhārata 20 udvṛttanayanais tais tu gatasattvaiḥ suvikṣataiḥ vyabhrājata mahārāja puṇḍarīkair ivāvṛtā 21 bāhubhiś candanādigdhaiḥ sakeyūrair mahādhanaiḥ patitair bhāti rājendra mahī śakradhvajair iva 22 ūrubhiś ca narendrāṇāṃ vinikṛttair mahāhave hastihastopamair anyaiḥ saṃvṛtaṃ tad raṇāṅgaṇam 23 kabandha śatasaṃkīrṇaṃ chattra cāmaraśobhitam senā vanaṃ tac chuśubhe vanaṃ puṣpācitaṃ yathā 24 tatra yodhā mahārāja vicaranto hy abhītavat dṛśyante rudhirāktāṅgāḥ puṣpitā iva kiṃśukāḥ 25 mātaṅgāś cāpy adṛśyanta śaratomara pīḍitāḥ patantas tatra tatraiva chinnābhra sadṛśā raṇe 26 gajānīkaṃ mahārāja vadhyamānaṃ mahātmabhiḥ vyadīryata diśaḥ sarvā vātanunnā ghanā iva 27 te gajā ghanasaṃkāśāḥ petur uvyāṃ samantataḥ vajrarugṇā iva babhuḥ parvatā yugasaṃkṣaye 28 hayānāṃ sādibhiḥ sārdhaṃ patitānāṃ mahītale rāśayaḥ saṃpradṛśyante girimātrās tatas tataḥ 29 saṃjajñe raṇabhūmau tu paralokavahā nadī śoṇitodā rathāvartā dhvajavṛkṣāsthi śarkarā 30 bhujanakrā dhanuḥ srotā hastiśailā hayopalā medo majjā kardaminī chattra haṃsā gadoḍupā 31 kavacoṣṇīṣa saṃchannā patākā ruciradrumā cakracakrāvalī juṣṭā triveṇū daṇḍakāvṛtā 32 śūrāṇāṃ harṣajananī bhīrūṇāṃ bhayavardhinī prāvartata nadī raurā kurusṛñjayasaṃkulā 33 tāṃ nadīṃ pitṛlokāya vahantīm atibhairavām terur vāhana naubhis te śūrāḥ parighabāhavaḥ 34 vartamāne tathā yuddhe nirmaryāde viśāṃ pate caturaṅgakṣaye ghore pūrvaṃ devāsuropame 35 akrośan bāndhavān anye tatra tatra paraṃtapa krośadbhir bāndhavaiś cānye bhayārtā na nivartire 36 nirmaryāde tathā yuddhe vartamāne bhayānake arjuno bhīmasenaś ca mohayāṃ cakratuḥ parān 37 sā vadhyamānā mahatī senā tava janādhipa amuhyat tatra tatraiva yoṣin madavaśād iva 38 mohayitvāca tāṃ senāṃ bhima senadhanaṃjayau dadhmatur vārijau tatra siṃhanādaṃ ca nedatuḥ 39 śrutvaiva tu mahāśabdaṃ dhṛṣṭadyumna śikhaṇḍinau dharmarājaṃ puraskṛtya madrarājam abhidrutau 40 tatrāścaryam apaśyāma ghorarūpaṃ viśāṃ pate śalyena saṃgatāḥ śūrā yad ayudhyanta bhāgaśaḥ 41 mādrīputrau sarabhasau kṛtāstrau yuddhadurmadau abhyayātāṃ tvarāyuktau jigīṣantau balaṃ tava 42 tato nyavartata balaṃ tāvakaṃ bharatarṣabha śaraiḥ praṇunnaṃ bahudhā pāṇḍavair jitakāśibhiḥ 43 vadyamānā camūḥ sā tu putrāṇāṃ prekṣatāṃ tava bheje diśo mahārāja praṇunnā dṛḍhadhanvibhiḥ hāhākāro mahāñ jajñe yodhānāṃ tava bhārata 44 tiṣṭha tiṣṭheti vāg āsīd drāvitānāṃ mahātmanām kṣatriyāṇāṃ tadānyonyaṃ saṃyuge jayam icchatām ādravann eva bhagnās te pāṇḍavas tava sainikāḥ 45 tyaktvā yuddhi priyān putrān bhrātṝn atha pitāmahān mātulān bhāgineyāṃś ca tathā saṃbandhibāndhavān 46 hayān dvipāṃs tvarayanto yodhā jagmuḥ samantataḥ ātmatrāṇa kṛtotsāhās tāvakā bharatarṣabha |
The Mahabharata in Sanskrit
Book 9
Chapter 9
|
1
[स] तत पराभग्नं बलं दृष्ट्वा मद्रराजः परतापवान उवाच सारथिं तूर्णं चॊदयाश्वान महाजवान 2 एष तिष्ठति वै राजा पाण्डुपुत्रॊ युधिष्ठिरः छत्त्रेण धरियमाणेन पाण्डुरेण विराजता 3 अत्र मां परापय कषिप्रं पश्या मे सारथे बलम न समर्था हि मे कषिप्रं पश्य मे सारथे बलम न समर्था हि मे पार्थाः सथातुम अद्य पुरॊ युधि 4 एवम उक्तस ततः परायान मद्रराजस्य सारथिः यत्र राजा सत्यसंधॊ धर्मराजॊ युधिष्ठिरः 5 आपतन्तं च सहसा पाण्डवानां महद बलम दधारैकॊ रणे शल्यॊ वेलेवॊद्धृतम अर्णवम 6 पाण्डवानां बलौघस तु शल्यम आसाद्य मारिष वयतिष्ठत तदा युद्धे सिन्धॊर वेग इवाचलम 7 मद्रराजं तु समरे दृष्ट्वा युद्धाय विष्ठितम कुरवः संन्यवर्तन्त मृत्युं कृत्वा निवर्तनाम 8 तेषु राजन निवृत्तेषु वयूढानीकेषु भागशः परावर्तत महारौद्रः संग्रामः शॊणितॊदकः समार्च्छच्च चित्रसेनेन नकुलॊ युद्धदुर्मदः 9 तौ परस्परम आसाद्य चित्रकार्मुकधारिणौ मेघाव इव यथॊद्वृत्तौ दक्षिणॊत्तर वर्षिणौ 10 शरतॊयैः सिषिचतुस तौ परस्परम आहवे नान्तरं तत्र पश्यामि पाण्डवस्येतरस्य वा 11 उभौ कृतास्त्रौ बलिनौ रथचर्या विशारदौ परस्परवधे यत्तौ छिद्रान वेषणतत्परौ 12 चित्रसेनस तु भल्लेन पीतेना निशितेन च नकुलस्य महाराज मुष्टिदेशे ऽचछिनद धनुः 13 अथैनं छिन्नधन्वानं रुक्मपुङ्खैः शिलाशितैः तरिभिः शरैर असंभ्रान्तॊ ललाटे वै समर्पयत 14 हयांश चास्य शरैस तीक्ष्णैः परेषयाम आस मृत्यवे तथा धवजं सारथिं च तरिभिस तरिभिर अपातयत 15 स शत्रुभुज निर्मुक्तैर ललाटस्थस तरिभिः शरैः नकुलः शुशुभे राजंस तरिशृङ्ग इव पर्वतः 16 स छिन्नधन्वा विरथः खड्गम आदाय चर्म च रथाद अवतरद वीरः शैलाग्राद इव केसरी 17 पद्भ्याम आपततस तस्य शरवृष्टिम अवासृजत नकुलॊ ऽपय अग्रसत्तां वै चर्माणा लघुविक्रमः 18 चित्रसेनरथं पराप्य चित्रयॊधी जितश्रमः आरुरॊह महाबाहुः सर्वसैन्यस्य पश्यतः 19 सकुण्डलं समुकुटं सुनसं सवायतेक्षणम चित्रसेनशिरः कायाद अपाहरत पाण्डवः स पपात रथॊपस्थाद दिवाकरसमप्रभः 20 चित्रसेनं विशस्तं तु दृष्ट्वा तत्र महारथाः साद्धु वादस्वनांश चक्रुः सिंहनादांश च पुष्कलान 21 विशस्तं भरातरं दृष्ट्वा कर्ण पुत्रौ महारथौ सुषेणः सत्यसेनश च मुञ्चन्तौ निशिताञ शरान 22 ततॊ ऽभयधावतां तूर्णं पाण्डवं रथिनां वरम जिघांसन्तौ यथा नागं वयाघ्रौ राजन महावने 23 ताव अभ्यधावतां तीक्ष्णौ दवाव अप्य एनं महारथम शरौघान सम्यग अस्यन्तौ जीमूतौ सलिलं यथा 24 स शरैः सर्वतॊ विद्धः परहृष्ट इव पाण्डवः अन्यत कार्मुकम आदाय रथम आरुह्य वीर्यवान अतिष्ठत रणे वीरः करुद्ध रूप इवान्तकः 25 तस्य तौ भरातरौ राजञ शरैः संनतपर्वभिः रथं विशकलीकर्तुं समारब्धौ विशां पते 26 ततः परहस्य नकुलश चतुर्भिश चतुरॊ रणे जघान निशितैस तीक्ष्णैः सत्यसेनस्य वाजिनः 27 ततः संधाय नाराचं रुक्मपुङ्खं शिलाशितम धनुश चिच्छेद राजेन्द्र सत्यसेनस्य पाण्डवः 28 अथान्यं रथम आस्थाय धनुर आदाय चापरम सत्यसेनः सुषेणश च पाण्डवं पर्यधावताम 29 अविध्यत ताव असंभ्रान्तौ माद्रीपुत्रः परतापवान दवाभ्यां दवाभ्यां महाराज शराभ्यां रणमूर्धनि 30 सुषेणस तु ततः करुद्धः पाण्डवस्य महद धनुः चिच्छेद परहसन युद्धे कषुरप्रेण महारथः 31 अथान्यद धनुर आदाय नकुलः करॊधमूर्च्छितः सुषेणं पञ्चभिर विद्ध्वा धवजम एकेन चिच्छिदे 32 सत्यसेनस्य च धनुर हस्तावापं च मारिष चिच्छेद तरसा युद्धे तत उच्चुक्रुशुर जनाः 33 अथान्यद धनुर आदाय वेगघ्नं भारसाधनम शरैः संछादयाम आस समन्तात पाण्डुनन्दनम 34 संनिवार्य तु तान बाणान नकुलः परवीरहा सत्यसेनं सुषेणं च दवाभ्यां दवाभ्याम अविध्यत 35 ताव एनं परत्यविध्येतां पृथक्पृथग अजिह्मगैः सारथिं चास्य राजेन्द्र शरैर विव्यधतुः शितैः 36 सत्यसेनॊ रथेषां तु नकुलस्या धनुस तथा पृथक शराभ्यां चिच्छेद कृतहस्तः परतापवान 37 स रथे ऽतिरथस तिष्ठन रथशक्तिं परामृशत सवर्णदण्डाम अकुण्ठाग्रां तैलधौतां सुनिर्मलाम 38 लेलिहानाम इव विभॊ नागकन्यां महाविषाम समुद्यम्य च चिक्षेप सत्यसेनस्य संयुगे 39 सा तस्य हृदयं संख्ये बिभेद शतधा नृप स पपात रथाद भूमौ गतसत्त्वॊ ऽलपचेतनः 40 भरातरं निहतं दृष्ट्वा सुषेणः करॊधमूर्छितः अभ्यवर्षच छरैस तूर्णं पदातिं पाण्डुनन्दनम 41 नकुलं विरथं दृष्ट्वा दरौपदेयॊ महाबलः सुत सॊमॊ ऽभिदुद्राव परीप्सन पितरं रणे 42 ततॊ ऽधिरुह्य नकुलः सुत सॊमस्य तं रथम शुशुभे भरतश्रेष्ठॊ गिरिस्थ इव केसरी सॊ ऽनयत कार्मुकम आदाय सुषेणं समयॊधयत 43 ताव उभौ शरवर्षाभ्यां समासाद्य परस्परम परस्परवधे यत्नं चक्रतुः सुमहारथौ 44 सुषेणस तु ततः करुद्धः पाण्डवं विशिखैस तरिभिः सुत सॊमं च विंशत्या बाह्वॊर उरसि चार्पयत 45 ततः करुद्धॊ महाराज नकुलः परवीरहा शरैस तस्य दिशः सर्वाश छादयाम आस वीर्यवान 46 ततॊ गृहीत्वा तीक्ष्णाग्रम अर्धचन्द्रं सुतेजनम स वेगयुक्तं चिक्षेप कर्ण पुत्रस्य संयुगे 47 तस्य तेना शिरः कायाज जहार नृपसत्तम पश्यतां सर्वसैन्यानां तद अद्भुतम इवाभवत 48 स हतः परापतद राजन नकुलेन महात्मना नदीवेगाद इवारुग्णस तीरजः पादपॊ महान 49 कर्ण पुत्रवधं दृष्ट्वा नकुलस्य च विक्रमम परदुद्राव भयात सेना तावकी भरतर्षभ 50 तां तु सेनां महाराज मद्रराजः परतापवान अपालयद रणे शूरः सेनापतिर अरिंदमः 51 विभीस तस्थौ महाराज वयवस्थाप्य च वाहिनीम सिंहनादं भृशं कृत्वा धनुः शब्दं च दारुणम 52 तावकाः समरे राजन रक्षितादृढ धन्वना परत्युद्ययुर अरातींस ते समन्ताद विगतव्यथाः 53 मद्रराजं महेष्वासं परिवार्य समन्ततः सथिता राजन महासेना यॊद्धुकामाः समन्ततः 54 सात्यकिर भिम सेनश च माद्रीपुत्रौ च पाण्डवौ युधिष्ठिरं पुरस्कृत्य हरीनेषेधम अरिंदमम 55 परिवार्य रणे वीराः सिंहनादं परचक्रिरे बाणशब्दरवांश चॊग्रान कष्वेडां च विविधान दधुः 56 तथैव तावकाः सर्वे मद्राधिपतिम अञ्जसा परिवार्य सुसंरब्धाः पुनर युद्धाम अरॊच्चयन 57 ततः परववृते युद्धं भीरूणां भयवर्धनम तावकानां परेषां च मृत्युं कृत्वा निवर्तनम 58 यथा देवासुरं युद्धं पूर्वम आसीद विशां पते अभीतानां तथा राजन यम राष्ट्रविवर्धनम 59 ततः कपिध्वजॊ राजन हत्वा संशप्तकान रणे अभ्यद्रवत तां सेनां कौरवीं पाण्डुनन्दनः 60 तथैव पाण्डवाः शेषा धृष्टद्युम्नपुरॊगमाः अभ्यधावन्त तां सेनां विसृजन्तः शिताञ शरान 61 पाण्डवैर अवकीर्णानां सांमॊहः समजायत न च जाज्ञुर अनीकानि दिशॊ वा परदिशस तथा 62 आपूर्यमाणा निशितैः शरैः पाण्डव चॊदितैः हतप्रवीरा विध्वस्ता कीर्यमाणा समन्ततः कौरव्य अवध्यत चमूः पाण्डुपुत्रैर महारथैः 63 तथैव पाण्डवी सेना शरै राजन समन्ततः रणे ऽहन्यत पुत्रैस ते शतशॊ ऽथ सहस्रशः 64 ते सेने भृशसंतप्ते वध्यमाने परस्परम वयाकुले समपद्येतां वर्षासु सरिताव इव 65 आविवेश ततस तीव्रं तावकानां महद भयम पाण्डवानां च राजेन्द्र तथा भूते महाहवे |
1
[s] tat prābhagnaṃ balaṃ dṛṣṭvā madrarājaḥ pratāpavān uvāca sārathiṃ tūrṇaṃ codayāśvān mahājavān 2 eṣa tiṣṭhati vai rājā pāṇḍuputro yudhiṣṭhiraḥ chattreṇa dhriyamāṇena pāṇḍureṇa virājatā 3 atra māṃ prāpaya kṣipraṃ paśyā me sārathe balam na samarthā hi me kṣipraṃ paśya me sārathe balam na samarthā hi me pārthāḥ sthātum adya puro yudhi 4 evam uktas tataḥ prāyān madrarājasya sārathiḥ yatra rājā satyasaṃdho dharmarājo yudhiṣṭhiraḥ 5 āpatantaṃ ca sahasā pāṇḍavānāṃ mahad balam dadhāraiko raṇe śalyo velevoddhṛtam arṇavam 6 pāṇḍavānāṃ balaughas tu śalyam āsādya māriṣa vyatiṣṭhata tadā yuddhe sindhor vega ivācalam 7 madrarājaṃ tu samare dṛṣṭvā yuddhāya viṣṭhitam kuravaḥ saṃnyavartanta mṛtyuṃ kṛtvā nivartanām 8 teṣu rājan nivṛtteṣu vyūḍhānīkeṣu bhāgaśaḥ prāvartata mahāraudraḥ saṃgrāmaḥ śoṇitodakaḥ samārcchacc citrasenena nakulo yuddhadurmadaḥ 9 tau parasparam āsādya citrakārmukadhāriṇau meghāv iva yathodvṛttau dakṣiṇottara varṣiṇau 10 śaratoyaiḥ siṣicatus tau parasparam āhave nāntaraṃ tatra paśyāmi pāṇḍavasyetarasya vā 11 ubhau kṛtāstrau balinau rathacaryā viśāradau parasparavadhe yattau chidrān veṣaṇatatparau 12 citrasenas tu bhallena pītenā niśitena ca nakulasya mahārāja muṣṭideśe 'cchinad dhanuḥ 13 athainaṃ chinnadhanvānaṃ rukmapuṅkhaiḥ śilāśitaiḥ tribhiḥ śarair asaṃbhrānto lalāṭe vai samarpayat 14 hayāṃś cāsya śarais tīkṣṇaiḥ preṣayām āsa mṛtyave tathā dhvajaṃ sārathiṃ ca tribhis tribhir apātayat 15 sa śatrubhuja nirmuktair lalāṭasthas tribhiḥ śaraiḥ nakulaḥ śuśubhe rājaṃs triśṛṅga iva parvataḥ 16 sa chinnadhanvā virathaḥ khaḍgam ādāya carma ca rathād avatarad vīraḥ śailāgrād iva kesarī 17 padbhyām āpatatas tasya śaravṛṣṭim avāsṛjat nakulo 'py agrasattāṃ vai carmāṇā laghuvikramaḥ 18 citrasenarathaṃ prāpya citrayodhī jitaśramaḥ āruroha mahābāhuḥ sarvasainyasya paśyataḥ 19 sakuṇḍalaṃ samukuṭaṃ sunasaṃ svāyatekṣaṇam citrasenaśiraḥ kāyād apāharata pāṇḍavaḥ sa papāta rathopasthād divākarasamaprabhaḥ 20 citrasenaṃ viśastaṃ tu dṛṣṭvā tatra mahārathāḥ sāddhu vādasvanāṃś cakruḥ siṃhanādāṃś ca puṣkalān 21 viśastaṃ bhrātaraṃ dṛṣṭvā karṇa putrau mahārathau suṣeṇaḥ satyasenaś ca muñcantau niśitāñ śarān 22 tato 'bhyadhāvatāṃ tūrṇaṃ pāṇḍavaṃ rathināṃ varam jighāṃsantau yathā nāgaṃ vyāghrau rājan mahāvane 23 tāv abhyadhāvatāṃ tīkṣṇau dvāv apy enaṃ mahāratham śaraughān samyag asyantau jīmūtau salilaṃ yathā 24 sa śaraiḥ sarvato viddhaḥ prahṛṣṭa iva pāṇḍavaḥ anyat kārmukam ādāya ratham āruhya vīryavān atiṣṭhata raṇe vīraḥ kruddha rūpa ivāntakaḥ 25 tasya tau bhrātarau rājañ śaraiḥ saṃnataparvabhiḥ rathaṃ viśakalīkartuṃ samārabdhau viśāṃ pate 26 tataḥ prahasya nakulaś caturbhiś caturo raṇe jaghāna niśitais tīkṣṇaiḥ satyasenasya vājinaḥ 27 tataḥ saṃdhāya nārācaṃ rukmapuṅkhaṃ śilāśitam dhanuś ciccheda rājendra satyasenasya pāṇḍavaḥ 28 athānyaṃ ratham āsthāya dhanur ādāya cāparam satyasenaḥ suṣeṇaś ca pāṇḍavaṃ paryadhāvatām 29 avidhyat tāv asaṃbhrāntau mādrīputraḥ pratāpavān dvābhyāṃ dvābhyāṃ mahārāja śarābhyāṃ raṇamūrdhani 30 suṣeṇas tu tataḥ kruddhaḥ pāṇḍavasya mahad dhanuḥ ciccheda prahasan yuddhe kṣurapreṇa mahārathaḥ 31 athānyad dhanur ādāya nakulaḥ krodhamūrcchitaḥ suṣeṇaṃ pañcabhir viddhvā dhvajam ekena cicchide 32 satyasenasya ca dhanur hastāvāpaṃ ca māriṣa ciccheda tarasā yuddhe tata uccukruśur janāḥ 33 athānyad dhanur ādāya vegaghnaṃ bhārasādhanam śaraiḥ saṃchādayām āsa samantāt pāṇḍunandanam 34 saṃnivārya tu tān bāṇān nakulaḥ paravīrahā satyasenaṃ suṣeṇaṃ ca dvābhyāṃ dvābhyām avidhyata 35 tāv enaṃ pratyavidhyetāṃ pṛthakpṛthag ajihmagaiḥ sārathiṃ cāsya rājendra śarair vivyadhatuḥ śitaiḥ 36 satyaseno ratheṣāṃ tu nakulasyā dhanus tathā pṛthak śarābhyāṃ ciccheda kṛtahastaḥ pratāpavān 37 sa rathe 'tirathas tiṣṭhan rathaśaktiṃ parāmṛśat svarṇadaṇḍām akuṇṭhāgrāṃ tailadhautāṃ sunirmalām 38 lelihānām iva vibho nāgakanyāṃ mahāviṣām samudyamya ca cikṣepa satyasenasya saṃyuge 39 sā tasya hṛdayaṃ saṃkhye bibheda śatadhā nṛpa sa papāta rathād bhūmau gatasattvo 'lpacetanaḥ 40 bhrātaraṃ nihataṃ dṛṣṭvā suṣeṇaḥ krodhamūrchitaḥ abhyavarṣac charais tūrṇaṃ padātiṃ pāṇḍunandanam 41 nakulaṃ virathaṃ dṛṣṭvā draupadeyo mahābalaḥ suta somo 'bhidudrāva parīpsan pitaraṃ raṇe 42 tato 'dhiruhya nakulaḥ suta somasya taṃ ratham śuśubhe bharataśreṣṭho giristha iva kesarī so 'nyat kārmukam ādāya suṣeṇaṃ samayodhayat 43 tāv ubhau śaravarṣābhyāṃ samāsādya parasparam parasparavadhe yatnaṃ cakratuḥ sumahārathau 44 suṣeṇas tu tataḥ kruddhaḥ pāṇḍavaṃ viśikhais tribhiḥ suta somaṃ ca viṃśatyā bāhvor urasi cārpayat 45 tataḥ kruddho mahārāja nakulaḥ paravīrahā śarais tasya diśaḥ sarvāś chādayām āsa vīryavān 46 tato gṛhītvā tīkṣṇāgram ardhacandraṃ sutejanam sa vegayuktaṃ cikṣepa karṇa putrasya saṃyuge 47 tasya tenā śiraḥ kāyāj jahāra nṛpasattama paśyatāṃ sarvasainyānāṃ tad adbhutam ivābhavat 48 sa hataḥ prāpatad rājan nakulena mahātmanā nadīvegād ivārugṇas tīrajaḥ pādapo mahān 49 karṇa putravadhaṃ dṛṣṭvā nakulasya ca vikramam pradudrāva bhayāt senā tāvakī bharatarṣabha 50 tāṃ tu senāṃ mahārāja madrarājaḥ pratāpavān apālayad raṇe śūraḥ senāpatir ariṃdamaḥ 51 vibhīs tasthau mahārāja vyavasthāpya ca vāhinīm siṃhanādaṃ bhṛśaṃ kṛtvā dhanuḥ śabdaṃ ca dāruṇam 52 tāvakāḥ samare rājan rakṣitādṛḍha dhanvanā pratyudyayur arātīṃs te samantād vigatavyathāḥ 53 madrarājaṃ maheṣvāsaṃ parivārya samantataḥ sthitā rājan mahāsenā yoddhukāmāḥ samantataḥ 54 sātyakir bhima senaś ca mādrīputrau ca pāṇḍavau yudhiṣṭhiraṃ puraskṛtya hrīneṣedham ariṃdamam 55 parivārya raṇe vīrāḥ siṃhanādaṃ pracakrire bāṇaśabdaravāṃś cogrān kṣveḍāṃ ca vividhān dadhuḥ 56 tathaiva tāvakāḥ sarve madrādhipatim añjasā parivārya susaṃrabdhāḥ punar yuddhām aroccayan 57 tataḥ pravavṛte yuddhaṃ bhīrūṇāṃ bhayavardhanam tāvakānāṃ pareṣāṃ ca mṛtyuṃ kṛtvā nivartanam 58 yathā devāsuraṃ yuddhaṃ pūrvam āsīd viśāṃ pate abhītānāṃ tathā rājan yama rāṣṭravivardhanam 59 tataḥ kapidhvajo rājan hatvā saṃśaptakān raṇe abhyadravata tāṃ senāṃ kauravīṃ pāṇḍunandanaḥ 60 tathaiva pāṇḍavāḥ śeṣā dhṛṣṭadyumnapurogamāḥ abhyadhāvanta tāṃ senāṃ visṛjantaḥ śitāñ śarān 61 pāṇḍavair avakīrṇānāṃ sāṃmohaḥ samajāyata na ca jājñur anīkāni diśo vā pradiśas tathā 62 āpūryamāṇā niśitaiḥ śaraiḥ pāṇḍava coditaiḥ hatapravīrā vidhvastā kīryamāṇā samantataḥ kauravy avadhyata camūḥ pāṇḍuputrair mahārathaiḥ 63 tathaiva pāṇḍavī senā śarai rājan samantataḥ raṇe 'hanyata putrais te śataśo 'tha sahasraśaḥ 64 te sene bhṛśasaṃtapte vadhyamāne parasparam vyākule samapadyetāṃ varṣāsu saritāv iva 65 āviveśa tatas tīvraṃ tāvakānāṃ mahad bhayam pāṇḍavānāṃ ca rājendra tathā bhūte mahāhave |
The Mahabharata in Sanskrit
Book 9
Chapter 10
|
1
[स] तस्मिन विलुलिते सैन्ये वध्यमाने परस्परम दरवमाणेषु यॊधेषु निनदत्सु च दन्तिषु 2 कूजतां सतनतां चैव पदातीनां महाहवे विद्रुतेषु महाराज हयेषु बहुधा तदा 3 परक्षये दारुणे जाते संहारे सर्वदेहिनाम नानाशस्त्रसमावापे वयतिषक्त रथद्विपे 4 हर्षणे युद्धशौण्डानां भीरूणां भयवर्धने गाहमानेषु यॊधेषु परस्परवधैषिषु 5 पराणादाने महाघॊरे वर्तमाने दुरॊदरे संग्रामे घॊररूपे तु यम राष्ट्रविवर्धने 6 पाण्डवास तावकं सैन्यं वयधमन निशितैः शरैः तथैव तावका यॊधा जग्नुः पाण्डवसैनिकान 7 तस्मिंस तथा वर्तमाने युद्धे भीरु भयावहे पूर्वाह्णे चैव संप्राप्ते भास्करॊदयनं परति 8 लब्धलक्षाः परे राजन रक्षिताश च महात्मना अयॊधयंस तव बलं मृत्युं कृत्वा निवर्तनम 9 बलिभिः पाण्डवैर दृप्तैर लब्धलक्षैः परहारिभिः कौरव्य असीदत पृतना मृगीवाग्निसमाकुला 10 तां दृष्ट्वा सीदतीं सेनां पङ्के गाम इव दुर्बलाम उज्जिहीर्षुस तदा शल्यः परायत पाण्डुचमूं परति 11 मद्रराजस तु संक्रुद्धॊ गृहीत्वा धनुर उत्तमम अभ्यद्रवत संग्रामे पाण्डवान आततायिनः 12 पाण्डवाश च महाराज समरे जितकाशिनः मद्रराजं समासाद्य विव्यधुर निशितैः शरैः 13 ततः शरशतैस तीक्ष्णैर मद्रराजॊ महाबलः अर्दयाम आस तां सेनां धर्मराजस्य पश्यतः 14 परादुरासंस ततॊ राजन नानारूपण्य अनेकशः चचाल शब्दं कुर्वाणा मही चापि सपर्वता 15 सदण्ड शूला दीप्ताग्राः शीर्यमाणाः समन्ततः उल्का भूमिं दिवः पेतुर आहत्य रविमण्डलम 16 मृगश च माहिषाश चापि पक्षिणश च विशां पते अपसव्यं तदा चक्रुः सेनां ते बहुशॊ नृप 17 ततस तद युद्धम अत्युग्रम अभवत संघचारिणाम तथ सर्वाण्य अनीकानि संनिपत्य जनाधिप अभ्ययुः कौरवा राजन पाण्डवानाम अनीकिनीम 18 शल्यस तु शरवर्षेण वर्षन्न इव सहस्रदृक अभ्यवर्षद अदीनात्मा कुन्तीपुत्रं युधिष्ठिरम 19 भीमसेनं शरैश चापि रुक्मपुङ्खैः शिलाशितः दरौपदेयांस तथा सर्वान माद्रीपुत्रौ च पाण्डवौ 20 धृष्टद्युम्नं च शैनेयं शिखण्डिनम अथापि च एकैकं दशभिर बाणैर विव्याध च महाबलः ततॊ ऽसृजद बाणवर्षं घर्मान्ते मघवान इव 21 ततः परभद्रका राजन सॊमकाश च सहस्रशः पतिताः पात्यमानाश च दृश्यन्ते शल्य सायकैः 22 भरमराणाम इव वराताः शलभानाम इव वरजाः हरादिन्य इव मेघेभ्यः शल्यस्य नयपतञ शराः 23 दविरदास तुरगाश चार्ताः पत्तयॊ रथिनस तथा शल्यस्य बाणैर नयपतन बभ्रमुर वयनदंस तथा 24 आविष्ट इव मद्रेशॊ मन्युना पौरुषेण च पराच्छादयद अरीन संख्ये कालसृष्ट इवान्तकः विनर्दमानॊ मद्रेशॊ मेघह्रादॊ महाबलः 25 स वध्यमाना शल्येन पाण्डवानाम अनीकिनी अजातशत्रुं कौन्तेयम अभ्यधावद युधिष्ठिरम 26 तां समर्प्य ततः संख्ये लघुहस्तः शितैः शरैः शरवर्षेण महता युधिष्ठिरम अपीडयत 27 तम आपतन्तं पत्त्यश्वैः करुद्धॊ राजा युधिष्ठिरः अवारयच छरैस तीक्ष्णैर मत्तं दविपम इवाङ्कुशैः 28 तस्य शल्यः शरं घॊरं मुमॊचाशीविषॊपमम सॊ ऽभयविध्यन महात्मानं वेगेनाभ्यपतच च गाम 29 ततॊ वृकॊदरः करुद्धः शल्यं विव्याध सप्तभिः पञ्चभिः सहदेवस तु नकुलॊ दशभिः शरैः 30 दरौपदेयाश च शत्रुघ्नं शूरम आर्तायनिं शरैः अभ्यवर्षन महाभागं मेघा इव महीधरम 31 ततॊ दृष्ट्वा तुद्यमानं शल्यं पार्थैः समन्ततः कृतवर्मा कृपश चैव संक्रुद्धाव अभ्यधावताम 32 उलूकश च पतत्री च शकुनिश चापि सौबलः समयमानश च शनकैर अश्वत्थामा महारथः तव पुत्राश च कार्त्स्न्येन जुगुपुः शल्यम आहवे 33 भीमसेनं तरिभिर विद्ध्वा कृतवर्मा शिलीमुखैः बाणवर्णेण महता करुद्ध रूपम अवारयत 34 धृष्टद्युम्नं कृपः करुद्धॊ बाणवर्णैर अपीडयत दरौपदेयांश च शकुनिर यमौ च दरौणिर अभ्ययात 35 दुर्यॊधनॊ युधां शरेष्ठाव आहवे केशवार्जुनौ समभ्ययाद उग्रतेजाः शरैश चाभ्यहनद बली 36 एवं दवंद्व शतान्य आसंस तवदीयानां परिः सह घॊररूपाणि चित्राणि तत्र तत्र विशां पते 37 ऋश्य वर्णाञ जघानाश्वान भॊजॊ भीमस्य संयुगे सॊ ऽवतीर्य रथॊपस्थाद धताश्वः पाण्डुनन्दनः कालॊ दण्डम इवॊद्यम्य गदापाणिर अयुध्यत 38 परमुखे सहदेवस्य जघानाश्वांश च मद्रराट ततः शल्यस्य तनयं सहदेवॊ ऽसिनावधीत 39 गौतमः पुनर आचार्यॊ धृष्टद्युम्नम अयॊधयत असंभ्रान्तम असंभ्रान्तॊ यत्नवान यत्नवत्तरम 40 दरौपदेयांस तथा वीरान एकैकं दशभिः शरैः अविध्यद आचार्य सुतॊ नातिक्रुद्धः समयन्न इव 41 शल्यॊ ऽपि राजन संक्रुद्धॊ निघ्नन सॊमक पाण्डवान पुनर एव शितैर बाणैर युधिष्ठिरम अपीडयत 42 तस्य भीमॊ रणे करुद्धः संदष्ट दशनच छदः विनाशायाभिसंधाय गदाम आदत्त वीर्यवान 43 यमदण्डप्रतीकाशां कलरात्रिम इवॊद्यताम गजवाजिमनुष्याणां पराणान्त करणीम अपि 44 हेमपट्ट परिक्षिप्ताम उल्कां परज्वलिताम इव शैक्यां वयालीम इवात्युग्रां वज्रकल्पाम अयॊ मयीम 45 चन्दनागुरुपङ्काक्तां परमदाम ईप्सिताम इव वसा मेदॊ मृगादिग्धां जिह्वां वैवस्वतीम इव 46 पटु घण्टा रव शतां वासवीम अशनीम इव निर्मुक्ताशीविषाकारां पृक्तां गजमदैर अपि 47 तरासनीं रिपुसैन्यानां सवसैन्यपरिहर्षिणीम मनुष्यलॊके विख्यातां गिरिशृङ्गविदारिणीम 48 यया कौलास भवने महेश्वर सखं बली आह्वयाम आस कौन्तेयः संक्रुद्धम अलकाधिपम 49 यया मायाविनॊ दृप्तान सुबहून धनदालये जघान गुह्यकान करुद्धॊ मन्दारार्थे महाबलः निवार्यमाणॊ बहुभिर दरौपद्याः परियम आस्थितः 50 तां वज्रं मणिरत्नौघाम अष्टाश्रिं वज्रगौरवाम समुद्यम्य महाबाहुः शल्यम अभ्यद्द्रवद रणे 51 गदया युद्धकुशलस तया दारुणनादया पॊठयाम आस शल्यस्य चतुरॊ ऽशवान महाजवान 52 ततः शल्यॊ रणे करुद्धः पीने वक्षसि तॊमरम निचखान नदन वीरॊ वर्म भित्त्वा च सॊ ऽभयगात 53 वृकॊदरस तव अस्मभ्रातस तम एवॊद्धृत्य तॊमरम यन्तारं मद्रराजस्य निर्बिभेद ततॊ हृदि 54 स भिन्नवर्मा रुधिरं वमन वित्रस्तमानसः पपाताभिमुहॊ दीनॊ मद्रराजस तव अपाक्रमत 55 कृतप्रतिकृतं दृष्ट्वा शल्यॊ विस्मितमानसः गदाम आश्रित्य धीरात्मा परत्यमित्रम अवैक्षत 56 ततः सुमनसः पार्था भीमसेनम अपूजयन तद दृष्ट्वा कर्मसंग्रामे घॊरम अक्लिष्टकर्मणः |
1
[s] tasmin vilulite sainye vadhyamāne parasparam dravamāṇeṣu yodheṣu ninadatsu ca dantiṣu 2 kūjatāṃ stanatāṃ caiva padātīnāṃ mahāhave vidruteṣu mahārāja hayeṣu bahudhā tadā 3 prakṣaye dāruṇe jāte saṃhāre sarvadehinām nānāśastrasamāvāpe vyatiṣakta rathadvipe 4 harṣaṇe yuddhaśauṇḍānāṃ bhīrūṇāṃ bhayavardhane gāhamāneṣu yodheṣu parasparavadhaiṣiṣu 5 prāṇādāne mahāghore vartamāne durodare saṃgrāme ghorarūpe tu yama rāṣṭravivardhane 6 pāṇḍavās tāvakaṃ sainyaṃ vyadhaman niśitaiḥ śaraiḥ tathaiva tāvakā yodhā jagnuḥ pāṇḍavasainikān 7 tasmiṃs tathā vartamāne yuddhe bhīru bhayāvahe pūrvāhṇe caiva saṃprāpte bhāskarodayanaṃ prati 8 labdhalakṣāḥ pare rājan rakṣitāś ca mahātmanā ayodhayaṃs tava balaṃ mṛtyuṃ kṛtvā nivartanam 9 balibhiḥ pāṇḍavair dṛptair labdhalakṣaiḥ prahāribhiḥ kauravy asīdat pṛtanā mṛgīvāgnisamākulā 10 tāṃ dṛṣṭvā sīdatīṃ senāṃ paṅke gām iva durbalām ujjihīrṣus tadā śalyaḥ prāyat pāṇḍucamūṃ prati 11 madrarājas tu saṃkruddho gṛhītvā dhanur uttamam abhyadravata saṃgrāme pāṇḍavān ātatāyinaḥ 12 pāṇḍavāś ca mahārāja samare jitakāśinaḥ madrarājaṃ samāsādya vivyadhur niśitaiḥ śaraiḥ 13 tataḥ śaraśatais tīkṣṇair madrarājo mahābalaḥ ardayām āsa tāṃ senāṃ dharmarājasya paśyataḥ 14 prādurāsaṃs tato rājan nānārūpaṇy anekaśaḥ cacāla śabdaṃ kurvāṇā mahī cāpi saparvatā 15 sadaṇḍa śūlā dīptāgrāḥ śīryamāṇāḥ samantataḥ ulkā bhūmiṃ divaḥ petur āhatya ravimaṇḍalam 16 mṛgaś ca māhiṣāś cāpi pakṣiṇaś ca viśāṃ pate apasavyaṃ tadā cakruḥ senāṃ te bahuśo nṛpa 17 tatas tad yuddham atyugram abhavat saṃghacāriṇām tatha sarvāṇy anīkāni saṃnipatya janādhipa abhyayuḥ kauravā rājan pāṇḍavānām anīkinīm 18 śalyas tu śaravarṣeṇa varṣann iva sahasradṛk abhyavarṣad adīnātmā kuntīputraṃ yudhiṣṭhiram 19 bhīmasenaṃ śaraiś cāpi rukmapuṅkhaiḥ śilāśitaḥ draupadeyāṃs tathā sarvān mādrīputrau ca pāṇḍavau 20 dhṛṣṭadyumnaṃ ca śaineyaṃ śikhaṇḍinam athāpi ca ekaikaṃ daśabhir bāṇair vivyādha ca mahābalaḥ tato 'sṛjad bāṇavarṣaṃ gharmānte maghavān iva 21 tataḥ prabhadrakā rājan somakāś ca sahasraśaḥ patitāḥ pātyamānāś ca dṛśyante śalya sāyakaiḥ 22 bhramarāṇām iva vrātāḥ śalabhānām iva vrajāḥ hrādinya iva meghebhyaḥ śalyasya nyapatañ śarāḥ 23 dviradās turagāś cārtāḥ pattayo rathinas tathā śalyasya bāṇair nyapatan babhramur vyanadaṃs tathā 24 āviṣṭa iva madreśo manyunā pauruṣeṇa ca prācchādayad arīn saṃkhye kālasṛṣṭa ivāntakaḥ vinardamāno madreśo meghahrādo mahābalaḥ 25 sa vadhyamānā śalyena pāṇḍavānām anīkinī ajātaśatruṃ kaunteyam abhyadhāvad yudhiṣṭhiram 26 tāṃ samarpya tataḥ saṃkhye laghuhastaḥ śitaiḥ śaraiḥ śaravarṣeṇa mahatā yudhiṣṭhiram apīḍayat 27 tam āpatantaṃ pattyaśvaiḥ kruddho rājā yudhiṣṭhiraḥ avārayac charais tīkṣṇair mattaṃ dvipam ivāṅkuśaiḥ 28 tasya śalyaḥ śaraṃ ghoraṃ mumocāśīviṣopamam so 'bhyavidhyan mahātmānaṃ vegenābhyapatac ca gām 29 tato vṛkodaraḥ kruddhaḥ śalyaṃ vivyādha saptabhiḥ pañcabhiḥ sahadevas tu nakulo daśabhiḥ śaraiḥ 30 draupadeyāś ca śatrughnaṃ śūram ārtāyaniṃ śaraiḥ abhyavarṣan mahābhāgaṃ meghā iva mahīdharam 31 tato dṛṣṭvā tudyamānaṃ śalyaṃ pārthaiḥ samantataḥ kṛtavarmā kṛpaś caiva saṃkruddhāv abhyadhāvatām 32 ulūkaś ca patatrī ca śakuniś cāpi saubalaḥ smayamānaś ca śanakair aśvatthāmā mahārathaḥ tava putrāś ca kārtsnyena jugupuḥ śalyam āhave 33 bhīmasenaṃ tribhir viddhvā kṛtavarmā śilīmukhaiḥ bāṇavarṇeṇa mahatā kruddha rūpam avārayat 34 dhṛṣṭadyumnaṃ kṛpaḥ kruddho bāṇavarṇair apīḍayat draupadeyāṃś ca śakunir yamau ca drauṇir abhyayāt 35 duryodhano yudhāṃ śreṣṭhāv āhave keśavārjunau samabhyayād ugratejāḥ śaraiś cābhyahanad balī 36 evaṃ dvaṃdva śatāny āsaṃs tvadīyānāṃ pariḥ saha ghorarūpāṇi citrāṇi tatra tatra viśāṃ pate 37 ṛśya varṇāñ jaghānāśvān bhojo bhīmasya saṃyuge so 'vatīrya rathopasthād dhatāśvaḥ pāṇḍunandanaḥ kālo daṇḍam ivodyamya gadāpāṇir ayudhyata 38 pramukhe sahadevasya jaghānāśvāṃś ca madrarāṭ tataḥ śalyasya tanayaṃ sahadevo 'sināvadhīt 39 gautamaḥ punar ācāryo dhṛṣṭadyumnam ayodhayat asaṃbhrāntam asaṃbhrānto yatnavān yatnavattaram 40 draupadeyāṃs tathā vīrān ekaikaṃ daśabhiḥ śaraiḥ avidhyad ācārya suto nātikruddhaḥ smayann iva 41 śalyo 'pi rājan saṃkruddho nighnan somaka pāṇḍavān punar eva śitair bāṇair yudhiṣṭhiram apīḍayat 42 tasya bhīmo raṇe kruddhaḥ saṃdaṣṭa daśanac chadaḥ vināśāyābhisaṃdhāya gadām ādatta vīryavān 43 yamadaṇḍapratīkāśāṃ kalarātrim ivodyatām gajavājimanuṣyāṇāṃ prāṇānta karaṇīm api 44 hemapaṭṭa parikṣiptām ulkāṃ prajvalitām iva śaikyāṃ vyālīm ivātyugrāṃ vajrakalpām ayo mayīm 45 candanāgurupaṅkāktāṃ pramadām īpsitām iva vasā medo mṛgādigdhāṃ jihvāṃ vaivasvatīm iva 46 paṭu ghaṇṭā rava śatāṃ vāsavīm aśanīm iva nirmuktāśīviṣākārāṃ pṛktāṃ gajamadair api 47 trāsanīṃ ripusainyānāṃ svasainyapariharṣiṇīm manuṣyaloke vikhyātāṃ giriśṛṅgavidāriṇīm 48 yayā kaulāsa bhavane maheśvara sakhaṃ balī āhvayām āsa kaunteyaḥ saṃkruddham alakādhipam 49 yayā māyāvino dṛptān subahūn dhanadālaye jaghāna guhyakān kruddho mandārārthe mahābalaḥ nivāryamāṇo bahubhir draupadyāḥ priyam āsthitaḥ 50 tāṃ vajraṃ maṇiratnaughām aṣṭāśriṃ vajragauravām samudyamya mahābāhuḥ śalyam abhyaddravad raṇe 51 gadayā yuddhakuśalas tayā dāruṇanādayā poṭhayām āsa śalyasya caturo 'śvān mahājavān 52 tataḥ śalyo raṇe kruddhaḥ pīne vakṣasi tomaram nicakhāna nadan vīro varma bhittvā ca so 'bhyagāt 53 vṛkodaras tv asmabhrātas tam evoddhṛtya tomaram yantāraṃ madrarājasya nirbibheda tato hṛdi 54 sa bhinnavarmā rudhiraṃ vaman vitrastamānasaḥ papātābhimuho dīno madrarājas tv apākramat 55 kṛtapratikṛtaṃ dṛṣṭvā śalyo vismitamānasaḥ gadām āśritya dhīrātmā pratyamitram avaikṣata 56 tataḥ sumanasaḥ pārthā bhīmasenam apūjayan tad dṛṣṭvā karmasaṃgrāme ghoram akliṣṭakarmaṇaḥ |
The Mahabharata in Sanskrit
Book 9
Chapter 11
|
1
[स] पतितं परेक्ष्य यन्तारं शल्यः सर्वायसीं गदाम आदाय तरसा राजंस तस्थौ गिरिर इवाचलः 2 तं दीप्तम इव कालाग्निं पाशहस्तम इवान्तकम सशृङ्गम इव कौलासं सवज्रम इव वासवम 3 सशूलम इव हर्यक्षं वने मत्तम इव दविपम जवेनाभ्यपतद भीमः परगृह्य महतीं गदाम 4 ततः शङ्खप्रणादश च तूर्याणां च सहस्रशः सिंहनादश च संजज्ञे शूराणां हर्षवर्धनः 5 परेक्षन्तः सर्वतस तौ हि यॊधा यॊधमहाद्विपौ तावकाश च परे चैव साधु साध्व इत्य अथाब्रुवन 6 न हि मद्राधिपाद अन्यॊ रामाद वा यदुनन्दनात सॊढुम उत्सहते वेगं भीमसेनस्य संयुगे 7 तथा मद्राधिपस्यापि गदा वेगं महात्मनः सॊढुम उत्सहते नान्यॊ यॊधॊ युधि वृकॊदरात 8 तौ वृषाव इव नर्दन्तौ मण्डलानि विचेरतुः आवल्गितौ गदाहस्तौ मद्रराजवृकॊदरौ 9 मण्डलावर्त मार्गेषु गदा विहरणेषु च निर्विशेषम अभूद युद्धं तयॊः पुरुषसिंहयॊः 10 तप्तहेममयैः शुभ्रैर बभूव भयवर्धनी अग्निज्वालैर इवाविद्धा पट्टैः शल्यस्य सा गदा 11 तथैव चरतॊ मार्गान मण्डलेषु महात्मनः विद्युद अभ्रप्रतीकाशा भीमस्य शुशुभे गदा 12 ताडिता मद्रराजेन भीमस्य गदया गदा दीप्यमानेव वै राजन ससृजे पावकार्चिषः 13 तथा भीमेन शल्यस्य ताडिता गदया गदा अङ्गारवर्षं मुमुचे तद अद्भुतम इवाभवत 14 दन्तैर इव महानागौ शृङ्गैर इव महर्षभौ तॊत्त्रैर इव तदान्यॊन्यं गदा गराभ्यां निजघ्नतुः 15 तौ गदा निहतैर गात्रैः कषणेन रुधिरॊक्षितौ परेक्षणीयतराव आस्तां पुष्पिताव इव किंशुकौ 16 गदया मद्रराजेन सव्यदक्षिणम आहतः भीमसेनॊ महाबाहुर न चचालाचलॊ यथा 17 तथा भीम गदा वेगैस ताड्यमानॊ मुहुर मुहुः शल्यॊ न विव्यथे राजन दन्तिनेवाहतॊ गिरिः 18 शुश्रुवे दिक्षु सर्वासु तयॊः पुरुषसिंहयॊः गदा निपातसंह्रादॊ वज्रयॊर इव निस्वनः 19 निवृत्य तु महावीर्यौ समुच्छ्रितगदाव उभौ पुनर अन्तरमार्गस्थौ मण्डलानि विचेरतुः 20 अथाभ्येत्य पदान्य अष्टौ संनिपातॊ ऽभवत तयॊः उद्यम्य लॊहदण्डाभ्याम अतिमानुष कर्मणॊः 21 परार्थयानौ तदान्यॊ ऽनयं मण्डलानि विचेरतुः करियाविशेषं कृतिनौ दर्शयाम आसतुस तदा 22 अथॊद्यम्य गदे घॊरे सशृङ्गाव इव पर्वतौ ताव आजघ्नातुर अन्यॊन्यं यथा भूमिचलॊ ऽचलौ 23 तौ परस्परवेगाच च गदाभ्यां च भृशाहतौ युगपत पेततुर वीराव उभाव इन्द्रध्वजाव इव 24 उभयॊः सेनयॊर वीरास तदा हाहाकृतॊ ऽभवन भृशं मर्मण्य अभिहताव उभाव आस्तां सुविह्वलौ 25 ततः सगदम आरॊप्य मद्राणाम ऋषभं रथे अपॊवाह कृपः शल्यं तूर्णम आयॊधनाद अपि 26 कषीबवद विह्वलत्वात तु निमेषात पुनर उत्थितः भीमसेनॊ गदापाणिः समाह्वयत मद्रपम 27 ततस तु तावकाः शूरा नानाशस्त्रसमायुताः नाना वादित्रशब्देन पाण्डुसेनाम अयॊधयन 28 भुजाव उच्छ्रित्य शस्त्रं च शब्देन महता ततः अभ्यद्रवन महाराज दुर्यॊधन पुरॊगमाः 29 तद अनीकम अभिप्रेक्ष्य ततस ते पाण्डुनन्दनाः परययुः सिंहनादेन दुर्यॊधन वधेप्सया 30 तेषाम आपततां तूर्णं पुत्रस ते भरतर्षभ परासेन चेकितानं वै विव्याध हृदये भृशम 31 स पपात रथॊपस्थे तव पुत्रेण ताडितः रुधिरौघपरिक्लिन्नः परविश्य विपुलं तमः 32 चेकितानं हतं दृष्ट्वा पाण्डवानां महारथाः परसक्तम अभ्यवर्षन्त शरवर्षाणि भागशः 33 तावकानाम अनीकेषु पाण्डवा जितकाशिनः वयचरन्त महाराज परेक्षणीयाः समन्ततः 34 कृपश च कृतवर्मा च सौबलश च महाबलः अयॊधयन धर्मराजं मद्रराजपुरस्कृताः 35 भारद्वाजस्य हन्तारं भूरि वीर्यपराक्रमम दुर्यॊधनॊ महाराज धृष्टद्युम्नम अयॊधयत 36 तरिसाहस्रा रथा राजंस तव पुत्रेण चॊदिताः अयॊधयन्त विजयं दरॊणपुत्र पुरस्कृताः 37 विजये धृतसंकाल्पाः समभित्यक्तजीविताः पराविशंस तावका राजन हंसा इव महत सरः 38 ततॊ युद्धम अभूद घॊरं परस्परवधैषिणाम अन्यॊन्यवधसंयुक्तम अन्यॊन्यप्रीतिवर्धनम 39 तस्मिन परवृत्ते संग्रामे राजन वीरवरक्षये अनिलेनेरितं घॊरम उत्तस्थौ पार्थिवं रजः 40 शरवणान नामधेयानां पाण्डवानां च कीर्तनात परस्परं विजानीमॊ ये चायुध्यन्न अभीतवत 41 तद रजः पुरुषव्याघ्र शॊणितेन परशामितम दिशश च विमला जज्ञुस तस्मिन रजसि शामिते 42 तथा परवृत्ते संग्रामे घॊररूपे भयानके तावकानां परेषां च नासीत कश चित पराङ्मुखः 43 बरह्मलॊकपरा भूत्वा परार्थयन्तॊ जयं युधि सुयुद्धेन पराक्रान्ता नराः सवर्गम अभिप्सवः 44 भर्तृपिण्ड विमॊक्ष अर्थं भर्तृकार्यविनिश्चिताः सवर्गसंसक्तमनसॊ यॊधा युयुधिरे तदा 45 नानारूपाणि शस्त्राणि विसृजन्तॊ महारथाः अन्यॊन्यम अभिगर्जन्तः परहरन्तः परस्परम 46 हतविध्यत गृह्णीत परहरध्वं निकृन्तत इति सम वाचः शरूयन्ते तव तेषां च वै बले 47 ततः शल्यॊ महाराज धर्मराजं युधिष्ठिरम विव्याध निशितैर बाणैर हन्तुकामॊ महारथम 48 तस्य पार्थॊ महाराज नाराचान वै महारथम मर्माण्य उद्दिश्य मर्मज्ञॊ निचखान हसन्न इव 49 तं वार्य पाण्डवं बाणैर हन्तुकामॊ महायशाः विव्याध समरे करुद्धॊ बहुभिः कङ्कपत्रिभिः 50 अथ भूयॊ महाराज शरेण नतपर्वणा युधिष्ठिरं समाजघ्ने सर्वसैन्यस्य पश्यतः 51 धर्मराजॊ ऽपि संक्रुद्धॊ मद्रराजं महायशाः विव्याध निशितैर बाणैः कङ्कबर्हिण वाजितैः 52 चन्द्र सेनं च सप्तत्या सूतं च नवभिः शरैः दरुमसेनं चतुःषष्ट्या निजघान महारथः 53 चक्ररक्षे हते शल्यः पाण्डवेन महात्मना निजघान ततॊ राजंश चेदीन वै पञ्चविंशतिम 54 सात्यकिं पञ्चविंशत्या भीमसेनं च पञ्चभिः माद्रीपुत्रौ शतेनाजौ विव्याध निशितैः शरैः 55 एवं विचरतस तस्य संग्रामे राजसत्तम संप्रेषयच छितान पार्तः शरान आशीविषॊपमान 56 धवजाग्रं चास्य समरे कुन्तीपुत्रॊ युधिष्ठिरः परमुखे वर्तमानस्य भल्लेनापहरद रथात 57 पाण्डुपुत्रेण वै तस्य केतुं छिन्नं महात्मना निपतन्तम अपश्याम गिरिशृङ्गम इवाहतम 58 धवजं निपतितं दृष्ट्वा पाण्डवं च वयवस्थितम संक्रुद्धॊ मद्रराजॊ ऽभूच छरवर्षं मुमॊच ह 59 शल्यः सायकवर्षेण पर्जन्य इव वृष्टिमान अभ्यवर्षद अमेयात्मा कषत्रियं कषत्रियर्षभः 60 सात्यकिं भीमसेनं च माद्रीपुत्रौ च पाण्डवौ एकैकं पञ्चभिर विद्ध्वा युधिष्ठिरम अपीडयत 61 ततॊ बाणमयं जालं विततं पाण्डवॊर असि अपश्याम महाराज मेघजालम इवॊद्गतम 62 तस्या शल्यॊ रणे करुद्धॊ बाणैः संनतपर्वभिः दिशः परच्छादयाम आस परदिशश च महारथः 63 ततॊ युधिष्ठिरॊ राजा बाणजालेन पीडितः बभूव हृतविक्रान्तॊ जम्भॊ वृत्र हणा यथा |
1
[s] patitaṃ prekṣya yantāraṃ śalyaḥ sarvāyasīṃ gadām ādāya tarasā rājaṃs tasthau girir ivācalaḥ 2 taṃ dīptam iva kālāgniṃ pāśahastam ivāntakam saśṛṅgam iva kaulāsaṃ savajram iva vāsavam 3 saśūlam iva haryakṣaṃ vane mattam iva dvipam javenābhyapatad bhīmaḥ pragṛhya mahatīṃ gadām 4 tataḥ śaṅkhapraṇādaś ca tūryāṇāṃ ca sahasraśaḥ siṃhanādaś ca saṃjajñe śūrāṇāṃ harṣavardhanaḥ 5 prekṣantaḥ sarvatas tau hi yodhā yodhamahādvipau tāvakāś ca pare caiva sādhu sādhv ity athābruvan 6 na hi madrādhipād anyo rāmād vā yadunandanāt soḍhum utsahate vegaṃ bhīmasenasya saṃyuge 7 tathā madrādhipasyāpi gadā vegaṃ mahātmanaḥ soḍhum utsahate nānyo yodho yudhi vṛkodarāt 8 tau vṛṣāv iva nardantau maṇḍalāni viceratuḥ āvalgitau gadāhastau madrarājavṛkodarau 9 maṇḍalāvarta mārgeṣu gadā viharaṇeṣu ca nirviśeṣam abhūd yuddhaṃ tayoḥ puruṣasiṃhayoḥ 10 taptahemamayaiḥ śubhrair babhūva bhayavardhanī agnijvālair ivāviddhā paṭṭaiḥ śalyasya sā gadā 11 tathaiva carato mārgān maṇḍaleṣu mahātmanaḥ vidyud abhrapratīkāśā bhīmasya śuśubhe gadā 12 tāḍitā madrarājena bhīmasya gadayā gadā dīpyamāneva vai rājan sasṛje pāvakārciṣaḥ 13 tathā bhīmena śalyasya tāḍitā gadayā gadā aṅgāravarṣaṃ mumuce tad adbhutam ivābhavat 14 dantair iva mahānāgau śṛṅgair iva maharṣabhau tottrair iva tadānyonyaṃ gadā grābhyāṃ nijaghnatuḥ 15 tau gadā nihatair gātraiḥ kṣaṇena rudhirokṣitau prekṣaṇīyatarāv āstāṃ puṣpitāv iva kiṃśukau 16 gadayā madrarājena savyadakṣiṇam āhataḥ bhīmaseno mahābāhur na cacālācalo yathā 17 tathā bhīma gadā vegais tāḍyamāno muhur muhuḥ śalyo na vivyathe rājan dantinevāhato giriḥ 18 śuśruve dikṣu sarvāsu tayoḥ puruṣasiṃhayoḥ gadā nipātasaṃhrādo vajrayor iva nisvanaḥ 19 nivṛtya tu mahāvīryau samucchritagadāv ubhau punar antaramārgasthau maṇḍalāni viceratuḥ 20 athābhyetya padāny aṣṭau saṃnipāto 'bhavat tayoḥ udyamya lohadaṇḍābhyām atimānuṣa karmaṇoḥ 21 prārthayānau tadānyo 'nyaṃ maṇḍalāni viceratuḥ kriyāviśeṣaṃ kṛtinau darśayām āsatus tadā 22 athodyamya gade ghore saśṛṅgāv iva parvatau tāv ājaghnātur anyonyaṃ yathā bhūmicalo 'calau 23 tau parasparavegāc ca gadābhyāṃ ca bhṛśāhatau yugapat petatur vīrāv ubhāv indradhvajāv iva 24 ubhayoḥ senayor vīrās tadā hāhākṛto 'bhavan bhṛśaṃ marmaṇy abhihatāv ubhāv āstāṃ suvihvalau 25 tataḥ sagadam āropya madrāṇām ṛṣabhaṃ rathe apovāha kṛpaḥ śalyaṃ tūrṇam āyodhanād api 26 kṣībavad vihvalatvāt tu nimeṣāt punar utthitaḥ bhīmaseno gadāpāṇiḥ samāhvayata madrapam 27 tatas tu tāvakāḥ śūrā nānāśastrasamāyutāḥ nānā vāditraśabdena pāṇḍusenām ayodhayan 28 bhujāv ucchritya śastraṃ ca śabdena mahatā tataḥ abhyadravan mahārāja duryodhana purogamāḥ 29 tad anīkam abhiprekṣya tatas te pāṇḍunandanāḥ prayayuḥ siṃhanādena duryodhana vadhepsayā 30 teṣām āpatatāṃ tūrṇaṃ putras te bharatarṣabha prāsena cekitānaṃ vai vivyādha hṛdaye bhṛśam 31 sa papāta rathopasthe tava putreṇa tāḍitaḥ rudhiraughapariklinnaḥ praviśya vipulaṃ tamaḥ 32 cekitānaṃ hataṃ dṛṣṭvā pāṇḍavānāṃ mahārathāḥ prasaktam abhyavarṣanta śaravarṣāṇi bhāgaśaḥ 33 tāvakānām anīkeṣu pāṇḍavā jitakāśinaḥ vyacaranta mahārāja prekṣaṇīyāḥ samantataḥ 34 kṛpaś ca kṛtavarmā ca saubalaś ca mahābalaḥ ayodhayan dharmarājaṃ madrarājapuraskṛtāḥ 35 bhāradvājasya hantāraṃ bhūri vīryaparākramam duryodhano mahārāja dhṛṣṭadyumnam ayodhayat 36 trisāhasrā rathā rājaṃs tava putreṇa coditāḥ ayodhayanta vijayaṃ droṇaputra puraskṛtāḥ 37 vijaye dhṛtasaṃkālpāḥ samabhityaktajīvitāḥ prāviśaṃs tāvakā rājan haṃsā iva mahat saraḥ 38 tato yuddham abhūd ghoraṃ parasparavadhaiṣiṇām anyonyavadhasaṃyuktam anyonyaprītivardhanam 39 tasmin pravṛtte saṃgrāme rājan vīravarakṣaye anileneritaṃ ghoram uttasthau pārthivaṃ rajaḥ 40 śravaṇān nāmadheyānāṃ pāṇḍavānāṃ ca kīrtanāt parasparaṃ vijānīmo ye cāyudhyann abhītavat 41 tad rajaḥ puruṣavyāghra śoṇitena praśāmitam diśaś ca vimalā jajñus tasmin rajasi śāmite 42 tathā pravṛtte saṃgrāme ghorarūpe bhayānake tāvakānāṃ pareṣāṃ ca nāsīt kaś cit parāṅmukhaḥ 43 brahmalokaparā bhūtvā prārthayanto jayaṃ yudhi suyuddhena parākrāntā narāḥ svargam abhipsavaḥ 44 bhartṛpiṇḍa vimokṣ arthaṃ bhartṛkāryaviniścitāḥ svargasaṃsaktamanaso yodhā yuyudhire tadā 45 nānārūpāṇi śastrāṇi visṛjanto mahārathāḥ anyonyam abhigarjantaḥ praharantaḥ parasparam 46 hatavidhyata gṛhṇīta praharadhvaṃ nikṛntata iti sma vācaḥ śrūyante tava teṣāṃ ca vai bale 47 tataḥ śalyo mahārāja dharmarājaṃ yudhiṣṭhiram vivyādha niśitair bāṇair hantukāmo mahāratham 48 tasya pārtho mahārāja nārācān vai mahāratham marmāṇy uddiśya marmajño nicakhāna hasann iva 49 taṃ vārya pāṇḍavaṃ bāṇair hantukāmo mahāyaśāḥ vivyādha samare kruddho bahubhiḥ kaṅkapatribhiḥ 50 atha bhūyo mahārāja śareṇa nataparvaṇā yudhiṣṭhiraṃ samājaghne sarvasainyasya paśyataḥ 51 dharmarājo 'pi saṃkruddho madrarājaṃ mahāyaśāḥ vivyādha niśitair bāṇaiḥ kaṅkabarhiṇa vājitaiḥ 52 candra senaṃ ca saptatyā sūtaṃ ca navabhiḥ śaraiḥ drumasenaṃ catuḥṣaṣṭyā nijaghāna mahārathaḥ 53 cakrarakṣe hate śalyaḥ pāṇḍavena mahātmanā nijaghāna tato rājaṃś cedīn vai pañcaviṃśatim 54 sātyakiṃ pañcaviṃśatyā bhīmasenaṃ ca pañcabhiḥ mādrīputrau śatenājau vivyādha niśitaiḥ śaraiḥ 55 evaṃ vicaratas tasya saṃgrāme rājasattama saṃpreṣayac chitān pārtaḥ śarān āśīviṣopamān 56 dhvajāgraṃ cāsya samare kuntīputro yudhiṣṭhiraḥ pramukhe vartamānasya bhallenāpaharad rathāt 57 pāṇḍuputreṇa vai tasya ketuṃ chinnaṃ mahātmanā nipatantam apaśyāma giriśṛṅgam ivāhatam 58 dhvajaṃ nipatitaṃ dṛṣṭvā pāṇḍavaṃ ca vyavasthitam saṃkruddho madrarājo 'bhūc charavarṣaṃ mumoca ha 59 śalyaḥ sāyakavarṣeṇa parjanya iva vṛṣṭimān abhyavarṣad ameyātmā kṣatriyaṃ kṣatriyarṣabhaḥ 60 sātyakiṃ bhīmasenaṃ ca mādrīputrau ca pāṇḍavau ekaikaṃ pañcabhir viddhvā yudhiṣṭhiram apīḍayat 61 tato bāṇamayaṃ jālaṃ vitataṃ pāṇḍavor asi apaśyāma mahārāja meghajālam ivodgatam 62 tasyā śalyo raṇe kruddho bāṇaiḥ saṃnataparvabhiḥ diśaḥ pracchādayām āsa pradiśaś ca mahārathaḥ 63 tato yudhiṣṭhiro rājā bāṇajālena pīḍitaḥ babhūva hṛtavikrānto jambho vṛtra haṇā yathā |
The Mahabharata in Sanskrit
Book 9
Chapter 12
|
1
[स] पीडिते धर्मराजे तु मद्रराजेन मारिष सात्यकिर भीमसेनश च माद्रीपुत्रौ च पाण्डवौ परिवार्य रथैः शल्यां पीडयाम आसुर आहवे 2 तम एकं बहुभिर दृष्ट्व पीड्यमानं महारथैः साधुवादॊ महाञ जज्ञे सिद्धाश चासन परहर्षिताः आशर्यम इत्य अभाषान्त मुनयश चापि संगताः 3 भीमसेनॊ रणे शल्यं शल्य भूतं परांक्रमे एकेन विद्ध्वा बाणेन पुनर विव्याध सप्तभिः 4 सात्यकिश च शतेनैनं धर्मपुत्र परीप्सया मद्रेश्वरम अवाकीर्य सिंहनादम अथानदत 5 नकुलः पञ्चभिश चैनां सहदेवश च सप्तभिः विद्ध्वा तं तु ततस तूर्णं पुनर विव्याध सप्तभिः 6 स तु शूरॊ रणे यत्तः पीडितस तैर महारथैः विकृष्य कार्मुकं घॊरं वेगघ्नां भारसाधनम 7 सात्यकिं पञ्चविंशत्या शल्यॊ विव्याध मारिषा भीमसेनं तरिसाप्तत्या नकुलं सप्तभिस तथा 8 ततः सविशिखं चापं सहदेवस्य धन्विनः छित्त्वा भल्लेन समरे विव्याधैनं तरिसप्तभिः 9 सहदेवस तु समरे मतुलं भूरि वर्चसम सज्यम अन्यद धनुः कृत्वा पञ्चभिः समताडयत शरैर आशीविषाकारैर जवलज जवलनसंनिभैः 10 सारथिं चास्य समरे शरेणानतपर्वणा वीव्याध भृशसंक्रुद्धस तं च भूयस तरिभिः शरैः 11 भीमसेनस तरिसप्तत्या सात्यकिर नवभिः शरैः धर्मराजस तथा षष्ट्या गते शल्यं समर्पयत 12 ततः शल्यॊ महाराज निर्विद्धस तैर महारथैः सुस्राव रुधिरं गात्रैर गैरिकं पर्वतॊ यथा 13 तांश च सर्वान महेष्वासान पञ्चभिः पञ्चभिः शरैः विव्याध तरसा राजंस तद अद्भुतम इवाभवत 14 ततॊ ऽपरेण भल्लेन धर्मपुत्रस्य मारिष धानुश चिच्छेद समरे साज्यां स सुमहारथः 15 अथान्यद धनुर आदाय धर्मपुत्रॊ महारथः साश्वसूत धवजरथं शल्यं पराच्छादयच छरैः 16 सच छाद्यमानः समरे धर्मपुत्रस्य सायकैः युधिष्ठिरम अथाविध्यद दशभिर निशितैः शरैः 17 सात्यकिस तु ततः करुद्धॊ धर्मा पुत्रे शरार्दिते मद्राणाम अधिपं शूरं शरौघैः समवारयत 18 स सात्यकेः परचिच्छेद कषुरप्रेण महद धनुः भीमसेनमुखांस तांश च तरिभिस तरिभिर अताडयत 19 तस्य करुद्धॊ महाराज सात्यकिः सत्यविक्रमः तॊमरं परेषयाम आस सवर्णा दण्डं महाधनम 20 भीमसेनॊ ऽथ नाराचं जवलन्तम इव पन्नगम नकुलः समरे शक्तिं सहदेवॊ गदां शुभाम धर्मराजः शतघ्नीं तु जिग्घांसुः शल्यम आहवे 21 तान आपतत एवाशु पञ्चानां वै भुजच्युतान सात्यकिप्रहितं शल्यॊ भल्लैश चिच्छेद तॊमरम 22 भीमेन परहितं चापि शरं कनकभूषणम दविधा चिच्छेद समरे कृतहस्तः परतापवान 23 नकुल परेषितां शक्तिं हेमदण्डां भयावहाम गदां च सहदेवेन शरौघैः समवारयत 24 शराह्यां च शतघ्नीं तां राज्ञश चिच्छेद भारत पश्यतां पाण्डुपुत्राणां सिंहनादं ननाद च नामृष्यत तं तु शैनेयः शत्रॊर विजयम आहवे 25 अथान्यद धनुर आदाय सात्यकिः करॊधमूर्छितः दवाभ्यां मद्रेश्वरं विद्ध्वा सारथिं च तरिभिः शरैः 26 ततः शल्यॊ महाराज सर्वांस तान दशभिः शरैः विव्याध सुभृशं करुद्धस तॊत्त्रैर इव महाद्विपान 27 ते वार्यमाणाः समरे मद्रराज्ञा महारथाः न शेकुः परमुखे सथातुं तस्य शत्रुनिषूदनाः 28 ततॊ दुर्यॊधनॊ राजा दृष्ट्वा शल्यस्य विक्रमम निहतान पाण्डवान मेने पाञ्चालान अथ सृञ्जयान 29 ततॊ राजन महाबाहुर भीमसेनः परतापवान संत्यज्य मनसा पराणान मद्राधिपम अयॊधयत 30 नकुलः सहदेवश च सात्यकिश च महारथः परिवार्य तदा शल्यं समन्ताद वयकिरञ शरैः 31 स चतुर्भिर महेष्वासैः पाण्डवानां महारथैः वृतस तान यॊधयाम आसा मद्रराजः परतापवान 32 तस्य धर्मसुतॊ राजन कषुरप्रेण महाहवे चक्ररक्षं जघानाशु मद्रराजस्य पार्थिव 33 तस्मिंस तु निहते शूरे चक्ररक्षे महारथे मद्रराजॊ ऽतिबलवान सैनिकान आस्तृणॊच छरैः 34 समाच्छन्नांस ततस तांस तु राजन वीक्ष्य स सैनिकान चिन्तयाम आस समरे धर्मराजॊ युधिष्ठिरः 35 कथं नु न भवेत सत्यं तन माधव वचॊ महत न हि करुद्धॊ रणे राजा कषपयेत बलं मम 36 ततः सरथ नागाश्वाः पाण्डवाः पण्डु पूर्वज मद्रेश्वरं समासेदुः पीडयन्तः समन्ततः 37 नानाशस्त्रौघबहुलां शस्त्रवृष्टिं समुत्थिताम वयधमत समरे राजन महाभ्राणीव मारुतः 38 ततः कनकपुङ्खां तां शल्य कषिप्तां वियद गताम शरवृष्टिम अपश्याम शलभानाम इवाततिम 39 ते शरा मद्रराजेन परेषिता रणमूर्धनि संपतन्तः सम दृश्यन्ते शलभानां वरजा इव 40 मद्रराजधनुर मुक्तैः शरैः कनकभूषणैः निरन्तरम इवाकाशं संबभूव जनाधिप 41 न पाण्डवानां नास्माकं तत्र कश चिद वयदृश्यत बाणान्ध कारे महति कृते तत्र महाभये 42 मद्रराजेन बलिना लाघवाच छरवृष्टिभिः लॊड्यमानं तथा दृष्ट्वा पाण्डवानां बलार्णवम विस्मयं परमं जग्मुर देवगन्धर्वदानवाः 43 स तु तान सर्वतॊ यत्ताञ शरैः संपीड्य मारिष धर्मराजम अवच्छाद्य सिंहवद वयनदन मुहुः 44 ते छन्नाः समरे तेन पाण्डवानां महारथाः न शेकुस तं तदा युद्धे परत्युद्यातं महारथम 45 धर्मराज पुरॊगास तु भीमसेनमुखा रथाः न जहुः समरे शूरं शल्यम आहवशॊभिनम |
1
[s] pīḍite dharmarāje tu madrarājena māriṣa sātyakir bhīmasenaś ca mādrīputrau ca pāṇḍavau parivārya rathaiḥ śalyāṃ pīḍayām āsur āhave 2 tam ekaṃ bahubhir dṛṣṭva pīḍyamānaṃ mahārathaiḥ sādhuvādo mahāñ jajñe siddhāś cāsan praharṣitāḥ āśaryam ity abhāṣānta munayaś cāpi saṃgatāḥ 3 bhīmaseno raṇe śalyaṃ śalya bhūtaṃ parāṃkrame ekena viddhvā bāṇena punar vivyādha saptabhiḥ 4 sātyakiś ca śatenainaṃ dharmaputra parīpsayā madreśvaram avākīrya siṃhanādam athānadat 5 nakulaḥ pañcabhiś caināṃ sahadevaś ca saptabhiḥ viddhvā taṃ tu tatas tūrṇaṃ punar vivyādha saptabhiḥ 6 sa tu śūro raṇe yattaḥ pīḍitas tair mahārathaiḥ vikṛṣya kārmukaṃ ghoraṃ vegaghnāṃ bhārasādhanam 7 sātyakiṃ pañcaviṃśatyā śalyo vivyādha māriṣā bhīmasenaṃ trisāptatyā nakulaṃ saptabhis tathā 8 tataḥ saviśikhaṃ cāpaṃ sahadevasya dhanvinaḥ chittvā bhallena samare vivyādhainaṃ trisaptabhiḥ 9 sahadevas tu samare matulaṃ bhūri varcasam sajyam anyad dhanuḥ kṛtvā pañcabhiḥ samatāḍayat śarair āśīviṣākārair jvalaj jvalanasaṃnibhaiḥ 10 sārathiṃ cāsya samare śareṇānataparvaṇā vīvyādha bhṛśasaṃkruddhas taṃ ca bhūyas tribhiḥ śaraiḥ 11 bhīmasenas trisaptatyā sātyakir navabhiḥ śaraiḥ dharmarājas tathā ṣaṣṭyā gate śalyaṃ samarpayat 12 tataḥ śalyo mahārāja nirviddhas tair mahārathaiḥ susrāva rudhiraṃ gātrair gairikaṃ parvato yathā 13 tāṃś ca sarvān maheṣvāsān pañcabhiḥ pañcabhiḥ śaraiḥ vivyādha tarasā rājaṃs tad adbhutam ivābhavat 14 tato 'pareṇa bhallena dharmaputrasya māriṣa dhānuś ciccheda samare sājyāṃ sa sumahārathaḥ 15 athānyad dhanur ādāya dharmaputro mahārathaḥ sāśvasūta dhvajarathaṃ śalyaṃ prācchādayac charaiḥ 16 sac chādyamānaḥ samare dharmaputrasya sāyakaiḥ yudhiṣṭhiram athāvidhyad daśabhir niśitaiḥ śaraiḥ 17 sātyakis tu tataḥ kruddho dharmā putre śarārdite madrāṇām adhipaṃ śūraṃ śaraughaiḥ samavārayat 18 sa sātyakeḥ praciccheda kṣurapreṇa mahad dhanuḥ bhīmasenamukhāṃs tāṃś ca tribhis tribhir atāḍayat 19 tasya kruddho mahārāja sātyakiḥ satyavikramaḥ tomaraṃ preṣayām āsa svarṇā daṇḍaṃ mahādhanam 20 bhīmaseno 'tha nārācaṃ jvalantam iva pannagam nakulaḥ samare śaktiṃ sahadevo gadāṃ śubhām dharmarājaḥ śataghnīṃ tu jigghāṃsuḥ śalyam āhave 21 tān āpatata evāśu pañcānāṃ vai bhujacyutān sātyakiprahitaṃ śalyo bhallaiś ciccheda tomaram 22 bhīmena prahitaṃ cāpi śaraṃ kanakabhūṣaṇam dvidhā ciccheda samare kṛtahastaḥ pratāpavān 23 nakula preṣitāṃ śaktiṃ hemadaṇḍāṃ bhayāvahām gadāṃ ca sahadevena śaraughaiḥ samavārayat 24 śarāhyāṃ ca śataghnīṃ tāṃ rājñaś ciccheda bhārata paśyatāṃ pāṇḍuputrāṇāṃ siṃhanādaṃ nanāda ca nāmṛṣyat taṃ tu śaineyaḥ śatror vijayam āhave 25 athānyad dhanur ādāya sātyakiḥ krodhamūrchitaḥ dvābhyāṃ madreśvaraṃ viddhvā sārathiṃ ca tribhiḥ śaraiḥ 26 tataḥ śalyo mahārāja sarvāṃs tān daśabhiḥ śaraiḥ vivyādha subhṛśaṃ kruddhas tottrair iva mahādvipān 27 te vāryamāṇāḥ samare madrarājñā mahārathāḥ na śekuḥ pramukhe sthātuṃ tasya śatruniṣūdanāḥ 28 tato duryodhano rājā dṛṣṭvā śalyasya vikramam nihatān pāṇḍavān mene pāñcālān atha sṛñjayān 29 tato rājan mahābāhur bhīmasenaḥ pratāpavān saṃtyajya manasā prāṇān madrādhipam ayodhayat 30 nakulaḥ sahadevaś ca sātyakiś ca mahārathaḥ parivārya tadā śalyaṃ samantād vyakirañ śaraiḥ 31 sa caturbhir maheṣvāsaiḥ pāṇḍavānāṃ mahārathaiḥ vṛtas tān yodhayām āsā madrarājaḥ pratāpavān 32 tasya dharmasuto rājan kṣurapreṇa mahāhave cakrarakṣaṃ jaghānāśu madrarājasya pārthiva 33 tasmiṃs tu nihate śūre cakrarakṣe mahārathe madrarājo 'tibalavān sainikān āstṛṇoc charaiḥ 34 samācchannāṃs tatas tāṃs tu rājan vīkṣya sa sainikān cintayām āsa samare dharmarājo yudhiṣṭhiraḥ 35 kathaṃ nu na bhavet satyaṃ tan mādhava vaco mahat na hi kruddho raṇe rājā kṣapayeta balaṃ mama 36 tataḥ saratha nāgāśvāḥ pāṇḍavāḥ paṇḍu pūrvaja madreśvaraṃ samāseduḥ pīḍayantaḥ samantataḥ 37 nānāśastraughabahulāṃ śastravṛṣṭiṃ samutthitām vyadhamat samare rājan mahābhrāṇīva mārutaḥ 38 tataḥ kanakapuṅkhāṃ tāṃ śalya kṣiptāṃ viyad gatām śaravṛṣṭim apaśyāma śalabhānām ivātatim 39 te śarā madrarājena preṣitā raṇamūrdhani saṃpatantaḥ sma dṛśyante śalabhānāṃ vrajā iva 40 madrarājadhanur muktaiḥ śaraiḥ kanakabhūṣaṇaiḥ nirantaram ivākāśaṃ saṃbabhūva janādhipa 41 na pāṇḍavānāṃ nāsmākaṃ tatra kaś cid vyadṛśyata bāṇāndha kāre mahati kṛte tatra mahābhaye 42 madrarājena balinā lāghavāc charavṛṣṭibhiḥ loḍyamānaṃ tathā dṛṣṭvā pāṇḍavānāṃ balārṇavam vismayaṃ paramaṃ jagmur devagandharvadānavāḥ 43 sa tu tān sarvato yattāñ śaraiḥ saṃpīḍya māriṣa dharmarājam avacchādya siṃhavad vyanadan muhuḥ 44 te channāḥ samare tena pāṇḍavānāṃ mahārathāḥ na śekus taṃ tadā yuddhe pratyudyātaṃ mahāratham 45 dharmarāja purogās tu bhīmasenamukhā rathāḥ na jahuḥ samare śūraṃ śalyam āhavaśobhinam |
The Mahabharata in Sanskrit
Book 9
Chapter 13
|
1
[स] अर्जुनॊ दरौणिना विद्धॊ युद्धे बहुभिर आयसैः तस्य चानुचरैः शूरैस तरिगर्तानां महारथैः दरौणिं विव्याध समरे तरिभिर एव शिला मुखैः 2 तथेतरान महेष्वासान दवाभ्यां दवाभ्यां धनंजयः भूयश चैव महाबाहुः शरवर्षैर अवाकिरत 3 शरकण्टकितास ते तु तावका भरतर्षभ न जाहुः सामरे पार्थं वध्यमानाः शितैः शरैः 4 ते ऽरजुनं रथवंशेन दरॊणपुत्र पुरॊगमाः अयॊधयन्त समरे परिवार्य महारथाः 5 तैस तु कषिप्ताः शरा राजन कार्तस्वरविभूषिताः अर्जुनस्य रथॊपस्थं पूरयाम आसुर अञ्जसा 6 तथा कृष्णौ महेष्वासौ वृषभौ सर्वधन्विनाम शरैर वीक्ष्य वितुन्नाङ्गौ परहृष्टौ युद्धदुर्मदौ 7 कूबरं रथचक्राणि ईषा यॊक्त्राणि चाभिभॊ युगं चैवानुकर्षं च शरभूतम अभूत तदा 8 नैतादृशं दृष्टपूर्वं राजन नैव च नः शरुतम यादृशं तत्र पार्थस्य तावकाः संप्रचक्रिरे 9 स रथः सर्वतॊ भाति चित्रपुङ्खैः शितैः शरैः उल्का शतैः संप्रदीप्तं विमानम इव भूतले 10 ततॊ ऽरजुनॊ महाराज शरैः संनतपर्वभिः अवाकिरत तां पृतनां मेघॊ वृष्ट्या यथाचलम 11 ते वध्यमानाः समरे पार्था नामाङ्कितैः शरैः पार्थ भूतम अमन्यन्त परेक्षामाणास तथाविधम 12 ततॊ ऽदभुतशरज्वालॊ धनुः शब्दानिलॊ महान सेनेन्धनं ददाहाशु तावकं पार्थ पावकः 13 चक्राणां पाततां चैव युगानां च धरातले तूणीराणां पताकानां धवजानां च रथैः सह 14 ईषाणाम अनुकर्षाणां तरिवेणूनां च भारत अक्षाणाम अथ यॊक्त्राणां परतॊदानां च सर्वशः 15 शिरसां पततां चैव कुण्डलॊष्णीष धारिणाम भुजानां च महाराज सकन्धानां च समन्ततः 16 छत्त्राणां वयजनैः सार्धं मुकुटानां च राशयः समदृश्यन्त पार्थस्य रथमार्गेषु भारत 17 अगम्यरूपा पृथिवी मांसशॊणितकर्दमा बभूव भरतश्रेष्ठ रुद्रस्याक्रीडनं यथा भीरूणां तरासजननी शूराणां हर्षवर्धनी 18 हत्वा तु समरे पार्थः सहस्रे दवे परंतप रथानां सवरूथानां विधूमॊ ऽगनिर इव जवलन 19 यथा हि भगवान अग्निर जगद दग्ध्वा चराचरम विधूमॊ दृश्यते राजंस तथा पार्थॊ महारथः 20 दरौणिस तु समरे दृष्ट्वा पाण्डवस्य पराक्रमम रथेनातिपताकेन पाण्डवं परत्यवारयत 21 ताव उभौ पुरुषव्याघ्रौ शवेताश्वौ धन्विनां वरौ समीयतुस तदा तूर्णं परस्परवधैषिणौ 22 तयॊर आसीन महाराज बाणवर्षं सुदारुणम जीमूतानां यथा वृष्टिर तपान्ते भरतर्षभ 23 अन्यॊन्यस्पर्धिनौ तौ तु शरैः संनतपर्वभिः ततक्षतुर मृधे ऽनयॊन्यं शृङ्गाभ्यां वृषभाव इव 24 तयॊर युद्धं महाराज चिरं समम इवाभवत अस्त्राणां संगमश चैव घॊरस तत्राभवन महान 25 ततॊ ऽरजुनं दवादशभी रुक्मपुङ्खैः सुतेजनैः वासुदेवं च दशभिर दरौणिर विव्याध भारत 26 ततः परहस्य बीभत्सुर वयाक्षिपद गाण्डिवं धनुः मानयित्वा मुहूर्तं च गुरुपुत्रं महाहवे 27 वयश्व सूत रथं चक्रे सव्यसाची महारथः मृदुपूर्वं ततश चैनं तरिभिर विव्याध सायकैः 28 हताश्वे तु रथे तिष्ठन दरॊणपुत्रस तव अयॊ मयम मुसलं पाण्डुपुत्राय चिक्षेप परिघॊपमम 29 तम आपतन्तं सहसा हेमपट्ट विभूषितम चिच्छेद सप्तधा वीरः पार्तः शत्रुनिबर्हणः 30 स चछिन्नं मुसलं दृष्ट्वा दरौणिः परमकॊपनः आददे परिघं घॊरं नगेन्द्रशिखरॊपमम चिक्षेप चैव पार्थाय दरौणिर युद्धविशारदः 31 तम अन्तकम इव करुद्धं परिघं परेक्ष्य पाण्डवः अर्जुनस तवरितॊ जघ्ने पञ्चभिः सायकॊत्तमैः 32 स चछिन्नः पतितॊ भूमौ पार्थ बाणैर महाहवे दारयन पृथिवीन्द्राणां मनः शब्देन भारत 33 ततॊ ऽपरैस तरिभिर बाणैर दरौणिं विव्याध पाण्डवः सॊ ऽतिविद्धॊ बलवता पार्थेन सुमहाबलः न संभ्रान्तस तदा दरौणिः पौरुषे सवे वयवस्थितः 34 सुधर्मा तु ततॊ राजन भारद्वाजं महारथम अवाकिरच छरव्रातैः सर्वक्षत्रस्य पश्यतः 35 ततस तु सुरथॊ ऽपय आजौ पाञ्चालानां महारथः रथेन मेघघॊषेण दरौणिम एवाभ्यधावत 36 विकर्षन वै धनुःश्रेष्ठं सर्वभार सहं दृढम जवलनाशीविषनिभैः शरैश चैनम अवाकिरत 37 सुरथं तु ततः करुद्धम आपतन्तं महारथम चुकॊप समरे दरौणिर दण्डाहत इवॊरगः 38 तरिशिखां भरुकुटीं कृत्वा सृक्किणी परिलेलिहन उद्वीक्ष्य सुरथं रॊषाद धनुर्ज्याम अवमृज्य च मुमॊच तीष्णं नाराचं यमदण्डसमद्युतिम 39 स तस्य हृदयं भित्त्वा परविवेशातिवेगतः शक्राशनिर इवॊत्सृष्टा विदार्य धरणीतलम 40 ततस तं पतितं भूमौ नाराचेन समाहतम वज्रेणेव यथा शृङ्गं पर्वतस्य महाधनम 41 तस्मिंस तु निहते वीरे दरॊणपुत्रः परतापवान आरुरॊह रथं तूर्णं तम एव रथिनां वरः 42 ततः सज्जॊ महाराज दरौणिर आहवदुर्मदः अर्जुनं यॊधयाम आस संशप्तक वृतॊ रणे 43 तत्र युद्धं महच चासीद अर्जुनस्य परैः सह मध्यंदिनगते सूर्ये यम राष्ट्रविवर्धनम 44 तत्राश्चर्यम अपश्याम दृष्ट्वा तेषां पराक्रमम यद एकॊ युगपद वीरान समयॊधयद अर्जुनः 45 विमर्दस तु महान आसीद अर्जुनस्य परैः सह शतक्रतॊर यथापूर्वं महत्या दैत्य सेनया |
1
[s] arjuno drauṇinā viddho yuddhe bahubhir āyasaiḥ tasya cānucaraiḥ śūrais trigartānāṃ mahārathaiḥ drauṇiṃ vivyādha samare tribhir eva śilā mukhaiḥ 2 tathetarān maheṣvāsān dvābhyāṃ dvābhyāṃ dhanaṃjayaḥ bhūyaś caiva mahābāhuḥ śaravarṣair avākirat 3 śarakaṇṭakitās te tu tāvakā bharatarṣabha na jāhuḥ sāmare pārthaṃ vadhyamānāḥ śitaiḥ śaraiḥ 4 te 'rjunaṃ rathavaṃśena droṇaputra purogamāḥ ayodhayanta samare parivārya mahārathāḥ 5 tais tu kṣiptāḥ śarā rājan kārtasvaravibhūṣitāḥ arjunasya rathopasthaṃ pūrayām āsur añjasā 6 tathā kṛṣṇau maheṣvāsau vṛṣabhau sarvadhanvinām śarair vīkṣya vitunnāṅgau prahṛṣṭau yuddhadurmadau 7 kūbaraṃ rathacakrāṇi īṣā yoktrāṇi cābhibho yugaṃ caivānukarṣaṃ ca śarabhūtam abhūt tadā 8 naitādṛśaṃ dṛṣṭapūrvaṃ rājan naiva ca naḥ śrutam yādṛśaṃ tatra pārthasya tāvakāḥ saṃpracakrire 9 sa rathaḥ sarvato bhāti citrapuṅkhaiḥ śitaiḥ śaraiḥ ulkā śataiḥ saṃpradīptaṃ vimānam iva bhūtale 10 tato 'rjuno mahārāja śaraiḥ saṃnataparvabhiḥ avākirat tāṃ pṛtanāṃ megho vṛṣṭyā yathācalam 11 te vadhyamānāḥ samare pārthā nāmāṅkitaiḥ śaraiḥ pārtha bhūtam amanyanta prekṣāmāṇās tathāvidham 12 tato 'dbhutaśarajvālo dhanuḥ śabdānilo mahān senendhanaṃ dadāhāśu tāvakaṃ pārtha pāvakaḥ 13 cakrāṇāṃ pātatāṃ caiva yugānāṃ ca dharātale tūṇīrāṇāṃ patākānāṃ dhvajānāṃ ca rathaiḥ saha 14 īṣāṇām anukarṣāṇāṃ triveṇūnāṃ ca bhārata akṣāṇām atha yoktrāṇāṃ pratodānāṃ ca sarvaśaḥ 15 śirasāṃ patatāṃ caiva kuṇḍaloṣṇīṣa dhāriṇām bhujānāṃ ca mahārāja skandhānāṃ ca samantataḥ 16 chattrāṇāṃ vyajanaiḥ sārdhaṃ mukuṭānāṃ ca rāśayaḥ samadṛśyanta pārthasya rathamārgeṣu bhārata 17 agamyarūpā pṛthivī māṃsaśoṇitakardamā babhūva bharataśreṣṭha rudrasyākrīḍanaṃ yathā bhīrūṇāṃ trāsajananī śūrāṇāṃ harṣavardhanī 18 hatvā tu samare pārthaḥ sahasre dve paraṃtapa rathānāṃ savarūthānāṃ vidhūmo 'gnir iva jvalan 19 yathā hi bhagavān agnir jagad dagdhvā carācaram vidhūmo dṛśyate rājaṃs tathā pārtho mahārathaḥ 20 drauṇis tu samare dṛṣṭvā pāṇḍavasya parākramam rathenātipatākena pāṇḍavaṃ pratyavārayat 21 tāv ubhau puruṣavyāghrau śvetāśvau dhanvināṃ varau samīyatus tadā tūrṇaṃ parasparavadhaiṣiṇau 22 tayor āsīn mahārāja bāṇavarṣaṃ sudāruṇam jīmūtānāṃ yathā vṛṣṭir tapānte bharatarṣabha 23 anyonyaspardhinau tau tu śaraiḥ saṃnataparvabhiḥ tatakṣatur mṛdhe 'nyonyaṃ śṛṅgābhyāṃ vṛṣabhāv iva 24 tayor yuddhaṃ mahārāja ciraṃ samam ivābhavat astrāṇāṃ saṃgamaś caiva ghoras tatrābhavan mahān 25 tato 'rjunaṃ dvādaśabhī rukmapuṅkhaiḥ sutejanaiḥ vāsudevaṃ ca daśabhir drauṇir vivyādha bhārata 26 tataḥ prahasya bībhatsur vyākṣipad gāṇḍivaṃ dhanuḥ mānayitvā muhūrtaṃ ca guruputraṃ mahāhave 27 vyaśva sūta rathaṃ cakre savyasācī mahārathaḥ mṛdupūrvaṃ tataś cainaṃ tribhir vivyādha sāyakaiḥ 28 hatāśve tu rathe tiṣṭhan droṇaputras tv ayo mayam musalaṃ pāṇḍuputrāya cikṣepa parighopamam 29 tam āpatantaṃ sahasā hemapaṭṭa vibhūṣitam ciccheda saptadhā vīraḥ pārtaḥ śatrunibarhaṇaḥ 30 sa cchinnaṃ musalaṃ dṛṣṭvā drauṇiḥ paramakopanaḥ ādade parighaṃ ghoraṃ nagendraśikharopamam cikṣepa caiva pārthāya drauṇir yuddhaviśāradaḥ 31 tam antakam iva kruddhaṃ parighaṃ prekṣya pāṇḍavaḥ arjunas tvarito jaghne pañcabhiḥ sāyakottamaiḥ 32 sa cchinnaḥ patito bhūmau pārtha bāṇair mahāhave dārayan pṛthivīndrāṇāṃ manaḥ śabdena bhārata 33 tato 'parais tribhir bāṇair drauṇiṃ vivyādha pāṇḍavaḥ so 'tividdho balavatā pārthena sumahābalaḥ na saṃbhrāntas tadā drauṇiḥ pauruṣe sve vyavasthitaḥ 34 sudharmā tu tato rājan bhāradvājaṃ mahāratham avākirac charavrātaiḥ sarvakṣatrasya paśyataḥ 35 tatas tu suratho 'py ājau pāñcālānāṃ mahārathaḥ rathena meghaghoṣeṇa drauṇim evābhyadhāvata 36 vikarṣan vai dhanuḥśreṣṭhaṃ sarvabhāra sahaṃ dṛḍham jvalanāśīviṣanibhaiḥ śaraiś cainam avākirat 37 surathaṃ tu tataḥ kruddham āpatantaṃ mahāratham cukopa samare drauṇir daṇḍāhata ivoragaḥ 38 triśikhāṃ bhrukuṭīṃ kṛtvā sṛkkiṇī parilelihan udvīkṣya surathaṃ roṣād dhanurjyām avamṛjya ca mumoca tīṣṇaṃ nārācaṃ yamadaṇḍasamadyutim 39 sa tasya hṛdayaṃ bhittvā praviveśātivegataḥ śakrāśanir ivotsṛṣṭā vidārya dharaṇītalam 40 tatas taṃ patitaṃ bhūmau nārācena samāhatam vajreṇeva yathā śṛṅgaṃ parvatasya mahādhanam 41 tasmiṃs tu nihate vīre droṇaputraḥ pratāpavān āruroha rathaṃ tūrṇaṃ tam eva rathināṃ varaḥ 42 tataḥ sajjo mahārāja drauṇir āhavadurmadaḥ arjunaṃ yodhayām āsa saṃśaptaka vṛto raṇe 43 tatra yuddhaṃ mahac cāsīd arjunasya paraiḥ saha madhyaṃdinagate sūrye yama rāṣṭravivardhanam 44 tatrāścaryam apaśyāma dṛṣṭvā teṣāṃ parākramam yad eko yugapad vīrān samayodhayad arjunaḥ 45 vimardas tu mahān āsīd arjunasya paraiḥ saha śatakrator yathāpūrvaṃ mahatyā daitya senayā |
The Mahabharata in Sanskrit
Book 9
Chapter 14
|
1
[स] दुर्यॊधनॊ महाराज धृष्टद्युम्नश च पर्षतः चक्रतुः सुमहद युद्धां शरशक्तिसमाकुलम 2 तयॊर आसन महाराज शरधाराः सहस्रशः अम्बुदानां यथाकाले जलधाराः समन्ततः 3 राजा तु पार्षतं विद्ध्वा शरैः पञ्चभिर आयसैः दरॊण हन्तारम उग्रेषुः पुनर विव्याध सप्तभिः 4 धृष्टद्युम्नस तु समरे बलवान दृढविक्रमः सप्तत्या विशिखानां वै दुर्यॊधनम अपीडयत 5 पीडितं परेक्ष्य राजानं सॊदर्या भरतर्षभ महत्या सेनया सार्धं परिवव्रुः सम पार्षतम 6 स तैः परिवृतॊ शूरैः सर्वतॊ ऽतिरथैर भृशम वयचरत समरे राजन दर्शयन हस्तलाघवम 7 शिखण्डी कृतवर्माणं गौतमं च महारथम परभद्रकैः समायुक्तॊ यॊधयाम आस धन्विनौ 8 तत्रापि सुमहद युद्धं घॊररूपं विशां पते पराणान संत्यजतां युद्धे पराणद्यूताभिदेवने 9 शल्यस तु शरवर्षाणि विमुञ्चन सर्वतॊदिशम पाण्डवान पीडयाम आस ससात्यकि वृकॊदरान 10 तथॊभौ च यमौ युद्धे यम तुल्यपराक्रमौ यॊधयाम आस राजेन्द्र वीर्येण च बलेन च 11 शल्य सायकनुन्नानां पाण्डवानां महामृधे तरातारं नाध्यगच्छन्त केच चित तत्र महारथाः 12 ततस तु नकुलः शूरॊ धर्मराजे परपीडिते अभिदुद्राव वेगेन मातुलं माद्रिनन्दनः 13 संछाद्य समरे शल्यं नकुलः परवीरहा विव्याध चैनं दशभिः समयमानः सतनान्तरे 14 सर्वपारशवैर बाणैः कर्मार परिमार्जितैः सवर्णपुङ्खैः शिला धौतैर धनुर यन्त्रप्रचॊदितैः 15 शल्यस तु पीडितस तेन सवस्त्रीयेण महात्मना नकुलं पीडयाम आस सवस्रीयेण महात्मना 16 ततॊ युधिष्ठिरॊ राजा भीमसेनॊ ऽथ सात्यकिः सहदेवश च माद्रेयॊ मद्रराजम उपाद्रवन 17 तान आपतत एवाशु पूरयानान रतः सवनैः दिशश च परदिशश चैव कम्पयानांश च मेदिनीम परतिजग्राह समरे सेनापतिर अमित्रजित 18 युधिष्ठिरं तरिभिर विद्ध्वा भीमसेनं च सप्तभिः सात्यकिं च शतेनाजौ सहदेवं तरिभिः शरैः 19 ततस तु सशरं चापं नकुलस्य महात्मनः मद्रेश्वरः कषुरप्रेण तदा चिच्छेद मारिष तद अशीर्यत विच्छिन्नं धनुः शल्यस्य सायकैः 20 अथान्यद धनुर आदाय माद्रीपुत्रॊ महारथः मद्रराजरथं तूर्णं पूरयाम आस पत्रिभिः 21 युधिष्ठिरस तु मद्रेशं सहदेवश च मारिष दशभिर दशभिर बाणैर उरस्य एनम अविध्यताम 22 भीमसेनस ततः षष्ट्या सात्यकिर नवभिः शरैः मद्रराजम अभिद्रुत्य जघ्नतुः कङ्कपत्रिभिः 23 मद्रराजस ततः करुद्धः सात्यकिं नवभिः शरैः विव्याध भूयः सप्तत्या शराणां नतपर्वणाम 24 अथास्य सशरं चापं मुष्टौ चिच्छेद मारिष हयांश च चतुरः संख्ये परेषयाम आस मृत्यवे 25 विरथं सात्यकिं कृत्वा मद्रराजॊ महाबलः विशिखानां शतेनैनम आजघान समन्ततः 26 माद्रीपुत्रौ तु संरब्धौ भीमसेनं च पाण्डवम युधिष्ठिरं च कौरव्य विव्याध दशभिः शरैः 27 तत्राद्भुतम अपश्याम मद्रराजस्य पौरुषम यद एनं सहिताः पार्था नाभ्यवर्तन्त संयुगे 28 अथान्यं रथम आस्थाय सात्यकिः सत्यविक्रमः पीडितान पाण्डवान दृष्ट्वा मद्रराजवशं गतान अभिदुद्राव वेगेन मद्राणाम अधिपं बली 29 आपतन्तं रथं तस्य शल्यः समितिशॊभनः परत्युद्यतौ रथेनैव मत्तॊ मत्तम इव दविपम 30 स संनिपातस तुमुलॊ बभूवाद्भुतदर्शनः सात्यकेश चैव शूरस्य मद्राणाम अधिपस्य च यादृशॊ वै पुरावृत्तः शम्बरामर राजयॊः 31 सात्यकिः परेक्ष्य समरे मद्रराजं वयवस्थितम विव्याध दशभिर बाणैस तिष्ठ तिष्ठेति चाब्रवीत 32 मद्रराजस तु सुभृशं विद्धस तेन महात्मना सात्यकिमं परतिविव्याध चित्रपुङ्खैः शितैः शरैः 33 ततः पार्था महेष्वासाः सात्वताभिसृतं नृपम अभ्यद्रवन रथैस तूर्णं मातुलं वधकाम्यया 34 तत आसीत परामर्दस तुमुलः शॊणितॊदकः शूराणां युध्यमानानां सिंहानाम इव नर्दताम 35 तेषाम आसीन महाराज वयतिक्षेपः परस्परम सिंहानाम आमिषेप्सूनां कूजताम इव संयुगे 36 तेषां बाणसहस्रौघैर आकीर्णा वसुधाभवत अन्तरिक्षं च सहसा बाणभूतम अभूत तदा 37 शरान्धकारं बहुधा कृतं तत्र समन्ततः अब्भ्रच छायेव संजज्ञे शरैर मुक्तैर महात्मभिः 38 तत्र राजञ शरैर मुक्तैर निर्मुक्तैर इव पन्नगैः सवर्णपुङ्खैः परकाशद्भिर वयरॊचन्त दिशस तथा 39 तत्राद्भुतं परं चक्रे शल्यः शत्रुनिबर्हणः यद एकः समरे शूरॊ यॊधयाम आस वै बहून 40 मद्रराजभुजॊत्सृष्टैः कङ्कबर्हिण वाजितैः संपतद्भिः शरैर घॊरैर अवाकीर्यत मेदिनी 41 तत्र शल्य रथं राजन विचरन्तं महाहवे अपश्याम यथापूर्वं शक्रस्यासुरसंक्षये |
1
[s] duryodhano mahārāja dhṛṣṭadyumnaś ca parṣataḥ cakratuḥ sumahad yuddhāṃ śaraśaktisamākulam 2 tayor āsan mahārāja śaradhārāḥ sahasraśaḥ ambudānāṃ yathākāle jaladhārāḥ samantataḥ 3 rājā tu pārṣataṃ viddhvā śaraiḥ pañcabhir āyasaiḥ droṇa hantāram ugreṣuḥ punar vivyādha saptabhiḥ 4 dhṛṣṭadyumnas tu samare balavān dṛḍhavikramaḥ saptatyā viśikhānāṃ vai duryodhanam apīḍayat 5 pīḍitaṃ prekṣya rājānaṃ sodaryā bharatarṣabha mahatyā senayā sārdhaṃ parivavruḥ sma pārṣatam 6 sa taiḥ parivṛto śūraiḥ sarvato 'tirathair bhṛśam vyacarat samare rājan darśayan hastalāghavam 7 śikhaṇḍī kṛtavarmāṇaṃ gautamaṃ ca mahāratham prabhadrakaiḥ samāyukto yodhayām āsa dhanvinau 8 tatrāpi sumahad yuddhaṃ ghorarūpaṃ viśāṃ pate prāṇān saṃtyajatāṃ yuddhe prāṇadyūtābhidevane 9 śalyas tu śaravarṣāṇi vimuñcan sarvatodiśam pāṇḍavān pīḍayām āsa sasātyaki vṛkodarān 10 tathobhau ca yamau yuddhe yama tulyaparākramau yodhayām āsa rājendra vīryeṇa ca balena ca 11 śalya sāyakanunnānāṃ pāṇḍavānāṃ mahāmṛdhe trātāraṃ nādhyagacchanta kec cit tatra mahārathāḥ 12 tatas tu nakulaḥ śūro dharmarāje prapīḍite abhidudrāva vegena mātulaṃ mādrinandanaḥ 13 saṃchādya samare śalyaṃ nakulaḥ paravīrahā vivyādha cainaṃ daśabhiḥ smayamānaḥ stanāntare 14 sarvapāraśavair bāṇaiḥ karmāra parimārjitaiḥ svarṇapuṅkhaiḥ śilā dhautair dhanur yantrapracoditaiḥ 15 śalyas tu pīḍitas tena svastrīyeṇa mahātmanā nakulaṃ pīḍayām āsa svasrīyeṇa mahātmanā 16 tato yudhiṣṭhiro rājā bhīmaseno 'tha sātyakiḥ sahadevaś ca mādreyo madrarājam upādravan 17 tān āpatata evāśu pūrayānān rataḥ svanaiḥ diśaś ca pradiśaś caiva kampayānāṃś ca medinīm pratijagrāha samare senāpatir amitrajit 18 yudhiṣṭhiraṃ tribhir viddhvā bhīmasenaṃ ca saptabhiḥ sātyakiṃ ca śatenājau sahadevaṃ tribhiḥ śaraiḥ 19 tatas tu saśaraṃ cāpaṃ nakulasya mahātmanaḥ madreśvaraḥ kṣurapreṇa tadā ciccheda māriṣa tad aśīryata vicchinnaṃ dhanuḥ śalyasya sāyakaiḥ 20 athānyad dhanur ādāya mādrīputro mahārathaḥ madrarājarathaṃ tūrṇaṃ pūrayām āsa patribhiḥ 21 yudhiṣṭhiras tu madreśaṃ sahadevaś ca māriṣa daśabhir daśabhir bāṇair urasy enam avidhyatām 22 bhīmasenas tataḥ ṣaṣṭyā sātyakir navabhiḥ śaraiḥ madrarājam abhidrutya jaghnatuḥ kaṅkapatribhiḥ 23 madrarājas tataḥ kruddhaḥ sātyakiṃ navabhiḥ śaraiḥ vivyādha bhūyaḥ saptatyā śarāṇāṃ nataparvaṇām 24 athāsya saśaraṃ cāpaṃ muṣṭau ciccheda māriṣa hayāṃś ca caturaḥ saṃkhye preṣayām āsa mṛtyave 25 virathaṃ sātyakiṃ kṛtvā madrarājo mahābalaḥ viśikhānāṃ śatenainam ājaghāna samantataḥ 26 mādrīputrau tu saṃrabdhau bhīmasenaṃ ca pāṇḍavam yudhiṣṭhiraṃ ca kauravya vivyādha daśabhiḥ śaraiḥ 27 tatrādbhutam apaśyāma madrarājasya pauruṣam yad enaṃ sahitāḥ pārthā nābhyavartanta saṃyuge 28 athānyaṃ ratham āsthāya sātyakiḥ satyavikramaḥ pīḍitān pāṇḍavān dṛṣṭvā madrarājavaśaṃ gatān abhidudrāva vegena madrāṇām adhipaṃ balī 29 āpatantaṃ rathaṃ tasya śalyaḥ samitiśobhanaḥ pratyudyatau rathenaiva matto mattam iva dvipam 30 sa saṃnipātas tumulo babhūvādbhutadarśanaḥ sātyakeś caiva śūrasya madrāṇām adhipasya ca yādṛśo vai purāvṛttaḥ śambarāmara rājayoḥ 31 sātyakiḥ prekṣya samare madrarājaṃ vyavasthitam vivyādha daśabhir bāṇais tiṣṭha tiṣṭheti cābravīt 32 madrarājas tu subhṛśaṃ viddhas tena mahātmanā sātyakimṃ prativivyādha citrapuṅkhaiḥ śitaiḥ śaraiḥ 33 tataḥ pārthā maheṣvāsāḥ sātvatābhisṛtaṃ nṛpam abhyadravan rathais tūrṇaṃ mātulaṃ vadhakāmyayā 34 tata āsīt parāmardas tumulaḥ śoṇitodakaḥ śūrāṇāṃ yudhyamānānāṃ siṃhānām iva nardatām 35 teṣām āsīn mahārāja vyatikṣepaḥ parasparam siṃhānām āmiṣepsūnāṃ kūjatām iva saṃyuge 36 teṣāṃ bāṇasahasraughair ākīrṇā vasudhābhavat antarikṣaṃ ca sahasā bāṇabhūtam abhūt tadā 37 śarāndhakāraṃ bahudhā kṛtaṃ tatra samantataḥ abbhrac chāyeva saṃjajñe śarair muktair mahātmabhiḥ 38 tatra rājañ śarair muktair nirmuktair iva pannagaiḥ svarṇapuṅkhaiḥ prakāśadbhir vyarocanta diśas tathā 39 tatrādbhutaṃ paraṃ cakre śalyaḥ śatrunibarhaṇaḥ yad ekaḥ samare śūro yodhayām āsa vai bahūn 40 madrarājabhujotsṛṣṭaiḥ kaṅkabarhiṇa vājitaiḥ saṃpatadbhiḥ śarair ghorair avākīryata medinī 41 tatra śalya rathaṃ rājan vicarantaṃ mahāhave apaśyāma yathāpūrvaṃ śakrasyāsurasaṃkṣaye |
The Mahabharata in Sanskrit
Book 9
Chapter 15
|
1
[स] तथ सैन्यास तव विभॊ मद्रराजपुरस्कृताः पुनर अभ्यद्रवन पार्थान वेगेन महता रणे 2 पीडितास तावकाः सर्वे परधावन्तॊ रणॊत्कटाः कषणेनैव च पार्थांस ते बहुत्वात समलॊडयन 3 ते वध्यमानाः कुरुभिः पाण्डवा नावतस्थिरे निवार्यमाणा भीमेन पश्यतॊः कृष्ण पार्थयॊः 4 ततॊ धनंजयः करुद्धाः कृपं सह पदानुगैः अवाकिरच छरौघेण कृतवर्माणम एव च 5 शकुनिं सहदेवस तु सह सैन्यम अवारयत नकुलः पार्श्वतः सथित्वा मद्रराजम अवैक्षत 6 दरौपदेया नरेन्द्रांश च भूयिष्ठं समवारयन दरॊणपुत्रं च पाञ्चाल्यः शिखाण्डी समवारयत 7 भीमसेनस तु राजानं गदापाणिर अवारयत शल्यं तु सह सैन्येन कुन्तीपुत्रॊ युधिष्ठिरः 8 ततः समभवद युद्धं संसक्तं तत्र तत्र ह तावकानां परेषां च संग्रामेष्व अनिवर्तिनाम 9 तत्र पश्यामहे कर्म शल्यस्यातिमहद रणे यद एकः सर्वसैन्यानि पाण्डवानाम अयुध्यत 10 वयदृश्यत तदा शल्यॊ युधिष्ठिर समीपतः रणे चन्द्रसमॊ ऽभयाशे शरैश चर इव गरहः 11 पीडयित्वा तु राजानं शरैर आशीविषॊपमैः अभ्यधावत पुनर भीमं शरवर्षैर अवाकिरत 12 तस्य तल लाघवं दृष्ट्वा तथैव च कृतास्त्रताम अपूजयन्न अनीकानि परेषां तावकानि च 13 पीड्यमानास तु शल्येन पाण्डवा भृशविक्षताः पराद्रवन्त रणं हित्वा करॊशमाने युधिष्ठिरे 14 वध्यमानेष्व अनीकेषु मद्रराजेन पाण्डवः अमर्षवशम आपन्नॊ धर्मराजॊ युधिष्ठिरः ततः पौरुषम आस्थाय मद्रराजम अपीडयत 15 जयॊ वास्तु वधॊ वेति कृतबुद्धिर महारथः समाहूयाब्रवीत सर्वान भरातॄन कृष्णं च माधवम 16 भीष्मॊ दरॊणश च कर्णश च ये चान्ये पृथिवीक्षितः कौरवार्थे पराक्रान्ताः संग्रामे निधनं गताः 17 यथाभागं यथॊत्साहं भवन्तः कृतपौरुषाः भागॊ ऽवशिष्ट एकॊ ऽयं मम शल्यॊ महारथः 18 सॊ ऽहम अद्य युधा जेतुम आशंसे मद्रकेश्वरम तत्र यन मानसं मह्यं तत सार्वं निगदामि वः 19 चक्ररक्षाव इमौ शूरौ मम माद्रवतीसुतौ अजेयौ वासवेनापि समरे वीर संमतौ 20 साध्व इमौ मातुलं युद्धे कषत्रधर्मपुरस्कृतौ मदर्थं परतियुध्येतां मानार्हौ सत्यसंगरौ 21 मां वा शल्यॊ रणे हन्ता तं वाहं भद्रम अस्तु वः इति सत्याम इमां वाणीं लॊकवीरा निबॊधत 22 यॊत्स्ये ऽहं मातुलेनाद्य कषत्रधर्मेण पार्थिवाः सवयं समभिसंधाय विजयायेतराय वा 23 तस्य मे ऽभयधिकं शस्त्रं सर्वॊपकरणानि च संयुञ्जन्तु रणे कषिप्रं शास्त्रवद रथयॊजकाः 24 शैनेयॊ दक्षिणं चक्रं धृष्टद्युम्नस तथॊत्तरम पृष्ठगॊपॊ भवत्व अद्य मम पार्थॊ धनंजयः 25 पुरःसरॊ ममाद्यास्तु भीमः शस्त्रभृतां वरः एवम अभ्यधिकः शल्याद भविष्यामि महामृधे 26 एवम उक्तास तथा चक्रुः सर्वे राज्ञः परियैषिणः तथ परहर्षः सैन्यानां पुनर आसीत तदा नृप 27 पाञ्चालानां सॊमकानां मत्स्यानां च विशेषतः परतिज्ञां तां च संग्रामे धर्मराजस्य पूरयन 28 ततः शङ्खांश च भेरीश च शतशश चैव पुष्करान अवादयन्त पाञ्चालाः सिंहनादांश च नेदिरे 29 ते ऽभयधावन्त संरब्धा मद्रराजं तरस्विनः महता हर्षजेनाथ नादेन कुरुपुंगवाः 30 हरादेन गजघण्टानां शङ्खानां निनदेन च तूर्यशब्देन महता नादयन्तश च मेदिनीम 31 तान परत्यगृह्णात पुत्रस ते मद्रराजश च वीर्यवान महामेघान इव बहूञ शैलाव अस्तॊदयाव उभौ 32 शल्यस तु समरश्लाघी धर्मराजम अरिंदमम ववर्ष शरवर्षेण वर्षेण मघवान इव 33 तथैव कुरुराजॊ ऽपि परगृह्य रुचिरं धनुः दरॊणॊपदेशान विविधान दर्शयानॊ महामनाः 34 ववर्षा शरवर्षाणि चित्रं लघु च सुष्ठु च न चास्य विवरं कश चिद ददर्श चरतॊ रणे 35 ताव उभौ विविधैर बाणैस ततक्षाते परस्परम शार्दूलाव आमिष परेप्षू पराक्रान्ताव इवाहवे 36 भीमस तु तव पुत्रेण रणशौण्डेन संगतः पाञ्चाल्यः सात्यकिश चैव माद्रीपुत्रौ च पाण्डवौ शकुनिप्रमुखान वीरान परत्यगृह्णन समन्ततः 37 तद आसीत तुमुलं युद्धं पुनर एव जयैषिणाम तावकातां परेषां च राजन दुर्मन्त्रिते तव 38 दुर्यॊधनस तु भीमस्य शरेणानतपर्वणा चिच्छेदादिश्य संग्रामे धवजं हेमविभूषितम 39 सकिङ्किणिक जालेन महता चारुदर्शनः पपात रुचिरः सिंहॊ भीमसेनस्य नानदन 40 पुनश चास्य धनुश चित्रं गजराजकरॊपमम कषुरेण शितधारेण परचकर्त नराधिपः 41 सच्छिन्नधन्वा तेजस्वी रथशक्त्या सुतं तव बिभेदॊरसि विक्रम्य स रथॊपस्थ आविशत 42 तस्मिन मॊहम अनुप्राप्ते पुनर एव वृकॊदरः यन्तुर एव शिरः कायात कषुरप्रेणाहरत तदा 43 हतसूता हयास तस्य रथम आदाय भारत वयद्रवन्त दिशॊ राजन हाहाकारस तदाभवत 44 तम अभ्यधावत तराणार्थं दरॊणपुत्रॊ महारथः कृपश च कृतवर्मा च पुत्रं ते ऽभिपरीप्सवः 45 तस्मिन विलुलिते सैन्ये तरस्तास तस्य पदानुगाः गाण्डीवधन्वा विस्फार्य धनुस तान अहनच छरैः 46 युधिष्ठिरस तु मद्रेशम अभ्यधावद अमर्षितः सवयं संचॊदयन्न अश्वान दन्तवर्णान मनॊजवान 47 तत्राद्भुतम अपश्याम कुन्तीपुत्रे युधिष्ठिरे पुरा भूत्वा मृदुर दान्तॊ यत तदा दारुणॊ ऽभवत 48 विवृताक्षश च कौन्तेयॊ वेपमानश च मन्युना चिच्छेद यॊधान निशितैः शरैः शतसहस्रशः 49 यां यां परत्युद्ययौ सेनां तां तां जयेष्ठः स पाण्डवः शरैर अपातयद राजन गिरीन वज्रैर इवॊत्तमैः 50 साश्वसूत धवजरथान रथिनः पातयन बहून आक्रीडद एकॊ बलवान पवनस तॊयदान इव 51 साश्वारॊहांश च तुरगान पत्तींश चैव सहस्रशः वयपॊथयत संग्रामे करुद्धॊ रुद्रः पशून इव 52 शून्यम आयॊधनं कृत्वा शरवर्षैः समन्ततः अभ्यद्रवत मद्रेशं तिष्ठ शल्येति चाब्रवीत 53 तस्य तच चरितं दृष्ट्वा संग्रामे भीमकर्मणः वित्रेसुस तावकाः सर्वे शल्यस तव एनं समभ्ययात 54 ततस तौ तु सुसंरब्धौ परध्माप्य सलिलॊद्भवौ सामाहूय तदान्यॊन्यं भर्त्सयन्तौ समीयतुः 55 शल्यस तु शरवर्षेण युधिष्ठिरम अवाकिरत मद्रराजं च कौन्तेयः शरवर्षैर अवाकिरत 56 वयदृश्येतां तदा राजन कङ्कपत्रिभिर आहवे उद्भिन्न रुधिरौ शूरौ मद्रराजयुधिष्ठिरौ 57 पुष्पिताव इव रेजाते वने शल्मलि किंशुका दीप्यामानौ महात्मानौ पराणयॊर युद्धदुर्मदौ 58 दृष्ट्वा सर्वाणि सैन्यानि नाध्यवस्यंस तयॊर जयम हत्वा मद्राधिपं पार्थॊ भॊक्ष्यते ऽदय वसुंधराम 59 शल्यॊ वा पाण्डवं हत्वा दद्याद दुर्यॊधनाय गाम इतीव निश्चयॊ नाभूद यॊधानां तत्र भारत 60 परदक्षिणम अभूत सर्वं धर्मराजस्य युध्यतः 61 ततः शरशतं शल्यॊ मुमॊचाशु युधिष्ठिरे धनुश चास्य शिताग्रेण बाणेन निरकृन्तत 62 सॊ ऽनयत कार्मुकम आदाय शल्यं शरशतैस तरिभिः अविध्यत कार्मुकं चास्य कषुरेण निरकृन्तत 63 अथास्य निजघानाश्वांश चतुरॊ नतपर्वभिः दवाभ्याम अथ शिताग्राभ्याम उभौ च पार्ष्णिसारथी 64 ततॊ ऽसय दीप्यमानेन पीतेन निशितेन च परमुखे वर्तमानस्य भल्लेनापाहरद धवजम ततः परभग्नं तत सैन्यं दौर्यॊधनम अरिंदम 65 ततॊ मद्राधिपं दरौणिर अभ्यधावत तथा कृतम आरॊप्य चैनं सवरथं तवरमाणः परदुद्रुवे 66 मुहूर्तम इव तौ गत्वा नर्दमाने युधिष्ठिरे सथित्वा ततॊ मद्रपतिर अन्यं सयन्दनम आस्थितः 67 विधिवत कल्पितं शुभ्रं महाम्बुद निनादिनम सज्जयन्त्रॊपकरणं दविषतां लॊमहर्षणम |
1
[s] tatha sainyās tava vibho madrarājapuraskṛtāḥ punar abhyadravan pārthān vegena mahatā raṇe 2 pīḍitās tāvakāḥ sarve pradhāvanto raṇotkaṭāḥ kṣaṇenaiva ca pārthāṃs te bahutvāt samaloḍayan 3 te vadhyamānāḥ kurubhiḥ pāṇḍavā nāvatasthire nivāryamāṇā bhīmena paśyatoḥ kṛṣṇa pārthayoḥ 4 tato dhanaṃjayaḥ kruddhāḥ kṛpaṃ saha padānugaiḥ avākirac charaugheṇa kṛtavarmāṇam eva ca 5 śakuniṃ sahadevas tu saha sainyam avārayat nakulaḥ pārśvataḥ sthitvā madrarājam avaikṣata 6 draupadeyā narendrāṃś ca bhūyiṣṭhaṃ samavārayan droṇaputraṃ ca pāñcālyaḥ śikhāṇḍī samavārayat 7 bhīmasenas tu rājānaṃ gadāpāṇir avārayat śalyaṃ tu saha sainyena kuntīputro yudhiṣṭhiraḥ 8 tataḥ samabhavad yuddhaṃ saṃsaktaṃ tatra tatra ha tāvakānāṃ pareṣāṃ ca saṃgrāmeṣv anivartinām 9 tatra paśyāmahe karma śalyasyātimahad raṇe yad ekaḥ sarvasainyāni pāṇḍavānām ayudhyata 10 vyadṛśyata tadā śalyo yudhiṣṭhira samīpataḥ raṇe candrasamo 'bhyāśe śaraiś cara iva grahaḥ 11 pīḍayitvā tu rājānaṃ śarair āśīviṣopamaiḥ abhyadhāvat punar bhīmaṃ śaravarṣair avākirat 12 tasya tal lāghavaṃ dṛṣṭvā tathaiva ca kṛtāstratām apūjayann anīkāni pareṣāṃ tāvakāni ca 13 pīḍyamānās tu śalyena pāṇḍavā bhṛśavikṣatāḥ prādravanta raṇaṃ hitvā krośamāne yudhiṣṭhire 14 vadhyamāneṣv anīkeṣu madrarājena pāṇḍavaḥ amarṣavaśam āpanno dharmarājo yudhiṣṭhiraḥ tataḥ pauruṣam āsthāya madrarājam apīḍayat 15 jayo vāstu vadho veti kṛtabuddhir mahārathaḥ samāhūyābravīt sarvān bhrātṝn kṛṣṇaṃ ca mādhavam 16 bhīṣmo droṇaś ca karṇaś ca ye cānye pṛthivīkṣitaḥ kauravārthe parākrāntāḥ saṃgrāme nidhanaṃ gatāḥ 17 yathābhāgaṃ yathotsāhaṃ bhavantaḥ kṛtapauruṣāḥ bhāgo 'vaśiṣṭa eko 'yaṃ mama śalyo mahārathaḥ 18 so 'ham adya yudhā jetum āśaṃse madrakeśvaram tatra yan mānasaṃ mahyaṃ tat sārvaṃ nigadāmi vaḥ 19 cakrarakṣāv imau śūrau mama mādravatīsutau ajeyau vāsavenāpi samare vīra saṃmatau 20 sādhv imau mātulaṃ yuddhe kṣatradharmapuraskṛtau madarthaṃ pratiyudhyetāṃ mānārhau satyasaṃgarau 21 māṃ vā śalyo raṇe hantā taṃ vāhaṃ bhadram astu vaḥ iti satyām imāṃ vāṇīṃ lokavīrā nibodhata 22 yotsye 'haṃ mātulenādya kṣatradharmeṇa pārthivāḥ svayaṃ samabhisaṃdhāya vijayāyetarāya vā 23 tasya me 'bhyadhikaṃ śastraṃ sarvopakaraṇāni ca saṃyuñjantu raṇe kṣipraṃ śāstravad rathayojakāḥ 24 śaineyo dakṣiṇaṃ cakraṃ dhṛṣṭadyumnas tathottaram pṛṣṭhagopo bhavatv adya mama pārtho dhanaṃjayaḥ 25 puraḥsaro mamādyāstu bhīmaḥ śastrabhṛtāṃ varaḥ evam abhyadhikaḥ śalyād bhaviṣyāmi mahāmṛdhe 26 evam uktās tathā cakruḥ sarve rājñaḥ priyaiṣiṇaḥ tatha praharṣaḥ sainyānāṃ punar āsīt tadā nṛpa 27 pāñcālānāṃ somakānāṃ matsyānāṃ ca viśeṣataḥ pratijñāṃ tāṃ ca saṃgrāme dharmarājasya pūrayan 28 tataḥ śaṅkhāṃś ca bherīś ca śataśaś caiva puṣkarān avādayanta pāñcālāḥ siṃhanādāṃś ca nedire 29 te 'bhyadhāvanta saṃrabdhā madrarājaṃ tarasvinaḥ mahatā harṣajenātha nādena kurupuṃgavāḥ 30 hrādena gajaghaṇṭānāṃ śaṅkhānāṃ ninadena ca tūryaśabdena mahatā nādayantaś ca medinīm 31 tān pratyagṛhṇāt putras te madrarājaś ca vīryavān mahāmeghān iva bahūñ śailāv astodayāv ubhau 32 śalyas tu samaraślāghī dharmarājam ariṃdamam vavarṣa śaravarṣeṇa varṣeṇa maghavān iva 33 tathaiva kururājo 'pi pragṛhya ruciraṃ dhanuḥ droṇopadeśān vividhān darśayāno mahāmanāḥ 34 vavarṣā śaravarṣāṇi citraṃ laghu ca suṣṭhu ca na cāsya vivaraṃ kaś cid dadarśa carato raṇe 35 tāv ubhau vividhair bāṇais tatakṣāte parasparam śārdūlāv āmiṣa prepṣū parākrāntāv ivāhave 36 bhīmas tu tava putreṇa raṇaśauṇḍena saṃgataḥ pāñcālyaḥ sātyakiś caiva mādrīputrau ca pāṇḍavau śakunipramukhān vīrān pratyagṛhṇan samantataḥ 37 tad āsīt tumulaṃ yuddhaṃ punar eva jayaiṣiṇām tāvakātāṃ pareṣāṃ ca rājan durmantrite tava 38 duryodhanas tu bhīmasya śareṇānataparvaṇā cicchedādiśya saṃgrāme dhvajaṃ hemavibhūṣitam 39 sakiṅkiṇika jālena mahatā cārudarśanaḥ papāta ruciraḥ siṃho bhīmasenasya nānadan 40 punaś cāsya dhanuś citraṃ gajarājakaropamam kṣureṇa śitadhāreṇa pracakarta narādhipaḥ 41 sacchinnadhanvā tejasvī rathaśaktyā sutaṃ tava bibhedorasi vikramya sa rathopastha āviśat 42 tasmin moham anuprāpte punar eva vṛkodaraḥ yantur eva śiraḥ kāyāt kṣurapreṇāharat tadā 43 hatasūtā hayās tasya ratham ādāya bhārata vyadravanta diśo rājan hāhākāras tadābhavat 44 tam abhyadhāvat trāṇārthaṃ droṇaputro mahārathaḥ kṛpaś ca kṛtavarmā ca putraṃ te 'bhiparīpsavaḥ 45 tasmin vilulite sainye trastās tasya padānugāḥ gāṇḍīvadhanvā visphārya dhanus tān ahanac charaiḥ 46 yudhiṣṭhiras tu madreśam abhyadhāvad amarṣitaḥ svayaṃ saṃcodayann aśvān dantavarṇān manojavān 47 tatrādbhutam apaśyāma kuntīputre yudhiṣṭhire purā bhūtvā mṛdur dānto yat tadā dāruṇo 'bhavat 48 vivṛtākṣaś ca kaunteyo vepamānaś ca manyunā ciccheda yodhān niśitaiḥ śaraiḥ śatasahasraśaḥ 49 yāṃ yāṃ pratyudyayau senāṃ tāṃ tāṃ jyeṣṭhaḥ sa pāṇḍavaḥ śarair apātayad rājan girīn vajrair ivottamaiḥ 50 sāśvasūta dhvajarathān rathinaḥ pātayan bahūn ākrīḍad eko balavān pavanas toyadān iva 51 sāśvārohāṃś ca turagān pattīṃś caiva sahasraśaḥ vyapothayata saṃgrāme kruddho rudraḥ paśūn iva 52 śūnyam āyodhanaṃ kṛtvā śaravarṣaiḥ samantataḥ abhyadravata madreśaṃ tiṣṭha śalyeti cābravīt 53 tasya tac caritaṃ dṛṣṭvā saṃgrāme bhīmakarmaṇaḥ vitresus tāvakāḥ sarve śalyas tv enaṃ samabhyayāt 54 tatas tau tu susaṃrabdhau pradhmāpya salilodbhavau sāmāhūya tadānyonyaṃ bhartsayantau samīyatuḥ 55 śalyas tu śaravarṣeṇa yudhiṣṭhiram avākirat madrarājaṃ ca kaunteyaḥ śaravarṣair avākirat 56 vyadṛśyetāṃ tadā rājan kaṅkapatribhir āhave udbhinna rudhirau śūrau madrarājayudhiṣṭhirau 57 puṣpitāv iva rejāte vane śalmali kiṃśukā dīpyāmānau mahātmānau prāṇayor yuddhadurmadau 58 dṛṣṭvā sarvāṇi sainyāni nādhyavasyaṃs tayor jayam hatvā madrādhipaṃ pārtho bhokṣyate 'dya vasuṃdharām 59 śalyo vā pāṇḍavaṃ hatvā dadyād duryodhanāya gām itīva niścayo nābhūd yodhānāṃ tatra bhārata 60 pradakṣiṇam abhūt sarvaṃ dharmarājasya yudhyataḥ 61 tataḥ śaraśataṃ śalyo mumocāśu yudhiṣṭhire dhanuś cāsya śitāgreṇa bāṇena nirakṛntata 62 so 'nyat kārmukam ādāya śalyaṃ śaraśatais tribhiḥ avidhyat kārmukaṃ cāsya kṣureṇa nirakṛntata 63 athāsya nijaghānāśvāṃś caturo nataparvabhiḥ dvābhyām atha śitāgrābhyām ubhau ca pārṣṇisārathī 64 tato 'sya dīpyamānena pītena niśitena ca pramukhe vartamānasya bhallenāpāharad dhvajam tataḥ prabhagnaṃ tat sainyaṃ dauryodhanam ariṃdama 65 tato madrādhipaṃ drauṇir abhyadhāvat tathā kṛtam āropya cainaṃ svarathaṃ tvaramāṇaḥ pradudruve 66 muhūrtam iva tau gatvā nardamāne yudhiṣṭhire sthitvā tato madrapatir anyaṃ syandanam āsthitaḥ 67 vidhivat kalpitaṃ śubhraṃ mahāmbuda ninādinam sajjayantropakaraṇaṃ dviṣatāṃ lomaharṣaṇam |
The Mahabharata in Sanskrit
Book 9
Chapter 16
|
1
[स] अथान्यद धनुर आदाय बलवद वेगवत्तरम युधिष्ठिरं मद्रपतिर विद्ध्वा सिंह इवानदत 2 ततः स शरवर्षेण पर्जन्य इव वृष्टिमान अभ्यवर्षद अमेयात्मा कषत्रियान कषत्रियर्षभः 3 सात्यकिं दशभिर विद्ध्वा भीमसेनं तरिभिः शरैः सहदेवं तरिभिर विद्ध्वा युधिष्ठिरम अपीडयत 4 तांस तान अन्यान महेष्वासान साश्वान सरथ कुञ्जरान कुञ्जरान कुञ्जरारॊहान अश्वान अश्वप्रयायिनः रथांश च रथिभिः सार्धं जघान रथिनां वरः 5 बाहूंश चिच्छेद च तथा सायुधान केतनानि च चकार च महीं यॊधैस तीर्णां वेदीं कुशैर इव 6 तथा तम अरिसैन्यानि घनन्तं मृत्युम इवान्तकम परिवव्रुर भृशं करुद्धाः पाण्डुपाञ्चाल सॊमकाः 7 तं भीमसेनश च शिनेश च नप्ता; माध्र्याश च पुत्रौ पुरुषप्रवीरौ समागतं भीमबलेन राज्ञा; पर्यापुर अन्यॊन्यम अथाह्वयन्तः 8 ततस तु शूराः समरे नरेन्द्रं; मद्रेश्वरं पराप्य युधां वरिष्ठम आवार्या चैनं समरे नृवीरा; जघ्नुः शरैः पत्रिभिर उग्रवेगैः 9 संरक्षितॊ भीमसेनेन राजा; माद्री सुताभ्याम अथ माधवेन मद्राधिपं पत्रिभिर उग्रवेगैः; सतनान्तरे धार्म सुतॊ निजघ्ने 10 ततॊ रणे तावकनां रथौघाः; सामीक्ष्य मद्राधिपतिं शरार्तम पर्यावव्रुः परवराः सर्वशश च; दुर्यॊधनस्यानुमते समन्तात 11 ततॊ दरुतं मद्रजनाधिपॊ रणे; युधिष्ठिरं सप्तभिर अभ्यविध्यत तं चापि पार्थॊ नवभिः पृषत्कैर; विव्याध राजंस तुमुले महात्मा 12 आकर्णपूर्णायत संप्रयुक्तैः; शरैस तदा संयति तैलधौतैः अन्यॊन्यम आच्छादयतां महारथौ; मद्राधिपश चापि युधिष्ठिरश च 13 ततस तु तूर्णं समरे महारथौ; परस्परस्यान्तरम ईक्षमाणौ शरैर भृशं विव्यधतुर नृपॊत्तमौ; महाबलौ शत्रुभिर अप्रधृष्यौ 14 तयॊर धनुर्ज्यातलनिस्वनॊ महान; महेन्द्रवज्राशनितुल्यनिस्वनः परस्परं बाणगणैर महात्मनॊः; परवर्षतॊर मद्रप पाण्डुवीरयॊः 15 तौ चेरतुर वयाघ्रशिशु परकाशौ; महावनेष्व आमिष गृद्धिनाव इव विषाणिनौ नागवराव इवॊभौ; ततक्षतुः संयुगजातदर्पौ 16 ततस तु मद्राधिपतिर महात्मा; युधिष्ठिरं भीमबलं परसह्य विव्याध वीरं हृदये ऽतिवेगं; शरेण सूर्याग्निसमप्रभेण 17 ततॊ ऽतिविद्धॊ ऽथ युधिष्ठिरॊ ऽपि; सुसंप्रयुक्तेन शरेण राजन जघान मद्राधिपतिं महात्मा; मुदं च लेभे ऋषभः कुरूणाम 18 ततॊ मुहूर्ताद इव पार्थिवेन्द्रॊ; लब्ध्वा संज्ञां करॊधा संरक्तनेत्रः शतेन पार्थं तवरितॊ जघान; सहस्रनेत्र परतिमप्रभावः 19 तवरंस ततॊ धर्मसुतॊ महात्मा; शल्यस्य करुद्धॊ नवभिः पृषत्कैः भित्त्वा हय उरस तपनीयं च वर्म; जघान षड्भिस तव अपरैः पृषात्कैः 20 ततस तु मद्राधिपतिः परहृष्टॊ; धनुर विकृष्य वयसृजत पृषत्कान दवाभ्यां कषुराभ्यां च तथैव राज्ञश; चिच्छेद चापं कुरुपुंगवस्य 21 नवं ततॊ ऽनयत सामरे परगृह्य; राजा धनुर घॊरतरं महात्मा शल्यं तु विद्ध्वा निशितैः समन्तद; यथा महेन्द्रॊ नमुचिं शिताग्रैः 22 ततस तु शल्यॊ नवभिः पृषत्कैर; भीमस्य राज्ञश च युधिष्ठिरस्य निकृत्य रौक्मे पटु वर्मणी तयॊर; विदारयाम आस भुजौ महात्मा 23 ततॊ ऽपरेण जवलितार्क तेजसा; कषुरेण राज्ञॊ धनुर उन्ममाथ कृपश च तस्यैव जघान सूतं; षड्भिः शरैः सॊ ऽभिमुखं पपात 24 मद्राधिपश चापि युधिष्ठिरस्य; शरैश चतुर्भिर निजघान वाहान वाहांश च हत्वा वयकरॊन महात्मा; यॊधक्षयं धर्मसुतस्य राज्ञः 25 तथा कृते राजनि भीमसेनॊ; मद्राधिपस्याशु ततॊ महात्मा छित्त्वा धनुर वेगवता शरेण; दवाभ्याम अविध्यत सुभृशं नरेन्द्रम 26 अथापरेणास्य जहार यन्तुः; कायाच छिरः संनहनीयमध्यात जघान चाश्वांश चतुरः स शीघ्रं; तथा भृशं कुपितॊ भीमसेनः 27 तम अग्रणीः सर्वधनुर्धराणाम; एकं चरन्तं सामरे ऽतिवेगम भीमः शतेन वयकिरच छराणां; माद्रीपुत्रः सहदेवस तथैव 28 तैः सायकैर मॊहितं वीक्ष्य शल्यं; भीमः शरैर अस्य चकर्त वर्म स भीमसेनेन निकृत्तवर्मा; मद्राधिपश चर्म सहस्रतारम 29 परगृह्य खड्गं च रथान महात्मा; परस्कन्द्य कुन्तीसुतम अभ्यधावत छित्त्व रथेषां नकुलस्य सॊ ऽथ; युधिष्ठिरं भीमबलॊ ऽबभ्यधावत 30 तं चापि राजानम अथॊत्पतन्तं; करुद्धां यथैवान्तकम आपतन्तम धृष्टद्युम्नॊ दरौपदेयाः शिखण्डी; शिनेश च नप्ता सहसा परीयुः 31 अथास्य चर्माप्रतिमं नयकृन्तद; भीमॊ महात्मा दशभिः पृषत्कः खड्गं च भल्लैर निचकर्त मुष्टौ; नदन परहृष्टस तव सिन्यमध्ये 32 तत कर्म भीमस्य समीक्ष्य हृष्टास; ते पाण्डवानां परवरा रथौघाः नादं च चक्रुर भृशम उत्स्मयन्तः; शङ्खांश च दध्मुः शशिसंनिकाशान 33 तेनाथ शब्देन विभीषणेन; तवाभितप्तं बलम अप्रहृष्टम सवेदाभिभूतं रुधिरॊक्षिताङ्गं; विसंज्ञकल्पं च तथा विषाण्णम 34 स मद्रराजः सहसावकीर्णॊ; भीमाग्रगैः पाण्डव यॊधमुख्यैः युधिष्ठिरस्याभिमुखं जवेन; सिंहॊ यथा मृगहेतॊः परयातः 35 स धर्मराजॊ निहताश्वसूतं; करॊधेन दीप्तज्वलन परकाशम दृष्ट्वा तु मद्राधिपतिं स तूर्णं; समभ्यधावत तम अरिं बलेन 36 गॊविन्द वाक्यं तवरितं विचिन्त्य; दध्रे मतिं शल्य विनाशनाय स धर्मराजॊ निहताश्वसूते; रथे तिष्ठञ शक्तिम एवाभिकाङ्क्षन 37 तच चापि शल्यस्या निशम्य कर्म; महात्मनॊ भगम अथावशिष्टम समृत्वा मानः शल्य वधे यतात्मा; यथॊक्तम इन्द्रावरजस्य चक्रे 38 स धर्मराजॊ मणिहेमदण्डां; जग्राह शक्तिं कनकप्रकाशाम नेत्रे च दीप्ते सहसा विवृत्य; मद्राधिपं करुद्धा मना निरैक्षत 39 निरीक्षितॊ वै नरदेव राज्ञा; पूतात्मना निर्हृत कल्मषेण अभून न यद भस्मसान मद्रराजस; तद अद्भुतं मे परतिभाति राजन 40 ततस तु शक्तिं रुचिरॊग्र दण्डां; मणिप्रवलॊज्ज्वलितां परदीप्ताम चिक्षेप वेगात सुभृशं महात्मा; मद्राधिपाय परवरः कुरूणाम 41 दीप्ताम अथैनां महता बलेन; सविस्फु लिङ्गां सहसा पतन्तीम परैक्षन्त सर्वे कुरवः समेता; यथा युगान्ते महतीम इवॊल्काम 42 तां कालरात्रीम इव पाशहस्तां; यमस्य धत्रीम इव चॊग्ररूपाम सब्रह्म दण्डप्रतिमाम अमॊघां; ससर्ज यत्तॊ युधि धर्मराजः 43 गन्धस्रग अग्र्यासन पानभॊजनैर; अभ्यर्चितां पाण्डुसुतैः परयत्नात संवर्तकाग्निप्रतिमां जवलन्तीं; कृत्याम अथर्वाङ्गिरसीम इवॊग्राम 44 ईशान हेतॊः परतिनिर्मितां तां; तवष्टा रिपूणाम असुदेह भक्षाम भूम्यन्तरिक्षादि जलाशयानि; परसह्य भूतानि निहन्तुम ईशाम 45 घण्टा पताका मणिवज्र भाजं; वैडूर्य चित्रां तपनीयदण्डाम तवष्ट्रा परयत्नान नियमेन कॢप्तां; बरह्म दविषाम अन्तकरीम अमॊघाम 46 बलप्रयत्नाद अधिरूढ वेगां; मन्त्रैश च घॊरैर अभिमन्त्रयित्वा ससर्ज मार्गेण च तां परेण; वधाय मद्राधिपतेर तदानीम 47 हतॊ ऽसय असाव इत्य अभिगर्जमानॊ; रुद्रॊ ऽनतकायान्त करं यथेषुम परसार्य बाहुं सुदृढं सुपाणिं; करॊधेन नृत्यन्न इवा धार्म राजः 48 तां सर्वशक्त्या परहितां स शक्तिं; युधिष्ठिरेणाप्रति वार्य वीर्याम परतिग्रहायाभिननर्द शल्यः; सम्यग घुताम अग्निर इवाज्य धाराम 49 सा तस्य मर्माणि विदार्य शुभ्रम; उरॊ विशालं च तथैव वर्म विवेश गां तॊयम इवाप्रसक्ता; यशॊ विशालं नृपतेर दहन्ती 50 नासाक्षि कर्णास्य विनिःसृतेन; परस्यन्दता च वरणसंभवेन संसिक्त गात्रॊ रुधिरेण सॊ ऽभूत; करौञ्चॊ यथा सकन्द हतॊ महाद्रिः 51 परसार्य बाहू स रथाद गतॊ गां; संछिन्नवर्मा कुरुनन्दनेन महेन्द्र वाहप्रतिमॊ महात्मा; वज्राहतं शृङ्गम इवाचलस्य 52 बाहू परसार्याभिमुखॊ धर्मराजस्य मद्रराट ततॊ निपतितॊ भूमाव इन्द्रध्वज इवॊच्छ्रितः 53 स तथा भिन्नसर्वाङ्गॊ रुधिरेण समुक्षितः परत्युद्गत इव परेम्णा भूम्या सा नरपुंगवः 54 परियया कान्तया कान्तः पतमान इवॊरसि चिरं भुक्त्वा वसुमतीं परियां कान्ताम इव परभुः सर्वैर अङ्गैः समाश्लिष्य परसुप्त इव सॊ ऽभवत 55 धर्म्ये धर्मात्मना युद्धे निहतॊ धर्मसूनुना सम्यग घुत इव सविष्टः परशान्तॊ ऽगनिर इवाध्वरे 56 शक्त्या विभिन्नहृदयं विप्र विद्धायुध धवजम संशान्तम अपि मद्रेशं लक्ष्मीर नैव वयमुञ्चत 57 ततॊ युधिष्ठिरश चापम आदायेन्द्र धनुष्प्रभम वयधमद दविषतः संख्ये खग राड इव पन्नगान देहासून निशितैर भल्लै रिपूणां नाशयन कषणात 58 ततः परार्थस्य बाणौघैर आवृताः सैनिकास तव निमीलिताक्षाः कषिण्वन्तॊ भृशम अन्यॊन्यम अर्दिताः संन्यस्तकवचा देहैर विपत्रायुध जीविताः 59 ततः शल्ये निपतिते मद्रराजानुजॊ युवा भरातुः सर्वैर गुणैस तुल्यॊ रथी पाण्डवम अभ्ययात 60 विव्याध च नरश्रेष्ठॊ नाराचैर बहुभिस तवरन हतस्यापचितिं भरातुश चिकीर्षुर युद्धदुर्मदः 61 तं विव्याधाशुगैः षड्भिर धर्मराजस तवरन्न इव कार्मुकं चास्य चिच्छेद कषुराभ्यां धवजम एव च 62 ततॊ ऽसय दीप्यमानेन सुदृढेन शितेन च परमुखे वर्तमानस्य भल्लेनापाहरच छिरः 63 सुकुण्डलं तद ददृशे पतमानं शिरॊ रथात पुण्यक्षयम इव पराप्य पतन्तं सवर्गवासिनम 64 तस्यापकृष्ट शीर्षं तच छरीरं पतितं रथात रुधिरेणावसिक्ताङ्गं दृष्ट्वा सैन्यम अभज्यत 65 विचित्रकवचे तस्मिन हते मद्रनृपानुजे हाहाकारं विकुर्वाणाः कुरवॊ विप्रदुद्रुवुः 66 शल्यानुजं हतं दृष्ट्वा तावकास तयक्तजीविताः वित्रेसुः पाण्डव भयाद रजॊध्वस्तास्स तथा भृषम 67 तांस तथा भज्यतस तरस्तान कौरवान भरतर्षभ शिनेर नप्ता किरन बाणैर अभ्यवर्तत सात्यकिः 68 तम आयान्तं महेष्वासम अप्रसह्यं दुरासदम हार्दिक्यस तवरितॊ राजन परत्यगृह्णाद अभीतवत 69 तौ समेतौ महात्मानौ वार्ष्णेयाव अपराजितौ हार्दिक्यः सात्यकिश चैव सिंहाव इव मदॊत्कटौ 70 इषुभिर विमलाभासैश छादयन्तौ परस्परम अर्चिर्हिर इव सूर्यस्य दिवाकरसमप्रभौ 71 चापमार्गबलॊद्धूतान मार्गणान वृष्णिसिंहयॊः आकाशे समपश्याम पतंगान इव शीघ्रगान 72 सात्यकिं दशभिर विद्ध्वा हयांश चास्य तरिभिः शरैः चापम एकेन चिच्छेद हार्दिक्यॊ नतपर्वणा 73 तन निकृत्तं धनुःश्रेष्ठम अपास्य शिनिपुंगवः अन्यद आदत्त वेगेन वेगवत्तरम आयुधम 74 तद आदाय धनुःश्रेष्ठं वरिष्ठः सर्वधन्विनाम हार्दिक्यं दशभिर बाणैः परत्यविध्यत सतनान्तरे 75 ततॊ रथं युगेषां च छित्त्वा भल्लैः सुसंयतैः अश्वांस तस्यावधीत तूर्णम उभौ च पार्ष्णिसारथी 76 मद्रराजे हते राजन्विरथे कृतवर्मणि दुर्यॊधन बलं सर्वं पुनर आसीत पराङ्मुखम 77 तत्परे नावबुध्यन्त सैन्येन रजसा वृते बलं तु हतभूयिष्ठं तत तदासीत पराङ्मुखम 78 ततॊ मुहूर्तात ते ऽपश्यन रजॊ भौमं समुत्थितम विविधैः शॊणितस्रावैः परशान्तं पुरुषर्षभ 79 ततॊ दुर्यॊधनॊ दृष्ट्वा भग्नं सवबलम अन्तिकात जवेनापततः पार्थान एकः सर्वान अवारयत 80 पाण्डवान सरथान दृष्ट्वा धृष्टद्युम्नं च पार्षतम आनर्तं च दुराधर्षं शितैर बाणैर अवाकिरत 81 तं परे नाभ्यवर्तन्त मर्त्या मृत्युम इव आगतम अथान्यं रथम आस्थाय हार्दिक्यॊ ऽपि नयवर्तत 82 ततॊ युधिष्ठिरॊ राजा तवरमाणॊ महारथः चतुर्भिर निजघानाश्वान पत्रिभिः कृतवर्मणः विव्याध गौतमं चापि षड्भिर भल्लैः सुतेजनैः 83 अश्वत्थामा ततॊ राज्ञा हताश्वं विरथी कृतम समपॊवाह हार्दिक्यं सवरथेन युधिष्ठिरात 84 ततः शारद्वतॊ ऽषटाभिः परत्यविध्यद युधिष्ठिरम विव्याध चाश्वान निशितैस तस्याष्टाभिः शिलीमुखैः 85 एवम एतन महाराज युद्धशेषम अवर्तत तव दुर्मन्त्रिते राजन सहपुत्रस्य भारत 86 तस्मिन महेष्वास वरे विशस्ते; संग्राममध्ये कुरुपुंगवेन पर्थाः समेताः परमप्रहृष्टाः; शङ्खान परदध्मुर हतम ईक्ष्य शल्यम 87 युधिष्ठिरं च परशशंसुर आजौ; पुरा सुरा वृत्रवधे यथेन्द्रम चक्रुश च नानाविध वाद्य शब्दान; निनादयन्तॊ वसुधां समन्तात |
1
[s] athānyad dhanur ādāya balavad vegavattaram yudhiṣṭhiraṃ madrapatir viddhvā siṃha ivānadat 2 tataḥ sa śaravarṣeṇa parjanya iva vṛṣṭimān abhyavarṣad ameyātmā kṣatriyān kṣatriyarṣabhaḥ 3 sātyakiṃ daśabhir viddhvā bhīmasenaṃ tribhiḥ śaraiḥ sahadevaṃ tribhir viddhvā yudhiṣṭhiram apīḍayat 4 tāṃs tān anyān maheṣvāsān sāśvān saratha kuñjarān kuñjarān kuñjarārohān aśvān aśvaprayāyinaḥ rathāṃś ca rathibhiḥ sārdhaṃ jaghāna rathināṃ varaḥ 5 bāhūṃś ciccheda ca tathā sāyudhān ketanāni ca cakāra ca mahīṃ yodhais tīrṇāṃ vedīṃ kuśair iva 6 tathā tam arisainyāni ghnantaṃ mṛtyum ivāntakam parivavrur bhṛśaṃ kruddhāḥ pāṇḍupāñcāla somakāḥ 7 taṃ bhīmasenaś ca śineś ca naptā; mādhryāś ca putrau puruṣapravīrau samāgataṃ bhīmabalena rājñā; paryāpur anyonyam athāhvayantaḥ 8 tatas tu śūrāḥ samare narendraṃ; madreśvaraṃ prāpya yudhāṃ variṣṭham āvāryā cainaṃ samare nṛvīrā; jaghnuḥ śaraiḥ patribhir ugravegaiḥ 9 saṃrakṣito bhīmasenena rājā; mādrī sutābhyām atha mādhavena madrādhipaṃ patribhir ugravegaiḥ; stanāntare dhārma suto nijaghne 10 tato raṇe tāvakanāṃ rathaughāḥ; sāmīkṣya madrādhipatiṃ śarārtam paryāvavruḥ pravarāḥ sarvaśaś ca; duryodhanasyānumate samantāt 11 tato drutaṃ madrajanādhipo raṇe; yudhiṣṭhiraṃ saptabhir abhyavidhyat taṃ cāpi pārtho navabhiḥ pṛṣatkair; vivyādha rājaṃs tumule mahātmā 12 ākarṇapūrṇāyata saṃprayuktaiḥ; śarais tadā saṃyati tailadhautaiḥ anyonyam ācchādayatāṃ mahārathau; madrādhipaś cāpi yudhiṣṭhiraś ca 13 tatas tu tūrṇaṃ samare mahārathau; parasparasyāntaram īkṣamāṇau śarair bhṛśaṃ vivyadhatur nṛpottamau; mahābalau śatrubhir apradhṛṣyau 14 tayor dhanurjyātalanisvano mahān; mahendravajrāśanitulyanisvanaḥ parasparaṃ bāṇagaṇair mahātmanoḥ; pravarṣator madrapa pāṇḍuvīrayoḥ 15 tau ceratur vyāghraśiśu prakāśau; mahāvaneṣv āmiṣa gṛddhināv iva viṣāṇinau nāgavarāv ivobhau; tatakṣatuḥ saṃyugajātadarpau 16 tatas tu madrādhipatir mahātmā; yudhiṣṭhiraṃ bhīmabalaṃ prasahya vivyādha vīraṃ hṛdaye 'tivegaṃ; śareṇa sūryāgnisamaprabheṇa 17 tato 'tividdho 'tha yudhiṣṭhiro 'pi; susaṃprayuktena śareṇa rājan jaghāna madrādhipatiṃ mahātmā; mudaṃ ca lebhe ṛṣabhaḥ kurūṇām 18 tato muhūrtād iva pārthivendro; labdhvā saṃjñāṃ krodhā saṃraktanetraḥ śatena pārthaṃ tvarito jaghāna; sahasranetra pratimaprabhāvaḥ 19 tvaraṃs tato dharmasuto mahātmā; śalyasya kruddho navabhiḥ pṛṣatkaiḥ bhittvā hy uras tapanīyaṃ ca varma; jaghāna ṣaḍbhis tv aparaiḥ pṛṣātkaiḥ 20 tatas tu madrādhipatiḥ prahṛṣṭo; dhanur vikṛṣya vyasṛjat pṛṣatkān dvābhyāṃ kṣurābhyāṃ ca tathaiva rājñaś; ciccheda cāpaṃ kurupuṃgavasya 21 navaṃ tato 'nyat sāmare pragṛhya; rājā dhanur ghorataraṃ mahātmā śalyaṃ tu viddhvā niśitaiḥ samantad; yathā mahendro namuciṃ śitāgraiḥ 22 tatas tu śalyo navabhiḥ pṛṣatkair; bhīmasya rājñaś ca yudhiṣṭhirasya nikṛtya raukme paṭu varmaṇī tayor; vidārayām āsa bhujau mahātmā 23 tato 'pareṇa jvalitārka tejasā; kṣureṇa rājño dhanur unmamātha kṛpaś ca tasyaiva jaghāna sūtaṃ; ṣaḍbhiḥ śaraiḥ so 'bhimukhaṃ papāta 24 madrādhipaś cāpi yudhiṣṭhirasya; śaraiś caturbhir nijaghāna vāhān vāhāṃś ca hatvā vyakaron mahātmā; yodhakṣayaṃ dharmasutasya rājñaḥ 25 tathā kṛte rājani bhīmaseno; madrādhipasyāśu tato mahātmā chittvā dhanur vegavatā śareṇa; dvābhyām avidhyat subhṛśaṃ narendram 26 athāpareṇāsya jahāra yantuḥ; kāyāc chiraḥ saṃnahanīyamadhyāt jaghāna cāśvāṃś caturaḥ sa śīghraṃ; tathā bhṛśaṃ kupito bhīmasenaḥ 27 tam agraṇīḥ sarvadhanurdharāṇām; ekaṃ carantaṃ sāmare 'tivegam bhīmaḥ śatena vyakirac charāṇāṃ; mādrīputraḥ sahadevas tathaiva 28 taiḥ sāyakair mohitaṃ vīkṣya śalyaṃ; bhīmaḥ śarair asya cakarta varma sa bhīmasenena nikṛttavarmā; madrādhipaś carma sahasratāram 29 pragṛhya khaḍgaṃ ca rathān mahātmā; praskandya kuntīsutam abhyadhāvat chittva ratheṣāṃ nakulasya so 'tha; yudhiṣṭhiraṃ bhīmabalo 'bbhyadhāvat 30 taṃ cāpi rājānam athotpatantaṃ; kruddhāṃ yathaivāntakam āpatantam dhṛṣṭadyumno draupadeyāḥ śikhaṇḍī; śineś ca naptā sahasā parīyuḥ 31 athāsya carmāpratimaṃ nyakṛntad; bhīmo mahātmā daśabhiḥ pṛṣatkaḥ khaḍgaṃ ca bhallair nicakarta muṣṭau; nadan prahṛṣṭas tava sinyamadhye 32 tat karma bhīmasya samīkṣya hṛṣṭās; te pāṇḍavānāṃ pravarā rathaughāḥ nādaṃ ca cakrur bhṛśam utsmayantaḥ; śaṅkhāṃś ca dadhmuḥ śaśisaṃnikāśān 33 tenātha śabdena vibhīṣaṇena; tavābhitaptaṃ balam aprahṛṣṭam svedābhibhūtaṃ rudhirokṣitāṅgaṃ; visaṃjñakalpaṃ ca tathā viṣāṇṇam 34 sa madrarājaḥ sahasāvakīrṇo; bhīmāgragaiḥ pāṇḍava yodhamukhyaiḥ yudhiṣṭhirasyābhimukhaṃ javena; siṃho yathā mṛgahetoḥ prayātaḥ 35 sa dharmarājo nihatāśvasūtaṃ; krodhena dīptajvalana prakāśam dṛṣṭvā tu madrādhipatiṃ sa tūrṇaṃ; samabhyadhāvat tam ariṃ balena 36 govinda vākyaṃ tvaritaṃ vicintya; dadhre matiṃ śalya vināśanāya sa dharmarājo nihatāśvasūte; rathe tiṣṭhañ śaktim evābhikāṅkṣan 37 tac cāpi śalyasyā niśamya karma; mahātmano bhagam athāvaśiṣṭam smṛtvā mānaḥ śalya vadhe yatātmā; yathoktam indrāvarajasya cakre 38 sa dharmarājo maṇihemadaṇḍāṃ; jagrāha śaktiṃ kanakaprakāśām netre ca dīpte sahasā vivṛtya; madrādhipaṃ kruddhā manā niraikṣat 39 nirīkṣito vai naradeva rājñā; pūtātmanā nirhṛta kalmaṣeṇa abhūn na yad bhasmasān madrarājas; tad adbhutaṃ me pratibhāti rājan 40 tatas tu śaktiṃ rucirogra daṇḍāṃ; maṇipravalojjvalitāṃ pradīptām cikṣepa vegāt subhṛśaṃ mahātmā; madrādhipāya pravaraḥ kurūṇām 41 dīptām athaināṃ mahatā balena; savisphu liṅgāṃ sahasā patantīm praikṣanta sarve kuravaḥ sametā; yathā yugānte mahatīm ivolkām 42 tāṃ kālarātrīm iva pāśahastāṃ; yamasya dhatrīm iva cograrūpām sabrahma daṇḍapratimām amoghāṃ; sasarja yatto yudhi dharmarājaḥ 43 gandhasrag agryāsana pānabhojanair; abhyarcitāṃ pāṇḍusutaiḥ prayatnāt saṃvartakāgnipratimāṃ jvalantīṃ; kṛtyām atharvāṅgirasīm ivogrām 44 īśāna hetoḥ pratinirmitāṃ tāṃ; tvaṣṭā ripūṇām asudeha bhakṣām bhūmyantarikṣādi jalāśayāni; prasahya bhūtāni nihantum īśām 45 ghaṇṭā patākā maṇivajra bhājaṃ; vaiḍūrya citrāṃ tapanīyadaṇḍām tvaṣṭrā prayatnān niyamena kḷptāṃ; brahma dviṣām antakarīm amoghām 46 balaprayatnād adhirūḍha vegāṃ; mantraiś ca ghorair abhimantrayitvā sasarja mārgeṇa ca tāṃ pareṇa; vadhāya madrādhipater tadānīm 47 hato 'sy asāv ity abhigarjamāno; rudro 'ntakāyānta karaṃ yatheṣum prasārya bāhuṃ sudṛḍhaṃ supāṇiṃ; krodhena nṛtyann ivā dhārma rājaḥ 48 tāṃ sarvaśaktyā prahitāṃ sa śaktiṃ; yudhiṣṭhireṇāprati vārya vīryām pratigrahāyābhinanarda śalyaḥ; samyag ghutām agnir ivājya dhārām 49 sā tasya marmāṇi vidārya śubhram; uro viśālaṃ ca tathaiva varma viveśa gāṃ toyam ivāprasaktā; yaśo viśālaṃ nṛpater dahantī 50 nāsākṣi karṇāsya viniḥsṛtena; prasyandatā ca vraṇasaṃbhavena saṃsikta gātro rudhireṇa so 'bhūt; krauñco yathā skanda hato mahādriḥ 51 prasārya bāhū sa rathād gato gāṃ; saṃchinnavarmā kurunandanena mahendra vāhapratimo mahātmā; vajrāhataṃ śṛṅgam ivācalasya 52 bāhū prasāryābhimukho dharmarājasya madrarāṭ tato nipatito bhūmāv indradhvaja ivocchritaḥ 53 sa tathā bhinnasarvāṅgo rudhireṇa samukṣitaḥ pratyudgata iva premṇā bhūmyā sā narapuṃgavaḥ 54 priyayā kāntayā kāntaḥ patamāna ivorasi ciraṃ bhuktvā vasumatīṃ priyāṃ kāntām iva prabhuḥ sarvair aṅgaiḥ samāśliṣya prasupta iva so 'bhavat 55 dharmye dharmātmanā yuddhe nihato dharmasūnunā samyag ghuta iva sviṣṭaḥ praśānto 'gnir ivādhvare 56 śaktyā vibhinnahṛdayaṃ vipra viddhāyudha dhvajam saṃśāntam api madreśaṃ lakṣmīr naiva vyamuñcata 57 tato yudhiṣṭhiraś cāpam ādāyendra dhanuṣprabham vyadhamad dviṣataḥ saṃkhye khaga rāḍ iva pannagān dehāsūn niśitair bhallai ripūṇāṃ nāśayan kṣaṇāt 58 tataḥ prārthasya bāṇaughair āvṛtāḥ sainikās tava nimīlitākṣāḥ kṣiṇvanto bhṛśam anyonyam arditāḥ saṃnyastakavacā dehair vipatrāyudha jīvitāḥ 59 tataḥ śalye nipatite madrarājānujo yuvā bhrātuḥ sarvair guṇais tulyo rathī pāṇḍavam abhyayāt 60 vivyādha ca naraśreṣṭho nārācair bahubhis tvaran hatasyāpacitiṃ bhrātuś cikīrṣur yuddhadurmadaḥ 61 taṃ vivyādhāśugaiḥ ṣaḍbhir dharmarājas tvarann iva kārmukaṃ cāsya ciccheda kṣurābhyāṃ dhvajam eva ca 62 tato 'sya dīpyamānena sudṛḍhena śitena ca pramukhe vartamānasya bhallenāpāharac chiraḥ 63 sukuṇḍalaṃ tad dadṛśe patamānaṃ śiro rathāt puṇyakṣayam iva prāpya patantaṃ svargavāsinam 64 tasyāpakṛṣṭa śīrṣaṃ tac charīraṃ patitaṃ rathāt rudhireṇāvasiktāṅgaṃ dṛṣṭvā sainyam abhajyata 65 vicitrakavace tasmin hate madranṛpānuje hāhākāraṃ vikurvāṇāḥ kuravo vipradudruvuḥ 66 śalyānujaṃ hataṃ dṛṣṭvā tāvakās tyaktajīvitāḥ vitresuḥ pāṇḍava bhayād rajodhvastāss tathā bhṛṣam 67 tāṃs tathā bhajyatas trastān kauravān bharatarṣabha śiner naptā kiran bāṇair abhyavartata sātyakiḥ 68 tam āyāntaṃ maheṣvāsam aprasahyaṃ durāsadam hārdikyas tvarito rājan pratyagṛhṇād abhītavat 69 tau sametau mahātmānau vārṣṇeyāv aparājitau hārdikyaḥ sātyakiś caiva siṃhāv iva madotkaṭau 70 iṣubhir vimalābhāsaiś chādayantau parasparam arcirhir iva sūryasya divākarasamaprabhau 71 cāpamārgabaloddhūtān mārgaṇān vṛṣṇisiṃhayoḥ ākāśe samapaśyāma pataṃgān iva śīghragān 72 sātyakiṃ daśabhir viddhvā hayāṃś cāsya tribhiḥ śaraiḥ cāpam ekena ciccheda hārdikyo nataparvaṇā 73 tan nikṛttaṃ dhanuḥśreṣṭham apāsya śinipuṃgavaḥ anyad ādatta vegena vegavattaram āyudham 74 tad ādāya dhanuḥśreṣṭhaṃ variṣṭhaḥ sarvadhanvinām hārdikyaṃ daśabhir bāṇaiḥ pratyavidhyat stanāntare 75 tato rathaṃ yugeṣāṃ ca chittvā bhallaiḥ susaṃyataiḥ aśvāṃs tasyāvadhīt tūrṇam ubhau ca pārṣṇisārathī 76 madrarāje hate rājanvirathe kṛtavarmaṇi duryodhana balaṃ sarvaṃ punar āsīt parāṅmukham 77 tatpare nāvabudhyanta sainyena rajasā vṛte balaṃ tu hatabhūyiṣṭhaṃ tat tadāsīt parāṅmukham 78 tato muhūrtāt te 'paśyan rajo bhaumaṃ samutthitam vividhaiḥ śoṇitasrāvaiḥ praśāntaṃ puruṣarṣabha 79 tato duryodhano dṛṣṭvā bhagnaṃ svabalam antikāt javenāpatataḥ pārthān ekaḥ sarvān avārayat 80 pāṇḍavān sarathān dṛṣṭvā dhṛṣṭadyumnaṃ ca pārṣatam ānartaṃ ca durādharṣaṃ śitair bāṇair avākirat 81 taṃ pare nābhyavartanta martyā mṛtyum iv āgatam athānyaṃ ratham āsthāya hārdikyo 'pi nyavartata 82 tato yudhiṣṭhiro rājā tvaramāṇo mahārathaḥ caturbhir nijaghānāśvān patribhiḥ kṛtavarmaṇaḥ vivyādha gautamaṃ cāpi ṣaḍbhir bhallaiḥ sutejanaiḥ 83 aśvatthāmā tato rājñā hatāśvaṃ virathī kṛtam samapovāha hārdikyaṃ svarathena yudhiṣṭhirāt 84 tataḥ śāradvato 'ṣṭābhiḥ pratyavidhyad yudhiṣṭhiram vivyādha cāśvān niśitais tasyāṣṭābhiḥ śilīmukhaiḥ 85 evam etan mahārāja yuddhaśeṣam avartata tava durmantrite rājan sahaputrasya bhārata 86 tasmin maheṣvāsa vare viśaste; saṃgrāmamadhye kurupuṃgavena parthāḥ sametāḥ paramaprahṛṣṭāḥ; śaṅkhān pradadhmur hatam īkṣya śalyam 87 yudhiṣṭhiraṃ ca praśaśaṃsur ājau; purā surā vṛtravadhe yathendram cakruś ca nānāvidha vādya śabdān; ninādayanto vasudhāṃ samantāt |
The Mahabharata in Sanskrit
Book 9
Chapter 17
|
1
[स] शल्ये तु निहते राजन मद्रराजपदानुगाः रथाः सप्तशता वीरा निर्ययुर महतॊ बलात 2 दुर्यॊधनस तु दविरदम आरुह्याचलसंनिभम छत्त्रेण धरियमाणेन वीज्यमानश च चामरैः न गन्तव्यं न गन्तव्यम इति मद्रान अवारयत 3 दुर्यॊधनेन ते वीरा वार्यमाणाः पुनः पुनः युधिष्ठिरं जिघांसन्तः पाण्डूनां पराविशन बलम 4 ते तु शूरा महाराज कृतचित्ताः सम यॊधने धनुः शब्दं महत कृत्वा सहायुध्यन्त पाण्डवैः 5 शरुत्वा तु निहतं शल्यं धर्मपुत्रं च पीडितम मद्रराजप्रिये युक्तैर मद्रकाणां महारथैः 6 आजगाम ततः पार्थॊ गाण्डीवं विक्षिपन धनुः पूरयन रथघॊषेण दिशः सर्वा महारथः 7 ततॊ ऽरजुनश च भीमश च माद्रीपुत्रौ च पाण्डवौ सात्यकिश च नरव्याघ्रॊ दरौपदेयाश च सर्वशः 8 धृष्टद्युम्नः शिखण्डी च पाञ्चालाः सह सॊमकैः युधिष्ठिरं परीप्सन्तः समन्तात पर्यवारयन 9 ते समन्तात परिवृताः पाण्डवैः पुरुषर्षभाः कषॊभयन्ति सम तां सेनां मकराः सागरं यथा 10 पुरॊ वातेन गङ्गेव कषॊभ्यमाना महानदी अक्षॊभ्यत तदा राजन पाण्डूनां धवजिनी पुनः 11 परस्कन्द्य सेनां महतीं तयक्तात्मानॊ महारथाः वृक्षान इव महावाताः कम्पयन्ति सम तावकाः 12 बहवश चुक्रुशुस तत्र कव स राजा युधिष्ठिरः भरातरॊ वास्य ते शूरा दृश्यन्ते न ह के चन 13 पाञ्चालानां महावीर्याः शिखण्डी च महारथः धृष्टद्युम्नॊ ऽथ शैनेयॊ दरौपदेयाश च सर्वशः 14 एवं तान वादिनः शूरान दरौपदेया महारथाः अह्यघ्नन युयुधानश च मद्रराजपदानुगान 15 चक्रैर विमथितैः के चित के चिच छिन्नैर मह धवजैः परत्यदृश्यन्त समरे तावका निहताः परैः 16 आलॊक्य पाण्डवान युद्धे यॊधा राजन समन्ततः वार्यमाणा ययुर वेगात तव पुत्रेण भारत 17 दुर्यॊधनस तु तान वीरान वारयाम आस सान्त्वयन न चास्य शासनं कश चित तत्र चक्रे महारथः 18 ततॊ गान्धारराजस्य पुत्रः शकुनिर अब्रवीत दुर्यॊधनं महाराज वचनं वचनक्षमः 19 किं नः संप्रेक्षमाणानां मद्राणां हन्यते बलम न युक्तम एतत समरे तवयि तिष्ठति भारत 20 सहितैर नाम यॊद्धव्यम इत्य एषा समयः कृतः अथ कस्मात परान एव घनतॊ मर्षयसे नृप 21 [दुर] वार्यमाणा मया पूर्वं नैते चक्रुर वचॊ मम एते हि निहताः सर्वे परस्कन्नाः पाण्डुवाहिनीम 22 [षकुनि] न भर्तुः शासनं वीरा रणे कुर्वन्त्य अमर्षिताः अलं करॊद्धुं तथैतेषां नायं काल उपेक्षितुम 23 यामः सर्वे ऽतर संभूय सवाजिरथकुञ्जराः परित्रातुं महेष्वासान मद्रराजपदानुगान 24 अन्यॊन्यं परिरक्षामॊ यत्नेन महता नृप एवं सर्वे ऽनुसंचिन्त्य परययुर यत्र सैनिकाः 25 [स] एवम उक्तस ततॊ राजा बलेना महता वृतः परययौ सिंहनादेन कम्पयन वै वसुंधराम 26 हतविध्यत गृह्णीत परहरध्वं निकृन्तत इत्य आसीत तुमुलः शब्दस तव सैन्यस्य भारत 27 पाण्डवास तु रणे दृष्ट्वा मद्रराजपदानुगान सहितान अभ्यवर्तन्त गुल्मम आस्थाय मध्यमम 28 ते मुहूर्ताद रणे वीरा हस्ताहस्तं विशां पते निहताः परत्यदृश्यन्त मद्रराजपदानुगाः 29 ततॊ नः संप्रयातानां हतामित्रास तरस्विनः हृष्टाः किलकिला शब्दम अकुर्वन सहिताः परे 30 अथॊत्थितानि रुण्डानि समदृश्यन्त सर्वशः पपात महती चॊल्का मध्येनाधित्य मण्डलम 31 रथैर भग्नैर युगाक्षैश च निहतैश च महारथैः अश्वैर निपतितैश चैव संछन्नाभूद वसुंधरा 32 वातायमानैस तुरगैर युगासक्तैस तुरंगमैः अदृश्यन्त महाराज यॊधास तत्र रणाजिरे 33 भग्नचक्रान रथान के चिद अवहंस तुरगा रणे रथार्थं के चिद आदाय दिशॊ दशविबभ्रमुः तत्र तत्र च दृश्यन्ते यॊक्त्रैः शलिष्टाः सम वाजिनः 34 रथिनः पतमानाश च वयदृश्यन्त नरॊत्तम गगनात परच्युताः सिद्धाः पुण्यानाम इव संक्षये 35 निहतेषु च शूरेषु मद्रराजानुगेषु च अस्मान आपततश चापि दृष्ट्वा पार्थ महारथाः 36 अभ्यवर्तन्त वेगेन जय गृध्राः परहारिणः बाणशब्दरवान कृत्वा विमिश्राञ शङ्खनिस्वनैः 37 अस्मांस तु पुनर आसाद्य लब्धलक्षाः परहारिणः शरासनानि धुन्वानाः सिंहनादान परचुक्रुशुः 38 ततॊ हतम अभिप्रेक्ष्य मद्रराजबलं महत मद्रराजं च समरे दृष्ट्वा शूरं निपातितम दुर्यॊधन बलं सर्वं पुनर आसीत पराङ्मुखम 39 वध्यमानं महाराज पाण्डवैर जितकाशिभिः दिशॊ भेदे ऽथ संभ्रान्तं तरासितं दृढधन्विभिः |
1
[s] śalye tu nihate rājan madrarājapadānugāḥ rathāḥ saptaśatā vīrā niryayur mahato balāt 2 duryodhanas tu dviradam āruhyācalasaṃnibham chattreṇa dhriyamāṇena vījyamānaś ca cāmaraiḥ na gantavyaṃ na gantavyam iti madrān avārayat 3 duryodhanena te vīrā vāryamāṇāḥ punaḥ punaḥ yudhiṣṭhiraṃ jighāṃsantaḥ pāṇḍūnāṃ prāviśan balam 4 te tu śūrā mahārāja kṛtacittāḥ sma yodhane dhanuḥ śabdaṃ mahat kṛtvā sahāyudhyanta pāṇḍavaiḥ 5 śrutvā tu nihataṃ śalyaṃ dharmaputraṃ ca pīḍitam madrarājapriye yuktair madrakāṇāṃ mahārathaiḥ 6 ājagāma tataḥ pārtho gāṇḍīvaṃ vikṣipan dhanuḥ pūrayan rathaghoṣeṇa diśaḥ sarvā mahārathaḥ 7 tato 'rjunaś ca bhīmaś ca mādrīputrau ca pāṇḍavau sātyakiś ca naravyāghro draupadeyāś ca sarvaśaḥ 8 dhṛṣṭadyumnaḥ śikhaṇḍī ca pāñcālāḥ saha somakaiḥ yudhiṣṭhiraṃ parīpsantaḥ samantāt paryavārayan 9 te samantāt parivṛtāḥ pāṇḍavaiḥ puruṣarṣabhāḥ kṣobhayanti sma tāṃ senāṃ makarāḥ sāgaraṃ yathā 10 puro vātena gaṅgeva kṣobhyamānā mahānadī akṣobhyata tadā rājan pāṇḍūnāṃ dhvajinī punaḥ 11 praskandya senāṃ mahatīṃ tyaktātmāno mahārathāḥ vṛkṣān iva mahāvātāḥ kampayanti sma tāvakāḥ 12 bahavaś cukruśus tatra kva sa rājā yudhiṣṭhiraḥ bhrātaro vāsya te śūrā dṛśyante na ha ke cana 13 pāñcālānāṃ mahāvīryāḥ śikhaṇḍī ca mahārathaḥ dhṛṣṭadyumno 'tha śaineyo draupadeyāś ca sarvaśaḥ 14 evaṃ tān vādinaḥ śūrān draupadeyā mahārathāḥ ahyaghnan yuyudhānaś ca madrarājapadānugān 15 cakrair vimathitaiḥ ke cit ke cic chinnair maha dhvajaiḥ pratyadṛśyanta samare tāvakā nihatāḥ paraiḥ 16 ālokya pāṇḍavān yuddhe yodhā rājan samantataḥ vāryamāṇā yayur vegāt tava putreṇa bhārata 17 duryodhanas tu tān vīrān vārayām āsa sāntvayan na cāsya śāsanaṃ kaś cit tatra cakre mahārathaḥ 18 tato gāndhārarājasya putraḥ śakunir abravīt duryodhanaṃ mahārāja vacanaṃ vacanakṣamaḥ 19 kiṃ naḥ saṃprekṣamāṇānāṃ madrāṇāṃ hanyate balam na yuktam etat samare tvayi tiṣṭhati bhārata 20 sahitair nāma yoddhavyam ity eṣā samayaḥ kṛtaḥ atha kasmāt parān eva ghnato marṣayase nṛpa 21 [dur] vāryamāṇā mayā pūrvaṃ naite cakrur vaco mama ete hi nihatāḥ sarve praskannāḥ pāṇḍuvāhinīm 22 [ṣakuni] na bhartuḥ śāsanaṃ vīrā raṇe kurvanty amarṣitāḥ alaṃ kroddhuṃ tathaiteṣāṃ nāyaṃ kāla upekṣitum 23 yāmaḥ sarve 'tra saṃbhūya savājirathakuñjarāḥ paritrātuṃ maheṣvāsān madrarājapadānugān 24 anyonyaṃ parirakṣāmo yatnena mahatā nṛpa evaṃ sarve 'nusaṃcintya prayayur yatra sainikāḥ 25 [s] evam uktas tato rājā balenā mahatā vṛtaḥ prayayau siṃhanādena kampayan vai vasuṃdharām 26 hatavidhyata gṛhṇīta praharadhvaṃ nikṛntata ity āsīt tumulaḥ śabdas tava sainyasya bhārata 27 pāṇḍavās tu raṇe dṛṣṭvā madrarājapadānugān sahitān abhyavartanta gulmam āsthāya madhyamam 28 te muhūrtād raṇe vīrā hastāhastaṃ viśāṃ pate nihatāḥ pratyadṛśyanta madrarājapadānugāḥ 29 tato naḥ saṃprayātānāṃ hatāmitrās tarasvinaḥ hṛṣṭāḥ kilakilā śabdam akurvan sahitāḥ pare 30 athotthitāni ruṇḍāni samadṛśyanta sarvaśaḥ papāta mahatī colkā madhyenādhitya maṇḍalam 31 rathair bhagnair yugākṣaiś ca nihataiś ca mahārathaiḥ aśvair nipatitaiś caiva saṃchannābhūd vasuṃdharā 32 vātāyamānais turagair yugāsaktais turaṃgamaiḥ adṛśyanta mahārāja yodhās tatra raṇājire 33 bhagnacakrān rathān ke cid avahaṃs turagā raṇe rathārthaṃ ke cid ādāya diśo daśavibabhramuḥ tatra tatra ca dṛśyante yoktraiḥ śliṣṭāḥ sma vājinaḥ 34 rathinaḥ patamānāś ca vyadṛśyanta narottama gaganāt pracyutāḥ siddhāḥ puṇyānām iva saṃkṣaye 35 nihateṣu ca śūreṣu madrarājānugeṣu ca asmān āpatataś cāpi dṛṣṭvā pārtha mahārathāḥ 36 abhyavartanta vegena jaya gṛdhrāḥ prahāriṇaḥ bāṇaśabdaravān kṛtvā vimiśrāñ śaṅkhanisvanaiḥ 37 asmāṃs tu punar āsādya labdhalakṣāḥ prahāriṇaḥ śarāsanāni dhunvānāḥ siṃhanādān pracukruśuḥ 38 tato hatam abhiprekṣya madrarājabalaṃ mahat madrarājaṃ ca samare dṛṣṭvā śūraṃ nipātitam duryodhana balaṃ sarvaṃ punar āsīt parāṅmukham 39 vadhyamānaṃ mahārāja pāṇḍavair jitakāśibhiḥ diśo bhede 'tha saṃbhrāntaṃ trāsitaṃ dṛḍhadhanvibhiḥ |
The Mahabharata in Sanskrit
Cite this text
The Mahabharata in Sanskrit, part 7 of 12. . Hermetic Cloud, https://hermeticcloud.com/library/the-mahabharata-in-sanskrit-part-7/. Public-domain text reproduced in full; markup only.